सामग्री पर जाएँ

वाचस्पत्यम्/स्तावक

विकिस्रोतः तः
पृष्ठ ५३४२

स्तावक त्रि० स्तु--ण्वुल् । स्तुतिकारके प्रर्शंसाकारके ।

स्तिमित न० स्तिम--भावे क्त । १ आर्द्रतायाम् अमरः ।

२ अचाञ्चल्ये च मेदि० कर्त्तरि क्त । ३ अचञ्चले ४ आर्द्रे
च त्रि० ।

स्तिम्भि पु० स्तिम--इन् भुक् च । १ समुद्रे २ वायौ च उणा० ।

स्तीर्वि पु० स्तॄ--क्विन् न वेरित्त्वम् । १ आकाशे २ रुधिरे

३ तृणजातौ ४ अध्वर्य्यौ ५ पयसि ६ शत्रौ सांक्षप्तसा० ।

स्तुत पु० स्तु--कर्मणि क्त । स्तुतिकर्मणि अमरः ।

स्तुति स्त्री स्तु--क्तिन् । स्तवे अमरः ।

स्तुतिपाठक पु० स्तुतिं पठति पठ--ण्वुल् । राजादेर्वन्दिनि अमरः

स्तुन्भ रोधनै सौ० क्र्या० स्वा० कार्य्यभागी पर० सक० सेट्

उदित् क्त्वावेट् । स्तुभ्नोति स्तुभ्राति । अस्तुम्भीत् । सौत्र ।
त्वादषोपदेश इत्यन्ये ।

स्तुतिव्रत पु० स्तुतौ व्रतमस्य । स्तुतिपाठके जटा० । ३६९ पृ० दृश्यम्

स्तुत्यर्थवाद पु० ३ त० । प्रशंसया अर्थवादभेदे अर्थवादशब्दे

स्तुनक पुं स्त्री० स्व--नकक् । छागे शब्द च० स्त्रियां ङीष् ।

स्तुभ पुं स्त्री० स्तुन्भ--मूल० क । छ गे भरतः स्त्रियां ङीष् ।

स्तूप उच्छ्राये अद० चु० अक० उभ० सेट् । स्तूपयति ते

अतुस्तूपत् त । बह्वच्कत्वात् अषोपदेश एव । ५१७२
पृष्ठे ष्टूप इति धातुः षोपदेशतया प्रमादात् लिखितः ।

स्तूप पु० स्तु--पक् पृषो० स्तूप--अच् वा । १ राशोकृते मृत्ति

कादो २ संघाते ३ बले ४ निष्प्रयोजने च संक्षिप्त० ।

स्तृ विस्तार स्वा० उ० सक० अनिट् । स्तृणोति स्तृणुते

अस्तार्षीत् अस्तृत अस्तरिष्ट । पर्युदासान्न षोपदेशः ।

स्तृ प्रीतौ अक० रक्षणे सक० स्वा० प० अनिट् । स्तृणोति

अस्तार्षीत् । पर्युदासेन अषोपदेश एव ।

स्तॄ आच्छादने क्र्या० प्वा० उ० सक० सेट् । स्तृणाति स्तृ-

णीते अस्तारीत् अस्तरिष्ट अस्तरीष्ट अस्तीत्त । अयं
षोपदेश एव न्याय्यः ।

स्तेन चोर्य्ये अद० चु० उभ० सक० सेट् । स्तेनयति--ते

अतिस्तेनत्--त । बह्वच्कत्वात् अषोपदेशः ।

स्तेन न० स्तेन--भावे अच् । १ चौर्य्ये । कर्त्तरि अच् ।

२ चौरे त्रि० अमरः ।

स्ते(ष्टे)प क्षेपे चु० उभ० सक० सेट् । स्तेपयति--ते अतिस्ति-

पन--त अषोपदेशत्वे मूलं चिन्त्यम् ।

स्तेम पु० स्तिम--घञ् १ आद्रींभावे २ स्नेहे च अमरः ।

स्तेय न० स्तनस्य भावः यप्त नेलोपः । १ चौर्य्ये अमरः ।

“प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवा । यत्
परद्रव्यहरणं स्तेयं तत्परिकीर्त्तितम्” इत्युक्तेः
परद्रव्यापहारः स्तेयं तच्च अष्टादशविवादान्तर्गतविवादपद-
भेदः तत्स्वरूपादिकं वीरमि० उक्तं चोरशब्दे २९६९
पृष्ठादौ दृश्यम् ।

स्तेयिन् त्रि० स्तेयमस्त्यस्य इनि । परद्रव्यापहारके स्त्रियां ङीप् ।

स्तैन(न्य) न० स्तेनस्य भावः अण्, ष्यञ् व । १ चौर्य्ये

परद्रव्यापहरणे । स्तेन एव स्वार्थे ण्य । २ चोरे त्रि० भरतः ।

स्तैमित्य न० स्त्रिमितस्य भावः ष्यवः ष्यञ् । १ जाद्ये २ स्नेहे

३ आर्द्रीभावे च ।

स्तोक पुंस्त्री० स्तुच--घञ् । १ चातके मेदि० स्त्रियां ङीष् । २ जलविन्दौ ३ अल्पे त्रि० अमरः ।

स्तोकक पुंस्त्री० स्तोकाय जलविन्दवे कायति शब्दायते

कैक । चातके अमरः स्त्रियां ङीष् ।

स्तोत्र न० स्तु--ष्ट्रन् । १ स्तर्व--गुणकर्मादिभिः प्रशंसने अमरः ।

द्रव्यस्तोत्र कर्मस्तोत्रं विधिस्तोत्रं तथैव च । तथैवाभि-
जनस्तोत्रं स्तोत्रमेतच्चर्विधम्” मत्स्यपु० १२३ अ०
द्रव्याद्युपाधिकतया स्तवस्य चातुर्विध्यमुक्तम् । २ स्तुतिसाधने
वाक्ये स्तुविश्च मुणिनमुपसर्जनीकृत्य तन्निष्ठानां गुणानां
प्राधान्ये न कथनरूपा ऋग्वेदभाष्ये लक्षिता । यथा
यो देवदत्तः स चतुर्वेदाभिज्ञ इत्युक्ते सर्व जना स्तुति-
मवगच्छन्ति यद्यपि ष्टुञ्स्तुतौ शनसु स्तुतावित्ये करशौ
तथापि प्रतिगीतमन्त्रसाध्यं स्तोत्रम अप्रतिगीतमन्त्र-
साध्यं शस्त्रमिति तयोर्विवेक इति च तत्रोक्ते प्रति-
गीतमन्त्रसाध्ये ३ स्तवने गुणकथने च । शस्त्रशब्दे प्रति-
गीतमन्त्रे इति यदुक्तं तत्र अप्रगीतमन्त्रे इत्येव
वोध्यम् । प्रगीतमृग्जातं शस्त्रमिति वृ० उ० भष्य-
टीकायासानन्दगिरिणीक्ते ४ प्रगीते ऋग्जाते च ।

स्तोत्रिय त्रि० स्तोत्राय हिते य । स्तोत्रसाधने ऋगादौ

“कत्ययमुद्गताऽस्मिन् यज्ञे स्तोत्रियाः स्तोष्यन्तीति तिस्र
इति कतमास्तास्तिस्रः इति पुरोऽनुवाक्या च याज्या
शस्यैव च तृतीया इति” वृ० उ० । “स्तोत्रिया नाम
ऋक्सामसमुदायः” शा० भा० । “स्तोत्रिया नाम गीतिविशिष्टा
ऋग्जातयः” शत० ब्रा० १४६ । १ । १२ वाक्यव्याख्यायां
सायगबाष्यम् । “यथोक्तस्य स्तोत्रं स्तोत्रियां वर्चं साम
वा यजुर्वाऽथर्वान्यत् कृत्वा यजेत” कात्या० श्रौ० २४, ७
२० “एकां स्तोत्रियामेका ऋचामन्यां कुर्य्यात्” कर्कः ।
पृष्ठ ५३४३

स्तोभ पु० स्तुभ--घञ् । १ अथंशून्ये गानादिस्वरपरिपूरणार्थ

शब्दभेदे यथा सामवेदे इडा हीआइ प्रभृवयः । २ हेलने
३ स्तम्भने च हेमच० ।
स्तोभलक्षणादिकं गानशब्दे २५७३ पृ० दृश्यम् । तच्च
लक्षणं वर्णमात्रस्तोभस्य । वाक्यस्तोभस्य तु नव विधाः
भवन्ति तदुक्तं “आशास्तिः स्तुतिसंख्यामे प्रणवः
परिदेवनम् । प्रैषमन्वेषणञ्चैव सृष्टिरास्थानमेव च”
एते तु वाक्यस्तोभाः पदस्तोभाश्च पञ्चदश गानग्रन्थेषु
दर्शितास्तत एवावगन्तव्याः ।

स्तोम आत्मगुणाविष्करणे अद० चु० उभ० अक० सेट् । स्तो-

मयति--ते अतुस्तोमत्--त । बह्वच्कत्वात् न षोपदेशः ।

स्तोम पु० स्तोम--अच् स्तु--मन् वा । १ समूहे अमरः । २ यज्ञे

हेमच० । ३ स्तवे ४ स्तुतिभेदे ५ मस्तक ६ धने ७ शस्ये
८ लौहाग्रदण्डे च न० ९ वक्रे त्रि० । “नारावशंसेन
स्तोमेन” यजु० ३ । ५३ “अयं स्तोमान् पप्रच्छ ऋ० १ । १४ । ९

स्त्यान न० स्त्यै--भावे क्त तस्य नः । १ स्रेहे २ घनत्वे ३ सं ।

हतौ ४ आलस्ये ५ प्रतिशब्दे च विश्वः । कर्त्तरि क्त ।
६ संहतिकारके ७ ध्वनिकारके च त्रि० ।

स्त्येन पु० स्त्यै--इनच् । १ चौरे अनृते च उणा० ।

स्त्यै सहतौ ध्वनौ भ्वा० अक० अनिट् । स्त्यायति अस्त्यासीत्

पर्य्युदासान्न षोपदेशः ।

स्त्री स्त्री स्तु--ड्रट् । योषिति नार्य्याम् अमरः ।

तद्भेदादिकं रतिम० उक्तं यथा
“पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । शशो
भृगीवृषोऽश्वश्च स्त्रीपुंसोर्जातिलक्षणम् । भवति
कमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्या चारुकेशी
कृशाङ्गी । मृदुवचनसुशीला गीतवाद्यानुरक्ता
सकलतनुसुवेशा पद्मनी १ पद्मगन्धा । भवति रतिरसज्ञा नाति-
खुर्वा न दीर्घा तिलकुसुमसुनासा स्निग्धनीलोत्पलाक्षी ।
घनकठिनकुचाद्या सुन्दरो बद्धलीला सकलगुणसमेता
चित्रिणी २ चित्रवक्त्रा । दीर्घातिदीर्घनयना वरसुन्दरी
या कामोपभोगरसिका गुणशीलयुक्ता । रेखात्रयेण
च विभूषितकण्ठदेशा सम्भोगकेलरसिका किल शङ्खिनी ३
सा । स्थूलाधरा स्थूलनितम्बभागा स्थलाङ्गुली स्थू-
लकुचा सुशीला । कामोत्सुका गाढ़रतिप्रिया या
नितम्बखर्वा करिणी ४ मता सा । शशके पद्मिनी तुष्टा
चित्रिणी रमते मृगे । वृषभे शङ्खिनी तुष्टा हस्तिनी
रमते हये । पद्मिनी पद्मगन्धा च मीनगन्धा च
चित्रिणी । शङ्खिनी क्षारगन्धा च मदगन्धा च
हास्तनी । बाला च तरुणी प्रौढ़ा वृद्धा भवति
नायिणा । गुणयोगेन रन्तव्या नारो वश्या भवेत् तदा ।
आ षोड़शाद् भवेद् बाला तरुणी त्रिंशका मता ।
पञ्चपञ्चाशका प्रौढ़ा भवेद्वृद्धा ततः परम् । फलमूला-
दिभिर्बाला तरुणी रतियोगतः । प्रेमदानादिभिः
प्रौढा वृद्धा च दृढ़ताड़नात् । बाला तु प्राणदा प्रोक्ता
तरुणी प्राणहारिणी । प्रौढ़ा करोति वृद्धत्वं वृद्धा
मरणमादिशेत् । अङ्गष्ठे चरणे च गुल्फनिलये जातु-
द्वये वस्तिके नाभौ वक्षसि जङ्घयोर्निगदिता कण्ठे
कपोलेऽधरे । नेत्रे कर्णयुगे ललाटफलके मौलौ च
वामभ्रुवामूर्द्धाधश्चलनक्रमेण कथिता चान्द्री कला
पक्षयोः । सीमन्ते नयनेऽघरे च गलके वक्षस्तटे
चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटे
गण्डके । गुलफे पादतले तदङ्गुलितटेऽङ्गुष्ठे च तिष्ठ-
त्यसौ वृद्धिक्षीणतया समं शशिकला पक्षद्वयोर्योषिताम् ।
शुक्लपक्षे वसेद्वामे पादाङ्गुलिकनिष्ठके । शुक्लप्रतिपदादौ
च कृष्णे चाधः प्रलम्बते । पुंसूः सव्ये स्त्रियोऽवामे
शुक्ले, कृष्णे विपर्य्ययः । एतानि कामस्थानानि
ज्ञेयानि नागरैः सदा । वलयुक्ता यदा नारी
विपरीतरतिर्भवेत् । सञ्चाल्य तु कलास्थानं रन्तव्या
कामिनी तदा । नेत्रे कक्षे कपोले च हृदि पार्श्व-
द्वयेऽपि च । ग्रीवायां नाभिदेशे च कामी चुम्बति
कामिनीम् । मुखे जङ्घे नितम्बे च जघने मदना-
लये । स्तनयुग्मे सदा प्रीतः कानी चुम्बति कामिनीम् ।
प्रेम्णा स्त्रियं समालिङ्ग्य शीत्कारं सुखचुम्बनम् ।
कण्ठासक्तं पुनः कृत्वा गाढ़ालिङ्गनमाचरेत् । विधृत्य
हस्तौ जघनोपविष्टः शीत्कृत्य वक्त्रे च मुदा प्रचुम्ब्य ।
भगे च लिङ्गं स्तनमर्दनञ्च दत्त्वापि कृत्वा प्ररमेच्च
कामी । केतक्यग्रनखं कृत्वा नखांस्त्रीन् पञ्च चैव वा ।
पृष्ठे च जघने योनौ दत्त्वा कामी रमेत् स्त्रियम् ।
नखरोमाञ्चितं कृत्वा दन्तेनाधरपीड़नम् । ग्रीवामा-
कृव्य यत्नेन योनौ लिङ्गेन ताड़नम् । लिङ्गप्रवेशन
कृत्वा धृत्वा गाढ़प्रयोगतः । पार्श्वद्वयेन सम्पीद्ध्य निस्पृहं
ताड़येद्भगम् । समालिङ्ग्य स्त्रियं गाढ़ं स्तनयुग्मे च
मर्दनम् । योनौ नाभौ च संमर्द्य निष्ठुरं लिङ्ग-
ताड़नम् । केशं करेण संगृह्य दृढ़ं सन्ताड़येद्भ-
गम् । वदने चुम्बनं कृत्वा भगं हस्तेन मर्दयेत् । कुचं
करेण संमर्द्य पीड़येदधरं दृढ़ंम् । रसेन पद्मवन्धेन
पद्मनीरतिमादिशेत् । शीत्कारं चुम्बनं पीड़ा गले हस्ते
च चुम्बनम् । क्षणे क्षणे स्तने हस्तं चित्रणीरति-
पृष्ठ ५३४४
मादिशेत् । स्त्रीपुंसयोस्तथान्योन्यं भगे लिङ्गे च
चुम्बनम् । रमणन्तु तथा गाढ़ं शङ्खिणी रतिमादि
शेत् । केशं करेण संनृह्य सदृढ़ं गजवन्धनम् । भगं
करेण सन्ताड्य हस्तिनीरतिमादिशेत् । कूर्मपृष्ठं
गजस्कन्धं पद्मगन्धं सुगन्धि यत् । अलामकं सुविस्तोर्णं
पञ्चैतद् भगनुत्तमम् । शीतलं निम्नमत्युच्चं गोजिह्वा-
सदृशं परम् । इत्युक्तं कामशास्त्रज्ञैभगदोषचतुष्टयम्” ।
स्त्रीशुभाशुभलक्षणन्तु उपयमशब्दे १२७८ पृष्ठादौ दृश्यम्

स्त्रीगवी स्त्री० स्त्री चासौ गौश्च षच्समा० । (गाभि)

रोहिण्याम ।

स्त्रीचित्तहारिन् पु० स्त्रियाश्चितं हरति हृ--णिनि ।

१ शोभाञ्जने त्रिका० । २ स्त्रीमनोहारके त्रि० ।

स्त्रीचिह्न न० स्त्रिया असाधारणं चिह्नम् । १ योनौ जटा० ।

२ स्त्रिया असाधारणे चिह्ने स्तनादौ ३ स्त्रीलक्षणे च ।

स्त्रीचोर पु० स्त्रिया चोर इव । कामुके त्रिका० ।

स्त्रीजित पु० स्त्रिया जितः जि--क्त । स्त्रीवश्ये ।

“स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति । न भूमौ
पातकी पापात् पापिनां स्त्रीजितात् परः” ब्रह्मवै० ज०
४ अ० तस्य निन्दोक्ता ।

स्त्रीधन न० ६ त० । स्त्रीस्वत्वाश्रये द्रव्यमात्रे इति मिताक्षरा-

दयः । “अध्यग्न्यव्याषाहनिकं भर्तृदायस्तथैव च ।
भ्रात्रादतं पितृभ्याञ्च षड्विधं स्त्रीधनं स्मृतम्” नारद-
परिगणिते स्त्रीस्वत्वाश्रये धने इति दायभागादयः ।
स्त्रीधनस्वरूपादिकं मिताक्षरामतानुसारेण वीरमि०
मिरूपितं यथा
“अथ स्त्रीधनविभागं वक्तुन्तत्स्वरूपं तावन्निरूप्यते तत्र
मनुः “अध्यग्न्यध्यावहनिकन्दत्तञ्च प्रीतिकमेणि । भ्रातृ
मातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतमिमि” षड्वि-
धमितिन्यूनसंख्याव्यवच्छेदपरन्नाधिक्यनिरासाय । अत
एव योगाश्वरण “पितृमावृपतिभ्रातृदत्तमध्यग्न्युपा-
गतम् । आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्त्तितम्,
इत्याद्यशब्द उपात्तः । विष्णुनापि षडधिकानि स्त्रीधना-
भ्युक्तानि । स यथाह “पितृमातसुतभ्रावृदत्तमध्यग्न्य-
पागतम् । आधिवेदनिकं बन्धुर्दत्तं शुल्समन्व
धेयमिति स्त्रीधनम” इति । मारद “अध्यग्न्यध्यावाहनि-
कम्भर्त्तृदायस्तथैव च । भ्रातृदत्तं पितृभ्याञ्च षाड्वध
स्त्रीधनं स्मृतमिति । षाड्रधत्वं मानववदेव व्याख्येयम् ।
स्त्रीधनशब्दश्चायं यौगिकः स्त्रीखामिकन्धनमिति न तु
पारिभाषिकः योगसम्भवे परिभाषाया अन्याय्यात्वात् ।
अत एव योगोश्वरेण रिक्थक्रयादिसाधारणस्वत्वो-
पायसंग्रहायाद्यपदं प्रयुक्तम् । ननु च क्वचित् स्त्री-
धनत्वनिषेधौऽनुपपन्न एवं सति स्यात् । न हि स्त्री-
स्वामिकत्वं तत्र निषेद्धुं शक्यते बाधात् । यथाह
कात्यायनः “तत्र सोपधि यद्दत्तं यच्च योगवशेन वा ।
वित्रा भ्रात्राऽथ वा पत्या न तत् स्त्रीधनसुच्यते इति ।
उपधिरुत्सवादाविवेदं मया दत्तं त्वया धार्य्यमलङ्कारादि-
नान्यदेति नियमस्ततपूर्वकं दत्तं सोपधि योगवशेन दाया-
दानां कन्यायै दत्तमिदन्तद्धनङ्कथं विभाज्यमिति ।
शिल्पप्राप्तं सख्यादिभ्यः प्रोत्या प्राप्रन्तदपि न स्त्रीधन
मित्यप्याह स एव “प्राप्तं शिल्पैस्तु यत्किञ्चित्-
प्रीत्या चैव यदन्यतः । भर्त्तुः स्वाम्यन्तदा तत्र शेषन्तु
स्त्रीधनं स्मृतम्” इति । पारिभाषिकत्वे भ्रात्रादिदत्तत्वेन
प्राप्तं स्त्रीधनं प्रतिषिध्यते । तेनैतस्माद्भिन्नमेव पित्रादि-
दत्तं शिल्पादिपाप्तभिन्नं वा स्त्रीषनमिति परिभाष्यते
इति चेत् । उच्यते । नात्र स्त्रीधनत्वनिषेधः । किन्तु
तत्कार्य्य विभागादि निषेधः । अत एवोत्तरश्लोके तत्र-
भर्त्तुः स्वाम्यमित्युक्तम् । भर्त्तुस्तद्विनियोगे स्वातन्त्र्यण
स्त्रिया इत्यर्थः । प्रथमश्लोके तु स्त्रीस्वत्वनिषेधोऽपि सम्भ-
वति उपवियागपदयोरुपादानात् । तादृशदाने च
स्वत्वाभावस्य प्रसिद्धत्वात् । “योगाधमनविक्रोतं योगदान
प्रतिग्रहम् । यत्र चाप्युपधिम्पश्येत्तत्सर्वं विनिवर्त्तये-
दिति” मनुवचनात् “भार्य्या पुत्त्रश्च दासश्च त्रय एवाधनाः
स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनमित्यपि
वचनम्भार्य्याविषये शिल्पादिप्राप्तपरमेव एकमूलकल्प-
नालाघवात् । अध्यग्न्यादिस्वरूपन्निरूपितं कात्या-
यनेन “विवाहकाले यत् स्त्रीभ्यो दीयते ह्यग्नि
सन्निधौ । तदध्यग्निकृत सङ्गिः स्त्राधनं परिकीत्तितम् ।
यत्पुनर्ल्लभते नारी नीयमाना पितुर्गृष्ठात् । अध्यावा-
हभिकन्नाम स्त्रीधनन्तदुदाहृतम् । प्रीत्या दत्तं तु यत्कि-
ञ्चिच्छश्ना वा श्वशुरेण वा । पादवन्दनकञ्चैव प्रीतिटत्त-
न्तदुच्यत । विवाहात्परतो यत्तु लब्ध भर्त्तृकुलात्
स्त्रिया । अन्थाएहेयन्तु तत्प्रोक्तं यल्लब्धं स्वकुलत्तथा ।
गृहोपस्कारवाह्यानां दाह्याभरणषमंणाम् । मूल्यं
लब्धन्तु यत्किञ्चित्तच्छुल्कं परिकोत्तितम् । ऊदया
कन्यया वापि पत्युः पितृगृष्टेऽपि या । भ्रातुः
सकाशात् पित्रोर्वा लब्धं सौदायिकं स्मृतम्” । भर्त्तुः
पृष्ठ ५३४५
मोक्षस्त्यगोदानमिति यावत् । अननुज्ञातत्यागभोग-
विषयमेतत् । तदनुज्ञया त्वनापद्यपि न दोषः “स्वय-
मेवेत्येवकारः स्वापत्यानां व्युदासार्थः । भर्तृव्युदा-
सस्य पतिर्नाहतीत्यनेनाभिधानात् । भर्तृव्युदासे
ततो वहिरङ्गानां ब्रात्रादीनां व्युदासस्यापि दण्डा-
पूपिकया सिद्धत्वात् । अनापदीत्यमिधानदापदि न
दोषः । अतएव “पुत्रार्त्तिहरणे चापि स्त्रीधनं भोक्तु-
मर्हतीति” तस्यैव वाक्यशेषः । पतिरित्यनुषङ्गः । पुत्र-
ग्रहणं कुटुम्बोपलक्षकं तस्यार्त्तिर्भक्ष्याद्यभावनिमित्ता
पीड़ा तस्या हरणे । चशब्दादन्यस्मिन्नपि धनाभाव
निमित्ते सङ्कटे स्त्रीधनमननुज्ञातमपि पतिस्त्यक्तुं
भोञ्चार्हतीत्यर्थः । ननु परधने त्यागभोगयोः स्वाम्यनु-
ज्ञया विना कथमर्हता वाधिताऽनेन वोध्यते ।
अनुज्ञायान्त्वनापद्यपि न विरोधः । उच्यते । वचनवला-
त्ताद्वशविषये व्यये स्वत्वमेव तस्य तत्रेत्यदोषः ।
अतएव योगीश्वरोऽपि “दुर्भिक्षे धर्मकार्य्ये च व्याधौ
सम्प्रतिरोधके । गृहीतं स्त्रीधनं भर्त्ता नाकामो दातु,
मर्हति” । धर्मकार्य्ये आवश्यके नित्ये नैमित्तिके च
सम्प्रतिरोधके दण्डाद्यर्थं राज्ञावरोधे कृते । वाचस्पतिस्तु
सम्प्रतिरोधक इति व्याधिविशेषणं कार्य्यानुष्ठानबाधके
इति च तदर्थ इत्याह । नाकामो दातुमर्हतीत्यपि
दारिद्र्यादिकृतदानासामर्थ्ये दुर्भिक्षादिगृहीतमप्यवश्यं
देयमेतावतैव वचनोपपत्तौ सामर्थ्येऽसत्यदानमिच्छयेत्यस्य
कल्पयितुमनर्हत्वात् । पतिग्रहणादापद्यपि पत्युरेव
पत्नीधनग्रहणाधिकारः प्रतिदानञ्चेच्छया नान्यस्येति
ज्ञेयम् । भर्त्रा दातुं प्रतिश्रुतं भार्य्यायै तस्मिन् मृते
पुत्रादिमिस्तस्यै देयमित्यप्याह स एव “भर्त्रा प्रति-
श्रुतं देयमृणवत् स्त्रीधनं सुतैरिति” । सुतग्रहणं
पौत्त्रप्रपौत्त्रयोरुपलक्षणमृणवदित्यभिघानात् । अनेन
स्त्रीधने जीवन्त्यान्तस्यां सुतानां जन्मना स्वत्वेऽपि
नास्ति विभाग इति गम्यते । एवं स्त्रीधनमुक्तम्” ।
दायभागमतं पारिभाषिकपरत्वपक्ष एव । अनयोर्युक्ता-
युक्तत्वं सुधीभिर्भाव्यम् । उत्तराधिकारिशब्दे ११०१ पृ०
च तद्विभागो दृश्यः ।

