वाचस्पत्यम्/शृङ्ग

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५१३८

शृङ्ग न० शॄ--गन् पृषो० मुम् ह्रस्वश्च । १ पर्वतोपरिभागे

सातौ अमरः । २ प्रभुत्वे ३ चिह्ने ४ जलक्रीड़ार्थयन्त्रभेदे
(पिचकारी) ५ पश्वादीनां विषाणे (शिङा) ६ उत्कर्षे च
मेदि० । ७ ऊर्ये ८ तीक्ष्णे ९ पद्मे च शब्दर० १० महिष-
शृङ्गनिर्मितवाद्यभेदे (शिङ्ग) ११ कामोद्रेके सा० द० शृङ्गा-
रशब्दे दृश्यम् । १२ कूर्चशीर्षकवृक्षे पु० मेदि० १३ मुनि-
भेदे पु० ।

शृङ्गक पु० शृङ्गमिव कायति कै--क । जीवकवृक्षे जठा० ।

शृङ्गकन्द पु० शृङ्गमिव कन्दोऽस्य । शृङ्गाटके (पानीफल)

राजनि० ।

शृङ्गज न० शृङ्गे पर्वताग्रे जायते जन--ड । १ अगुरुचन्दने

रत्नमा० । २ वाणहेतुवृक्षे पु० संक्षिप्तसा० ३ शृङ्गजातमात्रे त्रि०

शृङ्गमूल पु० शृङ्गमिव मूलमस्य । शृङ्गाटके राजनि० ।

शृङ्गमोहिन् पु० शृङ्गाय कामोद्रेकायु मोहयति

मुहणिच्--णिनि । चम्पके राजनि० ।

शृङ्गला स्त्री शृङ्गं तदाकारफलं लाति ला--क ।

अजशृङ्ग्यां (गाड़रशिङा) शब्दच० ।

शृङ्गवत् पु० शृङ्गं प्राशस्त्येनास्त्यस्य मतुप् मस्य वः । १

सीमापर्वतभेदे तन्मानादिभाग० १५ । १६ अ० उक्तं यथा
“उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो-
रम्यकहिरण्मयकुरूणां वर्षाणां मार्य्यादागिरयः प्राना-
यता उभयतः क्षारोदावधयः द्विसहस्वयोजनपृथव
एकैकशः पूर्वस्मात् पूर्बस्यादुत्तरोत्तरं दशांशाधिकांशेना दैर्घ्ये
एव ह्रस्वन्ति” । २ शृङ्गयुते त्रि० ।

शृङ्गवेर न० शृङ्गमिव वेरमवयवो यस्य । १ आर्द्रके अमरः ।

२ शुण्ठ्यां ३ राममित्रगुहकचण्डालपुरे च । स्वार्थे क ।
आर्द्रके हेमच० ।

शृङ्गवेराभमूलक पु० शृङ्गवेरेण तुल्यं मूलसस्य कप् । एरकावृक्षे भावप्र० ।

शृङ्गाट पु० शृङ्गं प्राधान्यमटति अट--अण् । १ उत्तरस्थ

पर्वतभेदे २ चतुष्पथे ३ जलकण्टकिवृक्षे च ४ तत्फले न० ।
“शृङ्गाटकं हिमं स्वादु गुरु वृव्यं कषायकम् । ग्राहि
शुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनम्” भावप्र० ।
स्वार्थे क । तत्र, चतुष्पथे अलङ्कारोक्ते बन्धभेदरूपे
शब्दालङ्कारे च । स च पर्वतः कामाख्यादेशस्थः यथोक्तं
कालिकापु० ८२ अ० यथा
“द्वीववत्याः पूर्वतस्तु शृङ्गाटो नाम पर्वतः । तत्र
भर्गस्य देवस्य लिङ्गमेकं प्रतिष्ठितम् । सरित्तु सिद्धा त्रि-
स्तोता दक्षिणोदधिगामिनी । शृङ्गाटकस्य सततं स्वतन्ती
ग्राव्णि पाततः । दक्षिणं सागरं याति भर्गस्य प्रिय-
कारिणी । पक्वमांसभेदे तत्माकविधिर्यथा “शुष्कभासं
तनूकृत्य कर्त्तितं स्वेदितं जले । लवङ्गं हिङ्गुसहित
लवणार्द्रकसंयुतम् । एलाजीरकधम्याकनिम्बूरससम-
न्वितम् । वृते सगन्धे तद्भ्रष्टं पूरणं प्रोच्यते बुधैः ।
शृङ्गाटकं समितया कृतं पूरणपूरितम् । पुनः सर्पिषि
संभृष्टं मांसं शृङ्गाटकं वदेत् । मांसं शृङ्गाटकं रुच्यं
वृंहणं बलकृत् गुरु । वातपित्तहरं वृष्यं कफर्घ्न वीर्य्य-
बर्द्धनम्” भावप्र० ।

शृङ्गार पु० शृङ्ग कामोद्रेकमृच्छत्यनेन ऋ--अण् । १

रसभेदे अमरः । २ लवङ्गे ३ सिन्दूरे ४ चूर्णे च मेदि० ।
शृङ्गं कारणत्वेन ऋच्छति अण् । ५ कालागुरुणि
राजनि० ६ आर्द्रके शब्दच० । शृङ्गं प्राधान्यमृच्छत्यनेन
अण् । ७ भूषणे ८ गजभूषणे च । स्वार्थे क । सिन्दूरे
“पुंसः स्त्रियां स्त्रियः पुंसि संयोगं प्रति या स्पृहा ।
सा शृङ्गार इति ख्याता रतिक्रीड़ादिकारणम्” इत्युक्ते
९ स्त्रीपुंसयोरन्योन्यसंयोगं प्रतीच्छाभेदे च रसभेदलक्षणा-
दिकं सा० द० उक्तं यथा
“शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तसप्रकृति-
प्रायो रसः शृङ्गार इष्यते । परोढां वर्जयित्वात्र
वेश्याञ्चाननुरागिणीम् । आलम्बनं नायिकाः स्युर्द-
क्षिणाद्याश्च नायकाः । चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं
मतम् । भूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः ।
त्थक्त्वोग्र्यमरणालस्यजुगुप्सा व्यभिचारिणः । स्थायी भावो
रतिः श्यामवर्णोऽयं विष्णुदैवतः” । “शून्यं वासगृह-
मित्यादि” । अत्र उक्तस्वरूपः पतिरुक्तस्वरूपा च बाला
आलम्बनविभावौ । शून्यं वासगृहमुद्दीपनविभावः ।
चुम्बनमनुभावः । लज्जाहासौ व्यभिचारिणौ । एतै०
रभिव्यक्तः सहृदयरतिभावः शृङ्गाररूपतां भजते । तद्भे-
दावाह । विप्रलम्भोऽथ सम्भोग इत्येष द्विविधो
मतः” । तत्र विप्रलम्भो विप्रलम्भशब्दे उक्तः सम्भोगस्तु
“दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्ता-
वन्योन्यं सम्भोगोऽयमुदाहृतः” । आदिशब्दादन्योन्या-
धरपानचुम्बनादयः । यथा “शून्यं वासगृहमित्यादि” ।
“संख्यातुमशक्यतया चुम्बापरिरम्भणादिबहुभेदात् ।
अयमेक एव धीरैः कथितः सम्भोगशृङ्गारः । तत्र
स्यादृतुषट्कं चन्द्रादित्यौ तथास्तमयः । जलकेलिवन-
विहारप्रायमधुपानयामिनीप्रभृतिः । अनुलेपनभूषाद्या
वाच्यं शुचि मेध्यमन्यच्च” । तथा च भरतः “यत्किञ्चि-
ल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणो-
पनीयते उपयुज्यते” । किञ्च “कथितश्चतुर्विधोऽसा०
वानन्तर्य्यात्तु पूर्बरानादेः” । यदुक्तम् “न विना वि प्र-
लम्भेण सम्भोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ
भूयान्रागो विवर्द्धते” ।
पृष्ठ ५१३९

शृङ्गारभूषण न० शृङ्गारे तदर्थं भूषणम् । सिन्दूरे हेमच० ।

शृङ्गारयोनि स्त्री ६ त० । कामदेवे हला० ।

शृङ्गारिन् पु० शृङ्गारः उद्दीप्यत्वेनास्तास्य इनि । १ पूगे

तत्फलभक्षणे हि कामोद्रेक इति तस्य तथात्वम् । २ गजे
मेटि० । ३ सुवेशे त्रि० । ४ माणिक्ये पु० राजनि० ।

शृङ्गिक न० शृङ्गं तदाकारोऽस्त्यस्य ठन् । १ विषभेदे

२ अतिविषायां स्त्री शब्दर०

शृङ्गिण पु० शृङ्गं युद्धसाधनत्वेनास्त्यस्य इनन् । मेषे हेमच० स्त्रियां ङीष् ।

शृङ्गिन् पु० शृङ्गपस्त्यस्य इनि । १ मेषे २ कुलाचलमेदे

शृङ्गवच्छब्दे दृश्यम् । ३ पर्वतमात्रे ४ मुनिभेदे ५ वृक्षे च ।
६ शृङ्गयुक्ते त्रि० मेदि० । ७ धेन्वां स्त्री ङीप् । ८ श्लेष्म-
घ्नीवृक्षे ९ मल्लिकायां १० ज्योतिष्मत्यां च स्त्री मेदि० ।
मुनिभेदश्च शमीकर्षिपुत्रः स हि परिक्षितं प्रति तक्षक-
दंशनशापमदात् इति विष्णुपु० स्थितम् ।

शृङ्गी स्त्री शृङ्गमस्त्यडा अच् गौरा० ङीष् । १ मद्गुरस्य

प्रियायाम् अमरः । पृषो० ह्रस्वः । शृङ्गिरित्यपि तत्रार्थे
शब्दर० । २ अतिविषायां ३ वृषभोषधौ अमरः । ४ कर्कट-
शृङ्ग्याम् ५ प्लक्षे ६ विषे च० राजनि० । ७ भूपणस्वर्णे
रत्नकोषः “मद्गुरस्यपिया शृङ्गी” इत्यमरे मद्गुरसी
अप्रियेति नामद्वयम् । तेन (शिङी) मत्स्यस्यैवेदं नाम
इति भरतः ।

शृङ्गीकनक न० श्रगि--कि या० सम्प्र० ङीप् शृङ्गी

अलङ्कारस्तदर्थं कनकम् । भूषणार्थस्वर्णे अमरः ।

शृ(सृ)णि स्त्री शॄ--सृ वा क्तिन् तस्य निः पृषो० । अङ्कुशे अमरः ।

शृत त्रि० शृ--क्त । १ पक्वे अमरः २ क्वथिते जलादौ च

“द्रव्यादुत्थापितात्तोयात् वह्निना परितापितात् । गिःसृतो
यो रसः पूतः स शृगः समुदःहृतः” वैद्यकोक्ते ३ द्रव्य-
क्वाथजे रसे पु० ।

शृध अपानशब्दे भ्वा० आ० वृता० लुङि ऌटि ऌङि च उभ०

अक० सेट् क्त्वावेट् । शर्द्धते अशृधत् शत्र्स्यति शर्द्धिष्यते ।

शृध छेदने भ्वा० उभ० सक० सेट् क्त्वा वेट् । शर्द्धति ते

अशर्द्धीत् अशर्द्धिष्ट ।

शृध ग्रहणे चु० उभ० सक० सेट् । शर्द्धयति ते अशशर्द्धत् त

शृधु पु० शृध--कु । १ बुद्धौ बिश्वः । २ कुत्सिते ३ अपाने संस्तिप्तमा०

शॄ हिंसने क्र्या० प्वा० पर० सेट् । शृणाति अशारीत् ।

शीर्णः ।

शेखर पु० शिखि--गतौ अरन् पृषो० । १ शिखायां २ मूर्द्ध-

स्थितमाल्ये च अमरः । ३ वन्दायां स्त्री शब्दर० ङीप् ।
४ गीताङ्गे ध्रुवभेदे पु० तल्लक्षणं यथा
“द्वादशाक्षरपादः स्यात् स चाल्पशुभकृत् प्रभोः । हासके
च रसे वीरे गीयते शेखरो ध्रुवः । लघुर्गुरुर्भवेद्यत्त्र
स भवेल्लघुशेखरः” संगीतदा० ।

शेप पु० शी--पन् । १ शेफे शिश्ने शब्दच० । २ शयनकर्त्तरि त्रि० ।

शेपाल पु० शेपः शयित इवालति अल--अच् । शैबाले शब्दर०

शेफ पु० न० । शी--फन् । १ शिश्ने अमरः २ शयनकर्त्तरि त्रि० ।

शुक्रपाते सति शेते शी--असि फुक् च शेफोऽत्र न०
“गौर्लिङ्गं चिह्नशेफसोः” अमरः । शेफसशेफसी शेफ
शेपौ शेवश्चेति पञ्चशब्दास्तत्रार्थे तत्र पृषो० साधुतेति
भरतः ।

शेफालि(ली) स्त्री शेफाः शयनशालिनः अलयो यत्र वा ङीप् । शेफालिकायां शब्दमा० ।

शेफालिका स्त्री शेरते इति शेपाः अलयो यत्र वा कप् ।

(शिउलि) पुष्पवृक्षे अमरः “शेफालिका कटूष्णा च
तिक्ता रूक्षा च वातहृत् । कफाङ्गसन्धिवातघ्नी शृतवा-
तादिदोषहृत्” राजनि० ।

शेमुषी स्त्री शी--विच् शेः मोहस्तं मुष्णाति मुष--क । बुद्धौ अमरः ।

शेल गतौ चालने च भ्वा० पर० सक० सेट् । शेलति

अशेलीत् । ऋदित् चङि न ह्रस्वः ।

शेलु पु० शेल--उण् । बहुवारवृक्षे अमरः ।

शेव पु० शुक्रपाते सति शेते शी--अन् । पुंचिह्ने २ उन्नते

३ अहौ च उणादिकोषः ।

शेवधि पु० शेः धनादिमोहस्तस्य अवधिः । “पद्मोऽस्त्रियां

महापद्मः शङ्खोमकरकच्छपौ । मुकुन्दकुन्दनीलाश्च
निधयो नव शेवधि” इत्युक्ते नवपिधे निधौ अमरटीका ।

शेवलु न० शी--विच् तथाभूतः सन् वलते बल--अच् । शैवाले

(शेआंला) शब्दच० ।

शेवाल न० शेते विच् ओ--सन् वलते वल--संज्ञायां कर्त्तरि

घञ् । १ शैवाले शब्दर० । २ आकाशभांस्यां स्त्री राजनि० ।

शेष पु० शिष--अच् । १ अनन्ते सर्पराज सर्पभेदे २ बलदेवे च

मेदि० । ३ अवशेषे अमरः । ४ गजे ५ उपयुक्तेतरवस्तूनि
अजयपालः । ६ भगवतो कालसंज्ञमूर्त्तौ “एका भगवतो
मूर्त्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणा-
तीता सुनिष्कला । द्वितीया कालसंज्ञा च तामसी
शेषसंज्ञिता । निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः”
कूर्मपु० ४८ अ० । “शेषे पष्ठी” पा० सू० उक्तादन्यः
पृष्ठ ५१४०
शेषः” भाष्यादयः । परोद्देशेन प्रवर्त्तमाने ७ मणीभूते
अस्य लक्षणविषयादि मीमांसासूत्रभाष्यादौ दर्शितं यथा
“शेषः परार्थत्वात्” सू० “इह सूत्रे शेषस्य लक्षणम्,
येन च हेतुना शेषः इत्युच्यते, तदुभयमाख्यायते । यः
मरस्योपकारे बर्त्तते, स शेषः इत्युच्यते, यथा, ये
परार्थाः, ते वक्तारो भवन्ति, शेषभूता वयमिह इति ।
ननु योऽपि प्रधानभूतः सोऽपि कदाचित् परार्थे वर्त्तते,
यथा उपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने
वर्त्तते । सत्यं वर्त्तते, यस्त अत्यन्तं परार्थः, तं वयं
शेषः इति ब्रूमः, यथा, गर्भदासः कर्मार्थ एव स्तामिनो-
ऽनड्वांश्च क्रीयते, वक्ष्यति इत्य व । ननु गर्भदासस्यापि
स्वामी संविटघानो गुणभावमायात् । न इति ब्रूमः,
आत्मन एवासौ संविदधानो गुणभावं गच्छति, नान्तुरीय-
कत्वात् गर्भदासस्योपकरोति, अनडुहो वा, यस्त्वत्यन्त
परार्थः, तं वयं शेषः इति ब्रूमः । अथ तत्र किं
वृत्तम्? । यैस्तु द्रव्यं चिकीर्ष्यते गुणः तत्र प्रतीयेत
इति, तत्र अपूर्वार्थता व्यावर्त्तिता, दृष्टप्रयोजनानामा
ख्यातानाम् । इह तु सर्वेषामेव शेषाणां लक्षणमुच्यते”
शव० भा० । तस्य लक्ष्याणि तत्राह “द्रव्यगुणसंस्कारेषु
वादरिः” सू० “वादरिराचार्यः अत्र द्रव्यगुणसंस्कारेष्वेव
शेषशब्दः इति मेने, न यागफलपुरुषेषु! द्रव्यं क्रि-
यार्थं, यदि प्रयोजनवती क्रिया, व्यक्तं सा द्रव्येण
निर्वर्त्तयितव्या, तस्या निंर्वृत्तिर्द्रव्यादृते न भवति इति
तन्निर्वृत्तये द्रव्यमेषितव्यं भवति, तस्मात् क्रियार्थं
द्रव्यम् । गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्,
लक्षितेन च तेन प्रयोजनम्, विशिष्टस्य क्रियासाधन-
त्वात्, तस्मात् सोऽपि द्रव्यद्वारेण क्रियाया उपकरोति
इति क्रियार्थ एव । संस्कारो नाम स भवति, यस्मिन्
जाते पदार्थो मवति योग्यः कस्यचित् अर्थस्य, तेनापि
क्रियायां कर्त्तव्यायां प्रयोजनम् इति सोऽपि परार्थः ।
तस्मात् द्रव्यगुणसंस्काराः परार्थत्वात् शेषभूताः । न तु
यागफलपुरुषाः । यागः तावत् कर्त्तव्यः पुरुषस्य, न
हि, तस्मिन् निर्वर्त्तिते किञ्चित् अपरमस्ति कर्त्तव्यम् ।
स हि पुरुषार्थः, यदन्यत् द्रव्यादि, तत् तदर्थं तस्य
शेषभूतम्, स तु न किञ्चिदभिनिर्वर्त्तयितुम् क्रियते ।
फलमपि न तेन क्रियते, तस्मित तु कृते स्वयमेव तत्
भवति । तस्मिन् कृते फलमस्य भवति पृत्येतावत् गम्यते,
नास्ति शब्दो यागेन क्रियते फलमिति । तस्मात् यागो
न शेषभूतः कस्यचित् अर्थस्य । फलमपि न पुरुष प्रत्यु-
पदिश्यते, यः स्वर्गं कामयते, स यागं कुर्य्यादित्येतावत्
शब्देनीपदिश्यते, नात्मनः परस्य वा इति, स्वर्गं प्रती-
च्छामात्रेण स्वर्भकामः इति भवति, तस्मात् पुरुषं प्रति
गुणभावेन न श्रूयते स्वर्गः, तस्मात् सोऽपि न शेषभूतः ।
न चेत् फलयागौ गुणभावेन चोद्येते, कस्य पुरुषः प्रधा-
नभूती भवति? प्रत्यक्षश्चास्य द्रव्यत्वात् कर्म प्रति
गुणभभावः । तस्मात् द्रव्यगुणसंस्कारेष्वेष शेषभावं वादरि-
र्मेने” शब० भा० । “कर्माण्यपि जैमिनिः, फलार्थत्वात्” सू०
“जैमिनिस्तु स्वल्वाश्चार्य्यः कर्माण्यपि शेषभूतानि मन्यते
अ, न वादरिरिवावधारणामनुमेने, स हि ददर्श,
यागः कर्त्तव्यतया चोद्यते, फलकामस्य तु तत्साधनो-
पावत्वेन इति । एवं श्रुतोऽर्थः परिगृहीतो भविष्यति,
अर्थवांश्चोपदेशः । एतभेवार्थं षष्ठेऽध्याये सूत्रैरेव
साधयिष्यति । इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं
यागस्यापादयति स्म । तस्मात् अनवधारणा द्रव्यगुणसं-
स्काराः शेषभूताः यागोऽपि शेषभूतः फलम्प्रति” भा० ।
“फलं च पुरुषार्थत्वात्” सू० । “फलमपि पुरुषं प्रत्युपदि-
श्यते, यः, स्वर्गो मे भवेत् इत्येवं कामयते, तस्य यागः
न यः स्वर्गः, स आत्मानं लभेत इति । आत्मनेपद-
प्रयोगात्, कर्त्त्रभिप्राये एतत् भवति, क्रियाफलमनु-
भवेत् कथं पुरुषः? इति यागः प्रयुज्यते । तस्मात् फलं
पुरुषार्थं यागात् श्रूयते नात्मनिर्वृत्त्यर्थम् । तस्मात्
शेषभूतम् इति” भा० । “पुरुषश्च कर्मार्थत्वात्” सृ० । “पुरुषोऽप्यौ-
दम्बरीसम्भानादिषु गुणभूतः श्रूयते । तस्मात् अनवधा-
रणा एषा, द्रव्यगुणसंस्कारेषु शेषत्वं वार्दरिर्मेने इति” ।
“अथ इदानीमत्रानुशयवान् वृत्तिकारः परिनिश्चिकाय,
द्रव्यगुणसंस्कारेष्वेव नियतो यजिम्प्रति शेषभावः,
आपेक्षिक इतरेषाम् । यागस्य द्रव्यम्प्रति प्रधानभावः,
फलम्प्रति गुणभावः, फलस्य यागम्प्रति प्राधान्यम्, पुरुषम्प्रति
गुणता, पुरुषस्य फलम्प्रति प्रधानता, औदुम्बरीसम्मा-
नादि प्रति गुणत्वम् तस्मात् सम्मता अवघारणा, द्रव्य-
गुणसंस्कारा यागम्प्रति नियमता गुणभूता एव” भा०
  • कस्यचित् शेषरक्षणनिषेधो यथा “ऋणशेषं चाग्निशेषं
शत्रुशेषं तथैव च । पुनःपुनः प्रवर्द्धन्ते तस्मात् शेषं न
कारयेत्” गरुड़पु० “प्रसादान्निजनिर्माल्यदाने शेषेति
कीर्त्तिता” विश्वोक्ते खामिना प्रसाददत्ते ८ माल्ये स्त्री
“तथेति शेषामिव भर्तुराज्ञाम्” कुमारः ।
पृष्ठ ५१४१

शेषरात्रि स्त्री० शेषं रात्रेः एकदेशिस० । रात्रिशेषे शब्दच०

शेषशयन पु० शेषः अनन्तः शयनमस्य । नारायणे तच्छयन०

प्रकारकालादि कालिकापु० २७ अ० उक्तं यथा
“अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः । तत्र स्वयं
स्त्रिया युक्तं सुषुप्सन्तं जनार्दनम् । तस्योपधानमकरो
दनन्तो दक्षिणां फणाम् । उत्तरां पादयोश्चक्रे उपधानं
महाबलः । तालवृन्तं तदा चक्रे स शेषः पश्चिमां
फणाम् । स्वयन्तु वीजयामास शेषरूपी जनार्दनम् ।
शङ्खं चक्रं नन्दकादिमिषुधी द्वे महाबलः । ऐशान्या
फणया चाथ स दध्रे गरुड़ं तदा । गदां पद्मञ्च शार्ङ्गं
च तथैव विविधायुधम् । यानि चान्यानि तस्यासन्ना-
ग्व्येय्या फणया दधौ । एवं कृत्वा स्वकं कायं शयनीयं
तदा हरेः । भूतभव्यजगन्नाथं परापरगतिं हरिम् ।
दधार शिरसातन्तः स्वयमेव स्वकां तनुम् । एवं ब्रह्म-
दिनस्यैव प्रसाणेन निशां हरिः । सन्ध्यां च समधिप्राप्य
शेते नारायणोऽव्ययः” । मनुना “शर्वरी नस्य तावतो”
इत्युक्तम् । “यदा स देवोजागर्त्ति तदेदं चेष्ठत जगत ।
यदा स्वपिति शान्तात्मा तदा सर्वं प्रणश्यति” इत्युक्तं
तेन प्रलयकाले एव तस्य शयनम् ।

