वाचस्पत्यम्/सम्प्रति

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५२४०

सम्प्रति अव्य० सम् + प्रति + समाहारद्वन्द्वः । इदानीमित्यर्थे अमरः ।

सम्प्रतिप्रत्ति स्त्री सम् + प्रतिपद्यते क्तिन् । १ वाद्युक्तार्थवि-

मयस्वीकरण “श्रुत्वाभियोगं प्रत्यर्थीत्यदि तं प्रतिपद्यते ।
सा तु सम्पतिपत्तिः स्यादि” ति २ स्मृत्युक्ते व्यवहारे
उत्तरभेदे च “मिथ्या सम्प्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा ।
प्राङ्त्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः” उत्तर-
शब्दे १०१९ पृ० दृश्यम् ।

सम्प्रदातृ त्रि० सम् + प्र + दा--तृच् । दानकर्त्तरि स्त्रियां ङीप्

सम्प्रदान न० सम् + प्र + दा--भावे ल्युट् । १ सम्यक्प्रदाने ।

सम्प्रदीयतेऽस्मै ल्युट् । “कर्मणा यमभिप्रैति स सम्प्रदा-
नमिति” पाणिन्युक्ते २ दानकर्मोद्देश्ये । तच्च त्रिविधम् ।
“अनिराकरणात्कर्तुस्त्यागाङ्गकर्मणेप्सितम् । प्रेरणानु-
मतिभ्याञ्च लभते सम्प्रदानताम्” इत्युक्तेः । तत्र विष्णवे
वस्त्रं ददातीत्यादौ अनिराकर्तृ सम्प्रदानम्, याचकाय
धनं ददातीत्यादौ प्रेरयितृ सम्प्रदानम्, गुरवे धनं
ददातीत्यादौ अनुमन्तृ सम्प्रदानम् । गौणमुख्यसाधा-
रणे सम्प्रदाने चतुर्थी पा० । तल्लक्षणं तु शब्दश०
प्र० दर्शितं यथा “गत्यादिमिन्ने धात्वर्थे चतुर्थ्या
विग्रहस्थया । “यः स्वार्थो बोधनीयस्तत्सम्प्रदानत्वती-
रितम्” । “गत्यादिमिन्ने यद्धातूपस्थाप्ये यादृशार्थे विग्र-
हस्थचतुर्थ्या यः स्वार्थो बाधयितुं शक्यते स तद्धातूप
स्थाप्यतादृशक्रियायां सम्प्रदानत्वमुच्यते । ब्राह्मणाय दानं
वनस्येत्यादौ ददातेः स्वत्वजनकत्यागाऽर्थस्तन्निविष्टे च
स्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपितत्वं वा चतुर्थ्या
बोध्यते इति तदेव तत्र सम्प्रदानत्वं ब्रह्मणप्रतियोगिकं
ब्राह्मणनिरूपितं वा यद्धनवृत्ति स्वत्वं तज्जनकस्त्याग
इत्येवं तत्र प्रत्ययात् घात्वर्थतावच्छेदकीभूतस्वत्वाख्य
फलवत्तया घनादेर्दानकर्मत्वात् । न चैवं पशुकामनया
यागकरणदशायां चैत्रः स्वात्मने पशुं ददातीत्यपि
प्रवीगापत्तिस्तादृशयागस्य चेत्रीयं यत् पशुनिष्ठं स्वत्वं
तज्जनकत्यागत्वादिति वाच्यं स्वत्वध्वं सजनकक्रियापर्य्य-
वसन्नस्य त्यागस्यैकदेशे स्वत्वध्वंसेऽपि द्वितीयाद्यर्थस्यान्व-
येन पशुफलकयागे पशुनिष्ठस्य स्वत्वध्वंसस्य जनकत्व-
विरहादेव तद्वाक्यस्वाप्रमाणत्वात् । ग्रामाय गत इत्यादौ
विग्रहस्थचतुर्थ्या धात्वर्थे बाध्यमपि कर्मत्वं न गत्यादि-
मिन्ने चतुर्थ्या बोधनीयम् । संवर्द्धयितुमित्यादि तुमर्थो
न विग्रहस्थयेति न तत्र प्रसज्ञः । गम्प्रदानशब्दस्तु स्वा-
श्रयगोचरत्यागजन्यस्वत्वस्य प्रतियोगिन्येव शक्त इति
स्त्रतप्रतियोगित्य सम्प्रदानत्वमित्यादिको न प्रयोगः ।
न च दानस्य सत्वहेतुत्वे प्रमाणामावः । “सप्त वित्तागमा
धर्म्या दायो लाभः क्रयो जयः । विभागः सम्प्रयोमश्च
सत्प्रतिग्रह एव च” इत्यादिमन्वादिवचनैस्तस्य स्वत्वहेतुत्व-
ऽप्रतिपादनादिति वाच्यं व्राह्मणाय त्यक्तायां गाव गौरियं
ब्राह्मणस्य न तु ममेत्यादिसर्वजनीनप्रतीतेरेव तत्र प्रमाण-
त्वात् “प्रदानं स्वाम्यकारणमिति” वचनाच्च । अतएव
विदेशस्थं पात्रमुद्दिश्य त्यक्तधने स्वीकारमन्तरेणैव पात्रस्य
मरणस्थले पितृदायत्वेन तद्धनं पुत्रादिभिर्विभज्य गृह्यते
अन्यथा तैरिव उदासीनैरपि तद्धनस्यारण्यकुशादेरिवो-
पादाने यथेष्टनियोगे च प्रत्यवायो न स्यात् । नन्वेवं
दानादेव स्वत्वसिद्धेर्दक्षवस्तुनि स्वीकारो व्यर्थ इति चेन्न
“लव्ध्वा चाष्टगुणं फलम्” इत्यादिस्मृतेः प्रतिगृहीतद्र-
व्यदानस्य फलविशेषं प्रतिहेतुत्वेन तादृशफलसम्पत्त्यर्थमेव
प्रतिग्रहस्योपयोगात् “याजनाध्यापनप्रतिग्रहैर्द्विजो
धनमर्जयेदित्यादि” श्रुत्या प्रागुक्तस्मृत्या च प्रविग्रहस्यापि
स्वत्वहेतुत्वबोधनाच्च स्वत्वजनकव्यापारस्यैवार्जन पदार्थ-
त्वात् । दासाय भक्ष्यं ददाति भृतकाय वेतनं ददाती-
त्यादावपि स्वत्वजनकत्यागं प्रतिपाटयन् ददातिर्मुख्य
एव पुण्यजनकन्तु न तादृशं दानमवैधत्वात् । युत्तु
स्वीकारजन्यस्य स्वत्वस्य जनकस्त्यागो दानं मनसा पात्र-
मुद्दिश्य धनत्यागस्तु न दानं किन्तूत्सर्गमात्रं प्रतिग्रह-
जन्यस्वत्वं प्रति हेतुभूतवैधत्यागस्यैव तथात्वात्, उपेक्षा
तु खत्वध्वंसमात्रजनकस्त्यागो न तु तत्र स्वत्वजनकत्व-
स्यान्तर्भाव इति मैथिलैरुक्तं तन्न युक्तं लाघवेन स्वत्व-
जनकत्यागस्यैव ददात्यर्थत्वात् । तिलानस्मै प्रतियच्छति
तुरगमस्मै विक्रीणीते इत्यादौ द्रव्यान्तरग्रहणपूर्वकं
दानमेव प्रतिदान मूल्यग्रहणपूर्वकं दानमेव च विक्रय
इति तत्रापि मुख्यमेव सम्प्रदानत्वं चतुर्थ्या बोध्यते
तिलादिकञ्च न मूल्यं पणपुराणादेरेव शास्त्रे तथात्वोप-
देशात् । अदृष्टार्थं दत्तस्यैव च स्वीकारः प्रतिग्रह
इति परेण प्रीतिदत्तस्य विक्रीतस्य वा तिलतुरगादेः स्वी-
कारो न दोषाबहः । मैत्राय रोचते मोदक इत्यत्र
चतुर्थ्या धात्वर्थान्वितमाघेयत्वं धातुना च भक्ष्यत्वप्रका-
रकेच्छोपस्थाप्यते तिङा तु प्रकाशत इत्यादादिव
विषयत्वलक्षणं कर्तृत्वं तथाच मैत्रनिष्ठाया भक्ष्यत्वप्रकारके-
च्छाया विषयतावान्मोदक इत्याकारकस्तत्र बोधः ।
गुरवे गां धारयते इत्यत्र धृङा गृहावस्थितिर्द्वितीयया
तदन्वितं कर्तृत्वं चतुर्थ्या च तन्निविष्टगृहान्वितं सम्ब-
न्धित्वसुपस्थाप्यते तेन गोकर्तृकाया गुरुसम्बन्धिगृहाव-
पृष्ठ ५२४१
स्थितेरनुकूलव्यापारवानित्याकारस्तत्र बोधः धृधातूत्तर-
णिचा व्यापारबोधनादिति कालापाः । पाणिनीयास्तु
“घारेरुत्तमर्णः” इति सूत्रानुसारेण चैत्राय शतं धारयते
इत्यादाविव गुरवे गां धारयते इत्यादावपि ऋणग्रहणं
घारणं दत्तत्वञ्च चतुर्थ्यर्थः तथाच गुरुदत्तां गा ऋणत्वेन
गृह्णातीत्याकारस्तत्र वाक्यार्थः पश्चाच्छोध्यत्वेनाङ्गीकृत्य
गृहीतञ्च द्रव्यमृणमित्याहुः । पुत्राय राध्यति पुत्राये-
क्षते इत्यादौ दैवनिरूपणं धात्वर्थस्तन्निविष्टे च दैवे सु
वर्थम्य सम्बन्धस्यान्वयस्तेन पुत्रस्य दैवं निरूपयतीव्येव
तत्र वोवः । गुरवे गां प्रतिशृणोति आशृणोतीत्यादौ
देयत्वेनाभ्युपभमः शृणीतेरर्थस्तत्र गोर्विशेष्यत्वेन तदेक
देशे च दाने गुरोरुद्देश्यत्वेनान्वयस्तेन गुरूद्देश्यकदान-
कर्मत्वेन गामभ्युपगच्छतीत्येवं तत्रं बोधः । होत्रे
प्रतिगृणातीत्यादौ हर्षानुकूलव्यापारलक्षणं प्रोत्साहनं
गृणातेरर्थस्तदेकदेशे च हर्षे होत्रादेरन्वयस्तेन होतृ-
निष्ठहर्षानुकूलव्यापारवानित्याकारकस्तत्र बोधः । चैत्राय
कृप्यति क्रुध्यतीत्यादौ धात्वर्थ उत्कटद्वेषस्तत्र विषयित्व-
लक्षणं सम्प्रदानत्वं चतुर्थ्या बोध्यते तेन च चैत्रविषय-
कोत्कटद्वेषवानित्याकारकस्तत्र बोधः । पुत्रे कोपो न
युज्यते इत्यादौ कृदन्तस्य कोपपदस्यैवार्थे पुत्र इत्यस्या-
स्वया न तु धात्वर्थ । पटाय घटते इत्यादावपि घात्वर्थ-
कृतौ सुपा पटस्य विषयित्व बोध्यते तत्रोद्देश्यत्वमेव
चतुर्य्यर्थः कथमन्यथा पटेच्छया तन्तुनिर्माणदशायां पटाय
यतते इत्यादिकः प्रयोगः इत्यपि वदन्ति । मित्राय
द्रुह्यतीत्यत्र द्विष्टाचरणं द्रोहस्तेन मित्रस्य द्विष्टमाचर-
तीत्यर्थः । शिष्यायेर्ष्यतीत्यत्रानिष्टानुपेक्षणमीर्ष्या तथाच
शिष्यानिष्टं नोपेक्षत इत्यर्थः । पुत्रायासूयतीत्यत्र
असूया गुणद्वेषस्तेन पुत्रस्य गुणं द्वेष्टीत्याकारस्तत्र बोधः ।
मित्रं द्रुह्यति शिष्यमीर्ष्यति पुत्रमसूयतीत्यपि प्रयोगात्
द्रुहादिकर्मणः सम्प्रदानत्वं वैकल्पिकमित्युन्नीयते ।
कोपपूर्वकस्य द्राहादेर्द्रुहादिधातुवाच्यत्वे तत्कर्मणः सम्प्र-
दानत्वं द्रोहादिमात्रस्य तथात्वे तु कर्मत्वमेवेति पुनः
कोमाराः । सोपसर्गयोस्त क्रुधद्रुहोः कर्मणः कर्म-
तैव न तु सम्प्रदानता अतएव शिष्यस्याभिक्रोद्धा मित्र-
स्याभिद्रोढेत्यादौ कृद्योगे कर्मणि षष्ठ्येव प्रमाणम्” ।

सम्प्रदाय पु० सम् + प्र + दा--भावे घञ् । १ गुरुपरम्परागते

सदुपदेशे अमरः । उपचारात् २ तदुपदेशयुते जने च ।
ईश्वरस्यैव सर्वसम्प्रदायप्रद्योतकत्वमिति “निर्माणकाय-
मधिष्ठाय सर्वसम्प्रदायप्रद्योतक इति पातञ्जलाः” कुसुमा० ।
ईश्वरवादे च मणिकृताऽऽशङ्क्य तथैव व्यवस्थापितं यथा
“नन्वशरीरात् कथं वेदघटादिशब्दव्यवहारसम्प्रदायः
उच्यते सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्ता
वदृष्टवदात्मसंयागाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा
सकलवदार्थगोचरज्ञानाद्विबक्षासहितान्मीनकलेवरकण्ठता-
ल्वादिक्रियाजन्यसंयोगाद्वेदोत्पत्तिः । एवं कुलालादि-
शरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदीश्वरसंयोगात्तद्बुद्धी-
च्छासहितचेष्टोत्पत्तौ सकलघटानुकूलव्यापारो घटोत्-
पत्तिः । एवं प्रयोज्यप्रयोजकज्ञानाय व्यापाराभिमत-
शरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छाप्रयत्नादेव
व्यवहारः ततस्तत्सुशीलो बालो व्युत्पद्यते सोऽयं
भूतावेशन्यायः । यत्तु यथा लिप्यादिना मौनिश्लाको-
ऽनुमाय पट्यते तथा सर्गान्तरात्पन्नतत्त्वज्ञानवता भोगार्थं
सर्गादावुत्पन्नेन मन्वादिना सर्वज्ञेन, ईश्वराभिप्रायस्थवेदः
साक्षात्कृत्यानूद्यते ततोऽग्निनसम्प्रदायः स एव कायव्यूहं
कृत्वा वाग्व्यबहारं करोतीति मतं तन्न प्रतिसर्गाद्यनन्त-
सर्वज्ञकल्पनायां गौरवात् तषामेव क्षित्यादिकर्तृत्वसम्भ-
वेन ईश्वराननुगमाच्च । एतेन सर्गादौ सर्गान्तरसिद्ध-
योगिन एव क्षितिकर्त्तारः सन्त्विति निरस्तं सर्गादाव-
नन्तसर्वज्ञसिद्धिश्च किं प्रमाणान्तरात् क्षित्यादिकर्तृग्राह-
काद्वा नाद्यस्तदभावात् नान्त्यः अनादिद्व्यणुकादिकार्य्य-
प्रवाहस्य सकर्तृकत्वानुमानात् लाघवसहकृतादेकस्यैव
सर्वज्ञस्य सिद्धेः” ।
सम्प्रदायप्रवर्त्तकभेदाश्च पद्मपु० उक्ता यथा
“श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च । श्रीलमध्वः
पद्मनामो नृहरिर्माघवस्तथा । अक्षोभो जयतीर्थश्च
ज्ञानसिन्धुर्महानिधिः । विद्यानिधिश्च राजेन्द्रो
जयधर्ममुनिस्तथा । पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनि-
स्तथा । श्रीमाल्लक्ष्मीपतिः चीमान् माधवेन्द्रपुरी तथा ।
सम्प्रदायविहीना ये मन्त्रास्ते निष्फला मताः । अतः
कलौ भविष्यन्ति चत्वारः सम्प्रदायिनः । श्रीमाध्व
रुद्र सनका वैष्णवाः क्षितिपावनाः” पद्मपु० । तन्त्रोक्त
वैष्णवसम्प्रदाया यथा “श्रोशिव उवाच वैखानसः
सामवेदी श्रीराधावल्लभी तथा । गोकुलेशो महेशानि!
तथा वृन्दावनी भवेत् । पञ्चरात्रः पञ्चमः स्यात् षष्ठः
श्रीवीरवैष्णवः । रामानन्दी हविष्याशी निम्बार्कश्च
महेश्वरि! । ततो भागवतो देवि! दश भेदाः प्रकी
पृष्ठ ५२४२
र्त्तिताः । शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण
च । एकदण्डी महेशानि! वीरशैवस्तथैव च । सप्त
पाशुपताः प्रोक्ता दशधा वैष्णवा मताः । एतेषां वासनं देवि!
शृणु यत्नेन शाम्भवि! । वेवेष्टि सर्वं संव्याप्य यस्तिष्ठति
स वैष्णवः । वैखानसादिदक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः ।
श्रीराधावल्लभं देवि! शृणु यत्नेन शाम्भवि! । वैष्णवा-
चारनिरतो विष्णुतन्त्रैकपारगः । अनन्यचेताः शान्तात्मा
विष्णुचिन्तापरायणः । श्रीराधावल्लभो देवि! गोकुलेशं
शृणु प्रिये! । नानाभूषणसम्पन्नो नानासुगन्धिभूषितः ।
गवां कुलं प्रीणयिता केलिकृष्णस्वरूपधृक् । शरीरमर्थं
प्राणांश्च संनिवेदतीह यः । अन्तःशक्तिपरो देवि!
वहिर्वैष्णवरूपधृक् । गन्धर्वाचारनिरतो लतावेष्टनतत्-
वरः । सम्प्रदायो गोकुलेशः सर्वसिद्धिकरो भुवि । वृन्दा
वनाख्यं देवेशि! शृण् यत्नेन साम्प्रतम् । विगताशः
प्रसन्नात्मा विष्णुभक्तिपरायणः । कामिनीसङ्गचपलो
वनक्रीड़ाविनोदधृक् । सौगन्धभूषिततनुः स्त्रीध्या-
नैकपरायणः । विष्णुसारूप्यतत्त्वज्ञः प्रोक्तो वृन्दावनी
शिवे! । पाञ्चरात्रो महेशानि तथैव वीरवैष्णवः ।
पूर्वमेव महेशानि कीर्त्तितः परमेश्वरि! । रा शक्तिरिति
विख्याता मः शिवः परिकीर्त्तितः । तदानन्दी शान्त-
चित्ती प्रसन्नात्मा विचारधृक् । सर्वत्र समरूपा च रामा-
नन्दी प्रकीर्त्तिता । हविष्याशी महेशानि! यथावदव-
धारय । पापसंहरणासक्तो विष्णुभक्तो जितेन्द्रियः ।
यमादिनियमैर्युक्तो भक्ताचारपरायणः । स्वोपयोग
फलग्राही परकार्य्यपरायणः । हविष्याशी महेशानि!
शिवभक्तिस्वरूपधृक् । निम्बार्काख्यं सम्प्रदायं शृणु
यत्नेन साम्प्रतम् । नित्यार्चनक्रमासक्तः स्वतन्त्रैक-
परायणः । बाह्यपूजादिनिरतो नान्यभक्तः प्रसन्नधीः ।
आर्य्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः । स्वतन्त्रः
स्मार्त्तविद्वेषी निम्बार्को भगवान् हरिः । अथ भागवतं
देवि! कथ्यते शृणु साम्प्रतम् । विष्णुभक्तैकनिपुणो
विजितात्मा प्रसन्नधीः । स्मार्त्तगर्वान्वितो देवि! तदन्या-
चारतत्परः । आर्य्यपक्षान्वितो देवि! तथा सुरूप-
वेशधृक् । शैवद्वेषी तस्य सङ्गात् पुनः स्नानपरायणः ।
केवलविष्णुतत्त्वज्ञः प्राक्तो भागवतः शिवे” शक्तिसङ्ग० त०

सम्प्रधारणा स्त्री सम् + प्र + घृ--णिच्--युच् । युक्तायक्तत्ववि-

वचनार्थसमर्थने अमरः ।

सम्प्रयोग पु० सम् + प्र + युज--घञ् । १ वृद्ध्यादिलाभेच्छया ध-

नादिविनियोगे “विभाग सम्प्रयोगश्चे” ति स्मृतिः । २ र०
मणे ३ निधुवने ४ अन्वये ५ अर्थिते त्रि० अजयः ६ सन्दिन्धे
७ कार्मणे वशीकरणादौ मेदि० ८ इन्द्रियविषयसम्बन्धे च

सम्प्रयोगिन् त्रि० सम् + प्र + युज--चिनुण् । १ कामुके २

कलाकेलिकारके २ सम्बग्लाभार्थं धनांदिविनियोजके ।
३ संप्रयोजके त्रि० मेदि० ।

सम्प्रसन्न त्रि० । १ सम्यक्प्रसन्ने २ सुषुप्ते च सम्प्रसादशब्दे दृश्यम्

सम्प्रसाद पु० सम् + प्र + सद--करणे० घञ् । १ योगादिशाखोक्ते

चित्तस्य नैर्मल्यसम्पादके प्रयत्नभेदे । भावे घञ् । २ सम्यक्-
प्रसन्नतायाम् । आधारे घञ् । ३ सुषुप्तौ “तद्यत्रैतत्सुप्तः
समस्तः सम्प्रसन्नः स्वप्नं विजानातीति” श्रुतिः । सन्ध्य-
शब्दे च सुषुप्तिशब्दे दृश्यम् ।

सम्प्रसाधन न० सम् + प्र + साधं--णिच् करणे ल्युट् । १

कटकादो भूषणे । भावे ल्युट् । २ भूषणक्रियायाम् ।

सम्प्रसारण न० सम् + प्र + सृ--णिच्--ल्युट् । १ सम्यग्विस्ता-

रणे व्याकरणोक्ते यणः स्थाने जायमाने २ इक्संज्ञवकर्णे
च । “इक् यण सम्प्रसारणम्” पा० ।

सम्प्रहार पु० सम्प्रह्रियतेऽत्र सम् + प्र + हृ--आधारे घञ् ।

१ युद्धे अमरः । भावे घञ् । २ सम्यक्प्रहरणे ३ गमने च
मेदि० ।

सम्प्राप्ति स्त्री सम् + प्र + आप--क्तिन् । १ सम्यक्प्राप्तौ २ वैद्य-

कोक्ते रोगोत्पत्तिभेदे च तल्लक्षणं भावप्र० उक्तं यथा
“अथ सप्राप्तेलंक्षणमाह “यथा दुष्टेन दोषेण यथा
चानुविसर्पता । उत्पत्तिर्याऽमयस्यासौ सम्प्राप्तिर्जातिरा-
गतिः” । यथा दुष्टेन दोषेण यथा कारणभेदेन दोषेण
यथा चानुविसर्षता अनेकधा दोषाणां विसर्पता मूर्ध्वा-
धस्तिर्यगादिगतिभेदेन तथा च विसर्वता । आमयस्य
या उत्पत्तिः असौ सम्प्राप्तिः । शास्त्रव्यवहाराय
सम्प्राप्तेः पर्य्यायावाह जातिरागतिरिति । संप्राप्ते
रौपाधिकभेदानाह “सङ्ख्याविकल्पप्राधान्यबलकालवि-
शेषतः । सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति” ।
सङ्ख्यादिकालविशेषान्तेभ्यः सा संप्राप्तिर्मिद्यते भेदवती
क्रियतं इत्यर्थः । तत्र सङ्ख्यां विवृणोति । यथा ज्वरो-
ऽष्टधा अतीसारः षड्विध इत्यादि विकल्पं विवृणोति ।
“दोषाणां सभवेतानां विकल्पोऽशांश कल्पना” समवेतानां
समुदितानां दोषाणाम् अंशांशकल्पनाहीन मध्याधिकभेदै-
र्भागकल्पना विकल्पः । प्राधान्यं विवृणोति ।
“खातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राभान्यमादिशेत्” । ज्याप्तेः
पृष्ठ ५२४३
स्वातन्त्र्येण प्राधान्यं पारतन्त्र्येणाप्राधान्यञ्च वदेदि-
त्यर्थः । यथा स्वतन्त्रस्य ज्वरस्य प्राधान्यं ज्वराधीनानां
श्वासादीनामप्राधान्यम । बलं विवृणोति “हेत्वादि-
कार्त्स्न्यावयवैर्बलाबलविशेषणम्” । अत्रापि व्याधेरि-
त्यनुवर्त्तते हेत्वादीनां हेतुपूर्वरूपरूपाणाम् । कार्त्स्न्येन
साकल्येन अवयवैः एकदेशेन व्याधेर्बलाबलयोर्विशेषणम् ।
विशेषणं बोधः । कालं विवृणोति । “नक्तं दिनर्तुभुक्तां-
शैर्व्याधिकालो यथामलम्” नक्तमत्राव्ययं रात्रिवाचकम् ।
घतेनैतदुक्तं यस्मिन्नक्तादिरंशो यस्य दोषस्य प्रकोप उक्तो-
ऽस्ति सोऽशस्तस्य दोषजस्य व्याधेः काल इत्यर्थः । नक्ता
देरंशेषु वातादिप्रकोप उक्तो वाग्भटेन “ते व्यापिनो-
ऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः । वयोऽहोरात्रि
भुक्तानामन्तमध्यादिगाः क्रमादिति” ते वातपित्तकफाः ।
ऋतुषु वातादिको यथा । “वर्षासु शिशिरे वायुः, पित्तं
शरदि ग्रीष्मके । वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्त्तवी ।
संप्राप्तिर्व्याधीनां ज्ञानाय हेतुः, यथा मिथ्याहारविहार-
कपितवाताद्यामाशयगमनरसदूषणकोष्ठाग्निबहिर्निरसन-
रूपं ज्वरोत्पत्तिप्रकारं बोधयति । तथा व्याधीनां
सङ्ख्यादोषांशकल्पना प्राधान्यबलकालांश्च बोधयति ।

स(म्प्रे)म्प्रैष पु० सम् + प्र + इष--घञ् वा वृद्धिः । १ नियोगे

२ विधौ हेमच० । विधिशब्दे ४९०७ पृ० दृश्यम् ।

सम्प्रोक्षण न० सम् + प्र + उक्ष--ल्युट् । जलादिसेचनेन संस्का-

रभेदे अभ्युक्षणशब्दे ३१३ पृ० दृश्यम् ।

सम्प्रोक्षित त्रि० सम् + प्र + उक्ष--क्त । जलादिसेचनेन कृतसंस्कारे पदार्थे ।

सम्फाल पु० सम् + फल--ज्वला० ण । मेधे हेमच० ।

सम्फुल्ल त्रि० सम + फुल्ल--अच् । विकसिते । सम् + फल--क्त

अत उत्त्वम् । सम्पुल्त इति लकारमध्योऽपि तत्रैव ।

सम्ब सर्पणे भ्वा० प० स० सेट् । सम्बति असम्बीत् षोपदेशः साघुः

सम्ब सम्बन्धे चु० उभ० सक० सेट् । सम्बयति ते अससम्बत् त ।

सम्ब न० सम्ब--अच् । १ कृष्टक्षेत्रस्य प्रतिलोमकर्षणे २ जले जटा०

सम्बद्ध त्रि० सम् + बन्ध--क । १ सम्बन्धिनि । भावे क्त । २ सम्य-

ग्बन्धने न० ।

सम्बन्ध पु० सम् + बन्ध--घञ् । १ संयोगादी २ संसर्गे ३ समृद्धौ

अजयः । ४ सम्यग्बन्धने ५ नृणां संसर्गभेदे च । स
च सम्बन्धस्त्रिविधः “सम्बन्धस्त्रिविधः पुसा विप्रेन्द्र!
जगतीतले । विद्याजायातिजयैव प्रीतिजश्च प्रकीर्त्तितः ।
मैत्रन्तु प्रीतिजं प्रोक्तं स सम्बन्धः सुदुर्लभः” व्रह्मवै०
ब्रह्मख० १० अ० । संसर्गश्च नानाविधः “शेषे षष्ठी” पा०
महाभाष्ये दर्शितस्तत्रावगन्तव्यः । न्यायमते संयोगसम-
वायादिरुक्तः । सम्यग्बन्धी यतः । ६ हिते त्रि० अजयः ।

सम्बर न० सम्ब--अरन् । १ जले अमरः अयं तालव्यादि

अजयः । २ बौद्धव्रतभेदे मेदि० । ३ संयमे त्रि० ४ सेतौ
हेमच० ५ दैत्यभेदे ६ मृगभेदे ७ मीनभेदे पुंस्त्री० स्त्रियां
ङीष् । ८ पर्वतभेदे च पु० शब्दर० । ९ जैनभेदे १०
जिनमतप्रसिद्धपदार्थभेदे । स च आस्रवनिरोधरूपः गुप्तिसमि-
त्यादिः अर्हत्शब्दे ३८४ पृ० तस्योद्देशः ३८५ पृ० च तल्ल-
क्षणं दृश्यम् । संवर इत्येव अन्तस्थवमध्यः पाठः तत्रार्थे ।

सम्बरारि पु० सम्बरस्य दैत्यविशेषस्य अरिः । कामदेवे अमरः

सम्बरी स्त्री सम्ब--अरन् ङीप् । १ मूषिकपर्ण्याम् अमरः ।

२ शतावर्य्याञ्च तालव्यादिरयमिति भरतः ।

सम्बल न० सम्ब--कलच् सम्यक्बलं यतो वा । १ जले शब्दर०

२ पाथेये पु० न० अमरः तालव्यादि तत्रार्थे भरतः ।

स(श)म्बाकृत त्रि० स(श)म्बेन प्रातलोमेन कृष्टं क्षेत्रं स(श)

म्ब + डाच्--कृ--क्त । १ अनुलोमकर्षानन्तरं प्रतिलोमकृष्टे
द्विःकृष्टे क्षेत्रादौ अमरः । भावे क्त । २ प्रतिलोभकर्षणे न०

सम्बाध न० सम्यक् बाधा यत्र । १ नरकवर्त्मभये शब्दमा० ।

सम् + बाध--भावे घञ् । २ अन्योन्यसंघर्षे पु० ३ सङ्कटे
४ भगे मेदि० ।

सम्बाधन पु० सम् + बाध--ल्यु करणे ल्युट् वा । १ द्वारपाले

२ शूलाग्रे ३ मदनद्वारे भगे च मेदि० । भावे ल्युट् ।
४ सम्यग्पीडने ।

सम्बुद्ध पु० प्रा० स० । १ बुद्धावतारे त्रिका० । २ सभ्यग्बोधाश्रये त्रि० ।

सम्बुद्धि स्त्री सम् + बुध--क्तिन् सम्यग्बुद्धिर्यत्र वा । १ सम्यग-

बोधे २ सम्बोधनशब्दार्थे च ।

सम्बोध पु० सम् + बुध--घञ् । १ क्षेपे २ बोधने मेदि० । ३ नाशे अजयः ४ सम्यक्ज्ञाने च

सम्बोधन न० सम् + बुध--ल्युट् । १ सम्यक्ज्ञाने । बुध--णिच्-

युच् । तत्रार्थे स्त्री भरतः । ल्युट् । २ सम्यग्ज्ञापने
“स्थितस्याभिमुखीभावमात्रं सम्बोधनं विदुः । प्राप्ता-
भिमुख्यः पुरूषः क्रियासु विनियुज्यते” इति व्याकरणोक्ते
अन्यत्रासक्तस्यामिमुखीकरणाय अमीष्टक्रियासु विनियो-
गाय ज्ञापनादिरूपे ३ व्यापारभेदे न०
“सम्बोधनपदं यच्च तत् क्रियाया विशेषणम् । व्रजानि
देवदत्तेत्यादौ निघातोऽत्र तथा सति” हरिः । समान-
वाक्ये एव निघातस्य (अनुदात्तस्य) विधानात् । व्रजानि
देवदत्त इत्यादौ तस्य निघातः । “सम्बोधनान्तं कृत्वोर्थाः
कारकं प्रथमो वातः । धातुसम्बन्धाधिकारविहितभस-
पृष्ठ ५२४४
मस्तनञ् । तथा तत्स च भावेन षष्ठी चेत्युदितं द्वयम् ।
सम्बन्धश्चाष्टकस्यास्य क्रिययैवाधार्य्यताम्” हर्य्युक्तेस्तस्य
क्रियायामेवान्वयः । सम्बोधनार्थे च प्रथमा ।

सम्भली स्त्री सम्यक् भवते सम् + भल--अच् गौरा० ङीष् ।

कुट्टिन्याम् परपुरुषेण सह अन्यस्त्रिया योजयित्र्याम्
अमरः । तालव्यादि तत्रार्थे भरतः ।

