वाचस्पत्यम्/शाला

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५१०४

शाला स्त्री शाल--अच् । १ गृहे अमरः । वृक्षस्य २ स्कन्द-

स्थशाखायाञ्च । ३ गृहकैदेशे (चाल) मेदि० ।

शालाङ्क पु० पाणिनौ मुनौ जटा० ।

शालाजिर पु० न० शालस्याजिरमिवाकारेऽस्त्यस्य अच् । यवासे हेमच० ।

शालाञ्चि पु० शाल इवाञ्चति अन्च--इन् । शाकभेदे

(शाञ्च्य) शब्दच० ।

शालातुरीय पु० शालातुरे भवः । तद्ग्रामवासिनि पाणिनि-

मुनौ जटा० शालोत्तरीय इति पाठान्तरम् ।

शालानी स्त्री शालमानयति आ + नी--ड़ गौरा० ङीष् ।

विदार्य्याम् शब्दच० ।

शालामृग पुंस्त्री० शालायां गृहे मृग इव । शृगाले हारा० । स्त्रियां ङीष् ।

शालावृक पुंस्त्री० शालायां गृहे, शाखायां वा वृक इव

वा । १ कुक्कुरे २ शृगाले अमरः । ३ विड़ाले ४ मृगे
राजनि० ५ वानरे च शब्दच० । सर्वत्र स्त्रियां ङीष् ।

शालि पु० शल + इञ् । कलमादिधान्ये, २ षष्ठिकादिधान्ये,

अमरः । ३ गन्धमार्ज्जारे च मेदि० । शालिभेदादिकं
“कण्डनेन विना शुक्लाः हेमन्ताः शालयः स्मृताः”
इत्यादि भावप्र० उक्तम् । धान्यशब्दे दृश्यम् ।

शालिका स्त्री शालिरिव कायति कै--क । विदार्य्याम् ।

शालिञ्च पु० शालिं चमति चम--ड पृषो० मुम् । शाकभेदे शब्दर०

शालिनीकरणम् अशालीनः शालीनः लज्जितः क्रियते-

ऽनेन श लीन + च्वि--कृ--करणे ल्युट् । तिरस्कारे त्रिका० ।

शालिपर्णी स्त्री शालेरिव पर्णान्यस्याः ङीप् । माषपर्ण्याम्

राजनि० ।

शालिपिष्ट न० शालेः पिष्टमिव शुभ्रत्वात् । स्फटिके त्रिका०

शालिवाहन पु० विक्रमादित्यं हत्वा शकाव्दप्रवर्त्तके

नृपभेदे शककर्त्तृशब्दे दृश्यम् ।

शालिहोत्र पुंस्त्री० शालयो हूयन्तेऽत्र हु--ष्ट्रन् । १ घोटके

त्रिका० स्त्रियां ङीष् । २ अश्वशास्त्रप्रवर्त्तके नृपभेदे पु०
राजनि० ।

शाली स्त्री शाल--अच् गौरा० ङीष् । कृष्णजीरके राजनि०

शालीन त्रि० शालामर्हति स्य । १ धृष्टे अलज्जे, अमरः ।

२ मिश्रेयायां स्त्री राजनि० ।

शालु न० शाल--उण् । १ शालूके शब्दर० । २ कषायद्रव्ये,

३ चोरनामगन्धद्रव्ये च मेदि० । ४ भेके पु० ५ गृहे
हेमच० ।

शालु(लू)क न० शाल--उकञ् । कुमुदादिमले शब्दर० । ऊकञ् । तत्रार्थे अमरः । २ जातोफले राजनि० ।

शालूर पुंस्त्रो शाल--ऊरच् । १ भेके अमरः स्त्रियां ङीष् ।

शालेय पु० शालायां भवः ढक् । १ मधुरिकायाम् अमरः ।

२ मिश्रेयायां स्त्री राजनि० टाप् ।

शालोत्तर पु० ग्रामभेदे ।

शालोत्तरीय पु० शालोत्तरे ग्रामे भवः छ । पाणिनिमुनौ जटा० ।

शाल्मल पु० शाल--मलच् । (शिमुल) १ वृक्षे शब्दर० २ तच्चि-

ह्नितद्वीपभेदे च विष्णुपु०
“शाल्मस्येश्वरोधीरो वपुष्माँस्तत्सुतान् शृणु । तेषान्तु
नामसञ्चारैः सप्त वर्षाणि तानि वै । श्वेतोऽत्र हरित-
श्चैव जीमूतो लोहितस्तथा । वैद्युतो मानसश्चैव सुप्र-
भश्च महामुने! । शाल्मलेन समुद्रोऽसौ द्वीपे-
नेक्षुरसोदकः । विस्तरोद्विगुणेनायं सर्वतः संवृतः स्थितः ।
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । रसाभिव्यञ्ज-
कास्ते तु तथा सप्तैव निम्नगाः । कुमुदश्चोन्नतश्चैव
तृतीयश्च बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो
महीधरः । कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा ।
कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु । योनितो
या वितृष्णा च चन्द्रा शुक्ला विमोचनी । निवृत्तिः सप्त-
मी तासां स्मृतास्ताः पापशान्तिदाः । श्वेतञ्च लोहित-
ञ्चैव जीमूत हरितं तथा । वैद्युतं मानसञ्चैव
सुप्रभं नाम सप्तभम् । सप्तैतानि तु वर्षाणि चातुवर्ण्ययु-
तानि वै । शाल्मलेऽपि च ये वर्णा वसन्त्येते महामुने! ।
कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् । ब्रा-
ह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम । भगवन्तं
समस्तस्य विष्णुमात्मानमव्ययम् । वायुभूत मखश्रेष्ठै-
र्यज्विनो यज्ञसंस्थितिम् । देवानामत्र सान्निध्यमत्रैव
सुमनोरमे । शाल्मलिश्च महावृक्षो नाम निर्वृतिका-
रकः । एष द्वीपः समुद्रेण सुरोदेन समावृतः” ।

शाल्मलि(ली) पुं स्त्री० शाल--मलिच् वा स्त्रोत्वे वा ङीप् ।

(शिमुल) १ वृक्षे २ मोचरसे हेमच० ।
शाल्मलिगुणादिकं भावप्र० उक्तं यथा
“शाल्मली शीतला स्वच्छा रसे पाके रसायनी ।
शेष्मला स्निग्धवीजा च वृ हणो रक्तपित्तजित् । शाल्मली-
पुष्पशाकन्तु धृतसैन्धवसाधितम् । प्रदरं नाशयत्येव
दुःसाध्यञ्च न संशयः । रसे पाके च मधुरं कषायं
शातलं गुरु । कफपित्तास्रजित् ग्राहि वातलं च प्रको-
र्त्तितम् । ३ नरकभेदे यत्र शाल्मलीकण्ठकैर्नारकिणः
पीड्यन्ते नरकशब्दे दृश्यम् ।

शाल्मलिक पु० शाल्मलिरिव कायति कै--क । रोहितवृक्षे राजनि० ।

पृष्ठ ५१०५

शाल्मलीकन्द पु० ६ त० । तद्वृक्षमूले राजनि० ।

शाल्मलीफल पु० शाल्मल्या इव फलमस्य । तेजःफलवृक्षे राजनि० ।

शाल्मलीवेष्ट पु० शाल्भलीं वेष्टयति वेष्ट--अण् । शाल्मली-

निर्य्यासे मोचरमे रत्नमा० । ण्वुल् । तत्रैव ।

शाल्व पु० शाल--व । १ देशभेदे हेमच० । तस्य २ मृपे च भारते दृश्यम् ।

शाल्वण पु० “काकोल्यादिः स वातघ्नः सर्वाम्लद्रव्यसंयुतः ।

सानुपोदकमांसस्तु सर्वाम्लैश्च समन्वितः । स चोष्णः स्पष्ट
लवणः शाल्वणः परिकीर्त्तितः” सुश्रुतोक्ते ओषधभेदे ।

शाव पु० शव--घञ् । १ शिशौ शब्दर० । स्वार्थे क । तत्रैव

शवस्येदम् अण् । २ शवसम्बद्धे त्रि० “त्रिरात्रं शावमा-
शौचम्” इति स्मृतिः ।

शावर पु० शावयति विकारयति शव--णिच् अरन् । १ पापे

२ अपराधे ३ लोध्रद्रुमे च मेदि० । शवरेण प्रोक्तमण् ।
४ शबरस्वामिकृते मीमांसाभाष्ये । शवरस्येदम् अण् ।
५ शवरसम्बन्धिनि त्रि० ।

शावरभेदाक्ष न० शावरभेदस्याक्षीव षच्समा० स्वार्थे अण् ।

ताम्रे हेमच० तस्य तत्तुल्यरक्तवर्णत्वात्तथात्वम् ।

शावरी स्त्री शवरस्य प्रिया अण् ङीप् । १ शूकशिम्ब्यां

मेदि० । २ विद्याभेदे तन्त्रसा० ।

शाश्वत त्रि० शथद् भवः अण् । सतते नित्ये अमरः स्त्रियां ङीष् ।

शाष्कुल त्रि० शष्कुलमिव मांसं भक्ष्यमस्य अण् । मांसा-

शिनि हेमच० ।

शाष्कुलिक न० शष्कुलीनां सङ्घः ठञ् । शष्कुलीसमूहे अमरः ।

शास आशीर्वादे अदा० आत्म० सक० सेट् क्त्वा वेट् । पाये-

णाङ् पूर्वः । आशास्ते आशासिष्ट “इद कविभ्यः पू०
र्वेभ्योनमोवाकं प्रशास्महे” उत्तरचरितोक्तेरन्यपूर्वोऽपि ।

शास शासने अदा० पर० द्विक० सेट् क्त्वा वेट् । शास्ति अशासत्

शासन न० शास--ल्युट् । निकृष्टस्य हितसाधनादौ १ प्रवर्त्तने

२ राजदत्तभूमौ ३ राजलेख्यभेदे ४ शास्तौ च मेदि० ।

शासनहर पु० शाससं हरति हृ--अच् । आज्ञाहारके दूते ।

शासितृ त्रि० शाम--तृच् इट् । शासगकर्त्तरि ।

शास्तृ त्रि० शास--तृच् इडभावः । १ शासनकर्त्तरि

त्रिका० । २ बुद्धे अमरः ३ उपाध्याये ४ नृपे ५ पितरि
संक्षिप्तसा० ।

शास्त्र न० शिष्यतेऽनेन शास--ष्ट्रत् । १ हितामुशासने ग्रन्थे

शास्त्रं च वेदमूलकं सद्भिरादरणीयं नान्यत् यथोक्तं
“अतो वेदविरुर्द्धार्थशास्त्रोक्तं कर्म संत्यजेत् । स्वबुद्धि-
रचितैः शास्त्रै । प्रतार्य्येह च व्रालिशान् । विध्नन्ति श्रे-
यसो मार्गं लोकनाशाय केवलम् । निन्दन्ति देवता
वेदांस्तपो निन्दन्ति सद्द्विजान् । तेन ते निरयं यान्ति
ह्यसच्छास्त्रनिषेवणात् । श्रुतिस्मृतिसदाचारविहितं कर्म
शाश्वतम् । स्वं स्वं धर्मं प्रयत्नेन श्रेयोऽर्थीह
समाचरेत् । स्वबुद्धिरचितैः शास्त्रैर्मोहयित्वा जनं नराः ।
तेन ते निरयं यान्ति युगानां सप्तविशतिम्” पद्मपु०
१७ अ० । “पुराणं भारतं वेदधर्मशास्त्राणि यानि
च । आयुषः क्षपणायैव धर्मतश्चेन्न चाचरेत् । पुत्र-
दारादिसंसारः पुंसां संमूढ़चेतसाम् । विदुषां शास्त्र-
सम्भारः सद्योगाभ्यासविघ्नकृत् । इदं ज्ञेयमिदं ज्ञेयं
यः सर्वं ज्ञातुमिच्छति । अपि वर्षशतेनापि शास्त्रान्तं
नाधिगच्छति । विज्ञायाक्षरतन्मात्रं जीवितुञ्चापि
सञ्चलन् । विहाय शास्त्रजालानि पारलौकिकमाच-
रेत् । पण्डितोऽपि हि मूर्खोऽसौ शक्तियुक्तोऽप्यश-
क्तिकः । यः संसारान्न चात्मानं समुत्तारयितुं क्षमाः”
वह्निपु० । तामसशब्दे ३२७१ पृ० दृश्यम् ।
“बहुशास्त्रालोकनेऽपि सारादानं षट्पदवत्” सांख्यप्र० सू०

शास्त्रकृत् पु० शास्त्रं करोति कृ--क्विप् । मन्वादिषु ऋषिषु

त्रिका० ।

शास्त्रगत पु० शास्त्रे गत इव । प्रधटाविदि त्रि० ।

शास्त्रचारण पु० शास्त्रं चारयति प्रचारयति चर--णिच्-

ल्यु । शास्त्रोक्ताचरणप्रचारकर्त्तरि शब्दर० ।

शास्त्रतत्त्वज्ञ त्रि० शास्त्रतत्त्वं जानाति ज्ञा--क । १ शास्त्र-

तात्पर्य्यवेत्तरि २ ज्योतिषज्ञे शब्दर० ।

शास्त्रदर्शिन् त्रि० दृश--णिनि ६ त० । शास्त्रज्ञे शब्दर० ।

शास्त्रविदादयोऽप्यत्र ।

शास्त्रशिल्पिन् त्रि० शास्त्रं तज्ज्ञानं शिल्पमिवाऽस्त्यस्य

इनि । १ शास्त्रज्ञानोपजीविनि २ काश्मीरदेशे पु० त्रिका० ।

शास्त्रिन् त्रि० शास्त्रं वेत्त्यधीते वा इनि । शास्त्रज्ञे ।

शास्त्रीय त्रि० शास्त्रेण विहितः छ । शास्त्राक्ते धर्मादौ ।

शास्य त्रि० शास--ण्यत् । अनुशासनीये शिष्यादौ ।

शि तेजने भ्वा० उभ० सक० अनिट् । शिनोति शिनुते

अशैषीत् अशेष्ट ।

शिंशपा स्त्री शिवं पाति पा--क पृषो० । (शिशु) वृक्षे अमरः

“शिंशपा कटुका तिक्ता कषाया शोमकारिणी । उष्ण-
वीयां हरेन्मेदःकुष्ठचित्रयमिक्रमीन् । वस्तिज्याव्रण-
दाहास्नबलासगभैपातिनी” भावप्र० ।

शिक्कु त्रि० शिच्--कु कस्य नेत्त्वम् । अध्यवसायिनि त्रिका० ।

पृष्ठ ५१०६

शि(सि)क्थ न० शिच--थक् कुक् च पृषो० सस्य शोवा ।

(मोम) मधूच्छिष्टे अमरः । स्वार्थे क । तत्रैव ।

शिक्य न० शि--यत् कुक् च । (सिका) रज्जुकृते पदार्थे शब्दर०

शिक्यित त्रि० शिक्यं शिक्यस्थं करोति शिक्य + णिच्-

कर्मणि क्त । शिक्याधारे स्थापिते पदार्थे ।

शिक्ष अभ्यासे भ्वा० आ० सक० सेट् । शिक्षते अशिक्षिष्ट ।

शिक्षा स्त्री शिक्ष--भावे अ । १ अभ्यासे २ वर्णानामुच्चारणप्रदर्शके

वेदाङ्गे ३ ग्रन्थभेदे अमरः । ४ श्योनाकवृक्षे शब्दच० ।
“वर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा
तथा च तैत्तिरीया उपनिषदारम्भे समामनन्ति । शिक्षां
व्याख्यास्यामः । वर्णः स्वरः मात्रा बलं साम सन्तान
इत्युक्तं शिक्षाध्याय इति” ऋ० भा० । “अथ शिक्षां प्रवक्ष्यामि
पाणिनीयमतं यथा । शास्त्रानुपूर्वं तद्विद्याद् यथोक्तं
लोकवेदयोः । प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् । त्रिषष्टि-
श्चतुःषष्टिर्वा वर्णाः सम्भवतो मताः । प्राकृते सस्कृते
चापि स्वयं प्रोक्ताः स्वयम्भुवा । स्वरा विंशतिरेकश्च
स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च
यमाः स्मृताः । अनुस्वारो विसर्गश्च + कुँपौ चापि
पराश्रितौ । दुःष्पृष्टश्चेति विज्ञेय ऌकारः प्लुत एव च ।
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः
कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तू-
रसि चरन्मन्त्रं जनयति स्वरम् । प्रातःसवनयोगन्तं
छन्दोगायत्रभाश्रितम् । कण्ठे माध्यन्दिनयुतं मध्यमं
त्रैष्टुभानुगम् । तारं तार्त्तीयसवनं शीर्षण्यं जागता-
नुगम् । सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।
वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः । स्वरतः
कालतः स्थानात् प्रयत्नानुप्रदानतः । इति वर्ण-
विदः प्राहुर्निपुणास्तं निबोधत । उदात्तश्चानुदात्तश्च
स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लत इति कालतो
नियमा अचि । उदात्ते निषादगान्धारावनुदात्ते ऋषभ
धैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ।
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वा-
मूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च । ओभावश्च
विवृत्तश्च स--ष--सारेफ एव च । जिह्वामूलमुपा-
ध्मानं गतिरष्टविधोष्मणः । यद्योभागप्रसन्धानमुकारादि
परं पदम् । खरान्तं तादृशं विद्याद् यदन्यद्व्यक्तमूष्मणः ।
हकारं पञ्चमैर्युक्तभन्तःस्थाभिश्च संयुतम् । औरस्यं तं
विजानीयात् कण्ठ्यमाहुरसंयुतम् । कण्ठ्यावहावि-
चुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्द्धन्या ऋटुर-
षा--दन्त्या ऌ--तु--ल--साः स्मृताः । जिह्वामूले तु कुः
प्रोक्तो दन्त्यौष्ठ्यो वः स्मृतो बुधैः । एऐ तु कण्ठता-
लव्यावोऔ कण्ठौष्ठजौ स्मृतौ । अर्द्धमात्रा तु
कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयो-
र्मात्रा तयोर्विवृतसंवृतम् । संवृतं मात्रकं ज्ञेयं बिवृतन्तु
द्विमात्रकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः
स्मृताः । स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च । अनुखार-
यमानाञ्च नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया
आश्रयस्थानभागिनः । अलावुवीणानिर्घोषो दन्त्यमूल-
स्तराननु । अनुस्वारस्तु कर्त्तव्यो नित्यं ह्रोः शषसेषु
च । अनुस्वारो विवृत्यस्तु विरामे चाक्षरद्वये । द्वि-
रोष्ठ्यौ तु विगृह्णीयाद् यत्रैकारवकारयोः । व्याघ्री यथा
हरेत् पुत्रान् दंष्ट्राभ्यां न च पीड़येत् । भीतापतनभे-
दाभ्यां तद्वत् वर्णान् प्रयोजयेत्” । “अचोऽस्पष्टायणस्त्वी-
षन्नेमस्पृष्टाः शलस्तथा । शेषाः स्पृष्टाहलः प्रोक्ता
निबोधानुप्रदानतः । यमोऽनुनासिका न ह्रौ नादिनो
हऋषः स्मृताः” ।
“ईषन्नादाय नञ्जश्च श्वासिनश्च कफादयः । ईषच्छ्वासां-
श्चरो बिद्यात् गोर्द्धामैतत् प्रचक्षते । दाक्षीपुत्रपाणिनिना
येनेदं व्यापितं भुवि । छन्दःपादौ तु वेदस्य हस्तौ
कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमु
च्यते । शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साङ्गमंधोव्यैव ब्रह्मलोके महीयते” । “मन्त्रोहीनः
स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स
वाग्वज्रं यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपरा
धात् । “अनक्षरं हतायुष्यं विस्वरं व्याधिपीड़ितम् ।
अक्षता शस्त्ररूपेण वज्रं पतति मस्तके । हस्तहीनन्तु
योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्द्दग्धो
वियोनिमधिगच्छति” पाणिनिशिक्षा । नारदशिक्षा
व्यासशिक्षादयो ग्रन्याः सन्ति विस्तरभयान्नोक्ताः ।

शिक्षाकर पु० शिक्षां करोति कृ--अच् । १ व्यासे शब्दमा०

२ शिस्यशिक्षाकर्त्तरि ।

शिक्षागुरु पु० विद्यादातरि ।

शिक्षित त्रि० शिक्षा जाताऽस्य तार० इतच् शिक्ष--क्त वा ।

१ कृताभ्यासे २ निपुणे ३ विज्ञे च अमरः ।
पृष्ठ ५१०७

शिक्षिताक्षस पु० शिक्षितान्यक्षराणि येन । १ छात्रे

२ शिक्षादातरि गुरौ च त्रिका० ।

शिख गतौ भ्वा० पर० सक० सेट् इदित् । शिङ्खति अशिङ्खीत् ।

शिखण्ड पु० शिखाममति अम--ड तस्य नेत्त्वम्, ६ त० ।

शक० वा । १ मयूरपिच्छे अमरः । २ चूड़ायाञ्च मेदि० ।

शिखण्डक पु० शिखण्ड इव कन् । १ काकपक्षे अमरः ।

(काणजुल्पी) स्त्रीत्वमपि तत्र । सा च २ चूड़ायाञ्च
हेमच० ।

शिखण्डिक पुंस्त्री० शिखण्डोऽस्त्यस्य ठन् । कुक्कटे हेमच० स्त्रियां ङीष् ।

शिखण्डिन् पु० शिखण्डोऽस्त्यस्य इनि । १ मयूरे २ द्रुपद-

राजस्य पुत्रभेदे मेदि० । ३ मयूरपुच्छे ४ कुक्कटे ५ वाणे च
हेमच० । ६ द्रुञ्जायां ७ स्वर्णयथिकायां राजनि० । ८ विष्णौ
विष्णु स० ९ यूथिकायां स्त्री ङीप् मेदि० ।

शिखर न० शिखा अस्त्यस्य अरच् आलोपः । १ पर्वताग्रे

२ अन्तमात्रे च । ३ वृक्षाग्रे पु० न० अमरः । ४ पुलके ५
शुष्कतृणादौ पक्वदाड़िमवीक्षाभे ६ रत्नभेदे ७ सकलाग्रे
मेदि० । ८ कोटौ त्रिका० । ९ मूर्वायां स्त्री शब्दच० ।

शिखरवासिन् त्रि० शिखरे धसति बस--णिमि ७ त० । शर्वता-

ग्नवासिनि स्त्रियां ङीप् । “देवी शिखरवासिनी” उद्भटः
सा च हिमाचलवासिय्यां २ दुर्गायां त्रिका० ।

शिखरिन् पु० शिखाऽस्त्यस्य इनि । १ पर्वते २ वृक्षे ३

अपामार्मे मेदि० ४ कोट्टे ५ कोयष्टौ हेमच० । ६ वन्दाके ७
कुन्दुरुके ८ याववाले ९ कर्कटशृङ्ग्यां राजनि० ।
रसालायां खाद्यभेदे स्त्री । ११ सप्तदशाक्षरपादके छन्दीभेदे
स्त्री “रसैरुद्रैश्छिन्ना यमननभला गः शिखरिणी” वृ० र०
१२ मल्लिकायां १३ रोमावल्यां १४ नारीरत्ने च स्त्री मेदि०
सर्वत्र ङीप् ।

शिखलोहित पु० शिखास्त्यश्च अच् तथामूतः सन् लोहितः । (कुकुरमुड़ा) क्षुपयेदे रत्नमा० ।

शिखा स्त्री शी--खक् तस्य नेत्त्वम् पृषो० । १ अग्निज्वालायां

२ मस्तकमध्यकेशपुञ्जे च अमरः । “मुण्डयेत् सर्व
गात्राणि कक्षोपस्थशिखां बहिः” प्रा० त० । ३ शाखाथां
४ बहिचूड़ायां ५ काङ्गलिक्याम् ६ अग्रमात्रे ७ चूड़ा-
मात्रे ८ प्रपदे च मेदि० । ९ प्रधाने शिक्षायां १० घृणौ
हेमच० । ११ स्मरज्वरे शब्दच० ।
“शिखी तिलकी कर्म कुर्य्यात् ज्रुत्या शिखावत एव कर्म-
ण्यधिकारः तत्रापि बद्धशिखस्य कभण्यधिकारः न मुक्त-
शिवस्य यथोक्तं गायत्र्या तु शिखां बद्ध्वा मैर्कृत्यां
ल{??}रब्धतः । जूटिकात ततो {??} ततः कर्म समा-
रभेत्” । “निबद्धशिस्य आसीनो द्विज आसमनं चरेत् ।
कृत्वोपवीतं सव्येऽसे वाङ्मनःकायसंयतः” । मुक्तशि-
खस्याचमने दोषो यथा “शिरः प्रावृत्य कण्ठं वा मुक्त-
कच्छशिखोऽषि वा । अकृत्वा पादयोः शौचमाचान्तो-
ऽप्यशुचिर्भवेत् आ० त० ।

शिखाकन्द न० शिखेव कन्दोऽस्य । गृञ्जने राजनि० ।

शिखातरु पु० शिखाया दीपशिखायास्तरुरिव । दीपवृक्षे

(देलको) त्रिका० ।

शिखाधर पुंस्त्री० शिखां चूडां धरति धृ--अच् । १ मयूरे

रत्नमा० स्त्रियां ङीष् । २ शिखाधारके त्रि० स्त्रियां
टाप् । ३ मञ्जुधोषे पु० त्रिका० ।

शिखामूल न० शिखेव मलमस्य । गृञ्जले (गाँजर) राजनि०

शिखालु पु० शिखास्त्यस्य आलुच् । मयूरशिखावृक्षे राजनि०

शिखावत् पु० शिखा ज्वालाऽस्त्यस्य मतुप् मस्य वः ।

१ वह्नौ २ चित्रकवृक्षे च अमरः । ३ केतुग्रहे शब्दच० ।
४ शिखायुते त्रि० स्त्रियां ङीप् । सा च ५ मूर्वायां शब्दच०

शिखावर पु० शिखां वृणोति वृ--अच् । पनसवृक्षे शब्दच०

शिखावल पुंस्त्री० शिखास्त्यस्य वलच् । १ मयूरे अमरः ।

स्त्रियां ङीष् । २ मयूरशिखावृक्षे स्त्री राजनि० टाप् ।

शिखावृद्धि स्त्री प्रतिदिनग्राह्यवृद्धौ वृद्धिशब्दे दृश्यम् ।

शिखिकण्ट न० शिखिनो मयूरस्य कण्ठस्तद्वर्णोऽस्त्यस्य

अर्श आद्यच् । तुत्थे (तुँते) रत्नम्भ० ।

शिखिग्रीव पु० शिखिनो मयूरस्य ग्रीवा तद्वर्णोऽस्त्यस्य

अच् । तुत्थे (तुँते) अमरः ।

शिखिध्वज शिखिनो वह्नेर्ध्वज इव । १ धूमे त्रिका० ।

शिखी मयूरोध्वजो यस्य । २ कार्त्तिकेये शब्दच० ।

शिखिन् पु० शिखा अस्त्यस्य इनि । १ मयूरे २ वह्नौ ३ चित्र-

कवृक्षे अमरः । ४ केतुग्रहे ५ कुक्कुटे ६ वृक्षे ७ वृषे ८ शरे
च मेदि० । ९ अश्वे हेमच० १० अजलोम्नि रत्नमा० ११ पर्वते
१२ ब्राह्मणे १३ सितावरे १४ मेथिकायां राजनि० १५ शि
खायुक्ते त्रि० १६ मयूरशिखावृक्षे राजनि० स्त्री ङीप् ।

शिखिप्रिय पु० शिखिनं प्रीणयति प्री--क । लघुयदरे राजनि० ।

शिखिमण्डल पु० शिखिनां मण्डलमिव यत्र । वरुणवृक्षे

शब्दर० ।

शिखिमोदा स्त्री शिखिनः अजलोम्र इव मोदो यस्याः । अजमोदायां राजनि० ।

शिखियूप पु० शिखी शिखावान् यूप इव । श्रीकारिणि मृगे

राजनि० ।

शिखिवर्द्धक पु० शिखिनं वर्द्धयति वृध--णिच्--ण्वुल् । कुष्माण्डे शब्दर०

पृष्ठ ५१०८

शिखिवाहन पु० शिखो लयूरो वाहन यस्य । कार्त्तिकेये

अमरः ।

शिखिव्रत न० “प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः ।

वैश्वानरपटं याति शिखिव्रतमिदं स्मृतम्” गरुपु० १२९
अ० उक्ते वह्निपददायके व्रतभेदे ।

शिग्रु पु शि--रुक् गुक् च । (सजिना) १ वृक्षे २ शाकमात्रे च

अमरः । “शोभाञ्जनो बीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः ।
मुखषोदः कृष्णशिग्रुश्चक्षुष्यो रुचिराञ्जनः । शोभाञ्जनस्ती-
क्ष्णकटुः स्वादष्णः पिच्छिलस्तथा । जन्तुवातार्त्तिशूलघ्न
श्चक्षुष्यो रोचनः परः । श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुख-
भङ्गः सिताह्वयः । ससूलः श्वेतमरिचो रोचनो
मघुशिग्रुकः । श्वेतशिग्रुः कटुस्तीक्ष्णः शोकाबिलनिकृन्तनः ।
अङ्गव्यथाहरा रुच्यो दीपनो मुखजाड्यनुत् । रक्तको
रक्तशिग्रुः खान्मघुरो बहुलच्छदः । सुगन्धि केशरी
सिंहो मृगारिश्च प्रकीर्त्तितः । रक्तशिग्रुमहावीर्य्यो
मधुरश्च रसायनः । शोफाध्मानसमीरार्त्तिपित्तश्लेष्माप
हारकः” रालनि० ।

शिग्रुज न० शिग्रुतो जायते जन ड । श्वेतमरिचेशो-

भाञ्जनवीजे अमरः ६ त० । शिग्रुवीजमप्यत्र शब्दच० ।

शिघ आघ्नाणे भ्वा० पर० पक० सेट् इदित् । शिङ्घति

अशिङ्घीत् ।

शिङ्घाण न० शिघि--आनच पृषो० णत्वम् । १ काचपात्रे

२ लाहमले ३ नासिकामले श्लेष्मणि च मेदि० । स्वार्थे
क । नासिकामले म० ।

शिज अस्फुटध्वनौ इदित् वा चु० उभ पक्षे अदा० आत्म

अक० सेट् । शिञ्जयति ते शिङ्क्ते अशिशिञ्जत् त
अशिञ्जिष्ट । भ्वादिरप्ययं पर० इत्येके तेन शिञ्जति अशिञ्जीत्

शिञ्जा स्त्री शिजि--भावे अ । १ भूषणशब्दे शब्दर० । शिजि-

अच् । २ धनुर्गुणे हेमच० ।

शिञ्जित न० शिजि--भावे क्त । भूषणध्वनौ अमरः ।

शिञ्जिनी स्त्री शिञ्जति शिजि--णिनि । धनुर्गुणे अमरः ।

२ नूपुरे हेमच० ।

शिट अनादरे भ्वा०पर० सक० सेट् । शेटति अशेटीत् ।

शिण्डाकी स्त्री खाद्यद्रव्यभेदे यथा “शिण्डाकी राजिला-

युक्तैः स्यान्मूलकदलद्रवैः । सर्वपस्वरसैर्वापि शालि-
पिष्टकसंयुतैः । शिण्डाकी रोचनी गुर्वी पित्तश्लेष्मकरी
स्मृता” राजनि० ।