शैक्ष पु० शिक्षां तन्नामग्रन्थमघीते येत्ति वा अण् । १ शिक्षा-

ग्रन्थाध्यायिनि २ तद्वेत्तरि च । वुन् । शिक्षकोऽप्यत्र ।

शैखरिक पु० शिखरे प्राचीराद्यग्रे भवः ठक् । अपामार्गे

अमरः ।

शैखरेय पु० शिखरे भवः ढक् । अपामार्गे रत्नकोषः ।

शैत्य न० शीतस्य भावः ष्यञ् । शीतलत्वे ।

शैथिल्य न० शिथिलस्य भावः ष्यञ् । अदृढ़े संयोगभेदे ।

शैनेय पु० शिनेर्गोत्रापत्यम् ढक् । सात्यकिनाम्नि यादवे ।

शैरीय पु० शिरा + छण् । नीलझिण्ठ्यां रत्नमा० । ढकञ्

शैरेयक तत्रार्थे ।

शैल न० शिलायां भवः अण् । १ शैलेये गन्धद्रव्यभेदे ।

२ तार्क्ष्यशैले मेदि० । ३ शिलाजतुनि च राजनि० । शिलाः
सन्त्यस्य प्रज्ञा० अण् । ४ पर्वते पु० अमरः ।

शैलगन्ध न० शैलस्य शैलजस्येव गन्धोऽस्य । शावरचन्दने राजनि० ।

शैलज न० शैले पर्वते जायते जन--ड । १ स्वनामख्याते

गन्धद्रव्यमेदे रत्नमा० । २ गजपिप्पल्यां ३ सैंहल्यां ४ दुर्गा-
याञ्च स्त्री राजनि० ।

शैलधन्वन् पु० शैलं गिरितुल्यं धनुरस्य अनङ्स० । महादेवे त्रिका० ।

शैलधर पु० शैलं गावर्द्धनं धरति धृ--अच् । श्रीकृष्णे वनञ्जयः ।

शैलपत्त्र पु० शैलमिव सुगन्धि पत्त्रमस्य । बिल्ववृक्षे राजनि०

शैलभित्ति पु० शलं भिनत्ति मिद--क्तिच् । टङ्के पाषाण-

दारणास्त्रे जटा० ।

शैलराज पु० शैलानां नगानां राजा टच् समा० । हिमाचले शैलाधिराजादयोऽप्यत्र ।

शैलराजसुता स्त्री ६ त० । हैमवत्यां पार्वत्यां “जाता शै

लेन्द्रगृहे सा शैलराजसुता ततः” देवीपु० ४५ अ० ।

शैलवीज पु० शिलां तत्पर्य्यन्तं दूरं धावति अण् शैलं वीज

यस्य । भल्लातके राजनि० ।

शैलशिविर न० शैलानां नगानां शिविरमिव । समुद्रे त्रिका० ।

शैलसार न० पु० न० शैलस्य सार इव । शिलाजतुनि राजनि०

शैलसुता स्त्री ६ त० । १ पार्वत्याम् २ गङ्गायां च ।

शैलाग्र न० शैलस्याग्रम् । पर्वतशृङ्गे त्रिका० ।

शैलाज न० शिलायां जायते जन--ड स्वार्थे अण् । शैलजे राजनि० ।

शैलाट पुंस्त्री० शैलं पर्वतमटति अट--अण् । १ सिंहे

२ किराते च स्त्रियां ङीष् । ३ शुक्लवर्णकाचे ४ देवले च
पु० मेदि० ।

शैलादि पु० शिलादस्यापत्यम् इञ् । शिवपार्श्वचरे नन्दिनि

शैलालिन् पु० ब० व० शिलालिना मुनिना प्रोक्तं नटसूत्र-

मधीयते णिनि । शैलूषेषु नटेषु अमरः ।

शैलिक्य पु० गर्हितं शीलमस्त्यस्य ठन् शीलिकः स्वार्थे ष्यञ् ।

सर्वलिङ्गिनि पाषण्डे जटा० ।

शैली स्त्री० शीलमेव स्वार्थे ष्यञ् ङीपि यलोपः । १ चारित्रे

२ सङ्केतभेदे च त्रिका० “आचार्य्याणामियं शैली
यत्सामान्येनाभिधाय विशेषेण विवृणोतीति” प्राञ्चः ।

शैलूष पु० शिलूषस्यापत्यम् अण् । १ नटे २ विल्ववृक्षे अमरः

३ धूर्त्ते ४ तालधारके च शब्दर० ।

शैलूषिक पु० शैलूषं तद्वृत्तिमन्वेष्टा ठक् । “वृत्त्यन्वेषी

नटावान्तु स तु शैलूषिकः स्मृतः” ब्रह्मपु० उक्ते १
नटवृत्त्यन्वेषिणि नटप्रधाने २ तत्पत्न्यां स्त्री ङीष् “नटीं
शैलूषिकीं चैव रजकीं वेणुजीविनीम् । गत्वा चान्द्रा-
यण कुर्य्यात् तथा चर्मोपजीविनीम” संवर्त्तः ।

शैलेन्द्र पु० शैलः इन्द्र इव । हिमालये । ६ त० । शैलेशा-

दयोऽप्यत्र ।

शैलेन्द्रस्थ पु० शैलेन्द्रे हिमालये तिष्ठति स्था--क । भूर्जवृक्षे राजनि० ।

शैलेय न० शिलायां भवः ढक् । १ शैलजाख्ये गन्धद्रव्यमेदे

हेमच० । शैलेयं शीतल हृद्यं कफपित्तहरं लघु ।
कण्डूकष्ठाश्मरीदाहविषहृद्गुदरक्तहृत्” भावप्र० ।
२ पर्वतजातमात्रे त्रि० । स्त्रियां ङीष् । ३ सिंहे ४ भ्रमरे
च पुंस्त्री० शब्दर० स्त्रियां ङीष् । ५ शिलातुल्ये
शब्दर० । ६ पार्वत्यां स्त्री ङीप् ।
पृष्ठ ५१४२

शैलोद्भवा स्त्री शैलं पर्वतमुद्भिद्य भवति उद् + भू--अच् ।

१ क्षुद्रपाषाणभेदिनि वृक्षे राजनि० २ पार्वत्याञ्च ।

शैव न० शिवमधिकृत्य कृतो ग्रन्यः अण् । वेदव्यासप्रणीते

शिवप्रभाववर्णनात्मके १ महापुराणभेदे । शिवो देवताऽस्य
अण् । २ शिवभक्ते त्रि० । तस्मेदमण् । ३ शिवसम्बन्धिनि
त्रि० ४ शैवले न० शब्दच० ।
शैवञ्च महापुराणं वायुना प्रोक्तत्वात् वायवीयनाम्ना-
ख्यातम् अतएव “अष्टादश पुराणानि पुराणज्ञाः प्रच-
क्षते । ब्राह्म पाद्मं वैष्णवञ्च शैवं भागवतं तथा” हेमा०
व्र० विष्णुपु० “शैवं यद्वायुना प्रोक्तम्” तत्रैव कालिकापु०
उक्तम् । हेमा० दा० मत्स्यपुराणे तु चतुर्थं वायवीयत्वेन
पठित्वा “श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत् ।
तत्र यद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम् । चतुर्विंशति-
माहस्रं पुराणं तदिहोच्यते । श्रावण्यां श्रावणे मासि
गुड़धेमुसमन्वितम् । यो दद्याद्दधिसंयुक्तं ब्राह्मणाय
कुटुम्बिने । शिवलोके स गूढ़ात्मा कल्पमेकं वसेन्नरः”
तथा च शिवमाहात्मवेदकत्वाच्छैवमिति तस्य नामान्तरं
विष्णुपु० उक्तम् । वायुना प्रोक्तत्वाच्च वायवीयमिति नामा-
न्तरमिति बाध्यम् । तत्प्रतिपाद्यविषयाश्च नारदीयपु०
उक्ता यथा “शृणु वत्स! प्रवक्ष्यामि पुराणं वायवीयकम् ।
यस्मिन् श्रुते लभेद्धाम रुद्रस्य परमात्मनः । चतुर्थविंशति-
साहस्रं तत्पुराणं प्रकीर्त्तितम् । श्वेतकल्पप्रसङ्गेन धर्मा-
गटत्राह मारुतः । तद्वायवीयमुदितं भागद्वयसमाचितम्”
तत्र पूर्वभागे “सर्गादिलक्षणं यत्र प्रोक्तं विप्र!
सविस्तरम् । मन्वन्तरेषु वंशाश्च राज्ञां ये तत्र कीर्त्तिताः ।
गयासुरस्य हननं विस्तरात् यत्र कीर्त्तितम् । मासानां
चात्र माहात्म्यं पाथस्योक्तं फलाधिकम् । दानधर्मा
राजधर्मा त्रिस्तरेणोदितास्तथा । भूपातालककुब्व्योमचारिणां
तत्र निर्णयः । व्रतादीनां च पूर्व्योऽयं विभागः समुदा-
हृतः” । उत्तरभागे “उत्तरे तस्य भागे तु नर्मदातीर्थव-
र्णनम् । शिवस्य संहिताख्या वै विस्तरेण मुनीश्वर! ।
यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः । स तु सर्वात्मना
यस्यास्तीरे तिष्ठति सन्ततम् । इदं ब्रह्मा हरिरिदं
साकाक्षेदं परो हरः । इदं ब्रह्म निराकारं कैवल्यं
वर्मदाजनम् । घ्रुवं लोकहितार्थाय शिवेन स्वशरीरतः ।
शक्तिः नापि सरिद्रूपा लेखेयमवतारिता । ये वसन्त्युत्तरे
कूले रुद्रस्यानुचरा हि ते । वसन्ति याम्यतीरे, ये लोकं
ते यान्ति वैष्णवम् । ओङ्कारेश्वरमारभ्य यावत् पश्चिम-
सागरम् । सङ्गमाः पञ्च च त्रिंशन्नदीनां पापनाशनाः ।
दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे । पञ्चत्रिंशत्तमः
प्रोक्तोरेबासागरसङ्गमः । सङ्गमैः सहितान्येवं रेवातीर
द्वयेऽपि च । चतुःशतानि तीर्थानि प्रसिद्धाति च सन्ति
हि । पंष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर! । सन्ति
चान्यानि रेवायास्तीरयुग्मे पदे पदे । संहितेयं महा
पुण्या शिवस्य परमात्मनः । नर्मदाचरितं यत्र वायुना
परिकीर्त्तितम् । लिखित्वेदं पुराणन्तु गुड़धेनुसम-
न्वितम् । श्रावण्यां यो ददेत् भक्त्या ब्राह्मणाय कुटु-
म्बिने । रुद्रलोके वसेत् सोऽपि यावदिन्द्राश्चतुर्दश । यः
श्रावयेद्वा शृणुयात् वायवीयमिदं नरः । नियमेन
हविष्यासी स रुद्रो नात्र संशयः” । ५ वसुके ६ धस्तूरे पु०
राजनि० ७ आचारभेदे पु० “अष्टाङ्गयोगसंयुक्तो
यजेद्देवीं विधानतः । यावद् ध्यानं समाधिञ्च तावत् शैवं
प्रचक्षते” च वारभेदतन्त्रम् । तदुपासकभेदाश्च शिवलिङ्ग-
शब्दे वामनपु० उक्ता दृश्याः ।

शैवल न० शी--वलञ् । १ पद्मकाष्ठे २ शैबाले च पु० मेदि० ।

“वहतो बहुशैवलक्ष्मताम्” नैषधम्

शैवलिनी स्त्री शैवलानि सन्त्यस्याः इनि । नद्याम् अमरः

शैवाल न० शी--बालञ् । (शेओयाला) जलजाते पूदार्थभेदे

अमरः । अस्य पृषो० दन्त्यादित्वमपि “सैवालकाङ्कु-
रलतामधुना बिभत्ति” इति श्लेषात् ।

शैव्य पु० शिवेर्गात्रापव्यम् ञ्य । १ शिविगोत्रजे राजभेदे

“शैव्यश्च नरपुङ्गवः” इति गीता । शिवितोऽधिगतः ञ्य ।
२ घोटकमात्रे ३ श्रीकृष्णस्य घोटके च त्रिका० ।

शैशव न० शिशोर्भावः अण् । शिशुकाले अवस्थाभेदे अमरः

शैशिर पुंस्त्री० शिशिर प्रियत्वेनास्त्यस्य अण् । १ श्यामच०

टके राजनि० स्त्रियां ङीष् । शिशिरे भवः ऋत्वण् ।
२ शिशिरजाते त्रि० । स्वार्थे अण् । ३ शिशिरे न० ।
“तपस्तपस्यौ शैशिरावृतुः” श्रुतिः ।

शैष्योपायिका स्त्री शिष्योपाध्याययोः कर्म वुञ् । शिष्याध्यापनायां सि० कौ० ।

शो तीक्ष्णीकरणे दि० प० सक० अनिट् । श्यति अशात् अशासीत् ।

शोक पु० शुच--घञ् । इष्टवियोगजाते दुःखानुगुणे चित्त-

वृत्तिभेदे अमरः । ल्युट् शोचनमप्यत्र न० ।

शोकनाश पु० शोकं नाशयति नश--णिच्--अण् । १ अशोकवृक्षे

राजगि० । गश--भावे षञ् ६ त० २ शोकध्व से ।
पृष्ठ ५१४३

शोकहारी स्त्री शोकं हरति हृ--अण् ङीप् । वनवर्वरि-

कायां राजनि० ।

शोकारि पु० ६ त० । कदम्बवृक्षे शब्दच० ।

शोचिष्केश पु० शोचिः केशैव यस्य । १ वह्नौ २ चित्रकवृक्षे च अमरः ।

शोचिस् न० शुच--इसि । १ प्रभायां २ रोचिषि च अमरः ।

शोच्य त्रि० शुच--ण्यत् । १ क्षुद्रे २ अवरे शब्दच० ३ अनुकम्प-

नीये च । स्वार्थे क । तत्रैव ।

शोटीर्य्य न० शुटीरस्य भावः यत् । वीर्य्ये शब्दच० । शौटीर्य्य इत्येव पाठः साधुः ।

शोठ त्रि० शुठ--आलस्ये स्फोटने वा अच् । १ मूर्खे २ अलसे

मेदि० । ३ धूर्त्ते ४ मीचे ५ पास्ववते पुंस्त्री० शब्दच० । स्त्रियां
ङीष् ।

शोण गतो सक० वर्णे अक० भ्वा० पर० सेट् । शोणति अशीणीत् ऋदित् चङि न ह्रस्वः ।

शोण न० शोण--अच् । १ सिन्दूरे २ रुधिरे च राजनि० ।

३ रक्तेक्षौ ४ शोणाकभेदे राजनि० । ५ मङ्गले ग्रहे ६ अग्नौ
७ चित्रके ८ नदभेदे स च अमरकण्टकदेशगतः पाटलि-
पुत्रसन्निकृष्टे गङ्कायां मिलितः । ९ रक्तवर्णे पु० १०
तद्वति त्रि० मेदि० । ११ समुद्रभेदे धरणिः ।

शोणक पु० शोणैव कायति कै--क । शोणाकवृक्षे अमरः ।

शोणझिण्टिका स्त्री कर्म० । १ शोणझिण्ट्यां २ रक्तसैरेये

राजनि० ।

शोणझिण्टी स्त्री शोणा झिण्टीव । १ कुरुवके २ कण्टकि न्याञ्च राजनि० ।

शोणपत्त्र पु० शोणं पत्त्रमस्य । १ रक्तपुनर्नवायां राजनि० ।

२ रक्तपत्त्रयुते त्रि० ।

शोणपुष्पक पु० शोणं पुष्पमस्य कप् । १ कोपिदारे राजनि० २ रक्तकुसुयान्विते त्रि० ।

शोणपुष्पी स्त्री शोणं पुष्पमस्याः ङीप् । सिन्दूरपुष्प्यां राजनि०

शोणरत्न न० कर्म० । पद्मरागमणी अमरः ।

शोणाक न० शोणं रक्तवर्णभकति अण् । (शोणा) क्षुपभेदे । शब्दमा० ।

शोणित न० शोण--इतच् । १ रुधिरे तद्वद्वर्णे २ रक्तवर्णे पु०

३ तद्वति त्रि० अमरः । ४ कुङ्कुमे न० राजनि० ।

शोणितचन्दन न० शोणितं रुधिरमिव चन्दनम् । रक्त-

चन्दने राजनि० ।

शोणितपुर न० शोणितमिव रक्तं पुरम् । वाणासुरनगरे त्रिका० ।

शोणोपल पु० कर्म० । माणिक्ये षणौ राजनि० ।

शोथ पु० शु--थन् । हस्तपादादेः स्फीतताकारके रोगभेदे

तस्य लक्षणादिकं भावप्र० उक्तं यथा
“अथ शोथाधिकारः । तत्र शोथस्य विप्रकृष्टं निदान-
माह “शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णीष्ण
गुरुपसेवनात् । दध्याममृच्छाकविरोधिपिष्टगरोपसूष्टान्न-
निषेवणाच्च । अर्शांस्यचेष्टा वपुषोह्यशुद्धिर्मर्माभिधाती
विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्मणाञ्च निजस्य
हेतुः श्वयथोः प्रदिष्टः” । शुद्धिर्वमनविकारेकादिः ।
आमयाः पाण्डुरोगादयः । अभक्तम् अगोजनम् । आमः
अपक्वो भुक्तस्य रसः । पिष्टगरोपसृष्टान्नम् पिंष्टो यो
गरः संयोगजं विषं तेन संसृष्टमन्नम् । वपुषोह्यशुद्धिः
शोधनार्हस्य वपुषोऽशोधनम् । मर्मोपधातः दीपकृत
एव ज्ञेयः । वाह्यहेतुकृतस्तु मर्मोपघात आगन्तुजशोथ
हेतुरेव । विषमा प्रसूतिः आमगर्भपतनादिका । प्रति-
कर्मणां वमनादिपञ्चकर्मणाम् निय्योपचारः
असम्यक्करणम् । श्वयथोः शोथस्य निजस्य आत्मीषस्य सन्नि-
कृष्टस्य हेतुर्घातात्मकस्योक्तः । अथ शोथव्य संप्राप्तिपूर्वकं
सामान्यं लक्षणमाह “रक्तपित्तकफान् वायुर्दुष्टो दुष्टान्
बहिःसिराः । नीत्वा रुद्धमतिस्तैर्हि कुर्य्यात्त्वग्मांस
संश्रयम् । उत्सेधं संहतं शोथं तमाहुर्निचयादतः ।
सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माप्य सिरातनु-
त्वम् । सलोमहर्षञ्च विवर्णता च सामान्यलिङ्गं श्वयथोः
प्रदिष्टम्” । उत्सेधं उन्नतत्वम् । किंविशिष्टमुत्मेध-
अतः पूर्वोक्तात् निचयात् रक्तपित्तकफवातानां
समुदायात् संहतम् घनम् । तमुत्सेधं शोथमाहुरित्य-
वयः । तस्य शोथस्य किं स्यादित्याकाङ्क्ष याचाह ।
अनवस्थितत्वं स्यात् अनिषता स्थितिः स्वादित्यर्शः
चिकित्साव्यतिरेकेणापि निवृत्तेः । तच्चानवस्थिवत्यं
सगौरवं स्याद्गौरवमप्यनवस्थितं स्यात् । अथ च सोत्मेघ
स्यात् । उन्नतत्वमप्यनवस्थितं स्वादिव्यर्थः । वातिकं
शोयमाह “चरस्तनुत्वक्परुषोऽरुणोऽसिनः प्रलुप्तिड़र्षा-
र्त्तियुतो निमित्ततः । प्रशाम्यति प्रोन्नमति प्रपीड़िगो
दिवा वली स्यात्श्वयथुः समोरणात्” । चरः लजारी ।
प्रनुप्तिः स्पर्शाज्ञता! हर्पोऽत्र (फिनि फिनी) रोमाञ्चो
वा । आर्त्तिः पीडा एतद्युतः दिवा बली विकृतिविषम
समप्रायारब्वत्वाद् । चतएबोक्तम् “स्लेहोष्णवमनाद्यैर्यः
प्रशाष्येत स वातिकः । यसाप्यरुपवणः स्याम्नापो
नक्तं प्रशाम्यति” । अथ पैधिकमाह “स्वदुः सगन्धो-
ऽसितपीतरागवान् भ्रमज्वरस्वेदटषामदान्वितः । य
उष्यते स्पर्शसहोऽक्षिरागमान् स वित्तशोथो भृण्टा-
हपाकतान्” । उष्यते सन्तप्यते । भृशदाहभाकवान्
भृशं पाकस्तद्युक्तः । श्लैष्मिकमाह “पुरुः स्थिरः पाण्डुर-
रोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृस् । सकृच्छ्र-
पृष्ठ ५१४४
जन्मप्रशमो निपीड़ितो नचान्नमिड्रात्रिवली
ककात्मकः” । द्वन्द्वजमाह “निदानाकृतिसंसर्गात् ज्ञेयः शोथो
द्विदोषजः” । सान्निपातिकमाह “सर्वाकृतिः सन्निपाता-
च्छाथोव्यामिश्रलक्षणः” । व्यामिश्रलक्षण इत्युक्तेः सर्वा-
कृतिरिति उक्तवातजादिशोथसकलसक्षणनियमार्थम् ।
अथाभिधातजमाह “अभिघातेन शस्त्रादिच्छेदभेदक्षता-
दिमिः । हिषानिलोदध्यनिलैर्मल्लातकपिकच्छजैः ।
रसै शूकैश्च संस्पर्शाच्छयथुः स्याद्विसर्पवान् । भृशोष्म
लोहिताभास प्रायशः पित्तलक्षणः” । छेदः स्नड्गा-
दिना भेदः पाषाणादिना । क्षतं शरादिबा नाड़ीव्र-
णादि च । आदिशब्देन लगुड़प्रहारादि गृह्यते ।
भल्लातजैः रसैः कपिकच्छुजैः शूकैः विसर्पवान् प्रसरणशालः
पित्तलक्षणः पैत्तिकशोथलक्षणः । अथ विषजमाह
“विषजः सविषप्राणिपरिसर्पणमूत्रणात् । दंष्ट्रादन्त
नखाधातादविषप्राणिनामपि । विण्मूत्रशुक्रोपहत-
मलवद्वस्तुसङ्करात् । विषवृक्षानिलस्पर्शाद्गरयोगावधून-
नात् । मृदुश्चलोऽवलम्बी च शीघ्रो बहुरुजाकरः” ।
परिसर्पणात् शरीरोपरि सञ्चरणात् । दंष्ट्रा द्विगुणीकृता
दन्ताबलिः । (चोह) इति लोके । दन्वाः आस्ये भबाः ।
अविषप्राणिनामपीत्यनेन दंष्ट्रादन्तबखानां स्वभावादेव
सविषत्वं किन्तु सर्षादिविषं मारकं भवति अविषप्रा-
णिनां दष्ट्रादिविषं शोथव्यथादिकरं भवतीति
विशेषः । विण्मुत्रेत्यादि । विड़ाद्युपहतं मलिनञ्च
यद्वस्तु तथा सङ्करः सन्मार्जनीभिः क्षिप्तो धूल्यादिः
तेषां सम्पर्कात् । गरयोगावधूननात् गरः संयोगजं
विषं तस्य योगा यस्य तेन वस्तुनाऽवधूननात् ।
अवलम्बी लम्बमानः । अयमप्यागन्तुजस्तथापि सामान्या
गन्तुजशोथचिकित्सातोऽस्य विशिष्टचिकित्साभिधा-
नाय पृथक् पठितः । यत्र स्थिता दोषा यत्र शोथं
कुर्वन्ति तदाह “दोषाः श्वयथुमूर्द्ध्वं हि कुर्वन्त्यामाशये
स्थिताः । पित्ताशयस्था मध्ये तु वर्चःस्थानगतास्त्वधः ।
कृत्स्नं देहृमनुघ्राप्य कुर्युः सर्वसरं तथा । ऊर्द्धम्
उरःप्रभृत्यूर्द्धम् । मध्ये उरःपक्काशयमध्ये । अधः
पक्काशयादधः । उपद्रवानाह “छर्दिश्वासोऽरुचिस्तृष्णा
ज्यरोऽतीसार एव च । सम्पाक आमटौर्बल्यं शोथ
एते उवद्रवाः” । तत्र शोथामाध्यत्वमाह “श्वासः पिपासा
छदिश्च दौर्बल्य ज्वर एव च । यस्य चान्ने रुचिर्ज्ञास्ति
शाथिनन्तु विवर्जयेत्” । स्वार्थे क । तत्रार्थे शब्दच० ।