सम्भव पु० सम् + भू--अप् । १ उत्पत्तौ २ आधेयस्याधारे

समावेशनयोग्यत्वरूपे व्यापारे ३ उत्कटकोटिकसन्दहे गदा० ।
४ सङ्कते । अपादाने अप् । ५ हेतौ । कर्त्तरि अच् ।
६ मेलके त्रि० मेदि० । ७ अपाये च अजयः । पौराणि-
कमतसिद्धे ८ बद्धिभेदे ९ तत्प्रमाणे च तदेतन्मतम् तत्त्व-
कौमुद्यां प्रदर्श्य “सम्भवस्तु यथा खार्य्यां द्राणाढकप्र-
स्थाद्यवगमः सचानुमानमेव खारीत्वं हि द्रोणाद्यवि-
नामूतं प्रतीतं खार्य्यां द्रोणादिसत्त्वमव गमयतीति”
अनुनावान्तर्गतया प्रमाणान्तरत्वं दूषितम् । खारीत्वं खारी-
परिमाणं महापरिमाणे स्वावान्तरपरिमाणसमाविशा-
ऽनुभवसिद्धः तथा च खारीपरिमाणं द्रोणादिपरिमा-
णव्यापकमिति व्यापकस्थित्या व्याप्यस्थितेरावश्यकत्वादनु-
मानेनैव गतार्थतत्यर्थः । “न चतुष्ट्रमैतिह्यार्थापत्तिसम्भ-
वाभावप्रामाण्यात्” गौ० सू० भाष्ये सम्भवोनाम अविना
भाविनोऽर्थस्य सत्त्वग्रहणम् । यथा द्रोणस्य सत्त्वग्र
हणात् आढ़कस्य सत्त्वाग्रहणम् एवम् आदकस्य सत्त्वग्र-
हणात् प्रस्थादिसत्त्वग्रहणम्” उक्तम् । तद्वृत्तौ च “अवि-
नाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदा
येन इतरस्य ग्रहणं सम्भवः तच्चानुमानमेव” इत्युक्तम् ।

सम्भव्य पु० सम् + पू--कर्त्तरि यत् । १ कपित्ये शब्दच० २ सम्य

ग्भाविनि त्रि० ।

सम्भार पु० सम् + भू--घञ् । १ परिपूर्णतायां त्रिका० २ सम्भूतौ ३ समूहे ४ सामग्र्यां च मेदि० ।

सम्भावन न० सम् + मू--णिच्--ल्युट् । १ अर्थालङ्कारभेदे अल

ङ्कारशब्दे ४०७ पृ० दृश्यम् । २ व्याकरणोक्ते क्रियासु
योम्यताध्यसाये २ लिङर्थभेदे ३ उत्कटकोटिकसंशयरूपे
४ ज्ञानभेदे च गदाधरः । युच् । सम्भवनापि उक्ताथं स्त्री

सम्भावित त्रि० सम् + भू--णिच्--क्त । सम्भवयुक्ते पदार्थे ।

सम्भाषण न० सम् + भाष--ल्युट् । १ सम्यक्कथने २ परस्पर-

कथने च ।

सम्भिन्न त्रि० सम् + भिद--क्त । १ विदलिते २ भेदान्विते ३ सम्य-

ण्विकसिते च “करैरिन्दोरन्तश्चरित इव सम्भिन्नसु-
कुलः” इति वेणीसंहारः ।

सम्भूति स्त्री सम् + भू--क्तिन् । १ विभवे २ ईश्वरस्यैश्वर्य्यभेदेश्च

“सम्भूतिं य उपासते” इति श्रुतिः ।

सम्भूयसमुत्थान न० सम्भूय मिलित्वा सम्यमुत्तिष्ठन्त्यनेन

सम् + उद् + स्था--करणे ल्युद् । १ मिलित्वा बणिजां
वाणिज्यादिकर्मकरणे २ तद्विषयके विवादमेदे च तत्खरूपा-
दिकं वीरमि० उक्तं यथा
“अथ सम्भूयसमुत्थानाख्यव्यवहारपदम् । तस्य स्वरूप-
साह नारदः “बणिक्वभृतयो यत्र कर्म सम्भूय
कुर्वते । तत् सम्भूयसमुत्थानं व्यवहारपद स्मृतम्” इति ।
वणिक्प्रभृतय इत्यनेन ऋत्विङ्गटनर्त्तककर्षकादीनां
ग्रहणम् । यद्यपि फलभूतस्य स्वर्गस्य ऋत्विग्गामित्वा-
मावादात्मनेपदस्यानुपपन्नत्वेन प्रभृतिशब्देन ऋत्विग्-
ग्रहणमनुचितम् । तथापि आत्मनेपदाऽविवक्षयेदमुक्तन्न
च ऋत्विङ्मात्रे आत्मनेपदाविवक्षणे अन्यांशे च
विवक्षणे वैरूप्यप्रसङ्ग इति वाच्यम् । सम्भूयकर्त्तृत्वमात्रस्य
लक्षणत्वेनान्यत्र वास्तवतत्सत्त्वेऽपि लक्षणवैयर्थ्यप्रसङ्गा-
भावात् । न च चिन्तामणिकृता कत्नभिप्राय इत्यस्य
कर्त्रभिप्रायविषये कर्त्रिच्छाविषये क्रियाफल इति व्या-
ख्यातत्वादृत्विजामपि सफलं यजमानस्य कर्म भवत्विति
वेतनोपरागेणेच्छा सम्भवत्येवेत्यात्मनेपदविवक्षायामपि
का क्षतिरिति वाच्यम् । कर्त्रमिप्राये कर्तृगामिनीत्यस्यैव
व्याख्यानस्य सहाभाष्याद्यनेकग्रन्थसम्मतत्वेनान्यादृशव्या-
ख्यानस्य महाभाष्यादिविरुद्धत्वात् । सह वणिज्यादि-
करणे अधिकारिणो दर्शयति वृहस्पतिः “कुलीनदक्षा-
नलसैः प्राज्ञैर्नाणकवेदिसिः । आयव्ययज्ञैः शुचिमिः शूरैः
कुर्य्यात् सह क्रियाम्” इति । क्रियां क्रतुकृषिशिल्प-
स्तेयबाणिज्यरूपाम् । नाणकविज्ञानं बाणिज्यक्रियान
यामुपंयुज्यते । आयव्ययज्ञानमात्रं कृषिक्रियायाम् ।
शिल्पिक्रियायां सङ्गीतक्रियायां च प्राज्ञत्वम् । क्रतो
कुलीनत्वप्राज्ञत्वशुचित्वानि । स्तेये तु शूरत्वमात्रमुप-
युज्यते । दक्षत्वानलसत्वे सर्वत्रोपयुज्येते । अतएवाद-
क्षादीन्निषंधयति स एव “असक्तालसरोगार्त्तमन्दभाग्या
निराश्रयाः । बाणिज्याद्याः सहैतैस्तु न कर्त्तव्या बुधैः
क्रियाः” इति । निराश्रयाः मूलधनरहिताः । ये तु
सम्भूय बाणिज्यादिक्रियां कुर्वन्ति ते द्रव्यानुरोधेन
लाभादिभाजो भवन्तीत्याह नारदः “समोऽतिरिक्तो
हीनो वा तत्रांशा यस्य यादृशः । क्षयव्ययो तथा
वृद्धिस्तत्र तस्य तषाविधा” इति । वृहस्पतिरपि
पृष्ठ ५२४५
“प्रयोगं कुर्वते ये तु हेमघान्यरसादिना । समन्यूना-
धिकैरंशैर्लाभस्तेषां तथाविधः । समो न्यूनोऽधिको
वांशो येन क्षिप्तस्तथैव सः । व्ययं दद्यात्
कमंकुर्य्याल्लाभं गृह्णीत चैव हि” इति । यत्र पुनरस्य द्वौ
भागौ अस्यैक इति संवित् कृता तत्र तदनुरोधेन व्यय-
लाभौ प्रकल्प्यावित्याह याज्ञवल्क्यः “समवायेन बणिजां
लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा
वा संविदा कृतो” इति । सम्भूयकारिणां कर्त्तव्यमाह
व्यासः “समक्षमसमक्षं वाऽवञ्चयन्तः परस्परम् । नाना-
पण्यानुसारास्त्रे प्रकुर्युः क्रयविक्रयौ । अगोपयन्तो
भाण्डानि दद्युः शुल्कञ्च तेऽध्वनि । अन्यथा द्विगुणं
दाप्याः शुल्कस्थानाद्बहिःस्थिताः” इति । नारदोऽपि
“भाण्डपिण्डव्ययोद्धारसारासारत्ववीक्षणम् । कुर्युस्ते-
ऽव्यभिचारेण समये स्वे व्यवस्थिताः” इति । अथ वा
सर्वानुज्ञया सर्वेषां कार्य्यमेक एव कुर्य्यात् । अतएव
वृहस्पतिः “बहूनां सम्मतो यस्तु दद्यादेको धनन्नरः ।
करणं कारयेद्वापि सर्वेणैव कृतं भवेत्” इति । करणं
केण्यादिकम् । सम्भूयकारिणाम्मिथोविवादे निर्णय-
प्रकारनाह स एव “परीक्षकाः साक्षिणश्च त एवोक्ताः
परस्परम् । सन्दिग्धेऽर्थे वञ्चनाया न चेद् विद्वेषसं-
युतः” इति । यदा तु विद्वेषसंयुक्तास्तदाप्याह स एव
“यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये । शपथैः
सोऽपि शोध्यः स्यात् सर्ववादेष्वयं विधिः” इति । सर्व-
वादेऽपि वञ्चनरहितवादेऽपि । वञ्चकत्वे सिद्धे सति किं
कार्य्यमित्यपेक्षिते आह याज्ञवल्क्यः “जिह्मं त्यजेयु-
र्निर्लाभम्” इति । जिह्मं वञ्चकन्निर्लाभं कृत्वा त्यजेयु-
र्वहिः कुर्युरितरे सम्भूयकारिण इत्यर्थः । सम्भूय-
कारिष्वसमर्थं प्रत्याह स एव “अशक्तोऽन्येन कारयेत्”
इति । स्वांशानुरूपं कर्मेति शेषः । दैप्रराजकृतद्रव्यहा-
निविषये सर्वान् प्रत्याह वृहस्पतिः “द्रव्यहानिर्यदा
तत्र दैवराजकृता भवेत् । सर्वेषामेव सा प्रोक्ता कल्प-
नीया यथांशतः” इति । सम्भूयकारिभिः सर्वैरिति
शेषः । क्षयहानिरिति पाठे क्षयायैव हानिः क्षयहा-
निरुपचय्यार्थव्यतिरिक्ता हानिरित्यर्थः । प्रातिस्विकदो-
षेण द्रव्यनाशे स एवाह “अनिर्दिष्टो वार्य्यमाणः प्रमा-
दाद्यस्तु नाशयेत् । तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम्”
इति । अनिर्दिष्टः समवाय्यननुज्ञातः । याज्ञवल्क्यो-
ऽपि “प्रतिषिद्धमनादिष्टं प्रमाद्राद्यच्च नाशितम् । स
तद् दद्यात्” । पालने त्वाह स एव “विप्लवाच्च
रक्षिताद्दशमांशभाक्” इति । वृहस्पतिरपि “दैवराज-
भयाद् यस्तु स्वशक्त्या परिपालयेत् । तस्यांशं दशमं
दत्त्वा गृह्णीयुस्तेऽशतोऽपरम्” इति । तस्य तस्मौ
दशममंशन्ते समवायिद्रव्यमिति शेषः । प्रतिपालयेत् समाहरेत्
स्वशक्त्या प्रत्याहरेदित्यर्थः । नारदोऽपि “दैवतस्कररा-
जाग्निव्यसने समुपस्थिते । यस्तत् स्वशक्त्या रक्षेत
तस्यांशो दशमः स्मृत” इति । यस्तु समवायिद्रव्यं
समवायिभिः सह प्रतियाचनादिना न साधयति तस्य
लाभहानिरित्याह वृहस्पतिः “समवेतैस्तु यद्दत्तं प्रार्थनीयं
तथैव तत् । न याचते च यः कश्चिल्लाभात् स
परिहीयते” इति । “योचनग्रहणं येन यत्कर्म स्वांशानु-
रूपं कर्त्तव्यं तस्याप्युपलक्षणार्थं तेन तत्कर्माकरणेऽपि
लाभहानिरित्यस्वादेव वचनात् प्रतिपत्तव्यमिति” स्मृति-
चन्द्रिकायाम् । सम्भूयकारिणामृत्विजां कर्त्तव्यमाह
मनुः “ऋत्विजः समवेतास्तु यत्र सत्रे निमन्त्रिताः ।
कुर्युर्यथार्हं तत्कर्म गृह्णीयुर्दक्षिणां तथा” इति । अत्र
सत्रशब्दो थज्ञमात्रविवक्षया प्रयुक्तो न पुनर्बहुयजमान
कसत्राख्ययज्ञविशेषविवक्षया । तत्र यजमानानामेवा-
ध्वर्यवादिकर्मकारित्वे दक्षिणार्हाणामृत्विजामभावात् ।
तथा कर्मानुसारेण दक्षिणां गृह्णीयुरित्यर्थः । तथा च
स एव “सम्भूय स्वानि कर्माणि कुर्बद्भिरिह मानवैः ।
अनेन कर्मयागेन कर्त्तव्यांशप्रकल्पना” इति । स्वानि
कर्माणि याजमानव्यतिरिक्तानीति शेषः । इयं चांश-
कल्पना द्वादशशतं गावो दक्षिणेत्येवं क्रतुसम्बन्धित्वेन
विधीयमानायां दक्षिणायामेव न ऋत्विग्विशेषोल्लेखनेन
विहितायास्तद्विधायकश्रुतिविरोधापत्तेः अतएवाहतुर्मनु
वृहस्पती “रथं हरेद् तथःध्वर्युर्व्रह्माधाने च
वाजिनम् । होता निविद्धरं चाश्वमुद्गाता चाप्यनः क्रये”
इति । निविद्वरं निविच्छंसनलब्धं वरम् । उद्गातृशब्देनो-
द्गातृगणमध्यस्थः सुब्रह्मण्यो गृह्यत इति मदनरत्ने ।
अनः शकटम् क्रये सोमक्रये । दक्षिणांशकल्पनायाः
प्रकारमाहतुः मनुवृहस्पती “सर्वेषामर्द्धिनो मुख्यास्तदर्द्धे-
नार्द्धिनोऽपरे । तृतीयिमस्तृतीयांशाश्चतुर्थांशाश्च पादिनः”
इति । सर्वेषां षोड़शानामृत्विजां मध्ये ये मुख्या
गणस्याग्राः होतृ ब्रह्माध्यर्यूद्गातारस्तेऽर्द्धिनः उक्तदक्षि-
णायाः किञ्चित् न्यूनमर्द्धं ४८ गृह्णीयुः समग्रार्द्धग्रहणे
वक्ष्यमाणविभासकल्पनाविरोधः स्यात् । अपरे द्वितीया
पृष्ठ ५२४६
मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाश्छंसिप्रस्तोतारस्तदर्द्धेन २४
मुख्यभागार्द्धेनार्द्धिनोऽद्धंग्राहिणः, तृतीयिनोऽच्छावा-
काग्नीध्रोन्नेतृप्रतिहर्त्तारो मुख्यभागस्य तृतीयांश १६ भाजः ।
पादिनोऽन्त्याः ग्रावस्तोतृपोतृनेष्टृसुब्रह्मण्याख्या मुख्य-
भागस्य चतुर्थांश १२ ग्राहिण इत्यर्थः । मुख्यानां चतुर्णां
मिथोविभागश्च समः एवं द्वितीयादीनामपि स एव
विभागः । तथा च गोशतं दक्षिणेति पक्षमाश्रित्य
कात्यायनसूत्रम् “द्वादश द्वादश मुख्येभ्यः षट्षट् द्वितीये-
भ्यश्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः” इति ।
संगृहीतमेत्रद्बौधायनकारिकायामपि “पञ्चविंशतिधा
कृत्वा वर्गीया दक्षिणा क्रमात् । द्वादशैवाथ षट्कं च
चत्रास्तिस्र एव चेति” द्वादशाधिकनोशतरूपाया
दक्षिणायाः प्रथमञ्चत्वारो भागाः कर्त्तव्याः । तत्रैको
भागो होतृवर्गस्यापरो भागो ब्रह्मवर्गस्यापरोऽध्वर्युवर्ग-
स्यापर उद्गातृवर्गस्य । पुनरेकैकस्य भागस्य पञ्चविंश-
तिर्भागाः कर्त्तव्याः । तेष्वाद्यानां होत्रादीनां द्वादश
भागाः, द्वितीयानां षट्, तृतीयानां चत्वारश्चतुर्थानां
त्रय इत्यर्थः पशुबन्धादौ तु विषमविभागानभिधा-
नात् “समं स्यादश्रुतत्वादिति” न्यायेन समत्वेनैव
विभाग इति मन्तव्यम् । स्वकीयकर्मकलापांशकर्तृषु
कृतानुसारेण भागो देय इत्याह मनुः “ऋत्विग्यदि
वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण
देयोऽंशः सह कर्तृभिः” इति । सहकर्त्तृभिः सम्भूय-
कारिभिरित्यर्थः । यद्वा कर्तृभिः सह देयः दक्षिणा-
काले देयो यजमाननेनेत्यर्थः । अथ वा कर्म परिंत्यक्तं
सह कर्तृभिरित्यर्थः । यदा तु ऋत्विक् कर्मैकदेशं दक्षिणा-
दानानन्तरं त्यजति तदाऽवशिष्टं तद्गणवर्त्तिनां मध्ये
सन्निहितेनान्येन कारयेदित्याह स एव “दक्षिणासु
च दत्तासु स्वकर्म परिहापयेत् । कृत्स्ममेव लभेतांश-
मन्येनैव च कारयन्” इति । कर्ममध्ये ऋत्विङ्मरणे
कर्त्तव्यमाह नारदः “ऋत्विजां व्यसनेऽप्येवमन्येन
कर्म निस्तरेत् । लभेत दक्षिणादानं स तस्मात् सम्प्र-
कल्पितम्” इति । अन्येन स्वस्वगणमध्यवर्त्तिनां मध्ये
प्रत्यासन्नेन, येन केनचिदन्येन कार्यमाणे त्वध्वर्य्यादि
समाख्याबाधापत्तेरिति ध्येयम् । यत्तु शङ्खलिखितयो-
र्वचनम् “अथ चेदनुप्राप्ते सवने ऋत्विक् म्रियते तस्य
सगोत्रोऽथ शिष्यो वा तत्कार्य्यमनुपूरयेत्” । अथ चेदबा-
न्धवस्ततोऽन्यमृत्विजं वृणुयात्” इति । यच्च वृह-
स्पतिवचनम् । “एवं क्रियाप्रवृत्तानां यदा कश्चिद्विप-
द्यते । तद्वन्धुना क्रिया कार्य्या सर्विर्वा सहकासिभिः”
इति । तदेकान्तगणरहितर्त्विक्कर्तृकदर्शपौर्णमासादि-
यागविषयमित्यभिहितं स्मृतिचन्द्रिकायाम् । जीवत्येव
तु ऋत्विजि यजमानेन ऋत्विगन्तरकरणे कस्य दक्षि-
णेति वीक्षायामाह शङ्खः “अथ ऋत्विजि वृते पश्चा-
दन्यं वृणुयात्पूर्वाहूतस्यैव दक्षिणा पश्चादाहूतः किञ्चि-
ल्लभते” इति । यदा त्वकारणमृत्विग् याज्य त्यजति
याज्यो वा ऋत्विजं, तदा तयोर्दण्डमाह मनुः ऋत्विजं
यस्त्यजेद् याज्यो याज्यमृत्विक् त्यजेद् यदि । शक्तं
कर्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम्” इति । नारदोऽपि
“ऋत्विक् च त्रिविधो दृष्टः पूर्वैर्जुष्टः स्वयंकृतः । यदृच्छया
च यः कुर्य्यादार्त्विज्यं प्रीतिपूर्वकम् । ऋत्विग्याज्य-
मदुष्टं यस्त्यजेदनपकारिणम् । अदुष्टञ्चर्त्विजं याज्यो
विनेयौ तावुभावपीति” । ये कृषिसाधने स्वसमानास्तैः
सह कृषिःकार्य्येत्याह वृहस्पतिः “वाह्यकर्षकवीजाद्यैः
क्षेत्रोपकरणेन च । ये समानास्तु तैः सार्द्धं कृषिः
कार्य्या विजानता” इति । वाह्याः लाङ्गलादिवाहकाः
वलीवर्दाः । कर्षकाः कृष्यर्थं स्वीकृताः पुरुषाः
आदिशब्देन कृषिसाधनानामन्येषां ग्रहणम् । सम्भूय-
कारिणां कृषकाणां कर्त्तव्यमाह वृहस्पातः “पर्वते
नगराभ्यासे तथा राजपथस्य च । ऊषरं मूषकव्याप्तं
क्षेत्रं यत्नेन वर्जयेत्” इति । पर्वते पर्वतसमीपे कल्प-
तरुकृता तु विवीत इति पठित्वा विवीतशब्देन
यवमाद्यर्थं रक्षितः प्रदेश इति व्याख्यातम् । नगराभ्यासे
नगरसमीपे । राजपथस्य समीप इति शेषः । एतदुक्तं
भवति पवताद्यासन्नमनासन्नमपि ऊषरं मूषकव्याप्नञ्च
क्षेत्रं वर्जयेदिति । वाह्येष्वपि वर्जनीयानाह स एव
“कृशातिवृद्ध क्षुद्रञ्च रोगिणं प्रपलायिनम् । काणं
खञ्जञ्च नादद्याद्वाह्यं प्राज्ञः कृषीवलः” इति । काणः
एकाक्षः खञ्जः भग्नचरणः । क्वचिदत्रैकस्यैव हानिमाह
स एव “वाह्यवीजात्ययाद्यस्य क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनामि” ति । सम्भूय-
कारिणामिति शेषः । वाह्यवीजग्रहणं कृषिसाधनाना-
मुपलक्षणार्थम् । सम्भूयकारिणा शिल्पिनां स्वरूपं
दर्शयंस्तेषां लाभविभागेऽंशपरिकल्पनाप्रकारमाह स एव
“हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् । संस्कर्त्ता
तत्कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः । हेमकारादयो
पृष्ठ ५२४७
यत्र शिल्पं सम्भूय कुर्वते । कर्मानुरूपं निर्वेशं लभेरं-
स्ते यथांशतः” इति । कुप्यं हेमरूप्यव्यतिरिक्तत्रपुसी-
सादिकम् । हेमरूप्ये इति प्रस्तुत्य ताभ्यां यदन्यत्कुप्य-
मित्यमरसिंहेनोक्तत्वात् । निर्वेशो भृतिः । कात्या-
यनोऽपि “शिक्षकाभिज्ञकुशला आचार्याश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् हरेयुस्ते यथोत्तरम्” इति ।
हर्म्यादिनिर्मातॄणां मध्ये मुख्यस्य भागद्वयमाह वृहस्पतिः
“हर्म्यं देवगृहं वापि वाटिकोपस्कराणि च । सम्भूय
कुर्वतां तेषां प्रमुख्यो द्व्यंशसर्हति” इति । नर्त्तकेष्वपि
मुख्यस्यांशद्वयभागित्वमतिदिशन् विशेषान्तरमाह स एव
“नर्त्तकानामेष एव धर्मः सद्भिरुदाहृतः । कालज्ञो लभते
ऽध्यर्द्धं गायनास्तु समांशिनः” इति । अध्यर्द्धम् अर्द्धा-
धिकमेकमंशम् । सम्भूयकारिणाञ्चौराणां लाभभागेऽंश-
परिकल्पनाप्रकारमाह कात्यायनः “परराष्ट्राद्धनं यत्
स्याच्चोरैः स्वाम्याज्ञया हृतम् । राज्ञे दशांशानुद्धृत्य
विभजेरन् यथाविधि । चौराणां मुख्यभूतस्तु चतुरो-
ऽंशांस्ततो हरेत् । शूरोऽंशांस्त्रीन् समर्थो द्वौ शेषा-
स्त्वेकैकमेव च” इति । एतद्धनं दुर्बलवैरिदेशादाहृतविष-
यम् प्रवलवैरिदेशादाहृते त्वाह वृहस्पतिः “स्वा-
म्याज्ञया तु यच्चौरैः परदेशात् समाहृतम् । राज्ञे
दत्त्वा तु षड्भागान् भजेयुस्ते यथांशतः । चतुरोऽंशान्
भजेन्मुख्यः शूरस्त्र्यंशमवाप्नुयात् । समर्थस्तु हरेत्द्व्यंशं
शेषास्त्वन्ये समांशिनः” इति । समर्थः शक्तः । एतेषां
हानिरप्येवमेवेत्याह कात्यायनः “तेषां चेत् प्रसृता-
नाञ्च ग्रहणं सममाप्नुयात् । तन्मोक्षणार्थं यद्दत्तं
वहेयुस्ते यथांशतः” इति । इयमंशपरिकल्पना ऋत्विग्-
भिन्नसम्भूयकारिणां समयाभावविषया कृते तु समये
तदनुसारेणैव । अतएव तेनैवोक्तम् “वणिजां कर्षका-
णाञ्च चौराणां शिल्पिनान्तथा । अनियम्यांशकर्तृणां
सर्वेषामेष निर्णयः” इति । अनियम्य लाभहान्योः
समयेन प्रतिपुरुषमशमकृत्वेत्यर्थः” ।

सम्भृति स्त्री सम् + भृ--क्तिन् । सम्यक् पोषणे ।

सम्भेद पु० संभिद्यते संश्लिष्यतेऽत्र सम् + भिद--आधारे घञ् ।

१ नद्योः सङ्गमस्थाने अमरः । भावे घञ् । २ सङ्गमे
३ सम्यग्भेदने ४ स्फुटने ५ मिलने मेदि० ६ ऐकरूप्ये च
“सम्भेदे नान्यतरवैयर्थ्यम्” इति मीमांसायां न्यायः ।

सम्भोग पु० सम् + भुज--घञ् । १ सम्यग्भोगे २ सुरते २ मित्र

शासनभेदे मेदि० ४ हर्षे शब्दच० ५ केलिनागरे जटा०
“दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्ताव-
न्योन्यं सम्भोगः स उदाहृतः” उक्तलक्षण ६ शृङ्गार-
स्यावस्थामेदे सा० द० ।

सम्भ्रम पु० सम् + भ्रम--घञ् न वृद्धिः । १ भयादिजनिते वेगे

अमरः । २ त्वरायां ३ तद्धेतुके ४ मये ५ आदरे मेदि० ।
७ अतिशयभ्रमे ७ सूत्रे अजयः ।

सम्मति स्त्री सम् + मन--क्तिन् । १ अनुमतौ २ अभिलाषे च

मेदि० । ३ आत्मज्ञाने अजयः ।

सम्मद पु० सम् + मद--घञर्थे क । १ हर्षे अमरः । कर्त्तरि अच् २ हर्षयुक्ते त्रि० ।

सम्मर्द पु० संमृद्यतेऽत्र सम् + मृद--आधारे घञ् । १ युद्धे ।

भावे घञ् । २ अन्योन्यसंघर्षे च ।

सम्मातुर पु० समीच्याः सत्या मातुरपत्यम् अण् उत् रपरः

बा० न वृद्धिः । सतीतनये भाद्रमातुरे हेमच० ।

सम्मान पु० सम् + मन--घञ् । आदरे ।

सम्मानित स्त्री सम + मन--णिच्० क्त । १ कृतगौरवे २ समादृते च ।

सम्मार्जन स्त्री सम् + मृज--ल्यु । संशोधने रत्नमा० ।

सम्मार्जनी स्त्री संमृज्यतेऽनया सम् + मृज--करणे ल्युट्

ङीप् । धूल्याद्यपसारणार्थे पदार्थे (झाँटा) अमरः ।
ण्वुल् । सम्मार्जक तत्रार्थे पु० शब्दर० ।

सम्मित त्रि० सम् + मा--क्त । १ सदृशे २ तुल्यपरिमाणे च जटा०

सम्मुख त्रि० सङ्गतं मुखं येन प्रा० ब० । अभिमुखागते त्रिका० ।

सम्मुखीन त्रि० सम्मुख पतति ख । अभिमुखे पातिनि ।

सम्मूर्च्छज न० सम्मूच्छात् जायते जन--ड । तृणादौ हेमच०

सम्मूर्च्छन न० सम् + मूर्च्छ--ल्युट् । १ सम्यगविस्तारे अमरः ।

२ उन्नतौ ३ मोहे च मेदि० । ४ सम्यक्मूर्च्छने खरभेदे ।

सम्मूर्जनोद्भव पु० सम्मूर्जनादुद्भवति उद् + भू--अच् ५ त० ।

मत्स्ये हेमच० ।

सम्मृष्ट त्रि० सम् + मृज--क्त । १ कृतमार्जने अमरः । मक्षि-

काद्यपसारणेन २ शोधितेऽन्नादौ च भरतः ।

सम्मोद पु० सम् + मुद--घञ् । १ हर्षे २ प्रीतौ च शब्दच० ।

सम्यच् अव्य० सम् + अन्च--क्विप् सम्यादेशः । १ शोभने

२ सङ्गते ३ मनोज्ञो च मेदि० । ४ सत्यवाक्ये न० भरतः
५ तद्वति त्रि० भत्वे समीच इत्यादि । स्त्रियां ङीप् समीची ।

सम्राज पु० सम्यक् राजते राज--क्विप् नानुस्वारः ।

कृतराजसूययज्ञे सर्वमूमीश्वरे नृपतौ अमरः ।

सय्यँम पु० सम् + यम--करणे घञ् समो वा परसवर्णोऽनु-

नासिको यँः पक्षे संयमः । पात० सू० परिभाषिते
धारणाध्यानसमाधित्रये “त्रयमेकत्र संयमः” पात० सू० “तदेतस्य
पृष्ठ ५२४८
धारणाध्यानसमाधित्रयस्यैकत्र संयमः एकविषयाणि
त्रीणि साधनानि संयम इत्युच्यते तदस्य त्रयस्य तान्त्रिकी
परिभाषा संयमः इति” भा० ।

सर न० सरति सृ--अच् । १ सरोवरे शब्दच० । २ जले जटा० ।

३ लवणे ४ वाणे च हमच० । ५ दध्यग्रे दधिमस्तौ रत्नमा० ।
६ तज्जाते नवनीते च । भावे अच् । ७ भेदने ८ गमने
च । कर्त्तरि अच् । ९ सारके १० भेदके राजनि० ।

सरक पु० न० सृ--वुन् । १ मद्यपानपात्रे भरतः २ मद्यपरि-

वेशने ३ इक्षुजमद्ये ४ तत्पात्रे ५ अविरलपथिकपङक्तौ च
मेदि० ६ गतिशीले त्रि० शब्दर० ।

सरघा स्त्री सरं मद्यभेदं हन्ति हन--ड नि० । मधुमक्षिकायाम् अमरः ।

सरङ्ग पुं स्त्री० सृ--अङ्गच् । १ चतुष्पाद्जन्तौ २ खगे च

संक्षिप्तसा० स्त्रियां ङीष् ।

सरज न० सरात् जायते जन--ड । नवनीते हारा० ।

सरजस् स्त्री सह रजसा सहस्य सः । १ ऋतुमत्यां स्त्रियाम्

२ रजोयुक्ते त्रि० । अव्ययी० अच् समा० । सरजस्य
३ रजःसाहित्ये अव्य० अमरः ।

सरट पुंस्त्री० सृ--अटन् । कृकलासे (काँकलास)अमरः ।

स्त्रियां ङीष् । देहे तत्प्ररोहणादिफलं यथा
“वल्ल्याः प्रपाते च फलं सरटस्य प्ररोहणे । शीर्षे
राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव च । कर्णयोर्भूषणा-
वाप्तिर्नेत्रयोर्बन्धुदर्शनम् । नासिकायाञ्च सौगन्ध्यं वक्त्रे
मिष्टान्नभोजनम् । कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो
भवेत् । धनलाभो वाहुमूले करयोर्धनवृद्धयः । स्तनमूले
च सौभाग्यं हृदि सौख्यविवर्द्धनम् । पृष्ठे नित्यं मही
लाभः पार्श्वयोर्बन्धुदर्शनम् । कटिद्वये वस्त्रलाभो गुह्ये
मृत्युसमागमः । जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं
भवेत् । ऊर्वोश्च वाहनावाप्तिर्जानुजङ्घेऽर्थसक्षयः ।
वामदक्षिणयोः पदोर्भ्रमणं नियतं भवेत् । वल्ल्याः
प्ररोहणे चैव पनने सरटस्य च । व्यत्यासाञ्च फलं चैव
तद्वदेवं प्रजायते । वल्ल्याः प्ररोहणं रात्रौ सरटस्य
प्रपातनम् । निधनार्धाय भवति व्याधिपीड़ाविप-
र्य्ययौ । पतनानन्तरं चैवारोहणं यदि जायते । पतने
फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत् । आरोहणञ्चोर्द्ध्व-
वक्त्रे अधोवक्त्रे च पातगम् । भवेदिष्टफलं तस्य तत्फलं
जायते ध्रुवम् । स्पृष्टमात्रेण वा सद्यः सचेलं जलमा-
विशेत् । पञ्चगव्यप्राशतञ्च कुर्य्यादर्कावलोकनम्” दिवाकरः

