वाचस्पत्यम्/सदाफल

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५२०९

सदाफल पु० सदा फलमस्य । १ नारिकेलवृक्षे २ उडुम्बर-

वृक्षे ३ स्कन्दफलवृक्षे च मेदि० । ४ विल्वे० जटा० । ५
वार्त्ताकुभेदे स्त्री राजनि० टाप् । “सदाफला त्रिदोषघ्नी
रक्तपित्तप्रसादनी । कण्डूकच्छूहरी चैव वार्त्ताकी
गुणवत्तमा” राजव० ।

सदाभद्रा स्त्री सदा भद्रमस्याः ५ ब० । माम्भारीवृक्षे रत्नमा० ।

सदायोगिन् पु० सदा युज्यते युज्--घिनुण् । १ विष्णौ त्रिका०

२ सदायोगयुते त्रि० स्त्रियां ङीप् ।

सदाशिव पु० सदा शिवमस्मात् ५ ब० । महादेवे ।

सदुत्तर न० कम० । १ व्यवहारे प्रतिज्ञापत्त्रानुसारिण्युत्तरे

पृष्टस्य २ सम्यगुत्तरे च । ६ ब० । ३ तद्वति त्रि० ।

सदृक्ष त्रि० समानं दर्शनमस्य दृश + क्स समानस्य सादेशः ।

तुल्यरूपे अमरः ।

सदृश् त्रि० समानं दर्शनमस्य समान + दृश--क्विप् सादेशः । तुल्यरूपे अमरः ।

सदृश त्रि० समानं दर्शनमस्य समान + दृश--टक् । तुल्यरूपे

स्त्रियां ङीप् ।

सदृशस्पन्दन त्रि० ऋश--गतौ क सत् ऋशं गतं स्पन्दनं यस्मात् ५ ब० । निष्पन्दे त्रिका० ।

सदेश पु० सह देशेन सहस्य सः । १ निकटे अमरः ३ देशा-

न्विते त्रि० ।

सद्धेतु पु० कर्म० । न्यायोक्ते हेत्वाभासदोषरहिते हेतौ ।

पक्षसत्त्वं १ सपक्षसत्त्वं २ विपक्षासत्त्वं ३ अबाधितविषय-
त्वं ४ असत्प्रतिपक्षितत्वं ५ इति पञ्चरूपोपन्नो हेतुः
सद्धेतुः “व्याप्त्यादिविशिष्टो हेतुः सः” नीलकण्टः “प्रमि-
तव्याप्तिपक्षताको हेतुः सः” गदा० । २ वृत्तिमद्धेतौ च
“अव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्तिमाशङ्क्याह” दीधितिः ।
अत्र सद्धेतौ वृत्तिमति हेतावित्यर्थः गगनादेः सयोगेन
वृत्तिमत्त्वाभावात् तत्राव्याप्तिर्न सम्भवतीत्युक्तं सदिति ।

सद्भाव पु० सतोभावः, सन् वा भावः । १ विद्यमानत्वे २

साधुभावे च “सद्भावमागतः” इति मट्टिः ।

सद्भूत न० असत् सत् भूतम् सत् + च्वि--भू--क्त । १ यथार्थे

२ तद्वति त्रि० हेमच० ।

सद्मन् न० सीदत्यस्मिन् सद--मनिन् । १ नृहे अमरः २ जले च मेदि० ।

सद्यःकृत त्रि० सद्यस्तत्क्षणात् कृत कृ--क्त । तत्क्षणकृते ।

सद्यःप्राणकर त्रि० सद्योहठात् प्राणं बलम् आयुर्वृद्धिञ्च

करोति कृ--अच् । “सद्योमांसं नवान्नं च बाला स्त्री
क्षीरभोजनम् । घृतमुष्णोदकञ्चैव सद्यःप्राणकराणि षड्”
इति चालक्याक्ते द्रव्यसमूह

सद्यःप्राणहर त्रि० सद्यः प्राणमायुर्बलंवा हरति हृ--अच् ।

शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुण दधि । प्रभाते
मैथुनं निद्रा सद्यःप्राणहराणि षड्” इति चाणक्योक्त
शुष्कमांसादिद्रव्यसमूहे ।

सद्यःशोथा स्त्री सद्यः शोथो यस्याः ५ ब० । कपिकच्छ्वाम्शब्दच०

सद्यःशौच न० सद्यः शीघ्रमपनेयमशौचम् । १ स्मृत्युक्ते

शीघ्रनाश्ये अशौचे ६ ब० । २ तद्वति शिल्पिनृपश्रोत्रि-
यादौ त्रि० । अशौचशब्दे ४८८ पृ० दृश्यम् ।

सद्यस् अव्य० समेऽह्नि नि० । १ तत्क्षणे अमरः । २ समान

दिवसे एकस्मिन् दिने इत्यर्थे च ।

सद्यस्क त्रि० सद्योभवः कन् कस्का० । सद्योजाते ।

सद्यस्क्री पु० सद्यःक्रीणाति सोमम् यत्र क्री--आधारे किप्

कस्का० । सद्यःसोमक्रयसाध्ये यागभेदे “एकरात्रोऽति-
रात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः” अथर्व० ११ । ७ । १० । नाना-
यज्ञोक्तौ । भावे क्विप् । २ सद्यस्क्रये स्त्री । तया साध्यः
अण् । साद्यस्क्र सद्यःसोमक्रयेण एकाहसाध्ये यज्ञभेदे ।
“साद्यस्क्राश्च षट्” कात्या० श्रौ ०२२ । २ । ९ । उक्ता यथा “षट्
साद्यस्क्रा” सू० “स्वर्गकामपशुकामभ्रातृव्यवतां प्रथमः”
सू० । १ साद्व्यष्क्र ख्यक्रतुर्भवति । “दीर्घव्याधिप्रतिष्ठाकामा-
न्नाद्यकामानां द्वितीयः” सू० । साद्यष्क्रो २ भवति
एषामत्राधिकारः । “हीनस्यानुक्रीः” सू० अनुक्रीर्नाम ३
साद्यष्क्रः स हीनस्य भवति यः कर्मणा हीन तस्यासौ
भवति । “विश्वजिच्छिल्पः” सू० नाम साद्यस्क्रः ४ ।
“श्येनोऽभिचरतः” सू० । श्येनो ५ नाम साद्यष्क्रः पञ्चमः
सोऽभिचरतो भवति । “एकत्रिकः” सू० षष्ठः ६ साद्यष्क्रः ।
तत्र षट् षष्टिशतं दक्षिणा । साद्यःक्रधर्माः व्याख्या-
स्यन्त इति सूत्रशेषः । दीक्षादि सद्यः सर्वं क्रियते”
भाष्यम् ताण्ड्यब्रा० भाष्ये चोक्तं यथा
अथ साद्यस्क्रा नाम पञ्च एकाहास्तेषु पथमद्विती-
ययोर्दीक्षाप्रभृत्यवभृथान्तं, सर्वमेकस्मिन्नेवाहन्यनु-
ष्ठेय तृतीयस्य तु एकस्मिन् दिवसे दीक्षा परस्मिन्
दिवसे सोमक्रयाद्यवभृथान्तं, चतुर्थपञ्चमयोरप्येवं यद्वा
एका दीक्षा सोमक्रयप्रभृति उपवसथान्तं द्वितीयेऽहनि
सुत्येति एवं सूत्र कारमतं पञ्चस्वपि साद्यस्क्रान्वयात्
सद्य एव एकस्मिन्नेवाहनि दीक्षाद्यवभृथान्तं कर्त्तव्य-
मिति मतात्तरम् । एतत्सर्वं साद्यम्क्रेण वक्ष्यमाणे
महारात्रे प्रातराहुतिं हुत्वेत्यादिना सूत्रकारेण विस्प-
ष्टमुक्तम् । तत्र प्रथमस्य यदुर्क्त सर्वं सद्योऽनुष्ठेयमिति
तद्विधित्सुराह “आदित्याश्चाङ्गिरसश्चादीक्षन्त ते स्वर्गे
लोकेऽस्पर्द्धन्त तेऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवं
पृष्ठ ५२१०
स्त आदित्या एतमपश्यंस्तं सद्यः परिक्रीयायास्यमुद्धा-
तारं वृत्वा तेन स्तत्वा स्वर्गं लोकभायन्नहीयन्ताङि
रसः” ताण्ड्य० ब्रा० १६ । १२ । १ । “पुरा आदित्याश्चाङ्गि
रसश्च अदीक्षन्त यज्ञाय दीक्षां कृतवन्तः ते उभे स्वर्गे
लोके स्वर्गलोकतिमित्तमस्पर्धन्त वयं प्रथमं गमिष्यामो
बयं प्रथमं गमिष्याम इति स्पर्द्धां कृतवन्तः एवं स्पर्द्ध-
मानास्तेऽङ्गिरस आदित्येभ्यः सुत्यां श्वः परस्मिन्दीक्षा-
नन्तरदिने करिष्यमाणं सोमयागं प्राब्रुवन् प्रोक्तवन्तः
अथ ते आदित्या एव वक्ष्यमाणयज्ञमपश्यन् तं यज्ञं
सद्यः एकस्मिन्नेवाहनि परिक्रीय सोमं क्रीत्वा अयास्य
मृषिमुद्गातारं वृत्वा स्तावयित्वा समापयन् दोक्षाद्यवभृ-
धन्तं सर्वं कर्म एकस्मिन्नेवाहनि अन्वतिष्ठन्नित्यर्थः ।
यज्ञसमाप्त्यनन्तरमेव ते स्वर्गलोकमायन् प्राप्नुवन्
आङ्गिरषस्त्वहीयन्त दीक्षानन्तरदिवसे सुत्येति तैरुक्तत्वात्
एतस्विन् दिने दीक्षाद्यवभृथान्तस्य सर्वस्याननुष्ठानेन
स्वर्गप्राप्ताभावात् दीक्षितैरादित्यैः वद्योऽनुष्ठानेन स्वर्ग-
गतेः हीनाः भूमायेव परित्यक्ता आसन्” भा० ।

सद्योजात पु० सद्योजायते जन--कर्त्तरि क्त । १ वत्से

शब्दच० । २ शिवमूर्त्तिभेदे च ३ आशुजाते त्रि० ।

सद्योभाविन् पु० सद्योभवति भ--णिनि । १ वत्से शब्दच० ।

२ आशुजाते त्रि० । स्त्रियां ङीप् ।

सद्रु त्रि० सद--गतो रु । गन्तरि सि० कौ० ।

सद्वृत्त न० वृत--भावे क्त्व कर्म० । १ साधुस्वभावे जटा० २ साधु-

वर्त्तने । ६ ब० । ३ सच्चरितृयते त्रि० । “सद्वृत्तसन्निकर्षो
हि क्षणार्द्धमपि शस्यते” इति ति० त० ।

सद्वृत्ति स्त्री कर्म० । १ उत्तमचरित्रे २ उत्तमव्याख्यानरूपे

ग्रन्थं च सती वृत्तिः यस्य । ३ सद्वृत्तियुते त्रि० “सद्-
वृत्तिः सन्निबन्धनति माध० ।

सधर्म्मन् त्रि० समानो धर्मोऽस्य अनिच समा० समानस्य सः । सदृशे स्त्रियां वा डाप् ।

सधर्म्मचारिणी स्त्री सह धर्मं चरति चर--णिनि ।

सहधर्मकारिण्यां भार्य्यायां हला० ।

सधर्मिन् त्रि० समानं धर्मं चरति इनि । १ तुल्यधर्मचरण-

कर्त्तरि । स्त्रिया ङीप् । सा च २ पत्न्याञ्च हमच०

सधवा स्त्री सह धवेन सहस्य सः । जीवत्पतिकायां स्त्रियां जटा०

सधि पु० साधयति साधि--इन् पृषो० ह्रस्वः । वह्नौ त्रिका० ।

सधिस् पु० सह--इसिन् हस्य धश्च । वृषभे सि० कौ० ।

सध्र्यच् त्रि० सह--अञ्चति अनच--क्विप् सहस्य सध्रिः ।

१ सहचरे अमर सत्वे सध्राचः । स्त्रियां ङीप् सध्रीची
सा च २ भार्य्यायां ३ सख्याञ्च हेमच० ।

सन पु० सन--अच । १ धण्टापारुलिवृक्षे । २ हस्तिकर्णास्फाले शब्दच० ।

सनक पु० सन--वुन् । ब्रह्मणो मानसपुत्त्र मुनिभेदे

“भगवद्ध्यानपूतेन मनसाऽन्यांस्तताऽसृजत् । सनकञ्च
सनन्दङ्क सनातनमथात्मभूः । सनत्कुमारञ्च मुनीन्
निष्क्रियानूर्द्ध्वरेतसः । तान् वभाषे स्वभूः पुत्रान् प्रजाः
सृजत पुत्रकाः! । तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः”
भाग० ३ १३ अ० “धर्मस्य भार्य्या हिंसाख्या तस्यां
पुत्रचतुष्टयम् । सम्प्राप्तंमुनिशार्दूलं योगशास्त्रविचा-
रकम् । ज्येष्ठः सनत्कुमारोऽभूत् द्वितीयश्च सनातनः ।
तृतीयः सनको नाम चतुर्थश्च सनन्दनः” वामनपु० ५ ७ ।
५ ८ अ० उक्ते धर्मपुत्रभेदे ।

सनत पु० सन--अति । १ चतुर्मुखे ब्रह्मणि त्रिला० सदेत्यर्थे अव्य० रामाश्रमः ।

सनत्कुमार पु० ६ त० । ब्रह्मणः पुत्त्रे मुनिभेदे अमरः ।

तस्य नित्यकुमारत्वादपि तन्नामता यथोक्तम्
“सृष्टेः पूर्वञ्च वयमा यथैव पञ्चहायनः । अचूड़ोऽनु-
पवीतश्च वेदसन्ध्याविहीनकः । कृष्णेति मन्त्रं जपति
यस्य नारायणो गुरुः । अनन्तकालकल्पञ्च भ्रातृभिश्च
त्रिभिः सह । वैष्णवानामग्रलीशो चानिनाञ्च गुरोर्गुरुः
ब्रह्मव० श्रीकृष्णजन्मख० १२९ अ० ।

सनन्द पु० सह नन्देन । १ सनकशब्दाक्ते मुनिभेदे २ आनन्दयुक्ते त्रि० ।

सनपर्णी स्त्री सनस्येव पर्णान्यस्याः ङीप् । असनपर्ण्यां शब्दच०

सनसूत्र न० शणस्य सूत्रमस्त्यस्य अच् पृषो० । मत्स्यवार-

णार्थं शणसत्रकृते जाले अमरे पाठान्तरम् ।

सना अव्य० सदा--नि० दस्य नः । सदेत्यर्थे अमरः ।

सनातन त्रि० सदा + भवार्थे ट्युल् तुट् च नि० दस्य नः ।

१ सदाभवे नित्ये वस्तुनि अमरः । २ निश्चल विश्वः । स्त्रियां
ङीप् । सा च ३ दुर्गायां “सर्वकाले सना प्रोक्ता विद्य-
माने तनीति च । सर्वत्र सर्वकालेषु विद्यमाना सनातनी
ब्रह्मवै० प्र० ५४ अ० । तन्नामनिरुक्तिः । ४ सरस्वत्यां
५ लक्ष्म्याञ्च शब्दमा० । ६ शिवे ७ विष्णौ ८ ब्रह्मणि ९ दिव्यमनुष्य
ब्रह्मणोमानसपुत्रभेदे १० पितॄणामतिथौ च पु० हेमच० ।

सनात् पु० सना नित्यमतति अत--क्विप् । विष्णौ विष्णुस०

सदत्यर्थे अव्य० अमरटीकायां रामाश्रमः ।

सनाथ त्रि० सह नाथेन सहस्य सः । १ युक्ते २ जीवद्भर्तृकस्त्रया स्त्री ।

सनाभि पु० समाना नाभियस्य । १ ज्ञातौ अमरः । तस्य

एकदेहोत्पन्नत्येन तुल्यनाभितया तथात्वम् । २ मध्य-
युक्ते ३ स्नेहयुक्ते ४ तुल्ये च त्रि० मेदि० ।
पृष्ठ ५२११

सनामक पु० सना सदा अमयति अम--ण्वुल् । १ शोभा-

ञ्जनवृक्षे शब्दच० । तस्य पत्त्रादिभोजनस्य रोगहेतुत्वा-
त्तथात्वम् । सह नाम्ना कप । २ नाभयुक्ते त्रि० ।

सनि पु० सन--भाव इन् । १ पजायां २ दाने च सि० कौ० ।

३ सतकारपूर्वकनियोगे पुंस्त्रीं० अमरः स्त्रियो वा ङीप् ।
४ ङीबत्तः हस्तिकर्णास्फाले शब्दर० ५ दिशि स्त्री शब्दमा०

सनित त्रि० सन--बा० इत । प्रतिपन्ने हेमच० ।

सनिष्ठी(ष्ठे)व ने० सह निष्ठी(ष्ठे)वेन । १ समुखच्युतवारि-

कणे मथूत्कारे अमरः ।

सनीड़ त्रि० समानं नीड़ं सह नीडेन वा सादेशः । १

निकटस्थे अमरः । २ नीड़युक्ते त्रि० ।

सन्त पु० सन--बा० त । सहतले शब्दर० ।

सन्तत न० सम् + तन--क्त । १ मतते निरन्तरे । २ नैरन्तर्य्य

युते त्रि० अमरः ३ विस्तीर्णे च ।

सन्तति स्त्री सन्तन्यते सम् + तन--क्तिच् । १ गोत्रे अमरः ।

२ पुत्रे ३ कन्यायाञ्च विश्वः । भावे क्तिन् । ४ विस्तारे ५ प
ङक्तौ ६ अविच्छिन्नधःरायाञ्च विश्वः ।
मलतिश्च दैशिकी कालिकी च । तत्र दैशिकी तैलादीनां,
कालिकी ज्ञानसुखादीनाम् । तत्र दैशिकसलतित्वं स्वा-
धिकरणदेशीयनानावच्छेदकवृत्तिधर्मत्वं तच्च मूर्त्तानामेव
कालिकसलतित्वञ्च नानाकालीनकार्य्यमात्रवृत्तिधर्मत्वम्,
मुक्तिवादे गङ्गेशः तच्च मूर्त्तामूर्त्तयोरत एव वृक्ष दु
स्वज्ञानादिसन्ततिर्भवतीति तदुक्तं तत्रैव “दैवदत्तवृत्तिदुःखत्वं
दुःखत्वं वा स्वाश्रयसमानकालीनध्वं सप्रतियोगिवृत्ति
कार्य्यंमात्रवृत्तिधर्मत्वात् सन्ततित्वाद्वेत्युक्त्वा सन्ततित्वं
च नानाकालीनकार्य्यमात्रवृत्तिधर्मत्वम्” इत्युक्तम् ।

सन्तप्त त्रि० सम् + तप--क्त । १ अध्वगत्यादिना परिश्रान्ते

२ अग्नितप्ते ३ तेन विशुद्धे च “सन्तप्तचामीकरवल्गु
वज्र” मिति भट्टिः ।

सन्तमस न० सन्ततं तमः प्रा० स० अच् समा० । १ गाढ़ान्धकारे

अमरः । २ महामोहे च मोहस्य सर्वौपरत्वात् तमस्त्वेन
महामोहस्य गाढ़ान्धकाररूपत्वात्तथात्वम् ।

सन्तर्पण न० सन्तृप्यत्यनेन सम् + तृप--करणे ल्युट् । “द्राक्षा

दाड़िसखर्जूरीशर्करामधुसंयुतम् । लाजाचूर्णन्तु साज्यं
यत् तच्च सन्तर्पणं बिटुः” राजनि० उक्ते द्राक्षादिभिर्युते
लाजाचूर्णे खाद्यभेदे । सम् + तृप--णिच् ल्यु ।
२ सम्यकतर्पके त्रि० ।

सन्तान पु० सम् + तन--घञ् । १ वंशे अन्वये अमरः । २ कल्पवृक्षे ३ अपत्ये ४ विस्तारे च मेदि० ।

सन्तानिका स्त्री सम + तन--ण्वुल् टाप् अत इत्त्वम् ।

१ क्षोरसरै “सन्तानिका गुरुः शीता द्रव्याः पित्तास्रवात-
जित्” राजव० । २ मर्कटजले ३ केमे ४ छुरिकाफले च
हारा० ।

सन्ताप पु० सम्यक् तापः प्रा० स० । १ वह्निजाते तापे अमरः । २ सम्यव्यतापे च ।

सन्तापन पु० सलापयति सम् + तश्--णिच्--ल्यु । कामदेश्म

१ पञ्चशरान्तर्गते शरभेदे त्रिका० । २ सन्ताषकारक स्त्रि० ।

सन्ति स्त्री सन--ति । १ टापे २ अवमाने च मुग्धषोटीका ।

सन्तोष पु० सम + तुष--करणादौ घञ् । १ धैर्य्ये २ स्व स्यो घ

हेमचः । ३ सम्यक्तुष्टौ “सन्तोषमूलं हि सुखम्” मनुः ।

सन्दंश पु० सम् + दन्श--अच् । (साँड़ाशो) यन्त्रमेदे हेमच० ।

सन्दंशपतित पु० सन्दगे तन्मध्ये पतित इव । मीमांस-

कोक्ते न्यायभेदे न्यव्यशब्दे ४१६६ पृ० दृश्यग ।

सन्दर्भ पु० सम् + दृभ--घञ् । १ रचनायां हला० । २ ग्रघते

३ पबन्धे त्रिका० “गूढार्थस्य प्रकाशश्च सारोक्तिः श्रेष्ठवा
गिरा । नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते घुधै”
इत्युक्ते ४ कथमभेदे ५ वक्तृतात्पर्य्यविशेषे च ।

सन्दान न० मम् + दो--करणादौ ल्युट् । १ दाम्नि २ बन्धने

अमरः ३ सम्यक्खण्डने च । दा--ल्युट् । ४ सम्यग्दाने न०
५ गजस्याष्ठीवतोरधोभागे पु० त्रिका० ।

सन्दानिका स्त्री सन्दानं संखण्डतमस्त्यस्य ठत् । विट्खादरे राजनि० ।

सन्दानित त्रि० सन्दानं जातमस्य तार० इतच् । बद्वे अमर

“रशनामन्दानितचरणे” ति मालविकाग्निमित्रम् ।

सन्दानिनी स्त्री सन्दानं बन्धनं गवामत्र बा० । इनि ङीप् ।

गाशालायाम् हमच० ।

सन्दाव पु० सम् + द--भावे घञ् । पलायने अमरः ।

सन्दाह पु० सम् + दह--करणादा घञ् । १ मुखादिशोषे

राजनि० । २ सम्यगदाहे च ।

सन्दिग्ध त्रि० सम + दिह्--कर्त्तरि क्त । १ सन्देहयुक्ते ।

कर्मणि क्त । २ सन्देहविग्रये ३ सम्यगलिप्ते च । भावे क्त ।
४ मन्देहे ५ संलेप च ।

सन्दित त्रि० सम + दो--क्त । बद्धे अमरः ।

सन्दिष्ट न० सम् + दिश--भावे क्त । १ वाचिकार्थकथने वार्त्ता-

याम शब्दर० । कर्मणि--क्त । २ उपटिबे त्रि० ।

सन्दिहान त्रि० सम् + डिह--शानेच् । सन्देहयुक्ते जटा० ।

सन्दी स्त्री सम् + दो--ड गौरा० ङीष् । खट्वायां त्रिका० ।

सन्दीप्य पु० मन्दीप्यतेऽसौ सम् + दीप--कर्त्तरि श । गयूर-

शिखावृक्षे शब्दच० ।
पृष्ठ ५२१२

सन्देश पु० सम् + दिश--घञ् । वाचिकाथकथने वार्त्तायाम्

अमरः । “मदर्थसन्देशमृणालमन्थरः” नैष० ।

सन्देशहर पु० सन्देशं हरति अभीष्टस्थानं कथनाय नयति

हृ--अच् । १ दूते “तवैव सन्देशहरादिति” रघुः ।
ण्वुल् । सन्देशहारकोऽप्यत्र ।

सन्देह पु० सम् + दिह--घञ् । १ सशयशब्दस्यार्थे अमरः ।

२ अलङ्कारभेदे अलङ्कारशब्दे ४०५ प० दृश्यम् । सन्देह-
विशेषश्च पक्षतेत्याचार्य्याः स च प्रकृतपक्षविशेष्यकसाध्यब-
त्तानिश्चयप्रतिबन्धकतानिरूपितप्रतिरुध्यताशातिसंशयः ।

सन्दोह पु० सम् + दुह--घञ् । १ समूहे अमरः । २ सम्यग्दोहे

कर्मणि घञ् । ३ दुग्धे च “सन्दोहश्चाष्ठमेऽहनि” मिता० ।

सन्द्राव पु० सम् + द्रु--घञ् । पलायने अमरः ।

सन्धा स्त्री सम् + धा--अङ् । १ स्थितौ २ प्रतिज्ञायां मेदि० ।

३ सन्धाने सुरोत्पादनानुगुणे व्याप रभेदे शब्दर० ४
अनुसन्धाने ५ सन्ध्यायां वाचस्पतिः ।

सन्धान न० सम् + धा--ल्युट् । १ सुरादिसम्पादनानुगुणे व्या

पारे २ सोमरसकण्डनात्मके अभिषवे ३ अनुसन्धाने
४ सङ्घट्टने च मेदि० । मन्धाने स्त्रीत्वमपि तत्र ङीप् ।
सा च ५ कुप्यशालायां शब्दर० । संघट्टनं च योजनम् ।
“यदर्द्धे विच्छिन्नं भवति कृतसन्धानमिव तत्” शकु० ।
५ काञ्जिके हला० । ६ मदिरायाम् ७ अवदंशे ६ सौराष्ट्रे
राजनि० ९ धनुषि शरस्य योजने च ।

