वाचस्पत्यम्/सुचित्रा

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५३११

सुचित्रा स्त्री प्रा० स० । १ चिर्भटायां राजनि० । २ विचित्रे त्रि०

सुचिर न० प्रा० स० । १ अत्यन्तचिरकाले २ बहुकाले च ३

बहुकालभवे त्रि० ।

सुचिरायुस् पु० सुचिर बहुकालिकमायुर्यस्य । १ देवे शब्दर० २ बहुकालक्षिविनि त्रि० ।

सुचेलक पु० प्रा० स० । १ सूक्ष्मवस्त्रे अमरः । सुष्ठु चेलोऽस्य

कप् । २ सूक्ष्मवस्त्रधरे त्रि० ।

सुजल न० शोभनं जलं यस्मात् ५ ब० । १ कमले राजनि० प्रा० स० । २ सुन्दरे जले न० ।

सुजल्प पु० “यत्रार्जवात् सगाम्भीर्य्यं सदैन्थं सहचाप-

लम् । सोत्कण्ठञ्च हरिः स्पृष्टः स सुजल्पो निगद्यते”
उज्ज्वलमणिलक्षिते वाक्यभेदे

सुजाता स्त्री सु + जन--क्त । १ तुवर्य्याम् राजनि० २ मनोज्ञे त्रि०

सुजीवन्ती स्त्री प्रा० स० । स्वर्णजीवन्त्याम् राजनि० ।

सु(षु)ट्ट अनादरे चु० उ० सक० सेट् । सुट्टयति ते असुसु-

ट्टत् त । षोपदेश एव न्याय्यः ।

सुत पुंस्त्री० सु--क्त । १ पुत्रे २ तनयायां स्त्री अमरः । सा च

३ दुरालभायां शब्दच० ४ उत्पन्ने ५ सम्बद्धे ६ निष्पीड़िते
च त्रि० ७ पार्थिवे पु० मदि० ।

सु(सू)तक न० सु--(सू)--भावे क्त सु(सू)तं जननं तस्मादागतम्

कन् । १ जननाशौचे २ अशौचमात्रे च “सुतके मृतके
तथा” “मातुश्च सूतकं तत् स्यात्” इति च स्मृतिः ।

सुतजीवक पु० सुतं जीवयति सेवनात् जीव--णिच्--ण्वुल् ।

पुत्रजोवकवृक्षे राजनि० ।

सुतनु(नू) पुंस्त्री० सुष्ठु तनुर्यस्याः वा ऊङ् । १ नार्य्याम्

राजनि० “सुतनु! सत्यमलङ्करणाय ते” माघः प्रा० ब० ।
२ सुन्दरकाययुते त्रि० । प्रा० स० । ३ सुन्दरे काये स्त्री
ह्रस्वान्तः । ४ अत्यन्तसूक्ष्मे त्रि० स्त्रियां वा ङीष् ।

सुतपस् पु० सुष्ठु तपति सु + तप--असि । १ सूर्य्ये सि० कौ०

२ अर्कवृक्षे सुष्ठु तपोऽस्य । २ मुनौ पु० । ३ सुन्दर-
तपोयुक्ते त्रि० । प्रा० स० । ४ सुन्दरे तपसि न० ।

सुतपादिका सुताः संहताः पादाः मूलान्यस्याः कप्

कापि अत इत्त्वम् । हंसपदीलतायां राजनि० ।

सुतराम् अव्य० सु + अतिशयेऽर्थे तरप्--आमु । अवधारितार्थस्य

अतिशयौचित्ये “धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्य-
माणः सुतरा दयालुः” रघुः । अत्र कातराक्ष्या धेन्वा
वृश्यमानत्वेन दयालुत्वस्य अतिशयौचित्यम् ।

सुतर्कारी स्त्री सुतर्कमृच्छति ऋ--अण् ङीप् । देवदाली-

लतायाम् राजनि० ।

सुतर्द्दन पुंस्त्री० सुष्ठु तर्दति रवेण विरहिणम् सु + तृद-

ल्यु । कोकिले त्रिका० स्त्रियां जातित्वात् ङीष् ।

सुतल पु न० सुष्ठु तलं यत्र । १ पातालभेदे पातालशब्दे

४२९९ पृ० दृश्यम् । २ अट्टालिकाबन्धभेदे पु० मेदि० ।

सुतवस्करा स्त्री सुता वस्करा इव बहुत्वात् यस्याः । सप्त-

पुत्रप्रसवित्र्याम् स्त्रियां त्रिका० ।

सुतश्रेणी स्त्री सुता निष्पीड़िता श्रेणीव । १ मूषकपर्ण्याम्

अमरः ६ त० । २ पुत्रपङ्क्तौ च ।

सुतहिवुकयोग पु० “सुतहिवुकवियद्विलग्नधर्मेष्वमरगुरु-

र्यदि दानवार्चितो वा । यदशुभमुपयाति तच्छुभं स्यात्”
ज्यो० उक्ते वैवाहिकलग्नात् सुत ५ हिवुका ४ दिस्थिते
ग्रहभेदरूपे योगे ।

सुतात्मजा स्त्री ६ त० । १ पौत्र्यां २ दौहित्र्याञ्च अमरः ३ पौत्रे ४ दौ हत्रे च पु० ।

सुतिक्त पु० प्रा० स० । १ पर्पटे (क्षेतपापड़ा) राजनि० । २ अत्यन्त-

तिक्ते त्रि० ३ कोषातक्यां स्त्री राजनि० संज्ञायां कन् ।
पारिभद्रे जटा० निम्बे भूनिम्बे पु० शब्दमा० ।

सुतीक्ष्ण पु० प्रा० स० । १ शोभाञ्जनवृक्षे जटा० । २ श्वेतशोभाञ्जने

राजनि० । ३ मुनिभेदे च “सुतीक्ष्णमुनिकेतनम्” भट्टिः ।
४ अत्युग्रे त्रि० ।

सुतुङ्ग पु० प्रा० स० । १ नारिकेलवृक्षे हारा० ज्योतिषोक्ते

ग्रहाणाम् उच्चराशिस्थेषु २ अशभेदेषु च उच्चशब्दे १०५८
पृ० दृश्यम् । २ अतिशयोच्चे त्रि० ।

सुतेजन पु० सु + तिज--ल्यु । १ धन्वनि वृक्षे भावप्र० ।

सुतेजस् पु० सुष्ठु तेजोऽस्य । १ आदित्थभक्तायाम् राजनिं० ।

२ शोभनतेजोयुक्ते त्रि० । ३ जैनभेदे पु० हेमच० ।

सुतैला स्त्री सुष्ठु तैलं यस्याम् ७ व० । महाज्योतिष्मती

लतायाम् राजनि० ।

सु(सू)त्रामन् पु० सुष्ठु त्रायते सु + त्रै--मनिन् पृषो० ।

इन्द्रे अमरः । दीर्घादिः तत्रार्थे रुद्रः ।

सुत्वन् पु० सुनोति स्म सु--भूते क्वनिप् । १ कृताभिषेके

कृतयज्ञार्थस्नाने अमरः २ कृतसोमनिष्पीड़ने च ।

सुद शोभायां सौ० प० सक० सेट् इदित् । सुन्दति

असुन्दीत । सौत्रत्वेन न षोपदेशः ।

सुदग्धिका पु० सुष्ठु दग्ध दाहोऽस्त्यस्य ठन् । दग्धानामवृक्षे राजनि० ।

सुदण्ड पु० सुष्ठु दण्डो यस्मात् ५ ब० । वेत्रे राजनि० ।

सुदण्डिका स्त्री सुदण्डयति रोगान् सु + दण्डि + ण्वुल् ।

१ गोरक्ष्याम् । (गोरक्षचाकुले) राजनि० २ सुदण्डयुतायां
स्त्रियाञ्च ।

सुदत् पु० सुष्ठु दन्तोऽस्य वयसि दत्रादेशः । १ शोभनदन्त-

यक्तवयस्के गजादौ २ युवत्यां स्त्री ङीप् । “सुदती-
जनमज्जनार्पितैः” नैष० । वयोभिन्ने तु सुदन्त इत्येव
सुन्दरदन्तयुते नटादौ सि० कौ० ।
पृष्ठ ५३१२

सुदर्भा स्त्री सु + दृभ--कर्मणि घञ् । १ इक्षुदर्भावृक्षे राजनि० ।

सुष्ठु दर्भो यत्र । २ सुन्दरकुशयुक्ते त्रि० ।

सुदर्शन पु० सुष्ठु दृश्यते खलर्थे युच् । १ विष्णुचक्रे २ मेरौ

३ जम्बुवृक्षे मेदि० । (पद्मगुलुञ्च) ४ लताभेदे स्त्री रंत्नमा०
५ आज्ञायाम् ६ ओषधिभेदे च स्त्री ७ इन्द्रपुरे न० मेदि०
८ अमरावत्यां विश्वः स्त्री ङीप् । ९ जिनभेदे हेमच० ।
सुदर्शनचक्रं च सर्वदेवतेजोभिः शिवेन निर्माय विष्णवे
दत्तं यथोक्तं पद्मपु० उत्तरख० १४५ अ० । “अथ विष्णुमुखा
देवाः स्वतेजासि ददुस्तदा । तान्यैक्यं वै गतानीशो दृष्ट्वा
स्वञ्चासुचन्महः । तेनाकरोन्महादेवः सहसा शस्त्रमुत्त-
मम् । चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम्” ।
“ततः प्रीतः प्रभुः प्रादात् विष्णवे प्रवरं वरम् । प्रत्यक्षं
तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम्” वामनपु० ७९ अ०

सुदर्शनचूर्ण न० चूर्णरूपौषधभेदे

“त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी । त्रिकटु
ग्रन्थिकं मूर्वा गुडूची धन्वयासकः । कटुका पर्पटो मुस्तं
त्रायमाणा च बालुकम् । निम्बं पुष्करमूलञ्च मधुयष्टी
च वत्सकः । यवानीन्द्रयवो भार्गी शिग्रुवीजं सुरा-
ष्ट्रजा । वचा त्वक् पद्मकोशीरचन्दनातिविषा बला ।
शालिपर्णी पृश्निपर्णी विड़ङ्गं तगरं तथा । चित्रकं
देवकाष्ठञ्चं चव्यं पत्त्रं पटोलजम् । जीवकर्षभकौ चैव
लवङ्गं वंशलोचना । पुण्डरीकञ्च काकोली पत्रकं जाति
पत्रकम् । तालीशपत्रमेतानि समभागानि चूर्णयेत् ।
अर्द्धांशं सर्वचूर्णस्य किरातं प्रक्षिपेत् सुधीः । एतत्
सुदर्शनं नाम चूर्णं दोपत्रयापहम् । ज्वरांश्च
निखिलान् हन्यान्नात्र कार्य्या विचारणा । पृथग्द्वन्द्वा-
गन्तुजांश्च धातुस्थान् विषमज्वरान् । सन्निपातोद्भवां-
श्चापि मानसानपि नाशयेत् । शीतादीनपि दाहादीन्
मोहं तन्द्रां भ्रमं तृषाम् । कासं श्वासञ्च पाण्डुञ्च
हृद्रोगं कामलां तथा । त्रिकपृष्टकटीजानुपार्श्वशूलञ्च
नाशयेत् । शीताम्बुना पिबदेतत्सर्वज्वरनिवृत्तये ।
सुदर्शनं यथा चक्रं दानबानां विनाशर्नम् । तद्वज्ज्वराणां
मर्वेषां चूर्णमेतत् प्रणाशनम्” । पुष्करमूलाभावे कुष्ठमपि
दद्यान् । भार्ग्यभावे कण्टकारीमूलम् । सौराष्ट्र्यभावे
स्मटिकां दद्यात् । तगरालाभे कुष्ठं देयम् ।
जीवकर्षभयारभावे विदारीकन्दस्य भागद्वयं दद्यात् । पुण्ड-
रीकं श्वेतकमलम् । काकोल्यभावे अश्वगन्धमूलं दद्यात् ।
तालीशपत्रकाभावे स्वर्णताली प्रदीयते” भावप्र० ।

सुदल पु० सुष्ठु दलान्यस्य । क्षीरमोरटावृक्षे रत्नमा० २

शालपर्ण्यां स्त्री राजनि० ।

सुदामन् पु० सुष्ठु ददाति दा--मनिन् । १ मेघे २ पर्वतभेदे

(इरावत् पर्वत) मेदि० । सुदाम्नैकादिक् अण् ङीप्
सौदामनी तड़िति अमरः । २ गोपभेदे ४ समुद्रे शब्दर० ५
ऐरावते गजे त्रिका० पुराणप्रसिद्धे श्रीकृष्णमित्रे ६ विप्रभेदे
च ७ शोभनदातरि त्रि० । राजगृहसमीपस्थे ८ नदीभेदे
स्त्री रामा० अयो० ७० सर्सः । तत्र वा ङीप् डाप् च ।
सुदाम्नी सुदामा वा ।

सुदाय पु० सुष्ठु दीयते सु + दा--कर्मणि घञ् । १ यौतुकपसा-

दादिना स्त्रियै देये धने । सोदायिरुशब्दे दृश्यम् । सुष्ठु
दायो यस्य । २ पितृप्रभृतौ ज्ञातौ ।

सुदारु पु० सुष्ठु दारु यत्र । परिपात्रपर्वते त्रिका० ।

सुदि अव्य० स्वरा० सुष्ठु दीव्यति सु + दव--डि । शुक्लपक्षे मनोरमा

सुदिन न० प्रा० स० । १ प्रशस्तदिवसे । २ प्रशस्ते त्रि० ।

सुदिनाह न० सुदिनं प्रशस्तमहः टच्समा० । प्रशस्तदिवसे सि० कौ०

सुदीर्घधर्मा स्त्री सुदीर्घः अतिविस्तीर्णो धर्मो गुणविशेषो

यस्याः केवलत्वाभावान्नानिच्समा० डाप् । असनपर्ण्या
शब्दच० सुदीर्घो घर्मो यस्याः । सुदीर्धघर्सेति पाठान्तरे
तत्रार्थे ।

सुदीर्घफलिका स्त्री सुदीर्घं फलं यस्याः कप् कापि अत इत्त्वम् । वार्त्ताकुभेदे रत्नमा० ।

सुदीर्घा स्त्री प्रा० स० । चीनाकर्कट्याम् राजनि० ।

सुदूर त्रि० प्रा० स० । अतिदूरे अमरः ।

सुद्युम्न पु० वैवस्वतमनुपुत्रे इड़ाशब्दे ९२१ पृ० दृश्यम् ।

सुधन्वन् त्रि० सुष्ठु धनुर्यस्य अनङ्समा० । १ सुन्द धनुर्द्धरे ।

२ मान्धातृवंश्ये नृपभेदे हरिवं० १२ अ० । ३ आङ्गिरसे
मुनिभेदे भा० स० ६६ अ० । ३ अनन्ते नागे ५ विश्वकर्मणि
च पु० मेदि० ।

सुधन्वाचार्य्य पु० “वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य्य एव

च । कारुषश्च विजन्मा च मैत्रः सात्त्वत एव च”
मनूक्ते व्रात्यवैश्यात्सवर्णाजाते जातिभेदे ।

सुधर्म्मन् स्त्री सु + धृ--मनिन् । १ देवसभायाम् २ कुटुम्बिनि च पु० उणा० ।

सुधर्म्मा स्त्री सुष्ठु धर्मो यस्याः अनिच्समा० वा डाप् । देवस-

भायाम् अमरः । गौरा० ङीष् सुधर्मीत्यप्यत्र । अमरटीका
पृष्ठ ५३१३

सुधा स्त्री सुष्ठु धीयते पीयते अर्प्यते या धे धा--वा क ।

१ अमृते अमरः २ लेपनद्रव्ये (कणीचुन) ३ मूर्वायाम्
४ स्नु ह्यां ५ गङ्गायाम् ६ इष्टकायां मेदि० ७ विद्युति ८ रसे
९ जले १० धात्र्याम् नानार्थको० ११ हरीतक्याम् १२ मधुनि
शब्दच० १३ शालपर्ण्याञ्च राजनि० ।

सुधांशु पु० सुधेवाह्लादकाः अशवोऽस्य । १ चन्द्रे २ कर्पूरे च

अमरः । सुधाकरादयोऽप्यत्र ।

सुधांशुतैल न० सुधांशुना कर्पूरेण वासितं तैलम्! कर्पूरवासिते तैले राजनि० ।

सुधांशुरत्न न० ६ त० । मौक्तिके राजनि० तस्य चन्द्रप्रियत्वां-

त्तथात्वम् । ग्रहयज्ञशब्दे २७६३ प० दृश्यम् ।

सुधाङ्ग पु० सुधेवाप्यायनमङ्गमस्य । १ चन्द्रे त्रिका० २ कर्पूरे च

सुधाजीविन् पु० सुधां लेपनद्रव्यमाजीवति आ + जीव--णिनि

पलगण्डे लेपके (राज) त्रिका० ।

सुधाधार पु० ६ त० । १ चन्द्रे शब्दर० २ कर्पूरे ३ अमृताधारपात्रे च

सुधानिधि पु० सुधा निधीयतेऽत्र नि + धा--आधारे कि

६ त० । १ चन्द्रे शब्दर० २ कर्पूरे च ।

सुधापयस् पु० सुधा लेपनद्रव्यमिव शुभ्रं पयो निर्यासोऽस्य । स्नुहीवृक्षे ।

सुधाभुज् पु० सुधां भुक्तवान् भूज--भूते क्विप् । देवे हेमच० ।

सुधाभृ(सू)ति पु० सुधा भ्रियते पुष्यते सूयते वाऽनेन

भृसू--वा क्तिच् । १ यज्ञे २ चन्द्रे मेदि० ३ कर्पूरे च ।

सुधामय न० सुधात्मकं लेपनद्रव्यात्मकं वा प्राचुर्य्ये मयट् ।

२ राजभवने सौधे शब्दर० । अमृतवदाह्लादकवाक्यादौ
त्रि० स्त्रियां ङीप् ।

सुधामोदक पु० सुधेव मोदयति मुद--णिच्--ण्वुल् । १ यवास-

शकरायाम् २ कर्पूरे च राजनि० ।

सुधावर्षिन् पु० सुवां वर्षति वृष--णिनि । १ चन्द्रे २ कर्पूरे

३ ब्रह्मणि च शब्दर० ४ बुद्धभेदे त्रिका० ।

सुधावास पु० ६ त० । १ चन्द्रे २ कर्पूरे च । सुधाया इव

वासो गन्धो यस्याः । त्रपुष्याम् राजनि० ।

सुधासिन्धु पु० सुधामयः सिन्धुः । अमृतसमुद्रे राजनि० ।

सुधास्रवा स्त्री सुधां स्रवति स्रु--अच् । १ रुद्न्तीवृक्षे

राजनि० २ उपजिह्वायाञ्च (आलजिभ) त्रिका० ।

सुधाहर पु० सुधां हरति हृ--अच् । गरुड़े शब्दर० भा०

आ० ३२ अ० दृश्यम् । सुधाहारकादयोऽप्यत्र ।

सुधिति पुंस्त्री० सु + धा--क्तिच् न ह्यादेशः । १ कुठारे स्वधितौरायमु० ।

सुधी पु० सुंष्ठु धीर्यस्य । १ पण्डिते । सुष्ठु धीः प्रा० स० ।

२ सुन्दरबुद्धौ स्त्री । सुष्ठु ध्यायति सु + ध्यै क्विप् नि० ।
३ सुबुद्धियुक्ते त्रि० ।

सुधूम पु० सुष्ठु धूमः संतापो यस्य । स्वाद्नामगद्न्धद्रव्ये राजनि० ।

सुधोद्भव पु० सुधया सह सुधाया वा उद्भवति उद् + भू--अच् ।

१ धन्वन्तरौ वैद्यराजे समुद्रमन्थने हि तस्य सुधाकमण्डलु-
सहिततयोपत्तेस्तथात्वम् । २ हरितक्यां स्त्री त्रिका०
“पपात विन्दुर्मेदिन्यामिन्द्रस्य पिवतोऽमृतम् । ततो दिव्या
समुत्पन्ना सप्तजातिर्हरीतकी” भावप्र० उक्तेस्तस्याः सुधा-
विन्दुजातत्वात् तथात्वम् ।

सुनन्द न० सुष्ठु नन्दयति सु + नन्द--अच् । १ बलराममुषले शब्द-

मा० । २ श्रीकृष्णपार्श्व चरभेदे भाग० १० । ८९ अ० । ३ राजगृह-
भेदे च । ४ अत्यानन्दयुक्ते त्रि० शब्दर० ५ गोरोचनायाम्,
६ उमायाम् स्त्री मेदि० एवम् ७ उमासखीभेदे शब्दमा०
८ मार्य्याम् विश्वः ९ अर्कपत्त्रीवृक्षे च (इषेरमूल) स्त्री
रत्मभा० ।

सुनयन पुंस्त्री० सुष्ठु नयने अस्य । १ मृगे शब्दच० स्त्रियां

जातित्वात् ङीष् । २ नार्य्यां स्त्री टाप् । ३ शोभननेत्रयुक्ते
त्रि० स्त्रियां बह्वच्कत्वात् टाप् ।

सुनाकृत पु० सुष्ठु न अकृतः नञो नलोपाभावः । कर्परके शब्दच० ।

सुनाभ पु० सुष्ठ नाभिरस्य अच्समा० । मैनाकपर्वते त्रिका० ।

सुनामद्वादशी स्त्री व्रतभेदे व्रतशब्दे ५०६६ पृ० दृश्यम् ।

सुनार पु० सुष्ठु नालमस्य लस्य रः । १ सर्पाण्डे शुनीस्तन्ये

३ कलविङ्गे खगे पुंस्त्री० मेदि० स्त्रियां ङीष् ।

सुनालक पु० सुष्ठु नालेन कायति कै--क । १ वकवृक्षे शब्दच

२ सुन्दरनालयुक्ते त्रि० ।

सुनासिका स्त्री सुष्ठु नासाऽस्त्यस्य ठन् । १ काकनासायाम्

राजनि० । प्रा० स० । २ सुन्दरनासिकायाम् स्त्री ।

सुनासी(शी)र पु० सुष्ठु नासी(शी)रः अग्रगसैन्यं यस्य ।

इन्द्रे अमरः ।

सुनासी(शी)र्य्य पु० सुना(शी)सीरो देवताऽस्य यत् । यज्ञ-

भेदे । छ । सुना(शी)सीरीयोऽप्यत्र । स च चातुर्मासु-
यागपर्वभेदः कात्या० श्रौ० ५ । १६ कण्डिकायामुक्तः ।
कात्यायनशब्दे १८३० पृ० दृश्यम् । “न वैश्वदेवीये न
सुनासीर्य्ये श्रुतिः ।

सुनिषण्ण न० सुष्ठु निषण्णं स्वप्नो यस्मात् ५ ब० । (सुसुनि) शाके त्रिका० कप् तत्रैव अमरः ।

सुनिष्टप्त त्रि० सु + निस् + तप--क्त षत्वम् । अत्यन्तोद्दीप्ते

सुनीति स्त्री सुष्ठु नीतिः यस्याः । उत्तानपादस्य पत्नोभेदे

१ ध्रुवमातरि । २ सुन्दरनीतियुक्ते त्रि० । प्रा० स० ।
३ शोभनाथां नीतौ स्त्री ।

सुनीथ त्रि० सु + नी--थक् । १ धर्मशीले उणादिको० २ विप्रे संक्षिप्त०

सुनील न० प्रा० स० । १ मणिमेदे (नीलम) २ दाड़िमे

राजनि० ३ सुन्दरनीलवर्णे पु० । ४ तद्वति त्रि० । ५ अ
तस्याम् ६ अपराजितायां ७ जरतीतृणे च स्त्री राजनि०
पृष्ठ ५३१४

सुनीलक पु० सुनीक्व इव कायति कै--क । १ नीलभृङ्गराजे

२ नीलासने ३ नीलरत्ने च राजनि० ।

सुन्द पु० १ दैत्यभेदे उपसुन्दशब्दे १३३७ पृ० दृश्यम् । २ वानर-

भेदे रामा० ल० ४७ स० । ३ राक्षसभेदे रामा० बा० २० स० ।

सुन्दर त्रि० सु + उन्द--अरन्--शक० । १ मनोहरे अमरः स्त्रियां

ङीप् सा च २ उत्तमस्त्रियां ३ त्रिपुरसुन्दर्य्यां देव्याञ्च ।
४ कामदेवे ५ वृक्षभेदे च (सुन्दार) पु० मेदि० ६ योगिनी-
भेदे स्त्री तन्त्रम् “अयुजीर्यदि सौ जगौ, युजोः ।
सभरा ल्गौ यदि सुन्दरी तदा” छन्दो० उक्रे ७ अर्द्धसमे
वृत्तभेदे स्त्री । वृ० र० तु इयं वियोगिनीत्युक्ता ।

सुपक्व पु० सुन्दरं पच्यते सु + पच--क्त तस्य वः । १ शोभनाम्रे

शब्दच० । २ सुन्दरपरिणते त्रि० ।

सुपच त्रि० भुक्तं सत् सुखेन पच्यते पच--कर्मणि खल् । लघुपाके द्रव्यमात्रे ।

सुपत्त्र न० सुष्ठु पत्त्रमस्य । १ तेजपत्रे शब्दच० २ आदित्यपत्त्रे

पु० । ३ पल्लिवाहतृणे राजनि० ४ सुन्दरपत्त्रयुक्ते त्रि० ।
५ रुद्रजटायां ६ शतावर्य्यां ७ पालङ्क्यां ८ शम्यां ९
शालपर्ण्याञ्च स्त्री राजनि० ।

सुपत्त्रक पु० सुष्ठु पत्त्रं पक्षोऽस्य कप् । १ शोमाञ्जनवृक्षे

२ जतुकायां स्त्री राजनि० अत इत्त्वम् ।

सुपथ पु० सुष्ठु पन्थाः प्रा० स० वा अच्समा० । १ सद्वर्त्मनि २

सदाचारे च सुष्ठु पन्था यत्र अच्समा० । ३ सुन्दरपथयुक्ते त्रि० ।

सुपथिन् पु० प्रा० स० वा समासान्ताभावः । सत्पथे शब्दर०

सुपन्थाः ।

सुपथ्या स्त्री प्रा० स० । १ श्वेतचिल्लीवृक्षे राजनि० २ शोभनपथ्ये त्रि० ।

सुपद्मा स्त्री सुष्ठु पद्यते पद--म । १ वचायाम् शब्दच० । प्रा० व० ।

२ पद्मिन्यां स्त्री ।

सुपर्ण पु० सुष्ठु पंर्णं पत्त्रं पक्षो वा यस्य । १ गरुड़े अमरः

२ सुन्दरपर्णयुक्ते त्रि० ३ स्वर्णचूड़खगे पुंस्त्री० स्त्रियां
ङीष् । ४ कृतमालवृक्षे पु० मेदि० ५ नागकेशरे पु० त्रिका० । कप्
सुपर्णक । आरग्बधे वृक्षे सप्तच्छदवृक्षे जटा० गरुडे च
हेमच० । शालपर्ण्यां रेणुकायां पलाश्यां स्वर्णजीवन्त्यां
वाकुच्यां स्त्री कापि अत इत्त्वम् ।

सुपर्णकेतु पु० सुपर्णो गरुड़ः केतुर्यस्य । विष्णौ हला० ।

सुपर्णी स्त्री सुष्ठु पर्णान्यस्या गौरा० ङीष् । १ पद्मिन्यां सुपर्णो

गरुड़ोऽस्त्यस्या अच् गौरा० ङीष् । २ गरुड़मातरि च मेदि०

सुपर्णीतनय पु० ६ त० । गरुड़े हला० ।

सुपर्वन् पु० सुष्ठु पर्व यस्य । १ देवे अमरः २ वाणे ३ वंशे ४ धूमे

च मेदि० । प्रा० स० । ५ सुन्दरे पर्वणि न० ।

सुपर्वा स्त्री सुष्ठु पर्व अस्त्यस्याः अच् टाप् । श्वतदूर्वायाम् राजनि० ।

सुपाक्य न० सुपाकाय हितम् यत् । १ विड़्लवणे राजनि० ।

सुपार्श्व पु० सुष्ठु पार्श्वोऽस्य । १ प्लक्षवृक्षे (पाकुड) वृक्षभेदे

२ सम्पातिपुत्त्रे विहगभेदे च राजनि० ३ सुन्दरपार्श्वान्विते
त्रि० । ४ मेरोरुत्तरस्थविष्कम्भपर्वते पु० धान्यशैलशब्दे ३८८२
पृ० दृश्यम् । संज्ञायां कन् । १ गर्दभाण्डवृक्षे पु० अमरः ।

सुपिङ्गला स्त्री प्रा० स० । १ ज्योतिष्मत्यां २ जीवन्त्याञ्च राजनि

सुपीत न० प्रा० स० । १ गर्जरे (गाँजर) राजनि० । २ सुन्दर-

पीतवर्णे पु० ३ तद्वति त्रि० ।

सुपुट पु० सुष्ठु पुटमस्य । १ कोलकन्दे २ विष्णुकन्दे च राजनि० ।

सुपुत्रिका स्त्री सुष्ठु पुत्र इव पक्षः यस्याः कप् अत इत्त्वम् ।

जतुकायाम् (तेलोपोका) राजनि० ।

सुपुष्करा स्त्री सुष्ठु पुष्करमस्याः अच् । स्थलपद्मिन्याम् रजनि० ।

सुपुष्प न० प्रा० स० । १ लवङ्गकुसुमे शब्दच० २ पपौण्डरीके

२ आहूल्ये ४ तूले राजनि० ५ स्त्रीणां रजसि च “सुपुष्पै-
राकीर्णं कुसुमधनुषो मन्दिरमहो” श्यामास्तवः । सुष्ठु
पुष्पमस्य कप् । (पालतामान्दार) वृक्षे । पाटलायां
स्त्री राजनि० अत इत्त्वम् ।