शित त्रि० शो--क्त । १ दुर्बले २ शाकिते च मेदि० ३ कृशे विश्वः

शितद्रु पु० शतं द्रवति द्रु--कु--नि० । (शतलुज) नदीभेदे

अमरः ।

शितशूक पु० शितस्तीक्ष्णः शूकोऽग्रं यस्य । १ यवे अमरः । २ गोधूमे त्रिका० ।

शिति पु० शि--क्तिच् । १ भुजपत्त्रवृक्षे २ शुक्लवर्णे ३ कृष्णवर्णे

च मेदि० ४ तद्वर्णवति त्रि० । ५ सारे पु स्त्री० शब्दर० ।

शितिकण्ठ पु० शितिः नोलः कण्ठो यस्य । १ शिवे अमरः

२ दात्यूहविहगे पुंस्त्री० त्रिका० स्त्रियां ङीष् ।

शितिचार पु० शितिः सन् चरति चर--संज्ञायां कर्त्तरि

घञ् । (सुषनि) शाकभेदे जटा० ।

शितिच्छद पु० शितिः शुभ्रः छदो यस्य । हंसे शब्दर० ।

शितिसारक पु० शितिः शुभ्रः सारो यस्य कप् । तिन्दुक-

वृक्षे राजनि० ।

शिथिल त्रि० श्लथ--किलच् पृषो० । १ श्लथे २ अदृढ़े संयोग-

भेदे ३ मन्दे च शिथिलसंयोगश्च प्रचयः । “प्रचयः
शिथिलाख्यो यः संयोगस्तेन जन्यते” भाषा० “भूयोऽ-
वयवावच्छेदेत्रावयवान्तरसंयोगिन्यवयवे वर्त्तमानः संयोगः
प्रचयः” इति दीनकरी यथा तूलकादौ ।

शिनि पु० शि--निक् । यदुवंश्ये क्षत्रियभेदे यस्य सात्यकिर्नप्ता

शिपि पु० शी--क्विप् तां पाति पा--कि पृषो० ह्रस्वः । १ रश्मौ

२ जले न० “शैत्यात् शयनयोगाच्च शिपि वारि प्रचक्षते । तत्
पानाद्रक्षणाच्चैव शिपयो रश्मयो मता । तेषु प्रवेशात्
विश्वेशः शिपिविष्ट इहोच्यते” व्यासः ।

शिपिविष्ट पु० ७ त० । १ खलतौ २ दुश्चर्मणि च ३ महेश्वरे

अमरः । ४ विष्णौ शिपिशब्दे दृश्यम् । “नेकरूपो
वृहद्रूपः शिपिविष्ट प्रकाशनः” विष्णुस० । पृषो० शिषविष्ट
तत्रार्थे रमानाथः ।

शिप्र पु० शि--रक् पुक् च । १ सरोवरभेदे २ पदीभेदे स्त्री ।

“एवं विवाह्य विधिवत् सौवर्णे मानसाचले । अरुन्थतीं
वशिष्ठस्तु मोदमाप तया सह । तत्र यत् पतितं तोयं
मानसाचलकन्दरे विवाहावभृतार्थाय शान्त्यर्थं
वसुधातले । ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् ।
तत्तीय सप्तधा भूत्वा पतितं मानसाचयात् । हिमाद्रेः
कन्दर सानौ सरस्याञ्च पृथक् पृथक् । ततीयं पतित
शिप्रे देवभोग्ये सरोवरे । तेन शिप्रा नदी जाता
विष्णुना प्रेरिता कितिम्” कालिखा० २३ अ० ।
“ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च । शिप्रं
नाम सरः पूर्णं ददृशुर्द्रुहिणादयः । तद्रहः स्थानमा-
माद्य ब्रह्मशकादय सराः । उपविष्टः यथान्याकं
पृष्ठ ५१०९
सुरस्कृत्य महेश्वरम् । तं शिप्रसंज्ञकासारं मनोज्ञं
सवदेहिनाम् । शोतामलजल सर्वैर्गुणैर्मानससाम्सतम् ।
दृष्ट्वा क्षण हरस्तस्मिन् सौत्सुक्योऽभूदवेक्षणे । शिप्रां
नाम नदीं तस्मान्निःसृता दक्षिणोदधिम् । गच्छन्तीञ्च
ददर्शासौ पावयन्तीं जगज्जनान्” । तत्रैव १९ अ० ।

शिफा स्त्री शि--फक् । वृक्षाणां १ जटाकारे मूले । (शिफड़)

अमरः । २ नद्यां ३ मांसिकायां ४ मातरि मेदि० । ५
शतपुष्पायां ६ हरिद्रायां राजनि० । ७ पद्मकन्दे मुकुटः ।
जाटाकारे मूले पु० विद्याविनोदः ।

शिफाक पु० शिफेव इवार्थे कन् पद्ममूले शब्दच० ।

शिफाकन्द पु० शिफेव कन्दः । पद्ममूले अमरः ।

शिफाधर पु० शिफा अधरा यस्मात् १ शाम्लायां शब्दच० ।

शिफारुह पु० शिफायां रोहति रुह--क । वटवृक्षे राजनि०

शिमुड़ी स्त्री (चङ्गोनि) ख्याते क्षुपभेदे राजनि० ।

शि(सि)म्बा स्त्री शाम्यति समति वा शम--सम--वा वा०

डम्बच् पृषो० । (छिनी) ख्याते १ पदार्थे शब्दच० । २ चक्र-
मर्दे पु० शब्दच० ।

शि(म्बि)म्बी स्त्री शम--बि नि० वा ङीप् । १ शिम्बायां

(शिम) लतायां हेमच० “महापाषकरी शिम्बी” ति० त०
२ एरकायाञ्च भावप्र० । स्वार्थे क । तत्रैव ।

शिम्बीधान्य न० शिम्बीजातं धान्यं शा० त० । मुद्गादौ

धान्यभेदे भावघ्र० ।

शिम्बीपर्णी स्त्री शिम्बीव पर्णमस्याः ङीप् । मुद्गपर्ण्यां शब्दर० कप् तत्रैव ।

शिर न० शॄ--क । १ मस्तके जटा० “पिण्डं दद्यात् गयाशिरे”

वायुपु० । २ पिप्पलीमूले मेदि० । ३ शय्यायाम् ४ अजगरे च
संक्षिप्तसा० ।

शिरःफल पु० शिर इव फलमस्य । नारिकेले त्रिका० ।

शिरःशूल न० शिरसः शूलमिव तापकत्वात् । शूलरोगभेदे गारुड़े

शिरज पु० शिरे जायते जन--ड । केशे शब्दच० ।

शिरस् न० शॄ--असुन् नि० । १ मस्तके २ शिखरे अमरः ।

३ प्रधाने ४ सेनाग्रे मेदि० ।

शिरसिज पु० शिरसि जायते जन ड वा अलुक् समासः ।

केशे जटाघ० लुकि शिरोजोऽप्यत्र ।

शिरसिरुह पु० शिरसि रोहति रुह--क वा अलुक् समा० । केशे शब्दच० ।

शिरस्क न० शिरसि कायति प्रकाशते कै--क । शिरस्त्राणे हेमच०

शिरस्त्र न० शिरस्त्रायते त्रै--क । शिरोरक्षके उष्णीषे अमरः

शिरस्त्राण न० शिरस्त्रायते अनेन त्रै--करणे ल्युट् । शिरो-

रक्षण उष्णीषे हेमच० ।

शिरस्य पु० शिरसि भवः यत् । १ निर्मलकेशे अमरः २ शिरो-

भवमात्रे त्रि० ।

शिरा स्त्री शृ--क । नाड्यां (शिर) मेदि० । शृ--किरच् डिच्च । अस्य दन्त्यादित्वमपीत्यन्ये ।

शिरापत्त्र पु० शिरेव पत्त्रं यस्य । हिन्तालवृक्षे राजनि० ।

शिराल न० शिरोऽस्त्यस्य लच् । १ कर्मरङ्गे शब्दच० । तत्

फलम्य शिरायुक्तत्वात्तथात्वम् । २ शिरायुक्ते त्रि० ।

शिरालक पु० शिरायामलति पर्य्याप्नोति अल--ण्वुल् ।

(हाड़योड़ा) वृक्षभेदे शब्दच० ।

शिरावृत्त न० शिरेव वर्त्तते वृत--क्त । सीसके राजनि० ।

शिरि पु० शृ--कि । १ खड्गे २ शरे २ हिंस्त्रे त्रि० उणादि० ।

४ शलभे सि० कौ० ।

शिरीष पु० शॄ--ईषन् किच्च । खनापख्याते वृक्षे अमरः ।

“क्षिरीषो मघुरोऽनुष्णस्तिक्तश्च तुवरो लघुः । दोषशोथ
विसर्पघ्नः कासव्रणविषापहः” भावप्र० ।

शिरीषपत्रिका स्त्री शिरीषस्येव प्रत्रमस्या कप् क्वापि अत

इत्त्वम् । श्वेतकिणीहवृक्षे राजनि० ।

शिरोगृह न० शिरःस्थमुपरिस्थं गृहम् । (चिलेघर) चन्द्र-

णालायां हेमच० ।

शिरोग्रह पु० “रक्तमाश्रित्य पवगः कुर्य्यात् शृङ्गधराः शिराः ।

रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः”
भावप्र० उक्ते वातरोगभेदे “शृङ्गधरा ग्रीवागताः स
पवनः शिरोग्रहः स्यादित्यन्वयः” भावप्र०

शिरोधरा स्त्री शिरोमस्तकं धरति धृ--अच् । ग्रीवायां हेमच० ।

शिरोधि स्त्री शिरो धीयतेऽत्र धा--कि । ग्रीवायाम् अमरः

शिरोमणि पुंस्त्री० शिरसि धार्थ्योमणि शा० त० । शिरोधाय्य

रत्ने चूड़ामणौ शब्दच० । स्त्रीपक्षे वा ङीप् । शिरो-
रत्नादयोऽप्यत्र न० ।

शिरोमर्म्मन् पु० शिरसि मर्म यस्य । शूकरे हेमच० ।

शिरोरुजा स्त्री शिरो रुजति व्यथयति रुज--क । १ सप्त-

च्छदवृक्षे त्रिका० । ६ त० । २ मस्तकरोगे च ।

शिरोरुह पु० शिरसि राहति रुह--क । केशे अमरः ।

शिरोरोग पु० ६ त० सुश्रुतोक्ते मस्तकरोगभेदे तल्लक्षणं यथा

अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।
शिरो रुजति गर्त्त्यानां वातपित्तकफैस्त्रिभिः ३ । सन्निपा
तेन ४ रक्तेन ५ क्षयेण ६ क्रिमिभि ७ स्तथा । सूर्य्यावर्त्ता ८
न्तबाता ९ र्द्धावभेदक १० शङ्खकैः ११ । एकादशप्रकारस्य लक्षण
सप्रवक्ष्यते । यस्यानिमित्त शिरसो रुजश्च भवन्ति तीत
निशि चातिमात्रम् । बन्धोपताप्रैश्च भवेद्विशेषः शिरो-
पृष्ठ ५११०
ऽभितापः स समोरणेन १ । यस्योष्णमङ्गारचितं यथैव
मवेच्छिरो धूमवती च नासा । शीतेन रात्रौ च भवेद्वि-
शेषः शिरोऽभितापः स तु पित्तकोपात् २ । शिरोनलं यस्य
कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च । शूनाक्षिकूटं
वदनं च यस्य शिरोऽभितापः स कफप्रकोपात् ३ । शिरो-
ऽभितापे त्रितयप्रवृत्ते ४ सर्वाणि लिङ्गानि समुद्भवान्त ।
रक्तात्मकः ५ पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो
भवेच्च । वसाबलासक्षतसम्भवानां शिरोगतानामिह
संक्षयेण । क्षयप्रवृत्तः ६ शिरसोऽभितापः कष्टो भवेदु-
ग्ररुजोऽतिमात्रम् । संस्वेदनच्छर्दनधूमनस्यैरसृग्विमो-
क्षैश्च विवृद्धिमेति । निस्तुद्यते यस्य शिरोऽतिमात्रं
सन्तक्ष्यमाणं स्फुरतीव चान्तः । ध्राणाच्च गच्छेत्सलिलं
सरक्तं शिरोऽभितापः कृमिभिः ७ स घोरः । सूर्य्योदयं
या प्रतिमन्दमन्दमक्षिभ्रुवंरुक् समुपैति गाढम् ।
विवकन चांशुमता सहैव सूर्य्यापवृतौ विनिवर्त्तते च ।
शातेन शान्तिं लभते कदाचिदुष्णेन जन्तुः
सुखमाप्नुयाच्च । तं भास्करावर्त्त ८ मुदाहरन्ति सर्वात्मकं
कष्टतमं विकारम् । दोषास्तु दुष्टास्त्रय एव मन्यां
संपीड्य घाटां सरुजां सुतीव्राम् । कुर्वन्ति साक्षिभ्रुव-
जखदेशे स्थितिं करोत्याशु विशेषतस्तु । गण्डस्य पार्श्वेषु
करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् । अनन्त-
वातं ९ तमुदाहरन्ति दोषत्रयोत्थं शिरसोविकारम् ।
यस्योत्तमाङ्गार्द्धमतीव जन्तोः सम्भेदतोदभ्रमशूलजुष्टम् ।
यक्षाद्दशाहादथ वाप्यकस्मात्तस्यार्द्धभेदं १० त्रितयाद्व्यव-
स्येत् । शङ्खाश्रितो वायुरुदोर्णवेगः कृतामुयात्रः
कफपित्तरक्तैः । रुजः सुतीब्राः प्रतनोति मूर्ध्रि विशे
षतश्चापि हि शङ्खयोस्तु । सुकष्टमेनं खलु शङ्खकाख्यं ११
महर्षयो वेदविदः पुराणाः । व्याधि वदन्त्युद्गतमृत्युकल्पं
भिषक्सहस्रैरपि दुर्निवारम्” ।

शिरोवल्ली स्त्री शिरसा वल्लीव । मयूरचूड़ायां शब्दच० ।

शिरोवृत्त न० शिर इव वृत्तं वर्तुलम् । मरिचे राजनि० ।

शिरोवृत्तफल पु० शिरोवृत्तं मरिचमिव फलमस्याः ।

रक्तापामार्गे भावप्र० ।

शिरोवेष्ट पु० वेष्ट--घञ् शिरसो वेष्टः । (पाकड़ी) उष्णीषे त्रिका० ल्युट् । तत्रैव न० ।

शिल उञ्छे कणश आदाने तुदा० पर० सक० सेट् ।

शिलति अशेलीत् ।

शिल न० शिल--क । गृहीतशस्यात् क्षेत्रात्कणशोमञ्जर्य्या

दानरूपायां १ वृत्तौ उञ्छशब्दे १०७० पु० दृश्यम् ।
२ पाषाणे ३ द्वाराधःस्थितकाष्ठखण्डे च (गोवराट) स्त्री
अमरः । ४ स्तम्भशीर्षे ५ मनःशिलायां स्त्री मेदि० ६ कर्पूरे
राजनि० ।

शिलगर्भजः पु० शिलाया गर्भे जायते संज्ञायां ह्रस्वः । पाषाणभेदवृक्षे स्त्री राजनि० ।

शिलाकर्णी स्त्री शिलेव कर्णमस्य ङीप् । शल्लकीवृक्षे शब्दच०

शिलाकुट्टक पु० शिलां कुट्टयति कुट्ट--ण्वुल् । १ पाषाण-

भेदके अस्त्रभेदे शब्दच० । शिलया कुट्टति वितुषीकरोति ।
२ अश्मकुट्टके वानप्रस्थभेदे ।

शिलाज न० शिलातो जायते जन--ड । १ शैलेये गन्धद्रव्ये

शब्दच० । २ लौहे राजनि० ।

शिलाजतु न० शिलाजातं जतु । १ पर्वतजाते उपधातुभेदे

अमरः । तदुत्पत्त्यादिकं भावप्र० उक्तं यथा
“निदाधे धर्मसन्तप्ता धातुसारन्धराधराः । निर्यास-
वत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम् । सौवर्णं
राजतन्ताम्रमायसन्तच्चतुर्विधम् । शिलाजत्वद्रिजतु च शैल
निर्य्यास इत्यपि । गैरेयमश्मजञ्चापि गिरिज शैलधातु-
जम् । शिलाजं कटु तिक्तोष्णं कटुपाकं रसायनम् ।
छेदि योगवहं हन्ति कफमेदाश्मशकराः । मूत्रकृच्छ्र
क्षयं श्वासं वाताशांसि च पाण्डुताम् । अपस्मारन्तथो-
न्माद शोथकुष्ठोदरक्रमीन् । सौवर्णन्तु जवापुष्पवर्णं
भवति तद्रसात् । मधुर टुतिक्तञ्च शीतलं कटुपाकि
च । राजत पाण्डुरं शीतं कटुक स्वादुपाकि च । ताम्रं
मयूरकण्ठाभं तीक्ष्णमुष्णञ्च जायते । लौहं जटायुपक्षाभं
तत्तिक्तं लबणं मबेत् । विपाके कटुकं शीतं सर्वश्रेष्ठ-
मुदाहृतम्” ।

शिलाञ्जनी स्त्री शिला अज्यतेऽनया अन्ज--करणे--ल्युट् ङीप् । कालाञ्जनीवृक्षे राजनि० ।

शिलाटक पु० शिलेव अटति शिलामटति वा अट--ण्वुल् ।

१ अट्टे २ बिले च मेदि० ।

शिलात्मज न० शिलाया आत्मज इव । लोहे राजनि० ।

शिलात्मिका स्त्री शिलेव आत्मा यस्य कप् । (मूचि) मूषायां

शब्दच० ।

शिलादद्रु पु० शिलाया दद्रुरिव । शेलेये गन्धद्रव्ये राजनि०

शिलाधातु पु० शिलाया धातुश्चरमधातुरिव शुभ्रत्वात् ।

१ श्वेतोपले (खडी) त्रिका० । २ पीतवर्णे गैरिकभेदे च
राजनि० ।

शिलापुत्र पु० शिलायाः पुत्र इव । (लोड़ी) पेषणसाधने पस्तरखण्डभेदे शब्दच० ।

शिलापुष्प न० शिलायाः पुष्पमिव । शैलेये गन्धद्रव्ये राजनि०

शिलाभव न० शिलायां भवति भू--अच् ७ त० । शैलेये जटाध०

पृष्ठ ५१११

शिलाभेद पु० शिलामपि भिनत्ति भिद--अण् । १ पाषाण-

भेदिवृक्षे रत्नभा० २ पाषाणभेदकास्वे च ।

शिलारम्भा स्त्री शिलेव रम्भा । कोष्ठकदल्यां राजनि० ।

शिलावल्का स्त्री शिलेव कठिनः वल्को यस्ताः । (शिस्तावाक्)

इति प्रसिद्धे वृक्षभेदे शिलात्वगप्यत्र राजनि० ।

शिलाव्याधि पु० शिलाया व्याधिरिव । शैलेये गन्धद्रव्ये त्रिका० ।

शिलासन न० शिला आसनं यस्य । शैलेये गन्धद्रव्ये शब्दर०

२ शिलानिर्मिते आसने च ।

शिलासार न० शिलायाः सार इव । लौहे हेमच० ।

शिलि पु० शिल--कि । १ भूजपत्त्रवृक्षे शब्दमा० । द्वाराधःस्थे

२ काष्ठे (गोवराट) स्त्री शब्दर० । ३ भेक्यां ४ छत्राक-
पुष्पे ५ स्तम्भशीर्षे च मेदि० स्त्री ङीप् ।

शिलिन्द पुंस्त्री० शिलिं ददाति दा--क पृषो० । स्वनामख्याते

मतस्यविशेषे “शिलिन्दः श्लेष्मको बल्यो विपाके मधुरो
गुरुः । आमवातकरो ह्रद्यो वातपित्तहरो मतः”
राजवल्लभः । स्त्रियां ङीष् ।

शिलीन्ध्र न० शिलीं धरति धृ--क पृषो० मुम् । १ कदली-

पुष्पे २ कवके च मेदि० ३ त्रिपुटायां विश्वः ।

शिलीन्ध्रक न० शिलीन्ध्र इव इवार्थे--कन् । गोमयच्छत्राके हारा० ।

शिलीपद पु० शिलो द्वाराधःखकाष्ठमिव पदमणात् ।

रोगभेदे (गोद) शब्दर० पृषो० । श्लीपदमप्यत्र न० भावप्र० ।
तन्निदानादि भावप्र० उक्तं यथा
“पुराणोदकभूयिष्ठाः सर्वर्त्तुषु च घीतत्राः । ये देशा-
स्तेषु जायन्ते श्लीपदानि विशेषतः” । विशेषत इति
वचनेनान्यत्रापि श्लीपदं भवतीति बोध्यते । अथ श्ली-
पदस्य सामान्यलक्षणमाह “यः सज्वरोवङ्क्षक्षणजो
भृशार्त्तिः शोथो नृणां पादगतः क्रमेण । तत् श्लीपदं
स्यात्करकर्णनेत्रशिश्नौष्ठनासास्यपि केचिदाहुः” । तत्त्रि-
विधम् वातिकं पैत्तिकं श्लैष्मिकञ्चेति । तत्र तेषां कमेण
लक्षणान्याह “वातजं कृष्णरूक्षं हि स्फुटितं तीव्र-
वेदनम् । अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च ।
पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम । श्लैष्मिकन्तु
भवेत् स्निग्धं तथा पाण्डुरमस्थिरम् । त्रीण्यप्येतानि
जानोयात् श्लीपदानि कफात् पुनः । गुरुत्वञ्च
महत्त्वञ्च यस्मातास्ति विना कफात्” । अथासाध्यमाह
“बलमीकमिव सञ्जातं कण्टकैरुपचोयते । अव्दात्मकन्म-
हत्तत्तु वर्जनीयं विशेषतः । यत् श्लैष्मिकाहारविहार-
त्वातैर्जातं तथाभरिकफस्थ पुंसः । वास्तावमत्युन्नतभर्व-
लिङ्गं सकण्डुकञ्चापि विवर्जनीयम्” अचिकित्स्यत्वादिति
शेषः ।

शिलीमुख पु० शिलीव मुखमस्य । १ भ्रनरे २ वाणे अमरः । ३ युद्धे ४ जड़ीभूते च शब्दर० ।

शिलोच्चय पु० शिलानामुच्चयो यत्र । ववैते अमरः ।

शिलोञ्छ पु० शिलेनोञ्छ उछि--घञ् । उपात्तशस्यात् क्षेत्रात्

शेषावचयने ।

शिलोत्थ न० शिलाया उत्तिष्ठति उद्--स्था--क । शैलेये

गन्धद्रव्ये राजनि० । शिलोद्भवादयोऽप्यत्र ।

शिल्प न० शिल--पक् । चित्रकलादिकर्मसु अमरः । २ स्रुचि

मेदि० । तदारम्भमुहूर्त्तः मु० चि० उक्तो यथा
“मृदुध्रुवक्षिप्रचरे ज्ञे गुरौ वा ख १० लग्नगे । विधौ
ज्ञजीवबर्गस्थे शिल्पारम्भः प्रशस्यते” ।

शिल्पकारिन् त्रि० शिल्पं चित्रादिकलां करोति कृ--णिनि ।

चित्रादिकर्त्तरि ।

शिल्पका स्त्री शिल्पमिव कायति कै--क । तृणभेदे राजनि०

शिल्पशाला स्त्री ६ त० । चित्रकरादोनां चित्रकरणगृहे अमरः

शिल्पशास्त्र न० शिल्पज्ञापनं शास्त्रम् । वास्तुविद्यादिज्ञा-

पके शास्त्रे ।

शिल्पिन् त्रि० शिल्पं वेत्त्यधीते वा इनि । १ चित्रादिकर्म-

करे अमरः । २ कोलदलौषधौ स्त्री मेदि० ङीप् ।

शिव न० शो--वन् पृषो० । १ मङ्गले अमरः । २ सुखे ३ जले

उणादि० । ४ सैन्घवे सामुद्रे च ५ लवणे ६ श्वेतटङ्कणे च
राजनि० । ७ मङ्गलवति त्रि० ८ सहादेवे पु० अमरः । एवं
९ मोक्षे १० कीलग्रहे ११ वालुके १२ गुग्गुलौ १३ वेदे
१४ पुण्डरीकवृक्षे १५ कृष्णधुस्तूरे १६ पारदे राजनि० ।
१७ देवे शब्दर० १८ लिङ्गे उणादि० १९ विष्कुम्भादिषु
मध्ये विंशतितमे योगे च पु० ज्यो० त० । “शिवमद्वैतं
तुरीयं मन्यन्ते” श्रुत्युक्ते २० अद्वैतब्रह्मणि न० ।

शिवक पु० शिव--इव इवार्थे कन् । १ कीलके अमरः गवां

गात्रकण्डूयनार्थे गोष्ठे निखाते २ काष्ठे च भरतः ।

शिवकाञ्ची स्त्री ६ त० । पुरीभेदे ।

शिवघर्म्मज शिवघर्माज्जायते जन--ड । मङ्गलग्रहे

“पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः । अपतत्
मीमवक्त्रस्य स्वेदविन्दुर्ललाटजः” इत्यादिना वीरभद्रोत्-
वत्तिमुक्त्वा तस्यैव मङ्गलग्रहरूपतामाह “शान्तिप्रदानात्
सर्वेषां ग्रहाणां प्रथमो भव । प्रेक्षिष्यन्तो जनाः पूजां
करिष्यन्ति मतं मम । अङ्गारक इति ख्यातिं गमिष्यति
धरात्मज!” मत्स्यपु० ६८ अ० ।
पृष्ठ ५११२

शिवज्ञान न० मासनेदे तण्डभेदेन माहेन्द्रादियोगज्ञापके

शास्त्रभेदे “माहेन्द्रे विजयो नित्यममृते कार्य्यशोम-
नम् । वक्रे कार्यविलम्बः स्यात् शून्ये च मरणं भवेत् ।
वैशाखादिश्रावणान्तमेकभावेन संवदेत् । अमृतादि दिवा-
रात्रौ चतुर्मासं यथाक्रमम् । याममानं दिवामाने
ज्ञेयं सर्वत्र मासके । तत्प्रामाणेन ज्ञातव्यं दण्डमान
विचक्षणैः । रात्रिमानप्रमाणेन ज्ञेयं दण्डप्रमाणकम् ।
न वारतिथिनक्षत्र न योगः करणं तथा । शिवज्ञानं
समासाद्य सर्वं मुनिविचारणम् । भाद्रादिमार्गपर्य्यन्त
सप्तवारे समादिशेत् । शून्यवक्रादियोगं हि पौषादि-
चैत्रतस्तथा” ज्योति० ।

शिवचतुर्दशी स्त्री शिवप्रिया चतुर्दशी । फाल्गुनकृष्णचतु-

दस्याम् । व्रतशब्दे शिवचतुर्दशीव्रतं दृश्यम् ।

शिवताति स्त्री शिव + तातिल् । मङ्गलपरस्परायां हेमच०

शिवदारु न० शिवो देवस्तदादिकं दारु । देवदारुवृक्षे राजनि०

शिवदूती स्त्री शिवो दूतो यस्याः । १ दुर्गामूर्त्तिभेदे त्रिका०

२ योगिनीभेदे च “यदा जघान जगतां रक्तवीजं हिताय
वै । महादेवी महामाया तदास्याः कायतः सृता ।
दूत प्रस्थापयामास शिवं शुम्भाय साम्बिका । तेन सा
शिवदूतीति देवैः सर्वैः प्रगीयते” कालिकापु० ६० अ० ।
“यः शिवाविरुतं श्रुत्वा शिवदूतीं शिवप्रदाम् । प्रणमेत्
साधको भक्त्या तस्य कामाः करे स्थिताः” तत्रैव । “ब्र
ह्माणा प्रथमा प्रोक्ता ततो माहेश्वरी पराः । कोमारी
वैष्णवी चैव वाराही पञ्चमी तथा । नारसिंही तथैवैन्द्री
शिवदूतो तथाष्टभी । एताः पूज्या महाभागाः योगिन्यः
कामदायिकाः तत्रैव । कौषिक्याः हृदयाद्देवी निःसृता
ध्यानता हरेः । शिवदूतीति विख्याता शिवाशतसुसंवृता”
तत्रैव ।

शिवद्रुम पु० शिवप्रियः द्रुमः । बिल्ववृक्षे राजनि० ।

शिवद्विष्टा स्त्री ३ त० । केतक्यां राजनि० ।

शिवधर्म्म न० शिवस्य तदुपासनार्थो धर्मो यत्र । उपपुराणभेदे

“चतुर्थं शिवधर्मारयं साक्षान्नन्दाशभाषितम्” कूर्मपु० ।

शिवधातु पु० ६ त० । पारदे पारदशब्द दृश्यम् ।

शिवनाभि पु० शिवस्य नाभिरिव । शिवलिङ्गभेदे “शिवनाभि

मयं लिङ्गं प्रतिपूज्यं महर्षिभिः । श्रेष्ठञ्च सर्वलिङ्गे
भ्यस्तस्मात् पूज्यं विधानतः” वीरमि० । अच समा० ।
शिवनाभः शालग्रामशिलाभेदे शालग्रामशब्दे दृश्यम् ।

शिवपुरी स्त्री ६ त० । कास्यां हेमच० शिवनगर्य्यादवोऽप्यत्र ।

शिवप्रिय न० ६ त० । १ रुद्राक्षे २ महादेववल्लभे त्रि० राजनि० ।

३ वकवृक्षे जटा० । ४ धुस्तूरे ५ स्फटिके च पु० राजनि० ।
६ दुर्गायां स्त्रा शब्दमा० ।