सन्धि पु० सम् + धा--कि । १ नृपाणां षड्गुणान्तर्गते मेलनार्थं

मैत्रीकरणरूपे व्यापारे
षाडगुण्यान्तर्गतसन्धिविषयादिकं शुक्रनीतिपरि० उक्तं यथा
“बलीयषाऽभियुक्तस्त नृपोऽनन्यपतिक्रियः । आपन्नः
सन्धिमन्त्रिच्छेत् कुर्वाणः लाकयापुनम् । एक एवोप-
हारस्तु सन्धिरेष मतो हितः । उपहारस्य भेदास्तु
सर्वेऽन्ये मैत्रवर्जिताः । अभियोक्ता बलीयस्त्यादलब्ध्वा न
निवर्त्तते । उपहारावृते यस्मात् सन्धिरेष न विद्यते ।
शत्रोर्बलानुसारेण उपहारं प्रकल्पयेत् । सेवां वापि च
स्त्रीकुर्य्याद् दद्यात् कन्यां भुवं धनम् । स्वसामन्तांश्च
सन्धीयात् मन्त्रेणान्यजवाय वै । सन्धिः कार्य्योऽप्यनार्य्येण
संप्राप्योत्साढ़येद्धि सः । सैघातवान् यथा वेणुर्निविडैः
कण्टकैर्वृतः । न शक्यते समुच्छेत्तुं वेणुः संघातवांस्तथा ।
सन्धिश्चातिबले, युद्धं साम्ये, यानन्तु दुर्बले । बलिना
सह सन्धाय मये साधारणे यदि” । “आत्मानं गोपयेत्
काले बहुमित्रेषु बुद्धिमान्” । “राजा न गच्छेद्विश्वासं स-
न्धितोऽपि हि बुद्धिमान् । अद्रोहसमयं कृत्वा वृत्तमिन्द्रः
सदाऽबधीत्” । “सन्धायान्यत्र यात्रायां पार्ष्णिग्रहेण
शत्रुणा । सन्धाय गमनं प्रोक्तं तज्जिगीषोः फवार्थिनः” ।
तद्भेदलक्षणादिकं हितोपदेशे न्यरूपि यथा
“कपाल उपहारश्च सन्तानः सङ्गतस्तथा । उपन्यासः
प्रतीकारः संयोगः पुरषान्तरः । अदृष्टनर आदिष्ट
आत्मादिष्ट उपग्रहः । परिक्रयस्तथोच्छिन्नस्तथा च
परभूषणः । स्कन्धोपनेयः सन्धिश्च षाड़शैते प्रकीर्त्तिताः ।
इति षोडशकं प्राहुः सन्धिं बन्धिविचक्षणाः । कपाल-
सन्धि १ विंज्ञेय, केवलं समसंज्ञितः । सम्प्रदानाद्भवति य
उपहार २ स उच्यते । सन्तानसन्धि ३ र्विज्ञेयो दारिकादा-
नपूर्वकः । सद्भिस्तु सङ्गतः ४ सन्धिर्यैत्रीपूर्व उदाहृतः ।
यावदायुःप्रमाणस्तु समानार्थप्रयोलनः । सम्पत्तौ वा
विपत्तौ वा कारणैर्यो न भिद्यते । सङ्गतः सन्धिरेवायं
प्रकृष्टत्वात् सुवर्णवत् । तधान्यैः सन्धिकुशलैः काञ्चनः
स उदाहृतः । द्रव्यात्मकार्य्यसिद्धिं तु समुद्दिस्य क्रियेत
यः । स उपन्यासकुशलैरुपग्याह ५ उदाहृतः । पश्चास्तोप-
कृतं पूर्वं भमाप्येष करिष्यति । इति यः क्रियते सन्धिः
प्रतीकारः ६ स उच्यते । उपकारं करोप्यस्य महाप्येष
करिष्यति । अयं चापि प्रतीकारो रामसुग्रीवयोरिव ।
एकार्थां सम्यगुद्दिश्य क्रियां यत्र हि गच्छति । सुसंहित-
प्रयाणस्तु स च संयोग ७ उच्यते । आवयोर्बोधमुख्यैस्तु
मदर्थः साध्यतामिति । यस्मिन् पणस्तु क्रियते स सन्धिः
पुरुषान्तरः ८ । त्वयैकेन मदीयोऽर्थः सम्प्रसाध्यस्त्वसाविति ।
यत्र शत्रुः पर्ण कुर्य्यात् सोऽदृष्टपुरुषः ९ स्मृतः । यत्र भूम्ये-
कटेशेन प्रणेन रिपुवर्त्तितः । सन्धीयते सन्धिविद्भिः
आदिष्टः १० स उदाहृतः । स्वसैन्येन तु सन्धानमात्मादिष्ट ११
उदाहृतः । क्रियते प्राणरक्षार्थं सवदानादुपग्रहः १२ ।
कोषांशेनार्द्धकोषेण सर्बकोषेण वा पुनः । शिष्टस्य प्रति-
रक्षार्थं परिक्रय १३ उदाहृतः । भुवां सारवतीनां तु
दानादुच्छिन्न १४ उच्यते । भूम्युत्थफलदानेन सर्वेण परभू-
षणः १५ । परिच्छिन्नं फलं यत्र प्रतिस्कन्धे दीयते ।
खन्धोपनेयं १६ तं प्राहुः सन्धिं सन्धिविचक्षणाः । परस्परो-
पकारस्तु मैत्री सम्बन्धकस्तथा । उपहारश्च विज्ञेयश्चत्वा-
रश्चैव सन्धयः । एक एवोपहारश्च सन्धिरेव मतो मम ।
उपहारविभिन्नास्तु सर्वे मैत्राववर्जिताः । अभियोक्ता
बलीयस्त्वादलब्ध्वा न निवर्त्तते । उपहाराद्दते तस्मात्
सन्धिरन्थो न विद्यते” ।
पृष्ठ ५२१३
सन्धिलक्षणादिकं युक्तिकल्पतरौ प्रदर्शितं यथा
“पणबन्धा भवेत् सन्धिः स्वयं हीनस्तमाचरेत् । मर्य्या-
दोल्लङ्घनं नास्ति यदि शत्रोरिति स्थितिः । मर्य्यादोल्ल-
ङ्घनं यत्र शत्रो संशयितं भवेत् । न तं संशयितं कुर्य्या-
दित्युवाच वृहस्पतिः” । षाड्गुण्यशब्दे ५१७९ पृ० दृश्यम्
२ संयोगे अमरः । ३ अस्थिद्वयसंयोगस्थाने ४ चौरादिकृत
सुरङ्गायां सन्धिं कृत्वा तु ये चौर्य्यमिति” स्मृतिः । ५ भगे
६ सङ्घट्टने ७ नाटकाङ्गविशेषे ८ सविकाशे मेदि० ९ व्याकरणोक्ते
वर्णद्वयजाते १० वर्णविकारभेदे ११ भेदे विश्वः । नाटकाङ्ग
सन्धिश्च “अन्तरैकार्थसम्यन्धः सन्धिरेकान्वये सति” ।
एकार्थेन सम्बन्धः सन्धिः । तद्भेदानाह “मुखं प्रतिमुखं गर्भो
विमर्ष उपसंहृतिः । इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षण-
मुच्यते” सा० द० । सुखादिलक्षणम् तत्तच्छब्दे दृश्यम् । १२
सत्यादियुगानामाद्यन्तयोः कालयोः सन्ध्याशब्दे दृश्यम्
“ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश । कृतप्रमाणः
कल्पादौ सन्धिः पञ्चदशः स्मृतः” मनुः । तेन सन्धिसन्ध्यं-
शसहितं सत्ययुगमानम् ४८०० दैववर्षाः । “कृताव्दसङ्ख्य-
स्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः । तत्र युगानामादौ
सन्धिः अन्ते सन्ध्यंश । मन्वन्तराणामादौ सन्धिः
कल्पानामन्ते सन्धिरिति भेदः । १३ तिथ्यादेराद्यन्तभाग
भेदे च उपयमशब्दे १२५८५९ पृ० दृश्यम् ।

सन्धिका स्त्री स्वार्थे क । मद्यसन्धाने शब्दच० ।

सन्धिचौर पु० सन्धिना कृतसुरङ्गया चौरः । सन्धिं कृत्वा

चौर्य्यकारके (सिँधेल) शब्दमाला ।

सन्धिजीवक पु० सन्धिना अभिसन्धिना जीवति जीव--ण्वुल्

शाट्येन परार्थहारके त्रिका० ।

सन्धित त्रि० सन्धा जाताऽस्य तार० इतच् । १ कृतसन्धे २ मिलिते च ।

सन्धिनी स्ती सन्धा वृषभसंयोगस्तज्जगर्भोऽस्त्यस्याः इनि

ङीप् । १ वृषभसंयोगेन धृतगर्भायां स्त्रीगव्याम् अमरः ।
२ अकालदुग्धायां गवि मेदि० । तद्दुग्धपाननिषेधः “न
पिवेत् सन्धिनीक्षीरम्” स्मृतिः ।

सन्धिपूजा स्त्री सन्धौ अष्टम्याः शेषे नवम्याश्च आद्ये दण्डे

पूजा । आश्विनशुक्लाष्टमीनवमीसन्धिकाले विहितपूजायाम्
“अष्टमी नवभीसन्धौ तृतीया खलु कथ्यते । तत्र पूज्या
त्वहं पुत्र! योगिनीगणसंयुता” । ज्योतिषे “अष्टम्यां
सन्धियोगे सकलपरिजनैः पूजयेत् सत्वभावैः” । कामरूपीय
निबन्धे स्मृतिसागरे च “अष्टम्याः शेषदण्डश्च नवम्याः
पूर्व दव च । अत्र या क्रियते पूजा विज्ञेया सा महा-
कला” मत्स्यसूक्तेऽपि “अष्टमीनवमीयोगो रात्रि-
भागे विशिष्यते । अर्द्धरात्रे दशगुणं सन्ध्यायां त्रिगुणं
भवेत्” । आश्विनाधिकारे “अष्टमी नवमीयुक्ता नवमी
चाष्टमीयुता । अर्द्धनारीश्वरप्राया उमामाहेश्वरी
तिथिः” । इति विष्णुधर्मोत्तरीयमप्ये तद्विषयं न तु
महानवमीपूजापरम् । तस्या अष्टम्युववासपरदिनबिधा-
नेन सप्तमीवद्युग्मानादरात् । ततश्च सप्तमीपूजावन्महा-
ष्टम्यादिकृत्यमपि षष्टिदण्डात्मिकायामेव न तु परदिवसीय
खण्डतिथौ किन्तु पूर्वोक्तसन्ध्यनुरोधान्निशादावित खण्ड-
तिथावपि सन्धिपूजेति । एवञ्च यस्मिन् दिने महाष्टमी-
पूजा तस्मिन् दिन एव उपवासः । न तु सन्धिपूजा
दिने अष्टमीत्वेनोपवासविधेः पूर्वमुक्तत्वात् । एवञ्च पूर्णा-
ष्टम्यामष्टमीपूजा ततपरदिने अष्टमीनवम्योः सन्धौ सन्धि-
पूजा तत्परदिने महानवमीपूजा प्रागुक्तनन्दिकेश्वर-
पुराणाद्युक्तोदय्गामितिथ्यनुरोधात् तत्परदिने दशम्यां
विसर्जनं पूजानुरोधेनाधिकदिनलाभात्” ति० त० ।

सन्धिबन्ध पु० सन्धिं बध्नाति संयुनक्ति सम् + बन्ध--अच् १

१ भूमिचम्पके शब्दच० । तत्सर्वने हि भग्नसन्धियोजनं
वैद्यके प्रसिद्धम् । २ नृपाणां सन्ध्यर्थनियमवन्धने च ।

सन्धिला स्त्री सन्धिं लाति ला--क । १ नद्यां स्वार्थे लच् ।

२ सुरङ्गायां ३ मदिरायाञ्च मेदि० ।

सन्धिविग्रहाधिकारिन् पु० सन्धिविग्रहेषु अधिकरोति

अधि + कृ--णिनि । नृपाणां सन्धिविग्रहाद्यधिकारिणि
मन्त्रिभेदे ।

सन्धिवेला स्त्री सन्धियुक्ता वेला समयः । अहोरात्रसन्धि-

समये । सन्ध्याशब्दे दृश्यम् । ततः सन्धिवेलादि० भवार्थे
अण् नकालाट्ठञ् । सान्धिवेल तत्र भवे त्रि० ।

सन्धिहारक पु० सन्धिनां सुरङ्गया हरति परद्रव्यम्

हृण्वुल् । सन्धिचौरे (सिँधेल) हारा० ।

सन्धुक्षित त्रि० सम् + धुक्ष--क्त । उद्दीपिते ।

सन्धेय त्रि० सम् + धा--यत् । १ संयोज्ये २ मेलनीये ३ सन्धि-

करणयोग्थे च
सन्धेया असन्धेयाश्च हितोप० दर्शिता यथा
“सत्यार्य्यौ धार्मिकोऽनार्य्यो भ्रात्रमङ्घातवान् नली ।
अनेकयुद्धविजयी सन्धेयाः सप्त कीर्त्तिताः । सत्योऽनु-
पालयन् सत्यं सन्धितो नैति विक्रियाम् । पाणनाशेऽपि
सुव्यक्तमार्य्यो २ नायात्यनार्य्यताम् । धार्मिकस्या ३ मियुक्तस्य
सर्व एव हि युज्यते । प्रजानुरागाद्धर्माच्च दुःखच्छेद्यो
पृष्ठ ५२१४
हि धार्मिकः । सन्धिः कार्य्योऽप्यनार्य्येस्त० विनाशे
समुपस्थिते । विना तस्याश्रयेणान्याः कुर्वान्न कालयापनम्
सहतत्वाद्यथा वेणुर्मिविदः । कण्टकैर्वृतः । न शक्यते
समुच्छेत्तुं भ्रानसङ्घातवां ५ स्तथा । बलिना ६ सह योद्ध-
प्यनिति नास्ति निदर्शनम् । प्रतिवातं न हि समः कद
चिटूपसर्पति । जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वटा
अनेकयुद्धजयिनः ७ प्रतापादेव भुज्यते । अनेकयुद्धविजयो
सन्धानं यस्य गच्छति । तत्प्रतापेन तस्माशु वशमायान्ति
शत्रवः” । बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहि-
ष्कृतः । भीरुके भीरुकजनो लुब्धी लुब्धजनस्तथा ।
विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान् । अनेकचित्तमन्त्रश्च
देवब्राह्मणनिन्दकः । दैवोपहतकसेव दैवचिन्तक एव
च। दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः । अदेशस्थो
अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न। सत्यधर्मव्यपेतश्च विंशतिः
पुरुषा अमी एतेः सन्धिं न कुर्वीत विगृह्णीयात् तु
केवलम् । एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम्”
सन्ध्या स्त्री सम्+ध्यै-अङ् गनॣऔ भवः यत् वा । १ एकरूपका-
लोत्तरभाविपररूप कालयोरवकाशभेदे दिवारांत्रस्य २ मध्य-
वर्त्तिकाले अमरः। स च दिवाशेषदण्डसहितरात्रिप्रथम
दण्डात्मकःकालः तयोश्चतुर्दण्डात्मकः कालश्च “त्रियामां
रजनीं पाहुस्त्यक्त्वाद्यन्तचतुष्टये । नाडीनां तदुभे सन्ध्ये
दिवसाद्यन्तसंज्ञिते” इति दक्षः । “अहोरात्रस्य यः सन्धिः
सूर्यनक्षत्रवर्जितः । सा च सन्ध्या समाख्यातेति” स्मृतिः ।
३ सायाह्ने ४ सन्ध्याकाले उपास्यदेवताभेदे ५ तदुपासनायाम्
व्यासः । “सन्ध्यामुपासते ये तु नियतं शंसितब्रता” इति
स्मृतिः “प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं बुध आच
रेत्” स्मृतिः । “अनर्हः कर्मणां विप्रः सन्ध्याहीनो यतः
स्मृतः” । “एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्म्णाय यदधिष्ठितम् ।
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते” छन्दोगप० ।
“अनागतान्तु यः पूर्वां सादित्याञ्चैव पश्चिमाम् । नोपा-
सित द्विजः सन्ध्यां स प्रष्ठोऽब्रह्माणः स्मृतः” शाता० अत्र
सन्ध्यात्रयस्य नित्यत्वाभिधानात् “सर्वकालमुपस्थानं ग
न्ध्यायाः पार्थिवेष्यते । अन्यत्र सूतकाशौचविभ्रमातुर-
पोतितः” इति विष्णुपुराणीये सन्ध्याया इत्येकवच-
नालपाठो गर्मकोषोक्तो युक्तः । एवमेव नव्यवर्द्धमानः ।
सर्वकालं प्रातर्मध्याह्नसायरूपकालत्रये । अन्यथा
तदुपारानं व्यर्थं स्यात् विभ्रमश्चित्तविक्षेपः । तन क्षतादा-
वपि सन्ध्यामाचरन्ति अत एव याज्ञवलक्यः “सर्वावस्थो
ऽपि यो विप्रः सनन्ध्य्योपासनतत्परः । ब्राह्मण्याच्च
न हीयते व्यन्त्यजन्मगतोऽपि सन्” । सवावस्या नित्यं
सेवकादिकर्मरतोऽपि । यथोचितशौचेत्यशक्तोऽपीति
रत्नाकरः। अन्धाद्यवस्थापन्नोऽपीति युक्तम् । सन्ध्यात्र-
यसाधारणलक्षणमाह योगियाज्ञवलक्यः “त्रयाणाञ्चैव
देवानां ब्रह्मादीनां समागमः । सन्धिः सर्वसुराणाञ्च
तेन मन्थ्या प्रकीतिता” सन्ध्याद्वयकालस्तु अहोरात्र-
सम्बन्धिमुहर्तात्मकः । तथाच दक्षः “अहोरात्यस्य यः
सन्धिः सूर्य्य० क्षत्रवर्जितः । सा च सन्ध्या समाख्याता
मुनिमिस्तत्त्वः । दिभिः” सूर्य्यनक्षत्रवर्जितः अर्द्धास्त-
मितार्द्धोदितसूर्य्यमण्डलप्रकृष्टतेजौनक्षत्रवर्जितः । तथा
च वराहः “अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता व
तारका यावत् । तेजःपरिहानिरूपा भानारर्द्धोदयं
यावत्” । अत्र आद्यन्तता उक्ता परिमाणमाह दक्षः
“रात्र्यन्तकाले नाड्यो द्वे सन्ध्यादिः काल उच्यते ।
दर्शनाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः । नाडी दण्डः
योगियाज्ञवल्क्यः “ह्रासवृद्धी च सततं दिनरात्र्योर्यथा-
क्रमम् । सन्ध्या मुहूर्तमाख्याता ह्रासवृद्धौ समा
स्मृता । अत्रोपासनाया अपि सन्ध्यात्वमाह व्यासः
“उपास्ते सन्धिवेलायां निशाया दिवसस्य च । तामेव
सन्ध्यां तस्मात्तु प्रवदन्ति मणीषिणः” । उपास्ते यद्
वक्ष्यमाणप्राणायानादिक्रिययेति यावत् । तत्काले
उपास्यापि देवता सन्ध्या तथा च याज्ञवलक्यः “सन्धौ
सन्ध्यामपासीत नास्तगे नोद्गते रवौ” । उपासनोपक्रम-
माह संवर्त्तः “प्रातः सन्ध्यां सनक्षवामुपासीत
यथाविधि । सादित्यां पश्चिमां सन्ध्यां अर्द्धास्तमितभास्क
राम्” । सनक्षत्रामित्यनेन तद्युक्तकाले उपक्रम्य
प्रातः सन्ध्यामुपासीत एवमवार्द्धास्तमितभास्करारब्धां
पश्चिमां सादित्यामित्यनेन तद्युक्तकाले उपक्रम्य
उपासोतेत्यर्थः । मध्याह्नसन्ध्याया अष्टममुहूर्त्तं
कालमाह स्मृतिः “पूर्वापरे तथा सन्ध्ये सनक्षत्रे प्रकी-
र्त्तिते । समसूर्य्येऽपि मध्याह्ने मुहूर्त्ते सप्तमोपरि” ।
साङ्ख्यायनगृह्यम् “अरण्ये समितपाणिः सन्ध्यामुपास्ते
नित्यं वागयत उत्तरापराभिमुखोऽन्वष्टमदिशमानक्षत्र०
दर्शनात् अतिक्रान्तायां महाव्याह्वतीः सावित्रीं स्वस्त्य-
यनादि जप्त्वा एवं प्रातः प्राङ्मुखस्तिष्ठन् आमण्डल-
दर्शनादिति” । उत्तरपिराभिमुखो वायुकोणाभिमुखः
कोणं विवृणोति अन्वष्टममिशमिति । उभयदिगष्टमभाग-
पृष्ठ ५२१५
मिति यावत् आ० त० । अधिकं गायत्रीशब्दे दृश्यम् ।
६ युगसन्धिकाले ७ नदीभेदे मेदि० । ८ ब्रह्मपत्नीभेदे स्त्री ।
९ चिन्तायां १० संश्रवे ११ सीमायां १२ सन्धाने १३ पुष्पभेदे
हेमच० “चत्रार्य्याहुः सहस्राणि वर्षाणान्तुकृतं युगम् । तस्य
तावच्छती सन्ध्यां सन्ध्यांशश्च तथाविधः । इतरेषु
समन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्त्तन्ते
सहस्राणि शतानि च” मनुः । चत्वार्य्याहुरिति चत्वारि वर्ष-
सहस्राणि कृतयुगं कालं मन्वादयो वदन्ति । तस्य
तावद्वर्षशतानि सन्ध्या सन्ध्यांशश्च भवति युगस्य पूर्वा सन्ध्या
उत्तरश्च सन्ध्यांशः । तदुक्तं विष्णुपुराणे “तत्प्रमाणैः
शतैः सान्ध्या पूर्वा तत्राभिधीयते । सन्ध्यांशकश्च तत्तुल्यो
युगस्यानलरोहि सः। सन्ध्यासन्ध्यांशयोरन्तर्य्यः कालो
मुनिसत्तम । योगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः”
एकापायेनेति । त्रीणि सहस्राणि त्रेतायुगं त्रीणि शतानि
तस्य सन्ध्या सन्ध्याशथ द्वे सहस्रे द्वपरयुग द्वे शते
तस्य सन्ध्या सन्ध्यांशथ । एकसहस्रं कलियुगमेकशतं
तस्य मन्ध्या सन्ध्यांशश्च भवतीत्यर्थः ।
१४ प्रबोधसम्प्रसादयोः सन्धिभवे स्वप्ने “सन्ध्ये सृष्टिराह
हि” शा० सू० “सन्ध्यमिति स्वप्नस्थानमाचष्टे वेदे प्रयो-
गदर्शनात् “सन्ध्यं तृतीयं स्वप्नस्थानम्” द्वयोर्लोकस्था-
नयोः षबोधसम्प्रसादस्थानयोः सन्धो भवतीति सन्ध्यम्”
भा० । “तस्मिन् सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने
पश्यति इदञ्च परलोकस्थानञ्च” रत्नप्र० श्रुतिः मुमूर्षोः
सर्वेन्द्रियोपसंहारादेतल्लोकाननुभवे सति वामनामात्रेण
इम लोकं स्मरतः कर्मवशात् हृदये मानसं परलोकस्फू-
र्त्तिरूपः स्वप्नो भवति सोऽयं लोकद्वयसन्धो भवतीति
सन्ध्यः स्वप्नः” रत्नप्र० ।

सन्ध्यांश पु० सन्ध्या तत्प्रमाणः सत्ययुगादेरंश । सत्ययुगा-

देरंशभेदे तत्प्रमाणम् सन्ध्याशब्दे मनूक्तम् दृश्यम्
“सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच चतुर्युग” मिति मनुः ।

सन्ध्याचल पु० “सन्ध्यां वशिष्ठः कृतवान् तत्र तस्माद्वथेः

सुतः । ततः सन्ध्याचलं नाम तस्य गायन्ति देवताः
कालिकाप० ५० अ० निरुक्ते पर्वतभेदे ।

सन्ध्यानाटिन् सन्ध्यायां नटति नट--णिनि । १ शिवे त्रिका०

सन्ध्यापुष्पी स्त्री सन्ध्यायां पुष्पमस्याः ङीप् । जातिवृमे

राजनि० ।

सन्ध्याबल पुंस्त्री० सन्ध्याया सन्ध्योपलक्षिते रात्रिकाले बल

यस्य । रात्री बलयुक्तं राक्षसे त्रिका० स्त्रियां ङीप् ।

सन्ध्याभ्र पु० सन्ध्याकालीनमभ्रमिव । १ सुवर्णगैरिके

राजनि० । २ सन्ध्याकालीनमेघे च ।

सन्ध्याराग पु० सन्धाया इव रागोऽस्य । १ सिन्दूरे राजनि० ।

६ त० । सन्ध्याकालीने २ रक्तवर्णे च ।

सन्ध्याराम पु० सन्ध्यायां तदाख्यभार्य्यायां रमते

रमसंज्ञायां कर्त्तरि घञ् । चतुर्मुखे ब्रह्मणि शब्दमा० ।

सन्न पु० सीदति सद--क्त । १ पियालवृक्षे भरतः । २ अवसन्ने त्रि०

स्वार्थ क । खर्वे भरतः ।

सन्नकद्रु पु० सन्न एव सन्नकः कर्म० । १ पियालवृक्षे अमरः । २ खर्ववृक्षे च ।

सन्नत त्रि० सम् + नम--क्त । १ प्रणते २ ध्वनियुते च ।

सन्नति स्त्री सम् + नम--क्तिन् । १ प्रणामे २ ध्वनौ मेदि० ।

३ नम्रतायाञ्च । ४ होमभेदे ग च अथ० ४ । ३९ । एकादिमि-
रष्टानर्मग्त्रैर्विधेय । तैत्तिरीयव्रा० ३ । ९१८५ विहितश्च ।

सन्नद्ध त्रि० सम् + नह--क्त । १ कृतसन्नाहे धृतवर्मणि २ व्यूह-

रचनयावस्थिते सैन्यादौ मेदि० । ३ आततायिनि रायमु-
४ मन्त्रादियुक्ते शब्दर० ।

सन्नय पु० सम् + नी--अच् । १ समूहे २ पृष्ठस्थिते--बले च अमरः

सन्नहन न० सम् + नह--ल्युट् । १ वर्म्मग्रहणे २ उद्योगे

३ सम्यग्बन्धन च ।

सन्नाह पु० सन्नह्यत सम् + नह--कर्मणि घञ् । (साँजोया) वर्मणिहेमच० । भावे घञ् । संबन्धने ।

सन्नाह्य पु० सम् + नह--ण्यत् । समरोचिते गजे हेमच० ।

सन्निकर्ष पु० सम् + नि--कृष--घञ् । १ सान्निध्ये हमच०

“सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यतांइति पुराणम्
न्यायमते २ विषयेन्द्रियसम्बन्धे ज्ञानलक्षणासामान्यलक्षणा-
योगजधर्मविशेषात्मके ३ अलौकिकप्रत्यक्षसाधने उपायभेदे
च । “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षम्” गी०
सू० । सन्निकर्षो दिविधः लौकिकालौकिकभेदात् लौकि-
कोऽपि षड्विधः अलौकिकस्तु त्रिविधः यथोक्तं भाषाप्र०
“महत्त्वं षड़्विधे हेतुरिन्द्रियं करणं मतम् । विषये
न्द्रियसम्बन्धा व्यापारः सोऽपि षड़्विधः । द्रव्यग्रहस्तु
संयोगात् १ संयुक्तसमवायतः २ । द्रव्येषु समवेतानां, तथा
तत्समवायतः ३ । तत्रापि समवेतानां, शब्दस्य समवायतः ४ ।
तद्वृत्तीनां समवेतसमवायेन ५ तु ग्रहः । विशेषणतया ६
तद्वदभावानां ग्रहो भवेत् । यदि स्यादुपलभ्येतेत्येवं यत्र
प्रसज्यते । प्रत्यक्षं समवायस्य विशेषेणतया भवेत् ।
अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः । सामान्य-
लक्षणा १ ज्ञानलक्षणा २ योगज ३ स्तथा” भाषा० “यद्यपि
विशेषणता नानाविधा तथाहि भूतलादौ घटाभावः
पृष्ठ ५२१६
संयुक्तविशेषणतया गृह्यते संख्यादौ रूपाद्यभावः संयुक्त-
समवेतसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्राव-
च्छिन्नविशेषणतया, कादौ खत्वाद्यभावः श्रीत्रावच्छिन्न-
समवेतविशेषणतया । एवं कत्वावच्छिन्नाभावे खत्वा-
भावादिकं विशेषणविशेषणतया । एवं घटाभावादौ
पटाद्यभावः संयुक्तविशेषणविशेषणतया । एवमन्यदप्यूह्यं
तथापि विशेषणतात्वरूपेणैकैव सा गण्यते अन्यथा षोढा
सन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” सि० मु० ।