सुपुष्पी स्त्री सुष्ठु पुष्पमस्याः ङीष् । १ श्वेतापराजितायां

२ शतपुष्पायाम् ३ मिश्रेयायां ४ द्रोणपुष्प्यां ५ जीर्ण-
फञ्ज्यां राजनि० । ६ कदल्यां शब्दच० ।

सुपूर पु० सुष्ठु पूर्य्यते सु + पूर--क । वीजपूरे राजनि० ।

सुपूरक पु० सुष्ठु पूरयति पूर--ण्वुल् । वकवृक्षे रत्नमा० ।

सुप् स्त्री व्याकरणपरिभाषिते सुप्रभृतौ सुप्पर्य्यन्ते प्रत्ययभेदे ।

सुप्त न० खप--भावे क्त संप्रसारणम् । १ निद्रायां २ शयने च

३ सुसुप्तौ हेमच० कर्त्तरि क्त । ४ निद्रिते त्रि० ।
“क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः । भा०
ण्डारी च प्रवासी च्सप्त सुप्तान् प्रबोधयेत् । मक्षिका
म्रमरः सर्पो राजा वै वालकस्तथा । परश्वाऽपि च
मूर्खश्च सप्त सुप्तान्न बाधयेत्” नीतिसारः ।

सुप्तघातक त्रि० ६ त० । हिंस्रे त्रिका० ।

सुप्तजन पु० सुप्तो जनो यत्र । १ अर्द्धरात्रे जटा० । कर्म० ।

२ निद्रिते लोके च ।

सुप्ति स्त्री स्वप--क्तिन् । १ शयने २ निद्रायाम् ३ खप्रे च

“करोति मप्तिर्जनदर्शनातिथिम्” नैष० । ४ स्पर्शतायां ५ विश्रम्भे
मेदि० ।

सुप्रतिभा स्त्री सुष्ठु प्रतिभा यस्याः ५ ब० । १ सुरायाम् प्रा०

स० । २ उज्ज्वलायां बुद्धौ । ६ ब० । ३ तद्वति त्रि० ।
पृष्ठ ५३१५

सुप्रतिष्ठा स्त्री प्रा० स० । १ प्रशंसायाम् । ६ ब० २ तद्वति त्रि० ।

३ पञ्चाक्षरपादके छन्दोभेदे स्त्री । “प्रतिष्ठान्या सुपूर्विका”
वृ० र० ।

सुप्रतिष्ठित पु० मु + प्रति + स्था--क्त षत्वटुत्वे ।

१ उडुम्बरवृक्षे राजनि० । २ प्रशंसिते त्रि० ।

सुप्रतीक पु० सुष्ठु प्रतीकं यस्य । ईशानकीणस्थिते दिग्गजे

अमरः । २ शिवे ३ कामे च ४ सुन्दराङ्गे त्रि० । प्रा० स० ।
४ सुन्दरे अङ्गे न० ।

सुप्रभा स्त्री सुष्ठु प्रभा यस्याः । १ अग्निजिह्वाभेदे तन्त्र०

२ वाकुच्यां राजनि० । ३ सुन्दरदीप्तियुते त्रि० । प्रा० स० ।
४ शोभनायां दीप्तौ स्त्री ५ शुक्लबले हेमच० । ६ सरस्वती-
नदीभेदे स्त्री सरस्वतीशब्दे ५२४९ पृ० दृश्यम् ।

सुप्रभात न० प्रा० स० । १ शुभसूचकप्रातःकाले २ तत्र पाठ्य-

माङ्गल्यवाक्ये च ।

सुप्रयुक्तशर पु० सुपयुक्तः शरो येन । शीघ्रहस्ते वाणमोचना भ्यासपाटवयुक्ते हेमच० ।

सुप्रयोगविशिख पु० सुष्ठु प्रयोगो निक्षेपो यस्य तादृशो

विशिखो यस्य । शीघ्रहस्ते वाणमोक्षणशीघ्रतारूपपाटव-
युक्ते भरतः ।

सुप्रलाप पु० सु + प्र + लप--घञ् । सुवचने अमरः ।

सुप्रसन्न पु० सु + प्र + सद--क्त । १ कुवेरे शब्दच० । २ अतिप्रसाद-

युक्ते त्रि० । सं ज्ञायां कन् । कृष्णार्जके पु० राजनि० ।

सुप्रसरा स्त्री सु + प्र + सृ--अच् । १ प्रसारिण्यां लतायाम्

राजनि० । २ विस्तारयुक्ते त्रि० ।

सुप्रसाद पु० सुखेनानायासेन प्रसादो यस्य । १ शिवे त्रिका०

प्रा० स० । २ सुन्दरप्रसन्नतायाम् ।

सुफल पु० सुष्ठु फलमस्य । १ दाड़िमे २ बदरे ३ मुद्गे ४ कर्णि

कारे राजनि० । ५ कपित्थे शब्दच० ६ सुन्दरफलयुते त्रि० ।
७ इन्द्रवारुण्यां ८ कुष्माण्ड्यां ९ कदल्यां १० कपिलद्राक्षायां
११ काश्मर्य्याञ्च स्त्री राजनि० ।

सुफेन न० प्रा० स० । समुद्रपेने राजनि० ।

सुबन्ध पु० सुखेन बध्यतेऽसौ बन्ध--घञ् । तिलवृक्षे शब्दच० ।

सुभग पु० सुष्ठु भगः भाहात्म्यादिः यस्य । १ चम्पके २ त्यशोके

३ रक्ताम्लाने ४ टङ्कणे च राजनि० ५ सुदृश्ये ६ प्रिये मेदि० ।
७ शोभनैश्वर्य्ययुक्ते च त्रि० । ८ कैवर्त्तीमुस्तायां ९
भालपर्ण्याम् १० हरिद्रायां ११ नीलदूर्वायां १२ तुलस्यां १३ प्र
यङ्गौ १४ कस्तूर्य्यां १५ स्वर्णकदल्यां स्त्री राजनि० । १६ वन
मल्लिकायां शब्दर० १७ पतिप्रियायां स्त्रियां च स्त्री ।
सुभगाया अपत्य दक् इनङ्च । सौभागिनेय तदपत्ये पुंस्त्री०

सुभगम्भावुक त्रि० असुभगः सुभगो भवति भू--चूव्यर्थे

खुकञ् मुम् च । प्रियम्भविष्णौ सि० कौ० ।

सुभगासुत पु० सुभगायाः पतिप्रियायाः सुतः । सौभागिनेये अर्मरः ।

सुभङ्ग पु० सुखेनानायासेन भज्यते निःसारत्वात् सु + भन्ज-

कर्मणि घञ् । नारिकेलवृक्षे जटा० ।

सुभट पु० प्रा० स० । सुन्दरयोद्धरि ।

सुभद्र पु० सुष्ठु भद्रं यस्मात् । १ विष्णौ शब्दमा० । ६ ब० ।

२ राजभेदे हेमच० ३ शोभनमङ्गलयुते त्रि० । ४ श्यामा-
लतायाम् स्त्री शब्दच० । ५ श्रीकृष्णस्य भगिन्थाञ्च स्त्री ।
कप् । सुभद्रक देवरथे शब्दर० विल्ववृक्षे च पु० शब्दच० ।

सुभद्राणी स्त्री सुभद्रं सुमङ्गलमानयति आ + नी--ड गौरा०

ङीष् णत्वम् । त्रायन्तीलतायाम् रत्नमा० ।

सुभद्रेश पु० ६ त० । अर्जुने हेमच० । सुभद्रापत्यादयोऽप्यत्र ।

सुभाञ्जन पु० सुष्ठु भाति भा--क कर्म० । शोभाञ्जनवृक्षे

द्विरूपकोषः ।

सुभिक्ष त्रि० सुखेन लभ्या भिक्षा यत्र पर्य्याप्तान्नत्वात् । प्रचुरान्नयुते देशकालादौ ।

सुभिक्षा स्त्री सुष्ठु भिक्ष्यते याच्यतेऽसौ सु + भिक्ष--अ । घातृ-

पुष्पिकायाम्(धाँइफुल) अमरः ।

सुभीरक पु० सुष्ठु भीः सुभीः तासीरयति विरहिणम्

ईरण्वुल् । पलाशवृक्षे हारा० ।

सुभूति पु० सुष्ठु भवति सु + भू--क्तिच् । १ पण्डितभेदे प्रा० स० ।

२ सुन्दरविभूतौ स्त्री । ६ व० । ३ तद्वति त्रि० कप् । ४ विल्व-
वृक्षे पु० राजनि० ।

सुभूम पु० सुष्ठु भूमिरस्य अच्समा० १ कर्त्तवीर्य्ये जिनानां चक्रवर्त्तिभेदे हेमच० ।

सुभृश न० सुष्ठु भृशम् । १ अतिशये दार्द्ये । २ तद्वति त्रि० ।

सुभ्रुभ्रू स्त्री सुष्ठु भ्रुर्यस्याः वा ऊङ् । १ नार्य्याम् २

सुन्दरभ्रुयुक्ते त्रि० ।

सुम न० सुष्ठु मीयतेऽदः सु--मा--घञर्थे क । १ पुष्पे भरतः ।

मु--मक् । २ चन्द्रे ३ कर्पूरे ४ नभसि च पु० उणा० ।

सुमङ्गला स्त्री सुवु मङ्गलं यस्याः ५ व० । (माकड़हाता)

वृक्षे रत्नमा० । २ सुमङ्गलयुक्ते त्रि० स्त्रियां ङीष् ।
“समङ्गलीरियं वधूः” इति श्रुतिः ।

सुमति त्रि० सुष्ठु मतिर्यस्य । १ शोभनवुद्धियुते २ कलकिमातरि

विष्णुयशमः पत्न्यां स्त्री । ३ सर्हत्मातरि च स्त्री हेमच० ।
प्रा० स० । ३ सुन्दरायां बुद्धौ स्त्री ।

सुमदन पु० सुष्ठु मदयति कोकिलान् मट--णिच्--ल्यु । आम्रवृक्षे त्रिका० ।

सुमदात्मजा स्त्री सुमद आत्मज इवास्याः अप्सरःसु त्रिका०

सुमधुर न० प्रा० स० । १ अत्यन्तप्रियवाक्ये अमरः २ सान्त्यन

वाक्ये च । २ अतिमधुररसे ३ तद्युक्ते त्रि० ४ जीवशाके पु०
राजनि० ।
पृष्ठ ५३१६

सुमन पु० सुष्ठु मन्यते मन--अपु । १ गोधूमे अमरः । २ धुस्तूरे शब्दमा० ३ मनोहरे त्रि० शब्दर० ।

सुमनःपत्रिका स्त्री सुमनसः जात्या इव पत्त्रमस्याः कप्

अत इत्त्वम् । जातीपत्त्रिकायाम् राजनि० ।

सुमनःफल पु० सुष्ठु मनो यस्मात् तादृक् फलमस्य ।

१ कपित्थे शब्दच० । ६ त० । २ जातीफले न० ।

सुमनस् न० सुष्ठु मनो यस्मात् यस्य वा । १ पुष्पे अमरः ।

ब० व० इत्यन्ये “किं सेव्यते सुमनसां मनसापि गन्धः” इति
रसगङ्गाधारः । २ मालत्यां स्त्री अमरः ३ प्रशस्तचित्तयुक्ते
त्रि० । प्रा० स० । ४ प्रशान्ते मनसि न० । ६ व० । ५ देवे
पु० अमरः । ६ पण्डिते मेदि० ७ पूतिकरञ्जे शब्दमा० ८ निम्बे
९ महाकरञ्जे १० गोधूमे ११ शतपत्त्र्यां स्त्री राजनि० ।

सुमना स्त्री सुष्ठु मन्यते मन--अप् । मालतीवृक्षे शब्दर० ।

सुमनीरजस् न० ६ त० । पुष्पघूलौ परागे अमरः ।

सुमन्तु पु० सु + मन + तुन् । १ अथर्वयेदाध्यायिनि व्यासशिष्ये

मुनिभेदे “अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः”
भाग० १ । ४ अ० । अतिशयितो मन्तुरपराधोऽस्य । २ अत्यन्ताप-
राधयुते त्रि० । २ दशरथसारथो रामा० । ३ कल्किदेवस्य
ज्येष्ठभ्रातरि कल्किपु० ।

सुमित्रा स्त्री १ लक्ष्मणमातरि दशरथपत्नीभेदे । २ सुन्दर-

मित्रयुक्ते त्रि० । ३ अर्हद्भेदे पु० हेमच० । ४ मुरथराजपुत्रे
गृषभेदे विष्णुपु० । ४ अ० २३ अ० ।

सुमुख पु० सुष्ठु मुखमखात् अस्य वा । १ शाकभेदे २ नणेशे

३ नागभेदे ४ गरुड़पुत्रभेदे च शब्दर० । ६ सिताजेके ७ वर्वरे
वनवर्वरिकायाञ्च राजनि० । ९ सुप्रसन्नवदने १० मनोहरे
च त्रि० । स्त्रियां ङीप् । ११ नखक्षतभेदे शब्दर० ।

सुमुष्टि पु० सु + गुष--कर्त्तरि क्तिच् । विषमुष्टिक्षुपे राजनि० ।

सुमूल पु० सुष्ठु मूलमस्य । १ श्वेतशोमाञ्जने राजनि० । २

शालपर्ण्यां ३ पृश्निपर्ण्यां च स्त्री राजनि० टाप् । ४ सुन्दर-
मूलयुक्ते त्रि० । संज्ञायां कन् । गर्जरे न० राजनि० ।

सुमेखल पु० सुष्ठु मेखला यस्मात् ५ ब० । १ मुञ्जतृणे राजनि०

६ ब० । २ सुन्दरमेखलान्विते त्रि० ।

सुमेधस् स्त्री सुष्ठु मेधा अस्याः ५ ब० असिच्समा० । १ ज्यो-

तिष्मत्यां लतायाम् । ६ ब० । २ मन्दरमेधापुक्ते त्रि० मेदि० ।

सुमेरु पु० प्रा० स० । १ पर्वतभेदे स्तनरः । स्नम्पुद्वीपशब्दे

३०४५ पृ० दृश्यम् । २ जपमालासीमास्थगुटिकायाञ्च
तन्त्रम् ।

सुम्पलुण्ठ पु० कर्पूरके शब्दच० ।

सुम्भ(ह्म) पु० शुम्भ--अच् पृषो० । १ देशभेदे शब्दर० २ तद्देशवासिनि पु० ब० व० ।

सुयामुन पु० यमुनाया इदम् सुष्ठु यामुनं प्रियत्वेतास्त्यस्य

अच् । १ विष्णौ २ वत्सराजे ३ प्रासादविशेषे ४ पर्वतभेदे
हेमच० । ४ मेथभेदे च मेदि० ।

सुयोधन पु० सुखेन युध्यतेऽसौ सु + युध--युच् । धृतराष्ट्र-

राजपुत्रभेदे दुर्योधने त्रिका० ।

सुर पु० सुष्ठु राति ददात्यभीष्टं सु + रा--क । १ देवे अमरः । २ सूर्य्ये ३ पण्डिते च ।

सुरकृता स्त्री ३ त० । १ गुडूच्याम् राजनि० २ देवनिर्मिते त्रि०

सुरक्तक पु० सुरक्त इव कायति कै--क । १ काषाम्रे २ खर्ण-

गैरिके च राजनि० ।

सुरगुरु पु० ६ त० । वृहस्पतौ त्रिका० ।

सुरग्रामणी पु० सुराणां ग्रामणीः नेता । इन्द्रे त्रिका० ।

सुरङ्ग न० सुष्ठु रङ्गो यस्मात् ५ ब० । १ हिङ्गुले २ पत्तङ्गे

(वर्णकमाटि) प्रा० स० । ३ नागरङ्गे ४ नर्त्तभेदे (हिँध) च पु०
राजनि० ।

सुरङ्गधातु पु० सुष्ठु रङ्गो रञ्जनं यस्मात् ५ ब० कर्म० । गैरिके राजनि० ।

सुरङ्गा स्त्री सृ--अङ्गच् नि० (सिँध) सन्धो हला० ।

२ कैवर्त्तिकायाम् राजनि० ।

सुरङ्गिका स्त्री सुष्ठु रङ्गो रञ्जनं यस्याः ५ व० कप् सत

इत्त्वम् । १ मूर्वायाम् राजनि० ।

सुरङ्गी स्त्री सुष्ठु रङ्गो यस्याः ५ ब० गौरा० ङीष् । १

काकनासायाम् राजनि० । २ रक्तशोभाञ्जने रत्नमा० ।

सुरज्येष्ठ पु० ७ त० । चतुर्मुखे ब्रह्मणि अमरः ।

सुरञ्जन पु० सुरञ्जयति सु + रन्ज--णिच्--ल्यु । गुवाके त्रिका०

सुरत न० सु + रम--भावे क्त । १ स्त्रीपुंसयोः सङ्गमरूपे

रमसभेदे मेदि० । सु--रम--कर्त्तरि क्त । २ अत्यन्तरते त्रि० ३
दृयालौ सारसुन्दरी ।

सुरतताली स्त्री सुरतं तालयति तल--णिच्--अण् गौरा०

ङीष् । १ दूत्यां २ शिरःस्रजि च मेदि० ।

सुरता स्त्री सुराणां समूहः भावो वा तल् । १ देवसमूहे २ देवत्वे

च मेदि० । सु + रम--क्त । ३ अत्थन्तरतायां स्त्रियां स्त्री ।

सुरताङ्ग पु० सुरतस्याङ्गमत्र । सुररपुन्नागे राजनि० ।

सुरतोषक पु० ६ त० । १ कौस्तुभमणौ शब्दर० । २ देवतोषते त्रि०

सुरथ पु० सुष्ठु रथोऽस्य । चन्द्रवंश्ये नृपभेदे “मरथो नाम

राजाऽभूत्” देवीमा० । २ सुन्दररथयुक्ते त्रि० ।

सुरदास न० सुरप्रियं सुरलोकपर्य्यन्तमुचिहतं वा सल्लत्वात्

दारु । देवदारुवृक्षे रलना० ।
पृष्ठ ५३१७

सुरदीर्घिका स्त्री सुराणां दीर्घिकेव । गङ्गायाम् अमरः

सुरवाप्यादयोऽप्यत्र ।

सुरदुन्दुभी स्त्री सुराणां दुन्दुभीबाह्लादकत्वात् । तुलस्याम्

राजनि० ।

सुरद्रुम पु० सुरप्रियो द्रुमः । १ देवदारुणि २ देवनले च राजनि० ।

सुरद्विष् पु० सरान् द्वेष्टि द्विष--क्विप् । १ असुरे अमरः

२ देवद्वेष्टरि त्रि० ।

सुरधनुस् न० ६ त० । इन्द्रधनुषि जटाधरः ।

सुरधूप पु० सुरप्रिया धूपः । राले (धुना) राजनि० ।

सुरन(ण)दी स्त्री ६ त० वा णत्वम् । गङ्गायां सुरधुन्यादयोऽप्यत्र

सुरनन्दा स्त्री नदीभेदे शब्दर० ।

सुरनाल पु० सुरप्रियं नालमस्य । देवनलवृक्षे राजनि० ।

सुरनिम्नगा स्त्री ६ त० । गङ्गायाम अमरः ।

सुरनिर्गन्ध न० सुरेषु निर्गन्धम् । पत्रके राजनि० ।

सुरपति पु० ६ त० । इन्द्रे अमरः सुरेशादवोऽप्यत्र ।

सुरपथ पु० सुराणां पन्था इव गत्याधारत्वात् अच्समा० ।

आकाशे हेमच० ।

सुरपर्ण न० सुरप्रियं पर्णमस्य । सुगन्धिके ओषधिभेदे राजनि० ।

सुरपर्ण्णिक पु० सुरप्रियं पर्फ शाक० तदस्त्यस्य ठक् ।

१ सुरपुन्नागे राजनि० २ पुन्नागे स्त्री हेमच० ।

सुरपर्ण्णी स्त्री सुरप्रियं पर्णं यस्याः ङीष् । पलाशीवृक्षे राजनि०

सुरपादप पु० ६ त० । कल्पवृक्षे सुरवृक्षादयोऽप्यत्र ।

सुरपुन्नाग पु० सुरप्रियः पुन्नागः । पुन्नागभेदे राजनि० ।

सुरपुरी स्त्री ६ त० । अमरावत्यां त्रिका० । सुरनगर्य्यादयोऽप्यत्र

सुरप्रिय पु० ६ त० । १ अगस्त्यवृक्षे राजनि० । २ वृहस्पतौ

३ इन्द्रे च । ४ जात्यां ५ स्वर्णकदल्याञ्च स्त्री राजनि० ।

सुरभि न० सु + रभ--इन् । १ स्वर्णे २ गन्धाश्मनि च शब्दर०

३ मुन्दरे ४ साधुगन्धे पु० धरणिः ५ सुगन्धे अमरः ६ चम्पके
७ जातीफले ८ वसन्ते ऋतौ मेदि० “स सुरभिं सुरभिं
सुमनोभरैरिति” माघः । ९ शमीवृक्षे १० कदम्बे ११
कणनुग्गुलौ १२ गन्धतृणे १३ बकुलवृक्षे १४ राले राजनि०
१५ चैत्रे मासि १६ पण्डिते धरणिः १७ गन्धफले पु०
शब्दर० । १८ शल्लक्यां १९ रुद्रजटायां २० मातृकाभेदे २१ गवि
२२ सु(सु)रायां स्त्री मेदि० २३ वनमालिकायां २४
तुलस्यां २५ प्राच्यां स्त्री राजनि० २६ पृपिव्यां २७ गवां मातरि
च खी वा ङीप् । २८ सङ्गन्धयुक्ते २९ मनोहरे त्रि० मेदि०
३० सिख्याते ३१ धीरे च त्रि० धरणिः । सुरमिश्च कश्यप-
पत्वीभेदः । “सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा
हरिवं० ३अ० कश्यपपत्नीकथने । तस्याश्च द्वे कन्ये
रोहिणी गन्धर्वी च “तथा दुहितरो राजन्! सुरभिर्वै
व्यजायत । रोहिणी चैव भद्रां तु गन्धर्वीं च रजस्वलाम् ।
रोहिण्यां जज्ञिरे गावः गन्धर्व्यां वाजिनः सुराः”
भा० आ० ६६ अ० तस्याश्च रोहिणीरूपगोमातृजन-
नात् गोमातृत्वेन । ब्रह्मवै० प्र० ४४ अ० । “गवामधिष्ठातृ-
देवो गवासाद्या नवां प्रसूः । गवां प्रधाना सरभी
गोलोके सा समुद्भवा” इति गवाद्यत्वमुक्तम् । सर्वतः स्त्रियां
वा ङीप् ।

सुरभिका स्त्री सुरभि + स्वार्थे क । (चाँपाकला) स्वर्णकदल्यां वृक्षे राजनि० ।

सुरभित्वच् स्त्री सुरभिः त्वक् यस्याः । स्थूलैलायां राजनि०

सुरभिदारु पु० सुरभि दारु यस्य । सरलवृक्षे राजनि० ।

सुरभिपत्त्रा स्त्री सुरभि पत्त्रसस्याः । १ जम्बूवृक्षे २

राजजम्बूवृक्षे च राजनि० ।

सुरभिवल्कल न० सुरभि वल्कलमव्य । १ गुड़त्वचि (दारचिनि) शब्दर० ।

सुरभिस्रवा स्त्री सुरभिः स्रवो निष्यन्दो यस्याः । तल्लक्याम्

राजनि० सुरभिरसाप्यत्र ।

सुरभूरुह पु० सुरप्रियः भूरुहः देवदारुवृक्षे भावप्र० ।

सुरमृत्तिका स्त्री सुरप्रिया मृत्तिका । तुवर्य्याम् (वर्णक-

माटि) राजनि० ।

सुरमेदा स्त्री सुरप्रियो मेदोऽस्याः । महामेदायाम् राजनि०

सुरर्षि पु० सुरप्रियः ऋषिः । नारदादिषु ऋषिषु अमरः ।

ऋषिशब्दे १४५२ पृ० दृश्यम् ।

सुरलता स्त्री सुरपिया लता । महाज्योतिष्मत्याम् राजनि०

सुरला स्त्री सुरान् लाति सेवकत्वेन ला--क । १ गङ्गायां

हारा० । २ सुरलाख्ये नदोमेदे शब्दर० ।

सुरलोक पु० सुराणां लोकः वासस्थानादिः । १ स्वर्ग अमरः ।

सुरभुवनादयोऽप्यत्र ।

सुरवर्त्मन् न० सुराणां वर्त्मेव गत्याधारत्वात् । आकाशे अमरः ।

सुरवल्लभा स्त्री ६ त० । श्वेतदूर्वायाम् राजनि० ।

सुरवल्ली स्त्री सुरप्रिया वल्ली । तुलस्याम् राजनि० ।

सुरवैरिन् स्त्री ६ त० । १ असुरे शब्दर० । २ सुरविरोधिनि त्रि०

सुररिपुपमृगयोऽप्यत्र ।

सुरशत्रु पु० ६ त० । असुरे हला० ।

सुरशाखिन् पु० ६ त० । कल्पवृक्षे जटा०

सुरश्रेष्ठा स्त्री सुरेषु श्रेष्ठा । ब्राह्यां राजनि० ।

पृष्ठ ५३१८

सुरस न० सुस्वेन रस्यते सु + रम--पञर्थे कर्मणि क । १ बोते

२ त्वरो ३ गन्धतृणे ४ गिन्धुरारे पु० शब्दर० । ५ मोसरष
राजनि० । प्रा० स० । ६ स्वादौ रसे । ६ ब० । ७ सुखादु-
रसयुक्ते त्रि० । ८ तुलस्यां पुं स्त्री० । ९ रास्नायां १०
नागमातरि स्त्री मेदि० । ११ मिश्रेयायां शब्द च० १२ ब्राह्यां
रत्नमा० १३ महाशतावर्य्यां च स्त्री राजनि० ।
नागमाता च कश्यपपत्नीभेदः । “अदितिर्दितिर्दनुश्चैव अरिष्टा
सुरसा खसा” तत्पत्नीकथने हरिवं० ३ अ० । “सुर-
सायाः सहस्नन्तु सर्पाणाममितौजसाम् । अनेक-
सिरसां तस्यां खेचराणां महात्मनाम्” । तत्राध्याये तस्या
नागमातृत्वमुक्तम् । “सुरसाऽजनयन्नागान् कद्रुः पुत्रांश्च
पन्नगान्” भा० आ० ६६ अ० । तेनानेकशिरः नागप्र-
सूत्वं सुरसायाः कद्र्वास्तु सर्पमातृत्वमिति भेदः ।

सुरसाष्ट पु० सुरसाभिरष्टः व्याप्तः अश--व्याप्तौ कर्मणि क्त ।

“निर्गुण्डी तुलसी व्राह्मी वृहती कण्टकारिका ।
पुनर्नवेति मुनिभिः सुरसाष्टः प्रकीर्त्तितः” शब्दचन्द्रिकोक्ते
वृक्षभेदव्याप्ते औषधभेदे

सुरसुन्दरी स्त्री मुरप्रिया सुन्दरी । १ मेनकाद्यप्सरःसु २ योगिनीमेदे तन्त्रसा० ।

सुरा स्त्री सुर--क सु--रक् वा । १ मद्ये २ चषके च मेदि० ।

सुरा च मद्यभेदः मद्यशब्दे ४७२९ पृ० दृश्यम् ।
सोत्रामणीशब्दे वैदिकमार्गेण तदभिषवप्रकारादिर्दृश्यः ।

सुराकर पु० सुराया आकरः । मद्योत्पत्तिस्थाने ।

सुराचार्य्य पु० ६ त० । वृहस्पतौ अमरः ।

सुराजक सुष्ठु राजते राज--ण्वुल् । १ भृङ्गराजे शब्दच० ।

६ ब० कप् । सुन्दरराजान्विते त्रि० ।

सुराजन् पु० सुष्ठु पूजतो राजा न ष्टच्समा० । १ सृन्दरे

राजनि० ६ ब० । २ सुन्दरराजस्वामिके देशे त्रि० ।

सुराजीविन् पु० सुरां सुरासम्पादनमाजीवति आ + जीव

णिनि । शौण्डिके हेमच० ।

सुराप त्रि० सुरां पिबति पा--क । ३ मद्यपानकारके

“सुरापः श्यावदन्तकः” इति शाता० ।

सुरापगा स्त्री ६ त० । गङ्गायाम् ऊटा० । सुरतरङ्गिण्यादयोऽप्यत्र

सुरापान(ण) न० सुरा पीयतेऽनेन पा--करणे ल्युट वा

णत्वम् । १ अवदंशे (चाष्ठनी) सुरायाः पानं येषां
णत्वम् । २ पाच्यदेशस्थे जने पु० शब्दच० । भावे ल्युट् । ३ तत्
पाने न० वा णत्वम् ।

सुराभाग पु० सुराया भागः अग्रभागः । सुरामण्डे शब्दच० सुराग्रभागोऽप्यत्र

सुरामण्ड पु० ६ त० । सुराया अग्रभागे अमरः ।

सुरारि पु० ६ त० । असुरे शब्दर० ।

सुरारिहन्तृ पु० सुराणामरिं हन्ति हन--तृच् । विष्णौ ।

सुरार्ह न० सुरान् देवानर्हति अर्ह--अण् । हरिचन्दनेः

राजनि० ।

सुरालय पु० ६ त० । १ सुमेरुपर्वते अमरः । २ स्वर्गस्थाने च ।

सुराष्ट्र पु० ६ ब० । देशभेदे (सुरट) । सोऽभिजनोऽस्य तस्य

राजा वा अण् । सौराष्ट्र पित्रादिक्रमेण तद्देशवासिनि
जने तन्नृपे च बहुषु अणो लुक् । तत्र भवः अण् ।
तद्देशभवे त्रि० स्त्रियां ङीप् ।