शोथघ्नी स्त्री शोथं हन्ति हन--टक् ङीप् । १ पुनर्नवयाम्

अमरः । २ शालपर्ण्याञ्च राजनि० । ३ शोथनाशके
औषधमात्रे त्रि० ।

शोथजि(ह)त् पु० शोथं जयति हरति वा ञि--हृ--वा

किप् । भल्लातके रत्नमा० ।

शोथजिह्म पु० शोथे जिह्मः विपरोताचरणशाली । पुनर्नवायां त्रिका० ।

शोधन न० शुध--णिच्--ल्युट् । १ शौचे २ विष्ठायां शब्दच० ।

३ कासीसे राजनि० । ४ मलादेर्विरेचने ५ दोषविवारणे
६ ऋणादिनिर्यातये च । शुध--णिच्--ल्यु । ७ निन्यूके
पु० राजनि० । ८ शुद्धिकारके त्रि० । शुध्यत्यनया करणे
ल्युट् ङीप् । ९ सम्मार्जन्याम् स्त्री अमरः । १० ताम्बूल-
वल्ल्यां ११ नील्याञ्च स्त्री ङीप् । १२ विहिताविहितमा-
सादिविचारणे न० “सूर्य्यग्रहणकालेन समानो नास्ति
कश्चन । तत्र यद्यत् कृतं सर्वमबन्तफलदम्भवेत् । न
मासतिथिवारादिशोधनं सूर्य्यपर्वणि” मल० त० ।
दोषनिवारणञ्च धातुविशेषस्य द्रव्यान्तरेण संयोजनम् “पत्त-
लोकृतपत्त्राणि हेम्नो वह्नौ प्रतापयेत् । निषिञ्चेत
तप्ततप्तानि र्तले तक्रे च काञ्जिके । गोभूत्रे च कुन
त्थानां कषाये तु त्रिधा त्रिधा । एवं हेम्न परेषःञ्च
धातूनां शोधनं भवेत्” इत्यादिपकारेण धात्वादीनां
दोषनिवारणम् । १३ व्रणादेः क्लेदपूयाद्यपसारणे च
“व्रणस्य त्वविथुद्धस्य क्वाथः शुद्धिकरः स्मृतः । पटोल-
निम्बपत्त्रस्य सर्वत्रैव प्रयुज्यते । वातिके दशमूलानां
क्षीरिणां पैत्तिके व्रणे । आरग्बधादेः कफजे कषयाः
शोधनं मतम्” । १४ पाण्डुलेख्यादेर्दोषनिवारणे भाषा-
शब्दे दृश्यम् । १५ भाज्याङ्गात् भाजकस्य हरणे ।

शोधनीवीज न० ६ त० । जयपाले राजनि० ।

शोधित त्रि० शुध--चिच्--क्त मलाद्यपसारणेन १ कृतसं-

स्कारे २ मार्जिते अमरः ।

शोफ पु० शु--फन् । शोथे अमरः । शोथशब्दे दृश्यम् ।

शोफघ्नी स्त्री शोफं हन्ति हन--टक् ङीप् । १ शालपर्ण्यां

२ रक्तपुनर्नवायाञ्च राजनि० ।

शोफनाशन पु० शोफ नाशयति नश--णिच्--ल्यु । नीलवृक्षे राजनि० ।

शोफहृत पु० शोफं हरति हृ--क्विप् । भल्लातके भावप्र० ।

शोभन न० शोभते शुभ--ल्य । १ पद्मे शब्दमा० । विष्कम्भा-

दिषु २ पञ्चमे योगे पु० ज्यो० त० । ३ शोभायुक्ते त्रि० ।
४ सुन्दरे त्रि० ५ ग्रहे पु० धरणि ।

शोभनक पु० शोभनाय कायति क--क । शोभाञ्जनवृक्षे शब्दच०

पृष्ठ ५१४५

शोभना स्त्री शोभयति लेपनात् शुभ--णिच्--ल्यु । १

हरिद्रायां २ गोरोचनायाञ्च राजनि० ।

शोभा स्त्री शुभ--अ । १ दीप्तौ “सा शोभा रूपभोगाद्यैर्यत्

स्यादङ्गविमूषणम् । शोभैव सान्तिराख्याता मन्मथा-
प्यायनोज्ज्वला” उज्ज्वलमण्युक्तार्थे च ३ गोपीभेदे ब्रह्म-
वै० प्र० ९ अ० । ४ हरिद्रायां ५ गोरोचनायां राजनि० ।

शोभाञ्जन पु० शोभायै अज्यते अन्ज--ल्युट् । (शजना)

वृक्षे अमरः “तद्वीजं श्वेतमरिचं मधुशिग्रुः स लोहितः ।
शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः । दीपनो
रोश्चनो रूक्षः क्षवस्तिक्तो विदाहकृत् । संग्राह्यशुक्रलो
हृत्यः पित्तरक्तपकोपणः । चक्षुष्यः कफवातघ्नो विद्रधि
श्वपयक्रमीन् । मेदोऽपचीविषप्लीहमुल्मगण्डव्रणान्
हरेत् । श्वेतः प्रोक्तगुणो ज्ञेयो विशेषात् दाहकृत्
भवेत् । प्लीहानं विद्रधिं हन्ति ग्रणघ्नः पित्तरक्तकृत् ।
रक्तशिग्रुः प्रोक्तगुणो विशेषाद्विपनः सरः । शिग्रुवल्-
कलपत्त्राणां स्वरसः परमार्त्तिहृत् । चक्षुष्यं शिग्रुजं
वीजं तीक्ष्णोष्णं विषनाशनम् । सुवृष्यं कफवातघ्नं
तन्नस्यं तु शिरोर्त्तिनुत् । शिग्रुशाकं हिमं स्वादु चक्षुष्यं
वातपित्तहृत् । वृंहणं श्रुक्रकृत् स्निन्धं रुच्यं गदक्रमि-
प्रणुत् । शिग्रोः पुष्पन्तु कटुकं स्निग्धोष्णं स्नायुशोथनुत् ।
छमिहृत् कफवातघ्नं विद्रधिप्लीहगुल्मजित् । शोमा-
ञ्जनफलं स्वादु कषायं कफपिक्षनुत् । शूलकुष्ठक्षयश्वास
गुल्महृत् दीपनं परम्” भावप्र० । अधिकं शिग्रुशब्दे
दृश्यम् ।

शोली स्त्री शूल--अच् पृषो० ङीष् । वनहरिद्रायां राजनि०

शोष पु० शुष--घञ् । १ वातादिना रसाद्यपहारेण कठिनता-

करणे । शोघयति शुष--णिच्--अच् । २ यक्ष्मरोगे मेदि० ।

शोषण न० पुष--ल्युट् । १ चोषणेन रसाकर्षणे हेमच० ।

२ शोषशब्दार्थे च शोषयति शुष--णिचु--ल्यु । उन्मादनः
शोषणश्च तापनं स्तम्भनस्तथां । मारणश्चेति विज्ञेयाः
कामस्य पञ्च सायकाः” इत्युक्ते ३ स्मरशरभेदे जटा० ।
४ शोणाकवृक्षे भावप्र० । ५ शुण्ठ्यां राजनि० ।

शोषसम्भव न० सम्भवत्यस्मात् सम् + भू--अप् ६ त० । पिप्पली-

मल राजनि० ।

शोषापहा स्त्री शोषमपहन्ति अप + हन--ड । १ क्लीतनके राजनि० । २ शोषनाशके त्रि० ।

शौक न० शुकान समूहः अण् । १ शुकसमुदाये अमरः ।

शूकोऽस्त्यत्र णः । स्त्रीणां २ करणमेदे राजनि० ।

शौकर न० शूकरस्य वराहस्येदम् अण् । १ शौकरवे तीर्थभेदे

वराहपुराणम् । २ शूकरसम्बन्धिनि त्रि० । स्त्रियां ङीप् ।

शौकरब न० तीर्थभेदे “परं शौकरवं स्थानं सर्वसंसारमोक्ष-

णम् । यत्र संस्था च मे देवि ह्युद्धृतासि रसातलात् ।
यत्र मागीरधी गङ्गा नम शौकरवे स्थिता” बराहपु० ।

शौक्तिकेय न० शुक्तिकायां भवम् ढक् । मुक्ताया राजनि०

शौक्तेय न० शुक्तौ भवम् ढक् । मुक्तायां राजनि० ।

शौक्ल्य पु० शुकस्य भावः ष्यञ् । श्वेततायां श्वेतवर्णे ।

शौच न० शुचेर्भाद्धः अण् । १ शुद्धौ पवित्रतायाम् “अभक्ष्य-

परिहारश्च संसर्गश्चाप्यनिन्दितैः । स्वधर्मे च व्यपस्थानं
शौचमित्यभिधीयते” इति वृहस्पत्युक्ते २ धर्मविशेषे च
“सर्वेषामेव शौचानामर्थशौचं विशिष्यते । योऽथार्थैर-
शुचिः शौचान्न मृदा बारिष्णा शुचिः । मलशौचं
मनःशौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं
जलशौचन्तु पञ्चमम् । यस्य सत्यञ्च शौचं च तस्य स्वर्गो न
दुर्लभः” गारुड़े ११० अ० ।
मृदादिशौचप्रकारस्तु आ० त० दर्शितो यथा
देबलः “धर्मविद्दक्षिणं हस्तमवः शौत्ते न योजयेत् ।
तथैव वामहस्तेन नाभेरुर्द्ध्वं न शोधयेत् । प्रकृतिस्थिति-
रेषा स्यात् कारणादुभयक्रिया” । कारणाद्रोगादेः ।
ब्रह्माण्डपु० “उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः ।
उदङ्मुखो दिवा कुर्य्यात् रात्रौ चेद्दक्षिणामुखः । सुनि-
र्णिक्ते मृदं दद्यात् मृदन्ते त्वप एव च । दातव्यमुदक
तावद् यावत् स्यात् मृत्तिकाक्षयः” । कुर्य्यात् शौचमिति
शेषः । सुनिर्णिक्ते नरद्वाजोक्तलोष्ट्रदिप्रमृष्टे गुदे ।
उदकपात्राभावे करेण जलाशयादुदकग्रहणमाह
आदित्यपु० “रत्रिमात्रं जलं त्यक्त्वा कुर्य्यात् शौचमनु-
द्धृते । पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत्” ।
यस्मिन् प्रदेशे शौचं कर्त्तव्यं तस्मादरत्निमात्रव्यवहितं जलं
तत् स्थलमेव तीर्थं जलसमीपत्वात् । विष्णुपु० “बल्मी-
कमूषिकोत्खातां मृदमन्तर्जलां तथा । शौचावशिष्टां
गेहाच्च नादद्यात् लेपसम्भवाम् । अन्तःप्राण्यवपन्नाञ्च
हलोत्खातां सकर्दमाम्” । मनुदक्षौ “एका लिङ्गे गुदे
तिस्रो दश वामकरे तथा । उभयोः सप्त दातव्या मृदः
शद्धिमभीप्सता” । उभयोः करयोः । विष्णुंपु० “एका-
लिङ्गे गुदे तिस्रो दश वामकरे तथा । हस्तद्गये च सप्ता-
न्या मृदः शौचोपपादिकाः” । यमः “लिङ्गे त्वेका गुदे
तिस्रो वामहस्ते चतुर्दश । ततः पुनरुभाभ्यात दातव्याः
सप्त मृत्तिकाः” । प्रैठीनसिः “मृत्तिकां संगृह्य एका
पृष्ठ ५१४६
लिङ्गेऽपाने पञ्च एकस्मिन् हस्ते दश उभयोः सप्त”
इव्यादि । एतासां संख्यानां दक्षाद्युक्ताधिक्यं गन्धा-
द्यनुवृत्तिमनुरुध्य व्यवस्थेयम् । वामहस्ते दशदानान-
न्तरं तत्पृष्ठे षड्दानमाह हारीतः “दश मध्ये च
षट्पृष्ठे इति” । शङ्दक्षौ “तिस्रस्तु मृत्तिका देयाः कृत्वा
नखविशोधनम् । तिस्रस्तु पादयोर्देयाः शुद्धिकामेन
नित्यशः” । नखशोधनं तृणादिना नखान्तर्मलशोधनम्,
तिस्र इति हस्तयोरिति शेषः । पादप्रक्षालनं कांस्ये न
कर्त्तव्यमित्याह विष्णुधर्मोत्तरम् “दर्भैर्न मार्जयेत् पादौ
न च कांस्येन धावयेत्” । दक्षः “लिङ्गे तत्र समाख्या-
ता त्रिपर्वी पूर्य्यते यया । अर्द्धप्रसृतिमात्रा तु प्रथमा
मृत्तिका स्मृता । द्वितीया च तृतीया च तदर्द्धार्द्धा
प्रकीर्त्तिता” । यदा तु उक्तप्रमाणया मृदा गन्धलेप-
क्षयो न भवति तदा अधिकयापि कर्त्तव्यम् । “गन्धलेप-
क्षयकरं शौचं कुर्य्यादतन्त्रितः” इति याज्ञवल्क्यात् ।
गुदादत्थत्र परिमाणमाह यमः “मृत्तिका तु समुद्विष्टा
त्रिपर्वी पूर्य्यते यया” । त्रिपर्वी तर्जनीमध्यमानामि
कानामग्रत्रयम् । मूत्रमात्रेति स्मृतिः “एकां लिङ्गे मृदं
दद्यात् वामहस्ते तु मृतत्रयम् । उभयोर्हस्तयोर्द्वे च
मूत्रशौचं प्रकीर्त्तितम्” । व्रह्मपुराणे “पादयोर्द्वे
गृहीत्वा च सुप्रक्षालितपाणिमान् । द्विराचम्य ततः
शुद्धः स्मृत्वा विष्णुं सनातनम्” । पादयोर्द्वे एकैका ।
इदं मूत्रोत्सर्गे, पुरीषोत्सर्गे तिसृणां विधानात् । दक्षः
“यथोदितं दिवा शौचं अर्द्धं रात्रौ विधीयते । आतुरे
तु तदर्द्धं स्यात्तदर्सं तु पथि स्मृतम्” । यथोक्तकरणा-
शक्तावेवेदं न तु निशादिपुरस्कारेणैव वाक्यस्यादृष्टार्थता-
पत्तेः । आपस्तम्बः “पथि पादस्तु विज्ञेय आर्त्तः
कुर्य्याद् यथाबलम्” । एतयोर्विरोध आर्त्तानार्त्ताभ्यां
परिहरणीयः । दक्षबौधायनौ “देशं कालं तथात्मानं द्रव्यं
द्रव्यप्रयोजनम् । उपपत्तिमवस्थाञ्च ज्ञात्वा शौचं प्रक-
ल्पयेत्” । ब्रह्मपुराणे “म यावदुपनीयेन द्विजः शूद्रस्त-
धाङ्गना । गन्धलेपक्षयकरं शौचं तेषां विधीयते ।
प्रमाणं शौचसंख्या वा न शिष्टैरुपदिश्यते । यावत् शुद्धिं
म ग्रम्येत तावत् शौचं समाचरेत् । म्यूमाधिकं न
कर्त्तष्यं शीचं शुद्धिममीप्सता । प्रायश्चित्तं प्रसज्येत
विहितातिक्रमे कृते । शौचाचारविहीनस्य समस्ता
निस्पत्वाः कियाः” । गन्धलेपक्षये सत्यधिकं न कर्त्तव्यं
ग्राज्ञवल्क्यविरोधात् । गन्धलेपाक्षये त्वधिकसंख्ययापि
याज्ञवल्क्यवचनमनुपनीतादिपरं वा । व्याघ्रपादः
“शौचन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरन्तथा । मृज्जलाभ्यां
स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् । गङ्गातोयेन कृत्-
स्नेन मृद्भारैश्च नगोपमैः । आमृत्योः स्नातकश्चैव
भावदुष्टो न शुद्ध्यति” । स्मृतिः “धावन्तञ्च प्रमत्तञ्च मूत्रो
च्चारकृतन्तथा । भुञ्जानमाचमनार्हञ्च नास्तिकं नाभिवा-
दयेत् । जन्मप्रभृति यत्किञ्चित् चेतसा धर्ममाचरेत् ।
सर्वं तन्निष्फलं याति एकहस्ताभिवादनात्” । ऋष्यशृङ्गः
“यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशोधयेत् । न
शुद्धिस्तु भवेत्तस्य मृत्तिकां यो न शोधयेत्” । शौचान-
न्तरं हारीतः “गोमयेन मृदा वा कमण्डलुं प्रमृज्य
पूर्ववदुपस्पृश्य आदित्यं सोममग्निं वा वीक्षेत” इति ।
अत्र मार्जनानन्तरं क्षालनमन्यत्र तथा दर्शनात् ।
आचमनानन्तरं सूर्य्यादिदर्शनं यथासम्भबम्” ।

शौट गर्वे भ्वा० पर० अक० सेट् । शौटति अशौटीत् । ऋदित्

चङि न ह्रस्वः ।

शौटीर पु० शौट--ईरन् । १ त्यागिनि २ वीरे च ३ गर्वान्विते त्रि० सि० कौ० ।

शौटीर्य्य न० शौटीरस्य वीरस्य भावः ष्यञ् । १ वीर्य्ये

२ पराक्रमे ३ सर्वे च ।

शौड गर्वे भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । शौडति अशीडीत् ।

शौण्ड त्रि० शुण्डायां सुरायाममिरतः अण् । १ मत्ते अमरः ।

२ दक्षेच “सप्तमी शौण्डैः” पा० । ७ त० । दामशौण्ड
दानदक्षे ।

शौण्डिक पु० शुण्डा सुरा पण्यमस्य ठक् । १ मद्यविक्रेतरि

२ जातिभेदे पुंस्त्री अमरः स्त्रियां ङीष् । “ततो
गान्धिककन्यायां कैवर्त्तादेव शौण्डिकः” पराशरपद्धतिः ।

शौण्डिन् त्रि० शुण्डा सुरैव अण् शौण्डं तत्पण्यमस्त्यस्य

पनि । शौण्डिके शब्दर० ।

शौण्डी स्त्री शुण्डा करिकरस्तदाक्तारः अस्त्यस्या अण्

गौरा० ङीष् । १ चव्ये २ गजपिप्पल्याञ्च पिश्वः ।

शौण्डीर पु० शुण्डा शर्वोऽस्त्वस्य ईरन् स्वार्थे अण् ।

गरान्विते त्रि० धतञ्जयः ।

शौद्र पुंस्त्री शूद्रायां दिलातिभिकढ़ायां भवः अण् । द्वादश-

पुत्त्रमव्ये शूद्राशाते द्विजातिपुत्त्रभेदे पारशबादौ जटा० ।
स्त्रियां ङीष् । इदमर्थे अण् । २ शूद्रमस्वन्धिनि त्रि० ।

शौद्धोदनि न० शुद्धोदनस्यापत्यम् इञ् । बोधमुनिभेदे अमरः

शौधिका स्त्री शोधः शोधनं मलविरेकस्तस्मे हितः ठक् ।

रक्तकङ्गौ हेमच० ।
पृष्ठ ५१४७

शौनक पु० शुनकस्यापत्यम् अण् । सुनिमेदे “नैमिषेऽनिमिष-

क्षत्रे ऋषयः शौनकभदयः” इति भागवतम् १ । १ ।

शौनिक पु० शूना प्राणिबधस्थानं प्रयोजनमस्य ठक् । १ मांस-

विक्रेतरि (कसाइ) हेमच० । २ मृगयायां शब्दमा० ।
३ मृगयाशीले च ।

शौभ न० शोभायै हितम् अण् । १ व्योमगामिनि पुरभेदे

हरिश्चन्द्रपुरे २ देवे पु० त्रिका० । ३ गुवाके शब्दमा० ।

शौभाञ्जन पु० शोभाञ्जनएव स्वार्थे अण् । (शजना) वृक्ष-

मेदे द्विरूपकोषः ।

शौभिक त्रि० शौभं व्योमपुरं शिल्पमस्य ठक् । इन्द्रजालिके शब्दमा० ।

शौरि पु० शूरस्य यादवभेदस्य वसुदेवस्य सूर्य्यस्य वा

अषत्यम् इञ् । १ विष्णौ २ शनैश्चरे च अमरः ।

शौर्य्य न० शूरस्य भावः ष्यञ् । १ वीर्य्ये २ शक्तौ ३ आरभट्यां

च मेदि० ।

शौल्किक पु० शुल्के राजादिदेये करे तदादाने अधिकृतः ठक् । शुल्कादानाधिकृते हेमच० ।

शौल्किकेय पु० शुल्किकः देशभेदः तत्र भवः ढक् ।

विषभेदे अमरः ।

शौल्विक पुंस्त्री० शुल्वः ताम्रं तन्मयपात्रादि पण्यमस्य ठक् ।

कांस्यकारे (कासारी) जातिभेदे अमरः स्त्रियां ङीष् ।

शौव न० शुनः सङ्कोचः श्वन् + अण् टिलोपः । शुनः सङ्कोचे

अन्यत्र न टिलोपः शौवन इत्येव शुनः सम्बन्धिनि
संक्षिप्तसा० ।

शौवस्तिक त्रि० श्व परदिने भवः श्वस् + ठक्--तुट् च । भाविदिनस्थायिनि पदार्थे ।

शौवापद त्रि० श्वापदस्येदम् अण् । श्वापदसम्बन्धिनि

शौष्कल पु० शुष्कलं शुष्कमांसं पण्यमस्य अण् । १ शुष्कमांस-

विक्रेतरि मेदि० । तद्भक्ष्यमस्य अण् । २ शुष्कमांसभक्षके
त्रि० अमरः ।

श्चुत क्षरणे भ्वा० पर० अक० सेट् । श्चोतति इरित् अश्चुतत् अश्चोतीत् ।

श्च्युत क्षरणे भ्वा० पर० अक० आसेचने सक० सेट् । श्च्योतति

इरित् अश्च्युतत् अश्च्योतीत् ।

श्च्योत पु० श्च्युत--घञ् । समन्तात् मेचने आधारे अमरः ।

श्मन् न० शेते शी--मनिन् डिच्च । १ पुंमुखे २ शये कालिकापु०

अदन्तोऽप्यत्र “सर्वे नान्ताः अदन्ता स्यु” रित्युक्तेः ।

श्मशान न० श्मानः शवाः शेरतेऽत्र शी--आनच् डिच्च ।

“श्मन् शब्देन शवः प्रोक्तः शानं शयनमुच्यते । निर्वचन्ति
श्मशानार्थं मुने! शब्दार्थकोविदाः । महान्त्यपि च
भूतानि प्रलये समुपस्थिते । शेरतेऽत्र शवो भूत्वा श्मशानन्त
त्ततोऽभवत्” महाभूतलयस्थाने महाश्मशाने १ काश्याम्
कालिकापुराणे ३० अ० । २ शवदाहस्थाने अमरः ।

श्मशानकाली स्त्री श्मशानस्था काली । कालिकाभेदे ।

श्मशानवासिन् पु० श्मशाने वसति वस--णिनि । १ महादेवे

२ वटुकभैरवे च । श्मशानबासकर्त्तरि चण्डालादौ त्रि० ।

श्मश्रु न० श्म पुंसुखं श्रूयते लक्ष्यतेऽनेन श्रु--ड् । गुरुपसु-

खस्थे लोमसङ्घे अमरः । “केशामश्रुधारयतामग्र्या
भवति सन्ततिः” शु० त० ।

श्मश्रुमुखी स्त्री श्मश्रु मुखे यस्याः ङीप् । १ पुरुषलक्षणयु-

क्तायां २ पोटाख्यायां स्त्रियां जटा० ।

श्मश्रुल पु० श्मश्रुविद्यतेऽस्य लच् । श्मश्रुयुक्ते

श्मश्रुवर्द्धक पु० श्मश्रु वर्द्धयति छिनत्ति वृध--ण्वुल् । नापिते क्षुरकर्मकारके ।