शिवमल्लक पु० शिवः कल्याणकरः मल्ल इव कायति कै--क । अजुनवृक्ष राजनि० ।

शिवमल्ली स्त्री शिवस्य मल्लोव प्रियत्वात् । वकवृक्षे अमरः ।

शिवरात्रि स्त्री शिवप्रिया तदुपासनार्था रात्रिः । माघातः

परस्यां कृष्णचतुर्दश्याम् । तद्रात्रौ हि शिव पूजनव्रता-
दिकं क्रियते इति तस्या रात्रेस्तत्प्रियत्वम् । २ तद्दिव-
सकर्त्तव्येव्रते च । तद्विधानकालादि ति० त० उक्तं यथा
कालमाधवीये स्कान्दे नागरखण्डम् “माघमासस्य
शेषे या प्रथमे फालगुनस्य च । कृष्णा चतुर्दशी
सा तु शिवरात्रिः प्रकीर्त्तिता” । अत्रैकस्यास्तिथे-
मांघीयत्वफाल्गुनीयत्वे मुख्यगौणवृत्तिभ्याम् अविरुद्धे ।
ततस्तु माघ्यनन्तरा चतुर्दशी शिवरात्रिः । अस्यामुप-
वासः प्रधानम् “न स्नानेन न वस्त्रेण न धूपन
न चार्चया । तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः
इति शङ्करोक्तेः । स्कान्दे “ततो रात्रौ प्रकत्तंव्यं
शिवप्रोणनतत्परैः । प्रहरे प्रहरे स्नानं पूजा चैव
विशेषतः” । अत्र वीप्सया प्रहरचतुष्टयसाध्यं प्रती-
यते । नरसिंहाचार्य्यधृतेश्वरसहितायाम् “शैवो वा
वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्वं पूजाफलं
हन्ति शिवरात्रिबहिर्मुखः” । संवत्सरपदीपे
“दुग्धेन प्रथमे स्नानं दघ्ना चैव द्वितीयके । तृतीये च
तथाज्येन चतुर्थे मधुना तथा” । ईशानसंहितायाम्
“माघे कृष्णचतुर्दश्यां रविवारो यदा भवेत् । भौमो
वापि भवेद् देवि! कर्त्तव्यं व्रतमुत्तमम् । शिवयोगस्य
योगेन तद्भवेदुत्तमोत्तमम् । शिवरात्रिव्रतं नाम सर्वषाप-
प्रणाशनम् । आ चाण्डालात् मनुष्याणां भुक्तिमुक्तिप्रदाय-
कम । नागरखण्डे “उपवासप्रभावेण बलादपि च
जागरात् । शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया ।
अक्षयान् लभते लोकान् शिवसायुज्यमाप्नुयात्” । पाद्मे
“वर्ष वर्षे महादेवि! नरी नारी पततिव्रता ।
शिवरात्रौ महादेवं काम भक्त्या प्रपूजयेत्” । ईशानसंहि-
तायाम् “एवमेव व्रतं कुर्य्यात् प्रतिसंवत्सरं व्रती ।
द्वादशाव्दिकमेतद्धि चतुर्विंशाव्दिकं तथा सर्वान्
कामानवाप्नाति प्रेत्य चेह च मानवः” । हेमा-
द्रिधृता स्मृतिः “प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतु-
र्दर्शी । प्रदोषमाह वत्सः “प्रदोषोऽधग्रयादूर्द्ध्वं वदि-
पृष्ठ ५११३
काद्वयसिष्यते” । ऊर्द्ध्वमनन्तरम् । वायुपुराणे “त्रयोद-
श्यस्तगे सूर्य्ये चतसृष्वपि नाड़षु । भूतावद्धा तु या
तत्र शिवरात्रिव्रतञ्चरेत्--” । ईशानसंहितायाम् “माघे
कृष्णचतुर्दश्यामादिदेवो महानिशि । शिवलिङ्गतयोद्भूतः
कोटिसूर्य्यसमप्रभ । तत्कालव्यापिनी ग्राह्या शिवरात्रि
प्रते तिथिः अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्दशी ।
व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतं नरः” । अत्र
“महानिशा द्वे घटिके रात्रेर्मध्यमयामयोः” इति
देवलोक्ता महानिशा ग्राह्या । घटिका एकदण्डः । एवञ्च
यद्दिने प्रदोषनिशीथोभयव्यापिनी चतुर्दशी तद्दिने व्रतम्
उभयव्याप्त्यनुराधात् । कालमाधवीयोऽप्येवम् । एतेन
परदिने उभयव्यापित्वेऽपि पूर्वदिवसीयरात्रिद्वितीय
यामप्रभृतिचतुर्दशीसत्त्व बहुप्रहरव्यापित्वेन पूर्वदिन
एव व्रतभिति निरस्तम् यदा तु पूर्वद्युर्निशीथमात्र
व्याप्तिः परेद्युः गदाषमात्रव्याप्तिस्तदा पूर्वेद्युर्व्रतं प्रधानः
कालव्याप्त्यनुरोधात् । “पूर्वेद्युरपरेद्युर्वा महानिशि
चतुर्दशी । व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रत
नरः” इतीशानसंहितावचनाच्च । एतद्विषय एव
भविष्यपु० “अर्द्धरात्रात् पुरस्तात्तु जयायोगा भवेद्
यदि । पूर्वविद्धैव कर्त्तव्या शिरात्रिः शिवप्रियैः” । विष्णु
धर्मोत्तरे “जयन्ती शिवरात्रिश्च कार्य्य भद्रजयान्विते ।
कृत्वोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम्” । तिथ्यन्ते-
पारण जयन्तीमात्रपरं तत्र चतुर्दश्यामेव तत् “व्रह्मा
ण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । पूजितानि-
भवन्तीह भूतायां पारणे कृते” इति स्कान्दात् । “दिन
मानप्रमाणेन या तु रात्रौ चतुर्दशी । शिवरात्रिस्तु
सा ज्ञेया चतुर्दश्यान्तु पारणम्” इति गौतमीयाच्च ।
यदा त पूर्वदिने न निशीथव्याप्तिः परदिने प्रदोषमात्र
व्यापिनी तदा परा ग्राह्या प्रदोषव्यापिनीति प्रागुक्तत्वात्
तिथेस्त्रिसन्ध्यव्यापित्वाच्च । एतद्विषय एव लिङ्गपुरा-
णम् “शिवरात्रिव्रते भूतां कामविद्धां विर्जयेत् । एके
नैवोपवासेन ब्रह्महत्यां व्यापोहति” । अत्रामावस्याया-
मेव पारणम् “शिवाऽघारा तथा पेता सावित्री
च चतुर्दशी । कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम्” ।
इति वचनात् । तदयं संक्षेपः । यद्दिने प्रदोषनिथीथो-
भयव्यापिनी चतुर्दशी तद्दिने व्रतम् । यदा तु पूर्वेद्युर्नि-
शीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा पूर्वेद्यु-
र्वतम् । यदा तु न पूर्वेद्युर्निशोघव्याप्तिः परदिने प्र-
दोषव्यापिनी तदा परदिने । पारणन्तु परदिमे
चतुर्दशीलाभे चतुर्दश्यां, तदलाभे अमावास्यायाम्” ति० त० रघु०

शिवलिङ्ग न० ६ त० । शिवस्य लिङ्गाकारे प्रस्तरादिमये पदार्थे

तदाविर्भावपूज्यतादिक यथा
“प्तत्राषि गत्वा मदनो ददर्श वृषकेतनम् । दृष्ट्वा प्रहर्त्तु
कामोऽथ ततः स प्राद्रवद्धर । ततो दारुवनं घोरं
मदनाभिसृतो हरः । विवेश ऋषयो यत्र सपत्नीका
व्यवस्थिताः । ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना
नताभवन् । ततस्तान् प्राह भगवान् भिक्षां मे प्रति
दीयनाम् । ततस्ते मौनिनस्तस्थुः सर्व एव महर्षयः ।
तदाश्रमाणि पुण्यानि परिचक्राम नारद! । तं प्रविष्टं
तदा दृष्ट्वा भार्गवात्रेययोषितः । प्रक्षोभमगमन् सर्वा
हीनसत्त्वाः समन्ततः । ऋते त्वरुन्धतीमेकामनसूयाञ्च
भाविनीम् । एताभ्यां भर्तृपूजासु कृतं वे सुस्थिरं मनः ।
ततः संक्षुभिताः सर्वा यत्र याति महेश्वरः । तत्र
प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः । त्यक्त्वाश्रमाणि
शून्यानि स्वानि ता मुनियोषितः । अनुजग्मुर्यथा मर्त्तं
करिण्य इव कुञ्जरम् । ततस्तु ऋषयो दृष्ट्वा भार्गवा-
ङ्गिरसो मुने! । क्रोधान्विताब्रुवन् सर्वे लिङ्गोऽस्य पततां
भुवि । ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत् ।
अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः । ततः स
पतितो लिङ्गो विभिद्य वसुधातलम् । रसातलं विवे-
शाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत् । ततश्चचाल पृथिवी
गिरयः सरितो नगाः । पातलभुवनाः मर्वे जङ्गमाऽज-
ङ्गमाः स्थिताः । संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन्
पितामहः । जगाम माधवं द्रष्टुं क्षीराटं नाम
सागरम् । तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः । उवाच
देव! भुवनाः किमर्थं क्षुभिता विभो! । अथोवाच
हरिर्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः । पतितस्तस्य भारार्त्ता
सञ्चचाल वसुन्धरा । ततस्तदद्भुतमयं श्रुत्वा देवः
पितामहः । तत्र गच्छा देयेश एवमाह पुनः पुनः ।
ततः पितामहो देवः केशवश्च जगत्पतिः । आजगाम
तमुद्देशं यत्र लिङ्गं भवस्य तत् । ततोऽनन्तं
हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् । पातालं प्रविवेशाथ विस्म-
यात् त्वरितो विभुः । ब्रह्मा पद्मविमानेन उर्द्ध्वमाक्रम्य
सर्वनः । नैवान्तमलभद् ब्रह्मा विस्मितः पुनरागमः ।
विष्णुर्गत्वाथ पातालं सप्तलोकपरायणः । चक्रपाणिविंनिष्-
क्तान्तो सेभेऽन्तं न महामुने!” इत्युपक्रमे “हरा उवाच
पृष्ठ ५११४
यद्यर्च्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ! । तदेतत्-
प्रतिगृह्णीयां नान्यथति कथञ्चन । ततः प्रोवाच भगवाने-
वमस्त्विति केशवः । ब्रह्मा स्वयञ्च जग्राह लिङ्गं
कनकपिङ्गलम् । ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने ।
शास्त्राणि चैषां सुख्यानि नानोक्तिविदितानि च ।
आद्यं शैवं १ परिख्यातमन्यत् पाशुपतं २ मुने! । तृतीयं
कालवदनं ३ चतुर्थञ्च कपालिकम् ४ । शैव आसीत् स्वयं
शक्तिर्वशिष्ठस्य प्रियः सुतः । तस्य शिष्यो बभूवाथ
गोपायन इति श्रुतः । महापाशुपतस्त्वासीद्भारद्वाजस्तपो-
धनः । तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ।
कालास्यो भगवानासीदापस्तम्बस्तपोधनः । तस्य शिष्यो
वको वैश्यो नाम्ना क्राथेश्वरो मुने । महाव्रती च
धनदस्तस्य शिष्यश्च वीर्य्यवान् । कुन्दोदर इति ख्यातो जात्या
शुद्रो महातपाः । एवं स भगवान् व्रह्मा पूजनाय
शिवस्य च । कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ।
गते ब्रह्मणि सर्वोऽपि ततः संहृत्य तं तदा । लिङ्गं
चित्रवनं, सूक्ष्मं प्रतिष्ठाप्य चचार ह” । वामनपु० ६ अ० ।
एकगृहे लिङ्गद्वयार्चननिषेधो यथा “गेहे लिङ्गद्वयं नार्च्यं
शालग्रामद्वयं तथा । द्वे चक्रे द्वारकायास्तु नार्च्यं
सूर्य्यद्वयं तथा” । तन्निर्माल्यभक्षणविधिनिषेधौ यथा
“अभक्ष्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलायोगात् पावनं तद्भवेत् सदा” । “लिङ्गपूजां
विना देवि! अन्यपूजां करोति यः । विफला तस्य पूजा
स्यादन्ते नरकमाप्नुयात् । तस्माल्लिङ्गं प्रयत्नेन प्रथमं
परिपूजयेत्” । तत्पूजनप्रशंसा यथा “यद्राष्ट्रं लिङ्गपू-
जायां रहितं संततं प्रिये! । तद्राष्ट्र पतितं मन्ये
विष्ठाभूमिसमं स्मृतम्” । “ब्रह्मा विट् क्षत्रियो देवि!
यदि लिङ्गं न पूजयेत् । तत्क्षणात् परमेशानि! त्रयं
चाण्डालतां व्रजेत् । शूद्रश्च परमेशानि! सदा शूकरवत्
प्रिये! । पूजयेत् परमेशानि! चत्वारो ब्रह्मणादयः ।
शिवार्च्चनन्तु पूजासु यद्गृहे वर्जितं सदा । विष्ठागर्त्त
समं देवि! तद्गृहं विद्धि पार्वति! । शाक्तो वा वैष्णवो
वापि शैवो वा परमेश्वरि! । आदौ लिङ्गं समभ्यर्च्य
बिल्वपत्रैर्वरानने! । पश्चादन्यं महेशानि! शिवं प्रार्थ्य-
प्रपूजयेत् । शिवपूजां विना देवि! अन्यपूजां करोति
यः । स एव रसनाहीनः कुम्भीरो जायते प्रिये! ।
निर्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम् । आशुतोषं
महादेवं शङ्करं वृषभध्वजम् । निर्माय पाषितं लिङ्गं
विधिवत् पूजयेत् शिवम् । शिवपूजा महेशानि!
यदुगृहे सततं प्रिये! । काशीपुरं महेशानि! तद् गृह
वरवर्णिनि! । शिवलिङ्गं प्रपूज्याथ सर्वपूजाफल लभेत्” ।
चतुर्विधलिङ्गं यथा “चतुर्द्धा पार्थिवं लिङ्ग मृतस्ना-
भेदेन पार्वति! । शुक्लं रक्तं तथा पीतं कृष्णञ्च परमे-
श्वरि! । शुक्लन्तु ब्राह्मणे शस्तं, क्षत्रिये रक्तमिष्यते ।
पीतं च वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्त्तितम् । चान्द-
नञ्च महेशानि! सर्वजातिषु शस्यते” । लिङ्गार्चनतन्त्रे
१ । २ । ३ प० । अस्य पञ्च वक्त्राणि यथा “तत् सर्वं
शृणु चार्कङ्गि पार्थिवस्य मुखं प्रिये! । विभाव्य मुखपद्मं
हि शिवस्य वरवर्णिनि! । सद्योजातं वामदेवमघोरञ्च
ततः परम् । तत्पुरुषं तथेशानं पञ्चवक्त्वं प्रकीर्त्ति-
तम् । सद्योजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम् ।
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् । कृष्णवर्ण-
मघोरञ्च समं भीमविवर्द्धनम् । रक्तं तत्पुरुषं देवं
दिव्यमूर्त्ति मनोहरम् । श्यामलञ्च तथेशानं सर्वदेव
शिवात्मकम् । चिन्वयेत् पश्चिमे चाद्यं द्वितीयन्तु
तथोत्तरे । अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा ।
ईशानो मध्यतोध्येयं चिन्तयेत् भक्तितत्परः” । तत्रैव
६ प्रटलः । अथ रौद्रलिङ्गलक्षणम्, वीरमित्रोदयधृते
“नदीसमुद्भवं रौद्रमन्योन्यस्य विथर्षणात् ।
नदीवेगात् समं स्निग्धं संजातं रौद्रमुच्यते” । समुच्चयेऽपि
“सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति । तदन्यदपि
बोद्धव्यं रौद्रलिङ्गं सुखावहम् । नदीसारनर्मदायां वण
लिङ्गसमाकृति । तदन्यदपि वोद्धव्यं लिङ्गं रौदूं
भविष्यति । रौद्रलिङ्गं तथाख्यातं वाणलिङ्गसमाकृति । श्वेतं
रक्तं तथा षीतं कृष्णं विप्रादिपूजितम् । स्वभावात् कृष्ण-
वर्णं वा सर्वजातिषु सिद्धिदम् । नर्मदासम्भवं रौद्रं
वाणलिङ्गवदीरितम्” । दैवलिङ्गमधिकृत्य सिद्धान्तशेखरे
“करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम् । रेखाकोटरसं-
युक्तं निम्नोन्नतसमन्वितम् । दीर्वाकारञ्च यल्लिङ्गं ब्रह्म-
भानादिवर्जितम्” । अथ गोललिङ्गलक्षणम् “लिङ्गं
गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना । कुष्माण्डस्य
कलाकारं नागरङ्गफलोपमम् । काकडिम्बफलाकारं
गोललिङ्गमितीरितम्” । अथार्षलिङ्गलक्षणम् । तत्रैव
“मालाकोलफलाकारं ब्रह्मसूत्रविवर्जितम् । मूले स्थू-
मञ्च गलिङ्गं कपित्थफलसन्निभम् । तालस्य वा
फलाकारं मध्ये स्थूलञ्च यद्भवेत् । मध्ये स्थूस्तं वरं लिङ्ग
पृष्ठ ५११५
मृषिलिङ्गमुदीरितम्” । लिङ्गं च द्विविधमकृत्रिमं
कृत्रिमञ्च अकृत्रिमं स्वयम्भुवाणलिङ्गादि स्वयम्भूतम् ।
कृत्रिमं धातुलिङ्गादिनिर्मितम् । सिद्धान्तशेखरे “तल्लिङ्गं
द्विविधं ज्ञेयमचलञ्च चलं तथा । प्रत्येकं त्रिविधं
ज्ञेय लिङ्गं तदुभयात्मकम् । प्रासादे स्थापितं लिङ्गमचलं
तच्छिलादिजम् । स्थापितमचलं गेहे स्थिरं लिङ्ग-
मयोजिते । पञ्चधा तत स्थितं लिङ्गं स्वयम्भु दैवपालि-
तम् । आर्षञ्च मामसं लिङ्गं तेषां लक्षणमुच्यते ।
नानाच्छिद्रसुसंयुक्तं नानावर्णसमन्वितम् । अदृष्टमूलं
यल्लिङ्गं कर्कशं भुवि दृश्यते । तल्लिङ्गन्तु खयम्भू-
तमषरं लक्षणच्युतम् । स्वयम्भुलिङ्गमित्युक्तं तच्च
नानाविधं मतम् । शङ्खाभमस्तकं लिङ्गं वैष्णवं
तदुदाहृतम् । पद्माभमस्तकं ब्राह्मं छत्राभं शाक्रमुच्यते ।
शिरोयुग्मं तथाग्नेयं त्रिपदं याम्यमोरितम् । खड्गाभं
नैरृतं लिङ्गं वारुणं कलसाकृति । वायव्यं ध्वजब-
ल्लिङ्गं कौवेरन्तु गदान्वितम् । ईशानस्य त्रिशूलाभं
लोकपालादि निःसृतम् । सयम्भुलिङ्गमाख्यातं सर्वशास्त्र
विशारदैः” । मत्स्यसूक्ते “दृष्ट्वा लिङ्गं महेशस्य स्वय-
म्भूतस्य पार्वति! । सर्वपाधविनिर्मुक्तः परे ब्रह्मणि
लीयते” । एतेषां पूजाफलन्तु तत्रैव “विशेषाच्छैलजं
मुक्त्यै भुक्तये चानुषङ्गतः । पार्थिवं भुक्तये शस्तं मुक्तये
चानुषङ्गतः । एवं वै दारुजं ज्ञेयं धातुलिङ्गं तथा
पुनः । स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यपदञ्च तत् ।
पुत्रवृद्धिकरं ताम्रं राङ्गभायुःप्रवर्द्धनम्” पद्मपु०
“पारदञ्च महाभूत्यै सौभाम्याय च मौक्तिकम् । चान्द्र
कान्तं मृत्युजित् स्याद्धाटकं सर्वकामदम्” । वी० मि० धृत
कल्पोत्तरेऽपि “सर्वा फलप्रदा भूमिर्मणयस्तद्वदेव हि ।
अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः । रात्रौ
प्रकाशकाः सर्वे विषाद्याधातकारिणः । नानावर्णास्तु
विज्ञेया रसैर्गन्धैश्च रूपतः । वज्राद्याः स्फाटिकाद्याश्च
गुड़ान्नादिविनिर्मितम् । सर्वकामप्रदं पुंषां लिङ्गं तात्-
कालिकं मतभ्” । लक्षणसमुच्चये “गान्धं सौभाग्यदं
लिङ्गं पौष्पं मुक्तिप्रदायकम्” । तथा “नानागुणोद्भवं
लिङ्गं नानाकामप्रदायकम् । सैकतं गुणदं लिङ्गं
सौभाग्याय च कावणम् । उच्चाटनै तु पालाशं भास्मं
शत्रुक्षयावहम् । तात्कालिकं दरिद्रश्च कृत्वा भक्त्या
समर्चयेत्” । तथा “कुस्तूरिकाया द्वौ भागौ चत्वारश्चन्द-
मस्य च । कुङ्कुमस्य त्रवश्चैव शशिना च चतुःसमम् ।
एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः । शिवसा-
युज्यमाप्तोति बन्धुभिः सहितो नरः । कार्य्यं पुष्पभयं
लिङ्गं हयगन्धसमन्वितम् । नवखण्डां धरां भुक्त्वा
गणेशोऽधिपतिर्भवेत् । रजोभिर्निर्मितं लिङ्गं यः
पूजयति भक्तितः । विद्याधरपदं प्राप्य पश्चात् शिवसमी
भवेत् । श्रीकामो गोशकृल्लिङ्गं कृत्वा मक्त्या प्रपूजयेत् ।
स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत् । कार्य्यं च
षष्टिजं लिङ्गं यवगोधूमशालिजस् । श्रीकामः पुष्टिकामश्च
पुत्रकामस्तदर्चयेत् । सिताखण्डमयं लिङ्गं कार्य्यमा-
रोम्यवर्द्धनम् । वश्ये लवणजं लिङ्गं तले त्रिकटुका-
न्वितम् । गव्यधृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम् ।
लवणेन च सौभाग्यं पार्थिवं सर्वकामदम् । कामदं
तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम् । भस्मोत्थं सर्वफलदं
गुड़ोत्थं प्रीतिवर्द्धनम् । गन्धोत्यं गुणदं भूरिशर्करोत्थं
सुखप्रदम् । वांशाङ्कुरं वंशकरं गोमयं सर्वरोगदम् ।
केशास्थिसम्भवं लिङ्गं सर्वशत्रुविनाशनम् । क्षोभणे
मारणे पिष्टसम्भवं लिङ्गमुत्तमम् । दारिद्र्यदं द्रुमोद्भूतं
पैष्टं स्परस्वतप्रदम् । दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मी
सुखप्रदम् । धान्यदं धान्यजं लिङ्गं फलोत्थं फलदं
भवेत् । पुष्पोत्थं दिव्यभोनायुर्मुक्त्यै धात्रीफलोद्भवम् ।
नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम् । दूर्वा-
काण्डसमुद्भूतमपमृत्युविनाशनम् । कर्पूरसम्भवं लिङ्गं
कलायैर्भुक्तिमुक्तिदम् । आयख्यान्तं चतुर्द्ध्यं तु ज्ञेयं
सामान्यसिद्धिषु” गरुड़पु० । “सर्व मणिभवं श्रेष्ठं
तत्र वाज्रमरिच्छिदे । यमलिङ्गं भहाभूत्यै सौभाग्याय
च मौक्तिकम् । पुष्टिभूलं महानीलं ज्योतिस्तीरसमुद्भ
वम् । स्पर्शकं कुलसम्बत्त्यै तैजसं सूर्यकान्तजम् । चन्द्रा-
पीड़ं मृत्युजिते स्फाटिकं सर्वकामदम् । शूलाख्य-
मणिजं शत्रुक्षयार्थं मौक्तिकं तथा । आवत्थं हीरकं ज्ञेयं
रोगहृन्मौक्तिकोद्भवम् । शुभकृत् पुष्कलं तीर्थे वैदूर्य्यं
शत्रुदर्पहृत् । नीलं सक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्वकाम-
दम्” । सारसंग्रहे “महाभुक्तिप्रदं हैमं राजतं भूति-
वर्द्धनम् । आरकूटं तथा कांस्यं शृणु सामान्यमुक्ति-
दम् । त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम् ।
कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुत्रवर्द्धनम् । पैत्तलं
भुक्तिमुक्त्यर्थं मिश्रजं सर्वसिद्धिदम्” कालोत्तर-
तन्त्रम् । तत्रैव शिवनारदसंवादे “पितॄणां मुक्तयें
लिङ्गं पूज्यं रजतसम्भवम् । हैमजं सत्यलोकस्य प्रा-
पृष्ठ ५११६
प्तये पूजयेत् पुमान् । पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो
हि मानवः” । मत्स्यसूक्ते “ताम्रलङ्गं कलो नार्च्यं
रैत्यस्य सीसकस्य च । रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं
तथा” । मातृकाभेदतन्त्रे १२ पटले “पार्थिवे शिवपूजायां
सर्वसिद्धियुतो भवेत् । पाषाणे शिवपूजायां द्विगुणं
फलमीरितम् । स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं
मतम् । सर्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् ।
ताम्रेपुष्टिं विजानीयात् कांस्ये च धनसंक्षयः । गङ्गा-
याञ्च लक्षगुणं लाक्षायां रोगवान् भवेत्! । स्फाटिके
सर्वसिद्धिः स्यात् तथा मारकते प्रिये! । लौहलिङ्गे
रिपोर्नाशं कामदं भस्मलिङ्गकम् । बालुकायां काम्यसिद्धि-
र्गोमये रिपुहंसनम् । सर्वलिङ्गस्य माहात्म्यं धर्मकामा-
र्थमोक्षदम् । संस्कारेण विना देवि! पाषाणादौ न
पूजयेत्” । “मृत्तिकातोलकं ग्राह्यमथ वा तोलकद्वयम् ।
एतदन्यन्न कुर्वीत कदाचिदपि पार्वति!” मातृकाभेदतन्त्रे
७ प० । “मृत्तिकातोलकं ग्राह्यमथ वा तोलकद्वयम् । त्रिसू-
त्रस्य प्रमाणेन घटनं कारयेद् बुधः । अङ्गुष्ठपर्वमानन्तु
कृत्वा लिङ्गं प्रपूजयेत्” विश्वसारतन्त्रम् । त्रिसूत्रीक-
रणमुक्तं कालात्तरे “लिङ्गे वेद्यां तथा पीठे समसूत्र-
निपातनात् । समञ्चैव विजानीयात् त्रिसूत्रीकरण-
न्त्विदम्” । ब्राह्मणादीनां भृत्तिकाभेदेन पूजाफल
प्रशंसा तत्रोक्ता यथा “शुक्लं हि पार्थिवं लिङ्गं निर्माय
यस्तु पूजयेत् । स एव विप्रो देवेशि! त्रिवर्गफलभाग्-
भवेत् । क्षत्रियस्तु वरारोहे! रक्तं निर्माय पार्थि-
वम् । पूजयेत् सततं यस्तु त्रिवर्गफलभाग्भवेत् । पीतं
तु पार्थिवं देवि! निर्माय यस्तु पूजयेत् । स च वैश्यो
महेशानि । त्रिवर्गफलभाग्भवेत् । कृष्णं हि पार्थिवं
लिङ्गं निर्माय यस्तु पूजयेत् । स शूद्रः परमेशानि!
त्रिवर्गफलभाग्भवेत् । शिलादौ च महेशानि! स्थूलञ्च
फलदायकम् । अङ्गुष्ठमानं देवेशि! यद्वा हेमाद्रिमान-
कम् । क्रमेण देवदेवेशि! फलं बहुबिधं स्मृतम् ।
स्थूलात् स्थूलतरं लिङ्गं रुद्राक्ष परमेश्वरि! । पूजना
द्धारणाद्वापि फलं बहुविधं स्मृतम्” । स्थूलतरमिति
पार्थिवलिङ्गेतरपरम् मृत्तिकातोलकं ग्राह्यमित्या
दिवचनात् । शिलास्फाटिकमरकतादीनां पञ्चसूत्रीकर-
णमुक्तम् लैङ्गे “शिवलिङ्गस्य यन्मानं तन्मानं दक्ष
सव्ययोः । योन्यग्रमपि यन्मानं तदधोऽपि तथा
भवेत्” । “लिङ्गस्य यादृग्विस्तारः परिणामोऽपि
तादृशः । लिङ्गस्य द्विगुणा वेदी योनिस्तदर्द्धसंमिता ।
कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचिदपि क्वचित् । रत्नादि-
शिवनिर्माणे मानमिच्छावशाद्भवेत्” । तन्त्रान्तरम् ।
लिङ्गशब्दव्युत्पत्तिर्यथा “आकाशं लिङ्गमित्याहुः
पृथिवी तस्य पीठिका । आलयः सर्वदेवानां लयना-
ल्लिङ्गमुच्यते” स्कन्दपु० ।
“एकहस्तेन निर्माय प्रार्थिवं लिङ्गमर्चयेत् । लक्षलिङ्ग-
पूजनस्य फलमाप्नोत्यसंशयम् । तदेव स्याच्छतगुणं
वामहस्तेन निर्मितम् । मृदाहरणकेशादि शोधनञ्चैव
पाणिना । “एवं कृते तु गृहिणां संसारात् स विमु-
ञ्चतिः । द्व्याधिकैर्विं शतिपलैर्मृद्भिः शैवं प्रयत्नतः ।
लिङ्गं निर्माय देवेशि! पूजयेद्भक्तिसंयुतः” तन्त्रसारः ।

शिवलोक पु० ६ त० । कैलासनामके स्थाने ।

शिववल्लभ त्रि० ६ त० । १ महादेवप्रिये २ शतपत्त्र्यां स्त्री

राजनि० ।

शिववल्ली स्त्री० शिवप्रिया वल्ली शा० त० । १ लिङ्गिनीलतायां २ श्रीवल्ल्यां च राजनि० ।

शिववाहन न० शिवं वाहयति वह--णिच्--ल्यु । वृषभे

राजनि० ।

शिववीज न० ६ त० । १ पारदे राजनि० । शिववीर्य्यादयोऽप्यत्र । २ शिवस्य शुक्रे च ।

शिवशेखर पु० शिवस्य शेखर इव । १ धुस्तूरे राजनि० ।

२ वकपुष्पे च जटा० ।

शिवसुन्दरी स्त्री ६ त० । दुगायां तन्त्रसा० ।

शिवा स्त्री शी--वन् नि० । १ मङ्गलवत्यां स्त्रियां २ दुर्गायां

“शिवा मुक्तिः समाख्याता योगिनां मोक्षदायिनी ।
शिवायै यां यजेद्देवीं शिवा लोके ततः स्मृता” देवीपु०
४५ अ० । ३ मुक्तौ ४ शृगाले ५ हरीतक्यां ६ शमीवृक्षे ७
तामलक्याम् अमरः । ८ आमलक्यां मेदि० । ९ हरिद्रायां
१० दूर्वायां ११ गोरचनायाञ्च राजनि० १२ शृगाल्याम्
अमरः ।

शिवाटिका स्त्री शिवायाटति अट--ण्वुल् । वंशपत्त्र्यां राजनि० ।

शिवात्मक न० शिवो मङ्गल आत्मा यस्य कप् । १ सैन्धवे

लवणे राजनि० । २ शिवमये त्रि० ।

शिवानी स्त्री शिवं कल्याणमानयति आ + नी--ड गौरा०

ङीष् । १ जयन्तीवृक्षे शब्दच० २ दुर्गायाञ्च ।

शिवाप्रिया पु० ६ त० । १ छागे त्रि० २ तस्याः प्रियमात्रे त्रि० ।

शिवापीड़ पु० ६ त० । वकवृक्षे राजनि० ।

शिवाफला स्त्री शिवाया इव फलं यस्याः । शमीवृक्षे राजनि० ।

शिवाबलि पु० शिवाभ्यो देवी बलिः शा० त० । तन्त्रसा-

रविहिते सन्ध्यायां शिवाभ्यो देये मांसादिबलौ तद्वि-
धिस्तन्त्रसारे दृश्यः ।
पृष्ठ ५११७