सुराष्ट्रज न० स्त्री० सुराष्ट्रदेशे जायते जन--ड । १ तुवरिका-

याममरः २ कृष्णमुद्गे राजनि० । ३ विषभेदे च पु०
शब्दच० । ४ तद्देशजातमात्रे त्रि० ।

सुराह्व पु० सुरपूर्विका आह्वा यस्य सुरान् आह्वयति गन्धेन

वा आ + ह्वे--क वा । १ देवदारुवृक्षे शब्दर० । २ मरुवके
३ हरिद्रावृक्षे च राजनि० ।

सुरुङ्ग पु० सु + रुज--अङ्गच् पृषो० । १ शोभाञ्जनवृक्षे शब्दर० ।

२ सुरङ्गायां (सिँध) स्त्री जटा० ।

सुरुङ्गाहि पु० सुरुङ्गायामहिरिव । सन्धिचौरे शब्दर० ।

सुरूप न० सुन्दरं रूपमस्य । १ तूले राजनि० । २ सुन्दररूपयुते

त्रि० सुरूपाश्च प्रसिद्धतया कतिचित् कविक० उक्ता यथा
“सुरूपाश्चैव विख्याता नकुलश्च पुरूरवाः । कमदेवक्ष
शाम्बश्च विख्याता वाश्विनी तथा । नलकूवरः सुरूपेषु
लोकेषु तु मता इमे” ३ पण्डिते पु० जटा० । ४ शालपर्ण्यां
५ भार्ग्याम् च स्त्री राजनि० प्रा० स० । ६ सुन्दरे रूपे न० ।

सुरूहक पु० सु + रुह--क्वुन् पृषो० । गर्दभाण्डे हेमच० ।

सुरेज्य पु० इज्यते पूज्यते यज--क्यप् ६ त० । १ वृहस्पतौ

२ तुलस्यां स्त्री राजनि० ।

सुरेन्द्र पु० सुरेषु इन्द्र ऐश्वर्य्ययुतः । सुरराजे इन्द्रे ।

सुरेन्द्रजित् पु० सुरेन्द्रं जितवान् जि--भूते क्विप् । गरड़े

हला० तत्कथा भा० आ० ३२ अ० दृश्या ।

सुरेभ न० सु + रेभ--अच् । रङ्गे धातौ (रांग) त्रिका० ।

सुरेवट पु० सुष्ठु रेवटः सु + रेव--अटन् वा । रामपूगे त्रिका० ।

सुरेश्वर पु० सुराणामीश्वरः । १ रुद्रे जटा० २ इन्द्रे च ।

३ स्वर्गगङ्गायां स्त्री शब्दर० ४ दुगायाञ्च ङीप् ।

सुरेष्ट पु० ६ त० । १ शाले वृक्षे २ सुरपुन्नागे ३ शिवमल्ल्याम्

४ ब्र ह्म्यां स्त्री राजनि० ।

सुरोत्तम पु० सुरेषूचमः । १ सूर्य्ये २ देवश्रेष्ठे त्रि० ।

सुरोत्तर पु० सुरेषु तत्पूजनेपूत्तरः श्वेष्ठः । चन्दने शब्दच० ।

सुरोद पु० सुरेव उदकमस्य उदादेशः । सुरासमुद्रे जटा० ।

सुलभ त्रि० सुखेन् लभ्यते सु + लभ--कर्मणि णल् । १ अना-

यासलभ्ये २ माषपर्ण्यां ३ धूमपत्त्रायाञ्च स्त्री राजनि० ।
पृष्ठ ५३१९

सुलोचन पुंस्त्री० सुष्ठु लोचनमस्य । १ हरिणे राजनि० स्त्रियां

ङीष् । २ सुन्दरनेत्रयुक्ते त्रि० स्त्रियां वह्वच्कत्वात् टाप् ।

सुलोमशा स्त्री सुलोमानि सन्त्यस्याः श । काकजङ्घावृक्षे

राजनि० । २ सुलोमयुक्ते त्रि० ।

सुलोमा स्त्री सुष्ठु लोमान्यस्याः डाप् । १ ताम्रबल्ल्याम्

२ मांसच्छदायाञ्च राजनि० ।

सुलोहक न० प्रा० स० । पित्तले हेमच० ।

सुलोहिता स्त्री प्रा० स० । १ अग्निजिह्वावृक्षे शब्दमा० २

सुरक्तवर्णे पु० ३ तद्वति त्रि० स्त्रियां ङीप् तस्य नश्च ।

सुवक्त्र पु० सुष्ठु वक्त्रं सेवनात् यस्मात् । १ वनवर्वर्य्याम् र ज नि० ।

६ ब० । २ सुन्दराननयुक्ते त्रि० । प्रा० स० । ३ सुन्दरे सुखे न०

सुवचन न० सु + वच--भावे ल्युट् । १ सुपलाले शोभनोक्तौ

अमरः । सूच्यतेऽसौ सु + वच--कर्मणि ल्युट् ङीप् ।
२ शुभसूचन्याम् देवीभेदे स्त्री ।

सुवचस् त्रि० सुष्ठु वचोऽस्य । १ वाग्मनि जटा० । प्रा० स० । सुन्दरवचने न० ।

सुवन पु० सु--क्यु । १ सूर्य्ये २ वह्नौ च उणादिको० प्रा० स० ।

३ रम्ये वने न० ।

सुवर्चक पु० सुष्ठु वर्चयति सु + वर्च--णिच्--ण्वुल् । सर्जिकाक्षारे राजनि० ।

सुवर्चला स्त्री सुष्ठु वर्चयति सु + बर्च--णिच्--कलच् । १ सूर्य्य-

भार्य्यायाम त्रिका० । २ अतस्याम् रत्नमा० । ३ आदित्य
भक्तायां ४ ब्राह्म्याञ्च राजनि० । अच् । सुवर्च देशभेदे पु०

सुवर्चिक पु० सुवर्चः देशभेदः अस्त्यस्याकरत्वेन ठन् ।

१ संर्जकाक्षारे २ जतुकायां स्त्रा राजनि० ।

सुवर्चिन् पु० सु + वर्च--णिच्--णिनि । सर्जिकाक्षारे राजनि०

सुवर्ण्ण न० सुष्ठु वर्णोऽस्य । १ स्वनामख्यते धातुभेदे अमरः

२ हरिचन्दने मेदि० । ३ स्वर्णगैरिके रत्नमा० ४ धने हेमच० ।
५ नागकेसरे राजनि० । “कर्षं सुवर्णस्य सुवर्णसंज्ञम्”
इत्युक्ते कर्षमिते ६ काञ्चने पु० लीला० । ७ यज्ञभेदे ८ धुस्तूरे
९ कणगुग्गुलौ च पु० राजनि० । सुष्ठु वर्णो रूपसक्षरं
वास्य । १० सुरूपे ११ सुन्दराक्षरयुक्ते च त्रि० । “न
सुवर्णमयी तनुः परं ननु वागपि तावकी तथा” नैष० ।
१२ कर्षपरिमाणे वैद्यक० ।
अग्निरेतस्शब्दे ५९ पृ० कनकशब्दे च १६४४ पृ०
सुवर्णधातूवपत्तिगुणादिकं दृश्यंम् ।
तव्य शोधनसारणप्रकारादिकं भावप्र० उक्तं यथा
“तत्र पारणाय योग्य सुवर्णमाह “दाहे रक्तं सितंछेदे
निषके कुङ्कुमप्रभम् । तारशुल्वोत्थितं स्निग्धं कोमलं
गुरु हेम सत्” (सत् उत्तमम्) “छेदे तु कठिनं रूक्षं
विवर्णं समलं दलम् । दाहे छेदेऽसितं श्वेतं कषे त्याज्यं
स्फुटं लघु । दलं (दोयत) इति लोके स्फुटं यद्
घनाहतं स्फुटति । शोधनविधिः “पत्तलीकृतपत्राणि हेम्नो
वह्नौ प्रतापयेत् । निषिञ्चेत् तप्ततप्तानि तैले तक्रे च
काञ्जिके । गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा ।
एवं हेम्नः परेषःञ्च धातनां शोधनं भवेत्” । अथाशुद्धस्य दोधः
“वलं सवीर्यं हरते नराणां रोगव्रज पोषयतीह काये ।
असौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्य्यात् ।
स्वर्णस्य मारणविधिः “स्वर्णम्य द्विगुणं सूतमम्लेन सह
मर्दयेत् । तद्गोलकसमं गन्धं निदध्यादधरोत्तरम्” ।
स्वर्णस्य अतितनूकृतपत्रस्य । गन्धम् गन्धकचूर्णम् ।
“गोलकञ्च ततो रुद्ध्वा शरावदृढ़सपुटे । त्रिंशद्वनो-
पलैर्दद्यात् पुटान्येव चतुर्दंश । निरुत्थं जायते भस्म
गन्धो देयः पुनः पुनः” । रुद्ध्वा सवस्त्रकुट्टितचिक्वण-
मृत्तिकया वनोपलः (गोघठाः इति लोके) निरुत्थं यत्
पुनर्न जीवति । अथान्यप्रकारः “काञ्चने गलिते गन्धं
षोड़शांशेन निःक्षिपेत् । चूर्णयित्वा तथाम्लेत घृष्ट्वा-
कृत्वा तु गोलकम् । गोलकेन समं गन्धं दत्त्वा चैवा-
धरोत्तरम् । शरावसंपुटे धृत्वा पुटेत्त्रिंशद् वनोपलैः ।
एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते” । अत्रापि पूर्व-
वद्गन्धः । अन्यच्च “काञ्चनाररसैर्घृष्टा समसूतकगन्धयोः ।
कज्जलीं हेमपत्राणि लेपयेत् समया तया” । समया हेमपत्र
समया “काञ्चनारत्वचः कल्कैर्मूषायुग्नं प्रकल्पयेत् ।
धृत्वा तत्सम्पुटे गोलं मृन्मूषासम्पुटे च तत् । निधाय
सन्धिरोधञ्च कृत्वा संशोव्य गोलकम् । वह्निं खरतरं
कुर्य्यादेवं दत्त्वा पुटत्रयम् । निरुत्थं जायते भस्मसर्वकर्मसु
योजयेत् । काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम्” ।
लाङ्गली (करिहारी) “ज्वालामुखी तथा हन्यात् तथा
हन्ति मनःशिला । शिलासिन्दूरयोश्चूर्णं समयोरर्क-
दुग्धकैः । सप्तघा भावनान् दद्याच्छोषयेच्च पुनः पुनः ।
ततस्तु गलिते हेम्नि कल्कोऽयं दीयते समः । पुनर्द्ध-
मेदतितरां यथा कल्को विलीयते । एवं वेलात्रयं
दद्यात् कलकं हेममृतिर्भवेत्” । एवं मारितस्य सुवर्णस्य
गुणाः “सुवर्णं शीतलं वृष्यं वल्यं गुरु रसायनम् ।
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् । पवित्रं
वृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम् । हृद्यमायुष्कर
कान्तिवाग्विशुद्धिस्थिरत्वकृत् । विषद्वयक्षयोन्मादत्रिदोष-
पृष्ठ ५३२०
ज्वरशोषजित्” । वृष्यं वृषाय कामुकाय हितम् ।
“असम्यङ्मारितं स्वर्णं वलं वीर्यञ्च नाशवेत् । करोति
रोगान्मृत्युञ्च तद्धन्याद् यत्नतस्ततः”
तद्भेदादिकं राजनि० उक्तं यथा
“दाहेऽतिरक्तमथ यच्च सितं छिदायां काश्मीरकान्ति च
विभाति निकाषपट्टे । स्निग्धञ्च गौरवमुपैति च यत्तु-
लायां जानीत देवकनकं मृदु रक्तपीतम् । तत्रैकं
रसवेधजं तदपरं जातं स्वयंभूमिजं किञ्चान्यद्बहुलोह-
सङ्करभवं चेति त्रिधा काञ्चनम् । तत्राद्यं किल पीतरक्त-
मपर रक्तं ततोऽन्यत् यथा गौराभं तदिति क्रमेण
गदितं स्यात् पूर्वपूर्वोत्तमम्” । तत्र रसवेधजस्य
करणप्रकारः “आनीय पारदं देवि! स्थापयेत् प्रस्तरोपरि ।
तस्योपरि जपेन्मन्त्रं सर्वबन्धमयात्मकम् । साष्टसहस्रं
देवेशि! प्रजपेत् साधकाग्रणीः । स्वयम्भूपुष्पसंयुक्ते
वस्त्रे चारुणसन्निभे । संस्थाप्य पारदं देवि! मृत्पात्र
युगले शिवे! । पुष्पयुक्तेन सूत्रेण बध्नीयात्
बहुयत्नतः । मृत्तिकया रजेनैव धान्यस्य परमेश्वरि! ।
लेपयेद्बहुयत्नेन रौद्रे शुष्काणि कारयेत् । पुनश्च लेपये-
द्धीमान् ततो वह्नौ विनिःक्षिपेत् । अष्टमीनवमीरात्रौ
क्षिपेन्नैव सुरेश्वरि! । अथ वा परमेशानि! मृत्पात्रे
स्थापयेद्रसम् । वल्लीरसेन तद्द्रव्यं शोधयेद् बहुयत्नतः ।
घृतनारीरसेनैव तथैव शोधनं चरेत् । एवं कृते तु
गुटिका यदि स्यात् दृढ़बन्धना । धुस्तूरञ्च समानीय
मध्ये शून्यञ्च कारयेत् । कृष्णाख्यतुलसीयोगे तथा
घृतकुमारिका । एवं कृते वह्नियोगे भस्मसात् जायते
ध्रुवम् । भस्मयागे भवेत् स्वर्णं धनदायाः प्रसादतः ।
विवर्णं जायते द्रव्यं यदि पूजां न चाचरेत्” मातृका
भेदतत्त्रे ५ प० । बहुलोहसङ्करभवस्य करचविधिः गारुड़े
१८८ अ० । “सुवर्णकरणं शृणु” इत्युपक्रमे “पीतं धुस्तूर-
पुष्पञ्च सीसकञ्च पलोन्मितम् । पाठालाङ्गलशाखा च
मूलमावर्त्तनाङ्भवेत्” । सुवर्णं चाम्बौ दह्यमानं न क्षोयते
यथोक्तं याज्ञ० “अग्नौ सुवर्णमक्षीणम्” । कर्षमित-
ब्राह्मणस्वामिककाञ्चनरूपसुवर्णहरणं महापात त् ।
महापातलनिरूपणे पायश्चित्तविवेकः ।

सुवर्णक न० सुवर्णमिव कायति कै--क । १ पिक्षे हेमच० ।

सुष्ठु वर्णोऽस्य कप् । २ सुन्दरवर्णयक्ते त्रि० ।

सुवर्णकदली स्त्री सुष्ठु वर्णो यथाः कर्म० । स्वर्णवर्ण-

कदल्याम् । (चापाकला) रालनि० ।

सुवर्णकार पु० सुवर्णं सुवर्णमयमूषणादि करोति कृ--अण् ।

(सेकरा) स्वर्णरारे जातिभेदे हला० ।

सुवर्णगणित न० सुवर्णस्य वार्णादिज्ञानार्थे गष्णितभेदे

तत्प्रकारो लीला० उक्तो यथा
“अथ सुवर्णगणिते करणसूत्रं वृत्तम् । सुवर्णवर्णाहात
योगराशौ स्वर्णैक्यभक्ते कनकैक्यवर्णः । वर्णो भवेच्छो-
धितहेमभक्ते वर्णोद्धृते शोधितहेमसङ्ख्या । उदाहर-
णानि । विश्वार्ज्करुद्रदशवर्णसुवर्णमाषाः दिग्वेदलोचन-
युगप्रमिताः क्रमेण । आवर्त्तितेषु वद तेषु सुवर्णवर्ण-
स्तूर्णं सुवर्णगणितज्ञ! बणिग्! भवेत् कः । ते शाधने
यदि च विंशतिरुक्तमाषाः स्युः षोड़श द्रविणवर्णमिति-
स्तदा का । तच्छोधितं भवति षोडषवर्णहेम ते विंशतिः
कति भवन्ति तदा तु माषाः ।
न्यासः १३ १२ ११ २०
१० ४ २ ४
जाता आवर्त्तिते सुवर्णमितिः १२ । एत एव यदि
शोधिताः सन्तः षोड़शमाषाः भवन्ति तदा वर्णः १५ । यदि
तदेव शोधितं षोड़शवर्णं स्वर्णं भबति तदा पञ्चदश-
माषाः भवन्ति । अथ वर्णज्ञानाय करणसूत्रं वृत्तम् ।
स्वर्णैक्यनिघ्नाद्युतिजातवर्णात् सुवर्णतद्वर्णवधैक्यही
नात् । अज्ञातवर्णाग्निजसङ्ख्ययाप्तमज्ञातवणस्य भवेत्प्र-
माणम् । चदाहरष्णम् । दशेशवर्णा वसुनेत्रमाषा
अज्ञातवर्णस्य षडेतदैक्ये । जातं सखे द्वादशकं सुवर्ण-
मज्ञातवर्णस्य वद प्रमाणम्
न्यासः १० ११ ०
८ २ ६
लब्धनज्ञातवर्णमानम् १५ । सुवर्णज्ञानाय करणसूत्रं
वृत्तम् । स्वर्णैक्यनिघ्नो युतिजातवर्णः स्वर्णघ्नयर्ण्णेक्यवि-
योजितश्च । अहेषवर्ण्णोऽग्नजयोगवर्ण्णविश्लेघभक्ता विदि-
ताग्निजं स्यात् । उदाहरणम् “दशेब्द्रवर्णा
गुणचन्द्रमाषाः किञ्चित्तथा षोड़शकस्य तेपाम् । जातं यतौ
द्वादशकं सुवर्णं कतीह ते षोड़षवर्णमाषाः ।
न्यासः १० १४ १६
२ १ ०
लब्धं माषमानम् १ । सुवर्णज्ञानायान्यत्करणसूयं
वतस् । साध्येनोनोऽनल्पवर्णो विधेयः साध्यो वस्त
स्त्रल्पवर्णोनितश्च । इष्टक्षुणे शेषके स्वर्णमाने स्यातां
स्वपानल्पयोर्वर्णयोस्त्री । उदाहरणम् “हाटकगुद्विके
पृष्ठ ५३२१
षोडशदशवर्णे तद्युतौ सखे! जातम् । द्वादषवर्ण
सुवर्णं ब्रूहि तयोः स्वर्णमाने मे ।
न्यास० १६ १०
साध्यो वर्णः १२ कल्पितमिष्टम् १ ।
लब्धे मुवर्णमाने १६ १०
२ ४
कथवा द्विकेनेष्टेन १६ १०
४ ८
अर्द्धनेष्टेन वा १६ १०
१ २

सुवर्णगैरिक सुवर्णमिव पीतं गैरिकम् । (वर्णकमाटि)

गैरिकभदे राजनि० । “गैरिकं मधुरं पीतं कषायं व्रण-
रोपणम् । विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिकं
शुभम्” राजनि० तद्गुणा उक्ताः ।

सुवर्णजीविक पुंस्त्री० सुवर्णं तत्क्रयविकयौ जीविका

यस्य । सुवर्णबणिजि जातिभेदे स्त्रियां ङीष् । तज्जन्म-
कथा “गान्धिकः शाङ्किकश्चैव कांस्यको भणिकारकः ।
सुवर्णजीविकश्चैव पञ्चैते बणिजः स्मृताः” । “अम्यष्ठात्
रजपुत्र्याञ्च जायते नान्धिको यणिक् । गन्धसन्दन-
क्षूपादिक्रयविक्रयकारकः । गान्धिक्यां रजपुत्र्याञ्च
संजातः शाङ्गिको वणिक् । शङ्खं दत्त्वा मुनेः पत्न्यै
शङ्खजीवी प्रकीर्त्तितः । शाङ्घिक्यां गान्धिकाज्जात-
स्ताम्रकांस्योपजीविकः । शाङ्खिकात् कांस्यकन्यायां
मणिकारः प्रजायते । कांस्यकाराच्च माणिक्यां सुवर्णजीविको
ऽभवत्” पराशरजातिमाला । तस्य पातित्यकारणं ब्रह्मवै०
ब्रह्मख० १० अ० उक्तं यथा “कश्चिद् बणिग्विशेषश्च
संसर्गात् स्वर्णकारिणः । स्वर्णचौर्य्यादिदोषेण पतितो
व्रह्मशापतः” ।

सुवर्णनकुली स्त्री सुवर्णमिव पीता नकुली । महाज्योतिष्मत्याम् राजनि० ।

सुवर्णपुष्प पु० सुवर्णमिव पुष्पपस्य । राजतरुणीवृक्षे राजनि०

सुवर्णप्रसर न० सुवर्णस्य प्रसर इव यत्र । एकवालुके वैद्यक० ।

सुवर्णबणिज् पु० सुवर्णस्य बणिक् क्रयविक्रयादिकर्त्ता ।

जातिभेदे (सोनारवेणे) । स्वर्णबणिक्प्रभृतयोऽप्यत्र ।
सुवर्णजीविकशब्दे दृश्यम् ।

सुवर्ण्णबिन्दु पु० सुवर्णस्य विन्दुयत्र । विष्णौ हेमच० ।

सुवर्णयूथी स्त्री सुवर्णमिव पीता यूथी । पीतवर्णथूथिकायाम्

राजनि० । “यूथिका गणिकाम्बषा सा पीता पेम-
पुष्पिका । यूथीयुगं हिमं तिक्तं कटुपाकं सरं
लघुमधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम् । व्रणास्रसुख-
दन्ताक्षिशिरोरोगविषापहम्” भावप्र० ।

सुवर्णवर्णा स्त्री सुवर्णस्येव वर्णो यस्याः । १ हरिद्रायाम्

शब्दच० । २ स्वर्णतुल्यवर्णयुक्ते त्रि० । ३ विष्णौ पु०
विष्णुस० । “तस्याप्रणखात् सर्वमेव सुवर्णमिति” शुर्ते-
स्तथात्वम् । ६ त० । स्वर्णस्य मूल्यभेदकसूचके ४ वर्णे पु०
सुवर्णगणितशब्दे दृश्यम् ।

सुवर्णा स्त्री सुष्ठु वर्णो यस्याः । १ कालागुरुणि मेदि० ।

२ वाट्यालके शब्दमा० । ३ स्वर्णक्षीर्य्यां ४ हरिद्रायाम्
राजनि० । ५ आखुकर्ण्यां स्त्री राजनि० गौ० ङीष् ।

सुवयस् स्त्री सुष्ठु वयाऽस्याः । प्रोढ़ायां स्त्रियाम् राजनि० ।

सुवल्लि(ल्ली) स्त्री प्रा० स० । सोमराजीलतायाम् अमरः ।

सुवसन्त पु० प्रा० स० । चेत्राबल्यां त्रिका० ।

सुवसन्तक पु० सुवसन्तेन कायति कै--क । माधवीलतायां

२ मदनोत्सवे च मेदि० ।

सुवहा स्त्री सुखेन उह्यते वायुनासो सु + वह--खल् । १ शेफा-

लिकायां २ रास्रायां ३ गाधापद्याम् ४ एलापर्ण्याम् अमरः
५ शल्लक्यां ६ वीणायां मेदि० । ७ त्रिवृतायाम् शब्दच० ।
८ रुद्जटायां ९ हसपद्यां १० गन्धनाकुल्यां ११ मुसल्य्ं
१२ नीलसिन्धुवारं च राजवि० । १३ सुखवाह्ये त्रि० मेदि०
सम्यग् वहति सु + वह--अच् । १४ सम्यग्वाहके त्रि० हेम च०

सुवास पु० सुष्ठु वासः । १ सद्गन्धे २ सुखनिवासे च । ६ ब० ।

३ सद्गन्धयुक्ते ४ सन्निवासान्विते च त्रि० ।

सुवासिनी स्त्री सुखन पित्राद्यवियोगेन वसति सु + वस--णिनि

ङाप् । चिरण्ट्यां चिरं पितृकुलवासिन्यां स्त्रियाम् अमरः

सुविद् पु० सुष्ठु वेत्ति सु + विद--क्विप् । १ पण्डिते । सुष्ठु

विद्यते लभ्यते सु + विद--लाभे क्विप् । २ गुणाद्यायां स्त्रियां
स्त्री रामाश्रमः ।

सुविद पु० सु + विद--क । १ कञ्चुकिनि रायसु० २ सृपे भरतः ।

सुविदत् पु० सुविदं गुणाढ्यां स्त्रियमतति अत--क्विप् । नृपे

रायमु० ।

सुविदत्र त्रि० सु + विट कत्रच् । कुटुम्बे उणादि० ।

सुविदल्ल पु० सुविदतं राजानं लाति ला--क । १ नृपास्तःपुरे

कृताधिकारे कञ्चुकिनि अमरः । सुविदता राज्ञा लीयत
ला--क । २ अन्तःपुरस्थनार्य्याम् स्त्री रायसुकुटः ।

सुविनीता स्त्री सु + वि + नी--क्त । १ सुशीलायां गवि शब्दर०

२ सुविनययुक्ते त्रि० ।
पृष्ठ ५३२२

सुवीज पु० सुष्ठु वीज्यतऽसौ वीज--क । (खम्खम) वृक्षभेदे

राजनि० ६ व० । २ सुन्दरवीजयुते त्रि० । प्रा० स० ।
३ सुन्दरे वीजे न० ।

सुवीरक न० सु + वीर--ण्वुल् । सौवीराञ्जने शब्दच० ।

सुवीराम्ल न० सुवीरयति सुवोर्य्यान्वतं करोति सु +

वीरअच् तादृशोऽम्लोऽस्य । काञ्जिके जटा० ।

सुवीर्य्य न० सुष्ठु वीर्य्यं यस्मात् ५ व० । १ वदरीफले २

वनकार्पास्यां स्त्री शब्दर० । प्रा० स० । ३ उत्तमे वीर्थ्ये न० ।

सुवृत्त पु० सुष्ठु वृत्तः वर्तुलः । १ शूरणे (ओल) राजनि०

२ सुन्दरवृत्तान्वते त्रि० ३ शतपत्त्र्यां ४ काकल्यां ५ द्राक्षा-
याञ्च स्त्री राजनि० ६ सुवर्तुले त्रि० ।

सुवेगा स्त्री सुष्ठु वेगो वायुनिःसारणवेगो यस्याः ५ त० ।

१ महाज्योतिष्मत्याम् राजनि० । २ उत्तमवेगान्विते त्रि० ।

सुवेल पु० सुगता वेला सुमुद्रकूलं येन प्रा० ब० । १ त्रिकूटपर्वते

हेमच० सुष्ठु वेला मर्थ्यादा सथितिः यस्य । २ शान्ते
३ प्रणते च त्रि० मेदि० ।

सुवेश पु० सुखेन विश्यते उपभुज्यते सु + विश--कर्मणि घञ् ।

१ श्वेतेक्षौ राजभि० प्रा० ब० । २ सुन्दरवेशयुक्ते त्रि० ।

सुव्रता स्त्री सुष्ठु व्रतं नियमो यस्याः १ मुशीलायां गवि

अमरः । २ सुन्दरव्रतयुक्ते त्रि० । ३ जिनभेदे पु० हेमच० ।

सुशर्म्मन् पु० शृ--मनिन् सुष्ठु शर्मे सुखं यस्य । १ नृपभेदे

वृद्धक्षेमनृपपुत्रे भा० आ० १८ अ० । २ मुन्दरसुखयुते त्रि० ।
३ तृतीयमनुपुत्रभेदे पु० हरिवं० ७ अ० । ४ कुत्सितब्राह्मनभेदे
“सुशर्मा नाम दुर्मेधाः सीमा पापःत्मनामभूत ।
अनाम्नायविदां वंशे विप्राणां क्रूरकर्मणाम्” पाद्मो० ख० ८० अ०

सुशल्य पु० सुष्ठु दृढ़ं शल्यं यस्मात् ५ व० । खदिरे राजनि० ।

सुशवी स्त्री सु + शव--अच् गोरा० ङीष् । १ कारवेल्ली २ कृष्ण-

जीरके च भरतः ।

सुशाक न० सुष्ठु शाको यस्मात् ५ ब० । १ आर्द्रके राजनि० ।

पाके तत्संयोगे हि शाकस्य सुस्वादुता । रुष्ठु शाको यस्य ।
२ चञ्चुशाके ३ तण्डुलीये (नटेशाक) ४ मिण्डायां पु० राजनि०

सुशिख पु० सुन्दरी शिखा यस्य । १ वह्नौ जटा० २ चित्रवृक्षे

च । ३ शोभनशिखायुक्ते त्रि० ४ मयूरशिखायां स्त्री
राजनि० ।

सुशीत न० प्रा० स० । १ पीतचन्दने शब्दच०

२ अतिशीतलस्पर्शे ३ तद्वति त्रि० । ४ ह्रस्वप्लक्षे पु० राजनि० ।

सुशीतल न० प्रा० स० । १ गन्धतृणे रत्नमा० । २ अतिशीतगुण-

युक्ते त्रि० ।

सुशीता खो प्रा० स० । १ शतपत्त्र्याम् राजनि० । २ भातगुण वत्यां स्त्रियां च ।

सुशीम पु० सु + श्यै मक् सम्प्रसारणञ्च १ शीतस्पर्शे २ तद्वति

त्रि० अमरः ।

सुशील पु० सुन्दर--शीलमस्य । विष्णुपार्श्वचरभेदे राजनि० ।

२ शोभनचरितान्विते त्रि० ३ कृशाश्वनृपमहिषीभेदे स्त्री
पद्मपु० उत्तरख० ६८ अ० ।

सुश्रीक स्त्री सुन्दरी श्रीरस्य कप् । १ सल्लकीवृक्षे २ सुन्दरश्रीयुक्ते त्रि० ।

सुश्रुत पु० सुश्रूयत सु + श्रु--कर्मण क्त । १ विश्वामित्रमुनपुत्रे

चिकित्साशास्त्रकर्त्तरि मुनिभेदे आयुवंदशब्दे ७८० पृ०
दृश्यम् । २ ततकृतग्रन्थे च । ३ सुन्द्ररश्रुत त्रि० । “दवा-
कर्णय सुश्रुतन चरकस्योक्तेन जानेऽखिलम्” नैष० । च ।