श्मील निमेषणे भ्वा० पर० अक० सेट् । श्मीलति अश्मीलीत् ।

श्यान त्रि० श्यै--क्त । सङ्कोचविशेषप्राप्ते घनीभूते “पथश्चा-

श्यानकर्दमान्” रघुः ।

श्याम पु० श्यै--मक् । १ वृद्धदारकवृक्षे २ प्रयागतीर्थस्थे वटे

३ कोकिले ४ मेघे ६ कृष्णवर्णे ६ हरिद्वर्णे च । ७ तद्वति
त्रि० मेदि० । ८ धुस्तूरे ९ पीलुवृक्षे १० श्यामाके राजनि० ।
११ मरिचे १२ सिन्धुजलबणे च न० मेदि० । १३ दमनकवृक्षे
१४ गन्धतृणे पु० विश्वः ।
ईषद्भेदेऽपि कृष्णश्यामनीलादीनाममरादौ पर्य्यायता तत्र
कृष्णवस्तूनि कतिचित् कविकल्पलतायां दर्शितानि यथा
“कृष्णानि केशवः सीरिचीरं चन्द्राङ्कराहवः । विन्ध्या-
ञ्जनाद्रिवृक्षाहिवनभैरवराक्षसाः । शिवकण्ठधनद्वैपा-
यनरामधनञ्जयाः । शनिः द्रुपदजा काली कलिकोलय-
माऽसुराः । केशकज्जलकस्तूरीराजपट्टविदुरजम् ।
विषकोषकुहूशस्त्रागुरुपापतमोनिशाः । मसोपङ्कमटा-
म्भोधियमुनाधूमकोकिलाः । गोलाङ्गूलास्यगुञ्जास्ये कण्ठः
णञ्जनकेकिनोः । शबलं तालतापिञ्जतिलेन्दीवरवल्लयः ।
रसावद्भुतशृङ्गारौ कटाक्षोऽलिः कनीनिका । नीली
जम्बूफलं मुस्ता काककृत्याकुकीर्त्तयः । भिन्नच्छाया
गजाङ्गारखलान्तःकरणादवः” ।

श्यामक न० श्याम + संज्ञायां कन् । १ रोहिषतृणे राजनि० ।

२ श्यामाके (शामा) धान्यभेदे पु० हेमच० ।

श्यामकण्ठ पु० श्यामः कण्टोऽस्य । १ मयूरे हेमच० । २ शिवे

३ नीलकण्ठविहगे च ।

श्यामकन्दा स्त्री श्यामः कन्दोऽस्याः । अतिबिषायां राजनि०।

श्यामकाण्डा स्त्री श्यामः काण्डोऽस्याः । गण्डदूर्वायां राजनि० ।

पृष्ठ ५१४८

श्यामग्रन्थि स्त्री श्यामो ग्रन्थिरस्याः । गण्डदूर्वायां राजनि०

श्यामपत्त्र पु० श्यामानि पत्त्राणि यस्य । तमालवृक्षे शब्दच०

श्यामल पु० श्यामवर्णं लाति ला--क । १ पिप्पले २ कृष्ण-

वर्णयुते त्रि० मेदि० । ३ अश्वगन्धायां ४ कटभ्यां ५ जम्ब्वां
६ कस्तूर्य्याञ्च स्त्री राजनि० । ७ श्यामवर्णे पु० अमरः ।

श्यामलचूड़ा स्त्री श्यामला चूड़ाऽस्याः । गुञ्जायां राजनि०

श्यामलता स्त्री कर्म० । १ स्वनामख्याते शारिवौषधौ

शब्दर० । श्यामलस्य भावः तल् । २ कृष्णवर्णे ३ हरिद्वर्णे च

श्यामलिका स्त्री श्यामलोवर्णोऽस्त्यस्याः ठन् । नील्यामौ-

षधौ राजनि० ।

श्यामलेक्षु पु० कर्म० । (काजला) इक्षुभेदे राजनि० ।

श्यामसुन्दर पु० श्यामोऽपि सुन्दरः । श्रीकृष्णे “श्याम-

सुन्दर! ते दास्यः” इति भागवते १० स्क० २२ अ० ।
“ध्यायन्ति योगिनस्तञ्च शुद्धं ज्यातिःस्वरूपिणम् ।
हस्तपादादिरहितं निर्गुणं प्रकृतेः परम् । वैष्णवास्तन्न
मन्यन्ते तद्भक्ताः सक्ष्मदर्शिनः । कुतो बभूव तज्ज्योति
रहो तर्नाखन विना । ज्योतिरभ्यन्तरे नित्यं शरीरं
श्यामसुन्दरम्" ब्रह्मवै० गणपतिख० ४१ अ० ।

श्यामा स्त्री श्यै--मन् । १ शारिवौषधौ २ अप्रसूताङ्गनायां

३ प्रियङ्गौ ४ यमुनायां ५ वागुजौ ६ रात्रौ ७ कृष्णत्रिवृति
८ नील्यां मेदि० ९ गुग्गुलौ १० सोमलतायां ११ गुन्द्रायां
१२ कृष्णायाम् १३ अम्बिकायां विश्वः । १४ गुडूच्यां १५
कस्तूर्य्यां १६ षटपत्त्र्यां १७ वन्दायां १८ नीलपुनर्नवायां
१९ पिप्पात्यां २० हरिद्रायां २१ नीलदूर्वायां २२ तुलस्यां
२३ पद्मवीजे २४ गवि २५ छायायां २६ कृष्णशारिकायां
२७ शिशपायां २८ पक्षिभेदे (शामा) राजनि० ।
“शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला । तप्तका-
ञ्चनवर्णाभा सा स्त्री श्यामेति कीर्त्तिता” इत्युक्तलक्षणे
२९ स्त्रीविशेषे च । ३० हिमालयसुतायां काल्यां च
“ततः सा कालिका देवी योगनिद्रा जगन्मयी । पूर्वत्यक्त
सतीरूपा जन्मार्थं मेनकां ययौ । समयस्यानुरूपेण
मेनका जठरे शिवा । सम्भूय च समुत्पन्ना सा लक्ष्मी
रिव सागरात् । वसन्तसमये देवी नवम्यां मृगयोगतः ।
अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डलात् । तान्तु दृष्ट्वा
यथा जातां नीलोत्पलदलानुमाम् । श्यामां सा मेनका
देवी मुदमापातिहर्षिता” कालिकापु० ४० अ० ।

श्यामाक पु० श्यामेव कायति कै--क । (श्यामा) धान्यभेदे

“श्यासाकः शोषणो रूक्षो वातलः कफपित्तकृत्” भावप्र०

श्यामाङ्ग पु० श्यामं हरिद्वर्णमङ्गमस्य । १ बुधग्रहे त्रिका० ।

२ कृष्णदेहे त्रि० स्त्रियां ङीष् । “श्यामाङ्गीं विगता-
म्बराम्” तन्त्रम् ।

श्यामाम्ली स्त्री कर्म० । नीलाम्लीकुपे राजनि० ।

श्यामिका स्त्री श्याम + वा० भाव ठन् । १ श्यामत्के २ स्वर्णा-

दिमालिन्ये च “हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्या-
मिकाऽपि वा” रघु

श्याल पु० श्यै--कालन । पत्नीभातरि अमरः । स्वार्थे ठक् ।

श्यालिकोऽप्यत्र ।

श्यालिका स्त्री श्यै--कालत् संज्ञायां कन् । अत इत्त्वम् । पत्नीभगिन्याम् शब्दच० ।

श्याव पु० श्यै--वन् । १ कृष्णपीतमिश्रवर्णे २ तद्वति त्रि० अमरः

श्यावदत् त्रि० श्यावो दन्तो यस्य दवादेशः । श्यामवर्ण-

दन्तयुक्ते स्त्रियां ङीप् ।

श्यावदन्त पु० कर्म० । १ स्वभावतः कृष्णवर्णयुक्ते दन्ते ६ ब०

कप् । २ तद्युक्ते त्रि० “सुरापः श्यावदन्तकः” विष्णुस्मृ०

श्येत पु० श्यै--इतच् । १ शुल्लबर्णे २ तद्वति त्रि० स्त्रियां ङीप्

तम्य नश्च । श्येनी ।

श्येतकोलक पुंस्त्री० श्वेतः कोल इव । (पुँटि) मत्स्यभेदे हारा० स्त्रियां ङीष् ।

श्येन पुंस्त्री० श्यै--इनन् । १ पक्षिभेदे (वाज) अमरः । २

पाण्डुरवर्णे च ३ तद्वति त्रि० मेदि० ।
तत्खगस्य शुभागुभसूचनं यथा “प्रदक्षिणीकृत्य नरं
व्रजन्तो यात्रासु वामेग गताः प्रवेशे । श्येनाः प्रशस्ताः
प्रकृतस्वरास्ते शान्ताः प्रदीप्ता वित्ततस्वस्तस्ते । श्येनो
नृणां दक्षिणवामपृष्ठभागेषु भाग्यैः स्थितिमादधाति ।
तिष्ठन् पुरस्तान्मृतये कणेति युद्धे जयं छन्नरथध्वजस्थः”
इति वसन्तराजः । “श्येनेनाभिचरन् यजेत” श्रुतिविहिते
२ यागभेदे अभिचारशब्दे दृश्यम् ।

श्येनघण्टा स्त्री श्येनी घण्टेव । दन्तीवृक्षे राजनि० ।

श्यै गतौ भ्वा० आ० सक० अनिट् । श्यायते अश्यास्त ।

श्यैनम्पाता स्त्री श्येनस्य पातो यत्र अण् मुम् च । मृग

यायाम् अमरः ।

श्यो(णा)माक पु० श्ये--ओना(णा)क । (शोणा) क्षुपेभेदे ।

“श्योनाको दीपनः पाके कटुकस्तुवरो हिमः । ग्राही
तिक्तोऽनिमलेष्मपित्तकासामनाशनः । कटु तस्य फलं
बालं रुक्षं वातकफापहम् । हृद्यं कषायं मधुरं रोचनं
लघु दीपनम् । गुल्मार्शःकृमिहृत् प्रोक्तं गुरुवातप्रको-
पणम्” भावप्र० ।

श्रक सर्पणे भ्वा० आ० सक० सेट् इदित् । श्रङ्गति अश्रङ्गीत् ।

पृष्ठ ५१४९

श्रग गतो भ्वा० पर० सक० सेट् इदित् । श्रङ्गति अश्रङ्गीत् ।

श्रण दाने भ्वा० पर० सक० सेट् । श्रणति अश्राणीत् अश्रणीत्

मित् घटादि० श्रणयति ।

श्रण दाने चु० उभ० सक० सेट् । श्राणयति ते अशिश्रणत् त ।

श्रत् अव्य० श्रो--डति । श्रद्धायाम् ।

श्रथ यत्ने अक० प्रतिहर्षे सक० चु० उभ० सेट् । श्राथयति ते अशिश्रयत् त ।

श्रथ दौर्बल्ये अ० चु० उ० अक० सेट् । श्रथयति ते असश्रथत् त ।

श्रथ बधे भ्वा० पर० सक० सेट् । श्रथति अश्रथीत् अश्राथीत् ।

श्रथ बन्ध मोक्षे बधे च वा चु० उ० पक्षे भ्वा० पर० सक० सेट् ।

श्राथयति ते श्रथति अशिश्रथत् त अश्रथोत्--अश्राथात् ।

श्रथ शैथिल्ये अक० तत्करणे सक० भ्वा० आ० सेट् इदित् ।

श्रन्थते अश्रन्थिष्ट ।

श्रथन न० श्रथ--ल्युट् । १ बधे २ यत्ने ३ प्रतिहर्षे च ।

श्रद्धा स्त्री श्रत्-धा--अङ् । १ आदरे २ शुद्धौ शब्दच० । ३ गुरु-

वेदान्तवाक्यादिषु विश्वामे वेदान्तसा० ४ स्प हायां ५ चित्त-
प्रसादे “प्रत्ययो धर्मकार्येषु सा श्रद्धेत्यभिधीयते” इति
स्मृत्युक्ते धर्मकार्येषु ६ प्रत्यये च अमरः । “प्रत्ययो
धर्मकार्येषु तथा श्रद्धेत्युदाहृता । नास्ति ह्यश्रद्दधानस्य
धर्मकृत्ये प्रयोजनम” इति स्मृतिः । सा त्रिविधा यथोक्तं
गीतायाम् १७ अ० । “त्रिविधा भवति श्रद्धा देहिनां सा
स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां
शृणु । सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत! । श्रद्धा-
मयाऽयं पुरुषो यो यच्छद्धः स एव सः । यजन्ते
सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणां-
श्चान्ये यजन्ते ताममा जनाः” । “श्रुद्धापूर्वा इमे धर्माः
श्रद्धा मध्यान्तःसंस्थिता । श्रद्धा नित्या प्रतिष्ठाश्च धर्माः
श्नद्धैव कीर्त्तिताः । श्रुतिमात्ररसाः सूक्ष्माः प्रधान-
पुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ।
कायक्लेशैर्न बहुभिस्तथैवार्थस्य राशिभिः । धर्मः संप्रा-
प्यते सूक्ष्मः श्रद्धाहीनैः स्तुरेरपि । श्रद्धाधर्मः परः
सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च
श्रद्धा सर्वमिदं जगत् । सर्वस्वं जीवितं वापि दद्या-
दश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित श्रद्धादानं
ततो भवेत् । एवं श्रद्धान्वयाः सर्ये सर्वधर्माः
पकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा”
वह्निपु० । देवलः “अर्थानामुदिते पात्रे श्रद्धया प्रति-
षादनम् । दानमित्यमिनिर्दिष्ट व्याख्यानन्तस्य वक्ष्यते ।
उद्रित शास्त्रकथिते । देवलेनाम्याप्युक्ता यथा “सत्कृति
श्चानसूया च सदा श्रद्धेति कीर्त्तिता” । अतएव भग
वद्गातासु “अश्रद्धया हुतं दत्त तपस्तप्तं कृतन्तु यत् ।
असदित्युच्यते पार्थ! न च तत्प्रेत्य नेह च” । हरिवं०
“अश्रात्रिय श्राद्धमधीतमव्रतं त्वदक्षिणं यज्ञमनृत्विजा
हुतम् । अश्रद्धया दत्तमसस्कृत हविर्भागाः षड़ते तव
दैत्यपुङ्गव!” शु० त० । थाज्ञवलक्यः “श्रद्धाविधिसमायुक्तं
कर्म यत् क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय
कल्प्यते” यागियाज्ञवल्क्य “विधिहीनं भवेद्दुष्टं
कृतमश्रद्धया च यत । तद्धरन्त्यसुरास्तस्य मूढ़स्य दुष्कृतात्मनः”

श्रद्धालु स्त्री श्रद्धा + आलुच् । १ स्पृहावत्यां स्त्रियां २ श्रद्धायुक्ते

त्रि० ।

श्रन्थ ग्रन्थने बधे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

श्रन्थयति-ते श्रन्थति अशश्रन्थत् त अश्रन्थीत् ।

श्रन्थ माचने प्रतिहर्षे च क्र्या० प० सक० सेट् । श्रथ्नाति अश्रन्थीत्

श्रन्थ पु० श्रन्थ--भावे घञ् । १ खथने कर्त्तरि अच् । सर्वसी-

वनकर्त्तरि २ विष्णौ त्रिका० ।

श्रन्थन न० श्रन्थ--ल्युट् । ग्रन्थते ।

श्रपित त्रि० चु० श्रा--क्त--णिच्-पुक् ह्रस्वश्च । घृतादिमिन्ने

पक्वे मांसादौ जटा० ।

श्रम तपसि, आयास खटे च अक० भ्वा० शमादि० पर० सेट्

उदित् क्त्वा वेट् । श्राम्यति इरित् अश्रमत् अश्रमीत् ।
श्रान्त्वा श्र मत्वा श्रान्तः ।

श्रम पु० श्रम--घञ् न वृद्धि । १ तपसि २ स्वेदे ३ आयासे ४ शस्त्राभ्यासे च हेमच० ।

श्रमण पु० श्रम--युच् । १ यतिभेदे २ भिक्षाजीविनि त्रि० ।

३ जटामांस्यां ४ मुण्ड्यीव्यां ५ शवरीभेदे ६ सुदर्शनायां
स्त्रियां च स्त्री मेदि० ।

श्रमिन् त्रि० श्रम--इनि । श्रमक्तक्ते ।

श्रम्भ प्रमादे भ्वा० आ० अक० सेट् । श्रम्भते अश्रम्भिष्ट । श्रन्भ इत्येके ।

श्रय पु० श्रि--अच् । आश्रये । ल्युट् । तत्रैव न० अमरः ।

श्रव पु० शृणोत्यनेन श्रु--अप् । १ कर्णे २ ख्यातौ च भरतः ।

श्रवण न० शृणोत्यनेन श्रु--वरणे ल्युट् । १ कर्णे शब्दग्राह-

केन्द्रियभेदे अमरः । भावे ल्युट् । २ श्रुतौ अश्वन्यादिषु
द्वाविंशे ३ नक्षत्रे पुंस्त्री० ज्यो० त० क्लीवत्वमपि “अमा-
र्कपाते अवणं यदि स्यादिति” स्मृतिः । ४ मुण्डरिकावृक्षे
स्त्री रत्नमा० ।

श्रवणद्वादशी स्त्री श्रवणेन युक्ता द्वादशी शाक० । “मासि

भाद्रपदे शुक्ले द्वादशी श्रवणाःन्वता” इत्युक्तायां भाद्र-
शुक्लद्वादृश्याम् । व्रतशब्दे दृश्यम् ।
पृष्ठ ५१५०

श्रवणशीर्षिका स्त्री श्रवणमिय शीर्षमस्याः कप् अत

इत्त्वम् । श्रावणीवृक्षे राजनि० ।

श्रवस् न० श्रूयतेऽनेन श्रु--करणे असि । १ कर्णे अमरः । कर्मणि असि । २ कीर्त्तौ ।

श्रवाय्य पु० श्रु--आय्य । यज्ञियपशौ सि० कौ० । शब्दकल्प-

द्रुमे श्रवाप्य इति पाठ कल्पनं प्रामादिकमेव ।

श्रविष्ठा स्त्री श्रूयते श्रु--अप् श्रवः प्रसिद्धिरस्त्यस्याः मतुप्

ङीप् अतिशयेन श्रववती इष्टन् मतुपो लुक् । १ धनिष्ठा-
नक्षत्रे अमरः २ श्रवणनक्षत्रे च ।

श्रविष्ठाज पु० श्रविष्ठायां श्रवणनक्षत्रे जायते जन--ड ।

बुधग्रहे त्रिका० । भगदैवतशब्दे ४६३१ पृ० दृश्यम् ।

श्रा विकॢत्तौ अदा० पर० अनिट् । श्राति अश्रासीत् ।

श्रा पाके अदा० पर० सक० अनिट् घटा० । श्राति अश्रासीत्

श्रपयति ।

श्राण त्रि० श्रा--क्त । १ घृतादिभिन्ने पक्वे मांसादौ जटा० । २ यवाग्वां स्त्री अमरः ।