सन्निकर्षण न० सम् + नि + कृष--ल्युट् । सन्निधाने अमरः ।

सन्निकृष्ट त्रि० सम् + नि + कृष--क्त । १ निकटस्थे अमरः

२ इन्द्रियसम्बन्धविषये च ।

सन्निध न० सम् + नि + धा--क । १ नैकट्ये वोपालितः । २ समीपस्थिते त्रि० ।

सन्निधान न० सम् + नि + धा--ल्युट् । १ नैकट्ये सामीप्ये

हेमच० । २ आश्रये च ।

सन्निधि पु० सम् + नि + धा--कि । १ सामीप्ये अमरः कर्मणि

फि । २ इन्द्रियविषये मेदि० कर्म० । ३ साधुनिधौ ।
६त० । ४ सतां निधौ ।

सन्निपतित त्रि० सम् + नि--पत--क्त । १ मिलिते २ उपस्थिते ३ मृते च ।

सन्निपात पु० सम् + नि + पत--घञ् । १ मेलने “सन्निपात-

लक्षणो विधिरनिमित्तं तद्विघातस्येति” व्या० परि० ।
२ कफादिधातुत्रयस्य वैषम्यरूपत्रिदोषजे ज्वरभेदे ३ नाशे
४ उपस्थितौ च । ५ तालभेदे “एक एव गुरुर्यत्र सन्निपातः
स चेष्यते” सङ्गीतदा० ।
ज्वरभेदसान्निदानभेदादिकं भावप्र० उक्तं यथा
“तत्र सन्निपातज्वरस्य विप्रकृष्टसन्निकृष्टकारणकथनपूर्विकां
संप्राप्तिमाह “त्रिदोषजनकैर्वातपित्तश्लेष्मामगेहगाः ।
वहिर्निरस्य कोष्ठाग्निं रसगाज्वरकारिणः” । पूर्व-
रूपमाह “प्राग्रूपाणि त्रिदोषाणां स्युस्त्रिदोषज्वरे
नृणाम्” । अथ सन्निपातज्वरस्य सामान्यानि लक्ष-
णान्याह “क्षणे दाहः क्षणे शातमस्थिसन्धिशिरो-
रुजा । सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ।
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः । तन्द्रा
मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः । परिटग्धा
खरस्पर्शा जिह्वा स्रस्ताङ्गता परा । ष्ठीवनं रक्तपित्तस्य
कफेनोन्मिश्रितस्य च । शिरसो लोठनं तृष्णा निद्रा-
नाशो हृदिव्यथा । स्वेदमूत्रपुरीषाणां चिराद्दर्शन-
कल्पशः । कृशत्वं नातिगात्राणां सततं कण्ठफूजनम् ।
कोदानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् । मूकत्वं
स्रोतसां पाको गुरुत्वमुदरस्य च । चिरात्पाकश्च
दोषाणां सन्निपातज्वराकृतिः ।” लोचने सास्रावे
साश्रुणी कलुषे अस्वच्छे निर्भुग्ने निर्गते कुटिले च कण्ठः
शूकैरिवावृतः धान्याग्रैरिवावृतः । जिह्वा परिदग्धा
परिदग्धेव ज्ञायते ।” अथवा परिदग्धा इव कृष्णा
दृश्यते स्रस्ताङ्गतां शिथिलाङ्गता । ष्ठीवनमित्यादि
कफसयुक्तस्य रक्तस्य ष्ठीवनं शिरसो लोटनमितस्ततश्चा-
लनं कृशत्वन्नातिगात्राणामिति गात्राणाम् अतिशयितं
कार्श्यं न व्याधिप्रभावात् सततं निरन्तरं कोठः ।
“वरटीदंष्ट्रसंस्थानं कोठ इत्यभिधीयते” श्यावः कपिशो
वर्णः । मूकत्वमवचनत्वमल्पवचनत्वं वा स्रोतसां कर्ण-
नासादीनाम् ।
अथ सामान्यसन्निपातज्वरस्य त्रयोदश विशेषानाह
“एकोल्वणास्त्रयस्तेषु द्व्युल्वणाश्च तथेति षट् । त्र्युल्वणश्च
भवेदेको विज्ञेयः स तु सममः । प्रवृद्धमध्यहीनैस्तु
वातपित्तकफैश्च षट् । सन्निपातज्वरस्यैवं स्युर्विशेषास्त्रयोदश” ।
तत्र प्रवृद्धवातः मध्यपित्तो हीनकफः १ मध्यवातः
प्रवृद्धपित्तो हीनकफः २ हीनवातः प्रवृद्धपित्तो भध्य
कफः ३ प्रवृद्धवातः हीनपित्ता मध्यकफः ४ मध्यवातः
हीनपित्तः प्रवृद्धकफः ५ हीनवातो मध्यपित्तः प्रवृद्ध-
कफः ६ इति षट् । तेषां नामानि क्रमादाह “विस्फा-
रकश्चाशुकारी कम्पनो बभ्रसंज्ञकः । शीघ्रकारी
तथाभल्लुः सप्तमः कूटपालकः । संमोहकः पालकश्च याम्यः
क्रकच इत्यपि । ततः कर्कटकः प्रोक्तस्ततो वैदारिकाभिधः”
तन्त्रान्तरे विस्फारक इत्यत्र विस्फोरक इति पाठः ।
बभ्रस्थाने बभ्रुंरितिपाठः कुत्रापि बद्ध इति पाठः
भल्लुरित्यत्र फस्सुरिति पाठः याम्य इत्यत्र संग्राम इति
पाठः कर्कटक इत्यत्र कर्कोटक इति पाठः । तत्र वातो-
ल्वणस्य लक्षणमाह “श्वासः कासो भ्रमो मूर्च्छा प्रलापो
मोहवेपथू । पार्श्वस्थवेदना जृम्भा कषायत्वं मु खस्य
च । वातोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत् ।
एष विस्फारको १ नाभ्ना सन्निपातः सदारुणः ।” अथ
पित्तोत्त्वणस्य लक्षणमाह “अतिसारो भ्रमो मूर्च्छा
मुखपाकस्तथैव च । गात्रे च बिन्दवो रक्ता दाहोऽतीव
प्रजायते । पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्ष-
येत् । भिषगभिः सन्निपातोऽयभाशुकारी २ प्रकीर्त्तितः” ।
अथ कपोल्वणस्य लक्षणमाह “जड़ता गद्गदा वाणी
रात्रौ निद्रा भवत्यपि । प्रस्तब्धे नयने चैव मुखत
पृष्ठ ५२१७
माधुर्य्यमेव च । कफोल्वणस्य लिङ्गानि सन्निपातस्य
लक्षयेत् । मुनिभिः सन्निपातोऽयमुक्तः कम्पनसंज्ञकः ३” ।
अथ वातपित्तोल्वणस्य लक्षणमाह “वातपित्ताधिको-
ऽयन्त सन्निपातः प्रकुप्यति । तस्य ज्वरो मदस्तृष्णा
मुखशोथः प्रमीलकः । आध्मानारुचितन्द्राश्च
कासश्वासभ्रमश्रमाः । मुनिभिबभ्रनामायं ४ सन्निपात
उदाहृतः ।” अथ वातश्लेष्मोल्वणस्य लक्षणमाह
“बावत्सेष्माधिको यस्य सन्निपातः” प्रकुप्यति । तस्य
शीतज्वरो मूर्च्छा क्षुत् तृष्णा पार्श्वनिग्रहः । शूलमखिद्य-
मानस्य तन्द्रा श्वासश्च जायते । असाध्यः सन्निपातोऽयं
शीघ्रकारीति ५ कथ्यते । नहि जीवंत्यहोरात्रमगेना-
विष्टविग्रहः ।” “अथ पित्तश्लेष्मोल्वणस्य लक्षणमाह
“पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति । अन्तर्टाहो
बहिःशीतं तस्य तृष्णा प्रवर्द्धते । तुद्यते दक्षिणे पार्श्वे
उर शीर्षमलग्रहः । ष्ठौवति श्लेष्मपित्तञ्च कृच्छ्रात्-
कटिश्च जायते । विडभेदश्वासहिक्राश्च वर्द्धन्ते
सप्रमीलकाः । ऋषिभिर्भल्ल नामायं ६ सन्निपात
उदाहृतः ।” अथ वातपित्तश्लेष्मोल्वणस्य लक्षणमाह
“सर्वदोषोल्वणो यस्य सन्निपातः प्रकुप्यति । त्रयाणा-
मपि दोषाणां तस्य रूपाणि लक्षयेत् । व्याधिभ्यो
दारुणश्चैव वज्रशस्त्राग्निसन्निभः । केवलोच्छ्वासपर
मस्तब्धाङ्गः स्तब्धलोचनः । त्रिरात्रात् परमेतस्य जन्तो-
र्हरति जीवितम् । तदवस्थन्तु तं दृष्ट्वा मूढ़ो व्याहरते
जनः । धर्षितो राक्षसैर्नूनमवेलायां चरन्ति ये ।
अम्बया ब्रुवते केचिद् यजिण्या ब्रह्मराक्षसैः । पिशा-
चैर्गुह्यकैश्चैव तथान्यैर्मस्तके हतम् । कुलदेवार्च्चनाहीनं
धर्षिनं कुलदेवतैः । नक्षत्रपीड़ामपरे गरकर्मेति चापरे ।
सन्निपातमिमं प्रहुभिषजः कूटपालकम् ७ ।” अथ
प्रवृद्धमध्यहीनवातादिजनितसन्निपातज्वराणां लक्षणा-
न्याह “प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः । तेन
रोगास्त एवोक्ता यथादोषबलाश्रयाः । प्रलापायास-
समाहकम्पमूर्च्छाऽरतिभ्रमाः । एकपक्षाभिघातश्च तत्रा-
प्यते विशेषतः । एष संमोहकोऽ नाम्ना सन्निपातः
ञ्चदारुणः ।” रोगास्तएवोक्ताः उक्ता एव ते रोगाः
व्यथातेपथुनिद्रानाशविष्टम्भादयो वातजाः दाहलष्णौ-
ष्णतास्वेदादयः पित्तजाः गौरवाग्निपान्द्योत्कास
तामिकामुखप्रसेकादयः कफजाः । तत्रापि प्रलापादयः
पक्ष घातान्तां विशेषाद्भवन्ति । ननु वातः प्रवृद्धः सज्वरं
करिष्यति पित्तन्तु मध्यसममिति यावत् तत्कथं ज्वरं
करिष्यति यत आह “धातवस्तन्मला दोषाः स्युर्नाशाया-
ऽसकास्तनौ । समाः सुखाय विज्ञेया बलायोपचयाय
च ।” इति उच्यते । अत्र पित्तं मध्यमपि अप्रकृत-
मेव यतोऽप्रकृतयोर्वातश्लेष्मणोरपेक्षया मध्यं तेन
मध्यकुषितनित्यर्थः । ननु कफक्षीणः स कथं ज्वरं
करिष्यति हीनशक्तित्वात् उच्यते दोषाः क्षीणा अपि
व्याधीन् कुर्वत्येव यत आह “वातक्षयेऽल्पचेष्टत्वं मन्द-
वाक्त्वं विसंज्ञता । पित्तक्षवेऽधिकःश्लेष्मा बह्निर्मन्दः
प्रभाक्षयः ।” शिथिलाः सन्धयोमूर्च्छारौक्ष्यं दाहः
कफक्षये” । इत्याशङ्कासिद्धान्तश्चात्र परत्रापि । “मध्य
प्रवृद्धहीनैस्तु वातपित्तकफैश्च यः । तेन रोगास्त एवोक्ता
यथादोषबलाश्रयाः । मोहप्रलापमूर्च्छाः स्युर्मन्यास्तम्भः
शिरोग्रहः कासः श्वासो भ्रमस्तन्द्रा संज्ञावाशो
हृदिव्यथा । स्वेभ्यो रक्तं विसृजति संरक्तं स्तब्धने
त्रता । तत्राप्येते विशेषाः स्युर्मृत्युरर्वाक् त्रिवासरात् ।
भिषग्भिः सन्निपातोऽयं कथितः पाकलाभिधः ९ ।
हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः । तेन रोगास्त-
एवोक्ता यथारोगबलाश्रयाः । हृदयं दह्यते चास्य
यकृत्प्लीहान्त्रफुप्फुसाः । प्रच्यन्तेऽत्यर्थमूर्द्धाधःपूय-
शोणितनिर्गमः । शीर्णदन्तश्च मृत्युश्च तत्राप्येतद्
विशेषतः । भिषग्भिः सन्निपातोऽयं याम्यो १० नाम्नः
प्रकीर्त्तितः । प्रवृद्धहीनमध्यैस्तु वातपित्तकफैश्च यः ।
तेन रोगास्त एवोक्ता यथादोषबलाश्रवाः । प्रलापा-
याससंमोहाः कम्पमूर्च्छाऽरतिभ्रभाः । सन्यास्तम्भेन
मृत्युः स्वात् तत्राप्येतद्विशेषतः । भिषग्भिः सन्नि-
पातोऽयं क्रकचः ११ संप्रकीर्त्तित । मध्यहीनप्रवृद्धैस्तु
वातपित्तकफैश्च यः । तेन रोगास्त एवोक्ता यथादोष
बलाश्रयाः । कन्तर्दाहो विशेषोऽत्र न च वक्तुं स
शक्यते । रक्तमालक्तकेनेव लक्ष्यते मुखमण्डलम् ।
पित्तेनाकर्षितः श्लेष्मा हृदयान्न प्रसिच्यते । इषुणे-
वाहतं पार्श्वं तुद्यते खन्यते हृदि । प्रमीलकः श्वास-
हिक्वा वर्द्धते तु दिने दिने । जिह्वा दग्धा खरस्पर्शा
गलः शूकैरिवावृतः । विसर्गं नाभिजानाति कूजेच्चापि
कपोतवत् । अतीव श्लेष्मणा पूर्णः शुष्कवक्तौष्ठतालुकः ।
तन्द्रानिद्रातियोगार्त्तो हतवाग्निहतद्युतिः । न रतिं
लभते नित्य विपरीतानि चेच्छति । आयम्यते च
बहुशो रक्त ष्ठीवति चाल्पशः । एव कर्कटको १२ नाम्रा
पृष्ठ ५२१८
सन्निपातः सुदारुणः । हीनंमध्यप्रवृद्धैस्तु
वातपित्तकफैश्च य । तेन रोगास्तएवोक्ता यथादोषब्रला-
श्रयाः । अल्पशूलं कटीतोदो मध्ये दाहो रुजा
भ्रमः । भृशं क्लमः शिरोवस्तिमन्याहृदयवाग्रुजः ।
प्रमीलकः श्वासकासहिक्वा जाड्यं विसंज्ञता । प्रथमोत्-
पन्नमेनन्तु साधयन्ति कदाचन । एतस्मिन् सन्निवृत्ते तु
कर्णमूले सुदारुणः । पिड़का जायते जन्तोर्यथाकृच्छ्रेण
जीवति । स वैदारिकसंज्ञो १३ऽयं सन्निपातः सुदारुणः ।
त्रिरात्रात् परमेतस्य व्यर्थमौषधकल्पनम् ।” तन्त्रा-
न्तरे वातोल्वणादीनां सन्निपातज्ज्वरविशेषाणां त्रयो-
दशानां शीताङ्गादीनि त्रयोदश नामान्तराणि लक्षणा-
न्तराणि चाह “शीताङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री
प्रलापी ततो रक्तष्ठीवयिता च तत्र गणितः सम्भुग्नने-
त्रस्तथा । साभिन्यासकजिह्वकश्च कथितः प्राग्सन्धि
गोऽथान्तको रुग्दाहः सहचित्तविभ्रम इह द्वौ
कर्णकण्ठग्रहौ” । तन्द्री तन्द्रिका प्रलापी प्रलापकः
रक्तष्ठीवयिता रक्तष्ठीवी संभुग्ननेत्रः भुग्ननेत्रः ।
अभिन्यासकः अभिन्यासः कर्णकण्ठग्रहौ कर्णग्रहः कर्णिकः
कण्ठग्रहः कण्ठकुब्जकः । अथ तेषां प्रत्येकं लक्ष-
णानि “हिमशिशिरशरीरः सन्निपातज्वरी यः
श्वसनकसनहिक्वामोहकम्पप्रलापैः । क्लमबहुकफवाता
टाहवम्यङ्गपीड़ाः स्वरविकृतिभिरार्त्तः शीतगा-
त्रः १ स उक्तः । तन्द्रातीव ततस्तृषानिसरणं श्वासो-
ऽधिकः कासरुक् सन्तप्तातितनुर्गले श्वयथुना सार्द्धञ्च
कण्डूकफम् । सुश्यामा रसना क्लमः श्रवणयोर्मान्द्यञ्च
दाहस्तथा यत्र स्यात्सहि तन्द्रिको २ निगंदितो
दोषत्रयोत्थो ज्वरः । यत्र ज्वरे निखिलदोषनितान्तरोष
जाते प्रलापबहुला सहसोत्थिताश्च । कम्पव्यथाप-
तनदाहविसंज्ञताः स्युर्नाम्ना प्रलापक ३ इति पथितः
पृथिव्याम् । निष्ठीवो रुधिरस्य, रक्तसदृशं कृष्णं तनौ
मण्डलम् लौहित्यं नयने तृषाऽरुचिवमिश्वासाति
सारभ्रमाः । अध्मानञ्च विसंज्ञता च पतनं हिक्काङ्ग-
पीड़ा भृशम् । रक्तष्ठीविनि ४ सन्निपातजनिते लिङ्गं
ज्वां जायते । भृशं नयनवक्रताश्वसनकासतन्द्रा भृशम् ।
प्रलापमदवपथुश्रवणहानिमोहास्तथा । पुरो निखिलदो-
षजे भवति यत्र लिङ्ग ज्वरे पुरातनचिकित्सकैः स
इह भुग्वनेत्रो ५ मतः । दोषास्तीव्रतरा भवन्ति बलिनः
सर्वेऽपि यत्र ज्वरे मोहोऽतीव विचेष्टता विकलता
श्वासो भृशं मूकता । दाहश्चिक्कणमाननञ्च दहनोम-
न्दोबलस्य क्षयः सोऽभिन्यास ६ इति प्रकीर्त्तितः इह
प्राज्ञैर्भिषग्भिः पुरा । त्रिदोषजनिते ज्वरे भवति यत्र
जिह्वा भृशम् वृता कठिनकण्टकैस्तदनु निर्भरं मूकता ।
श्रुतिक्षतिबलक्षतिश्वसनकाससन्तप्तयः पुरातनभिषग्वरा-
स्तमिह जिह्वक ७ ञ्चक्षते । व्यथातिशयिता भवेच्छयथुसं-
युता सन्धिषु प्रभूतकफता मुखे विगतनिद्रता कासरुक् ।
समस्तमिति कीर्त्तितं भवति लक्ष्म यत्र ज्वरे त्रिदोषज-
निते बुधैः सहि निगद्यते सन्धिगः ८ । यस्मिन् लक्षणमे
ददस्ति सकलैर्दोषैरुदीर्णे ज्वरेऽजस्रं मूर्द्धविधूनने सकसनं
सर्वाङ्गपीड़ाधिका । हिक्वाश्वाससदाहमोहसहिता देहे-
ऽतिसन्तप्तता वैकल्यञ्च वृथा वचांसि मुनिभिः संकी-
र्त्तितः सोऽन्तकः ९ । दाहोऽधिको भव्ति यत्र तृषा च
तीव्रा श्वासप्रलापविरुचिभ्रममोहपीड़ाः । मन्याहनव्य-
थनकण्ठरुजः श्रमश्च रुग् दाहसंज्ञ १० उदित स्त्रिभवी
ज्वरोऽयम् । गायति नृत्यति हसति प्रलपति विकृतं
निरीक्षतेमुह्येत् । सदाहव्यथाभयार्त्तो नरस्तु चित्तभ्रमे ११
ज्वरे भवति । दोषत्रयेण जनिता किल कर्णमूले तीव्रा
ज्वरे भवति तु श्वयथुर्व्यथा च । कण्ठग्रहो बधिरता
श्वसनं प्रलापः प्रस्वेदमोहदवनानि च कर्णिकाख्ये १२ ।
कण्ठः शूकशतावरुद्धवदतिश्वासः प्रलापोऽरुचिर्दाहो-
देहरुजा तृषापि च हनुस्तम्भः शिरार्त्तिस्तथा ।
मोहो वेपथुना सहेति सकलं लिङ्ग त्रिदोषज्वरे
यत्र स्यात् स हि कण्ठकुब्ज १३ उदितः प्राच्येश्चिकि-
त्साबुधैः । सन्धिगस्तेषु साध्यः स्यात् तन्द्रिकञ्चित्त-
विभ्रमः । कंर्णिको जिह्वक कण्ठकुब्जः पञ्चापि कष्ट-
तः । रुग्दाहस्त्वतिकष्टेन संसाध्यस्तेषु भाषितः ।
रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः । अभिन्या-
सोऽन्तकश्चैते षड़साध्याः प्रकीर्त्तिताः ।” अथ तन्त्रा-
न्तरे वातोल्वणादीनां सन्निपातज्वरविशेषाणां त्रयो-
दशानां कुम्भीपाकादीनि त्रयोदश नामान्तराण्याह
“कुम्भीपाकः प्रोर्णुनावः प्रलापी ह्यन्तर्दाहो दण्डपातोऽ-
न्तकश्च । एणोदाहश्चाथ हारिद्रसंज्ञो भेदा एते सन्नि-
पातज्वरस्य । अजघोषभूंतहासौ यन्त्रापीडश्च संन्यासः ।
संशोषी च विशेषास्तस्यैवोक्तास्त्रयोदशान्यत्र” । अथैषां
लक्षणानि “घोणाविवरझरद्बहुशोणासितलोहितं
सान्द्रम् । विलुठन्मस्तकमभितः कुम्भीपाकेन १ पोड़ितं
विद्यात् । उत्क्षिप्य यः स्त्रमङ्ग क्षिपत्यधस्तान्नितान्तमुच्छ-
पृष्ठ ५२१९
सिति । तं प्रोर्णुनाव २ जुष्टं विचित्रकष्टं विजानीयात् ।
स्वेदभ्रमाङ्गभेदाः कम्पोदवथुर्वमिर्व्यथा कण्ठे । गात्रञ्च
गुर्वतीव प्रलापि ३ जुष्टस्य जायते लिङ्गम् । अन्तर्द्दाहः
शैत्यं बहिः, श्वयथुररतिरपि तथा श्वासः । अङ्गमपि
दग्धकल्पं सोऽन्तर्दाहा ४ र्दितः कथितः । नक्तं दिवा न
निद्रामुपैति गृह्णाति मूढ़धीर्नभसः । उत्थाय दण्डपातो ५
भ्रमातुरः सर्वतो भ्रमति” । नभसो गृह्णाति आकाशात्-
किञ्चित् ग्रहीतुं करौ प्रसारयतीत्यर्थः । “संषूर्य्यते
शरीरं ग्रन्थिभिरभितस्तथोदरं मरुता । श्वासातुरस्य
सततं विचतनस्यान्तका ६ र्त्तस्य” । परिधावतीव गात्रे
रुक्पात्रे भुजङ्गपतङ्गहरिणगणः । षेपथुमतः सदाह-
स्यैणोदाह ७ ज्वरार्त्तस्य” । रुकपात्रे पीड़ाभाजने गात्रस्य
विशेषणमेतत् । “यस्याऽतिपीतमङ्गं नयने सुतरां
मलस्ततोऽप्यधिकम् । दाहोऽतिशीतता बहिरस्य स हारि-
द्रको ८ ज्ञेयः । छगलकसमानगन्धः स्कन्धरुजावान्निरुद्ध
गलरन्ध्रः । अजथोष ९ सन्निपातादाताम्राक्षः पुमान्
भवति । शब्दादीनधिगच्छति न स्वान्विषयान् यदि
न्द्रियग्रामैः । हसति प्रलपति परुष स ज्ञेयो भूतहा-
सा १० र्त्तः । येन मुहुर्ज्वरवेगात् यन्त्रेणेवावपीड्यते
गात्रम् । रक्तं पीतञ्च वभेद्यन्त्रापीड़ः ११ स विज्ञेयः ।
अतिसरति वमति कूजति गात्राण्यभितश्चिरं नरः क्षि-
पति । सन्न्यासा १२ सन्निपाते प्रलपत्युग्राक्षिमण्डलो
भवति । मेचकवपुरतिमेचकलोचनयुगलो मलोत्सर्गात् ।
संशोषिणि १३ सितपिड़कामण्डलयुक्तो ज्वरे नरो भवति ।
नारायण एव भिषक् भेषजमेतेषु जाह्नवीनीरम् । नैरु-
ज्यहेतुरेको नित्यं मृत्युञ्जयो व्येयः ।” अथासाध्यस्य
सन्निपातज्वरस्य लक्षणमाह “सन्निपातज्वरस्यान्ते
कर्णमूले सुदारुणः । शोथः संजायते तेन कश्चिदेव
प्रमुच्यते ।” सुटारुणः मारकत्वात् यतस्तेन शोथेन
कश्चिदेव प्रमुच्यते कोऽपि जीवितं त्यजति इत्यर्थः ।
“सन्निपातज्वरान् कष्टानसाध्यानपरे जगुः । दोषे
प्रवृद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः । सन्निपात
ज्वरोऽसाध्यः कष्टसाध्यस्ततोऽन्यथा ।” सर्वाणि
दाहशीतादीनि सम्पूर्णानि आतुरगतानि प्रोक्तानि
यावल्लक्षणानि यस्य सः । ततोऽन्यथा दोषे पक्वे अग्नौ
दीप्ते स्वल्पलक्षणकः कष्टसाध्य इत्यर्थः ।

सन्निपातज्वर पु० सन्निपातजो ज्वरः । सन्निपातशब्दोक्ते

त्रिदोषजविकारजाते ज्वरे ।

सन्निपातनुद् पु० सन्निपातं त्रिदोषजविकारं नुदति

नुदक्विप् । नेपालनिम्बे राजनि० ।

सन्निबन्धन न० सम्यक निबन्धनं प्रा० स० । १ नानास्थानस्थवा-

क्यानामेकत्र सङ्कलने २ तदुवयोगिग्रन्थभेदे च । ७ ब० ।
३ सम्यग्निबन्धनयुते त्रि० “सद्वृत्तिः सन्निबन्धनेति” माघः

सन्निभ त्रि० सम् + नि + भा--कं । सदृशे जटा० । निभादि

वदस्य नित्यसमासता ।

सन्निवेश पु० सम + नि + विश--आधारे घञ् । १ पुरादेर्वाह्यस्थे

विहारार्थे देशे अमरः । भावे घञ् । २ सम्यक्स्थितौ ।

सन्निहित त्रि० सम् + नि + धा--क्त । १ निकटस्थे “सन्निहित

बुद्धिरन्तरङ्गम्” न्यायः “या याः सन्निहिता नाड्य-
स्तास्ताः पुण्यतमाः स्मृताः” ति० त० । २ सम्यक्स्थापिते च ।
भावे क्त । ३ नैकट्ये न० ।

सन्न्यस्त त्रि० सम् + नि + अस--क्त । १ निक्षिप्त २ कृतसम्यकथागे ३ युक्ते ४ अर्पिते च ।

सन्न्यास पु० सम् + नि + अस--घञ् । “काम्यानां कर्मणां त्यागं

सन्न्यासं कवयोविटुः” गीतोक्ते विहितकर्मणां विधानेन
१ सम्यक्त्यागे २ तदुपयोगिचतुर्थाश्रमे आश्रमशब्दे ८४२
पृ० दृश्यम् । ३ चैत्रे मासि क्षत्रियादिकर्त्तव्ये पुराणप्र-
सिद्धे शिवव्रतभेदे च । “चैत्रे शिवोत्सवं कुर्य्यात् नृत्य-
गीतमहोत्सवैः । स्नायात् त्रिसन्ध्यं रात्री च
हविष्याशी जितेन्द्रियः । शिवस्वरूपतां याति शिवप्रीति-
करः परः । क्षत्रियादिषु यो मर्त्यो देहं संपीद्ध्य भक्तितः ।
अश्वमेधफलं तस्य जायते च पदे पदे । सर्वकर्मवरित्यागी
शिवोत्सवपरायणः । भक्तैर्जागरणं कुर्य्याद्रात्रौ नृत्य-
कुतूहलेः । नानाविधैर्महावाद्यैर्नृत्यैश्च विविधैरपि ।
नानावेशधरैर्नृत्यैः प्रीयते शङ्करः प्रभुः । किमलभ्यं
भगवति प्रसन्ने नीललोहिते । तस्यात् सर्वप्रयत्नेन
तोषणीयो महेश्वरः । शङ्खवाद्यं शङ्खतोयं वजंयेत्
शिवसन्निधौ । ग्रामाद्बहिरिमं शम्भारुत्सवं कारये-
न्मुदा । उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समापयेत्”
वृहद्धर्मपु० उत्तरख० ४ अ० । ४ जटामांस्यां शब्दच० ।

सन्न्यासिन् पु० सम् + नि + अस--णिनि । १ सन्न्यासयुते २

चतुर्थाश्रमयुते तेषां धर्मभेदेन नामभेदो यथा
“तीर्थाश्रमवनारण्यगिरिपर्वतसागराः । सरस्वती
भारती च पुरीति दश कीर्त्तिताः” । तेषां लक्षणानि यथा
“त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे । स्रायात्त-
त्त्वार्थभावेन तीर्थनामा १ स उच्यते । आश्रमग्रहणे
प्रोढ़ आशापाशविवर्जितः । यातायातविनिर्मुक्त एतदा-
पृष्ठ ५२२०
श्रमलक्षणम् २ । सुरम्ये निझरे देशे वने वासं
करोति यः । आशापाशविनिर्मुक्तो वननामा ३ स उच्यते ।
अरण्ये संस्थितो नित्यमानन्दनन्दने वने । त्यक्त्वा सर्व-
मिदं विश्वमरण्यलक्षणं ४ किल । वासो गिरिवरे नित्यं
गाताभ्यासे हि तत्परः । गम्भीराचलबुद्धिश्च गिरिनामा ५
स उच्यते । वमेत् पर्वतमूलेषु प्रोढो यो ध्यानधार
णात् । सारात्सारं विजानाति पर्वतः ६ परिकीर्त्तितः ।
वसेत् सानरगम्भीरो न च रत्नपरिग्रहः । मर्य्यादाश्च न
लङ्घेत सागरः ७ परिकीर्त्तितः । स्वरज्ञानवशो नित्यं
स्वरवादी कवीश्वरः । संसारसागरे साराभिज्ञो यो हि
सरस्वती ८ । विद्याभारेण सम्पूर्णः सर्वभारं परित्यजेत् ।
दुःखभारं म जानाति भारती ९ परिकीर्त्तिता । ज्ञान-
तत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः । परव्रह्मरतो नित्यं
पुरोनामा १० स उच्यते” इति वृहच्छङ्करविजये विद्या-
रण्यस्वामिधृतम् । ३ चैत्रे कर्त्तव्यशिवव्रतकर्त्तरि च ।

सपक्ष पु० समानः पक्षेण । १ तुल्यरूपे २ निश्चितसाध्यके पक्षे च

सपत्त्राकरण न० सह पत्त्रेण पक्षेण सपत्त्रः तथा क्रियते

सपत्त्र + डाच् + कृ--ल्युट् । पक्षेण्ण सह शरवेधनरूपे
अत्यन्तव्यथने । कर्मणि क्त । सपत्त्राकृतः । तथा
पीड़िते त्रि० ।