सुश्लिष्ट त्रि० सु + श्लिष--क्त । १ सुसंयुक्ते २ दृढ़मिलिते । ३ सुमङ्गते

सुषम पु० सुन्दरः समः प्रा० स० सुषामा० षत्वम् । १

शोभने समे २ परमायां शोभायां स्त्री अमरः ।

सुषवी स्त्री सु + सु--अच् गौरा० ङीष् । १ कारवेल्ले अमरः ।

२ क्षुद्रकारवेल्ले राजनि० ३ जीरके ४ कृष्णजीरके च मेदि० ।

सुषामन् त्रि० सुष्ठु साम यस्य सुषामादि० षत्वम् । सुसान्त्वने

स्त्रियां वा डाप् ङीप् च ।

सुषि स्त्री शुष--इन् पृषो० शस्य सः । शुषौ छिद्रे भरतः ।

सुषिर न० शुष--किरच् पृषो० शस्य सः । छिद्रे भरतः ।

सुषीम पु० सुशीम + पृषो० । १ शीतलस्पर्शे २ तद्वति अमरः ।

३ सनोज्ञे त्रि० मेदि० ।

सुषुप्त न० सु + स्वप--भावे क्त । “यत्र सुप्तो न कञ्चन काम

कामयते न कञ्चन स्वप्नं पश्यति तत सुषुप्तमिति” श्रुत्युक्त
१ ज्ञानशून्यावस्थाभेदे । कर्त्तरि क्त २ तदवस्थान्विते त्रि

सुषुप्ति स्त्री सु + स्वप--क्तिन् । पुरीतति नाह्यां मनसः संयोग-

रूपे १ सर्वज्ञानशून्ये जीवावस्थाभेदे वेदान्तोक्ते २ संर्व-
पदार्थशून्ये लये च ।

सुषुम्णा स्त्री सुषु इत्यव्यक्तं शब्दं म्नायति यत्र म्ना--क ।

तन्त्राक्त मेरुदण्डबाह्यस्थे इड़ापिङ्गलानड्योर्मध्यम्थे
सूक्ष्ये नाड़ीभेदे । “मेरोर्बाह्यप्रदेशे शशिमिहरासरे
सव्यदक्षे निषण्णे मध्ये नाड़ी सुषुम्णा त्रितयगुण-
मयी चन्द्रसूर्य्याग्नरूपा” षट्चक्रभदतन्त्रम् । तस्या-
ऽशुभवहनभेदो यथा “क्षणं वामे क्षणं दक्षे यदा वहति
मारुतः । सुषुमणा सा च विज्ञेया सर्वकार्य्यहराऽ-
शुभा । तस्या नाड्यां स्थितो वह्निज्वं लन्तकालरूपधृक् ।
विषमं तं विजानीयात् सर्वकार्य्यविनाशनम् । यदानु
क्रमसुल्लङ्घ्य तस्यां नाड्यां द्वयं वहेत् । तदा तस्य विजा-
नीयादशुभं सुमुपस्थितम्” इति ब्रह्मयामलम्” ।
पृष्ठ ५३२३
मेरुबाह्ये इड़ा नाड़ी पिङ्गलया समन्विता । सुषुम्णा
भानुमार्गेण ब्रह्मद्वारावधि स्थिता” योगस्वरोदयः ।

सुषेण पु० सुष्ठु सेनयति सेनां करोति अच् षत्वम् । १

करमर्दके (करमचा) अमरः २ वेतसे राजनि० ३ चिकित्सके
वानरभेदे । ४ विष्णौ च मेदि० ५ त्रिवृति स्त्री राजनि०
ङीप् । स्वार्थे क अत इत्त्वम् । कृष्णत्रिवृति स्त्री अमरः ।

सुषोमा स्त्री नदीभेदे भाग० ५ । १९ अ० ।

सुष्ठु अव्य० सु + स्था--कु । १ प्रशंसायाम् २ अतिशये अमरः ।

३ सत्ये च संक्षिप्तसा० ।

सुष्म न० सु--मक् सुक् च । रज्ज्वां क्षीरस्वामी ।

सुसंस्कृत त्रि० सु + सम् + कृ--क्त सुम् च । १ प्रयत्नेन घृतादि-

नानाद्रव्येण पक्वे व्यञ्जनादौ अमरः २ उत्तमसंस्कार-
युते त्रि० ।

सुसत्या स्त्री जनकराजमार्य्यायाम् कालिकापु० ३७ अ० ।

सुसम्पट् स्त्री प्रा० स० । १ सौभाग्ये त्रिका० सुवु सस्पद्

यस्य । २ सुसमृद्धे त्रि० ।

सुसार पु० सुष्ठु सारोऽस्य । १ रक्तखदिरे राजनि० । २ अतिसारयुते त्रि० ।

सुसारवत् न० सुष्ठु सारोऽस्त्यस्य मतुप् मस्य वः । स्फटिके

त्रिका० ।

सुसिकता स्त्री प्रा० स० । शर्करायाम् राजनि० । २ उत्तमवालुकायाम् ब० व० ।

सुस्थ त्रि० सुखेन तिष्ठति सु + स्था--क । १ आरोग्येण युक्ते

२ सुखिनि च ।

सुस्ना पु० सु + स्नै--क्विप् । (खेँसारी) शमीधान्यभेदे राजनि०

“सुस्ना दूर्वादलो रूक्षः कषायो बिशदो गुरुः” राजनि० ।

सुस्नात त्रि० सुष्ठु स्नातः सु + स्नै--क्त । मङ्गलद्रव्येण कृतस्नाने ।

सुस्मिता स्त्री सुष्ठु स्मितमस्य । नारीभेदे हेमच०

सुहित त्रि० सु + धा--क्त । १ तृप्ते २ विहिते च विश्वः । प्रा० स० ।

३ सुन्दरहिते न० । ५ ब० । ४ अग्निजिह्वाभेदे स्त्री जटा० ।

सुहृद पु० सुष्ठु हृदयं यस्य मित्रार्थे हृदादेशः । १ मित्रे

२ ज्योतिषोक्ते लग्नाच्चतुर्थस्थाने च ।

सुहृदय त्रि० सुष्ठु हृदयं यस्य । १ प्रशस्तमनस्के अमरः । प्रा० स० । २ सुचित्ते न० ।

सुहृद्बल न० सुहृदेव वलम् । मित्त्ररूपे सैन्ये ।

सुहोत्र पु० । चन्द्रवंशीयवृहदिषुराजपुत्रे । “वृहदिषोश्च

दायादः सुहोत्रो नाम धार्मिकः । सुहोत्रस्यापि दायादो
हस्ती नाम बभूव ह” हरिवं० २० अ० ।

सू स्त्री सू--क्विप् । १ सूतौ २ प्रसवे ३ क्षेपे ४ प्रेरणे च ।

सूक न० सू--प्रेरणे क्विप संज्ञायां कन् । १ उत्पले २ वाणे

३ वाते च मेदि० ।

सूकर पुंस्त्री० सू--इत्यव्यक्तं शब्दं करोति कृ--अच् । १ वराहे

२ कुम्भकारे ३ मृगभेदे च शब्दर० स्त्रियां ङीष् । ङीषन्तः
४ वराहक्रान्तायां शब्दसा० ।

सूक्त न० सु + वच--भावे क्त । १ सुन्दरकथने २ विशिष्टैकार्थ-

प्रतिपादके एकदैवत्ये वेदमन्त्रसमुदाये च यथा श्रीसूक्तं
पुरुषसूक्तमित्यादि । तानि च वेदे बहूनि सन्ति तत्र
महादानोपयोगीनि कति चित् सूक्तानि तुलादानाटि
पद्धतौ अस्माभिः उद्धृतानि तानि च तत्र दृश्यानि ।
“जप्यानि सूक्तानि तथैव चैषाम्” वह्निपुराणम् । ३
शारिकायां स्त्री त्रिका० । क्तिन् । सूक्ति सुष्ठूक्तौ स्त्री ।

सूक्ष्म न० सूच--मन् सुक्च नेट् । १ कैतवे २ अध्यात्मपदार्थे

मेदि० ३ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०७ पृ० दृश्यम् ।
४ कतकवृक्षे पु० शब्दर० । ५ अणुपरिमाणयुते ६ अल्पे
च त्रि० ।

सूक्ष्मकृष्णफला स्त्री सूक्ष्मं कृष्णं फलं यस्याः । मध्यमजम्बूवृक्षे रत्नमा० ।

सूक्ष्मतण्डुल पु० सूक्ष्मस्तण्डुलोऽस्य । (खसखस) इति ख्याते

१ वृक्षे २ पिप्पल्यां स्त्री राजनि० ।

सूक्ष्मदर्शिन् त्रि० सूक्ष्मं पश्यति दृश--णिनि । अत्यन्तसुबुगौ कुशाग्रीयबुद्धौ ।

सूक्ष्मपत्त्र पु० सूक्ष्मं पत्त्रमस्य । १ धान्यके २ वनजीरके

३ देवसर्षपे ४ लघुबदरे ५ सुरपर्णे ६ लोहितेक्षौ च राजनि० ।
७ वनवर्वर्य्यां ८ वावलवृक्षे शब्दर० । कप् अत इत्त्वम् ।
सूक्ष्मपत्रिका शतपुष्पायां शतावर्य्यां लघव्राह्म्यां दुरा-
लभायाम् आकाशमांस्याञ्च स्त्री राजनि० ।

सूक्ष्मपिप्पली स्त्री कर्म० । वनपिप्पल्याम् राजनि० ।

सूक्ष्मपुष्पी स्त्री सूक्ष्माणि पुष्पाण्यस्याः ङीप् । यवतिक्तायाम्

राजनि० ।

सूक्ष्मफला स्त्री सूक्ष्मं फलमस्याः । १ भूभ्यामलक्याम् रत्नमा० २ भूकर्वुदारे राजनि० ।

सूक्ष्मबदरी स्त्री कर्म० । भूमिबदर्य्याम् राजनि० ।

सूक्ष्मभूत न० कर्म० । वेदान्तप्रसिके अपञ्चीकृते भूम्यादीनां

पञ्चानां भूतानां सूक्ष्मांशभेदे ।

सूक्ष्ममक्षिक पु० सूक्ष्मा मक्षिका तदाकारोऽस्त्यस्य अच् । मशके राजनि० ।

सूक्ष्ममूला स्त्री सूक्ष्मं मूलमस्याः । जयन्त्याम् राजनि० ।

सूक्ष्मवल्ली स्त्री कर्म० । १ ताम्रवल्ल्यां २ जतुकायाञ्च राजनि० ।

सूक्ष्मवीज पु० सूक्ष्मं वीजमस्य । (खसखस) ख्याते वृक्षे

राजनि० ।

सूक्ष्मशर्करा स्त्री कर्म० । वालुकायाम् राजनि ।

सूक्ष्मशाख पु० सूक्ष्मा शाखाऽस्य । जलवर्वुरे राजनि० ।

सूक्ष्मशालि पु० कर्म० । अणुधान्ये श्यामाकादौ राजनि० ।

पृष्ठ ५३२४

सूक्ष्मषट्चरण पु० सूक्ष्मः षट्चरण इव । पक्ष्मयूके राजनि०

सूक्ष्मा स्त्री सूच--मन् सुक्च नेट् टाप् । १ यूथिकायां

शब्दच० । २ क्षुद्रैलायां ३ करुण्यां ४ वालुकायाञ्च राजनि० ।

सूक्ष्माङ्ग न० कर्म० । “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।

अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्” येदान्तोक्ते
भोगसाधने सोकद्वयगामिनि लिङ्गदेहे । सूक्ष्मशरीरा-
दयाऽप्यत्र । सांख्यमते त्वस्यान्यविधसप्तदशावयवत्वं
यथोक्तं सां० का० तत्त्वकौ० । “सूक्ष्मास्तेषां नियता
मातापितृजा निवर्त्तन्ते” का० “सूक्ष्मादेहाः
परिकल्पिता” तत्त्वकौ० । “परिकल्पिता अनुमिता परलोके
कर्मफलभोगः सूक्ष्मदेहं विनाऽनुपन्नः भोगत्वात् स्थूल-
देहारब्धकृव्यादिजनितस्य सस्यस्य खदेहेनैव भोगवत्
स्वदेहारब्धकर्मादिफलं यत्तत् स्वदेहेनैव भोग्यम् नेतरेण
अन्यथा कृतहानाकृताभ्यागमप्रसङ्ग इत्यादिस्तर्कस्तत्रानु-
सन्धेयः । “पूर्वोत्पन्नमश(स)क्तं नियतं महदादिसूक्ष्म-
पर्य्यन्तम् । संसरति निरुपभोगं भावैरघिवासितं
लिङ्गम्” का० । “प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् ।
अस(श)क्तमव्याहतं शिलामप्यनुविशति नियतम् आ
चादिसर्गात् आ च महाप्रलयादवतिष्ठते महदादिसूक्ष्य-
पर्य्यन्तं महदङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्य्यन्तम् एषां
ससुदायः सृक्ष्मशरीरं शान्तषोरमूदौरिन्द्रियैरन्ततत्वा-
द्विशेषः” कौ० ।

सूक्ष्मैला स्त्री कर्म० । क्षुद्रैसानाम् (गुजराटी एसाच्) रत्रमा०

सूच पैशून्ये (अन्तर्द्रोहे) अद० चु० उभ० सक० सेट् ।

सूचयति ते असुसूचत् त । बह्वच्कत्वान्न षोपदेशः ।

सूचक त्रि० सूचयति अन्तर्द्रुह्यति सूच--ण्वुल् । १ पिशुने

अमरः अन्तर्द्रोहवति २ बोधके च । ३ काके ४ कुक्कुरे ५
विड़ाले पुं स्त्री० मेदि० स्त्रियां ङीष् । ६ पिशाचे ७ सिद्धगणे
८ वुद्वे शब्दर० । ९ नाटकप्रसिद्धे सूत्रधाराख्ये प्रधाननटे
१० कथके हेमच० ११ सूक्ष्मशालौ पु० राजनि० १२ सीवन-
साधनद्रव्ये पु० मेदि० ।

सूचन न० सूच--भावे ल्युट् । १ हिंसने २ ज्ञापने च । युच् ।

तत्र, दृष्टौ पीड़ायाम् अभिनये च स्त्री विश्वः ।

सूचि(ची) स्त्री सूच--इन् वा ङीप् । १ सीवनसाधने

स्वनामख्याते लौहमयपदार्थे अमरः २ शिखायां ३ नृत्य-
भेदे रत्नका० ।

सूचिक त्रि० सूचिः तया सीवनं शिल्पमस्त्यस्य ठन् । सूच्याजीविनि (दरजि) शब्दर० ।

सूचिका स्त्री सूचि + स्नार्थे क । १ सूच्याम् । ररचिरिव

कायति कै--क । २ हस्तिशुण्डायाम् । सूचिकाधरः ।

सूचिकाधर पुंस्त्री० सूचिकां शुण्डां धरति धृ--अच् । गजे

शब्दर० स्त्रियां ङीष् ।

सूचिकाभरण न० वैद्यकोक्ते औषधभेदे तत्पाकादि यथा

“विषं पलमितं सूतः शाणकश्चूर्णयेद् द्वयम् । तच्चूर्णं
संपुटे कृत्वा काचलिप्तशरावयोः । मुद्रां कृत्वाथ संशोष्य
ततश्चूल्ल्यां निवेशयेत् । वह्निं शनैः शनैः कुर्य्यात् प्रहर-
द्वयसङ्ख्यया । तत उद्घाट्य तन्मुद्रामुपरिस्थशरावकात् ।
संलग्नो यो भवेद्धूमस्तं गृह्णीयाच्छनैः शनैः । वायुस्पर्शो
यथा न स्यात्ततः कूयां निवेशयेत् । यावत् सूच्या मुखे
लग्नं कूप्या निर्याति भेषजम् । तावन्मात्रो रसो देबो
मूर्च्छिते सन्निपातिनि । क्षुरेण प्रक्षते मूर्ध्नि तत्राङ्गुल्या च
घर्षयेत् । रक्तभेषजसम्पर्कात् मूर्च्छितोऽपि हि जीवति ।
तथैव सर्पदष्टोऽपि मृतावस्थोऽपि जीवति । यदा तापो
भवेत्तस्य मधुरं तत्र दीयते” भैषज्यरत्ना० । “विषं पल
रसं शाणं तच्चूर्णं काचलेपिते । मृत्संपुटे च संरुध्य
चूद्ध्यां संस्थाप्य पाचयेत् । शनैर्यामद्वयं पक्ता तं
ससुद्वास्य शीतलम् । ऊर्ध्वपात्रगतं धूमं गृहीत्वाऽस्मृष्ट
मारुतम् । यावत् सूच्या मुखे लग्नं कूप्या आयानि
भेषजम् । क्षुरेण प्रक्षते शीर्षे तत्राङ्गल्या च घर्षयेत् ।
त्रिदोषे मूर्च्छितो सीबो रक्तभेषजसङ्गमात् । सर्पदष्टो
मृतावस्थः सोऽपि जीवति तत्क्षणात् । दद्याच्च मधुरं
तोयं सूचिकाभरणे रसे” इति रसप्रदीपः ।

सूचिकामुख पु० सूचिकेव क्रमसूक्ष्मं सुखमस्म । १ शङ्खे

हारा० ६ त० । ६ सूच्यामुखे न० ।

सूचि(ची)क्षेच न० सूच्याकारं क्षेत्रम् । लीलावतीप्रसिद्धे

सूच्याकारके क्षेत्रभेदे क्षेत्रशब्दे २४०० पृ० दृश्यम् ।

सूचित त्रि० सूच--क्त । १ कथिते २ बोधिते ३ हिंसिते च ।

सूचिपत्त्रक पु० सूचिरिव पत्त्रमस्य कप् । सितावरशाके

राजनि० । सूचीदलादयोऽप्यत्र ।

सूचिपुष्प पु० सूच्याकारं पुष्पं पुष्पाग्रं यस्य । केतकवृक्षे

जटा० । सूचीपुष्पादयोऽप्यत्र ।

सूचिरोमन् पु० सूचिरिव रोमाऽस्य । वराहे हारो०

सूचीरोमन् तत्रार्थे त्रिका० ।

सूचिवत् पु० मूचिरिव तदाकारचञ्चुरस्त्यस्य मतुप् यवा० मस्य वः । गरुड़े शब्दर० ।

सूचिवदन पुं स्त्री० सूचिरिय वदनं यस्य । १ नकुले स्त्रियां

जातित्वात् ङीष् । २ मशके पु० राजनि० ।

सूचिशालि पु० कर्म० । सूक्ष्मधान्ये श्यामाकादौ राजनि० ।

पृष्ठ ५३२५

सूचीकटाह पु० न्यायभेदे न्यायशब्दे ४१७० पृ० दृश्यम् ।

सूचीपत्त्रा स्त्री सूचीव पत्त्रमस्याः । गण्डदूर्वायाम् राजनि०

सूचीमुख सूचीव मुखमस्य । १ सितकुशे राजनि० । २

हीरके न० हेमच० । ६ त० । ३ सूच्यामुखे न० ।

सूच्यग्रस्थूलक पु० सूच्यग्रमिव स्थूलः स्वार्थे क । (उलुखड़)

त्णभेदे रत्नमा० ।

सूच्यास्य पुंस्त्री० सूचीव आस्यमस्य । १ मूषिके हेमच०

स्त्रियां योपधत्वात् टाप् । ६ त० । २ सूच्या अग्रे न० ।

सूच्याह्व पु० सूच्या आह्वा आह्वा यस्य । सितावरके हेम्च० ।

सूत पु० सू--प्रसवे प्रेरणे ऐश्वर्य्ये वा क्त । १ सूर्य्ये अनेकार्थ-

को० । २ अर्कवृक्षे ३ क्षत्रियजाते ब्राह्मणीगर्भजे वर्णसङ्करभेदे
४ त्वष्टरि ५ सारथौ ७ वन्दिनि मेदि० ७ मागधे ८ पारदे
पुंन० अमरः । ९ प्रसूते १० प्रेरिते च त्रि० । ११ लोमहर्ष-
णाख्ये पुराणवक्तरि च तदुत्पत्तिकथा
“सवान्ते सूतमनघं नैमिषीया महर्षयः । पुराणसंहितां
पुण्यां पपृच्छुर्लोमहर्षणम् । त्वया सूत! सहाबुद्धे
भगवान् ब्रह्मवित्तमः । इतिहासं पुराणार्थं व्यासः
सम्यगुपासितः । तस्य ते सर्वरोमाणि वचसा हृषि
तानि यत् । द्वैपायनस्य मगवांस्ततो वै रोमहर्षणः ।
भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः । मुनीनां
संहितां वक्तुं व्यासः पौराणिकीं पुरा । त्वं हि स्वाय-
म्भुवे यज्ञे सूत्याहे वितते सति । संभूतः संहितां
वक्तुं खांशेन पुरुषोत्तम्!” कोर्म १ अ० । “ब्रह्मणः
पौष्करे यज्ञे सूत्याहे वितते सति । पृषदाज्यात् समुत्-
पन्नः सूतः पौराणिको द्विजः । वक्ता वेदादिशास्त्राणां
त्रिकालामलतत्त्ववित् । तीर्थयात्राप्रसङ्गेन नैमिषारण्थ-
मागमत्” वह्निपु० १ अ० ।
जातिभेदसूतोत्पत्तिकथा “हस्ते तु दक्षिणे चक्रं दृष्ट्वा
तस्य पितापमहः । विष्णोरशं पृथुं मत्वा परितोषं परं
ययौ । तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः
सूत्या समुत्पन्नः सौत्येऽथ महामते! । तस्मिन्नेव
महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । प्रोक्तौ तदा मुनि-
वरैस्तावुभौ मूतमागधौ । स्तूयतामेष नृपतिः पृथुर्वैन्यः
पतापवान्” विष्णुपु० १ अंशे १३ अ० । “एतस्मिन्नेव काले
त यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्ये-
ऽहनि पुराणवित् । तेषां यज्ञे पुनस्त्वे वमुत्पन्नौ
मूतमागधौ । पृथोःस्तवार्थं तौ तत्र समाहूतो महर्षिभिः ।
ते ऊचुरृष्यः सर्वे स्तूयतामेष पार्थिवः । तैनियुक्तो-
ऽस्य कर्माणि पृथोर्यानि महात्मवः । तुष्टुवांस्तानि
सर्वाणिआशीर्वादांस्ततः परान् । तयोस्तवान्ते सुप्रीतः
पृथुः प्रादात् जनेश्वरः” वह्निपु० । “क्षत्रियाद्विप्र-
कन्यायां सूतो भवति जातितः” । “सूतानामश्वसारथ्य-
मम्यष्ठानां चिकित्सितम्” मनुः ।

सूततनय पु० सूतस्य तनयः । भारतप्रसिद्धे राधेये कर्णे

हेमच० । सूतपुत्रादयोऽप्यत्र । तस्य सूतपालितत्वात्तथात्वम्

सूति स्त्री मू + क्तिन् । १ प्रसवे “प्रबलैः मूतिमारुतैः” स्मृतिः

सूयते कण्ड्यते सीमोऽत्र सू--आधारे क्तिन् । २ सोमाभि-
षवभूमौ श्रीधरः ।

सूतिका स्त्री सू--क्त स्वार्थे क अत इत्त्वम् । नवप्रसूतायां

स्त्रियाम् “उदक्यां सूतिकां विना” इति स्मृतिः ।

सूतिकागार न० सूतिकाया निवासयोग्यमगारम् ।

मूतिकागृहे अरिष्टे । सूतिकागृहादयोऽप्यत्र ।
तत्करणप्रवेशमुहूर्त्तादिकं पीयू० उक्तं यथा
“उक्तञ्च श्रीपतिना “पुनर्वसौ च सूतिकागृहस्य निर्मितिः
शुभा । विरञ्चिविष्णु भान्तरे प्रवेशनं हितं भवेत्” इति ।
विरञ्चिरभिजिन्नक्षत्रम् अन्तरे मध्ये विरञ्चिविष्णुतारयोरि-
त्येव सप्तम्या अधिकरणत्वे वोधिते अन्तरपदोक्तिः स्पष्टार्था ।
तदेतत्ब्राह्मणव्यतिरिक्तवर्णत्रयविषयम् । यदाह लल्लः
“पुनर्वसौ नृपादीनां कर्त्तव्यं सूतिकागृहम् । श्रवणा-
भिजितोर्मध्ये प्रवेशं तत्र कारयेत्” इति । आवश्यकत्वे
तु श्रवणाभिजितोर्मुहूर्त्तस्तदुदयो ग्राह्यः वा इत्यर्थः ।
ब्राह्मणस्य तु प्रागुक्तनक्षत्रेष्वेव सूतिकागृहनिर्माणप्रवेशौ
तत्र सूतिकागृहं नैरृत्यां कार्य्यम् । यदाह वृद्धवसिष्ठः
“ऐन्द्र्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः । वारुण्यां
भोजनगृहं नैरृत्यां सूतिकागृहम् । याम्यायां
शयनस्थानं वायव्यां पशुमन्दिरम् । कौवेर्य्यां तु धनस्थानम्
ऐशान्यां देवतालयः” इति । स्मृतिभास्करे गर्गः “वारे-
ऽनुकूले राशौ तु दिने दोषविवर्जिते । सानुकूलदिशि
प्रोक्तं सूतिकाभवनं वुधैः” इति । कालानियभ उक्तो
रत्नकोशे “आसन्नप्रसवे मासि कुर्य्याच्चैव विशेषतः ।
तद्वत् प्रसवकाले स्यादिति शास्त्रेषु निश्चयः” इति ।
वराहेणात्रानेकनक्षत्राणामभिधानं कृतं यथा “हस्ता-
दित्यशशाङ्कतिष्यपवनप्राज्येशमित्रोत्तराचित्राश्विश्रवणेषु
वृश्चिकघटौ हित्वा विरिक्ते तिथौ । शुक्राचार्य्यशनै
श्चरज्ञ शशिनां वारेऽनुकूले विधौ सद्रर्वेश्मनि सूतिका
गृहविधिः क्षेमङ्करः कीर्त्यते” इति । वेश्मनि चतुर्थस्थाने
पृष्ठ ५३२६
सद्भिः शुभग्रहैः । सूतिकागृहप्रवेशे कालविशेषमाह
ज्योतिर्वशिष्ठः “अथातः सम्प्रवक्ष्यामि सूतिकागार-
वेशनम् । मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने ।
प्रसूतिसम्भवे काले सद्य एव प्रवेशयेत्” इति । पूर्वपक्षे
शुक्लपक्षे नक्षत्रादीन्याह गर्गः “रोहिण्यैन्दवपौष्णेषु
स्वातीवारुणयोरपि । पुष्ये पुनर्वसौ हस्तधनिष्ठा त्र्यु-
त्तरासु च” इति । “मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागार-
वेशनम् । सर्वे शुभग्रहाः केन्द्रे पापाश्च त्रिषड़ायगाः ।
शुभाशे शुभसंदृष्टौ सूतिकागारवेशनमिति” ।
तदाकारमाह भावप्र० “अष्टहस्तायतं चारु चतुर्हस्तविशा-
लकम् । प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम्” ।

सूतिकारोग पु० ६ त० । भावप्र० उक्ते रोगभेदे

तन्निदानादि यथा “मिथ्योपचारात् संक्लेशात् विषमा-
जीर्णभोजनात् । मूतिकायास्तु ये रोगा जायन्ते दारु-
णाश्च ते” । मिथ्योपचारात् अनुचिताचरणात् प्रवा-
तादिसेवनात् । संक्लेशात् संक्लिश्यन्ते दोषा अनेन इति
संक्लेशः दोषजनकमन्नं तस्मात् । दारुणाः कष्टसाध्याः ।
के ते व्याधय इत्याकाङ्क्षायामाह “अङ्गमर्दो ज्वरः कासः
पिपासा गुरुगात्रता । शोथः शूलातिसारौ च मूतिका-
रोगलक्षणम् । एतेऽङ्गमर्दादयः प्रायेण मूतिकाया
भवन्तः मूतिकारोगत्वेन लक्ष्यन्ते । ज्वरादीनां
रोगविशेषाणां निदानविशेषमाह “ज्वरातीसारशोथाश्च शू
लानाहबलक्षयाः । तन्द्रारुचिप्रसेकाद्या वातश्लेष्म-
समुद्भवाः । कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबला-
श्रिताः । ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्रवाः”
मूतिकाभवत्वेन मूतिकानाम्ना ते रोगाः आश्रयाश्रित-
योरमेदोपचारात् ते चाप्युपद्रवा इति त एव ज्वरादयः
उक्तानां रोगाणामन्यतमं प्रधानीकृत्योपद्रवाश्च” ।

सूतिकाषष्ठी स्त्री सूतिकागृहे पूज्या षष्ठी शाक० । सूतिका-

गारे प्रसवावधि षष्ठे दिवसे पूज्यायां षष्ठीदेव्याम् ।
यथाह “विष्णधर्मोत्तरे “सूतिकावासनिलया जन्मदा नाम
देवताः । तासां यागनिमित्तार्थं शुद्धिर्जन्मनि कीर्त्तता ।
षष्ठेऽह्नि रात्रियागन्तु जन्मदानाञ्च कारयेत् । रक्षणीया
सदा षष्ठी निशां तत्र विशेषतः । राम! जागरणं कार्य्यं
स्नन्मदानां तथा वलिः” । रामेति सम्भोधनम् । तत्रा-
शाचान्तरदोषोऽपि नास्ति । “अशौचे तु समुत्पन्ने
पुत्रजन्म यदा भवेत् । कर्त्तुस्तात्कालिकी शुद्धिः पूर्वा-
शौच द्विशुध्यति” इति प्रजापतिवचनात् । पुत्रजन्मेति
श्रवणात् पितुरेवाशौचाभावः न तु मातुः कर्त्तुरिति
पुंलिङ्गनिर्देशाच्च । कारयेदिति अन्यगोत्रजाभिप्रायेण ।
तत्रादौ विनायकादिसहितषोड़शमातृकापूजनम् । तथा
च कृत्यचिन्तामणौ “छागजागरणं कार्य्यं खड्गो
धार्य्यः समीपतः । आवाह्य पूजयेद्देवीं गणेशं मातृका
गिरिम्” । देवीं षष्ठीम् । गिरिं मन्थानदण्डम् ।
भोजराजः “गणेशश्चैव नन्दा च पूतना सुखमण्डिका । विवा-
निका शकुनिका शुष्कनन्दा च जम्भिका । आचार्य्यका
रेवती च पिलिपिञ्जा ततः परम् । स्कन्दा च द्वादशैते-
ऽर्च्याः रक्षार्थं मातृका ग्रहाः” ज्यो० त०