स्त्रीधव पु० स्त्रियं धुनाति घु--अच् । पुरुषे जटा० ।

स्त्रीधर्म्म पु० ६ त० । ऋतौ नारीकुसुमविकाशे रजसि हेमच०

स्त्रीधर्मिणी स्त्री स्त्रीधर्मोऽस्त्यस्या इनि । ऋतुमत्यां स्त्रि-

याम् अमरः ।

स्त्रीपण्योपजीविन् पु० स्त्रीरूपेण पण्येन जीयति

जीवणिनि । धनं गृहीत्वा सम्भोगार्थमन्यस्मै स्त्रियं दत्त्वा
तल्लब्धधनोपजीविनि ।

स्त्रीपुंधर्म्म पु० स्त्रियाः पुंसश्च धर्मः तमधिकृत्य व्यवहारो वा ।

स्त्रीपुं सयोः यथाशास्त्राचाररूपे धर्मे तद्विषयके अष्टा-
दशसु विवादपदेषु मध्ये विवादपदभेदे स्त्रीपुंसयोगोऽ-
प्यत्र । वीर० तत् न्यरूपि यथा “तत्स्वरूपमाह नारदः
“विवाहादिविधिः स्त्रीणां यत्र पुंसाञ्च कीर्त्त्यते ।
स्त्रीपुं सयोगसंज्ञं तद्विवादपदमुच्यते” इति । विवा-
हादिशब्देन स्त्रीपुंधर्मा गृह्यन्ते । अतएव
मनुर्व्यवहारपदोद्देशकाले स्त्रीपुंधर्मोविभागश्चेत्युद्दिश्य
प्रतिज्ञापूर्वंकं तेषां निरूपणं चकार “पुरुषस्य स्त्रि-
याश्चैव धर्म्ये वर्त्मनि तिष्ठतोः । संयोगे विप्रयोगे च
धर्मान् वक्ष्यामि शाश्वतान् इत्यादिना संयोगे अन्यो-
न्यसन्निधाने विप्रयोगे देशतः कालतो वा व्यव-
धाने । शाश्वतान्नित्यान् अवश्यानुष्ठेयानिति यावत् ।
के ते धर्मा इत्याकाङ्क्षायामाह स एव “अस्वतन्त्राः
स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च
सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे” इत्यादि । पुरुषैः
भर्तृपुरुषैः । विषथे दण्डहेतुभूतचाञ्चल्यादिविषये ।
नारदोऽपि “स्वातन्त्र्याद्विप्रणश्यन्ति कूले जाता अपि
स्त्रियः । अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत्”
इति । अतोऽन्यैरपि स्वस्त्रीणामस्वातन्त्र्यं यथा
भवति तथा कल्पयितव्यमित्याशयः । पुरुषेण स्वस्त्री
व्यभिचारादवश्यं रक्षणीया । तथा च हारीतः
“एकव्रत्सकन्नभावात् परेन्द्रियोपहतत्वाच्च दुष्ठाः
कुलसङ्करकारिण्यो भवन्ति जीवति जारजः कुण्डोमृते
भर्त्तरि गोलकस्तस्माद्रेतोपाघाताज्जायां रक्षेज्जाया-
नाशे कुलनाशः कुलनाशे तन्तु नाशस्तन्तुनाशे देवपिवृ-
यज्ञनाशो देवपितृयज्ञनाशे आत्मनाशः आत्मनाशे
सर्वस्वनाशः” इति । एकव्रतम्कन्नभावात् स्त्रीणां
एकभर्त्तेति नियमनाशात् । परेन्द्रियोपहतत्वात्
परस्मिन् पुंसि इन्द्रियम्य मनसोरागादिना
उपहतत्वात् । कुलसङ्करकारिण्यस्तज्नातिस्वभावानुगत पजो
त्पादनेन कुलसाङ्कर्य्यकारिण्यः । अतएव शङ्खलिखितौ
“यस्मिन् भावोऽर्पितः स्त्रीणामर्त्तवे तादृशं तस्तुश्रन
यन्तीति” । तन्तुः पुत्रादिसन्ततिः । मनुरपि “सूक्ष्म
भ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोर्हि
पृष्ठ ५३४६
सकाशादिति कल्पतर्वादौ पाठः । अध्याग्न्यादिशब्दास्तु
योगरूदास्तादृशस्त्रोधनादावेव प्रयोगात् । गृहोपस्कर-
णादोनां यन्मूल्यं कन्यार्पणापाधित्वेन यरादिभ्यः कन्या-
भरणरूपेण सृह्यते तच्छुल्कमिति मदनरत्ने व्याक्या-
तम् । मिताक्षरायां तु यद्गृहीत्वा कन्या दीयते
तच्छुल्कमित्युक्तम् । उभयत्रापि पित्रादीनां कन्याया
इदमित्युद्ध्वेशो विवक्षितः अन्यथा तत्स्वत्वाभावेन
स्त्रीधनत्वव्यपदेशत्वानुपपत्तेः । जीमूतवाहनेन तु कर्मि-
णामिति पठित्वा गृहादिकर्मिभः शिल्पिभिस्तत्कर्म-
करेणे भर्त्रादिप्रेरणार्थं स्त्रियै यदुत्काचदानं तच्छु-
ल्कं तदव सुल्यं प्रकृत्यर्थत्वादिति व्याख्यातम् ।
पुनश्चोक्तम् “यदानेतुं भर्तृरृहे शुल्कन्तत्परिकीर्त्तिं-
तमिति” व्यासोक्तं वा । भर्तृगृहगमनार्थमुत्काचादि
यद्दत्तं तच्छुल्कमित्यर्थ इति । तदुभयमपि स्त्रा
स्वामिकं भवत्येव तस्या एव दत्तत्वादिति तत्र स्त्री-
धनत्वव्यपदेशोऽन्यस्त्रीधनवत् सुगम एव ।
आधिवेदनिकं स्त्र्यन्तरविवाहकाले पूर्वभार्य्यायै यद्दीयते ।
यदाह याज्ञवल्क्यः “अधिविन्नस्त्रयै दद्यादाघि-
वेदनिकं समम् । न दत्तं स्त्रीधनं वासां दत्ते त्वर्द्धं
प्रकल्पयेत्” इति । पित्रादिभिर्ज्जीवनाद्यर्थं स्त्रीभ्यो
धनदाने विशेषमाह कात्यायनः “पितृमातृपति
भ्रातृज्ञातिभिः स्त्राधनं स्त्रियै । यथाशक्त्याद्विसा-
हस्राद्दातव्यं स्थावरादृते” । स्थावरेतरद्धनं यथाशक्ति
आकार्षापणसहस्रद्वयपर्य्यन्तं देयमित्यर्थः । व्यासोऽपि
“द्विसहस्रः परो दायः स्त्रियै देयो धनस्य तु” । आद्वि-
सहस्रादिति कात्यायनेन, पर इति च व्यामेनोक्ते-
रितोऽधिकमिति धनिनापि न स्त्रीभ्यो देयमिति
दर्शितम् । अयञ्च नियमः प्रतिवनसरमसकृटर्पणे ज्ञेयस्ते-
नानेकवत्सरेषु जीवनार्थं दीयमानमिगोऽधिकमपि
भवति चेन्न दोषः । जीवनार्थत्वाद्दानस्य तावज्जीवञ्च
द्विसाहस्रमात्रेण तन्निर्वाहासम्भषात् । स्त्रीधनेऽपि
मर्वनुमतिमन्तरेण स्त्रीणान्न स्वातन्त्र्यमित्याह मनुः
“न निर्हारं स्त्रियः कुर्युः कुदुम्बाद्बहुमध्यकात् ।
स्रमदपि च वित्ताद्धि स्वस्य भर्त्तुरनाज्ञया” इति
निर्हारो व्ययः । कचित्तु स्त्रीधने तामां स्वातन्त्र्य-
मस्ति यदाह सौदायिकस्वरूपसक्त्वा कात्यनः
“सादायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्येते ।
यस्मात्तदानृशस्यार्थं तैदत्तमुपजीवनम् । सौदायिके
सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम् । विक्रये
दाने च यथेष्टं स्थावरेष्वपि” । भर्त्तृदत्ते तु स्थाव-
रेतरत्रैव स्वातन्त्र्यमित्याह नारदः “भर्त्रा प्रातन
यद्दत्तं स्त्रियै तास्मन् मृतऽपि तत् । सा यथा
काममश्नीयाद्दद्याद्वा स्थावरादृते” । स्थावरे भत्तृदत्ते स्त्रिया
निवासाद्युपभोगमात्रं न दानविक्रयादिकमित्यर्थः ।
अपुत्रा शयनं भतुरित्यादि कात्यायनवचोऽपि भर्तृ-
दत्तस्थावरविषयमेव नारदेकवाक्यतयेति केचित् ।
अस्माभिस्तु पत्नी दुहितर इति व्याख्यानावसरेऽम्य
विषयः प्रपञ्चितः । पुरुषाणामपि कस्मिन्नपि स्त्रीधने
न स्वातन्त्र्यं स्वाम्याभावादित्याह कात्यायनः “न
भर्त्ता नैव च सुती न पिता भ्रातरो न च । आदाने
वा विसर्गे वा स्त्रीधने प्रभविष्णवः । यदि त्वेकतरो-
ऽप्येषां स्त्रीधनं भक्षयेद् बलात् । सवृद्धिकं म दाप्यः
स्याद्दण्डञ्चैव समाप्नुयात् । तदेव यद्यनुज्ञाप्य भक्षयेत्
प्रोतिपूर्वकम् । मूलमेव तदा दाप्यो यदा स धनवान्
भवेत् । अथ चेत् स द्विभार्य्यः स्यान्न च तां भजते पुनः ।
प्रीत्या विसृष्ठमपि चेत् प्रतिदाप्यः स तद्वलात् ।
ग्रासाच्छादनवासानामुच्छेदो यत्र योषितः । तत्र स्वमा-
ददीत स्त्री विभागं रिक्थिनान्तथा” । स्त्रिया धनं
गृहीत्वा यद्यपरभार्य्यया सह वसत्येनाञ्चावमन्यते
तदा गृहीतं तद्धनं राज्ञा बलाद्दाप्यः । भक्ताच्छा-
दननिवासान् यदि भर्त्ता न ददाति तदा तेऽपि
स्त्रिया बलाद्ग्राह्यःस्तत्पर्य्यप्तं घनं वा ग्राह्यमिति
श्लोकद्वयन्यार्थः । इदमपि तस्या दोषराहित्ये बोध्यं
दुष्टा पुनः किमपि स्त्रीधनं न लभते इत्याह
स एव “अपकारक्रियायुक्ता निर्लज्जा चार्थना-
शिका । व्यभिचाररता या च स्त्रीधनं न तु
सार्हति” । नार्हतोत्यनेन तया लब्धमप्याच्छिद्य ग्राह्य-
मिति सूचितम् । अपकारक्रियायुक्ता सदा भर्तृप्रतिकूला-
चरणपरा “निर्मर्य्यादार्थनाशिका” इत्यपि पाठः । देवलः
“वृद्धिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत् । मुङ्क्ते
तत् स्वयमेवेदं पतिर्नार्हत्यनापदि । वृथा मोक्षे च
भोगे च स्त्रियै दद्यात् सवृद्धिकम्” इति । वृद्धि-
र्वर्द्धनार्थं पित्रादिना दर्त्तामति द्मृतचन्द्रिकायाम् ।
मदनरत्ने तु वृत्तिरिति पठितम् । वृत्तिर्ज्जीवतार्थं
पित्रादिभिर्दत्तमिति व्याख्यातञ्च । लाभो गौर्य्यादि-
प्रीव्यर्थं यवभ्यते कुतश्चित् । वृथा आपदमन्तरेण ।
पृष्ठ ५३४७
कुलयो शोकमावहेयुररक्षिताः । इमं हि सर्ववर्णानां
पश्यतो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्य्यां भर्त्तारो
दुर्बला अपि । स्वां प्रसूतिं चरित्रञ्च कुलमात्मानमेव
च । स्यधमं हि प्रयत्नेन जायां रक्षन् हि रक्षितः”
इति । द्वयोः कुलयोः भर्त्तृपितृकुलयोः । अनेन
कुलद्वयवृद्धैरपि रक्ष्या इति शोककथनसुखेन दर्शितम् ।
अतएव वृहस्पतिः “सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या
स्त्री स्वबन्धुभिः । श्वश्वादिभिः पालनीया गुरुस्त्रीभिर्दिवा-
निशम्” । मनुरपि “कालेऽदाता पिता वाच्यो वाच्य
श्चानुपयन् पतिः । मृते भर्त्तरि पुत्रस्तु वाच्यो मातुर-
रक्षिता” इति । काले कन्यादानयोग्ये काले । वाच्यो-
निन्द्यः । अनुपयन् अननुगच्छन् । स एव “पिता रक्षति
कौमारे भर्त्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे
न स्त्री स्वातन्त्र्यमर्हति” । याज्ञवलक्योऽपि “रक्षेत्-
कन्यां पिता, विन्ना पतिः, पुत्रस्तु वार्द्धके । अभावे
ज्ञातयस्तेषान्न स्वातन्त्र्यं क्वचित् स्त्रियाः” इति । विन्ना
विवाहिता । पतिपुत्रविहीनायास्तु रक्षणं पतिपक्षान्त-
र्गतेन प्रत्यासन्नेन कार्य्यम् । तथा च नारदः “मृते
भर्त्तर्य्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियः । विनियोगात्म
रक्षासु भरणेषु च ईश्चरः । परिक्षीणे पतिकुले
निर्मनुष्ये निराश्रये । तत्सपिण्डेषु चासत्सु पितृपक्षः
प्रभुः स्त्रियः” । पितृपक्षस्याप्यभावे स एवाह “पक्षद्वया-
वसाने तु राजा भर्त्ता स्मृतः स्त्रियः । स तस्या भरणं
कुर्य्यान्निगृह्णीयात्पथश्च्युताम्” इति । विनियोगः
कर्मणि नियोजनम् । भर्त्ता षोषकः स्त्रीस्वभावं दर्श-
यति दक्षः “जलौकावत् स्त्रियः सर्वा भूषणाच्छादना-
शनैः । सुहितापि कृता नित्यं पुरुषं ह्यपकर्षति ।
जलौका रक्तमादत्ते केवलं सा तपस्विनी । इतरा तु
धनञ्चित्तं मांसं वीर्य्यं बलं सुखम् । साशङ्का
बालभावे तु यौवनेऽभिमुखी भवेत् । तृणवन्मंन्यते नारी
वृद्धभावे स्वकम्पातम् । स्वकांम्ये वर्त्तमाना सा स्नेहान्न
च निवारिता । अपथ्या नु भवेत् पश्चाद् यथा व्याधि-
रुपेक्षितः” इति । सुहिता तृप्ता कृतापीत्यन्वयः ।
अपकर्षति सततमाज्ञामात्रं करोति स्वकाम्ये स्वेच्छा-
याम् । अपथ्या अर्त्यन्ताहितहेतुभूता । मनुरपि “नैता
रूपं प्रतीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा
विरूपं वा पुमानित्येव भुञ्जते । पौंश्चल्याच्चलचित्त्वत्वात्
नैःस्नेह्याच्च स्वभावतः । रक्षिता यत्रतोऽपीह भर्तृ-
ष्वेता विकुर्वते । शय्यासनमलङ्कारं कामं क्रोधमनार्ज-
वम् । द्रोहभावं कुचर्याञ्च स्त्रीभ्योमनुरकल्पयत् । नास्ति
स्त्रीणां क्रिया मन्त्रैरिति धर्मो व्यवस्थितः । निरिन्द्रिया
ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः । तथा च श्रुतयो
बह्व्या निगीता निगमेष्वपि । स्त्रीलक्षणपरीक्षार्थन्तासां
शृणुत् निष्कृतीः । यन्मे मोता प्रलुलुभे विचरन्त्यऽ-
पतिव्रता । तन्मे रेतः पिता वृङ्क्तामित्युक्तैतन्निदर्शनम् ।
ध्यायत्यनिष्टं यत्किञ्चित्पाणिग्राहस्य चेतसा । तस्यैष
व्यभिचारस्य निह्नवः सम्यगुच्यत । एवं स्वभार्वं ज्ञात्वा-
ऽऽसाम्प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत् पुरुषो
रक्षणं प्रति” इति । निरिन्द्रिया निर्वीर्य्यां धैर्य्यप्रज्ञा-
दिरहिता इति यार्वत् । स्त्रियोऽनृतमिति प्रायशो-
ऽनृतवदनशोलत्वादुच्यन्ते । श्रुतयः श्रुतिवाक्यानि ।
निगमेषु वेदेषु स्त्रीलक्षणं स्वरूपं तासां श्रुतीनाम्मध्ये या
निष्कृतिरूपा व्यभिचारप्रायश्चित्तरूपास्ताः श्रुतीः
शृणुत स्त्रीस्वभावज्ञानार्थमित्यर्थः । महाभारतेऽपि
“कुलीना रूपवत्यश्च नार्थवत्यश्च योषितः । मर्यादासु न
तिष्ठन्ति स दोषः स्त्रीष नारद! । अनर्थित्बन्पनुष्यस्य
भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्ति-
ष्ठन्ति भर्तृषु । यौवने वर्त्तमानानां मृष्टाभरणवाससाम् ।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः । यदि
पुंसाम्मतिर्व्रह्मन्! कथञ्चिन्नोपपद्यते । अन्योन्यञ्च
प्रवर्त्तन्ते न च तिष्ठन्ति भर्तृषु । अलाभात् पुरुषाणाञ्च
भयात्परिजनस्य च । बधबन्धभयाच्चैव स्वयं गुप्ता भवन्ति
ताः । नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानान्न पुंसां वामलोचना । कामा-
नामपि दातासं दादारं मानसान्नयोः । रक्षितारन्न
मृष्यन्ति भर्त्तारं यत्नतः स्त्रियः” इति । श्रीरामायणे-
ऽपि “नैवाङ्गनानान्दयितो नापि द्वेष्योऽस्ति कसन ।
सर्वमेवावलम्बन्ते लता गहनजा इवेति” । अथ रक्षण-
प्रकारः । तत्र मनुः “न कश्चिद्योयितः शक्तः प्रसह्य
परिरक्षितुम् । एतैरुपाययौगैस्तु शक्यास्ताः परिरक्षि-
तुम्” । इति । प्रसह्य आक्रम्य अवरुह्येति यावत् ।
यद्यप्यवरोधेन शरीरव्यभिचाराद्रक्षणं शक्यन्तथापि
मानसव्यभिचाराद्रक्षणमशक्यमित्याशयेन मनुना न
कश्चिद्योषितः शकः पसह्य परिरक्षितुमित्युक्तम् । न
च मानसव्यभिचाराद्रक्षणमनर्थकमन्यजत्वाभावेन प्रजा-
विशुद्धिविघाताभावादिति वक्तव्यम् । यत आह स
पृष्ठ ५३४८
एव “यादृशं भजते स्त्री हि सुतं सूते तथाविधम् ।
तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियो रक्षेत् प्रयत्नतः” इति ।
यादृशं पुरुषमृतुकाले स्त्री मनसा भजते तत्समान-
शीलं पुत्रं जनयतीति पूर्वार्द्धार्थः । अतएवाहतुः
शङ्खलिखितौ “यस्मन् भावेओऽर्पतः स्त्रीणामार्त्तव
तच्छीलं जनयन्तीति” । मानसव्यभिचारादपि स्त्रियं
रक्षेदिति शेषः । तथां च मनुना तस्मादत्यादिनोत्त
रार्द्धेनायमेवार्थो दर्शितः । परिरक्षणोपायानाह
मनुरेव “अर्थस्य संग्रहे चनां व्यये चैव नियोजयेत् । शौचे
धर्मे च पक्त्याञ्च पारिणाह्यम्य चक्षण” इति । अर्थस्य
संग्रहे स्वेन समानीतार्थसंविधाने । व्यये स्वेनोक्त-
व्यये । शौचे गृहादिशुद्धिकरसंमाजनापलेपनादौ । धर्मे
अग्निहोत्राद्यनुकूललौकिकव्यापारे । पक्त्यां पाकव्या-
परे । पारिणाह्यं पीटादि गृहोपकरणं तस्य
ईक्षणे विचारणे । निरन्तरगृहव्यापारनियोजनात
पुरुषान्तरचिन्ताराहित्यं यथा भवति भार्यायाः तथा
कुर्यादिति तात्पर्यार्थः । वृहस्पतिरपि “आयव्ययेऽथ
संम्कारे गृहोपसकररक्षणे । शौचाग्निकार्य्ये संयोज्याः
स्त्रीणां शुद्धिरियं स्मृता” इति । एवविधव्यापारा-
सक्तचित्ततया साध्व्य इति व्यपदिश्यन्त इत्याह मनुः
“आत्मानमामना यास्तु रक्षेयुस्ताः सुरक्षिताः”
इति । आत्मना गृहव्यापारासक्तेनान्तःकरणेन
सुरक्षिताः साध्यः । आप्तपुरुषारक्षितस्तु स्त्रियो न
सम्यग्रक्षिता इत्याह स एव “अरक्षता गृहे रुद्धाः
पुरुषैराप्तकारिभिः” इति । आप्तकारिभिः पुरुषैः
गृहे रुद्धा इत्यन्वयः । आप्ताश्च ते कारिणश्चाप्तकारिणः ।
अरक्षिताः सम्यग्रक्षाविहीना इत्यर्थः । भर्त्तुर्द्धर्म-
निष्ठत्वमोपि स्वीणां रक्षणोपाय इति दर्शयितुं स
एवाह “यादृग्गुणेन भर्त्ता स्त्री संयुज्य त यथाविधि ।
तादृग्गुणा सा भवति समुद्रेणेव निमग्ना । अक्षमाला
वसिष्ठेन संयुक्ताऽधमयोनिजा । शारङ्गी मन्दपालेन
जगामाभ्यर्हणीयंताम्” इति । मार्याया भरणमप्या-
वश्यकमित्याह स एव “देवदत्तां पतिर्भार्गां विन्दते-
नेच्छयात्मनः । तां साध्वीं विभृयान्नित्यं देवानां प्रिय-
माचरन्” । देवैर्दत्ता देवदत्ता दैववशादायातेति यावत् ।
तां भार्यां स्वयंवरे पतिर्विन्दते । तत्र स्वव्यापाराभावा-
द्देवदत्तामित्यनेन विवाहलक्षणस्य स्त्रीपुंसयोः सम्बन्धस्य
न स्वाधीनत्वं किन्तहि देवकृतत्वमिति दर्शितम् । देव-
दत्तत्वञ्च स्त्रीणाम् “सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये ।
रयिश्च पुत्रांश्चाददग्निर्मह्यमथो इमाम्” इत्यादिभ्यः श्रुति-
वाक्यभ्योऽवगम्यते । तेन देवैर्दत्ताया अभरणेन दातॄणां
देवालां द्राह आपाद्यत इत्यर्थवाद इत्युक्तं मदनरत्न ।
न च साध्वोमित्यस्य पतिब्रतामित्यर्थपरत्वेन व्यभि-
चारिण्या भरणमनावश्यकमिति वक्तव्यम् । तस्या अपि
कदन्नादिनाऽवश्यभरणायत्वात् । तथा च नारदः
“व्यभिचारे स्त्रियामौण्ड्यमधःशयनमेव च ।
कदन्नञ्च कुवासश्च कर्म चावस्करोज्झनम” इति । स्त्रियार-
त्यर्थं व्यभिचारे जाते मुण्डनमधःशयनञ्च साधयेत ।
कदन्नं कवासश्च भरणार्थं दद्यात् । अमेध्यशोधनरूपं
कर्म कारयेदिर्त्यर्थः । दोषरहिताया भार्यायाः
परित्यागिभं प्रत्याह नारदः “अनुकूनाभवाग्दष्टां दक्षां
साध्वों प्रजावतीम् । त्यजन् भार्यामवस्थाप्या राज्ञा
दण्डेन भूयसा” इति । विष्णुरपि “निर्दीषां
परित्यजन् पत्नीञ्चेति” चौरवच्छास्य इत्यनुषङ्गः । निर्दोषा-
न्त्यागहेतुभूतदाषरहिताम् । दण्डेन स्थापयितु-
मशक्ये त्वाच योमीश्वरः “आज्ञामम्पादिनीं दक्षां वीरसू
प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्योभरणं
स्त्रियः” इति । तृतीयांशन्तद्धनतृतीयांशम् । राज्ञा
भार्याया दाप्यः । अल्पधनः भरणमात्रपर्य्याप्तं धनं दाप्य
इत्यथः” ।