सरट् पु० सृ--अटि । १ वायौ २ मेघे उणादिकोषः ।

३ सरथायां सिद्धान्तकौमुदी । ४ कृकलासे अमरटीका ।

सरटि पु० सृ--अटिन् । १ वायौ २ मेघे च उणादि० ।

सरटु पु० सृ--अटु । कृकलासे उणादिकोषः ।

सरण न० सृ--ल्युट् । १ गमने २ लोहमले हेमच० । (गन्धभा-

दाल) ३ लतायां स्त्री अमरः टाप् । ४ त्रिवृतायां शब्दमा० ।

सरणि(णी) स्त्री सृ--अनि वा ङीप् । १ पथि २ पङ्क्तौ

मेदि० २ प्रसारण्यां भरतः । ३ त्रिवृतायां स्त्री शब्दमा० ।

सरण्ड पु० सृ--अण्डच् । १ खगे २ कामुके शब्दच० ३ धूर्त्ते

४ सरटे ५ भूषणभेदे मेदि० सर्वत्र जातौ स्त्रियां ङीष् ।

सरण्यु सृ--अन्यु । १ वायौ २ मेघे ३ जले शब्दर० ४ वसन्ते

५ अग्नौ उणादिकोषः ।

सरत् त्रि० सृ--शतृ । १ गन्तरि स्त्रियां ङीप् सरन्ती । २ सूत्रे न० शब्दमाला ।

सरत्नि पु० सह रत्निना । रत्निशब्दार्थे अमरटीका ।

सरपत्त्रिका स्त्री सरे जले पत्त्रमस्त्यस्याः ठन् । १ पद्म-

पत्त्रे २ पद्मे च शब्दच० ।

सरमा स्त्री सह रमते रम--अच् । १ कुक्कुरयोषिति २

टबशून्यां ३ राक्षसीभेदे विभीषणपत्न्याञ्च मेदि० । ४ कश्य-
पार्षकन्याभेदे “गोलाङ्गूलश्चकोरश्च श्येन्यापत्यं तथैव च ।
अपत्यं सरमायाश्व गणो वै भ्रमरादयः” वह्निपु० ।

सरयु पु० सृ--अयु । १ वायौ त्रिका० । ऊङ् । २ अयोध्यान्तिक०

वाहिनदीभेदे स्त्री । तदुत्पत्तिः कालिकापु० २३ अ०
यथा “एवं विवाह्य विधिवत् सौवर्णे मानसाचले । तत्र
यत् पतितं तोयं मानसाचलकन्दरे । तत्तोयं सप्तधा
भूत्वा मानसाचलकन्दरात् । हेमाद्रेः कन्दरे सानौ
सरस्याञ्च पृथक् पृथक्” इत्युपक्रमे “तेनाभूत् सरयू-
र्नाम्ना नदी पुण्यतमा शुभा” । तस्यां भवः अण् नि० ।
सारव तत्र भवे त्रि० अमरः ।

सरल पु० सृ--अलच् । १ पीतशाले अमरः “सरलो

मधुकस्तिक्त कटुपाकरसो लघुः । स्निग्धोष्णः कर्णकण्ठाक्षि-
रोगरक्षोहरः स्मृतः । कफानिलस्वेदयूककामलाक्षिव्र-
णापहः” भावप्र० तद्गुणोक्तिः । २ धूपकाष्ठभेदे शब्दर०
३ उदारे ४ ऋजौ च त्रि० मेदि० ५ त्रिपुटायां स्त्री अमरः

सरलद्रव पु० ६ त० । सरलवृक्षनिर्य्यासे (टारपोन) अमरः ।

सरलाङ्ग पु० सरलो वृक्षोऽङं साधनं यस्य । श्रीवेष्टे

गन्धद्रव्ये राजनि० ।

सरस् न० सृ--असुन् । १ जले रुद्रः । २ सरोवरे अमरः ।

गौरा० ङीष् । ३ सरसीत्यप्यत्र स्त्री अमरः “सरसीः
परिशीलितुं मया” नैषधम् ।
पृष्ठ ५२४९

सरस न० सह रसेन जलेन आखादेन च सहस्य सः । १ सरोवरे

शब्द च० २ रसान्विते ३ सार्द्रे च त्रि० । “सरसां सरसां
परिमुव्य तनुम्” भट्टिः । ३ श्वेतत्रिवृतायां स्त्री रायमु० ।

सरसम्प्रत न० सरमिव निर्यासं सम्प्रतनोति सम् + प्र +

तनड । त्रिकण्टकवृक्षे (तेकाटासिजु) शब्दच० ।

सरसिज न० सरसि जायते जन--ड अल्क् समा० । १ पद्मे

राजान० “सरसिजमनुविद्धं शैवलेनातिरद्यम्” शकु
न्तला । २ सारसखगे पुंस्त्री० स्त्रियां ङीष् । लुकि
सरोजमप्यत्र ।

सरसीक पुंस्त्री० सरस्यां कायति कै--क । सारसखगे शब्दर० स्त्रियां ङीष् ।

सरसीरुह न० सरम्यां सरोवर रोहति रुह--क । १ पद्मे

२ सारसखगे च पुंस्त्री० अमरः स्त्रियां ङीष ।

सरस्वत् पु० सरांसि जलानि सन्त्यस्य मतुप मस्य वः ।

१ सरावरे २ सागरे ३ नदे ४ रसिके त्रि० मेदि० ५ नद्यां
६ बाण्यां ७ गवि ८ स्त्रीरत्ने स्त्री मेदि० ङीप् । सा च
९ ज्योतिष्मत्यां १० ब्राह्म्यां शक्तौ राजनि० । ११ देवीभेदे
मेदि० १२ सीमलतायां शब्दच० । १३ बुद्धशक्तिभेदे
त्रिका० १४ दुर्गायाम् “सराः सरणशीलत्वात् गेयाख्ये
सप्त कीर्त्तिताः । अति प्रापणदाने वा तेन देवी
सरस्वती” देवीपु० ४५ अ० तन्नामनिरुक्तिः । पृषो० । १५
वागधिष्ठातृदेव्याम् “आविर्बभूव तत्पश्चात् मुखतः
परमात्मनः । एषा देवी शुक्लवर्णा वीणापुस्तकधारिणी ।
वागधिष्ठातृदेवी सा कवीनानिष्टदेवता । शुद्धसत्त्वस्वरूपा
च शान्तरूपा सरस्वती” ब्रह्मवै० ब्र० ख० ३ अ० । तत्रैव
गणे० ७० अ० “वागधिष्ठात्री या देवी शास्त्रज्ञानप्रदा
सदा । कृष्णकण्ठोद्भवा या च सा च देवी सरस्वती” ।
“बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत्” मत्स्यसू०
तत्पूजादिकं तन्त्रसा० दृश्यम् । १६ सन्ध्याकाले उपास्यदे-
वतायां गायत्रीशब्दे २५८३ पृ० दृश्यम् । सरः ब्रह्म-
सरः उत्पत्तिस्थानत्वेनास्त्यस्याः मतुप् मस्य वः ङीप् ।
१७ नदीभेदे सरस्वतीनद्या तथोत्पत्तिकथा च “प्रस्नुतासि
महाभागे सरसो ब्रह्मणः पुरा । जानन्नि त्वां
सरिच्छ्रेष्ठे मुनयः संशितव्रताः” भा० श० ५ अ० । तस्याश्च
सप्तनोमत्वं यथा “राजन्! सप्त सरस्वत्यो याभिर्व्याप्त-
मिदं जगत् । आहूता बलवद्भिहि तत्र तत्र सरस्वती ।
तप्रभा १ काञ्चनाक्षो २ च विशाला ३ च मनोरमा ४ ।
सरस्वती ५ चोघवती ६ सुरेणु ७ र्बिमलोदका” भा० श०
२९ श० । तासां नामकारणञ्च तत्राध्याये दृश्यम् तस्या
माहात्म्यं तत्रैव सारस्वतोपाख्याने दृश्यम् ।

सरा स्त्री सृ--अच् । १ प्रसारण्यां राजनि० २ निर्झरे द्विरूपकोषः ।

सराव पु० सर जलमवति अव--अण् । १ जलाधारे मृण्मये

पात्रभेदे(शरा)द्विरूपकोषः । सह रावेण । २ सशब्दे त्रि०

सरि पुंस्त्री० सृ--इन् स्त्रीत्वपक्षे वा ङीप् । निर्झरे हेमच० ।

सरिका स्त्री सरोऽस्त्यस्याः ठन् सृ--वुन् वा । हिङ्गुपत्त्रिका-

याम् शब्दर० ।

सरित् स्त्री सृ--इति । १ नद्याम् अमरः २ सूत्रे शब्दमा० ।

“क्रियाकारकरूपत्वात् सरणाच्च सरिन्मता” देवीपु०
४५ अ० निरुक्तायां ३ दुर्गायाम् ।

सरित्पति पु० ६ त० । समुद्रे अमरः । सरिन्नाथादयोऽत्यत्र

सरित्वत् पु० सरित् स्वामित्येनास्त्यस्य मतुप् मस्य वः तान्तत्वेन

पदत्वाभावात् न तस्य दः । समुद्रे ।

सरित्सुत पु० ६ त० । गङ्गापुत्त्रे भीष्मे ।

सरिताम्पति पु० ६ त० अलुक् समा० । १ समुद्रे शब्दर० ।

सरितांनाथादयोऽप्यत्र ।

सरिद्वरा स्त्री सरित्सु वरा श्रेष्ठा । गङ्गायाम् हेमच० ।

सरिल न० सृ--इलच् । जले अमरटीकायां भरतः ।

सरिमन् पु० सृ--इमनि । १ वायौ २ गतौ च उणादि० ।

सरिषप पु० सर्षप + पृषो० । मर्षपे त्रिका० ।

सरीसृप पुंस्त्री० वक्रं सर्पति सृप--यङो लुक्, अच् ।

१ सर्पे अमरः । २ वृश्चिकादौ । ज्योतिषोक्तेषु ३ मीनवृ-
श्चिककर्कटराशिषु “वृश्चिकराशिर्मुनिभिः सरीसृपत्वेन
निर्दिष्टः” ज्यो० त० । “सृगपतिवशे तिष्ठन्त्येते विहाय
सरीसृपान्” ज्यो० त० बहुवचनात् मीनकर्कटयोर्ग्रहणम्

सरु पु० सृ--उन् । खङ्गादिमुष्टौ सारसुन्दरी ।

सरूप त्रि० समानं रूपमस्य समानस्य सः । तुल्यरूपे सदृशे जटा०

सरोज न० सरसि जले जायते जन--ड । १ पद्मे हेमच० ।

२ सारसखगे पुंस्त्री० स्त्रियां ङीष् । ३ सरोजातमात्रे त्रि० ।

सरोजन्मन् न० सरसि जले जन्म यस्य । १ पद्मे हेमच० ।

२ सारसखगे ३ तडागजातमात्रे त्रि० ।

सरोजिन् पु० सरोजं विष्णुनाभिपद्ममुत्पत्तिस्थानत्वेनास्त्यस्य

इनि । चतुर्मुखे ब्रह्मणि त्रिका० ।

सरोजिनी स्त्री सरोजानां समूहः सन्निकृष्टदेशो वा इनि

ङीप् । १ पद्मसमहे रत्नमा० २ तद्युक्तदेशरूपायां पद्मल-
तायाम् ३ पद्माधारदीर्घिकायाञ्च मेदि० ।

सरोत्सव पुंस्त्री० सरे जले उत्सवोऽस्य । सारसखगे शब्दर० स्त्रियां ङीष् ।

सरोरुह्(ह) सरसि रोहति रुह--क्विप् क वा । १ पद्मे

हेमच० । कान्तस्तत्रार्थे रत्नमा० २ सारसखगे च पुंस्त्री० ।
पृष्ठ ५२५०

सरोरुहासन पु० सरोरुहं पद्ममासनं यस्य । चतुमुंखे

ब्रह्मणि हेमच० तस्य विष्णुनाभिपद्मस्थितत्वात्तथात्वम् ।
२ पद्मापविष्टमात्रे त्रि० ।

सरोवर पु० सरोभिर्जलैर्ब्रयतेऽसौ वृ--अप् । तड़ागे शब्दर० ।

तड़ागशब्दे ३२४० पृ० दृश्यम् ।

सर्क पु० सृ--क तस्य नेत्त्वम् । १ वायौ २ मनसि ३ प्रजापतौ च संक्षिप्तसा० ।

सर्ग पु० सृज--घञ् । १ स्वभावे २ सृष्टौ ३ निर्मोहे काव्यादेः

४ परिच्छेदे “सर्गोऽयमादिर्गतः” इति नैषधम् । ५ निश्चये
अमरः “यदि सर्ग एष ते” इति रघुः । ६ मोक्षे
७ उत्साहे मेदि० ८ अनुमतो हेमच० ।
सृष्टिरूपः सर्गश्च नवविधः भाग० ३ । १० अ० उक्तो यथा
“सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्य-
गुणैरस्य त्रिविधः प्रतिसंक्रमः । आद्यस्तु महतः सर्गो
गुणवैषभ्यमात्मनः । द्वितीयस्त्वहमो यत्र द्रव्यज्ञान-
क्रियोदयः । भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ।
चतुर्थ ऐन्द्रियः सर्तो यस्तु ज्ञानक्रियात्मकः । वैकारिको
देवसर्गः पञ्चमो यन्मयं मनः । षष्ठस्तु तमसः सर्गो
यस्त्वबुद्धिकृतः प्रभोः । षडिमे प्राकृताः सर्गा वैकृता-
नपि मे शृणु । रजोभाजो भगवतो लीलेयं
हरिमेधसः । सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः ।
वनस्पत्योषधिलतात्वक्सारावीरुधो द्रुमाः । उत्स्रोत-
सस्तमःप्राया अन्तःस्पर्शाविशेषिणः । तिरश्चामष्टमः
सर्गः सोऽष्टविंशद्विधो मतः । अविदो भूरितमसो
घ्राणज्ञा हृद्यवेदिनः । गौरजो महिषः कृष्णः शूकरो
नवयो रुरुः । द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम! ।
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा । एते
चैकशफाः क्षत्तः! शृणु पञ्चनखान् पशून् । श्वा शृगालो
वृको व्याव्रो मार्जारः शशशल्लकौ । सिंहः कपिर्गजः
कूर्मो गोधा च मकरादयः । कङ्कगृध्रवकश्येनभास-
भल्लूकवर्हिणः । हंससारसचक्राङ्गकाकोलूकादयः खगाः ।
अर्वाक्स्रोतास्तु नवमः क्षत्तरेकविधो नृणाम् । रजोऽ-
धिकाः कर्मपरा दुःखे च सुखमानिनः । वैकृतास्त्रय
एवैते देवसर्गाश्च सत्तम! । वैकारिकस्तु यः प्रोक्त
कौमारस्तूभयात्मकः । देवसर्गश्चाष्टविधो विबुधाः पितरो-
ऽसुराः । गन्धर्वाप्मरसः सिद्धा यक्षरक्षांसि चारणाः ।
भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः । दशैते
विदुराख्याता सर्गास्ते विश्वसृक्कृताः” ।

सर्गबन्ध पु० बन्ध--भावे घञ् सर्गैर्बन्धः ३ त० “कृदभिहितभावो

द्रव्यवत् प्रकाशते” इति न्यायात् सर्गबन्धस्य कर्मपरता
न कर्मणि घञ् तथःत्वे महाकाव्यविशेषणतया क्लीवता-
पत्तेः । महाकाव्ये तल्लक्षणं महाकाव्यशब्देऽनुक्तत्वात् अत्र
दर्श्यते सा० द० “सर्गबन्धो महाकाव्यं तत्रैको नायकः
सुरः । सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ।
एकवंशभवा भूपाः कुलजा बहवोऽपि वा । शृङ्गारवी-
रशान्तानामेकाऽङ्गी रस इष्यते । अङ्गानि सर्वेऽपि
रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा
सज्जनाश्रयम् । चत्वारस्तस्य वर्गाः स्युस्तेष्वेकञ्च फलं
भवेत् । आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ।
क्वचिन्निन्दा खलादीनां सताञ्च गुणकीर्त्तनम् ।
एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः । नातिस्वल्पा नाति-
दीर्घाः सर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि
सर्गः कश्चन दृश्यते । सर्गान्ते भाविसर्गस्य कथायाः
सूचनं भवेत् । सन्ध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः ।
प्रातर्मध्याह्नमृगयाशैलर्त्तुवनसागराः । सम्भोगविप्रलम्भौ
च मुनिस्वर्गपुराध्वराः । रणप्रयाणोपयममन्त्रपुत्रोदया-
दयः । वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ।
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा । नामास्य
सर्गोपादेयकथया सर्गनाम तु” ।

सर्ज सर्जने भ्वा० पर० सक० सेट् । सर्जति असर्जीत सृजि-

वर्जने सर्जस्यापि वर्जनं तेन षोपदेशत्वाभावान्न षत्वम् ।
तत्र प्रमाणाभावात् षोपदेश एव न्याय्यः ।

सर्ज पु० सृज--अच् । १ शालवृक्षे अमरः । २ तद्रसे (धुना) ३ पीतशाले शब्दच०

सर्जक पु० सृज--ण्वुल् । १ पीतशाले अमरः २ शालवृक्षे जटा०

सर्जगन्धा स्त्री सर्जस्येव गन्धो यस्याः । रास्नायां रत्नमा० ।

सर्जन न० सृज--ल्युट् । १ सैन्यपश्चाद्भागे शब्दर० २ सृष्टौ च ।

सर्जनिर्य्यासक पु० सर्जस्य निर्यास इव कायति कै--क ।

राले (धुना) राजनि० ।

सर्जमणि पु० सर्जस्य शालवृक्षस्य मणिरिव । (धुना) सर्जरसे त्रिका० ।

सर्जरस पु० ६ त० । शालवृक्षरसे (धुना) अमरः ।

सर्जि(र्जी) स्त्री सृज--इन् वा ङीप् । १ नदीभेदे २ तत्कू-

लजे सर्जिकाक्षारे (साजिमाटि) रत्नमा० ।

सर्जिका स्त्री सृज--ण्वुल् टाप् अतैत्त्वम् । १ सर्जिकाक्षारे

“पाक्यक्षारो यवक्षारो यावशूको यवाग्रजः । सार्जि-
कोऽपि स्मृतः क्षारः कापोतः सुखवर्चकः । कथितः
सजिकाभेदो विशेषज्ञैः सुवर्चिका । यवक्षारो लघुः
पृष्ठ ५२५१
स्निग्धः सुसूक्ष्मो वह्निदीपनः । निहन्ति शूलं वाताम-
श्लेष्मश्वासगलामयान् । पाण्ड्वर्शोग्रहणीगुल्मानाह
प्लीहहृदामयान् । सर्जिकाल्पगुणा तस्माद्विशेषाद्गुल्म-
शूलहृत् । सुवर्चिका सर्जिकावद् बोद्धव्या गुणतो जतै”
भावप्र० । २ नदीभेदे च जटा० ।