श्राद्ध न० श्रद्धा--हेतुत्वेनास्त्यस्य अण् । “श्रद्धया दीयते

यस्मात् श्राद्धं तेन निगद्यते” इत्युक्ते पित्रादिभ्यः श्रद्धया
देपे १ द्रव्ये । अस्त्यर्थे अण् । २ श्रद्धायुक्ते त्रि० ।
श्राद्धलक्षणं तत्प्रयोजनञ्च गयाश्राद्धादिपद्धतौ हेमाद्रि
श्राद्धकल्पासुसारेणास्माभिः प्रदर्शितं यथा
“सम्बोधनपदोपनीतान् पित्रादीन् चतुर्थ्यन्तपदेनोद्दिश्य
पुत्त्रादिभिर्मन्त्रद्वारा श्रद्धयान्नादेर्दानं श्राद्धम् “अथैतन्मनुः
आद्धशब्दं कर्म प्रोवाचेति” श्राद्धविवेकधृतापस्तम्बवच-
नेन श्राद्धशब्दस्य कर्मसामान्यवचनतावगमात् “सस्कृतं
व्यञ्जलाढ्यं च पयोदधिघृतान्वितम् । श्रद्धया दीयते
यस्मात् तेन श्राद्धं निगद्यते” इति श्राद्धतत्त्वधृतपुलस्त्य-
वचनेन श्रद्धाहेतुकदानरूपकर्मविशेषस्य श्राद्धपदार्थताव-
नमाच्च । श्राद्धमिति शब्दो वाचको यस्य तत्कर्मेत्यर्थ
इति श्राद्धवियेकः । तस्मिंश्च कर्मणि यागादाविन्द्रादी
नामिव पित्रादेर्देवतात्वं तदुद्देशेन मन्त्रद्वारा द्रव्यत्या
गात् । तथा च यागादौ मन्त्राहूता इन्द्रादयः शक्ति
मात्रेण तत्तत्स्थले आविर्भूता यजमानत्यक्तद्रव्यदर्शनेन
तृप्यन्तस्तेषाममीष्टफलं यथा साधयन्ति तथा श्राद्धेऽपि
मन्त्राहूताः पित्रादयः समागताः पुत्त्रादित्यक्तद्रव्यभोगेन
तृप्यन्तो विशिष्टफलप्रदा इत्येव कल्पनीयम् । किन्तु सर्वो
हि लोकः सफले कर्मण्येव प्रवर्त्तते नाफले । तत्र
यज्ञादौ यथा देवानां फलदातृत्वमेवं श्राद्धदेवानां पित्रा-
दोनां फलदातृत्वे सम्भवत्येव श्राद्धस्य सफलत्वं भवेत्त-
देव नोपपद्यते । तथा हि इन्द्रादयो हि देवाश्चेतना
विशिष्टज्ञानक्रियाशक्तिमन्तो मन्त्रमात्राहूताः शक्तिविशे
षेण यज्ञदेशे आविर्भवितुं शक्नुवन्ति आविर्भूय च
यज्ञदत्तद्रव्यदर्शनमात्रेण तृप्यन्तो विशिष्टफलदानाय
समर्थाः । नैवं पित्रादयो भवितुमर्हन्ति । ते हि स्वस्व-
कर्मानुमारेण नानायोनिततया अतिविप्रकृष्टदेशस्थिताः
विशिष्टशक्तिरहिताश्च कथं मन्त्रमात्राहूताः श्राद्धदेशे
आगच्छेयुः । आगता वा कुतो न दृश्येयुः देवाना-
मिव तेषामतीन्द्रिय भावात् दर्शनमात्रेण तृप्तेरभा-
वाच्च । भोजनेनैव तेषां तृप्तिसम्भवाच्च भोजनमन्तरेण
कथं तृप्तेयुः । अतूप्ताश्च कृतो वा फलं दद्युः । पश्वा-
दिगता वा कुतो विशिष्टफलप्रदाः स्युः । अपरञ्च इह
दत्तस्य चान्नादेरचेतनतया नेतृपुरुषाभावेनान्यत्र गमना-
सम्भवः । श्राद्धदत्तद्रव्यस्य यथापूर्वमवस्थानान्न भोक्तृ-
देशगमनमित्यनुमीयते । एवमिह दत्तेनान्नेनान्यत्र स्थि-
तानां भोगस्तु नैव सम्भवी । पात्रीयब्राह्मणेन श्राद्धा-
न्नस्य भोजनान्न पित्रादितृप्तिसम्भवः भोगतृप्त्योः सामा-
नाधिकरण्यनियमात् । किञ्च देवयोनिगतानाममृतान्धसां
मानुषयोग्येनान्नेन कथं तृप्तिः कथं वा पशुयोनिगतानां
तृणाहारयोग्यानां तेन तृप्तिः । तेषां पश्वादिभावमापे-
दुषां फलदातृत्वासम्भवस्तु विशिष्टशक्तेरभावात् सर्वानु-
भवसिद्धः । एतेन “यथा गोषु प्रनष्टो वै वत्सो विन्दति
लातरम् । एवं श्राद्धेऽन्नमुद्दिष्टं मन्त्रः प्रापयते पितॄन् ।
नामगोत्रं पितॄणान्तु प्रापकं हव्यकव्ययोः । नाममन्त्रै-
स्तथोद्देशो भवान्तरगतानपि । प्राणिनः प्रीणयन्त्येते
तदाहारत्वमागताः । देवो यदि पिता जातः
शुभकर्मानुसारतः । श्राद्धान्नममृतं भूत्वा देवत्वेऽप्यनुगच्छति ।
दैत्यत्वे भोग्यरूपेण पशुत्वे च तृणं भवेत् । श्राद्धान्नं
वायुरूपेण नागत्वेऽप्यनुगच्छति । पानं भवति यक्षत्वे
गृध्रत्वे च तथामिषम् । दनुजत्वे तथा मांसं प्रेतत्वे
रुधिरोदकम् । मानुषत्वेऽन्नपानादि नानाभोगरसं
तथेति च” हेमाद्रिश्राद्धकल्पादिधृतमार्कण्डेयवचनैरिह
दत्तान्नादेरेव मन्त्रशक्त्या विप्रकृष्टदेशनयनं पितृप्रा-
प्तयोनियोग्यामृतादिरूपेण परिणामश्च कल्प्यते
इत्यपि न विचारचारु अचेतनानामपि मन्त्राणां चेतन-
धर्मकल्पनापि तदैव साधीयसी स्यात् यदि दत्तान्नादे-
रिह यथापूर्वमवस्थितिर्न स्यात् स्याच्च पूर्वरूपान्यथा-
भावः । तथा च एवमादिवचनानां स्तुत्यर्थवादपरताया
अग्रे दर्शयिष्यमाणत्वान्नाधिककल्पना । किञ्च पात्र-
पृष्ठ ५१५१
ध्रह्मणेन भोगादिना विनष्टस्य वस्तुनः कथं स्थानान्तर-
नयनं कथं वा तत्तदाहारतारूपेण परिणामः धर्मिणि
सत्येव स्थानान्तरगमनादिसम्भवो न विनष्टस्यातः श्रा-
द्धस्य कथं प्रयोजनवत्त्वमित्येवं स्थिते । उच्यते । ब्रा-
ह्मणादिसम्प्रदानक्रियाया इव श्राद्धकर्मण एव स्वजन्य-
युण्यद्वारा विशिष्टफलजनकता तत्र च कालान्तरभावितत्-
तत्फलदानाय तत्कर्मसाक्षिणः परमेश्वरस्यैव तत्साध०
नत्वम् । अतएव भगद्गीतायाम् “यो यो यां यां तनुं
भक्तः श्रद्धयार्चितुमिच्छति । तस्यतस्याचलां श्रद्धां
तामेव विदधान्यहम् । स तया श्रद्धया युक्तस्तस्यारा-
धनमीहते । लभते च ततः कामान् मयैव विहितान्
हि तान्” इति भक्तानां तत्तदिष्टोत्पादनस्य स्वकर्त्तृकत्वं
भगवतोक्तम् । युक्तञ्चैतत् श्रुतिस्मृत्योरोश्वरानुज्ञास्वरूप-
तया तत्तदर्थानुष्ठानेन तदाज्ञाप्रतिपालने ईश्वरस्य
सम्माननारूपा तृप्तिस्ततश्चाभीष्टलाभः । तथैवोक्तं गीता-
याम् “स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते भरः ।
खकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु । यतः
प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । खकर्मणा
तमभ्यर्च्य सिद्धिं विन्दति मानवः” इति । स्वकर्मणा
स्वस्ववर्णाश्रमविहितकर्मानुष्ठानेन, तम् परमेश्वरम्
अभ्यर्च्य तदाज्ञाप्रतिपालनेन सम्मान्य तत्सम्मानेन
च तत्कृतां सिद्धिम् तत्तदभीष्टसिद्धं लभते इति
तदर्थः । अस्मिन् पक्षे च पित्रादीनां श्राद्धान्नादेर्वा न
स्थानान्तरंगमनकल्पना । अथ वा देवदत्तादिशब्दस्य यथा
न केवलं देहमात्रं, न बा जीवमात्रमर्थः किन्तु तत्तद्दे-
हाभिसानी जीव एवार्थः । तथा पित्रादिशब्दस्य उत्पा-
दकदेहाभिमानी केवलं जीवोऽपि नार्थः किन्तु
वसुरुद्रादित्यदेवाधिष्ठितमादृशजीव एवार्थः, “वसवः पिनरो
ज्ञेया रुद्रा ज्ञेयाः पितामहाः । प्रपितामहाश्चादित्याः
श्रुतिरेषा सनातनी । प्रेतानुद्दिस्य यत् कर्म क्रियते
मानुषैरिह । तुष्यन्ति देवतास्तेन न प्रेताः पितरः स्मृताः” ।
इति श्राद्धकल्पधृतदेवलवचने पित्रादिपदानां पारिभा-
षिकत्वोक्तेः । प्रेताः मृताः न पितरः न केवल
पितृपदाभिधेयाः किन्तु तदधिष्ठितवसव एव पितृपदा-
भिधेयास्त एव तुष्यन्वीत्यर्यः । अतएव श्राद्धकाले पित्रा-
दीनां तेन तेन रूपेण ध्येयताऽग्रेहभिधास्यमानोपप-
द्यते । एवञ्च वस्वादिदेवानामिन्द्रादिवत् विशिष्टशक्ति
ज्ञानतम्पन्नतया सन्तमात्रावाहने यागादाविन्द्रादिवदाग-
मनसम्भवाच्च त्यक्तद्रव्यदर्शनमात्रेण तृप्तिः, “न वै देवा
अश्नन्ति पिवन्ति एतदेवामृतं दृष्ट्वा तृप्यन्तीति” छान्दो-
ग्यवाक्यात् । अतएव भगवद्गीतायाम् “सह यज्ञाः
प्रजाः सृष्टा पुरावाच प्रजापतिः । अनेन प्रसविष्य-
ध्वमेष वोऽस्त्विष्टकामधक् । देवान् भावयतानेन ते
देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवा-
पस्यथेति” प्रजाकृतयज्ञेन तृप्तनां देवानां यजमान-
फलदातृत्वम् प्रजाः प्रति प्रजापतिवचनत्वेनोक्तम् ।
अनेन यज्ञेन देवान् भावयत तर्पयत ते च यज्ञत-
र्पिता देवाः वः युष्मान् भावयन्तु तर्पयन्त्वित्यर्थः ।
यज्ञपदञ्च कर्ममात्रोपलक्षणम् । एवञ्च यथा काचित्
गर्भिणी सुहृदा दत्तं दोहदं भुञ्जाना स्वयं तृप्यति स्या-
श्रयं गर्भञ्च तर्पयन्ती दोहददातारमप्युपकरोति तथा
वस्वादयोऽपि श्राद्धान्नदर्शनमात्रतृप्ताः स्वाधिष्ठितपित्रा-
दिपुरुषान् तर्षयन्तः श्राद्धकर्त्तुरपीष्टदातारो भवन्ति ।
प्रागुक्तवचनजातेष्वपि मन्त्रशक्त्यान्नादेर्देशान्तरनयनकथ-
नस्यापि स्वस्वकर्मानुसारेण पश्वादिभावापन्नपित्रादीनां
तदुपभोगयोग्यान्नादितुल्यतृप्तिर्वस्वादिकृता तद्दिर्न भवती-
त्येतत्परत्वश्राद्धप्रशसापरत्वयोः कल्पने न वैयर्थ्यम् ।
यत्र च काश्याविमरणेन पित्रादीनां मुक्तत्वम् तत्र वस्वा-
दिमात्रस्यैव तृप्तिर्न विशिष्टस्य, विशेषणस्यासत्त्वे विशेष्य-
स्यैव विशिष्टकारित्वात् कुण्डलविशिष्टस्य नरस्य कुण्ड-
लापगमेऽपि मनुष्यकर्मकारित्वव्याहतिवत् । तथा च
त एव तृप्ता विशिष्टफलं दद्युरिति सिद्धा श्राद्धस्यार्थवत्ता” ।
श्राद्धभेदाश्च विश्वामित्राद्युक्ताः प्रा० वि० दर्शिता यथा
“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् ।
षार्वणञ्चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम् । कर्माङ्गं
नवम प्रोक्तं दैविकं दशमं स्मृतम् । यात्रास्वेकादशं
प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम्” । एतद्भविष्यपुराणे विवृ-
तम् । यथा “अहन्यहनि यत् श्राद्धं तन्नित्यमभिधी-
यते । वैश्वदेवविहोनं तदशक्तावुदकेन तु । एकोद्दिष्टन्तु
यत् श्राद्ध तन्नैमित्तिकमुच्यते । तदप्यदैवं कर्त्तव्यमयु-
ग्मानाशयेद्द्विजान् । कामाय तु हितं काम्यमभिप्रे-
तार्थसिद्धये । पार्वणेन विधानेन तदप्युक्तं खगाधिप! ।
वृद्धौ यत् क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते । सर्वं
प्रदक्षिणं कार्य्यं पूर्वाह्णे तूपवीतिना । गन्धोदकतिलै-
र्युक्तं कुर्य्यात् पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु
प्रेतपात्रं प्रसेचयेत् । ये समाना इति द्वाभ्यामेतजूज्ञेयं
पृष्ठ ५१५२
सपिण्डनम् । नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया
अपि । अमावास्यां यत् क्रियते तत् पार्वणमुदाहृतम् ।
क्रियते पर्वणि यत्तत् पार्वणमिति च स्थितिः । गोष्ठ्यां
यत् क्रियते श्राद्धं गोष्ठोश्राद्धं तदुच्यते । बहूनां विदुषां
सम्पत्सुखार्थं पितृतृप्तये । क्रियते शुद्धये यत्तु ब्राह्म-
णानान्तु भाजनम् । शुद्ध्यर्थमिति तत् प्रोक्तं वैनतेय!
मनीषिमिः । निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमेव च । देवानुद्दिश्य यत्
श्राद्धं तद्दैविकमिहोच्यते । हविष्येण विशिष्टेन
सप्तभ्यादिषु यत्नतः । गच्छन् देशान्तरं यत्तु श्राद्धं
कुर्य्यात्तु सर्पिषा । यात्रार्थसिति तत् प्रोक्तं प्रवेशे च
न संशयः । शरीरोपचये श्राद्धमन्नोपचय एव च ।
पुष्ट्यर्थमेतद्विज्ञेयमौपचारिकमुच्यते” ।
वृह० “नित्य नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च ।
पार्वणञ्चेति मनुना श्राद्धं पञ्चविधं स्मृतम्” । कूर्मपुराणे
“अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।
एकोद्दिष्टता विज्ञेयं वृद्धिश्राद्धञ्च पार्वणम् । एतत्
पञ्चविञ्चं श्राद्धं मनुना परिकीर्त्तितम्” । स्वरूपतो
द्दादशविधत्वेऽपि पञ्चविधविधानोपाधिभेदात् पञ्चथिधत्वं
गोर्ष्ठाश्राद्धादीनां पार्वणकाम्यवृद्धिश्राद्धैरपृथग्विधानात्
एतेष्ववान्तर्भाव इत्यभिप्रायः । सपिण्डीकरणस्याप्यं शतः
पार्वणविधानादंशतएकोद्दिष्टविधेरुभयात्मकत्वात् न
पृथक्त्वं नित्यपार्वणात् काम्यस्य देवताभेदात्
पृथग्विधानम् । वस्तुतः प्रपञ्चार्थमेव द्वादशविधत्वम् । युगा-
द्यादिश्राद्धानामपि सत्त्वात् । यत्तु मत्स्यपुराणे “नित्यं
नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते” । इति तत्र
नित्यपदमुक्तार्थमेव नैमित्तिकपदमागन्तुकनिमित्तोत्पन्नत्वेन
पार्वणैकोद्दिष्टयोः परिग्रहार्थम् । काम्यपदं दृष्टफलत्वेन
तिथिश्राद्धादीनामभ्युदयस्य च ग्रहणार्थमित्यविरोधः ।
विष्णुना तु नित्यकाम्यरूपतया द्वैविध्यं वक्ष्यते तत्र नित्य-
पदमावश्यकतया पार्वणैकोद्दिष्टयोरपि परिग्रहार्थम् ।
काम्यपदमनावश्यकार्थं सर्वमिदमुपाधिभेदादविरुद्धम्” ।
श्राद्धे विहिता देशाः प्रा० वि० दर्शिता यथा
तत्र विष्णुः “पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च” ।
“पुष्करे स्नातमात्रस्तु सर्वपापेभ्यः पूतो भवति” इत्यभि-
धाय “ग्रचमयेषुतीर्थेषु सरिद्वरासु सङ्गमेषु प्रभवेषु पुलि-
नेषु निकुञ्जेषु प्रस्रवणेषु उपवनेषु गोमययेनोपलिप्तेषु
गृहेषु मनोज्ञेषु च” आहस्य । प्रभवोऽत्र नदीनामुत्-
पत्तिदेशः सरिद्वरासु सङ्गमेषु चेति प्रस्तुत्य प्रभवेष्वित्यभि-
धानात् । पुलिनं नदीतोयोत्थितप्रदेशः । निकुञ्जोलता-
दिवेष्टितप्रदेशः प्रस्रवणं निर्झरः । उपवनं गृहवाटिका
मनोज्ञं रमणीयम् । देबलः “श्राद्धस्य पूजितो देशो
गया गङ्गा सरस्वती । कुरुक्षेत्रं प्रयागश्च निमिष पुष्क-
राणि च । नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च ।
विविक्तेषु च तुष्यन्ति दत्तेनेह पितामहाः” । विविक्तं
विजनम् । वृहस्पतिः “काङ्क्षन्ति पितरः पुत्रान्नरकापात-
भीरवः । गयां यास्यति यः कश्चित् सोऽस्मान् सन्तार-
थिष्यति । करिष्यति वृषोत्सर्गमिष्टापूर्त्तं तथैव च ।
प्रालयिष्यति वार्द्धक्ये श्राद्धं दास्यति चान्वहम् । गयायां
धर्मपृष्ठे च सरसि ब्रह्मणस्तथा । गयाशीर्षेऽक्षयवटे
पितृणां दत्तमक्षयम । धर्मारण्यं धर्मपृष्ठं धेनुकारण्य-
मेव च । दृष्ट्वैतानि पितॄंश्चार्च्य वंशान् विंशतिमुद्धरेत्” ।
गयामुपादाय गयास्थानविशेषोपन्यासोऽधिकफलार्थः । इह
श्राद्धदेशत्वेन कथिता नानादेशीयतीर्थविशेषस्वरूपवि-
शेषास्तत्तद्देनिवासिभ्योऽवगन्तव्या अत्र पुष्करेष्यक्षयं
श्राद्धमित्यादिविष्ण्वादिवाक्यैः सामान्यतस्तीर्थप्राप्तिनिमि-
त्तेऽमावास्यादिश्राद्धे च प्राप्ते पुष्करादिदेशाख्यगुणफल-
श्राद्धविधिः “गोदोहेनापः प्रणयेत् पशुकामस्येति” वत् न तु
विशिष्टश्राद्धान्तरविधानं विधिगौरवापत्तेः अगत्या तु
“मोमेन यजेतेत्यादौ” तथा । तथा मनुः “शुचिं देशं
विविक्तञ्च गोमयेनोपलेपयेत् । दक्षिणाप्लवनञ्चैव प्रयत्ननोप-
पादयेत् । अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि । विवि-
क्तेषु च तुष्यन्ति द्रत्तेन पितरः सदा” । अशुचिमवि-
विक्तमदक्षिणाप्लवनं यत्रतः शुचित्वादिना उपपादयेत् ।
विविक्तं विजनं चोक्षेषु मनोज्ञेषु विविक्तेषु वनादिषु ।
यमः “दक्षिणाप्लवनं स्निग्धं विविक्तं शुभलक्षणम् ।
शुचिदेशं प्ररीक्ष्याशु गोमयेनोपलेपयेत् । आगारेषु विवि-
क्तेषु तीर्थेषु च नदीष च । विविक्तेषु च तुष्यन्ति देशेषु
पितरः सदा । पारक्ये भूमिभागे तु पितॄणां निर्वपेत्तु
यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ।
तस्मात् श्राद्धानि देयानि पुण्येष्वायतनेषु च । नदीतीरेषु
तीर्थेषु स्वभूमौ तु प्रयत्नतः । उपह्वरनितम्बेषु तथा
पर्वतसानुषु । गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च” ।
स्निग्धं स्तिमितं विविक्तेषु देशेषु स्वभावतो वनादिषु ।
उपह्वरमत्र पर्वतान्तिकम्” ।
श्राद्धनिन्दितदेशास्तत्रोक्ता यथा विष्णु “न मृएच्छविषये
पृष्ठ ५१५३
श्राद्धं कुर्य्यान्न च गच्छेत्तथा । चातुर्वर्ण्यव्यवस्थानं यस्मिन्
देशे न विद्यते । तं म्लेच्छदेशं जानीयादार्य्यावर्त्तमतः-
परम्” । वायुपुराणे “त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादशयो-
जनम् । उत्तरेण महानद्या दक्षिणेन तु कीकदात् ।
देशस्त्रैशङ्कवोनाम श्राद्धकर्मणि गर्हितः । पारस्कराः
कलिङाश्च सिन्धोरुत्तरमेव च । प्रनष्टाश्रमधर्माश्च
देशावज्योः प्रयत्नतः” । पारस्कारादेशविशेषाः ।
कीकटोमगधः । सिन्धुर्नदीविशेषः । व्रह्मपुराणे “परकाय-
गृहे यस्तु स्वान् पितॄस्तर्पयेज्जड़ः । तद्भूमिस्वाभिन-
स्तस्य हरन्ति पितरो बलात् । अग्रभागन्ततस्तेभ्यो दद्या-
स्मूल्यञ्च जीवताम्” । गृह इति भूभागमात्रोपलक्षणं
“पारक्ये भूमिसागे च” इति यमवचनात् स्वभूम्यभावे
कथं श्राद्धमित्याह अग्रभागमिति श्राद्धीयद्रव्यस्येति
तेभ्यस्तद्भूमिस्वामिपितृभ्य उत्सृज्य देयं जीवतां स्वा-
मिनां मूल्यं वा देयम । यमः “अटव्यः पर्वताः
पुण्या नद्यस्तीर्थानि यानि च । सर्वाण्यस्वामिकान्या-
हुन हि तेषु पुरिग्रहः” । स्वाम्यमावे हेतुमाह न हि
तेखिति । परिग्रहो दानविक्रयणादियथेष्टविनिया-
गलट्यणः । तथा “रूक्षं कृमियुत क्लिन्नं संकीर्णांनिष्ट-
गब्धिकम । देशन्त्वनिष्टशब्दञ्च वर्जयेत् श्राद्धकर्मणि” ।
रूक्षं धूलियुत क्लिन्न पङ्किलम् अनिष्टगन्धम् असुरभि-
गन्धम् अनिष्टशब्दं प्रतिकूलशब्दम्” ।

श्राद्धदेव पु० श्राद्धाद्देश्यानां पितॄणां देवः शाक० । १ यमे

अमरः । २ वैवस्वतमनौ हरिव० १५ अ० ।

श्राद्धदेवता स्त्री श्राद्धे देवता त्यक्तव्यद्रव्यस्योद्देश्या । “पितरः

श्राद्धदेवता” इति स्मृत्युत्युषु १पितृषु ।

श्राद्धशाक न० श्राद्धयोग्यं शाकम् । कालशाके भावप्र० ।

श्राद्धिक त्रि० श्राद्धे देयं, श्राद्धं दद्द्रव्य भक्ष्यत्वेनास्त्यस्य

वा ठन् । १ श्राद्धद्धेये भक्ष्ये २ श्राद्धदेयद्रव्यभोक्तरि च ।

श्राद्धिन् त्रि० श्राद्धं तद्द्रव्यं भक्ष्यत्वेनास्त्यस्य इनि ।

द्धदयान्नभोक्तरिमि० औ० ।

श्रान्त त्रि० श्रम--क्त । १ श्रमयुक्ते २ शान्ते ३ जितेन्द्रिये च हेमच० । भाव क्त । ४ श्रमेन०

श्रान्तसंवाह न० श्रान्तस्य श्रमस्य लंवाहः दूरीकरणम् ।

पाद्यासनादिना श्रमनिवारणे ।

श्राम मन्त्रणे अ० चु० लभ० सक० सेट् । श्रामयति ते अशश्रामत् त ।

श्राम पु० श्रम--अच् । १ कःले २ मण्डपे ३ मासे च मेदि० ।

श्रावक पु० त्रि० श्रु--ण्वुल् । १ श्रवणकर्त्तरि २ शाक्यमुनि-

शिव्ये मुनिभेदे ३ काके पुंरवी० त्रिका० ।

श्रावण पु० श्रवणेन युक्ता षौर्णमासी श्रावणी सास्मित् मासे

अण । वैशाखादिषु चतुर्थे श्रावणीयुक्ते चान्द्रे १ मासे
२ तथाभूते पक्षे श्रवणनक्षत्रेण पर्वान्तकाले उदयास्तसम्ब-
न्धात् वार्हपत्ये ३ वर्षभेदे च । गुरुवर्षशब्दे २६१९ पृ०
दृश्यम् उपचारात् कर्कटस्थरविके सौरे ४ मासे ५ पाषण्डे
च मेदि० । श्रवणेन कर्णेन निर्वृत्तः अण् । ६ कर्ण-
साध्ये प्रत्यक्षभेदे श्रवणनक्षत्रेण युक्ता पौर्णमासी अण्
ङीप् । ७ चान्द्रश्रावणमासीयपौर्णमांस्यां स्त्री । सा च
(थुलकुड़ि) ८ वृक्षभेदे राजनि० । ९ दध्यालीवृक्षे मेदि०
टाप् । १० मुण्डतिकावृक्षे भावप्र० ङीप् । “मुण्डि-
तिका कटुः पाके वीर्य्योष्णा मधुरा लघुः । मेध्याग-
ण्डापचीकृच्छ्र कृमियोन्यर्त्तिपाण्डुनुत् । श्लीपदारुच्या-
पस्मारप्लीहमेदोगुदार्त्तिहृत् । महामुण्डी च तत्तुल्या
गुणैरुक्ता महर्षिभिः” भावप्र० ।

श्रावणिक पु० श्रावणी श्रवणनक्षत्रयुक्त पूर्णिमाऽस्त्यणिन्

मासे ठन् । १ चान्द्रश्रावणमासे अमर २ तथाभूते पक्षे

श्रावन्ती स्त्री श्रु--झिच् पृषो० ङीप् । धर्मपत्तनाख्ये नगरी-

भेदे त्रिका० ।

श्रि सेवने भ्वा० उभ० सक० सेट् । श्रयति ते अशिश्रियत् त ।

श्रित त्रि० श्रि--क्त । १ सेविते २ आश्रिते च ।

श्रिय दाहे भ्वा० पर० स० सेट् क्त्रा वेट् । श्रेयति अश्रेयीत् ।

श्री पाके क्र्या० उ० सक० सेट् । श्रोणाति--ते अश्रायीत् अश्रायिष्ट

श्री स्त्री श्रि--क्विप् नि० । १ लक्ष्म्यां २ लवङ्गे अमरः । ३

शोभायां ४ वाण्यां ५ वेशरचनायां ६ सरलवृक्षे ७ धर्मार्थका-
मेमु ८ सम्पत्तौ ९ प्रकारे १० उपकरणे ११ बुद्धौ १२ विभूतौ
मेदि० । १३ अधिकारे १४ प्रभायां १५ कीर्त्तौ धरणिः ।
१६ वृद्धौ १७ सिद्धौ शब्दर० १८ कमले १९ बिल्ववृक्ष २०
वृद्धिनामौषधौ राजनि० “देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्रा-
घिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत्”
एत्युक्ते देवादीनां २१ नामोच्चारणायोपाधिभेदे च
“सिद्धाधिकारान् स्वर्गगामित्वादिना सिद्धोऽधिकारो
येषां नराणां तान् सिद्धाधिकारान् । तेन जीवतां
श्रीशब्दादित्वं न मृतानामिति” संस्कारत० रघु० ।
२१ रागभेदे पु० । श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्ते
अपराह्णे गेयः । तस्य पञ्च रागिण्य मानश्रीः मारवी
धनाश्रीः वसन्तरागिणी आशाचरी संगीतदा० ।
पत्रे श्रीशब्दन्याससंख्याभेदाः पत्रशब्दे ४२२० पु० हश्या
पृष्ठ ५१५४

श्रीकण्ठ पु० श्रीः शोभा काण्ठेऽप्य । १ शिवे अमरः सर्वतः धेतत्य

कण्ठे कृष्णवर्णविषसन्निकर्षे शोभाधिक्यात्तथात्वम् ।
२ हस्तिनापुरस्य उत्तरपश्चिमस्थे कुरुजाङ्गलाख्ये देशे च हेमच०