सपत्न पु० सह एकार्थे पतति पतते पत--न सहस्य सः । शत्रौ अमरः ।

सपत्नारि पु० सपत्नस्य अरिरिव । (वेडवाँश) वंशभेदे शब्दच० ।

सपत्नी स्त्री समानः पतिर्यस्याः ङीप् न च । १ एकभर्तृकायां

स्त्रियाम् २ समस्वामिकायां भूम्यादौ च । तत्र सपति-
रित्यपि ।

सपदि अव्य० सह पद्यते पद--इन् सहस्य सः । तत्क्षणे

इत्यर्थे “सपाद मुकुलिताक्षीमिति” कुमारः ।

सपर पूजायां कण्ड्वादि० पर० सक० सेट् । सपर्य्यति असपर्य्यीत ।

सपर्य्या स्त्री सपर--यक् अ टाप् । पजायाम् “सोऽहं सर्य्या-

विशिभाजनेनेति” रघुः ।

सपाद स्त्री सह पादेन चरणेन चतुर्थांशेन वा । १ पादसहिते २ चतुर्थांशसहिते च ।

सपिण्ड त्रि० समानः पिण्डः स्वदेहारम्भकांशभेदः श्राद्धे

देयपिण्डो वा यस्य समानस्य सः । एकदेहारभ्यदेहे ज्ञा-
तिभेदे “असपिण्डा च या मातुरिति” स्मृतिः । ज्ञाती-
नाञ्च साक्षात् परम्परया अतिपरम्परया वा एकदेहार-
भ्यत्वात्तघात्वम् मिता० । २ दातत्वभोक्त त्वेनैकपिण्डयुते
टायभा० । एतच्च दायग्रहणोपयोगिसापिण्ड्यामिति ।
सपिण्डता हि विषयभेदेन त्रिविधा अशौचोपयोगिनी
विवाहोपयोगिनी दायोपयोगिनी चेति । तत्र समानदेह-
सम्बन्धे या सपिण्डता साऽशौचग्रहणार्था विवाहार्था
च । श्राद्धे देयपिण्डसम्बन्धात् सपिण्डता तु दायग्र-
हणोपयोगिनीति विवेकः । यथोक्तं शु० त० रघुनन्दनेन
“मत्स्यपुराणे “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्ड-
भागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरु-
षम्” । नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपभोक्तृ-
त्वासम्भवात् कथं सपिण्डत्वमिति चेदुच्यते तेषामपि
पिण्डलेपयोः सम्बन्धोऽस्ति तथाच बौधायनः “प्रपिता-
महः पितामहः पिता स्वयं, सोदर्य्यभ्रातरः सवर्णायाः
पुत्रः पौत्रः प्रपौत्रो वा एतानविभक्तदायादान् सपिण्डा-
नासक्षते । विभक्तदायादान् सकुल्यानाधक्षते सद
स्वङ्गजषु तद्गामी ह्यर्थो भवति” इति अस्यार्थः पित्रा-
दिपिण्डत्रयेषु सपिण्डनेन भोक्तृत्वात् पुत्रादिभिस्त्रिभि-
स्तत्पिण्डदानात् । यश्च जीवन् यस्य पिण्डदाता स
मृतः सन् सपिण्डनेन तत् पिण्डभोक्ता एवं सति मध्य-
स्थितः पुरुषः पूर्वेषा जीवन् पिण्डदाता मृतः सन्
तत्पिण्डभोक्ताऽपरेषां जीवतां पिण्डसम्प्रदाता आसीत् ।
मृतश्च तैः सह दौहित्रादिदेयपिण्डभोक्ता अतो येषा०
मयं पिण्डदाता ये चास्य पिण्डभोक्तारस्तेऽविभक्तं
पिण्डरूपं दायमश्नन्तीति अविभक्तदायादाः सपिण्डा
इति । इदञ्च सपिण्डत्वं सकुल्यत्वञ्च दायग्रहणार्थम्
अशौचाद्यर्थन्तु पिण्डलेपभुजामपि “लेपभाजश्चतुर्थाद्याः
पित्राद्याः पिण्डभागिनः” इति प्रागुक्तमत्स्यपुराणात् ।
वक्ष्यमाणकूर्मपुराणशङ्खलिखितवचनाच्च । पिण्डे
यथापरस्परं भाक्तृत्वं तथा लेपे तुल्यन्यायात् । हारलतायां
कूर्मंपुराणम् “सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने । पिता पिता-
महश्चैव तथैव प्रपितामहः । लेपभाजश्चतुर्थाद्याः
सापिण्ड्यं साप्तपौरुषम्” । लेपभागिभ्यस्तूर्द्ध्वं यावज्जन्म-
नाम्नोरवेदनं यावदमुकनाम्नोऽस्मात् पूर्वपुरुषादयं जात
इति विशेषः अयमस्मत् कुले जात इति सामान्यतो वा
स्मर्य्यते तावत् समानोदकत्वमिति हारलता । अत्र
परवचनेनैव सापिण्ड्यसिद्धौ पूर्ववचनपूर्वार्द्धं जीवत्पितृ-
कत्वादिना अधिकपुरुषेषु पिण्डलेपसम्बन्धेऽपि सपिण्ड-
तानिवृत्तिज्ञापनाय । सर्वदेशीयाचारोऽपि तथा” ।
“अथ यः खलापण्डान् दत्त्वैव मृतः परतश्चाप्राप्त-
पितृभावः स कथं सपिण्डः । एकपिण्डदातृत्वभाक्तृत्व-
पृष्ठ ५२२१
लक्षणसम्बन्धाभावादिति चेत् तद्योग्यतयेति ब्रूमः ।
योग्यताप्रयोजकञ्च सामान्यशास्त्रविषयत्वम् । ततश्चात्य-
तिवृद्धप्रपितामहावधिकाधस्तनानां षण्णां पुंसां प्रत्येका-
पेक्षया सप्तानामेकगोत्राणां स्वावधिपरतनानां सप्तानाञ्च
सापिण्ड्यं पिण्डलेपयोर्दातृत्वभोक्तृत्वसम्बन्धादिति ।
स्त्रीणान्तु भर्तृसापिण्ड्येन सापिण्ड्यम् “प्रत्तानां भर्तृ-
सापिण्ड्यमिति” वचनात् । नन्वेवं कन्यायाः कथं
सपिण्डतेति चेत् आदिपुराणवचनात् त्रैपुरुषं सापिण्ड्यम् ।
यथा “सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषी” ।
अत्र कन्यानामूढ़ानाम् “अपत्तानां त्रिपौरुषमिति”
वशिष्ठवचनात् । तेन आत्मपञ्चमे वृद्धप्रपितामहे सापिण्ड्यं
निवर्त्तते इति प्रतिपादितम् । अत एव कन्यायाः
प्रपितामहभ्रात्रा तत्सन्ततिमिः सह सापिण्ड्याभावात्
कन्यामरणजननयोस्तेषां सपिण्डाशौचं नास्ति किन्तु
समानोदकनिमित्तमेवाशौचमिति एवं तेषामपि
जननमरणयोः कन्यानामिति शूलपाणिमहामहोपाध्यायः ।
यत्तु कूर्सपुराणम् “अप्रत्ताना तथा स्त्रीणां सापिण्ड्यं
साप्तपौरुषम् । प्रत्तानां भर्तृसापिण्ड्यं प्राह देवः
पितामहः” इति रत्नाकरधृतम् । तद्विवाहे पितृपक्ष-
विषयम् । यथा विष्णुपुराणम् “सप्तमीं पितृपक्षाच्च
मातृपक्षाच्च पञ्चमीम् । उद्वहेत द्विजो भार्य्यां न्यायेन
विधिना नृप!” सप्तमीं पञ्चमीं हित्वेति शेषः । भर्तृ-
सापिण्ड्यमित्यत्र साप्तपौरुषमित्यनुषज्यते । तेन भर्तृ-
समानसापिण्ड्यमित्यर्थः । शङ्खलिखितौ “सपिण्डता
तु सर्वेषां गोत्रतः साप्तपौरुषी । पिण्डञ्चोदकदानञ्च
शौचाशौचं तदानुगम्” । गोत्रतः गोत्रैक्ये तेन माता-
महकुले कदाचित् षट्पुरुषपर्य्यन्तं पिण्डसम्बन्धेऽपि न
सपिण्डता । तान् सप्तपुरुषान् आ समन्तात् पिण्डा-
दिकमनुगच्छतीति तदानुशम् । एतेन “सपिण्डता
एकशरीरावयवान्वयेन भवति तथाहि पितुः शरीरावय-
वान्वयेन पित्रा सह एवं पितामहादिभिरपि पितृद्वारेण
तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन
भ्रात्रादिभिरिति । एवं पत्या सह पत्न्या एकशरीरा-
रम्भकतया सापिण्ड्यम् । तथाच गर्मोपनिषदि “एतत्
षाट्कौषिकं शरीरं त्रीणि पितृतः त्रीणि मातृतः
अस्थिस्नायुमज्जानः पितृतः, त्वङ्मांसरुधिराणि मातृत-
श्चेति” तत्र तत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डा-
न्वये तु सापिण्ड्ये भ्रातृपितृव्यादिसापिण्ड्यं न स्यात् ।
अतिप्रसङ्गस्तु सप्तान्यतमत्वेन प्रयोगोपाधिना निरस-
नीयः । यद्येवं मातामहादीनामपि मरणे सपिण्डत्वेन
दशाहाशौचं प्राप्नोति, स्यादेतत् यदि मातामहादीनां
मरणे “त्रिरात्रं स्यादशौचकम्” इत्यादिविशेषवचनं न
स्यात् । यत्र तु विशेषवचनं नास्ति तत्र दशाहमिति
मिताक्षरारत्नाकरादिमतमपास्तं लेपभाजैत्यादि
वाचनिकेऽर्थे सापण्ड्ये एकशरीरावयवान्वयरूपस्वकपोल-
रचितार्थानवकाशात् निर्वाप्यपिण्डसम्बन्धेन भ्रात्रा-
दीनां सापिण्ड्यस्य मत्स्यपुराणबौधायनाभ्यां पूर्वमुक्त-
त्वात् कामधेनुहारलताकल्पतरुपारिजातकारादिभिस्त-
थैव व्याख्यातत्वाच्च । रेतःशोणितपरिणामरूपत्वादपत्य-
शरीरस्य भवतु वा तथा पत्या सह पत्न्या एकशरीरा-
रम्भकतायाः प्रत्यक्षबाधितत्वात् कथं सापिण्ड्यं प्रमाता-
महादीनां विशेषवचनाभावात् सपिण्डत्वेन दशाहाद्य-
शौचप्रसङ्गाच्च मातामहादौ सापिण्ड्यस्य लोकविरुद्ध-
त्वाच्च । भवतु वा तथा शरीरद्वारा सापिण्ड्यं तथापि
वचनात् यथासप्तान्तर्गत्रत्वं तन्त्रं तथा “गोत्रतः साप्त-
पौरुषीति” वचनात् गोत्रैक्यमपि प्रागुक्तवचनात् कन्याया-
स्त्रीपौरुषम् उढ़ायाश्च भर्त्तृसपिण्डनेन सापिण्ड्यमिति
चेत् तदेतन्मतेऽपि व्यवस्थायां न क्षतिरिति अतएव
सुमन्तुवचनाभिहितं यद्दशमपुरुषपर्य्यन्तमशौचं तत् सप्तम-
पुरुषाभ्यन्तराशौचान्न्यूनं त्रिरात्रं यथा “ब्राह्मणा-
नामेकपिण्डस्वधानामादशमाद्धर्मविच्छित्तिर्भवति
आसप्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात् स्वधावि-
च्छित्तिर्भवति” अन्यथा पिण्डशौचक्रियाद्युच्छेदात् ब्रह्म-
हत्यातुल्यो भवति” अस्यार्थः । एका समाना पिण्डस्वधा-
येषां ते तथा यथैकोद्दिष्टस्य पिण्डे तु अनुशब्दो न
युज्यते इत्यत्रानुशब्देनानुशब्दयुक्तमन्त्रो लक्ष्यते
अनुयुक्तमन्त्रस्तु “वे चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा”
इति तथा पिण्डस्वधाशब्देन पिण्डसम्बन्धिस्वधाशब्द-
युक्तमन्त्रकरणकदेयजलं लक्षितम् । तथा च ऊर्ज्जं
वहन्तीरमृतं घृतं पयःकीलालं परिस्रुतं स्वधास्थ तर्पयत
मे पितॄन्” इत्यनेन पिण्डान् सिञ्चेदित्युक्तम् । ततश्च
एकपिण्डस्वधानां समानोदकानामित्यर्थः । अतएव मनुः ।
“जन्मन्येकोदकानान्तु त्रिरात्रात् शुद्धिरिष्यते” । विष्णुपु-
राणं “मातृपक्षस्य पिण्डेन सम्बद्धाः ये जलेन वा” मातृष-
क्षस्य मातामहपक्षस्य ये जलेन मम्बद्धाः समानोदका इति
श्राद्धविवेकेऽपि व्याख्यातम् । “असम्बन्धा भवेद् या तु
पृष्ठ ५२२२
पिण्डेनैवोदकेन वा” इति विवाहेऽप्युक्तम् । अत्र पुत्रिकायाः
पार्वणे पिण्डोदकयोः सम्बन्धात् कन्यामात्रेऽपि तद्योग्य
तायाः सत्त्वात् । कन्या पिण्डोदकसम्बन्धोच्यते एतदनुसा-
रादपि तस्याः सपिण्डता बोद्धव्या तस्मादेकपिण्डखधाना-
मित्यनेन समानोदकभावः समाख्यातः न तु दशम
पर्य्यन्तं, पित्रादिजीवनादिना सापिण्ड्यसम्बन्धेऽपि
सापिण्ड्यं विहितं प्रागुक्तयुक्तेः स्वधेत्यस्य तदनुप्र-
युक्तत्वेन वैयर्थ्यापत्तेः । अपुत्रधवाधिकारस्तु सन्निहित-
तराभावे सप्तमपुरुषपर्य्यन्तं भूतपितृकस्य स्यधोपलक्षित-
श्राद्धाधिकारः पुरुषत्रयपर्य्यन्तमिति अत्र स्वधाशब्दो
मन्त्रपरः पितृभक्षपरोऽपि । तधा च गुणविष्णुधृता
श्रुतिः “स्वधा वै पितॄणामन्नमिति ।” दशमपुरुषपर्य्यन्तं
समानोदकत्वेऽपि न त्रिरात्रं किन्तु पक्षिण्यादि तथाहि
उदकक्रियामधिकृत्य पारस्करः “सर्वे ज्ञातयो
भावयन्ति आसप्तवाद्दशमाद्वा समानग्रामवासेन यावत्
सम्बन्धमनुस्मरेयुर्वा” इति भावयन्ति निष्पादयन्ति अत्र
यावत्सम्बन्धमनुस्मरेयुरेककुलजातावयमिति स्मरणं
भवतीत्यनेनैव सर्वेषामुदकदाने प्राप्ते यद् आसप्तमाद्दशमा-
दित्युक्तं तत्सन्निकर्षतारतम्येनाशौचभेदेऽप्युदककर्मसमा-
नार्थमिति । अशौचभेदस्तु सप्तमपर्य्यन्तं सपिण्ड-
त्वाद्दशाहः । ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः । तथाच
विष्णुवृहस्पती । “दशाहेन सपिण्डास्तु शुध्यन्ति
मृतसृतके । त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति
गोत्रजाः ।” ततश्चतुर्दशपुरुषपर्य्यन्तं पक्षिणी ततश्च
जन्मनामस्मृतिपर्य्यन्तमेकाहः । तथाच मिताक्षराविवाद-
चिन्तामण्योर्वृहन्ममुः । “सपिण्डता तु पुरुषे सप्तमे
विनिवर्त्तते । समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ।
जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ।” अत्र
समानोदकत्वे द्विविधे पूर्वत्र गोतमः “पक्षिणीमसपिण्डे”
परत्र हारीतः । “मातामहे त्रिरात्रं स्वादेकाहस्त्व-
सपिण्डके” इति । अत्रैव गोत्रजानामहः स्मृतमिति
जावालवचनं ततः परं सर्वथा समानोदकतानिवृत्तेः ।
स्नानमात्रमिति “स्नात्वा शुद्ध्यन्ति गोत्रजाः” इति
वृहस्पत्युक्तत्वादिति” ।
तथा च गोत्रैक्ये सति पिण्डलेपयोर्दातृत्वभोक्तृत्वा-
न्यतरवत्त्वम् अशौचसापिण्ड्यम् । साक्षात्परम्परया
सप्तमपर्य्यन्तदेहसम्बन्धवत्त्वं विवाहसापिण्ड्यं त्रिपुरुय
पर्य्यन्तं देयपिण्डदातृत्वभोक्तृत्वान्यत्वरवत्त्वं दायग्रहणे
सापिण्ड्यमिति विवेकः मिता० मातृसपत्न्या अपि
सापिण्ड्यं स्वीकृत्य धनाधिकारोऽभिहितः तन्मते
समानदेहसम्बन्धयोग्यतयैव सापिण्ड्यात् । दायमागमते तु
श्राद्धे देयपिण्डदातृत्वभोक्तृत्वाभावात् न तस्याः सापिण्ड्यं
तद्योग्यत्वेऽपि स्त्रीमात्रस्य विशेषवचनाभावे धनाधिकार-
पर्युदासात् इति विवेकः एवं स्नुषाया अपि ।

सपिण्डीकरण न० सह पिण्डेन सपिण्डः ततः अभूततद्भाके

च्वि + कृ--ल्युट् । प्रेतत्वविमोचनाय प्रेतोद्देशेन अर्त्तव्ये
पित्रादिपिण्डसमन्वयकरणरूपे श्राद्धभेदे
सपिण्डीकरणप्रकारस्तत्कालादिकं श्रा० त० निरूपितं यथा
“अथ सपिण्डीकरणम् । तत्र मोभिलः “पूर्णे
संवत्सरे षण्मासे त्रिपक्षे यदहर्वा वृद्धिरापद्येत
तदहश्चत्वार्युदकपात्राणि सतिलगन्धपुष्पोदकानि पूरयित्वा
त्रीणि पितॄणामेन्नं प्रेतस्य प्रेतपात्रं पितृपात्रेष्वासि-
ञ्चति । ये समानाः समनसः पितरो यमराज्ये तेषां
लोकाः स्वधा नमो यज्ञो देवेषु कल्पताम् । ये समानाः
समनसो जीवाजीवेषु मापकाः । तेषां श्रीमयि कल्प-
तामस्विन् लोके शतं समाः” इति एतेनैव पिण्डो
व्याख्यातः” इति । पूर्णे संवत्सरे इति मुख्यः कल्पः ।
तदशक्तौ नबमो मासः “संवत्सरान्ते विजर्जनं
नवममास्यमित्येके” इति पैठीनसिवचनात् । तदक्तौ षष्ठो
मासः । तत्राप्यशक्तौ त्रिपक्षः तत्राप्यशक्तौ अशौचाप-
गमे प्रथममासस्य द्वादशभिर्दिभैर्द्वादशमासिकानि श्रा-
द्धानि निर्वर्त्त्य त्रयोदशाहः सपिण्डोकरणकालः शूद्रस्यु-
द्वादशाहो न तु त्रयोदशाह एव “मासिकार्थवत् द्वाद-
शाहश्राद्धं कृत्वा त्रयोदशेऽह्नि वा तत्कुर्य्यान्मन्त्रवर्जं
हि शूद्राणां द्वादशेऽह्नीति” विष्णुवचनात् । मासिका-
र्थवदिति मासिकार्थो मासि मासि क्रियमाणश्राद्धप्रयो-
जनं प्रेताप्ययनादि तद्युक्तं द्वादशाहक्रियमाणश्राद्ध
सित्यर्थः । यत्र त्वेजादशमासाभ्यन्तरेऽधिमासपातस्तत्र
त्रयोदशसु दिनेषु त्रयोदश मासिकानि कृत्वा चतुर्दशेऽह्नि
सपिण्डनं कार्य्यमिति “संबत्सराभ्यन्तरे यद्यधिमासो
भवति तदा मासिकार्थं दिनमेकं वर्द्धयेत्” इति विष्णु-
वाक्यात् शूद्रस्य त्रयोदश दिनेषु त्रयोदशं मासिकानि
त्रयोदशेऽह्नि सपिण्डनं दृष्टपरिकल्पनान्यायात् । एवञ्च
वृद्धिमात्रे न दिनवृद्धिरिति मिश्रोक्तं हेवम् । तद्धृत-
विष्णुंसूत्रे दिनमेकं वर्द्धयेदिति श्रुतेः । श्वाद्धाधिक्यमाह
सत्यव्रतः “संवत्सरस्य मध्ये तु यदि स्यादधिमासूकः
पृष्ठ ५२२३
तदा त्रयोदशे श्राद्धं कार्य्यन्तदधिकं भवेत्” । तत्राप्य-
शक्तौ प्रथममासस्यैकाह एव द्वादशमासिकसहितसपि-
ण्डीकरणकालः । “मुख्यं श्राद्धं मासिमासि अपर्य्या-
प्रावृतुं प्रति । द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथ वा”
इति मरीचिवचनात् । अपर्य्याप्तौ अशक्तौ ऋतुर्मास-
द्वयम् । अत्र कल्पे षष्ठमासिकदिने पञ्चममासिकं कृत्वा
प्रथमषाण्मासिकं कार्य्यं तदाद्युत्कर्षन्यायात् । न तु
तत् पूर्वं षाण्मासिकं व्युत्क्रमापत्तेर्न च पञ्चपमासि
कमपि पूर्वदिने मृततिथ्यभावात् एवमेव वाचस्पति
मिश्रः । अपककर्षविषित्तमाहं व्याघ्रः “आनन्त्यात्
कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् । अस्थितेश्च शरीरस्य
द्वादशाहः प्रशस्यते” । एतच्च द्वादशाहपदं शावाशौचान्त-
तृतीयदिनमात्रपरमिति प्राचीनमैथिलाः अजहतस्वार्थ-
लक्षया स्वजात्युक्ताशौलान्ततृतीयदिनमात्रीपलक्षकमिति
श्राद्धप्रदीपश्राद्धचिन्तामणी । तद्द्वयमप्ययुक्तं “द्वादशाहेन
वा कुर्य्यात्” इति मरीचिवचन “द्वादशाहे श्राद्धं कृत्वा
त्रयोदशेऽह्नि वा कुर्य्यात्” इति विष्णुवचनाभ्यामेडवा-
क्यतया द्वादशदिनपरत्वात् । कुलधर्माणामिति
कुलधर्मज्योतिरागमादिसिद्धानन्तरषाविनाशपरचक्रभयोत्पन्न-
म्लेच्छदेशगमनादिभिर्निमित्तैरशौचापगमे द्वादश दिनानि
षोड़शश्राद्धापकर्षकाल इति शूलपाण्युपाध्यायव्याख्यानात्
मरीचिनेव “एकाहे द्वादशाथ वेति” सामान्यत एव एकाह-
विधानाच्च । अतएव एकाहापेक्षया प्राशस्त्यामिधानमपि
सङ्गच्छते अतएव प्रथममासस्य एकाह एव द्वादशमासिक-
सहितसपिण्डीकरणकाल इति श्राद्धविवेकः । अत्र यानि
एकाहकर्त्तव्यतया द्वादशमासिकश्राद्धान्युक्तानि तानि शूद्रे
णापि आद्यमासिकदिन एव कार्य्याणि नत्वाद्यमासिकं
कृत्वा तत्परदिने एकादश मासिकानीति ज्ञेयम् ।
एवञ्च तेवामपकर्षे तन्मध्ये तदन्तकाले च कर्त्तव्यतया
षण्माषिकद्वयसपिण्डीकरणापकर्षः सिद्ध्यतीति सुधीभि-
र्भाव्यम् । यदहर्वा वृद्धिरिति वृद्धिराशास्यमानं पुंस-
वनादि । आपद्येत आसन्ना भवति तद्दितेऽपि
सपिण्डीश्चरणम् । तथाहि “प्रागावर्त्तनादह्नः कालं
विद्यात्” इति गोभिलगृह्यसूत्रेण पुंसवनादिकरूप-
वृद्धेर्यामद्वयाभ्यन्तरे विधानात् सपिण्डीकरणस्य
चापराह्णे विधानात्तयोः कालयोरबाधाय वृद्धिपूर्वदिने
अपकर्षः । ननु सपिण्डीकरणस्यापराह्णिककत्वे किं प्रमाण-
मिति चेत् “अपराह्णे तु पैतृकम्” इत्युत्सर्गवचनम् ।
किञ्च “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम् । अग्नी-
न्द्रेश्वरसाधर्म्यात्तण्डुलोऽत्र विधीयते” इति छन्दोग-
परिशिष्टवचने यथा बहूनामनुरोधात्तण्डुलचरुर्नैकानु-
रोधात् पैष्टचरुः “विरुद्धधर्मसववाये भूयसां स्यात् सधर्म-
कत्वम्” इति जैमिनिसूत्रात् । तद्वदत्रापि बहुदेवताक
प्रार्वणानुरोधात् “एकोद्दिष्टविधानेन कार्यन्तदपि पार्थिव!”
इति विष्णुपुराणीयमेकोद्दिष्टांशे तदितिकर्त्तव्यतापरं
न तु तत्कालपरम् । तथा च परिशिष्टप्रकाशघृतम्
“श्राद्धद्वयमुपक्रम्य कुर्वीत सहपिण्डताम् । तवोः
पार्वणवत् पूर्वमेकोद्दिष्टमथापरम्” इति । एवञ्च शुद्धि-
तत्त्व लखितस्यमन्तकोपाख्यानवत् वृद्धिं निश्चित्य कृतं
सपिण्डीकरणं तदानीं विघ्नेन वृद्ध्यभावेऽपि वृद्ध्या-
रम्भकालान्तरं पूर्णसंवत्सरं वा प्राप्य पितृत्वप्रापकमिति
न सपिण्डनान्तरम् । अत्र “श्वःकर्त्तास्मीति निश्चित्य
दाता विपास्निमन्त्रयेत् ।” इतिवन्निश्चित्येति उत्कटं-
कोटिकसम्भावनोपलक्षणं भविंष्यन्निमित्तस्य कर्मणः प्रत्यू-
हार्हत्वात् एवञ्च वृद्धिश्राद्धं यदर्थं कृतं तत् कर्म
चेत् विघ्नात्तद्दिने न क्रियते तदा दिनान्तरे तत् कर्मणि
क्रियमाणे तदङ्गत्वात् पुनर्वृद्धिश्राद्धं कर्त्तव्यमेव ।
“प्रधानस्याक्रिया यत्र साङ्ग्रं तत्क्रियते पुनः । तदड्ग-
स्याक्रियायान्तु नावृत्तिर्न च तत्क्रिया” । इति छन्दोग-
परिशिष्टेन साङ्गकरणाभिधानात् । हेमाद्रिधृतं “पूर्णे-
संवत्सरे श्राद्धं षोड़शं परिकीर्त्तितम् । तेनैव च
सपिण्डत्वं तेनैवाव्दिकमिष्यते ।” अत्र पूर्णसंवत्सर-
क्रियमाणश्राद्धाद् यथोभयनिर्वाहः तथापकृष्ट-
सपिण्डनादप्युभयनिर्वाहान्न पूर्णसंवत्सरे आव्दिका-
न्तरं कार्य्यम्” । तत्रायं विशेषः तत्रोक्तो यथा
“एवञ्च पार्वणे प्रागुक्तवचनेन शेषद्रव्येण पिण्डविधा-
नात् तद्विकृतावपि सपिण्डीकरणे तन्नियमात् यद्यपि
शेषाभावेऽपि पिण्डनिवृत्तिरायाति तथापि “यथोक्त-
वस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत् । यवानामिव
गोधूमा व्रीहीणामिव शालयः” इति छन्दोगपरिशिष्ट-
वचनात् “मुख्याभावेऽपि प्रतिनिधिः शास्त्रार्थः” इति
न्यायाच्च मध्वाद्यमावे गुड़ादिग्रहणवत् द्रव्यान्तरेणापि
पिण्डदानं शेषद्रव्यनियमस्तु तत्सम्भवे द्रव्यान्तरत्यागाय ।
अन्यथा तदङ्गाभावे कर्मवैगुण्यं स्यात् “सहपिण्डक्रिया-
याम्” इति मनूक्तेः पिण्डस्य पेतपिण्डेन सह मिश्री-
करणं यत्रेति सपिण्डीकरणसमाख्यासिद्धर्थं सुतां तत्र
पृष्ठ ५२२४
तथाचरणं प्रतिपत्तिरूपकर्माङ्ग एव प्रतिपाद्याभावे तन्नि-
वृत्तिः पशुयागे “लाहित निरस्यति सकृन्निरस्यति” इत्या-
दावुक्ता । अतएव यज्ञवास्तुरूपप्रतिपत्तियागेऽपि यज्ञो
यत्र वसति इति यज्ञवास्तुसमाख्यानुरोधेनास्तृतकुश-
विनाशेऽपि कुशान्तरप्रतिनिधिर्भट्टनारायणैर्गोभिलभाष्ये
उक्तः “प्राक् स्विष्टिकृत आवापः” इति गोभिलसूत्रस्य
व्याख्यानेऽपि आउप्यते इत्यावापः प्रधानहोमः स तु
स्विष्टिकृद्धोमात् प्राक् न पश्चादित्यर्थः । एवञ्च मुख्यहोमे
त्वकृते यदि चरुर्नष्टो दुष्टो वा भवति तदान्यः पाच्यः
मुख्ये कृते चेन्नाशदुष्टी तदाज्यैनैव स्विष्टिकृद्धोम इति
सरला । एतेन शेषनाशे पिण्डनिवृत्तिरिति वाचस्पति-
मिश्रोक्तं हेयम् । एतेनार्घ्यदानविधानेन पिण्डमिश्रण-
प्रकारो व्याख्यात उक्तः” ।
“पितरि पूर्वं मृते तद्वषाभ्यन्तरे पितामहे प्रपिरामहं
मृते यथा कर्त्तव्यं तथाह छन्दोगपरिशिष्टे कात्यायनः
“पितुः सपिण्डतां कृत्वा कुर्य्यान्मासानुमासिकम् ।
असंस्कृतेन संस्कार्य्यौ पूर्व्वौ पात्रप्रपौत्रकैः । पितरं तत्र
संस्कुर्य्यादिति कात्यायनीऽव्रवीत् । पापिष्ठमपि पुद्धेन
शुद्धं पापकृतापि वा । पितामहेन पितरं कुर्य्यादिति
विनिश्चयः” । पितुः सपिण्डतां कृत्वा प्रेतीभूतयोरपि
पितामहप्रपितामहयोः सत्त्वे प्रतिमासविहितं पार्बणं
पितृवृद्धप्रपितामहातिवृद्धप्रपितामहानां कर्त्तव्यं न तु
तयोः सपिण्डीकरणापेक्षा कार्य्या मनु सपिण्डनेनासंस्कृ-
ताभ्यां सह पिण्डैः कथं सपिण्डनाख्यसंस्कारस्तस्मात्तदर्थं
तयोः सपिण्डीकरणमपकर्षणीयं पितुरेव वा सपिण्डन
मुत्कर्मणीयमित्यत आह असंस्कृतेनेति । उत्कषी-
पकर्षौ न कार्य्यावित्यनेन वचनेनोक्तं कथमसंस्कृतेन सह
संस्कार इत्यत्राह पापिष्ठमपीति पापिष्ठमकृतसपिण्डी-
करण शुद्धेन कृतसपिण्डीकरणेन पितामहेन पापकृता
अकृतसपिण्डीकरणेनापि शुद्धं कुर्य्यादिति शास्त्रनिश्चयः ।
अतो वचनबधाददोष इति तात्पर्य्यम् । अत्र तु प्रेतीभूत
पितामहेन पितुः सपिण्डने पितामहैकोद्दिष्ठमेव ।
“असपिणडकृतं प्रेतमेकोद्दिष्टेन तर्पयेत्” इति प्रागुक्तजाबाल
वचनात् । एवमन्यत्रापि बोध्यं वृद्धप्रपितामहस्य प्रेतत्वे
तेन मह न कार्य्यमिति तात्पर्य्यम् । अत्र मातुः
सपिण्डने श्वशुरार्य्यश्वशुरयोः पिण्डो कुशैराच्छाद्यौ । तथा
च गार्ग्यः “प्रतिनैकेन कर्त्तव्यं सपिण्डोकरणं स्त्रियाः ।
सा गता हि मृतैकत्वं कुशैरन्तयन् पितृन् । श्वशुर-
स्याग्रतो यस्माच्छिरःपच्छादनक्रिया । पुत्रैर्दर्भेण सा
कार्य्या मातुरभ्युदयार्थिभिः” । अन्तरयन्तीत्यर्थे अन्तरय-
न्निति लिङ्गव्यत्ययेन पुंस्त्वमिति हलायुधः । पराचनं
गोभिलश्राद्धसूत्रभाष्यकृतापि लिखितम् । अतएव प्रव्र-
जिते पतिते वा पितरि मृतेऽपि न पितामहादिभि-
र्मातुः सपिण्डीकरणं किन्तु पितामह्यादिभिरेव । “स्वेन
भर्त्रा सहैवास्याः सपिण्डोकरणं स्त्रियाः । एकत्वं सा
गता यस्माच्चरुमन्त्राहुतिव्रतैः । तस्मिन् सति सुताः
कुर्य्युः पिताभह्या सहैव तु” । इत्यत्र तस्मिन् सतीति
श्राद्धानर्हभर्त्रुपलक्षणम् । अतएव “तस्याञ्चैव तु जीवन्त्यां
तस्याः श्वश्रेति निश्चयः” इति लघुहारीतन श्वश्रूजी-
वने तस्याः श्वश्र्वोक्तं न तु श्वशुरेणेति क्वचिदप्युक्तम् ।
एवं पितामह्यादिभिर्मातुः सपिण्डीकरणेऽपि सामगेन
“ये चात्र त्वामनुयांश्च त्वमनु तस्मै ते स्वधा” इति मन्त्रो
क पाठ्यः मन्त्रलिङ्गविरोधात् अतएव आभ्य दयिके मातृ-
पक्षे श्रीदत्तादिभिमन्त्रान्तरं लिखितं न तु ये चात्रत्वा-
मिति वस्तुतस्तु आभ्युदयिके छन्दोगानां मातृपक्ष एव
नास्तीति वक्ष्यते” ।
लघुहारीतः “सपिण्डीकरणान्तानि यानि श्राद्धानि
षोड़श । पृथङ्नैव सुताः कुर्य्युः” पृथभ्द्रव्या अपि
क्वचित् । प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोड़श ।
यथाकालन्तु कार्य्याणि नान्यथा मुच्यते ततः” । पृथग्-
द्रव्या अपि विभक्तधना अपि पृथक् न कुर्य्युः सुतरा-
मपृथग्धनाः पृथक् न कुर्य्यु किन्त्वपृथक् कुर्युः अत्र
विशेषयति मरीचिः । “मृते पितरि पुत्रेण क्रिया
कार्य्या विधानतः बहवः स्युर्यदा पुत्राः पितुरेकत्र-
वासिनः । सर्वेषान्तु प्रतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।
द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्” । पुत्रेणत्य-
विशेषात् सर्वेषामधिकारे प्राप्ते ज्येष्ठस्य सालात् कर्त्त-
व्यतामाह वहव इति । ज्येष्ठेनापि सर्वेषां भ्रातॄणां
मत्करणेनैव करणं भवतु इति मतं ज्ञानं कृत्वा विभक्त-
त्वे द्रव्यसंश्लेषेण च कृतं कर्म सर्वेरेव कृतमेव भवेत् ।
तदानीं द्रव्यासंश्लेषेण च तस्मात् द्रव्यं प्राप्तव्यमिति कृत्वा
कर्त्तव्यम् । यदि तेन तन्न परिशुध्यते तदा स ऋणी
भवति प्रत्यवायी च भवतीति । न तु तेन श्राद्धान्तरं
कर्त्तव्यमिति श्राद्धविवेकोक्तं युक्तम् । “पृथङ्नैव सुताः
कर्यरित्यनेन पृथक्करणस्य पर्य्युदस्त नधिकारात् ।
यथाकालमिति अशौचान्तद्वितीयदिनद्वादसमासमृतति-
पृष्ठ ५२२५
थ्येकाहन्यूनषण्मासद्वितीयसंवत्सरेषु । न च विधान-
सामर्थ्यादेव तत्तत्कालप्राप्तेरनर्थकमिदमिति वाच्यम्
तत्तत्कालानां द्वादशाहाद्यपेक्षया प्राधान्यबोधनार्थत्वात्
अत्र “आनन्त्यात् कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् ।
अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते” इति व्याघ्र-
वचनोक्तप्रशस्यत इत्यनेन कुलाचारज्योतिःशास्त्रादिज्ञात-
झटितिमरणराष्ट्रोपप्लवादिम्लेच्छदेशादिगममानुसारादेव
शपिण्डीकरणापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासा-
दिनौणकालपरिग्रहः । अथ वा यथाकालमित्यादेर्यदहर्वा
वृद्धिरापद्येतेत्यनेभावश्यकनापकरणादिवृद्ध्यर्थमेवापकर्षो
न त्वनावश्यकेष्टपूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम् ।
अतएव लघुहारीतेन “तथैव काम्यं यत् कर्म वत्सरात्
प्रथमावृते” इत्यनेन कास्यस्यापकर्षनिमित्तता नास्तीत्युक्तम्
पदि त्वाधश्यकवृद्धिनिमित्तेनापकर्षः कृतस्तदा इष्टापूर्त्तादि
काम्यं वत्सराभ्यन्तरेऽपि कर्त्तव्यमिति श्राद्धविवेकोऽप्येवं
यद्यपि गोमिलसूत्रादौ सपिण्डीकरणस्यैवापकर्षः प्रागुक्त-
स्तथापि सपिण्डीकरणापकर्षे तत्पूर्वकर्त्तव्यश्राद्धानामपि
तदादितदन्तन्यायादपकर्षः । “सपिण्डीकरणान्ता तु ज्ञेया
प्रेतक्रिया बुधैः” इति शातातपवचने प्रेतक्रियायाः
सपिण्डीकरणान्तत्वं प्रतीयते । अत्र वृद्धिनिमित्तं विना
सपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य प्रेतत्वपरी-
हारमाह विष्णुधर्मोत्तरम् “कृते सपिण्डोकरणे नरः
संवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते”
वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्क्षणादेव
प्रेतत्वपरीहारः तदर्थएवापकर्षात् एवञ्चान्यनिमित्ताप-
कर्षे वृद्धिकालं प्राप्य प्रेतत्वपरीहारः तत्कालस्य पूर्ण-
संवत्सरकालतुल्यत्वात् । “अर्वाक् संवत्सरात् वृद्धौ
पूर्णे संवत्सरेऽपि वा । ये सपिण्डीकृताः प्रेता न
तेषान्तु पृथकक्रिया” इति शातातपवचनाति” ।