सूत्थान त्रि० सुष्ठु उत्थानम् उद्योगो यस्य । चतुरे कर्मकुशले अमरः ।

सूत्पर न० सु + उत् + पॄ--अप् । सुरासन्धाने शब्दच० ।

सूत्या स्त्री सू--क्यप् नि० । यज्ञाङ्गस्नानभेदे २ अभिषवे

सोमरसनिष्पीड़ने च अमरः ।

सूत्याशौच न० सूतिनिमित्तकमाशौचम् । जननाशौचे

“शावाशौचं न कर्त्तव्यं सूत्याशौचं विधीयते” स्मृतिः ।

सूत्र ग्रन्थने वेष्टने च अद० चु० उभ० सक० सेट् । सूत्रयति ते

असुसूत्रत् त । बह्वच्कत्वात् न पोपदेशः ।

सूत्र न० सूत्र--अच् । १ वस्त्रसाधने तन्तौ २ व्यवस्थायां ३

नाटकोपकरणे प्रस्तावे “स्वल्पाक्षरमसन्दिग्धं सारवत् विश्व-
तोमुखम् । अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः”
इत्युक्ते शास्त्रवाक्यभेदे च ।

सूत्रकण्ठ पु० सूत्रं यज्ञसूत्रं तदिव वा कण्ठे यस्य । १ विप्रे

२ कपोते ३ खञ्जरीटे च मेदि० ।

सूत्रकोण पु० सूत्रबद्धः कोणोऽस्य । डमरौ हारा० कप् । तत्रार्र्थे त्रिका० ।

सूत्रगण्डिका स्त्री सूत्रं गण्डयति गण्डि--ण्वुल् । तन्तु-

वायोपकरणभेदे एषण्यां शब्दमा० ।

सूत्रतन्तु पु० सूत्रमेव तन्तुः । सूत्राकारे तन्तौ हेमच० ।

सूत्रतर्कुटी स्त्री सूवसहिता तर्कुटी । (टेको) पदार्थे जटा०

सूत्रधार पु० सूत्रं नाट्यसाधनं धारयति धृ--णिच्--अण् ।

नाट्याङ्गसाधनयुक्ते नाटकप्रस्तावके १ प्रधाननटे ।
“नाट्योपकरणादीनि सूत्रमित्यभिधीयते । सूत्रं
धारयतीत्यर्थे सूत्रधारो मतो बुधैः” इति तल्लक्षणं “पूर्वरङ्गं
विधायैव सूवघारो निवर्त्तते” सा० द० । “सूत्रधारेण
सहिताः संलापं यत्र कुर्वते” दशरूपकम् । २ इन्द्रे
३ शिल्पिभेदे (छुतार) च । शिल्पभेदसूत्रधारश्च शूद्रागर्भे
विश्वकर्मणा जातो जातिमेदः ब्रह्मवै० ब्रह्मख० १० अ० ।

सूत्रपुष्प पु० सूत्रगर्भं पुष्पं यस्य । कार्पासे त्रिका० ।

पृष्ठ ५३२७

सूत्रभिद् पु० सूत्रं भिनत्ति सूच्या, भिद--क्विप् । सूच्याजीवे

(दरजी) शब्दर० ।

सूत्रमध्यभू पु० सूत्रमध्यमिव भवति भू--क्विप् । यक्षधूपे शब्दच० ।

सूत्रयन्त्र न० सूत्रबापनं यन्त्रम् शाक० । (ताँत) सूत्रवापनयन्त्रे

शब्दमा० ।

सूत्रला स्त्री सूत्रं लाति--ला--क । तर्कुट्याम् (टेको) हारा० ।

सूत्रवीणा स्त्री सूत्रबद्धा वीणा शाक० । वीणाभेदे हारा० ।

सूत्रवेष्टन न० सूत्रं वेष्ट्यतेऽनेन वेष्ट--करणे ल्युट् । तन्तु-

वायोपकरणभेदे त्रसरे (तासनी) अमरः ।

सूत्रात्मन् पु० मूत्रमिव सर्वानुष्यूत आत्मा स्वरूपं यस्य ।

समष्ट्युपहितचैतन्ये हिरण्यगर्भे वेदा० सा० ।

सूत्रामन् पु० इन्द्रे अमरे पाठान्तरम् । सुत्रामन् शब्दे व्युत्पत्तिः ।

सूत्राली स्त्री ६ त० । १ सूत्रश्रेणौ २ गलमेखलायां हारा० ।

सूत्रिन् त्रि० सूत्र + अस्त्यर्थे इनि । १ सूत्रविशिष्टे स्त्रियां

ङीप् । २ काके पु० त्रिका० ।

सूद पु० सूदयति पशून् पाकार्थं सूद--अच् । १ सूपकारके

२ व्यञ्जनभेदे सूपे अमरः । ३ सारथ्ये ४ अपराधे ५ लोध्रे
६ पापे च अजयः ।

सूदन न० सूद--भावे ल्युट् । १ हिंसने २ निःक्षेपे ३ अङ्गीकारे च ।

सूदशाला स्त्री सूदाधिष्ठिता शाला शाक० । पाकशालायाम्

पाचकशब्दे ४२४६ पृ० विवरणम् ।

सूदाध्यक्ष पु० ६ त० । पाकशालाध्यक्षे तल्लक्षणं यथा

अनाहार्व्यः शुचिर्दक्षश्चिकित्सितविदांवरः ।
सूदशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते” पाचकशब्दे तल्लक्ष-
णादि ४२८६ पृ० दृश्यम् ।

सून न० सू--क्त तस्य नः । १ पुष्पे २ प्रसवे च । कर्त्तरि-

क्त । ३ विकशिते त्रि० मेदि० ४ जाते च ।

सूना स्त्री सू--क्त तस्य नः । १ प्राणबध स्थाने “पञ्च सूना

गृहस्थस्य चूल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च”
मनुः २ तनयायां ३ गजशुण्डायां मेदि० ४ मांसविक्रये च
संक्षिप्तसा० ।

सूनु पु० सू--नुक् । १ पुत्रे २ अनुजे ३ सूर्य्ये मेदि०

४ र्कवृक्षे च । ५ कन्यायां स्त्री वा ऊङ् हेमच० ।

सूनृत न० सुन्र्थति अनेन म--नृत--घञर्थे क । १ सत्ये

प्रिये वाक्ये अमरः । २ मङ्गले च ३ तद्वति त्रि० अमरः ।

सूप पु० सुखेन पीयते सू + पा--घञर्थे क पृषो० । (दालि)

व्यञ्जनभेदे कृतान्नशब्दे २१८१ पृ० दृश्यम् । सुवपति
ल + षप--मूलवि० क । २ सूपकारे पाचके मेदि० । आधारे
च । ३ भाण्डे । सूद--करणे क पृषो० । ४ सायके शब्दर० ।

सूपकार त्रि० पूपं करोति कृ--अण् । पाचके अमरः ।

पाचकशब्दे ४२८६ पृ० दृश्यम् ।

सूपधूपन न० सूपो धूप्यतेऽनेन धूप--करणे ल्युट् । १ हिङ्गै

त्रिका० सूपपाके हि हिङ्गुधूपदानं पाकशास्त्रे प्रसिद्धम

सूपपर्णी स्त्री सूपसाधनस्य मुद्गस्येव पर्णमस्याः ङीप् ।

मुद्गपर्ण्याम् रत्नमा० ।

सूपश्रेष्ठ पु० सूपेषु तत्साधनेषु श्रेष्ठः । मुद्गे राजनि० ।

सूपाङ्ग न० सूपस्य तत्सं स्कारकमङ्गमुपकरणम् । हिङ्गो

राजनि० ।

सूम न० सू--मक् १ आकाशे २ क्षीरे मेदि० । ३ जले शब्दर० ।

सूर पु० सवति प्रेरयति कर्मणि लोकानुदयेन सू--क्रन् ।

१ सूर्य्ये २ अर्कवृक्षे च अमरः । सूर--क । ३ पण्डिते
४ जिनभेदे पु० हेमच० । “सूर्य्योदयं विना नैव स्यान-
दानादिका क्रिया” स्मृत्युक्तेस्तस्योदयेन लोकानां सर्वकर्म-
प्रवर्त्तकत्वात्तथात्वम् ।

सूरण पु० सूर--ल्युट् । शूरणे (ओल) शब्दरत्ना० ।

“मकरे मूलकञ्चैव सिंहे चालाबुकं तथा । कार्त्तिके
(सू)शूरणञ्चैव सद्यो गोमांसभक्षणम्” कर्मलो० ।

सूरत त्रि० सु + रम--क्त पृषो० । दयालौ अमरः ।

सूरसूत पु० ६ त० । अरुणे गरुड़ाग्रजे सूर्य्यसारथौ अमरः ।

अनूरुशब्दे १९१ पृ० दृश्यम् ।

सूरि पु० सू--क्रिन् । १ सूर्य्ये २ अर्कवृक्षे ३ थादवभेदे ४ पण्डिते

च अमरः “सदा पश्यन्ति सूरयः” इति श्रुतिः । ४
राजसर्षपे स्त्री ङीप् रत्नसा० ।

सूरिन् पु० सूर--णिनि । पण्डिते शब्दर० ।

सू(षू)र्क्ष(र्क्ष्य) ) अनादरे भ्वा० पर० सक० सेट् । सूर्क्ष(र्क्ष्य)ति

असूर्क्षी(र्क्ष्यी)त् षोपदेश एव न्याय्यः ।

सूर्क्ष पु० सूर्क्ष--कर्मणि घञ् । माषे (कलाइ) शब्दर० ।

सूर्क्ष(र्क्ष्य)ण न० सूर्क्ष(र्क्ष्य) भावे ल्युट् । अनादरे ।

सूर्प पुंन० । शूर्प--पृषो० शस्य सः । १ शूर्पशब्दार्थे शब्दर० ।

२ कुम्भपरिमाणे ३ द्रीणपरिमाणे च वैद्यकम् ।

सूर्पणखा स्त्री शूर्प इव नखा अस्याः पृषो० शस्य षः

णत्वम् । रावणभगिन्याम् ।

सूर्म्मि स्त्री शूर्मि + पृषो० शस्य सः । शूर्मिशब्दार्थे वा ङीप् ।

सूर्य्य पु० सृ--क्यप् नि० । १ दिवाकरे २ अर्कवृक्षे चअमरः ।

३ दानवभेदे वह्निपु० ४ अर्कपर्णवृक्षे मेद० ।
सूर्य्यग्रहकक्षादिकं खगोलशब्दे २४२५ पृ० दृश्यम् ।
तस्य प्रकृतिस्वरूपादिकं सर्वार्थचि० उक्तं यथा
पृष्ठ ५३२८
“भानुर्युगान्ताङ्कितदेहरक्तः श्यामान्वितः पिङ्गलनेत्र-
कान्तिः । पित्तात्मकोऽयं समगात्रयष्टिः प्रतापयुक्
सत्त्वगुणोऽल्परोमा । सञ्चारयुक् सङ्कुचितार्थवाक्यः स्वल्प-
प्रजो दैविकवुद्धियुक्तः” । स च प्राच्या दिशः खामी ।
पुंग्रहः क्षत्रियजातीयः अस्थिसारः देवस्थलेशश्च ।
वृहज्जातके तट्टीकायाञ्च सूलं दृश्यम् । ग्रहयज्ञशब्दे
तन्मन्त्रभेदादिकं दृश्यम् । जन्मकाले लग्नादिकस्थस्य
तस्य फलं जातकपद्धतावुक्तं यथा
“लग्ने १ सूर्य्ये स्वल्पकेशः प्रचण्डो मानी क्रोधी नेत्र-
रुक् निघृणश्च । शूरोऽक्षान्तश्चालसः कर्कशाङ्को नीचे
निःस्वा भूपजोऽप्यक्षिहीनः । धने २ दिनेशे बहुवित्तभृत्य-
चतुष्पदाढ्योऽपि नरो भवेत् सः । विनष्टसौभाम्यसुस्वो
नृवालेश्चौरेर्हृतार्थो मुलरोगदुःखो । सहस्ररश्मौ
सहज ३ बलाढ्यो धीविक्रमैर्लोकमनीभिरामः । विनष्ट-
तुल्यादरजो नरः स्याद्दुष्टारिपक्षस्य विनाशकश्च । मित्रे
मित्रे ४ बन्ध भर्वाहनैः स्याद्धीनः सौख्यैर्मानसोत्थैश्च हीनः ।
ताताम्बादेर्नाशकारी नरो वै सेबाकारो भूपतेः कुत्-
सितस्य । सूनौ ५ भानौ सूनुसौख्यस्वहीना दुर्गारण्य-
क्ष्माधरेषूपरक्तः । मेधायुक्तो मन्त्रसम्प्राप्तसम्पत्स्वल्पा-
युर्वै जायते नानवोऽयम् । कुमुदगहनशत्रौ शत्रुभावं ६
प्रपन्ने भवति नरपतिर्वा दण्डनेता धनाढ्यः । प्रबल-
जठरवह्निर्भूरिकामो गुणी वै बलरिपुसहितः स्वात्
पूरुषः केचिदेवम् । भार्य्याभावे ७ भास्करे चाभिभूतो
मार्य्यामिर्वे हीनकान्तीरुगाढ्यः । भूपाद्बन्धै पीड़ितो-
ऽमोर्गगामी सुश्रीहीनो मानवः शीलहीनः । निधनगे ८
नलिनोदयिते नरा नयनयार्विकलत्वयुतो भवेत् ।
तनुधनात्मजजीवितसौख्यभागभिमतेन जनेन वियोजितः ।
धर्म ९ स्थिते घर्मकरे धनेन घनेन युक्तो बहुमित्रपुत्रः ।
मूदेववृन्दारकवृन्दभक्तिः पितृप्रियो वैरकरः समृद्धः ।
गगन १० गे गगनस्य मणौ नरो मतिधनात्मजवैभवशौर्य्य-
युक् । रतिबलश्रुतकार्य्यसमृद्धिभाग् भवति वाहनवान्
नृपसद्गुणः । प्राप्ति ११ स्थाने सप्तसप्तौ नरः स्यात् प्राप्त्या
वित्तस्याथ वृद्ध्या समेतः । मन्त्री द्वेष्यः सद्बलः सिद्ध-
कर्मा क्रूरो कान्तानिर्जितो वश्यभृत्यः । व्यये १२ सूर्थ्ये
नरः काणः पितृद्वेषी बलोज्झितः । बन्ध्यापरिर्वह्व
लङ्गः क्षुद्रस्तु पतितो भवत्” । मेषादिस्थ्गस्य तस्य फलं
जातकशब्दे २०८८ पृ० दृश्यम् ।

सूर्य्यकान्त पु० सूर्य्यस्य कान्तः प्रियः । १ स्फटकमणौ हला०

२ मूर्य्यसम्पर्कात् यत्राग्निसम्भवस्तस्मिन् (आतसो) मणौ
च हेमच० ।

सूर्य्यकान्ति पु० सूर्य्येण कान्तिर्यस्य । अतस्यां पुष्प्यधान-

वृक्षविशेषे शब्दच० । ६ त० । २ सूर्य्यस्य दीप्तौ स्त्री ।

सूर्य्यकाल पु० । सूर्य्योपलक्षतः कालः शाक० । दिवसे शब्द च० ।

सूर्य्यग्रहण न० सूर्य्यस्य राहुणा तदाक्रान्तभूच्छायया ग्रहण-

माक्रमणम् । ज्यातिषोक्ते राहुप्रविष्टभूमिच्छायया
सूर्य्यमण्डलस्य आक्रमणरूपे ग्रासे सूर्य्यग्रहादयाऽप्यत्र ।
उपरागशब्दे १२८५ पृ० दृश्यम् ।

सूर्य्यज पु० सूर्य्यात् जायते जन--ड । १ शनिग्रहे २ यने

३ वैवस्वते मनौ ४ सुथीववानरे च जटा० । मूर्य्यपुत्रादयो-
ऽप्यत्र । ५ यमुनायां स्त्री हेमच० । ६ कर्णे पु० ।

सूर्य्यपत्र पु० स्र्य्य इव रक्तं पत्रमस्य । आदित्यपत्रे राजनि० ।

सूर्य्यभक्त पु० मूर्य्यस्य भक्त इव प्रियः । १ बन्धूकवृक्षे । ६ त० ।

२ मूर्य्यभक्तियुते त्रि० मेदि० ।

सूर्य्यमणी पु० सूर्य्यप्रियः मणिः । १ सूर्य्यकान्तमणो हेमच० । २ पुष्पभेदे शब्दच० ।

सूर्य्यलता स्त्री सूर्य्यभक्ता लता । आदित्यभक्तायाम् राजनि०

सूर्य्यवल्ली स्त्री सूर्य्यतुल्यपुष्पिका वल्ली । अर्कपुष्पिकावृक्षे रत्न०

सूर्य्यसारथि पु० ६ त० । अरुणे गरुड़ाग्रजे शब्दच० । सूर्य्य-

सूतादयोऽप्यत्र ।

सूर्य्या स्त्री सूर्य्यस्य भार्य्या टाप् । १ अमानुष्यां संज्ञानाम्म्यं

सूर्य्यभार्य्यायाम् । मानुष्यां कुत्न्यान्तु ङीपि । सीर्प्त्येव ।

सूर्य्यालोक पु० ६ त० । आतपे रौद्रे राजनि० ।

सूर्य्यावर्च पु० सूर्य्य इवावर्त्तते आ + वृत--अच् । (हुड़हु-

ड़िया) २ क्षुपभेदे (सुलफिया) २ शाके च रत्नमा० ।
३ आदित्यभक्तायां स्त्री राजनि० ।

सूर्य्याश्मन् पु० सूर्य्यप्रियः अश्मा । सूर्य्यकान्तमणौ हेमच० ।

सूर्य्याह्व पु० सूर्य्यमाह्वयते स्पर्द्धते वर्णेन आ + ह्वे--क ।

१ ताम्रे त्रिका० । सूर्य्यस्य आह्वाऽऽह्वायस्य । २ अर्कवृक्षे पु०
राजनि० ।

सूर्य्येन्दुसङ्गम पु० सूर्य्यस्य इन्दोश्च सङ्गमः कालः । १ अमावस्यायाम् अमरः २ तयोर्मेलने च ।

सूर्य्योढ पु० सूर्य्य ऊढ़ोऽस्तगतो यत्र । १ सूर्य्यास्तप्रत्यकाले

हेमच० । “दिवातिथौ तु विमुखे गते यत् पातकं भवेत् ।
तदेवाष्टगुणं विद्यात् सूर्य्योढ़े विमुखे गते” आ० त० ।
सूर्य्येष्ण सूर्य्यास्तकालेन ऊढः प्रापितः वह--क्त ।
२ तत्कालागतातिथौ “सूर्य्योढस्तु स सं प्राप्तो यः सूर्य्यो-
ऽस्तं गतेऽतिथिः” हेमच० ।

सृ गतौ स्थितो चु० उभ० सक० सेट् । सारयति ते पर्युदासान्न षोपदेशः ।

पृष्ठ ५३२९

सृ गतौ भ्वादि० परस्मै० सक० अनिट् सरति । असरत्

असार्षीत् पर्युदासान्न षोपदेशः । “नालानं करिणां सस्रे”
च रघुप्रयोगात् आत्म० ।

सृ गतौ जु० वैदिकः पर० सक० सेट् । ससर्त्ति असरत् पर्युदासान्न पापदेशः ।

सृक पु० सृ--कक् । १ कैरवे २ वाणे उणा० । ३ पद्मे ४ वायौ-

च सि० को० ।

सृकण्डु पु० सृ--क्विप् पृषो० कर्म० कण्डुरोगे शब्दर० ।

सृकाल पु० सृ--कालन् कस्य नेत्वम् । शृगाले शब्दच० ।

सृक्क(न्) न० सृज--कन् कनिन् वा कस्य नेत्त्वम् । ओष्ठप्रान्त

भागे “सृक्कणी परिलेढ़ च” स्मृतिः । “महासृक्काय ।
शोभितो नृसिंहवदिति” श्लेषात् कान्तताप्यस्य ।

सृक्वन् न० सृज--क्वनिप् । ओष्ठप्रान्तभागे अमरः । पृषो० ।

सृक्विन् अप्यत्र अरुणः । सृक्किणी तत्रार्थे स्त्री राजनि०

सृग पु० सृ--गक् गस्य नेत्त्वम् । पिन्दिपालास्त्रे अमरः ।

सृगाल पुं स्त्री० सृ--गालन् गस्य नेत्त्वम् । १ जग्येके

(शेयाल) शब्दर० । स्त्रियां ङीष् । २ दैव्यभेदे हरिबं० ।

सृज विसर्गे त्यागे दिवा० आत्म० अनिट् सक० । सृज्यते

असृष्ट । पर्युस्यसान्न षोपदेशः ।

सृज विसर्गे तु० पर० सक० अनिट् सृजति अस्राक्षीत् ससर्जिष

सस्रष्ठ स्रष्टा स्रक्ष्यति । पर्युदासन्न षोपदेशः ।

सृजकाक्षार पु० सृजति वर्चस्मित्वं सृब्ब--क ततः स्वार्थे क

सृजका सर्जिला कर्म० । सर्जिकाक्षारे रमाना० ।

सृणि पु० सृ--निक् । १ शत्रौ शब्दसा० । २ अङ्कुशास्त्रे स्त्री

अमरः । तत्र वा ङीष् । सृणीत्यपि ।

सृणि(णी)का स्त्री सृणि + कन् ईकन्वा । लालायाम् अमरः

सृति स्त्री सृ--भावे क्तिन् । १ गमने । करणे क्तिन् । २ पषि

च मेदि० ।

सृत्वन् पु० सृ--क्वनिप् । १ प्रजापतौ उज्ज्वल० । २ विसर्प ३ वृद्धोसंक्षिप्त० ।

सृत्वर त्रि० सृ--क्वरप् । १ गमनकर्त्तरि स्त्रिथां ङीप् । सा च

२ मातरि संक्षिप्तसा० ।

सृदर पु० सृ--अरक् दुक् च । सर्पे सि० कौ० ।

सृदाकु पु० सृ--काकु दुक्च । १ वायौ २ वज्रे ३ अग्नो ४ प्रति-

सूर्य्यके मेदि० । ५ मृगे संक्षिप्त० । नद्यां स्त्री उणा० ।

सृप गतौ भ्वा० पर० सक० अनिट् । सर्पति असृपत् ।

पर्युदासान्न षोपदेशः ।

सृपाट पुंस्त्री० सृप--काटन् । १ परिमाणभेदे २ रक्तधारायां

गोवर्द्धनः । स्त्रियां ङीप् । स्वार्थे क अत इत्त्वम् ।
सृपाटिका । चञ्चौ हेमच० ।

सृप्र पु० सृप--क्रन् । चन्द्रे उणा० ।

सृमर पुंस्त्री० सृ--क्मरच् । १ मृगभेदे अमरः । स्त्रियां ङीष् । २ गमनशीले त्रि० ।

सृष्ट त्रि० सृज--क्त । १ निर्मिते २ युक्ते ३ निश्चिते ४ बहुले

मेदि० । ५ भूषिते अजयः । ६ त्यक्ते च ।

सृष्टि स्त्री सृज--क्तिन् । १ निर्माणे २ स्वभावे च मेदि०

कर्मणि क्तिन् । ३ सृज्यमाने “या सृष्टिः स्रष्टुराद्ये” ति
शकुन्तला० ४ निर्गुणे शब्दर० ।
ब्रह्माण्डसृष्टिप्रकारः नानापुराणेषूक्तः तत्र षतवपु०
उक्तः प्रकारा यथा
“महाप्रलयकालान्त एतदासीत्तमोमयम् । प्रसुप्तमिव
चातक्यम्। ज्ञातमलक्षणम् । अविज्ञेयमविज्ञातं जगत्
त्रास्नु चारष्णुच । ततः स्वयम्भूरव्यक्तः प्रभवः पुण्य-
कर्मणाम् । व्यञ्जयन्नेतदखिलं प्राद्रासीत्तमानुदः ।
योऽतोन्द्रियः परो व्यक्तादणुर्ज्योयान् सनातनः । नारा-
यण इति ख्यातः स एकः स्वयमुद्बभौ । यः शरीरा-
दभिध्याय सिसृक्षुर्विविधं जनत् । अपएव ससर्जादौ
तासु बोजमवासृजत् । तदेवाण्डं समभवद्धेमरूपमयं
महत् । संवत्सरसहस्रेण सूर्य्यायुतसमप्रभम् । प्रवि-
श्यान्तर्महातेजाः स्वयमेवात्मसम्भवः । प्रभावादपि तत्
व्याप्त्या विष्णुत्वमतमद् पुनः । तदन्तर्भगवानेष सूर्य्यः
समभवत् पुरा । आदित्यपादिभूतत्वात् ब्रह्मा ब्रह्म
पठन्नभूत् । दिवं भूमिं समकरोत्तदण्डशकलद्वयम् ।
स चाकरोद्दिशः मर्वा मध्ये व्योम च शाश्वतम् ।
जरायुर्मेरुमुख्याश्च शैलास्तस्याभवंस्तदा । यदुल्वन्तदभून्मेघ
स्तडित्सङ्घातमण्डलम् । नद्योऽण्डनाम्नः सम्भूना
पितरो मनवस्तथा । सप्त येऽमी समुद्राश्च तेऽपि चन्ति-
र्जलोद्भवाः । लवणेक्षुसुराद्याश्च नानारत्नसमत्विताः ।
स सिसृक्षुरभूद्देवः प्रजापतिररिन्दम! । तत्तेजसश्च त
त्रैव मार्तण्डः समजायत । मृतेऽण्डे जायते यस्मा-
न्मार्त्तण्डस्तेन स स्मृतः । रक्षोगुणमयं यत्तद्रूप तस्य
महात्मनः । चतुर्मुखः स भगवानभूल्लोकपितामहः ।
येन मृष्टं जगत्सर्वं स देवासुरमानुषम् । तमर्वेहि
रजोरूपं महत्सत्त्वमुदाहृतम्” । मनुरुवाच “चतुमुंख-
त्वमगमत् कस्माल्लोकपितामहः । कथं नु लोकानसृ-
जत् ब्रह्मा ब्रद्धविटांवरः” । मत्स्य उवाच “तपश्चचार
प्रथममराणा पितामहः । आविर्भूतास्ततो वैदाः
साङ्गोपाङ्गपदकमाः । पुराणं सर्वशास्त्राणां प्रथम
ब्रह्मणा स्मृतम् । नित्यं शब्दमयं पुण्यं शतकोटिप्रवि-
पृष्ठ ५३३०
स्तरम् । अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।
मीमांसा न्यायविद्याश्च प्रमाणाष्टकसंयुताः । वेदाभ्यास-
रतस्यास्य प्रजाकामस्य मानसाः । मनसा पूर्वसृष्टा वै
जाता यत्तेन मानसाः । मरीचिरभवत् पूर्वं ततो
ऽत्रिर्मगवान् ऋषिः । आङ्गिराश्चाभवत्पश्चात् पुलस्त्यस्तद-
नन्तरम् । ततः पुलहनामा वै ततः क्रतुरजायत ।
प्रचेताश्च ततः पुत्रो वसिष्ठश्चाभवत् पुनः । पुत्रो भृगु-
रसूत्तद्वन्नारदोऽप्यचिरादभूत् । दशेमान् मानसान् ब्रह्मा
मुनीन् पुत्रानजीजनत् । शारीरानथ वक्ष्यामि मातृ
हीनान् प्रजापतेः । अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजा-
यत । धर्मः स्तनान्तादभवत् हृदयात् कुसुमायुधः । भ्रू-
मध्यादभवत् क्रोधो लोभश्चाधरसम्भवः । बुद्धेर्मोहः
समभवदहङ्कारादभून्मदः । प्रमोदश्चाभवत् कण्ठान्
मृत्युर्लोचनती नृप! । भरतः करमध्यात्तु ब्रह्मसूनु-
रमूत्ततः । एते नव! सूता राजन्! कन्या च दशमी
पुनः । अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता ।
मनुरुवाच “बुद्धेर्भोहः समभवदिति यत्परिकीर्त्तितम् ।
अहङ्कारः स्मृतः क्रोधो बुद्धिर्नाम किमुच्यते” । मत्स्य
उवाच “सत्त्वं रजस्तमश्चैव गुणत्रयसुदाहृतम् । साम्या-
वस्थितिरेतेषां प्रकृतिः परिकीर्त्तिता । केचित् प्रधान
मित्याहुरव्यक्तमपरे जगुः । एतदेव प्रजासृष्टिं करोति
विकरोति च । गुणेभ्यः क्षोभमाणेभ्यस्त्रयो देवा
विउज्ञिरे । एका मूर्त्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः ।
सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते । महानिति
यतः ख्यातिर्लोकानां जायते सदा । अहङ्कारश्च महतो
जायते मानवर्धनः । इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धि-
वशानि तु । प्रादुर्भवन्ति चान्यानि तथा कर्मवशानि तु ।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम् ।
पायूपस्थं हस्तपादं वाक् चेतीन्द्रियसग्रहः । शब्दः स्प
र्शश्च रूपञ्च रसो गन्धश्च पञ्चमः । उत्सर्गानन्दनादान-
गत्यालापाश्च तत्क्रियाः । मन एकादशं तेषां कर्मबुद्धि-
गुणान्वितम् । इन्द्रियाबयवाः सूक्ष्मास्तस्य मूर्तिं
मनीषिणः । श्रयन्ति यस्माचन्मात्राः शरीरं तेन संस्मृतम् ।
शरीरयोगाज्जीवोऽपि शरीरी गद्यते बुधैः । मनः सृष्टिं
विकुरुते चोद्यमानं विसृक्षया । आकाशं शब्दतन्मात्रा
दभूच्छब्दपुणात्मकम् । आकाशविकृतर्बायुः शब्दस्पर्श
गुणोऽभवत् । वायोश्च स्पर्शमन्मात्राहेजश्चाविरभूत्ततः ।
लिपुणं तहिकारेण तच्छब्दस्पर्शरूपवत् । तेजो विका-
रादभवद्वारि राजंश्चतुर्गुणम् । रसतन्मात्रसम्भूतं
प्रायो रसगुणात्मकम् । भूमिस्तु गन्धतन्मात्रादभूत् पञ्च-
गुणान्विता । प्रायो गन्धगुणा सा तु बुद्धिरेषा
गरीयसी । एभिः सम्पादितं भुङ्क्ते पुरुष पञ्चर्विशकः ।
ईश्वरेच्छावशः सोऽपि जीवात्मा कथ्यते बुधैः । एव
षङ्विंशकं प्रोक्तं शरीर इह मानये । सांख्यं संख्यात्मक-
त्वाच्च कपिलादिभिरुच्यते । एतत्तत्त्वात्मकं कृत्वा
जगद्वेधा अजीजनत् । सावित्रीं लोकसृष्ट्यर्थं हृदि कृत्वा
समास्थितः । ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् ।
स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् । शतरूपा च सा
ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्री
ब्रह्माणी च परन्तप! । ततः स्वदेहसम्भूतामात्मजा-
मित्यकल्पयत् । दृष्ट्वा तां व्यथितस्तावत्कामवाणार्दितो
विभुः । अहो रूपमहोरूपमिति चाह प्रजापतिः ।
ततो वशिष्ठप्रमुखाः भगिनीसिति चुक्रुशुः । ब्रह्मा न
किञ्चिद्ददृशे तन्मुखालोकनाघन्ते । अहो रूपमहोरूप-
मिति प्राह पुनः पुनः । ततः प्रणामनम्रान्तां पुनरेवाभ्य-
लोकयत् । अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी ।
पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया ।
आविर्भूत ततो वक्त्रं दक्षिणं पाण्डुगण्डवत् । विस्मयस्फुर-
दोष्ठञ्च पाश्चात्यमुदगात्ततः । चतुर्थमभवत्पश्चाद्वामं
कामशरातुरम् । ततोऽन्यदभवत्तस्व कामातुरतथा तथा ।
उत्पतग्व्यास्तदाकारव्यालोकनकुतूहलात् । सूष्ट्यर्थं यत्
कृतं तेन तपः परमदारुणम् । तत्सर्वं नाशमग-
मत् स्वमृतोपगमेच्छया । तेनोध्वं वक्त्रमभवत्पञ्चमं तस्य
धीमतः । आविर्भवज्जटाभिश्च तद्वक्त्रञ्चावृणोत् प्रभुः ।
ततस्तानब्रवीत् ब्रह्मा पुत्रानात्मसमुद्भवान् । प्रजाः
सृजध्वममितः सदेवासुरमानुषीः । एवसुक्तास्ततः सर्व
ससृजुर्विविधाः प्रजाः । गतेषु तेषु सृष्ट्यर्थे प्रणामाव-
नतामिमाम् । उपयेमे स विश्वात्मा शतरूपामनिन्दि-
ताम् । सम्बभूव तया सार्द्धमतिकामातुरो विभुः ।
सलज्जाञ्चकमे देवः कमलोदरमन्दिरे । यावदव्दशतं
दिव्यं यथान्यः प्राकृतो जनः । ततः कालेन महता
तस्या पुत्रोऽभवन्मनुः । सायम्भुव इति ख्यातः स
विराडिति नः श्रुतम् । स तु तद्रूपसामान्यादधिपूरुष
उच्यते । वैराजा यत्र ते जाता बहवः शसितब्रताः ।
स्वायम्भु वा महाभागाः सप्त सप्त तथा परे । स्वारो-
चिषाद्याः सर्वे ते व्रह्मतुल्यस्वरूपिणः । औत्तमिप्रमुखा-
स्तद्वद्येषान्त्वं सप्तमोऽधुना” । सर्गशब्दे ५२५० पृ०
तस्यानवविधत्वं दृश्यम् ।
पृष्ठ ५३३१