श्रीकण्ठपदलाञ्चन पु० भवभूतौ शब्दमाला ।

श्रीकन्द स्त्री श्रीः शोभा तया युक्तः कन्दोऽस्याः । बन्ध्या

कर्कट्यां राजनि० ।

श्रीकर न० श्रियं शोभां करोति कृ--अच् । १ रक्तोत्पले त्रिका०

२ विष्णौ पु० ३ दायनिबन्धमेदकारके पण्डितभेदे च पु० ।
४ शोभाकारके त्रि० ।

श्रीकरण न० श्रीयुक्तं क्रियतेऽनेन कि--करणे ल्युट् । लेखन्यां शब्दच० ।

श्रीकान्त पु० ६ त० । विष्णौ शब्दच० श्रीनाथश्रीपत्यादयो-

ऽप्यत्र । श्रीपतिस्तु मूमिपाले च मेदि० ।

श्रीकारिन् पु० श्रियं करोति कृ--णिनि । जङ्घाले महाजवे

१ मृगभेदे राजनि० । २ शोभाकारिणि त्रि० स्त्रियां ङीप् ।

श्रीखण्ड न० श्रियः शोभायाः खण्ड इव यत्र । चन्दने त्रिका०

श्रीगर्भ पु० श्रीर्गर्भेऽस्य । १ विष्णौ त्रिका० २ खङ्गेच

“श्रीगर्भो विजयश्चैव” इति खङ्गनामाष्टकम् ।

श्रीग्रह पु० श्रियः ग्रह इव यत्र । पक्षिणां पानीयशालायां

हारा० ।

श्रीघन पु० श्रिया बुद्ध्या धनः । १ बुद्धभेदे अमरः । २ दघ्नि न० जटा० ।

श्रीचक्र न० श्रियाः चक्रं यन्त्रभेदः । “बिन्दुत्रिकोणवसु-

कोणदशारयुग्मं मन्वस्रनागदलसङ्गतषोड़शारम् । वृत्त-
त्रयञ्च धरणीसदनत्रयञ्च श्रीचक्रमेतदुदितं परदेवतायाः”
इति तन्त्रोक्ते त्रिपुरासुन्दरीपूजाङ्गे यन्त्रभेदे ।

श्रीज पु० श्रियो जायते जन--ड । कामदेवे श्रीनन्दनादयोऽप्यत्र ।

श्रीताल पु० श्रीयुक्तस्तालः शाक० । तालवृक्षतुल्ये वृक्षभेदे

राजनि० ।

श्रीद पु० श्रियं घनं ददाति दा--क । १ कुवेरे अमरः २ धनदातरि त्रि० ।

श्रीधर पु० श्रियं धरति धृ--अच् । १ विष्णौ “अतिक्षुद्रं द्वि-

चक्रञ्च वनमालाविभूषितम् । श्रीधरं देवि! विज्ञेयम्”
इत्युक्ते २ शालग्राममूर्त्तिभेदे न० ।

श्रीनिकेतन पु० श्रियं निकेतयति नितरां वासयति नि +

कित--णिच्--ल्यु । १ विष्णौ शब्दच० ६ त० । २ श्रीलक्ष्मी
निवासे ।

श्रीनिवाम पु० निवसायस्मिन् नि + वस--घञ् ६ त० । १ विष्णौ त्रि० ६ त० । २ श्रिय आलये च ।

श्रीपञ्चमी स्त्री श्रियः पूजाङ्गं पञ्चमी शाक० । माधशुक्ल-

पञ्चम्याम् । माघोपक्रमे “चतुर्थी वरदा शुक्ला तत्र गौरी
सुपूजिता सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम्” ।
सरस्वतीपूजादिनेऽनध्यायश्च गौड़ाचारः । अत्र श्रीपञ्च
म्यामारभ्य प्रतिमासं षड़ब्दसमाप्यं श्रीपञ्चमीव्रतं स्त्रियः
कुर्वन्ति तत्प्रमाणं संवत्सरकौमुदीधृतब्रह्मपु० ।

श्रीपथ पु० श्रीयुक्तः पन्थाः अच् समा० शाक० । राजपथे हारा० ।

श्रीपर्ण न० श्रीर्लक्ष्मीः पर्णे दलेऽस्य । १ पद्मे श्रीयुक्तं पर्ण-

मस्य । २ अग्निमन्थवृक्षे पु० मेदि० ।

श्रीपर्णिका स्त्री श्रीयुक्तं पर्णमस्याः संज्ञायां कन् अत

इत्त्वम् । कट्फलवृक्षे अमरः ।

श्रीपर्णी स्त्री श्रीयुक्तानि पर्णान्यस्याः ङीप् । १ गाम्भा-

रीवृक्षे अमरः । २ कट्फलवृक्षे मेदि० । ३ शाल्मलीवृक्षे
४ हठवृक्षे हेमच० । ५ अग्निमन्थवृक्षे राजनि० ।

श्रीपिष्ट पु० श्रियै शोभायै पिष्यते पिष--क्त । सरलवृक्षे

रामाश्रमः ।

श्रीपुत्त्र पु० ६ त० । १ कामदेवे श्रियः पुत्त्रो भ्राता सहजत्वात् ।

२ उच्चैःश्रवसि अश्वे त्रिका० ३ चन्द्रे च ।

श्रीपुष्प न० श्रीयुक्तं पुष्पम् शाक० । १ लवङ्गे राजनि० ।

२ पद्मकाष्ठे रत्नमाला ।

श्रीफल पु० श्रीयुक्तं फलमस्य । १ बिल्ववृक्षे अमरः । २

राजादन्याञ्च राजनि० । ३ नील्यां ४ क्षुद्रकारवेल्ल्यां स्त्री
राजनि० टाप् । स्वार्थे क अत इत्त्वम् । ५ तत्रार्थे
राजनि० । ६ आमलक्यां मेदि० स्त्री गौरा० ङीष् ।

श्रीभद्रा स्त्री श्रीयुक्तं भद्रमस्याः । भद्रमुस्तके शब्दच० ।

श्रीभागवत न० श्रीमत् भागवतम् शाक० । अष्टादशपुराणेषु

सध्ये द्वादशस्कन्धयुक्ते अष्टादशसाहस्रे व्यासप्रणीते
पुराणे भागवतशब्द दृश्यम् । श्रीमद्भागवतमप्यत्र “श्रीम-
द्भागवते महामुनिकृते” भाग० १ । १ ।

श्रीभ्रातृ पु० श्रियः लक्ष्म्याः भ्राता अनुजत्वात् । १ अश्वे राजनि० २ चन्द्रे च ।

श्रीमत् पु० श्रीरस्त्यंस्य मतुप् । १ तिलवृक्षे अमरः । २ अश्व-

त्थवृक्षे राजनि० । ३ विष्णौ शब्दर० । ४ शिवे त्रिका० ।
५ कुबेरे शब्दच० । ६ शोभायुक्ते ७ धनिनि च त्रि० स्त्रियां
ङीप् । सा च ८ राधिकायां ह्रस्वान्तताऽपि पृषो०
राधिकायाम् नारदपञ्चरात्रम् ।

श्रीमलापहा स्त्री श्रिया शोभया मलमपहन्ति अप +

हनड । धूम्रात्त्रायां लतायां राजनि० ।

श्रीमस्तक पु० श्रीयुक्तं मस्तकमस्य । रसोने (लसुन) राजनि०

श्रीमूर्त्ति स्मी श्रीपूर्वककथयोग्या मूर्त्तिः । देवताप्रतिमायां

राजनि० । विष्णोर्मूर्चिभेदाश्चतुर्विंशति मूर्त्तिशब्दे
दृश्या । श्रीमूर्त्तयश्चाष्टविधाः भाग० ११ स्कन्दे दर्शिता यथा
“शैली दारुमयी लौ ही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्टबिधा मता । चलाचलेति द्वि-
पृष्ठ ५१५५
विधा प्रतिष्ठा जीवमन्दिरम् । उद्वासावाहने न स्तः
स्थिरायामुद्धवार्चने । अस्थिरायां विकल्पः स्यात् स्य
ण्डिले तु भवेत् द्वयम् । स्वपनं त्वविलेप्यायामन्यत्र
परिमार्जनम् । गोपालमन्त्राद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता ।
तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः” ।

श्रीरङ्गपत्तन न० श्रिया रङ्गस्य पत्तनमिव । दक्षिणस्थे देशभेदे

श्रीरस पु० श्रियै रसोऽस्य । श्रीवेष्टे गन्धद्रव्ये राजनि० ।

श्रीराम पु० श्रीशब्दयुक्तो रामः । दशरथात्मजे भगदव-

तारभेदे शब्दच० ।

श्रील त्रि० श्री + अस्त्यर्थे लच् । १ शोभायुक्तो २ सम्पदादियुक्ते च अमरः ।

श्रीलता स्त्री श्रीयुक्ता लता । महाञ्योतिष्मत्या राजनि० ।

श्रीवत्स पु० वदति महत्त्वं वद--स श्रीयुक्तो वत्सः ।

१ वक्षस्थे महत्त्वलक्षणश्वेतरोमावर्त्तविशेषे । स अस्त्यस्य
अच् । २ विष्णौ हेमच० । ३ सुरङ्गाभेदे त्रिका०।

श्रीवत्सक पु० श्रीवत्सः चिहभेतः तेन कायति कै--क ।

हृटयस्थश्वेतलामयुक्ते अश्वभेदे ।

श्रीवत्सभृत् पु० श्रीवत्सं बिभर्त्ति भृ--क्विप् । विष्णौ हेमच०

श्रीवत्सलाञ्छन पु० श्रीवत्सोलाञ्छनं यस्य । विष्णौ अमरः

श्रीवत्साङ्कादयोऽप्यत्र ।

श्रीवराह पु० श्रिया युक्तो वराहः । विष्णोर्दशस्ववतारेषुवराहावतारे त्रिका० ।

श्रीवल्ली स्त्री श्रीयुक्ता वल्ली । कण्टकप्रधानवृक्षभेदे राजनि० ।

श्रीवाटी स्त्री श्रिया वाटीव । नागवल्लीभेदे राजनि० ।

श्रीवारक पु० श्रियं वारयति कामयते ण्वुल् । सितावर-

शाके राजनि० ।

श्रीवास पु० श्रियै वासयति वस--णिच्--अच् । सरलवृक्षरसे

(टारपिन) । “श्रीवासः सरलः पूतिः कुन्दुरुर्ग्रन्थिपर्ण-
कम् । सिह्लकः परमाभांसी देवदारु सुरा नखी । सर्वे
ऽमी परमाऽलक्ष्मीरक्षोघ्ना ज्वरनाशनाः” राजव० ।
५ त० । २ पद्मे ३ विष्णौ मेदि० ४ शिवे शब्दच० ।

श्रीवासस् न० श्रियै वासयति वस--णिच् असि । सरलवृक्ष-

रासे अमरः ।

श्रीविद्या स्त्री श्रियै त्रिवर्गाय विद्या । त्रिपुरासुन्दर्य्यां तन्त्रसा० ।

श्रीवृक्ष पु० श्रियः शोभायाः वृक्ष इव । १ अश्वस्य हृदयस्थे

श्वोतरोमावर्त्तभेदे २ अश्वत्थवृक्षे हेमच० । श्रीनामकोवृक्षः
शाक० । ३ विल्ववृक्षे “श्रीवृक्षे बोधयामि त्वाम्” ति० त० ।

श्रीवेष्ट पु० श्रियै वेष्ट्यतेऽसौ वेष्ट--कर्मणि घञ् । सरलवृक्ष-

निर्य्यासे (तारपिन) राजनि० ।

श्रीश पु० ६ त० । १ विष्णौ २ श्रीरामे शब्दच० । श्रीश्वरादयोऽप्यत्र ।

श्रीसंज्ञ न० श्रियः संज्ञा संज्ञाऽस्य । सवङ्क्षे अमरः ।

श्रीसहोदर पु० ६ त० । १ चन्द्रे २ उच्चैःश्रवसि अश्वे च ३ कर्पूरे च ।

श्रीहस्तिनी स्त्री श्रीयुक्ता हस्तिनीव । (हातिशुँड़ा) वृक्ष-

भेदे अमरः ।

श्रु गतौ भ्वा० पर० सक० अनिट् । श्रवति अश्रौषीत् ।

श्रु श्रवण भ्वा० पर० सक० अनिट् । शृणोति अश्रौषीत् । णिंन

चङि अशिश्रवत् । णिचि सनि शि (शु)श्रावयिपति ।

श्रु(स्रु)घ्न पु० देशभेदे ।

श्रु(स्रु)घ्निका स्त्री श्रु(स्रु)घ्नः देशभेदः

कारणत्वेनाऽस्त्यस्याः ठन् । सर्जिकाक्षारे रत्नमा० ।

श्रुत न० श्रूयते श्रु--क्त । १ शास्त्रे अमरः २ तज्ज्ञाते च

“श्रुतान्वितः” इति भट्टिः । ३ श्रवणेन गृहीते त्रि० मेदि०
४ अवधृते

श्रुतकीर्त्ति स्त्री १ कुशध्वजकन्यायां शत्रुघ्नपत्न्याम् । श्रुता

विख्याता कीर्त्तिरस्य । २ विख्यातयशस्के त्रि० ।

श्रुतदेवी स्त्री श्रुतस्य शास्त्रस्य देवी । सरस्वत्यां हेमच० ।

श्रुतबोध पु० श्रुतमात्रं बोधयति बुध--णिच्--अण् । १ कालि-

दालकृते छन्दोग्रन्थभेदे । २ सुगमार्धके ग्रन्थे च ।

श्रुतश्रवस् पु० श्रुतं श्रवो यशोऽस्य । शिशुपालपितरि “निर्व-

र्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः” इति माघः ।

श्रुतश्रोणि स्त्री श्रुता विख्याता श्रोणीव! स्ववन्त्यां भावप्र० ।

श्रुतादान न० ६ त० । ब्रह्मवादे हारा० ।

श्रुतायुस् सूर्य्यवंश्ये नृपभेदे “नामागस्याम्बरीषोऽभूत् सिन्धु-

द्वीपस्ततोऽभवत् । ततः श्रुतायुः पुत्रोऽभूत्” मत्स्यपु० ।

श्रुति स्त्री श्रु--कर्मादौ क्तिन् । १ वेदे वेदस्य सर्वैः श्रूयमाणत्वात्

श्रुतित्वम् । २ कर्णे कर्णस्य श्रवणहेतुत्वात् तघात्वम् ।
३ श्रवणेन्द्रियजन्ये ज्ञाने च । अङ्कशास्रोक्ते त्रिभुजक्षे-
त्रादौ भुजकोट्योः संयुज्यमाने ४ रेस्वाभेदे च लीला० ।
कर्णस्य शुभाशुभत्वं यथा “रक्ताम्लपरुषश्मश्रुकर्णाः स्युः
पापमृत्यवः । निर्मांसचिपिटैर्मोगाः कृपणा ह्रस्वकर्णकाः ।
शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः । वृहत्कर्णाश्च
राजानो धनिनः परिकीर्त्तिताः” गरुड़पु० ६६ अ० ।
५ श्रवणक्रियायां ६ वार्त्तायां मेदि० । ७ श्रवणनक्षत्रे
शब्दर० । ८ षड्जरागाद्यारम्भकावयवे शब्दभेदे मल्लिना०
“प्रथम श्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः
सम्परिज्ञेया स्वरावयवलक्षणेति” । श्रुतिसंख्यानियमश्रुतत्र
दर्शितः “चतुयतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे द्वे
निषादगान्धारौ त्रिस्त्रिरृषभधैवतौः” । तद्भेदास्तु “नान्दी
चालानकारिसा च सुमुखी चित्रा विचित्रा घना मातङ्गी
पृष्ठ ५१५६
सरसामृता मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्ग-
रवी कला कलरवा माला विशाला जया मात्रेति
श्रुतयः पुराणकविभिर्द्वाविंशतिः कीर्त्तिताः” । “श्रतिस्थाने
स्वरान वक्तु नालं ब्रह्माऽपि तत्त्वतः । जले च सुतरां
मार्गो मीनानां नोपलक्ष्यते । गगने पक्षिणां यद्वत्
तद्वत् स्वरगता श्रुतिः । श्रुतिर्नादवशा प्रोक्ता तथाढ्या
च कला मता । यथा तैल्गत सर्पिर्यथा काष्ठगतोऽनलः ।
ज्ञायतेऽत्रोपदेशेन तथा स्वरगता श्रुतिः । वीणादेस्तु
श्रुतिर्ज्ञानं स्वरज्ञानं तु वंशजमं” संगीतदा० । संगीतरत्नाकरे
न षड्जादिभेदे अन्यविधाः श्रुतय उक्ता यथा “तीव्रा
कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः । दयावती रञ्जनी
च रतिका ऋषभे स्थिता । रौद्री क्रोधा च गान्धारे
वज्रिका च प्रसारिणी । प्रीतिश्च मार्जनीत्येताः श्रुतयो
मध्यमाश्रिताः । क्षितिरक्ता च सान्दीपिन्यालापी चैव
पञ्चमे । मदन्ती रोहिणी रम्येत्येता धैवतसश्रुयाः ।
उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती” ।

श्रुतिकट पुंस्त्री० श्रुतिं कर्णं कटति कट--अच् । १ सर्पे तस्य

गुप्तकर्णत्वात् तथात्वम् स्त्रियां ङीष् । २ प्राञ्चल्लोहे
३ पापशोधने च पु० मेदि० ।

श्रुतिकटु पु० श्रुतौ श्रवणे कटुः कठोरा । अलङ्कारोक्ते

कठोरशब्दविशेषरूपे १ काव्यदोषभेदे २ कठोरशब्दे च ।

श्रुतिजीविका स्त्री श्रुतिं जीवयति मूलतयानुसरति

जीवल्युट् । स्मृतिशास्त्रे शब्दर० ।

श्रुतिधर त्रि० श्रुत्या श्रवणमात्रेण धरति धारयति धृ--अच् ।

श्रवणमात्रेण धारणायुक्ते ।

श्रुतिमूल न० श्रुतिरेव मूलं धर्मप्रामाण्ये कारणम् । १ वेद्र-

रूपे धर्मबोधनप्रमाणे ६ ब० । २ यज्ञादौ वेदशास्त्रबोधिते
धर्मादौ च ६ त० । ३ कर्णमूले ।

श्रुतिवर्जित त्रि० श्रुत्या वेदाध्ययनेन कर्णेन्द्रियेण वा

वर्ज्जितः १ वेदपाभ्ठहीने २ बधिरे च कमा० ।

श्रुतिवेध पु० श्रुतेः कर्णस्य वेधी यत्र । कर्णवेधाख्ये सस्का-

रभेदे कर्णवेधशब्दे १७१० पृ० दृश्यम् ।

श्रुतिस्फोटा स्त्री श्रुताविस पत्रे स्फोटो यस्याः । कर्णस्फो-

टालतायां राजनि० ।

श्रुत्यनुप्रास पु० श्रूयतै इति श्रुतिः शब्दस्तस्यानुप्रासः ।

अलङ्कारोक्ते शब्दालङ्कारभेदे अनुप्रासशब्दे १७८ पृ० दृश्यम्

श्रुत्युक्त त्रि० श्रुतौ वेदे उक्त विहितः । वेदविहिते धर्मादौ ।

श्रुद पु० श्रूयते क । १ यागे जदा० श्रुतिविहितत्वात् तस्य तथात्वम्

श्रु(स्रु)वा स्त्री श्रु(स्र)क । यज्ञपात्रभेदे राजनि० ।

कात्या० श्रौ० १ । ३ । ३८ अयं दन्त्यादितया पुंस्त्वेन चोक्तः
“अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपष्करः” सू० ।
“अरत्निः प्रमाणमस्यासावरत्निमात्रः स्रुवोऽरत्निप्रमाणो
भवति अङ्गुष्ठपर्वणो वृत्तमङ्गुष्ठपर्ववृत्तम् अङ्गष्ठपर्ववृत्तं
पुष्करं मुख यस्यासावङ्गुष्ठपर्ववृत्तपुष्करः पुर्वशब्दः
सन्धिवाची सन्धिर्ग्रन्थिः तदुक्तम् “अङ्गुष्ठाङ्गुलिमानं तु
यत्र यत्रोपदिश्यते । तत्र तत्र वृहत्पर्व ग्रन्थिभिर्मिनु-
यात् बुधः” । अतोऽङ्गुष्ठस्य वृहत्पर्वग्रन्थिप्रमाणं
चतुरस्रं कृत्वा तदेव मण्डलं चतुरस्रं चिकीर्षन्नित्थु पायेन
वृत्तं विधाय तत्प्रमाणं स्रुवस्य पुष्करं नासिकावत् स्वातं
स्यात्” कर्क० । कर्मप्रदीपे कात्या० “स्वादिरी वाथ
पालाशो वितस्तिस्तु स्रुवः स्पृतः । स्रुग्बाहुमात्रा विज्ञेया
वृत्तस्तु प्राग्रहस्तयोः । स्रुवाग्रे घ्राणवत् खातं द्व्यङ्गुष्ठ-
परिमण्डलम्” ।

श्रु(स्रु)वावृक्ष पु० श्रु(स्रु)वार्थो वृक्षः । (वँइचि) विकङ्कतवृक्षे राजनि० ।

श्रेढी स्त्री श्रेण्यै राशीकरणाय ढौकते ढौक--ड पृषो०

गोरा० ङीष् । भिन्नजातीयद्रव्याणां मिश्रकरणाय
लीला० उक्ते गणनाङ्गभेदे ।

श्रेढीव्यवहार पु० श्रेढ्या व्यवहारः । श्रेढीगणनार्थे

लीलावत्युक्ते उपायभेदे ।

श्रेणि(णी) स्त्री श्रि--णि वा ङीप् । विच्छेदरहितायां पङक्तौ अमरः ।

श्रेयस् न० अतिशयेन प्रशस्यम् इयसु श्रादेशः । १ धर्मे २ मोक्षे

अमरः । ३ शुभे न० ४ अतिप्रशस्ते त्रि० मेदि० स्त्रियां ङीप् ।
सा च ५ हरीतक्यां ६ पाठायां ७ गजपिप्पल्याम् अमरः
८ रास्नायां विश्वः । ९ शुभयुक्ते त्रि० अमरः ।

श्रेष्ठ पु० अतिशयेन प्रशस्यः इष्ठन् श्रादेशः । १ कुबेरे २ नृपे

३ विप्रे शब्दर० ४ विष्णौ विष्णुस० । ५ गोदुग्धे न० त्रिका०
६ अत्यन्तशस्ते त्रि० अमरः । ७ स्वलपद्मिन्यां स्त्री ८ मेदा-
याञ्च राजनि० ।

श्रेष्ठकाष्ठ पु० श्रेष्ठ काष्ठमस्य । शाकवृक्षे (शेगुण) राजनि० ।

श्रेष्ठाम्ल न० श्रेष्ठमम्लमस्य । वृक्षाम्ले राजनि० ।

श्रेष्ठिन् पु० श्रेष्ठं धनादिकमस्त्यस्य इति । १ शिल्पिवणिजां

श्रेष्ठे जटा० “स हि श्रेष्ठिचत्वरे प्रतिवसतीति” मृच्छ-
कटिकटीका ।

श्रै स्वेदे भ्वा० प० अक० अनिट् । श्रायति अश्रासीत् । विकॢत्तौ घटादि० श्रपयति ।

श्रोण संधाते भ्वा० पर० अक० सेट् ऋदित् चङि न ह्रस्वः ।

श्रोणंति अश्रोणीत् ।
पृष्ठ ५१५७

श्रोण पु० श्रोण--अच् । १ पङ्गौ अमरः । २ काञ्जिके स्त्री ।

श्रोणि(णी) स्त्री श्रोण--इन् वा ङीप् । १ कट्याम् अमरः

२ पथि शब्दर० ।

श्रोणिफलक न० श्रोणिः फलकमिव । १ प्रशस्यकटौ ६ त० । २ कटिपार्श्वे ।

श्रोणिसूत्र न० श्रोणो स्थितं सूत्रम् । श्रोणिस्थे खड्गादि

बन्धनसूत्रे ।

श्रोतस् न० श्रु--असुन् तुट् च । १ कर्णे २ नदीवेगे अमरः ।

३ इन्द्रिये हेमच० । अत्रार्थे दन्त्यादित्वमित्यन्ये ।

श्रोत्र न० श्र्यतेऽनेन श्रु--करणे ष्ट्रन् । १ शब्दज्ञानसाधने

इन्द्रियभेदे अमरः । २ तदाधारे गोलके च कर्णशब्दे
१७०६ पृ० दृश्यम् ।

श्रोत्रिय पु० छन्दो वेदमधीते वेत्ति वा छन्दस् + घ श्रोत्रा-

देशः । १ वेदाध्ययनानुरते अमरः । “एकां शाखां सकल्पां
वा षड्भिरङ्गैरधीत्य च । षट्कर्मनिरतो विप्रः श्रोत्रियो
नाम धर्मवित्” इत्युक्ते २ विप्रभेदे “जन्मना ब्राह्मणो
ज्ञेयः संस्कारैर्द्विज उच्यते । विद्याभ्यासी भवेद्विप्रः
श्रोत्रियस्त्रिभिरुच्यते” मभूक्तलक्षणे ३ ब्राह्मणभेदे च ।