शिवाराति पु० शिवाया शृगालस्यारातिः । १ कुक्कुरे शब्दमा०

२ शिवशिवयार्द्वेष्टरि पाषण्डे च ।

शिवारुत न० ६ त० । शृगालीशब्दे दिग्भेदे तस्य शुभाशुभ-

फलं वसन्तराजशाकुने उक्तं यथा
“शोभनं शुभफलाप्तिसूचकं कथ्यते त्ववितथं शिवारुतम् ।
शान्तदीप्तककुभां विशेषतो ज्ञानमत्र च सदापयुज्यते ।
दग्धा दिगुक्ता दिननाथयुक्ता विवस्वताप्ता भवति प्रदीप्ता ।
सा धूमिता यां सविता प्रयातः शेषा दिगन्ताः फिल पञ्च
शान्ताः । दग्धा दिगैशी ज्वलिता दिगैन्द्रो प्रधूमिता
चानलदिक्क्रमेण । आद्ये दिनस्य प्रहरे प्रवृत्ते महेश-
देवेशहुताशदिक्षु । शिवा रटन्ती कुरुते नराणां संत्रा-
सकायव्ययबन्धनानि । अह्नो द्वितीये प्रहरस्य भागे
सहस्रनेत्रानलकालदिक्षु । शिवा रटन्ती कुरुते इत्यादि ।
ब्राह्म्ये तृतीये प्रहरे दिनस्य हुताशवैवस्वतयातुदिक्षु ।
शिवा रटन्ती कुरुते इत्यादि । समागतेऽह्नः प्रहरे
तुरीवे प्रेतेशरक्षःपतिपाशिदिक्षु । शिवा रटन्ती कुरुते
इत्यादि । आद्ये निशायाः प्रहरेप्रवृत्ते रक्षाऽधियादः-
पतिवातदिक्षु । शिवा रटन्ती कुरुते इत्यादि । ततो
द्वितीयप्रहरे रजन्यास्तोयाधिनाथानिलसोमदिक्षु । शिवा
रटन्ती कुरुते इत्यादि । यामेन्तृतीयेऽपि च यामवत्याः
समीरदोषाकरशम्भुदिक्षु । शिवा रटन्ती कुरुते इत्यादि ।
समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्षु ।
शिवा रटन्ती कुरुते इत्यादि । इतीरितं दिक्त्रय-
यामयोगात् फलं विरुद्धं विरुतैः शिवायाः । ब्रूमो-
ऽथ दिक्पञ्चकयामयोगात् फलानि पुंसां क्रमतः
शुभानि । कृतान्तरक्षोवरुणानिलेन्दुदिक्ष्वाद्ययामे रवितैः
शृगाल्याः । स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः
सुभिक्षं प्रियलोकसङ्गः । रक्षःप्रचेतोऽनिलसोमशम्भुदिक्षु
द्वितीये प्रहरे रुतेन । स्यादिष्टवार्त्ताश्रुतिरित्यादि ।
जलेशवातेन्दुशिवामरेशदिक्ष्वारवेण प्रहरे तृतीये ।
स्यादिष्टवार्त्ताश्रुतिरित्यादि । समीरसोमेशसुरेशवह्निदिक्षु
स्वरेण प्रहरे चतुर्थे । स्यादिष्टवार्त्ताश्रुतिरित्यादि ।
शशाङ्करुद्रेन्द्रहुताशकालदिक्ष्वारवैः पञ्चमयामभागे । स्यादि-
ष्टवार्त्ताश्रुतिरित्यादि । ईशानशक्राग्निकृतान्तरक्षोदिक्षु
स्वरेण प्रहरे च षष्ठे । स्यादिष्टवार्त्ताश्रुतिरित्यादि ।
इन्द्राग्निकालासूपपाशपाणिदिक्ष्वारवैः सप्तमयामकाले ।
स्यादिष्टवार्त्ताश्रुतिरित्यादि । अत्यन्तकृन्नैरृतषाशिवात-
दिक्ष्वष्टमे च प्रहरे रवेण । स्यादिष्टवार्त्ताश्रुतिरित्यादि ।
“एकादिकानां निधनाष्टमानां शिवारुतानामधुना
यदर्थम् । प्राच्यादिकास्वष्टसु दिक्ष्वशेषं यद्यत् फलं
तत्तदुदीरयामः । धनान्यभीष्टाप्तिमभीष्टलाभं ध्रुवं
ततोऽर्थस्य फलं शुभञ्च । भयं प्रलापं सकलञ्च
सोख्यमेकादिशब्दैः कुरुते प्रशान्ते । भयान्यनिष्टश्रुति-
रर्थहानिरिष्टैर्वियोगो महती च भीतिः । स्याद्वि-
ग्रहाप्तिर्मरणञ्च दीप्ते त्वेकादिना चेत् कृतसप्तकेन ।
ऐश्यां निनादे प्रथमेऽर्थलाभो भवेद्द्वितीये निधिदर्शनञ्च ।
कन्यां तृतीये लभते चतुर्थे त्वध्वागमं पञ्चमकेऽथ
सिद्धिम् । षष्ठे रवे कुप्यति भूमिनाथा भोः सप्तमे स्याद्विफ-
लोऽष्टयस्तु । त्रासोऽग्निभागे प्रथमे द्वितीये नराधिपः
कुप्यति भीस्तृतीये । घातश्चतुर्थे नगरस्य शब्दे शिवा-
कृते पञ्चमके च युद्धम् । वदन्ति तज्ज्ञाः कलहश्च षष्ठे
भीः सप्तमे स्याद्विफलोऽष्टमस्तु । आद्ये शुभ स्यादशुभ
द्वितीये याम्ये महाव्याधिभयं तृतीये । स्वरे चतुर्थे
स्वजनागमः स्यात् पुत्रा भवेत् पञ्चसु फेत्कृतेषु । जायेत
कन्या रटिते च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
ग्रामस्य घातो दिशि राक्षसानामाद्ये द्वितीयेऽपि च
गोकुलस्य । मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थे-
ऽपि च पञ्चमेऽत्र । चौराद्भयं राजभयञ्च षष्ठे भीः
सप्तमे स्याद्विफलोऽष्टमस्तु । शब्दे शिवाया वरुणस्य भागे
आद्ये भयं हानिरथ द्वितीये । स्याद्राजदूतागमनं तृतीये
वादश्चतुर्थे खलु चौरभीतिः । स्यात् पञ्चमे राजभयञ्च
षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । वायव्यभागे
भयमेकशब्दे भयातिरेको भवति द्वितीये । वृष्टिस्तृतीये
भहती चतुर्थे मेधागमे वर्षति पञ्चमे च । क्रोधं
विघत्ते नृपतेश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
दिश्युत्तरस्यां बिहिते विरावे म्रियेत कश्चित् प्रथमे द्वि-
तीये । महाभयं, विप्रबधस्तृतीये क्षत्रं चतुर्थे खलु
हन्यते च । विट् पञ्चमे षष्ठरवे च शूद्रा भीः सप्तमे स्या-
द्विफलोऽष्टमस्तु । राहोस्तथा दर्शनमाद्यशब्दे केतो-
र्द्वितीये च तथोत्तरेण । उल्कापपातस्त्रिषु दुर्दिनञ्च
चतुर्षु भद्रं खलु पञ्चमे च । सङ्गो भवेद्वैरिजनैश्च
षष्ठे भोः सप्तमे स्याद्विफलोऽष्टमस्तु । आद्ये भवेद्दुर्दि-
नमोशदेशे वृष्टिर्द्वितीये च रवे शिवायाः । वातस्तृतीये
त्वशनिश्चतुर्थे म्रियेत कश्चित् खलु पञ्चमे च । लभेत
पृष्ठ ५११८
पृथ्वीं निनदे च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु”
“क्षेमलाभपुनरागमनानां निश्चयं यमधिगम्य विशङ्कः ।
येन याति पथिकः परदेश तं शिवारुतमथ प्रथयामः । यं
यं देशं गन्तुमभ्युद्यतानां पुंसां शब्दानुच्चरन्ती शृगाली ।
शान्तायां सा सिद्धये वाञ्छितानां दीप्तायान्तु स्यादभी-
ष्टक्षयाय । प्राचीं दिशं सम्मुखभानुविम्बं प्रतिष्ठमानस्य
नरस्य यस्य । शब्दं सृगाली पुरतः करोति बन्धं बधं
वा प्रकरोति तस्य । प्राचीदिगीशाभिमुखस्य पुंसः
व्रस्थानकामस्य शिवा सशब्दा । भियेऽर्थनाशाथ च द
क्षिणा स्याद्वामा पुनर्वाञ्छितकार्य्यसिद्ध्यै । प्रत्यर्कमाशां
चलितस्य पूर्वां शिवा विरावं पुरुषस्य यस्य । करोति
पृष्ठे प्रकरोति तस्य सर्वप्रकारामभिलाषसिद्धिम् । प्रस्था-
यिनो यस्य च दक्षिणाशां शिवा रतं मुञ्चति दक्षिणेन ।
आदित्यमुक्ता यदि नो तदानीं ध्रुवं भवेत्तस्य महीपति-
त्वम् । वैवस्वताशाचलितस्य यस्य दिवाकरस्तिष्ठति
दक्षिणेन । शिवा च वामा कुरुते विरावं सम्पद्यते तस्य
समस्तमिष्टम् । पुमान् यदा याम्यककुप्प्रवासी
करोति शब्दं पुरतः शृगाली । आस्ते विवस्नानपि
सम्भुखश्चेत् भवेत् तदानीमचिरेण मृत्युः । नरस्य
याम्यां ककुभं यियासोः शृगालभार्य्या यदि पृष्ठभामे ।
फेत्कारमामुञ्चति मानवस्य मृत्युश्च पुत्रेण भवत्यवश्यम् ।
दिशं प्रतीचीं व्रजतः शृगाली नरस्य यस्याभिमुखी
विरौति । शान्तास्थिता शान्तफलादात्री दीप्तास्थिता दीप्त-
फलं तनोति । प्राचेतसीं सञ्चलितस्य काष्ठां शृगालिका
जल्पति दक्षिणेन । यदा वदानीं सुबहूननर्थान् करोति
चार्थानपि हन्ति पुंसः । दिशं प्रचेतःपरिपाल्यमानां
नरस्य यस्य व्रजतः शृगाली । वामा विरार्व प्रकरोति
शान्ता भवन्त्यभिप्रेतफलानि तस्य । यो वारुणीं याति
दिशं भनुष्यः शृण्वन् शिवायारटितानि पृष्ठे । गतस्य
तस्याशु हृताशभीतिरसंशयं स्यात् द्रविणक्षयश्च । यस्यो-
त्तराशां चलितस्य पुंसः प्राच्यां शिवा मुञ्चति फेत्कृतानि ।
भानुः प्रतीच्यां विहितस्थितिश्चेदपेक्षितं सिध्यति
तत्क्षणेन । मुञ्चत्युदीचीं चलितस्य पृष्ठे शिवा विरावं
पुरुषस्य यस्य । आस्ते च मध्ये नभसो विवस्वांस्तस्यार्थ-
हानिर्मरणं प्रदिष्टम् । कुवेरकाष्ठां प्रति यः प्रयाति
ज्वालामुखी चाभिमुखी विरौति । तस्याध्वगस्याभि-
मत्यर्थसिद्धिर्भवेच्च सम्पत् पुनरागमश्च । तिष्ठति तीव्रकरो-
दिशि यस्यां फेत् कुरुते यदि तत्र शृगाली । तद् व्रजतः
पथिकस्य भवेतां निश्चयतो धनजीवितनाशौ । दक्षिणतः
प्रथमं यदि पश्चात् वामगता पथिकस्य शृगाली । फेत्
कुरुते कुरुते तदवश्यं क्षेमधनाप्तिगृहागमनानि ।
अथास्य शान्तां ककुभं नरस्य वामा शृगाली यदि वा
रटन्ती । तदार्थलाभं वितरत्यवश्यमर्थक्षयं दक्षिणती
रटन्ती । वामा प्रदीप्ते ककुभः प्रदेशेऽलाभं तथानर्थमुपा-
दिशन्ति । शिवा रटन्ती पथि दक्षिणा तु क्षिपत्यनर्थानथ-
सङ्कटेषु । शान्ते दिगन्ते यदि वा प्रदीप्ते पृष्ठे प्रयाणे
प्रतिषेधयित्री । शब्दायमाना तु शिवा पुरस्तात्
निमज्जयत्यापदगाधसिन्धौ । वामेऽपसव्ये पुरतोऽथ पृष्ठे
पुंसः शिवा जल्पति यत्र तत्र । आयान्ति चौराः प्रथमे
विरावे द्वयोर्भवेत्तस्करदर्शनञ्च । नृपादरोऽर्थागमनं तृतीये
तुर्य्ये क्षतिः पञ्चमकेऽर्थलाभः । वाणिज्यसेवादिफलाय
षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु । हाहारवं मुञ्चति
हृष्टभावा हास्यं तु तस्यास्तदुदाहरन्ति । अग्रेसरा वा
पथि या यियासोः सा द्बिप्रकाराषि मनोरथाप्त्यै ।
नृपस्य यात्रासमये पुरस्तात् प्रायाति चेद्वर्त्मनि वेदयन्ती ।
कुर्य्याच्छिवा वैरिपराभवं तज्जयश्रियञ्चाभिमतं
विदध्यात् । कार्य्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्त-
दिशि प्रदिष्टा । शिवा प्रदीप्ते तु दिशि प्रदेशे समारटन्ती
महते भयाय । भवोद्गमे दीप्तदिशि प्रदीप्तैर्नादैर्नृणां
हन्ति भयानि देवी । महान्ति सर्वाण्यपि, शान्तनादा
शान्तस्थिता सर्वभयप्रदात्री । यदा च नद्युत्तरगा नराणां
शब्दं शृनाली कुरुते कदाचित् । तटद्वये तत्परिरक्षणीयं
महद्भथं भावि जलेचरेभ्यः” । “स्थानस्पितानामपि
योगभाजां नैमित्तिकानासुपदिश्यते तु । शिवाविरावैरशिवं
शिवञ्च सुनिश्चितार्थं मुनिसम्मतेन । करोति फे फे इति
सर्वदिक्षु यदा तदा स्थानविघातयुद्धे । शिवो विधत्ते
क्षुधिता त्वसंख्यान् रौद्रान् स्वरान् मुञ्चति चेदुपेक्षाम् ।
निरन्तरं रौति विदिक्षुदिक्षु समन्दकारुण्यवरातुरा चेत् ।
अपत्यमोहेन यदा शृगाली त्यक्तस्पृहा सा कथितेह
तज्ज्ञैः । स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी
फेत्कुरुतेऽतिरौद्रम् । ग्रामस्य तस्य प्रकरोति नाशं
तस्याथ वा तिष्ठति यस्य मध्ये । ग्रामस्य मध्यं समवाप्य
यस्य ज्वालामुखी मुञ्चति फेत्कृतानि । स शून्यतां
गच्छति निश्चयेन लोकस्य वा स्यादसुखं प्रभूतम् । ग्रामा-
न्तिके सप्तदिनानि यावत् महाभयोत्पादितफेत्कृतानि ।
विरौति चेत्तत् कुरुते शृगालो तद्वासिलोकस्य भयं
पृष्ठ ५११९
प्रभूतम् । मध्यंदिने यावदहानि पञ्च शिवा समीपे
नगरस्य यस्य । विरौति घातं विदधाति तस्य भयञ्च
बह्निप्रभवं प्रभूतम् । पञ्चार्द्धरात्राणि कथञ्चिदेषा क्रूरा-
रवा व्याहरते शृगाली । यस्यान्तिके तं बहवो हठेन
मुष्णन्ति चौरा जनसन्निवेशे । स्थानस्य यस्योपगता
समीपं दिनानि पञ्चोच्चरति प्रभाते । स्वरेण रौद्रेण
शृगालभार्य्या स्यात्तत्र हानिर्महती नराणाम् । सुरक्षित-
स्यापि मनुष्यलक्षैर्ग्रामस्य शीघ्रं हरणं विधत्ते । त्रयं
दिबानां दिवसावसाने शिवारटन्ती परुषस्वरेण । दिक्ष्वा-
रटन्ती सकलासु रौद्रं भ्रमत्यखिन्ना परितः पुरश्चेत् ।
शृगालभार्य्या खलु तद्ब्रवीति युद्धं महत्तत्र महाभि-
घातम् । ज्वालां विमुञ्चत्यतिरौद्रनादा समाकुला
धावति या समन्तात् । कौमारक था जनयत्यकस्मात्
कुर्य्याच्छिवा सा युवराजपातम् । रोमोद्गमं या जनयत्य-
कस्मात् फेइत्यतिक्रूररवा नराणाम् । मूत्रं पुरी-
षन्तु तुरङ्गमाणां सा सर्वदा स्यादशिवा शिवेह ।
तरङ्गिणोरोधसि सौम्यरूपांस्त्रीन् पञ्च वा मुञ्चति
या निनादान् । शिवां शिवां तां नृपतित्वदात्रीं
वन्देत देवीमभिवन्दनीयाम् । श्मशानभूमौ दिनमध्यभागे
मध्ये रजन्याः स्वगृहप्रदेशे । सा रौति तस्यै बलिमर्घ्य-
युक्तं भक्त्या प्रदद्याद् यदि भष्ट्रमिच्छेत् । सर्वेषु कार्येषु
समुद्यतेषु बलिः शिवाया विमियेदनीयः । गृह्णाति
यस्मिन् विषयेऽभ्युपेत्य देवी बलिं जल्पति तत्र सिद्धिम्”
“कथ्यते बलिविधानमिदानीं शाकुनागममतेन शिवायाः ।
दिव्यमन्त्रबलिबाधितदोषं साधिताखिलसमुद्यतकार्यम् ।
शून्यालयं रुद्रगृहं श्मशानं चतुष्पथं मातृगृहं
जलान्तम् । बन्ध्यावनिश्चत्वरमेवमाद्या वलिप्रदानाय
मताः प्रदेशाः । तेषाञ्च मध्यादुचितप्रदेशे विशो-
धितं मण्डलिकं विदध्यात् । पौराणिकश्लोकपरी-
क्षितायाः सगृह्य गोर्गोमयमन्तरीक्षात् । अत्यन्तजीर्ण-
देहाया बन्ध्यायाश्च विशेषतः । रोगार्त्तनवसूताया न
गोर्गोमयमाहरेत् । तस्मिन् विचित्रं विततं विदध्यात्
पिष्टाक्तकेनाष्टदलं सरोजम् । संपूजयेत् तत्र सुराधि-
पादीन् क्रमेण सर्वानपि लोकपालान् । मध्ये सुतैः
पञ्चभिरभ्युपेता शिवान्विता पिष्टमयी प्रसन्ना । पूज्या
शिवा तुष्यति भक्तियोगात् प्रभूतपुष्पाक्षतधूपदीपैः ।
साज्यगुड़ौदनमाषकुलत्थं र्यावकपूपलिकामिषमद्यैः । संभृ-
तिरत्र नराशनमात्रं बुद्धिमता बलिकर्मणि कार्य्या ।
प्राप्याष्टमीं वामचतुर्दशीं वा संमन्त्र्य मन्त्रेण च सप्त
कृत्वः । बलिं शिवाया निशि निश्चयेन दद्यान्मनुष्यो
यदि भद्रमिच्छेत्” ।

शिवालय न० शिव आलीयतेऽत्र ली--अच् । १ श्मशाने हारा० ।

६ त० । २ रक्ततुलस्यां शब्दर० । ३ महादेवगृहे च पु० ।

शिवालु पु० शिवायालति अल--उन् । शृगाले राजनि० ।

शिवास्मृति स्त्री शिवायाः स्मृतिर्यस्याः ५ ब० । जयन्तीवृक्षे

शब्दच० तन्नामोच्चारणे हि जयन्तीनामकदुर्गायाः स्मर-
णमिति तस्यास्तथात्वम् ।

शिवाह्लाद पु० शिवमाह्लादयति आ + ह्लद--णिच्--अण् ।

१ वकवृक्षे राजनि० । ६ त० । २ ततसन्तोषे च ।

शिवाह्वा स्त्री शिवस्येवाह्वा यस्याः । रुद्रजटावृक्षे राजनि० ।

६ त० । २ महादेवाह्लाने च ।

शिवि पु० शि--वि नि० न गुणः । १ हिंस्रपशौ त्रिका० । २

भूर्जवृक्षे ३ उशीनरराजसुते नृपभेदे च मेदि० ।

शिविका स्त्री शिवं करोति शिव + णिच्--ण्वुल् अत इत्त्वम् ।

यानभेदे (डुली) अमरः ।

शिविर न० शो + किरच् वुक् च । कटके सैन्यनिवासस्थाने ।

शिविरलक्षणमुक्तं यथा
“शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् । युक्तद्वादश-
द्वारञ्च सिंहद्वारपुरस्कृतम् । युक्तं चित्रैर्विचित्रैश्च
कृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धैश्च
पुरस्कृतम् । सुलक्षणं चन्द्रवेधं प्राङ्गिणञ्च तथैव च” ।
तत्र विहितनिषिद्धवृक्षादि यथा “आश्रमे नारिकेलश्च
गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्वे पुत्र-
प्रदस्तरुः । सर्वत्र मङ्गलार्हश्च तरुराजी मनोहरः ।
रसालवृक्षः पूर्वस्मिन्नृणां सम्पत्प्रदस्तथा ।
शुभप्रदश्च सर्वत्र सुरकारो! निशामय । बिल्वश्च
पनसश्चैव जम्बीरो बदरी तथा । प्रजाप्रदश्च पूर्वस्मिन्
दक्षिणे धनकस्तथा । सम्पत्प्रदश्च सर्वत्र यतो हि वर्द्धते
गृही । जम्बुवृक्षश्च दाड़िम्बः कदल्याम्रातकस्तथा ।
बन्धुपदश्च पूर्वस्मिन् दक्षिणे मित्रदस्तथा । सर्वत्र
शुभदश्चैव धनपुत्रशुभप्रदः । हर्षप्रदो गुवाकश्च दक्षिणे
पश्चिमे तथा । ईशाने सुखदश्चैव सर्वत्रैव निशामय ।
सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा । अलाबुश्चापि
कुष्माण्डं मायाम्बुश्च सुकामुकः । खर्जुरी कर्कटी
चापि शिविरे मङ्गलप्रदाः । वास्तूकः कारवेल्लश्च वार्त्ता-
कुश्च शुभप्रदाः ॥ लताफद्धञ्च शुभदं सर्वं सर्वत्र निश्चि-
पृष्ठ ५१२०
तम् । प्रशस्तं कथितं कारो! निषिद्धञ्च निशामय ।
वन्यवृक्षा निषिद्धश्च शिविरे नगरेऽपि च । वटो निषिद्धः
शिविरे नित्यं चौरभयं ततः । नगरेषु प्रसिद्धश्च दर्श-
नात् पुण्यदस्तथा । हे कारो! तिन्तिड़ीवृक्षो यत्नात्तं
परिवर्जय । शरेण धनहानिः स्यात् प्रजाहानिर्भवेत्
ध्रुवम् । शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च । न
निषिद्धः प्रसिद्धश्च ग्रामेषु नगरषु च । वृक्षश्च चणका-
दीनां धान्यञ्च मङ्गलप्रदम । ग्रामेषु नगरे चापि
शिविरे च तथैव । इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ।
अशाकश्च शिरीषश्च कदम्बश्च शुभप्रदाः । । कच्ची हरिद्रा
शुभदा शुभदश्चार्द्रकस्तथा । हरीतकी च शुभदा ग्रा-
मेषु नगरेषु च । न वाठ्यां भद्रदा नित्यं तथा
चामलकी ध्रुवम् । गजानामस्थि शुभदमश्वानाञ्च तथैव च ।
कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् । न
शुभप्रदमन्येषामुच्छन्नकारणं परम् । वानराणां
नराणाञ्च गर्दभानां गवामपि । कुक्कुराणां शृगालानां
मार्ज्जाराणामभद्रकम् । भेटकानां शूकराणां सर्वेषाञ्चा
शुभप्रदम् । ईशाने चापि पूर्वस्मिन् पश्चिमे च तथोत्तरे ।
शिविरस्य जलं भद्रमन्यत्राशुभमेव च । दीर्घे प्रस्थे
समानञ्च न कुर्य्यान्मन्दिरं बुधः । चतुरस्रे गृहे कारो!
गृहिणां धननाशनम् । दीर्घप्रस्थः परिमितो नेत्राङ्के-
नापि संहृतः । शून्येन रहितं भद्रं शून्यं शून्यप्रदं
नृणाम । प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयं तथा ।
गृहिर्णा शुभदं द्वारं प्राकारस्य गृहस्य च । न मध्य-
देशे कर्त्तव्य किञ्चिन्न्यूनाधिके शुभम् । चतुरस्रं चन्द्र-
वेधं शिविरं मङ्गलप्रदम् । अभद्रं सूर्य्यवेधञ्च प्राङ्गणञ्च
तथैव च । शिविराभ्यन्तरे भद्रा स्थापिता तुलसी
नृणाम् । धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा ।
प्रभात तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालती
यूथिका कुन्दोमाधवी केतकी तथा । नागेश्वरं मल्लिका
च काञ्चनं वकुलं शुभम् । अपराजिता च शुभदा तेषा-
मुद्यानमीप्सितम् । पूर्वे च दक्षिणे चैव शुभदं नात्र-
संशयः । ऊर्द्ध्वं षोड़शहस्तभ्यो नैवं कुर्य्याद् गृहं
गृही । ऊर्द्ध्वं विशतिहस्तेभ्यः प्राकारं न
शुभप्रदम् । सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ।
वाटीमूले ग्राममध्ये न कुर्य्यात् स्थायिनं बुधः । ब्राह्मणं
क्षत्रियं वैश्यं सच्छूद्रं गणकं शुभम् । भट्टं वैद्यं पुष्प-
कारं स्थापयेत् शिविरान्तिके! प्रस्थे च परिखामानं
शतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरं
दशहस्तकम् । सङ्केतपूर्वकञ्चैव परिस्वाद्वारमीप्सितम् ।
शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च । शाल्मलीनां
तिन्तिड़ीनां हिन्तालानां तथैव च । निम्बानां सिन्धु-
वाराणां उड़म्बराणामभद्रकम् । धुस्तूराणां वटानाञ्चा-
प्येरण्डानामवाञ्छितम् । एतेषामतिरिक्तानां शिविरे
काष्ठमीप्सितम् । वृक्षञ्च वज्रहेतकं दूरतो वर्जयेद्
बुधः । पुत्रदारधनं हन्यादित्याह कसलोद्भवः” ब्रह्म-
वै० ख० १०२ अ० ।

शिवेष्ट पु० ६ त० । १ वकवृक्षे २ दूर्वायां स्त्री राजनि० ।

३ महादेवप्रिये त्रि० ।

शिवीरथ शिवेर्भुर्जवृक्षस्य ईः शोभा यत्र तादृशो रथः । याप्ययाने हारा० ।

शिशिर न० शश--किरच् नि० । १ हिमे माघफाल्गुनमास-

द्वयात्मके २ ऋतुभेदे अमरः । तत्र ऋतौ वर्ण्यादिवस्तूनि
“करीषः धूमः कुन्दः पद्मदाहः शिशिरोत्कर्षः” कविक० ल०
३ शीतले स्पर्शे च न० ३ तद्वति त्रि० अमरः ।

शिशु पु० शो--कु सन्वद्भावः द्वित्वम् । १ बालके अमरः २ स्वल्पे च ।

शिशुक पुंस्त्री० शिशुरिव इवार्थे कन् । १ जलजन्तुभेदे (शुशुक)

राजानि० स्त्रियां ङीष् । २ बालके मेदि० । ३ वृक्षभेदे हेमच०
“जातमात्रः शिशुस्तावत् यावदष्टौ समा वयः । स हि
गर्भसमोज्ञेयो व्यक्तिमात्रप्रदर्शकः । भक्ष्याभक्ष्ये तथा
पेये वाच्यावाच्ये तथाऽनृते । तस्मिन् काले न दोषः
स्यात् स यावन्नोपनीयते” मनुः ।

शिशुगन्धा स्त्री शिशुः खल्पो गन्धा यस्याः । मल्लिकाभेदे शब्दमा० ।

शिशुचान्द्रायण न० “चतुरः प्रातरश्नीयात् पिण्डान् विप्रः

समाहितः । चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं
स्मृतम्” मनूक्ते व्रते ।

शिशुत्व न० ६ त० । शिशोर्भावः त्व । बाल्ये तल् । शिशुताऽप्यत्र स्त्री ।

शिशुपाल पु० चेदिदेशीयराजभेदे दमघोषात्मजे त्रिका० ।

शिशुपालहन् पु० शिशुपालं हतवान् हन--भूते क्विप् ।

श्रीकृष्णे हेमच० ।

शिशुमार पुंस्त्री० शिशुं मारयति मृ--णिच । १ जलजन्तुभेदे

अमरः स्त्रियां ङीष् । गगनस्थे २ ताराचक्रभेदे च
“शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्नि
वेशञ्च तस्यापि शृणुष्व मुनिसत्तम! । यदह्ना कुरुते पापं
दृष्ट्वा तन्निशि मुच्यते । तावत्यश्चैव तारास्ताः शिशुमारा-
श्रिता दिवि । तावन्त्येव तु वर्षाणि जीवन्यभ्यधिकानि
तु । उत्तानपादस्तस्याथ विज्ञेयोऽप्युत्तरी हलः । यज्ञो-
पृष्ठ ५१२१
ऽधरश्च विज्ञेयो धर्मो मुर्द्धानमाश्रितः । हृदि नारायण-
श्चास्ते अश्विनौ पूर्वपादयोः । वरुणश्चार्य्यमा चैव
पश्चिमे तस्य सक्थिनी । शिश्नं संवत्सरस्तस्य मित्रो-
ऽपानं समाश्रितः । पुच्छेऽग्निश्च महेन्द्रश्च कश्यपोऽथ
ततो ध्रुवः । तारकाः शिशुमारस्य नास्तमेति चतुष्टयम्”
विष्णुपु० २ अं १२ अ० । भाग० २३ अ० अन्यथोक्तं यथा
“केचिदेतत् ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो
वासुदेवस्य योगधारणायामनुवणयन्ति । यस्य पुच्छाग्रे-
ऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितः तस्य
लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति । पुच्छमूले
धाता विधाता च कट्यां सप्तर्षयः यस्य दक्षिणावर्त्त-
कुण्डलीभूतशरीरस्य यान्युद्गमनानि दक्षिणपार्श्वे नक्ष-
त्राणि उपकल्पयन्ति । दक्षिणानि तु सव्ये यथा शिशु-
मारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यव-
यवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाश
गङ्गा चोदरतः । पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्यो-
रार्द्राश्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तरा-
षाढ़े दक्षिणवामपार्श्वबध्रिषु युञ्जीत । तथैव भृगशीर्षा-
दीन्युद्गमनानि दक्षिपार्श्वे प्रातिलोम्येन प्रतियुञ्जीत ।
शतभिषाज्येष्ठे स्कन्घयोर्दक्षिणवामयोर्न्यसेत् । उत्तरा-
हनावगस्त्यः अधराहनौ यमः मुख्ये चाङ्गारकः
शनैश्वर उपस्थे वृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारा-
यणो मनसि चन्द्रोनाभ्यामुशनास्तनयोरश्विनौ बुधः
प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे
तारागणाः । एतदुहैव भगवतो विष्णोः सर्वदेवतामयं
रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतोनिरोक्षमाण
उपतिष्ठेर्त” ।