सृष्टिप्रदा स्त्री सृष्टिं तद्धेतुं गर्भं प्रददाति प्र + दा--क । गर्भदात्रीक्षुपे राजनि० ।

सॄ(षॄ) हसायां क्र्या० प्वा० प० सक० सेट् । सृणाति

असारीत् सीर्ण्णः सीर्णिः । षोपर्देश एव न्याय्यः ।

सेक गतौ भ्वा० आ० सक० सेट् । सेकते असेकिष्ट पर्यु-

दासान्न षोपदेशः । ऋदित् चङि न ह्रस्वः ।

सेक पु० सिच--घञ् । सेचने जलादिना आर्द्रीकरणे हेमच० ।

सेकपात्र न० सिच्यतेऽनेन सिच--करणे घञ् कर्म० । (सेअनी)

सेचनपात्रभेदे अमरः ।

सेकिम न० सेकेन निर्वृत्तम् सेक--वा डिम । मूलके हेमच०

सेक्तृ पु० सिञ्चति रेतः सिच--तृच् । १ पत्यौ हेमच० । २ सेचफे

त्रि० स्त्रियां ङीप् ।

सेक्त्र न० सिच--करणे ष्ट्रन् । सेकपात्रे सि० कौ० ।

सेचक पु० सिञ्चति तोयेन पृथिवीम् सिच--ण्वुल् । १ मेघे

२ सेककर्त्तरि त्रि० मेदि० ।

सेचन न० सिच--भावे ल्युट् । १ जलादिना आर्द्रीकरणे

२ क्षरणे । करणे ल्युट् । ३ सेचन्यां क्षुद्रसेकपात्र्यां स्त्री
ङीप् मेदि० ।

सेटु पु० सिट--उन् । (तरमुज) वृक्षे त्रिका० ।

सेतु पु० सि--तुन् । १ क्षेत्रादेर्जलधारणार्थे (आल) (जाङ्गाल)

पदार्थे अमरः । २ वरुणवृक्षे मेदि० । मन्त्रजपाङ्गे ३ प्रण-
वात्मके मन्त्रे च स्वार्थे क । सेतुक वरुणवृक्षे शब्दर० ।
“सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः” मठादि० त० ।
सेतुभेदश्च । सीमाविवादशब्दे ५३०० पृ० उक्तः ।
“सेतूश्च द्विविधः प्रोक्तः खेयो बन्ध्यस्तथाऽपरः ।
तोयप्रवर्त्तनात् खेयो बन्ध्यस्तु तन्निवर्त्तनात्” नारदः ।
मन्त्रजपाङ्गसेतुश्च कालिका पु० ५५ अ० उक्तो यथा
“मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः । स्रवत्यनो०
ङ्खृतं पूर्वं परस्ताच्च विशीर्य्यति । नमस्कारो महामन्त्रो
देव इत्युच्यते सुरैः । द्विजातीनामयं मन्त्रः शूद्राणां
सर्वकर्मणि । अकारञ्चाप्युकीरञ्च मकारञ्च प्रजापतिः ।
वेदत्रयात् समुद्धृत्य प्रक्षवं निर्ममे पुरा० । स उदात्तो
द्विजातीनां राज्ञां स्वादनुदात्तकः । स्वरितश्चोरुजातानां
मनसापि तथा स्मरेत् । चतुर्दशस्वरो योऽसौ सेतुरो-
कारसंज्ञकः । स चानुस्नारचन्द्राभ्यां शूद्राक्षां सेतुरच्यते ।
निःसेतुकं यथा तोयं क्षणान्निम्न प्रसर्पाति । मन्त्रस्त-
थैव निःसेतुः क्षणात् क्षरेति यज्वनाम् । तस्मात् सर्वेषु
मन्त्रेषु चतुर्वर्णा द्विजादयः । प्रार्श्वयोः सेतुमाधाय
जपकर्म समारभेत् । शूद्राणामादिसेतुर्वा द्विसेतुर्वा
यथेच्छतः । द्विसेतवः समाख्याता सर्वदैव द्विजातयः” ।

सेतुबन्ध पु० ६ त० । लङ्कागमनार्थं श्रीरामेण नलकपिद्वारा

कारिते समुद्रोपरि १ आलीबन्धे २ क्षेत्रादेरालीबन्धे च ।
“ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः । नलः सेतुं
करोत्वस्मिन् जले मे विश्वकर्मणः । सुतो, धीमान् समर्थो-
ऽस्मिन् कार्य्ये लब्धवरो हरिः । कीर्त्तिं गायन्तु तै
लोकाः सर्वलोकमलापहाम् । इत्युक्त्वा राघवं नत्वा ययौ
सिन्धुरदृश्यताम् । ततो रामस्तु सुग्रीबलक्ष्मणाभ्यां
समन्वितः । नलमाज्ञापयच्छ्रीघ्रं वानरैः सेतुबन्धनात् ।
ततोऽतिहृष्टः प्लवगेन्द्रयूथपैर्महानगेन्द्रप्रतिमैर्युतो
नलः । वबन्ध सेतुं शतयोजनायतं सुविस्तरं पर्वत-
पादपैर्दृढ़म्” अध्यात्मरा० ३ अ० । “सेतुमारभमाणस्तु
तत्र रामेश्वरं शिवम् । सङ्कल्पनियतो गत्वा पुरीं वारा-
नसीं नरः । आनीय गङ्गासलिलं रामेशममिषिच्य च ।
क्षिप्ता समुद्रे तद्वारि ब्रह्म प्राप्नोत्यसंशयः । कृतानिं
प्रथमेनाह्ना योजनानां चतुर्दश । द्वितीयेन तथा चाह्ना
योजनानाञ्च विंशतिः । तृतीयेन तथा चाह्वा योजना-
न्येकविंशतिः । चतुर्थेन तथा चाह्णा द्वाविंशतिः तथा
कृतम् । पञ्चमेन त्रयोविंशद् योजनानां समन्ततः ।
बबन्ध सागरे सेतुं नलो वानरसत्तमः । तेनेव जग्मुः
कपयो योजनानां शतं द्रुतम् । असंख्याताः सुवेलाद्रिं
रुरुहुः प्लवगोत्तमाः” ४ अ० ।

सेतुभेदिन् पु० सेतुं भिनत्ति भिद--णिनि । दन्तीवृक्षे शब्दर०

सेतुवृक्ष पु० सेतुनामको वृक्षः । वरुणवृक्षे शब्दर० । २ सेतूप-

रिस्थे द्धक्षे च ।

सेत्र न० सि--बन्धने ष्ट्रन् । (वेड़ि) निगड़े सि० कौ० ।

सेना स्त्री सि--न, सह इनेन प्रभुणा वा । १ सैन्ये अमरः ।

२ जिनानां ३ मातृभेदे हेमच० ।

सेनाङ्ग न० ६ त० । १ हस्त्यश्वरथपदातिसंघाते अमरः । २ सेनाया उपकरणे च ।

सेनाचर पु० सेनायां चरति चर--ट । सेनानुगामिनि “सेना-

चरीभवदिभाननेति” नैष० ।

सेनानी पु० सेनां देवसेनां वा नयति नी--क्विप् । १ कार्त्तिकेये २ सेनापतौ च अमरः

सेनापति पु० ६ त० । १ कार्त्तिकेये २ मैन्याध्यक्षे च मेदि० ।

“कुलीनः शीलसम्पन्नो धनुर्वंदविशारदः । हस्ति-
शिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभषिता । निमित्ते शकुने
ज्ञाता वेत्ता चैव चिकितसिते । कृतज्ञः कर्मणां शूरस्तथा
पृष्ठ ५३३२
क्लेशसह ऋजुः । व्यूहतत्त्वविधानज्ञः फल्गुसार-
विशेषवित् । राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियो-
ऽथ वा” मत्स्यपु० १८९ अ० ।

सेनामुख न० ६ त० । १ सैन्याग्रे संख्याविशेषयुते हस्त्यश्वादौ

हस्तिनः त्रयः रथाः त्रयः अश्वा नव पतादयः पञ्चदश
एतत्समुदाये अमरः ।

सेनारक्ष पु० सेनां रक्षति रक्ष--अण । सेनारक्षाकारके यामिके सैन्ये अमरः ।

सेफ पु० सि--फ । शेफे पुंसोऽसाधारणचिह्ने जटा० ।

सेमन्ती स्त्री सिम--झि गौ० ङीष् । (सेआँती) पुष्पभेदे ।

सेर पु० “पादोनगद्यानकतुल्यटङ्कैद्वि सप्त ७२ तुल्यैः कथितो-

ऽत्र सेरः । मणाभिधानं खयुगै ४० । श्च सेरैर्धान्या-
दितौल्येषु तुरुष्कसंज्ञः १ । १ द्व्यङ्केन्दु १९२ । सङ्ख्यै-
र्धटकैश्च सेरस्त्रैः पञ्चभिः स्याद्धटिका च ताभिः ।
मणीऽटमिस्त्वालमगीरशाहकृतात्र संज्ञा निजराजधान्याम्”
लीला० उक्ते मानभेदे ।

सेरराह पुंस्त्री० । श्चेताश्वे हेमच० स्त्रियां ङीष् ।

सेरु त्रि० सि--वन्धने रु । बन्धनकर्त्तरिव्या० ।

सेलु पु० सि--लु । श्लेष्मातकवृक्षे द्विरूपको० ।

सेव न० सेव--कर्मणि घञर्थे क । सेविफले (सेओ) राजनि०

सेवक पु० सीव्यति सिव--ण्वुल् । १ सीवनकर्त्तरि (दरजी)

सेव--ण्वुल् । २ भृत्ये ३ दासे ४ अनुचरे च त्रि० मेदि० ।

सेवकालु पु० र्सवं सेविफलुमिव कायति कै--क कर्म० ।

निशाभङ्गावृक्षे (दुग्धपेया) शब्दच० ।

सेवधि पु० सेवं सेवनं दधाति धा--कि । शङ्खप्रभृतौ निधौ भरतः ।

सेवन न० सिव--सेन--वा ल्युट् । १ सूच्यादिना वस्त्रादेर्योजने

अमरः । २ आश्रयणे ३ उपभोगे ४ बन्धने ५ पूजने ६ भजने
च मेदि० । सीव्यतेऽनया ल्युट् । ७ सूच्यां स्त्री ङीप्
हेमच० ।

सेवा स्त्री सेव--अ । १ मजने २ आराधने ३ उपभोगे ४ आश्र-

यणे च । सेवापराधाश्च अपराधशब्दे २३३ पृ० दशिताः
वाराहेत्वन्यथोक्ता यथा “कर्मणा मनसा वाचा ये पापरु-
चयो जना । मक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम् ।
मैथुनं शवसंस्पशः पुरोषोत्सर्ग एव च । सूतक्युदक्या-
क्षपणं स्पर्शनं मोडनं तथा । अभाष्यभाषष्णं कोपं
पिण्याकस्य च भक्षणम् । रक्तपारक्यमलिबनीलजा-
म्बरधारणम् । गुरोश्रालीकनिर्बन्धः पतिताश्चस्य मत्त्र-
अम् । अभक्ष्यभक्षणञ्चैव तण्डुलीयविभीतकम् ।
आदानं तु वरान्नस्य जालपादवराकयोः । भक्षणं देव-
तागारे सोपानत्कोपसर्पणम् । तथैव देवपूजायां नि
षिद्धकुसुमाचेनम् । अनुत्तार्य्य च निर्माल्य पूजा
जीर्णान्धकारयोः । पानं सुराया देवस्य अन्धकारे प्रबो-
धनम् । वातकर्मार्चने विष्णोरनमस्करणं तथा ।
अपराधास्त्रयस्त्रिंशत् समाख्याता मया धरे । । एभियुं क्तस्तु
पुरुषो विष्णुं नैव प्रपश्यति । दूरस्थो न नमस्कारं
कुर्य्यात् पूजा तु राक्षसी” ।

सेवि न० सेव--कर्मणि इन् । फलभेदे (सेओ) राजनि० ।

सेविका स्त्री पक्वान्नभेदे कृतान्नशब्दे २१२१ पृ० दृश्यम् ।

सेवित त्रि० सेव--क्त । १ आराधिते शब्दर० । ३ आश्रिते ४

ठपयुक्ते च ५ सेविफले न० राजनि० ।

सेव्य न० सेव--ण्यत् । १ वीरणमूले अमरः । २ अश्वत्थे

पु० राजनि० । ३ हिज्जलद्धक्षे पु० शब्दर० । ४ सेवार्हे त्रि० ।
५ वन्दावृक्षे स्त्री हेमच० ।

सैंहली स्त्री सिंहले देशे भवा अण् ङीप् । सिंहपिप्पल्याम् राजनि० ।

सैंहिक पु० सिंहिकायां भवः ठक् । १ राहौ शब्दर० । तस्याः

अपत्यम् ढक् । सैंहिकेयोऽप्यत्र अमरः ।

सैकत न० सिकताः सन्त्यत्र अण् । वालुकाप्रचुरे नद्यादि-

तटे अमरः । २ सिकताप्रचरदेशे त्रि० राजनि० ।

सैकतिक पु० सह एकतया सैकतादस्यास्ति ष्ठन् । १ संन्यस्ते

२ क्षपणके ३ सन्देहजीविनि त्रि० मेदि० । ४ मातृयात्रायां
५ मङ्गलसूत्रके न० मेदि० ।

सैकतेष्ट न० सैकतं स्थानमिष्टं यस्य । १ आर्द्रके राजनि० । २ सैकतप्रिये त्रि० ।

सैतवाहिनी स्त्री सितायाः शर्करायाः अयम् अण् सैतो मधु

ररसस्तं वहति वह--णिनि । वाहुदायां नद्याम् अमरः ।

सैद्धान्तिक पु० सिद्धान्तं वेत्ति सिंद्धान्त + ठक् । सिद्धान्ताभिज्ञे

हेमच० ।

सैनापत्य न० सेनापतेर्भावः कर्म वा ष्यञ् ।

१ सेनापतिधमं, २ तत्कर्मणि च “सैनापत्यमुपेत्य वः” कुमारः ।

सैनिक पु० । सेनायां समवैति ठक् १ मिलिते हस्त्यश्वादौ

अमरः । प्राणिबधनियुक्ते भाग० ५-६६ अ० ति० त० रघु० ।
वस्तुतस्तु सौनिका इव श्वधितिनेत्येव तत्र पाठः साधुः
३ सेनासम्बन्धिनि त्रि० ।

सैन्धव न० सिन्धनदीसमीपे देशे भवम् अण् । १ सवणमदे

अमरः “सैन्धवं लवणं स्वादु दीपनं पाचनं लघ
स्निग्धं रुच्यं हिमं वृव्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत्"
भावप्र० । सिन्धोरदूरभवः अण् । २ घोटकभेदे पुं स्त्री०
अमरः तस्य समुद्रसमीपस्थसिन्धुदेशस्यारव्यदेशाद्भात्वास्
तथात्वम् । स्त्रियां ङीष् ।
पृष्ठ ५३३३

सैन्धवखिल न० सैन्धवमेव णिमम् । सैन्धवशिलाशकलसमे

चिदानन्दस्वरूपे परमेश्वरे “स यथा सैन्थवखिलमनन्त-
रमवाह्यं रसघनम्” शत० ब्रा० १४ । ७ । ३ । १३ ।

सैन्धी स्त्री तालादिनिर्यासे राजनि० ।

सैन्य पु० सेनायां समवैति ञ्य । १ मिलिते हस्त्यश्वादौ

अमरः । सेनानां सङ्घः ष्यञ् । २ सेनासमुदाये न० ।

सैरन्ध्री स्त्री सीरं हलं धरति धृ--मूल० क मुम् च सीरन्ध्रः

कृषकस्तस्येदं शिल्पकर्म अण् तदस्यास्ति अच् गौरा०
ङीष । परगृहस्थे स्ववशे शिल्पकारिणि स्त्राभेदे हेमच०
पृषो० सैरिन्ध्रीत्यप्यत्र अमरः ।

सैरिक पु० सीरेण लाङ्गलेन खनति भूमिं सीरं वहति वा

ठक् । १ कृषके हालिके अमरः । २ द्धाङ्गलवोढरि वृषे
(हालेर गरु) अमरः ।

सैरिभ पुंस्त्री० सीरे हले तद्वहने इभ इव शूरत्वात् शाक०

ततः स्वार्थेऽण् । १ महिषे अमरः स्त्रियां ङीष् । “सेवे
सैरिभमर्दिनीमिह महालक्ष्मीम्” महालक्ष्मीध्यानम् ।
२ स्वर्गे त्रिका० ।

सैरीय पु० रीरस्येदम् अण् सैरं हलाकारमर्हति छ । झिण्ट्याम् शब्दर० । स्वार्थे क तत्रैव ।

सैरेय पु० सैरं सीराकारमर्हति ढक् । १ झिण्ट्याम् शब्दर०

ढकञ् । सैरेयकोऽप्यत्र राजनि० ।

सैवाल न० सेवायै मीनादीनामुपगोनाय अलति पर्य्याप्नोति

अच् सेवालं ततः स्वार्थे अण् । शैवाले स्यार्थे क ।
तत्रैव “या पांशुपाण्डुरवपुर्विरसा पुरासीत् सैवालका-
ङ्कुरलतामधुना विभर्त्ति उद्भटपद्ये श्लेषात् दन्त्यादि

सोढ़ त्रि० सह--क्त इडभावः । १ क्षान्ते तितिक्षिते अमरः

कर्त्तरि क्त । २ शोतादिसहनशीले त्रि० ।

सोढृ त्रि० सह--तृच् वा इर्द्धभावः । १ सहनकर्त्तरि २ क्षमाशीले मेदि० ।

सोत्कण्ठ त्रि० सह उत्कण्ठया सहस्य सः । औत्सुक्यान्विते

अभिष्टलाभेच्छया विलम्बामहिष्णुत्वयुक्ते ञटा० ।

सोत्प्रास न० उद् + प्र--अस--घञ् सह उत्प्रासेन सहस्य सः

सोल्लुण्ठने अन्यार्थकस्य वाक्यस्य अन्यार्थकत्वकल्पनया
तदुत्तरार्थके १ वाक्ये २ प्रियवाक्ये च शब्दर० । ३ सशब्द०
हास्येन सहिते त्रि० ।

सोदय त्रि० सह उदयेन प्रादुर्भावेण वृद्ध्या वा सहस्य सः

१ पादुर्भूते २ वृद्धि(सुद)युक्ते ३ लाभयुक्ते च” व्ययं दद्याच्च
सोदयम्” स्मृतिः ।

सोदर पु० समानमुदरं यस्य समानस्य सः । १ एकोदरभवे भ्रातरि २ तादृशभगिन्यां स्त्री शब्दर०

सोदर्य्य पु० समाने उदरे शयिता यत् सादेशः । १ एको-

दरजाते भ्रातरि । २ तादृशभगिन्यां स्त्री अमरः ।

सोनह न० सु--विच् सवे नह्यते नह घञर्थे क । लशुने शब्दर०

सोन्माद पु० सह उन्मादेन सादेशः । उन्मत्ते उन्मदिष्णौ ।

सोपप्लव पु० सह उपप्लवेन सादेशः । समाक्रान्तभूच्छायेन

राहुणा योगरूपोप्लवसहिते १ चन्द्रे तथाभूतचन्द्रच्छाया-
योगयुक्ते २ सूर्य्य च अमरः । ३ उपद्रवयुते त्रि० ।
चन्द्रार्कयोर्ग्रासकारणमुंपरागशब्दे प्रायेणाक्तं देवीपुरा-
णोक्तमधिकमत्रोच्यते ।
“ब्रह्मोवाच “यदयं वदते लोको वासिशत्वान्महामते! ।
तदहं संप्रवक्ष्यामि चन्द्रसूर्य्योपरागिकम् । यदि सत्यमयं
ग्रस्तस्तेजाराशिर्दिवाकरः । तत्कथं नोदरस्थेन राहुणा
भस्मसात् कृतः । अथ वा राहुणाक्रम्य निजवक्त्रं प्रवे-
शितः । तत्कथं दशनैस्तीक्ष्णः शतथा न विखण्डितः ।
विमुक्तश्च पुनर्दृष्टस्तथैवाखण्डमण्डलः । न चास्याप-
हृतं तेजो न स्थानादपसारितः । यदि वा ह्येष निष्पीतः
कथं दीप्ततरोऽभवत् । तस्मान्न तेजसां राशी राहोर्वक्त्रं
गमिष्यति । भक्ष्यार्थं सर्वदेवानां सोमः सृष्टः स्वयम्भुवा ।
तत्रस्थममृतञ्चापि सम्भूत सूर्य्यतेजसा । पिबन्त्यम्बुमयं
देवाः पितरश्च स्वधाऽमृतम् । त्रयञ्च त्रिशतञ्चैव त्रय-
स्त्रिंशत्तथैव च । त्रयश्च त्रिसहस्राश्च देवाः सोमं पिवन्ति
ये । राहोरप्यमृतं भागः पुरा सृष्टं स्नयम्भुवा । तस्मा-
त्तद्राहुरागत्य पातुमिच्छति पर्वसु । उद्धृत्य पार्थिवीं
छायामभ्राकारां तमोमयः । पातुमिच्छन् ततश्चेन्दु-
माच्छादयति छायया । शुक्ले च चन्द्रमभ्येति कृष्णे
एर्वणि भास्करम् । सूर्य्यमण्डलसस्थस्तु चन्द्रमेव
जिघांसति । तस्मात् पिवति तं राहुस्तनुमस्या विना-
शयन् । अविहिसन् यथा पद्मं पिबति भ्रमरो मधु ।
चन्द्रस्थममृतं तद्वदभेदाद्राहुरश्नुते । चन्द्रकान्तो मणि
र्यद्वत्तुहिनं क्षरते क्षणात् । क्षरन्नपि न हीयेत तेजसा
नैव सुच्यते । यथा सूर्य्यमणिः सूर्य्यादुत्पाद्य पावकं
शुभम् । न भवत्यङ्गहीनोऽपि तेजसा नैव मुच्यते । एवं
चन्द्रश्च सूर्य्यश्च छादितावपि राहुणा । स्वतेजसा न
मुच्येते नाङ्गहीनौ बभूवतुः । पर्वस्वथ च चन्द्रस्य
माणिक्यकनकाकृतिः । सोमा दैवतसंयोगात् छाया
योगाच्च पार्थिवात् । राहाश्च वरलब्ध्या वै प्रक्षरेदमृतं
शशी । स्वदोहकाले सम्पाप्ते वत्सं दृष्ट्वा च गौर्यथा ।
स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम् । पितेव
सूर्य्यो देवानां सोमो मातेव लक्ष्यते । यथा मातुःस्तनं
पृष्ठ ५३३४
पीत्वा जीवन्ति सर्वजन्तवः । पीत्वाऽमृतं तथा सोमात्
तृप्यन्ते सर्वदेवताः । सम्भृतं सर्वयागेषु तथायं क्षरते
शशी । तं क्षरन्तं यथाभागमुपजीवन्ति देवताः । तस्मिन्
काले समभ्येति राहुरप्यवकर्षति । सर्वमर्द्धं त्रिभागञ्च
पादं पादार्द्धमेव च । आक्रम्य पार्थिवीं छायां यावन्त
चन्द्रमण्डलम् । स्मृतः स भागो राहोस्तु देवभागास्तु
शेषकाः । तृप्तिं विधाय देवानां राहोः प्रर्वनतस्य च ।
चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते । तिथिभा-
नाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः । पर्वच्छायास्थितः
कालस्तावानेव प्रकीर्त्तितः । अतो राहुभुजः सोमः
सोमवृद्धिर्दिवाकरात् । पर्वकाले स्थितिस्त्वेवं
विपरीता पुनः पुमः । अतश्छादयते राहुरभ्रवच्छशिभा
स्करौ । राहुरभ्रकसंस्थानः सोममाच्छाद्य निष्ठति ।
उद्धृत्य पाथिवीं छायां धूममेघ इवोत्थितः । चन्द्रस्य
यदवष्टब्धं राहुणा भास्करस्य च । तन्नावखण्डित तस्य
केवलं श्यामलीकृतम् । कर्दमेन यथा वस्त्रं शुक्लमप्युप
हन्यते । एकदेशोऽथ सर्वं वा राहुणा चन्द्रमास्तथा ।
प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत् । राहुत्यक्तं
भवेत्तद्वत् निर्मलं चन्द्रमण्डलम् । राहुणा च्छादितौ
वापि दृष्ट्वा चन्द्रदिवाकरौ । विप्राः शान्तिपरा भूत्वा
पुनराप्याययन्ति तम् । एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्र
गृह्यते । अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः ।
जगत्सम्मोहनञ्चैतत् ग्रहणं चन्द्रसूर्य्ययोः” ।