श्रौत त्रि० श्रुतौ विहितमण् । १ वेदविहिते धर्मादौ “श्रौतं

क्रर्म स्वयं कुर्य्यात्” कात्या० स्मृतिः । २ गार्हपत्याहवनी-
यदक्षिणाग्निषु पु० ।

श्रौत्र न० श्रोत्र--स्वार्थे अण् । १ कर्णे । श्रोत्रियस्य भावः कर्म

वा अण् यलोपः । वैदिकस्य भावे “श्रौत्रार्हन्तीचणै-
र्गुण्यैः” सिद्धान्तकौ० ।

श्रौषट् अव्य० श्रु--डौषटि । यज्ञादौ हविर्दाने अमरः ।

श्लक सर्पणे भ्वा० आ० सक० सेट् इदित् । श्लङ्कते कश्लङ्किष्ट ।

श्लक्ष्ण त्रि० श्लिष--क्स्न नि० । १ अल्पे अमरः २ चिक्कणे ।

संज्ञायां कन् । ३ मनोहरे उणा० ४ पूगे राजनि० ।

श्लक्ष्णत्वच् पु० श्लक्ष्णा त्वगस्य । अश्मन्तकवृक्षे राजनि० ।

श्लग गतौ भ्वा० पर० सक० सेट् इदित् । श्लङ्गति अश्लङ्गीत् ।

श्लथ दौर्वल्ये अद० चु० अक० सेट् । श्लथयति ते अशश्लथत् त

श्लथ पु० श्लथ--अच् । १ विरलसंयोगे शिथिवे जटा० २ दुर्बले च

श्लाख व्याप्तौ भ्वा० पर० सक० सेट् ऋदिंत् चङि न ह्रस्वः ।

श्लास्वति अश्लाखीत् ।

श्लाघ आत्मगुणाविष्करणे भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः । श्लाघते अश्लाघिष्ट ।

श्लाघा स्त्री श्लाघ--अ । १ प्रशंसायां २ वरिचर्य्यायाम् ३

अभिमाषे च मेदि० । ४ विजगुणाविष्ककरणे ।

श्लाघ्य त्रि० श्लाघ--ण्यत् । प्रशस्ये “श्लाघ्यस्त्वन्मृत्युरावयी-

रिति” देवीमा० ।

श्लिकु न० श्लिष--कु नेत्त्वम् पृषो० । ज्योतिःशास्त्रे उणा० ।

श्लिक्यु पु० श्लिष--क्यु नेत्त्वम् पृषो० । १ भृत्ये सि० कौ० २ जारे

उणादि० ।

श्लिष दाहे भ्वा० पर० सक० सेट् उदित् क्त्वा वेट् । श्लेषति अ श्लेषीत् ।

श्लिष आलिङ्गने संसर्गे च सक० दि० अनिट् । श्लिष्यति

ऌदित् अश्लिषत् । आलिङ्गने तु अश्लिक्षत् ।

श्लिष श्लेषणै चु० उभ० सक० सेट् । श्लेषयति ते अशिश्लेषत् त ।

श्लिष्ट त्रि० श्लिष--क्त । १ आलिङ्गिते २ संसृष्टे ३ श्लेषरूपशब्दा-

लङ्कारयुक्ते शब्दे च ।

श्लीपद न० श्रीयुक्तं वृद्धियुक्तं पदमस्मात् पृषो० । (गोद)

१ रोगभेदे ६ ब० । २ तद्रोगयुक्ते त्रि० । शिलीपदशब्दे ५१११
पृ० दृश्यम् ।

श्लीपदप्रभव पु० श्लोपदाय रोगभेदाय प्रभवति प्र + भू--अच् ।

आम्रवृक्षे शब्दमा० । तत्फलसेवने रससञ्चयात् तद्वृद्धिः ।

श्लीपदापह पु० श्लीपदं रोगभेदमपहन्ति अप + हन--ड ।

पुत्त्रजीववृक्षे त्रिका० ।

श्लील त्रि० श्रीरस्त्यस्य लच् पृषो० रस्य लः । शोभायुक्ते तद्विपरीतो हि अश्लीलः ।

श्लेष पु० श्लिष--घञ् । १ संसर्गे अमरः । २ दाहे ३ आलिङ्गने

४ शब्दालङ्कारभेदे च अलङ्कारशब्दे ४०५ पृ० दृश्यम् ।

श्लेष्मघ्ना स्त्री श्लेष्माणं हन्ति हन--क टाप् । १ मल्लिकायां

२ केतक्याञ्च विश्वः । ३ ज्योतिष्मत्यां जटा० ङीप् । सा च
४मल्लिकायां मेदि० ५ त्रिकटुनि शब्दच० ।

श्लेष्मण पु० श्लेष्माऽस्त्यस्य न । कफविशिष्टे अमरः ।

श्लेष्मन् पु० श्लिष--मनिन् । कफ अमरः । श्लेष्मस्वरूपादिकं

मावप्रकाशाद्युक्तं कफशब्दे १६७६ पृ० दृश्यम् ।
तत्प्रकृतिकलक्षणम् “गम्भोरबुद्धिः स्थूलाङ्ग स्निग्धकेशो
महाबलः । सुप्नो जलाशयालोकी श्लेष्मप्रकृतिको नरः” ।
तत्कर्माणि यया “स्नोहो बन्धः स्थिरत्वञ्च गौरवं दृष्यता
बलम् । क्षमाधृतिरलोभश्च कफकर्माविकारजम्” । श्लेष्म-
करद्रव्याणि कफकरशब्दे १६७७ पृ० दृश्यानि । अन्यानि
यथा “मोजनानन्तरं स्नानं जलपानं विना तृषा ।
तिलतैलं स्विग्धतैलं स्निग्धमामलकीद्रवम् । पर्य्युषितान्नं
तक्रञ्च पक्वरम्भाफलं दधि । माषाम्बुशर्करातोयं
सुस्निग्धस्थलसेवनम् । नारिकेलोदकं रूक्षस्नानं पर्य्युषितं
जलम् । तरुमुञ्जापक्वफलं सुपक्वकर्कटीस्मलम् । स्वात-
स्नानञ्च वर्षासु मूलकं श्लेष्मवारणम् तज्जल ब्रह्मरन्ध्रे
च महावीर्य्यविनाशनम्” । श्लेष्मनाशकद्रव्याणि कफघ्नी-
शब्दे १६७७ पु० दृश्यानि । अन्यानि च यमा “वह्निस्वेदं
पृष्ठ ५१५८
भृष्टभङ्गं पक्वतैलं विशोषकम् । भ्रमणं शुष्कमक्ष्यञ्च
शष्कपक्वहरीतकी । पिण्डारकमपक्वञ्च रम्भःफलमपक
कम् । वेशवारसिन्धुवारमनाहारमपामकम् । सघृतं
रोचनाचूर्णं सघृतं शुष्कशर्करम् । मरीचं पिप्पलीं शुष्कमा-
र्द्रकं जीरकं मधु । द्रव्याण्येतानि गन्धर्वि! सद्यः श्लेष्म
हराणि च” ब्रह्मवै० ब्रह्म० १६ अ० ।

श्लेष्मल त्रि० श्लेष्म + अस्त्यर्थे लच् । १ कफयुक्ते (बहुयार) २ वृक्षे पु० शब्दच० ।

श्लेष्मह पु० श्लेष्माणं हन्ति हन--ड । १ कट्फलवृक्षे शब्दच०

२ श्लेष्मनाशके त्रि० । कफघ्नीशब्दे १६७७ पृ० दृश्यम् ।

श्लेष्मात पु० श्लेष्मणा अतति अत--अच् । श्लेष्मातकवृक्षे शब्दर०

श्लेष्मातक पु० श्लेष्मणा स्वसेवनजनितकफेन अतति अत--ण्वुल्

(वहुयार) बहुवारवृक्षे अमरः “बहुवारस्तु शीतः
स्यादुदालो बहुवारकः । शेलुः श्लेष्मातकश्चापि पिच्छिलो
भूतवृक्षकः । बहुवारो विषस्फोटव्रणवीसर्पकुष्ठनुत् ।
मधुरस्तुवरस्तिक्तः केश्यश्च कफपित्तहृत् । फलमामन्तु
विष्टम्भि रूक्षं पित्तकफास्रजित् । तत् पक्वं मधुरं स्निग्धं
श्लेष्मलं शीतलं गुरु” भावप्र० ।

श्लेष्मान्तक पु० श्लेष्मणा स्तसेवनजकफेन अन्तक इव नाशकत्वात्

(वहुयार) वृक्षभेदे राजनि० ।

श्लोक वर्द्धने संघाते च भ्वा० आ० म० सेट् ऋदित् चङि न ह्रस्वः । श्लोकते अश्लोकिष्ट ।

श्लोक पु० श्लोक--अच् । चतुःपदात्मके कविकृते १ वाक्यभेदे

२ यशसि च अमरः “क उत्तमश्लोकगुणानुवादात्” भाग० १ । १

श्लोण संघाते भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः ।

श्लोणति अश्लोणीत् ।

श्वःश्रेयस न० श्वः परदिने भाविकाले श्रेयो यस्मात् अच्

समा० । १ मङ्गले अमरः २ सुखे ३ परमात्मनि च मेदि० ।
४ कल्याणयुक्ते त्रि० ।

श्वक सर्पणे भ्वा० आ० सक० सेट् इदित् श्वङ्करे अश्वङ्किष्ट ।

श्वच गतौ भ्वा० आ० सक० सेट् । श्वचते अश्वचिष्ट इदिदप्ययम्

श्वठ गतौ संस्कारे च चु० उभ० सक० सेट् । श्वठयति--ते

अशिश्वठत् त । इदिदप्ययम् श्वण्टयति ।

श्वठ दुर्वचने अद० चु० उभ० सक० सेट् । श्वठयति ते अशश्वठत् त ।

श्वदंष्ट्रक पु० शुनो दंष्ट्रेव कण्टकोऽस्य कप् । गोक्षुरे क्षुप

राजान० ।

श्वदंष्ट्रा स्त्री शुनो दंष्ट्रेवृ कण्टकावृतत्वात् । गोक्षुरे क्षुपे अमरः ।

श्वधूर्त्त पुंस्त्री निशूनो वञ्चनार्थं धूर्त्तः । शृगाले शब्दच०

स्त्रियां ङीष् ।

श्वन् पु० श्वि--कनिन् नि० । कुक्कुरे तज्जातिस्त्रियां ङीप् नी ।

श्वनिश न० स्त्री शुनां कुक्कुराणां निशा वा ह्रस्वः । कुक्कु-

रमादकरात्रौ ।

श्वपच पुंस्त्री० श्वानं पचति भोजनाय पच--अच् ।

श्वपाके जातिभेदे । स च अन्त्यावसायिसज्ञः “चण्डालः
श्रपचः क्षत्ता सूती वैदेहकस्तथा । मागधायोगवौ चैव
सप्तौतेऽन्त्यावसायिनः । अन्त्यावसायिनामन्नमश्नीयाद् यस्तु
कामतः । स तु चान्द्रायणं कुर्य्यात् तप्रघृच्छमथापि वा”
प्रा० त० अङ्गिराः ।

श्वपाक पु० श्वानं पचति कर्त्तरि संज्ञायां घञ् । जातिभेद

“क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते” मनुः ।
तद्धर्मश्च चण्डालशब्दे २८४९ पृ० उक्तो दृश्यः ।

श्वफल पु० शुनः प्रियं फलमस्य । वीजपूरवृक्षे रत्नमा० ।

श्वफल्क पु० । वृष्णिवंश्ये अक्रूरपितरि क्षत्रियभेदे विष्णुपु० ।

श्वभीरु पु० श्वभ्यी भीरुः । शृगाले शब्दमा० ।

श्वभ्र गतौ छिद्रकरणे सक० दीःस्थ्ये अक० चु० उभ० सेट् ।

श्वभ्रयति ते अशश्वभ्रत् त ।

श्वभ्र न० श्वभ्र--अच् । छिद्रे अमरः ।

श्वयथु पु० श्वि--वृद्धौ अथुच् । शोथे अमर ।

श्वयीची स्त्री श्वि--ईचि ङीप् । पीड़ायाम् सि० कौ० ।

श्वल वेगे भ्वा० पर० अक० सेट् । श्वलति अश्वालीत् ।

श्वल्क भाषणे चु० उ० स० सेट् । श्वल्कयति ते अशश्वल्कत् त ।

श्वल्ल वेगे भ्वा० पर० अक० सेट् । श्वल्लति अश्वल्लीत् ।

श्ववृत्ति स्त्री शुन इव पराधीना वृत्तिः । दास्ये “सैवा श्ववृ-

“त्तराख्याता तस्यात्तां परिवर्जयेत्” मनुः । “दीनदृष्टि-
सन्दर्शनस्वामितर्जननीचक्रियादिधर्मयोगात् श्वतुल्यासिति”
कुल्लू० “न श्ववृत्त्या कदाचन” मनुः ।

श्वव्याघ्र पु० शुनो व्याघ्रः । कुक्कुरघातके व्याध्रभेदे (चिते) जटा० ।

श्वशुर पु० शु आशु अश्नुते आशु + अश--उरच् पृषो० ।

१ पत्युः पितरि २ भार्य्यायाः पितरि च अमरः ।

श्वशुर्य्य पु० श्वशुरस्यापत्यम् यत् । १ देवरे २ श्याले च अमरः ।

श्वश्रू स्त्री श्वशुरस्थ पत्नी ऊङ् उकाराकारलोपश्च । श्वशुर-

भार्य्यायाम् अमरः । श्वश्रूस्नु षयोरविश्वासकारणं
वराहपु० उक्तं यथा “एवमुक्त्वा स चोत्थाय शप्ता नारी
तदा धरे! । या स्नुषाभिः समं शप्ता विश्वासो भवतु
क्वचित् । सा च स्नुषा कदाचित् स्यात् या श्वश्रूं
जीवतीमिषेत्” ।

श्वस् अव्य० आगामि अहः पृषो० नि० । आगामिनि दिवसे अमरः ।

पृष्ठ ५१५९

श्वस जीवने अदा० जक्षा० धर० सक० सेट् । श्वधिति अश्व-

सीत् । “न विश्वसेदविश्वस्ते इत्यादौ” तु गणव्यत्यासात्
भ्वादित्वम् निष्ठा वेट् । श्वसितः श्वस्तः ।

श्वस स्वप्रे अदा० प० अक० वैदिकोऽयस् । श्वस्ति अश्वसीत् ।

श्वसन पु० श्वसित्यनेन श्वस--ल्युट् । १ वायौ २ मदनवृक्षे च

अमरः । भावे ल्युट् । ३ निश्वामे न० मेदि० ।

श्वसनाशन पुं स्त्री० श्वसनोवायुरशनमस्य । सर्पे हारा० । स्त्रियां ङीष्

श्वसनेश्वर पु० श्वसनो वायुरीश्वरोऽस्य । अर्जुनवृक्षे शब्दच० ।

श्वसनोत्सुक पुंस्त्री० ७ त० । सर्पे शब्दर० स्त्रियां ङीष् ।

श्वसित न० श्वस--क्त । निश्वासे मुखनासिकाभ्यां बहिर्गमन-

रूपे हृदयस्थप्राणवायुव्यापारे ।

श्वसुन पु० श्वस--उनन् । (कुकुरशोङ्गा) वृक्षे शब्दमा० ।

श्वस्तन त्रि० श्वोभवः श्वस्--ठ्युल् तुट् च । भाविदिनस्यायि

वस्तुनि स्त्रियां ङीष् ।

श्वस्त्य त्रि० श्वोभवः श्वस् + त्यप् । भाविदिनस्थायिवस्तुनि ।

श्वागणिक पु० श्वगणेन चरति ठञ् । कुक्कुरादिना

मृगयाकर्त्तरि व्याधे सि० कौ० ।

श्वादन्त त्रि० शुन इव दन्तोऽस्य नि० दीर्घ । कुकुरतुल्यदशन युते ।

श्वान पुंस्त्री० श्वेव अण् न टिलोपः । कुकुरे शब्दमा० ।

तज्जातिस्त्रियां ङीष् ।

श्वानचिल्लिका स्त्री श्वान इव चिल्लिका । शुनकचिल्ल्यां राजनि० ।

श्वापद पु० शुन इवापदस्मात् अचसमा० । १ हिंसपशौ हेमच०

२ व्याघ्रे च शब्दर० ।

श्वाविध् पु० शुना आविध्यते आ--व्यध् क्विप् ६ त० । शल्यके

(शजारु) अमरः । क । श्वाविधोऽप्यत्र पु० ।

श्वास पु० श्वस--घञ् । १ वायुघ्यापारे २ रोगभेदे ३ शिक्षोक्ते

वर्णोच्चरणार्थे बाह्यप्रयत्नभेदे च ।
श्वासरोयस्य निदानादि भावप्र० उक्तं यथा
“श्वासनिदानमाह यैरेव कारणैर्हिक्का देहिनां सम्प्रव-
र्त्तते । तैरेवबहुभिः श्वासो व्याधिर्घोरः प्रजायते” । श्वा-
सस्य भेदानाह “महोर्द्ध्वछिन्नतमकक्षुद्रभेदैस्तु पञ्चधा ।
भिद्यते स महाव्याधिः श्वास एको विशेषतः” । तस्य पूर्व
रूपमाह “प्राग्रूपं तस्य हृत्पीड़ा शूलमाध्मानमेव च ।
आनाहो वक्त्रवैरस्यं शङ्कनिस्तोद एव च” । सम्प्राप्तिमाह
“यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकैः । विष्वक्
ब्रजति संरुद्धस्तदा श्वासं करोति साः” । विष्वक् ब्रजति
सर्वतो विमार्नान् याति संरुद्धः कफानादिना रुद्धमार्गः ।
महाश्वासस्य लक्षणमाह “ऊर्द्ध्वायषानवातोयः शब्दवत्
दुःखितो नरः । उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवा-
निशम् । प्रनष्टज्ञानविज्ञानस्तथा बिभ्रान्तलोचनः ।
विवृताक्ष्याननो बवुमूत्रवर्ची विशीणवाक् । दीनस्य श्वास-
तञ्चास्य दूराद्विज्ञायते भृशम् । अहाश्वासोपसृष्टस्तु
क्षिप्रमेव विपद्यते १ । ऊर्द्ध्वायमानवातः ऊर्द्ध्वं नीयमाने
वातो यस्य सः शब्दवत् सशब्दं यथा स्थात् । कीदृक्
स शब्दस्तद्बोधयितुमाह मत्तर्षभ इव । उच्चैः श्वीस-
तीत्थन्वयः । सन्नद्धः आनद्धः आनाहयुक्त इति यावत् ।
ज्ञानं तत्तदर्थविनिश्चयः । विशीर्णवाक् स्खलितवचनः ।
दीनः म्लानः । मारकश्चायं महाश्वासः । ऊर्द्ध्वश्वास-
माह “ऊर्द्धं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः ।
श्लेष्मावृतमुखस्रोतःक्रुद्धगन्धबहार्दितः । ऊर्द्ध्वदृष्टिर्विप-
श्यंस्तु बिभ्रान्ताक्ष इतस्ततः । प्रमुह्यन् वेदनार्त्तश्च
शुष्काम्यो रतिपीड़ितः । ऊर्द्ध्वश्वास प्रकुपिते ह्यधःश्वामो
निरुद्ध्यते । मुह्यतस्ताम्यतश्चोर्द्धश्वासस्तस्य निहन्त्यसून्” २ ।
सर्वेषु श्वासेषु ऊर्द्ध्वश्वासोऽत्र अत्यर्थमिति विशेषः । न च
प्रत्याहरत्यधः न श्वासमधः करोति श्लेष्मावृतेत्यादिश्लेष्म-
णावृतं यन्मुखं स्रोतांसि च तेः क्रुद्धो यो गन्धवहस्ते
नार्दितः । विपश्यन् इतस्ततो विकृतं यथा स्यादेवं पश्यन्
अधःश्वासो निरुद्ध्यत श्वासो नाधः प्रवर्त्तत” इत्यर्थः ।
मुह्यतो मोहं प्राप्नुवतस्ताप्यतो ग्लानिं प्राप्नुवतञ्च
ऊर्द्ध्वश्वासः असून् प्राणान् हन्ति । छिन्नश्वासस्यारिष्टं
लक्षणञ्चाह “यस्तु श्वसिति विच्छिन्न सर्वप्राणेन
पीड़ितः । न वा श्वसिति दुःखार्त्तो मर्मच्छेदरुजार्दितः ।
आनाहस्येदमूर्च्छार्त्तो दह्यमानेन वस्तिना । विप्लुताक्षः
परिक्षीणः श्वसन् रक्तैकलोचनः । विचेताः परिशुष्कास्यो
विवर्णः प्रलपन्नरः । छिन्नश्वासेन विच्छिन्नः स शीघ्र
विजहात्यसून्” २ । विच्छिन्नं सविच्छेदं सर्वप्राणेन सर्व-
वलेन मर्मच्छेदरुजार्दितः हृदयशिरश्छेदवेदनयैव
पीड़ितः । दह्यमानेन वस्तिना उपलक्षितः । विप्लुताक्षः
अश्रुपूर्णनेत्रः । विचेताः उद्विग्नचित्तः छिन्नश्वासेन
विच्छिन्नः यस्तु श्वसिति विच्छिन्नमित्यादिलक्षणयुक्तो यः स
नरः छिन्नश्वासेन विच्छिन्न पीड़ितो बोद्धव्यः । मारक-
श्चायं छिन्नश्वासः । तमकश्वासमाह “प्रतिलोमो यदा
वायुः स्रोतांसि प्रतिपद्यते । ग्रीवां शिरश्च संगृह्य
श्लेष्माणं समुदीर्य्य च । करोयि पानसं तेन कण्ठे
घुर्थरकं तथा । अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीड़कम् ।
प्रताम्यति स वेगेन त्रस्यते सन्निरुध्यते । प्रमोहं
कासमानश्च स गच्छति मुहुर्मुहुः । श्लेष्मणा मुच्यमानेन
पृष्ठ ५१६०
भृशं भवति दुःखितः । तस्यैव च विमोक्षान्ते मुहूर्त्तं
लभते सुखम् । तथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति
भाषितुम् । न चापि निद्रां लभत शयानः श्वासपी-
ड़ितः । पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः ।
आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति । उच्छ्रि
ताक्षो ललाटेन स्विद्यता भृशमार्त्तिमान् । विशुष्कास्यो
मुहुः श्वासो मुहुश्चैवावधम्यते । मेघाम्बु शीतप्राग्वातैः
श्लेष्मलैश्च विवर्द्धते । स याप्यस्तमकः श्वासः साध्यो वा
स्यान्नवोत्थितः” ४ । संगृह्य व्यथया समुदीर्य्य वर्द्धयित्वा ।
पीनसं नासास्रावं तेन श्लेष्मणा घर्धुरं घुर्घुरशब्दं प्राण-
प्रपीड़कम् । प्रताम्यति तमसि प्रविशतीव वेगेन श्वास-
वेगेन सन्निरुध्यते निश्चेष्टो भवतीति चक्रः । सन्नि
रुध्यते श्वास इति जैज्जटः । । श्लेष्मणा मुच्यभानेन
सुखं सुस्तमिव उद्ध्वंसते व्यथितो भवति । शयानः
शयननिहिताङ्गोऽवगृह्णाति पीड़यति उष्णश्चैवाभिनन्दति
इत्यनेन तमकी वातकफारब्ध इति बोद्धव्यः । उच्छ्रि-
ताक्षः शूनाक्षः । ललाटेन स्विद्यता उपलक्षितः अव
धम्यते गजारूढ़स्येव सवगात्रञ्चाल्यते । तमकस्यैव
पित्तानुबन्धजनितज्वरादियोगेन प्रतमकसंज्ञामाह “ज्व
रमूर्च्छापरीतञ्च विद्यात् प्रतमकं मिषक्” । तस्यैवापर-
लक्षणमाह “उदावर्त्तरजो जीर्णकलिन्नकायनिरोधजः ।
तमसा वर्द्धतेऽत्यर्थं शीतलैश्च प्रशाम्यति । मज्जतस्तम
सीवास्य विद्यात् प्रतमकन्तु तम्” । उदाबर्त्तो रोगविशेषः
रजो धूलिः अत्राजीर्णमामादिक्लिन्नं विदग्धं
कायनिरोधा अङ्गवेगानां निरोधः तस्मादुत्पन्नः । क्षुद्रश्वा-
समाह “रूक्षायासोद्भवः कोष्ठे क्षुद्रोवात उदीरयन् ।
क्षुद्रश्वासो न सोऽत्यर्थदुःखेनाङ्गप्रवाधकः । हिनस्ति न
च गात्राणि न च दुःखं यथेतरे । न च भोजनपानानां
निरुणद्ध्युचितां गतिम् । नेन्द्रियाणां व्यथाञ्चापि
काञ्चिदुत्पादयेद्रुजम् । स साध्य उक्तो वलिनः सर्वे चाव्यक्त-
लक्षणाः” ५ । क्षुद्रः अल्पनिदानलिङ्गः उदीरयन् ऊर्द्ध्वं
गच्छन् दुःखः दुःखप्रदः । सर्वे महाश्वासादयोऽपि ।
अव्यक्तकक्षणाः सन्तः साध्याः । श्वासानां साध्यत्वादि-
कमाह “क्षुद्रेः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते ।
त्रय श्वासा न सिध्यन्ति तमको दुर्बलस्य च । काम
प्राणहरा रोगा बहवो न तु ते तथा । यथा श्वासश्च
हिक्का च हरतः प्राणमाशु वै” । वहवो ज्वरादयः
“तथा यथा श्वासहिक्वे हरतो जीवमाशुते” ।
तेषां निदानकर्मविपाकास्तु भृगुभार० उक्ता यथा
“श्वासरोगो महानुग्रो देहिदेहाभिघातकः । कर्मणा येन
भवति तन्मे निगदतः शृणु । महोर्द्ध्वच्छिन्नतमकक्षुद्रा-
भेदोऽस्य पञ्चधा । श्वासः संजायते नॄणां पृथक् कर्मानु-
सारतः । यस्तु यज्ञं समासाद्य पशुश्वासं निरुध्य च ।
हन्ति स्वादन्ति वातञ्च महाश्वासेन गृह्यतॆ । पौराणिक
कथा मध्ये यस्तु वाचान्यथा वदेत् । स ऊर्द्ध्वश्वास-
मासाद्य दुनोत्यहरहर्निशम् २ । निषिद्धदानग्रहणा-
च्छिन्नश्वासेन गृह्यते३ । मर्त्यः शास्त्रार्थनिर्णीतवाक्य
यो दूषयत्यपि । पीड्यते तमकश्वासैः ४ क्षुद्रैः पाकस्य
विघ्नतः ५ । परत्र कर्मतो देही नरकेषु विपच्यते ।
नरकान्ते पुनर्व्याघ्रयोनिं शृकरवायसीम् । पृथक् कर्म-
वशाद् योनौ गत्वा संप्राप्य तप्यते । मानुषत्वमनुप्राप्य
पूर्वोक्तेनोपगृह्यते” ।