स्त्रीपुंस पु० द्विव० स्त्री च पुमांश्च अच्समा० । सिलितयोः स्त्रीपुरुषयोः ।

स्त्रीपुंसलक्षणा स्त्री स्त्रीपुंसयोर्लक्षणमस्याम् । स्तनश्मश्रु-

प्रमृतिस्त्रीपुरुषचिह्नधारिण्यां स्त्रियाम् पोटायाम् अमरः

स्त्रीप्रिय पु० ६ त० । १ आम्रवृक्षे त्रिका० । २ नारीप्रियमात्रे त्रि०

स्त्रीमुखप पु० स्त्रीसुखं पाति पा--क । दोहलशब्दार्थे

राजनि० ।

स्त्रीरोग पु० ६ त० । स्त्रीणां रोगे योनिरोगादौ सुश्रुतः ।

स्त्रीलिङ्ग पु० स्त्रिया इव लिङ्गं तत्कार्य्यं यस्य । स्त्रीयिङ्ग-

विहितव्याकरणोक्तसंस्कारयुक्ते १ शब्दभेदे । ६ त० स्त्री-
२ चिह्न स्तनादौ न० ।

स्त्रीवश पु० ६ त० । स्त्रीवशीमूते ।

स्त्रीविधेय पु० ६ त० । स्त्रीवशीभूते ।

स्त्रीसग्रहण न० स्त्रियाः सग्रहणं यत्र । परस्त्रीहरणरूपे

विवादपदमेदे । तत्स्वरूपादिक वोरमि० दर्शितं यथा
“अथ स्त्रीसंग्रहणाख्य व्यवहारपदम् । तस्य त्रैवि-
व्यमाह वृहस्पतिः “पापमूलं संग्रहणं त्रिप्रकारं
पृष्ठ ५३४९
निथोघत । बलोपधिकृते द्वे तु तृतीयमनुरागजम्”
इति । एतेषां स्वरूपं दर्शयति स एव “अनिच्छन्त्या
यत् क्रियत मत्तोन्मत्तप्रमत्तेया । विलपन्त्या वा रहसि
बलात्कारकृतन्तु तत् । छद्मना गृहमानीय दत्त्वा स्वं
मदकारणम् । संयोगः क्रियते यत्र तचूपधिकृतं
विदुः । अन्योन्यञ्चक्षूरागेण दूतीसंप्रेषणेन वा । कृतं
रूपार्थलोभेन ज्ञेयं तदनुरागजम्” इति । अनुरागज
संग्रहस्य त्रिविधत्वं दर्शयति स एव “तत्पुनस्त्रि-
विधं प्रोक्तं प्रथमं मध्यमोत्तमम्” इति । व्यासोऽपि
“संग्रहस्त्रिविधोज्ञेयः प्रथमोमध्यमस्तथा । उत्तमश्चेति
शास्त्रेषु लक्षणं च पृथक् पृथक” इति । एतेषां स्वरूप-
माहतुर्व्यासवृहस्पती “कटाक्षावेक्षणं हास्यं दूतीसंप्रेषणं
तथा । स्पर्शोभषणवस्त्राणां प्रथमः संग्रहः स्मृतः । प्रे-
षणं गन्धमाल्यानां फलधूपान्नवाससाम् । सम्भाषणञ्च
रहसि मध्यमं संग्रहं विदुः । एकशय्यासनं क्रीड़ा
चुम्बनालिङ्गनं तथा । एतत् संग्रहणं प्रोक्तमुत्तमं
शास्त्रवेदिभिः” इति । स्त्रीसंग्रहणस्य ज्ञानोपायमाह
याज्ञवल्क्यः “पुमान् संग्रहणे ग्राह्यः केशाकेशि
परस्त्रिया । सद्यो वा कामजैश्चिह्नैः प्रतिपत्तौ द्वयो-
स्तथा” इति । परभार्यया सद केशाकेशि क्रीड़नेन
सद्यः अभिनवैः कामजैः कररुहदशनादिकृतव्रणा-
दिलिङ्गैर्द्वयोः सम्प्रतिपत्तावयं स्त्रीसग्रहणवान्
इति प्रतिपत्तव्य इत्यर्थः । उपायान्तरमाह स एव
“नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । अदेशकाल
सम्भाषः सहैकस्थानमेव च” इति । कुर्वाण इति शेषः
सक्थि ऊरुः । मनुरपि “स्त्रियं स्पृशेददेशे यः स्पृष्टो
वा मर्षयेत् तया । परस्परस्यानुमते सर्वं संग्रहणं
स्मृतम्” । यस्तु दर्पादिना मयेयं भुक्तेति वदति सोऽपि
तथाविघत्वेन ग्राह्य इत्याहतुर्मनुनारदौ “दर्पाद्वा
यदि वा मोहात् श्लाघया वा स्वयं वदेत् । पूर्वं मयेयं
भुक्तेति तच्च संग्रहणं स्मृतम्” इति । बलात्कारकृतस्य
स्त्रीसंग्रहणस्य साहसान्तर्भूतत्वेन तत्रैव दर्शितत्वादुप-
धिकृत दण्डमाह वृहम्पतिः “दर्पान्ना कामयेद्यस्तु तस्य
सर्वहरोदमः । अङ्कयित्वा भगाङ्केन पुरान्निर्वासये-
त्ततः” इति । सर्वहरः सर्वस्वहरः एतत् सजातीय
विषयम् । हीनोतकृष्टागमने तु क्रमेणार्द्धं धनं सर्वस्व-
हरणरूपो बधसहितसर्वस्वहरणरूपो व्य दण्डाऽवग-
न्तव्यः । “दमानेयः समायान्त्रिति” साहगवादनिरूपण-
दर्शितवचनात् । तत्र वचने पुरुषस्यापकर्षाभावे युको
दण्डा न स्त्रिया इति नोक्तस्तस्याः दण्डः तेन साधस
स्त्रासंग्रहणवत् प्रकृतऽपि सजातीयापभुक्तायाः सव्यव-
हार्य्याव्याः प्रायश्चित्ताचरणानन्तरं पुनरपि तेनोपभुक्ताया
इति ज्ञातव्यमित्युक्तं मदनरत्ने । अनुरागजत्रिविघ
सग्रहणे दण्डमाहा स एव “त्रयाणामपि चैतेषां प्रथमो
मध्यमोत्तमौ । विनयः कल्पनीयः स्यादाधकोद्रदिणा-
धिकः” इति । अधिकः प्रथमसाहसादिभ्याऽधिकः ।
सम्भोगे दण्डमाह याज्ञवल्क्यः “स्वजातावुत्तमो
दण्ड आनुलोम्ये तु मध्यमः । प्रातिलोम्ये बधः पुंमो
नार्याः” कर्णादिकर्त्तनम्” इति । चतुर्णामपि वर्णानां
बलात्कारेण सजातोयपरभार्यावमने साशीतिपणस-
हस्नो दण्डः । यदा त्वानुलोम्येन हीनजातीयागमनं
तदा मध्यममाहसः । उतकृष्टजातीयागमने गन्तुर्बधः ।
तस्याः कर्णादिकर्त्तनमित्यर्थः । एतच्चानुरागजग्रहण-
विषयं स्त्रिया अपि दण्डाभिधानात् । वलात्कारोप-
धिकृतयोस्तु स्त्रिया अनपराधत्वेन दण्डाभावात् ।
अस्मादेव प्रातिलोम्येन गमने पुरुषस्य बघं विधाय स्त्रि-
यास्तदर्द्धतुल्यकर्णनासादिकर्त्तनविधानात् सजाती-
यागमने पुरुषस्य यावुक्तावुत्तममध्यभसाहसौ दण्डौ
तदर्द्धं स्त्रियादण्ड इति सूचितम् । अतएव कात्या-
यनः “सर्वेषु चापराधेषु पुंसोह्यर्थदमस्तथा । तदर्द्धं
योषिता दद्युर्बधे पु सोऽङ्गकर्त्तनम्” । इति । स्त्रिया
इति शेषः । यदा पुनः सवर्णामगुप्तां आनुलोम्येन
गुप्तां वा व्रजति तदा विशेषमाह मनुः “सहस्रं व्राह्मणो
दण्ड्योऽगुप्तां विप्रां बलाद् व्रजन् । शतानि पञ्च दण्ड्यः
स्यादिच्छन्त्या संह सङ्गतः । सहस्रं ब्रह्मणी दण्डं
दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रयविशोः
सहस्रन्तु भवेद्दमः” इति । ते क्षत्रियवैश्ये । एतच्च
गुरुसखिभार्य्यादिव्यातिरिक्तविषयम् । तत्र दण्डान्तर-
विधानात् । तदाह नारदः “माता मातृष्वसा श्वश्रू-
र्मातुलानी पितृष्वसा । पिवव्यसखिशिष्यस्त्री भगिनी
तत्सखी स्नुषा । दुहिता चार्यभार्य्या च सगोत्रा
शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च
या । शिश्नस्योत्कर्त्तनात्तत्र नान्योदण्डो विधीयते”
इति । यत्तु प्रातिलोम्येन गमने क्षत्रियादेः पुरुषस्य
वध इत्युक्तं योगोश्वरवचने । तद्गुप्ताविषयमन्यथा-
ऽर्थदण्डः । तथा च मनुः “उभावपि हि तावेव ब्रा-
पृष्ठ ५३५०
ह्मण्या गुप्तया सह । विप्लुतौ शृद्रवद्दण्ड्यौ दग्धव्यौ
वा कटाग्निना । ब्रह्मणीं यद्यगुप्तान्तु सेवेतां वैश्य
पार्थिवौ । वैश्यम्पञ्चशत कुर्य्यात् क्षात्रयन्तु सहस्निणम्”
इति । पञ्चशतम्पणशतपञ्चकदण्डभाजमित्यर्थः । एव
सहस्रिणमित्यत्रापि । क्षत्रियस्य गुप्तवैश्यागमने वैश्यम्य
च गुप्तक्षत्रियागमने क्रमेण पणसहस्रपणशतपञ्चकं
तयोर्दण्ड इत्याह स एव “वैश्यश्चेत् क्षत्रियाङ्गुप्तां
वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायान्ता
वुभौ दण्डमहेतः” इति । शूद्रस्यागुप्तोत्कृष्टस्त्रीगमने
लिङ्गच्छेदनसर्वस्वापहरणे गुप्तागमने तु बधसर्वस्वाप
हारौ । तथा च स एव “शूद्रो गुप्तमगुप्तं वा द्वैजातं
वर्णमाचरन् । अगुप्तैकाङ्गसर्वस्वो गुप्तौ सर्वेण हीयते”
इति । अयञ्च बधाद्युपदेशः प्रजापालनाधिकाराद्राज्ञ
एव न द्विजातिमात्रस्य । “व्राह्मणः परीक्षार्थमपि शस्त्रं
नाददीतेति” शस्त्रग्रहणस्य निषिद्धत्वात् । यदा तु राज्ञो
निवेदने कालविलम्बेन कार्य्यातिपातस्तदा द्विजा-
तिमात्रस्यापि शस्त्रग्रहणेऽधिकारोऽस्त्येव “शस्त्रं
द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते । नातता-
यिबधे दोषो हन्तुर्भवति कश्चन । प्रच्छन्नं वा
प्रकाशं वा मन्युस्त मन्युमृच्छति” इति शस्त्र
ग्रहणाभ्यनुज्ञानात् । परस्त्रिया सह सम्भषण
कर्तुर्दण्डमाह मनुः “परस्य पत्न्या पुरुषः संलापं
योजयेत् सूह । पूर्वमाक्षारितो दोषैः प्राप्नुयात् पूर्व-
साहसम्” इति । आक्षारितः अभिशस्तः । दोर्षः
नानास्त्युपमोगवाञ्छाभिः । पापबुद्ध्या यः सम्भाषणं
करोति तद्विषयमेतत् । अतएव “यस्त्वनाक्षारितः
पर्वमभिभाषेत कारणात् । न दोषं प्राप्नुयात् किञ्चिन्न
हि तस्य व्यतिक्रमः” इति । मनुवृहस्पत्युक्तपूर्वसाहस
मध्यमसाहसयोरुत्कृष्टसजातीयासम्भाषणादिविषयत्वेन
व्यवस्था परिकल्पनीया । परपुरुषेण सह पित्रादिभिः
र्निषिद्धं सम्भाषणं या करोति सा पणशतं दण्ड्या
परस्त्रिया सह पित्रादिभिर्निषिद्धसम्भाषणं यः पुरुषः
करोति पणशतद्वयं दण्डनीयः । द्वयोरपि निषिद्ध-
परस्परसम्भाषणादि कुर्वतोः सम्भोगे यो दण्डः स
एव दण्ड इत्याह याज्ञवल्क्यः “स्त्री निषेधे शतं ष्टद्याद्
द्विशतन्तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा सङ्
ग्रहणे तथा” इति । निषिध्यत इति निषेधः कर्भणि
हलश्चेति घञ् । चारणादिस्त्रीव्यतिरिक्तविपयमेतत्
“नैष चारणदरेर्षु विधिर्नात्मोपजीविषु । सज्जयन्ति
हि ते नारीर्निगूढाश्चारयन्ति च” इति मनुस्मरणात्
नटाः आत्मोपजीविनः वेशोपजीविनः । एतेषा दारषु
एष विधिन अभिभाषणादिनिमित्तकदण्डविधिर्न ।
परनरे नारीः स्वभार्य्याः सज्जयन्ति पुरुषान्तरे संयोजन्ति
प्रच्छन्नीकृत्य चारयन्ति वेत्यर्थः । माधारणस्त्रीगमने
दण्डमाह याज्ञवल्क्यः “अवरुद्वासु दासीषु भुजिष्यासु
तथैव च । गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकन्दमम्”
इति । स्वामिना या शुश्रूषार्थं गृहे एव स्थातव्य-
मित्येव पुरुषान्तरोपभागतो निरुद्धास्ताः अवरुद्धाः ।
पुरुषान्तरेणावरुध्य भुज्यमाना भुजजिष्याः या दास्यो
भुजिष्या अवरुद्धा वा तासु सर्वपुरुषगम्यास्वपि गमने
पञ्चाशत्पणं दण्ड्यः तामाम्परपरिगृहीतत्वेन परस्त्री-
तुल्यत्वात् । चशब्दाद्वेश्यास्वरिणीनामपि ग्रहणम् ।
तास्वपि सर्वपुरुषसाधारणीसु परपरिगृहीतासु गमने-
ऽयमेव दण्ड इति मन्तव्यम् एतदवाभिप्रेत्याह नारदो-
ऽपि “स्वैरिण्डब्राह्मणी वेश्या दासौ निष्कासिनी च
या । गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ।
आस्वेव तु भुजिष्यासु दोषः म्यात्पादारवत् । गम्या-
स्वपि हि नोपेयाद्यत्ताः परपरिग्रहाः” इति । अब्राह्म-
णीति स्वैरिण्यापिशेषणम् । स्वैरिणी स्वतन्त्रा पुंश्चली ।
निष्कासिनी कुटुम्बान्निर्गतेति मदनरत्ने । स्वाम्यनवरुद्धा
दासीति विज्ञानेश्वरमाधवाचार्य्यप्रभृतयः । भुजिष्या
स्वा स्वेति सम्बन्धः । व्यासोऽपि “परोपरुद्धागमने पञ्चा-
शत्पणिको दमः । प्रस्ह्य वेश्यागमने दण्डो दशपणः
स्मृतः” इति । प्रमह्य वेतनदानं विना अत्रानवरु-
द्धासु पेश्यादिपु गम्यत्वाभिधानन्न पापाभावप्रतिपाद-
नार्थं किन्तु राजदण्डाभावप्रतिपादनार्थम् । “पशु-
वेथ्यादिसमने प्राजापत्यं विधीयते” इत्यादिवचनैः प्राय-
थित्तस्यरणात् । बलात्कारेण अनवरुद्धदास्यभिगमने दण्ड-
माह याज्ञवल्क्यः “प्रसह्य दास्यभिगमे दण्डो
दशपसः स्मृतः । वहूनां यद्यकामासौ चतुर्विंशतिकः
पुथक्” इति । पुरुषसम्भोगजीविकासु दासीषु स्वैरि-
ण्यादिषु शुल्कदानमन्तरेण वलात्कारेणामिगच्छतो
दशपणो दण्डः । यद्यनिच्छन्तीमेकाम्बलात्कारेण बहवो
गवर्वान्त तर्हि प्रत्येकं चतुर्विशतिपणात्मको दण्ड
इत्त्यर्थः । यदि पुनः सा स्वेच्छया भाटकं गृहीत्वा
पश्चान्नेच्छति तदा बलाद्व्रजतामपि बहूनामदोषः यदि
पृष्ठ ५३५१
तस्या व्याध्याद्यभिभवो न भवेत् । अतएव नारदः
“व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा ।
आमन्त्रिता चेन्नागच्छेददण्ड्या बड़वा स्मृता” इति । पारदार्य
प्रसङ्गात् कन्यायामपि दण्डमाह याज्ञवल्क्यः
“अलङ्कृतां हरन् कन्यामुत्तमं त्वन्यथाऽधमम् । दण्डं
दद्यात् सवर्णासु प्रतिलोम्ये बधः स्मृतः” इति ।
अलङ्कृतां विवाहाभिमुखीं तां सवर्णां कन्यामपहरन् उत्तम
साहसं दण्डनीयः । तदनभिमुखीं हरन् प्रथमसाह
सम् । उत्कृष्टवर्णजातां हरतः क्षत्रियादेबध इत्यर्थः ।
आनुलोम्येन--सकामाहरणे न दण्डस्तथा च स
एव “सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः” इति ।
कन्यादूषणे दण्डमाह स एव “दूषणे तु करच्छेद उत्त-
मायां बधः स्मृतः । शतं स्त्रीदूषणे दद्यात् द्वे तु मिथ्या-
भिशंसने” इति । “पशून् गच्छन् शतं दाप्यो हीनां
स्त्रीङ्गाञ्च मध्यमम्” इति । यद्यकामां कन्यान्नखक्षता-
दिना प्रसह्य दूषयति तदा करच्छेदः । यदा तु अङ्गुलि
प्रक्षेपेण तामेव योनिक्षतां कुर्वन् दूषयति तदा विशेष-
माह मनुः “अभिषह्य तु यः कन्यां कुर्य्याद्दर्पेण
मानवः । तस्याशु कर्त्त्ये अङ्गुल्यौ दण्डञ्चार्हति षट्
शतम” इति । सकामदूषणेऽप्याह स एव “सकामां
दूषयन् कन्यां नाङ्गुलिच्छेदमर्हति । द्विशतं तु दमं
दाप्यः प्रसङ्गविनिवृत्तये” इति । यदा कन्या विदग्धा
वा कन्यां दूषयति तदाप्याह स एव “कन्यैव कन्यां
या कुर्य्यात्तस्यास्तु द्विशतो दमः । या तु कन्यां प्रकुर्य्यात्
स्त्री सा सद्यो मौण्ड्यभर्हति । अङ्गुल्योरेव वा छेदः
खरेणोद्वहनन्तथा” इति कुर्य्यात् योनिक्षतवतीमिति
शेषः । यदा पुनरुत्कृष्टजातीयां कन्यां सकामामकामां
वाभिगच्छति तदा हीनस्य क्षत्रियादेर्बधः । यदा सकामां
सवर्णामभिगच्छति तदा शुल्कं गोमिथुनं तत्पित्रे
दद्यात् । अनिच्छति तस्मिन् दण्डरूपेण राज्ञे दद्यात् ।
सवर्णामकामाङ्गच्छतो बध एव । तदाह मनुः “उत्तमां
सवमानस्तु जघन्योबर्धमर्हति । शुल्कं दद्यात् सवमानः
समामिच्छेत् पिता यदि । योऽकामां दूषयेत् कन्यां स सद्यो
वधमर्हति । सकामां दूषयं स्तुल्यो न बधं प्राप्नुयान्नरः”
इति । चाण्डाल्यादिगमने दण्डमाह याज्ञवल्क्यः
“अन्त्याभिगमने त्वङ्क्यं कुबर्णेन प्रवासयेत् । शूद्रस्तथान्त्य
पव स्यादन्त्यस्यार्यागमे बधः” इति । अन्त्या
चाण्डाली तद्गमने त्रबर्णिकान् प्रायश्चित्तानभिमुखान्
“सहस्रं त्रन्त्यौ । १ यमिति” मनुवचनानुसारेण
पणसहस्रं दण्डयित्वा कुत्सितवर्णेने भागाकारेणाङ्कयित्वा
स्वराष्ट्रान्निर्वासयेत् शूद्रः पुनश्चाण्डालीङ्गच्छश्चण्डाल
एव । अङ्क्य एवेति माधवीये पाठः । चाण्डालस्य तूत्-
कृष्टजातिस्त्र्याभिगमने बध एवेत्यर्थः । योनिव्यतिरिक्त
स्थले गच्छतो दण्डमाह स एव “अयोनौ गच्छतो
योषां पुरुषं वाऽभिमेहतः । चतुर्विंशतिको दण्डस्तथा
प्रव्रजितागमे” इति । यस्तु योषां मुखादावभिगच्छति
पुरुषं वभिमुखं मेहति तथा प्रव्रजतां वा गच्चहति
असौ चतुर्विंशतिपणा दण्डनीय इत्यर्थः । स्त्रीकृते
संग्रहणे दण्डमाह वृहस्पतिः “गृहमागत्य या नारी
प्रलोभ्य स्पर्शनादिना । कामयेत् तत्र सा दण्ड्या
नरस्यार्द्धदमः स्मृत” इति वचसा स्त्रियं प्रलोभ्य गच्छतः
पुरुषस्य यो दण्डस्तदर्द्धं दण्ड्या” ।

स्त्रीसभ । न० स्त्रीणां समा क्लीवत्वम् । स्त्रीसमाजे ।

स्त्रीसेवा स्त्री ६ त० । स्त्रीसम्भोगे व्यवायमधर्मेण नारोसेवने

स्त्रीस्वभाव पु० स्त्रिया इव खभावो यस्य । १ अन्तःपुररक्षके

महल्लके शब्दमा० ६ त० । २ स्त्रीणां शीले च । स्त्रीपुं-
धर्मशब्दे दृश्यम् ।

स्त्रैण न० स्त्रिया इदम् अण् नञ् । १ स्त्रीस्वभावे “स्त्रैणेन

नीता विकृतिं लघिम्ना” भट्टिः । २ स्त्रीविधेये स्त्रिया
अपत्यं स्त्रीणां समूहो वा अण् । २ स्त्र्यपत्ये स्त्री-
समूहे न० ।

स्थ त्रि० स्था--कृ । १ स्थितिशीले प्रायेण उत्तरपदस्थित एवाथ

प्रयुज्यते यथा पदस्थः मार्गस्थः । २ स्थले पु० शब्दर० ।

स्थग संवरणे भ्वा० पर० सक० सेट् घटा० सिचि न व्र्द्धिः ।

स्थगति अस्थगीत् । अषोपदेशत्वमस्य चिन्त्यमूलम् ।

स्थग त्रि० स्थग--अच् । धूर्त्ते शब्दर० ।

स्थगन न० स्थग-ल्युट् । आच्छादने हेमच० ।

स्थगित त्रि० स्थग-क्त । १ आवृते २ तिरोहिते हेमच ।

स्थगी स्त्वी स्थग्यतेऽनया घञर्थे क गौरा० ङीष् । ताम्बूल-

पात्रे करङ्गे हेमच० ।

स्थगु न० स्थग--उन् । गड़ौ (कुज) “तदेव स्थगु यद्दीर्घं

रथघोणमिवायतम् । लब्धार्था च प्रतीता च लेपयिष्यामि-
ते स्थगु” रामा० बा० ९ अ० ।

स्थण्डिल न० स्थल--इलच् नुक् लस्य डः । १ चत्वरे उन्नत्यव-

नतिशून्ये समीकृते प्रदेशे अमरः । “निषेदुषी स्थण्डिल
एव केवले” कुमारः । २ यज्ञार्थं परिष्कृतस्थाने शब्दर०
पृष्ठ ५३५२
३ होमार्थे कुण्डप्रतिनिधित्वेन वालुकादिभिः कर्त्तव्ये
मण्डलभेदे च “नित्यं नेमित्तिकं कर्म स्थण्डिले वा
समाचरेत् । हस्तमात्रं तु तत् कुर्य्यात् बालुकाभिः
समन्ततः” शा० ति० । “अथ वापि मृदा सुवर्णभासा
करमात्रं चतुरङ्गुलोच्चमल्पे । हवने विदधीत वाङ्गुलोच्चं
विबुधः स्थण्डिलमेववेदकोणम् कुण्डोद्द्यातः । अथ वाकुण्ड
करणाशक्तौ । तन्त्रान्तरे च “मृदा सुवर्णभासा वासूक्ष्म
बालुकयाऽपि वा । अङ्गुलोन्नतया वेदाङ्गुलोच्चं स्थण्डिलं
विदुः । चतुःकोणमुदक्प्राचोप्लवमल्पाहुतौ शुभम् ।
पञ्चाङ्गुलोच्चमथ वा रम्यं त्र्यङ्गुलमुन्नतम् । तस्मात् सम्यक्
परीक्ष्यैव कर्त्तव्यं शुभवेदिकम् । हस्तमात्रं स्थण्डिलं
वा संक्षिप्ते होमकर्मणि” । वसिष्ठः “कुण्डमेवंविघं न
स्यात् स्थण्डिलं वा समाश्रयेत्” क्रियासारे । तत्करण-
प्रकारादि सं० त० दृश्यम् ।

स्थण्डिलशायिन् पु० स्थण्डिले चत्वरे शेते व्रतवशात्

शीणिनि । व्रतार्थं चत्वरे शयितरि अमरः । “स्थण्डिल-
शायिनश्च” भट्टिः ।

स्थण्डिलेशय पु० स्थण्डिले शेते अच अलुक्समा० । व्रतार्थं चत्वरे शयितरि शब्दर० ।

स्थपति पु० स्था--क तस्य पतिः । १ कञ्चुकिनि मेदि० २ शिल्पि-

भेदे (छुतार) अमरः ३ कुवेरे अजयः ४ अधीशे ५
वृहस्पातिसवनामकयागकर्त्तरि च अमरः । ६ सत्तमे त्रि० मेदि०
तत्र अधीशपरत्वे “निषादस्थपतिर्गावेधुकेऽधिकृतः”
कात्या० श्रौ० १ । १ । १२ “निषादर्स्थपतिर्गावेधुके चरावधि-
कृतः अधिकारी भवति” । एवं हि श्रूयते “यस्य रुद्रः
प्रजाः शमयेत्स वास्तुमध्ये रौद्रं गावेधुकम् चरुं निर्व-
पेत्” इत्येतामिष्टिं प्रक्रम्य श्रुतम् “एतया निषादस्थपतिं
याजयेदिति” निषादस्थपतिर्यजतेत्यर्थः । तत्रायं सन्देहः
किमत्र षष्ठीसमासः निषादस्य स्थपतिर्निषादस्थपतिरिति
निषादश्चासौ स्थपतिश्च निषादस्थपतिरिति कर्मधारयो
वा । तत्र यदि षष्ठीसमासः तदा यो द्विजातिरेव
विद्वान्निषादानामाधिपत्यं करोति तस्यात्राधिकारः यदि
च कमधारयः तदा निषाद एव यः स्थपतिस्तस्यात्राधि-
कार इति । तत्र त्रैवर्णिकस्यैव समर्थत्वाद्विद्वात्त्वादग्नि-
मत्त्वाच्चात्राधिकारो युज्यते अन्तजातीयस्य निषादस्या-
विद्वत्त्वेनानग्निमत्त्वेन चासमर्थत्वात्, तस्मात् षष्ठीसमास
एवायमिति पूर्वपक्षः । सिद्धान्तस्तु कर्मधारयोऽयम्
निषादसायं स्थपतिश्चेति कुतः? षष्ठीसमासपक्षे निषाद-
पद लक्षणाप्रसक्तेः न ह्यत्र षष्ठी श्रूयते यतः सम्बन्धः
प्रतोयेत । अतो निषादपदेनैव षष्ठ्यर्थो लक्षणीयः
इतरस्मिंस्तु पक्षे द्वयोरपि पदयोर्मुख्यार्थतैव न लक्षणा
तस्मान्निषाद एव स्थपतिरत्राधिकारी श्रुतिबलात्
अविद्वाननग्निमानपीति सिद्धम् । अपि चात्र निषादद्रव्यं
दक्षिणा श्रूयेत कूटं दक्षिणा काणो वा गर्दभ इति कूटं
हि निषादानामेवोपकारकम् नार्याणामिति” कक० ।
वृहस्पतिसवकर्त्तरि तु “स्थपतिरित्येनं ब्रूयुः” कात्या०
श्रौ० २२ । ५ । २८ सू० । “सराजानो ब्राह्मणा यं पुरस्कु-
र्वीरन् एतेन यजेत” “वृहस्पतिसवेन” सू० । राज्ञा सहित
ब्राह्मणायं ब्राह्मणं धर्मस्थापकत्वेन चाङ्गीकुर्वीरन् “एतेन
स एतेन यजेत वृहस्पतिसवेन्” स० व्या० । वृहस्पतिसवकर्तृ
वत् ६ गोसवकर्त्तर्य्यपि यथोक्तं “स्थपतिरित्येनं व्रूयुः”
कात्या० श्रो० २२ । ११ । ११ सू० । “गोसवयाजिनं जनाः” ।
राज्ञा सहिता विशः प्रजाः सर्बे पुरुषा यं पुरस्कर्वीरन्
(मुख्यत्वेनाङ्गीकुर्वीरन्” स गोसवेन यजेत २२ । ११ । ८ कर्क०
“कारुभेदस्य लक्षणं यथा “वास्तुविद्याविधानज्ञो
लघुहस्तो जितश्रम । दीर्घदर्शी च शूरश्च स्थपतिः
परिकीर्त्तितः” ।