शिशुवाह पुंस्त्री० शिशुं वहति वह--ण्वुल् । वनच्छागे हेमच०

स्त्रियां ङीष् । शिशुर्वाह्योऽस्य । शिशुवाह्य तत्रार्थे त्रिका०

शिश्न पु० शश--नक् नि० । मेढ्रे पुंचिह्नभेदे अमरः ।

शिश्विदान त्रि० श्विद--कानच् द्वित्वम् । पापकारके अमरः

शिष बधे भ्वा० पर० सक० सेट् । शेषति अशेषीत् ।

शिष परिशेषीकरणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

शेषयति ते शेषति अशिशीषत् त अशेषीत् ।

शिष विशेषे रुधा० पर० सक० अनिट् । शिनष्टि ऌदितशिषत् शेष्टा ।

शिष्ट त्रि० शास--क्त शिष--क्त वा । १ शान्ते २ वेदबाक्ये विश्वा-

सयुते ३ सुबोधे ४ धीरे च “न पाणिपादचपलो न नेत्रच-
पलो मुनिः । न च वागङ्गचपल इति शिष्टलस्य क्षणम्”
भा०आश्व० “धर्मो नातिगतोयैस्तु वेदः स परिवृंहितः ।
ते शिष्टा ब्रह्मणा प्रोक्ता नित्यमात्मगुणान्विताः” कूर्म०
उप० २४ अ० । “विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रकी-
र्त्त्यते । मन्वन्तरेषु ये शिष्टाः इह तिष्ठन्ति धार्मिकाः ।
मनुः सप्तर्षयश्चैव लोकसन्तानकारणात् । तिष्ठन्तीह च
धर्मार्थं तान् शिष्टान् परिचक्षते । तैः शिष्टैः स्थापितो
धर्मः स्थाप्यते वै युगे युगे” मत्स्यपु० १२० अ० । ५
कृतशासने ६ अवशिष्टे च ।

शिष्टाचार पु० शिष्टानामाचारः । सह्यवहारे “ततः स्मार्त्तः

स्मृतो धर्मो वर्णाश्रमविभागशः । एवं वै विविधो धर्मः
शिष्टाचारः स उच्यते । त्रयी वार्त्ता दण्डनीतिः प्रजा
वर्णाश्रमेज्यया । शिष्टैराचर्य्यते यस्मात् शिष्टाचारः
स शाश्वतः । दानं सत्यं तपोऽलोभो विद्येज्या पूजनं
दमः । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ।
शिष्टमस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्वेषु
शिष्टाचारस्ततः स्मृतः । श्रुतिस्मृतिभ्यां विहितो धर्म्मो
वर्णाश्रमात्मकः । शिष्टाचारविवृद्धस्तु धर्मः स साधुस-
म्मतः” मत्स्यपु० १२५ अ० । “आचारश्चैव साधूनामिति”
मनुना तस्य धर्मे प्रामाण्यमुक्तं स च वेदाविरुद्ध एव
प्रमाणम् श्रुतिस्मृत्योर्भिन्नविषयत्वे सदाचारेण तत्र धर्म-
निर्णयः । श्रुतिविराधे स्मृतेरप्रामाण्यवत् स्मृतिविरोधे
सदाचारस्य न धर्मनिर्णायकत्वम् । तेन दाक्षिणात्यानां
मातुलकन्याविवाहस्य शिष्टैराचर्य्यमाणत्वेऽपि न प्रमा-
णता । तदेतत् “विरोधे त्वनपेक्षं स्यादसति ह्यनुसानं
जैमि० सूत्रेण निर्णीतम् । वशिष्ठेनापि “तदभावे
शिष्टाचारः प्रमाणम्” इत्युक्तम् । ततश्च शिष्टाचारेण
सूलस्मृतिरनुमीयते यथा होलकाद्याचारात् । ततः
स्मृत्या मूलश्रुतिरनुयातव्येति अधिकरणमाला ।
अतएव अविगोतशिष्टाचारपरम्पराप्राप्तं ग्रन्थादौ मङ्ग-
लाचरणं मङ्गलवादादौ व्यवस्थापितम् ।

शिष्टि स्त्री शास--क्तिन् । १ आज्ञायां २ शासने अमरः ।

३ ताड़ने च “शिष्यशिष्टिरबधेन” स्मृतिः ।

शिष्य त्रि० शास--क्यप् । १ शिक्षणोये २ छात्रे अमरः ३

उपदेश्ये च । शिष्यलक्षणादि तन्त्रसा० उक्तं यथा
“शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणे
क्षमः । समर्थश्च कुलीनश्च प्राज्ञः सच्चरितो धनी ।
एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा । गुरुता शिष्यता
वापि तयोर्वत्सरवासतः” तथा चोक्तं सारसंग्रहे “सद्०
पृष्ठ ५१२२
गुरुः स्वाश्रितं शिष्यं वर्षमात्रं प्रतीक्षयेत् । वर्षैकेन
भवेद्योग्यो विप्रोगुणसमन्वितः । वर्षद्वयेन राजन्यो
वैश्यस्तु वत्सरैस्त्रिभिः । चतुर्भिर्वत्सरैः शूद्रः कथिता
शिष्ययोग्यता” तत्रैव “राज्ञि चामात्यजो दोषः पत्नी
पापं स्वभर्त्तरि । तथा शिष्यार्जितं पापं गुरुः प्राप्नोति
निश्चितम्” देव्यागमे शिववाक्यं “गुरुशय्यासनं यानं
पादुकोपानहं पीठम् । स्नानोदकं तथा छायां लङ्घयेन्न
कदाचन । गुरोरग्रे पृथक् पूजामौद्धत्यञ्च विवर्जयेत् ।
दीक्षां व्याख्यां प्रभुत्वञ्च गुरोरग्रे परित्यजेत्” ।
अथ निषिद्धशिष्याः अगस्त्यसंहितायामुक्ता यथा
“अलस्रा मलिनाः क्लिन्नाः दाम्भिकाः कृपणास्तथा ।
दरिद्रा रोगिणो रुष्टा रागिणो भोगलालसाः ।
असूयामत्सरग्रस्तास्तथा परुषवादिनः । अन्यायोपा-
र्जितधनाः परदाररताश्च ये । भ्रष्टव्रताश्च ये कष्टवृत्तयः
पिशुनाः खलाः । बह्वाशिनः क्रूरचेष्टा दुरात्मानश्च
निन्दिताः । इत्येवमादयोऽप्यन्ये पापिष्ठाः पुरुषाधमाः ।
एवंभूताः परित्यज्या शिष्यत्वेनोपकल्पिताः । पापिने
क्रूरचेष्टाय कृपणाय तथैव च । दीनायाचारशून्याय
मन्त्रद्वेषकराय च । मिन्दकाय च मूर्खाय तीर्थद्वेष-
पराय च । भक्तिहीनाय देवेशि! न देया मलिनस्य च”
“आचारे शासयेद्यस्तु स आचार्य्य उदाहृतः । य
आचार्व्यपराधीनस्तद्वाक्यं धार्य्यते हृदि । शासने
स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः । एवं लक्षणसंयुक्तं
शिष्यं सर्वगुणान्वितम् । अध्यापयेद्विधानेन मन्त्ररत्न-
मनुत्तमम्” पद्मपु० उ० २५ अ० ।

शि(सि)ह्ल पु० सिह--लक् नि० सस्य शो वा । (शिलारस)

गन्धदूव्यभेदे शब्दच० । स्वार्थे क । तत्रैव अमरः ।

शी शयने अदा० आत्म० अक० सेट् । शेते शेरते अशयिष्ट ।

ञीत् वर्त्तमाने क्त शयितः । शयित्वा ।

शी स्त्री शी--भावे क्विप् । १ शयने २ शान्तौ च शब्दर० ।

शीक मेके सर्पणे च भ्वा० आत्म० सक० सेट् । शीकते

अशीकिष्ट । ऋदित् चङि न ह्रस्वः ।

शीक आमर्षे सेके च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

शीकयति ते शीकति अशीशिकत्--त अशीकीत् ।

शीकर न० शीक--अरन् । १ सरलद्रवे २ वायौ पु० मेदि० ।

३ जलकणे अमरः ।

शीघ्र न० शिघि--रक् पृषो० । १ विलम्बाभावे २ त्वरिते च

३ तद्वति त्रि० अमरः । ४ दन्तीवृक्षे स्त्री राजनि० ।

शीघ्रचेतन पुंस्त्री० शीघ्रा चेतना यस्य । १ कुक्कुरे शब्दमा०

स्त्रियां ङीष् । २ द्रुतचेतनायुते त्रि० ५ ब० । ४ अर्कवृक्षे
पु० । ५ अतिबलायां स्त्री राजनि० ।

शीघ्रजन्मन् पु० शीघ्रं जन्म यस्य । करञ्जभेदे (काँटाकरमचा) शब्दच० ।

शीघ्रपुष्प पु० शीघ्रं पुष्पं यस्य । वकवृक्षे राजनि० ।

शीघ्रवेधिन् पु० शीघ्र विधति विध--णिनि । शीघ्रलक्ष्य-

वेधनकर्त्तरि हेमच० ।

शीत न० श्यै--क्त स्पर्शे सम्प्र० । १ शीतले स्पर्शे २ जले शब्दमा०

३ हिमे च अमरः ४ त्वचे राजनि० ५ बहुवारवृक्षे ६
वेतसवृक्षे च पु० अमरः । ७ असनपर्ण्यां शब्दर० । ८ पर्षटे
९ निम्बे १० कर्पूरे राजनि० । ११ हिमर्त्तौ च पु० १२
शीतस्पर्शयुते त्रि० अमरः । १३ अलसे त्रि० मेदि० । १४
क्वथिते शब्दच० ।

शीतक पु० शीतमिव करोति कृ--ड । १ दीर्घसूत्रिणि

आलस्यहेतुना कार्य्याकरणाय शीतवाधामभिनोय २ सुस्थिते
मेदि० । शीत + स्वार्थे क । ३ शीतपदार्थे ४ शीतकाले
मेदि० ५ वृश्चिके शब्दमा० ६ असनपर्ण्यां शब्दर० ।

शीतकर पु० शीतः शीतलः करो यस्य । १ चन्द्रे २ कर्पूरे च

शीतकिरणादयोऽप्यत्र त्रि० । शीत करोति कृ--अच् ।
३ शीतकारके ।

शीतकाल पु० ६ त० । हिमर्त्तौ मार्गग्रौषमासद्वयात्मके काले

शीतकुम्भ पु० शीतं स्कुभ्नाति स्कुन्भ--अच् नि० । १ करवीरे

रत्नमा० । २ जलजवृक्षभेदे स्त्री राजनि० गौरा० ङीष् ।

शीतकृच्छ्र पु० “त्र्यहं शीतं पिबेत् तोयं त्र्यहं शीतं पयः

पिबेत् । त्र्यहं शीतं घृतं पीत्वा वायुभक्षपरस्त्र्यहम्”
यमोक्ते व्रते ।

शीतक्षार न० कर्म० । श्वेतटङ्कणे राजनि० ।

शीतगन्ध न० शीतः शीतलः गन्धो यस्य । श्वेतचन्दने राजनि०

शीतगु पु० शीता गावः किरणाः यस्य । १ चन्द्रे २ कर्पूरे च

शीतचम्पक पु० शीतश्चम्पक इव । १ दर्पणे २ प्रदीपे च मेदि०

शीतपर्णी स्त्री शीत पर्णं यस्याः ङीप् । अर्कपर्णिकायां

रत्नमा० ।

शीतपल्लवा स्त्री शीतः पल्लवो यस्याः । भूमिजम्बां रत्नमा०

शीतपाकिनी स्त्री शीते पाकोऽस्त्यस्याः इनि ङीप् ।

काकोल्यां शब्दच० ।

शीतपाकी स्त्री शीतेन पाको यस्याः ङीप् । १ वाट्यालके

शब्द च० । २ काकोल्यां राजनि० ।

शीतपुष्प पु० शीतं शीतवीर्य्यकरं पुष्पं यस्याः । १ शिरीषवृक्षे

राजनि० २ अतिबलायां स्त्री टाप् । शैलेये न० अर्क-
वृक्षे पु० राजनि० ।
पृष्ठ ५१२३

शीतप्रभ पु० शीतस्य हिमस्येव प्रभा यस्य । कर्पूरे राजनि०

शीतप्रिय पु० ६ त० । पर्पटे राजनि० ।

शीतफल पु० शीतं शीतवीर्यकरं फलमस्य । १ उदुम्बरे २ शेलौ च राजनि० ।

शीतबला स्त्री शीतं बलं वीर्य्यं यस्याः ५ ब० । महासभ-

ङ्गायां राजनि० ।

शीतभानु पु० शीताः शीतलाभानयोऽस्य । १ चन्द्रे २ कर्पूरे च शब्दर० ।

शीतभीरु स्त्री ५ त० । १ मल्लिकायाम् अमरः । २ शीतभीते त्रि०

शीतमञ्जरी स्त्री शीतकाले मञ्जरी यस्याः न कप् । शेफा०

लिकायां राजनि० ।

शीतमयूख पु० शीता मयूखा यस्य । १ चन्द्रे २ कर्पूरे च

मेदि० । शीतमरीच्यादयोऽप्यत्र शब्दर० ।

शीतमूलक न० शीतं शीतवीर्यकरं मूलनस्य कप् । १ उशीरे

(वेणारषूल) राजनि० । २ शीतलमूलयुते त्रि० ।

शीतरश्मि पु० शीतारश्मयोऽस्य । १ चन्द्रे २ कर्पूरे च ज्यो० त

शीतल पु० शीतं लाति ला--क शीतमस्त्यस्य लच् वा । १ शी०

तस्पर्शे २ तद्वति त्रि० । ३ मकयोद्भवे चन्दने न० ४ शैलेये-
५ पुष्पकासीसे च मेदि० । ६ पद्मके ७ मौक्तिके राजनि० ।
८ वीरणमूले न० शब्दच० । ९ असनपर्स्याम् अमरः । १० ब
हुवारवृक्षे ११ चत्पके १२ राले १३ चन्द्रे १४ कर्पूरे
पु० राजनि० ।

शीतलक न० शीतलमिव इवार्थे कन् । १ श्वेतोत्पले २ मरुवके पु० राजनि० ।

शीतलच्छद पु० शीतलः शीतलस्पर्शवान् छदोऽख । १ चम्पके-

राजनि० । कर्म० । २ शीतले पत्त्रे पु० ।

शीतलजल न० शीतलं जलं यस्मात् ५ ब० । १ उत्पले

राजनि० । कर्म० । २ शीतले वारिणि न० ।

शीतलवातक पु० शीतलोवातो धातुभेदो यस्मात् कप् ।

असनपर्ण्यां शब्दच० । तत्सेवने हि वायोः शीतलता ।

शीतला स्त्री १ देवीभेदे “नमामि शीतसां देवीं रासभस्यां

दिगम्बरीम् । मार्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम्”
स्कन्दपु० । सा च विस्फोटकभेदनाशिनी । २ जलजवृक्ष-
भेदे रत्नमा० तत्र ङीप् । ३ कुटुम्बिनीवृक्षे ४
आरामशीतलायां ५ बालुकायां स्त्री राजनि० टाप् ।

शीतवल्क पु० शीतः शीतकरः बल्कोऽस्य । उदुम्बुरे राजनि०

शीतवीर्य्यक पु० शीतं शीतलकर वीर्यं यस्मात् ५ ब० । कप् ।

१ प्लक्षवृक्षे राजनि० । २ शीतलवीर्य्यकरे त्रि० ।

शीतशिव न० शीतं शीतलमपि शिवम् । १ सैन्धवलवणै २ शैले-

यनामगन्धद्रव्ये अमरः । २ मिश्रेकायां ४ शमीवृक्षे च स्त्री
राजनि० ५ सक्तुफलवृक्षे मेदि० ६ मधुरिकायां पु० अमरः ।

शीतसह पु० शीतं सहते सह--अच् । १ पीलुवृक्षे शब्दच० ।

२ नीलसिन्धुवारे ३ बासन्त्यां स्त्री राजनि० टाप् ।

शीता स्त्री श्यै--क्त सम्प्र० । १ लाङ्गलपद्धतौ भरतः २

रामपत्न्यां शब्दच० ३ अतिबलायां ४ कुटुम्बिन्यां ५ दूर्वाया
६ शिल्पिकातृणे राजनि० ।

शीतांशु पु० शीताः अंशवो यस्य । १ चन्द्रे २ कर्पूरे च राजनि

शीताङ्गी स्त्री शीतमङ्गमस्याः ङीष् । १ हंसपदीवृक्षे

राजनि० २ शीतलदेहयुते त्रि० स्त्रियां ङीष् ।

शीताद पु० शीतमादत्ते आ + दा--क । दन्तमूलगते रोगभेदे

दन्तरोगशब्दे ३४६६ पृ० दृश्यम् ।

शीतार्त्त त्रि० शीतेन ऋतः । शीतालौ जटा० ।

शीतालु त्रि० शीत + अस्त्यर्थे आलुच् । शीतबाधायुक्ते जटा० ।

शीतावला स्त्री शीतमावलयति आ + वल्--णिच्--अण् ।

महासमङ्गायां राजनि० ।

शीताश्मन् पु० कर्म० । चन्द्रकान्तमणौ राजनि० ।

शीतीभाव पु० शीत + अभूततद्भावे च्वि--भू--भावे घञ् । मोक्षे

त्रिका० । तत्र तापत्रयशून्यत्वात्तथात्वम् ।

शीतोत्तम न० शीतमुत्तमं यत्र । जले शब्दच० ।

शीत्कार पु० शीदित्यस्य कारः शीत् + कृ--घञ् । स्त्रीणां रति

काले अव्यक्ते ध्वनिभेदे जटा० ।

शी(सी)त्य त्रि० शी(सी)ताम् अर्हति यत् । हलकृव्ये क्षेत्रादौ अमरः ।

शीधु पु० न० । शी--धुक् । इक्षुरसजाते मद्यभेदे अमरः ।

शीधुगन्ध पु० शीधोरिव गन्धोऽस्य । बकुलवृक्षे त्रिका० ।

शीन त्रि० श्यै--क्त सम्प्र० तस्य नः । १ धनीभूते घृतादौ २ मूर्खे

३ अजगरे च पु० मेदि० ।

शीभ कथने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः । शीभते अशीभिष्ट ।

शीर पुंस्त्री० शी--रक् । अजगरसर्पे शब्दच० स्त्रियां ङीष ।

शीरिन् पु० शीरस्तदाकारोऽस्त्यस्य । हरिदर्भे राजनि० ।

शीर्ण त्रि० शॄ--क्त । १ कृशे २ शुष्कताप्राप्ते च मेदि० । ३ स्थौ

णेयके भावप्र० ।

शीर्णपत्त्र पु० शीर्णं पत्त्रमस्य । १ कर्णिकारवृक्षे शब्दच० ।

२ निम्बे ३ पट्टिकालोध्रे च राजनि० ४ विशीर्णपत्त्रयुक्ते
त्रि० । कर्म० । ५ विशीर्णे पर्णे न० ।

शीर्णपर्ण पु० शीर्णं पर्णमस्य । १ निम्बे राजनि० २ विशी-

र्णपत्त्रवुक्ते त्रि० कर्म० । ३ विशीर्णे पर्णे न० ।

शीर्णपाद पु० शीर्णः पादोऽस्य नातृशापात् । शनैश्चरे

त्रिका० तत्कथा छायाशब्दे २९८६ पृ० दृश्या । शीर्णा-
ङ्घ्रिप्रभृतयोऽप्यत्र ।
पृष्ठ ५१२४

शीर्णपुष्पी स्त्री शीर्णं पुष्पमस्याः ङीप् । अवाक्पुष्प्यां

शब्दच० वा कप् । शीर्णपुष्पिका तत्रैव ।

शीर्णमाला स्त्री शीर्णानां माला यत्र । १ पृश्निपर्ण्यां

शब्दच० । कर्म० । २ विशीर्णे माल्ये ।

शीर्णवृन्त न० शीर्णं वृन्तमस्य । (तरमुज) फलवृक्षे शब्दच० ।

शीर्वि त्रि० श--क्विन् न वलोपः । १ अपकारके २ हिंसके च

सि० कौ० ।

शीर्ष न० शिरस् + पृषो० शीर्षादेशः शृ--क सुक्च वा ।

१ मस्तके अमरः । २ कृष्णागुरुणि राजनि० । शसादौ
शीष्णः शीर्ष्णा इत्यादि ।

शीर्षक न० शीर्षे कायति कै--क । १ शिरस्त्राणे (टोपर)

२ शिरोऽस्थ्नि राजनि० । ३ जयपराजयपत्त्रज्ञाप्यदण्डभेदे
“शीर्षकस्थेऽभियोक्तरि” याज्ञ० स्मृतिः । स्वार्थे क ।
४ मन्तके न० । तेन कायति कै--क । ५ राहुग्रहे शब्दर०

शीर्षच्छेद्य(दिक) त्रि० शीर्षच्छेदमर्हति यत् ठन् वा ।

बध्ये “शीर्षच्छेद्यमतोऽहं त्वाम्” भट्टिः ।

शीर्षण्य पु० शीर्षे बध्यते शीर्ष + यत् शीर्षन्नादेशः । १

शिरस्त्राणे अमरः । शीर्षे भवः यत् । २ विशदकेशे पु० अमरः
३ पिशदकेशयुते त्रि० ।

शीर्षरक्ष न० शीर्षं रक्षति रक्ष--अण् । शिरस्त्राणे हारा० ।

शील समाधौ भ्वा० पर० सक० सेट् । शीलति अशीलीत् ।

“सरमीः परिशीलितुं मया” नैवधम् । ममाधिरत्र
मेवा तत्र सक० प्रवृत्तिभेदो वा तत्र अक० ञीत् वर्त्त-
मानेक्त ।

शील अभ्यासे अतिशायने च अद० चु० उभ० सक० सेट् । शीलयति ते अशिशीलत् त ।

शील न० शील--अच् । १ स्वभावे २ सद्वृत्ते मेदि० ३ चरित्रभेदे

४ अजगरसर्पे पुंस्त्री० शब्द च० स्त्रियां ङीष् । सद्वृत्तशीलञ्च
त्रयादशविधं हारीतोक्तं यथा “ब्रह्मण्यता १ देवपितृभ-
क्तता २ सौम्यता ३ अपरोपतापिता ४ अनसूयता ५ मृदुता ६
अपारुष्य ७ मैवता ८ पियवादिता ९ कृतज्ञता १० शरण्य-
ता ११ कारुण्यता १२ शान्तिश्चेति १३ त्रयोदशविधं शीलम् ।
४ रागद्वेषपरित्यागे मनुटी० गोविन्दराजः । ५ कौण्डि-
न्यमुनिपत्न्यां स्त्री ।

शीलन न० शी--ल्युट् । १ अभ्यासे २ अतिशायने ३ प्रवर्त्तने च

शीलित त्रि० शील--क्त । १ अभ्यस्ते २ चीर्णे च त्रिका० ।

शीवन् पु० शी--क्रनिप् । अजगरसर्पे सि० कौ०

शुक गतौ भ्वा० पर० सक० सेट् । शोकति अशोकीत् ।

शुक न० शुक--क । १ ग्रन्थिपर्णे अमरः । २ वस्त्रे ३ वस्त्राञ्चले

४ शिरस्त्राणे हेमच० । ५ व्याससुते “पराशरकुलोत्पन्नः
शुकोनाम महायशाः । व्यासादरण्यां संभूतो विधूमोऽ-
ग्निरिव ज्वलन्” वह्निपु० । (शुया) इति ख्याते ६ खगभेदे
पु० स्त्री स्त्रियां ङीष् । शुकदर्शनशुभादिकं वसन्तराज-
शाकुने उक्तं यथा “वामः पठन् राजशुकः प्रयाणे शुभं
भवेद् दक्षिणतः प्रवेशे । वनेचराः काष्ठशुकाः प्रयातुः
स्युर्सिद्धिदाः संमुखमापतन्तः” । ७ रावणमन्त्रभेदे ८
शिरीषवृक्षे (शेयालकाँटा) ९ वृक्षे रत्नमा० १० कश्यपत्न्या-
स्ताम्रायाः कन्याभेदे स्त्री ङीष् । “काकीं श्येनीं तथा
भासीं धृतराष्ट्रीं तथा शुकीम् । ताम्रा तु सुषुवे देवी
पञ्चैता लोकविश्रुताः” भा० आ० ६६ अ० ।

शुकच्छद न० शुकस्य छदैव छदो दलमस्य । ग्रन्थिपर्णे जटा०

शुकजिह्वा स्त्री शुकस्य जिह्वेव पर्णमस्याः । (शुयाठ्ॐटी)

वृक्षे रत्नमा० ।

शुकतरु पु० शुकप्रियस्तरुः । शिरीषवृक्षे रत्नमा० । शुकद्रुमादयोऽप्यत्र ।

शुकदेव पु० व्यासपुत्रे मुनिभेदे ।

शुकनामन् पु० शुकः शुकजिह्वा नामास्य मध्यपदलोपः । शुकजिह्वावृक्षे रत्नमा० ।

शुकनाशन पु० शुकं नाशयति नश--णिच्--ल्यु । दद्रुघ्ने

वृक्षे राजनि० ।

शुकनास पु० शुकस्य नासेव पत्त्रमस्याः । श्योणाकवृक्षे

अमरः । २ शुकतुल्यनासायुक्ते त्रि० । ३ कादम्बरीग्रन्थ-
प्रसिद्धे तारापीड़नृपमन्त्रिभेदे पु० ।

शुकपिण्डी पु० शुकानां प्रिया पिण्डीव । शुकशिम्ब्यां शब्दच० ।

शुकपुच्छ पु० शुकस्य पुच्छैव । १ गन्धके हेमच० । ६ त० ।

२ शुकस्य पुच्छे पु० ।

शुकपुष्प पु० शुकैव हरित् पुष्पमस्य । १ शिरीषवृक्षे राजनि० ।

शुकप्रिय पु० ६ त० । १ शिरीषवृक्षे भावप्र० । २ जम्बां स्त्री

राजनि० ।

शुकफल पु० शुकैव फलमस्य । अर्कवृक्षे राजनि० ।

शुकवर्ह न० शुकस्यव वर्होऽस्य । गन्धद्रव्यभेदे (गाँटियाला) शब्दच०

शुकवल्लभ पु० ६ त० । १ दाड़िमवृक्षे राजनि० ६ त० । तस्य

२ प्रिय त्रि० ।

शुकशि(सि)म्बी स्त्री शुकैव शि(सि)म्ब्वी । कपिकच्छां शब्दर० ।

शुकादन पु० शुकैरद्यते अद--ल्युट् । दाड़िमे शब्दच० ।

शुकानना स्त्री शुकस्याननमिव पत्त्रपस्याः । (शुयाट्ॐटी)

वृक्षे रत्नमा० ।
पृष्ठ ५१२५

शुकोदर न० शुकस्योदरमिव । १ तालोशपत्त्रे राजनि० ।

६ त० । २ शुकस्योदरे च ।

शुक्त न० शुच--क्त । १ मांसे शब्दच० । २ काञ्जिके हारा० ।

३ अमिषूतद्रपद्रव्यभेदे “कन्दमूलफलादीनि सस्नेहलवणानि
च । यद्द्रव्ये अभिसूयन्ते तच्छुक्तमभिधीयते” “शक्तं
तीक्ष्णोष्णलवणं पित्तकृत् कटुकं लघु । रूक्षं कृम्युदरा
नाहशाथार्शोविषकुष्ठनुत्” राजनि० “शुक्तं यन्मधुरं
कालवशादम्लत्वमागतम्” इत्युक्ते ४ पदार्थे च ।
शुक्तभक्षणनिषेधो यथा “अपूपाश्च करम्भाश्च धानावटकस-
क्तवः । शाकं मांसमपूपं च सूपं कृशरमेव च । यवागूः
पायसश्चैव यच्चान्यत् स्नेहसम्भवम् । सर्वं पर्युषितं मक्ष्यं
शुक्तञ्च परिवर्जयेत्” यमः । तत्प्रतिसवो यथा “दधि
शुक्तेषु भोक्तव्यं सर्वञ्च दधिसम्भवम्” मनुः । ६ निष्ठूरे
त्रि० मेदि० ७ पूते ८ अम्ले त्रि० विश्वः । ९ श्लिष्टे १० निर्जने
शब्दच० ११ चुक्रिकायां स्त्री शब्दर० ।

शुक्ति स्त्री शुच--क्तिन् । १ जलजन्तुभेदे (झिनुक) राजनि०

२ कपालखण्डे ३ शङ्खे ४ शङ्खनखे ५ नख्याम् ६ अर्शोरोगे
७ अश्वावर्त्तके मेदि० । ८ नेत्ररोगभेदे हेमच० । चक्षूरोग-
शब्दे २८४४ पृ० दृश्यम् । ९ कर्षद्वयपरिमाणे शब्दमा०
१० चतुष्कर्षमाने वैद्यकम् ।

शुक्तिका स्त्री शुक्तिरेव कन् । (झिनुक) १ मुक्तास्फोटे जटा० २ चुक्रियायाञ्च शब्दर० ।