श्वासकास पु० श्वासयुक्तः कासः । श्वासयुक्ते कासरोगे

“पिशुनो नरकस्यान्ते जायते श्वासकासवान् । घृतं तेनु
प्रदातव्यं सहस्रपलसम्मितम्” शाता० कर्म० ।

श्वासकुठार पु० श्वासे कुठार इव । श्वासरोगोषधभेदे

“रसो गन्धो विषञ्चापि टङ्कणञ्च मनः शिला । एतानि
कर्षमात्राणि मरिचञ्चाष्टकर्षकम् । कटुत्रयं कर्षयुग्मं
पृथगत्र विनिःक्षिपेत् । रसः श्वासकुठारोऽयं सर्वश्वास
निवारकः” भावप्र० ।

श्वासधारण न० श्वासः प्राणवायुः ध्रियतेऽनेन । प्राणधारणव्यापारे प्राणायाम

श्वासहेति स्त्री श्वासस्य हेतिरिव । निद्रायां हेमच० ।

श्वासारि पु० श्वासस्य रोगभेदस्यारिः नाशकत्वात् । पुष्कर-

मूले राजनि० ।

श्वासिन् पु० श्वासयति श्वस--णिच णिनि । वायौ शब्दच० ।

श्वि गतौ सक० वृद्धौ अक० भ्वा० पर० यजा० सेट् । श्वयति

अशिश्वत्--अश्वत्--अश्वयात् । ट्वित् श्वयथुः ओदित् निष्ठा तस्य
नः शूनः ।

श्वित शुक्लतापादने भ्वा० आ० ऌदित् लुङि उभ० सक० सेट् । श्वेतते अश्वितत् अश्वेतिष्ट ।

श्वित्र न० श्वित--रक् । श्वेतकुष्ठभेदे (धवल) अमरः ।

तन्निदानादि भावप्र० उक्तं यथा
“कुष्ठैकमम्भनं श्चित्रं किलास चारुणं भवेत् । निर्दिष्ट-
मपरिसांवि त्रिधातूद्भवसंश्रयम्” । कुष्ठैकसम्भवं कुष्ठेन
सह सम्भवो निदानं यस्य तत् । अथ श्वित्रस्य भदमाह
किलासञ्चारुणं भवेत् श्वित्रमेव रक्तमांसाश्रयात्किलास-
मरुणञ्च भवेदित्यर्थः । ननु कुष्ठात् श्वित्रस्य को भेद
पृष्ठ ५१६१
इत्यत आह निर्दिष्टमपरिस्रावीति श्वित्रमपरिस्रावि
भवति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसंश्रयमिति
श्वित्रम त्रयोधातवो रक्तवांसमेदांसि सश्रयोऽधिष्ठानं
यस्य तत् । कुष्ठन्तु सान्निपातिकं मर्वधातुगतं भवतीति
भदः । दोषभेदेव लक्षणभेदान्याह “वाताद्रूक्षारुणं
पित्तात् ताम्रं कमलपत्रव! । सदाहं रोमविध्वंसि
कफात् श्वेतं घनं गुरु सकण्डूकं क्रमाद्रक्तमांसमेदःसु
चादिशेत् । वर्णेनेवेदृगुभय कुष्ठं तच्चोत्तरोत्तरम्” ।
अरुणमीषल्नोहितम् । कमलपत्त्रवदित्यनेन मध्ये श्वेतमन्ते
लाहित बोधयति । घनं पुष्टम् । क्रमाद्रक्तमांसमेदःसु
आदिशेत् । तथा च चरकः “अरुणं रक्तगे वाते ताम्रं
पित्ते पलङ्गते । श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं
परंपरम्” इति । उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव ।
अरुणं ताम्रं श्वेतञ्च दोषभेदात् । द्विविधं दोषजं व्रणजं
च । तथा च भोजः “श्वित्रं तु द्विविधं विद्याद्दोषजं
व्रणजं तथा” इति । श्वित्रं साध्यमसाध्यञ्चाह “अशुक्ल-
रोमाबहलमसृग्युक्तमथो नबम् । अनग्निदग्धजं साध्यं
श्वित्रं वर्ज्यमतोऽन्यथा” । अब्रहलं तनु । अन्यच्च
“गुह्यपाणितलाष्ठेषु जातमप्यचिरन्तनम् । वर्ज्जनीयं
विशेषेण किलासं सिद्धिमिच्छता” । गुह्यं मेहनम् भगञ्च
तलमत्र पदतलं सुश्रुतेनान्ते जातमिति सामान्यतो
निर्दिष्टत्वात् । अप्यचिरन्तनम् नवमपि” ।

श्वित्रघ्नी स्त्री श्वित्रं हन्ति हन--टक् ङीप् । पीतपर्ण्याम्

(विछुती) शब्दच० ।

श्वित्रिन् त्रि० श्वित्रमस्त्यस्य इनि । श्वेतकुष्ठयुक्ते “श्वित्री

वस्त्र श्वा रसं च चीरी लवणहारकः” याज्ञ० ।

श्विद शुक्लतापादने भ्वा० आत्म० सक० सेट् इदित् । श्विन्दति

अश्विन्दीत् ।

श्वेत पु० श्वित--अच घञ् वा । १ द्वीपभेदे २ पर्वतभेदे ३

कपर्दके हेमच० । ४ शुक्रग्रहे ५ पुभ्राभ्रे शब्दच० । ६ शङ्खे
राजनि० । ७ जीवके जटा० । ८ शुक्लवर्णे ९ तद्वति त्रि०
अमरः स्त्रियां ङीप् तस्य नश्च श्वेनी । १० कलियुगीय-
शिवावतारविशेषे यथा “वेदध्यासावताराणि द्वापरे
कथितानि तु । महादेवावताराणि कलौ शृणुत सुव्रत! ।
आदौ कलियुगे श्वेतो देवदेवो महाद्युतिः । नाम्रा
हिताय विप्राणामभूद्वैपखतेऽन्मरे । हिमवच्छिस्वरे रम्ये
छगले पर्वतोत्तमे । तस्य शिष्याः शिखायुक्ता बुभूवरमित-
प्रभाः । श्वेतः श्वतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः । सुभावो
दमनश्चाथ सुहोत्रः कङ्कणस्तथा । लोकाक्षिरथ योगान्द्रो
जैगीषव्यस्तु सप्तमे । अष्टमे दधिबाहुः स्यान्नवमे वृषभ
प्रभुः । भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः ।
द्वादशेऽत्रिः समाख्यातो वाली चाथ त्रयोदशे । चतुर्दशे
गौतमस्तु वेदशीर्षा ततः परम् । गाकणश्चामवत्तस्मात्
गुहावासः शिखण्ड्यथ । जटामाल्यट्टहासश्च दारुको
लाङ्गली क्रमात् । श्वोतस्तथा परः शूली तिण्डो मुण्डी
च वै क्रमात् । सहिष्णुः सोमशर्मा च नष्कुलीशोऽन्तिमे
प्रभुः । वैवस्वतेऽन्तरे शम्भोरवतारास्त्रिशूलनः । अष्टा-
विंशतिराख्याताह्यन्ते कलियगे प्रभोः” कौर्म ५० अ० ।
श्वेतपर्वतस्य परिमाणादि यथा “उत्तरोत्तरेणेलावृतं
नीलः श्वेतः शृङवान् इति त्रयो रम्यकहिरणमय
कुरूणां मर्य्यादागिरयः प्रागायताः उभयतः क्षारोदा-
वधयो द्विसहस्नयोजनपृथव एकैकशः पूर्वस्यात् पूर्व-
स्यादुत्तरोदशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति” भाग०।
५ । १६ । ११ राजभेदे वह्निपु० । संज्ञायां कन् । रूप्ये
न० राजनि० । कपर्दके पु० ।

श्वेतकण्टकारी स्त्री कर्म० । शुभ्रवर्णकण्टकारिकायाम् राजनि० ।

श्वेतकन्दा स्त्री श्वेतः कन्दाऽस्याः । अतिविषायां राजनि० ।

श्वेतकिणिही स्त्री कर्म० । गिरिकर्णिकायां क्षुपभेदे राजनि०

श्वेतकुञ्जर पु० कर्म० । १ ऐरावतगजे शब्दर० । २ श्वेतगज-

मात्रे च श्वेतगजादयोऽप्यत्र ।

श्वेतकुश पु० कर्म० । शुक्लवर्णें कुशभेदे राजनि० ।

श्वेतकेतु पु० कर्म० १ वारुणे केतुग्रहभेदे २ छान्दोग्यवसिद्धे

वारुणौ ऋषिभेदे ३ बुद्धे त्रिका० ।
“केतबो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते । ऊर्मि-
केतुः श्वेतकेतुस मकतुस्तृतीयकः । श्वतकेतुरयदा दृश्यः
श्वेतास्थिं करुत महीम् । तदा मानुषमांसानि भक्षय-
न्तीह मानुषाः क्षुद्भयार्त्तं जमत् कृत्स्नं चक्रवद्र-
भ्रमते तदा” । अपि च “श्वेतः शस्त्राकुलं कुर्य्यात्
लोहितस्त्वग्निज भयम् । क्षुद्भय पीतकः कुर्य्यात् कृष्णो
रोगमथोल्वणम्” । अन्यच्च “अवन्ती पुष्करारण्यं
यावद्धन्यात्तथापरान् । देशान् क्वचित् क्वच्चिद्रोगदुर्भिक्षैः
परिपीडितान् । श्वेताख्यस्तु जटाकारी श्यःमो व्योम
त्रिभागगः । निवर्त्ततेऽपसव्ये न त्रिभागी कुरुते प्रजाः”
इति समयामृतधृतवाक्यम् ।

श्वेतकेश पु० श्वेतः केश इव यस्य । १ रक्तशिग्रौ जटाक ।

२ शुक्लवर्णकेशयुते वृद्धे त्रि० । कर्म० । ३ शुक्ले केशे पु० ।
पृष्ठ ५१६२

श्वेतकोल पुंस्त्री० ६ ब० । शफरभत्स्ये त्रिका० स्त्रियां ङीष्

श्वेतखदिर पु० कर्म० । शुक्ले स्वदिरभेदे ।

श्वेतगज पु० कर्म० । १ ऐरावते गजे हेमच० २ शुभ्रगजे च ।

श्वेतगरुत् पु० श्वेतोगरुदस्य । १ हसे अमरः ३ शुभ्रपक्षयुक्ते

त्रि० पृषो० अदन्तोऽप्यत्र ।

श्वेतगुञ्जा स्त्री कर्म० । शुभ्रगुञ्जायां राजनि० । गुञ्जाशब्दे २५९ पृ० दृश्यम् ।

श्वेतचिल्ली स्त्री कर्म० । शाकभेदे (शादाचिरुइ) राजनि० ।

श्वेतच्छद पुंस्त्री० श्वेतः छदः पक्षोऽस्य । १ हंसे हला० ।

स्त्रियां ङीष् । २ शुभ्रपक्षयुक्ते त्रि० ।

श्वेतजीरक पु० कर्म० । शुक्लजीरके राजनि० ।

श्वेतटङ्कण न० कर्म० । १ शुभ्रटङ्कणे २ मालतीनदीतीरसम्भवे

क्षारभेदे राजनि० ।

श्वेतदूर्वा स्त्री कर्म० । शुभ्रदूर्वायां राजनि० ।

श्वेतद्वीप पु० कर्म० । वैकुण्ठाख्यविष्णुधाम्नि क्षीरोधेरुत्त-

रस्थे द्वोपभेदे च “क्षीरोदधेरुत्तरतः श्वेतोद्वीपो
महाप्रभः । एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः” भा०
शा० ३३८ अ० ।

श्वेतधातु पु० कर्म० । १ खटिकायां २ शुभ्रवर्णधातुद्रव्ये च ।

श्वेतधामन् पु० श्वेतं धाम यस्य । १ चन्द्रे २ कर्पूरे ३ समुद्र-

फेने च मेदि० । श्वेतकरादयोऽपि । ४ कर्पूरे च ।

श्वेतनील पु० “वर्णोवर्णेन” पा० स० । १ श्वेतकृष्णवर्णे २ तद्वति

त्रि० । ३ मेधे शब्दर० ।

श्वेतपत्त्र पुंस्त्री० श्वेतं पत्त्रं पक्षोऽस्य ।

१ हंसे स्त्रियां ङीष् २ शुभ्रपक्षदलभ्यां युक्ते त्रि० ।

श्वेतपत्ररथ पु० श्वेतपत्रो हंसो रथ इव वाहनं यस्य । चतु

र्मुखे ब्रह्मणि शब्दच० ।

श्वेतपद्म न० कर्म० । सितकमले राजनि० ।

श्वेतपर्णा स्त्री श्वेतं पर्णं यस्याः । वारिपर्ण्यां (पाना) राजनि० ।

श्वेतपर्णास पु० कर्म० । शुभ्रतुलस्यां रत्नमाला ।

श्वेतपाटला स्त्री कर्म० शुभ्रपाटलावृक्षे (शादापारुल) जटा०

श्वेतपिङ्गल पुंस्त्री० देहेन श्वेतः जटया पिङ्गलः “वर्णोव-

र्णन” पा० स० । १ सिंहे त्रिका० स्त्रियां ङीष् । २ श्वेतपिङ्ग-
लवर्णे पु ३ तद्युते त्रि० ।

श्वेतपिण्डीतक पु० कर्म० । महापिण्डीतकवृक्षे राजनि० ।

श्वेतपुष्प पु० श्वेते पुष्पमस्य । १ सिन्दुवारवृक्षे जटा० २ शुभ्र-

वर्णपुष्पयुक्ते त्रि० कर्म० । ३ शुभ्रे पुष्पे न० । ४ नागदन्त्यां
५मृगेवांरौ स्त्री राजनि० । ६ षोमातक्यां स्त्री रत्नमा० ।
सज्ञाया कन् । ७ शुभ्रकरवीरे पु० राजनि० ।

श्वेतपुष्पिका स्त्री श्वेतं पुष्पमस्याः कप् अत इत्त्वम् ।

१ महाशणवृक्षे २ पुत्त्रदात्र्यां च राजनि० ।

श्वेतप्रसूनक पु० श्वेतं प्रसूनं यस्य कष् । शाकतरौ राजनि०

श्वेतभण्डा स्त्री कर्म० । श्वेतापराजितायां रत्नमा० ।

श्वेतमन्दार पु० कर्म० । शुभ्रमन्दारे राजनि० ।

श्वेतमरिच कम० । १ शोभाञ्जनवीजे अमरः २ शुभ्रमरिचे च

श्वेतरक्त पु० श्वेतो रक्तः “वर्णो वर्णेनेति” पा० स० । १

पाटलवर्णे २ तद्वति त्रि० अमरः ।

श्वेतरञ्जन न० श्वेतं सिताभ्र० रज्यतेऽनेन रन्ज--ल्युट् । सीसके

श्वेतरथ पु० श्वेतो रथो यस्य । १ शुक्रग्रहे शब्दच० कर्म० ।

२ शुभ्रे रथे ।

श्वेतराजी स्त्री श्वेतेन वर्णन राजते राज--अच् गौरा० ङीष् । चचेण्डायां राजनि० ।

श्वेतरोचिस् पु० श्वेतं रोचिरस्य । १ चन्द्रे २ कर्पूरे च हला०

श्वेतरोहित पु० “वर्णोवर्णेन” पा० स० । १ पाटलवर्णे २ तद्वति

त्रि० पुष्पेण श्वेतःफलेन लोहितः । ३ शुक्लरोहिते वृक्ष
भेदे राजनि० ।

श्वेतलोध्र पु० कर्म० । पट्टिकालोध्रे राजनि० ।

श्वेतवचा स्त्री श्वेता वचेव । अतिविषायां (आतैच)

राजनि० “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा ।
हैमवत्युदिता तद्वच्छूलं हन्ति विशेषतः” भावप्र० ।

श्वेतवल्कल पु० श्वेतं वल्कलमस्य । १ उदुम्बरवृक्षे जटा० ।

२ शभ्रत्वग्युते त्रि० ।

श्वेतवाजिन् पु० श्वेतो वाजी यस्य । १ चन्द्रे हेमच०

२ अर्जुने जटा० । श्वेताश्वादवोऽप्यत्र । ३ कर्पूरे च ।

श्वेतवासस् पु० श्वेतं वासोऽस्य । १ सन्त्यासिभेदे २ शुक्ल-

वस्त्रयुक्ते त्रि० ।

श्वेतवाह् पु० श्वेतेन श्वेताश्वेन उह्यते वह--ण्वि । १ इन्द्रे

२ अर्जुने ३ चन्द्रे च । ४ कर्पूरे । भत्वे ऊठ श्वेतौहः ।
हलि डसङ श्वेतवाः श्वेतोभिसित्यादि ।

श्वेतवाहन पु० श्वेतं वाहनं यस्य । १ चन्द्रे २ इन्द्रे

३ अर्जुने च मेदि० । ४ कर्पूरे च ।

श्वेतवुह्ना स्त्री कर्म० । वनतिक्तायां रत्नमाला ।

श्वेतवृक्ष पु० कर्म० । १ वरुणवृक्षे राजनि० २ शुभ्रवृक्षे च ।

श्वेतवृहती स्त्री कर्म० । शुभ्रवर्णक्षुद्रवृहत्यां राजनि० ।

श्वेतशिंशपा स्त्री कर्म० । शुभ्रशिशपायां राजनि० ।

श्वेतशिग्रु पु० कर्म० । सितशोभाञ्जने राजनि० ।

श्वेतशुङ्ग पु० श्वेता शुङ्गाऽस्य । १ यवे राजनि० । २ शुभ्र-

वर्णशुङ्गायुक्ते त्रि० ।
पृष्ठ ५१६३

श्वेतशूरण पु० कर्म० । वनशूरणे राजनि० ।

श्वेतसर्प पु० श्वेतः सन् सर्पति सृप--अच् । १ वरुणवृक्षे जटा०

कर्म० । २ शुभ्रभुजगे पुंस्त्री० । स्त्रियां ङीष् ।

श्वेतसर्षप पु० कर्म० । गौरसर्षपे ।

श्वेतसार पु० श्वेतः सारोऽस्य । शुभ्रखदिरे ऊटा० ।

श्वेतसुरसा स्त्री कर्म० । शुभ्रशेफालिकायाम् अमरः ।

श्वेतस्पन्दा स्त्री श्वेता सती स्पन्दते स्पन्द--अच् । सिताप-

राजितायां राजनि० ।

श्वेतहय पु० श्वेतोहयः । १ उच्चैःश्रवसि हये त्रिका० २

सितबर्णयुक्ते ३ हये च । ६ ब० । ४ अर्जुने हेमच० । ५ इन्द्र च

श्वेता स्त्री श्वित--अच् । १ वराटिकायां २ काष्ठपाटलायां

३ शङ्खिन्यां मेदि० । ४ अतिविषायां रत्नमा० । ५ सितापुरा-
जितायां ६ शुभ्रकण्टकार्य्यां ७ पाषाणभादन्या ८ शुभ्र-
दूर्वायां ९ वंशरोचनायां १० शर्करायां ११ शिलावलकलायां
१२ श्वेतवृहत्यां च राजनि० ।

श्वेतार्क पु० कर्म० । शुभ्रवर्णपुष्पके अर्कवृक्षे राजनि० ।

श्वेतावर पु० श्वेतं श्वेतवणमावृणोति आ + वृ--अच् । सिता-

वरशाके राजनि० ।

श्वेताश्वतर पु० वेदशाखाभेदे ।

श्वेतेक्षु पु० कर्म० । शुक्ले इक्षौ राजनि० ।

श्वेतोदर पु० श्वेतमुदरं यस्य । कुबेरे त्रिका० ।

श्वेतौही स्त्री श्वेतौहः पत्नी ङीष् । इन्द्राण्यां शच्याम् ।

श्वेत्य न० श्वेतस्य भावः ष्यञ् । शुभ्रवर्णे ।

श्वोवसीयस न० अतिशयेन वसुः प्रशस्तःश्वो वसीयः नि० अच्

सभा० । १ परदिने भाविंकाल प्रशस्ते मङ्गले २ तद्वति त्रि०
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य सङ्कलिते
वाचस्पत्याभिधाने शकारादि शब्दार्थसङ्कलनम् ।
अशुद्धशोधनम् ।
६००० पृष्ठावधि ६०३४ पृष्ठपर्य्यन्तपत्राङ्के ९००
नवशताङाधिकतयाः प्रमादात् मुद्रिताः तत्र तत्र पृष्ठेषु नवभिः
शतैरूनिता अङ्कसंस्त्या बोध्याः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/शृङ्ग&oldid=57853" इत्यस्माद् प्रतिप्राप्तम्