सर्जिकाक्षार स्त्री सर्जिकायाः क्षारः । स्वनामख्याते क्षार-

भेदे (साजिमाटि) राजनि० ।

सर्जिक्षार पु० ६ त० । (साजिमाटि) सर्जिकाक्षारे राजनि० ।

सर्जु पु० सृज--उन् । बणिग्जने मेदि० ।

सर्जू स्त्री सृज--ऊ । १ विद्युति मेदि० २ अभिसारे शब्दर० ।

सर्ज्य पु० सर्जस्येदं यत् । १ सर्जरसे रत्नमा० । सृज--ण्यत् ।

२ सर्जनीये त्रि० ।

सर्प पु० सृप--अच् । १ नागकेशरे उणा० । २ भुजङ्गमे पुंस्त्री०

अमरः स्त्रियां ङीष् । ३ सर्पदैवते अश्लेषानक्षत्रे ज्यो० त०
“सर्पणादऽभवन् सर्पा हीनत्वादहयः स्मृताः” वह्निपु०
तन्नामनिरुक्तिः । भावे घञ् । ४ गमने सुश्रुतोक्तं
तद्भेदादिकम् अहिशब्दे ५८१ पृ० दृश्यम् । तद्दंशने तस्य
दंष्ट्र भेदेन विषादिकं च भविष्यपु० उक्तं यथा
“दष्ट्रा शुक्ला च कृष्णा च रक्ता पीता च दक्षिणा ।
समासेन तु वक्ष्यामि यथा वै वर्णतः स्मृताः । शुक्ला तु
ब्राह्मणी ज्ञेया रक्ता तु क्षत्रिया स्मृता । वैश्या तु
पीतिका ज्ञेया कृष्णा शूद्रा तु कथ्यते । अतापरं प्रव-
क्ष्यामि दंष्ट्राणां विषलक्षणम् । दंष्ट्रायान्तु विषं नास्ति
नित्यमेव भुजङ्गमे । दक्षिणं नेत्रमासाद्य विषं सर्पस्य
तिष्ठति । संक्रुद्धस्यैव सर्पस्य विषं गच्छति मस्तके ।
मस्तकाद्धमनीं याति ततो नाड़ीषु तिष्ठति । नाड़ीभ्यो
गच्छते दंष्ट्रे विषं तत्र प्रवर्त्तते । तत्सर्वं कथयिष्यामि
यथावदनुपूर्वशः । अष्टमिः कारणैः सर्पो दशते नात्र
संशयः । आक्रान्तो दशते पूर्वं द्वितीयं पूर्ववैरिणम् ।
तृतीयं दशते भीतश्चतुर्थं मददर्पितः । पञ्चमन्तु क्षुधा-
विष्टः षष्ठञ्चेह विषोल्वणः । सप्तमं पुत्ररक्षार्थम् अष्टमं
कालचोदितम् । यस्तु सर्पो दशित्वा तु उदरं परिवर्त्त-
येत् । बलभुग्नाकृतिर्दंष्ट्रा आक्रान्तं तं विनिर्दिशेत् ।
यस्य सर्पेण दष्टस्य गम्भीरं दृश्यते व्रणम् । वैरदष्टं
विजानीयात् कश्यपस्य वचो यया । एकदंष्ट्रा पदे यस्य
अव्यक्तं न च कोपितम् । भीतदष्टं विजानीयात्
यथोवाच प्रजापतिः । यस्य सर्पेण दष्टस्व रेखा दण्डस्य
जायते । मददष्टं विजानीयात् कश्यप्रस्य वचो यथा ।
द्वे च दंष्ट्रापदे यस्य दृश्येते च महाक्षतम् । क्षुघाविष्टं
वि जानीयात् यथोवाच प्रजापतिः । द्वे दष्ट्रे यस्य
दृश्येते क्वचिद्रुधिरसंकुले । विषोल्वणं विजानीयाद्वंशं
तं नात्र संशयः । द्यपत्यरक्षणार्थायं जानीयान्नात्र
संशयः । यत्तु काकपदाकारं त्रिभिर्दन्तैर्विछिद्रितम् ।
महानाग इति प्रोक्तः कालदष्टं विनिर्दिशेत् । द्विविधं
दष्टजातेस्तु लक्षणं समुदाहृतम् । दष्ट दष्ट्वा तु पीतञ्च
दष्ट्वोद्धृतं तथैव च । यस्तु सर्पो दशित्वा तु पिबते तु
विचक्षणः । दष्ट्वा तु पीतं विज्ञेयं कश्यपस्य वचो यथा ।
विषभागो तु सर्पस्य त्रिभागस्तत्र संक्रमेत् । उदरं दर्श-
येद् यस्तु उद्धृत तं विनिर्दिशेत् । छर्दितं विषपेगेन
निर्विषः पन्नगो भवेत् । अमाध्यश्चापि विज्ञेयश्चतुर्दंष्ट्राभि
पीडितः । पीवाभङ्गो भवेत् किञ्चित् सदष्टो विषयो-
गतः । आर्द्राऽश्लेषामघायाम्यकृत्तिकासु विशेषतः ।
विशाखासु त्रिपूर्वासु मूलास्वातिशतात्मके । सर्पदष्टा
न जीवन्ति विषं पीतञ्च यैस्तथा । शून्यागारे श्मशाने
च शुष्कवृक्षे तथैव च । न जीवन्ति नरा दष्टा नक्षत्रे
तिथिसंयुते । हतो दंशस्ततः शुद्वोव्यन्तरः परिकीर्त्तितः”
भविष्यपु० “अतःपरं प्रवक्ष्यामि कालदष्टस्य लक्षणम् ।
“जिह्वाभङ्गो हृदिशूलं चक्षुर्भ्याञ्च न पश्यति । दशञ्च
दग्धसङ्काशं पक्वजम्बूफलोपमम् । वैवर्ण्यं चैव टलानां
श्यामो भवति वर्णतः । सर्वेष्वङ्गेषु शैथिल्यं पुरीषस्य च
भेदनम् । भग्नस्कन्धकटिग्रीव ऊर्द्ध्वदृष्टिरयोमुखः ।
दह्यते वेपते चैव स्वपते च मुहुर्मुहुः । शस्त्रेण छिद्य-
सानस्य रुधिरं न प्रवर्चते । दण्डेन ताड्यमानस्य दण्ड-
राजी न जायते । दंशे काकपदे सुनीलमसकृज्जम्बू-
फलाभं घनम् घच्छूनं रुधिराङ्गसेकबहुलं कृच्छ्रान्नि-
रोधो भवेत् । हिक्काश्वासगलग्रहस सुमहान् या
दुस्त्वचा दृश्यते संस्थानं प्रवदन्ति शास्त्रनिपुणास्तं
कालदष्टं पिदुः । दंशे यस्याथ शोथः प्रचलितवलितं मण्डलं
वा सुनीलं प्रस्वेदो णात्रमेदः स्रयांत च रुधरं सानु-
नासञ्च जल्पेत । दलोष्ठाभ्यां वियोसो म्रसति च हृदयं
सन्निरोधश्च तीज्ञो दिव्यानामेव दशरथलविपुलमयो किद्धि
तं कालदष्टम । दलैर्दन्तान् स्पृशति बहुलो दृष्टि-
रायासखिन्ना स्थूलो दंष्ट्रः स्रवति रुधिरं केकरं
चक्षुरेकम् । प्रत्वादिष्टः श्वसिति सततं सानुनासञ्च भाषेत्
यद् यद् ब्रूते सकलनदितं कालदष्टं तमायुः । वेपते
वेदनातस्तु रक्तनेत्रश्व जायते । प्रीयाभङ्गश्च लालाभिः
पृष्ठ ५२५२
कालदष्टं विनिर्दिशेत् । दर्पणे सलिले वापि आत्म-
च्छायां न पश्यति । मन्दरश्मि तथा दीपं तेजोहीनं
दिवाकरम् । वेपते वेदनातस्तु रक्तनेत्रश्च जायते । स
याति निधनं जन्तुः कालदष्ट विनिर्दिशेत् । अष्टम्याञ्च
नवम्याञ्च कृष्णपक्षे चतुर्दशीम् । नागपञ्चमीदष्टानां
जीवितस्य च संशयः । आर्द्राऽश्लेषामथायाम्यकृत्तिकासु
विशेषतः । विशाखासु त्रिपूर्वासु मूलास्वातिशता-
त्मके । सर्पदष्टा न जीवन्ति विषं पीतञ्च यैस्तथा ।
शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च । न जीवन्ति
नरादष्टा नक्षत्रे तिथिसंयुते । अष्टोत्तर मर्मशतं प्राणिनां
समुदाहृतम् । तेषां मध्ये तु मर्माणि दश द्वे चापि
कीर्त्तिते । शङ्खे नेत्रे भ्रुवोर्मध्ये वस्तिभ्यां वृषणान्तरे ।
कक्षे स्कन्धे हृदिमध्ये तालुके चिवुके गुदे । एषु
द्वादशकर्मसु दष्टः शस्त्रेण वा हतः । न जीवन्ति
नरा लोके कालदष्टान् विनिर्दिशेत्” । दूतो वा
दण्डहस्तो भवति च युगलं पाशहस्तस्तथा वा रक्तं
वस्त्रञ्च कृष्णम् ह्यथ शिरसि गतम् चैकवस्त्रश्च दूतः ।
तैलाभ्यक्तश्च तद्वत् त्वरितगतियुतो युक्तकेशश्च याति, यः
कुर्य्यात् घोरशब्दं करचरणयुगैः प्राप्तकालस्य दूतः ।
नागोदयं प्रवक्ष्यामि ईशानेन तु भाषितम् । ब्रह्मणा
तु पुरा सृष्टा ग्रहा नागास्त्वनेकशः । अनन्त भास्कर
विद्यात् सोम विद्यात्तु वासुकिम् । तक्षकं भूमिपुत्रन्तु
कर्कोटञ्च बुधं विदुः । पद्म वृहस्पतिं विद्यान्महा-
पद्मञ्च भार्गवम् । कुलिकः शङ्खपालश्च द्वावेतौ तु
शनैश्चरः । पूर्वपादः शङ्खपालो द्वितीयः कुलिकोऽस्य च ।
नेत्रभागे यमौ दिष्टौ दिनरात्री तथैव च । शुक्रसोमौ
च सध्याह्ने उदये तु क्षमासुतम् । प्राणः प्रागष्टमे भागे
दिवासन्धाविहोच्यते । ग्रहाश्च भुञ्जते० राजन्! पथि
मृत्यु व्रजत्यधः । अधो गत्वा भवेत् सर्पो निर्विषो
नात्र संशयः” भविष्यपु० “मास्याषादे तथा ज्यैष्ठे प्रमा-
द्यस्ति भुजङ्गमाः । ततो नागो नागिनी च मैथुनं
संप्रपद्यो । चतुरो वार्षिकान् मासान् नागी गर्भमधा-
रयत् । ततः कार्त्तिकमासे तु अण्डकानि प्रसूयते ।
अण्डकानान्तु विज्ञेयं द्वे शते द्वे च विंशती । तान्येव
भक्षयेत् सा तु भागैकं घृणया त्यजेत् । सुवर्णार्कवर्ण-
निभात् पुमात् संजायतेऽण्डकात । तानेव खदते
सपी अहोरात्राणि विशतिम् । अर्कोदकसुवर्णाभात्
दीर्घराजीवसन्निमात् । तस्मादुत्पाद्यते स्त्री वै अण्डाद्
व्राह्मणसत्तम! । शिरीषपुष्पवर्णाभादण्डकात्स्यान्नपु
सकम् । ततो भिनत्ति चाण्डानि षणमासेन तु
गौतम! । ततस्ते प्रीतिसम्बन्धात् स्नेहं वध्नन्ति बालकाः ।
ततोऽसौ सप्तरात्रेण कृष्णो भवति यत्नतः । आयुःप्रमाणं
सर्पाणां शतं विंशोत्तर स्मृतम् । मृत्युश्चाष्टविधो ज्ञेयः
शृणुष्यात्र यथाक्रमम् । मयूरात् मानुषाद्वापि चकोराङ्गो-
खुरात्तथा । विड़ालान्नकुलाच्चैव वराहाद्वृश्चिकात्तथा ।
एतभ्यो यदि मुच्येत जीवेद्वि शोत्तरं शतम् । सप्ताहे तु ततः
पूर्णे दंष्ट्राणान्तु विरोहणम् । विषस्यागमनं तत्र विक्ष-
पश्च पुनः पुनः । एव ज्ञात्वा तु तत्त्वेन विषकर्म
समारभेत् । एकविंशतिरात्रेण विषं दंष्टासु जायते । नागी
पार्श्वसमावर्त्ती बालसर्पस्तु उच्यते । पञ्चविंशतिरात्रस्तु
सद्यः प्राणहरो भवेत् । षण्मासाज्जातमात्रस्तु कञ्चुकं
वै प्रमुञ्चति । पादानाञ्चापि विज्ञेया द्वे शते द्वे च
विंशती । गोलोमसदृशाः पादाः प्रविशन्ति क्रमन्ति च ।
सन्धीनां चास्य विज्ञेयं द्वे शते विंशती तथा । पांशुल्य
श्चापि विज्ञेया द्वे शते विंशतिस्तथा । अकालजाता ये
सर्पा निर्विषास्ते प्रकीर्त्तिताः । पञ्चसप्ततिवर्षाणि
आयुस्तेषां प्रकीर्त्तितम् । रक्तपीतशुक्लदन्ता आनीला
मन्दवेगिनः । एते अल्पायुषो ज्ञेया अल्पाहाराश्च
भीरवः । एकञ्चास्य भवेद्वक्त्रं द्वे जिह्वे च प्रकीर्त्तिते ।
दंष्ट्राश्चतस्रो विज्ञेया प्रजापतिवचो यथा । प्रथमा ब्रह्म-
दैवत्या द्वितीया विष्णुदैवता । तृतीया रुद्रदैवत्या
चतुर्थी यमदैवता । हीना प्रमाणतः सा तु वामनेत्रं
समाश्रिता । नास्यां मन्त्राः प्रयोक्तव्या नौषधं नैव
भेषजम् । वैद्यः पराङ्मुखो याति मृत्यु स्तस्या विलेखनात् ।
चिकित्सा न बुधैः कार्य्या तदन्तं तस्य जीवितम् ।
मकरीं मासिकीं विद्यात् करालीञ्च द्विमासिकीम् ।
कालरात्री भवेत् त्रीणि चतुरो यमदूतिका । मकरीं शस्त्रकं
विद्यात् कराली काकपादिका । ढककाकृतिः
कालरात्री याम्या कूपाकृतिः स्मृता । मकरी वातुला ज्ञेया
कराली पैत्तिकी स्मृता । कफात्मिका कालरात्री
यमदूती त्रिदोषिका । शुक्ला तु मकरी ज्ञेया कराली
रक्तसन्निभा । कालरात्री भवेत् पीता कृष्णा च
यमदूतिका” भविष्यपु० । कश्यप उवाच “सविषा दंष्ट्रयो-
र्मध्ये यमदूती तु चेद्भवेत् । न चिकित्सा बुधैः कार्य्या
तं गतासुं विनिर्दिशेत् । प्रहरार्द्धं दिवारात्रौ एकैकं
भुञ्जते त्वहिः । एकस्य च समानञ्च द्विताय षोड़शं
पृष्ठ ५२५३
तथा । नागोदये य उद्दष्टो हतो विद्धो विदारितः ।
कालदष्टं विजानीयात् कश्यपस्य वचो यथा । यन्मात्रः पतते-
बिन्दुर्वालाग्रसलिलोद्धृतः । तन्मात्रं स्रवते दंष्ट्राविषं
सर्पस्य दारुणम् । ज्वालाशते तु संपूर्णे देहे संक्रमते
विषम् । यावत् संक्रामयेदबाहुं कुञ्चितं वा प्रसारयेत् ।
अनेन क्षणमात्रेण विषं गच्छति मस्तके । एधते
विषवेगस्तु शतशोऽथ सहस्रशः । वर्द्धते रक्तमासाद्य ततो
वाते शिखी यथा । तैलबिन्दुर्जलं प्राप्य यथा वेगेन वर्द्धते ।
शिखण्डी आश्रयं प्राप्य मारुतेन समीरितः । ततस्ता-
लाशतं प्राप्य त्वचास्थानं विचेष्टितम् । त्वचासु द्विगुणं
विद्याच्छोणितेषु चतुर्गुणम् । पित्ते तु त्रिगुणं याति
ष्मेष्मे वै षोड़शं भवेत् । वायौ त्रिंशद्गुणञ्चैव मज्जे
षष्टिगुणं तथा । प्राणे चैकार्णवीभूते सर्वस्रोतो निरो-
धयेत् । स्नातसा रुध्यमानेन याति साध्यमसाध्यताम् ।
ततोऽसौ म्रियते जन्तुर्निश्वासाच्छ्वासवर्जिनः । निष्क्रान्ते
तु ततो जीवे भूते पञ्चत्वमागते । तानि भूतानि गच्छन्ति
यस्य यस्य यथालयम् । पृथिव्यापस्तथा तेजो वायुराकाश-
मेव च । इत्येषामेव संक्षातः शरीरमभिधीयते । पृथिवी
पृथिवीं याति आपस्तीयेषु लीयते । तेजो गच्छति
चादित्य मारुतो मारुतं व्रजेत् । आकाशञ्चैव आकाशे
सह तेनैव गच्छति । स्वस्थानं ते प्रपद्यन्ते परस्परनि-
योजिताः । न जीवेदागतः कश्चिदिह जन्मनि सुव्रव! ।
विषाथ न उपेक्षेत त्वरितं तु चिकित्सयेत् । एकमस्ति
विषं लोके द्वितीयञ्चोपपद्यत । यथा चलविषञ्चैव स्था-
वरन्तु तथैव च । प्रथमे विषयेगे तु रोमहर्षः प्रजायते ।
द्वितीये विषवेगे तु स्वेदो गात्रेषु जायते । तृतीये
विषयेगे तु कम्पो गात्रेषु जायते । चतुर्थे विषवेगे तु
श्रोत्रान्तरनिरोधकृत् । पञ्चमे विषवगे तु हिक्का गात्रेषु
जायते । षष्ठे तु विषवेगे तु ग्रीवाभङ्गस्तु जायते ।
सप्तमे विषवेगे तु प्राणभ्यो विप्रमुच्यते सप्तधातुवहा
ह्येते वैनतेयेन भाषिताः । त्वचास्थाने विषप्राप्ते तस्य
रूपाणि मे शृणु । अङ्गानि तिमिरायन्ते यतन्ते च
मुहुर्मुहुः । एतानि यस्य चिह्नानि तस्य त्वचगतं
विषम् । तस्यागदे प्रवक्ष्यामि येन सम्मद्यते सुखम् । अर्क-
मूलसपामार्गं प्रियङ्गुं तगर तथा । एतदालोड्य
दातव्यं ततः सम्पद्यते सुखम् ततस्तस्मिन् कृते विप्र! न
निवर्त्तेत चेद्विषम् । त्वचःस्थानं ततो भित्त्वा रक्तस्थानं
प्रधावति । विषे च रक्तसप्राप्ते तस्य रूपाणि मे शृणु ।
दह्यते मुह्यते चैव शीतलं बहुमन्यते । एतानि यस्य
रूपाणि तस्य रक्तं गत विषम् । तत्रागदं प्रवक्ष्यामि
येन सम्पद्यते सुखम् । उशीरं चन्दनं कुष्ठमुत्पलं
तगरं तथा । कहाकालस्य मूलानि सिन्धुवार-
मृगस्य च । हिङ्गुञ्च मरिचञ्चैव पूर्वयेगे तु दापयेत् ।
वृहती वृश्चिकाली च इन्द्रवारुणिमूलकम् । सर्पगन्धा
घृतं चैव द्वितीये परिकीर्त्तितम् । सिन्धुवारं तथा हिङ्गु
तृतीये कारयेद्बुधः । नस्यं पानञ्च कूर्वीत अञ्जनं
लेपनं तथा । एतेनैवोपचारेण ततः सम्पद्यते सुखम् ।
रक्तस्थानं ततो गत्वा पित्तस्यानं प्रधावति । पित्त-
स्थानगते विप्र! विषे रूपाणि मे शृणु । उत्तिष्ठते
निपतते दह्यते मुह्यते तथा । गात्रतः पीतता स्याद्वै दिशः
पश्यति पीतिकाः । धवलाश्च भवेन्मूर्च्छा न चात्मानं
विजानते । विषक्रियां तस्य कुर्य्यात् यथा सम्पद्यते
सुखम् । पिप्पलं मधुकं चैव मधुखण्डघृतं तथा ।
मधुसारमलाबूञ्च जातिशर्करबालुकाम् । इन्द्रवारुणि
मूलञ्च गवां मूत्रेण पेषयेत् । नस्यं तस्य प्रयुञ्जीत
पानमालेपमञ्जनम् । एतेनैवोपचारेण ततः सम्प्रद्यते सुखम् ।
पित्तस्थानमतिक्रम्य श्लेष्मस्थानञ्च गच्छात । श्लेष्मस्थाने
ततः प्राप्ते तस्य रूपाणि मे शृणु । गात्राणि तस्य
रुध्यन्ते निश्वासश्च न जायते । लाला च स्रवते तस्य
कण्टो घुरघुरायते । एतानि यस्य रूपाणि श्लेष्मस्थान-
गतं विषम् । तस्यागदं प्रवक्ष्यामि येन सम्पद्यत सुखम् ।
त्रिकटुकं कोशातकी लोध्रञ्च मधुसारकम् । एतेषां सप्त-
भागानि गवां मूत्रेण पेषयेत् । नस्यं पानञ्च कुर्वीत
अञ्जनं लेपनं तथा । एतेनैवोपचारेण ततः सम्पद्यते
सुखम् । श्लेष्मस्थान्मतिक्रम्य वायुस्थानञ्च गच्छति ।
तत्र रूपाणि वक्ष्यामि वायुस्थानगते विषे । आध्मायते
च जठरं यत्नवांश्च न पश्यति । ईदृशं कुरुते रूपं दृष्टि-
भङ्गश्च जायते । एतानि यस्य रूपाणि तस्य वायुगतं
विषम् । तस्यागद प्रवक्ष्यामि येन सम्पद्यते सुखम् ।
शोणभूलं पियालञ्चा रक्ता च गजपिप्पली । हिङ्गुञ्च
पिष्ट्वा गुड़िकाञ्च कुर्य्याद्दद्याच्च तस्याञ्जनलेपादीन् ।
एषोऽगदः सर्वविषाणि हन्यात् स्वयम्भुवा देववरेण सृष्टः ।
अञ्जनञ्चैव नस्यञ्च क्षिप्रं दद्याद्विषान्विते । वायुस्थानं
ततो मुक्त्वा मज्जस्थानं प्रधावति । विषे मज्जगते विप्र!
तस्य रूपाणि मे शृणु । दृष्टिश्च हीयते तस्य
भृशमङ्गानि मुञ्चति । एतानि यस्य रूपाणि तस्य मज्जगत
पृष्ठ ५२५४
विषम् । तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् ।
वृत मधु शर्कराञ्च उशीरं चन्दनं तथा । एतदालाड्य
दातव्यं प्रानं तस्य च सुव्रत! । ततः प्रणश्यते दुःखं
ततः सम्पद्यते सुखम् । अथ तस्मिन् कृते योगे विषं
तस्य निवर्त्तते । मज्जस्थानं ततो गत्वा मर्मस्थान
प्रधावति । विषे च मर्मसंप्र प्ते शृणु रूपं यथा भवेत् ।
निश्चेष्टः पतते भूमौ कर्णाभ्यां वधिरो भवेत् । वारिणा
सिच्यमानस्य रामहर्षो न जायते । दण्डेन हन्यमानस्य
दण्डराजी न जायते । शस्त्रेण छिद्यमानस्य रुधिरं न
प्रवर्त्तते । केशेषु लुच्यमानेषु नैव क्त्र शंप्रवेदने । यस्य
कर्णौ च पार्श्वौ च हनूप्रादौ च सन्धयः । शिथिलानि
भवन्तीह स गतासुरिति श्रुतिः । एतानि यस्य रूपाणि
विपरीतानि गौतम! । मृतन्तु तं विजानीयात् कश्य-
पस्व वचो यथा । वैद्यास्तस्य न पश्यन्ति ये पश्यन्ति
कुशिक्षिताः । विचक्षणास्तु पश्यन्ति मन्त्रौषधिसम-
न्विताः । तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम् ।
मयूरपित्तं मार्ज्जारपित्तं नकुलपित्तकम् । मत्स्य-
महिषपित्तञ्च धानालीमूलमेव च । कुङ्कुमं भार्गवं
कष्ठं काश्मरी च त्वचं तथा । उद्पलस्य च किञ्जल्कं
पद्मस्य कुमुदस्य च । एतानि समभागानि गामूत्रेण च
पेषयेत् । एषोऽगदो यस्य हस्ते दष्टेन म्रियते न वै ।
कालाहिनापि दष्टोऽपि क्षिप्रं भवति निर्विषः । क्षिप्र-
मेव प्रदातव्यं मृतसञ्जीवबौषधम् । अञ्जनञ्चिव नस्वञ्च
क्षिप्रं दद्यात् विचणणः” भविष्यपु० । कश्यप उवाच
“अतःपर प्रवक्ष्यामि नानानां रूपलक्षणम् । सर्पदष्टस्व
च तथा सनामाद्द्विजपुङ्गव! । अथ सर्पेण दष्टस्य
ऊर्ध्वा वृष्टिः प्रजायते । सर्प्पादष्टस्य च तथा व्यधो-
दृष्टिः प्रजायते । नपुंसकेन दष्टस्य अद्गमर्दः प्रजा-
यते । रुपा दष्टख वा साम्या दृष्टिर्व्विजवरोत्तम! ।
कुमारेणापि दष्टस्य दक्षिणा एव जायते । गुर्विण्या
वाथ दष्टस्य तथा स्वेदश्च जायते । रोसाञ्चःस्यात् हूति-
कया वेपयुश्चापि जायते । पत्रनी प्रमवदात्नौ दिवा
सर्पो विवाघिकः । नपुंसकस्वु मख्यायां कश्यपेन तु
भापितम् । चन्धकारे तु दष्टानामुदके गहने वने ।
सप्तस्य वै प्रमत्तख पदे सर्पो न दृश्यते । दष्टरूपाण्य-
जानन् वै कयं वैद्यश्चिकित्सति चतुविंघास्तु सपोक्ताः
पन्नगास्तु महात्मना । दर्वीकरा मण्डतिनो राजिला
व्यन्तरास्तथा । दर्वीकरा वातविपा मण्डलाः मैत्तिकाः
स्मृताः । श्लेष्मला राजिला ज्ञेया व्यन्तराः सान्निपा-
तिकाः । रक्तं परीक्षयेद्गाढ़ं सर्पाणान्त पृथक् पृथक् ।
कृष्णं दपींकराणान्तु जायते वातमुल्वणम् । रक्तं घनञ्च
बहुशः शोणितं मण्डलिक्षते । पिच्छिलं राजिले स्वल्पं
तद्वद्व्यन्तरके तथा । ज्ञेयाः सर्पास्तु चत्वारः पञ्चमी
नोपलायते । ब्रह्मणः क्षक्षित्रो वैश्यः शूद्रश्चैव
चतुर्थकः । ब्राह्मणे मधुरं दद्यात् तिक्तं दद्यात्तथोत्तरे ।
वैश्यं कर्षफलं दद्यात् शूद्रे त्रिफलमेव वा । व्राह्मणेन
तु द्रष्टस्य दाहो गात्रेषु जायते । मर्च्छा च प्रबला
स्याद्वैन ज्ञानमभिजायते । श्यामवर्णं मुखञ्च स्यान्मन्या-
स्तम्भश्च जायते । तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यत
सुखम् । अश्वगन्धामपामार्गं सिन्धुवारं सुरालयम् ।
एतत् सर्पिः समायुक्तं पानं नस्यञ्च दापयेत् । एतेनै-
वोपचारेण सुखी भवति मानवः । क्षत्रियेण तु दष्टस्य
कम्पो गात्रेषु जायते । मूर्च्छा मोहस्तथा स्याद्वै न
ज्ञानमभिजायते । जायते वेदना तस्य ऊर्ध्वञ्चेव
निरीक्षते । तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम् ।
अर्कमूलमपानार्गं प्रियङ्गुमथ वारुणीम् । एतत् सर्पिः-
समायुक्तं पानं तस्य प्रदापयेत् । एतेनैवोपचारेण मुखी
भवति मानवः । वैश्येनापि हि दष्टस्य शृणु रूपाणि
यानि तु । श्लेष्ममकोपो लाला च नवोद्वहति वेदना ।
मूर्च्छा च प्रबला यस्य आत्मानं नाभिनन्दति । तस्य
कुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम् । अश्वगन्धां स
गोमूत्रां गृहधूभं सगुग्गुलम् । शिरीषार्कपलाशञ्च
श्वेतां च गिरिकर्णिकाम् । गोमूत्रेण समायुक्तं पानं
नस्यञ्च दापयेत् । एष वैश्येन दष्टानामगदः परिकी-
र्त्तिवः । शूद्रेणापि हि दष्टस्य शृणु तत्त्वेन गोतम! ।
कुप्यते वेपते चैव ज्वरः शीतञ्च जायते । अङ्गानि चुलु-
चुलायन्ते शूद्रदष्टस्य लक्षणम् । तस्यागदं प्रवक्ष्यामि
येन सम्पद्यते सुखम् । पद्मञ्च लोध्रकञ्चैव क्षौद्रं पद्मस्य
केसरम् । मधु मधूकसारञ्च श्वेता च गिरिकर्णिका ।
एतानि सममागानि पेषयेत् शीतवारिणा । पान लेपा-
ञ्जनं नस्यं सुखी भवति मानवः । पूर्वाह्णे चरते विप्रो
मध्याह्णे क्षत्रियश्चरेत् । अपराह्णे चरेद्वैश्यः शूद्रः
सन्ध्याचरो भवेत् । आहारश्चात्र पुष्पाणि ब्राह्मणानां
विदुर्बुधाः । मूषिकाः क्षत्रियाणाञ्च आहारो द्विज-
सत्तम! । वैश्या मण्डूकमक्ष्याश्च शूद्राः सर्वाशिनकथा ।
अग्रतो दशते विप्रः क्षत्रियो दक्षिणेन तु । वामपार्श्वे
पृष्ठ ५२५५
सदा वैश्यः पश्चाद्वै शूद्र आदशेत् । मदकाले तु संप्राप्ते
पीड्यमाना महाविषाः । अवेलाया दशन्ते वै मैथुनार्त्ता
भुजङ्गमाः । पुष्पगन्धाः स्मृता विप्राः क्षत्रियाश्चन्दना-
बहाः । वैश्याश्च घृतगन्धा वै शूद्राः शूर्मस्य गन्धिनः ।
वासं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः । नदीकूप-
तड़ागेषु गिरिप्रस्रवणेषु च । आरामेषु पवित्रेषु शुचि-
ष्वायतनेषु च । वसन्ति ब्राह्मणाः सर्पा ग्रामद्वारे
चतुष्पथे । क्षत्रियो वसते नित्यं तोरणेषु पुरेषु च ।
गोशालास्वश्वशालासु पलालेषु तटेषु च । गोष्ठेषु पथि
वृक्षेषु विप्र! वैश्या वसन्ति च । अविविक्तेषु स्थानेषु
निर्झरेषु वनेषु च । शून्यागारे श्मशाने च शूद्रा विप्र!
वसन्ति च । श्वेताश्च कपिलाश्चैव ये सर्पास्त्वनलप्रभाः ।
मनस्विनः सात्त्विका ये ब्राह्मणास्ते बुधैः स्मृताः ।
रक्तवर्णसुवर्णाभाः प्रबालमणिसन्निभाः । सूर्य्यप्रभास्तथा
विप्र! क्षत्रियास्ते भुजङ्गमाः । नानाविचित्रराजीभि-
रतसीवर्णसन्निभाः । माणपुष्पसुवर्णाभा वैश्यास्ते च
भुजङ्गमाः । काकोदरनिभाः केचित् ये च अञ्जन-
सन्निभाः । काकवर्णा धूम्रवर्णास्ते शूद्राः परिकीर्त्तिताः ।
यस्य सर्पेण दष्टस्य दंशमङ्गुलमन्तरम् । बालदष्टं विजा-
नीयात् कश्यपस्य वचो यथा । यस्य सर्पेण दष्टस्य दंशं
द्व्यङ्गुलमन्तरम् । योवनस्थेन दष्टस्य एतद्भवति लक्षणम् ।
यस्य सर्पेण दष्टस्य सार्द्धद्व्यङ्गुलमन्तरम् । वृद्धदष्टं
विजानीयात् कस्यपस्य वचो यथा” भविष्यपु० । “स्थाना-
म्यादौ प्रवक्ष्यामि नद्यां दष्टो न जीवति । चितावल्-
मीकशैलादौ कूपे च विवरे तरोः । दंशे रेखात्रयं यस्य
प्रच्छन्नं स न जीवति । षष्ठ्याञ्च कर्कटे मेषे मूलाश्लेषा
मघादिषु । कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु ।
दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः । वक्त्रे
वाहौ च ग्रीवायां पृष्ठे च न हि जीवति । पूर्वं
दिनपतिर्भुङ्क्ते ह्यर्द्धयामन्ततो परे । शेषाः ग्रहाः
प्रतिदिनं षट्संख्यापरिवर्त्तनैः । नागभोगक्रमो ज्ञेया
रात्रौ बाणविवर्त्तनैः । शेषोऽर्कः फणिप्रश्चन्द्रस्तक्षको
भौम ईरितः । कर्कोटोज्ञो गुरुः पद्मो महापद्मश्च
भार्गवः । शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः ।
रात्रौ दिवा सुरगुरोर्भोगे स्यादमरान्तकः । पङ्गोः
कालो दिवा राहुः कुलिकेन सह स्थितः । यामार्द्ध-
सन्धिसंस्थः स वेलां कालयतीञ्चरेत् । बाण द्विषड्
वह्निवाजियुगभूरेकभागतः । दिवा मड्वेदनेत्रादि-
पञ्चत्रिवसुखांशकैः । पादाङ्गुष्ठे पादपृष्ठे गुलफे
जानुनि लिङ्गके । नामौ हृदि स्तनतटे कण्ठे नासा-
पुटेक्षणे । कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत्
क्रमात् । तिष्ठेच्चन्द्रश्च जीवेन पुंसो दक्षिणभागके ।
कायस्य वामभागे तु स्त्रिया वायुवहक्रमात् । अमवत्त्व-
कृतो मोहो निवर्त्तेत च मर्दनात्” गारुड़े १९ अ० ।
“आषाढ़ादित्रिमासैः स्याद् गर्भो मासचतुष्टये । अण्ड-
कानां शतेद्वे च चत्वारिंशत् प्रसूयते । सर्पा ग्रसन्ति सूतौ
तान विना स्त्रीं, पुंनपुंसकान् । उन्मीलतेऽक्षि सप्ताहात्
हृष्टो मासाद्भवेद्बहिः । द्वादशाहात् सुबोधः स्याद्दन्ताः
स्युः सूर्य्यदर्शनात् । द्वात्रिंशद्दिनविंशत्या चतरस्रस्तेषु
दंष्ट्रिकाः । कराली मकरी कालरात्री च यमदूतिका ।
एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः । षण्मा-
सान्मुञ्चते कृत्तिं जीवेत् षष्टिसमाद्वयम् । नागाः
सूर्य्यादिवारेशाः सप्त उक्ता दिवानिशि । तेषां षट्
प्रतिवारेषु कुलिकः सर्वसन्धिषु । शङ्खेन वा महाब्जेन
सह तस्योदयोऽथ वा । द्वयोश्चैव नाड़िकयोरन्तरं
कुलिकोदयः । दुष्टः सकालः सर्वत्र सर्वदंशे विनि-
र्दिशेत् । कृत्तिका भरणी स्वातिर्मूलं पूर्वत्रयाश्विनी ।
विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी । हस्ता
मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः । षष्ठी रिक्ता शिवा
निन्द्या पञ्चमी च चतुर्दशी । सन्ध्याचतुष्टयं दुष्टं
दग्धयोगश्च राशयः । एकद्विबहवो दंशा दष्टविद्धञ्च
खण्डितम् । अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम् ।
त्रयो द्व्येकक्षता दंशा वेदना रुधिरं नृणाम् । नक्तं
द्व्येकाङ्घ्रिकूर्माभा दंशाश्च यमचोदिताः । दाही
पिपीलिकास्पर्शी कण्ठशोषरुजान्वितः । सतोदो
ग्रन्थितो दंशः सविषो न्यस्तनिर्विषः । देवालये शून्यमृहे
वल्मीकोद्यानकोटरे । सथ्या सन्ध्या रमशाने च शुष्कद्रौ
सिन्धुसङ्गमे । द्वीपे चतुष्पथे सौष्ठे गृहेऽब्जे पर्वता-
ग्रतः । बिलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके ।
शिग्रुश्लेष्मातकाक्षेषु जम्बूडुम्बरकेषु च । वटे च
जीर्णप्राकारे खास्यहृतकक्षजत्रुणि । तालौ शङ्खे गले
मूर्ध्नि चिवुके नाभिपादयोः । दंशोऽशुभः” अग्निपु० ।
सुश्रुते तद्दंशलक्षणभेदादिर्दर्शितो यथा
“तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः ।
किं कारणं विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्य-
कारि मुहूर्त्तमप्युपेक्षितमातुरमतिपातयति । न चाव-
पृष्ठ ५२५६
काशोऽस्ति वाक् समूहमनुसर्तुम् । प्रत्येकमपि दष्ट-
लक्षणेऽभिहिते सर्वत्र त्रैविध्यं भवति । तस्मात्रैविध्य
मेव वक्ष्यामः । एतद्धातुरहितमसम्मोहकरञ्च । अपि
चात्रैव सर्वसर्पव्यञ्जनावबोधः ।
तत्र दर्वीकरविषेण त्वङ्नयननखदशनमूत्रपुरीषदंश-
कृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदनाकटीपृष्ठ-
ग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरको
जडता शुष्कोङ्गारः कासश्वासौ हिक्का वायोरूर्ध्व
गमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतो-
ऽवरोधस्तास्ताश्च वातवेदना मवन्ति ।
मण्डलिविषेण त्वगादोनां पीतत्वं शीताभिलाषः
परिधूपनं दाहस्तृष्णा मदो मूर्च्छा ज्वरः शोणितागमनमूर्ध्व-
मधश्च मांसानामवशातनं श्वयथुर्दंशकोथः पीतरूपदर्शन-
माशुकोपस्तास्ताश्च पित्तवेदना भवन्ति ।
राजिमद्विषेण शुक्लत्वं त्वगाटीनां शीतज्वरो रोमहर्ष-
स्तब्धत्वं गात्रानामोदंशशोफः सान्द्रकफप्रसेकश्छर्दिर-
भीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुर्घुरक उच्छासनिरो-
धस्तमःप्रवेशस्तास्ताश्च कफवेदना भवन्ति ।
पुरुषाभिदष्ट ऊर्ध्वं प्रेक्षतेऽधस्तात् स्त्रिया सिरा-
श्चोत्तिष्ठन्ति ललाटे । नपुंसकाभिदष्टस्तिर्य्यक्प्रेक्षी
भवति । गर्भिण्या पाण्डुमुखोध्मातश्च । सूतिकया
शूलार्त्तो रुधिरं मेहत्युपजिह्विका चास्य भवति ।
ग्रासार्थिनान्नं काङ्क्षति । वृद्धेन मन्दा वेगाश्च ।
बालेनाशु मृदवश्च निर्विषेणाविषलिङ्गम् । अन्धा-
हिकेनान्धत्वमित्येके । ग्रसनादजगरः शरीरप्राण-
हरो न विषात् । तत्र सद्य प्राणहराहिदष्टः पतति
शस्त्राशनिहत इव भूमौ स्रस्ताङ्गः स्वपिति ।
तत्र सर्वेषां सर्पाणां विषस्य सप्त वेशा भवन्ति तत्र
दर्वीकराणां प्रथमे वेगे विष शोणितं दूषयति तत्
प्रदुष्टं कृष्णतामुपैति तेन कार्ष्ण्यं पिपीलिकापरिसर्पणमिव
चाङ्गे भवति । द्वितीये मांसं दूषयति तेनात्यर्थं कृष्णता
शोफो ग्रन्थयश्चाङ्गे भवन्ति । तृतीये मेदो दूषयति तेन
दंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणञ्च । चतुर्थे
कीष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति । तेन
तन्द्राप्रसेकसन्धिविश्लेषा भवन्ति । पञ्चमेऽस्थीन्यनुप्रवि-
शति प्राणमग्निञ्च दूषयति तेन पर्वभेदो हिक्का
दाहश्च भवति । षष्ठे मज्जानमनुप्रविशति ग्रहणोञ्चात्यर्थं
दृषयति तेन गात्राणां गौरवमतीसारो हृत्पीड़ा मूर्च्छा
च सवति । सप्तमे शुक्रमनुप्रविशति व्यानञ्चात्यर्थ
कोपयति कफञ्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्म-
वर्त्तिप्रादुर्भावः कटीपृष्ठभङ्गश्च सर्वचेष्टाविघातो लाला-
स्वेदयोरतिप्रवृत्तिरुच्छासनिरोधश्च भवति ।
तत्र मण्डलिनां प्रथमे वेगे विषं शोणित्रं दूषयति तत्तत्र
प्रदुष्टं शीततामुपैति तत्र परिदाहः पीतावभासता
चाङ्गानां मवति । द्वितीये मांसं दूषयति तेनात्यर्थं
पीततापरिदाहौ दंशे श्वयथुश्च भवति । तृतीये मेदो दूषयति
तेन पूर्ववच्चक्षुर्ग्रहणं तृष्णा दंशे क्लेदः स्वेदश्च । चतुर्थे
कोष्ठमनुप्रविश्य ज्वरमापादयति पञ्चमे परिदाहं सर्व-
गात्रेषु करोति । षष्ठसप्तमया पूर्ववत् ।
राजिमतां प्रथमे वेगे विषं शोणितं दूषयति तत्प्रदुष्टं
पाण्डुतामुपैति तेन रोमहर्षः शुक्लावभासश्च पुरुषो भवति ।
द्वितीये मांसं दूषयति तेन प्राण्डुतात्यर्थं जाड्यं शिरः-
शोफश्च भवति । तृतीये मेदो दूषयति तेन चक्षुर्ग्रहणं
स्वेदो घ्राणाक्षिम्रावश्च भवति । चतुर्थे कोष्ठमनुप्रविश्य
मन्यास्तम्भं शिरोगौरवं चापाइयति । पञ्चमे
वाकसङ्गं शीतज्वरञ्च करोति षष्ठसप्तमयोः पूर्ववदिति ।
भवन्ति चात्र । धात्वन्तरेषु याः सप्त कलाः संपरिकी-
र्त्तिताः । तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम् ।
येनान्तरेण हि कलां कालकल्पं भिनत्ति हि । समीरणे-
नोह्यमानं तत्तु वेगान्तरं स्मृतम् । शूनाङ्ग प्रथमे वेगे
पशुर्ध्यायति दुःखितः । लालास्रावो द्वितीये तु कृष्णाङ्गः
पीद्ध्य्यते हृदि । तृतीये च शिरो दुःख कण्ठग्रीवञ्च तक्ष्यते ।
चतुर्थे वेपते मूढ़ः खादन् दन्तान् जहात्यसून् । केचि-
द्वेगत्रयं प्राहुरन्तश्चैतेषु तद्विदः । ध्यायति प्रथमे वेगे
पक्षी मुह्यत्यतः परम् । द्वितीये विह्वलः प्रोक्तस्तृतीये
मृत्युमृच्छति । केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि ।
मार्ज्जारनकुलादीनां विषं नातिप्रवर्त्तते” । “अथातः
सर्पदष्टचिकित्सितकल्पं व्याख्यास्यामः । सर्वैरेवादितः सर्पैः
शाखादष्टस्य देहिनः । दंशस्योपरि बध्नीयादरिष्टा(तागा)-
श्चतुरङ्गुले । प्लोतचमान्तवल्कानां मृदुनाऽन्यतमेन च ।
न गच्छति विषं देहमरिष्टाभिर्निवारितम् । दहेद्दंश-
मथोत्कृत्य यत्र बन्धो न जायते । आचूषणच्छेददाहाः
सर्वत्रैव तु पूजित । प्रतिपूर्य्य मुखं वस्त्रैर्हितमाचूषणं
भवेत् । स दष्टव्योऽथ वा सर्पो लोष्टो वापि हि
तत्क्षणम् । अथ मण्डलिना दष्टं न कथञ्चन दाहयेत् ।
स पित्तविषबाहुल्याद्दशो दाहाद्विसर्पति । अरिष्टामपि
पृष्ठ ५२५७
मन्त्रैश्च बध्नीयान्मन्त्रकोविदः । सा तु रज्ज्वादिभिर्बद्ध्वा
विषघ्नतिकरो मता । देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्य
तपोमयाः । भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदु-
न्तरम् । विषं तेजोमयैर्सन्त्रैः सत्यब्रह्मतपोमयैः । यथा
निवार्य्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः । मन्त्राणां ग्रहणं
काय्य स्त्रीमांसमधुवर्जिना । जिताहारेण शुचिना
कुशास्तरणशायिना । गन्धमाल्योपहारैश्च बलिभिश्चापि
देवताः । पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः ।
मन्त्र स्तु विधिना प्रोक्तः हीना वा स्वरवर्णतः । यस्मान्न
सिद्धिमायान्ति तस्माद् योज्योऽगदक्रमः । समन्ततः
सिरादंशाद्विद्धेषु कुशलो भिषक् । शाखाग्रे वा
ललाटे वा वेध्यास्ता विसृते विषे । रक्ते निर्ह्रियमाणे
तु कृत्स्नं निर्ह्रियते विषम । तस्माद्विसावयेद्रक्तं सा ह्यस्य
परमा क्रिया” ।

सर्पकङ्काली स्त्री० सर्पस्येव कङ्कालमङ्गविशेषो यस्याः गौरा०

ङीष । सर्पविषघातिन्यां लतायां शब्दच० ।

सर्पगन्धा स्त्री सर्पं तद्विषं गन्धयति हिनस्ति गन्ध--अण् ।

विषहारिण्यां लतायां जटा० ।

सर्पघातिनी स्त्री सर्पं तद्विषं हन्ति हन--णिनि । सर्पविषहरीलतायां रत्नमा० ।

सर्पतृण पुंस्त्री० सर्पस्तृणमिवानायासच्छेद्यो यस्य । नकुले

हेमच० ।

सर्पदंष्ट्र पु० सर्पस्य दंष्ट्रेव पुष्पमस्य । १ नागदन्तीवृक्षे शब्दच० ।

सर्पस्य दंष्ट्रेव स्पर्शने दुःखदत्वात् । २ वृश्चिकालीलतायां
स्त्री (विछाति) रत्नमा० ।

सर्पदंष्ट्रिका स्त्री सर्पदंष्ट्राऽऽकारेऽस्त्यस्याः टन् । अजशृङ्ग्यां राजनि० ।

सर्पदण्डी स्त्री सर्पं तद्विषं दण्डयति दण्ड--अण् । १ योरक्षी-

वृक्षे राजनि० ।

सर्पदन्ती स्त्री सपस्य दन्त इव पुष्पमस्त्यस्या अच गौरा० ङीष । नागदन्तीवृक्षे राजनि० ।

सर्पनामा स्त्री सर्पस्य नामात्र वाचकशब्दे । सर्पकङ्काली-

भदे शब्दच० ।

सर्पदमनी स्त्री सर्पान् दमयति अनया दम--णिच--करणे

ल्यट् ङीप् । बन्ध्याकर्कोट्यां राजनि० ।

सर्पपुष्पी स्त्री सर्पः सर्पदन्त इव पुष्पभस्याः । नामदन्त्यां राजनि० ।

सर्पफणिज पु० सर्पस्य फणे जायते जन--ड । सर्पफणजात

प्रणौ शब्दमा० ।

सर्पभुज् पु० सर्पं भुङ्क्ते भुज--क्विप् । १ मयूरे हेमच० ।

२ सर्पभक्षके गरुडादी च ।

सर्पराज पु० सर्पाणां राजा टच् समा० । वासुकौ नागभेदे अमरः ।

सर्पलता स्त्री सर्प इव लता । नागवल्ल्यां ताम्बूल्यां राजनि०

सर्पसत्र न० सर्पेण होम्यद्रव्येण तन्नाशनार्थं वा सत्रम् ।

जनमेजयानुष्ठिते महाभारतप्रसिद्धे सर्पनाशनार्थे यज्ञ-
भेदे भा० आ० ५१ अ० ५८ अ० तत्कथा दृश्या ।