सपिण्डीकृत त्रि० सह पिण्डैः पित्रादिपिण्डैः सपिण्डः

ततः च्विकृ--कर्मणि क्त । यदुद्देशेन सपिण्डीकरणं श्राद्धं
कृतं तस्मिन् मृते जने “ये सपिण्डीकृताः प्रेताः” इति
शाता० स्मृतिः ।

सपीतक पु० सह समानः पीतकेन सहस्य सः । राजधीषातकीवृक्षे राजति० ।

सपीति स्त्री पा--क्तिन् पीतिः पानम् सह एकत्र पीतिः ।

ज्ञात्यादीनां सह भोजने शब्दर० ।

सपीतिका स्त्री सह पीतेन कप् अत्र इत्त्वम् । हस्तिघोषातकीवृक्षे राजनि० ।

सप्तक न० सप्तानामवयवम् कन् । १ सप्तसङ्ख्यायाम् । सप्त प्र-

माणमस्य कन् । २ सप्तसङ्ख्यान्विते त्रि० । पूरणे कन् ।
३ सप्तानां पूरणे च ।

सप्तकी स्त्री सप्तभिः स्वरैरिव कायति शब्दायते कै--क । मेखलायाम् अमरः ।

सप्तचत्वारिंशत् स्त्री सप्ताधिका चत्वारिंशत् शाक० ।

(सातचल्लिश) १ सङ्ख्यां २ तत्संख्यान्विते च । एवं सप्तद-
शादयः सप्ताधिकतत्तत्संख्यायां तत्संख्यान्विते च । पूरणे
डट् । सप्तचत्वारिश तत्तत्संख्यापूरणे त्रि० ख्यियां ङीष्
एवं सप्तदशादयोऽपि तत्पूरणे एवं तमप् सप्तचत्वारिं-
शत्तम तत्पूरणे त्रि० स्त्रियां टाप् ।

सप्तच्छद पु० सप्त सप्त छदाः प्रतिपत्त्रम् यस्य वृत्तौ संख्या-

शब्दस्य वीप्सार्थता भाष्योक्ता । (छातिम) वृक्षे राजनि० ।

सप्तजिह्व पु० सप्त जिह्वा इव आस्वादसाधनानि अर्ञ्चिषो

यस्य । वह्नौ त्रिका० । “काली कराली च मनोजवा च
सुलोहिता चैव सुधूभ्रवर्णा । उग्रा प्रदीप्ता च कृपीट-
योनेः सप्तैव कीलाः कथिताश्च जिह्वाः” इत्युक्तानां सप्ता-
नामग्निज्वालानामेव तज्जिह्वात्वमुक्तम् । वह्निजिह्वानां
वर्णभेदः अवस्थानदिग्भेदश्च गणशविमर्षिण्यां दर्शितो
यथा “हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता ।
वैदूर्य्यवर्णा कनका प्राच्यां दिशि समाश्रिता । तरुणा-
दित्यसङ्काशा रक्ता जिह्वाग्निसंस्थिता । कृष्णा नीलाभ्र-
सङ्काशा नैरृत्यां दिशि संस्थिता । अतिरक्ता जवा०
भासा वाथव्यां दिशि संस्थिता । बहुरूपा तथा ख्याता
दक्षिणोत्तरसंस्थिता” ।

सप्तज्वाल पु० सप्त कालीत्यादयः ज्वाला यस्य । १ वह्नौ

हेमच० । २ सप्तार्चिरादयोऽप्यत्र अमरः ।

सप्ततन्तु सप्तभिः भूरादिभिर्महाव्याहृतिभिस्तन्यते तन--तुन । यज्ञे अमरः ।

सप्तति स्त्री सप्तगुणिता दशतिः नि० । (सत्तर) १ संख्यायां

२ तत्संख्यान्विते च । ततः पूरणे डट् । सप्तत तत्संख्यापू-
रणे त्रि० स्त्रियां ङीप् ।

सप्ततितम त्रि० सप्ततेः पूरणः तमप् । येन सप्ततिसंख्या

पूर्य्यते तस्मिन् अर्थे स्त्रियां टाप् ।

सप्तद्वीपा स्त्री सप्त जम्बूप्रभृतयोद्वीपाः यस्याः । जम्बूप्रभृ-

तिसप्तद्वीपयुतायां पृथिव्याम् । जम्बूद्वीपशब्दे ३०४३ पृ० दृश्यम्

सप्तधा अव्य० सप्तन् + प्रकारे धाव् । सप्तप्रकारे ।

सप्तधातु पु० ब० व० । सप्तयुक्षिता धातवः । देहस्येषु “रसाम्न

मांसमेदोऽस्थिमज्जानः शुक्रसंयुताः । शरीरस्था इमे
ज्ञेयाः पण्डितैः सप्त धातव” इत्युक्तेषु रसादिषु धातुषु
राजनि० ।
पृष्ठ ५२२६

सप्तन् पु० त्रि० । सप--तनिन् । (सात) १ संख्यान्विते २ तत्सं-

ख्यायां महाभाष्यम् ।

सप्तनाड़ीचक्र न० वृष्टिज्ञानार्थे चक्रभेदे चक्रशब्दे २८३२ पृ० दृश्यम् ।

सप्तनामा स्त्री सप्त नामानि यस्याः डाप् । आदित्यभक्तायाम्

राजनि० ।

सप्तपत्त्र पु० सप्त सप्त पत्त्राणि प्रतिपत्त्रं यस्य ।

१ मुद्गरवृक्षे राजनि० । २ सप्तच्छदवृक्षे च ।

सप्तपदी स्त्री सप्तानां पदानां समाहारः ङीप् । विवाह-

काले मण्डलिकासु गन्तव्येषु सप्तसु पदेषु । तत्प्रकारो
भवदेवभट्टोक्तो यथा “ततो जामाता प्रागुदीचीं गत्वा वधूं
सप्तभिर्मन्त्रैः सप्तसु मण्डलिकासु सप्त पदानि नयेत् ।
षभूश्च दक्षिणपादं नीत्वा पश्चात् वामपादं मण्डलिकां
नयेत् । जामाता च वधूं ब्रूयात् वामेन पादेन दक्षिणं
पादमाक्रमयेति” इत्यादि । अस्यैव कर्मणो विवाहनिष्ठा-
करत्वमुक्तं मनुना “पाणिग्रहणिकामन्त्रा नियतं
दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे” ।

सप्तपर्ण पु० सप्त सप्त पर्णानृस्य प्रतिपर्णम् । (छातिम) वृक्षे

अमरः । “सप्तपर्णो व्रणश्लेष्मवातकुष्ठास्रजन्तुजित् ।
दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः स्मृतः” भावप्र०
तद्गुणा उक्ताः । २ लज्जालुलतायां स्त्री रत्नमा० ङीप् ।
“द्राक्षादाड़िमखर्जूरमृदिताम्रं सशर्करम् । लालाचूर्णं
समध्वाज्यं सप्तपर्णमुदाहृतम्” शब्दच० उक्ते ३
खाद्यभेदे न० ।

सप्तपाताल न० समाहारद्विगुः पात्रादि । “अतलं वितल

ञ्चैव नितलञ्च गभस्तिमत् । महातलञ्च सुतलं पातालं
सप्त कीर्त्तितम्” इत्युक्तेषु सप्तसु भूमेरधःस्थलोकेषु ।

सप्तप्रकृतिविकृति स्त्री ब० व० सप्तसंख्याताः प्रकृतिविकृतयः ।

सांख्यसिद्धे महदहङ्कारसहितसूक्ष्मपञ्चभूतहेतुशब्दादि-
तन्मात्रात्मके पदार्थसप्तके “महदाद्याः प्रकृतिविकृतयः
सप्त” इति सांख्यकारिका । षोडशकपदार्थहेतुत्वात् प्रकृ-
तित्वम् प्रकृतिकार्य्यत्वाच्च विकृतित्वमासाम् ।

सप्तभद्र पु० सप्तस स्थानेषु भद्रमस्य । शिरीषवृक्षे शब्दच० ।

सप्तम त्रि० सप्तानां पूरणः मट् । येन सप्तमंख्या पूर्य्यते तस्मि-

न्नर्थे स्त्रियां ङीप् । सा च चन्द्रस्य सप्तमकलाया ह्रा-
सवृद्धिरूपायां तिथौ च तिथिशब्दे २२९५ पृ० दृश्यम् ।

सप्तरक्त पु० सप्त रक्तानि प्रशस्तान्यस्य । “पाणिपादतले रक्ते

नेत्रान्तरनखानि च । तालुकाधरजिह्वाश्च प्रशस्ता सप्त-
रक्तता” इत्युक्तस्थानेषु रक्ततावति जने ।

सप्तर्षि पु० ब० व० । सप्त ऋषयः संज्ञात्वात् कर्म० । “मरीचि-

रत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । वशिष्ठश्च
महाभाग! सप्तैते ब्रह्मणः सुताः” इत्युक्तेषु सप्तसु ऋषिषु ।
मन्वन्तरभेदे तेषा नामभेदा ऋषिशब्दे उक्ता १४५३ पृ०
दृश्या ।

सप्तर्षिमण्डल त्रि० ६ त० । आकाशे नित्यं ध्रुवनक्षत्रपरि-

भ्र मके नक्षत्रसप्तकात्मके नक्षत्रमण्डलभेदे “सप्तर्षिमण्डलं
तस्माद्दृश्यते सर्वकोपरीति” पुराणम् तच्चारादि
ऋषिशब्दे १४५२ पृ० दृश्यम् ।

सप्तला स्त्री सप्तधा लाति ला--क । १ नवमालिकायाम् अमरः

२ चर्मकषायां ३ गुञ्जायां ४ पाटलायाञ्च मेदि० ।

सप्तशती स्त्री सप्तानां शतानां समाहारः । मार्कण्डेयपुरा-

णान्तर्गतसप्तशतमन्त्रसमुदायरूपे देवीमाहात्म्यबोधके त्रयो-
दशाध्यायात्मके ग्रन्थभेदे तन्मन्त्रविभागः चण्डीशब्दे
२८५५ पृ० दृश्यः । “मध्ये सप्तशतीं जपेदिति”
तत्र दर्शितवाक्यम् ।

सप्तशलाक पु० सप्त शलाकाकारा रेखा वत्र । ज्योतिषोक्ते

विवाहादौ वर्ज्यदोषसूचके सप्तशलाकाकारितचक्रभेदे
चक्रशब्दे २८३० पृ० दृश्यम् । उपयमशब्दे १२६३ पृ० दृश्यम् ।

सप्तशिरा स्त्री सप्त शिरा अस्याः । ताम्बूलवल्ल्यां राजनि० ।

सप्तसप्ति पु० सप्त सप्तयोऽश्वा यस्य । १ सूर्य्ये हेमच० २ अर्क-

वृक्षे च । सप्ताश्वादयोऽप्यत्र ।

सप्तसागर पु० ब० व० । सप्तसंख्याताः सागरा । “नवनीत-

सुरासर्पिर्दधिदुग्धजलान्तका” इत्युक्तेषु सप्तसु सागरेषु
सप्त घृतादिकल्पिताः सागरा इव देयपदार्थायत्र कप् ।
मत्स्यपुराणोक्ते स्वनामख्याते महादानभेदे मत्स्यपु०
२८६ अ० तद्विधानं दृश्यम् ।

सप्तांशु पु० सप्त अंशवोज्वालायस्य । सप्तजिह्वशब्दे “कालीक-

रासी चेत्याद्युक्तसप्तज्वालायुते वह्नौ ।

सप्तांशुपुङ्गव पु० सप्तभिरंशुभिः पुङ्गव इव श्रेष्ठत्वात् । शनिग्रहे जटा० ।

सप्तार्चिस् पु० सप्त अर्च्चीषि यस्य । १ वह्नो अमरः २ चित्रक-

वृक्षे ३ शनिग्रहे हेमच० । ४ क्रूरनेत्रे त्रि० मेदि० ।

सप्ताश्व पु० सप्त अश्वा अस्य । १ सूर्ये २ अर्कवृक्षे अमरः ।

सप्ताश्ववाहन पु० सप्त अश्वाः वाहनान्यस्य । १ सूर्ये २ अर्क-

वृक्षे च “शुचिः सप्ताश्ववाहनः” सूर्य्यस्तवः ।

सप्ति पु० सप--ति । अश्वे अमरः ।

सफर पुंस्त्री० सप--अरन् पृषो० पस्य फः । (पुँटी) मत्स्ये

स्त्रीत्वे ङीष् । “त्रम्यन्ती चलसफरीविघट्ठितोचः” भाघः
अस्य तालव्यादितेत्यन्ये ।
पृष्ठ ५२२७

सफल त्रि० सह फलेन सहस्य सः । १ अव्यर्थे २ फलयुक्ते

च जटा० ।

सबल त्रि० सह बलेन सामर्थ्येन सेन्येन वा सहस्य सः ।

१ सामर्थ्यान्विते २ सैन्ययुक्ते ३ ज्यो० उक्तबलाद्ये “सबलेऽ-
व्दपतौ स्वस्थे राज्याप्ति सुखकीर्त्तयः” नील० ता० ।

सब्रह्मचारिन् पु० समानं ब्रह्म वेदग्रहणकालीनं व्रतं चरति

चर--णिनि समानस्य सः । एकगुरुसकाशात् वेदाध्ययन-
काले तन्निबन्धनसमानव्रताचारयुते अमरः ।

सभर्तृका स्त्री सह भर्त्त्रा पत्या सहस्य सः कप् । विद्य-

मानपतिकायां स्त्रियाम् अमरः ।

सभा स्त्री सह भान्ति अभीष्टनिश्चयार्थमेकत्र यत्र गृहे ।

बहूनां समावेशनस्थाने २ तदधिष्ठायिजनसमूहे
च अमरः “यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः ।
राज्ञः प्रतिकृतो विद्वान् ब्राह्मणस्तां सभां विदुः” । विद्व-
तसंहतावपि सभापर्य्यायपरिषच्छब्दमाह “त्रैविद्या०
हैतुकस्तर्की निरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे
परिषत् स्याद्दशावरा” मनुः । ३ द्रूते ४ गृहे मेदि० ५ समूहे
हेमच० । समूहपरत्वे ६ त० न० । दासीसभं नृपसभ-
मित्यादि । व्यवहारदर्शनार्थसमास्थानञ्च वीरमि० दर्शितं
यथा वृहस्पतिः “दुर्गमध्ये गृहं कुर्य्याज्जलवृक्षन्वितं
पृथक् । प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्याङ्कल्पयेत्स-
भाम् । प्रतिमालेख्यदेवैश्च युक्तामग्न्यम्बुना तथा” इति
लक्षण्यां वास्तुशास्त्रोक्तलक्षणेन लक्षिताम् । अग्न्य-
म्बुनेति समाहारद्वन्द्वः । सभाया धर्माभिकरणत्वं
कात्यायन आह “धर्मशास्त्रानुसारेण अर्थशास्त्रवियेच-
नम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तदिति” ।
तत्र सभ्योपवेशनमाह मनुः “यस्मिन् देशे इत्यादि” प्रागुक्तम्
त्रय इत्युपलक्षणम् अधिकानामपि स्मृतत्वात् । तच्च
वक्ष्यते । अधिकृतो विद्वान् प्राड्विवाकः अत्र प्रविशेत्
सभाम् सभामेव प्रविश्येत्यादिवचनात् समा सुख्यव्यवहार-
दर्शनख्यानम् । अन्यान्यमुख्यानि व्यवहारस्थनानावाक्या-
दवगन्तष्यानि । “दश स्थानानि वादानां पञ्च चैवाब्रवीद्
भृगुः । निर्णयं येन गच्छन्ति विवादं प्राप्य वादिनः ।
आरण्यास्तु स्वकैः कुर्य्युः मार्थिकाः सार्थिकैस्तथा ।
सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः । उभयानुम-
तञ्चैव मृह्यते स्थानमीप्सितम् । कुलिकाः सार्थमुख्याश्च
पुरग्रामनिवासिनः । ग्रामपौरगणश्रेण्याश्चातुर्विद्यय
वर्गिणः । कुलानि कुलिकाश्चैव नियुक्ता नृपतिस्तथा”
इति । स्वकैरारण्यवैः ग्रामेऽपीत्यपिशब्दाद् वे ग्रामे-
ऽरण्यादौ च निवसन्ति ते उभयवासिभिर्निर्णयं कुर्य्यु-
रुभयव्यवहराभिज्ञत्वात्तेषाम् कुलिकाः कुलश्रेष्ठाः ।
सार्थो श्रामदेवयात्रादौ मिलितो जनसङ्घः तन्मुख्याः
सार्थवाहादयः । पुरं मुख्यनगरम् तस्मादर्वाचीनो
ग्राम इति पुरग्रामनिवासिनोर्भेदः सार्थकुलिकादीनि
पञ्च स्थानानि तानि चारण्याकादीनामेव, ग्रामादीनि
दश स्थानानि साधारणानि । ग्रामो ग्रामाकारेणावस्थि-
तोजनः । पौरः पुरवासिनां समूहः “श्रेण्यो
रजकाद्यष्टादश हीनजातयः । चातुर्विद्यः आन्विक्षिक्या-
दिविद्याचतुष्टयोपेतः वर्गिणा गणप्रभृतयः । राज्ञः
सभाप्रवेशस्तत्रैव दर्शितः । तत्र मनुः “व्यवहारान्
दिवक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव
विनीतः प्रविशेत् सभाम् । तत्रासीनः स्थितो वापि
पाणिमुद्यम्य दक्षिणम् । विनीतवेषाभरणः प्रश्येत्
कार्य्याणि कार्य्यिणाम् । प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च
हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक्
पृथक् । धर्मासनमधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेत्” इति