शुक्तिज न० शुक्तौ जायते जन--ड । मुक्तायां हेमच० ।

शुक्तिमत् पु० शुक्तिरस्त्यस्य मतुप् । १ कुलाचलपर्वतभेदे

२ नदीभेदे स्त्री ङीप् ।

शुक्र न० शुच--रक् नि० कुत्वम् । १ मज्जजाते २ चरमधातौ

अमरः । ३ नेत्ररोगभेदे २८४४ पृ० दृश्यम् । ५ दैत्यगुरौ
ग्रहभेदे अमरः । ६ अग्नौ ७ चित्रकवृक्षे ८ ज्यैष्ठमासे
अमरः विष्कम्भादिषु योगेष मध्ये ९ चतुर्विंशे योगे च
पु० ज्यो० त० । धातुभेदशुक्रस्योत्पत्तिकारणस्वरूपादिकं भावप्र०
उक्तं यथा “रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते ।
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः” ।
“ततः स्थूलो भागो रसो मासेनं पुंसां शुक्रं स्त्रीणा-
ञ्चार्त्तवं शुक्रञ्च भवति । उक्तञ्च सुश्रुते “एवं मासेन
रसः शुक्रो भवति” ‘स्त्रीणाञ्चेति’ । चकारात् स्त्रीणा-
मपि शुक्रं भवति । अतएवोक्तं सुश्रुते “योषितोऽपि
स्नवत्येव शुक्रं पुंसः समागमे । तत्र गर्भस्य किञ्चित्तु
करोतीति न चिन्त्यते” । गभस्य शुद्धस्य विकृतस्य तु
गर्मस्य कारणं तदपि भवति । यत उक्तम् “यदा ना-
र्य्यावुपेयातां वृषस्यन्त्यौ कथञ्चन । मुञ्चन्त्यो शुक्रमन्यो-
ऽन्यमनस्थि तत्र जायते” इति । एतेन स्त्रीणां सप्तमो
धातुरार्त्तवं शुक्रमष्टम इति बोधितम् आशयाधिक्यवत् ।
“स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम् । तासा-
मपि बले वर्णं शुक्रं पुष्टिं करोति हि” । एवं रस एव
केदारकुल्यान्यायेन सर्वान् धातून् पूरवन् मासेन
नवदण्डोत्तरेण शुक्रमार्त्तवं च भवतीति सिद्धान्तः । एवं
सति साद्रक्तमिति सङ्गतमेव । ततो मांसन्ततो रक्तो-
त्पत्तेरनन्तरं मांसं जायते रसादेवेत्यर्थः । मांसान्मेदः
प्रजायत इति । मांसादनन्तरं मेदः प्रजायते रसादेवे-
त्यर्थः । मेदसोऽस्थि जायते रसादेवेत्यर्थः । एवं ततो
मज्जा अग्रे शुद्धं शुक्रं सम्भवतीत्यर्थः । रसः शरीरे
त्रिधा सञ्चरति । तथा चोक्तम् “रसः शरीरे शब्दा-
र्चिर्जलसन्तानवत् त्रिधा । सञ्चरत्यनुरूपोऽयं नित्यमेव
हि देहिनाम्” । अस्यायमभिप्रायः । पुरुषास्तीक्ष्णाग्नयो
मध्यमाग्नयो मन्दाग्नयश्च भवन्ति । तत्र तीक्ष्णाग्नीनां
स रसः शब्दसन्तानवत् शीघ्रं सञ्चरति । मध्यमाग्नीना-
मर्चिःसन्तानवन्मघ्यवेगेन चरति मन्दाग्नीनां
जलसन्तानवन्मन्दं चरति । तेन मासेन रसः शुक्रं
भवतीति यदुक्तम् तन्मध्यवगेन चरति । मन्दाग्नीनां
जलमन्तानवन्मन्द चरति । तेन मासेन रसः शुक्रं” भवतीति
रदुक्तं तन्मध्यमाग्नीनधिकृत्योक्तम् । दीप्ताग्नीनान्तु रसः
किञ्चिन्थ्नेन मासेन शुक्रं भवति । मन्दाग्नेः किञ्चिद०
केन मासेनेनि सिद्धान्तः । तर्हि वाजीकरणानामोष-
धीनां किं प्रयोजनमित्याह “वाजीकरिण्य आषध्यः
स्वप्रभावगुणोच्छ्रयात् । विरेचवन्ति ताः शुक्रं विरे-
किद्रव्यवन्नृणाम्” । वाजीकरिण्यः याभिः ओषधीभिः
पुरुषः शुक्राधिक्यात् स्त्रोषु वाजिवत् सामर्य्यं प्राप्नोति
ताः वाजीकरिण्यः स्वप्रभावगुणोच्छ्रयात् । तत्र काश्चि-
दीषध्यः स्वप्रभावाधिक्यात्, काश्चित् स्वगुणाधिक्यात्,
काश्चित् स्वप्रभावगुणाधिक्यात् । तत्र सङ्कल्पपादलेप-
विशिष्टकान्तास्पर्शादयः स्वप्रभावाधिक्यात् शुक्रं विरे-
चयन्ति । घृतक्षीरादयः स्वगुणाधिक्यात् । स्निग्ध-
त्वाधिक्यात् माषादयः स्वप्रभावस्निग्धत्वादिगुणाधि-
क्यात् । वाजीकरण्य इति बहुवचनमाद्यार्थानुवर्त्तनम् ।
बल्यं वृंहणं जीवनीयगणादयः तद्वद्बाद्धव्याः । विरे-
चयन्ति स्वप्रभावगुणाविक्यात् शीघ्रमेवं रसाद्युत्पाद-
नपूर्वकं शुक्रं जनयित्वा प्रवर्त्तयन्ति । यत आह “दुग्धं
पृष्ठ ५१२६
माषाश्च भल्लातफलमज्जामलानि च । जनकानि
निगद्यन्ते रेचनानि च रेतसः” । ननु वालानां कथं शुस्तं
न दृश्यते इत्यत आह “बालानां शुक्रमस्त्येव किन्तु
सौक्ष्म्यान्न दृश्यते । पुष्पाणां मुकुले गन्धो यथा सन्नपि
नाप्यते । तेषां यदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि ।
कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा । रोमराज्या-
दयः पुंसां नारीणामपि यौवने । जायतेऽत्र च यो
भेदो ज्ञेयो व्याख्यानतः स च” । व्याख्यानं यथा पुंसां
रोनोराजीश्मश्रुप्रभृतयः नारीणान्तु रीमराजीस्तन-
स्तन्यार्त्तवप्रभृतयः । ननु, अन्नरसो वृद्धस्य धातुवृद्धिं
कथं न करोतीत्याह “वार्द्धके वर्द्धमानेन वायुना
रसशोषणात् । न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत्” ।
अथ शुक्रस्य स्वरूपमाह “शुक्रं सौम्यं सितं स्निग्धं
बलपुष्टिकरं स्मृतम् । गर्भवीजं वपुःसारो जीवस्याश्रय
उत्तमः” । जीवस्याश्रय उत्तम इत्याह “जीवी वसति
सर्वस्मिन् देहे तत्र विशेषतः । वीर्य्ये रक्ते मले यस्मिन्
क्षीणे याति क्षयं क्षणात्” । अथ गर्भसञ्जननशुक्रस्य
लक्षणमाह “स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च ।
शुक्रमिच्छन्ति केचित्तु तैलक्षीरनिभञ्च तत्” । अथ शुक्रस्य
स्थानमाह “यथा पयसि सर्पिस्तु गूढ़श्चेक्षौ रसो यथा ।
एवं हि सकले काये शुक्रं तिष्ठति देहिनाम्” । अत्र
सर्पिर्दृष्टान्तो बहुशुक्रेऽल्पमथनेन सर्पिःशुक्रयोर्ला-
भात् । इक्षुरसदृष्टान्तस्तु स्वल्पशुक्रे पुंसि अतिपीड़-
नेनेक्षुरसशुक्रयोर्लाभात् । अथ शुक्रस्य क्षरणमार्ग-
माह “द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः ।
मूत्रस्रोतपथे शुक्रं पुरुषस्य प्रवर्त्तते” । वृद्धवाग्भटो-
ऽप्याह “सप्तमी शुक्रधरा द्व्यङ्गुले दक्षिणे पार्श्वे वस्ति-
द्वारस्य चाप्यधोमूत्रमार्गमाश्रिता सकलशरीरव्यापिनी
शुक्रं प्रवर्त्तयतीति । सप्तमी कला । अथ शुक्रक्षरण-
कारणमाह “कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा ।
स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते” । स्त्रीसु-
रतरूपं व्यायामं कुर्वतः । अन्यच्च “शुक्रं कामेन
कामिन्या दर्शनात् स्पर्शनादपि । शब्दसंश्रवणातु ध्यानात्
संयीगाच्च प्रवर्त्तते” ।
दैत्यगुरोः शुक्रनामकारणं काशीख० १७ अ० उक्तं यथा
“नन्दिनाऽपहृते शुक्रे गिलिते च विषादिना” इत्युपक्रमे
“तेन शब्देन महता शुक्रः शम्भूदरे स्थितः । छिद्रा-
न्वेषी भ्रमन् सोऽथ विनिकेतो यथानिशम् । सप्त लोकान्
सपातालान् रुद्रदेहे विलोकयन् । ब्रह्मनारायणे-
न्द्राणां सादित्याप्सरसां तथा । भुवनानि विचित्राणि
युद्धञ्च प्रमथासुरम् । सवर्षाणां शतं कुक्षौ” भवस्य
परितो भ्रमन् । ततः स ददृशे रन्ध्रं शुचेरन्ध्रं खलो
यथा । शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः ।
चस्कन्द च सनामापि ततो देवेन भाषितः । जठरान्नि-
र्गते शुक्रे देवोऽपि मुमुदेतराम् । मूयः श्रेयो भवेद्
यन्मे न स्थितो जठरे द्विजः । शुक्रवन्निःसृतो यस्मा-
त्तस्मात्त्वं भृगुवन्दन । कर्मणानेन शुक्रोऽपि मम पुत्रो-
ऽसि गम्यताम्” ।
शुक्रग्रहस्वरूपादि वृहज्जातके ग्रहयोन्यध्याये उक्त
दृश्यम् । तत्कक्षादिमानं खगोलशब्दे २४२५ पृ० दृश्यम् ।

शुक्रकर पु० शुक्रं वीर्यं करोति कृ--अच् । मज्जधातौ हेमच०

असृक्करशब्दे ५५८ पृ० दृश्यम् । वीर्य्यकारके त्रि० ।

शुक्रभुज् स्त्री शुक्रं भुङ्क्ते भुज--क्विप् । मयूरजातिस्त्रियां

शब्दच० ।

शुक्रभू पु० भवत्यस्यात् भू--अपादाने क्विप् । मज्जधातौ शब्दच० असृक्वरशब्दे तद्धेतुता दृश्या ।

शुक्रला स्त्री शुक्रं लाति ला--क । उञ्चटावृक्षे भरतः ।

शुक्रशिष्य पु० ६ त० । दैत्ये असुरे अमरः ।

शुक्रिय त्रि० शुक्रोदेवताऽस्य तस्येदम् वा घ । १ शुक्रसम्ब-

न्धिनि २ तद्दैवते यजुर्वेदीये “ऋचं वाचमि” त्यादिके
षट्त्रिं शत्तमे ३ शान्त्यध्याये न० ।

शुक्ल न० शुच--लक् कुत्वम् । १ रजते मेदि० । २ नवनीते

शब्दच० । ३ अक्षिरोगभेदे चक्षूरोगशब्दे २८४४ पृ० दृश्यम् ।
४ श्वेतवर्णे ५ श्वेतवर्णयुते त्रि० अमरः । ६ शुद्धे च त्रि० ।
७ विष्कम्भादिषु योगभेदे मेदि० । ९ श्वेतैरण्डे राजनि०
१० शुक्लपक्षे ज्यो० त० । “तत्र पक्षावुभौ मासे शुक्लकृष्णौ
क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः”
षट्त्रिंशन्मतम् । शुक्लवर्णपदार्थास्तु कविकल्पलताथां
कतिचित् उक्ता यथा “सुधांशूच्चैःश्रवाः शम्भुः कीर्त्तिर्ज्यो-
त्स्ना शरद्घनाः । प्रासादसौधतगरमन्दारद्रुहिभाद्रयः ।
सूर्येन्दुकान्तकर्पू करम्भा रजतं हली । निर्मोकभस्म-
हिण्डीरचन्दनं करका हिमम् । हारोर्णनाभस्तन्त्वस्थि
स्वर्गङ्गेभरदाभ्रकम् । शेषाहिः शर्करा दुग्धं दधि गङ्गा
सुधा जलम् । मृणालसिकताहंसवककैरवचामरम् ।
रम्भागर्भं पुण्डरीकं केतकीशङ्खनिर्झराः । लोध्रसिंह
ध्वजच्छत्रं चूर्णशुक्तिकपर्दका । मुक्ताकुसुमनक्षत्र-
दन्तपुण्योशनोगुणाः । कैलासकासकार्पामहासवासव-
कुञ्जराः । नारदः पारदः कुन्दखटिकास्फटिकादयः” ।
पृष्ठ ५१२७

शुक्लकण्ठ पुंस्त्री० शुक्लः कण्ठो यस्य । दात्यूहखगे शब्द-

माला । स्त्रियां ङीष् ।

शुक्लकन्द पु० शुक्लः कन्दो यस्य । १ महिषकन्दे २ अतिवि-

षायां स्त्री राजनि० । कर्म० । ३ श्वेते कन्दे ।

शुक्लक्षीरा स्त्री शुक्लं क्षीरं निर्यासो यस्याः । काकोल्यां

राजनि० ।

शुक्लकर्म्मन् त्रि० शुक्लं शुद्धं कर्म यस्य । पवित्रे शुभचरित्रे जटा० ।

शुक्लकुष्ठ न० कर्म० । श्वेतकुष्ठे (धवल) ।

शुक्लदुग्ध पु० शुक्लं दुग्धमस्य । १ शृङ्गाटके शब्दच० २ श्वेतनिर्यासयुते त्रि० ।

शुक्लधातु पु० कर्म० । कठिन्यां (खड़ि) हेमच० २ श्वेतधातौ च

शुक्लपक्ष पु० कर्म० । १ वृद्ध्यनुगुणचन्द्रकलाक्रियापञ्चदशकात्मके

चान्द्रमासार्द्धे श्येतच्छदे २ वके पुंस्त्री० । स्त्रियां ङीष् ।

शुक्लपुष्प पु० शुक्लं पुष्पमस्य । १ छत्राकवृक्षे २ कुन्दवृक्षे ३

मरुवके च रत्नमा० । ४ श्येतपुष्पयुते त्रि० । ५ नागदन्त्यां ६
शीतकुम्भ्यां स्त्री रत्नमा० ङीप् । कर्म० । ७ शुभ्रे पुष्पे न० ।

शुक्लपृष्ठक पु० शुक्लं पृष्ठमस्य कप् । सिन्धुकवृक्षे शब्दच० ।

शुक्लयजुस् न० कर्म० । इषेत्वेत्यादि चत्वारिंशदध्यायात्मके

यज्र्वेदभेदे ।

शुक्लरोहित पु० वर्णोवर्णेनेति कर्म० । १ श्वेतरक्ते वर्णे

२ तद्वति त्रि० । ३ तथाभूतवृक्षे पु० राजनि० ।

शुक्लला स्त्री शुक्लं लाति ला--क । उच्चटायां रत्नमा० ।

शुक्लवायस पुंस्त्री० कर्म० । १ वके त्रिका० २ श्वेतकाके च ।

स्त्रियां ङीष् ।

शुक्लशाल पु० कर्म० । १ गिरिनिम्बे राजनि० २ श्वेतवर्णवृक्षे च

शुक्ला स्त्री शुक्ल + अर्श आद्यच् टाप् । १ सरस्वत्यां त्रिका० ।

२ शर्करायां शब्दच० । ३ काकोल्यां ४ विदार्य्यां ५ स्नुह्यां
राजनि० । ६ श्वेतवर्णवत्यां स्त्रियाञ्च ।

शुक्लाङ्गी स्त्री शुक्लमङ्गमस्याः ङीष् । १ शेफालिकायां

राजनि० । २ श्वेताङ्गयुक्ते त्रि० ।

शुक्लापाङ्ग पुंस्त्री० शुक्लः अपाङ्गो यस्य । मयूरे हेमच० । स्त्रियां ङीष् ।

शुक्लाम्ल न० कर्म० । अम्लशाके राजनि० ।

शुक्लार्म्मन् न० नेत्ररोगभेदे भावपु० ४४२८ पृ० दृश्यम् ।

शुक्लिमन् पु० शुक्लस्य भावः इमनिच् । श्वेतवर्णे ।

शुक्लोपला स्त्री कर्म० स अस्त्यस्याः अच् । शर्करायां रत्नमा०

शुङ्ग पु० शम--ग तस्य नेत्त्वं नि० अत उत्त्वञ्च । १ वटवृक्षे

२ आम्रातके ३ शूके च मेदि० । ४ पर्पटीवृक्षे ५ धान्या-
दिशूके च स्त्री राजनि० ।

शुङ्गाकर्म्मन् न० शुङ्गैः वटपल्लवैः आ सम्यक् कर्म० यत्र ।

गर्भमात्रसंस्कारभेदे “पुंसवने चन्द्रनामा शुङ्गाकर्मणि
शीभनः” ति० त० ।

शुङ्गिन् पु० शुङ्गोऽस्त्यस्य इनि । १ वटपृक्षे २ प्लक्षवृक्षे जटा० ३ शुङ्गवति त्रि० ।

शुच शोके क्लेदे च दिवा० उभ० अक सेट् । शुच्यति ते

इरित् अशुचत् अशोचीत् अशोचिष्ट ईदित् शुक्तः ।
अनु + किञ्चिटुद्देशेन पश्चात्तापे सक० । अनुशोचति ।

शुच शोके भ्वा० पर० सक० सेट् । शोचति अशोचीत् ।

शुच् स्त्री शुच--क्विप् । शोके अमरः । वा टाप् । तत्रैव ।

शुचि पु० शुच--कि । १ वह्नौ २ चित्रकवृक्षे ३ आषाढ़मासे

४ शृङ्गाररसे अमरः । ५ ज्यैष्ठमासे मेदि० ६ शुद्धाचरणे
७ ग्रीष्मे ८ ऋतौ ९ शुद्धमन्त्रिणि मेदि० । १० अग्निभेदे
“पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निमथ्यः
पवमानः स्यात् वैद्युतः पावकः स्मृतः । यश्चाग्नौ तपते
सूर्यः शुचिरग्निस्त्वसौ स्मृतः” कूर्मपु० १२ अ० । ११ श्वेत-
वर्णे १२ तद्वति त्रि० अमरः । शुचित्वञ्च शौचं शुद्धता
वैदिककर्मार्हत्वप्रयोजकः संस्कारविशेषः । “शुचिस्तत्-
कालजीवी कर्म कुर्य्यात्” श्रुतौ शौचस्य कर्माङ्गत्वं, स च
स्नानादिजन्यः पुण्यभेदो वा । १३ मूर्ये च “तपनस्तापन-
श्चैव शुचिः सप्ताश्ववाहनः” सूर्यस्तवः । १४ अर्कवृक्षे
१५ काश्यपत्न्यास्ताम्रायाः कन्याभेदे स्त्री “षट्सुताश्च महा
सत्त्वास्ताम्रायाः परिकीर्त्तिताः । शुकी श्येनी च भासे
च सुग्रीवी शुचिगृध्रिके” गरुड़पु० ६ अ० । १६ शुद्धे
१७ अनुपहते त्रि० मेदि० ।

शुचिद्रुम पु० कर्म० । अश्वत्थवृक्षे राजनि० ।

शुचिमल्लिका स्त्री कर्म० । नवमल्लिकायां राजनि० ।

शुच्य स्नाने अक० अभिषवे मन्यने पीड़ने सन्धाने च सक० भ्वा०

पर० सेट् ईदित् निष्ठा अनिट् । शुच्यति अशुच्यीत् ।

शुटीर पु० शौटीर + पृषो० । वीरे त्रिका० ।

शुठ गतिविघाते भ्वा० पर० सक० सेट् । शोठति अशोठीत् ।

शुठ आलस्ये चु० उभ० सक० सेट् । शोठयति ते अशूशुठत् त ।

शुठ शोधने बा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।

शुण्ठयति ते शुण्टति अशुशुण्ठत् त अशुण्ठीत् ।

शुण्टि(ण्ठी) स्त्री शुठि--इन् वा ङीप् । (शुँट) शुष्कार्द्रके

“शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः । स्नि-
ग्धोष्णा मधुरा पाके कफवातविबन्धनुत् । वृव्या स्वर्य्या
च निश्वासशूलकासहृदामयान् । हन्ति श्लीपदशोथार्श-
स्तोयांशं परिशोधयेत्” भावप्र० ।

शुण्ठ्य न० शठि--यत् । शुण्ठ्याम् शब्दच० ।

पृष्ठ ५१२८

शुण्ड पु० शुन--ड तस्य नेत्त्वम् । १ मदनिर्झरे हेमच० । २ गज

हस्ते पुंस्त्री० स्त्रीत्वे टाप् । ३ मद्यपानगृहे ४ वेश्यायां
५ सुरायां ६ जलहस्तिन्याञ्च स्त्री मेदि० । ७ नलिन्यां
विश्वः । ८ कुट्टिन्याञ्च स्त्री शब्दमा० ।

शुण्डापान न० शुण्डा सुरा पीयतेऽत्र पा--आधारे ल्युट् ।

१ मद्यपानगृहे अमरः । ६ त० । २ मद्यपाने च ।

शुण्डार पु० शुण्डा अस्त्यर्थे र । १ शौण्डिके शब्दच०

२ हस्तिनि च । अपकर्षे र । ३ अपकृष्टशुण्डायाम् स्त्री ।
लच् । शुण्डाल हस्तिनि धनञ्जयः ।

शुण्डिन् पु० शुण्डाऽस्त्यस्य इनि । १ हस्तिनि २ शौण्डिके शब्दच० ।

शुण्डिमूषिका स्त्री शुण्डिनी मूषिकेव । छुछुन्दर्य्यां (छुँछ)

राजनि० ।

शुण्डी स्त्री शुण्डाकारोऽस्त्यस्याः अच् गौरा० ङीष् । (हातिशुँड़ा) वृक्षे राजनि० ।

शुद्ध न० शुध--क्त । १ सैन्धवलवणे २ मरिचे च राजनि० ।

३ केवले ४ निर्दोषे ५ पवित्रे मेदि० । ६ शुभ्रे च त्रि० ।
शुद्ध्यशुद्धी शास्त्रज्ञाप्ये संस्काररूपे यथोक्तं
“शुद्ध्यशुद्ध्योः संस्काररूपत्वेन एकपुरुषस्यैकदोभयस्थिति
र्घटते । शुद्धेर्भावरूपत्वे अशुद्धेस्तदभावरूपत्वे नैतत्
विरोधात् । अतएव शङ्खः “ततः श्राद्धमशुद्धौ तु कुर्य्या-
देकादशे तथा । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव
सः” अशुद्धौ चतुर्थाहादौ । कथमशुद्धौ श्राद्धं? कालाशौ-
चयोरधिकारिविशेषणत्वादत आह कर्तुस्तात्कालिकी
शुद्धिरिति । श्राद्धविधानाक्षेपात् तन्मात्रनिष्ठा शुद्धिः
कल्प्यते “स पुनरशुद्धः कर्मान्तरे” श्रा० वि० । शुद्धितत्त्वे च
“एवं शुद्धेर्भावरूपत्वे अशौचस्य तदभावरूपत्वे विरोधः
तथात्वे अशौचसङ्करोऽपि न स्यात् । एकस्मिन् शुद्ध्य-
भावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषी-
यशुद्धिरूपप्रतियोग्यन्तराभावात् अनुपपत्तेः । तस्मात्
शुद्ध्यशुद्ध्योर्भावरूपत्वम् ।
पद्मपु० उत्त० ख० १९ अ० कतिचिदशुद्धा उक्ताः । तद्भिन्न-
स्यैव शुद्धता यथा
“जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा ।
अपवित्रो द्विजातीनां देहः सन्ध्यादिकर्मसु । अपूततनु-
रुत्सर्गे नरो मूत्रपुरीषयोः । अस्पृश्यस्पर्शने चैव ब्रह्म-
यज्ञजपादिषु । रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते ।
विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः । भुक्त्वा
हस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने । शयने ब्राह्मणादीनां
शरीरं चुरकर्मणि । ज्वरादिभिश्चतुःषष्टिरोगैर्युक्त
द्विजन्मनाम् । वघुरप्रयतं पूजादानहोमजपादिषु ।
धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः । तथा च
रेतःस्खलने मर्त्यदेहाऽपवित्रता । अपवित्रं द्विजातीनां
वपुः स्याद्राहुदर्शने । गर्हितदानग्रहणे पतिते
पातकादिभिः । अशौचान्तेन शुद्धिः स्यात् जातके मृतके-
ऽपि च । सर्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्मसु” ।
मृतकादिभिन्ने स्नानापनेयतेति । अशौचशब्दे द्रव्यशुद्धि-
शब्दे च दृश्यम् ।

शुद्धजङ्घ पुंस्त्री शुद्धा जङ्घा यस्य । गर्दभे त्रिका० स्त्रियां ङीष् ।

शुद्धमांस न० २१८३ पृ० कृतान्नशब्ददर्शिते पक्वमांसभेदे

शुद्धवल्ली स्त्री कर्म० । १ गुडूच्यां शब्दच० २ पवित्रायां लतायाञ्च शब्दच० ।

शुद्धान्त पु० शुद्धः निर्द्दोषः अन्तः पर्य्यन्तो यस्य । १ नृपा-

न्तःपुरे उपचारात् तत्र स्थितायां २ राजयोषिति पुंस्त्री०
“शुद्धान्तसम्भागनितान्ततुष्टे” इति नैषधम् । शुद्धं शुद्धिः
६ त० ३ अशौचान्ते ।

शुद्धापह्नुति स्त्री कर्म० । “शुद्धापह्नुतिरन्यस्यारोपार्थो धर्म-

निह्नवः” चन्द्रालोकोक्ते अर्थालङ्कारभेदे ।

शुद्धि स्त्री शुध--क्तिन् । १ मार्जने जटा० २ नैर्मल्यसम्पादने

३ वैदिककर्णयोग्यत्वासम्पादकसंस्कारभेदे च । ४ दुर्गायां
“स्मरणाच्चिन्तनाद्वापि शोध्यते येन पातकात् । तेन शुद्धि
समाख्याता देवी रुद्रतनौ स्थिता” देवीपु० तन्नामनिरुक्तिः

शुद्धोदनसुत पु० बौद्धभेदे हेमच० ।

शुध शौचे शोधने सक० निःशेषभवने अक० च दि० पर०

अनिट् । शुध्यति ऌदित् अशुधत् । “भक्तोहरः शुध्यकि
यद्गुणः स्यादिति” लीला० ।

शुन गतौ तु० पर० सक० सेट् । शुनति अशोनीत् ।

शुन पु० शुन--क । कुक्कुरे । कि । तत्रैव वाचस्पतिः ।

शुनःशेफ पु० शुनैव शेफोऽस्य अलुक्समा० । विश्वामित्र-

शिष्ये मुनिभेदे ।

शुनक पु० शुनैव कन् । १ मुनिभेदे स्वार्थे क । २ कुक्कुरे राजनि० ।

शुनकचञ्चुका स्त्री शुनकस्येव चञ्चुः पत्रे यस्याः कप् ।

क्षुद्रचञ्चुक्षुपभेदे राजनि० ।

शुनकचिल्ली स्त्री शुनकप्रिया चिल्ली । शाकभेदे राजनि० ।

शुनासीर पु० सुष्ठुनासीरं यस्य पृषो० । १ इन्द्रे २ पेचके च

पृषो० तस्य रूपत्रयम् द्विरूपकोषे उक्तं यथा
“शुनाशोरो द्वितालव्यः सुनासीरो द्विदन्त्यकः । तालव्या-
दिर्दन्त्यमध्यः शुनासीरश्च दृश्यते” ।

शुनी स्त्री श्वन् + स्त्रियां ङीष् । १ कुक्कुरयोमिति अमरः ।

२ कुष्माण्ड्यां लतायां राजनिघण्टुकोषः ।
पृष्ठ ५१२९

शुनीर पु० शुनी + संघार्थे र । कुक्कुरौसमूहे त्रिका० ।

शुन्ध शुद्धौ अक० शीधने सक० चु० उभ० सेट् । शुन्धयति ते

अशुशुन्धत् त ।

शुन्ध शुद्धौ अक० शुद्धीकरर्णे सक० भ्वा० उभ० सेट् । शुन्धति

ते अशुन्धीत् अशुन्धिष्ट । “आपः शुन्धन्तु मैनसः”
इति सन्ध्यामन्त्रः ।

शुन्ध्यु पु० शुन्ध--युच तस्य न अनादेशः । वायौ उणा० ।

शुन्भ दीप्तौ अक० मर्दने सक० तु० पर० सेट् । शुभति

अशुभम्भीत् “प्रागप्राप्तनिशुम्भशाम्भवधनु” रिति वी० च०

शुन्य न० शुनीनां समूहः यत् । १ कुक्कुरीसंके त्रिका० शून्य +

पृषो० । २ रिक्ते जटा० ।

शुभ दीप्तौ अक० हिंसने सक० तु० मुचा० पर० सेट् । शुम्भति अशीभीत् ।

शुभ दीप्तौ भ्वा० आ० अक० सेट् । शोभते ऌदित् अशुभत् शुशुभे

शुभ न० शुभ--क । १ मङ्गले २ शुभयुक्ते त्रि० अमरः । २ पन्न-

काष्ठे राजनि० ४ विष्कम्भादिषु मध्ये त्रयोविं शयोगे
पु० ५ स्वेचरपुरभेदे न० मेदि० ।

शुभंयु त्रि० शुभम् + अस्त्यर्थे युस् । शुभान्विते अमरः “क्षितिपः शुभंयुः” इति भट्टिः ।

शुभगन्धक न० शुभोगन्धीऽस्य कप् । १ वोले राजनि० २ शुभग-

न्धयुते त्रि० ।

शुभग्रह पु० शुभः शुभदायकः ग्रहः । १ सौम्यग्रहे

२ गुरौ शुक्रे अर्द्धाधिकचन्द्रे पापग्रहायुक्ते बुधे च ।

शुभङ्कर त्रि० शुभं कराति कृ--खच् मुम् च । २ मङ्गलकारके

२ दुर्गायां स्त्री शब्दमा० ङीप् ।

शुभद पु० शुभं ददाति दा--क । १ अश्वत्थवृक्षे राजनि० । २ मङ्गलदातरि त्रि० ।

शुभदन्ती स्त्री शुभा दन्ता अस्याः ङीष् । १ सुदत्यां स्त्रियां

२ पुष्पदन्तदिग्गजयोषिति च मेदि० ।

शुभपत्त्री स्त्री० शुभानि पत्त्राण्यस्याः ङीष् । (शालपान)

क्षुपे वा कप् । शुभपत्त्रिका तत्रार्थे राजनि० ।

शुभम् अव्य० शुभ--कसु । मङ्गले “शुभंयुः” ।

शुभवासन पु० शुभं वासयति मुखम् वासि--ल्यु । मुखवा-

सने द्रव्ये शब्दच० ।

शुभसूचनी स्त्री देवीभेदे (सुवचनी) “रक्ता पद्मचतुर्मुखी

त्रिनयना चामीकरालङ्कृता पीनोत्तुङ्ककुचा दुकूल-
वसना हंसाधिरूढ़ा परा । ब्रह्मानन्दमयी कमण्डलु-
कराक्षाभीतिहस्ता शिवा ध्येया सा शुभमूचनी त्रिज-
गतागम्बापदुद्धारिणी” । सा च स्त्रीभिः पूज्या ।

शुभा स्त्री शुभ--क । १ शोभायां २ कान्तौ ३ इच्छायां मेदि० ।

४ राचनायां ५ गोरोचनायां ६ शम्यां ७ प्रियङ्गौ ८ श्वेत-
दूर्वायां राजनि० । ९ देवसभायां शब्दच० १० उमासखी
भेदे शब्दच० ।