सोपाधि(क) सह उपाधिना वा कप् सादेशः । उपाधियुक्ते

प्रतिलाभाशया कृतदानादौ ।

सोपान न० उप--अन--भावे घञ् सह विद्यमानः उपानः

उपरि गतिरनेन । आरोहणसाधने काष्ठादिनिमि
(पैठा) प्रमृतौ पदार्थे अमरः ।

सोभाञ्जन पु० शाभाञ्जन + पृषो० । (शजना) वृक्षे भरतः ।

सोम पु० सु--मन् । १ चन्द्रे २ कर्पूरे अमरः । ३ कुवेरे ४ यमे

५ वायौ ६ वसुभेदे ७ जले ८ सोमलतौषधौ ९ वानरे मेदि०
१० सोमरसे हेमच० ११ अमृते १२ दीधितौ उणा० । सह
उ(ऊ)मया । १३ वे १४ पानरेशे सुग्रीवे च ।
मोमश्च ग्रहभेदः तत्कक्षामानादिकं स्वगोलशब्दे ४२२५
पृ० दृश्यम । तत्प्रकृत्यादिकं यथा
“चन्द्रः सिताङ्गसमगात्रयष्टिर्वाग्मो परिध्यङ्गविवेक-
युक्तः । क्वचित् कृशः शीतलवाक्ययुकः सत्त्वास्रयो
वातकफानिखात्मा” सर्वार्थचि० । स च वायव्या ईशः वैश्य-
जातिः स्त्रीग्रहः लवणरसमृगशिरो नक्षत्राणाधीशः ।
ग्रहयज्ञशब्दे तन्मन्त्रादिकं दृश्यम् । तस्य ज्न्मकाले
मेषादिराशिषु स्थितिभेदे फलभेदः वृहज्जातकोक्तः
३०८७ पृ० जातकशब्दे उक्तः । लग्नादिस्थस्य तस्य फलं
जातकषद्धतावुक्त यथा
“चन्द्रे स्वभाजवृषगे तनुगे गुणाग्र्यो दाक्षिण्य्रूपधन-
वाक्सकले विशेषात् । अन्येषु भेषु तनुगे विकलश्च
शूरः प्रोन्मत्तनीचबाधरः क्षयभाग्यवश्यः । कुटुम्ब २ स्थिते
कैरवाणामधीशे भवेत् पुत्रमित्रार्थसौख्यैः समृद्धः । नरः
पूर्णदेहे तु हीने विलोमं स्खलद्वाक् च बोध्यं फलं तार
तम्यात् । द्विजाधिराजे सहजे ३ तिलोभः कार्षप्यवान्
संग्रहकृच्च नीचः । हसांन्वितो भ्रातृजनाश्रयश्च प्रका-
ङ्क्षितः स्यात् मनुजोऽतिहिंम्रः । पाताल ४ मंस्थे सति
शीतलांशौ जलप्रयाणाभिरतिर्नरः स्यात् । दातासुहृद्-
वाहनसेवकाढ्यः सुखी सुखोतकर्षयुतः सुभूषः । सुते ५
समुद्रस्य सुते प्रमूतौ धीमित्रपुत्रैर्बहुभिः समेतः । शूरो
नरः स्याद् बहुधान्यमित्रसग्राहकः क्षीणतरः
सुखाढ्यः । शत्रौ ६ शत्रौ पद्मिनीनां स्थिते ना शत्रुव्रातैः
संयुतो दारुणश्च । माराग्निभ्यामल्पकाभ्याञ्च युक्तो-
ऽनल्पालस्यः स्याच्च नीरोदराढ्यः । शशिनि शशिमुखी-
निकेतन ७ स्थे भवति सुखी मदनातुरः सुदेहः ।
अतिमतिरनसूयकोऽप्यधृष्यो गलिततनौ वहुरोगदैन्यतप्तः ।
मृत्यौ ८ मृगाङ्के सातिमान्नरः स्यादोजस्विताढ्योऽपि
च बन्धनाद्यैः । सुक्षीणदेहः सति हीनदेहे तस्मिन् भवेदल्पक
जीवितश्च । निशाधिनाथे नवमालय ९ स्थे धीपुत्रमित्र-
द्रविणोपपन्नः । सौभाग्यसौख्यैः सुकृतैयुतः स्यात्
कान्ताजनेष्टोमनुजो दयावान् । दशम १० घाम्रि सुशीतल-
धामनि द्रविणधीसुकृतैः सहितः शुचिः । भवति कर्म-
परोऽपि च सिद्धिभाङ्नरवरो न विषादकरो भवेत् ।
आयं ११ याते यामिनीनायके ना मित्रक्षेत्रद्रव्यपुत्राययुक्तः ।
ख्यातः शूरो दारुणश्चाभिमानी शिष्टैर्भृत्यैरन्वितो बुद्धि-
मान् स्यात् । शीतांशौ द्वादशे १२ द्वेष्यो हीनाङ्गे नेत्र-
रोगवान् । पतितः परमः क्षुद्रः परिभूतो नरो भवेत्” ।
सोमलता च ओषधिभेदः सोमवल्लीरूपा ओषधिशब्दे
१५६४ पृ० सुश्रुतवाक्ये तल्लक्षणादि दृश्यम् । सोमेन
यजेतेत्यादि श्रुत्युक्ते १५ यागभेदे पु० । सोमयागेतिकर्त्तव्य-
तादि कात्या० श्रौ० २५ अ० । १० कण्डिकादौ दृश्यम् ।
कात्यायनगब्दे १८७६ पृ० तत्प्रतिनिधिद्रव्यादि दर्शितम् ।
पृष्ठ ५३३५

सोमगर्भ पु० सोमस्य तदात्यकामृतरूपमोक्षस्य गर्भः स्यानम् ।

विष्णो त्रिका० ।

सोमज न० सामात् तत्क्षरितौषधिस्थरसपानात् जायते

जनड । १ दुग्धे हेमच० । २ चन्द्रजाते त्रि० । ३ बुधे पु० ।

सोमतीर्थ न० सोमेन तपस्तत्या कृतं तीर्थम् शाक० । प्रभास-

तीर्थ त्रिका० । “यत्र तप्तं तपस्तेन सोमेन सुमहात्मना ।
पञ्च वर्षसहस्राणि तथैवोर्द्ध्वमुखः स्थितः । एवम्भूतः पुनः
पञ्च पञ्च मौनव्रतस्तथा । तथैवैकेन पादेन दश पञ्च च
तिष्ठता । एवमुग्रं तपः कृत्व कान्तिमानभवच्च सः ।
ममापराधान् मुक्तश्च ब्राह्मणाना पातस्तथा” वराहपु० ।

सोमधारा स्त्री सामस्य धारव । आकाशे त्रिका० ।

सोमप पु० सोमं तद्रसं पिबति पा--क । १ यज्ञे सोमरसपान-

कर्त्तरि २ पितृगणभेदे व० ब० । पा--क्विप् सोमपाप्यत्र ।

सोमपत्र पु० सोमस्य ओषधिबिशेषस्येव पत्रमस्य । (उलुखड़)

तृणभेदे शब्दच० ।

सोमपीति(थि)न् पु० पीतमनेन इनि सोमं पीती पृषो०

वा तस्य थः । यज्ञे सोमरसपायिनि अमरः । पा--क्वविप्
सामपोवाप्यत्र ।

सोमबन्धु पु० सोमस्य बन्धुः, सोमो बन्धुरस्य वा । १ मूर्य्ये

तद्वृद्धिवरत्वात् तस्य तथात्वम् । २ चन्द्रजे बुधे पु० ज्यो०-
२ कुमुद न० ।

सोमभू पु० साम एव भूरुत्पत्तिस्थान यस्य ।

१ वुधग्रहे २ चन्द्रवंश्ये क्षत्रये च ३ जिनराजभेदे हेम० ।

सोमयाग पु० सोमनामको यानः । त्रिवर्षसाध्ये सोमरस-

पानाङ्गके यागभेदे ।
“नारद उवाच “सोमयागविधानञ्च ब्रूह मां मुनि-
सत्तम! । कथं तं कारयामास गुरुश्च किं फलं परम्” ।
नारायण उवाच “ब्रह्महत्याप्रशमनं सोमयजफलं
सुने! । वर्षं सोमलतापानं यतमानः करोति च ।
वर्षमेकं फलं भुङ्क्ते वर्षमेकं जलं सदा । त्रैवार्षिकमिदं
यागं सर्वपापप्रणाशनम् । यस्य त्रैवार्षिकं धान्यं
निहितं भूतिवृद्धये । अधिकं वापि विद्येत स सोमं पातु
मर्हति । महाराजश्च देवो वा यागं कर्तुमलं मुने! ।
न सर्वसाध्यो यज्ञोऽयं बह्वन्नो बहुदक्षिणः” ब्रह्मवै०
श्रीकृष्णज० ६० अ० । सोमशब्दे दृश्यम् ।

सोमयाजिन् पु० सोमेन यजत यज--णिनि । सोमयाग-

कर्त्तरि । तस्य सौत्रामण्यामधिकारः सौत्रामणीशब्दे
दृश्यम

सोमयोनि न० सोमा योनिरस्य । चन्दनभेदे शब्दच० ।

सोमराजी स्त्री सोमेन राजते राज--अच् गौरा० ङीष् ।

(सोमराज) १ ओषधिभेदे । २ वाकुच्यां भावप्र० ।
“अवल्गुजा वाकुची स्यात् सोमराजी सुपर्णिका”
इत्युपक्रमे “वाकुची मधुरा तिक्ता कटुपाका रसायनी ।
विष्टम्भहृधिमा रुच्या सरा श्लेष्मास्रपित्तनुत् । रूक्ष्या
हृद्या श्वासुकुष्ठमेहज्वरक्रमिप्रणुत् । तत्फलं पित्तलं कुष्ठ-
कफानिलहरं कटु । केश्यं त्वच्यं कृमिश्वासकाससोथाम-
पाण्डुहृत्” भावप्र० । स्वार्थे क । सोमराजिकाप्यत्र ।
राज--णिनि । सोमराजिन् अप्यत्र पु० अमरः ।

सोमलता स्त्री सू--मन् कर्म० । स्वनामख्यातायां लतायाम् राजनि०

सोमलतिका स्त्री सोमलतेव इवार्थे कन् अत इत्त्वम् ।

१ गुडूच्याम् राजनि० । स्वार्थे क । २ सोमलतायाञ्च ।

सोमवंश पु० सोमस्य वंशः । १ चन्द्रवंशे २ चद्रावधिके गोत्र-

परम्पराजाते क्षत्रिये भाग० ९ स्कन्धे दृश्यम् ।

सोमवल्क पु० सोमस्येव वल्कोस्य । १ करञ्जे जटा० । २ रीठा-

करञ्जे राजनि० ३ श्वेतखदिरे ४ कट्फले च मेदि० ।

सोमवल्लिका स्त्री सोमवल्लीव कायति कै--क । सोमराज्याम्

अमरः । स्वार्थे क । २ सोमलतायाम् । सोमवल्लरीत्यप्यत्र ।

सोमवल्ली स्त्री सोमायामृताय वल्ली । १ गुडूच्याम् अमरः ।

सोमरूपा वल्ली । २ सोमलतायाम् भरतः । ३ सोमरार्ज्यां
शब्दर० । ४ ब्राह्यां ५ सुदर्शनायां ६ पातालगरुड्यां राजनि० ।
“सोमवल्लीं महागुल्मा यज्ञश्रेष्ठा धनुर्लता । सोमाहा
गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया । सोमक्षीरा च
सोमा च यज्ञाङ्गा रुद्रसंख्यया । सोमवल्ली कटुः शीता
मधुरा पित्तदाहहृत् । कृष्णा विशेषात् शमनी पावनी
यज्ञसाधनीं राजनि० ।

सोमवामिन् पु० सोमं तद्रसं वमति वम--णिनि । सोमरस-

पानाधिक्ये मुखेन सोमवमनकर्त्तरि तस्य क्षौत्रामण्या-
मधिकारः सौत्रामणीशब्दे दृश्यम् ।

सोमवार पु० सोमस्वामको वारः । चन्द्रस्वामिके दिने ।

सोमविक्रयिन् पु० सोमं विक्रीणाति वि + क्री--णिनि । सोम

लतायाः चिक्रेतरि “पापो हि सोमविक्रयी” आश्व० ।

सोमवृक्ष पु० सोम इव वृक्षः । १ कटुफलवृक्षे रत्नमा० २ श्वेत-

खदिरे च राजनि० ।

सोमसार पु० सोम इव शुभ्रः सारोऽस्य । श्वेतखदिरे राजनि० ।

सोमसिद्धान्त पु० सोमकृतः सिद्धान्तः । चन्द्रप्रोक्ते ज्यो-

तिषसिद्धान्तग्रन्थभेदे जटा० ।

सोमसिन्धु पु० सोमस्यामृतस्य सिन्धुरिव आधारः । विष्णौ त्रिक्रा० ।

पृष्ठ ५३३६

सोमसुत् पु० सोमं सुतवान् सु--भूते क्विप् । यज्ञार्थं

कृतसोमलतानिष्पीड़ने सि० कौ० ।

सोमसुता स्त्री ६ त० । नर्मदानद्याम् राजनि० । २ बुधे पु०

सामोद्भवादयोऽप्यत्र यथायथम् पुंस्त्री० ।

सोमसुत्वन् पु० सोमं सुतवान् सु--भूते क्वनिप् । कृतसोमरसाभिषवणे

सोमसूत्र न० सोमस्य जलस्य सूत्रमिव प्रणाली । १ जलनिर्गम

प्रणाल्याम् शिवलिङ्गस्थगौरीपट्टस्य २ जलनिर्गमस्थाने च
“सोमसूत्र न लङ्गयेत्” तन्त्रम् ।

सोमाख्य न० सोमं लताभेदमाख्यातिवर्णेन आ + ख्यां--क । रक्तकैरवे रत्नमा० ।

सोमातिपूत पु० सोमोऽतिपूतो वात्तो मुखभिन्नछिद्रेण येन

अति + पू--कमंणि क्त । कृते सोमरसपाने आधिक्यात्
मुखभिन्ननासिकादिच्छिद्रैः सोमरस्नुवमनकर्त्तरि तस्य
सौत्रामण्यामधिकार सौत्रामणीशब्दे दृश्यः ।

सोल्लुण्ठ त्रि० सह उल्लुण्ठेन सादेशः । भूमौ पार्श्वपरि-

वर्त्तादियुक्ते १ अश्वादौ हला० २ स्तुते निन्दापरतया
निन्दाया वा स्तुतिपरतया युक्ते २ वाक्ये च ।

सोल्लुण्ठन न सह उल्लुण्ठनेन सादेशः । अन्यथास्थितस्य

अन्यरूपेण परिवर्त्तनसहिते बाक्ये (स्तुतिपरस्य निन्दा-
परता निन्दापरस्य च स्तुतिपरता इत्येवं कल्पके वाक्ये) ।

सोष्यन्तोहोम पु० सोव्यन्तीं शूलापन्नामासन्नप्रसवां ज्ञात्वा

काय्य + हीमः । सोष्यन्त्या आसन्नप्रसवाया हिताय
कर्त्तव्ये होमभेदे तत्प्रकारः सै० त० दृश्यः ।

सौकर्य्य न० सुकरस्य भावः कर्म वा ष्यञ् । १ अनायास-

साध्यत्वे जटा० । २ सुकरस्य कर्मणि च ।

सौखसुप्तिक त्रि० सुखसुप्तिं सुखेन शयनं पृच्छति ष्ठञ् ।

प्रातःकाले सुखशयनप्रच्छके वैतालिकादौ हेमच० ।

सौखिक त्रि० सुख प्रयोजनमस्य ठक् । सुखाभिलाषिणि

(सौखिन) ।

सौख्य न० सुखमेव चातु० ष्यञ् । सुखे हेमच० ।

सौगत पु० सुगत--एव अण् । १ सुगते बूद्धभेदे हेमच० तस्येद-

मुण । २ सुगतसम्बन्धिनि त्रि० । सुगतमत्र मधीते अण् ।
३ सुगतमताध्यायिनि त्रि० ।

सौगन्ध न० सुष्ठु गन्धोऽस्य स्वार्थे अण् । खत्तृणे रामकर्पूरे शब्दर० ।

सौगन्धिक न० सुष्ठु गन्धः सुगन्धः सोऽस्त्यस्य ठन् स्वार्थे

अण् । १ कह्लारे अमरः । २ सुगन्धके पु० अमरः । सुगन्धन
व्यवहरति ठक । (गन्धी) ३ सुगन्धव्यवहर्चरि त्रि० मेदि० ।
४ पद्मभेदे भा० व० सौगन्धिकाहरणपवं ।

सौगन्ध्य न० सुगन्धस्य भावः ष्यञ् । १ सन्धे । स्वार्णे य्यञ् । १ सुगन्धौ ।

सौचिक पु० सूचीं तत्कर्मसीवनमुपजीवति ठन् । (दरजी)

सीवनकारके अमरः । इन् । सौचि तथाथ शब्दर० ।

सौजन्य न० सुजनस्य भावः ष्यञ् । १ सुजनतायां २

सद्व्यवहारे च “सौजन्यजन्यं यशः” मल्लिनाथः ।

सौण्डी स्त्री शुण्डा तदाकारोऽस्त्यस्याः अण् ङीप् पृषो०

शस्य सः । गजपिष्पल्याम् शब्दच० ।

सौत्र पु० पाणिन्यादिभिः सूत्रेण कर्मविशेषाय पठिन अण् ।

व्याद्यादिदशगणीयभिन्नेष सूत्रमात्रे कार्य्यभेदार्थं पठितष
१ धातुषु । सूत्रं यज्ञसूत्रमर्हति अण् । २ विप्रे हेमच० ।

सौत्रामणी स्त्री सूत्रामा इन्द्रो देवताऽस्य अण् सपूवत्वात्

न टिलोवः णत्वम् । इष्टिभेदे तत्र हि सुरापानं विथ्रा-
णां विहितम् । “सौत्रामण्यां सुरां पिबेत्” श्रुतिः ।
स च यज्ञः ऋद्धिकामस्य ब्राह्मणस्यैव कर्त्तव्यः तत्रात्ति-
काकित्रिशेपः कात्या० श्रौ० १९ १ क० ठक्तः । “ब्राह्मणयज्ञः
सौत्रामण्यृद्धिकामस्य” सू० । “ब्राह्मणग्रहणं क्षत्रियवैश्य-
योर्निवृत्त्यर्थम्” कर्कः । “अग्निचित्सोमयाजिसोमातिपूत-
सोमवामिनाम्” सू० “एभिश्च निमित्तैः सौत्रामणी भवति ।
तत्राग्निचित्सोमयाजीति ग्रहणम् अग्निमतः
सोमस्याङ्ग यथा स्यादिति स हि फलवान् निष्फलीऽग्नि-
रिति एवं च सत्यग्निमत्सोमयागान्वे सौत्रामणी
भवति । ननु चानग्निमतोऽपि सोमस्याङ्गत्वेन सौत्रामणी
श्रूयते “सोमेनेष्ट्वा सौत्रामण्या यजेतेति नैतदेवम्
अग्निं चित्वा सौत्रामण्या यजेतेत्यस्य वाक्यस्याग्निपकरणे
श्रुतत्वात् तदङ्गता युक्ता यस्य प्रकरणम तस्यान्यद्विधीय-
मानं तदङ्गमेव भवतीति न्याय्यम् । मामेनेष्ट्वा सौत्रामण्या
यजेतेति सौत्रामणीप्रकरणे पाठः तेन प्रस्तुतविपरिवृत्त्या
सोमस्यैव सौत्रामण्यङ्गता भवति न सौत्रामण्याः
सोमाङ्गता यथा “वाजपेयेनेष्ट्वा वृहस्पतिसवेन यजेतेति”
वाजपेयं प्रकृत्य विधानात् वाजपेयाङ्गता वृहस्पतिसवस्य,
तस्माम्नानग्निमति सोमे सौत्रामणी “सोमेनेष्ट्वा सौत्रा-
मण्या यजेतेति किमर्थस्तार्हि पाठः अग्निमत् सोमस्यात-
वादोऽयमित्यदोषः । यद्वाऽग्निं चित्वेत्यस्यैव शेषोऽयम्
अग्निमता सोमेनेष्ट्वेत्येतदुक्तं भवति । सोमातिपूतसोत-
वामिनोश्च सौत्रामणी भवति शाखान्तारश्रवणात्
सोमातिपूतः सोमवामी च ब्राह्मण एव न हि क्षत्रिय-
वैश्ययोरेतद्विशेषणतिति ननु च सोमकार्य्ये तयोरमि
न्यग्रोधविधानम् तेन तदातपवने यद्वमने च किमिति न
भव त नेतदच वाद नाम कार्य्यापत्त्या धर्मप्राप्तिर्भवति तु
पृष्ठ ५३३७
चायं सोमधर्मः, किं तहिं तदतिपवने यागान्तरविधान-
मिति । अग्निचितस्तु वर्णत्रयस्यापि भवति अग्निसंयोग-
विधानाव । अग्निचितः तथा सोमयाजिनः तथा सोमा-
तिपूतस्य तथा सोमवामिनः मुखव्यातिरिक्तेभ्यो नासिका-
कर्णगुदादिछिद्रेभ्यः यस्य सोमः स्रवति स सोमातिपूत
इत्युच्यते मुखेन यः सोमं वमति स सोमवाम” स० व्या० ।
“राज्ञोऽपरुद्धव्य च सौत्रामणी भवति” सू० । “दुष्टरीढर्ह-
पौं आयनो रुद्ध आसेति “तद्विधानात् । स्वराज्यात् प्राच्या
वितस्य राज्ञः स्वराज्यप्राप्त्यर्थम्” कर्कः । “अलम्पशोरपशोः”
सू० । “सौत्रामणो भवति पशुयोग्य सन् यो नास पशून्न
विन्दत सोऽलस्यशुरपशः” कर्कः ।
तत्र सुरापच्यबनप्रकारः तत्रैवोक्तः
दक्षिणेन हृत्वा । नग्नहुचूर्णनिकत्वा साश्च व्रीहि-
श्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्णैः
संसृज्य निदधाति तन्मासरम्” सू० । “दक्षिणेन द्वरण
प्रवेश्वाग्न्यगारस् नग्नहुचूणाटि कृत्वा नग्नहुः किण्व
उच्यते तांश्च शष्पादींश्चूर्णयित्वा वीहिश्बामाकोदनयोः
पृथगाचामौ विमिश्र्य चूर्णैः संसृज्य निदधाति तन्मासर-
मुच्यते ब्रोहिस्यामाकाभ्यां च सुरा निष्पाद्यते सा च
यागसाधनम् । तेन सा तद्धर्मैरभिसम्वध्यते अतस्तयो-
श्चतुर्मुष्टिकग्रहणपूर्वकम् पृथगादनौ निष्पाद्येते” कर्कः ।
“नग्नहुचूर्णानि कृत्वा नग्नहुशब्दार्थमाह “सर्ज्जत्वक्
त्रिफला चैव शुण्ठो चैव पुनर्नवा । चतुर्जातकसंयुक्ता
पिप्पली गजपिप्पनी । वंशोऽवका वृहच्छत्रा चित्रकं
चेन्द्रवारुणी । अश्वगन्धां समुत्पाट्य मूलान्येतानि निर्दि-
शेत् । धान्यकं च यवानीं च जीरकं कृष्णजीरकम् ।
द्वे हरिद्रे वचा चैव विरूढ़ा व्रीहयो यबाः” इति ।
क्रयणानन्तरं तानि शष्पादीन्यादाय दक्षिणेन हृत्वा-
ऽग्न्यगारं प्रवेश्य पूर्वं नग्नहुचूर्णानि कृत्वा सर्ज्जत्व
गाद्यौषधानि तूष्णीं पिष्ट्वा तान् शष्यतोक्मलाजान्
चूर्णीकृत्य दर्शपूर्णमासघर्मेण पात्रासादनादि श्यामाक-
चतुर्मुष्टिकग्रहणपूर्वकं फलीकरणान्त समन्त्रकं कृत्वा
बहुतरोदके पृथक् पृथक् चरू पक्त्वा शृतालम्भनानन्तरं
तोहिश्यामाकादनयोः पृथगाचामो निषिच्य पृथग्भिन्न
योः पात्रयोश्चर्वोर्मध्यादतिरिक्तमुष्णोदकमतम्राव्य तद्दकं
नग्नहुप्रभृतिभश्चतुर्भिश्चूर्णैः संसृज्य निदधाति स्थापयति
तन्मासरमातस्य चर्णसंसृष्टस्याचामस्य मासरमिति संज्ञा”
स० व्या० “ओदनौ चूणमासरैः संसृव्या स्वाद्वीं त्वाऽंशु-
ना ते” इति त्रिरात्रं निदधाति सू० । “चूर्णमासरसंसृ-
ष्टावोदनौ “स्वाद्वीं त्वेति” अंशुना ते इति” मन्त्राभ्यां कुम्भ्यां
प्रक्षिपति क्षित्वा च त्रिरात्रं निधेया सुरा” कर्कः ।
“एवमाचामयोश्चूर्णसंसर्मानन्तरमोदनौ चतुर्भिश्चूर्णः
संसृज्य स्वाद्वीं त्वा स्वादु नेति यज० १९ । १ “अशुना
ते यजु०” २० । २७ द्वाभ्यां मन्त्राभ्यामेकस्मिन् महति
पात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां च संसृज्य त्रि-
रात्रं लिदधाति सुगुप्ते देशे स्थापयति शालाया नैऋत-
कोणे गत कृत्वा तत्र स्थापयतीति जीर्णः सम्प्रदायः”
तिम्रो रात्रीत्यादिश्रुतेः “एकस्याः पयसापाकृतेनाश्विनेन परि
षिञ्चकि परीतोषिञ्चतति” सू० । सुरां परिषिञ्चति “एकस्यै०
परिषिश्चितीति” वचनात् । अश्विनाबुद्दिश्यापाल्करणं कत्त-
व्यम् तञ्चापूत्वादप्रधानत्वाच पयसः अश्विभ्यामप्राकरो-
मीति गोरं र्पनमात्रमेवेति सम्प्रादाया । अपर तु भर्म-
वदपाकरणामच्छन्ति कक “शष्यचूर्णानि चाविपति” सू०
“चशब्दात् सुरायाम्” कर्कः । “सारस्वतेन द्वयोः प्रातः”
सू० । “प्रातःशब्देन च द्वितीयमहरमभिर्धायते तत्रापि च
रात्रायेबाभिषेकः प्रथमां रात्रिं परिषिञ्चतीति प्रकृत्य
“द्वयोदुंग्धेन द्वितीयामित्याह द्वितीयाम् रातिमिति
गम्यते” कर्कः । “प्रातःशब्देन श्वोऽभिधयत” सं० व्या०
“तोक्मचूर्णानि च” सू० । “आवपति” ऐन्द्रेणोत्तमे ति
तिसृणाम्” सू० “गवां दुग्धेनैन्द्रेण परिषिञ्चति” कर्कः उत्तमे
तृतीयेऽहनि सेव्या । “लाजचूर्णानि च” सू० “आवपति
अत्र चूर्णानां पथसश्च संस्कारकत्वम् साधनं तु व्राहिश्या-
माकावेव अतस्तयोरेव देवतोद्देशेन ग्रहणम्” कर्कः । यजु०
१९ अ० वेददोपे तु तदङ्गसुराच्यवनप्रकारः स्पष्टः दर्शितो
यथा “अथ सौत्रामणीमन्त्रास्त्रिभिरध्यायैः । ऋद्धिकाम-
स्याग्निचितो मुखेतरच्छिद्रसोमवामिनो मुखेन
सोमवामिनो राज्यच्युतनृपस्य पशुकामस्य च सौत्रा-
मणियागः । अजःपात्यस्थाने गोचमणि एतानिस्
थापयेत् सोम सुराविक्रयिणः क्लीवाद्वा क्रीत्वा सीयेन शष्पं
क्रोत्वा ऊर्णाभिस्तोक्यान् सूत्रेण लाजान् केनचिद्
द्रव्येण नग्नहुम् विरूढ़ा व्रोहयः शष्यमु तिरूढ़ा यवा
स्तोक्माः भृष्टव्रीहयो लाजाः सर्जत्वक्त्रिफलाशुण्ठी
पुनर्नवाचतुर्जातकपिप्पलीनजवंशावकावृहच्छत्राचित्रकेन्द्र
वारुण्यश्वगन्धा धान्यकयनानीजीरकद्वयहरिद्राद्वयविरूढ़-
यवव्रीहय एकीकृता नग्नहुः । शष्पतोक्य-
साम्रनम्महूत् दक्षिणद्वारेणाग्निगृहं नीत्वा संशूत्ण्य
पृष्ठ ५३३८
दर्शपौर्णमासधर्मेण व्रीहिश्यामाकयोश्चरू बहुजले पक्त्वा
शृतालम्भनानन्तरं तयोश्चर्वोर्नःस्रावमुष्णं पृथक्पात्रयो-
रादाय शष्पादिचतुर्णां चूर्णैः संसृज्य स्थापयेत् द्वयं
चूर्णाचामरूपं मासराख्यम्” । “ओदनौ चूर्णमासरैः
संसृज्य स्वाद्वीं त्वा अशुनात इति त्रिरात्रं निदधाति” का०
एवमाचामयोश्चूर्णसंसर्गे मासरत्वनिष्पादनानन्तरमोदनौ
व्रीहिश्यामाकचरू चतार्भश्चूर्णैः संसृज्य स्वाद्वीं त्वेति
मन्त्रेण अंशुना ते इति विंशाध्यायसप्तविंशया ऋचा
चैकस्मिन् पात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां संसृज्य
त्रिरात्रं शालानैरृतकोणे गर्त्तं कृत्वा तत्र स्थापयेत् ।
अयमर्थः चरू उद्वास्य द्वयोः पृथनाचामग्रहणम् ततः
शष्पतोक्मलाजचूर्णानां पृथग् त्रिधा कृतानां तृतीयांशं
द्वेधा कृत्वाचामयोः क्षिपेत् ततो नग्नहुचूर्णं द्वेधा
कृत्वैकमर्धं द्विधा विभज्याचामयोः क्षिपेत् । एवं
चूर्णसंसृष्टाचामयोर्मासरसंज्ञा । ततः शष्पतोक्मलाज-
चूर्णानां द्वितीयं तृतीयांशं द्विधा कृत्वैकैकं भागमोद-
नयोः क्षिपेत् नग्नहुचूर्णद्वितीयार्द्धं द्वेधा कृत्वौदनयोः
क्षिपेत तत ओदनावेकपात्रे कृत्वा तत्राचामौ क्षिपेत् ततः
“स्वाद्वीं त्वा” “अंशुना ते” इति मन्त्राभ्यां चूर्णमासरैः
सहौदनयोराड्वालनेन संसर्गः कार्य्यः ततस्त्रिरात्रनिधा-
नम शष्पतोक्मलाजचूर्ण तृतीयांशानां प्रतिदिनं सुरायां
निवापार्थं रक्षणमिति । एकस्या पयस्यायाः कृतेनाश्वि-
नेन परिषिञ्चति परीतो षिञ्चतेति शष्पचूर्णानि चावपति
स्वारस्वतेन द्वयोः प्रातस्तोक्मचूर्णानि चैन्द्रोणोत्तमे
तिसृणा लाजचूर्णानि च । सायं होमान्तेऽश्विभ्या-
मपाकरोमीति करेण गां स्पृष्ट्वा एकां तां दुग्ध्वा
तत्पयसाध्वर्युः सुरां सिञ्चति परीत इति मन्त्रेण । रक्षितं
शष्पचूर्णार्ना तृतीयांशं सुराभाण्डे क्षिपेत् । द्वितीये-
ऽह्नि निशान्ते सरस्वत्या अपाकरोमीति गावौ स्पृष्ट्वा
दोहितेन तयोर्दुग्धेन तेमैव मन्त्रेण सुरां सिञ्चति तोक्म-
चूणीतृतायांशक्षेपश्च । तृतीयेऽह्नि रात्रौ इन्द्राय
सुत्रामणेऽपाकरोमोत तिसो गाः स्पृष्ट्वा ता दुग्धैकीकृत
ततपयसा सुरां सिञ्चति तेनैव मन्त्रेण तत्र लाजचूर्ण-
तृतोयांशक्षेपश्चेति” । (आचामोभक्तमण्डः)