स्थपुट त्रि० तिष्ठति स्था--क स्थं पुटं यत्र । १ विषमोन्नत-

प्रदेशे हेमच० । “स्थपुटगतमपि क्रव्यमव्यग्रमत्तीति”
मालतीमा० । २ विषमस्थाने--सञ्चारिणि--जीवे पु० त्रिका० ।

स्थल स्थाने भ्वा० पर० अक० सेट् ज्वला० । स्थलति अस्था-

लीत् । ष्ठलधातुनैवायं गतार्थ इत्यन्ये ।

स्थल न० स्त्री० स्थल--अच् । जलशून्ये अकृत्रिमे मूभागे अमरः

स्त्रीत्वपक्षे ङीप् । “वनस्थलीर्मर्मरपत्त्रमोक्षः” कुमारः ।
२ कृत्रिमाकृत्रिमप्रदेशमात्रे ३ कृत्रिमभूभागे तु न० ।

स्थलकन्द पु० स्थलजः कन्दः । (वनओल) अग्राम्यकन्दे रत्नमा०

स्थलकमल न० स्थलजातं कमलम् । स्थलपद्मे भावप्र० ।

स्थलकुमुद पु० स्थले कुमुदमस्त्यस्य सादृश्येन अच् । करवीरे

राजनि० ।

स्थलपद्म न० स्थलजात पद्म शाक० । स्वनामख्याते पुष्प-

प्रधानवृक्षे त्रि० स्थलजं पद्ममिव । २ सानके पु० रत्नमा०

स्थलपद्मिनी स्त्री स्थलपद्मानां समूहः तेषां सन्निकृष्टदेशो

वा इनि ङीप् । १ स्थलपद्मसमूहे २ तद्युक्तवृक्षे च ।
“ददर्श दूनः स्थलपद्मिनीं नलः” नैष० ।

स्थलमञ्जरी स्त्री स्थलस्य मञ्जरीव । अपामार्गे रत्नमा० ।

स्थलशृङ्गाट पु० स्थलजातः शृङ्गाटः शाक० । १ गोक्षुरे रत्नमा०

तस्य कण्टकावृतत्वात तथात्वम् ।
पृष्ठ ५३५३

स्थलेरुहा स्त्री स्थले रोहति रुह--क अलुक्स० । १

घृतकुमार्य्याम् २ दग्धावृक्षे च राजनि० ।

स्थलेशय पु० स्थले शेते शी--अच् अलुक्स० । वराहरुरु-

प्रभृतौ पशौ राजनि० । २ स्थलशायिनि त्रि० ।

स्थवि पु० स्था क्वि येर्नेत्त्व । १ तन्तुवाये उज्ज्वलद० । २ स्वर्गे

३ जङ्गमे च संक्षिप्त० ।

स्थविर न० स्था--किरच् स्थवादेशः । १ शैलेये गन्धद्रव्ये

राजनि० २ चतुर्मुख ब्रह्माण पु० हेमच० । ३ अचले
४ स्थिरे त्रि० उणा० ५ वृद्धे च त्रि० अमरः । ५
महाश्रावगयां स्त्री राजनि० ।

स्थविष्ठ त्रि० अतिशयेन स्थूलः इष्ठन् ललोपे गुणः । अतिवृद्धे

अमरः । इयसुन् स्थवीयानपि अर्विवृद्धे त्रि० स्त्रियां ङीप् ।

स्थाणु पु० स्था नु पषो० णत्वम् । १ शिवे २ शाखाशून्यवृक्षे

च अमरः ३ आयुधभेदे पु० नीलक० । ४ वृद्धे त्रि० धरणिः
शिवस्य स्थाणुशब्दवाच्यत्वे कारणमुक्तं वामनपु० ४६ अ० ।
यथा “समुत्तिष्ठन् जलात्तस्मात् प्रजास्ताः सृष्टवानहम् ।
ततोऽहं ताः प्रजा दृष्ट्वा रहिता एव तेजसा । क्रोधेन
महता युक्तो लिङ्गमुत्पाट्य चाक्षिपम् । उत्क्षिप्तं
सरसो मध्ये ऊर्द्ध्वमेव यदा स्थितम् । तदाप्रभृति लोकेषु
स्थाणुरित्येव विश्रुतम्” ।

स्थाणुतीर्थ न० शैवे तीर्थभेदे वामनपु० १३ अ० ।

स्थाण्डिल पु० स्थण्डिले शयिताऽण् । व्रतार्थं स्थण्डिले

शयितरि अमरः ।

स्थाण्वाश्रम पुंन० ६ त० । हिमाचलस्थिते शिवस्य तपश्चरणा-

श्रमभेदे “स्थाण्वाश्रमं हैमवतं जगाम” कुमारः ।

स्थाण्वीश्वर पु० शिवलिङ्गभेदे “स्थाणुर्नाम्ना हि लोकेषु

पूजनीयो दिवौकसाम् । स्थाणावीशः स्थितो यस्मात् स्था-
ण्वीश्वरस्ततः स्मृतः” वामने ४२ अ० तन्माहात्म्यादिकम् ।
तत्र दृश्यम् ।

स्थान न० स्था--ल्युट् । १ स्थितौ २ सादृश्ये ३ अवकाशे मेदि०

४ सन्निबेशे ५ वसतौ हेअम्च० ६ ग्रन्थसन्धौ त्रिका० ७ भाजने
हला० ८ निकटे ९ व्याकरणोक्ते प्रसङ्ग आदिश्यमानस्य
यणादेः कारणभूते इगादौ । १० नीतिवेदिनामुपचयाप-
चयहीने साम्यावस्थाने च अमरः । उपचयापचयौ च
अष्टवर्गशब्दोक्तस्य कृष्यादेरेव भरतः । बसभिश्च लोकभेदः ।
सम्यग्वात्त नां स्वस्वधर्मानुष्ठायिनां जनानां लोकविशेषा-
त्मकं स्थानञ्च अग्निपु उक्तं यथा “प्राजापत्यं ब्राह्मणानां
स्मृतं स्थानं क्रियावताम् । क्षत्रिवाणां तथा चैन्द्रं
संग्रामेष्वनुवर्त्तिनाम् । गान्धर्वं शूद्रजातीनां
परिचर्य्यानुकारिणाम् । अष्टाशीतिसहस्राणां यतीनामूर्द्ध्व-
रेतसाम् । स्मृत तेषान्तु यत् स्थानं तदेव गुरुवासिनाम् ।
सप्तर्षीणान्तु यत् स्थानं स्मृतं तद्वत् वनौकसाम् । प्राजा-
पत्यं गृहस्थानां गृहधर्मानुवर्त्तिनाम् । न्यासिनान्तु
परं ब्रह्म योगिनाममृतं स्मृतम् । एकान्तवादिनां ब्रह्म-
ध्यायिनां परमं पदम् । तामस्रमन्धतामिस्रमहारौरव
रौरवम् । असिपत्रवनं घोरं कालपत्रमरीचिमत् ।
वेदस्य निन्दकानान्तु यज्ञव्याघातकारिणाम् । स्थान-
मेतत् समाख्यातं स्वधर्मविनिवर्त्तिनाम्” श्रुतिलिङ्गाधि-
करणोक्ते ११ क्रमे मीमां० । “स्थानं क्रमो योगबलं
समाख्या पार्थसारथिः । १२ ज्ञापके निग्रहस्थानमित्यादि ।

स्थानक न० स्वार्थ क । १ स्थानशब्दार्थे । स्थाने कं जलमत्र ।

२ आलवाले हेमच० ।

स्थानचञ्चला स्त्री स्थाने स्थितावपि चञ्चला । १ वर्वरीवृक्षे

शब्देच० । अल्पवातेन चञ्चलत्वात्तस्यास्तथात्वम् ।

स्थानच्युत त्रि० स्थानात् स्वस्थानात् च्युतः । पदच्युते “स्थान-

स्थितस्य पद्मस्य सित्रे वरुणभास्करौ । स्थानच्युतस्य तस्यैव
क्लेदशोषणकारकौ” गरुड़पु० ११५ अ० । स्थानभ्रष्टा-
दयोऽप्यत्र । “स्थानस्थिताश्च पूज्यन्ते पूज्यन्ते च
पदस्थिताः । स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः”
गरुड़पु० ११५ अ० ।

स्थानाध्यक्ष त्रि० स्थाने अध्यक्षः । स्थानरक्षके हेमच० ।

स्थानिक त्रि० स्थानेऽधिकृतः ठक् । स्थानाध्यक्षे हेमच० ।

स्थानिन् त्रि० स्थानमस्यास्ति रक्ष्यत्वेन इनि । १ स्थानरक्षके

स्थानं प्रसङ्गः अस्त्यर्थे इनि । व्याकरणाक्ते आदिश्य-
मानस्य यणादेः कारणे इगादो “स्थानिवदादेशोऽनल्वि-
धाविति” पाणिनिः ।

स्थानीय न० स्थीयतेऽस्मिन् स्था--आधारे अनीयर् । १ नगरे

अमरः । स्थानं सादृश्यं वासं वाऽर्हति स्थानस्येदम् वा
छ । २ वासयोग्ये देशे ३ सदृशे ४ स्थानसम्बन्धिनि च त्रि० ।

स्थाने अव्य० स्था--ने । १ योग्यत्वे २ औचित्ये च “स्थाने

भवानेकनराधिपः सन्निति” रघुः । ३ सत्ये ४ सादृश्ये
५ करणार्थे च शब्दर० ।

स्थापत्य पु० स्थपतिरेव स्वार्थे ष्यञ् । १ चन्तःपुररक्षक कञ्चु-

किप्रभृतौ अमरः । तस्य भावः ष्यञ् । २ स्थपतिधर्म न०

स्थापक त्रि० स्थापयति स्था--णिच्--पुक् ण्वुल् । यथाव-

स्थानमुचितं तथा निवेशके । स्थितिस्थापकः ।
पृष्ठ ५३५४

स्थापनं न० स्था--णिच्--पुक् ल्युट् । १ आरोपणे २ पुंसवनाख्ये

गर्भसंस्कारे च मेदि० । ३ समाधौ । युच । स्थापनाप्यत्र
स्त्री सा च निवेशने वादे भावपक्षस्य प्रमाणादिना
व्यवस्थापने च ।

स्थापनी स्त्री स्थाप्यतेऽनया स्था--णिच्--पुक् करणे ल्युट् ङीप् । पाठायाम् अमरः ।

स्थापित त्रि० स्था--णिच्--पुक् क्त । १ निश्चिते २ निवेशिते

३ न्यस्ते च मेदि० ।

स्थामन् न० स्थ--मनिन् । १ सामर्थ्ये अमरः २ बले च ।

स्थायिन् त्रि० स्था--णिनि । १ स्थितिशीले अलङ्कारोक्ते

रसानुकूले रत्यादिभावे पु० । “विभावेनानुभावेन व्यक्तः
सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः
सचेतसाम्” “अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः
आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति सम्मतः” ।
“रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽषि च” सा० द० ।
एते च क्रमेण शृङ्गारादीनां स्थायिभावाः ।

स्थायुक त्रि० स्था--उकञ् । १ स्थितिशीले २ एकग्रामाधिकृते पु० अमरः ।

स्थाल न० स्थलति तिष्ठत्यन्नाद्यत्र आधारे घञ् । (थाल)

१ अन्नपात्रभेदे । २ पाकपात्रे (हाँड़ि) स्त्री अमरः
गौरा० ङीष् ।

स्थालीपाक पु० स्थाल्यां पाकः । गव्यदुग्धेन स्थाल्यां कृते

१ पाकभेदे । स्थाल्यां पच्यतेऽसौ पच--कर्मणि घञ्
२ चरौ तत्पाकप्रकारः चरुशब्दे दिङमात्रमुक्तः गोभि-
लोक्तप्रकारः सं० त० दर्शितो यथा
तत्र गोभिलः “अथोदूखलमुषले प्रक्षाल्य सूर्पञ्च पश्चा-
दग्नेः प्रागग्रान् कुशानास्तीर्य्य उपसादयुति अथ
हविर्निर्वपेदिति । ब्रीहीन् यवान् वा कांस्येन
चरुस्थाल्या वा अमुष्मै त्वा युष्टं निर्वपामीति देवतानामो-
द्देशः सकृद्यजुषा द्विस्तूष्णीम् अथ पश्चादवहन्तुमुपक्रमते
दक्षिणोत्तराभ्यां पाणिभ्यां त्रिःफलीकृतांस्तण्डुलां
स्त्रिर्देवताभ्यः प्रक्षालयेत् द्विर्मनुष्येभ्यः सकृत पितृभ्य
इति । “पवित्रान्तर्हितांस्तण्डुलानावपेत् कुशलशृतमिव
स्थालीपाकं स्थापयेत् प्रदक्षिणमुदायुवन् शृतमभिघार्य्य
उष्टगुद्वास्य प्रत्यभिघारयेदिति” सू० । अस्यार्थः उपसादयति
स्थापयति देवतानामोद्देशं देवतानामोच्चारणं यथा
स्यात्तथा अमुष्मै त्वा जुष्ट निर्वपामीत्यनेन उदूखलोपरि
व्रीह्यादीन् कांस्यादिना सकृन्निर्वपेत् । अत्रामुष्मा इत्यत्र
चतुर्थ्यन्तनामोच्चारणम् । अतएव कात्यायनः “असा-
विति नाम गृह्नाति” । नारायणीयेऽपि “अदः पदं
हि यद्रूपं यत्र मन्त्रे हि दृश्यते । साध्याभिधान
तद्रूपं तत्र स्थाने नियोजयेत्” । अतोऽदः पद एव
नामोहो नतु विरूपाक्षजपादाविदमित्यादौ । एवञ्चा-
ग्नये त्वा जुष्टं निर्वपामीति सामगानाम् यजुःप्रयोगो
गोभिले निर्वापमात्रश्रुतेः यजुर्वेदिकसमन्त्रकग्रहणप्रोक्षणे
सामगेन न कार्य्ये । यजुःपरिभाषामाह जैलिनिः “शेषे
यजुःशब्दः इति । शेषे मन्त्रभिन्ने मन्त्रजाते । ततश्च
यन्मन्त्रजातं प्रश्लिष्टपठितं गानपादभेदरहित तद्यजुरिति ।
बहुदैवत्ये च बहुदेवतानामभिः प्रत्येकं निर्वापः ।
अन्ननिर्वापो मन्त्रेणैव होमोऽपि पृथक् । निर्वापपरि-
माणन्तु होमसंख्याविशेषस्थित्यनुसारेणेत्याह छन्दोगपरि-
शिष्टम् “देवतासंख्ययागृह्य निर्वापांश्च पृथक् कृथक् ।
तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक् पृथक् । यावता
होमनिर्वृत्तिर्भवेद् वा यत्र कीर्त्तिता । शेषञ्चैव भवेत्
किञ्चित्तावन्तं निर्वपेच्चरुम्” । यद्यपि देवतासंख्ययेति
वचनं चरुसमशनीययोः इत्युपक्रम्य पठितं तथाप्या-
ङ्क्षायालाघवेन चरुसामान्यपरमिति । चरुविधौ तु
विद्याकरवाजपेयी “यत्र प्रयोजनामावनिश्चयस्तत्रैव
तदुपादानादिलोपः । यत्रानुष्ठानवेलायामेव पुरुषदोषेण
प्रयोजनाभावो ज्ञायते तदा प्राक् तन्निश्चयात् शास्त्र-
प्रापितः पदार्थो नियमापूर्वमात्रार्थमनुष्ठेय” इति । अतएव
यदा त्वालस्यादिना व्रीह्यादिस्थाने तण्डुला गृहीताः
तदापि अवघातादि समाचारन्ति याज्ञिकाः पठन्ति च ।
“घाते न्यूने तथा छिन्ने सान्नाय्ये मान्त्रिके तथा । यज्ञे
मन्त्राः प्रयोक्तव्यामन्त्रायज्ञार्थसाधकाः” । मान्त्रिके मन्त्र-
साध्ये अवघातादौ । न्यूने तत्काले मन्त्रपाठाभावेऽपि
यज्ञकाले मन्त्राः पाठ्याः । अस्मिंस्तु मन्त्रार्थज्ञानस्य्
नास्त्युपयोगः । चरुस्थालीयपरिमाणमाह छन्दोगपरि-
शिष्टम् । “तिर्य्यगूर्द्ध्वसमिन्मात्रा दृढ़ा नातिवृहन्मुखी ।
मृण्मय्यौडुम्बरी वापि चरुस्थाली प्रशस्यते” । गर्भप्रस्तार
दीर्घाभ्यां प्रादेशप्रमाणा चरुस्थाली औडुम्बरी ताम्रमती
एषा पायसचरावपि न निषिद्धा “पयोनुद्धृतसारञ्च ताम्र-
पात्रे न दुष्यति” स्मृतिसागरधृतवचनाच्च । अतएव
शारदातिलके “ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् ।
मन्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके” । दक्षिणो-
त्तराभ्यामिति दक्षिण उत्तर उपरि ययोः पाण्यो-
स्ताभ्यां मुपलं गृहीत्वा इति शेष । त्रि । फलीकृतान्
पृष्ठ ५३५५
त्रिधा वितुषीकृतान् कण्डनप्रस्फोटनाभ्यामिति शेषः ।
पवित्रान्तर्हितान् पवित्रम् अन्तार्हतं व्यवहितं येषां तान् ।
तेन चरुस्थाल्यामुत्तराग्रं पवित्रं निःक्षिप्य तण्डुलान्
निक्षिपेत् । कुशलशृतमिवेति कुशलेन पाकनिपुणेन शृतं
यथा न दग्धं नातिक्लिन्नं न मन्दपक्वं यथा स्यात्तथा
स्थालीपाकं श्रपयेत् । अतएव छन्दोगपरिशिष्टम् ।
“स्वंशाखोक्त्या चरुः स्विन्नोह्यदग्धोऽकठिनः शुभः ।
न चातिशिथिलः पाको न च वीतरसो भवेत्” ।
वीतरसोगालितमण्डः । प्रदक्षिणमुदायुवान्नति प्रद-
क्षिणावर्त्तं यथा स्यात्तथा मेक्षणेन ऊर्द्ध्वमीषन्मिश्रयन् ।
यु मिश्रणे इत्यस्य रूपमेतत् । शृतमित्यभिघार्य्येति
स्फुटितम् । चरुमाज्यस्रवेणाप्लाव्य उदगग्नेरुत्तरस्याम्
उत्तार्य्य प्रत्यभिघारयेत् पुनर्घृतेन तथा सेचयेत् । वृषोत्-
सर्गे तु अभिघारणद्वयात् पूर्वं ज्वलदङ्गारेण विद्योतन-
द्वयमाह छन्दोगपरिशिष्टम् “अधिशृतमवद्योत्य सुशृत-
ञ्चाभिघारयेत् । घृतेन सेचयेत् पश्चात् पुनरेवाभिथार-
येत्” । मेक्षणादीन्याह छन्दोगपरिशिष्टम् “इध्म
जातीयमिध्मार्द्धपमाणं मेक्षणं भवेत् । वृत्तं वार्क्षञ्च
पृथ्वग्रमवदानक्रियाक्षमम्” । इध्मार्द्धप्रमाणं प्रादेशद्वय-
मिध्मस्य प्रमाणं परिकल्पितमिति तदर्द्धम् एषैव दर्वी
विशेषस्तु महास्रुवे । “दर्वीद्व्यङ्गुलपृथ्वग्रा तुरीयेण
तु मेक्षणम् । मुषलोदूखले वार्क्षे स्वायते सुदृढ़े तथा ।
इच्छाप्रमाणे भवतः सूर्पं वैणवमेव च” । अत्र तिर्य्य-
गूर्द्ध्वेत्यादि वैणवमेब चेत्यन्तेन चर्वङ्गमभिधाय भूमिजप-
परिममूहनहस्तविन्यासं कुर्य्यादित्युक्तम्” ।
स्थाल्यां पाकपात्रे पाकः पच्यमानः । ३ पाकभाजने पच्य-
माने । चातुर्षाव्यादौ तत्त्यागे फलं ति० त० दर्शितं
“लभते सन्तति दीर्घां स्थालीपाकमभक्षयन्” ।

स्थालीपुलाक पु० स्थालीस्थाः पुलाकास्तण्डुलाः सन्त्यत्र

एकधर्मतोन्नायकत्वेन अच् । मीमांसकोक्ते “स्थली-
स्थास्तण्ड ला एते सर्वे विकॢत्तिभागेनः । समकाला-
ग्निसंयोगभागित्वात् प्रतिपन्नवत्” इत्यनुमानकल्थके न्याय-
भेदे यथा एकस्य पाकदर्शनेन अन्येषां पाकज्ञानम् एवं
एकरूपाणां सर्वेषामेकधर्माक्रान्तत्वमित्येवंरूपोद्भावनम् ।

स्थालीबिल न० ६ त० । स्थालीस्थे शून्यभागे तदर्हति छ

यत् वा । स्थालीबिलीय (ल्य) तण्डुलादौ त्रि० सि० कौ०

स्थालीवृक्ष पु० स्थाल्यै--वृक्षः । १ अश्वत्थाकारे स्थालीनर्माण

साधने २ वृक्षभेदे । “स्थालीवृक्षो लघुः स्वादुस्तुवरस्तिक्त
उष्णकः । कटुपाकरसः ग्राही विषपित्तकफापहृत्” भावप्र०

स्थावर त्रि० स्था--वरच । १ अचञ्चले २ स्थिर वृक्षादौ व्यादौ

च अमरः । “स्थावरं जङ्गमञ्चैव यद्यपि स्वयमाजतम्”
स्मृतिः । ३ पर्वते पु० ४ धनुर्गुणे न० त्रिका । स्थाकरसर्गश्च
षड्विधः सर्गशब्दे ५२५० पृ० दृश्यः । ख्यावरभमं च
सन्निकृष्टे क्रेतरि सति असन्निकृष्टाय न विक्रेयं यथोक्तं
महानिर्वा० १२ प० “स्थावरं धनमन्यस्मै स्थिते सान्निध्य-
वर्त्तिनि । योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावरा-
धिपः । सान्निध्यवर्त्तिनां जातिः सवर्णो वा विद्वेष्यते ।
तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी । निर्णीत-
मूल्ये पण्येन स्थावरस्य क्रयोद्यमे । तन्मूल्यञ्चेत्
सनीपस्थो राति क्रेता न चापरः । मूल्यं दातुमशक्तश्चेत्
सम्मतो विक्रयेऽपि वा । सन्निधिस्थस्तदान्यस्मै गृही
शक्नोति विक्रये । क्रीतञ्चेत् स्थावरं देवि! परोक्षे प्रति-
वासिनः । श्रवणादेव तनूल्यं दत्त्वाऽसौ प्राप्तुमर्हति ।
क्रेता तत्र गृहारामान् विनिर्माति भुनक्ति वा । मूल्यं
दत्त्वाऽपि नाप्नोति स्थावरं सन्निधिस्थितः । “स्थावरे
विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया” स्मृतिः । स्थावरस्य
केवलविक्रयनिषेधात् विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकं
दत्त्वा दानरूपेण विक्रयः कर्त्तव्य इति” मिता० ।
“एकोऽपि स्थावरे कुर्य्यात् दानाधमनविपयम् नापतकाले
कुदुम्बार्थ धर्मार्थे च विशेषतः” स्मृतिः । “संविभाग-
क्रयप्राप्तं पिच्यं लब्धञ्च वान्यतः । स्वावरं सिद्धि-
माप्नोति भुक्त्या, हानिरुपेक्षया” । “सोदायिके सदा
स्त्राणां स्यातन्त्र्यं परिकीर्त्तितम् । विक्रये चैव दाने च
यषेष्टं स्थावरेष्वपि” कात्या० । “भर्त्त्रा पीतेन व्यद्वर्त्त
स्त्रियै तस्मिन् मृतेऽपि च । सा यथाकाममश्नीयात्
दद्याद्वा स्थावरादृते” नारदः । “अविभक्तं स्थावर यत्
सर्वेषामेव तद्भवेत् । विभक्तं स्थावरं ग्राह्यं नान्योदर्य्यैः
कथञ्चन” यमः । “सर्वेषां तुल्यरूपाणां सोदरासोदरा
णामिति” श्रीकृष्णः ।

स्थावरादि पुंन० स्थावरमादिर्हेतुर्वा यस्य । १ वतसनाभविषे राजनि० २ स्थावरप्रमूतौ त्रि० ।

स्थाविर न० स्थविरस्य भावः अण् । वृद्धत्वे अमरः । तच्च

सप्ततिवर्षापगमे भवति “आषोड़शात् भवेद्बाल
स्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्ध्वं वर्षीयान्
नवतेः परम्” स्मृतिः ।

स्थासक पु० स्था--स--स्वार्थादौ क । १ अमङ्कारे २ चार्चिक्ये अमरः ३ जलवुदुपुर च मेदि ।