शुभाचार त्रि० शुभ आचारोयस्य । १ शोभनाचारयुते २ उमासखीभेदे स्त्री शब्दमा० ।

शुभाञ्जन पु० शुभ--क शुभम् अञ्जनं यस्मात् ५ ब० । शोभा-

ञ्जनवृक्षे शब्दर० ।

शुभ्र न० शुभ--रक् । १ अभ्रके मेदि० २ रौप्ये ३ कासीसे ४

शुभ्रलवणे राजनि० । ६ चन्दने शब्दच० । ६ श्वेतवर्णे पु०
७ तद्वति त्रि० अमरः ।

शुभ्रकर पु० शुभ्रः करोऽस्य । १ चन्द्रे २ कर्पूरे च । शुभ्र-

किरणशुभ्रांशुप्रभृतयोऽप्यत्र ।

शुभ्रदन्ती स्त्री शुभ्रो दन्तो यस्याः ङीष् । पुष्पदन्तदिग्गजयोषिति अमरः

शुभ्रालु पु० कर्म० । १ महिषकन्दे राजनि० । २ श्वेतालौ च ।

शुभ्रि पु० शुभ--क्रि । चतुर्मुखे ब्रह्मणि सि० कौ० ।

शुम्भ पु० शुन्भ--अच् । दानवभेदे । शुम्भश्च प्रह्लादपुत्र-

विरोचनात्मजगवेष्ठिनः पुत्रः एकः “विरोचनश्च प्रा-
ह्लादिः पञ्च तस्यानुजाः स्मृताः । गवेष्ठी कालनेमिश्च
जम्भो वास्कल एव च । शुम्भश्चैव निशुम्भश्च विष्वव्
सेनो महौजसः । गवेष्ठिनः सुता ह्येते” वह्निपु० ।
अपरश्च “कश्यपस्य दनुर्नाम भार्य्यासीत् द्विजसत्तम! ।
तस्यास्तु द्वौ सुतावास्तां सहस्राक्षाद्बलाधिकौ । ज्येष्ठः
शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः” वामनपु० ।
देवीमाहा० अपरोऽपि देव्या निहतः । तदन्योऽपि तत्रैव
१२ अ० “शुम्भो निशुम्भश्चैवान्यावुपत्स्येते महासुरौ ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी” इत्युक्तः ।

शुम्भमर्दिनी स्त्री शुम्भं मृद्गाति मृद--णिनि । दुर्गायां

हेमच० । हन--णिनि । शुम्भधातिनी शब्दच० ।

शुम्भपुरी स्त्री ६ त० । (शम्भलपुर) एकचक्राख्ये पुरे त्रिका० ।

शुर मारणे स्तम्भने च दि० आ० सक० सेट् । शूर्यते अशोरिष्ट ।

शुल्क कथने, सर्जने, वर्जने च चु० उभ० सक० सेट् । शुल्क०

यति ते अशुशुल्कत् त ।

शुल्क पु० न० शुल्क्यते अतिसृज्यते कर्मणि घञ् । १ घट्टादिदेये

राजकरे मेदि० २ राजग्राह्यकरभेदे अमरः । वरपक्षात्
कन्यापक्षीयैः ३ ग्राह्ये धने ४ स्त्रीधनभेदे “भगिनीशुल्कं
सोदर्य्याणाम्” इति स्मृतिः । सम्भोगार्थं स्त्रीभ्यः देये ५ घने
“अशुल्कोपहृतायास्तु पिण्डदावोढुरेव ते” इति स्मृतिः
६ पणे च ।

शुल्कस्थान न० ६ त० । (घाटि) २ घट्टे भूपानां क्रयविक्रययोग्य द्रव्यकरादानस्थाने ।

शुल्ल न० शुल्व--अच् पृषो० । १ ताम्ने २ रज्जौ च अमरटीका ।

पृष्ठ ५१३०

शुल्व माने दाने च चु० उभ० सक० सेट् । शुल्वयति ते

अशुशुल्वत् त ।

शुल्व न० शुल्व--अच् । १ ताम्रे २ रज्जौ च अमरः ३ जलसमीपे ४ आचारे ५ यज्ञकार्य्ये च मेदि० ।

शुल्वारि पु० ६ त० । १ गन्धके हेमच० तस्य ताम्रादिजारक-

त्वात् तथात्वम् ।

शुश्रू स्त्री मातरि “शिशोः शुश्रूषङात् शुश्रूः” भा० शा० अ०

शुश्रूषण न० श्रु--सन्--ल्युट् । सेवायां शब्दच० । युच् ।

तत्रैव स्त्री २ श्रवणेच्छायाञ्च ।

शुश्रूषा स्त्री श्रु--सन्--अ । १ श्रवणेच्छायाम् २ उपासने ३ कथने च ।

शुष शोषणे दि० पर० सक० अनिट् । शुष्यति ऌदित् अशुषत् ।

शुष पु० शुष--क । १ गर्त्ते २ बिले च अजयपालः ।

शुषि स्त्री शुष--कि । १ पाषाणे २ विले च मेदि० ।

शुषिर न० शुष--किरच् । १ छिद्रे २ वंश्यादिवाद्ये ३ सच्छिद्रे

त्रि० अमरः ४ मूषिके पुंस्त्री० मेदि० स्त्रियां ङीष् ।
५ अग्नौ पु० विश्वः । ६ चित्रकवृक्षे ७ नद्यां स्त्री धरणिः ।
८ नलीनामगन्धद्रव्ये स्त्री अमरः ।

शुष्क त्रि० शुष + क्त । आतपादिना १ कृतशोषणे । भावे क्त । २ शोषणे न० ।

शुष्कपत्त्र न० शुष्कं पत्त्रमस्य । (नालता) १ शाकभेदे ।

“शुष्कपत्रं पयोमिश्रं पित्तश्लेष्मज्वराषहम् । तत्
शुष्कपत्रं जलदोषनाशनं विशेषतः पित्तकफज्वराप-
हम् । जलञ्च तस्यापि च पित्तहारकम् सुरोचनं व्यञ्ज-
नयोयकारकम्” राजवल्लभः । कर्म० । २ शुष्के पर्णे न०

शुष्कमांस न० कर्म० । आतषादिना शुष्कमांसे तद्गुणा

भावप्र० उक्ता यथा “त्रिदोषकृत् व्यालजुष्टं शुष्कं
शूलकरं गुरु” मांसमित्यनुषङ्गः ।

शुष्करेवती स्त्री मातृकाभेदे “अस्थिभ्यश्च तथा काली सृष्टा

पूर्वं महात्मना । तया तद्रुधिरं पीतमन्धकानां
महात्मनाम् । सा चास्मिन् कयिता लोके नामतः शुष्क-
रेवती” वह्निपु० १५४ अ० ।

शुष्कल न० शुष्कं शोषणं लाति ला--क । १ शुष्कमांसे ।

शुष--कलच् किच्च । २ आमिषे उणादि० ।

शुष्कवृक्ष पु० कर्म० । धववृक्षे राजनि० ।

शुष्कवेर न० शुष्कं फलशून्यं वैरम् । उद्देश्यशून्ये कलहे ।

शुष्कव्रण पु० कर्म० । (घँटा) किणरूपे व्रणे त्रिका० ।

शुष्काक्षिपाक पु० नेत्ररोगभेदे तल्लक्षणं भावप्र० उक्तं यथा

“यत् कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाबिलदर्शनं
यत् । सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहत
यदक्षि” । कूणितं सङ्कोचितं सुद्रितमिति यावत् । दारु-
णरूक्षवर्त्म दारुणं विकृतं रूक्षं च वर्त्म यस्य तत् ।
इदमक्ष्णाविशेषणं सन्दह्यते सदाहं भवति । आबिल
दर्शनम् आबिलस्य अनच्छस्य दर्शनं वैन तत् । तत्प्रति-
बोधने उद्वाटने, सुदारुणम् अतिशयन विकृतम्” ।

शुष्काङ्ग पु० शुष्कमङ्गमस्य । १ धववृक्षे (धगाछ) २ शुष्काव-

यवयुते त्रि० स्त्रियां ङीष् । सा च ३ गोधिकायां शब्दच०

शुष्कार्द्रक न० शुष्कमार्द्रकम् । शुण्ठ्यां (शुँठ) शब्दच० ।

शुष्म न० शुष--मन् किच्च । १ तेजसि मेदि० २ पराक्रमे

हेमच० । ३ सूर्य्ये पु० मेदि० ४ अग्नौ त्रिका० ५ चित्रकवृक्षे
६ वायौ ७ पक्षिणि संक्षिप्तसा० ८ अर्चिषि च पु० भरतः ।

शुष्मन् न० शुष--ङ्मनिप् । १ तेजसि जटा० । २ शौर्य्ये हेमच०

३ अग्नौ ४ चित्रकवृक्षे च पु० अमरः ।

शूक पु० न० श्वि--कक् सम्प्र० । (शुङ्गा) १ तीक्ष्णाग्रे अमरः ।

२ शिखायां ३ दयायां मेदि० ३ सविषजलमलोद्भवे जन्तुभेदे
भावप्र० तद्दोषाधिकारेण तज्जातरोगास्तत्र दर्शिता यथा
“अथ शूकदीषाधिकारः । तत्र शूकदोषस्व निदानमाह
“अक्रमाच्छेफसो वृद्धिं योऽमिवाञ्छति मूढ़धीः ।
व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः” । अक्र
मात् अनुचितवृद्धिक्रमात् । अनुचिता च वृद्धिः भूरिवि-
कारजनकस्व योगेन शूकजाः शूकोजलशूकः
सविषो जलजन्तुविशेषः स तु जलमलोद्भवः अल्पडुण्डुभ
इत्यादिकः । तथा शूकप्रधानो लिङ्गवृद्धिकरे वात्स्या-
यनाद्युक्तो रोगः शूक उच्यत” । शूकदोषा दश चाष्टौ
च भवन्ति । तेष्वादौ सर्षपिकामाह “गौरसर्षपसंस्थाना
शूकदुर्भगहेतुका । पिडका श्लेष्मवाताभ्यां ज्ञेयासर्षपिका
तु सा । शूकदुर्भगहेतुका शूकदुष्टयोनिनिमित्ता च ।
अथाष्टीलिकामाह “कठिना विषमैर्भुग्नैर्वायुनाष्टीलिका २
भवेत्” । अष्टीला लौहकारस्य भाण्डविशेषः (निहार)
इति लोके । तथा कठिनेत्यष्टीलिका विषमैर्भुग्नैरिति
वक्ष्यकाणणूकविशेषणम् । विषमैर्ह्रस्वदीर्घैः । भुग्नैः
वक्रैः । ग्रथितमाह “शूकैर्यत् पूरितं शश्वद्ग्रथितं २
नाम तद्भवेत्” । यल्लिङ्गं सदा शूकैः पूरितं तद्ग्रथि-
तत्वाद्ग्रथितम् । कुम्भिकामाह “कुम्भिका ४ रक्तपि-
त्तात् स्याज्जाम्बवास्थिनिभा सिता” कुम्भिका कुम्भीफल-
तुल्यत्वात् । अलजीमाह “अलजी ५ स्यात्तथा यादृक्-
प्रमेहपिड़का तथा । सा च रक्ताऽसिता स्फोटाचिता
च कथिता बुधैः” । एषा रक्तपित्तनिमित्ता ज्ञेया ।
मृदितमाह “मृदितं ६ पीड़ितं यत्तु संरब्धं वातकोपतः ।
पृष्ठ ५१३१
शूकदोषे जाते पीड़ितं सद्यत् संरब्धम् सशोथं भवति
तल्लिङ्गं मृदितमुच्यते । संमूढ़पिड़कामाह “पाणिभ्यां
भृशसंमूढ़े समूढ़ण्डिका ७ भवेत्” । शूकदोषे जाते
पाणिभ्यां मृशसंभूढ़े पिशिते लिङ्गे” । अत्रापि वातको-
पत इत्यनुवर्त्तते । अथावमन्थमाह “दीर्घा वह्व्यश्च पि
डका दीर्य्यन्ते मध्यतस्तु याः । सोऽवमन्थः ८ कफासृग्भ्यां
वेदना रोमहर्षकृत्” । दीर्घा दीर्घाङ्कराः । पुष्कारका-
माह “पिड़का पिडकाव्याप्ता पित्तशोणितसम्भवा ।
पद्मकर्णिकसंस्थाना ९ ज्ञेया पुष्करिकेति सा” । पिडका-
व्याप्ता पार्श्वतः क्षुद्रपिडकाव्याप्ता । अतएव पद्मकर्णिकसं-
स्थाना । स्पर्शहानिमाह “स्पर्शहानिन्तु १० जनयेच्छोणितं
शूकदूषितम्” अत्र स्पर्शासहत्वमेव लक्षणम् । उत्तमा-
माह “मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च या ।
एषोत्तमाख्या पिडला ११ शृकाजीर्णसमुद्भवा” । शतपोनकमाह
“छिद्रैरणुमुखैर्लिङ्गं चिरं यस्य समंन्ततः । वातशोणि-
तजो व्याधिः विज्ञेयः शतपोनकः १२” । शतपोनकश्चालनी
तत्तुल्यत्वाच्छतपोनकः । त्वक्पाकमाह “वातपित्तकृतो
ज्ञेयस्त्वक्षाको १३ ज्वरदाहकृत्” । शोणितार्बुदमाह “कृष्णैः
स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम् । लिङ्गं वास्तु-
रुजाश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् १४” । वास्तुरुजः स्फो-
टपिड़काधिष्ठानयेदनाः । अथ मांसार्बुदमाह “मांसदुष्टं
विजग्नीयादर्बुदं मांससम्भवम् १५ । मांसपाकमाह “शीर्यन्ते
यस्य मांसानि यस्य सर्वाश्च वेदनाः । विद्यात्तं मांसपा-
कन्तु १६ सर्वदोषकृतं भिषक्” । शीर्य्यन्ते गलन्ति । सर्वाश्च
वेदनाः वातपित्तकफजाः । अथ विद्रधिमाह “विद्रधिः १७
सन्निपातेन यथोक्तमभिनिर्दिशेत्” । यथोक्तं सान्निपातिकं
विद्रधितुल्यं कथयेत् । तिलकालकानाह “कृष्णानि
चित्राण्यथ वा शुक्लानि सविषाणि तु । पतन्ति पातयन्त्याशु
मेढ्रं निरवशेषतः । कालानि भूत्वा मांसानि शीर्व्यन्ते
यस्य देहिनः । सन्निपातसमुत्थांश्च तान् विद्यात्तिलका-
लकान् १८” । चित्राणि नानावर्णानि । शुक्लानि शुक्लव-
र्णानि मञ्चाः क्रोशन्तीति वत् । सविषाणि सविष-
शूकाख्यजन्तुविशेषकृतत्वात् । शीर्व्यन्ते गलन्ति । कृष्ण-
तिलतुल्यत्वात्तिलकालकाः । अथासाध्यमाह “तत्र
मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः । विद्रधिश्च न
सिध्यन्ति ये च स्युस्तिलकालकाः” ।

शूकक पु० शूकैः जलजन्तुभेदै कायति कै--क । १ प्रावृट्काले २ रसे च मेदि० ।

शूककीट पु० शूकाकाररोमयुक्तः कीटः शा० त० (श्लया-

पोका) कीटभेदे अमरः । स हि शूकाभरोमवान् ।

शूकधान्य न० शूकयुक्तं धान्यम् शाक० । यवादौ धान्ये

अमरः । “व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तत्
शूकधान्यमथ मुद्गमकुष्ठकादि । शिम्बीनिगूढ़मिति तत्
प्रवदन्ति शिम्बीधान्यं तृणोद्भवमथो तृणधान्यमन्यत् ।
तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्य
विवृद्धिदायि । देशे देशे शूकधान्येषु संख्या ज्ञातुं
शक्या नो नरैर्दैवतैर्वा” राजनि० । “शूकधान्यं शमीधान्यं
समातीतं प्रशस्यते । परतो वातकृद्रूक्षं प्रायेणाभिनवं
गुरु” राजवल्लभः ।

शूकपिण्डी स्त्री शूकस्य पिण्डीव । शूकशिम्ब्यां शब्दच० ।

शूकर पुंस्त्री० शू इत्यव्यक्तं शब्दं करोति कृ--अच् शूक +

अस्त्यर्थे र वा । स्वनामख्याते पशौ अमरः स्त्रियां ङीष् ।

शूकरकन्द पु० शूकर इव रामशः कन्दोऽस्य । वाराही-

कन्दे राजनि० ।

शूकदंष्ट्रक पु० गुदभ्रंशे क्षुद्ररोगभेदे “सदाहो रक्तपर्य्यन्त-

स्त्वक्पाकी तीव्रवेदनः । कण्डूमान् ज्वरकारी च स
स्वाच्छूकरदंष्ट्रकः” भावप्र० तल्लक्षणमुक्तम् ।

शूकरपादिका स्त्री शूकरस्येव पादाः मूलान्यस्याः कप्

अत इत्त्वम् । कोलशिम्ब्यां राजनि० ।

शूकराक्रान्ता स्त्री शूकरेणाक्रम्यते स्म आ + क्रम--क्त ३ त० ।

वराहक्रान्तायां शब्दच० ।

शूकरी स्त्री शूकर आक्रामकत्वेनास्त्यस्याः अच् गौरा०

ङीष् । १ वराहक्रान्तायां शब्दच० । शूकर + जातौ ङीष् ।
२ तज्जातिस्त्रियाञ्च ।

शूकरेष्ट पु० ६ त० । १ कसेरुनामकन्दे राजनि० । २ वराहप्रियद्रव्ये त्रि० ।

शूकवती स्त्री शूकस्तीक्ष्ण ग्रमस्त्यस्याः भतुप् भस्यवः ङीप् ।

१ कपिकच्छ्वां शब्दच० । २ शूकयुते त्रि० स्त्रियां ङीप् ।

शूकशिम्बा स्त्री शूकयुक्ता शिम्बा शाक० । कपिकच्छ्वां शब्दच० ।

शूकशिम्बि(म्बी) पु० शूकयुक्ता शिम्बिः शाक० वा ङीप् ।

कपिकच्छ्वां शब्दच० ।

शूका स्त्री शूकोऽस्त्यस्याः अच् । कपिकच्छ्वां शब्दच० ।

शूकापूट्ट पु० तृणमणिभेदे हारा० ।

शूतिपर्ण पु० श्वि--क्तिच् शूति स्फीतं पर्णं यस्य । आरग्बधे शब्दर० ।

शूद्र पुंस्त्री० शुच--रक् पृषो० चस्य दः दीर्घश्च । १ चतुर्थे वर्णे

स्त्रियां टाप् । शूद्रा शूद्रजातिस्त्रियाम् । पुंयोगे ङीष् ।
शूद्री शूद्रभार्य्यायाम् । शुचा द्रवति द्रु० ड पृषो० । २
शोकहेतुकगतियुक्ते शूद्राधिकरणशब्दे दृश्यम् ।
पृष्ठ ५१३२
अथ शूद्रधर्मादि “विप्राणामर्चनं नित्यं शूद्रधर्मो विधो-
यते । तद्द्वेषो तद्धनग्राही शूद्रश्चाण्डालतां व्रजेत् ।
नृध्रः कोटिसहस्राणि शतजन्मानि शूकरः । श्वापदः
शतजन्मानि शूद्रो विप्रधनापहा । यः शूद्रो ब्राह्मणी-
गामो मातृगामी स पातकी । कुम्भीपाके पच्यते स
यावद्वै ब्रह्मणः शतम् । कुम्भीपाके तप्ततैके दष्टः सर्पैर-
हर्निशम् । शब्दञ्च विकृताकारं कुरुते यमताडनात् ।
ततश्चाण्डालयोनिः स्यात् सप्तजन्मसु पातकी । सप्त-
जन्मसु सर्पश्च जलौकाः सप्तजन्मसु । जन्मकोटिसहस्रञ्च
विष्ठायां जायते कृमिः । योनिक्रिमिः पुंश्चलीनां स भवेत्
सप्तजन्मसु । गवां व्रणकृमिः स्याच्च पातकी सप्तजन्मसु ।
योनौ यौनौ भ्रमत्येवं न पुनर्जायते नरः” ब्रह्मवै०
पु० ८३ अ० । “द्विजानां पादशुश्रूषा शूद्रैः कार्य्या
सदा त्विह । पादप्रक्षालनं गन्धैर्भोज्यमुच्छिष्टमात्रकम् ।
ते तु चक्रु स्तदा चैव तेभ्यो भूयः पितामहः । शुश्रू-
षार्थ मया यूयं तुरीये तु पदे कृताः । द्विजानां क्षात्त्र-
वर्गाणां वैश्यानाञ्च भवद्विधाः । त्रिभ्यः शुश्रूषणा कार्य्या
इत्यवादीद्वचस्तदा” पाद्मे सृ० स्व० १६ अ० । “शुश्रूषैव द्वि-
जातीनां शूद्राणां धर्मसाधनम् । कारुकर्म तथाऽऽजीवः
पाकयज्ञोऽपि धर्मतः” गारुड़े ४९ अ० । “तथा मद्यस्य
पानेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण शूद्रश्चा०
ण्डालतां व्रजेत्” इति शूद्रकमलाकरधृतपराशरवाक्यम् ।
ब्राह्मणस्य तदन्नभोजननिषेधो यथा “शूद्रान्नं ब्राह्मणो-
ऽश्नन् वै मामं भासार्द्धमेव वा । तद्योनावभिजायेत
सत्यमेतद्विदुर्बुधाः । अथोदरस्थशूद्राम्नो मृतः श्वा चैव
जायते । द्धादश दश चाष्टौ च गृध्रशूकरपुष्कराः ।
उदरस्थितशूद्रान्नो ह्यधीयानोऽपि नित्यशः । जुह्वन्
वापि जपन् वापि गतिमूर्द्ध्वां न विन्दति । अमृतं ब्रा-
ह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यस्य चान्नमे-
वान्नं शूद्रान्नं रुधिरं स्मृतम् । तस्मात् शूद्रं न भिक्षेयु-
र्यज्ञार्थं सद्द्विजातयः । श्मशानमिव यच्छूद्रस्तस्मात्तं
परिवर्जयेत् । कणानामथ वा भिक्षां कुर्य्याच्चातिविक-
र्षितः । सच्छूद्राणां गृहे कुर्वन् तत्पापेन न लिप्यते ।
विशुद्धान्वयसंजातो निवृत्तो सद्यमांसतः । द्विजभक्तो
बणिग्वृत्तिः शूद्रः सन् परिकीर्त्तितः” वृहत्पराशरः ।
शूद्रकृत्यविचारणतत्त्वे मत्स्यपुराणम्
“एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धन्तु सर्वदा । नभरशा
रेण गन्त्रेण कुर्य्यादामान्नवद्बुधः । दानप्रधामः शूद्रः
स्यादित्याह भगवान् प्रभुः । दानेन सर्वकामाप्तिरस्क
संजायते यतः” । ततो दानमेवापेक्षित न तु मोजन-
मपि । सामान्यं सर्वजनकर्त्तव्यत्वेन प्रतिमासकृष्णपक्षा-
दिविहितश्राद्धम् आभ्युदयिकश्राद्धञ्च एवं द्विजातिवत्
शूद्रोऽपि कुर्य्यादित्यन्वयः । नमस्कारेण मन्त्रेण न तु
पठितमन्त्रेण । आमान्नवदित्यनेन जलसेकसिद्धान्नव्यावृत्तिः
“स्मिन्नमन्नमुदाहृतम्” इति वशिष्ठेन स्यिन्नस्यैवाद्भत्वस्या-
भिधानात् कन्दुपक्वस्य भ्रष्टत्वं न तु स्विन्नत्वं हारीतेन
स्वेदनभर्जनयोः पृथक्त्वमुक्तं यथा “आदीपनताषनस्वे-
दनभर्जनपचनादिभिः पञ्चमीति” । अस्यार्थः आदीपनं
काष्ठानां, तापनं तोयादेः, स्वेदनं धान्यादेर्भर्जनं यवादेः,
पचनं तण्डुलादेः इति पञ्चमी सूना इति कल्पतरुः ।
अतएव स्विन्नधान्येन व्यवह्रियते । “कन्दुपक्वानि तैलेन
पायसं दधिसक्तवः । द्विजैरेतानि भोज्यानि शूदूगेह-
कृतान्यपि” इति कूर्मपुराणवचने शूद्रकर्तृक कन्दुपक्वा-
देर्ब्राह्मणभक्ष्यत्वेन श्राद्धे देयत्वमुक्तम् । कन्दुपक्वं
जलोपसेकं विना केवलपात्रेण यद्वह्निना पक्वम् । पायसं
पाकेन काठिन्यविकारापन्नं दुग्धं परमान्नपरत्वे पुंलि-
ङ्गनिर्देशापत्तेः तथा चामरः “परमान्नन्तु पायसः”
इति । “दिने त्रयोदशे प्राप्ते पाकेन भोजयेद्घिजान् ।
अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्जितः” इति
श्राद्धचिन्ताभणिधृतवराहपुराणवचनमपि कन्दुपक्वपरम्
एवन्तु एतद्वचनं सच्छूद्रपरं मैथिलोक्तं हेयम् । एवम्
आममांसस्यापि श्राद्धे देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धे-
यम् । तत्र द्गव्यदेवताप्रकाशार्थं ब्राह्मणेन मन्त्राः पाठ्याः
“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रोमन्त्रेण गृह्यते” इति वराहपुरा-
णात् अयं श्राद्धेतिकर्त्तव्यताकोविधिः शद्रकर्तृकमन्त्र-
पाठरहितः शूद्रस्य मन्त्रपाठानधिकारसिद्धौ यदमन्त्र-
स्येति पुनर्वचनं तत्स्त्रियाग्रहणार्थं परिभाषार्थञ्च ततश्च
तत्कर्मसम्बन्धिमन्त्रेण विप्रस्तदीयकर्मकारयितृब्राह्मणो
गृह्यते तेन ब्रह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्य्यं
तत्र यजुर्वेदिको मन्त्रः तथा च स्मृतिः “आर्षक्रमेण
सर्वत्र शूद्रा वाजसनेयिनः । तस्माच्छूद्रः स्वयं कर्म
यजुर्वेदीव कारयेत्” । आर्षक्रमेण श्रुत्युक्तक्रमेण यजुर्वेदि-
सम्बन्धिगृह्यादिना “चतुर्णामपि वर्णानां यानि प्रो-
क्तानि वेधसा । धभशास्त्राणि राजेन्द्र! शृणु तानि
गप्रोत्तम! । विशेषतस्तु शूद्राणां पावनामि मनीपिभिः ।
पृष्ठ ५१३३
अष्टादश पुराणानि चरितं राघवस्य च । रामस्य कुरु-
शार्दूल धर्मकामार्थसिद्धये । तथोक्तं भारतं बीर! पारा-
शर्य्येण धीमता । वेदार्थं सकलं योज्य धर्मशास्त्राणि च
प्रभो!” इति भविष्यपुराणवचनात्तेषां पौराणिकादि-
बिधिः । योज्य योजयित्वा । अत्र च “श्राद्धं वेदमन्त्रवर्जं
शूद्रस्य इति वचने वेदेत्युपादानात् श्राद्धे पुराणमन्त्रः
शूद्रेण पठनीय इति मैथिलोक्तं तन्न वराहपुराणे शूद्राणां
मन्त्रवर्जित इत्यनेन मन्त्रमात्रनिषेधात् मत्स्यपुराणे
नमस्कारेण मन्त्रेण इत्युपादानाच्च पौराणिकस्यापि श्राद्धे
निषेषः प्रतीयते । एवं स्नानेऽपि “ब्रह्मक्षत्रविशामेव
मन्त्रवत् स्नानमिष्यते । तूष्णामेव हि शूद्रस्य सनमस्का-
रकं मतम्” इत्थनेन नमस्कारविधानात् पञ्चयज्ञेऽपि ।
“शूद्रस्य द्विजशुश्रूपा तया जीवनवान् भवेत् । शिल्पैवां
विविधैर्जीवेत् द्विजातिहितमाचरन् । भार्य्यारतिः शुचि-
र्भृत्यभर्त्ता श्राद्धक्रियारतः । नमस्कारेण मन्त्रेण पञ्च
यज्ञान्न हापयेत्” इति नमस्कारमात्रविधानात् श्राद्धा-
दिषु पौराणिकमन्त्रनिषेधः । ततश्च स्नानश्राद्धतर्पण
पञ्चयज्ञेतरत्र शूद्रस्य पौराणिकमन्त्रपाठः प्रतीयते ।
अत्र “षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले” इति
मनुवचनात् “चूड़ा कार्य्या यथाकुलम्” इति याज्ञवल्क्य-
वचनाच्च संस्कारमात्रे कुलधर्मानुरोधेन कालान्तरस्य
नामविशेषोच्चारणस्याभिधानाच्च शूद्रादीनां नामकरणे
वसुघोषादिकपद्धतियुक्तनामकरणस्य च प्रतीतेर्वैदिकक-
र्मणि शूद्राणां पद्धतियुक्तानामाभिधानं क्रियते इति” ।
शूद्रस्त्वाचमने दैवतीर्थेन ओष्ठे जलं सकृत्क्षिपेत् न
पिबेत् तथा च याज्ञवल्क्यः “हृत्कण्ठतालुगाद्भिस्तु
यथासंख्यं द्विजातयः । शुन्धरन् स्त्री च शूद्रश्च सकृत् स्पृ-
ष्टाभिरन्ततः” । अन्ततो हृदयादिसमीपेन ओष्ठेन उत्त-
रात्तरमपकर्षात् अतएव स्पृष्टाभिरित्युक्तं न तु भक्षि-
ताभिरिति “स्त्रीशूद्रः शुध्यते नित्यं क्षालनाच्च
करोथयोः” इति ब्रह्मपुराणवचनाच्च । याज्ञवल्क्यः “प्राग्वा
ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्” अत्र द्विजस्यै-
वाचमने ब्राह्मतीर्थोपादानात् स्त्रीशूद्रयोर्न तेनाचमनम्
एवमेव मिताक्षरायां व्यक्तमुक्तं मरीचिना “स्त्रियास्त्रै-
दशिकं तीर्थं शूद्रजातेस्तथैव च । सकृदाचमनाच्छुद्धि-
रेतयोरेव चोभयोः” इति । एतदनन्तरम् इन्द्रियादि-
स्पशनन्तु ब्राह्मणवदेव प्रमाणान्तरन्तु वाजसनेयिसामग-
श्राद्धाह्निकतत्त्वर्योरनुसन्धेयम्” आ० त० रघु० ।