सर्पसहा स्त्री सर्पं सहते सह--अच् । सर्पकङ्कालोलताया

राजनि० ।

सर्पहन् पु० सप हन्ति हन--क्विप् । १ नकुले हेमच० २ गरुडे च ।

सर्पाक्षी स्त्री सर्वस्येवाक्षि पुष्पं यस्याः षच् समा० । १ गन्ध-

नाकुल्याम् राजनि० ।

सर्पाख्य पु० सर्पस्याख्याऽऽख्या यस्य । १ नागकेशरे रत्नमा० । २ महिषकन्दभेदे च राजनि० ।

सर्पाङ्गी स्त्री सर्पस्येवाङ्गं यस्याः ङीष् । १ सर्पकङ्कालील-

तायां रत्नमा० । २ सिंहल्यां राजनि० ।

सर्पादनी स्त्री सर्पं सर्पविषमत्त्यऽनया अद--ल्युट् ङीप् ।

नाकुल्यां राजनि० ।

सर्पाराति पु० ६ त० । १ गरुडे हेमच० २ नकुले च सर्पारिप्रभृतयोऽप्यत्र ।

सर्पावास न० सर्पानामावासा यत्र । १ चन्दनवृक्ष राजनि० ।

६ त० । २ सर्पाणामावासे पु० ।

सर्पाशन पु स्त्री० सर्पमश्नाति अश--ल्युट् । १ मयूरे हला० ।

स्त्रियां ङीप् । २ गरुड़े पु० ।

सर्पिस् न० सृप--इसि । घृते अमरः ।

सर्पिणी स्त्री सृप--णिनि ङीप् । १ सर्पयोषिति शब्दर० ।

२ क्षुपभेदे राजनि० । ३ गमनकर्त्तरि त्रि० स्त्रियां ङीप् ।

सर्पीष्ट न० सर्पीणां भुजगीनामिष्टम् । चन्दने रत्नमा० ।

सर्पेष्ट न० सर्पाणामिष्टम् । चन्दने जटा० २ सर्पाभीष्टे त्रि० ।

सर्ब सर्पणे भ्वा० पर० सक० सेट् । सर्बति असर्बीत् अषोपदेश-

त्वान् न षत्वमित्येके षोपदेश एव न्याय्यः ।

सर्व पु० सृ--व तस्य नेत्त्वम् । १ शिवे २ विष्णौ च विष्णुस० ।

“असतश्च सतश्चैव सर्वस्य प्रभवाप्ययौ । सर्वस्य सर्व-
दाज्ञानात् सर्वमेत प्रचक्षते” विष्णुपु० तन्नामनिरुक्तिः ।
तथा च सर्वं ज्ञेयत्वेन उत्पाद्यत्वादिना वाऽस्त्यस्य अच् ।
३ सम्पूर्णे ४ सकले च त्रि० अमरः । असंज्ञायामस्य सर्वना-
मसज्ञ तत्कार्य्यया । सर्वशब्दार्थस्तु स्वार्थान्वयितावच्छे-
दकधर्मव्यापकतादृशधर्मावच्छिन्नान्वयितावच्छेदकावच्छि-
न्नव्याप्यपर्य्याप्तिकधर्मावच्छिन्नः” गा० श० । “व्यापकत्वाव-
च्छिन्नः दिनकरी । यथा सर्वे घटा रूपवन्त इत्यादौ मर्व-
पदार्थः । “वुद्धिविषययावत्त्वावच्छिन्नसमूहत्ववान्” इति
शाब्दिका वदन्ति ।

सर्वसहा स्त्री सर्वं सहंते खच मुम् च । १ पृथिव्याम् अमरः २ सर्वसोढरि त्रि० ।

पृष्ठ ५२५८

सर्वकर्त्तृ पु० सर्वं करोति कृ--तृच । १ चतुर्मुखे व्रह्मणि

शब्दर० । २ परमेश्वरे च ।

सर्वकर्मीण त्रि० सर्वकर्मभ्योऽलं ख । सर्वकरणसमर्थे पदार्थे

“संग्रामे सर्वकर्मीणावि” ति भट्टिः ।

सर्वकेशिन् पु० अभिनेयानां सर्वेषामिव केशोऽस्त्यस्य इनि । नटे शब्दर ।

सर्वक्षार पु० सर्वः क्षारमयः । (सावान)ख्याते पदार्थे राजनि०

सर्वग न० सर्व गच्छति गम--ड । १ जले २ शिवे ३ परमेश्वरे

पु० मेदि० । ४ वायौ ५ आत्मनि च पु० शब्दमा० । ६ सर्व-
गामिनि त्रि० । ७ प्रियङ्गुवृक्षे स्त्री शब्दच० टाप् ।

सर्वगन्ध न० सर्वे गन्धा अत्र । “चातुर्जातककर्पूरकक्कोलागु-

रुकुङ्कुमम् । लवङ्गसहितञ्चैव सर्वगन्धं प्रकीर्त्तितम्” भावप्र०
उक्ते १ गन्धद्रव्यसमूहभेदे । सर्वान् गन्धयति हिनस्ति
संहारकाले गन्धत्यच् सर्वगन्धा उत्पाद्यतया सन्त्यस्य वा ।
२ परमेश्वरे सर्वनाशकत्वात् सर्वगन्धहेतुत्वाद्वाऽस्य तथात्वम् ।

सर्वग्रन्थि पु० सर्वत्र ग्रन्थिरिवात्र । १ पिप्पलीमूले राजनि० ।

सर्वङ्कष पु० सर्वं कषति कष खच् मुम्च । १ पापे २ सर्वा-

तिरेकिणि त्रि० ।

सर्वजनीन त्रि० सर्वजनेषु विदितः ख । सर्वत्र विख्याते सि० कौ० ।

सर्वज्ञ पु० सर्वं जानाति ज्ञा--क । १ शिवे २ बुद्धे अमरः ।

३ परमेश्वरे च “यः सर्वज्ञः सर्वविद्” श्रुतिः । ४ सर्वज्ञान-
कर्त्तरि त्रि० । ५ दुर्गायां स्त्री “सर्वज्ञा सर्ववेत्तृत्वात्”
देवीपु० ४८ अ० ।

सर्वतःशुभा स्त्री सर्वतः शुमं यस्याः । प्रियङ्गुवृक्षे शब्दच० ।

सर्वतस् अव्य० सर्व + तसिल् । समन्तत इत्यर्थे अमरः ।

सर्वतिक्ता स्त्री सर्वतः तिक्ता । काकमाच्यां राजनि० ।

सर्वतोभद्र पु० न० सर्वतो भद्राणि मुखानि यस्य । १ चतुर्द्वार-

युक्ते १ गृहभेदे प्रतिष्ठादौ पूज्यदेवतानां २ मण्डलभेदे
सर्वतोभद्रमण्डलशब्दे दृश्यम् । ज्योतिषोक्ते ३ शुभाशुभ-
ज्ञानार्थे चक्रभेदे चक्रशब्दे २८१५ पृ० दृश्यम् । अलङ्का-
रोक्ते बन्धभेदात्मके ४ चित्रकाव्ये च । अलङ्कारशब्दे
४०७ पृ० दृश्यम् सर्वतो भद्रमस्यात् । ५ निम्बवृक्षे पु०
अमरः । ६ गाम्भार्य्यां ७ नटयोषिति च स्त्री मेदि० ।

सर्वतोभद्रचक्र न० सर्वतो भद्र यत्र तादृशं चक्रम् । ज्यो-

तिषोक्ते शुभाशुभज्ञानार्थे चक्रभेदे चक्रशब्दे २८१५ पृ०
दृश्यम् ।

सर्वतोभद्रबन्ध पु० सर्वतो भद्राकारेण बन्धः । चित्रकाव्यभेदे अलङ्कारशब्दे ४०७ पृ० दृश्यम् ।

सर्वतोभद्रमण्डल न० सर्वतो भद्रनामकं मण्डलम् ।

शारदातिलकाद्युक्ते पतिष्ठादो--पूज्यदेवतामण्डलभेदे
तल्लेखनप्रकारस्तु हेमाद्रौ स्कान्दे प्रागुदीच्यां गतः
रेखाः कुर्य्यादेकोनविंशतिम् । खण्डेन्दुवत्त्रिपात् कोणे
शृङ्खला पञ्चभिः पदैः । एकादशपदा वल्ली भद्रन्तु
नवभिः पदैः । चतुर्वि शत्पदा वापी परिधिर्विंशत्या
पदैः । मध्ये षोड़शभिः कोष्ठैः पद्ममष्टदलं स्मृतम् ।
श्वेतेन्दुः शृङ्खला, कृष्णां वल्लीं नीलेन पूरयेत् । भद्रारुणा
सिता वापी परिधिः पीतवर्णकः । बाह्यान्तरदलैः
श्वेता कर्णिका पीतबर्णिका । परिध्यावेष्टितं पद्म
बाह्ये सत्वरजस्तमः । तन्मध्ये स्थापयेद्देवान् ब्रह्मा-
द्यांश्च सुरासुरानिति । शारदायामन्यथोक्तं यथा
“चतुरस्रचतुःकोष्ठे कर्णसूत्रसमन्विते । चतुर्ष्वपि च
कोष्ठेषु काणसूत्रचतुष्टयम् । ततः कोष्ठेषु मत्स्याः
स्युस्तेषु सूत्राणि पातयेत् । यावत् शतद्वयं मन्त्री
षट्पञ्चाशत् पदान्यपि । तावत्तेनैव विधिना तत्र
सूत्राणि पातयेत् । षट्त्रिंशता पदैर्मध्ये लिखेत् पद्मं
सुलक्षणम् । वहिःपङ्क्त्या भवेत् पीठं पङ्क्तियुग्मेन
वीथिका । द्वारशोभोपशोभासान् शिष्टाभ्यां परिकल्पयेत् ।
शास्त्रीक्तविधिना मन्त्री ततः पद्म समालिखेत् । पद्म-
क्षेत्रस्य सन्त्यज्य द्वादशांशं बहिः सुधो । तन्मध्य
विभजेद्वृत्तैस्त्रिभिः समविभागतः । आद्यं स्यात् कर्णिका-
स्थानं केसराणां द्वितीयकम् । तृतीयं पद्मपत्राणा-
मुक्तांशेन दलाग्रकम् । बाह्यवृत्तान्तरालस्य मानेन विघिना
सुधीः । निधाय केसराग्रेषु परितोऽर्द्धनिशाकरान् ।
लिखित्वा सन्धिसस्थानि तत्र सूत्राणि पातयेत् ।
दलाग्राणाञ्च यन्मानं तन्मानाद् वृत्तमालिखेत् । तदन्तरा-
लतन्मध्यसूत्रस्योभयतः सुधीः । आलिखेद् बाह्यहस्तेन
दलाग्राणि समन्ततः । दलमूलेषु युगशः केसराणि प्रक-
ल्पयेत् । एतत् साधारणं प्रोक्त पङ्कजं तन्त्रवेदिभिः ।
पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् । अवशिष्टैः
पदैर्विद्वान् पीठगात्राणि कल्पयेत् । पदानि वीथिसंस्थानि
मार्जयेत् पङ्क्त्यभेदतः । दिक्षु द्वाराणि रचयेत् द्वि-
चतुःकोष्ठकैस्ततः । पदैस्त्रिभिरथैकेन शोभाः स्युर्द्वार-
पार्श्वयोः । उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनन्तरम् ।
अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयम् । रञ्ज
येत् पञ्चभिर्वर्णैर्मण्डलं तन्मनोहरम् । पीतं हरिद्राचूर्ण
स्यात् सितं तण्डुलसम्भवम् । कुसुम्भचूर्णमरुण कृष्ण
दग्धपुलाकजम् । बिल्वादिपत्रजं श्याममित्युक्त
वणपञ्चकम् । अङ्गुलोत्सेधविस्ताराः सीमारेखा सिताः
पृष्ठ ५२५९
शुभाः । कर्णिकां पीतवर्णेन केसराण्यरुणेन च ।
शुक्लवर्णानि पत्राणि तत्सन्धीन् श्यामलेन च । रजसा
रञ्जयेन्मन्त्री यद्वा पीतैव कर्णिका । केसराः पीतरक्ताः
स्युररुणानि दलान्यपि । सन्धयः कृष्णवर्णाः स्युः सिते-
नाप्यसितेन वा । रञ्जयेत् पीठमार्गांश्च पादाः स्युररुण-
प्रभाः । गात्राणि तस्य शुक्लानि वीथीषु चतसृष्वपि ।
आलिखेत् कल्पलतिकादलपुष्पफलान्विताः । वर्णैर्नाना
विधैश्चित्राः सर्वदृष्टिमनोहराः । द्वाराणि श्वेतवर्णानिं
शोभा रक्ताः समीरिताः । उपशोभाः पीतवर्णा
कोणान्यसितभानि च । तिस्रो रेखा बहिः कार्य्याः
सितरक्तासिताः क्रमात् । मण्डलं सर्वतोभद्रमेतत् साधारणं
स्मृतम्” । अपरञ्च “चतुरस्रां भुबं भित्त्वा दिग्भ्यो द्वाद-
शधा सुधीः । पातयेत् तत्र सूत्राणि कोष्ठानां दृश्यते
शतम् । चतुश्चत्वारिंशदाढ्यं पश्चात् षट्त्रिंशताम्बुजम् ।
कोष्ठैः प्रकल्पयेत् पीठं पङ्क्त्या नैवात्र वीथिकाः । द्वार-
शोभे यथा पूर्वमुपशोभा न दृश्यते । अवशिष्टैः पदैः कुर्य्यात्
षडभिः कोष्ठानि तन्त्रवित् । विदध्यात् पूर्ववत्
शेषमेवं वा मण्डलं स्मृतम्” । “चतुरस्रे चतुःषष्टिं
पदान्यारचयेत् सुधीः । पदैश्चतुर्भिः पद्मं स्यात् मध्ये तत्
पूरिताः पुनः । वीथीश्चतस्रः कुर्वीत मण्डलान्तरशालिकाः ।
दिग्गतेषु चतुष्केषु पङ्कजानि समालिखेत् । विदिग्ग-
तचतुष्काणि भित्त्वा षोड़शधा सुधीः । मार्जयेत् स्वस्ति-
काकारं श्वेतपीतारुणासितैः” । मार्जनमाह राथवभट्ट-
धृतम् “विदिग्गतश्चतुष्कोणान् भित्त्वा षोड़शधा सुधीः ।
वह्न्यादिकोष्ठत्रितये मध्योर्ध्वमपि मार्जयेत् । रजोभिः
पूरयेत्तानि स्वस्तिकानि शिवादितः । प्राक् प्रोक्तेनैव
मार्गेण शेषमन्यत् समापयेत् । नवनाभमिदं प्रोक्तं
भण्डलं सर्वसिद्धिदम् । पञ्चाब्जमण्डलं प्रोक्तमेतत्
खग्निकवर्जितम् । दीक्षायां देवपूजायां मण्डलानां
चतुष्टयम् । सर्वतन्त्रानुसारेण प्रोक्तं सर्वसमृद्धिदम्” ।

सर्वतोमुख न० सर्वतोमुखमस्य । १ जले अमरः २ आकाशे

मेदि० ३ शिवे ४ बह्मणि ५ परमेश्वरे ६ आत्मनि च पु०
मेदि० । ७ ब्राह्मणे शब्दच० ८ स्वर्गे ९ अग्नौ शब्दमा० ।
“सर्वतःपाणिपादान्तः सर्वतोऽक्षिशिरोमुखः । विश्व-
रूपो महानग्निः प्रणीतः सर्वकर्मसु” ति० त० उक्तेः
वह्नेस्तथात्वम् ।

सर्वत्र अव्य० सर्व--त्रल् । सर्बस्मिन् काले देशे सर्वायां दिशि चित्यर्थे ।

सर्वत्रग पु० सर्वत्र गच्छति गम--ड । १ वायौ शब्दच० ३ सर्व-

त्रगामिनि त्रि० ।

सर्वत्रगामिन् पु० सर्वत्र गच्छति गम--णिनि । १ वायौ २ सर्वत्र गन्तरि त्रि० स्त्रियां ङीप् ।

सर्वथा अव्य० सर्वप्रकारम् थाल् । १ सर्वप्रकारे २ भृशे ३ प्रति-

ज्ञायां ४ हेतौ च शब्दर० ।

सर्वदम पु० सर्वान् दमयति दम--णिच्--अण् । सर्वदमने

शाकुन्तले भरतनृपे हेमच० ।

सर्वदमन पु० सर्वान् दमयति दम--णिच्--ल्यु । १ दुष्मन्तपुत्रे

भरतनृपे त्रिका० । २ सर्वदमनकर्त्तरि त्रि० ।

सर्वदर्शिन् पु० सर्वं समभावेन पश्यति दृश--णिनि । १ बुद्धे

२ परमेश्वरे च । ३ सकलद्रष्टरि त्रि० स्त्रियां ङीप् ।

सर्वदा अव्य० सर्वस्मिन् काले दाच् । सर्वस्मिन् काले इत्यर्थे ।

सर्वदुःखक्षय पु० सर्वेषामाध्यात्मिकाधिदैविकाधिभौतिकानां

दुःखानां क्षयः । आत्यन्तिकदुःखत्रयनिवृत्तौ मोक्षे हेमच०
“अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्त पुरुषार्थः” सा०
सू० “स्वसमानाधिकरणदुःखासमानकालीनत्व दुःख-
ध्वंसरूपनिवृत्तेरात्यन्तिकत्वम् ।

सर्वदेवमुख पु० सर्वेषां देवानां मुखं यत्र । अग्नौ रत्नमा० ।

सर्वद्र्यन्च् त्रि० सर्वमञ्चति पूजयति अन्च--क्विप् अद्र्यागम-

न नलोपः । सर्वस्य पूजके । भत्वे सर्वद्र्यञ्च इत्यादि ।
गत्यर्थस्य नलोपे सर्वद्र्यच् इत्येव सर्वगामिनि । भत्ये
सवंद्रीच इति मेदः ।

सर्वधुरावह त्रि० सर्वेषां धूः अच्समा० सर्वधुरा तां वहति

बह--अच् । सर्वभारवाहके वृषादौ अमरः ।

सर्वधुरीण त्रि० सर्वां धुरं वहति ख । सकलभारवाहके

वृषादौ अमरः ।

सर्वनाम पु० सर्वेषां नाम वाचकं संज्ञात्वेऽपि क्षुभ्ना० न

णत्वम् । व्याकरणोक्ते कार्य्यविशेषार्थं कृतसंज्ञायुते
सर्वादिशब्दभेदे “सर्वादीनि सर्वनामानि” पा० सर्वनामशब्दा-
र्थस्तु वक्तृबुद्धिविषयतावच्छेदकधर्मोपलक्षितधर्मविशिष्टः ।

सर्वपूर्णत्वं न० सर्वैः पूर्णत्वम् । सम्भारे सामग्र्याम त्रिका० ।

सर्वप्रहरणायुध पु० सर्वेषां प्रहरणानि सर्वाणि वा प्रह-

रणानि आयुधान्यस्य । विष्णौ “सर्वप्रहरणायुधः”
विष्णुस० व्युत्पत्तिद्वययोगात् नामद्वयम् तेन नामसहस
पूर्त्तिः” भा० ।

सर्वभक्षा स्त्री भक्ष--अण् उप० । १ अजायां हेमच० २ सर्वभक्षके त्रि० ३ वह्नौ पु० ।

सर्वमङ्गला स्त्री सर्वाणि मङ्गलान्यस्याः ५ ब० सर्वाणि

मङ्गलानि देयत्वेनास्त्यस्याः अच् वा । दुर्गायाम् अमरः ।
“सर्वाणि हृदयस्थानि मङ्गलानि शुभानि च । ददाति
क्षेपसितान् लोके सा तेन सर्वमङ्गला” देवोप० ४५ अ० ।
पृष्ठ ५२६०

सर्वमय त्रि० सर्वात्मकः मयट् । १ सर्वात्मके २ परमेश्वरे पु० ।

सर्वमूल्य न० ६ त० । कपर्द्दके त्रिका० ।

सर्वमूषक पु० सर्वं मुष्णाति मुष--वुन् पृषो० । काले हेमच० ।

सर्वरस पु० सर्वोरसमयः । (धुना) १ शालरसे अमरः ७ व० ।

२ वोणादिवाद्ये मेदि० । ३ पण्डिते शब्दच० । कर्म० ।
४ लवणे रसे । सर्वाणि रसयति रसि--अण् । ५ परमे-
श्वरे सैन्धवघनवद् तस्य सर्वत आनन्दमयत्वात् तथात्वम् ।

सर्वरसोत्तम पु० सर्वेषु रसेषु उत्तमः । लवणे रसे हेमच० ।

सर्वरात्र पु० सर्वा रात्रिः अच् समा० । “रात्राह्नान्ताः

पुसीति” पा० पुंस्त्वम् । सकलरात्रौ सि० कौ० ।

सर्वरी स्त्री सृ--वनिप् ङीप् र च । रात्रौ धरणिः तालव्यादिरयम् ।

सर्वर्त्तुपरिवर्त्त पु० सर्वर्तूनां परिवर्त्तो यत्र । वत्सरे जटा०

सर्वला(ली) स्त्री सर्वं लाति ला--क वा गौरा० ङीष् ।

तोमरास्त्रे अमरः ।

सर्वलिङ्गिन् पु० सर्वेषां लिङ्गानि सन्त्यस्य इनि ।

वेदविरुद्वाचारिणां बोद्धादीनां लिङ्गवत्सु पाषण्डेषु अमरः

सर्वलोह पु० सर्वः लोहमयोऽवयवो यस्य । लौहमये बाणे

हेमच० ।

सर्ववर्णिका स्त्री सर्वं वर्णयति वर्ण--ण्वुल् अत इत्त्वमृ । गाम्भारीवृक्षे जटा० ।

सर्वविद् पु० सर्वं वेत्ति विद--क्विप् । १ परमेश्वरे २ सर्वज्ञा-

तरि त्रि० ।

सर्ववेद पु० सर्वो वेदान् अधीते उक्त्था० ठक् । “सर्वादेः

सादेश्च लुक् वक्तव्यः” वार्त्ति० तस्य लुक् । १ सर्ववेदाध्य-
यनकर्त्तरि । सर्वा वेत्ति विद--अण् उप० । २ सर्वज्ञे त्रि० ।

सर्ववेदस् स० सर्वाणि धनानि वेदयते लम्भयति पात्राय

दक्षिणार्थ ददाति विद--लाभे णिच्--असि । सर्वस्व-
दक्षिणकविहजिन्नामकादियागकर्त्तरि अमरः ।

सर्ववेदस न० सर्वं अदः गृहे विद्यमानं धनं नि० अच्समा० ।

सर्वस्वे गृहे विद्यमाने सर्वधने तच्च विश्वजिद्यागे दक्षि
णात्वेन विहितम । “सहस्र सर्ववेदसं विश्वजितः”
कात्या० श्रो० २२ । १ । ९ सहस्रसर्ववेदसयोर्विश्वजिति
विकल्पः । सर्ववेदसपक्षे इदमुच्यते । “ज्येष्ठ पुत्रकप
भज्य भूमिशूद्रवर्जं योगाविशेषात् सर्वेषाम्” सू० ।
“ज्येष्ठपुत्रस्य विभागं दत्त्वां भूमिशूद्रद्वर्जं ददाति कुत
पतत् सर्वमनुष्याणां हि भूम्या योगोऽविशिष्टः धारण-
चङ्क्रमणद्वारेण शूद्रस्य च शुश्रूषोपनतनेति” कर्क
“भूमेस्तावद्धारणशयनासनवङ्क्रमणादिसम्बन्धः सर्वेषः ।
मविशिष्टा यः शूद्रो धर्मार्थं सेवां कुरुते स मर्वेषामवि-
शिष्ट एव संग्र० व्याः “शूद्रदानं वा दर्शनाविरोधाभ्याम्”
सू० वाशब्दः पक्षव्यावृत्तौ शूद्रस्य दानं च भवति दृश्यते
हि शूद्रस्य दानं पुरुषमेधे “सपुरुषं प्राची दिग्घातु-
रिति” न च विरोधो गर्भदासस्य । तस्माच्छूद्रो दीयत एव
अनेन च न्यायेन भूमेरप्येकदेशदानेनैव न विरोधः
“परिमाणे सवमविशेषात् सू० । सर्वस्वपरिमाणे यस्य
यावत् स्व तत्सर्वं गृह्यते सर्वं वेदः सर्ववेदसमिति तेन
प्रागपि सहस्रात् सर्ववेदसं भवति एवं प्राप्त आह । सर्व
स्वपरिमाणे अपेक्षिते सर्वस्वं यस्य यावद्धनं गृहे सुवर्णा-
दि तत्सर्वं देयम् कुतः अविशेषात् न च सर्वस्वं
ददातीति (अस्य) वाक्यशेषः श्रुतः येन सहस्रान्न्यूनमतिरिक्तं
वेति विशेष आश्रीयते । “अधिकं वा प्रकृत्यनुग्रहात्
सू० । “अधिकं वा सहस्रात् सर्ववेदसं ग्रहीतव्यम् ।
प्रकृत्य हि सर्ववेदसं सष्टम्रेणानुग्रहं दर्शयति कोऽर्हति
मदष्यः सर्ववेदसं दातुं तस्मात् सहस्रं देयमिति एतच्च
सहस्रादधिक उपसद्यते नेतरथेति एवं तावदत्र (विश्व-
जिति) सहस्रादधिकं सर्ववेदसमित्युक्तम्” कर्कः । “सर्वष्व
प्रतिनिधिर्वा” सू० “दीयते अप्रसिद्धत्वादुव्यते” कर्क० “धेन्व-
नडुतसारधान्यपल्यदासमिथुनमहानसारोहणविमितशय-
नानि” सू० । “धेन्वादीनि दासमिथुनान्तानि प्रसिद्धानि
महानसोपयोगिकं द्रव्यं ताम्रचर्वादिमहानसशब्देनोच्यने
आरोहणं च युग्यं विमितशयने प्रसिद्धे पव । धेनुः
प्रसिद्धा अनडुद्वलीवर्दः सीरं हलम् धान्यं गोधूमादि-
पल्य पलादिमानार्हम् । दासमिथुनं दासीकमौ
महानसं ताम्रचर्वादिगृहोपकरणम् आरीहण हस्त्वश्व “द
विमितं गृहम् शयनं खट्वादं एता । न दद्यात्” कर्कः ।

सर्ववेशिन् पु० सर्वेषां वेशो धार्य्यत्वेनास्त्यस्यं इनि । नटे

हेमच० ।

सर्वसङ्गत पु० सर्वं सङ्गतमुचितं यस्य । १ षाष्टिधान्ये शब्दच० सर्वेत्रोचित त्रि० ।

सर्वसंसर्गलवण न० सर्वसंसर्गेण जातं लवणम् । औषरके

लवणे राजनि० ।

सर्वसन्नहन न० सर्वेषां सन्नहनं युद्धार्थं सज्जीकरणं यत्र ।

चतुरङ्गसैन्यसज्जीकरणेन युद्धयात्रायाम् अमरः ।

सर्वसह पु० सर्वं सहते अच् । १ गुग्गुलो रत्नमा० २ सर्व०

महिष्णौ त्रि० ।

सर्वसिद्धि पु० सर्वेषां सिद्धिरस्मात् । १ श्रीफले शब्दच० । २ सकलार्थसाधने त्रि० ।

सर्वस्व न० कर्म० । सकलधने सर्ववेदसशब्दे दृश्यम् ।

पृष्ठ ५२६१

सर्वस्वदक्षिण पु० सर्वस्वं दक्षिणा यत्र । विश्वजिन्नामकया-

गभेदे सर्ववेदसशब्दे दृश्यम् ।

सर्वहित न० सर्वेषां हितम् । १ मरिचे राजनि० ५ ब० । २ सकलहितहेतौ त्रि० ।

सर्वाङ्गसुन्दर पु० औषधभेदे “रमगन्धकतुल्यांशो द्वौ भागौ

टङणस्य च । मौक्तिकं विद्रुमं शङ्खमवनीय समांशतः ।
हेमभस्मार्द्धभागञ्च सर्वं खल्ले निधापयेत् । निम्बुद्रवस्य
योगेन पिष्टिकां कारयेद्भिषक् । पश्चात् गजपुटं दद्यात्
शीतलञ्च समुद्धरेत् । हैमभस्मसमं तीक्ष्णं तीक्ष्णार्द्धो
दरदो मतः । एकीकृत्य समस्तानि सूक्ष्मचूर्णानि
कारयेत् । ततः पूजां प्रकुर्वीत भक्षयेत् दिवसे शुभे । सर्वाङ्ग-
सुन्दरो ह्येष रोगराजनिकृन्तनः । वातपित्तज्वरे घोरे
सन्निपाते सुदारुणे । अर्शः तु ग्रहणीरोगे मेहे गुल्मे
भगन्दरे । निहन्ति वातजान् रोगान् श्लैष्मिकांश्च वि
शेषतः । पिषपलीमधुसंयुक्तं घृतयुक्तमवापि वा । मक्ष-
येत् पर्णखण्डेन सितया चार्द्रकेण वा । गुडूचीरस
कहितं प्रमेहे च विशेषतः । रसरत्नाकरप्रोक्तः सिद्ध-
योगो रमोत्तमः । राजिकाहिङ्गुतैलाम्लं लबणाद्यं
विवर्जयेत्” भैषज्यरत्ना० । हेमभस्यवः सर्वद्रव्यार्द्ध-
त्वमिति मतान्तरम् ।

सर्वाङ्गीण त्रि० सर्वाण्यङ्गानि व्याप्नोति ख । सर्वावयव-

व्यापके “सर्वाङ्गीणे तरुत्रचे” इति मट्टिः ।

सर्वाणी स्त्री सर्वेभ्य आनयति मोक्षं आ--नी--ड पूर्वपटादिति

णत्वम् । दुर्गायाम् “सर्पान् मोह्यान् प्रापयति जन्म
मृत्युजरादिकम् । चराचरांश्च विपस्थान् सर्वाणी तेन
कीर्त्तिता” ब्रह्मवै० प० ५४ अ० तन्निरुक्तिः ।

सर्वानुकारिणी स्त्री सर्वमनुकरोति अमु + क्व--णिनि ङीप् ।

१ शालपर्ण्याम् राजनि० २ सकलसदृशे त्रि० स्त्रियां ङीप् ।

सर्वानुभूति स्त्री सर्वेषामनुभूतिर्यत्र । १ श्वेवत्रिवृतायाम्

अभरः २ तत्त्वज्ञानिनि त्रि० ३ जिनभेदे हेमच० ।

सर्वान्नभोजिन् त्रि० सर्वषामन्नं सर्वाण्यन्नानि वा भुङ्क्ते

भुज--णिनि । सर्वान्नभक्षक अमरः ।

सर्वान्नीन त्रि० सर्वेषामन्नं सर्वमन्नं वा भुङ्क्ते ख । सर्वान्नभक्षके अमरः

सर्वाभिसन्धिन् पु० सर्वत्र आसरणे अभिसन्धास्त्यस्य इनि ।

१ मन्त्राभसन्धिमति जने २ छद्मतापमे त्रिका० ।

सर्वाभिसार पु० अभिस्रियते अत्र अभि + सृ--भावे घञ्

६ त० । चतुरङ्गसैन्यमन्नाहेन युद्धयात्राभेदे ।

सर्वार्थसिद्ध पु० सर्वेषु अर्थेषु सिद्धः । १ बुद्धे अमरः ६ ब० ।

२ सत्तलाभीष्टसिद्धियुते त्रि० ।

सर्वार्थानुसाधिनी स्त्री “धर्मादीन् चिन्तितान् यस्मात्

सर्वलोकेषु यच्छति । ततो देवी समाख्याता सा सर्मा-
र्थानुसाधिनी देवीपु० ४५ अ० निरुक्तायां दुर्गायाम् ।

सर्वावसर पु० सर्वेषां कर्मणामवसरोऽपहरणं यत्र । अर्द्ध-

रात्रे त्रिका० ।

सर्वास्त्रा स्त्रा सर्वाणि अस्त्राणि यस्याः । १ देवीभेदे हेमच० २ सकलास्त्रयुते त्रि० ।

सर्वाह्ण पु० सर्वमहः टच्समा० ह्रादेशः णत्वम् । सकलदिने

सर्वौघ पु० सर्वेषां चतुरङ्गसैन्यानामोघो वृन्दममिसारे यत्र ।

आघोभूतसर्वसैन्याभिसारे अमरः कर्म० । २ सर्वजलवेगे मेदि०

सर्वौषधि स्त्री कर्म० । “कुष्ठमांसीहरिद्राभिर्वचाशैलेयच-

न्दनैः । मुराचम्पककर्पूरैर्मुस्तः सर्वौषधिः स्मृता” इत्युक्ते
कुष्ठादिद्रव्यवर्गे राजनि० । हेमाद्रौ छन्दोगपरिशिष्टे
“कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचन्दनम् । वना
चम्यकमुस्तञ्च सर्वौषध्यो दश स्मृताः” ता एवोक्ताः ।
शब्दचन्द्रिकामेता एव सर्वौषधिगणत्रेनोक्ताः ।

सर्वौषधिगण पु० सर्वासामोषधीनां गणः । “मुरा मांसी

वचा कुष्ठं शैलेयं रजनीद्वयम् । शठीचम्पकमुस्तञ्च सर्वौ
षघिगणः स्मृतः” शब्दच० उक्ते द्रव्यगणे ।