सभाज सेवने दर्शने च सक० प्रीतौ अ० अद० चु० उभ० सेट् ।

सभाजयति ते अससभाजत्--त । अनेकाचत्वान्न षोपदेशः

सभाजन न० सभाज--भावे ल्युट् । गमनागमनादिकाले सुखा-

नन्दप्रीतिसाधने सम्भाषणे ३ पूजने च अमरः ।

सभासद् पु० सभायां सोदति--क्विप् । सामाजिके सभ्ये अमरः

तल्लक्षणमाह याज्ञ० “श्रुताध्ययनसम्पन्नाः धर्मज्ञाः सत्य-
वादिनः । राज्ञा सभासदः कार्य्या रिपौ मित्रे च ये
समाः” इति । श्रुतेन मीमांसाध्याकरणादिश्रवणेन वेटा-
ध्ययनेन च सम्पन्नाः । धर्मज्ञाः सत्यवादिनः सत्यवदन-
शीलाः रिपौ मित्रे च समाः द्वेषरागशून्याः एवंविधा
सभासदः सभायां सदपि यथा सीदन्ति तथा दानमान-
सत्कारैः राज्ञा कर्त्तव्याः सभ्यत्वेन वरीतव्या इत्यर्थः ।
अतस्तेषामुपादेयत्वात् स्वाध्यायोऽध्येतव्यो यूपं छिनत्ति
पुरोहितस्तं प्रकुर्वीतेत्यादिवत् सत्यपि कर्मत्वेऽनुद्देश्यत्वात्
तद्गतैकत्ववद्बहुत्वं विवक्षितम् । तच्च यद्यपि कपिञ्ज-
लन्यायेन त्रित्वमात्रेणापि चरितार्थं तथापि स्मृत्यन्तरोक्त-
बहुत्वविकल्पपरम् । तथा च वृहस्पतिः “लोकवेदज्ञधर्मज्ञाः
सप्त पञ्च त्रयोऽपि वा । यत्रोपविष्टा विप्राः स्युः सा
यज्ञसदृशी सभा” इति । मनुना तु त्रय एवोक्ताः ।
पृष्ठ ५२२८
“यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रय” इति ।
अत्र त्रिभ्योऽन्यूनाः सप्तभ्योऽधिकाश्च न कार्य्या इत्यत्र
तात्पर्य्यं सङ्ख्यावैषम्यन्तु “भूयोऽल्पविरोधे भूयसां स्यात्
सधर्मकत्वमिति न्यायेन विप्रतिपत्तावधिकसङ्ख्यावचनमाद-
रणीयं गुणसाम्यैः । तद्वैषम्ये तु शतमप्यन्धानान्न पश्य-
तीति न्यायेन गुणवत्तरवचनमेवेति प्रदर्शनार्थम् । “यत्तु
चत्वारो धर्मज्ञाः पर्षत्त्रैविद्यमेव वा । सा ब्रूते यं स धर्मः
स्यादेको वाऽध्यात्मवित्तमः” इति योगीश्वरेण विषम-
सङ्ख्यत्वमपि बहुत्वमपि चानादृतम् । तत्तु पूर्वोक्तानां
घर्मकारकज्ञापकहेतूनां सन्देहनिर्णयविषयं प्रक्रमात् ।
व्यवहारविषये तु त्र्यवराणां विषमसङ्ख्यानामेव सभ्यत्वं
विशेषविधानादित्यवसेयम् । एते च ब्राह्मणा एव ।
मनुवृहस्पतिभ्यां विप्रपदोपदानात् । स तु सभ्यैः
स्थिरैर्युक्तः प्राज्ञैर्मौलैर्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलै-
रर्थशास्त्रविशारदैरिति” द्विजोत्तमपदस्य च कात्यायने-
नोपादानात् । नारदेन “राजा तु धार्मिकान् सभ्या-
न्नियुञ्ज्यात् सुपरीक्षितान् । व्यवहारधुरां वोढुं ये शक्ताः
पुङ्गवा इव । धर्मशास्त्रेषु कुशलाः कुलीनाः सत्यवादिनः ।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः” इति ।
विचार्य्य श्रेणिभिः कार्य्यं कुलैर्यन्न विचारितम् ।
गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नृयुक्तकैः । कुलादिम्यो-
ऽधिकाः सभ्यास्तेभ्योऽध्यक्षोऽधिकः कृतः । सर्वेषा-
मधिको राजा धर्मं यत्नेन निश्चितम् । उत्तमाधम-
मध्यानां विवादानां विचारणात् । उपर्य्युपरि बुद्धी-
नाञ्चरन्तीश्वरबुद्धयः” वर्णभेदोऽनादृतः ।
शुक्रनीतिपरिशिष्टेऽपि तथैवोक्तं यथा
“यद्वर्णजो भवेद्राजा योज्यस्तद्वर्णजः सदा । तद्वर्ण
एव गुणिनः प्रायशः सद्भवन्ति हि । व्यवहारविदः
प्राज्ञा वृत्तशीलगुणान्विताः । रिपौ मित्रे समा ये च
चमज्ञाः सत्यवादिनः । निरालसा जितक्रोधकामलोभाः
प्रियंवदाः । राज्ञा ते च नियोज्याः स्युः सभ्याः सर्वासु
जातिषु” “राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात्
सुवरीक्षितान् । व्यवहारधुरां वोढ़ुं ये शक्ताः पुङ्गवा
इव । लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।
यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा । श्रोतारो
बणिजस्तत्र कर्त्तव्याः सुविचक्षणाः । अनियुक्तो नियुक्तो
वा धर्मज्ञो वक्तु मर्हति । एकः शास्त्रमधीयानो विन्द्य न्न
कार्यनिर्णयम् । तस्माद् बह्वागमः कार्य्यो विवादेषू-
त्तमो नृपैः । स ब्रूते यं स धर्मः स्यादेको वाध्यात्म
चिन्तकः । एकद्वित्रिचतुर्वारं व्यवहारानुचिन्तनम ।
कार्य्यं पृथक् पृथक् सभ्यै राज्ञा श्रेष्ठात्तरैः सह ।
अर्थिप्रत्यर्थिनौ सभ्यान् लेखकप्रेक्षकांश्च यः । धर्मवाक्यै
रञ्जयति स सभास्तारतामियात् । नृपोऽधिकृतसभ्याश्च
स्मृतिगणकलेखकौ । हेमाग्न्यम्बु खं पुरुषः साधना-
ङ्गानि वै दश । एवद्दशाङ्गकरणं यस्यामध्यास्य पार्थिवः ।
न्यायान् पश्येत् कृतमतिः सा सभाऽध्वरसन्निभा” ।

सभापति पु० ६ त० । सभायाः स्थापके नृपे “सभापतिश्च

नृपतिरेव “दुर्गमध्ये गृहं कुर्य्योदित्यादिना वृहस्पत्या-
दिभिः सभानिर्माणतद्रक्षणादेस्तत्र सभ्योपवेशनादेश्च
तम्प्रत्येव विधानात्” वीरमि० ।

सभास्तार पु० सभां स्तृणाति स्तृ--अण् । १ सभ्ये अमरः ।

“अर्थिप्रत्यर्थिनौ सभ्यान् लेखकप्रेक्षकांश्च यः । धर्म-
वाक्यैरञ्जयति स सभास्तारतामियात्” शुक्रनोतिपरि-
उक्ते २ सभ्यभेदे च ।

सभिक पु० सभा द्यूतसभा आश्रयत्वेनास्त्यस्य ठत् । द्यूतकासके अमरः ।

सभीक पु० सभा द्यूतं प्रयोजनमस्य ईक । द्यूतकारं शब्दच०

सभोचित पु० सभा उचिता परिचिता यस्य । १ पण्ढिते

धनञ्जयः । २ सभायोग्ये त्रि० ।

सभ्य पु० सभायां साधुः यत् । १ सामाजिके २ द्यूतकारे च ३ विश्रब्धे त्रि० जटा०

सम् अव्य० सो--वा० कमु । १ सम्यगर्थे २ प्रकर्षे ३ सङ्गतौ ४ शोभने

शब्दच० । ५ समुच्चये हेमच० ।

सम त्रि० सम--अच् । १ समाने तुल्ये २ सर्वे अमरः ३ साधौ

मेदि० । (योड़) ४ युग्मे “समेऽर्द्धिते वर्गः” इति लीला०
समतयाख्यातेषु द्वितीयचतुर्थषष्ठादिषु ५ राशिषु च ।
अतुल्येऽस्य सर्वनामता । गीतवाद्ययोरेककालभवे गायु-
कहस्तादिचालनरूपे ६ तालभेदे न० ७ शत्रुमित्रभिन्नोग्रहे
प्रकृत्या० अभेदे तृतीया । समेन याति ममं यातीत्यर्थः ।

समक्ष अव्य० अक्ष्णः समीपम् अव्ययी० अच् । १ चक्षुःसन्नि-

कर्षे तदस्यास्ति अच् । २ प्रत्यक्षविषये त्रि० ।

समकोण त्रि० समः कोणो यस्य । रेखागणितोक्ते सम०

कोणयुक्त त्रिकोणादौ । क्षेत्रशब्दे २३९० पृ० १५ अङ्क-
चिह्निते दृश्यम् ।

समकोल पुंस्त्री० ६ व० । सर्पे त्रिका० स्त्रियां ङीष् ।

समगन्धक पु० समास्तुल्यभागेन निवेशितागन्धाः गन्धयुक्त-

द्रव्याण्यत्र कप् । कृत्रिमधूपभेदे शब्दमा० ।

समगन्धिक पु० समः सर्वदा तुल्यरूपः गन्धोऽस्त्यस्य ठन् ।

उशीरे० (वेणारमूल) राजनि० ।
पृष्ठ ५२२९

समग्र त्रि० समं सकलं यथा स्यात्तथा गृह्यते ग्रह--ड । १ सकले अमरः २ पूर्णे । च

समङ्गा स्त्री समज्यतेऽनया सम् + अन्ज--करणे घञ् टाप् ।

मञ्जिष्ठायाम् अमरः ।

समचित्त त्रि० समं सर्वत्र समभावं चित्तं यस्य । सर्वत्र तुल्यदर्शके तत्त्वज्ञानिनि ।

समज न० समजत्यत्र सम् + अज--आधारे अप् व्यभावः । १ वने

मेदि० २ समूहे ३ पशूनां संघे ४ मूर्खवृन्दे च अमरः ।

समज्ञा स्त्री समस्मिन् सर्वत्र ज्ञायतेऽनया ज्ञा--क । कीर्त्तौ

अमरः ।

समज्या स्त्री सम् + अज--क्यप् न वीभावः । १ सभायाम् अमरः २ कीर्त्तौ च रमानाथः ।

समञ्जस त्रि० सम्यक् अञ्ज औचित्त्रं यत्र अच् समा० ।

१ उचिते अमरः २ युक्ते च । प्रा० स० । ३ औचित्ये न० ।
४ समाधाने त्रिका० ५ अत्यन्ते अमरः ।

समण्ठ पु० गण्डीरे हारा० ।

समत्रय न० समं त्रयं यत्र । समभागयुते हरीतकीनागरगुड़त्रये राजनि० ।

समदर्शिन् त्रि० समस्मिन् सर्वत्र ब्रह्मभावेनाऽभिन्नतया

पश्यात दृश--णिनि । सर्वत्र समदर्शके तत्त्वज्ञानिनि ।
“विद्याविनयसम्पन्न ब्राह्मणे गवि हस्तिनि । शुनि चैव
श्वपाके च पण्डिताः समदर्शिन” इति गीता ।

समदृष्टि स्त्री कर्म० । १ सर्वत्र तुल्यदर्शने । “दुःखे सुखे च

विप्रेन्द्र । या दृष्टिर्वर्त्तते सदा । तथा शत्रौ च मित्रे
च समदृष्टिश्च सा स्मृता” पद्मपु० क्रिया० १६ अ० । ६ व० ।
२ समदर्शिनि त्रि० ।

समधिक त्रि० सम्यक् अधिकः प्रा० । अत्यन्ताधिके अमरः ।

समनियत त्रि० समेन नियतः । व्यापकत्वे सति व्याप्य

त्वयुते गदा० । समव्याप्तादयोऽप्यत्र ।

समन्त पु० सम्यक् अन्तः, स यत्र वा । १ सम्यगन्ते २ सीमायाञ्च

समन्ततस् अव्य० समन्त + तसिल् । सर्वत्र व्याप्तौ अमरः ।

समन्तदुग्धा स्त्री समन्ततो दुग्धनस्याः । स्नुहीवृक्षे अमरः ।

समन्तपञ्चक न० समन्तात् पञ्चकं ह्रदपञ्चकं यत्र । कुरुक्षेत्र

स्थे तीर्थभेदे “त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्त्रियां
प्रभुः । समन्तपञ्चके पञ्च चकार रौधिरान् ह्रदान् । स
तेषु तर्पयामास भृगून् भृगुकुलोद्वहः” भा० व० ११७ अ० ।
“तरन्तुकारन्तुकयोर्युदन्तरं रामह्रदानाञ्च मचक्रुकस्य च ।
एतत् कुरुक्षेत्र समन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते”
भा० व० ८३ अ० ।

समन्तभद्र पु० समन्तात् भद्रमस्य । बुद्धे अमरः ।

समन्तभुज् पु० समन्तात् भुङ्क्ते भुज--क्विप् । वह्नां त्रिका०

समन्तात् अव्य० समन्त + आति । १ समन्ततैत्यर्थे शब्दमा० ।

२ सर्वत्रव्याप्तौ च ।

समन्वित त्रि० सम + अनु + इण--क्त । सङ्गते ।

समपद न० समं पद यस्मिन् । धन्विनां समपदनिवेशनपू-

र्वके “स्थानानि धन्विनां पञ्च” इत्युपक्रम्य “अन्वर्थ-
स्यात् समपदमि” त्युक्ते अवस्थानभेदे अमरः । २
रतिबन्धभेदे पु० “कोषित्पादौ हृदि स्थाप्य कराभ्यां पीड़येत्
स्तनौ । यथेष्टं ताड़येत् योनिं बन्धः समपदः स्मृतः”
रतिमञ्ज० ।

समभिव्याहार पु० सम् + अभि + वि + आ + हृ--घञ् । १

साहित्ये २ पूर्वापरीभावि ३ शेषशेषिवाचकयोः सहोच्चारणे च
मीमांसकाः ।

समभिव्याहृत त्रि० सम् + अभि + वि + आ + हृ--क्त । १ सहिते २ सहोच्चरिते । ३ अव्यवहिते च ।

समभिहार पु० सम् + अभि + हृ--घञ् । १ पौनःपुन्ये क्रिया

सातत्ये २ भृशार्थे मेदि० “क्रियासमभिहारेण विरा-
ध्यन्तं सहेत कः” माघः ।

समम् अव्य० सम--अमु । १ साहित्ये अमरः । २ एकदेत्यर्थे

“सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुः

समय पु० सम + इण--अच् । १ काले २ शपथे ३ आचारे

४ सिद्धान्ते ५ अङ्गीकारे च अमरः । ६ क्रियाकारके
७ निर्देशे ८ सङ्केते ९ भाषायां मेदि० १० सम्पदि ११
नियमे १२ अवसरे हेमच० १३ कालविज्ञाने शब्दच० ।
१३ नियमबन्धे अस्य शब्दस्येदमभिधेयमित्यभिधानाभिधेय-
नियमबन्धे” वात्स्या० १४ शास्त्रे च ।

समया अव्य० सम + इण्--आ । नैकट्ये २ मध्ये च अमरः ।

समयाकार पु० समयस्य सङ्केतस्याकारः । सङ्केते त्रिका० ।

समयाध्युषित न० समयः अध्युषितो यत्र । सूर्य्यतारा-

रहितकाले “तथा प्रभातसमये नष्टे नक्षत्रमण्डले ।
रविर्यावन्न दृश्येत समयाध्युषितञ्च तत्” कर्म० कात्या० ।
“उदितेऽनुदिते चैव समयाध्युषिते तथा” इति मनुः ।

समयाशुद्धि स्त्री ६ त० । कालाशुद्धौ कालाशुद्धिशब्दे दृश्यम्

समर पु० न० सम् + ऋ--आधारे अप् । युद्धे अमरः ।

समरभ रतिबन्धभेदे “स्वजङ्घाद्वयसंयुक्तं कृत्वा योषित्पद-

द्वयम् । स्तनौ धृत्वा रमेत् कामी बन्धः समरभः णृतः”
रतिमञ्जु० ।

समरमूर्द्धन् पु० ६ त० । समरस्याग्रे ।

समर्चन न० सम्यक् अर्च्चनं प्रा० स० । सस्यक्पूजने ।

समर्ण त्रि० सम् + पर्द--क्त । सम्यक्पीड़िते ।

पृष्ठ ५२३०

समर्थ त्रि० सम् + अर्थ--अच् । १ शक्ते २ हिते च अमरः ।

सम्यगर्थः प्रा० स० । ३ प्रशस्ताभीष्टे पु० । सङ्गतीऽर्थो
यस्य प्रा० स० । “समर्थः पदविधिः” पा० परिभाषिते
मङ्गतार्थे समसादौ समासशब्दे दृश्यम् ।

समर्थन न० सम् + अर्थ--ल्युट् । इदमित्थमेवेति निश्चयहेतू-

पन्यासेन निश्चायकव्यापारभेदे अमरः । युच् । तत्र,
अशक्येऽध्यवसाये च स्त्री ।

समर्द्धक त्रि० समर्द्धयति सम् + ऋध--ण्वुल् । इष्टफलदातरि देवादौ अमरः ।

समर्य्याद त्रि० सह मर्य्यादया सहस्य सः । १ सीमायुते

२ समीपे पु० मेदि० ।

समल न० सम्यक् मलम् । १ विष्ठायां शब्दच० । सह मलेन

सहस्य सः । २ कलुषे त्रि० त्रिका० ।

समवतार पु० समबतीर्य्यतेऽनेन सम् + अव + तॄ--घञ् । जलावतरणसोपाने ।

समवर्त्तिन् पु० सम वर्त्तते वृत--णिनि । १ यमे धर्मराजे

अमरः । २ सर्वत्र समभावेन वर्त्तिनि त्रि० ।

समवकार पु० सम् + अव + कॄ--आधारे घञ् । नाटकभेदे

सा० द० उक्तो यथा
“वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् । सन्धयो
निर्विमर्षास्तु त्रयोऽङ्कास्तत्र चादिमे । सन्धी द्वावन्त्य-
योस्तद्वदेक एको भवेत् पुनः । नायका द्वादशोदात्ताः
प्रख्याता देवदानवाः । फलं पृथक् पृथक् तेषां
वीरमुख्योऽखिलो रसः । वृत्तयो मन्दकौशिक्यो नात्र विन्दु
प्रवेशकौ । वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश ।
गायत्र्युष्णिङ्मुखान्यत्र छन्दांसि विविधानि च । त्रि-
शृङ्गारस्त्रिकपटः कार्य्यश्चायं त्रिविद्रवः । वस्तु द्वादश-
नाड़ीभिर्निष्पाद्यं प्रथमाङ्कगम् । द्वितीयेऽङ्के च तिसृ-
भिर्द्वाभ्यामङ्के तृतीयके” । नाड़िका घटिकाद्वयमुच्यते ।
विन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ । तत्र
धर्मार्थकामैस्त्रिविधः शृङ्गारः कपटः पुनः । स्वाभाविकः
कृत्रिमश्च दैवजो विद्रवः पुनः । अचेतनैश्चेतनैश्च चेतना
चेतनौ कृतः” । तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः
अर्थलाभार्थकल्पितः अर्थशृङ्गारः । प्रहसनशृङ्गारः
कामशृङ्गारः । तत्र कामशृङ्गारः प्रथमाङ्क एव । अन्य-
योस्तु न नियम इत्याहुः । चेतनाचेतना गजादयः ।
समवकीर्य्यन्ते बहवोऽर्था अस्मिन्निति समवकारः । यथा
समुद्रमन्थनम्” ।

समवाय पु० सम् + अव--क्षण--अच् । १ समूहे अमरः २

मेलने न्यायोक्ते नित्यद्रव्यादिषु जात्यादीनां ३ संबन्धभेदे च
“घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च
सम्बन्धः समवायः प्रकीर्त्तितः” भाषा० “समवायं दर्शयति ।
घटादीनामिति अवयवावयविनोः जातिव्यक्त्योर्गुणगु-
णिनोः क्रियाक्रियावतोर्नित्यद्रव्यविशेषयोश्च यः सम्बन्धः
स स मवायः समवायत्वं नित्यसम्बन्धत्वं तत्र प्रमाणन्तु
गुण क्रियादिविशिष्टबुद्धिर्विशेषणविशेष्यसम्बन्धविषया
विशिष्टबुद्धित्वात् इत्यनुमाने संयोगादिबाधात् समवाय-
सिद्धिः । न च स्वरूपसम्बन्धेन सिद्धसाधनम् अर्थान्तरं
वा, अनन्तस्वरूपाणां सम्बन्धत्वकल्पने गौरवात् लाथवा-
देकममवायसिद्धिः । न च समवायस्यैकत्वे वायौ
रूपवत्ताबुद्धिप्रसङ्गः तत्र रूपसमवायसत्त्वेऽपि रूपाभावात् ।
न चेवम् अभावस्य वैशिष्ट्यं सम्बन्धान्तरं सिध्येदिति
वाच्यं तस्य नित्यत्वे भूतले घटानयनानन्तरमपि
घटाभावबुद्धिप्रमङ्गात् घटाभावसम्बन्धस्य तत्र सत्त्वात् तस्य
नित्यत्वात् अन्यथा देशान्तरेऽपि तत्प्रतीतिर्न स्यात्
वैशिष्ट्यस्य च तत्र सत्त्वात्, मम तु मते घटे पाकरक्तता-
दशायां श्यामरूपस्य नष्टत्वान्न तद्वत्ताबुद्धिः । वैशिष्ट्यस्या-
नित्यत्वे त्वनन्तवैशिष्ट्यकल्पने तवैव गौरवम् इत्थञ्च
तत्तत्कालीनतत्तद्भूतलादिकं तत्तदभावानां सम्बन्धः” ।
अयुतसिद्धयोः सम्बन्धः स इति वैशेषिकाः स च सम्बन्धो
नाना नित्यश्चेति नव्यनैयायिकाः प्राभाकराश्चाहुः ।
समवायश्च प्रत्यक्षः “प्रत्यक्षं समवायस्य विशेषणतया भवेत्”
भाषा० । अतीन्द्रियोऽनुमेयश्चेति वैशेषिकाः, स्वरूपस्यैव
सम्बन्धत्वोपपत्तेः समवायो न पदार्थान्तरमिति भाट्टाः ।

समवायिजनक न० कारणभेदे “यत् समवेतं कार्य्यं भवति

ज्ञेयं तु समवायिजनकं तत्” “समवायिकारणत्वं द्रव्यस्यैव
विज्ञेयम्” भाषा० । इदमेव उपादानकारणमिति
साङ्ख्यावेदान्तिनश्चाहुः ।

समवायिन् त्रि० समवायोऽस्त्यत्र । समवायसम्बन्धानुयोगिनि

यथा घटादीनां कपालादि गुणक्रिययोर्द्रव्याणि ।

समवेत त्रि० सम् + अव--इण--क्त । १ मिलिते २ समूहान्विते

न्यायोक्तेन समवायसम्बन्धेन ३ स्थिते च ।

समशनीय पु० सम्यगशनाय हितं छ । विवाहोत्तरं दम्पत्योः

सम्यगशनाय विहिते स्थालीपाके” तद्विधानादि सं० त०
गोभिलोक्तं यथा “श्वोभूते वा समशनीयं स्थालीपाकं
कुर्वीत” “यदि विवाहे यज्ञादिना महानिशा भूता तदा
तत्परदिने सम्यगशनार्थं क्रियते इति सम्यगशनीयं
स्थालीपाकं कुर्वीत” रघु० । तद्धोमविधानादि तत्रं दृश्यम् ।
पृष्ठ ५२३१

समष्टि स्त्री सम् + अश--व्याप्तौ क्तिन् । १ सम्यग्व्याप्तौ २

समस्ततायाञ्च । कर्त्तरि क्तिच् । ३ संघीगूते समस्ते पदार्थे
वेदान्तसा० “समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् ।
तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टिसंज्ञया” पञ्चद० ।

समष्ठि(ष्ठी)ल पु० समं तिष्ठिति स्था--इलच् पृषो० षत्वं वा

दीर्घः । (गुँड़िया) शाके अमरः ।

समसन न० सम् + अस--ल्युट् । १ समासे २ संक्षेपे अमरः ।

समसूत्रपातन्याय पु० न्यायभेदे समतया सूत्रस्य पातने

यस्य तल्लग्नत्वमेवमुपर्य्यधःस्थितानां ग्रहाणां तत्सूत्र-
संलग्नैकदेशकालावच्छेदेन सहावस्थानं येन ज्ञाप्यते तादृशे
न्याये “परः सन्निकर्षश्च उपर्य्यधोभावापन्नसमसूत्रपातन्या-
येन राश्येकांशवच्छेदेन सहावस्थानरूपः” ति० त० रघु० ।

समस्त त्रि० सम् + अस--क्त । १ संक्षिप्ते २ सकले अमरः ।

३ व्याकरणोक्ते कृतसमासे शब्दभेदे च ।

समस्थ त्रि० समं तिष्ठति स्था--क । समभावेन तुल्यतया स्थिते

समस्थली स्त्री कर्म० । अन्तर्वेदिदेशे हेमच० ।

समस्या स्त्री समस्यते संक्षिप्यतेऽनया सम् + अस--करणेक्यप् ।

संक्षेपेण उक्तस्य श्लोकपादादेः परकृतेन स्वकृतेन वा अव
शेषेण भागान्तरेण संघटनार्थं कृते पश्ने अमरः ।

समा स्त्री समयति विकलयति भावान् सम--अच्--टाप् ।

वत्सरे अमरकृतास्य नित्यबहुवचनान्तताङ्गीकृता पाणि-
निना तु “समांसमां विजायते” इति सूत्रे एकवचनान्तता
निर्दिष्टा ।

समांसमीना स्त्री समां समां विजायते प्रसृते ख नि० अत्र

समांसमामित्यत्र कालाधारे द्वितीया । प्रतिवर्षं प्रसू-
तायां गवि अमरः ।

समाकर्षिन् पु० सम् + आ + कृष--णिनि । १ अतिदूरगामिनि

गन्धे अमरः । २ सम्यगाकर्षणकर्त्तरि त्रि० स्त्रियां ङीष् ।

समाख्या स्त्री समाख्यायतेऽनया सम् + आ + ख्या--अङ् ।

१ कीर्त्तौ अमरः २ संज्ञायाञ्च । ३ योगेनार्थबोधने “स्थानं
क्रमो योगबलं समाख्या” शास्त्रदीपिका ।

समाघात पु० समाहन्यतेऽत्र सम् + आ + हन--आधारे घञ् ।

१ युद्धे अमरः । भावे घञ् । २ सम्यगाथाते च ।

समाज पु० सम् + अज--घञ् न वीभावः । पशुभिन्नानां १ समूहे

अमरः । २ सभायां हेमच० ३ हस्तिनि नानार्थकोषः ।

समादान न० सम् + आ + दा--भावे ल्युट् । १ सम्यगादाने

कर्भणि ल्युट् । २ बौद्धानां निजकर्मणि मेदि० ।

समाधा स्त्री सम् + आ + धा--अङ् । १ निष्पत्तौ २ विवादभञ्जने

२ पूर्वपक्षस्य सम्यगुत्तरानुगुणसिद्धान्तानुकूलतर्कादिना
सम्यगर्थावधारणे च । ल्युट् । समाधानमप्यत्र न० । तच्च
ध्येयवस्तुनि चित्तस्य निरन्तरस्थापनरूपे समाधौ च ।

समाधि पु० सम् + आ + धा--कि । १ समाधायां ध्येयवस्तुनि

एकाग्रतया मनसःस्थापनरूपे २ ध्यानभेदे २ वचनाभावे
४ नियमे च अमरः । ध्यानभेदश्च समाधिः यथोक्तं पात०
सू० “तत्र प्रत्ययैकतानता ध्यानम्” सू० “तस्मिन् देशे
ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशप्रवाहः प्रत्ययान्त-
रेणापरामृष्टो ध्यानम्” भा० “तदेवार्थमात्रनिर्भासं स्वरू-
पशून्यमिव समाधिः” सू० “ध्यानमेव ध्येयाकारनिर्भासं
प्रत्ययात्मकेन स्वरूपेण शृन्यमिव यदा भवति ध्येयस्व-
भावावेशात्तदा समाधिरित्युच्यते” भा० “व्यानसाध्यं
समाधिं लक्षयितुं व्याचष्टे ध्यानमेवेति । ध्येया-
कारनिर्भासमिति ध्येयाकारस्य निर्भासो न ध्याना-
कारस्येति अतएवाह शून्यमिति । ननु शून्यं चेत्
कथं ध्येयप्रकाशक इत्यत आह इवेति । अत्रैव हेतु-
माह ध्येयस्वभावावेशादिति । अत्रापि पुराणम् “तस्यैव
कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननि-
ष्पाद्यं समाधिः सोऽभिधीयते” इति । ध्येयात् ध्यानस्य
भेदकल्पना तद्धीनमित्यर्थः” विवर० ।
एकाग्रतात्मकसमाधिलक्षणं पुराणान्तरोक्तं यथा
“नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् । तुरीय-
मक्षरं ब्रह्म अहमस्मिपरं परं पदम् । अहंब्रह्मेत्यव-
स्थानं समाधिरिति गीयते” गारुड़े ४४ अ० । “द्वादश-
ध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः । तुष्येत संयतो
मुक्तः समाधिः सोऽभिधीयते । ध्येयमेव हि सर्वत्र
ध्याता तल्लयतां गतः । पश्यति द्वैतरहितं समाधिः
सोऽभिधीयते” २४० अ० । “इमं गुणसमाहारमनात्मत्वेन
पश्यतः । अन्तःशीतलता यस्य समाधिरिति कथ्यते”
योगवाशिष्ठे उपशमप्रक० । ५ अर्थालङ्कारभेदे अलङ्का-
रशब्दे ४०६ पृ० दृश्यम् । ६ इन्द्रियनिरोधे शब्दर० ।
७ काव्यगुणभेदे मेदि० “श्लेषः प्रसादः समता माधुर्य्यं
सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ।
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ।
एषां विपर्य्ययः प्रायो दृश्यते गौड़वर्त्मनि” काव्याद०
तस्यौजस्यन्तर्भावः सा० द० उक्तो यथा “श्लेषः समाघिरौ-
दार्य्यं प्रसाद इति ये पुनः । गुणश्चिरन्तनैरुक्ता
ओजस्यन्तभवन्ति ते” । समाधिरारोहावरोहक्रमरूपः ।
पृष्ठ ५२३२
आरोह उत्कर्षः । अवरोहीऽप्रकर्षस्तयोः क्रमो
वैरस्यानावहो विन्यासः । यथा “चञ्चद्भुजेत्यादि” । अत्र
पादत्रये क्रमेण बन्धस्य गाढ़ता । चतुर्थपादे त्रपकर्षः” ।

समाध्मात त्रि० सम् + आ + ध्मा--क्त । १ सम्यग्गर्विते २ सम्य-

कशब्दिते च ।

समान त्रि० सममानयति अन--अण् । १ तुल्ये २ साधौ ३ एक०

स्मिन्नित्यर्थे “समानतन्त्रसिद्धः” गौत० “यत्समानाधि-
करणे ति चिन्तामणिः । सम् + अन--णिच् । भुक्तान्नादेः
समीकरणे नाभिदेशस्थे प्राणादिपञ्चकान्तर्गते ४ वायुभेदे पु०

समानविभक्तिक त्रि० समानाविभक्तिर्यस्मात् कप् । स्वप्रकृ-

तिविभक्तिसजातीयविभक्तिके पदे साजात्यञ्च प्रथमात्वादा
दिना । तेन वेदाः प्रमाणमित्यादौ समानविभक्तिकत्वम् ।

समानविषयक त्रि० समानो विषयो यस्य णप् । तुल्यरूप-

विशेष्यविशेषणताशालिति ज्ञाने स च समाननिसूप्यनिरू-
पकभावापन्नविषयताशाली बोधः समानाकारकोऽप्यत्र ।