शूद्रकर्म्मन् न० शूद्रस्य शास्त्रविहितं कर्म । शूद्रकर्त्तव्ये

द्विजसेवादौ शूद्रकृत्यादयोऽप्यत्र ।

शूद्रप्रिय पु० ६ त० । पलाण्डौ राजनि० ।

शूद्राधिकरण शूद्रस्य विद्यायामधिकारोऽस्ति नवेति

सन्देहे नाधिकार इति निर्णायके शारीरकसूत्रोक्ते
अधिकरणभेदे तच्चाधिकरण तत्र दर्शितं यथा
“शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि” सू०
“यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्या-
स्वधिकार उक्तस्तथैव द्विजात्यधिकारनियमापवादेन
शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्त्तयितुम्
इदमधिकरणमारभ्यते । तत्र शूद्रस्याप्यधिकारः स्यादिति
तावत् प्राप्तम्, अर्थित्वसामर्थ्ययाः सम्भवात्, “तस्माच्छुद्रो
यज्ञेऽनवकॢप्तः” इतिवत् शूद्रो विद्यायामनवकॣप्त इति
निषेधाश्रवणात् । यच्च कर्मस्वनधिकारकारणं शूद्रस्या-
नग्नित्वं न तद्विद्यास्वधिकारस्यापवादकम् । न ह्या-
हवनीयादिरहितेन विद्या बेदितुं न शक्यते । भवति च
लिङ्गं शूद्राधिकारस्योपोद्बोलकं, संवर्गविद्यायां हि
जानश्रुतिं पौव्रायणं शुश्रूषुं शूद्रशब्देन परामृशति
“अह हारे त्वा शूद्र! तवैव सह गोभिरस्तु” इति ।
विदूरप्रभृबयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानस-
म्पन्नाः स्मर्य्यन्ते । तस्मादधिक्रियते शूद्रो विद्यास्वित्येवं
प्राप्ते ब्रूमः । न शूद्रस्याधिकारो वेदाध्ययनाभावात् ।
अधीतवेदा हि विदितवेदार्थो बेदार्थेष्वधिक्रियते, न च
शूद्रस्य वेदाध्ययनमस्ति, उपनयनपूर्वकत्वाद्वेदाध्ययनस्य
उपनयनस्य च वर्णत्रयविषयत्वात् । यत्त्वर्थित्वं न तदसति
सामर्थ्येऽधिकारकारणं भवति । सामर्थ्यमपि न
लौकिकं केवलमधिकारकारणं भवति शास्त्रीयेऽर्थे शास्त्री-
यस्य सामर्थ्यस्यापेक्षितत्वात् शास्त्रीयस्य च सामर्थ्य-
खाध्ययननिराकरणेन निराकृतत्वात् । यच्चेदं शूद्रो
यज्ञेऽनवकॢप्त इति तत् न्यायपूर्वकत्वाद्विद्यायामप्यनव-
कॢप्तत्वं द्योतयति न्यायस्य साधारणत्वात् । यत् पुनः
संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे न तल्लि-
ङ्गम्, न्यायाभावात् । न्यायोक्ते हि लिङ्गदर्शनं द्योतर्क
भवति, न चात्र न्यायोऽस्ति कामञ्चायं शूत्रशब्दः संवर्ग-
विद्यायामेषैकस्यां शूद्रमधिकुर्य्यात् तद्विषयत्वात्
न सर्वासु विद्यासु, अर्थवादस्थत्वात् न तु क्वचिदप्ययं शूद्र-
मधिकर्तुमुत्सहते । शक्यते चायं शूद्रशब्दोऽधिकृतविषये
योजयितुम् । कथमित्युच्यते । “कं वर एवमेतत् सन्तं
पृष्ठ ५१३४
सयुग्वानमिव रैक्कमात्थेति अस्मार्द्धसवाक्यादात्मनोऽनादर
श्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे तामृषी रैक्क
शूद्रशब्देनानेन सूचयाम्बभूवात्मनः परोक्षज्ञानस्य ख्या-
पनायेति गम्यते, जातिशूद्रस्यानधिकारात् । कथं पुनः
शूद्रशब्देन शुगुत्पन्ना सूच्यते इति, उच्यते, तदा
द्रवणाच्छुचमभिदुद्राव शुचा वाभिदुद्रुवे शुचा वा रैक्क-
मभिदुद्रावेति शूद्रावयवार्थसम्भवात् रूढ़ार्थस्य चासम्भ-
वात् । दृश्यते चायमर्थोऽस्यामाख्यायिकायाम्” ।

शूद्रार्त्ता स्त्री शूद्रेणार्त्ता पीड़िता । प्रियङ्गौ शब्दच० ।

शूद्रावेदिन् स्त्री शूद्रां विन्दति विद--णिनि उप० । शूद्र-

जातिस्त्रिया विवाहकर्त्तरि । “शूद्रायेदी पतत्यत्रेः” मनुः
“कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः । शूद्रैव
भार्य्या शूद्रस्य सा च खा च विशः स्मृते । ते च स्वा चैव
राज्ञश्च ताश्च स्वा चाग्रजन्मनः” इति मनुना कामतश्चातु-
र्वर्ण्यविवाहे विहितेऽपि शूद्रावेदीत्यस्याधिकदोषार्थता
द्विजातिस्त्रीलाभे शूद्रस्त्रीविवाहनिषेधार्थता च । स च
विवाहः युगान्तरविषथः कलौ असवर्णस्त्रीविवाहनिषेधात्
कलिशब्दे १८०३ पृ० दृश्यम् ।

शूद्रान्न न० ६ त० । शूद्रस्वामिकान्ने तस्य द्विजैरभक्ष्यर्त्वं यथा

हारीतः “शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः ।
स वैखरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति” म० त० धृत
वाक्यं शूद्रान्नं शूद्रस्वामिकान्नं रघु० । “आमं शूद्रस्य
पक्वान्नं पक्वमुच्छिष्टमुच्यते” इति तत्पक्वान्नस्य सर्वथा
निषेधादत्र अस्मिन्नमेव शूद्रस्वामिकान्नं गृह्यते । तद्दत्त-
मपि भोजनकाले तद्गृहावस्थितं तदपि शूद्रान्नं
तदाहाङ्गिराः “शूदवेश्मनि विप्रेण क्षीरं वा यदि वा
दधि । निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम्”
तेन शूद्रवेश्मस्थितक्षीरदध्यादिकमपि शूद्रान्नं पारिभा-
षिकमित बोध्यम् । निवृत्तेन शूद्रान्नानिवृत्तेन । तदपीति
अपिशब्दात् साक्षाद्दत्तघृततण्डुलादि न तु तद्दत्तकपर्दका-
दिना क्रीतमपि । स्वगृहागते शूद्रान्ने अङ्गिराः “यथा
यतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः । शूद्राद्विप्र-
गृहेष्वन्नं प्रविष्टन्तु सदा शुचि” प्रविष्टं स्वत्वापादक-
प्रतिग्रहादिनेति शेषः । अतएव पराशरः “तावद्भवति
शूद्रान्नं यावन्न स्पृशति द्विजः । द्विजातिकरसंस्पृष्टं
सर्वं तद्धविरुच्यते” । स्पृशति प्रतिगृह्णातीति कल्पतरुः ।
तच्च संप्रोक्ष्य ग्राह्यमित्याह विष्णुपु० “संप्रोक्ष्य प्रतिगृ-
ह्लीया शूद्रान्नं गृहमागतम्र” तच्च पात्रान्तरे ग्राह्यमि-
त्याहाङ्गिराः “स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति
नित्यशः । पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम्” ।
एतेन स्वगृहमागतस्यैब शुद्धत्वं प्रतीयते ततश्चैतादृगपि
मुर्मूषुणा शूद्रान्नं सर्वथा न भोक्तव्यम् प्रागुक्तहारीत-
वचने तन्निन्दाश्रवणात्” शु० त० । “नाद्यात् शूद्रस्य विप्रो-
ऽन्नं मोहाद्वा यदि वान्यतः । स शूदयोनिं व्रजात
यस्तु भुङ्क्ते ह्यनापदि । षण्मासान् यो द्विजो भुङ्क्ते
शूद्रस्यान्नं विगर्हितम् । जीवन्नेव भवेत् शूद्रो मृतः
श्वा चाभिजायते । ब्राह्मणक्षत्रियविशां शूद्रम्य च
मनीषिणः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्”
व्यासवाक्यम् “आर्त्विजः कुलमित्रञ्च गोपालो दासना-
पितौ । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ।
कृषीवलः कुम्भकारः क्षेत्रकर्षक एव च । एते शूद्रेषु
भोज्यान्ना दत्त्वा खल्पपणं बुधैः । पायसं स्निग्धपक्वञ्च
यावकञ्चैव सक्तवः । पिन्याकञ्चैव तैलञ्च शूद्राद् ग्राह्यं
द्विजातिभिः” कूर्मपु० ७ त० भागे १६ अ० । “कन्दुपक्वानि
तैलेन पायसं दधिसक्तवः । द्विजैरेतानि भोज्यानि शूद्र-
गेहकृतान्यपि” । “कुलमित्रादीनां भोज्यान्नता तु
कलीतत्परा । शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणाम् ।
भोज्यान्नता मृहस्थस्य तीर्थसेवाऽतिदूरतः” षराशरेण
कलौ वर्ज्यस्योक्तेः शूद्रोऽपि ब्राह्मणद्वारा पक्वान्नेन
नैवेद्यं दातुमर्हति वृषोत्सर्गाङ्गचरुपाकादिवत् तत्रापि
तस्याधिकार इति ति० त० दुर्गोत्सवप्रकरणे रघुनन्दनेन
व्यवस्थापितम् तत्र दृश्यम् ।

शूद्रासुत पु० शूद्रायाः द्विजातिभिः ऊढायाः सुतः । द्वि-

जातिजाते शूद्रजातिस्त्रियाः सुते पुत्रभेदे ।

शूना स्त्री श्वि--अधिकरणे--क्त सम्प्र० दीर्घः । १ प्राणिबधस्थाने हला०

“पञ्च शूना गृहस्थस्य चूल्ली पेषण्युपस्करः । कण्डनी
चोदकुम्भश्च बध्यते यास्तु वाहयन्” मनुः । तद्दोषनिवृत्तये
कार्का मनुना पञ्च यज्ञा विहिता यथा “अध्यापनं ब्रह्म-
यज्ञः पितृयज्ञस्तु तर्पणम् । हौमो दैवौ वलिर्भोती
नृयज्ञाऽतिथिपूजनम् । पञ्चैतान् यो महायज्ञान् न
हापयति शक्तितः । स गृहेऽपि वसन्नित्यं शूनादोषैर्न
लिप्यते” । (आलजिभ) २ अधोजिह्वायां हारा० ।

शून्य त्रि० शूनायै प्राणिबधाय हितम् रहस्यस्थानत्वात् यत् ।

१ निर्जनस्थाने मेदि० । २ आकाशे शब्दच० । ३ बिन्दुमात्रे
हेमच० । ४ अभावे च अमरः । ५ असम्पूर्णे ६ ऊने ७ तुच्छे
च त्रि० अमरः ।
पृष्ठ ५१३५

शून्यमध्य पु० शून्यमाकाशो मध्ये यस्य । १ गले राजनि० । २ शून्यमध्ययुक्त त्रि० ।

शून्यवादिन् पु० शून्यमभावमात्रं सर्वकारणतया वदति

बद--णिनि । बौद्धभेदे बुद्धशब्दे ४५८१ पृ० दृश्यम् ।

शून्या स्त्री शून्यमस्त्यस्याः अच् । १ नल्यां विश्वः । २

महाकण्टकिन्याम् । (फणिमनसा) राजनि० ।

शूर हिंसे स्तम्भे च दि० आ० सक० सेट् । शूर्य्यते अशूरिष्ट । ईदित् शूर्णः

शूर विक्रमे अद० चु० उभ० सक० सेट् । शूरयति ते

अशुशूरत् त ।

शूर पु० शूर--अच् । १ वीरे विक्रमवति अमरः । २ वसुदेव-

नामके यादवे मेदि० । ३ सूर्य्ये त्रिका० ४ अर्कवृक्षे ५ सिंहे
६ शूकरे पुंस्त्री० स्त्रियां ङीष् । ७ चित्रकवृक्षे ८ साले
९ निकुचे १० मसूरे च पु० राजनि० ।

शूरण पु० शूर--ल्यु । (ओल) १ मूलभेदे अमरः “शूरणो

दीपनो रूक्षः कषायः कण्डुकृत् कटुः । विष्टम्भी
बिशदो रुच्यः कफार्शःकृन्तनो लघुः । विशेषादर्शसे
पथ्यः प्लोहगुल्नविनाशनः । सर्वेषां कन्दशाकानां शूरणः
श्रेष्ठ उच्यते । दद्रूणां रक्तपित्तानां कुष्ठानां न हितो
हि सः । सन्धानयोगसंप्राप्तः शूरणो गुणकृत्तमः”
भावप्र० । २ शोणाकवृक्षे च शब्दमाला ।

शूरसेन पु० शूरा सेना यत्र, यस्य वा । १ देशभेदे २ नृपभेदे च ।

शूर्प माने चु० उभ० सक० सेट् । शूर्पयति ते अशुशूर्पत् त ।

शूर्प पु० शूर्प्यते धान्यादिकमनेन शूर्प--घञ् । (कुला) धान्या-

दिस्फोटके १ वंशमयपात्रे २ द्रोणद्वयपरिमाणे च शब्दच० ।

शूर्पकर्ण पुंस्त्री० शूर्प इव कर्णो यस्य । १ गजे त्रिका० ।

स्त्रियां ङीष् । २ शूर्पश्रुतिरप्यत्र हारा० ।

शूर्पणखा(खी) स्त्री शूर्प इव नखा अस्याः णत्वम् वा ङीष् ।

रावणभगिन्यां शब्दमा० ।

शूर्पपर्णी स्त्री शूर्प इव पर्णान्यस्याः ङीप् । शिम्बीभेदे शब्दच० ।

शूर्पवात पु० ६ त० । शूर्पजवायौ फुल्लफाले त्रिका० ।

शू(सू)र्म्म पु० सुष्ठु उर्मिरस्त्यस्याः अच् वा पृषो० सस्य शः ।

लौहप्रतिमायाम् अमरः ।

शू(सू)र्मि(र्मी) स्त्री सुष्ठु ऊर्मिः यस्याः वा शत्वम् वा ङीप् । लौहादिप्रतिमायां शब्दच० ।

शूल रुजायां भ्वा० पर० अक० सेट् । शूलति अशूलीत् ।

शूल पु० न० शूल--क । १ रोगभेदे २ त्रिशूले च अमरः । ३

व्यथायां ४ मृत्यौ ५ सुतीक्ष्णे अयःफाले धरणिः । ६ चिह्ने
मेदि० । ७ मुनिभेदे विष्कम्भादिषु ८ नवमे योगे च पु० ।
९ विक्रेतव्ये “अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियो राजन्! भविष्यन् युगक्षये” भा० व०
१८८ अ० । अट्टशब्दे ९५ पृ० दृश्यम् । शूलरोगभेद
निदानादिकं भावप्र० उक्तं यथा
“अथ शूलाधिकारः । तत्र शूलस्य सन्निकृष्टं निदान-
माह “दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् ।
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः (कर्त्ता)” । अथ
वातिकस्य विप्रकृष्टं निदानं सम्प्राप्तिपूर्वकं लक्षणञ्चाह “व्या-
यामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् ।
कलायमुद्गाढ़ककोरदूषादत्यर्थरूक्षाध्यशनाभिधातात् ।
कषायतिक्तातिविरूढ़जान्नविरुद्धवल्लूरकशुष्कशाकैः । विट्-
च्छुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात् ।
वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वे त्रिकवस्तिदेशे ।
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति
गाढ़म् । मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूत्रसंस्तम्भनतोद-
भेदैः । संस्वेदनाभ्यञ्जनमर्दनाद्यैः सिग्धोष्णभोज्यैश्च
शमं प्रयाति” । व्यायामो मल्लयुद्धादिः यानं तुरगरथादि
मैथुनं स्त्रीसेवा प्रजागरो रात्रौ, एषामतियोगात्
शीतलजलप्रभूतपानात् कलायस्त्रिपुटः आढ़कः तुवरी
कोरदूषः कोद्रवः । अतिरूक्षद्रव्यसेवा, अध्यशनं भुक्तस्यो-
परि मोजनम् अभिधातो लोष्टादिभिः, कषायतिक्तरस-
सेवा विरूढ़जान्नम् विरूढ़मङ्कुरितमन्नम् कलायच-
णकादि तज्जमन्नं भक्ष्यम् । वल्लूरकं शुष्कमांसम् । तस्य
शूलस्य देशमाह हृदादिषु तत्र हृच्छूलस्य पृथगपि
लक्षणं षठन्ति “कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः ।
हृदिस्थः कुरुते शूलमुच्छासस्यावरोधकम् । स हृच्छूल
इति ख्यातो रसमारुतकोपजः” । अथ पार्श्वर्शूलस्यापि
लक्षणमाह “कफं निगृह्य पवनः सूचीभिरिव निस्तु-
दन् । पार्श्वस्थः पार्श्वयोः शूलं कुर्य्यादाध्मानसंयुतम् ।
तेनोच्छसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति । निद्राञ्च
नाप्नुयादेव पार्श्वशूलः प्रकीर्त्तितः” । वस्तिशूलस्यापि
लक्षणमाह “संरोधात् कुपितो वायुर्वस्तिं संश्रित्य
तिष्ठति । वस्तेरध्वनि नाड़ीषु ततः शूलोऽस्य जायते ।
विण्मूत्रवातसंरोधी वस्तिशूलः स उच्यते” । प्रकृत-
मनुसरति जीर्णे भुक्ते प्रदोषे रात्र्यागमे रात्रि
भवशीतेन वातप्रकोपात् । घनागमे वर्षासु मेघोदये
च तथैव । पैत्तिकमाह “क्षारातितीक्ष्णोष्णविदाहि-
तैलनिष्पावपिण्याककुलत्थयूपैः । कट्वम्लसौवीरसुरावि
कारैः क्रोधानलायासरविप्रतापैः । ग्राम्यातियोगाद-
शगैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम् । तृणूमोह
पृष्ठ ५१३६
दाहार्त्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम् ।
मध्यंदिने कुप्यति चार्द्धरात्रे निदाघकाले जलटात्यये
च । शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरति
भोजनैश्च” । निष्पावो राजमाषः । सौवीरं सन्धान-
भेदः । सुराविकारैः “परिपक्वान्नसन्धानसमुत्पन्ना सुरा
मता” । तस्या विकारैः । रविप्रतापः आतपः । ग्राम्या-
तियोगो मैथुनाधिक्यम् । विदाहीत्युक्त्वापि अशनैर्वि-
दग्धैरिति वोधयति अविदाहिवस्तुनोऽप्रि पित्त-
वशाद्दिदाहित्वं भवति । जलदात्यये शरदि । शीतैर्वा-
तादिभिः । श्लैष्मिकमाह “आनूपबारिजकिलाटपयोवि-
कारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः । अन्यैर्बलास-
जनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति
शूलम् । हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्ति-
मितकोष्ठशिरोगुरुत्वैः । भुक्ते सदैव हि रुजं कुरुते-
ऽतिमात्रम् सूर्य्योदयेऽथ शिशिरे कुसुमागमे च” ।
आनूपं बहुलजलदेशजं भक्ष्यम् । वारिजं शालूकादि
“पक्वं दध्ना समं क्षीरं विज्ञेया दधिकूर्चिका । तक्रेण
तक्रकूर्चीस्यात्तयोः पिण्डः किलाटकः” । पयोविकारः
पायसादिः पिष्टं माषादिः । अन्यैः गुर्वादिभिः ।
स्तिमितमार्द्रपटावगुण्ठितमिव यत्कोपं शिरश्च
तयोर्गुरुत्वैः सह । सूर्य्योदय इति त्रिधा विभक्तदिवस
प्रथमभागस्योपलक्षणम् । शिशिरे तत्र कफस्यातिसञ्च-
यात् । कुसुमागमे वसन्ते । द्वन्द्वजमाह “द्विदोषलक्षणै-
रेतैर्विद्याच्छूलं द्विदोषजम् । सर्वेषु देशेषु च सर्व-
लिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम् । सुकष्टमेनं
विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः” । सर्वेघु
देशेषु हृत्पृष्ठपार्श्वत्रिकवस्तिनाभ्यामाशयेषु । सर्व
भवं त्रिदोषजम् । आमजमाह “आटोपहृल्लासवमी
गुरुत्वस्तैमित्यमानाहकफप्रसेकैः । कफस्य लिङ्गेन
समानलिङ्गमामोद्भवं शूलमुदाहरन्ति” । अत्रामशूले जाते
पश्चाद् दोषसम्बन्धः अतएवास्य शूलस्याष्टमत्वमुक्तम् ।
म च प्रथममामाशये भवति पश्चात् सम्बन्धिभिर्दोषैर्वस्ति-
नाभिहृत्पार्श्वकुक्षिषु भवति यथा दोषसम्बन्धः ।
आमशूलस्य दोषविशेषेण देशविशेषमाह “वातात्मकं
वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम् ।
हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्नि-
पातात्” । हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ ।
कफसन्निविष्टं कफनाविष्टम् “वस्तौ हृत्कटिपार्श्वेषु
स शूलः कफवातिकः ४ कुक्षौ हृन्नाभिमध्ये तु स शूलः
कफपैत्तिकः ५ । दाहज्वरकरा घारो विज्ञेयो वातपै
त्तिकः” । तन्त्रान्तरोक्तमामशूलमाह “अतिमात्रं
यदा भुक्तं पावके मृदुताङ्गते । स्थिरीकृतन्तु तत्कोष्ठे
वायुरावृत्य तिष्ठति । यदान्नं न गतं प्राकं तच्छूलं
कुरुते भृशम् । मूर्च्छाध्मानं विदाहांश्च हृत्क्लेशं स
विलम्बिकम् । कम्पं वान्तिमतीसारं प्रमेहं जनयेदपि ।
अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः” अविपाकोद्भवम्
आमोद्भवमित्यर्थः । अथ श्लस्योपद्रवानाह “बेदनाति
तृषा मूर्च्छा आनाहो गौरवारुची । कासः श्वासो
वमिर्हिक्का शूलस्योपद्रवाः स्मृताः” । अथासाध्यत्वादिकमाह
“एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विद्रोषजः । सर्वदो-
षान्वितो घोरस्त्वसाध्यो भूर्य्युपद्रवः” । अथारिष्टमाह
“वेदनातितृषा मूर्च्छा आनाहो गौरवं ज्वरः । भ्वमो-
ऽरुत्तिः कृशत्वञ्च बलहानिस्तथैव च । उपद्रवा दशैवेते
यस्य शूलेषु, नास्ति सः” । अथ शूलस्यैव भेदं परिमाण-
माह “स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा ।
कफपित्ते समावृत्य शूलाकारो भवेद्बली । भुक्ते
जीर्य्यति यच्छूलं तदेव परिणामजम्” । स्वैर्निदानैरित्या-
द्रिना निदानपूर्विका संप्राप्तिरुक्ता भुक्ते जीर्य्यतीत्या-
दिना लक्षणमुक्तम् । समावृत्य व्याप्य । तस्य लक्षणमप्येतत्
समासेनाभिधीयते । “आघ्मानाटोपविण्मूत्रविबन्धा-
रतिवेपनैः । स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेत्
भिषक् । तृष्णादाहारतिस्वेदकद्वम्ललवणोत्तरम् । शूलं
शीतशमप्रायं पैत्तिकं लक्षयेत् बुधः । छर्द्दिहृल्लाससम्मोह
स्वल्परुक् दीर्घसन्तति । कटुतिक्तोपशान्तौ च विज्ञेयञ्च
कफात्मकम् । संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् ।
त्रिदोषजमसाध्यं स्यात् क्षीणमांसबलानलम्” । अथान्न
द्रवनामानं शूलविशेषमाह “जीर्णे जीर्य्यति चाप्यन्ने
यच्छूलमुपजायते । पथ्याप्रथ्यप्रयोगेण भोजनाभोज-
नेन वा । न शमं याति नियमात्सोऽन्नद्रव उदाहृतः ।
नेदं शूलमसाध्यं चिकित्साभिधानात्” ।
अथ शूले पथ्यापथ्ये भावप्र० दर्शिते यथा
“कलाययवगोधूमाः श्यामाकाः कोरदूषकाः ।
राजमाषाश्च कुलत्थाः कङ्गुशालयः । दधिलुप्तरसं क्षीरं
सर्पिर्गव्यं समाहिषम् । वास्तुकं कारवल्ली च कर्कोटक
फलानि च । वर्हिणो हरिणामत्स्या रोहिताद्याः
कपिञ्जलाः । एतस्यिन्नामये शस्तामतामुनिचिकित्सकः
पृष्ठ ५१३७
दधिलुप्तरसं दध्ना लुप्तः कृतो रसो यस्य तत्क्षीरं
दधियुक्तं क्षीरभित्यर्थः । “व्यायामं मैथुनं मद्यं लवणं कटुकं
रसम् । वेगरोधं शुच क्रोकं विदलं शूलवान् त्यजेत्” ।
स च उपपातकचिह्नं यथोक्तं शाता० कर्मवि०
“जलोदरयकृत्प्लोहशूलरोगव्रणानि च । श्वासा-
जीर्णज्वरच्छर्दिभ्रममोहगलग्रहाः । रक्तार्बुदविसर्पाद्या
उपपापापोद्भवा गदाः” ।

शूलक पुंस्त्री० शूल + संज्ञावां कन् । १ दुर्विभाग्ये हेमच० ।

स्त्रियां ङीष् । स्वार्थे क । २ शूलशब्दार्थे ।

शूलग्रन्थि पु० शूलाकारः ग्रन्थिरस्य । मालादूर्वायां राजनि०

शूलघातन न० शूलं रोगभेदं घातयति हन--णिच्--ल्यु ।

मण्डूरे शब्दच० ।

शूलघ्न पु० शूलं हन्ति हन--क । तुम्बुरवृक्षे रत्नमा० ।

शूलद्विष पु० ६ त० । हिङ्गौ रत्नमाला ।

शूलधन्वन् पु० शूलं धनुरायुधमस्य अनङ् समा० । शिवे शब्दच० ।

शूलधर पु० शूलं धारयति धारि--अच् ह्रस्वः । शिवे शब्दच० ।

भृ--क्विप् । शूलभृदप्यत्र ।

शूलधारिन् पु० शूलं धरति धृ--णिनि । १ शिवे १ दुर्गायां स्त्री ङीप् शब्दच० ।

शूलधृष् पु० शूलेन धर्षति दैत्यान् धृष--क्विप् । १ शिवे

२ दुर्गायां स्त्री । धृज--क्विन् । शूलधृज् तत्रार्थे ।

शूलनाशन न० शूलं नाशयति नश--णिच्--ल्यु । सौवर्च-

लवणे हेमच० ।

शूलपत्त्री स्त्री शूलमिव पत्त्रं यस्याः ङीप् । शूलीतृणे राजनि० ।

शूलपाणि पु० शूलं पाणौ यस्य । शिवे शूलहस्तादयोऽप्यत्र ।

शूलशत्रु पु० शूलस्य रोगस्य शत्रुः । एरण्डवृक्षे शब्दच० ।

शूलहन्त्री स्त्री शूलं रोगं हन्ति हन--तृच् ङीप् । यवान्यां

राजनि० ।

शूलहृत् पु० शूलं रोगं हरति हृ--क्विप् । हिङ्गुलि त्रिका० ।

शूला स्त्री शूलं तदाकारोऽस्त्यस्य शूलं स्वयौवनविक्रेय-

तयाऽस्त्यस्या वा अच् । १ दुष्टबधार्थकीलके २ वेश्यायाञ्च
त्रिका० ।

शूलाकृत त्रि० शूलेन विद्धा कृतं पक्वम् शूल + डाच् +

कृक्त । लौहादिकीलकेन विद्धा पक्वे मांसे (कावाव) अमरः

शूलिक त्रि० शूलं पाकसाधनत्वेनास्त्यस्य ठन् । १ शूला-

कृते शब्दच० २ शशके हेमच० ३ शूलयुते त्रि० ।

शूलिन् पु० शूलमस्त्यस्य इनि । १ शूलरोगयुक्ते २ शूलास्त्र

धारके त्रि० ३ शिवे पु० ४ शशके भावप्र० ।

शूलिन् पु० शूलं तदाकार फलमस्त्यस्य इनन् । भाण्डीरवृक्षे शब्दच० ।

शूली स्त्री शूलं पत्त्राकारे अस्त्यस्य अच् गौरा० ङीष् ।

शूलाकारपत्त्रयुते स्वनामख्याते तृणभेदे राजनि० ।

शूलोत्खा स्त्री शूलं रोगभेदमुत्खनति उद् + खन--ड ।

सामराज्यां शब्दच० ।

शूल्य त्रि० शूले संस्कृतं यत् । शूलाकृते मांसे भावप्र०

कृतान्नशब्दे तत्पाकादि २१८३ पृ० दृश्यम् ।

शूष प्रसवे भ्वा० पर० सक० सेट् । शूषति अशूषीत् ।

शृ(सृ)गाल पुंस्त्री० असृजं लाति ला--क पृषो० । (शेयाल)

१ पशौ अमरः स्त्रियां ङीष् । २ दैत्यभेदे मेदि० । ३ वासु-
देवे ४ निष्ठुरे ५ खले च पु० सारस्वताभिधानम् । पृषो० ।
शृकाल तत्रार्थे शब्दच० । ६ भीरौ अमरार्थकोषः ।
शृगालशब्दशाकुनं शिवारुतशब्दे दृश्यम् ।

शृगालकण्टक पु० शृगालस्तद्दन्त इव कण्टको यस्य ।

(शेयालकाँटा) क्षुपभेदे शब्च० ।

शृगालकोलि पु० शृगाल इव कण्टकितः कोलिः । (शेया-

कुल) क्षुपभेदे रत्नमाला ।

शृगालघण्टी स्त्री शृगाल इव कण्टकिनी घण्टी । कोकिलाक्षे क्षुपभेदे राजनि० ।

शृगालजम्ब स्त्री शृगालप्रिया जम्बुरिव । १ गोडुम्बे

(गोमुक) २ घोण्टाफले मेदि० ।

शृगालविन्ना स्त्री शृगालैर्विद्यते विद--क्त । पृश्निपर्ण्यां राजनि० ।

शृगालिका स्त्री शृगालस्य भार्य्या ङीप् स्वार्थे क । १

शृगालयोषिति शृगालीव इवार्थे कन् । २ भयात् पलायने
मेदि० ।

शृगाली स्त्री शृगालस्तत्पलायनं सादृश्येनास्त्यस्य अच्

ङीप् । १ पलायने त्रिका० । २ कोकिलाक्षे ३ विदार्य्यां
राजनि०

शृङ्खल पु० शृङ्गात् प्राधान्यात् स्खल्यतेऽनेन पृषो० । निगडे

२ लौहमये ३ पादबन्धने च हेमच० । ४ कट्याभरणे अमरः
५ पुंस्कटीवस्त्रबन्धने मेदि० । तत्रार्थे स्त्रीत्वमपि टाप् ।

शृङ्खलक पुंस्त्री० शृङ्खल इव कायति कै--क । १ उष्ट्रे राजनि०

स्त्रियां जातित्वात् ङीष् स्वार्थे क । २ शृङ्खलशब्दार्थे ।

शृङ्खलित त्रि० शृङ्खला जाताऽस्य इतच् । वद्धनिगड़ेधनञ्जयः

शृङ्खली स्त्री शृङ्खलः तदाकारोऽस्त्यस्याः अच् गौरा० ङीष् ।

१ कोकिलाक्षे वृक्षे २ पुंस्कठीवस्त्रबन्धने च राजनि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/शाला&oldid=57852" इत्यस्माद् प्रतिप्राप्तम्