स्थास्नु त्रि० स्था--स्नु । १ स्वितिशीमे अमीरः “च्युसादिवः स्था-

स्नुरिवाचिरप्रभा” भट्टिः । २ शाश्वते भरतः । ३ वृक्षे श्रीधरः
पृष्ठ ५३५६

स्थित त्रि० स्था--क्त । १ ऊर्द्ध्वस्थतया दण्डायमाने “स्थितायां

स्थानमाचरेः” रघुः । २ निश्चले ३ प्रतिज्ञायुक्ते मेदि० ।
४ स्थितिशालिनि च ।

स्थिति स्त्री स्था--क्तिन् । १ मर्य्यादायां मेदि० २ न्याय्यपथाव-

स्थाने अमरः । ३ स्थाने च । स्थानभेदे स्थितिनिषेधो यथा
“नास्थिभस्मकपालानि न केशान् वा कथञ्चन । तुषा-
ङ्गारकविष्ठाद्यं नाधितिष्ठेत् कदाचन” कौर्मपु० १५ अ० ।

स्थितिस्थापक स्थितिं स्थापयति स्था--णिच्--पुक् ण्वुल् ।

न्यायाक्ते संस्कारविशेषे “संस्कारभेदो वेगोऽथ स्थिति-
स्थापकभावने” “स्थितिस्थापकसंस्कारः क्षितौ केचिच्च-
तुर्ष्वपि । अतीन्द्रियोऽसौ विज्ञेयः क्वचित् स्पन्देऽपि
कारणम्” भाषाप० ।
तल्लक्षणं पृथिवीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्त्वम् ।
संस्कारत्वस्याजातित्वे तु तद्व्याप्यधमवत्त्वम् । तथा च
पूर्वसंयागजनितसंयोगनाशकत्वे सति पूर्वसंयोगजातीय-
संयोगजनकत्वं तत्त्वम् । स च क्रियाविशेषजन्यः क्रिया-
विशेषजनकः स्वजन्यक्रियानाश्यो गुणविशेषः । अन्य-
थाकृतस्य पुनस्तदस्यतया स्थापकः गुणविशेष इत्यन्ये ।
यथाऽऽकृष्टज्ञास्वादीनां त्यागे पुनस्तथावस्थिततया अव
स्थापकः । स च अतीन्द्रियः ।

स्थिर पु० स्था--किरच् । १ पर्वते २ देवे ३ वृक्षे ४ कार्त्तिकेये

शब्दर० । ५ शनौ ६ मोक्षेमेदि० । ७ वृषे राजनि० । ८ धववृक्षे
भावप्र० । ज्योतिषोक्तेषु ९ वृपसिंहवृश्चिककुम्भराशिषु च ।
१० कठिने ११ निश्चले च त्रि० । १२ शाल्मलौ स्त्री शब्दच०
एवं १३ काकोल्यां जटा० १४ पृथिव्यां १५ शालपर्ण्याञ्च स्त्री
अमरः । पृथिव्याः स्थिरत्वं मतभेदेन अचलशब्दे ८२ पृ०
दर्शितम् । स्थिरतया वर्ण्याः पदार्थाः कविकल्प० उक्ता यथा
युद्धे प्रधागभटः साध्वोयनः सज्जनमनः । धर्माधर्मो मनः
भोगा सम्पादनभावे तयोर्बहुकालस्थितत्वात् स्थिरत्वम् ।

स्थिरगन्ध पु० स्थिरा गन्धा यस्य १ चम्पकवृक्षे २ पाटलायां

३ केतक्याञ्च स्त्री राजनि० । ४ स्थिरगन्धयुक्ते द्रव्यमात्रे त्रि०

स्थिरच्छद पु० स्थिरश्छदा यस्य । भूर्जपत्त्रवृक्ष रत्नमा० ।

स्थिरच्छाय पु० स्थिरानियताच्छया यस्य । १ वृक्षमात्रे

शब्दमा० २ छायाप्रधाने वटादौ त्रिका० ।

स्थिरजिह्व पु० स्थिरा अचञ्चला जिह्वा यस्य । मत्स्ये हेमच० ।

स्थिरजीविता स्त्री स्थिरं जीवितमायुव्यं यस्याः । १ शाल्

मलीदृक्षे शब्दर० । २ चिरजीवले त्रि० ।

स्थिरतर त्रि० अतिशयेन स्थिरः तरप् । १ अत्थन्तखिरे अमर

२ ईश्वरे पु० ।

स्थिरदंष्ट्र पुंस्त्री० स्थिरा दंष्ट्रा यस्य । १ सर्पे स्थ्रियां ङीप्

२ वराहाकृतिविष्णौ पु० मेदि० ३ ध्वनौ अजयः ।

स्थिरपत्त्र पु० स्थिराणि पत्त्राण्यस्य । हिन्ताले राजनि० ।

स्थिरपुष्प पु० स्थिरं पुष्पमस्य । १ चम्पकवृक्षे २ बकुलवृक्षे च

राजनि० ।

स्थिरपुष्पिन् पु० स्थिरं पुष्पमस्त्यस्य बाहुल्यन इनि । तिलकवृक्षे राजनि० ।

स्थिरमति स्त्री स्थिरा--मतिः । १ स्थिरबुद्धौ स्थिरा मतिर्यस्य ।

२ स्थिरबुद्धियुक्ते त्रि० । “अनिकेतः स्थिरमतिः” गीता ।

स्थिरयीवन न० पु० स्थिरं यौवनमस्य । १ विद्याधरादौ

देवयानिभेदे त्रिका० २ चिरस्थायियौवनयुक्ते त्रि० ।

स्थिररङ्गा स्त्री स्थिरो रङ्गो रागो यस्याः । नील्याम्

राजनि० ।

स्थिररागा स्त्री स्थिरो रागो रञ्जनं यस्याः ।

१ दारुहरिद्रायाम् राजनि० । २ निश्चलरागयुते त्रि० ।

स्थिरसाधनक पु० स्थिरं साधयति ल्यु ततः स्यार्शं क ।

सिन्दुवारवृक्षे राजनि० ।

स्थिरसार पु० स्थिरः सारो यस्य । (सेगुण) शाकवृक्षे राजनि०

स्थिराङ्घ्रिप पु० कर्म० । हिन्तालवृक्षे राजनि० ।

स्थिरायुस् पु० स्थिरमायुर्यस्य । १ शाल्मलिवृक्षे असरः दीर्घ-

कालस्थायित्वात्तस्य तथात्वम् । २ चिरजीविनि त्रि० ।

स्थुड वरणे तुदा० कुदा० पर० सक० सेट् । स्युडति अल्यु-

ङीत् तुस्थोड । षोपदेश एव न्याय्यः ।

स्थूणा स्त्री स्था--नक् ऊदन्तादेशः पृषो० । (खुँदी) १ मृहस्तम्भे

“स्थूणावशेषं गृहम्” साहि० २ लौहप्रतिमायाञ्च अमरः

स्थूलानिखननन्याय पु० न्यायशब्दोब्दे ४१७ पृ० न्यायभेदे ।

स्थूर पु० स्था--ऊरन् किच्च । १ वृषे संक्षिप्तसा० । २ मनुष्ये

सि० कौ० ।

स्थूरिन् पु० स्था--ऊरन् किच्च स्थूरो वृषादिर्भारवाहकः

स्थूरोऽस्त्यस्य सादृश्येन इति । वृषादिवत्पृष्ठेन
भारवाहकेऽश्वे खरे च स्थूरस्य भावः अण् स्थौरं तदस्यास्ति
इनि स्थौरीत्यप्यत्र अमरः ।

स्थूल वृंहणे अद० चु० उभ० अक० सेट् । स्यूलयति--ते

अतुस्थूलत्--त । वह्वच्कत्वान्न सोपदेशः ।

स्थूल त्रि० स्थ्ल--अच् । १ पीवरे (मोटा) अमरः २ कूटे

३ समहे च न० मेदि० । ४ पनसे पु० राजनि० । ५ गजपि-
प्पल्याम् स्त्री शब्दच० । एवं ६ एवांरौ राजनि० ।
७ वृहदेलायाञ्च रत्नमा० स्वार्थे क । पीवरे त्रि० ।
संज्ञायां कन् (उलुड़) तृणभेदे पु० रत्नमालाकोषः ।
पृष्ठ ५३५७

स्थूलकङ्गु पु० कर्म० । वरकधान्ये (वोरधान) राजनि० ।

स्थूलकणा स्त्री कर्म० । १ स्थूलजीरके राजनि० ६ ब० ।

२ पीनकणयुते त्रि० ।

स्थूलकण्टक पु० स्थूलः कण्टकोऽस्य । जालवर्वुरे राजनि०

कप् अत इत्त्वम् । स्थूलकण्टकिका शाल्मलीवृक्षे स्त्री ।

स्थूलकण्टा स्त्री स्थूलः कण्टः कण्टकोऽस्याः । वृहत्याम्

राजनि० ।

स्थूलकन्द पु० स्थूलः कन्दोऽस्य । १ रक्तलशुने २ शूरणे

३ हस्तिकन्दे ४ मानके च राजनि० ।

स्थूलक्ष्वेड़ पु० स्थूलः क्ष्वेड़ो यत्र । वाणे त्रिका० ।

स्थूलचञ्चु पु० स्थूला चञ्चुरिव शिस्वाऽस्य । १ महाचञ्चुशाके

राजनि० २ वृहच्चञ्चुयुते त्रि० ।

स्थूलजीरक पु० कर्म० । जीरकभेदे (कालजिरा) भावप्र० ।

स्थूलताल पु० कर्म० । हिन्ताले राजनि० ।

स्थूलत्वचा स्त्री स्थूला त्वचा यस्य । काश्मर्थ्याम् राजनि० ।

स्थूलदण्ड पु० स्थूलो दण्डोऽस्य । देवनले राजनि० । स्थूल-

नालोऽप्यत्र ।

स्थूलदर्भ पु० स्थूलं दृढ़ं दृभ्यतेऽनेन दृभ--थञ् । मुञे (मुज) राजनि० ।

स्थूलदला स्त्री स्थूलानि दलानि यस्याः । घृतकुमार्व्याम्

राजनि० ।

स्थूलनास पुंस्त्री० स्थूला नासाऽस्य । १ शूकरे हेमच० स्त्रियां

ङीष् । २ वृहन्नासायुते त्रि० स्त्रियां ङीप् । स्त्रियां
टाप् स्थूलनासिकोऽप्यत्र ।

स्थूलपट्ट पु० स्थूलं पट्टं यस्मात् । कार्पासे शब्दर० तत्सूत्रज-

पट्टस्य स्थूलत्वात्तथामम् । पृषो० स्थूलपट्टाक तत्रार्थे
पु० शब्दर० ।

स्थूलपाद पुंस्त्री० स्थूलाः पीनाः पादा अस्य नान्त्यलोपः

समा० । १ गजे शब्दमा० स्त्रियां ङीष् । ७ त० । २ श्लीपद-
रोगे च ।

स्थूलपुष्प पु० स्थूलं पुष्पं यस्य । १ वकवृक्षे २ पर्वतजातापरा-

जितायां स्त्री रत्नमा० । ३ यवतिक्तायां स्त्री राजनि० ङीप् ।

स्थूलफल पु० स्थूलं फलमस्य । १ शालमलीवृक्षे राजनि० ।

२ वृहत्फलान्विते त्रि० । ३ शणपुष्यां स्त्री राजनि० ।

स्थूलभूत न० कर्म० । येदान्तोक्ते प्रत्येकं पञ्चात्मकतामापन्ने

पृथिव्यादौ भूते ।

स्थूलमरिच न० नित्यकर्म० । कल्लोले राजनि० ।

स्थूलमूल न० । ६ व० । चाणक्यमूले राजनि० ।

स्थूललक्ष(क्ष्य) त्रि० स्थूलं लक्षयति दानाय संकल्पते लक्ष-

अण् स्थूलंलक्ष्यं वाऽस्य । बहुदातरि अमरः ।

स्थूलवर्त्मकृत् पु० स्थूलं वर्त्म कंरोति कृ--क्विप् । ब्राह्मण-

यष्टिकायाम् शब्दर० ।

स्थूलवल्कल पु० स्थूलं वल्कलमस्य । १ रक्तलोध्रे जटा० । २ स्थूलत्वचान्विते त्रि० ।

स्थूलवृक्षफल पु० स्थलस्य वृक्षस्येव फलमस्य । ऐग्ध-

पिण्डीतकवृक्षभेदे (मयना) राजनि० ।

स्थूलवैदेही स्त्री विदेहे भवा अण् कर्म० । गजपिप्पल्याम् राजनि० ।

स्थूलशाटक पु० कर्म० । स्थूलवस्त्रे अमरः स्थूलशाटिका-

दयाऽप्यत्र स्त्री जटा० ।

स्थूलशालि पु० कर्म० । महाशालौ राजनि० ।

स्थूलशीर्षिका स्त्री स्थूलं शीर्षं यस्याः कप् अत इत्त्वम् ।

क्षुद्रपिपीलिकायाम् हेमच० । २ वृहन्मस्तकयुते त्रि० ।

स्थूलषट्पद पु० षट्पद इव स्थूलः राज० । वरेलायाम्

स्थूलस्कन्ध पु० स्थूलः स्कन्धोऽस्य । लकुचे (मान्दार) राजनि० ।

स्थूलहस्त न० स्थूलः हस्त इवाकारेऽस्य । गजशुण्डे त्रिका०

स्थूलांशा स्त्री स्थूलः अंशोऽवयवोऽस्याः । १ गन्धपत्रायाम्

राजनि० २ स्थूलावयवे त्रि० ।

स्थूलाम्र पु० कर्म० । आम्रभेदे राजाम्रे राजनि० ।

स्थूलास्य पुंस्त्री० स्थूलमास्यं यस्य । १ सर्षे शब्दच० स्त्रियां

जातित्वेऽपि योपधत्वात् टाप् । २ वृहस्मुखयुते त्रि० ।

स्थूलैरण्ड पु० कर्म० । वृहदेरण्डवृक्षे राजनि० ।

स्थूलैला स्त्री कर्म० । वृहदेलायाम् (वड़ एलाइच) राजनि० ।

स्थूलोच्चय पु० स्थूलानासुपलानासुच्चयो यत्र । १ गण्डशैले

स्थूलस्य गजस्य उच्चयः । २ गजमध्यगतौ ३ वरण्डे ४ असा
कल्ये मेदि० ५ गजदन्तच्छिद्रे च शब्दमा० ।

स्थेय पु० स्थीयते विवादनिर्णायकतयासौ स्था--कर्मणि यत् ।

विवादे १ संशयनिर्णायके (जुरी) २ पुरोहिते च मेदि०
३ स्थिरे त्रि० हेमच० ।

स्थेयस् त्रि० अतिशयेन स्थिरः ईयसुन् स्थादेशः । १ स्थिरतरे

२ शाश्वते त्रि० भरतः । स्त्रियां ङीप् । इष्ठन् स्थेष्ठोऽप्यत्र त्रि०

स्थैर्य्य न० स्थिरस्य भावः ष्यञ् । स्थिरतायाम् ।

स्थौणेय(क) पु० स्थूणायां तत्समोपे मवः ढक् दसञ् वा ।

ग्रन्थिपर्णनामगन्धद्रव्ये (गाँठिमाला) अमरः । “स्थौणेगकं
वहिंवर्हं शुकवर्हञ्च कुक्कुरम् । शीर्णं रोमशूकं चापि
शुकपुष्पं शुकच्छदम् । स्थौणेयकं कदु स्वादु तिक्तं सिग्धं
त्रिदोषनुत् । मेधाशुक्रकरं त्वच्यं रक्षोऽश्रीज्वरजन्तु-
जित् । हन्ति कुष्ठास्नतृड्दाहदौर्गन्ध्यतिलकासकान्
पृष्ठ ५३५८
ग्रन्थिपर्णस्यैव भेदो, भण्डि उर इति नेपालदेशे
भवति । निशाचरो धनहरः कितवो गणहासकः ।
रोचको मधुरस्तिक्तः कर्टुः पाके कटुर्लघुः । तीक्ष्णो हृद्यो
हिमो हन्ति कुष्ठकण्डूकफानिलान् । रक्षोऽश्रीस्वेद-
मेदोऽस्रज्वरगन्धविषव्रणान्” भावप्र० ।