सर्षप पु० सृ--अप सुक् च । (सरिषा) १ सखभेदे अमरः ।

“सर्षपस्तु रसे पाके कटुर्हृद्यः सभक्तिकः । तीक्ष्णोष्णः
कफवातनो रक्तपित्ताग्निवर्द्धनः । रक्षाहरोजयेत्
कण्डूकष्ठचोठकृमिग्रहान् । यथा रक्तस्तथा गौरः किन्तु
गौरोवरो मतः” तच्छाकगुणाः “कटुकं सार्षपं शाकं
नहुमूत्रमलं गुरु । अम्लपाकं विदाहि स्यादुष्णं रूक्षं
त्रिदोषकृत् । सक्षारं लवणं तीक्ष्णं स्वादु शाकेषु
निन्दितम् । तीक्ष्णाष्णं सार्षपं नालं वातश्लेष्मव्रणापहम् ।
कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम्” भावप्र० ।
“जालान्तरगते भामौ वच्चाणु दृश्यते रजः । तैश्चतुर्भि-
र्भवेल्लिख्या लिख्या षडभिश्च सर्षपः” शब्दश्च० उक्ते
२ मानमेदे । ३ खञ्जनिकायां स्त्री त्रिका० ङीष् ।

सर्षपतैल न० सर्षपय्य स्नेहः सर्षप + स्नेहार्शे--तैलत्त ।

सर्षपस्नेहरूपे तैलमेदे “सर्षपतैलं तिक्तं कटुकं
वातकफविकारघ्नम् । पित्तास्रदोषदं कृमिकुष्ठघ्नं तिलजव-
च्चक्षुष्यम्” राजनि० ।

सल न० सल--अच । जले भरतः ।

सलिल न० सल--इलच । १ जले अमरः । बद्वैकृत्ये भलं

जलवैकृतशब्दे ३०७१ पृ० दृशप्रम् । ज्या० उक्ते २
जलदवताके उत्तराशादानक्षत्रे लग्नावपिके ३ चतुर्थस्थामे च
पृष्ठ ५२६२

सलिलकुन्तल पु० सलिलस्य कुन्तल इव । शैवाले त्रिका० ।

सलिलज न० सलिले जायते जन--ड । १ पद्मे राजनि० ।

२ जलजातमात्रे त्रि० ।

सलिलनिलय पु० सलिलं निलयो यस्य । १ जलचरे २

मीनकर्कटराशौ च “सलिलनिलयाभक्ष्या वश्याः सरीसृ
पजातयः” ज्यो० त० ।

सलिलराशि पु० ६ त० । समुद्रे सलिलनिध्यार्दयोऽप्यत्र ।

सलिलेन्धन पु० सलिलमिन्धनसिव दाह्यं यस्य । बड़वा-

नले त्रिका० ।

सल्लकी स्त्री शल--वुन् लुक्च पृषो० शस्य सः गौरा० ङीष् ।

शल्लक्यां गजभक्ष्यायाम् अमरे पाठान्तरम् ।

सव पु० सूयते सु--अच् । १ यज्ञे अमरः । २ सन्ताने मेदि० ।

अच् । ४ सूर्य्ये ४ अर्कवृक्षे ५ जले न० जटा० ।

सवन न० सु--सू--वा ल्युट् । यज्ञाङ्गे २ स्नाने अमरः ।

सोमनिष्पीड़ने ४ अभिषवे अमरः ५ सोमपाने भरतः । ६ यज्ञे
७ प्रसवे च ८ मद्यसन्धाने । यज्ञियसवनानि च त्रीणि
प्रातर्मध्यतृतीयभेदात् । हवींषि निर्वपत्याग्नेयमैन्द्रं
वैश्वदेवं चरुं सवनकालेष्वेकैकम् कात्या० श्रौ० २४ । ७ । ५ ।
सू० “कुतएतत् आग्नेयं प्रातःसवनम्, ऐन्द्रं माध्यन्दि
नमवनम्, वैश्वदेवं तृतीयसवनमित्यर्थवादात्” । “प्रात-
मैध्यन्दिनापराह्णेषु एकैकं हविर्निर्वपति” कर्कः ।

सवयस् त्रि० समानं वयो यस्य समानस्य सः । वयस्ये अमरः

“सवयोभिरन्वितः” इति रघुः ।

सवर्ण पु० समानोवर्णो यस्य । १ तुल्यरूपे हेमच० २ एकजा-

त्याश्रये यथा विप्रस्य विप्रजातिः क्षत्रियस्य क्षत्रियजातिः
“तुल्यास्यप्रयत्नं सवर्णमिति” पा० उक्ते स्थानप्रय-
त्नाभ्यां ३ तुल्ये वर्णे च यथा ककारस्य स्थानेन तुल्यो
गकारादिः, प्रयत्नसाम्येन तकारस्य चकारादिः,
जकारस्य सकारः सकारस्य षकारः । हकारस्य वर्ग्याश्चतुर्था
वर्णाः । सह वर्णेन । ४ वर्णसहिते त्रि० ।

सवर्णन न० सवर्ण + कृतौ णिच्--भावे ल्युट् । तुल्यरूपता

सम्पादने “अंशसवर्णनं स्यात्” लीला० ।

सवहा स्त्री सह बहेन । त्रिवृतायां भरतः ।

सवासस् त्रि० सह वाससा । १ वस्त्रत्यागविलम्बस्याक्षमे

वेगवति “संवासा जलमाप्लवेत्” स्मृतिः ।

सविकल्पक न० सह--विकल्पेन कप् । वेदान्तोक्ते ज्ञातृ-

ज्ञेयभेदादिकल्पनासहिते १ समाधिभेदे न्यायोक्ते
एकस्मिन् धर्मिण्यपरसंसर्गावगाहिनि २ ज्ञानभेदे च
पात० उक्ते सम्प्रज्ञाते ३ समाधिभेदे असम्प्रज्ञातशब्दे
४७पृ० दृश्यम् । निर्विकल्पकशब्दे ४१०३ पृ० दृम्यम् ।

सविकाश त्रि० सह विकाशेन । १ प्रफुल्ले विकशिते २

असङ्कोचे च “जगन्ति यस्यां सविकाशमासत” माघः ।

सविचारा स्त्री पात० उक्ते समापत्तिरूपसमाधिभेदे निर्वि-

चारशब्दे ४१०३ पृ० दृश्यम् ।

सवितर्का स्त्री पात० उक्ते समापत्तिरूपसमाधिभेदे

“तत्र शब्दार्थज्ञानविकल्पैः सङ्कीणां सवितर्का
समापत्तिः” सू० “तद्यथा गौरिति शब्दो गौरित्यर्थो
नौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टं
विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञा-
नधर्मा इत्येतेषां विभक्तः पन्थाः, तत्र समापन्नस्य
योगिनोयोगवाह्यर्थः समाधिप्रज्ञायां समारूढः स चेत्-
शब्दज्ञानविकल्पानुविद्ध उपावर्त्तते सा सङ्कीर्णा
समापत्तिः सवितर्केत्युच्यते । यदा पुनः शब्दसङ्केतस्मृति-
परिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्याया समाधिप्रज्ञायां
स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छि-
द्यते सा च निर्वितर्का समापत्तिः तत् योगिनां परं
प्रत्यक्षं, तच्च श्रुतानुमानयोर्वीजं ततः श्रुतानुमाने प्रभ-
वतः । न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनं तस्माद-
सङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं
दर्शनमिति” भा० ।

सवितृ पु० सू--तृच् । १ जङ्कत्स्रष्टरि परमेश्वरे “तत्सवितु-

र्वरेण्यमि” ति श्रुतिः । २ सूर्ये ३ अर्कवृक्षे अमरः ।
४ तद्देवताके हस्तनक्षत्रे ज्यो० । ५ मातरि स्त्री हेमच०
ङीप् । सवितुरिदं घ सवित्रिय तत्सम्बन्धिनि त्रि० ।
स देवताऽस्य अण् । सावित्र तद्देवताकचर्वादौ त्रि०
स्त्रियां ङीप् ।

सविध त्रि० सह विध्यति विध--क सहस्य सः । १ निकटे

अमरः “सविधेऽपि न सूक्ष्मसाक्षिणी” नैषधम् । सह
षिधया । २ प्रकारयुते ३ विधानयुक्ते च त्रि० ।

सविस्मय त्रि० सह विस्मयेन । विस्मयापन्ने हारा० ।

सवीज पु० पात० उक्ते समाधिभेदे “ताएव सवीजः

समाधिः” सू० “ताश्चतस्रः समापत्तयो बहिर्वस्तु वीजरूपा
इति समाधिरपि सवीजः तत्र स्थूलेऽर्थे सवितर्का
तिर्वितर्के सूक्ष्मेऽर्थे सविचारनिर्विचारे इति चतुर्द्धो
पसंख्यातः समाधिरिति” भा० ।

सवेश त्रि० विशत्यत्र वेशोदेशः सह वेशेन । १ निकटे अमरः २ वेशान्विते धरणिः ।

पृष्ठ ५२६३

सव्य त्रि० सू--प्रेरणे यत् । १ वामे २ दक्षिणे च अमरः ।

३ प्रतिकूले हेमच० ४ विष्णौ शब्दमा० ।

सव्यभिचार पु० सह व्यभिचारेण सहस्य सः । अनैका-

न्तिके दुष्टहेतुभेदे तल्लक्षणं तु “अनैकान्तिकः सव्यभि-
चारः” गौ० सू० “व्यभिचार एकत्राव्यवस्था सह व्यभि-
चारेण वर्त्तते इति सव्यभिचारः निदर्शनं नित्यः शब्दो-
ऽस्पर्शत्वात्” वा० भा० । तत्त्वञ्च साध्यवन्मात्रवृत्त्यन्यत्वे
सति साध्याभाववन्मात्रवृत्त्यन्यत्वम् चिन्ता० । सव्यभिचार-
ग्रन्थदीधित्यादौ दृश्यम् ।

सव्यसांचिन् पु० सव्येन वामेनापि सचति सन्दघाति बाणं

सच--णिनि । अर्जुने हेमच० “उभौ मे दक्षिणौ पाणी
गाण्डीवस्य विकर्षणे । तेन दैवमनुष्येषु सव्यसाचीति
मां विदु” भा० वि० ४४ अ० ।

सव्येष्ठ पु० सव्ये तिष्ठति स्था--क अलुक्स० अम्बष्ठादि०

षत्वम् । सारथौ हला०

सव्येष्ठृ पु० सव्ये तिष्ठति स्था--ऋन् किच्च अलुक्स० षत्वम् । सारथौ अमरः ।

सशस्या स्त्री सह शस्येन । १ नागदन्त्यां रत्नमा० २ शस्य-

युक्ते त्रि० ।

ससत्वा स्त्री सह सत्वेन । १ गर्भवत्यां स्त्रियां

२ प्राणियुक्ते त्रि० न मसत्वेषु गर्त्तेष्वि” ति मनुः ।

स(श)सन न० स(स)स० हिंसने ल्युट् । यज्ञार्थं पशुहनने अमरः

सस्य न० सस--यत् । १ वृक्षादीनां फले अमरः २ क्षेत्रगते धान्ये

च हेमच० “सस्यं क्षेत्रं गतं प्रोक्तम्” स्मृतिः ।
“सस्यञ्च गृहमागतम्” चाणक्यः तालव्यादिरयमित्येके ।
३ शस्त्रे ४ गुणे विश्वः ।

सस्यक पु० सस्यमिव कायति कै--क । “सस्यको नारिके-

लान्तःसस्याभो मणिखड्गयोः” मेदि० उक्ते १ मणिभेदे
२ खड्गे च ।

सस्यमारिन् पु० सस्यं मारयति सृ--णिच् णिनि । १ मूषके

राजनि० २ सस्यघातके त्रि० ।

सस्यसंवर पु० सस्यं संवृणोति सम् + वृ--अच् । शालवृक्षे अमरः ।

सस्यसंवरण पु० सस्यं संवृणौति सम् + वृ--ल्युट् । अश्व-

कर्णवृक्षे राजनि० ।

सस्वेदा स्त्री सह स्वेदेन सहस्य सः । १ दूषितकन्यायां शब्दर० २ घर्मयुक्ते त्रि० ।

सह अव्य० सह--अच् । १ साहित्ये अमरः २ साकल्ये ३

सादृश्ये ४ यौगपद्ये ५ विद्यमानत्वे ६ समृद्धौ ७ सम्बन्धे
मेदि० । ८ सामर्थ्ये शब्दमा० । सहशब्दार्थस्तु समभि-
व्याहृतक्रियाकालः स्वक्रियाकालीनक्रिया वा । तत्र
गौणक्रियान्वविनि तृतीया । पुत्रेण सहागता पिता ।

सह पु० सहते सह--अच् । १ अग्रहायनमासे २ भारादि-

सहिष्णौ त्रि० हेमच० ३ गन्धलवणे ४ बले पु० न० मेदि० ।

सहकार पु० सह युगपत् किरति सौरभम् दूरात्

कृअण् । अतिदूरगामिसौरभान्विते १ आम्रे अमरः । भावे
घञ् । २ सहकर्मकरणे पु० ।

सहकारिन् त्रि० सह सम्भूय करोति कार्य्यं कृ--णिनि ।

हेतुभेदे स्वभिन्ने स्वकार्य्यकारके हेतौ ।

सहगमन न० सह + गम--ल्युट् । १ पत्यासहपत्न्यामरणे २ महगतौ च

सहचर पु० सह चरति चर--अच् । १ पीतझिण्ट्यां २ नील

झिण्ट्याञ्च रत्नमा० । ३ वयस्ये ४ प्रतिबन्धके ५ झिण्ट्यां
हेमच० । ६ सहांये ७ अनुचरे त्रि० मेदि० “सहचर-
मधुहस्तन्यस्तचूताङ्कुरास्त्रः” कुमारः । स्त्रियां ङीप् ।

सहचरी स्त्री सह चरति चर--ट ङीप् । १ पीतझिण्ट्यां

२ सख्यां जटा० । सह चरति धर्मम् चर--ट ङीप् । धर्म-
पत्न्यां हेमच० ।

सहचार पु० सह + चर--घञ् । सामानाधिकरण्ये तदधिकरणवृत्तित्वे ।

सहज पु० सह जायते जन--ड । १ सहोदरे अमरः २

निसर्गजे स्वभावसिद्धे च “सहजप्राकृतावपि” माघः । ३
सहोत्थिते त्रि० मेदि० ज्योतिषोक्ते जन्मलग्नात् ४ तृतीय-
स्थाने । तत्र भ्रातुः शुभादिचिन्तनात्तथात्वम् ।

सहजमित्र न० सहजं स्वभावसिद्धम् मित्रम् । स्वभावतो

मित्रे भागिनेयादौ मिता० ।
कतिचित् सहजमित्राणि शुक्रनी० परि० उक्तानि यथा
“केचित् स्वभावतोऽमित्रामित्राणि सन्ति सर्वदा । माता
मातृकुलं चैव पिता तत्पितरौ तथा । पितृपितृव्या-
त्मकन्या पत्नी तत्कुलमेव हि । पितृमात्रात्मभगिनी
कन्यका सन्ततिस्तथा । प्रजापालो गुरुश्चैव मित्राणि
सदजानि तु” । २ विद्यादौ च “विद्या शोर्य्यञ्च दाक्ष्यं
च बलं धैर्य्यञ्च पञ्चमम् । मित्राणि सहजान्याहुर्वर्त्त-
यन्ति हितैर्बुधाः” शुक्रनीतिपरिशिष्टम् ।

सहजारि पु० सहजः स्वभावसिद्धः अरिः । सापत्नभ्रातृ-

पितृव्यपुत्रादौ मिता० ।
शुक्रनीतिपरिशिष्टे अन्येऽप्युक्ता यथा
“स्वभावतो भवन्त्येतेऽरयो दुर्वृत्त एव च । ऋणकारी
पिता शत्रुर्माता स्त्री व्यभिचारिणी । आत्मपितृ भ्रात-
रश्च तत्स्त्रीपुत्राश्च शत्रवः । स्नुषा श्वश्रू सपत्नी च
ननान्दा यातरस्तथा । मूर्खः पुत्रः कुवैद्यश्चारक्षकश्च
पतिः प्रभुः । चण्डश्चण्डा प्रजा शत्रुरदाता धनिकश्च
पृष्ठ ५२६४
यः । दुष्टानां भूपतिः शत्रुः कुलटानां पतिव्रता । साधुः
खलानां शत्रुः स्यात् मूर्खानां बोधको रिपुः ।

सहण्डुक न० पक्वमांसभेदे “छागादेर्मांसमूर्द्ध्वादेः कुट्टितं

खण्डितं पुनः । शुद्धमांसविधानेन पचेदेतत् सहण्डुकम्”
भावप्र० ।

सहदेव पु० सह दीव्यति दिव--अच् । २ माद्रीसुते पाण्डव-

भेदे मेदि० २ बलायां ३ दण्डोत्पले ४ शारिरोषधौ च स्त्री
मेदि० टाप् । ५ सर्पाक्ष्यां स्त्री मेदि० ङीष ङीषन्तः ।
६ पीतदण्डीत्पलायां रत्नमा० ।

सहदेव्यादि पु० “सहदेवी बला चैव शतमूली शतावरी ।

कुमारी च गुडूची च सिंही व्याघ्री तथैव च” गरु०
पु० ४८ अ० प्रतिष्ठाङ्गदेवस्बानीयद्रव्यगणभेदे ।

सहधर्मिणी स्त्री सह समानो वा धर्मोऽस्त्यस्या इनि ।

१ पत्न्याम् अमरः “सहधर्मं चरेयाताम्” इति मनूक्तेः
सहधर्मचारित्वात् “शरीरार्द्धं स्मृता जाया पुण्या-
पुण्यफले समा” दायभा० उक्तेश्च तस्याः पतिकृतधर्मफल-
भागित्वाच्च तथात्वम् ।

सहन न० सह--ल्युट् । १ क्षमायां तितिक्षायां शीतोष्णादि-

द्वन्द्वधर्मसहने हेमच० । सह--ल्यु । २ सहिष्णौ अमरः
३ जमागीले त्रि० मेदि० ।

सहपान न० सह पानम् । एकत्र मद्यादिपाने हेमच० ।

२ तुल्यपाने अमरः ।

सहपांशुकिल पु० सह पांशुभिः किलति किल--क । वयम्ये त्रिका० ।

सहभाविन् त्रि० सह भवति भू--णिनि । सहाये स्त्रियां

ङीप् ।

सहभोजन न० सह एकत्र भाजनम् । एकत्रस्थानेऽशनादौ अमरः ।

सहम न० नील० ता० उक्ते दिवारात्रिभेदेन परस्परं

योगवियोगयुतग्रहविशेषेण युतेन लग्नादिनानीते पुण्यादि
शुभादिचिन्तनस्थाने राशिभेदे तानि च पञ्चाशत्
तदानयनं तत्फलानि च तत्रोक्तानि यथा
“पुण्यं गुरुर्ज्ञानयशोऽथ मित्रं साध्ये कृते यत्र न योग
उक्तः । कस्यापि तत्रैव युतं विलग्न माहात्म्यमाशा च
समर्थना च । भ्राता ततो गौरवराज्यताता माता सुतो
जीवितमम्बु कर्म । मान्द्यं च मन्मथकमी परतः
क्षमोक्ता शास्त्रञ्च बन्धुसहम त्वथ बन्धकञ्च । मृत्योश्च
मद्म परदेशधनान्यदारा स्यादन्यकर्म सबणिक् त्वथ का
र्य्यसिद्धिः । उद्वाहसूतिमन्तापश्रद्धाप्रीतिर्बलं तनुः ।
जाद्यव्यापारसहमे पानीयपतनं रिपुः । शौर्य्योपाय-
दरिद्रत्वं गुरुताम्बुपथाभिधम् । बन्धनं दुहितैतानि
पञ्चाशत् सहमानि हि । सूर्य्योनचन्द्रान्वितमग्नि लग्नं
रवीन्दुयुक्तं निशि पुण्यसंज्ञम् १ । शोध्यर्क्षशुद्ध्याश्रय-
मान्तराले लग्नं न चेत् सैकभमेतदुक्तम् । व्यत्यस्तमस्मात्
गुरु २ विद्ययो ३ स्तु संसाधनं पुण्यवियुक् सुरेज्यः । दिवा
विलोमं निशि पूर्ववत्तु यशोभिधं ४ तत् सहमं वदन्ति ।
पुण्यसद्म गुरुसद्मतस्त्यजेत् व्यत्ययो निशि सितान्वितं च
तत् । सैकतातनुवदक्तरीतितो मित्रलामसहमं ५
जगुर्बुधाः । पुण्याद्भोमं शोधयेदुक्तरीत्या माहात्म्यं ६
गन्नक्तमस्माद्विलोमम् । शुक्रं मन्दादह्नि नक्तं विलोम-
माशाख्यं ७ स्यादुक्तवच्छेषमूह्यम् । सामर्थ्य ८ मारात्तनुप
विशोध्य नक्तं विलोमं तनुपे कुजे तु । जीवाद्विशुद्धे
सततं पुरावत् भ्राता ९ र्किहीनात् गुरुतः सदोह्यः ।
दिने गुरोश्चन्द्रमपास्य नक्तं रविं क्रमादर्कविधू च देयौ ।
रीत्योक्तया गौरव १० मर्कमार्केरपास्य वामं निशि राज्य-
तातौ ११ । १२ । माते १२ न्दुतोऽपास्य सितं विलोमं नक्तं
सुतो १४ऽहर्निशमिन्दुमीज्यात् । स्याज्जीविताख्यं १५ गुरु-
मार्कितोऽह्नि वामं निशीदं सममम्बयाम्बु १६ । कर्म १७
ज्ञमारान्निशि वाममुक्तं रोगाख्य १८ मिन्दुं तनुवः
सदैव । स्यान्मन्मथो १९ लग्नपमिन्दुतोऽह्नि वामं
निशीन्दुं तनुपं सदार्कात् । कलि २० क्षमे २१ स्तो गुरुतो
विशुद्धे कुजे विलोमं निशि पूर्वरीत्या । शास्त्रं २२ दिने
सौरिमपास्य जीवात् वामं निशि ज्ञेन युते पुरावक ।
दिवानिशं ज्ञाच्छशिनं विशोध्य बन्ध्वाख्य २३ मेतन्निशि
वन्धकं २४ स्यात् । वामं दिवैतत् मृति २५ रष्टमर्क्षादिन्दुं
विशोध्योक्तवदार्कियोगात् । देशान्तराख्य २६ नवमाद्वि-
शोध्य धर्मेश्वरं मन्ततमुक्तवत् स्यात् । अहर्निश वित्तप-
मर्थभावाद्विशोध्य पूर्वोक्तवदर्थसंज्ञम् २७ । सितादपा-
स्यार्कमथान्यदारोह्वयं २८ सदा प्राग्वदथान्यकर्म २९ ।
चन्द्राच्छनिं वाममथो निशायां शश्वद्बणिज्यं ३० दिनबन्ध-
कोक्त्या । शनेर्दिवार्कं निशि चन्द्रमाकेर्विशोध्य सूर्य्येन्दु-
भनाथयोगात् । स्यात् कार्य्यमिद्धिः ३१ सततं विशोध्य
मन्दं सितात् स्यात्तु विवाहसंज्ञम् ३२ । गुरोर्बुधं प्रोद्द्य
भवेत् प्रसूति ३३ र्वामं निशीन्दुं शनितो विशाध्य । षष्ठं
क्षिपेदुक्तदिशा सदैव सन्तापसद्मा ३४ऽऽरमपास्य शुक्रात् ।
श्रद्धा ३५ सदा प्रोक्तदिशाथ पुण्यं विद्याख्यतः प्रोह्य
सदा पुरोक्त्या । प्रोत्याख्य ३६ मुक्ते बल ३७ देह ३८ सं ३९ ज्ञे
यशश्च ४० जाड्यं समपास्य भौमात्। शनि विलोमं
पृष्ठ ५२६५
निशि चन्द्रयोगात् व्यापार ४१ आराज्ज्ञमपास्य शश्वत् ।
पानीयपातः ४२ शशिनं विशाध्य सौरेर्विलोमं निशि
पूर्ववत् स्यात् । मन्दं कुजात् प्रोह्य रिपु ४३ र्विलोमं रात्रौ
भवेद्भौमविहीनपुण्यात् । शौर्य्यं ४४ विलोमं निशि
पूर्ववत् स्यादुपाय इज्यं ४५ शनितो विशोध्य । वामं
निशि ज्ञं तु विशोध्य पुण्यात् ज्ञयुग् विलोमं निशि
नद्दरिद्रम् ४६ । सूर्य्यौच्चतः सूर्य्यमपास्य नक्त चन्द्रं
तदुच्चात् गुरुता ४७ पुरोक्त्या । कर्कार्द्धतः शनिं पाह्यं
स्याज्जलाध्वा । ४८ न्यथा निशि । पुण्याच्छनिं विशोध्याह्नि
वामं निशि तु बन्धनम् ४९ । चन्द्रं सितादपास्योक्तं
सदा । कन्याख्य ५० मुक्तवत् । पुण्यादर्कमपास्यायं योगो
दृश्योऽन्यथा निशि । स्वनाथहीनं सहमं तदंशाः
म्वायोदयघ्ना विहृतास्त्रिशत्यां । तत्सद्मपाको
दिवमैर्हि लब्धैः स्यात् तद्दशायां तदसम्भवे वा । अथैषां
फलानि । स्वोच्चादिसत्पदगतो यदि लग्नदर्शी वीर्य्या-
न्वितः सहषपा यदि नेक्षतेऽङ्गम् । नासौ बली
रविशशिश्रितभेशदर्शी पूर्ण्णस्तु लग्नपबलस्य विचारणेत्थम् ।
पञ्चवर्गीबलेनोनो न हर्षस्थानमाश्रितः । अबलोऽयं
लग्नदर्शी बली स्वल्पेऽस्ति चेत् पदे । स्वस्वामिना शुभ
खगैः सहितं च दृष्टं स्वामी बली च यदि तत्सहमस्य
वृद्धिः । यत्स्वामिना शुभखगैश्च न युक्तदृष्टं तत्सम्भवो
न हि भवेदिति चिन्त्यमादो । अष्टमाधिपतिना युते
क्षित पापदृग्युतमथेत्थशालि तैः । सम्भवेऽपि विलयं
प्रयाति तत् तन जन्मनि पुरदभीक्ष्यताम । आदौ
जन्मनि सर्वेषां सहमानां बलाबलम् । विमृश्य सम्भवो
येषां तानि वर्षे विचारयेत् । सबले पुण्यसहसे
धमसिद्धिर्धनागमः । शुभस्वामीक्षितयुते व्यत्यये व्यत्ययं
विदुः । लग्नात् षष्ठाष्टरिप्फस्थं धर्मभाग्ययशोहरम् ।
शुभस्वामिदृशा प्रान्ते सुखधर्मादिसम्भवम् । पापयुक्
शुभदृष्टं चेदशुभं प्राक् ततः शुभम् । शुभयुक्तं पापदृष्ट-
पदो शुभमसत् परे । यत्रावदे पुण्यसहमे शुमं
सोव्दः शुभावहः । अनिष्टेऽस्मिन् शुभो नेति पुण्य-
मादौ विचारयेत् । सूतौ षष्ठाष्टरिप्फस्थमवदे
पावण्डतं युतम् । पुण्यधर्मार्थसौख्यघ्नं पत्यो दग्धे फलं
तथा । सहमान्यखिलानीत्थं सूतौ वर्षे च चिन्तयेत् ।
मान्द्यारिकलिमृत्यूनां व्यत्ययादादिशेत् फलम् ।
यशोऽभिधाने सहमे खनेन युतक्षिते सद्यशसो विनाशः ।
पापार्जितस्यायशसोऽस्ति लाभो नष्टौजसि स्यात् कुल-
कीर्त्तिनाशः । कार्य्यसिद्धिसहमं युतं शुभैर्दृष्टभूथसि-
लगं जयप्रदम् । सङ्करेऽथ शुभपापदृष्टियुक् क्लेशतो जय
उदीरितो बुधैः । कलिसद्म मिश्रखगदृष्टमंयुतं यदि
पापमूथशिलगं कलेर्मृतिम् । अथ तत्र सौम्यसहितावलो-
किते जयमेति मिश्रदृशितः कलिव्ययौ । विवाहसद्मा-
धिपसौम्यदृष्टं युतं शुभैर्मूथशिलं तदाप्तिम् । कुर्य्या-
त्तदा मिश्रसमेतदृष्टं कष्टादथ क्ररमृतीश्वरैर्न । आशा
तदीशश्च षड़ष्टरिप्फविवर्जितः सौम्ययुतेक्षितश्च । व्या-
द्वाञ्छितार्थाम्बरवाहनादिलाभः खलेक्षायुतितोऽतिदुः-
खम् । मान्द्याधिपः पापयुतेक्षितश्च पापा स्वयं
रोगकरो विचिन्त्यः । चेदित्थशाली मृतिपेन मृत्युस्तदा
भवेद्धीनबलेऽतिकष्टात् । स्वस्वामिसौम्येक्षणभाजि-
मान्द्ये नाथे सवीर्य्येऽष्टषड़न्त्यवर्जे । रोगस्तदा नैव
भवेद्विमिश्रं युतेक्षित रुग्भयमस्ति किञ्चित् । अर्थाख्यं
शुभनाथदृष्टसहित द्रव्यागमात् सौख्यदं पापैर्दृष्टयुतं च
वित्तविलयं कुर्य्यादथो पापयुक् । सद्दृष्टं च शुभेत्थशाल-
सहितं पूर्वं हि तन्नाशनं पश्चादर्थसमुद्भवं च सुसुखं व्यत्या
सतो व्यत्ययः । रिपुदृष्ट्या रिपोर्भी तस्तस्करादेर्धनक्षयः ।
मित्रदृष्ट्या मित्रयोगाद्धनमानौ यशः सुखम् ।
सत्स्वामिदृष्टं युतमात्मजस्य लाभं सुखं यच्छति पुत्रसद्म ।
पापान्वितं सौम्यखगेत्थशालं प्राग्दुःखदं पुत्रसुखीय पश्चात् ।
पापान्वितं क्र रकृतेशराफं नाशाय पुत्रस्य गतौजसीशे ।
सूतौ सुतेशः सहमेश्वरोऽव्दे पुत्रस्य लब्ध्यै शुभभित्र०
दृष्टः । पित्र्यं सदीक्षितयुतं पतिदृष्टयुक्तं तातस्य
यच्छति धनाम्बरमानसौख्यम् । पत्यौ गतौजसि मृतौ
खलप्रवरोफे नाशः पितुश्चरगृहे परदेशयानात् ।
शुभेत्थशाले खलखेटयोगे गदप्रकोपः प्रथमे महान् स्वात् ।
पश्चात् सखं विन्दति पूर्णवीर्य्ये नाथे नृपान्मानयशो-
भितवृद्धिः । बन्धनाख्यसहम युतेक्षितं स्वामिना
शुभखगौ सुखाप्तये । राजगौरवयशोथराप्तयः पापवीक्षण-
युते पदाच्युतिः । शुभाशुभैट ष्टयुतं खलैश्चेत् कृते-
त्थशालं धनमाननाशम् । पर्वं विधत्ते चरमे शुभेत्थशाले
सुखं वाहनशास्त्रनाभ्म् । कर्मभावसहमाधिपः शुभैः
स्वामिना भूथशिलो बलान्वितः । हेमवाजिगजभूमिला-
भदः पापदृष्टियुतितोऽशुभप्रदः । दग्धा वक्राः कर्म-
वैकल्यदास्ते युक्ता दृष्टाः शौरिणा ते विशेषात् । राज्य-
भ्रंशः कोषलाशश्च राजकर्मेशौ चेत् मशराफो खलेन ।
उपदेष्टा गुरुर्ज्ञानं विद्या शास्त्र श्रुतिः स्मृतिः । मोहो
पृष्ठ ५२६६
जाड्यं बलं सैन्यमङ्गं देहो जलं द्युतिः । गुरुता मण्डले
शत्वं गौरवं मानशालिता । निग्रहानुग्रहविभूराज-
चिह्नादिलाञ्छनम् । माहात्म्यं मन्त्रगाम्भीर्य्यं धृति-
र्बुद्ध्यादिशालिता । सामर्थ्यं देहजा शक्तिः शौर्य्यं
तेजो विनिग्रहे । आशेच्छोक्ता मतिर्धर्मे श्रद्धा, बन्धः
पराश्रयः । पानीयपतनं वृष्टिर्जलेऽकस्माच्च मज्जनम् ।
आधिव्याधी तापमान्द्ये सपिण्डा बन्धवः स्मृताः ।
सत्यानृतं बणिनवृत्तिराधानं प्रसवः स्मृतः । दासत्वं
परकर्भोक्तमन्यत् स्पष्टं स्वनामतः । निरूप्याणि यथायोगं
कुलजातिस्वरूपतः । शुभयोगेक्षणात् सौख्यं पत्युर्वीर्य्या-
नुसारतः । दारिद्र्यमृतिमान्द्यारिकलिषूक्तो
विपर्य्ययः । प्रश्नकालेऽपि सहमं विचार्य्यं प्रष्टुरिच्छया ।
सर्वेषामुपयोगोऽत्र चित्रं यच्छन्ति यज्जनाः” ।