समानाधिकरण त्रि० समानमेकमधिकरणं यस्य । एकाधि-

१ करणवृत्तिके स्वाधिकरणवृत्तिमति पदार्थे । २ विभिन्नवि-
भक्तिराहित्ये सति अभेदेनैकाथबोधजनकत्वयुते पदे च
लटः शतृशानचावप्रथमासमानाधिकरणे” पा० लटोऽपि
प्रथमासामाधिकरण्य विभिन्नविभक्तिराहित्याद्बोध्यम् ।
“समानाध्रिकरणस्तत्पुरुषः कर्मधारयः” पा० ।

समानाशौच न० कर्म० । अघवृद्धिकालाभ्यां तुल्ये अशौचेयथा

सपिण्डजननाशौचतुल्यं सपिण्डान्तरजनाशौचम् एवं
त्रिरात्राङ्गास्पृश्यत्वसहितसपिण्डमरणाशौचतुल्यं
तथाविधसपिण्डान्तरमरणाशौचं, जननमरणाशौचयोर्न
तुल्यता नापि स्नानापनेयाङ्गास्पृश्यत्वयुक्तपुत्रजननाशौचेन
सपिण्डजननाशौचस्य तुल्यता न वा यावदशौचाक्षा-
रलवणान्नाशितायुक्तमहागुरुभरणाशौचस्य सपिण्डम-
रणाशौचस्य तुल्यता ।

समानोदक पु० समानमेकं तर्पणादौ देयमुदकं यस्य ।

“समानोदकभावस्तु निवर्त्तेता चतुर्दशात्” इत्युक्ते एकादशा-
वधिचतुर्दशपुरुषपर्य्यन्ते ज्ञातिर्भदे सपिण्डशब्दे दृश्यम् ।

समानोदर्य्य पु० समाने उदरे भवः यत् वा न सादेशः ।

१ एकोदरजभ्रात्रादौ २ भगिन्या खी अमरः ।

समाप पु० सम्यक आपोयत्र अच् समा० नि० । देवयजनस्थाने सि० कौ० ।

समापन न० सम + आप--ल्युट् । १ समाप्तौ चरमकाल-

सम्बन्धे २ परिच्छेदे ३ बधे च मेदि० ४ समाधाने विश्वः ।
५ लब्ध धरणिः ।

समापन्न त्रि० सम् + आ--पद--क्त । १ समाप्ते २ प्राप्ते ३ क्लिष्ठे

४ बधे च विश्वः । भावे क्त । ५ समाप्तौ न० ।

समाप्त त्रि० सम् + आप--क्त । १ अवसानप्राप्ते २ सम्यक्प्राप्ते च

समाप्तपुनरात्तता स्त्री समाप्ते वाक्यसमाप्तौ पुनरात्तता

ग्रहणम् । क्रियान्वयेन निवृत्ताकाङ्क्षस्य विशेष्यवाचक-
पदस्य विशेषणान्तरार्थान्वयार्थं पुनरुच्चारणरूपे काव्यदो-
षभेदे दोषशब्दे ३७६४ पृ० दृश्यम् ।

समाप्ताल पु० समाप्ताय अलति पर्य्याप्नोति अल--अच् । पत्यो

संक्षिप्तसा० ।

समाप्ति स्त्री सम् + आप--क्तिन् । १ अवहाने २ समर्थने मेदि० । ३ प्राप्तौ शब्दच० ।

समायोग पु० सम् + आ + युज--घज् । १ संयोगसमवायरूपा-

दिसम्बन्धे “कृषेर्वृष्टिसमायोगादिति” पुराणम् । २ प्रयो-
जने मेदि० ।

समालम्बिन् पु० समालम्बते सम् + आ + लवि--णिनि ।

भूतृणे राजनि० । २ समालम्बनकर्त्तरि त्रि० ।

समालम्भ पु० सम् + आ + लभ--घञ् मुम् च । कुङ्कुमादिना

गात्रलेपने अमरः । ल्युट् । तत्रैवार्थे न० ।

समावर्त्तन न० समावर्त्तते गुरुकुलादनेन सम् + आ +

वृतकरणे ल्युट् । वेदाध्ययनानन्तरं गार्हस्थ्याय गुरुकुला-
दागमनहेतुके संस्कारभेदे तद्विधिः संस्कारतत्त्वे गोभि-
लोक्तो दृश्या ।

समाविष्ट त्रि० सम् + आ + विश--क्त । १ युक्ते २ मनोऽभिनि-

वेशयुते अभीष्टकर्त्तव्यकर्मणि चित्तैकाग्र्यविशेषयुक्ते च ।

समावृत्त पु० सम् + आ + वृत--क्त । कृतसमावर्त्तनसंस्कारे

“अतःपरं समावृत्तः कुर्य्याद्दारपरिग्रहम्” याज्ञ० ।

समावेश पु० सम् + आ + विश--घञ् । १ बहूनामर्थानामेकत्र

वाक्यादौ व्यवस्थापने २ कर्त्तव्येऽभिनिवेशे च ।

समावेशित त्रि० सम् + आ + विश--णिच्--क्त । कृतसमावेशने

समास पु० सम् + अस--घञ् । १ संक्षेपे २ समर्थने मेदि० ।

३ समाहारे ४ व्याकरणोक्ते द्व्यादिपदानामेकपदतासम्पादके
पदसाधुतार्थके ५ संस्कारभेदे च यथा “समर्थः पदविधिः”
पा० “समर्थः संसृष्टार्थः सङ्गतार्थ इति यावत् । साम
र्थ्यञ्च द्विविघम् व्यपेक्षावत्त्वमेकार्थीभावश्च । तत्र स्वार्थव-
र्य्यवसायिपदानामाकाङ्क्षादिवशात् यः परस्परं सम्बन्धः सा
व्यपेक्षा । राज्ञः पुरुषैत्यादौ वाक्ये सत्यामाकाङ्क्षायां
यो यो यस्मिन् सन्निहितो योग्यश्च स तेन तेन सम्ब-
ध्यते यथा राज्ञः पुरुषोऽश्वश्च राज्ञो देवदत्तस्य च पुरुषः
ऋद्धस्य राज्ञोऽश्वो धनञ्चेत्यादि । वृत्तौ तु नैवम् वृत्तीना-
पृष्ठ ५२३३
मेकार्थीभावात् । एकार्थीभावश्च विशेष्यविशेषणभावाव-
नाह्येकोपस्थितिजनकत्वम् । तथा च राजपुरुषादिश-
ब्देन विशिष्टैकार्थबोधकतया न तदैकदेशे ऋद्धादेरन्वयः
पुरुषांशे विशेषणतयोपस्थितस्य नाश्वादिसम्बन्धिता
राजादीनाम् जनितान्वयाच्च निराकाङ्क्षतया न देवदत्तादेः
स्वामितया पुरुषादावन्वय इति द्रष्टव्यम् । देवदत्तस्य
गुरुकुलमित्यादौ देवदत्तादेस्तु प्रधानीभूतकुलादिनैवान्वयः
सम्बन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः यथोक्तं हरिणा
“समुदायेन सम्बन्धो येषां गुरुकुलादिना । संस्पृशाव-
यवास्ते तु युज्यन्ते तद्वता सह” इति । यद्वा सम्बन्धि-
शब्दार्थस्य पदार्थैकदेशत्वेऽपि भवत्येव केषाञ्चित् सम्ब-
न्धान्वयः तदुक्तं तेनैव “सम्बन्धिशब्दः सापेक्षो नित्यं
सर्वं समस्यते । वाक्यवत् सा व्यपेक्षापि वृत्तावपि न
हीयते” । अतएव वार्त्तिककृता “सविशेषणानां वृत्तिर्न
वृत्तस्य वा विशेषणं न प्रयुज्यत इति वक्तव्यमिति”
सामान्यतो वृत्तिमतो विशेषणस्य स्वातन्त्र्येण प्रयोगाभाव-
मभिधाय “अगुरुकुलपुत्रादीनां वक्तव्यम्” इत्यनेन गुरु-
कुलगुरुपुत्रादीनां विशेषणत्वेऽपि पृथक्प्रयोगाय नञा
पर्युदासः कृतः । समानाधिकरणविशेषणस्य तु “समा-
नाधिकरणमसमर्थवद्भवतीत्यनेन सर्वथा स्वातन्त्र्येण
सामर्थ्याभावात् प्रयोगाभावो भङ्ग्याऽभिहितः ।
एतन्मूलकमेव प्राचां गाथा “सापेक्षे प्रत्ययो न स्यात्
समासो वा कथञ्चन । सापेक्षं तद्विजानीयादसमस्तवि-
शेषणम् । प्रतियोगिपदादन्यत् यदन्यत् कारका-
दपि । वृत्तिशब्दैकदेशस्य सम्बन्धस्तेन नेष्यते” इति ।
अत्रायं विशेषः भवति प्रघानस्य सापेक्षत्वेऽपि समास
इत्युक्तेः प्रधानस्य वृत्त्युपस्थाप्यविशेष्यस्य राजपुरुषादेः
सुन्दरादिविशेषणापेक्षायामपि समासः । समासे
चावयवशक्त्यैव तत्तदर्थपदार्थोपस्थित्या विशेष्यविशेषणभावा-
द्यभ्युपगमे सापेक्षत्वादौ समासाभावादिकं वाचनिकं
कल्प्यम् तथान्याप्यधिककल्पना स्यादतः समुदायशक्ति-
कल्पनम् यथोक्तं हरिणा “बहूनां वृत्तिधर्माणां वचनैरेव
साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः ।
चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्त्तव्यं ते
न्यायसिद्धं त्वस्माकं तदिति स्थितमिति” । तथाहि
द्वणादिविग्रहवाक्ये चकारादि प्रयुज्यते समस्ते तु न
तत्र वचनैरेव तन्निषेधः कल्पनीयः समुदायशक्तिपक्षे तु
उक्तार्थानामप्रयोग इत्युक्तन्यायादेव सिद्धम् । नामार्थयो-
रमेदान्वयः कॢप्तः स च राजपदादुपस्थापितराजादेः
पुरुषे स्वस्वामिभावसम्बन्धेनान्वये परित्यक्तः स्यात् ।
सम्बन्धलक्षणायान्तु किमपराद्धम् विशिष्टलक्षणया ।
प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानमिति नियमश्च कॢप्तः
स च प्राप्तानन्दादौ भज्येत आनन्दकर्तृकप्राप्तिकर्मेत्यर्थ-
बोधस्योभयसम्मतत्वेन कर्तृविहितक्तान्तार्थस्य कर्त्तुर्विशेष्य
तौचित्येन प्रकृते तद्वैपरीत्यात् आनन्दसम्बन्ध्यादिलक्ष-
णास्वीकारे समुदायशक्तिपक्षे एव प्रवेशः । तथा प्राप्त
आनन्दो यमिति विग्रहे आनन्दादौ अत्यन्तादिविशेषण-
योगवत् समासे तद्वारणाय वृत्तस्य न विशेषणयोग इति
वाचनिकत्वकल्पनाऽधिका एतन्मते न्यायसिद्धा इत्यादि
बहुविप्लवापत्तिरतः समुदाये शक्तिरित्यन्यत्र विस्तरः ।
वार्त्तिककृता तु अवश्यं कस्यचित् नञ्समासस्यासमर्थ-
समासस्य गमकस्य साधुत्वं वक्तव्यमित्युक्तत्वात् असूर्यम्-
पश्येत्यादौ असमर्थेन नञा बाणेन हतमारीचो राम
इत्यादौ वाणादेर्विग्रहार्थस्य गमकवृत्तौ सापेक्षत्वेऽपि
तदर्थबोधकतयैव समास इति द्रष्टव्यम्” मत्कृतसरला
“पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः” सि० कौ०
“पदस्य पदयोः पदानां वा विधिः पदविधिरिति
वचनविशेषस्याविवक्षितत्वं द्योतयन्नाह पदसम्बन्धीति । तत्र
पदेति किम् वर्णाश्रये कार्य्येऽसमर्थेऽपि यथा स्यात् तथा
च तिष्ठतु दधि आनयान्नमित्यत्र दध्यानयेति पदयोः
सामर्थ्याभावेऽपि वर्णाश्रयं यणादिकं भवत्येव । मूत्रे
समर्थपदं साक्षणिकमिति द्योतयन्नाह समर्थाश्रित इति
समर्थेति किं पश्यति कृष्णं श्रितो राममित्यादौ समासो
मा भूत् वस्त्रं कृष्णस्य अपत्यं देवदत्तस्येत्यादौ मा भूच्च
कृष्णशब्दादपत्यार्थकतद्धितः । इयञ्च परिभाषा समासकृत्-
तद्धितादिवृत्तिमात्रे प्रवर्त्तते इति बोध्यम्” मत्कृतसरला ।
स च समासः षड्विधः ।
“सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा ।
सुबन्तेनेति च ज्ञेयः समासः षड्विघो बुधैः” (सुपां
सुपा) पदद्वयमपि सुबन्तम् । राजपुरुष इत्यादिः ।
(सुपां तिङा) । पूर्वषदं सुवन्तमुत्तरं तिङन्तम् । पर्य्य-
भूषयत् । “गतिमतोदात्तवता तिङापि समासः” इति
वार्त्तिकात् समासः । (सुपां नाम्ना) कुम्भकार इत्यादि ।
“उपपदमतिङि” ति समासः । स च “गतिकारकोपपदानां
कृद्भिः समासवचनं पाक् सुबुत्पत्तेरिति” परिभाषया
भवति सुबुत्पत्तेः प्राक् । अत्रोत्तरपदे सुबत्पत्तेः प्रागि-
पृष्ठ ५२३४
त्यर्थः । अन्यथा चर्मक्रीतीत्यादौ नलोपानुपपत्तेः ।
(सुपां धातुना) उत्तरपदं धातुमात्रं न तिङन्तम् ।
कटप्रूः आयतस्तूः । “क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजु-
श्रीणां दीर्घश्चेति” वार्त्तिकात् समासः । “तिङां तिङा”
पिवतखादता । पचतभृज्जतेत्यादि । “आख्यातमाख्या-
तेन क्रियासातत्ये” इति मयूरव्यंसकाद्यन्तर्गणसूत्रात्
समासः “तिङां सुवन्तेन” पूर्वपदं तिङन्तमुत्तरं सुबन्तम् ।
जहिस्तम्बः । “जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्त्तार-
ञ्चाभि दधातीति” मयूरव्यं सकाद्यन्तर्गणसूत्रात् समासः ।
अयं षड्विधोऽपि समास, “सह सुपा” इत्यत्र योगवि-
भागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ । स्वयं
भाष्यादिसिद्धतद्भेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभाग-
स्याव्याप्त्यादिभिस्तल्लक्षणस्य प्रायिकत्वं दर्शयति” ।
“समासस्तु चतुर्द्धेति प्रायोवादस्तथाऽपरः । योऽयं पूर्व-
पदार्थादिप्राधान्यविषयः स च । भौतपूर्व्यात् सोऽपि
रेखागवयादिवदास्थितः” । चतुर्धा अव्ययीभावतत्पुरुष-
द्वन्द्वबहुब्रीहिभेदात् । अयं प्रायोवादः । भूतपूर्वः
दृन्भूः अयतस्तूः वागर्थाविवेत्याद्यसंग्रहात् । तथा पूर्व-
पदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः
सर्वपदार्थप्रधानो द्वन्द्वः । अन्यपदार्थप्रधानो बहुव्रीहि-
रित्यादि लक्षणमपि प्रायिकम् । उन्भत्तगङ्गं सूपप्रति
अर्द्धपिप्पली द्वित्राः कुशपलाशमित्यादौ परस्परव्यभि-
चारात् । तथाहि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थ-
प्रधान्याद्बहुब्रीहिलक्षणातिव्याप्तिरव्ययीभावलक्षणाव्या-
प्तिश्च । “अन्यपदार्थे च संज्ञायामिति” पा० समासः ।
सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात् तत्पुरुषलक्ष-
णातिव्याप्तिरव्ययीभावाव्याप्तिश्च । “सूपः प्रतिना
मात्रार्थे” पा० समासः । अर्द्धपिप्पलीति तत्पुरुषे पूर्व-
पदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च
“अर्द्धं नपुंसकमिति” पा० समासः । एवं पूर्वकाय
इत्यादौ द्रष्टव्यम् । द्वित्रा इति बहुव्रीहावुभयपदार्थ-
प्राधान्यात् द्वन्द्वातिव्याप्तिः बहुव्रीह्यव्याप्तिश्च । शशकुशप-
लाशमित्यादिद्वन्धे समाहाराव्यपदार्थप्राधान्याद्वहुव्रीह्य-
तिव्याप्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति भावः । सिद्धान्ते त्वव्ययी-
मावाधिकारपठितत्वमव्ययीभावत्वमित्यादि द्रष्टव्यम् ।
असम्भवश्चैषामित्याह भौतपूर्व्यादित्यादि । रेखागवया-
दिनिष्ठलाङ्गूलादेर्वास्तवपश्वलक्षणत्ववदेतेषामपि न समास-
लक्षणत्वम् । बोधकता तु तद्वदेव स्यादिति भावः” वैया० ।
शब्दशक्तिप्रकाशिकायाम् अन्यथा समासलक्षणादिकमुक्तं
यथा “यादृशस्य महावाक्यत्यान्तस्त्वादिर्निजार्थके । यादृ-
शार्थस्य धीहेतुः स समासस्तदर्थकः” । “यादृशमहावाक्यो-
त्तरस्त्वतलादिः स्वार्थस्य यादृशार्थावच्छिन्नविषयताशालि-
बोधे हेतुस्तावृशं तद्वाक्यं तथाविधार्थे समासः ।
पाचकादिकन्तु पाककर्त्राद्यर्थकं वाक्यमपि स्वघटकालेकनामल-
र्भ्यतादृशार्थकत्वविरहान्न महावाक्यं प्रकृत्यर्थमात्रावच्छि-
न्नप्रत्ययार्थस्यान्वयबोर्ध प्रत्ययोग्यत्वं वा प्रकृते वाक्यस्य
महत्त्वं वाच्यं तेन उपकुम्भादौ नाव्याप्तिर्न वा
नीलघटत्वत्वमित्यादौ नीलघटत्वादिभागेऽतिप्रसङ्गः । क्षीर-
पायीत्यादिकस्तु प्रकृत्यर्थावच्छिन्नकृदर्थस्यान्वयबोध समर्थो
ऽपि न प्रकृत्यर्थमात्रावच्छिन्नस्य ततः पानशीलसामान्य-
स्याप्रत्ययात् । राजन्येव पुरुषभावः प्रतीयते न तु
राजपुरुषस्य भावः तद्धितानां प्रकृत्यर्थमात्रान्वितस्वार्थबोधक-
त्वादतो राज्ञः पुरुषेत्यादिभागे न प्रसङ्गः । पायं
पायमित्यादिणमन्तभागस्तु स्वार्थावच्छिन्नस्य धात्वन्तरार्थ-
स्यैवान्वयबोधको न तु त्वादिप्रत्ययार्थस्य प्रस्थायेत्यादौ
समासव्यपदेशोल्यवादिशब्दसंस्कारप्रयोजनको गौणः”
विभजते “स चायं षड्विधः कर्मधारयादिप्रभेदतः ।
यश्चोपपदसंज्ञोऽन्यस्तेनासौ सप्तधा मतः । “स चार्यः
निरुक्तसमासः कर्मधारयद्विगुतत्पुरुषाव्ययीभावबहुव्री-
हिद्वन्द्वभेदात् षड्विधः यश्च कुम्भकारादिरप्युपपदसंज्ञकः
समासोऽस्ति तेन समं समासः सप्तविधः । सङ्काशनिभ-
नीकाशादीनामिव कारादीनामपि शब्दानामुपपदार्था-
न्वितस्यैव स्वार्थस्य बोधकतया तथाविधनामान्तत्वमेव
चैतस्य समासान्तराद्विशेषः । ननु यदि षड्विधः सप्त०
विधो वा समासस्तदास्य पञ्चविधत्वोक्तिः प्राचामसङ्गतेत्यत-
स्तामुपपादयति” । “पूर्वमध्यान्तसर्वान्यपदप्राधान्यतः
पुनः । प्राच्यैः पञ्चविधः प्रोक्तः समासो वाभटादिभिः ।
“कश्चित्समासः पूर्वपदार्थधर्मिकान्वयबोधजनकतया पूर्व-
पदप्रधान उच्यते यथा प्राप्तजायार्द्धपिप्पलीपूर्वकायादि-
कस्तत्पुरुषः यथा वा उपकुम्भाद्यव्ययीभावः पुरुषसिं-
हादिकर्मधारयश्च । कश्चिन्मध्यपदार्थधर्मिकधीजनकतयैव
मध्यपदप्रधानो यथा पटानधिकरणप्रतियोगिताभवच्छेद-
केत्यादिकस्तत्पुरुषः पटस्य नाधिकरणमित्यादिविग्रहे
मध्यपदार्थस्यैव विशेष्यत्वात् बहुपदे बहुव्रीहिरेवेत्यस्त
तत्पुरुषादेर्बहुनामगर्भत्वाभावे तात्पर्य्यमित्यग्रे व्युत्पाद्य-
त्वात् । कश्चिदन्त्यपदार्थधर्मिकधीहेतुत्वादन्त्यपदप्रधानः
पृष्ठ ५२३५
यथा राजपुरुषादिकस्तत्पुरुषो नीलोत्पलादिकः कर्मधा-
रयो द्विगार्ग्यादिरव्ययीभावश्च । कश्चित् सर्वपदार्थधर्मि-
कबुद्धिहेतुत्वात् सर्वपदप्रधानः यथेतरेतरद्वन्द्वो द्वन्द्वमात्रं
वा । कश्चित् स्वघटकान्यपदार्थधर्मिकज्ञानजनकत्वादन्य-
पदार्थप्रधानः यथा बहुव्रीहिः स्वलेयवाद्यव्ययीभावञ्च ।
तदेवं पञ्च भेदानादायैव पञ्चविधत्वं प्राच्यैरुक्तमतो न
विरोधः । नित्यानित्यभेदेन समासस्य द्वैबिध्यमप्यस्ति
यदुक्तं जयादित्येन “विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु ।
स्वार्थस्याबोधवोधाभ्यां नित्यानित्यौ समासकाविति ।”
स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण यल्लभ्यार्थस्थाबोधः
स नित्यः समासः यथा कृष्णसर्पनिर्मक्षिकासुराढ़िः कृष्णः
सर्पो मक्षिकाया निः न सुर इत्यादितस्तल्लभ्यस्य वैजा-
जात्यादेरग्रहात् । यल्लभ्यस्य च बोधः सोऽनित्यो यथा
राजपुरुषपूर्वकायादिः तल्लभ्यार्थस्य राज्ञः पुरुषः पूर्वं
कायस्येत्यादिवाक्यादपि प्रतीतेः । स्कुरद्वाणी चलच्चैत्र
इत्यादिकः कर्मधारयोऽप्यनित्य एव समासः स्फुरन्ती
वाणीत्यादिविग्रहस्य वाण्यादौ स्फुरदादिविधेयकबोधा-
जनकत्वेऽपि स्फुरदभिन्नवाण्यादावेकत्वादिबोधकत्वमादा-
यैव तदर्थप्रकाशकत्वात् स्फुरन्तीं बाणीमित्यादिवाक्य-
स्यैव तत्र विग्रहत्वसम्भवाच्च । विग्रह एव समासलभ्यार्थस्य
मोधकत्वं तन्त्रं न तु समासे विग्रहार्थस्य । विग्रहलभ्य-
योर्लिङ्गसङ्ख्ययोर्व्यञ्जकवैधुर्य्येण प्रायशः समासाबोध्य-
त्वात् । अतएव यत्र समासे तयोर्व्यञ्जकसद्भावस्तत्राव-
नमोऽपि यथा जरतीचित्रगुर्जनः प्रियतिसा पुरुष
इत्यादौ स्त्रीत्वस्य स्त्रीप्रत्ययतिस्नादेशयोस्तदभिव्यञ्जकयोः
सत्त्वात् तथा अक्षपरि प्रिययुवा हस्त्यश्वमित्यादावेक
त्वादेः अक्षशलाकयारेकत्व एवान्ययीभावस्य युष्मदस्मदो-
र्द्वित्व एव युवाद्यादेशस्य सेनाङ्गानां बहुत्व एव
समाहारद्वन्द्वस्य विधानात् । तदुक्तमभियुक्तैः “लङ्ख्या तु
व्यञ्जकाभावादव्यक्ता प्रातरादिवत् । यत्र तु व्यञ्जक
किञ्चित्तत्र सङ्ख्या प्रकाशते । शलाकापरि हस्त्यश्वं पूर्व-
कायोऽर्द्धपिप्पलीति” । पूर्वादेरर्द्धस्य च ङसर्थैकत्वमन्त-
र्भाव्यैवावयविना तत्पुरुषस्य व्युत्पन्नत्वात् सरसिजादौ
कण्ठेकालादौ चालुक् समासे सुपः सङ्ख्यावगमेऽपि
न क्षतिः तत्र व्यञ्जकसुपः सत्त्वेऽपि सङ्ख्या न बुध्यते
इति समानशक्तिवादिनः पातञ्जलाः” । अधिकं तत्र दृश्यम्

समासक्त त्रि० सम् + आ + सन्ज--क्त । १ संयुक्ते २ अत्यन्ता-

सक्ते ३ अभिनिविष्टे च ।

समासङ्ग पु० सम् + आ + सन्ज--घञ् । १ संयोगे २ सम्यगभि-

निवेशे च ।

समासवत् पु० समास + अस्त्यर्थे मतुप् मस्य वः । १ व्याक-

रणोक्तसमासयुक्ते शब्दे २ सक्षेपयुक्ते त्रि० ३ तुन्दवृक्षे
पु० शब्दच० । समासेन तुल्यं वति । ४ समानतुल्यक्रियायां
अव्य० ।

समासादित त्रि० सम् + आ + सद + णिच्--क्त । १ सम्यगाहृते० निकटस्थिते ३ प्राप्ते त्रि० ।

समासान्त पु० ६ त० । व्याकरणोक्तसमासस्य शेषावयवे तत्र-

त्योत्तरविहितविधिश्च अनित्यः “समासान्तविधिरनित्यः”
परिभा० ।

समासार्था स्त्री समासेन संक्षेपेणार्थोऽभिहितीयस्याः ।

१ समम्यायाम् अभरः । ६ त० । २ समासबोध्यार्थे पु० ।

समाहार पु० सम् + आ + हृ--घञ् । १ समुच्चये अमरः २

अनुद्भूतावयवभेदे समूहे समाहारे द्वन्द्वे तु द्वित्वत्रित्वादिनैव
समूहस्य बोधात् समूहत्वमेव प्रवृत्तिनिमित्तम् । द्वन्द्वशब्दे
३७९२ पृ० द्विगुशब्दे च ३८१३ पृ० दृश्यम् ।

समाहारद्वन्द्व पु० व्या० उक्ते समासभेदे ३७९२ पृ० दृश्यम् ।

समाहारद्विगु पु० व्या० उक्ते समासभेदे द्विगुशब्दे ३८१३ पृ०

दृश्यम् ।

समाहित त्रि० सम् + आ + धा--क्त । १ कृतसमाधौ २ आहिते

३ प्रतिज्ञाते मेदि० ४ निष्पन्ने धरणिः ५ शुद्धे शब्दच० ।
६ कृतसमाधाने । भावे क्त । ६ समाधाने न० ।

समाहृत त्रि० सम् + आ + हृ--क्त । १ संगृहीते २ एकत्रस्थीकृते ।

समाहृति स्त्री सम् + आ + हृ--क्तिन् । १ संक्षेपे २ समहे

अमरः । ३ समुच्चये च ।

समाह्वय पु० समाहूयते सम् + आ + ह्वे--स्वच् चात्वाभावः ।

१ आह्वाने २ प्राणिकरणकद्यूते च “प्राणिभिः क्रियमा-
णस्तु स विज्ञेयः समाह्वयः” इति मनुः । ३ तदधि-
कारेण प्रवृत्तविवादभेदे च द्यूतशब्दे ३७७४ पृ० दृश्यम् ।

समाह्वा स्त्री समा--आह्वा यस्याः । १ गोजिह्वावृक्षे शब्दच० ।

प्रा० स० । २ समाख्यायाञ्च ।

समिक न० सम्--इण--डि संज्ञायां कन् । शेलास्त्रे (वडशा) शब्दर० ।

समित् स्त्री समीयतेऽत्र सम् + इण्--आधारे क्विप् । युद्धे अमरः

समिता स्त्री सम् + इण्--क्त । १ गोधूमचूर्णभेदे “गोधूभा

धवला धौताः कृट्टिताः शोषितास्ततः । प्रक्षिप्तास्ता
विनिष्पिष्टाश्चालिताः समिताः स्मृताः” राजनि० ।
२ सङ्गते त्रि० ।
पृष्ठ ५२३६

समिति स्त्री सम् + इण--आधारे क्तिन् । १ समायाम् अमरः

२ युद्धे ३ सङ्केते च मेदि० । आर्हतमतसिद्धे प्राणिपीड़ापरि-
हारेण सम्यग्गमने सा च पञ्चविधा अर्हतशब्दे ३८५
पृ० दृश्या ।