स्थौल्य न० स्थूलस्य भावः ष्यञ् । पीवरत्वे ।

स्नपन पु० स्ना--णिच्--पुक् ल्युट् । जलादिनाऽभिषेककरणे

स्नव पु० स्नु--भावे अप् । १ सवर्णे २ क्षरणे च अमरः ।

स्नसा स्त्री स्नस--निरासे अच् । स्रायौ हेमच० ।

स्नातक पु० स्ना--भावे क्त स्नानं वेदाध्ययनानन्तरं समावर्त्तना-

ङ्गस्नानं तदस्यास्ति कन्, कर्त्तरि क्त स्वार्थे क वा । वेदा-
ध्ययनानन्तरं गार्हस्थ्याय कृतसमावर्त्तनांङ्गस्नाने गृहस्थ-
भेदे तच्च व्रतं मिता० आचराध्याये दर्शितं यथा
“स्नानादारभ्य ब्राह्मणस्यावश्यं कर्त्तव्यानि विधिप्रति-
निषेधकात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्याह
“न स्वाध्यायविरोध्यर्थमीह्नेत न यतस्ततः । न विरुद्ध-
प्रसङ्गेन सन्तोषी च भवेत् सदा” याज्ञ० । ब्राह्मणस्य प्रति-
ग्रहादयोऽर्थप्राप्त्युपाया दर्शिताः । अत्र विशेष उच्यते ।
स्वाध्यायविरुद्धमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत् । न
यतस्ततो न यतः कुतश्चिदविदिताचारात्, न विरुद्धप्रसङ्गेन
विरुद्धोऽयाज्ययाजनादिप्रसङ्गो नृत्यगीतादि विरुद्धं वा
तत्र प्रसङ्गश्च विरुद्धप्रसङ्गः तेन नार्थमीहेत इति सम्ब
ध्यते । तत्र आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्यस्मिन्
स्नातकप्रकरणे नञ्शब्दः पर्युदासार्था एव । किञ्च ।
“अर्थालाभेपि सन्तोषी परितृप्तो भवेत् । चकारात्
संयतश्च “सन्तोषं परमास्थाय सुखार्थी संयतो भवेत्” इति
मनुस्नरणात् । कुतस्तर्हि धनमन्विच्छेदित्यत आह” मिता० ।
“राजान्तेवासियाज्येभ्यः सीदन्नच्छेद्धनं क्षुघा । दम्भि
हैतुकपाषण्डिवकवृत्तींश्च वर्जयेत्” याज्ञ० । “क्षुधा सीदन्
पीह्यमानः स्नातको राज्ञो विदितवृत्तान्तादन्तेवासिनो वक्ष्य-
माणलक्षणाद्याज्याद्याजनार्हाच्च धनमाददीत । क्षुधा
सीदन्नत्यमेन विभागादिप्राप्तकुटुम्बपोषणपर्य्याप्तधनो न
काणवेमान्वच्छेदिति गम्यते । किञ्च । दम्मिहेतुकादीन्
सकलकार्य्येषु लौकिकशास्त्रीयेषु वर्जयेत् । लोकरञ्जनार्थमेव
कर्मानुष्ठायी दम्भी युक्षिबलेन सर्वत्र संशयकारी
हैतुकः त्रैविद्यवृद्धापरिगृहीताम्रमिणः पाषण्डिनः ।
पकटदस्य वर्त्तनमिति वकवृत्तिः । यथाह मढः “अधो
दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनी-
तश्च वकवृत्तिरुदाहृतः” इति । प्रतिषिद्धसेविनो विकर्मस्याः
विड़ालमार्जारस्तस्व स्वभावो व्रतं यस्यासौ वैड़ाल-
व्रतिकः “धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः ।
वैड़ालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः” इति
मनुस्मरणात् । चकाराद्विकर्मस्थवैड़ालब्रतिकशठान् यथाह
मनुः “पाषण्डिनो विकर्मस्थान् वैड़ालव्रतिकान् शठान् ।
हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्” इति ।
शठः सर्वत्र वक्रः । एतैः संसर्गनिषेधादेव स्वयं
एवंविधो न भवेदिति गम्यते” मिता० । किञ्च “शुक्लाम्बर
धरोनीचकेशस्मश्रुनखः शुचिः । न भार्य्यादर्शनेऽश्नीया-
न्नैकवासा न संस्थितः” याज्ञ० “शुक्ले धौते अम्बरे वाससी
धारयतीति शुक्लाम्बरधरः । केशाश्च श्मश्रुणि च नखाश्च
केशश्मश्रुनखन्नीचं कृत्त कशश्मश्रुनखं यस्यासौ तथाक्तः
शुचिरन्तर्बहिश्च स्नानानुलेपधूपस्रगादिभिः सुगान्धिश्च
भवेत् । यथाह गौतमः “म्नातको नित्य शुचिः
सुगन्धिः स्नानशीलः” इति । सुगन्धवत्त्वविधानादेव निर्गन्ध-
माल्यस्य निषेधः । तथा च गोभिलः “नागन्धां स्रज-
न्धारयेदन्यत्र हिरण्यरत्नस्रजः” इति । “सदा स्नातक
एवम्भूतो भवेत्” एतच्च सति सम्भवे “न जीर्णमलवद्वासा
भवेच्च विभवे सतीति” मनुस्मरणात् । न च भार्याया दर्शने
तस्यां पुरतोऽवस्थितायां नाश्नीयादवीर्यवदपत्योत्पात्तम-
यात् तथा च श्रुतिः “जायाया अन्ते नाश्नीयादवीर्य्य-
वदपत्यं भवति” इत्यतस्तया सह भोजनं दूरादेव निरस्तम् ।
न चैकवासाः । नापि संस्थितः उत्थितः अश्नोयादिति
संवध्यते मिता० । “न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहितं नानृतञ्चैव न स्तेनः स्यान्न बार्द्धुषी” याज्ञ० ।
“कदाचिदपि संशयं प्राणविपत्तिसशयावह कर्म न प्रप-
द्येत न कुर्य्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रम-
णादि । अकस्मान्निःकारणं किञ्चिदपि परुषमप्रियम्
उद्वेगकारि वाक्यं न वदेत् । न चाहितमनृत वा प्रिय-
मपि । चकारादसभ्यं बीभत्सकरञ्चाकस्मन्न वदेदिति
संबध्यते । एतच्च परिहासादिव्यतिरेवेण “गुरुणापि समं
हास्यं कर्त्तव्यं कुटिलं विना” इति स्मरणात् । न च
स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता स्यात् न बार्द्धुषी
स्यात् प्रतिषिद्धवृद्धूपजीवी वाद्धुंषी न स्यात्” मिता० ।
“दाक्षायणी ब्रह्मसूत्री बेणुमान् स्रकरण्डलुः । कुर्य्यात्
प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन्” याज्ञ० । दाक्षायणं सुवर्णं
तदस्यस्तीति दाक्षायणी । ब्रह्मसृत्रे यज्ञोप्रवीतं यस्या-
पृष्ठ ५३५९
स्तीति ब्रह्मसूत्री वैणवयष्टिमान् कमण्डलुमान् स्यादिति
सर्वत्र सम्बन्धनीयम् । अत्र ब्रह्मचारिप्रकरणोक्तस्यापि
यज्ञोपवीतस्य पुनर्षचनं द्वितीयप्राप्त्यर्थमृ । यथाह
वसिष्ठः “स्नातकानां द्वितीयं स्यादन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः” इति । उत्र
च दाक्षायणीति सामान्यामिधानेऽपि कुण्डलधारण-
मेव कार्य्यम् “वैणवीं धारयेद् यष्टिं सोदकञ्च कमण्ड-
लुम् । यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले” इति
मनुस्मरणात् । देवं देवप्रतिमां मृदमुद्धृताम् । गां
ब्राह्मणं वनस्पतिं चाश्वत्थादिकं प्रदक्षिणं कुर्य्यात्
एतान् दक्षिणतः कृत्वा व्रजेत् । एवञ्चतुष्पथादीनपि
“मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि
कुर्वीत प्रज्ञातांश्च वनस्पतीन्” इति मनुस्मरणात् मिता० ।
“न तु मेहेन्नदीच्छायावर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यग्न्य-
र्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनः” याज्ञ० । “नद्यादिषु न
मेहेत् न मूत्रपुरीषोत्सर्गं कुर्य्यात् । एवं श्मशानादा-
वपि यथाह शङ्खः “न गोमयकृष्टोप्वशाद्बलचिति
श्मशानवर्त्मखलपर्वतपुलिनेषु मेहेत् भूताधारत्वा-
दिति” । तथाग्न्यदीन् प्रति अग्न्यादीनामभिमुखं न
मेहेत् । नाप्येतान् पश्यन् यथाह गौतमः “न
वाय्वग्निविप्रादित्यापोदेवतागाश्च प्रति पशृन् वा मूत्र
पुरीषामेध्यानि कुर्य्यान्न देवताः प्रति पादौ प्रसारयेत्” ।
एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्द्धाय मूत्रपुरीषे
कुर्य्यादिति यथाह वशिष्ठः “परिवेष्टितशिरा भूमिम-
यज्ञियैस्तृणैरन्तर्द्धाय मूत्रेपुरीषे कुर्यादिति” मिता० । “नेक्षे-
तार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । न च मूत्रं
पुरीषञ्च नाशुचीराहुतारकाः” याज्ञ० । “नैवार्कमोक्षेतेति
यद्यपिसामान्येनोक्तं तथापि उदयास्तमयराहुग्रह्स्तोदक-
प्रतिबिम्बमध्याह्ववर्त्तिन एवादित्यस्यावेक्षणं निषिध्यते न
सर्वदा । यथोक्तं मनुना “नेक्षेतोद्यन्तमादित्यं नास्तं
यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो
गतम्” इति । उपभोगादन्यत्र नग्नां स्त्रियं नेक्षेत “न
नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात्” इत्याश्वलायनः । संसृष्ट
मैथुनां कृतोपभोगाम् । उपभोगान्ते अनग्नामपि
नेक्षेत । चकाराद्भोजनादिकर्माचरन्तीम् । तथा च
मनुः “नाश्नीयाद् भार्य्यया सार्द्धं नैनामीक्षेत चाश्न-
तीम् । क्षुवन्तीं जृम्भमाणाञ्च न चासीनां यथासुखम् ।
नाञ्जयन्तीं खके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्
प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः” इति । मूत्रपुरीषे
च न पश्येत् । तथा अशुचिः सन् राहुतारकाश्च न
पश्येत् । चकारादुदके स्वप्रतिबिम्बम् । “न चोदके
निरीक्षेत स्वरूपमिति धारणा” इति वचनात्” मिता० ।
“अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयन् । वर्षत्यप्रावृतो
गच्छेत् स्वपेत् प्रत्यकशिरा न च” याज्ञ० । वर्षति सति
अयं मे वज्रः पाप्मानमपहन्त्विति मन्त्रमुच्चारयन् अप्रा-
वृतोऽनाच्छादितो न गच्छेन्न धावेत “न प्रधार्वच्च वर्ष-
तीति” प्रति षेधात् । न च प्रत्यक्शिराः स्वप्यात् ।
चकारान्नग्नो न शयीत । एकश्च शून्यगृहे । “न च नग्नः
शयीतेति” “नैकः स्वप्यात् शून्यगृहे” इति मनुस्मारणात्” मिता०
“ष्ठीवनासृक् शवृन्मूत्ररेतांस्यप्सु न निक्षिपेत । पादौ
प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत्” याज्ञ० । ष्ठीवनमुद्गिर-
णम् । असृग्रक्तम् । शकृत् पुरीषं शेषं प्रसिद्धम् ।
एतान्यासु न निक्षेपेत् । नापः पादेन ताड़येत् । एवन्तुषादी-
नपि । यथाह शङ्खः “तुषकेशकरीषभस्मास्थिश्लेष्म-
नखलोमान्यप्सु न निक्षेपेत् । न पादेन पाणिना वा
जलमभिहन्यादिति” । अग्नौ च पादौ न प्रतापयेत् ।
नाप्यग्निं लङ्घयेत् । चकारात् ष्ठीयनानृग्नौ न क्षिपेत् ।
मुखोपधमनादि चाग्नेर्न कुर्य्यात् तथा च मनुः
“नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षपेदग्नौ न च पादौ प्रतापयेत् । न चैनं
पादतः कुर्य्यान्न प्राणबाधमाचरेत्” इति मिता० । “जलं
पिबेन्नाञ्जलिना न शयानं प्रवोधयेत् । नाक्षैः क्रीडेन्न धर्म-
घ्नर्व्याधितैर्वा न संविशेत्” याज्ञ० । “जलमञ्जलिना संहताभ्यां
पाणिभ्यां न पिवेत् । जलग्रहणं पेयमात्रोपलक्षणम् ।
विद्यादिभिरात्मनोऽधिकं शयानं न प्रवोधयेत् नोत्थाप-
येत् “श्रेयांसन्न प्रवोधयेदिति” विशेषात् । अक्षादि-
भिर्न्न क्रीडेत । धर्मघ्नैः पशुलङ्घनादिभिः कर्मभिर्न्न
क्रीडेत् । व्याधितैर्ज्वराद्यभिभूतैरेकत्र न संविशेत् न
शयीत” मिता० । “विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् ।
केशमस्मतुपाङ्गारकपालेषु च संस्थितिम्” याज्ञ० ।
“जनपदकुलाचारग्रामविरुद्धञ्च कर्म वर्जयेत् । प्रेतधूमं वाहुभ्यां
नदीतरणञ्च वर्जयेदिति संबध्यते । वेशादिषु संस्थितिं
वर्जयेत् । चकारादस्थिकार्पासामेध्येषु च” मिता० ।
“नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् क्वचित् । न राज्ञः
प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्त्तिनः” याज्ञ० । “परस्य क्षी-
रादि पिबन्तीं गां परस्मै माचक्षोत न च निवर्चयेत् ।
पृष्ठ ५३६०
अद्वारेण कापथेन क्वचिदपि नगरे ग्रामे मन्दिरे वा न
प्रविशेत् । न कृपणस्य शास्त्रातिक्रमकारिणो राज्ञः
सकाशात् प्रतिगृह्णीयात्” मिता० । “प्रतिग्रहे सूनिचक्रि-
ध्वजिवेश्यानराधिपाः । दुष्टा दशगुणं पूर्वात् पूर्वादेते
यथाक्रमम्” याज्ञ० । प्रतिग्रहेषु साध्येषु सूत्यादयः पञ्च पूर्व-
स्मात् पूर्वस्मात् परःपरो दशगुणं दुष्टाः । सूनाप्राणिहिंसा
सा अस्याऽस्तीति सूनी प्राणिहिंसापरः चक्री तैलिकः ।
ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपः
अनन्तरोक्तः” मिता० ।
“देवत्विक्स्नातकाचार्य्यराज्ञां छायां परस्त्रियाः ।
माक्रमेद्रक्तविण्मुत्रष्ठीवनोद्वर्त्तनादि च” याज्ञ० । “देवाना
मृत्विक् स्नातकाचार्य्यराज्ञां परस्त्रियाश्च छायां नाक्रा-
मेत् नाधितिष्ठेन्न लङ्घयेद् बुद्धिपूर्वम् यथाह मनुः
“देवतानां गुरो राज्ञः म्नातकाचार्य्ययोरपि । नाक्रा-
मेत् कामतश्छायां वभ्रुणो दीक्षितस्य च” इति । वभ्रुणो
नकुलवर्णस्य यस्य कस्य चिद्गारन्यस्य वा सोमादेर्वभ्रुण
इति नपुंसकलिङ्गनिर्देशात् । रक्तादीनि च नाधिति-
ष्ठेत् । आदिग्रहणात् स्नानोदकादेर्ग्रहणम् “उद्वर्त्तन-
मपःस्नानं विण्म्त्रं रक्तमेव च । श्लेष्मनिष्ट्यूतवान्तानि
नाधितिष्ठेत कामतः” इति मिता० । “विप्राहिक्षत्रि-
यात्मानो नावज्ञेयाः कदाचन । आमृत्योः श्रियमाका-
ङ्क्षेन्न कञ्चिन्मर्मणि स्पृशेत्” याज्ञ० । “विप्रो बहुश्रुतोऽहिः
सर्पः क्षत्रिया नृपतिः । एते कदाचिदपि नावमन्तव्या
आत्मा च स्वयं नावमन्तव्यः । आमृत्योर्यावज्जीवं श्रिय-
मिच्छेन्न कञ्चिन्मर्मणि स्पृशेन्न कस्यचिदपि मर्म दुश्चरितं
प्रकाशवेत्” मिता० । “दूरादुच्छिष्टविणमुत्रपादाम्भांसि
ससुत्सृजेत् । श्रुतिस्मत्युदितं सम्यक् नित्यमाचारमाचरेत्”
याज्ञ० । “भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनजलञ्च
गृहाद् दूरात् समुत्सृजत् । श्रौतं स्मार्त्तं चाचारं नित्यं
सम्यगनुतिष्ठेत्” मिता० । “गोब्राह्मणानलान्नानि नोच्छिष्टो
न पदा स्पृशेत् । न निन्दाताड़ने कुर्य्यात् पुत्रं शिष्यं
च ताड़येत्” याज्ञ० । गां ब्राह्मणमग्निमन्नमदनीयं विशेषतः
पक्वमशुचिर्न स्मृशेत् । पादेन त्वनुच्छिष्टोऽपि “यदा पुनः
प्रमादात् स्पृशति तदाचमनोत्तरकालं मनूक्तं
कार्य्यम् “स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु” इति
एवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दाताड़ने
न कुर्य्यात् । एतच्चानपकारिणः “अयुध्यमानस्योत्पाद्य
ब्राह्मणस्यासृगन्ततः । दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञ-
तया नरः” इति । पुत्रशिष्यौ शिक्षार्थमेव ताड़येत् ।
चकाराद् दासादीनपि । ताड़नञ्च रज्वादिनोत्तमाङ्ग
व्यतिरेकेण कार्य्यम् “शिष्यशिष्टिरबधेनाशक्तौ रज्जु
येणुदलाभ्यां तनुभ्यामन्येन घ्नत् राज्ञा शास्यः” इति
गोतमवचनात् । “पृष्टतस्तु शरीरस्य नोक्तमाङ्गे
कथञ्चन” इति मनुवचनात्” मिता० । “कर्मणा मनसा वाचा
यत्नाद्धर्मं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्ममप्या-
चरेन्न तु” याज्ञ० । कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत् ।
तमेव मनसा ध्यायेत् । वाचा वदेत् । धर्मं विहितमपि
लोकविद्विष्टं लोकाभिशस्तिजनकं मधुपर्के योबवादिकं
नाचरेत् । यस्मादस्वर्ग्यमग्नोषोमीयवत् स्वर्गसाधनं
न भवति” मिता० । “मातृपित्रतिथिभ्रातृजामिसम्बन्धिमातुलैः ।
वृद्धबालातुराचार्य्य वैद्यसंश्रितबान्धवैः । ऋत्विक्पुरोहि-
तापत्यभार्य्यादाससनाभिभिः । विवादं वर्जयित्वा तु
सर्वाँल्लोकाञ्जयेद् गृही” याज्ञ० । माता जननी । पिता
जनकः । अतिथिरध्वनीनः । भ्रातरो भिन्नोदरा अपि ।
जामयो विद्यमानभर्त्तृकाः स्त्रियः । सम्बन्धिनो
वैब ह्याः । मातुलो मातुर्भ्राता । वृद्धः सप्तत्युत्तरव-
यस्कः । बालः आषोड़शाद्वर्षात् । आतुरो रोगी ।
आचार्य्य उपनेता । वैद्यो विद्वान् भिषग्वा । संश्रित
उपजीवी । बान्धवाः पितृपक्षा मातृपक्षाश्च । मातुलस्य
पृथगुपादानम् आदरार्थम् । ऋत्विग्याजकः । पुरोहितः
शान्त्यादेः कर्त्ता । अपत्यं पुत्रादि । भार्य्या सहधर्म-
चारिणी । दासः कर्मकरः । सनाभयः सोदराः भ्रा-
तृभ्यः पृथगुपादनं अजामिभगिनीप्राप्त्यर्थम् ।
एतैर्मात्रादिभिः सह वाक्कलहं परित्यज्य सर्वान् प्राजा-
पत्यादीन् लोकान् प्राप्नोति” । “पञ्चपिण्डाननुद्धृत्य न
स्नायात् परवारिणि । स्नायान्नदीदेवखातह्रदप्रस्रवणेषु
च” याज्ञ० । परवारिषु परसम्बन्धिषु सर्वस्वत्वोद्देशेन त्यक्तेषु
तड़ागादिषु पञ्चपिण्डिनिनुद्धृत्य न स्नायात् । अनेनात्मी-
योत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धरमन्तरेणापि स्नानमभ्यनु-
ज्ञातम् । नद्यादिषु कथं तर्हीत्याह स्नायान्नदीति ।
साक्षात् परम्परया वा समुद्रगाः स्रवन्त्यो नद्यः ।
देवखातं देवनिर्मितं पुष्करादि । उदकप्रवाहाभिघातकृत-
जलो महानिम्नप्रदेशो ह्रुदः । पर्वताद्युच्चप्रदेशात्
प्रस्रुतम् उदकं प्रस्नवणं एतेषु पञ्चपिण्डानुद्धरणेनैव
स्नायात् । एतच्च नित्यस्नानविषयम् सति सम्भवे
पृष्ठ ५३६१
“?न}दीषु देवखातेषु तड़ागेषु सरःसु च । स्नानं समाचरे-
न्नित्यं गर्त्तप्रस्रवणेषु च” इति नारदस्मरणात् । शौचा ।
द्यर्थन्तु यथासम्भवं परवारिषु पिण्डानुद्धरणेऽपि सर्वस्य
न निषेधः” मिता० । “परशय्यासनोद्यानगृहयानानि
वर्जयेत् । अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि” याज्ञ० ।
शय्या कशिपुः । आसनं पीठादि । उद्यानमाम्रव-
णादि । गृहं प्रसिद्धन् । यानं रथादि परसम्बन्धोन्ये
तान्यदत्तान्यननुज्ञातानि वर्जयेन्नापभुञ्जीतः
अभोज्यान्नान्याह । अग्निहीनस्येति । श्रौतस्मार्त्ताग्न्यधि
काररहितस्य शूद्रस्य प्रतिलोमजस्य बाधिकारवतोऽप्यग्नि-
रहितस्यान्नमनापदि न भुञ्जीत न प्रतिगृह्णायाच्च ।
“तस्मात् प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो
भुञ्जीत गृह्णीयांच्चेति” गौतमवचनात्” मिता० । “कदर्य्य
वद्धचौराणां क्लोवरङ्गावतारिणाम् । वैणाभिशस्तबार्द्धुष्य
गणिकागणदोक्षिणाम्” याज्ञ० । कदर्य्यो लुब्धः “आत्मानं
धर्मकृत्यञ्च पुवदारांश्च पीड़येत् । लोभाद् यः पितरौ
भृत्यान् स कदव्ये इति स्मृतः” इत्युक्तः । बद्व्हो निगड़ा
दिना वाचा सन्निरुद्धश्च । चौरो ब्राह्मणसुवर्णव्य-
तिरिक्तपरस्वापहारी । क्लीवो नपुंसकः । रङ्गावतारो
नटचारणमल्लादिः । वेणुच्छेदजीवो वैणः । अभिशस्तः
पतनीयैः कर्ममिरभियुक्तः । वाद्र्वुष्यो निषिद्धवृद्ध्युप-
जीवी । गणिका पण्यस्त्री गणदीक्षी बहुयाजकः ।
एतेषामन्नं नाश्रीयादित्यनुवर्त्तते” मिता० । “चिकित्सकातुरक्रुद्ध
पुश्चलीमत्तविद्विषाम् । क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्ट-
भोजिनाम्” याज्ञ० । “चिकित्सकोभिषग्वृत्त्युपजीवी ।
आतुरा महारोगोपसृष्टः । “वातव्याध्यश्मरीकुष्ठमे-
होदरभगन्दराः । अर्शांसि ग्रहणोत्यष्टौ महारोगाः
पसीर्त्तिताः” इति । क्रुद्धः कुपितः! पुंश्चली व्यभि-
चारिणी । मत्तो विद्यादिना गर्वितः । विद्विट् शत्रुः ।
क्रूरो दृढ़ाभ्यन्तरकोपः । वाक्कायव्यापारेणोद्वेजकः
उग्रः । पतितो ब्रह्महादिः । व्रात्यः पतितसावि-
त्रीकः । दाम्भिको वञ्चकः । उच्छिष्टभोजी परभुक्तोज्झि-
ताशो । एतेषाञ्चिकित्सकादीनामन्नं नाश्नीयात्” मिता० ।
“अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । शस्त्र
विक्रयकर्मारतन्तुवायश्ववृत्तिनाम्” याज्ञ० । “अवीरास्त्रो
स्वतन्त्रा व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यन्ये ।
स्वर्णकारः सुवर्णस्य विकारान्तरकृत् । स्त्रीजितः सर्वत्र
स्त्रीवशवर्द्धी । ग्रामयाजी ग्रामस्य शान्त्यादिकर्त्ता वहूना-
मुपनेता च । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारो
लोहकारः तक्षादिश्च । तन्तुवायः सूचीशिल्पोपजीवी ।
श्वभिर्वृत्तं जीवनमस्यास्तीति श्ववृत्ती । एतेषामन्नं
नाश्नीयात्” मिता० । “नृशंसराजरजककृतघ्नवधजोविनाम् ।
चैलधावसुराजोवसहापपतिवेश्मताम् । पिशुनानृतिनो-
श्चैव तथा चाक्रिकवन्दिनाम् । एषामन्नं न भोक्तव्यं
सोमविक्रयिणस्तथा” याज्ञ० । “नृशंसो निर्दयः । राजा
भूपतिः । तत्साहचर्य्यात्पुरोहितश्च । यथाह शङ्खः
“भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितो-
न्मत्तावधूतराजपुराहितान्नानि वर्जयेत्” । रजको वस्त्रा-
दीनां नीलादिरागकारकः । कृतध्न उपकृतस्य हन्ता ।
बधजीवी प्राणिनां बधेन वर्त्तकः । सुराजीवी मद्यवि-
क्रयजीवी । उपपतिर्जारः सहोपपतिना वेश्म यस्यासौ
सहोपपतिवेश्मा । पिशुनः परदोषस्य ख्यापकः ।
अनृती मिथ्यावादी । चाक्रिकस्तैलिकः । शाकटिकश्चेत्येके
“अभिशस्तपतितचाक्रिकतैलिकः” इति भेदेनाभिधानात् ।
वन्दिनः स्तावकाः सामविक्रयी सोमलताया विक्रेता ।
एतेषामन्नं न भोक्तव्यम् । सर्वे चैते कदर्व्यादयो द्विजा
एव कदर्य्यत्वादिदोषदुष्टा अभोज्यान्ना इतरेषां प्राप्त्य-
भावात् प्राप्तिपूर्वकत्वाच्च प्रतिषेधस्य । अग्निहीनस्य नान्न-
मद्यादनापदींत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तम् । तत्र प्रति-
प्रसवमाह” मिता० । “शूद्रेषु दासगोपालकुलमित्राद्धेसी-
रिणः । भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत्” याज्ञ० ।
“दासागर्भदासादयः गोपालो गवां पालकः गवां
पालनेन यो जीवति । कुलमित्रं पितृपितामहादिक्रमागतः ।
अर्द्धसीरी हलपर्य्याय सीरापलक्षितकृषिफलभागग्राही ।
नापितः गृहव्यापारकारयिता नापितश्च । यश्च वाङ्-
मनःकायकर्ममिरात्मानं निवेदयति तवाहमिति । एते
दासादयः शूद्राणां मध्ये भोज्यान्नाः । चकारात् कुम्भ-
कारश्च । “गोपनापितकुम्भकारकुलमित्रार्द्धिकनिवेदिता-
त्मानो भोज्यान्ना” इति वचनात् ।
स्नातकश्च त्रिविधः व्रतस्नानतकः विद्यास्नातकः
उभयस्नातकश्चेतिभेदात् । तत्र विहितकालपर्य्यन्तं व्रह्मचर्य्यं
कृत्वा वेदमसमाप्यैव व्रतकालोत्तरं कृतसमावर्त्तन आद्यः ।
विहितकालमध्येऽपि वेदविद्यां लब्ध्वा स्नातो द्वितीयः ।
विहितकालपर्थ्यन्तं ब्रह्मचर्य्यं कृत्वा वेदमक्षब्ध्वा तं
लब्ध्वैव तत्कालोत्तरं कृतस्नानस्तृतीयः ।