सहमरण न० सह मृतेन पत्या सह एकचितारोहणेन

मरणम् । मृतपतिचितारोहणेन तत्सहितमरणे शु० त०
“अङ्गिराः “मृते भर्त्तरि या नारी समारोहेद्धुताश-
नम् । साऽरुन्धतीसमाचारा स्वर्गलोके महीयते ।
तिस्रः कोट्योऽर्द्धकोटी च यानि लोमानि मानवे ।
तावन्त्यव्दानि सा स्वर्गे भर्त्तारं याऽनुगच्छति । व्याल-
ग्राही यथाव्यालं बलादुद्धरते बिलात् । तद्वद् भर्त्तार-
मादाय तेनैव सह मोदते । मातृकं पैतृकञ्चैव यत्र कन्या
प्रदीयते । पुनाति त्रिकुलं नारी भर्त्तारं याऽनुगच्छति ।
तत्र सा भर्त्तृपरमा परा परमलालसा । क्रीड़ते
पतिना सार्द्धं यावदिन्द्राश्चतुर्दश” । “ब्रह्मघ्नो वा
कृतघ्नो वा मित्रघ्नो वापि यो नरः । तं पुनाति च सा
नारी इत्याङ्गिरसभाषितम् । साध्वीनामेव नारीणाम-
ग्निप्रपतनादृते । नान्यो धर्मो हि विज्ञेयो मृते
भर्त्तरि कर्हिचित्” “या नारीत्युपदानात् सहमरणा-
भावपक्षोऽपि सूचितः नान्यो धर्म इति तु
सहमरणस्तुत्यर्थम् । तथाच विष्णुः “मृते भर्त्तरि
ब्रह्मचर्य्यं तदन्वारोहणं वा” इति । ब्रह्मचर्य्यं मैथु-
नवर्जनं ताम्बूलादिवर्जनञ्च यथा प्रचेताः “ताम्बू
लाभ्यञ्जनञ्चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्म-
चारी च विधवा च विवर्जयेत्” स्मृतिः “एकाहारः
मदा कार्य्यो न द्वितीयः कदाचन । पर्य्यङ्कशायिनी
मारी विधवा पातयेत पतिम् । गन्धद्रवस्य सम्भोगो
मैब कार्य्यस्तथा पुनः । तर्षणं प्रष्यहं कार्य्यं भर्तु-
स्रिलकुशोदकैः” एतत्त तर्पणं पुत्रपौत्राद्यभावविषय-
मिति मदनपारिजातः । “वैशाखे कार्त्तिके साघे वि०
शेषनियमञ्चरेत् । स्नानं दानं तीर्थयात्रां विष्णोर्नाम-
ग्रहं मुहुः” । तत्र साध्वीमाह हारीतः । आर्त्तार्त्ते
मुदिता हृष्टे प्रोषिता मलिना कृशा । मृते म्रियेत
या पत्यौ साध्वी ज्ञेया पतिव्रता” इति छन्दोगवरिशि-
ष्टीयमिति कल्पतरुः । साध्वीप्रसादेन लोकधारण-
मप्याह मत्स्यपु० “तस्मात् साध्व्यः स्त्रियः पूज्याः सततं
देववज्जनैः । तासां राज्ञा प्रसादेन धार्य्यते च जग
त्रयम्” । महाभारते “अवमत्य च याः पूर्वं पतिं
दुष्टेन चेतसा । वर्त्तन्ते याश्च सततं भर्त्तॄणां
पतिकूलतः । भर्त्रनुमरणं काले याः कुर्वन्ति तथाविधाः ।
कमात् क्रोधात् भयान् मोहात् सर्वाः पूता भवन्ति ताः” ।
अत्र चैहिकब्रह्मघ्नपतेर्दाहनिषेधात् जन्मान्तरीणतत्-
पापवत एव सहमरणेनोद्धारः” शु० त० । ब्रह्मपु० “देशा-
न्तरमृते पत्यौ साध्वी तत्पादुकाद्वयम् । निधायोरसि
संशुद्धा प्रविशेज्जातवेदसम् । ऋग्वेदवादात् साध्वी स्त्री
न भवेदात्मघातिनी । त्र्यहाशौचे निवृत्ते तु श्राद्धं
प्राप्नाति शास्त्रवत्” । ऋग्वेदवन्दात् “इमा नारीर-
विधवाः” इत्यादिमन्त्रात् । वृहन्नारदीये “बालापत्याञ्च
गर्भिण्यो ह्यदृष्टऋतवस्तथा । रजस्वला राजसुते!
नारोहन्ति चितां शुभे!” राजसुते! इति सगरमातुः
सम्बोधनम् । वृहस्पतिः “बलसम्बर्द्धनं त्यक्त्वा बाला
पत्या न गच्छति । रजस्वला सूतिका च रक्षेद् गर्भञ्च
गर्भिणी । एवमन्यतश्चेद् बालसम्बर्द्धनं स्यात्तदा तस्या
अप्यधिकारः । व्यासः “दिनैकगम्यदेशस्या साध्वी चेत्
कृतनिर्णया । न दहेद् स्वामिनं तस्या यावदागमनं
भवेत् । भविष्यपुराणे “तृतीयेऽह्नि उदक्याया मृते भर्त्तरि
वै द्विजाः । तस्यानुमरणार्थाय स्थापयेदेकरात्रकम्” ।
तस्य भर्त्तुः । तथा “एकां चितां समासाद्य मर्त्तारं यानु-
गच्छति । तद्भर्त्तुर्यः क्रियाकर्त्ता स तस्याश्च क्रियाञ्चरेत् ।
एतच्च पिण्डदानम्” । “एवञ्च अङ्गिरोब्रह्मपुराणवचना-
लोचनया ब्राह्मण्यादिसकलभार्य्याणां स्वगतभर्तृगत-
फलविशेषार्थिनीनां गर्भवतीबालाऽपत्यादिव्यतिरिक्तानां
सहमरणानुमरणयोरधिकारः न चात्र योगसिद्ध्यकरण-
विरोधान्न समुच्चितफलसिद्धिरिति वाच्यम् । योगसि०
द्धधिकरणे हि “यः पुत्रकामो यः पशुकाम” इत्यादिना
यज्ञक्रतूनुपक्रम्य “एकस्मै वा कामायान्ये यज्ञक्रतव
आह्रियन्ते सर्वेभ्यो दर्शपौर्णमासौ” इत्युक्तं तत्र तत्तद्विधि-
पृष्ठ ५२६७
वाक्येषु निरपेक्षफलश्रुतेः कामनाभेद न्न कर्त्रैक्यं ततश्च
सर्वशब्देन प्रकृतवाचिना निरपेक्षाणामेव पुत्रादिफलानां
दर्शपौर्णमाससम्बन्धेऽवगते प्रयोगभेदादेव भवतु तत्र
तत्तत्फलसिद्धिः तथाच तंदधिकरणसिद्धान्तसूत्रं “योग-
सिद्धिर्वा अर्थस्योत्पत्त्ययोगित्वात् जैमि० । अस्यार्थः
वाशब्दः सिद्धान्तद्योतनार्थः सर्वेभ्यी दर्शपौर्णमासावित्य-
त्रार्थस्य तत्तत्फलस्य योगेन प्रयोगभेदेन सिद्धिः
उत्पत्त्ययोगित्वात् सर्वशब्दानुकर्षणोयानां यः पुत्रकामो
यः पशुकाम इत्यादाद्युत्पत्तिवाक्ये फलानां युगपद-
सम्बन्धात् । न चार्थस्य नानाविधस्य उत्पत्त्ययोगित्वात्
महेन्द्रादितत्तल्लोकवासादीनां एकदोत्पत्त्यसम्भवादिति
व्याख्यानं युक्तामिति वाच्यं तडागोत्सर्गादौ एकस्मात्
कर्मणः क्रमिकनानाफलोक्तेः” “तथहापि सर्वनाम-
पदाभावादार्थवादिकफलानि समुच्चितान्येव कामना-
विषयी लाघवात् आर्थवादिकसमुच्चितनानाफलविष-
यकविधिरप्येक एव कल्प्यत लाघवात् न हि निमि-
त्तसाधारण्ये बाधकं विना नैमित्तिकानां पर्य्यायता
सम्भवति वह्निसामीप्ये दाहप्रकाशयोः पर्य्यायताया
अदर्शनात् । तस्मात् सकृदनुष्ठितेन कर्मणा यथैकं
फल निष्पाद्यते तथा बाधकं विना फलान्तरमपि विनि-
गमकाभावात् । ज्योतिष्टोमादेस्तु षष्टिवर्षावच्छिन्न-
फलश्रुतेः पृथगनुष्ठानादेव पृथक् फलसिद्धिः अन्यथा
षष्तिसख्याद्यर्भिधानं व्यर्थं स्यात् । यत्र तु कर्मफले
कालविशेषो नोक्तस्तत्रापि तत्कर्मसम्पादकानुरूपेण
कालविशेषो बोध्यः “फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्
परिमाणतः फलविशेषः स्यादिति” ग्यायात् । तेषा
कर्मणां लोकवत् कृष्यादिवत् । तथाच भवदेवभट्टाः
“एकस्मै वा कामायान्ये यज्ञक्रतव आह्रियन्ते” इति
संकीर्त्त्य “सर्वेभ्योदर्शपौर्णमासाविति” प्रयोगभेदविधानाद्
भवतु तत्र पृथगनुष्ठानसाध्यत्वं ब्रह्मबधप्रायश्चित्ते
तथाभूतपृथगनुष्ठानसाध्यत्वप्रातपादकवचनाभावात् अनेकफ-
लानाञ्च तन्त्रेण दशहरान्यायेन एककामनाविषयतासम्भ-
वात तन्त्रत्वम्” इत्याहुः । हरिनाथोध्यायास्तु “वृषो-
त्सर्गफलान्युद्दिश्यैतानि चार्थवादिकफलानि समुच्चिता
न्येव कामनाकिषयः, पुरुषविशेषणत्वस्य कल्प्यत्वात् तथाच
मिलितानामेककासनाविषयत्वकल्पना अग्नीषीभयोरिव
देवतात्वे लाघवन्यायस्य विशिष्टत्वाद्” इत्याहुः । अथ वा
“य एता रात्रीरधीयीत तस्य पितरो घृतकुल्याः मधु-
कुल्याः वा क्षरन्ते” इत्यत्रापि वैकल्पिकान्वयोषगमे
जातेष्टिनयभङ्गप्रसङ्गात् लाघवाद्विकल्पेऽष्टदोषाच्च एकस्य
कार्यस्य नियोज्याकाङ्क्षायां सकलार्थवादोपस्थितफलकामो
यथैक एव नियोज्यः स्वीकृतस्तथात्रापीति । अथानुत्-
पन्नव्रह्महत्यादिपातकायास्तत्पूतत्वरूपफलबाधात् तत्तत्-
कामनाविरहेणानधिकारः स्यादिति चेत् उक्तयुक्त्या
समुच्चितफलसिद्धेरनन्यथासिद्धार्थवादबलेन सन्दिग्धपाप-
कामनया एवाधिकारो मङ्गलवत् । सति जन्मान्तरीये
तादृशपातके संसर्गादिकृत वा तद्ध्वंसोऽपि जायते
असति तु न तथा प्रतियोगिरूपसहकारिविरहात्
निविंघ्नस्य कृतमङ्गलवत् शु० त० रघु० । “समुच्चितफलककर्म-
णोऽपि प्रत्येकफलकामनया करणे तत्तत्कामनासह-
कारेण प्रत्येकफलजनकत्वम् विधिस्वरूपे गदा० ।

सहरसा स्त्री सह रसेन । १ मुद्गपर्ण्यां शब्दर० २ रसान्विते त्रि० ।

सहर्ष पु० सह हर्षेण समानो वा हर्षो यत्र । १ स्पर्द्धने

२ हर्षे च त्रिका० । ३ हर्षयुक्ते त्रि० ।

सहस् न० सह--असि । १ बले २ ज्योतिषि च शब्दर० ३

भार्गशीर्षे मासे पु० अमरः । “सहसा सहसा कृतबेपथु-
रिति” माघः ।

सहसा अव्य० सह + सो--डा । १ हठादित्यर्थे असुरः ।

२ अकस्मादित्यर्थे शब्दर० । ३ हास्ययुते त्रि० “न सहसा
सहसा परिरभ्य तम्” माघः ।

सहस्य पु० सहसे बलाय हितः यत् । पीषमासे अमरः ।

सहस्र न० समानं हसति हस--र । १ दशशतसङ्ख्यायां २

बहुसंख्याया ३ तत्संख्यान्विते च हेमच० ।
सहस्रसंख्यकाश्च केचित् पदार्थाः कविकल्प० यथा
“गङ्गावक्त्रं शेषमूर्द्ध्वा पद्मदलम् रविकरः कार्त्तवीर्य्य-
वाहुः बेदशाखा शक्रनयनम्” । “तत्र बहुसंख्यत्वे सहस्र-
शीर्षा पुरुषः सहस्राक्षः सहस्रपाद्” श्रुतिः । बहुशीर्षादि
परत्वमत्र भाष्यादावुक्तम् । संख्यासंख्यययोः परत्वे-
ऽस्य सर्वदैकवचनत्वम् यथा घटानां सहस्रं सुहस्रं घटा
इत्यादि आवृत्तौ तु द्वित्वादिकं यथा द्वे सहस्रे त्रीणि
सहस्राणीति “चत्वार्य्याहुः सहस्राणि” मनुः ।

सहस्रकर पु० सहसं कराः किरणा अस्य । १ सूर्ये सह

स्रकिरणादयोऽप्यत्र हला० । २ अर्कवृक्षे व ।

सहस्रकाण्डा स्त्री सहस्र बहवः काण्डा यस्याः । श्वेत-

दूर्वायां राजनि० ।

सहस्रदंष्ट्र पुंस्त्री० सहस्रं बहुसंख्या दंष्ट्रा अस्य । पाठीनम

त्स्ये (वोयाल) अमरः स्त्रियां ङीष् ।
पृष्ठ ५२६८

सहस्रदंष्ट्रिन् पु० सहस्रं दंष्ट्राः सन्त्यस्य इनि । पाठीनमत्स्ये शब्दर०

सहस्रधारा स्त्री सहस्रगुणिता धारा । देवस्नानार्थं बहु

च्छिदयन्त्रनिःसृप्रबहुजलादिधारायाम् ।

सहस्रनयन पु० सहस्रं नयनान्यस्य । १ इन्द्रे हला० सहस्र-

नेत्रादयोऽप्यत्र । २ पेचके च ।

सहस्रपत्त्र न० सहस्रं बहुसंख्यकानि पत्त्राणि यस्य । १ पद्मे

अमरः । सहस्रदलादयोऽप्यत्र । २ सारसे खगे च ।

सहस्रपाद पु० सहस्रं बहवः पादा अस्य अन्तलोपः समा० ।

१ विष्णौ २ परमेश्वरे च “सहस्राक्षः सहस्रपाद्” पुरुषसूक्तम् ।

सहस्रपाद पु० सहस्रं पादाः किरणश्चरणा वा सन्त्यस्य

अच् । १ विष्णौ २ सूर्य्ये ३ अर्कवृक्षे च । ४ कारण्डखगे
पुंस्त्री मेदि० स्त्रियां ङीष् ।

सहस्रबाहु पु० सहस्रं बाहवोऽस्य । १ वाणासुरे “बाणः पुत्र

शतज्येष्ठो बलेरासोन्महात्मनः । सहस्रबाहुर्वाद्येन
ताण्डवेऽतोषयत् शिवम्” भाग० १० । ६२ अ० । २ कार्त्तवीर्य्या-
जुने । ३ बिष्णौ च “सहम्रवाहो भव विश्वमूर्त्ते!” गीता०

सहस्रभुज पु० सहम्रं बहवी भुजा अस्य । १ विष्णौ २ कार्त्त

वीर्य्यार्जुने च । ५ महानक्ष्म्यां स्त्री “अष्टादशभुजा
पूज्या सा महस्रभुजा रणे” मार्कण्डेयपु० ।

सहस्रमूर्द्धन् पु० सहस्रं बहवो मूर्द्ध्वानोऽस्य । १ विष्णौ

पुरुषसृक्तम् २ सहस्रशीर्षादयोऽप्यत्र ।

सहस्रमूली स्त्री सहम्रं बहूनि मूलान्यत्या ङीप् । द्रवन्तीलतायां राजनि० ।

सहस्रवीर्य्या स्त्री सहस्रं बहूनि वीर्य्याण्यस्याः । १ दूर्वायाम्

अमरः । २ महाशतावर्य्याञ्च राजनि० ।

सहस्रवेध न० सहस्रं वहवो वेधा यस्य । १ चुक्रे २ काञ्जिकभेदे राजनि० ।

सहस्रवेधिन् न० सहस्रं धिध्यति बिध--णिनि । १ हिङ्गौ

२ अम्बुवेतसे च मेदि० । ३ कस्तूर्य्यां पु० रात्तनि० ।
४ सहस्रवेधकर्त्तरि त्रि० ।

सहस्रा स्त्री सहस्रं वलानि सन्त्यस्याः अच् । अम्बष्ठायां भावप्र० ।

सहस्रांशु पु० सहस्रमशवो यस्य । १ सूर्ये २ अर्कवृक्षे च अमरः

सहस्राणीक पु० ६ व० संज्ञात्वात् णत्वम् । शतानीकनृपसुते

राजभेदे वह्निपु० ।

सहस्राक्ष पु० सहस्रमक्षीणि यस्य षच् समा० । १ इन्द्रे

२ पेचके अमरः । २ विष्णौ पुरुषसू० ४ ईश्वरे च ।

सहस्रार न० सहस्रमाराः कोणा यस्य । शिरःस्थिते सुषुम्णा

नाडीमध्यस्थे सहस्रदलकमले तन्त्रसा० ।

सहस्रिन् पु० सहस्रं सैन्यानि सन्त्यस्य इनि । १ सहस्रसैन्य-

युक्ते नृपादौ अमरः २ सहस्रदंष्ट्रापाठीने मत्म्ये च

सहा स्त्री सहते सह--अच् । १ मुद्गपर्ण्यां २ घृतकुमार्य्याम्

अमरः । ३ खण्डोत्पलायां ४ पृथिव्यां ५ नखभेषजे मेदि० ।
६ शुक्लझिण्ट्याम् ७ सर्पकङ्काल्यां शब्दर० ८ रास्नायां
स्वर्णक्षीर्य्यां रत्नमा० १० नारीपुष्पे राजनि० ।

सहाचर पु० सहा शुक्लझिण्टीव आचरति आ + चर--अच् ।

पीतझिण्ट्यां शब्दर० ।

सहाय पु० सह एति इण--अच् । १ सहचरे २ अनुकूले अमरः ।

सहायता स्त्री सहायानां समूहः तस्य भावो वा तल् ।

१ साहाय्ये २ सहायसमुदाये च अमरः ।

सहार पु० सह एकदैव ऋच्छति दूरं गच्छति सौरमेण

ऋ--अच् । १ सहकारे आम्रे उणा० । हारोहरणं सह
हारेण । २ महाप्रलये हारा० । ३ हारेण सहिते त्रि० ।

सहारोग्य त्रि० सह आरोग्येण । रोगशून्ये हेमच०

सहासन न० सह आस्यतेऽत्र आस--ल्युट् । एकासने ।

सहित त्रि० सम्यक् हितः समोऽन्त्यलोपः । १ सम्यगहिते

सह--क्त वा इट् सह + इतच् वा । २ समभिव्याहृते सि०
कौ० ३ हितेन सहिते च ।

सहितृ त्रि० सह--तृच् वा इट् । सहनशीले । इड़मावे सीढ़ाप्यत्र स्त्रियां ङीप् ।

सहित्र न० सह्यतेऽनेन सह--इत्र । सहनसाधने धर्मभेदे ।

सहिष्णु त्रि० सह--इष्णुच् । सहनशीले अमरः ।

सहिष्णुता स्त्री सहिष्णोर्भावः तल् । १ क्षमायाम् २ शीतो-

ष्णादिविरुद्धधर्मद्वयसहने ।

सहुरि पु० सह--उरि । १ सूर्य्ये उणादिकोषः । २ अर्क्षवृक्षे च ।

सहृदय त्रि० सह--हृदयेन । १ प्रशस्तचित्ते २ काव्यार्थभाव-

नाधीनपरिपक्वबुद्धौ सा० द० “परिष्कर्वन्त्वर्थान् सहृद-
यधुरीणाः कतिपये” रसगङ्गाधरः ।

सहृल्लेख पु० हृदयस्य लेखः कालुष्यकरणं हृद्भावः सह

हृल्लेखेन । “विचिकित्सा तु हृदये अन्ने यस्मिन् प्रजा-
यते । सहृल्लेखन्तु विज्ञेयं पुरीषन्तु स्वभावतः” इत्युक्ते
दूषितान्ने प्रा० वि० । २ हृल्लेखा सहिते सन्त्रे च तन्त्र०

सहोक्ति स्त्री सह उक्तिः । सहकथने १ एकोक्तौ सहशब्द-

स्योक्तिर्यत्र । २ अर्थालङ्कारभेदे अलङ्कारशब्द ४०७ पृ० दृस्यम्

सहोटज पुंन० । सहते आतपाद्यत्र सह--अचं कर्म० ।

मुनीनां पर्णशालायाम् हारा० ।

सहोढ पु० सह ऊढ़या “या गर्भिणी संस्क्रियते ज्ञाताऽ-

ज्ञातापि वाऽसती । वोढुः स गर्मो भवति सहोढ इति
चोच्यते” इति मनक्ते अज्ञातगर्भायाः परिणीतायाः
स्त्रियाः गर्भे । सहोढे गर्भे । जायते जन--ड । सहोढज
तज्जाते पुत्रभेदे ।
पृष्ठ ५२६९

सहोदर न० सह समानमुदरं यस्य । एकगर्भजाते भ्रातरि

जटा० २ भगिन्यां स्त्रो एकपिवृजाते ३ भ्रातय्यपि
उपचारात् । “देशे देशे कलत्राणि देशे देशे च बान्धवाः ।
तन्तु देशं न पश्यामि यत्र भ्राता सहोदरः” रामायणे
लक्ष्मणविच्छेदे रामेण तस्य भिन्नोदरजातत्वेऽपि तथोक्तम्

सहोर त्रि० सह--ओर । साधौ उणादिकोषः ।

सह्य न० सहायस्य भावः यत् नि० । १ साहाय्ये “तत्रार्थे सह्य-

मकरोत्” पुराणम् । सह भावे यत् । २ आरोग्ये
३ साम्ये ४ माधुर्य्ये च शब्दर० । कर्मणि यत् । ५
सोढव्ये त्रि० ६ पुनाख्यदेशसमीपस्थे पर्वतभेदे पु० मेदि० ।
स च पर्वतः भारतवर्षस्य कुलाचलभेदः “माहेन्द्रो मलयः
सह्यः शुक्तिमानृक्षपर्वतः । बिन्ध्यश्च पारिपात्रश्च सप्तै वात्र
कुलाचलाः” मार्कण्डेयपु० ५७ अ० । स च अपरान्तदेशस-
न्निकृष्टो लबणसमुद्रात् कियद्दूरस्थश्च तदतिक्रमेणैव रघौ
अपरान्तदेशगमनोक्तेः । “असह्यविक्रमः सह्यं दूरान्मुक्त-
सुदन्वता । नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ।
तस्यानीकैर्विसर्पद्भिः अपरान्तजयोद्यतैः । रामास्त्रीत्सा-
रितोऽप्यासीत् सह्यलग्न इवार्णवः” रघु० । तत्पर्वतपादजा
नद्यश्च “तापो पयोष्णी निर्बिन्धा कावेपी प्रमुखा नदी ।
गोदावरीभीमरथीकृष्णवेण्वादिकास्तथा । सह्यपादो-
द्भवा नद्यः स्मृताः पापभयापहाः” विष्णुस० उक्ताः
“गोदावरी भीमरथी कृष्णवेण्वास्तथाऽपरा । तुङ्गभद्रा
सुपयोगा सह्यात् कावेर्य्यथापगाः” मार्कण्डेयपु० ।

सह्यात्मजा स्त्री सह्यस्य आत्मजेव तत्प्रभवत्वात् । कावेर्य्यां

हेमच० । सह्यशब्दे दृश्यम् ।

सा स्त्री सो--ड । १ गौर्य्यां २ लक्ष्म्याञ्च शब्दर० ।

सांक्रमिक त्रि० संक्रमे साधुः गुड़ा० ठञ् । संक्रमसाधने

कुष्ठादिरोगे । वा परसवर्णः । सांक्रमिकरोगाश्चं भावप्र०
दर्शिता यथा “प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् महभोज-
नात् । एकशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ।
कण्डूकुष्टोपदंशाश्च भूतोन्मादव्रणज्वराः (वसन्त)
औपसगिकरोगाश्च संक्रामन्ति नरान्नरम् । सूयते यदि कुष्ठेन
पुनर्जातस्य तद्भवत् । अतो निन्दितरोगोऽयं कुष्ठं कष्टं
प्रकीर्त्तितम्” । प्रसङ्गोऽत्र मैथुनम् भावप्र० ।

सांख्य न० संख्यायतेऽत्र संख्या सम्यग्ज्ञानं साऽस्त्यत्र अण् ।

१ सम्यगदर्शने “एषा तेऽभिहिता सांख्ये” इति गीता
सङ्ख्या मूलप्रकृत्यादिपदार्थानां गणनात्र प्रज्ञाद्यण् ।
२ कपिलप्रणीते दर्शनशास्त्रभेदे परसवर्णे स ङ्ख्यमप्युभयत्र
३ सांख्योक्तयागे पु० “पञ्चमः कपिलो नाम सिद्धेशः काल
विप्लुतम् । प्रोवाचासुरये सांख्य तत्त्वग्रामविनिर्णियम्”
भाग० १ स्क० ३ अ० । “सांख्यं संख्य त्मकत्वाच्च कपिला-
दिभिरुच्यते” मात्स्ये ३ अ० ।

सांख्यप्रवचन न० सांख्योक्तमर्थं प्रवक्ति विस्तरेण कथय

त्यनेन प्र + वच--करणे ल्युट् । तत्त्वसमासाख्यसूत्रार्थस्य
विस्तरेण ज्ञापके १ कपिलप्रणीते । २ पातञ्जलप्रणीते ग्रन्थ-
भेदे यथोक्तं सांख्यप० भा० यथा
“नन्वेवमपि तत्त्वसमासाख्यसूत्रैः सहास्याः षड़ध्याय्याः
पौनरुक्त्यमिति चेत् । मैवम् । सङ्क्षेपविस्तररूपेणो-
भयोरप्यपौनरुक्त्यत् । अत पवास्याः षड़ध्याया
योगदर्शनस्येव सांख्यप्रवचनसंज्ञा युक्ता । तत्त्वसमासाख्यं
हि यत् सङ्क्षिप्तं सांख्यदर्शनं तस्यैव प्रकर्षेणास्यां
निर्वचनमिति । विशेषस्त्वयं यत् षड़ध्याय्यां तत्त्व-
समासाख्योक्तार्थविस्तरमात्रं योगदर्शने त्वाभ्यामभ्यु-
पगमवादप्रतिषिद्धस्यैवेश्वरस्य निरूपणेन न्यूनतापरि-
हारोऽपीति” “संख्यां प्रकुर्वते चैव प्रकृति च प्रचक्षते ।
चतुर्विंशति तत्त्वानि तेन सांख्याः प्रकीर्त्तिताः” भा०

सांग्रामिक त्रि० संग्रामः प्रयोजनमस्य ठञ् । युद्धसाधने

रथादौ । परमवर्णे साङ्ग्रामिक तत्रार्थे ।

सांघातिक त्रि० सङ्घाताय हितम् ठङ् । १ सङ्घातकारके

मड्नाडीचक्रस्थे २ जन्मनक्षत्रावधिषोडशनक्षत्रे च
“देहद्रविणबन्धूनां नाशः सांघातिके तथा” इति ज्यो-
तिषम् । परसवर्णे साङ्घातिकमपि उभयत्र ।

सांदृष्टिक न० संदृष्टं प्रत्यक्षदृष्टमनुसरति ठक् । १ दृष्टानु-

सारिन्यायभेदे संदृष्टं दृष्टमात्रं फलमस्य ठण् । २ सद्य-
फले त्रि० अमरः । परसवर्णे सान्दष्टिकमप्युभयत्र ।

सांयात्रिक पु० सम्यक् यात्रायै द्वीपान्तरगमनाय अलग्

ठञ् । पोतेन बाणिज्यकारके अमरः ।

सांयुगीन त्रि० संयुगे युद्धे साधुः प्रतिजना० खञ् ।

रणकुशले अमरः ।

सांराविण न० सम् + रु--भावे णिनि ततः स्वार्थेऽण् । व्याप्तेहट्टादिकोलाहले ।

सांवत्सर पु० संवत्सरं तज्ज्ञानोपयोगिशास्त्रं वेत्ति अष्टीते वा

अण् । ज्योतिर्वेत्तरि १ गणके अमरः । २ वर्षसम्बन्धिनि त्रि०
पृष्ठ ५२७०

सांवत्सरिक त्रि० संवत्सरे भवः ठञ् । प्रतिवर्षं मृताहकर्तव्ये

श्राद्धभेदे गोभिलः “अत ऊर्द्ध्वं संवत्सरे संवत्सरे प्रेता-
यान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यादिवि । अत ऊर्द्ध्वं
सपिण्डीकरणान्वश्राद्धनिभित्तादाद्यसंवत्सरादूर्द्ध्वं
संवत्सर सवत्सरे प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्नहनि
मृताय दद्यात् । व्याघ्रः “प्रतिसंवत्सरञ्चैवमेकोद्दिष्टं
मृताहनि” । एतेन सपिण्डीकरणापकर्षे आद्यसंवत्सरे-
ऽपि मृताहे श्राद्धान्तरं कर्त्तव्यमिति मैथिलोक्तं
हेयम् । व्यक्तमाह हेमाद्रिधृतवचनम्” “पूर्णे संवत्सरे
श्राद्धं षोडशं परिकीर्त्तितम् । तेनैव च सपिण्डत्वं
तेनैवाव्दिकमिष्यते” अत्र पर्णसंवत्सरक्रियमाणश्राद्धाद्
यथोभयनिर्वाहस्तथापकृष्टसपिण्डीकरणश्राद्धादप्युभयनि
र्वाहो न पूर्णसंवत्सरे आव्दिकान्तरम् । एव पञ्चदश
श्राद्धेऽप्युन्नेयम् । मत्स्यपु० “ततः प्रभृतिसक्रान्तावुप-
रागादिपवेसु । त्रि पिण्डमाचरेत् श्राद्धमेको दष्टं मृता-
हनि” । ततः प्रेतत्वपरिहारात्, त्रिपिण्डं त्रैपुरुषम् ।
निरुपपदमृताहशब्दः मृतसम्बन्धिमासपक्षतिथिविशेष-
परः । उपपदात्तु क्वचित्तिथिविशेषमात्रपरः । यथा
मृताहे प्रतिमासं कुर्य्यादित्यादौ । शङ्खः “सपिण्डीक-
रणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्यात्
वर्जयित्वा मृताहनि । अमावास्या क्षयो यस्य प्रेतपक्षे
ऽथ वा पुनः । सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्वर्णो
विधिः” श्रा० त० । अधिकम् एकोद्दिष्टशब्दे १५२१ पृ०
पार्षणशब्दे ४३१८ पृ० च दृश्यम् ।

सांवादिक पु० सम्यग्वादायालं ठञ् । १ नैयायिके जटा० ।

सवाददातरि च ।

सांशयिक त्रि० संशयमापन्नः ठञ् । १ सन्दिहाने संशययुक्ते अमरः । २ संशयविषये च ।

सांसारिक त्रि० ससाराय हितम तत्र भवो वा ठक् ।

१ मसारभवे २ संसारोपयोगिनि वा पदार्थे ।

सांसिद्धिक त्रि० संसिद्धिः स्वभावसिद्दिः तया निर्वृत्तं ठञ् ।

स्वभावसिधे “सांसिद्धिकमुदाहृतम्” भाषाप० ।

साकम् अव्य० सह अकति अक--अमु सादेशः । १ साहित्ये

२ सहार्थे अमरः । तद्योगे गौणक्रियान्वयिनि तृतीया ।

साकल्य न० सकलस्य नावः ष्यञ् । १ समुदाये । स्वार्थें

ष्यञ् । २ सकले होमार्थं मिश्रितेषु ३ तिलादिद्रव्येषु च ।

साकाङ्क्ष त्रि० सहाकाङ्क्षया सहस्य सः । १ साभिलाषे

शाब्दवोधोपयोम्याकाङ्क्षायुक्ते २ पदभेदे च ।

साकार त्रि० सह आकारेण मूर्त्त्या । १ मूर्त्तविशिष्टे देवादौ २ सावयवे च ।

साकरुण्ड पु० सकुरुण्ड एव स्वार्थे अण् । सकुरुण्डवृक्षे

(पन्थिफले वृक्षे) राजनि० ।

साकेत न० आकित्यते आकेतः सहाकेतेन । अयोध्यापुरे

शब्दर० “जनस्य साकेतनिवासिनस्तौ” इति रघुः ।

साक्तुक पु० सक्तवे हितः गुड़ा० ठञ् । १ यवे सि० कौ० ।

सक्तूनां समाहारः तस्येदम् वा ठञ् । २ सक्तुसमूहे न०
३ तत्सम्बन्धिनि च त्रि० ।

साक्षात् अव्य० सह अक्षति अक्ष--आति सादशः, सह अक्ष

मतति अत--क्विप् वा । १ लौकिकप्रत्यक्षे २ तुल्ये च अमरः
साक्षादा० कृञि वा उप० समासः । साक्षात्कृत्य कृत्वा वा ।
३ तद्रूपे चैतन्ये च “यत्साक्षात दपरोक्षाद्ब्रह्म” श्रुतिः ।