सौदामनी स्त्री सुदामा पर्वतभेदस्तेनैका दिक् तत्प्रान्त-

मवत्वात् अण । १ विद्युति अमरः । सा हि स्फटिक-
मयस्य सदाम्रः पर्वतस्यैकदेशे जाता । २ अपसरोभेदे च
हेमच० । सुदामा ऐरावतगजस्तस्य पत्नी ङीप् । ३ ऐरा-
वतयोसिति शब्दर० । तत्र ङीपि अतोऽल्लोपे सौदा-
म्नोत्यपि शब्दर० ।

सौदायिक न० सुदायात् वन्धुकलात् आगतः ठञ ।

“ऊढ़या कन्थया वापि पत्युः पितमृहेऽथ वा । भर्तुः
सकाशात् पित्रोर्वा लब्धं सौदायिक स्मृतम्” कात्या०
स्मृत्युक्ते स्त्रीधनभेदे “सौदायिकं धनं प्राप्य स्वातन्त्र्यं
परिकीर्त्तितम्” स्मृतिः । स्त्रीधनशब्दे दृश्यम् ।

सौदास पु० सूर्य्यवंश्ये कल्माषपादे नृपतौ ।

सौध पुं न० सुधया लेपनद्रव्येण रक्तम् अण् । १ राजसदनभेदे

अमरः । सुधां तद्वर्णमर्हति अण् । २ रूप्ये न०
३ दुग्धपाषाणे पु० राजनि० । ४ सुधासम्बन्धिनि त्रि० ।

सौनन्द न० सुनन्द + स्वार्थे अण् । बलदेवमुसले हेमच० ।

सौनिक पु० सूना बध्यस्थानं तदुपलाक्षतमांसादि पण्यमस्य

ठण् । मांसक्रयविक्रयोपजीविनि व्याघ (कसाइ) । हेमच०
सैनिकशब्दे उदा० दृश्यम् ।

सौन्दर्य्य न० सुन्दरस्य भावः ष्यञ् । १ चारुतायां “अङ्ग-

प्रत्यङ्गकानां यः सन्निवेशो यथोचितम् । सुश्लिष्टः सन्धि-
बन्धः स्यात् तत्सौन्दर्य्यमुदाहृतम्” उज्ज्वलमण्युक्ते
२ अङ्गादीनां सन्निवेशभेदे ।

सौपर्ण न० सुपर्णं गरुड़ं तद्वर्णमर्हति अण । १ मरकतमणौ

२ शुण्ठ्यां राजनि० । सुवर्णमधिकृत्य कृतो ग्रन्थः अण् ।
भा० आ० २० अध्यायाबधौ ३४ अध्यायपर्य्यन्ते ३ अवान्तर-
पर्वभेदे न० ४ पातालगरुड़ीलतायां स्त्री राजनि० ङीष् ।
तस्येदमण् ५ गरुड़सम्बन्धिनि त्रि० ।

सौपर्णेय पु० सुपर्ण्या विनतायाः अपत्यम् ढक् । १ गरुड़े

हेमच० २ गायत्र्यादिछन्द सु “गायत्र्यादीनि छन्दांसि
सौपर्णेयानि पाक्षिणः” वह्निपु० ।

सौप्तिक त्रि० सुप्तिकाले रात्रौ भवम् ठञ् । १ रात्रियुद्धे

जटा० । सुप्तानधिकृत्य कृतो ग्रन्थः ठञ् । २ महाभार-
तान्तर्गते पर्वभेदे ।

सौभ न० सुष्ठु सर्वत्र लोके भाति भा--क खार्थे अण् ।

१ कामचारिणि पुरे २ हरिश्चन्द्रनृपपुरे जटा० ।
तस्य राजा अण् । ३ राजभेदे स च वासुदेवन निहतः
तत्कथा भा० ब० १४ अ० अबधि २२ अ० पर्य्यन्ते दृश्या ।

सौभद्र पु० सुभद्रायां मवः अण् । १ सुभद्रापुत्रे अभिमन्थौ

गीता । शुभद्राय हितः अण् । २ विभीतकवृक्षे शब्दच० ।

सौभद्रेय पु० सुभद्राया अपत्यम् ढक् । सुभर्द्रासुते अभिमन्यौ

सौभरि पु० सुनिविशेपे भाग० १० । १७ अ० व्यो० त० ।

पृष्ठ ५३३९

सौभागिनेय पु० सुभगाया अपत्यम् ढक् इनङ् च द्विपद-

वृद्धिः । १ सुभगापुत्रे । २ तत्कन्थायां स्त्री ङीप् ।

सौभाग्य न० सुभगाया भावः ष्यञ् द्विपदवृद्धिः । १ पतिप्रियत्वे

तदर्थं व्रतं सौभाग्यव्रत व्रतशब्दे ५०६८ पृ० दृश्यम ।
सुभगायै सुभगाय वा हितं ष्यञ् । २ सिन्दूरे ३ टङ्कणे च
राजनि० । विष्कम्भादिषु मध्ये ४ चतुर्थे योगे पु० ज्यो० त० ।

सौभाग्यचिन्तामणि पु० औषधभेदे । तल्लक्षणं सारकौ० उक्तं

यथा “सौभाग्यामृतजीरपञ्चलवणव्योषाऽभयाक्षानलानि-
श्चन्द्राभ्रकशुद्धगन्धकरसानेकीकृतान् भावयेत् । निर्गुण्डी
युगभृङ्गराजकवृषापाभागेपत्रोल्लसत् प्रत्येकं स्वरसेन
सिद्धवटिका घ्नन्ति त्रिदोषोदयम् । येषां शीतुमतीव
देहमखिले स्वेदद्रवाद्रीकृतं निद्रा घोरतरा समस्त
करणव्यामोहमूढ़ं मनः । शूलश्वासबलासकासमहितं सूच्छा
रुचिं तृड्ज्वरं तेषां वै परिहृत्य । जीवितमसौ गृह्णाति
मृत्योर्मुखात्” ।

सौभिक पु० सौभेकामचारिपुरं तन्निर्म्मार्णं शिल मस्य ठक् । ऐन्द्रजालिके हा रा० ।

सौमनस्य न० सुमनसो भावः ष्यञ् । प्रशस्तचित्तत्वे तत्र

हितं अण् । २ श्वाद्धे दत्तस्य पुष्पस्य प्रसादयुक्तचित्त-
साधनत्वे “सौमनस्यमस्तु” श्राद्धमन्त्रः ।

सौमनस्यायनी स्त्री सौमनस्यमयतेनर्या अय--ल्युट्

ङीप् ६ त० । १ मालत्याम् २ तत्कलिकायाञ्च त्रिका० ।

सौ मिकी स्त्री सोमस्तद्दीक्षा प्रयोजनमस्य ठक् ङीप् ।

सोमयागार्थदीक्षणौयेष्टौ हेमच० ।

सौमित्र(त्रि) पु० सुमित्रायां भवः अण् बाह्वादि० इञ् वा लक्ष्मणे शब्दच० ।

सौमेधिक पु० सुमेधया निर्वृत्तः ठक् । १ सिद्धियुते हारा० ।

२ शाभनमेधायुते च त्रि० ।

सौम्य त्रि० सोमो देवताऽस्य तस्येदं वा ड्यण् । १ सोमदेवताके

हविरादौः २ तत्सम्बन्धिनि । टित्त्वात् स्त्रियां ङीप् ।
सोम इव शाखादित्वात् य स्वार्थे अण् । ३ मनोहरे
४ प्रियदर्शने ५ अनुग्रे च त्रि० मेदि० ६ बुधे पु० अमरः ।
ततः स्वार्थिकाण्प्रणयाभावे सोम्योऽप्युभयत्र । “सदेव
सोम्येदमग्र आसीत्” इति श्रुतिः । ह्योतिषोक्ते ७
शुभग्रहं ८ वृषादिसमराशौ च ९ उडुम्बरवृक्षे राजनि० ।
१० भास्वरे त्रि० धरणिः । ११ सोमपायिनि विप्रे पु० शब्दमा० ।
अष्टादशद्वीपमध्ये १२ द्वीपभेदे पु० “गन्धर्वो वरुणः सौम्यः
बहलः कङ्क एव च । कुमुदश्च कसेरुश्च नागो भद्रारक-
स्तथा । चन्द्रेन्द्रमलयाः शङ्खयवाङ्गकगंभस्तिमान् ।
ताम्र ङ्गश्च कुमारी च तत्र द्वीपा दशाष्टभिः” शब्दमा० ।
१३ सौम्यकृच्छ्रे व्रतभेदे । “अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः
कृच्छ्रोऽतिकृच्छ्रकः” प्रा० त० । सौम्यकृच्छ्रशब्दे दृश्यम् ।

सौम्यकृच्छ्र पु० कर्म० सोमदेवताके कृच्छ्रसाध्ये व्रतभेदे ।

“पिण्यकाचा मतक्राम्बुसक्तूनां प्रतिवासरम् । एकैकमुप-
वासश्च कृच्छ्रः सौम्योऽयमुच्यते” याज्ञ० । पिण्याकः
खलिः आचामः भक्तमण्डः । एष षड़हसाध्यः प्रा० वि० ।

सौम्यगन्धी स्त्री सौम्यः अनुग्रः गन्धो यस्याः गौरा० ङीष् ।

शतपत्त्र्याम् राजनि० ।

सौम्यग्रह पु० कर्म० । ज्योतिषोक्ते पूर्णचन्द्रपापायुतबुध-

गुरुशुक्ररूपे शुभग्रहे “अर्द्धोनेन्द्वर्कसौराराः पापाः
सौम्यास्तथाऽपरे । पापयुक्तो बुधः षापो राहुयेतू च
पापकौ” ज्यो० त० ।

सौम्यधातु पु० कर्म० । कफे राजनि० तस्य सोमजातत्वात् तथात्वम् ।

सौम्या स्त्री सोमो देवताऽस्य ड्यण् सोम इव शाखा० य

स्वार्थे अण् वा । १ दुर्गायां देवीमा० । २ महेन्द्रवारुण्यां
३ रुद्रजटायां ४ महाज्योतिष्मत्यां ५ महिषबल्ल्यां ६ गुञ्जायां
७ शालपर्ण्यां ८ व्राह्म्यां ९ शठ्यां १० मल्लिकायां च राजनि०
मृगशिरोनक्षत्रशिरःस्थासु पञ्चतारकासु विश्वः ।

सौर पु० सूरस्य इदम् सूरो देवताऽस्य वा अण् । १ सूर्य्य-

पुत्रे शनैश्वरे २ यमे च । ३ सूर्य्यदेवताके त्रि० स्त्रियां
ङीप् । सूरेण निर्वृत्तः अण् । एकैकराशौ तदंशेषु वा
सूय्यगतिसाध्ये ४ दिनमासादौ त्रि० । “अध्वायनञ्च
ग्रहचारकर्म सौरेण मानेन सदाऽध्यवस्येत्” ज्यो० त० ।
“विवाहादौ स्मृतः सौरः” इति स्मृतिः । ५ उडुम्बरवृक्षे
पु० राजनि० ६ सूर्य्योपासके त्रि० ७ गुरुभेदे “गौड़ाः शाल्वो
द्भवाः सौराः मागधाः कोङ्कणास्तथा । कोषलाश्च दाशा-
र्ण्णाश्च गुरव! सप्त मध्यमाः” तन्त्रसा० ।

सौरज पु० सूरस्यायम् अण् सौर आलोकस्ततो जायते

जन--ड । तुम्बुरुवृक्षे राजनि० ।

सौरभ न० सुरभेर्भावः अण् । १ सद्गन्धे सौरभमस्यास्ति अच्

सुरभिरस्यास्ति अण् वा । कुङ्कुमे त्रिका० ३ वोले च
राजनि० ।

सौरभेय पु० सुरभेरपत्यम ढक् । १ गवि स्त्रियां ङीप् ।

“सौरभेयीभ्य एव च” गादानमन्त्रः । तस्या इदम् ढक् ।
२ सुरभिसम्बन्धिनि त्रि० ।

सौरसेय पु० सुरसाया अपत्यम् ढक् । स्कन्दे शब्दमा० ।

पृष्ठ ५३४०

सौराष्ट्र पु० सुष्ठु राष्ट्रमस्यास्ति प्रज्ञा० अण् । (सुरट) १

देशभेदे जटा० । सराष्ट्रे भवः अण् । २ सुराष्ट्नदेशभये त्रि०
३ कुन्दुरुके पु० राजनि० ४ लांस्ये न० ५ तुवर्य्यां स्त्री
राजनि० टाप् । सुगन्धिमृत्तिकाभेदे स्त्री रत्नमा० ङीप्
संज्ञायां कन् । सौराष्ट्रकं पञ्चलौहे न० हेमच० ।

सौराष्ट्रिक न० सुराष्ट्रदेश भवः ठक । विषभेदे शब्दर० ।

सौरि पु० सूरस्यापत्यम् इञ् । १ शनैश्चरे “सौरिवारेऽमृता-

नीति” ज्यो० त० । २ यमे ३ कर्ण ४ सुग्रीवे च पु० । ५
असनवृक्षे ६ आदित्यभक्तायां राजनि० ।

सौरिक पु० सुराणां देवानामधिवासाय हितः ठक् । १ स्वर्गे

स्वार्थे क । २ सूर्य्यापत्ये ननैश्चरादौ ।

सौरिरत्न न० सौरिप्रियं रत्नम शाक० । नीलके मणौ राजनि०

सौरेय पु० सुरायै हितम् ढक् । शुक्लझिण्ट्याम् स्वार्थे क

तत्रैव । “सौरेयः कुष्ठवातास्रकफकण्डूविषापहः ।
तिक्तोष्णो मधुरो दन्त्यः सुसिद्धः केशरञ्जनः” भावप्र० ।

सौल्विक त्रि० सुल्वं ताम्रपात्रादिनिर्माणं शिल्पमस्य ठक् ।

ताम्रमयपात्रनिर्माणकर्त्तरि (कासारि) । वणिग्भेदे

सौव त्रि० स्वस्येदम् स्वर्वा इदम् अण् अव्ययटिलोपो न वृद्धिः

वावपूर्वमौत् । १ आत्मसम्बन्धिन २ स्वनसम्बन्धिनि ।

सौवग्रामिक त्रि० स्वग्रामे भवः ठक् न वृद्धिः वात्पूर्व

मौत् । स्वग्रामभवे पदार्थे ।

सौवर्चल पु० सुवर्चलदेशे भवम् अण् । कृष्णलवणे अमरः ।

सौवर्णभेदिनी स्त्री सुवर्णस्य विकारः अण् सौवर्णमिव

मिनत्ति प्रकाशते भिद--णिनि । प्रियङ्गौ शब्दमा० ।

सौवस्तिक पु० स्वस्तिकरने कुशलः ठक् न वृद्धिः वात्पूर्व

मौत् । पुरोहिते हेमच० ।

सौविद पु० सुवेत्ति सु + विदं--क स्वार्थेऽण् । अन्तःपुररक्षके अमरः ।

सौविदल्ल पु० सुष्ठु विदात् नृपः तं लाति ला--क स्वार्थेऽण् ।

अन्तःपुररक्षके अमरः ।

सौवीर न० सुष्ठु वोरो यत्र सुवीरो देशभेदः तत्र भवम

अण् । १ स्रोतोऽञ्जने २ बदुरफस्ते “सौवीरन्तु यवैरामैः
पक्वैर्वा निस्तुषैः कृतम । गोधूमैरपि सौवीरम्” इत्या-
द्युक्ते ३ काञ्जिके अमरः “सौवीरन्तु ग्रहण्यर्शः कफसं
भेदि दीपनम् । उदावर्त्ताङ्गमर्द्दास्थिशूचानाहेषु शस्पन”
भावप्र० । बदरवृक्षे पु० राजनि० ।

सौवीरसार पुंन० कर्म० । स्रोतोऽञ्जने राजनि० ।

सौवीराञ्जन न० सौवीराख्यमञ्जूनम् । अञ्जनभेदे अमरः

स्वार्थे ज । काञ्जिकभेदे न० ।

सौष्ठव न० सुष्ठ भद्रं तभ्य भावः अण् न टिनापः ।

आतिशप्ये “स सौष्ठवौदार्य्यविशेषशालिनीम्” सिरा० ।

सौहार्द न० सुहृदो भावः अण् द्विपदवृद्धिः । १ स्नेहे २ मित्रत्वे

हमच० ।

सौहित्य न० सुहितस्य तृप्तस्य भावः ष्यञ् । तृप्तौ नाति० सौहित्यमाचरेत्” स्मृतिः ।

सौहृद न० सुहृदो भावः अण् । मित्रत्वे वन्धुतायाम् हेम०

स्कद उत्प्लुत्य गतौ अक० उद्धृतौ आप्लावे च सक० भ्वा०

आ० सेट् इदित् । स्कन्दते अस्कन्दिष्ट ।

स्कन्द समाहारे अद० च० उभ० सक० सेट् । स्कन्दयति ते अचस्कन्दत त ।

स्कन्द गतौ शोषणे च भ्वा० पर० नक० अनिट् । स्कन्दति

इरित् अस्कदत अस्कान्त्सीत् चस्कन्द । आ + आक्रमणे

स्कन्द पु० स्कन्दते उत्प्लुत्य गच्छति अच् । कार्त्तिकेये अमरः

अग्निकुमारशब्दे ५४ पृ० तस्योत्पत्तिरुक्ता । स्कन्दग्रह-
स्कन्दापस्मारौ ग्रहशब्दे २७४५ पृ० सुश्रुतोक्तौ दर्शितौ ।
२ नृपतौ जटा० ३ देहे त्रिका० ४ पारेदे रजनि० ५
बालग्रहभेदे सुश्रुतः ।

स्कन्दन न० स्कन्द--ल्युट् । १ रेचने त्रिका० २ क्षरणे ३ गतौ ४ शोषणे च ।

स्कन्दांशक पु० स्कन्दस्यांश एवांशो यस्य कप् । पारदे । तयाः

शिववीर्य्यजत्वादेकांशत्वम् ।

स्कन्ध पु० स्कन्द्यते आरुह्यतेऽसौ मुखेन शाखया वा कर्मणि

घञ् पृषो० । १ असे (कांध) २ वृक्षस्य काण्डे (गुँड़ि)
अमरः । ३ नृपे ४ युद्धे ५ समूहे ६ काये ७ भद्रादौ ८ छन्दो-
भेदे मेदि० सौगतमतसिद्धेषु ९ विज्ञानादिषु पञ्चस्वङ्गेषु
“सुक्त्वाङ्गस्कन्धपञ्चकम्” माघः । १० पर्थि शब्दर० ११ ग्रन्थ-
परिच्छेदे च । “स्कन्धैर्द्वादशभिर्युक्तम्” इति भागवत-
विशेषणम् । १२ व्यूहे हेमच० ।

स्कन्धचाप पु० स्कन्धे चाप इव । वंशादिनिर्मितसिक्याधाने विहङ्गिकायां हारा० ।

स्कन्धज पु० स्कन्धात् जायते जन--ड । स्कन्धारूढ़े सल्लक्यादौ

“पर्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः” हेमच० ।

स्कन्धतरु पु० स्कन्धप्रधानः तरुः । नारिकेलवृक्षे राजनि० ।

स्कन्धफल पु० स्कन्धे फलमस्य । १ नारिकेलवृक्षे राजनि० ।

२ उडुम्बरवृक्षे च शब्दच० ।

स्कन्धबन्धना स्त्री स्कन्धे बन्धनमिवास्याः । मधुरिकायाम् शब्दच० ।

स्कन्धरुह पु० स्कन्धात् रोहति रुह--क । वटवृक्षे राजनि० ।

स्कन्धवाह पु० स्कन्धेन वाहयति वह--णिच्--अच् । स्कन्धेन

शकटादिवाहके वृषादौ हारा० ण्वुल् । स्कन्धवाहक तत्रैव
हेमच० ।

स्कन्धशाखा स्त्री स्कन्धात् पभृति शाखा । वृक्षस्य प्रधानशाखायाम् अमरः ।

स्कन्धशृङ्ग पुंस्त्री० स्कन्धपर्य्यन्तं शृङ्गमस्य । महिपे स्त्रियां

ङीष् ।
पृष्ठ ५३४१

स्कन्धाग्नि पु० स्कन्धजातोऽग्निः । वृहत्काष्ठजाते वह्नौ जटा० ।

स्कन्धावार पु० स्कन्धार्थमावारः आ + वृ--घञ् । युद्धार्थ-

सुद्युक्तर्सन्यानां १ स्थापने २ तदाधारे कटक च ३ राजधान्यां
शब्दच० ।

स्कन्धिक पु० स्कन्धस्तेन वहनमस्त्यस्य ठन् । स्कन्धवाहके वृषादो हेमच०

स्कन्धिन् पु० स्कन्धस्तेन वहनसस्त्यस्य इनि । स्कन्धेन

वाहके वृषादौ रत्नमा० ।

स्कन्न त्रि० स्कन्द--क्त । १ च्युते अमरः २ गलिते ३ क्षरिते

४ शुष्के ५ गते च । भावे क्त । ६ क्षरणे न० ।

स्कन्भ प्रतिघाते क्र्या० स्वा० उ० सक० सेट् । स्कभ्राति

स्कभ्रीते स्कभ्रोति स्कभ्रुते । अस्कम्भीत् अस्कम्भिष्ट ।
चस्कम्भ चसक(म)म्भे ।

स्कभ स्तम्भे म्बा० आ० सक० सेटि इदित् । सकम्भते अस्कम्भिष्ट ।

स्कु ठद्धृतौ आप्लावने च क्र्या० स्वा० उ० सक० अनिट् । स्कु-

नाति स्कुनोते स्कुनोति स्कुनुते । अस्कौषीत् अस्कोष्ट ।
चुसुकाव चुस्कवे ।

स्कुद आप्लावने उद्धृतौ च भ्वा० आ० सक० सेट् इदित् । स्कुन्दते अस्कुन्दिष्ट ।

स्कुन्भ रोधने सौ० क्र्या० स्वादि० कार्य्यभागौ प० सक० सेट्

स्कुभ्नाति स्कुभ्नोति । अस्कुम्मीत् । उदित् क्त्वा वेट् ।

स्खद विदारे दि० आ० सक० सेट् । स्खद्यते अस्खदिष्ट

घटादि० स्खदयति ।

स्खल चले भ्वा० प० अक० सेट् । स्त्वलति अस्खालीत् वा घटा० स्खलयति स्खालयति ।

स्खलन न० स्खल--भावे ल्युट् । १ चलने २ पतने अमरः ।

स्खलित न० स्खल--भावे क्त । १ कूटयुद्धादौ प्रवृत्त्या

वीरमर्य्यादातः १ पतने २ स्खलनमात्रे च अमरः । कर्त्तरि
क्त । ३ चलिते त्रि० ।

स्तन मेघशब्दे अद० चु० उभ० सक० सेट् । स्तनयति ते

अतस्तनत् त । बह्वच्कत्वान्न षोपदेशः ।

स्तन पु० स्तन--अच् । (माइ) स्त्रोणामङ्ग्रभेदे पयोधरे अमरः ।

“अरोमशौ स्तनौ पोनौ घनावविषमौ शुभौ” स्तनयोः
शुभलक्षणं गारुडे ३६ अ० ।

स्तनन न० स्तन--ल्युट् । १ ध्वनिमात्रे २ मेघशब्दे ३ कुन्थन शब्देच मेदि० ।

स्तनन्धय पुं स्त्री० स्तनं धयति धे--खश मुम् च । अतिशिशो

वेटष्टित्त्वात् स्त्रियां ङीप् ।

स्तनप पुं स्त्री० स्तनं पिबति पा--क । अतिशिशौ बालके अमरः । स्त्रियां टाप् ।

स्तनभर पु० ६ त० । १ स्थूलस्तनभारे २ तदाभोगे च त्रिका० ।

स्तनयित्रु पु० स्तन--रत्नु । १ मेघे २ मुस्तके अमरः ३ मेघशब्दे

मेदि० ४ विद्युति शब्दर० । ५ मृत्यौ ६ रोगे च हेमव० ।

स्तनवृन्त पु० स्तनस्य वृन्त इवाग्रम् । १ स्तनाग्रे चूचुके हेमच०

स्ततमुखशिखादयोऽप्यत्र हेमच० ।

स्तनान्तर न० स्तनयोरन्तरम् । १ हृदये हेमच० २ स्तनमध्ये च ।

स्तनाभोग पु० ६ त० । स्तंनस्य परिपूर्णतायाम् त्रिका० ।

स्तनित न० स्तन--भावे क्त । १ मेघशब्दे अमरः । २ सुरतादि-

शब्दे च । कर्त्तरि--क्त । ३ शब्दिते त्रि० ।

स्तनितफल पु० स्तनिते मेघशब्दे फलति फल--अच् ।

विकङ्कतवृक्षे राजनि० ।

स्तन्भ रोधने क्र्या० स्वा० प० सक० सेट् उदित् क्त्वा वेट् ।

स्तभ्राति स्तभ्रोति इरित् अस्तभत् अस्तम्भीत् । इदित्यन्ये
षोपदेश एव न्याय्यः सौत्रोऽयमित्यन्ये तेन न षोपदेशः ।

स्तन्य न० स्तने भवम् यत् । स्तनजाते दग्धे हेमच० ।

स्तब्ध त्रि० स्तम्भ--कर्मणि कर्त्तरि वा क्त । १ जडीकृते २ जडी भेते च

स्तब्धरोमन् पु० स्तब्धं रोमास्य । १ शूकरे अमरः जडीकृत-

रोमणि त्रि० स्त्रियां वा डाप् ङीप् च ।

स्तम्ब पु० स्था--अम्बच् किच्च पृषो० । काण्डरहिते झिण्टि-

कादौ वृक्षे २ वृक्षगुल्मे ३ तृणादेः गुच्छे च अमरः ।

स्तम्बकरि पु० स्तम्बं गुच्छं करोति कृ--इन् । ब्रीहिधान्ये

अमरः ।

स्तम्बघन पु० स्तम्बो हन्यतेऽनेन हन--क नि० । स्तम्बोन्मूलके खनित्रादौ अमरः ।

स्तम्बघ्न त्रि० स्तम्बो हन्यतेऽनेन हन--घञर्थे क । स्तम्बो-

न्मूलके खनित्रादौ अमरः । स्तम्बहननमप्यत्र ।

स्तम्बपुर् स्त्री स्तम्बप्रधाना पूः न समासान्तः । ताम्रलिप्ते

पुरभेदे हेमच० ।

स्तम्बेरम पुंस्त्री० स्तम्बं वृक्षादोनां काण्डे गुच्छे गुल्मे

वा रमते रम--अच अलुक्स० । गजे अमरः स्त्रियां ङीष् ।

स्तम्भ पु० स्तम्भ--अच् । (थाम) १ स्थूणायाम् अमरः । भावे

घञ् । २ जड़ीभावे पु० ।

स्तम्भन पु० स्तम्भयति स्तम्भ--णिच् ल्यु । कन्दर्पस्य पञ्चसु

वाणेषु मध्ये १ वाणभेदे जटा० । भवे ल्युट् । २ जड़ीकरणे
न० । करणे ल्युट् । षट्कर्मान्तगते तन्त्रोक्ते ३ अभिचारकमेभेदे

स्तम्भित त्रि० स्तम्भ जाड्ये णिच्--कर्मणि क्त । जड़ोकृते

स्तरिमन् पु० स्तॄ--कर्मणि इमनिच । तलो उणा० ।

स्तरी स्त्री स्तृ--कर्मणि ई । धूमे हेमच० ।

स्तव पु० स्तु--अप् । १ प्रशंसायाम् २ स्तुतौ च ।

स्तवक पु० स्तु-वुन् स्था--अवक प्तपो० वा । गुच्छे अमरः ।

२ ग्रन्थपरिच्छेदे ३ समूहे च मेदि० ।

स्तवेय्य पु० स्तु--एय्य । इन्द्रे उणा० ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/सुचित्रा&oldid=57863" इत्यस्माद् प्रतिप्राप्तम्