स्नातकव्रत न० ६ त० । स्नातककर्त्तव्ये स्मृत्युक्ते व्रतभेदे

“अलाभे चैव कन्यायाः स्नातकव्रतमाचरेत्” स्मृतिः ।
पृष्ठ ५३६२

स्नान न० स्ना--भावे ल्युट् । १ शोधने २ अवगाहने ३ मज्जने

च तच्च मन्त्रादिकारणभेदादष्टविधं आ० त० तत्प्रकार-
भेदादिकं च दर्शितं यथा
“दक्षः “चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् ।
तिलपुष्पकुशादीनि स्नानार्थञ्चाकृत्रिमे जले” । कुर्य्यादिति
शेषः । तथा च “अस्नात्वा चाप्यहुत्वा च भुङ्क्ते-
ऽदत्त्वा च यो नरः । देवादीनामृणी भूत्वा नरकं
प्रतिपद्यते” । “अस्नात्वा नाचरेत् कर्म जपहोमादि
किञ्चन । लालास्वेदसमाकीर्णः शयनादुत्थितः पुमान् ।
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रव-
त्येव दिवारात्रौ प्रातःस्नानं विशोधनम् । प्रातःस्नानं
प्रशसन्ति दृष्टादृष्टफ हि तत् । सरमर्हति पूतात्मा
प्रातःस्नायी जपादिनाम् अज्ञानाद् यदि वा मोहात्
रात्रौ दुश्चरितं कृतम्। प्रातः स्नानेन तत् सर्वं
शोधयन्ति द्विजातयः”! दृष्टं मलापकर्षादि अदृष्टं प्रत्य-
वायपरीहारादि । प्रातः सूर्य्योदयात् प्राक्कालः “प्रातः
स्नाय्यरुणकिरणग्रस्तां प्राचीमवलोक्य” इति
विष्णूक्तेः । प्रातःस्नाने मध्याह्नस्नानधर्मातिदेशमाह
कात्यायनः “यथाहनि तथाप्रातर्नित्यं स्नायादनातुरः ।
दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत्” । यथा
तथेतिकर्त्तव्यतया । सा च “आचरेदुषसि स्नानं तर्प-
येद्देवमानुषान्” इति जावाल्युक्ता । वैदिके कर्मणि
वामहस्ते वहुतरकुशान् दक्षिणेन पवित्रं धारयेत् ।
तथा च छन्दोगपरिशिष्टम् “ह्रस्वाः प्रचरणीयाः स्युः
कुशा दीर्घाश्च वर्हिषः । दर्भाः पवित्रमित्युक्तमतः सन्ध्या-
दिकर्मसु । सव्यः सोपग्रहः कार्य्यो दक्षिणिः सपवित्रकः” ।
प्रचरणीयाः पार्वणपञ्चयज्ञादिकर्मानुष्ठानार्हाः । बर्हिषः
यज्ञाद्यास्तरणार्थाः । यत स्तत्तत्कमंसु कुशविशेषा उक्ताः ।
अतः सन्ध्यादिकर्मसु अवस्थाविशेषशून्याः कुशाः पवित्रम् ।
सोपग्रहः बहुतरकुशयुक्तः सपवित्रको विशिष्टद्विदल-
युक्तः । विशेषमाह स एव “अनन्तर्गर्भिणं साग्रं कौशं
द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्र-
चित्” । अनन्तर्गर्भिणं अन्तर्गर्भशून्यम् । तथा च
शौनकः “अनन्तस्तरुणौ यौ तु कुशौ प्रादेशसम्मितौ ।
अनखच्छेदिनौ साग्रौ तौ पवित्राभिधायकौ” । “एतद-
भावे कुशपत्रचतुष्टयं त्रय वा समुद्रकरधृतवचनात ।
तद् यथा “चतुर्भिर्दर्भपत्रैश्च त्रिभिर्द्वाभ्यामथापि वा ।
पवित्रं कारयेन्नित्यं प्रशस्तं सर्वकर्मसु” । विद्याकर-
वाजपेयिधृतम् “पावत्रन्तु द्विजः कुर्य्यात् कुशपत्रद्वयेन
वा । पत्रत्रयेण वा कार्य्यं नैकपत्रण कुत्रचित्” ।
एतद्दर्शनात् दर्भापवित्रमित्यत्रैवमपि व्याख्येयस्
मार्कण्डेयः “सर्वकालं तिलैः स्नानं पुण्यं व्यासोऽव्र-
वीन्मुनिः । श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर्नरः ।
सप्तनीं नवमीञ्चैव पर्वकालञ्च वर्जयेत्” । विष्णुधर्मोत्तरे
“त्वराक्रोधौ तथा वर्ज्यौ देवकर्मणि पण्डितैः । इक्षुरापः
पयश्चैव ताम्बूलं फलमौषधम् । भक्षयित्वा तु कर्त्तव्याः
स्नानदानादिकाः क्रियाः” । भविष्योत्तरे “स्नातुस्तु
वरुणस्तेजो जुह्वतोऽग्निः श्रियं हरेत् । भुञ्जानस्य
यमस्त्वायुस्तस्मान्न व्याहरेत् त्रिषु” । स्नातुः स्नानं कुर्वतः ।
अशुचेरवगाहनानन्तरं स्नानमाह योगियाज्ञवल्क्यः
“तूष्णीमेवावगाहेत यदा चेदशुचिर्नरः । आचम्य तु ततः
पश्चात् स्नानं विधिवदाचरेत्” । वामनपुराणम्
“नाभिमात्रजले गत्वा कृत्वा केशान् द्विधा द्विजः । निरुध्य
कर्णौ नासाञ्च त्रिःकृत्वो मज्जनं ततः” । तत्रैव वृद्ध-
याज्ञवल्क्यः “स्रीतसां संमुखो मज्जेत् यत्रापः प्रव-
हन्ति वै । स्थावरेषु गृहे चैव सूर्य्यसम्मुख आप्लवेत्” ।
हारीतः “नातुरो न भुक्त्वा न जीर्णवासा न बहुवासा
न नग्नी नाश्नन् नावसक्थिको नालङ्कृतो नाजस्रं
नाज्ञाते जले नाकुले नाशुचौ न प्रभूतजले न नाभ्रल्प-
जले न चत्वरे नोपद्वारे न सन्ध्यायां न निशायां स्नाया-
दिति” । चत्वरे काकादिवलिस्थले इति श्रीदत्तः ।
उपद्वारे द्वारसमीपे । अत्रैकेन मुनिना नग्नबहुवाससो-
र्निषेघस्याभिधानात् स्नाने द्विवासस एवाधिकारः प्रती-
यते । एकवस्त्रस्नाने दोषमाह समुद्रकरधृतभविष्ये
गोतमः “एकवस्त्रेण यतस्नानं मूच्या विद्धेन चैव हि ।
स्नातस्तु न भवेत् शुद्धः श्रिया च परिहीयते” । अतएव
“स्नानं तर्पणपर्य्यन्तं कुर्य्यादेकेन वाससा” इति यदि
समूलं तदा प्रेततर्पणपरमिति “तत्रैकवस्त्रा ज्ञातयः”
इत्यादिना एकवस्त्रत्वावधानात् “एकेन एकजातीयेन” इति
वाचस्पतिमिश्राः । “येन वाससा स्नानं कृतं जलस्थस्य तेनव
तर्पणम्” इति कृत्यतत्त्वार्णवः । न च “स्नानशाट्यान्तु
दातव्या मृदस्तिस्रो विशुद्धये । जलमध्ये तु यः कश्चित्
द्विजातिर्ज्ञानदुर्वलः । निष्पीड़यति यद्वस्त्रं स्नानं तस्य
वृथा भवेत्” इति वशिष्ठवचने स्नानशाट्यामिति
तद्वस्त्रमिति एकवचननिर्देपेन च सानेऽप्येकवस्त्रत्वमिति
पृष्ठ ५३६३
वाच्यम् अ व विशुद्धय इत्यभिधानेनाधोधृतवस्त्रस्यैव मृत्त्र
येण प्रक्षालणं नतूत्तरीयस्य एतदर्थमेकवचनम् । अतएव
“मृत्त्रयेणाधरीयवस्त्र” प्रक्षाल्यं वशिष्ठवचनैकवाक्यतया ।
इत्याह्निकचिन्तामणिः । “म्नातो नाङ्गानि निर्मृज्यात्
स्नानशाट्या न पाणिना” इति विष्णुपुराणीयेनाध-
रीयवस्त्रेणैव गात्रमार्जनं निषिध्यते । “एतेन निष्पीद्ध्य
स्नानवस्त्रमिति” कात्यायनवचने एकत्वमविक्षितमिति
निरस्तम् । अतएव सर्वत्रैकत्वं निर्दिष्टम् । शिष्टानाम्
आचारोऽपि तथा इति । “नाजस्रमिति पुनः पुनः स्नाननि-
षेधः रागप्राप्तस्नानविषयो दृष्टार्थकत्वात् । एवञ्चैकस्मिन्
दिने नानातीर्थादिनिमित्तप्राप्तस्नानावृत्तिर्भवत्येव वैधत्वात् ।
अत्रापि तन्त्रप्रसङ्गयोः सत्त्वे सकृदेविते । अहः स्नान-
प्रधानकालमाह दक्षः “चतुर्थे च तथा भागे स्नानार्थं
मृदमाहरेत् । तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले” ।
विष्णुः “कुशाभावे कुशस्थाने काशं दूर्वा वा दद्यादिति
विद्याकरधृतम् “तर्जनी रूप्यसंयुक्ता हेमयुक्ता त्वनामिका ।
सैव युक्ता तु दर्मेण कार्य्या विप्रेण सर्वदा” । मतस्य
सूक्ते “शस्ताः समूला दर्भाश्च गुच्छेन चाधिकं फलम् ।
सव्यः गोपग्रहः कार्य्यो दक्षिणः सपवित्रकः” इति
रोगिणश्चाण्डालादिस्पर्शोऽपि न दोषायेत्थाह रत्नाकरे
वृहस्पतिः “तीर्थे विवाहे यात्रायां संग्रामे देशविल्पवे ।
नगरग्रामदाहे च स्पृष्टास्पृष्टि न दुष्यति । आपद्यपि
च कष्टायां रुग्भये र्पड़ने सदा । मातापित्रोर्गुरोश्चैव
निदेशे वर्त्तने तथा” । स्पृष्टास्पृष्टीत्यव्ययम क्रिया-
व्यतिहारे । तथेति न दुष्यतीत्यर्थः । गारुड़े “सर्वतीर्था-
भिषेकाद्धि पवित्रं विदुषां वचः । धर्मश्रवणवेलायां
विप्रो व्याससमः स्थितः” । तथाविधातुरं प्रति जावालः
“अशिरस्कं भवेत् म्नानं स्नानाशक्तौ तु कर्मिणाम् ।
आर्द्रेण वाससा वापि दैहकं मार्जनं स्मृतम्” कर्मि-
णाम् “शिरः स्नातस्तु कुर्वीत देवं पैत्र्यमथापि वा”
इति मार्कण्डेयपुराणोक्तकर्म चिकीर्षूणां मार्जनमिह-
प्रोञ्छनं, योगियाज्ञवल्क्यः “असामर्थ्याच्छरीरस्य
कालशक्त्याद्यपेक्षया । मान्त्रस्नानादितः सप्त केचिदिच्छन्ति
सूरयः । मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च ।
वारुणं मानसञ्चैव सप्त स्नानं प्रकीर्त्तितम् । “आपी
हिष्ठेति” वै मान्त्रं मृदालम्भस्तु पार्थिवम् । आग्नेयं भस्मना
सानं वायव्यं गोरजः स्मृतम् । यत्तु सातपवर्षेण
स्नानं तद्दिव्यमुच्यते । वारुणञ्चावगाद्यङ्घ मानसं विष्णु-
चिन्तनम् । समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेद्य तु ।
कालदोषादसामर्थ्यात् सर्वं तस्य फलं स्मृतम्” । आपो
हिष्ठेति अपो हिष्ठादि ऋक्त्रयमत्र विवक्षितम् । एवञ्च
“कालदोषादसामर्थ्यात् न शक्नोति यदाम्भसि । तदा
ज्ञात्वा तु ऋषिभिर्मन्त्रैर्दृष्टन्तु मार्जनम् । शन्न आपस्तु १
द्रुपदा २ आपो हिष्ठा ३ ऽथमर्षणम् ४ । एभिश्चतुर्भि रृग्-
मन्त्रैर्मन्त्रस्नानमुदाहृतम् । इति योमिश्राज्ञवल्कीयंयन्मन्त्र
स्नानान्तरं तत् प्राधान्यख्यापनाय । अतएव पितृदयितायां
सन्ध्यातः पूर्वं तल्लिखितम् । मृदालम्भस्तु गङ्गामृत्तिका-
तिलकरूपः । भस्मना संस्कृतभस्मना इति छन्दोगा-
ह्निकः । अवगाह्यं मन्त्राड्यङ्गशून्यावगाहनमात्रं
विवक्षितम् अतो मुख्यावगाहनरूपस्नानानुकल्पत्वमप्यु-
क्तम् । कालदोषोऽतिवृष्ट्यादिः असामर्थ्यं शरीरापाट-
वहेतुः अल्पत्वेन सम्पूर्णवारुणस्नानविधिकालायोग्यत्वं
वेतिं । एतन्मूलकं “गेहे चेत्तदमन्त्रवदिति” छन्दोग-
परीशिष्टीयं प्रागुक्तम् अन्यथा मूलभूतश्रुत्यन्तरकल्पना-
पत्तेः सामर्थ्ये तूद्धृतजलेनापि समन्त्रकस्म्नमाह
पराशरभाष्ये व्यासः “शीतास्त्वपो निषेव्योष्णा मन्त्रस
म्भारसंस्कृताः । गेहेऽपि शस्यते सानं तद्धीनमफल
स्मृतम्” । पद्मपुराणम् “नैर्मल्यं भावशुद्धिश्च विना
म्नानं० न जायते । तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ
विधीयते । अनुद्धृतै रुद्धृतैर्वा जलैः स्नानं सदाचरेत् ।
तीर्थं प्रकल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित् । नमो
नारायणायेति मूलमन्त्र उदाहृतः । दर्मपाणिस्तु विधिजा
आचान्तः प्रयतः शुचिः । चतुर्हस्तसमायुक्तं चतुरस्रं
समन्ततः । प्रकल्प्यावाहयेद्गङ्गां गभिर्मन्त्रैविचक्षणः” ।
काशीख० अन्यप्रकारो दर्शितो यथा
“प्रातःस्नानं चरित्वाथ शुद्ध्यै तीर्थे विशेषतः । प्रातः-
स्नानाद् यतः शुद्ध्येत् कायोऽयं गलिनः सदा ।
छिद्रितो नवभिश्छिद्रैः स्नवत्येव दिवानिशम् । उत्साह-
मेधासौभान्यरूपसम्पत्प्रवर्त्तकम् । मनाप्रसन्नताहेतुः
प्रातःस्नानं विशिष्यते । प्रस्वेदलालाद्याक्लिन्नो निद्रा-
धीनो यतो नरः । प्रातःस्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्र-
जपादिषु । प्रातः प्रातस्तु यः स्नानं संजाते वारुणो-
दये । प्राजापत्यसमं प्राहुस्तन्महाघविधातकृत् । प्रातः-
स्नानं हरेत् पापमलक्ष्मीं ग्लानिमेव च । अशुचित्वञ्च
दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति । नोपसर्पन्ति वै दुष्टाः
प्रातःस्नायिजनं क्वचित् । दृष्टादृष्टफलं तस्मात् प्रातः-
पृष्ठ ५३६४
स्नानं समाचरेत् । प्रसङ्गतः स्नानविधिं वक्ष्यामि कलसो
द्भव! । विधिस्नानं यतः प्राहुः स्नानाच्छतगुणोत्तरम् ।
विशुद्धां मृदमादाय वर्हींषि तिलगोमयम् । शुचौ देशे
परिस्थाप्य चाचम्य स्नानमाचरेत् । उपग्रही वद्धशिस्वो
जलमध्ये समाविशेत् । उरूस्पाहीति मन्त्रेण
तोयमावर्त्त्य सृष्टितः । ये ते शतं ततो जप्यात् तोयस्या
मन्त्रणाय च । सुमित्रायानो मन्त्रेण पूर्वं कृत्वा
जलाञ्जलिम् । क्षिपेद् द्वेष्यं समुद्दिश्य जपन् दुर्मत्रिया
इति । इदं विष्णुरिदं जप्त्वा लिम्पेदङ्गानि मृत्स्नया ।
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि । नाभे-
रधस्तु तिसृभिः पादौ षड्भिर्विशोधयेत् । मज्जेत् प्रवा-
हाभिमुख आपो अस्मानिम जपन् । उदित्राभ्यः शुचि
रिति मन्त्र उन्मज्जने मतः । मानस्तोकमिमं जप्त्वा
लिम्पेद्गात्राणि गोमयैः । इमं मे वरुणेत्यादिमन्त्रैः
स्वात्माभिषेचनम् । तत्त्वा यामि तथा त्वन्नः स त्वन्नश्चाप्यु-
दुत्तमम् । धाम्नाधाम्नस्तथामापो मौषधीरिति संजपेत् ।
यदा दुरघ्न्या मुञ्चन्तु सेतिमावमृतेति च । अष्टावेता
इमे मन्त्राः प्रोक्ताः स्वात्माभिषेचने । प्रणवेन ततो विप्रो
महाव्याहृतिभिस्ततः । आत्मानं पावयेद्विद्वान् गायत्र्या
च ततः कृती । आपो हिष्ठेति तिसृमिः प्रत्यृचं पावनं
स्मृतम् । एते वै पावना मन्त्रा इदमाप्नोह्वविष्मती ।
देवीराप आपो देवा द्रुपदादिवसंज्ञकः । शन्नो देवी रपो
देवीरपाञ्च वरमित्यपि । पुनर्नमेति च नव पावमान्यः
प्रकीर्त्तिताः । ततोऽघमर्षणं जप्त्वा द्रुपदां च ततो
जपेत् । प्राणायामं च विधिवदथ वान्तर्जलं जपेत् । प्रणवं
त्रिर्जपेद्वापि विष्णुं वा संस्मरेत् सुधीः । स्नात्वेत्थं वस्त्र-
मापीड्य गृह्णीयाद्धौतवाससी” ।

स्नानतृण न० स्नानार्थें तृणम् । कुशे शब्दर० ।

स्नानीय त्रि० स्नानाय हितम् छ । स्नानसाधने तैलोद्वर्त्तनादौ

स्नायु स्त्री स्नाति--शुध्यति दोषोऽनया स्ना उण् । शरीरादि-

बन्धननाड़ीमेदे तत्स्वरूपसंख्यादि भावप्र० उक्तं यथा
“तत्र स्नायोः स्वरूपमाह । मेदसः स्नेहमादाय सिरा
स्नायुत्वमाप्नुयात् । सिराणां हि गृदुः पाकः स्नायू-
नान्तु ततः खरः । स्नायवो बन्धनानि स्युर्देहमांसास्थि
मेदसाम् । सन्धीनामपि यत्तास्तु सिराम्यः सुदृढाः
स्मृताः । नीर्यथा फलकास्तीर्णा बन्धने बहुमिर्युता ।
मिर्मुक्ताऽगाधसलिले भवेद्भारसहा भृशम् । एवमेव
शरीरऽस्मित् यावन्तः सन्धया स्मृताः । स्नायुभिर्बहुमिर्बेद्धा
स्तेन भारसहा नराः” । फलकै काष्ठपट्टैः सस्तीर्णा
व्याप्ताः “शतानि नव जायन्ते शरीरे स्नायवो नृणाम् ।
तासां विवरणं ब्रूमः शिष्याः शृणुत यत्नतः । शाखासु
षटशतानि स्त्रुः कोष्ठे त्रिंशत् शतद्वयम् । ग्रीवायां
मूर्द्धदेशे तु स्नायूनां सप्ततिः स्मृताः” । तत्र शाखागताः
प्राह । एकैकस्यां प दाङ्गल्यां षट् षट् तास्त्रिंशत् ।
तावन्त्य एव तलकूर्चगुल्फेषु । तावन्त्य एव जङ्घायां
दश जानुनि । चत्वारिंशदूरौ । दश वङ्क्षणे । एवं
सार्द्धशतमेकस्मित् सक्थिनि भवन्ति । एतेनेतरसक्थि
वाहू च व्याख्यातौ । अथ कोष्ठगताः प्राह षष्टिः कट्यां
तावन्त्य एव पार्श्वयोः । अशीतिः षट्त्रिंशदुरसि ।
अथ ग्रीवोर्द्धगताः प्राह षट् त्रिंशद् ग्रीवायाम् ।
चतुस्त्रिशन् मूर्घ्नि एवं स्नायूनां नवशतानि भवन्ति” ।

स्नायुरोग पु० ६ त० । स्नायुस्थे रोगभेदे तन्निदानादि भावप्र०

उक्तं यथा
“तत्र स्नायुरोगस्य विप्रकृष्टं सामान्यलक्षणमाह
“शाखासु कुपितो दाषः शोथं कृत्वा विसर्पवत् । भित्त्वैव
तं क्षते तत्र सोष्ममांसं विशोष्य च । कुर्य्यात्तन्तुनिभं
सूत्रं तत्पिण्डैस्तक्रसक्तुजैः । शनैः शनैः क्षताद् याति
छेदात्तत्कोपमावहेत् । तत्पाताच्छोथशान्तिः स्यात् पुनः
स्थानान्तरे भवेत् । स्नायुरोग इतिख्यातः क्रियोक्तात्र
विसर्पवत् । वाह्वोर्यदि प्रमादेन त्रुद्यते जङ्घयोरपि ।
सङ्कोचं खञ्जताञ्चापि छिन्नो नूनं करोत्यसौ” ।

स्नाय्वर्म्मन् न० नेत्ररोगभेदे “स्थिरं प्रस्तारिमांसाढ्यं शुष्कं

स्नाष्वर्म पञ्चमम्” माधवनिदानम् ।

स्निग्ध त्रि० स्निह--क्त । स्नेहयुक्ते वयस्ये २ मसृणे चिक्कणे

अमरः । ३ रक्तैरण्डे ४ सरलवृक्षे च पु० राजनि० ५ भक्त-
मण्डे न० ६ मेदायां स्त्री राजनि० ।

स्निग्धतण्डुल पु० ६ ब० । षष्टिधान्ये राजनि० । शब्दर० ।

स्निग्धता स्त्री स्निंग्धस्य भावः । १ म्नेहे राजनि० २ प्रियत्वे च शब्दर० ।

स्निग्धदारु पु० स्निग्धं दारु कष्ठिमस्य । १ सरलवृक्षे जटा०

२ देवदारुवृक्षे च राजनि० ।

स्निग्धपत्त्रक पु० स्निग्धं पत्त्रमस्य कप् । १ घृतकरञ्जे २ गुच्छ-

करञ्जे ३ गर्जरतृणे च राजनि० ४ वदर्य्यां स्त्री जटाः ।
५ पालक्यां ६ काश्मर्य्याञ्च स्त्री राजनि० ।

स्निग्धपिण्डीतक पु० कर्म० । १ मदनवृक्षभेदे २ पिण्डीतकवृक्षे च राजने० ।

स्निग्धफला स्त्री स्निग्धं फलमस्याः । नाकुल्याम् राजनि० ।

स्निट स्नेहे चु० उम० सक० सेट् । स्नेटयति--असिस्रिटत्-

त । दन्त्यान्तसादितयायं षोपदेश एव न्याय्यः ।
पृष्ठ ५३६५

स्नु पु० सानु + स्नु आदेशः स्ना--कु वा । १ पर्वतस्य समभू-

भागे अमरः २ स्नायौ च । “त्रिष्टुप् मांसात् स्नुतोऽनु
ष्टुप्” भाग० ३१२ अ० । “स्नुतः स्नायुतः” इति श्रीधरः ।

स्नुक्छद पु० स्नुह्यति स्नुह--क्विन् कुत्वम् स्नुक् छदोऽस्य ।

क्षीरकञ्चुकीवृक्षे रत्नमा० ।

स्नुत पु० स्नु--क्त । क्षरिते जलादो अमरः ।

स्नुषा स्त्री स्नु--सक् । १ पुत्रबध्वाम् अमरः २ स्नुहीवृक्षे च शब्दर० ।

स्नुह्(हा) स्त्री स्नुह--क्विन् वा टाप् । स्नहीवृक्षे अमरः ।

स्नुहि(ही) स्नुह--इन् वा ङीप् । (मनसासिजु) वृक्षे अमरः

“स्नुहीविटपसंश्रिताम्” ति० त० देवीपु० ।

स्नेह पु० स्निह--घञ् । १ प्रेम्णि अमरः २ तैलादिरसभेदे

३ न्यायाक्ते गुणभेदे च यद्वशात् दाहानुकूत्यम् ।
स च गुणः जलस्य चूर्णादिपिण्डोभावहेतुः । “जले
मधुरशीतलौ । स्नेहस्तत्र द्रव्यत्वन्तु सांसिद्धिकमुदा-
हृतम्” भाषा० । “घृतादावपि तदन्तर्वर्त्तिजलस्यैव स्नेहः
जलस्य स्नेहसमवायिकारणत्वात् तेन जल एव स्नेह
इति मन्तव्यम्” नुक्ता० “स्नेहो जले स नित्योऽणावनित्यो-
ऽवयविन्यसौ । तैलान्तरे तत्प्रकर्षात् दहनस्यानुकूलता”
भाषा० । “ननु पृथिव्यामपि तैले स्नेह उपलभ्यते न चासौ
जलीयः तथा सति दहनप्रातिकूल्यं स्यादत आह तैलान्तरे
इति तत्प्रकर्षात् स्नेहप्रकर्षात् । तैले उपलभ्यमानः स्ने-
होऽपि जलीय एव तस्य प्रकर्षादग्नेरानुकूल्यम् ।
अपकृष्टस्नेहं हि जलं वह्निं नाशयतीति भावः” मुक्ता० ।
प्रमरूपस्नेहश्च वत्सलरसस्य स्थायिभावः स च रसः
भरतसम्माः सा० द० उक्तो यथा “स्फुटं चमत्कारितया वत्स-
लञ्च रसं विदुः । स्थायी वत्सलता स्नेहः पुत्राद्या-
लम्बनं मतम् । उद्दीपनानि तच्चेष्टा विद्याशौर्य्योदया-
दयः । आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम् । पुलः-
कानन्दवाष्पाद्या अनुभावाः पकीर्तिताः । सञ्चारिणो-
ऽनिष्टशङ्काहर्षगर्वादया मताः । पद्मगर्भच्छविर्वर्णो दैवतं
लोकमातरः” । “अपेक्षन्ते म च म्नेह न पात्रं न
दशान्तरम् । परोपकारनिरतामणिदीपा इवोत्तमाः” उद्ध० ।

स्नेहन् पु० स्निह कनिन् नि० गुणरागभेदे उणा० ।

स्नेहन न० स्निह--णिच्--ल्युट् । १ तैलादिमदेने अभ्यङ्गे राजनि०

२ स्नाधासाधने क्रियाभेदे भा० प्र० तत्प्रकार उक्तो यथा
“स्नेहनविधिः “स्नेहश्चतुर्विधः प्रोक्तो घृतं तेलं वसा
तथा मज्जा च तं प्रिवेन्मर्व्यः किञ्चिदभ्युदिते रवौ ।
स्थावरो जङ्गनश्चैव द्वियोनिः स्नेह उव्यते । तिलतैल
स्थावरेषु जङ्गमेषु घृतं वरम् । द्वाभ्या त्रिभिश्चतुर्भिर्वा
यमकस्त्रिवृतो महान्” । अस्यायमर्थः द्वाभ्यां स्ने हाभ्यां
घृततैलाभ्यां यमक ख्यः स्नेहः स्यात् । त्रिभिः स्नेहैः
घृततैलवसारूपै स्त्रिवृताख्यः स्यात् । चतुर्भिर्घृततैलव-
सामज्जामिर्महान्महास्नेहः स्यादित्यर्थः । “पिबेत्
त्र्यहं चतुरहं पञ्चाहं षड़हानि वा” । मृदुमव्य-
क्रूरकोष्ठापेक्षया त्र्यहं चतुरहं पञ्चाहं षड़हानि
चेति । यदुक्तम् “मृदुकोष्ठस्त्रिरात्रेण स्निग्धस्नेहोप
सेवया । मध्यकोष्ठश्चतुर्भिश्च दिवसैः स्निह्यति ध्रुवम् ।
पञ्चभिर्वाथ षड्भिर्वा दिनैः क्रूरो विशुद्ध्यति । सप्त-
रात्रात्परं स्नेहः सात्मोभवति सेवितः” । मृदुमध्यक्रूर-
कोष्ठानां सर्वेषां सप्तरात्राप्तरं सात्मीभवति वाता-
नुलोम्याह्निदीप्तिकोष्ठशुद्धिमृदुस्निग्धाङ्गातास्वरवचनाङ्गला-
घवधातुपुष्टिद्विजदार्ट्यनिर्जरताबलवर्णकारी भवति ।
न तु मक्तद्वये वातानुलोम्यादीन् करोति । “दोष-
कालवयोवह्निवलान्यालोक्य याजयेत् । हीनाञ्च
मध्यमां ज्येष्ठां भात्रां स्नेहस्य बुद्धिमान् । अमात्रया
तथाऽकाले मिथ्याहारविहारतः । स्नेहः करोति
शोथार्शस्तन्द्रानिद्राविसंज्ञिताः । देया दीप्ताग्नये मात्रा
म्नेहर्यैकपलोन्मिता । मध्यमाय त्रिकार्षा स्याज्जवन्याय
द्विकार्षिकी” । मव्यमाय मध्यमाग्नये जघ त्याय हीना-
ग्नये “अय वा स्नेहमत्राः स्युस्तिस्रोऽन्याः सर्वसम्मताः ।
अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा । जीर्य्य-
त्यल्पा दिनार्द्धेन सा विज्ञेया सुखावहा” । अयमर्थः
याहोरात्रेण जीर्य्यति सा मात्रा महती । एवं मध्यमा
कनिष्ठा च ज्ञेया “अल्पा स्याद् दीपनी वृव्यां स्वल्पदोषे
प्रपूजिता । मध्यमा स्नेहनी ज्ञेया वृंहणी भ्रम-
हारिणी । ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारना-
शिनी” । सुश्रुतः पुनरेवमाह “या मात्रा प्रथमे यामे
गते जीर्य्यति वासरे । सा मात्रा दीपयत्यग्निमल्पदोषे
च पूजिता । या सत्रा वासरस्यार्द्धे व्यतीते
परिजीर्य्यति । सा वृष्या वृंहणी च स्यान्मव्यदोषे प्रपू-
जिता । या मात्रा चरमे यामे स्थितेऽह्नः परिलीर्य्यति ।
सा मात्रा स्नेहनी ज्ञेया बहुदोषेषु पूजिता । केवलं
पैत्तिके सर्पिर्वातिके लवणान्वितम् । देयं वहुकफे वह्नि-
व्योषक्षारसमन्वितम् । रूक्षक्षतविषार्त्तानां वातपित्त
विकारिणाम् । हीनमेध स्मृतीनाञ्च सपिःपानं प्रश-
पृष्ठ ५३६६
स्यते । कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः । पिबेयु
स्तैलसात्म्यामे तैलं दार्ढ्यार्थिनस्तु ये । व्यायामाक-
र्षिताः शुष्करेतोरक्तामहारुजाः” । क्रूराशयाः क्रूर-
कोष्ठाः सर्वतः सर्वस्मात् मेहात् । “शीतकाले दिवा मेह
मुष्णकाले पिवेन्निशि । वातपित्ताधिके रात्रौ वातश्लेष्मा-
धिके दिवा । नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणे ।
तैलं घृतं वा युञ्जीत दृष्ट्वा दोषवलाबलम् । घृते कोष्ण
जलं पेयं तैले यूषः प्रशस्यते । वसामज्जे पिबेन्मण्ड
मनुपानं सुखावहम् । स्नेहद्विषः शिशून् वृद्धान् सुकु
मारान् कृशानपि । तृष्णालुकानुष्णकाले सह भक्तेन
पाययेत् । सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला ।
सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी । शर्करा-
चूर्णसंयुक्ते दोहनस्थे घृते तु गाम् । दुग्ध्वा क्षीरं
पिबेद्रूक्षः सद्यः स्नेहनमुत्तमम् । मिथ्याचाराद्
बहुत्वाच्च यस्य स्नेहो न जीर्य्यति । विष्टम्भो वापि जीर्य्येत
वारिणोष्णेन वामयेत् । स्नेहस्याजीर्णशङ्कायां पिवे-
दुष्णोदकं नरः । तष्टोद्गारो भवेच्छुद्धो भक्तं प्रति रुचि-
स्तथा । स्नेहेन पैत्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः ।
तदास्योदीर्य्यते तृष्णा विषमा तस्य पाययेत् । शीतलं
पायसं, तन तृष्णा तस्य प्रशाम्यति । दुर्बलोऽरोचकी
स्थूलो मूर्च्छालुर्मेहपीड़ितः । दत्तवस्तिर्विरिक्तश्च वान्त-
स्तृष्णाश्रमान्वितः । अकालप्रसवा नारी दुर्दिने च
विवर्जयेत् । स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचित्तकाः ।
वृद्धवालकृशा रूक्षाः क्षीणास्राः क्षीणरेतसः । वाता-
र्त्तास्तिमिरार्त्ता ये तेषां स्नेहनसुत्तमम् । वातानुलोम्य
दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम् । मृदुस्निग्धाङ्गता म्लानिः
स्नेहद्वेषोऽथ लाथवम् । विमलेन्द्रियता सम्यक् स्निग्धे
रूक्षे विपर्य्ययः । भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवा-
हिका । तन्द्रातीसारखण्डत्वं भृशं स्निग्धस्य लक्ष-
णम् । रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम् ।
श्यामाकचणकाद्यैश्च तिलपिण्याकसक्तुभिः । दीप्ताग्निः
शुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रियः । निर्जरो बलवर्णाद्यः
स्नेहसेवी भवेन्नरः । स्नेहे व्यायामसंशीतवेगाघात
प्रजागरान् । दिवास्वप्नमभिष्यन्दि रूक्षान्नञ्च विषर्जयेत्” ।
करणे--ल्युट् । स्नेहसाधने त्रि० । स्त्रियां ङीप् । उदा०
अत्रैव दृश्यम् ।