साक्षात्कार पु० साक्षात् + कृ--घञ् साक्षादि० उप० ।

लोकिकसन्निकर्षजन्ये प्रत्यक्षे ।

साक्षिन् त्रि० सह--अक्षि अस्य इनि “साक्षाद् द्रष्टरि” पा० इनि

वा नि० । १ साक्षाद्द्रष्टरि । स्त्रि अं ङीप् । २ परमेश्वरे
पु० “साक्षी चेताः केवलोनिर्गुणश्च” श्रुतिः । अयमेव
साक्षिचैतन्यत्वेन वेदान्तपरिभाषादौ स्वीकृतोऽनुपदं वक्ष्यते ।
व्यवहारे साक्षिलक्षणादिकं वीर० मि० निरूपितं यथा
“तत्र प्रमाणभेदप्रमाणविषयव्यवस्थे क्रियापादप्रस्तावे
विविक्ते । अधुना साक्ष्यिप्रमाणस्यावान्तरभेदः प्रस्तू-
यते । तत्र साक्षिस्वरूपमाह मनुः “समक्षदर्शनात्
साक्ष्यं श्रवणाच्चैव सिद्ध्यति” । समक्षदर्शनस्य सांक्ष्यहेतुत्वं
पाणिनिरपि स्मरति । “साक्षाद् द्रष्टरि संज्ञायामिति” ।
तत्तु व्युत्पत्तिमात्रमव्यापकत्वात् । श्रुतसाक्ष्यादीनामपि
साक्षित्वव्यवहारविषयत्वात् । अतएव श्रवणादित्युप-
लक्षणं प्रमाणमात्रस्य० विवादविषयप्रमाता साक्षीति
विवक्षितम् । साक्षिप्रयोजनमाह नारदः “सन्दि-
ग्धेषु तु कार्य्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूत-
त्वात्साक्षिभ्यो व्यक्तिदर्शनम्” इति । दृष्टश्रुताभ्यामनुभूत-
त्वादित्यर्थः । यद्वा दृष्टत्वात् श्रुतत्वादनुभूतत्वाच्चेत्यर्थः ।
अनुभूतत्वादित्यनेन च गोवृषभन्यायेन प्रमाणान्तरजन्यो-
ऽनुभवा गृह्यते । व्यक्तिदर्शनं विवेकज्ञानम् । कात्या-
यनः “अर्थिप्रत्यर्थिसान्निध्यादनुभूतन्तु यद्भवेत् ।
तद्ग्राह्यं साक्षिणो वाक्यमन्यथा न वृहस्पतिः” अर्थि-
प्रत्यर्थिसान्निध्यादनुभूतमिति मुख्यः कल्पः । तदसा-
न्निध्येऽपि श्रवणादिना साक्ष्यस्य वचनान्तरैरनुमतत्वात् ।
तच्च साक्षिभेदनिरूपणे व्यक्तीमविष्यति । गौतमः
“विप्रतिपत्तौ साक्षिनिमित्ता व्यवस्था” । स च साक्षी
प्रथमं द्विविधः कृतोऽकृतश्च । साक्षित्वेनार्थिप्रत्यर्थि-
भ्यान्निरूपतः कृतः । अनिरूपितोऽकृतः । पुनश्च कृतस्थ
पृष्ठ ५२७१
पञ्चविधत्वातकृतस्य षड्विधत्वादेकादशविधः । यथाह
नारदः “एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।
कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते । लिखितः
स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढ़श्चोत्तरसाक्षी च
साक्षी पञ्चविधः कृतः” इति । पञ्चानामपि कात्यायनेन
स्वरूपमभिहितम “अर्थिना स्वयमानीतो यो लेख्ये
सन्निवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्र-
कादृत” इति । स्मारितः पत्रकादृते इत्यपि विवृतं
तेनैव “यस्तु कार्य्यप्रसिद्ध्यर्थं दृष्ट्वा कार्य्यं पुनः पुनः ।
स्मार्य्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते” दृष्ट्वेति
दर्शयित्वेत्यन्तर्मावितण्यर्थम् । कार्य्यं व्यवहारपदं दर्श-
यित्वा प्रमापथ्य कार्य्यप्रसिद्ध्यर्थं कालान्तरे व्यवहार-
निर्णयसिद्ध्यर्थं पुनः पुनः स्मार्य्यते कार्य्यते च विस्म-
रणनिरासाय यः स स्मारितो नाम साक्षीत्यर्थः । यस्तु
यदृच्छया प्रसङ्गादाशतस्त्वमत्र साक्षी भवेति साक्षित्वेन
निरूपितः स यदृच्छाभिज्ञः स्मारितस्यास्य च पत्रानारूढ़-
त्वेन साम्येऽपि स्वरूपभेदः स्पष्टोऽपि तेनैव विवृतः
“प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः । द्वौ साक्षिणौ
त्वलिस्रितौ पूर्वपक्षस्य साधकौ” । गूढ़माह
“अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् । यः
श्राव्यते स्थितो गूढ़ो गूढ़साक्षी स उच्यत” इति ।
उस्तरसाक्षिस्वरूपमाह “साक्षिणामाप यः साक्ष्यमुपर्युपरि
भाषते । श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः”
इति । षड्विधस्याप्यकृतस्य भेदो नारदेनैव दर्शितः “ग्रा-
मद्य प्राड्विवाकश्च राजा च व्यवहारिणाम् । कार्य्ये ।
ष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः । कुल्याः
कुलविवादेषु विज्ञ यास्तेऽपि साक्षिणः । प्राडवि-
वाकग्रहणं लेखकसभ्योपलक्षणम् “लेखकः प्राड्विवाकश्च
सभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्य्यं साक्षिणः
समुदाहृताः” इति वचनात् । वृहस्पतिस्त लेखितम
धिकमादायैतानेव द्वादश साक्षिण आह “लिखितो
लेखितो गूढ़ः स्मारितः कुल्यदूतकौ । यादृच्छश्चोत्तर-
श्चैव कार्यमध्यगतोऽपरः । नृपोऽध्यक्षस्तथा ग्रामः
साक्षी द्वादशघा स्मृतः” इति । तल्लक्षणान्यपि कानि-
चिद्विस्वक्षणानि कानिचित्पूर्वसंवादीन्याह स एव
“प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः । जातिनामाभि-
लिखितं येन स्वं पित्र्यमेव च । निवासश्च स विज्ञेयः
साक्षी लिखितसंज्ञकः । अर्थिना च क्रियाभेदैस्तस्य कृत्वा
ऋणादिकम् । प्रत्यक्षं लिख्यते यस्तु लेखितः स
उदाहृतः । कुड्यव्यवहितो यस्तु श्राव्यते ऋणिभाषितम् ।
विनिह्नुते यथामूतं गूढ़साक्षी स कीर्त्तितः । आहूय
यः कृतः साक्षी ऋणन्यासक्रियादिके । स्मार्य्यते यो
मुहुश्चैव स्मारितः सोऽभिधीयते । विभागदाने विपणे
ज्ञातिर्यत्रोपदिश्यते । द्वयोः समानो धर्मज्ञः स कुल्यः
परिकीर्त्तितः । अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस्तु
यः । उभयोः सम्मतः साधुर्दूतकः स उदाहृतः ।
क्रियमाणे च कर्त्तव्ये यः कश्चित् स्वयमागतः । अत्र
साक्षी त्वमस्माकमुक्तो(१) यादृच्छिकस्तु सः । यस्तु साक्षी
दिशं गच्छन् मुमूर्षुवीं यथाश्रुतम् । अन्यं संश्रावये
त्तन्तु विद्यादुत्तरसाक्षिणम् । साक्षिणामपि यः साक्ष्य-
सुपर्युपरि भाषताम । श्रवणाच्छ्रावणाद्वापि स साक्ष्यु-
त्तरसंज्ञितः । उभाभ्यां यस्य विश्वस्तं कार्य्यं वापि
निवेदितम् । गूढ़चारी स विज्ञेयः कार्यमध्यगतस्तधा ।
अर्थिप्रत्यर्थिनोर्वाक्यं यच्छ्रुतम्भूभृता स्वयम् । स एव
तत्र साक्षी स्याद्विसंवादे द्वयोरपि । निर्णीते व्यवहारे
तु पुनर्न्यायो यदा भवेत् । अध्यक्षः सभ्यसहितः साक्षी
स्यात् तत्र नान्यथा । दूषितं घातितं यच्च सीमायास्तु
समन्ततः । अकृतोऽपि भवेत्साक्षी ग्रामस्तत्र न सशयः”
इति । लिखितलखितयोः स्वपरलिखनमात्रभेदादेका-
दशद्वादशसंख्ययोरविरोधः । सर्व च यथासम्भवं दृष्टश्रुत-
रूपद्विविधसाक्षिभेदा ज्ञेयाः । क्रियाभेदैर्व्यवहारप्रकार-
भेदैः, तस्य प्रत्यर्थिनः । ऋणादिकमित्यादिशब्दात्
यथासम्भवं सर्वविवादपदनिदर्शनम् । कुड्यग्रहणं व्यवधा-
यकोपलक्षणम् । विनिह्नुते इति भावे क्तः निह्नवे
सम्भावित इति शेषः । उक्त(१) इत्युक्त इतीतिशब्दाध्या-
हारः । दिशं देशान्तरमन्यामित्यर्थः । उभाम्यामर्थिपत्य-
र्थिभ्यां यस्य विश्वस्तं यदीयो विश्वासः कृत इति सम्बन्धसा-
मान्यविवक्षया षष्ठी, भावेक्तं चाभ्युपेत्य व्याख्येयम् ।
गढचारी कार्य्यमध्यगतश्चेत्येकस्यैव संज्ञाद्वयमिति द्वादशत्वा-
विरोधः । दूतग्रहणं लेखकस्यापि प्रदर्शनार्यं “दूतकः
खटिकाग्रहादिति” वृहस्पतिवचनाद्ग्रामग्रहणमप्यकृत-
साक्ष्युपलक्षणम् । येन योऽर्थः प्रमितस्तत्र साक्षित्वेन
प्रागनिरूपितोऽपि पश्चात साक्षित्येन विज्ञायोपन्यन्तः
पृष्टश्च सभायां साक्ष्य दातुमर्हतीति फलितोऽर्थः ।
इतरथा वेतनादानादिषु गिखिताद्यसम्भव माक्ष्यभाव-
प्रसङ्गः । इदमेवाभिसन्धायाह मनुः “यत्रानिबद्धो-
पृष्ठ ५२७२
ऽपीक्षेत शृणुयाद्वापि किञ्चन । पृष्टस्ततापि तद्ब्रूयात्
यथादृष्टं यथाश्रुतम्” । अनिबद्धोऽकृतः । कल्पतरुमदन-
रत्नयोरर्थिक्रियां क्रियाभेदैरिति पठितं तत्रार्थिक्रिया-
मर्थिव्यवहारक्रियाभेदैः प्रमाणविशेषैराप्तवाक्यादिभि-
स्तस्य कृत्वा तत्सम्बन्धितयावधार्य्य ऋणादिके विवाद-
विषये यः पत्यक्षं प्रत्यर्थिसमक्षं लेख्यतेऽर्थिनेत्यर्थात् स
तत्र लेखितः साक्षीति व्याख्येयम् । कालावधिरपि
साक्ष्ये स्मर्य्यते “सुदीर्घेणापि कालेन लिखितः सिद्धि-
माप्नुयात् । सञ्जानन्नात्मनो लेख्यम्” कुर्य्यादिति शेषः ।
अजानन्तं लिप्यनभिज्ञमात्मानमन्यद्वारा साक्ष्यहमत्रेति
लेखयेत् । स द्विविधोऽपि लिखितः साक्षी चिरकाले-
नापि सिद्धिन्निर्णायकतामाप्नुयादित्यर्थः । कात्यायनः
“अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु । न चेत्
प्रत्यभिजानीयात् तत्स्वहस्तैः प्रसाधयेत्” । नारदः
“अष्टमात् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः ।
आपञ्चमात् तथा सिद्धिर्यदृच्छोपगतस्य तु । आ तृतीयात्
तथा वर्षात् सिद्धिर्गूढस्य साक्षिणः” इति । इदञ्च प्रायो-
वादेन, यतः स एवाह “अथ वा कालनियमो न दृष्टः
साक्षिणः प्रति । स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रवेदो
जनाः । यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रञ्च नित्यशः ।
सुदीर्घेणापि कालेन स वै साक्षित्वमर्हति” । ते च
“साक्षिणः कीदृशाः कार्य्या व्यवहारेष्वसाक्षिणः । तादृ-
शान् संप्रवक्ष्यामि यथा वाच्यमृतञ्च तैः । गृहिणः
पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः । अर्य्युक्ताः साक्ष्य-
मर्हन्ति न ये केचिदनापदि । आप्ताः सर्वेषु वर्णेषु
कार्य्याः कार्य्येषु साक्षिणः । सर्वधर्मविदो लुब्धा
विपरोतांस्तु वर्जयेत्” । मौलाः प्रख्यातकुलोद्भवा इति कल्प-
तरुः । मूलं पूर्ववृत्तान्तस्तद्विदन्तीति मौलाः । तदधीते
तद्वेदेत्यणिति मदनरत्ने । वक्ष्यमाणयाज्ञवल्क्यवचन-
संवादात् साक्षित्वेनैव पूर्ववृत्तान्तवेदित्व क्षेपात्तदर्थकमौल-
पदानथेक्यप्रसङ्गाच्च कल्पतरुव्याख्यानमेव सम्यक् । रत्ना-
कराऽपि “मौलाः कुलीना” इत्येव व्याख्यातम् । मूलं
प्रतिष्ठा मा येषामस्ति ते मौलाः अर्थकथनमेतत् ।
तद्धितस्तु भवार्थ एव कर्त्तप्यः यो हि यत्र भवः
माऽपि तस्यास्तीत्यविरुद्धमिति वदन् मेधातिथिरपीदृशम-
र्थमनुमन्यते प्रतिष्ठान्तरस्य साक्षिलक्षणानुपयोगात ।
पुत्रादिप्रतिष्ठायाः पदान्नरैरवोपादानात् । अत्र क्षत्रिया-
दिग्रहण नात्ययन्तिकब्राह्मणव्युदासपरं, किन्तु सति
सम्भवेऽनेकाध्यापनाग्निहोत्रादिकार्यव्यग्रस्य तस्य न
साक्षित्व, साक्ष्यन्तरासम्भवे तु तस्यापि साक्षित्वं सम्भवत्येव ।
अतएव “ब्रूहीति ब्राह्मणं पृच्छेदिति” तस्यापि साक्षि-
त्वेन प्रश्नप्रकारविधिरुपपद्यत इति ध्येयम् । अर्थ्युक्ता
अर्थिना ममैते साक्षिणः सन्तीति निर्दिष्टा न तु स्वय-
मेवागत्य वयमत्र साक्षिणः स्म इति वदन्तः । याज्ञवल्क्यः
“तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्म-
प्रधाना ऋजवः पुत्रवन्तो धनान्विताः । त्र्यवराः
साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रियापराः । यथाजाति
यथावर्णं सर्वे सर्वेषु वा स्मृताः” । त्र्यवरास्त्रिभ्या न्यूना
न भवन्ति परतस्तु यथेच्छं भवन्तीत्यर्थः । जातयो
मूर्द्धावसिक्तादयः । वर्णा ब्राह्मणादयः । तथा च
मूर्द्धावसिक्तादीनां मूर्द्धावसिक्तादयो ब्राह्मणादयो ब्राह्म-
णादीनां साक्षित्वेनोपादेयाः । असम्भवे सर्वे सर्वजा-
तीयाः सर्वेषु जातीयेषु वादिप्रतिवादिषु साक्षिणो
ग्राह्या इत्यर्थः । व्यासः “धर्मज्ञाः पुत्रिणो मौलाः
कुलीनाः सत्यवादिनः । श्रौतस्मार्त्तिक्रियायुक्ता विगत-
द्वेपमत्सराः । श्रोत्रिया नपराधीनाः सूरयश्चाप्रवासिनः ।
युवानः साक्षिणः कार्य्या ऋणादिषु विजानता” इति ।
कात्यायनः “प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः ।
आप्ताः शिष्टा बिबुद्धा ये तेषां वाक्यमसंशयम् ।
विभाव्यो वादिना यादृक् सदृशैरेव भावयेत् । नोत्कृष्टश्चाव
कृष्टस्तु साक्षिभिर्भावयेत् सदा” इति । आप्ताः यथार्थं-
वादिनः । विबुद्धा विवादविषयीभूतार्थज्ञानवन्तः शास्त्रार्थ-
ज्ञानवन्तश्च “मतिबुद्धिपूजार्थेभ्यश्चेति” पा० कर्त्तरि क्तः ।
आदिकर्मणीति मदनरत्ने । तेषां वाक्यमसंशयं यथा भवति
तथा वादिनो विभाव्योऽङ्गीकारयितव्योऽर्थात् प्रतिवादी ।
तत्र विशेषमाह यादृक् प्रतिवादी तत्सदृशैस्त्वज्जाती-
यैरेव भावयेत् । वादिनेत्युपलक्षणम् । वाद्यपि प्रति-
वादिना तज्जातीयैरेव विभाव्यः तथा च नारदः “श्रे-
णीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः । बहिर्वामिषु
बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः” इति । पुनरपि
“स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशाः द्विजाः ।
शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः” श्रेणि-
पुरुषाणां सत्यपि बर्गित्वे पृथङ्निर्देशो गोवृषभन्यायेनं ।
प्रयोजनं चात्राप्यभ्यर्हितत्वबोधनम् । वर्गिणश्च दर्शिताः
कात्यायनेन “लिङ्गिनः श्रेणिपूगाश्च बणिग्व्रातास्तथा-
ऽपरे । समूहस्थ श्च ये चान्ये वगाँंस्तानब्रवीद् भृगुः ।
पृष्ठ ५२७३
दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् । प्रत्ये-
कैकसमूहानां नायका वर्गिणः स्मृताः । तेषां वादः
स्ववर्गेषु वर्गिणस्तेषु साक्षिणः” । अत्र सर्वत्र न्यूना-
धिकविशेषणोपादानन्न दोषाय अनृतभाषणभीरुत्वसत्य
वदनशीलत्वस्य च साक्षित्वप्रयोजकस्योपलक्षणार्थत्वात्
तेषाम् । ते च साक्षिणः कियत्सङ्ख्यकाः कुत्र ग्राह्या
इत्यपेक्षायामाह वृहस्पतिः “नव सप्त पञ्च वा स्युश्चत्वार
स्त्रय एव वा । उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत्
कदाचन” । लिखितादिषु स एवाह “लिखितौ द्वौ
तथा गूढ़ौ त्रिचतुःपञ्च लेखिताः । यदृच्छाः स्मारिताः
कार्य्यास्तथा चोत्तरसाक्षिणः । दूतकः खटिकाग्राही
कार्य्यमध्यगतस्तथा । एक एव प्रमाणं स्यान्नृपोऽध्यक्ष-
स्तथैव च” । खटिकाग्राही लेखकः एक एवेत्ये वकारो
वाद्यपेक्षया “नैकं पृच्छेत् कदाचन” इत्युक्तेः अनावश्य-
कत्वार्थो न नियमार्थोऽदृष्टार्थत्वप्रसङ्गात् । त्र्यवराः
साक्षिणो ज्ञेया इति योगीश्वरीयमप्येतदभिप्रायकमेव ।
लिखितादीनामुभयानुमतत्वे ग्राह्यत्वमेकस्यापीत्याह योगी
श्वरः “चभयानुमतेः साक्षी भवत्येकोऽपि धर्मवित्” ।
यद्यपि “श्रीतस्मार्त्तक्रियापरा धर्मप्रधाना” इत्यादिविशे-
ष्णोपादानात त्र्यवराणामपि धर्मवित्त्वं समानन्तथापि
तेषामुभूयाननुमतौ न भवत्येव साक्षित्वं, द्वयोरेकस्य
चोभयानुमत्यैचेति भेद इति मिताक्षरा । नारदोऽपि
“उभयानुमतो यः स्याद्द्वयोर्विवदमानयोः । स साक्ष्ये-
कोऽपि साक्षित्वे प्रष्टव्यः स्यात्तु ससदि” । आप्तत्वेन
राजादिभिरवधारितोऽप्येकः साक्षीत्याह व्यासः “शुचि-
क्रियश्च धमज्ञः साक्षी यस्त्वनुभूतवाक् । प्रमाणमेकोऽपि
भवेत् साहसेषु विशेषतः” इति । अनुभूता यथार्थत्वेन
प्रमितचरा वाग्यस्येत्यनुभूतवाक् । कात्यायनः “अभ्य-
न्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि वाच्यते । अर्थिना
प्रहितः साक्षी भवेदेकोऽपि याचिते” । याचित इति
निःक्षेपविशेषणम् । न्यायतौल्यादत्यत्रापीति वाचस्पतिः ।
मदनरत्नकारस्तु याचितं विवाहाद्यर्थं याचितं गृहीत-
माभरणादिकं याचितकमिति यावदित्याह । निःक्षेपवि-
शेषणवैयर्य्यादयाचिते तस्मिन्नभ्यन्तरस्यैकस्यासाक्षित्वप्रस
ङ्गाद्व्याहितान्वयप्रसक्तेश्चोत्तरैव व्याख्या प्रशस्ता । कुण्ड
लादिपण्यविवादे तन्निर्मातैकोऽपि साक्षीत्याह स एव
“संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत् । एक पव
प्रमाणं स विवादे तत्र कीर्त्तितः” । इदञ्च बहूनाम-
सम्भवे सत्यवादिनोर्द्वयोरेकस्य वानुमतिपदर्शनार्थं न
नियमार्थम् अदृष्टार्थत्वप्रसङ्गादिति ध्येयम् । उक्त
लक्षणसाक्ष्यसम्भवे प्रतिषेधरहितानां साक्ष्यनुकल्पानां
सूचनाथमसाक्षिणोऽपि स्मृतिषूक्ताः” ।
ते च असाक्षिन्शब्दे ५४९ पृ० । दर्शिताः ।
साक्षिणो मिथ्याकथने अकथने च दोषो यथा
“पृष्टो हि साक्षी यः साक्ष्यं जानन्नप्यन्यथा वदेत् । य
पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् । यश्च कार्य्यार्थ
तत्त्वज्ञो जानन्नपि न भाषते । सोऽपि तेनैव पापेन
लिप्यते नात्र सशयः” भा० आ० “ब्रह्मस्वस्थाप्यहारी
च मिथ्यास क्ष्यप्रदायकः । मित्रद्रोही कृतघ्नश्च वृषवा-
हकसूपकृत् । एत महापातकिनस्त्रिषु लोकेषु
निन्दिताः । कालसूत्रे च नरके पतन्ति ब्रह्मणः शतस्”
ब्रह्म० वै० गण० ख० ४४ अ० । “मिथ्यासाक्ष्य यो ददाति
कामात क्रोधात्तथा भयात् । सभायां पाक्षिकं वक्ति स
कृतघ्न इति स्मृतः । मिथ्यासाक्ष्यं पाक्षिकं वा भारते
वक्ति यो नृप! । यावदिन्द्र सहम्रञ्च सर्पकुण्डे वसेद्ध्रुवम् ।
सन्तत वेष्टितैः सर्पैर्भीतश्च भक्षितस्तथा । भुङ्क्ते च
सर्पविण्मूत्रं यमदूतेन ताड़ितः । कृकलासो भवेत्तत्र
भारते सप्तजन्मसु । सप्तजन्मसु मण्डूकः पितृभिः सप्तभिः
सह । ततो भवेच्च वृक्षश्च महारण्ये च शाल्मलिः ।
ततो भवेन्नरो मूकस्ततः शूद्रस्ततः शुचिः” ब्रह्मवै० प्र० ४९ अ० ।
साक्षिणो यथा विवादे कर्त्तृत्वाद्यभाव एवं जीवेसा-
क्षिणो कर्तृत्वाभावः ईश्वरसाक्षिन्शब्दे १०४८ पृ० दृश्यम्
तयोर्वृत्त्यादिप्रकाशकत्वात् तथात्वम् अन्तःकरणमाययो-
र्जड़त्वेन विषयाबभासकत्वाभावेन चैतन्योपाधित्वमेव न
तु विशेषणत्वं विषयावभासकत्वे तदन्वयायोगात् ।
अतएव स्वस्वोपाधिवृत्तिचित्तवृत्तिमुखादेरेवावभासकत्वान्ना-
तिप्रसङ्गः इति वेदान्तपरिभाषाप्रत्यक्षपरि० दृश्यम् ।
साख्यसू० भाष्ययोश्चेतनस्य साक्षित्व समर्थित यथा
“ननु साक्षित्वस्यानित्यत्वात् पुरुषाणां कथं सदैकरूपत्वं
तत्राह “साक्षात्सम्बन्धात् साक्षित्वम्” सू० पुरुषस्य यत्
साक्षित्वमुक्तं तत् साक्षात्सम्बन्धमात्रात् न तु
परिणामत इत्यर्थः । साक्षात्सम्बन्धन बुद्धिमात्रसाक्षिताव-
गम्यते “साक्षाद्द्रष्टरि संज्ञायामिति” पा० साक्षिशब्दव्यु-
त्पादनात् । साक्षाद्द्रष्टृत्वं चाव्यवधागेन द्रष्टृत्वम् । पुरुषे
च साक्षात्मम्बन्धः स्वबुद्धिवृत्तेरेव भवति । अतो बुद्ध-
रेव साक्षी पुरुषोऽज्येषां तु द्रष्टृम त्रमिति शास्त्रीयो
पृष्ठ ५२७४
विभागः । ज्ञाननियामकश्चार्थाकारतास्थानीयः प्रति-
विम्बरूप एव सम्बन्धो न तु संयोगमात्रमतिप्रसङा-
दित्यसकृदावेदितम् । विष्ण्वादेः सर्वसाक्षित्व त्विन्द्रि-
यादिव्यवधानाभावमात्रेण गीणम् । अक्षसम्बन्धात्
साक्षित्वमिति पाठे त्वक्षमत्रबद्धिः करणत्वसामान्यात् ।
तस्या यथोक्तात् प्रतिविम्बरूपात् सम्बन्धादित्यर्थः भा० ।
तत्रैव अन्यत्र “सुषुप्त्याद्यसाक्षित्वम् सुषुप्त्याद्यस्याव-
स्थात्रयस्य बुद्धिनिष्ठस्य साक्षित्वमेव पुंसीत्यर्थः । तदुक्तम्
“जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां
विलक्षणो जीवः साक्षित्वेन व्यवस्थितः” । इति तासां
बुद्धिवृत्तीनां साक्षित्वेन तद्विलक्षणो जाग्रदाद्यवस्था-
रहितो निर्णीत इत्यर्थः । तत्र जाग्रन्नामावास्थेन्द्रियद्वारा
बुद्धेर्विषयाकारः परिणामः । स्वप्नावस्था च संस्कार-
मात्रजन्यस्तादृशः परिणामः । सुषुप्त्यवस्था च द्विवि-
धाऽर्द्धसमग्रलयभेदेन । तत्रार्द्धलये विषयाकारा वृत्तिर्न
भवति । किन्तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्ति-
र्भवति अन्ययोत्थितस्य सुखमहमस्वाप्समित्यादिरूप-
सुषुप्तिकालीनसुखादिस्मरणानुपत्तेः । तदुक्तं व्यास-
सूत्रेण “मुग्धेऽर्द्धसम्पत्तिः परिशेषादिति” । समग्रलये
तु बुद्धेर्वृत्तिसामान्याभावो मरणादाविव भवति । अन्यथा
समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपतेत्यागामिसूत्रानुपपत्ते-
रिति । सा च समग्रसुषुप्तिर्वृत्त्यभावरूपेति पुरुषस्तत्-
साक्षी न भवति पुरुषस्य वृत्तिमात्रसाक्षित्वात् । अन्यथा
संस्कारादेरपि धर्मस्य साक्षिभास्यतापत्तेः । सुषुप्त्या-
दिमाक्षित्वं तु तादृशबुद्धिवृत्तीनां प्रकाशनमिति
वक्ष्यामः” ।

साक्षिभास्य त्रि० ३ त० । साक्षिमात्रप्रकाश्ये बुद्धिवृत्त्यादौ वेदान्तप० ।

साक्ष्य न० साक्षिणो भावः कर्म वा ष्यञ् । १ व्यवहारविषय-

वृत्तवृत्तान्तकथनरूपे साक्षिकर्मणि २ तद्भावे च “समक्षदर्श-
नात् साक्ष्यं श्रवणाच्चैव सिध्यति” मनुः ।

सागर पु० सगरेण निर्वृत्तः अण् । १ समुद्रे अमरः । २

मृगभेदे पुंस्त्री० शब्दच० । ३ संख्याभेदे संख्याशब्दे दृश्यम् ।

सागरगामिनी स्त्री सागरं गच्छति गम + णिनि न णत्वम् ।

१ नद्यां २ सूक्ष्मैलायाञ्च राजनि० ।

सागरनेमि स्त्री सागरः नेमिरिव वेष्टनाकारो यस्याः ।

पृथिव्यां हेमच० ।

सागरमेखला स्त्री सागरो मेखलेव यस्याः । पृथिव्यां हेमच० ।

सागरालय पु० सागर आलयो यस्य । वरुणे शब्दच० ।

सागरोत्थ न० सागराद् उत्तिष्ठति उद् + स्था क । सामुद्र-

लवणे राजनि० ।

साग्नि(क) पु० सहाग्निना अग्निहोत्रेण वा कप् । १ श्रौत-

स्मार्त्ताग्नियुक्ते २ अग्निहोत्रिणि द्विजे! ।

साङ्कर्य्य न० सङ्करस्य भावः ष्यञ् । १ परस्पराभावसामाना-

धिकरण्ये सत्येकाधिकरणवृत्तित्वरूपे न्यायोक्ते जातिवा-
षके दोषभेदे सङ्करशब्दे ५१९१ पृ० दृश्यम् २ सङ्करस्य
धर्मे च ।

साङ्कल त्रि० सङ्कलेन निर्वृत्तः सङ्कला अण् । सङ्कलनजाते सि० कौ० ।

साङ्कृति पु० वैयाघ्रपद्यगोत्रस्य प्रवरे मुनिभेदे “वैयाघपद्य-

गोत्राय साङ्कृति प्रवराय च” भोष्मतर्पणमन्त्रः ।

साङ्ग त्रि० सहाङ्गेन । अङ्गयुक्ते “तस्मात् साङ्गसधीत्यैव”

“साङ्गं तत् क्रियते पुनः” इति च स्मृतिः ।

साङ्गतिक त्रि० सङ्गत्या निवृत्तः ठक् । सङ्गतिसिद्धे युक्ते ।

साचि अव्य० सच--इण् । १ वक्रे २ तिर्य्यगर्थे च अमरः ।

साचिवाटिका स्त्री० साचि यथा तथा वटति वट--ण्वुल् ।

१ श्वेतपुनर्णवायां रत्नमा० ।

साचीकृत त्रि० असाचि साचि क्रियते स्मचि--कृ--क्त दीर्घः ।

वक्रीकृते सि० कौ० “साचीकृता चारुतरेण तस्थौ” कुमा०

साट प्रकाशने अद० चु० उ० स० सेट् । साटयति ते अससाटत् त

साटोप त्रि० सहाटोपेन सहस्य सः । १ सगर्वे २ विकटे च ।

सात सुखे उपादाने अद० चु० उभ० अक० सेट् । सातयति

ते अससातत् त । अयं सौत्र इत्येके ।

सात न० सात--अच् । १ सुखे भरतः । सन--क्त । २ दत्ते २ नष्टे च ।

सातला स्त्री सातं सुखं लाति ला क । १ चर्मकषायाम्

अमरः । २ सेहुण्डभेदे राजान० ।

सातवाहन पु० शालिवाननृपे हमच० ।

साति स्त्री सन--क्तिन् । १ अवसाने २ दान ३ तीव्रपीड़ायाञ्च अमरः ।

सातीन(ल)क पु० सतीन(ल)एव स्वार्थे अण् । सतीन(ल)

कवृक्षे (क्षुद्रमटर) रायमुकुटः ।

सात्यकि पु० सत्यकस्य वृष्णिवंक्ष्यभेदस्यापत्यम् अण् । शिने०

र्नप्तरि स्वनाभख्याते वृष्णिवंश्ये क्षत्त्रियभेदे त्रिका० ।

सात्यवत पु० सत्यवत्यां मत्स्यगन्धायां भवः अण् । १

वेदव्यासे त्रिका० । २ सत्यवतः सम्बन्धिनि च ।

सात्यवतेय पु० सत्यवत्या अपत्यम् ढक् । सत्यवतीयुते व्यासे हला० ।

सात्वत् पु० सातयति सुखयति सात--क्विप् सात् परमेश्वरः

स उपास्यत्वेनास्त्यस्य मतुप् मस्य वः । विष्णूपामके
“भगवान् सात्वतां पतिः” भागवतम् । श्रीघरेण
सन्नेव अण् सातः विष्णुरुपास्यत्केनास्त्यस्य मतुपि
अलोपश्छोन्दमः इत्युक्तम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/सम्प्रति&oldid=57861" इत्यस्माद् प्रतिप्राप्तम्