समिथ पु० सम + इण--थक् । १ वह्नौ २ युद्धे च सि० कौ० । ३ आहुतौ सक्षिप्तसा० ।

समिध् स्त्रा समिन्धतऽनया सम् + इन्ध--करणे क्विप् । १ काष्ठे

२ होमीयकाष्ठभेदे च तल्लक्षणं छन्दोग० “नाङ्गुष्ठादधिका
नोना समित् स्थूलतया क्वचित् । न निर्मुक्तत्वचा
चैव न मकीटा न पाटिता । प्रादेशान्नाधिका नोना
न तथा स्याद्विशाखिका । न सपत्रा न निर्वीर्य्या हेमेषु
च विजानता” इति । तस्य निषिद्धलक्षणं यथा
“विशीणां विदला ह्रस्वा वक्राः स्थूला द्विधाकृताः ।
कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत्” तत्र दोमो
यथा “विशीर्णायुःक्षयं कुर्य्याद्विदला पुत्रनाशिनी । ह्रस्वा
नाशयते पत्नीं वक्रा बन्धुविनाशिनी कृमिदष्टा
रोगकरी विद्वेषकरणी द्विधा । पशून् मारयते दीर्घा
स्थूला चार्थविनाशनी” तन्त्रसा० ।

समिध पु० समिध्यते सम् + इन्ध--क । १ काष्ठे २ बह्नौ च त्रिका० ।

समिन्धन पु० सम् + इन्ध--करणे ल्युट् । १ काष्ठे शब्दच० ।

भावे ल्युट् । २ सम्यग्दीप्तौ च ।

समीक न० सम--ईकक् । युद्धे अमरः ।

समीकरण न० असमः समः क्रियतेऽनेन सम--च्वि + कृ ल्युट् ।

वीजगणितप्रसिद्धे अज्ञातसंख्यानां यावत्तावदादीनाम-
व्यक्तराशीनां संख्या ज्ञानार्थं १ प्रक्रियाभेदे २ तुल्यरूप-
तापादने च ।

समीक्ष न० सम्यगीक्षतेऽनेन घञ् । १ साङ्ख्यदर्शने त्रिका० ।

भावे घञ् । २ पर्य्यालोचने ३ सम्यग्ज्ञाने च पु० । अ ।
समीक्षाप्यत्र । ४ सत्त्वे ५ बुद्धौ मेदि० ६ मीमांसाशास्त्र
७ यत्ने च स्त्री शब्दच० ।

समीक्ष्यकारिन् त्रि० समीक्ष्य पर्य्यालोच्य करोति कृ--णिनि

उप० । वस्तुस्वरूपपर्य्यालोचनपूर्वककार्य्यकारके ।

समीच पु० सम् + इण--चट् कित् दीर्घश्च । १ संयुक्त २ हरिण्यां

स्त्री ङीप् उज्ज्वलद० । ३ बन्दनायां स्त्री त्रिका० ।

समीचीन त्रि० सम्यग्भवः सम् + अन्च--क्विप् ततः ख समः

समिः अञ्चेरकारलोपे पूर्वपददीर्घः । १ यथार्थे २ साधौ
३ सत्य न० हेमच० । ४ सत्ययुते त्रि० ।

समीनिका स्त्री समां प्राप्य प्रसूते ख ततः स्वार्थे क ।

प्रतिवर्षं प्रसूतायां समांसमीनायां गवि शब्दच० ।

समीप त्रि० सङ्गता आपोऽत्र अच् समा० आत ईत्त्वम् । निकटे अमरः

समीर पु० सम्यक् ईरयति नोदयति सम् + ईर--अच । १ वायौ

अमरः । २ शमीवृक्षे राजनि० । पृषो० । समिरोऽप्यत्र
राजनि० ।

समीरण पु० सम् + ईर--ल्यु । १ वायौ २ मरुवकवृक्षे अमरः

३ पथिके मेदि० । भावे ल्युट् । सम्यगुक्तौ न० ।

समीरित त्रि० सम् + ईर--क्त । १ कथिते २ उच्चारिते “चतु-

र्मुखसमीरिता” कुमारः ।

समीहित त्रि० सम् + ईह--क्त । १ अभीष्टे २ सम्यक्चेष्ठिते न० ।

समुख त्रि० सह मुखन मुखव्यापारेण वा सहस्य सादेशः ।

१ वावदूके हेमच० । २ वाग्मिनि च ।

समुचित त्रि० सम् + उच--क्त । सम्यग् उपयुक्ते समञ्जसे ।

समुच्चय पु० सम् + उद् + चि--अच् । १ द्वित्रादीनां राशौ अमरः

परस्परनिरपेक्षाणामनेकेषामेकस्मिन् ३ क्रियादावन्वये च
यथा देवदत्तो यज्ञदत्तश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोः
परस्परसापेकताभावेऽपि एकस्मिन् गमने अन्वयः ।
तद्वाचकश्च प्रायेण चकारः क्वचित् तथादिशब्दोऽपि ।
३ सहाहारे शब्दच० ।

समुच्चित त्रि० सम् + उद् + चि--क्त । कृतसमुच्चये “समुच्चित-

फलकामनानामि” ति विधिखरूपे गदाधरः ।

समुच्च(च्चा)र पु० सम् + उद् + चर--अप् घञ् वा । सम्यगुच्चा-

रणे २ सम्यक्त्यागे च ।

समुच्छेद पु० सम् + उद् + छिद--घञ् । १ विनाशे २ समूलोत्पाटन च ।

समुच्छ्र(च्छ्रा)य पु० सम् + वद् + श्रि--अच् घञ् वा । १ अत्यु-

न्नतौ २ विरोधे ३ उत्सेधे च मेदि० ।

समुच्छ्रित त्रि० सम् + उद् + श्रि--क्त । अत्युन्नते ।

समुच्छलित त्रि० सम्यक् + उच्छ्वलितम् सम् + उद् + श्वल्--क्त वा ।

समन्तात् विस्तीर्णे (छयलापि) “समुच्छ्वालतबिभ्रमा
गतिः” काव्यप्र० ।

समुच्छ्वसित त्रि० सम् + उद् + श्वस--क्त । १ सम्यगुच्छ्वासयुक्ते २ प्रत्युज्जीविते च ।

समुच्छास पु० सम् + उद् + श्वस--घञ् । मुखनासिकाभ्यां प्रा०

णवायोर्व्यापारे ।

समुज्झित त्रि० सम् + उज्झ--क्त । व्यक्ते अमरः । गुद्गमने ।

समुत्क्रम पु० सम् + ठद् + क्रम--घञ् न वृद्धिः । १ ऊर्द्ध्वगमने २ सम्यगुद्गमने ।

समुत्क्रोश पुंस्त्री० सम्यम् उत्क्रोशति उच्चैः शब्दायते सम् +

उद् + क्रुश--अच् । १ कुररविहगे शब्दच० स्त्रियां ङीष् ।
भावे घञ् । २ अत्युच्चैःशब्दे

समुत्थ त्रि० सम्यगुत्तिष्ठति सम् + उद् + स्था--क सस्य थः । १ सम्यगुत्पन्ने २ उत्थिते च ।

समुत्थान न० सम् + उद् + स्था--करणे ल्युट् मस्य थः ।

१ समुद्योगे २ उत्तालने ३ व्याधिमिर्णये च मेदि० ।
पृष्ठ ५२३७

समुत्पत्ति स्त्री सम् + उद् + पद--क्तिन् । समुद्भवे ।

समुत्पन्न त्रि० सम् + उद् + पद--क्त । ममुद्भूते ।

समुत्पाट पु० सम् + उद् + च० पट--अच् । उन्मूलीकरणे ।

समुत्पाटित त्रि० सम् + उद् + चु--पट--क्त । उन्मूलिते ।

समुत्पिञ्ज त्रि० सम् + उद् + पिञ्ज--अच । १ अत्याकुले हेमच०

२ आकलसैन्ये पु० अमरः ।

समुत्सर्ग पु० सम् + उद् + सृज--घञ् । सम्यक्त्यागे ।

समुत्सुक त्रि० सम्यगुत्सुकः पा० स० । १ अत्यन्तोत्सुके इष्ट-

वस्तुलाभाय त्वरान्विते ।

समुत्सृष्ट त्रि० सम् + उद् + सृज--क्त । सम्यक्त्यक्ते ।

समुत्सेध पु० सम् + उद् + सिध--घञ् । १ अत्युन्नतौ २

अतिस्फीततायाञ्च ।

समुदक्त त्रि० सम् + उद् + अनच--क्त । कूपादेरुद्धृतजलादौ अमरः ।

समुदय पु० सम् + उद् + इण अच् । १ समूहे अभरः २ युद्धे

३ समुद्गमे मेदि० ४ दिवमे शब्दर० । ज्योतिषोक्ते ५ लग्ने
न० । ३ षड्नाडीचक्रम्ये जन्मतारवधिके अष्टादशनक्षत्रे
चक्रशब्दे पृ० दृश्यम् । घञतः समहे युद्धे पु० अमरः ।
पृष्ठस्थसैन्ये अजयः अत्युन्नतौ मेदि० ।

समुदागम गु० सम् + उद् + आ + गम--घञ न वृद्धिः । सम्य

ग्ज्ञाने त्रिका० ।

समुदाचार पु० सम् + उद् + आ--चर--घञ । १ अभिप्राये त्रिका० । २ सम्यगाचारे च ।

समुदित त्रि० सम् + उद् + इण्--क्त । १ प्राप्तसंभूतौ पदार्थे

सम + वद--कर्मणि क्त । २ सम्यक्कथिते ।

समुदीरण न० सम् + उद् + ईर--क्त । सम्यक्कथने ।

समुदीरित पु० सम् + उद् + ईर--क्त । सम्यक्कथिते ।

समुद्ग पु० सम् + उद् + गम--ड । १ सम्पुटके हेमच० २ सश्ले-

षकारकदार्थे ३ मुद्गेन सहिते । स्वार्थे क । तत्रैव अमरः

समुद्गम पु० सम् + उद् + गम--घञ् न वृद्धिः । १ ऊर्द्धगतौ

२ समुद्भवे च ।

समुद्गीत त्रि० सम् + उद् + गै--क्त । उच्चैर्गीते ।

समुद्गीर्ण त्रि० सम् + उद् + गृ--क्त । १ वमिते २ उत्तोलते ३ कथिते च ।

समुद्दिष्ट त्रि० सम्यक् उद्दिष्टम् उद् + दिश--क्त । सम्यगुद्देश-

विषये पदार्थे तत्समुद्दिष्टं कर्मेति” सक्षिप्तसारः ।

समुद्देश पु० सम्यक् उद्देशः उद + दिश--घञ् । सम्यगभिसन्धौ ।

२ सम्यगुद्देशे च यथा “वाक्यपादा जातिसमुद्देशे” मञ्जूषा

समुद्वत त्रि० सम् + उट् + हन--क्त । १ अत्यन्तप्रगल्भे अत्यन्ता-

विनीते अमरः ३ समुद्गीर्ण हेमच० ।

समुद्धरण न० सम् + उट् + हृ--ल्यट् । १ उत्तोलने कूपादेर्ज-

लोन्नयने २ भुक्तान्नस्य वमने ३ उन्मूलने च । कर्मणि
ल्युट् । ४ वान्ते अन्नादौ ५ सन्मूलिते च अमरः ।

समुद्धृत त्रि० सम् + उद् + हृ--क्त । १ अपनीते २ समुत्कीर्णे

मेदि० । ३ उत्तोलिते ४ उन्मूलिते च ।

समुद्धर्त्तृ त्रि० सम् + उद् + हृ--वृच् । १ वमनकारिणि २

उन्मलयितरि उत्थापके ४ हृतद्रव्यस्य पुनरादानकर्त्तरि च

समुद्भव पु० सम् + उद् + भू--अप् । समुत्पत्तौ ।

समुद्भूत त्रि० सम् + उद् + भू--क्त । समुत्पन्ने ।

समुद्यत त्रि० सम् + उद् + यम--क्त । सम्यगुद्यमयुते ।

समुद्यम त्रि० सम् + उद् + यम--घञ् न वृद्धिः । सम्यक्प्रयत्ने ।

समुद्र पु० सम् + उन्द--क्लेदने रक, सम् + उद् + रा--क वा ।

१ स्वनामख्याते प्रचुरजले सागर अमरः । सह मुद्रया
२ मुद्रासहिते त्रि० “बभौ मरुत्वान् विकृतः समुद्रः
बभौ मरुत्वान् विकृतः समुद्रः” इति भट्टिः । ३ शट्यां
४ शम्याञ्च स्त्री टाप् राजनि० । सागरस्य व्रह्मणो
मेढ्रात् उद्भवः “आस्यात् वाक्, सिन्धवो म्रेढ्रात्” भाग०
३ । १२ अ० । स च सप्तविधः “लवणेक्षुसुरासर्पिर्दघिदुग्ध-
जलार्णवाः” समुद्रनामनिरुक्तिः तद्वृद्ध्यादिकारणञ्च
मत्स्यपु० १२२ अ० उक्तं यथा “अपाञ्चैव समुद्रेकात्
समुद्र इति संज्ञितः । उदयतीन्दौ पूर्ण तु समुद्रः पूर्य्यते
सदा । प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते च वै ।
आपूर्य्यमाणो ह्युदधिरात्मनैवापि पूर्य्यते । ततो वै क्षीय-
माणे तु स्वात्मन्येव ह्यपां क्षयः । उद्दीप्यन्तेऽग्निसंयोगा
दुखास्वापो यथा स्वयम् । तथा स्वतः समुद्रोऽपि
वर्द्धते शशिनोद्रये । अन्यूनानतिरिक्तात्वात् वर्द्धन्त्यापो
ह्रसन्ति च । उदयेऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः ।
क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा । दशोत्तराणि
पञ्चाहुरङ्गुलानां शतानि च । अपां वृद्धिः क्षयो दृष्ट
समुद्राणान्तु पर्वसु” ।

समुद्रकफ पु० समुद्रस्य कफ इव । जलविफेने त्रिका० ।

समुद्रकान्ता स्त्री ६ त० । १ पृक्कायां राजनि० । २ नद्याञ्च

हला० समुद्रपियादयोनद्याम् ।

समुद्रगा स्त्री समुद्रं गच्छति गम--ड । १ नद्यां हेमच० ।

“सर्वा नद्यः समुद्रगा” इति पुराणम् । साक्षात्
परम्परया वा सर्वासां जलधिगामित्वात् तथात्वम् ।
साक्षात् समुद्रगा च गङ्गादिः सर्वा नद्यो रजायुक्ता
वर्जयित्वा समुद्रगाः” इति प्रा० त० । गङ्गाया एव
चत्तस्त्रो धाराः सीतालकनन्दावङ्क्षुभद्रारूपतया ख्याताः
पृष्ठ ५२३८
जम्यूद्वोपशब्दे ३०४४ पृ० दर्शिताः । भारतवर्षस्थाः समु
द्रगाश्च “नदीं पिवन्ति विपुलामित्यादिना “यमुनाञ्च
महानदीमित्यन्तेन” भा० भी० उक्ताः ३०४६ पृदिशिताः ।
क्षदनदीनामपि महानद्यामिलितानां समुद्रगामित्वं
यथोक्तं माघे “साम्भूयाम्भाधिमभ्येति महानद्या न
शापगा” ।

समुद्रगृह न० समुद्र इव प्रचुरजलं गृहम् । जलयन्त्रगेहे त्रिका० ।

समुद्रचुलुक पु० समुद्रश्चुलुकः गणडूषजलमितजलमिव

अनायामेन पीतत्वाद्यस्य । अगस्त्ये मुनौ त्रिका० ।

समुद्रनवनीत न० समुद्रस्य नवनीतमिव । समुद्रमन्थनो-

द्भूतसारांशे १ अमृते २ चन्द्रे च मेदि० ।

समुद्रफल न० ओषधिभेदे “समुद्रनाम प्रथमं पश्चात् फल

मुदीरयेत् । समुद्रफलमित्यादि नाम वाच्यं भिपग्वरैः ।
फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि ।
त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविराधकारि”
राजनि० तद्गुणाः उक्ताः ।

समुद्रफेन पु० ६ त० । समुद्रस्य फेने अमरः “समुद्रफेनश्च-

क्षुष्यो लेखनः शीतलश्च सः । कषायो विषपित्तघ्नः कर्ण-
रुक्कफहृल्लघुः” भावप्र० तद्गुणा उक्ताः ।

समुद्रमेखला स्त्री समुद्रः मेखलेव वेष्टनाकारत्वात् यस्याः ।

पृथिव्यां त्रिका० । समुद्ररशनादयोऽप्यत्र ।

समुद्रयान न० यायतेऽनेन या--करणे ल्युट् ६ त० । पोते

समुद्रतरणसाधने नौकाभेदे वराहपु० ।

समुद्रयात्रा स्त्रा ६ त० । समुद्रस्य तीर्थत्वेन गमने । कलौ

तन्निषेषः कलिशब्दे १८०४ पृ० दृश्यम् ।

समुद्ररमण स्त्री समुद्रः रमण इव वेष्टकत्वात् यस्याः ।

पृथिव्यां हला० ।

समुद्रलवण न० समुद्रजलजातं लवणम् । (करकच) सामुद्रे

लवणे राजनि० । “सामुद्रं यत्तु लवणमक्षीवं वशिरं
च तत् । सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु ।
नात्युष्णं दीपनं भेदि व्यक्षीवमविदाहि च । श्लेष्मलं
वातनुत्तिक्तमरूक्षं नातिशीतलम्” भावप्र० ।

समुद्रवह्नि पु० ६ त० । समुद्रस्थे अग्नौ बाड़वानले हला०

समुद्रवेला स्त्री ६ त० । समुद्रस्य कूले ।

समुद्रसुभगा स्त्री ६ त० । गङ्गायां राजनि० ।

समुद्रान्त न० समुद्रस्यान्तः पर्य्यन्तदेशः उत्पत्तिस्थानत्वेना-

स्त्यस्य अच् समुद्रः अन्तो यस्य वा । १ जातीफले शब्दच०
२ दुरालभायां स्त्री अमरः । ३ कार्पास्यां ४ पृक्कायां मेदि०
५ यवासे स्त्री राजनि० । ६ त० । ६ समुद्रपर्य्यन्ते त्रि० ।

समुद्राम्बरा स्त्री समुद्रःअम्बरमिव वेष्टनाकारत्वात् यस्याः ।

पृथिव्यां त्रिका० । सागराम्बरादयीऽप्यत्र ।

समुद्रारु पु० समुद्रमृच्छति ऋ--कर्त्तरिकरणे वा उण् । १

कुम्भीरे २ मेतुबन्धे ३ तिमिङ्गलमत्स्ये मेदि० ।

समुद्रि(द्री)य त्रि० समुद्र + भवार्थे घ छ वा । समुद्रभवे पदार्थे ।

समुद्वह त्रि० सम् + उद् + वह--अच् । श्रेष्ठे सम्यगुद्वहनक-

र्त्तरि च ।

समुन्दन न० सम् + उन्द--ल्युट् । सम्यगार्द्रीभावे (भिजा)अमरः ।

समुन्न न० सम् + उन्द--क्त । १ क्लिन्ने २ आर्द्रे अमरः ।

समुन्नत त्रि० सम् + उद् + नम--क्त । १ अत्युच्चे २ स्तम्भमेदे पु० परणिः

समुन्नति त्रि० सम् + उद् + नम--क्तिन् । १ उच्चतायाम् “प्रायः

पयाधरसमुन्नतिरत्र हेतुः” उत्युद्भटः । २ उत्सेधे स्फी-
तयायां जटा० ।

समुन्नद्ध त्रि० सम् + उद् + नह--क्त । १ गर्विते २ पण्डितन्मन्ये

अमरः । ३ प्रभौ अजयः । ४ समुद्धृते मेदि० ५
उत्क्षिप्य बद्धे हेमच० । ६ समुद्भूते च । भावे क्त । ७ उत्तो-
ल्यबन्धने न० ।

समुन्नय पु० सम् + उद् + नी--अच् । १ ऊर्द्ध्वनयने २ सम्यग्नीतौ ३ उत्क्षेपणे ४ समुद्भावने च ।

समुपचित त्रि० सम्यक् उपचितम् उप + चि--क्त । १

सुबहुलीकृते २ संवर्द्धिते च ।

समुपजोषम् अव्य० सम् + उप + जुष--अमु । अत्यन्तानन्दे रामाश्रमः ।

समुपेयिवस् त्रि० सम् + उप + इण--क्वसु । समीपगते ।

समुपोढ त्रि० सम् + उप + वह--क्त । १ सङ्गते २ सञ्जाते च ।

समुल्लेख पु० सम् + उद् + लिख--घञ् । पादादिना भूम्यादेः

खनने ।

समूढ़ त्रि० सम् + ऊह + वह--वा क्त । १ राशौकृते २

अनपप्लुते “समूढ़नस्य पांसुरे” इति ऋग्वेदः । ३ भुग्ने
४ सद्योजाते मेदि० ५ दमिते ६ कृतविवाहे धरणिः ७ शीधिते
जटा० । सह मूढ़ेन । ८ मूढ़सहिते त्रि० ।

समूरु पु० सङ्गतौ सन्धिहीनत्वात् ऊरूयस्य । मृगभेदे अमरः

पृषो० । समूर तत्रार्थे पुस्त्रा० हमच० स्त्रियां ङीष् ।

समूल त्ति० र्सह मूलेन । मूलसहिते “समूले उपपदे

कषादिभ्यः णमुल् तत्प्रकृतिधातोरनुप्रयोगश्च “समूलकाषं च
कषुः” “समूलघातं न्यबधात्” इति च भट्टिः ।

समूह पु० सम + ऊह--घञ् । १ समुदये अमरः । समूहत्वञ्च

अपक्षाबुद्धिविषयविषयत्वं त्रित्वादिपर्य्याप्तसंख्याविशेषो
वा । २ सम्यग ऊहे तर्के च ।
पृष्ठ ५२३९

समूहनी स्त्री समुह्यतेऽनया सम् + ऊह--करणे ल्युट् ङीप् ।

० १ सम्मार्जन्यां हेमच० भावे ल्युट् । २ सम्पार्जने परिसमू-
हनशब्दे ४२५८ पृ० दृश्यम् । ३ सम्यगूहकरणे च न० ।

समूहालम्बन त्रि० समूहमालम्बते विषयतया आ +

लयिल्यु । नानाप्रकारतानिरूपितनानाविशेष्यताशालिनि
ज्ञाने । तत्र संशये नानाप्रकारतानिरूपिताया एकवि-
शेष्यतायाः सत्त्वात् न समूहालम्बनत्वम् । धवखदिरौ
द्वावित्यादौ दण्डी कुण्डी च देवदत्त इत्यादौ वाक्यज-
नितबाधस्यापि समूहालम्बनत्वं तत्रोभयनिंरूपितयोः
विशेष्यतयोर्द्वयोरेवाङ्गोकारात् द्वन्द्वात्परश्रूयमाणशब्दस्य
प्रत्येकान्वयनियमेन प्रथमार्थद्वित्वस्म प्रत्येकवृत्तित्वात्
तच्च समवायेनैवेति बोध्यम् । अतएव शब्दचिन्तामणौ
मणिकृता धवखदिरपलाशांश्छिनत्तोत्यादौ प्रत्येककर्मताया
एव विभिन्नक्रियायावन्वय इत्युक्तम् । अत उक्तस्थले
विशेष्यताद्वयम् । धवखदिरौ द्वावित्यादावपि द्वित्वस्य सम
वायसम्बन्धेन धवादिवृत्तित्वात् विशेष्यताद्वयाङ्गीकारेऽपि
नक्षत्यभावात् । तेनैव धवखदिरौ न द्वाविति प्रतीतिवा-
रणसम्भवात् । घटं पटञ्च पश्यतीत्यादौ च दर्शनक्रियायां
घटपटयोरन्वयसम्भवे तु न समूहालम्बनमिति भेदः
इत्यादिबोध्यम् । यदि च आत्मघटयोर्नात्मत्वमित्यादि
प्रयोगसाधुत्वार्थं पर्य्याप्तिसम्बन्धेनैव द्वित्वादेर्वोघोऽङ्गी-
क्रियते तदा तस्य न समूहालम्बनत्वम् ।

समूहिन् त्रि० समूहोऽस्त्यस्य इनि सम् + ऊह--णिनि वा ।

समूहावयवे प्रत्येकवस्तुनि यथा घटपटसमूहान्तर्गता
घटः पटश्च समूही । २ सम्यक्तर्कयुते त्रि० स्त्रियां ङीप्

समूह्य पु० सम् + ऊह--ण्यत् । १ यज्ञियाग्नौ अमरः २ मम्यक्

तर्क्ये त्रि० २ यज्ञाग्निसंस्कारभेदे सि० कौ० ।

समृद्ध त्रि० सम्यक् ऋद्धः ऋध--क्त । १ अधिकसम्पत्तिनुक्ते

अमरः । २ अतिवृद्धे च शब्दमा० ।

समृद्धि स्त्री सम्यक् ऋद्धिः सम् + ऋध--क्तिन् वा । १ अतिस-

म्पत्तौ अमरः २ सम्यग्वृद्धौ च “मधुसमृद्धिसमेधित या
मेधया” माघः ।

समेत त्रि० सम् + आ--इण क्त । १ समागते २ सङ्गते च ।

समेधित त्रि० सम् + एघ + णिच्--क्त । संवर्द्धिते “मधुसमृद्धि

समेधितमेधययेति” माघः ।

समोदक न० समम् अर्द्धभागेन तुल्यमुदकं यत्र । अर्द्धाम्बु

संयोगेन मथितदधिजाते १ तक्रभेदे हेमच० । सह
मोदवेन सहस्य सः । २ मोदकसहिते त्रिकाण्डशेषः ।

सम्पत्ति स्त्री सम् + पद--क्तिन् । १ अतिविभवे अमरः २

अनुरूपात्मभावे यस्य यद्रूपता उचिता तस्य तथाभवने च
सि० कौ० ३ विभूतौ मेदि० ।

सम्पद् स्त्री सम् + पद--सम्प० भावे क्विप् । १ विभवे २ सम्पत्तौ

च अमरः । ३ गुणोत्कर्षे । करणे क्विप् । ४ हारभेदे पु०
मेदि० । घञर्थे क । सम्पद तत्रार्थे न० शब्दमा० ।

सम्पन्न त्रि० सम् + पद--क्त । १ साधिते २ सम्पद्युक्ते च मेदि०

सम्पराय पु० सम् + परा + इण--आधारे अच् । १ युद्धे

२ आपदि ३ उत्तरकाले च अमरः ।

सम्परायिक न० सम्परायाय आपदे हितम् ठन् । १ युद्धे

तदर्थे ठण् । २ साम्परायिकमय्यत्र अमरः ।

सम्पर्क पु० सम् + पृच--घञ् । १ सम्बन्धे २ रतौ ३ मेलके च मेदि० ।

सम्पर्किन् त्रि० सम् + पृच--चिनुण् । सम्बन्धयुक्ते ।

सम्पा स्त्री सम्यक् अतकिंतं पतति पत--ड । विद्युति असरः ।

सम्पाक पु० सम्यक् पाको यस्मात् ५ व० । आरग्बधवृक्षे

अमरः तद्भोजने हि भुक्तान्नादेः सम्यक्पाको भवतीति
वैद्यके प्रसिद्धम् । २ धृष्टे ३ तर्कके मेदि० ४ लम्पटे
५ अल्पे च त्रि० धरणिः ।

सम्पात पु० सम् + पत--घञ् । १ पक्षिगतिभेदे जटा० २ सम्य-

क्पतने च । ३ रेखासूत्रादेः सम्पतने च ।

सम्पाति पु० सम् + पत--णिच्--इन् । जटायुयो ज्येष्ठभ्रातरि

पक्षिभेदे रामा० । स्वार्थे क । तत्रैव । साम्पतिरिव
कायति कै--क । सम्पातिक गरुड़ज्येष्ठतनये शब्दमा० ।

सम्पुट पु० सम् + पुट--क । १ कुरुवकवृक्षे अमरः । सम्यक्

पुटमिव उभयवार्श्ववर्त्ति यस्य । २ एकजातीयपदार्थेन
भिन्नजातीयस्य उभयतो व्याप्ते त्रि० “सकामैः सम्पु-
टोजाप्यः” इति तन्त्रम् ।

सम्पुटक पु० सम्पुटयति सम् + पुट--अच् स्वार्थे वुन् । सम्पु-

द्गके मञ्जूषाख्ये (पेटारा) पदार्थविशेषे अमरः ।

सम्पूर्ण त्रि० सम् + पूर--क्त । १ परिपूर्णे २ समग्रे च “आदित्यो-

दयवेलायाः प्राङ्मूहूर्त्तद्वयान्विता । एकादशी हि सम्पू-
र्णे” ति स्मृत्युक्ते ३ एकादशीभेदे स्त्री ति० त० । शुद्धे ४ षष्टि-
दण्डात्मकतिथिमात्रे स्त्री तिथिशब्दे ३२९३ पृ० दृश्यम् ।

सम्पृक्त त्रि० सम् + पृच--क्त । १ मिश्रिते हेमच० २ सम्बद्धे च

सम्प्रणयन न० सम् + प्र + णी--ल्युट् । १ सम्यग्वह्निघृतादेः

शोधनाय संस्कारविशेषे २ विधाने च ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/सदाफल&oldid=83035" इत्यस्माद् प्रतिप्राप्तम्