स्नेहप्रिय पु० स्नेहः तैलादिः प्रियोऽस्य । प्रदीपे हेमच० ।

स्नेहभू स्त्री ६ त० । १ श्लेष्माख्ये देहस्थे धातुमेदे हेमच०

२ स्नेहपात्रे च शब्दर० ।

स्नेहरङ्ग पु० स्नेहेन रज्यते रन्ज--कर्मणि घञ । तिले शब्दच० ।

स्नेहवत् त्रि० स्नेहोऽस्त्यस्य मतुप् मस्य वः । १ स्नेहयुक्ते

स्त्रियां ङीप् । सा च २ मेदायां पुस्त्री० राजनि० ।

स्नेहविद्ध न० स्नेहेन विद्धम् । देवदारुणि जटा० ।

स्नेहवस्ति स्त्री स्नेहपूरिता वस्तिः । तैलादिस्नेहयुतद्रव्य-

पूरिते अनुवासनाख्ये पदार्थे (पिचकारी) वस्तिशब्दे
४८६४ पृ० दृश्यम् ।

स्नेहवीज पु० स्नेहाद्यं वीजमस्य । पियाक्षवृक्षे राजनि० । ६ त० । २ सेहकारणे न० ।

स्नेहाश पु० स्नेहमश्नाति अश--अण् । प्रदीपे त्रिका० ।

स्नेहिन् पु० स्निह--णिनि । १ वयस्ये बन्धौ त्रिका० । २ स्नेह-

युक्ते त्रि० स्त्रियां ङीप् ।

स्नेहु पु० स्निह--उन् । रोगभेदे उणा० को० २ चन्द्रे संक्षिप्त०

स्पद ईषत्कम्पे भ्वा० आ० अक० सेट् इदित् । स्पन्दते अस्प-

न्दिष्ट स्पन्दितम् ।

स्पन्द पु० स्पदि--घञ । १ ईषच्चलने ईषत्कम्पे २ क्रियाभेदे च ।

ल्युट् । तत्रार्थे न० नेत्रस्पन्दादौ शुभाशुभविवेचनं
मत्स्यपु० २४१ अ० उक्तं यथा
“ब्रूहि मे त्वं निमित्तानि अशुभानि शुभानि च । सर्व-
धर्मभृतां श्रेष्ठ! त्वं हि सर्वविदुच्यसे” मत्स्य उवा च
“अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ।
अथाशस्त तथा वामे पृष्ठस्य हृदयस्य च” । मनुरुवा च
“अङ्गानां स्पन्दनञ्चैव शुभाशुभविचेष्टितम् । तन्मे
विस्तरतो ब्रूहि येन स्यान्तद्विदो भुवि” । मत्स्य उवा
च “पृथ्वीलाभो भवेन्मूर्घ्नि ललाटे रविनन्दन! । स्थानं
विवृद्धिमायाति भ्रूनसोः प्रियसङ्गमः । भृत्यलब्धिश्चाक्षि-
देशे दृगुपान्ते धनागमः । उत्कण्ठोपागमो मध्ये दृष्टं
राजन्! विचक्षणैः । दृग्बन्धने सङ्गरे च जयं
शीघमवाप्नुयात् । योषिद्भोगोऽपाङ्गदेशे श्रवणान्ते प्रिया-
श्रुतिः । नासिकायां प्रीतिसौख्यं प्रजाप्तिरधरोष्ठजे ।
कण्ठे तु भोगलाभः स्याद्भोगवृद्धिरथांसयोः । सुहृत्-
स्नेहश्च बाहुभ्यां हस्ते चैव धनागमः । पृष्ठे पराजयः
सद्योऽजयो वक्षःस्थले भवेत् । कुक्षिभ्यां प्रीतिरुद्दिष्टा
स्त्रियाः संजननं स्तने । स्थानभ्रंशो नाभिदेशे अन्त्रे चैव
धनागमः । जानुसन्धौ जातसन्धिर्बलवद्भिर्भवेन्नृपः । दिशै-
कदेशनाशोऽथ जङ्घायां रविनन्दन! । उत्तमं स्थान-
माप्नोति पद्भ्यां प्रस्फुरणान्नृप! । सलाभञ्चाध्वगमनं
भवेत् पादतले नृप! । लाञ्छानं पिटकञ्चैव ज्ञेयं स्फु-
पृष्ठ ५३६७
रणवत्तथा । विपर्य्ययेण विहिता सर्वस्त्रीणां
फलागमः । दक्षिणेऽपि पशस्तेऽङ्गे प्रशस्तं स्याद्विशेषतः ।
अतोऽन्यथा सिद्धिप्रजैल्पनात्तु फलस्य शस्तस्य च निन्दि
तस्य । अनिष्टचिह्नोपगमे द्विजानां कार्य्यं सुवर्णेन तु
तर्पणं स्यात्” ।

स्पर्द्ध संहर्षे (पराभिभवेच्छायाम्) भ्वा० अ त्म० अक० सेट् । स्पर्द्धते अस्पर्द्धिष्ट ।

स्पर्द्धा स्त्री स्पर्द्धं--अ । १ संहर्षे २ पराभिभवेच्छायां ३ साम्ये

४ क्रमोन्नतौ च मेदि० ।

स्पर्श ग्रहणे स्तेये च चु० आ० सक० सेट् । स्पर्शयते अप स्पर्श त ।

स्पर्श पु० स्पर्श--स्पृश--वा अच् घञ् वा । न्यावोक्ते १ त्वगि

न्द्रियग्राह्ये गुणभेदे २ ग्रहणे “मात्रास्पर्शास्तु कौन्तेयं
गीता । ३ रोगे ४ युद्धे ५ गुप्तचरे मेदि० ६ उपतप्ते
अमरः । ७ वायौ पु० ८ स्पर्शके त्रि० मेदि० । स्मृण-
णिच--अच् । ९ दाने मेदि० स्पृश्यन्ते वायुना
जिह्वाग्रादय उच्चारणाय घञ् । १० कादिषु मावसानेषु
वर्ग्यवर्णेषु पु० कादयोमावसानाः स्पर्शः सि० कौ० ।
“स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः । अनुष्णा
शीतशीतोष्णभेदात् स त्रिविधो मतः । काठिन्यादिः
क्षितावेव नित्यतादि च पूर्ववत् । एतेषां पाकजत्वन्तु
क्षितौ नान्यत्र कुत्रचित् । तथापि परमाणौ स्यात् पाको
वैशेषिके नये । नैवयायिकानान्तु नये द्व्यणुकादावपीष्यते”
“स्पर्शस्त्व गन्द्रियग्राह्यस्त्वचः स्यादुपकारकः । अनुष्णा-
शीतशीतोष्णभेदात् स त्रिविधो मतः । काठिन्यादिः
क्षितावेव नित्यतादि च पूववत् । एतेषां पाकजत्वन्तु
क्षितौ नान्यत्र कुत्रचित् । तत्रापि परामाणौ स्यात्
पाको वैशेषिके नये । नैयायिकानान्तु नये द्व्यणुकादाव-
पीष्यते” भाषा० । “उपकारक इति स्पार्शनप्रत्यक्षे स्पर्शः
कारणमित्यर्थः । अनुर्ष्णाशीतेति । पृथिव्या वायोश्च
स्तर्शोऽनुष्णाशीतः । जलस्य शीतः । तेजस उष्णः ।
काठिन्येति । कठिनसुकुमारस्पर्शौ पृथिव्या एवेत्यर्थः ।
कठिनत्वादिकन्तु न संयोगनिष्ठो जातिविशेषः चक्षुर्ग्राह्य-
तापत्तेः । पूर्ववदिति । जलतेजोवायुपरमाणूनां स्पर्शा
नित्याद्यलुकादेस्त्वनित्या इत्यर्थः । एतेषामिति । एतेषां
रूपरसगन्धस्पर्शानाम् । नान्यत्रेति । पृथिव्या हि
रूपरसगन्धस्पर्शपरावृत्तिः पावकसंयोगादुपलभ्यते । न हि
शतधापि ध्मयमाने जलादौ रूपादिकं परावर्त्तते ।
नीरे सौरभमौष्णञ्च अन्वयव्यतिरेकाभ्यामौपाधिकमेवेति
निर्णीयते पवनपृथिव्योः शीतस्पर्शादिवत् । तत्रापि पृ-
थिवीष्वपि मध्ये परमाणावेव पाक इति वैशेषिकाषदन्ति ।
तेषामयमाशयः । अवयविनाऽवष्टब्धेष्ववयविषु पाको न
सम्भवति । परन्तु वह्निसंयोगेनावयविषु विनष्टेषु स्वत-
न्त्रेषु परमाणुषु पाकः । पुनश्च पक्वपरमाणुसंयोगाद्-
द्यणुकादिक्रमेण पुनर्महावयविपर्य्यन्तोत्पत्तिः तेजसा-
मतिशयितवेगवशात् पूर्वव्यूहनाशो झटिति व्यूहान्तरो-
त्पत्तिश्चेति । अथ द्व्यणुकादिविनाशमारभ्य कतिभिः
क्षणैः पुनरुत्पत्त्या रूपादिमद्भवतीति शिष्यबुद्धिर्वैशद्याय
प्रक्रिया । “तत्र संयीगविभागयोरनपेक्षकारणं कर्म”
इति वैशेषिकसूत्रम् । स्वोत्तरवृत्तिभावान्तरानपेक्षत्वं
तस्यार्थः । अन्यथा कर्मणाऽप्युत्तरसंयोगस्य जनने पूर्वसं-
योगनाशापेक्षणादव्याप्तिः स्यादिति । तत्र विभागजविभा-
गानङ्गीकारे नव क्षणाः । तदङ्गीकारेऽपि यिभागः
किञ्चित्सापेक्षो विभागं जनयेत् निरपेक्षस्य तत्त्वे कर्मत्वं
स्यात् । तत्र यदि द्रव्यारम्भकसंयोगविनाशविशिष्टं
कालमपेक्ष्य विभागजविभावः स्यात् तदा दश क्षणाः ।
अथ द्रव्यनाशविशिष्टं कालमवयवं चापेक्ष्य विभागज-
विभागः स्यात् तदा एकादश क्षणाः । तथा हि वह्नि-
संयोगात् परमाणौ कर्म । ततः परमाण्वन्तरेण
विभागः । तत आरम्भकसंयोगनाशः । ततो द्व्यणुक-
नाशः १ । ततः परमाणौ श्यामादिनाशः २ । ततो रक्ताद्यु-
त्पत्तिः ३ । ततो द्रव्यारम्भानुगुणक्रिया ४ । ततो विभागा ५ ।
ततः पूर्वसंयोगनाशः ६ । तत आरम्भकसंयोगः ७ । ततो
द्व्यणुकोत्पत्तिः ८ । ततो रक्ताद्युत्पत्तिः ९ । ननु श्यामा-
दिनाशक्षणे रक्तोत्पत्तिक्षणे वा परमाणौ द्रव्यारम्भानुगु-
णक्रियाऽस्त्विति चेत् । न । अग्निसंयुक्ते परमाणौ यत्
कम तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण च तत्र
परमाणौ क्रियान्तराभावात् कर्मवति कर्मानुत्पत्तेः निर्गणे
द्रव्ये द्रव्यारम्भानुगुणक्रियानुपपत्तेश्च । तथापि
परमाणौ श्यामादिनिवृत्तिसमकालं रक्ताद्युत्पत्ति स्वादिति
चेत् न । पूर्वरूपादिध्वंसस्य रूपान्तरे हेतुत्वात ।
इति नव क्षणाः । अथः दश क्षणाः । सा च आरम्भक-
संयोगविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागस्य
जनने पति स्यात् । तथा हि वह्निस योगाद् द्व्यनुका-
रम्भके परमाणौ क्रिया । ततो विभागः । ततः
आरम्भकसंयोगनाशः । ततो द्व्यणुकनाशविभागजविभागौ १ ।
ततः श्यामनाशपूर्वसंओगनाशौ २ । ततो रक्तोत्पत्त्यत्तर-
संयोगौ ३ । ततो वह्निनोदनजन्यपरमाणुकर्मणो गाशः ४ ।
पृष्ठ ५३६८
ततोऽदृष्टपदात्मसंयोगाद् द्रव्यारम्भानुगुणक्रिया ५ । ततो
विभागः ६ । ततः पूर्वसंयोगनाशः ७ । तत आरम्भकसं-
योगः ८ । ततो द्व्यणुकोत्पत्तिः ९ । ततो रक्ताद्युत्पत्तिः १० ।
अथैकादश क्षणाः । वह्रिसंयोगात् परजाणौ कर्ग । ततो
विभागः । ततो द्रव्यारम्भकसंयोगनाशः । ततो द्व्यणु-
कनाश १ विशिष्टं माननपेक्ष्म विभागजविभागः २ । ततः
पूर्वसंयोगमाशः ३ । तत उत्तरसंयोगः ४ । ततः परमाणु-
कर्मनाशः ५ । ततोऽदृष्टवदात्मसंयोगादु द्रय्यारम्भानुगुण-
क्रिया ६ । ततो विभागः ७ । ततः पूर्वसंयोगनाशः ८ । ततो
द्रव्यारम्भकसंयोगः ९ । ततो द्व्यणुकम् १० । ततो रक्तादि ११ ।
मध्यमशब्दवदेकस्मादग्नसंयोगान्न रूपनाशरक्तोत्पादौ ।
तावत्कालमेकस्य ग्नेरस्थिरत्वात् । किञ्च यद्युत्पादको
नाशकस्तदा नष्टे रूपादावग्निनाशे नीरूपश्चिरं परमाणुः
स्यात् । नाशकश्चेदुत्पादकस्तदा रक्तोत्पत्तौ तदग्निना
रक्तता न स्यात् । एवं परमाण्वन्तरे कर्मचित्वानात् पञ्च-
मादिक्षणेऽपि गुणोत्पत्तिः । तथा हि एकतृ परमाणौ
कर्म । ततो विभागः । तत आरम्भकसंयोगनाश-
परमाण्वन्तरकर्मणी । ततस्तु द्व्यणुकनाशः । परमाण्व-
न्तरकर्मजश्च विभाग इत्येकः कालः १ । ततः श्यामादि-
नाशः विभागश्च पूर्वसंयोगनाश इत्येकः कालः २ ।
ततो रक्तोत्पत्तिर्द्रव्यारम्भकसंयोगश्चेत्येकः कालः ३ ।
अथ द्व्यणुकोत्पत्तिः ४ । अथ रक्तोत्पत्तिरिति ५ पञ्च
क्षणाः । द्रव्यनाशसंमकालं परमाण्वन्तरे कर्मचिन्तनात्
पष्ठे गुणोत्पत्तिः । तथा हि परमाणुकसमा
परमास्त्वन्तरविभागः । तत आरम्भकसंयननाशः । अथ
द्व्यणुकनाशप्ररमाण्वन्तरकर्मणी १ अथ श्यामनाशः
परम ण्वन्तरकर्मजश्च विभागः २ । ततो रक्तोत्पत्तिः
परमाण्वन्तरे पूर्वसंयोगनाशश्च ३ । ततः परमाण्यन्तरस-
यागः ४ । ततो द्व्यणुकोत्पत्तिः ५ । अथ रक्षत्पत्तिरिति ६ ।
एवं श्य मनाशक्षणे परमाण्वन्तरे कर्मचिन्तमात् सप्त
क्षखाः । रक्तोत्पत्तिसमकालं परमाण्वन्तरे कर्मचिन्त
नात् अष्ट क्षणाः” इति । नैयायिकानामिगि । नैया-
यिकानां मते द्व्यणुकादौ अवयविन्यपि पाको भवति
तेषामयमाशयः । अवयविनां साच्छद्रत्वाद्वह्नेः सूक्ष्मा-
वयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेब्धपि पाको न विरुध्यते ।
वैशेषिकमतेऽनन्तावयवतन्नाशकल्पने शौरवान् । इत्थञ्च
सीऽयं थट इत्यादिप्रत्यभिज्ञाऽपि सङ्गच्छते । थत्र तु
न पत्वभिज्ञा तत्रावयविनाशोऽपि स्वीक्रियते” सुक्त०
स्पर्शस्य बहुप्रकारता भा० शा० १८१ अ० उक्ता यथा
“वायव्यश्च गुणःस्पर्श स्पर्शस बहुधा स्मृताः । उष्णः १
शीतः २ सुखो ३ दुखः ४ स्निग्धो ५ विशद ६ एव च ।
तथा खरो ७ मृदू ८ रूक्षो ९ लघु १० र्गुरुतरो ११ऽपि च” ।
कठिनस्याप्युपलक्षणमिदं यथोक्तं भा० आश्व० ५० अ० ।
“वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः । रूक्षः १
शीत २ स्तथैवोष्णः ३ स्निग्धो ४ विशद ५ खर ६ एव च ।
कढिन ७ श्चिक्कणः ८ श्लक्ष्णः ९ पिच्छलो १० दारुणो ११
मृदुः १२ । एवं द्वादशविस्तारो वायव्या गुण एव च” ।
१३ कादिमावसानवर्णानासुत्पादके आभ्यन्तरप्रयत्ने सि० कौ० ।

स्पर्शतन्मात्र न० सांख्यमतसिद्धे वायूपदानकारणे स्पर्शमात्र-

गुणके सूक्ष्मभूतभेदे तन्मात्रशब्दे दृश्यम्।

स्पर्शन न० स्पर्श--स्पृश--वा ल्युट् । १ ग्रहणे २ स्पर्शे च । पृ० दृश्यम् ।

णिच् ल्युट् । ३ दाने च मेदि० । स्पृश--कर्त्तरि ल्य ।
४ वायो पु० अमरः ।

स्पर्शलज्जा स्त्री स्पर्शमात्रेण लज्जते सङ्कोचात् लज्ज--अच् । लज्जालुवृक्षे शब्दर० ।

स्पर्शशुद्धा स्त्री स्पशं शुद्धा । शतमूल्याम् शब्दच० ।

स्पर्शा स्त्री स्पर्श सहणे--कर्मणि घञ् । कुलटायां धरणिः

तस्याः सर्वैर्गृह्यमाणत्वातत्थात्वम् ।

स्पर्शाज्ञता स्त्री त्वक्शून्यत्वाख्ये वातरोगभेदे “स्पृश्यमाना अमु । स्प्रष्टाप्यत्र ।

त्वचा या तु शीतोष्णं मृदु कर्कशम् । न जानाति बुधैः
सा तु त्वक्शून्यत्वेति परिकीर्त्तिता” भा० प्र० ।

स्पर्ष्टृ त्रि० स्पृश--तृच् । १ उपतापयितरि स्त्रियां ङीष् । २ रोये

पु० भरतः । ऋतोरम् स्प्रष्टृ तत्रार्थे त्रि० ।

स्पश ग्रन्थे वाधने च भ्वा० उभ० सक० सेट् । स्पशात--ते

अस्पर्शीत्--अ स्पाशीत् । अस्पशिष्ट ।

स्पश पु० स्पश--अच् १ चरमात्रे २ अभिसरे (युद्धे) ३ गूढचर

च अमरः “राजनीतिरपस्पशा” माघः ।

स्पष्ट त्रि० स्पश--क्त नि० इड़भावः । १ व्यक्ते २ स्फुटे अमरः

स्पृ प्रीतौ अक० प्रीणने रक्षणे पालने च सक० स्वा० पर०

अनिट् । स्पृणोति अस्पार्क्षीत् ।

स्पृक्का स्त्री स्पृश--कक् पृषो० शस्य कः । पृक्व याम् भरतः ।

स्पृश स्पर्श तु० पर० सक० अनिद् । स्पृशति अस्प्राक्षीत्

अस्पार्क्षीत् अस्पृक्षत् । पस्पर्श ।

स्पृशा स्त्री स्पृश--क । १ सर्पसातिनीवृक्षे (कङ्कालिका) शब्दर-

२ कण्टकार्य्यां स्त्री अमरः गौरा० ङीष् ।

स्पृष्ट त्रि० स्पृश--क्त । १ कृतस्पर्शे । भावे क्त । २ स्पर्शे न० ।

३ कादिमावसानवर्णोत्पादके आभ्यन्तरपयत्रे न० ।
पृष्ठ ५३६९

स्पृष्टास्पृष्ट न० स्पृष्टेन आ सम्यक् स्पृष्टम् । परस्मरस्पर्शने

स्पृष्टास्पृष्टि न० स्पृश--भावे--क्त कार्मव्यतिहारे इच्समा०

पूर्वपददीर्घ । परस्परस्पर्शने “तीथ विवाहे यात्रायां
संग्रामे देशविप्लवे । नगरग्र मदाहे च स्पृष्टास्पृष्टि न
दुष्यति । आपद्यपि च कष्टायां रुग्भये पीडिते तथा ।
मातापित्रोर्गुरोश्चैव निदेशवर्त्तने तथा” वृहस्पतिः ।

स्पृष्टि स्त्री स्पृश--क्तिन् । स्पर्श अमरः ।

स्पृह इच्छायां अद० चुरा० उभ० सक० सेट् । स्पृहयति--ते अपस्पृहत् ।

स्पृहणीय त्रि० स्पृह--अनीयर् । १ वाञ्छनीये २ श्लाघ्ये च

“अहो वतासि स्पृहणीयवीर्य्यः” कुमारः ।

स्पृहयालु त्रि० स्पृहि--आलुच् । स्पृहाशीले ।

स्पृहा स्त्री स्पृह--अङ् । इच्छायाम् उमरः । “मिथुने

स्पृहावती” कुमारः ।
वर्णभेदे विषयभेदे स्पृहौचित्यं यथा
“तपोधनं ब्राह्मणानां तपः कल्पतरुस्तथा । तपस्या
कामधेनुश्च सन्ततं तपसि ष्पृहा । ऐश्वर्य्य” क्षत्रिया-
व्याञ्च बाणिज्ये च तथा विशाम् । शूद्राष्णां विप्रसेवायां
स्पृहा वेदेष्वनिन्दिता । क्षत्रियाणाञ्च तपसि स्पृहा-
तीव प्रशंसिता । व्राह्मणानां विवादेधु स्पृहातीव
विनिन्दिता । क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः ।
रणे स्पृष्ठ ब्र ह्मणानां लोके वेदे विड़म्यना । ब्रह्मवै०
ग० ख० ३५ अ० ।

स्पृह्य पु० स्पृह--कर्मणि यत् १ मातृलङ्गकवृक्षे उणा० २ वाञ्छगीयेत्रि० ।

स्फट विशोर्णतायाम् अक० भ्वा० पर सेट् । स्फटति अस्फ-

टीत्--अस्फाटीत् । इदिदप्युक्तार्थे स्फण्टति रुस्फण्टीत् ।

स्फट पुंस्त्री० स्फट--अच् । सर्पफणायाम् अमरटीका ।

स्फटि(टी) स्त्री स्फट--इन् वा ङीप् । (फट्किरी) वणिग्

द्रव्यभेदे भावप्र० । स्वार्थे क । तत्रार्थे “स्फटिका तु
कषायोष्णा वातपित्तकफव्रणान् । निहन्ति श्वित्रवीसर्पान्
योनिसङ्कोचकारिणी” भावप्र० ।

स्फटि(टी)क पु० स्फटि(टीव)रेव कायति कै--क ।

१ स्वनामख्याते मणौ हला० प्यार्थे क वा ह्रस्वः ।
२ स्फट्यां भावप्र० । स्वार्थेऽण् । स्फाटिकमप्यत्र न० शब्दर० ।
“स्फटकिः समवीर्य्यश्च पित्तदाहार्त्तिदोषणुत् । तस्माक्ष
मालां जपतां दत्ते कोटिगुणं फलम्” । तत्परीक्षा
यथा “यद्गङ्गातोयविन्दुच्छविनिमलतमं निस्मुर्षं नेत्र
हृद्य स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्तदाहास्व
हारि । पापाणे यन्निवृष्टं स्फुटितमपि निजां स्वच्छतां
नैव जह्यात् तज्जात्यं जातु लभ्यं शुभमुपचिनौते शैव
रत्नञ्च रत्नम्” राजनि० ।
“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् । मणिरत्न सरं
शीतं कषायं स्वादु लेखनम् । चक्षुष्यं धारणात्तच्च वापा-
लक्ष्मीविनाशनम्” राजवल्लभः । तस्य उत्पत्तकथादिक
यथा “कावेरीविन्ध्ययवनचीननेपालभूमिषु । लाङ्गली
व्यकिरन्मेदा दानवस्य प्रयत्नतः । आकाशशुद्धं तैलाख्य
मुत्पन्न स्फटिकं ततः । मृप्प लशङ्कधवलं किञ्चिद्वर्णा-
न्तरान्वितम् । न तत्तुल्यं हि रत्नानामथ वा
पापनाशनम् । संस्कतं शिल्पिना नद्यो मूल्यं किञ्चिल्लभे-
त्ततः” गारुड़े ७९ अ० । तथा “हिमालये सिंहले च
विन्ध्याटवितटे तथा । स्फटिकं जायते चैव नानारूपं
समप्रभम् । हिमाद्रौ चन्द्रसङ्काशं स्फटिकं तत् द्विधा
भवेत् । सूर्य्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथाऽपरम् ।
सूर्य्यांशुस्पर्शमात्रेण वह्निं वमति यत् क्षणात् । सूर्य्य-
कान्तं तदाख्यातं स्फटिकं रत्नवेदिभिः । पूर्णेन्दुकर-
संस्पर्शादमृत स्रवति क्षणात् । चन्द्रलान्तं तदास्त्रातं
दुर्लभं तत् कलौ युगे । अशोकपल्लवच्छायं दाडिमी-
वीजसन्निभम् । विन्ध्याटवीतटे देशे जायते पन्दकान्ति-
कम् । सिंहले जायते लुष्णमाकरे गन्धनीलके । पद्म-
रागभवस्थाने विविध स्फटिकं भवेत् । अत्यन्तनिर्मलं
स्वच्छं सृवतीव जलं शुचि । ज्यातिर्ज्यलनमाश्लिष्टं
मुक्ताज्योतीरसं द्विज! । तदेय लोहिताकारं राजावार्त्त-
समद्भवम । आनीलंतत्तु पाषाणं प्रोक्तं राजमयं शुअभम् ।
ब्रह्मसूत्रमयं यत्तु प्रोक्तं ब्रह्ममयं द्विज! “युक्तिकल्प०

स्फटिकाचल पु० स्फटिक इव शुभ्रत्वात् अचलः । १ कैलासप-

र्वते २ स्फाटिकमयपर्वते च । स्फटिकाद्रिप्रभृतयोऽप्यत्र

स्फटिकाद्रिभिद्(द) पु० स्फटिकाद्रिं स्फटिकपर्वत भिनत्ति

सादृग्यात् भिद--क्विप् क वा । कपूरे राजनि० ।

स्फटिकाभ्र पु० स्फटिकवर्णः अभ्व इव । कर्पूरे रातनि० ।

स्फटिकारि पु० ६ त० । (फट्किरि) बणिग्द्रव्यभेदे तस्य

स्फटिकतुल्यदीप्तिमत्त्वात्तथात्वम रत्नमा० ।

स्फड परिहामे चु० उभ० सक० सेट् इदित् । स्फण्डयति-

ते अपस्फण्डत्--त ।

स्फर चले स्फूर्त्तौ च तुदा० प० अक० सेट् । स्फरति अस्फारोत् ।

स्फरण न० स्फर--भावे ल्युष्ट् । स्फुरणे ।

स्फल चले स्मूर्नौ च तुदा० पर० अक० सेट । स्फलति अस्फालीत् ।

स्फाटिकोपल पु० स्फाटकमेस उपखः । स्फाटिके । त्रका० ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/स्तावक&oldid=316105" इत्यस्माद् प्रतिप्राप्तम्