वाचस्पत्यम्/श

विकिस्रोतः तः
Jump to navigation Jump to search
← वाचस्पत्यम्/व वाचस्पत्यम्/श
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ष →
पृष्ठ ५०७२

शकारः ऊष्मवर्णभेदः । अस्योच्चारणस्थानं तालु । तस्यो-

च्चारणे आभ्यन्तरप्रयत्नः विवृतम् । बाह्यप्रयत्ना विवार-
श्वासाघोषा महाप्राणश्च । अस्य ध्येयस्वरूपम्
“शकारं परमेशानि! शृणु वर्णं शुचिस्मिते! । रक्तवर्ण-
प्रभाकारं स्वयं परमकुण्डली । चतुर्वर्गप्रदं देवि!
शकारं ब्रह्मविग्रहम् । पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं
प्रिये । रजःसत्त्वतमोयुक्तं त्रिविन्दुसहितं सदा । त्रि-
शक्तिसहितं घर्णमात्मादितत्त्वसंयुतम्” कासधेनुतन्त्रम् ।
अस्य वाचकशब्दा योगिनीतन्त्रोक्ता यथा “शः
सव्यश्च कामरूपी कामरूपो महामतिः । सौख्यनामा
कुमारोऽस्थि श्रीकण्ठो वृषकेतनः । वृषघ्नः शयनं शान्ता
सुभगा विस्फुलिङ्गिनी । मृत्युर्देवो महालक्ष्मीर्महेन्द्रः
कुलकौलिनी । बाहुर्हंसो वियद्वक्त्रं हृदनङ्गोऽङ्कुशः
खनः । वामोरुः पुण्डरीकाक्षः कान्तिः कल्याणवा-
चकः” । मातृकान्यासेऽस्य हृदादिदक्षकरे न्यास्यता ।
काव्यादौ प्रथमप्रयोगे सुखं फलम् । “शः सुखं षस्तु-
स्वेदम्” वृ० त्त० टी० ।

न० शी--ड । १ मङ्गले त्रिका० । २ महादेवे, ३ शस्त्रे च पु० शब्दर० ।

शंयु त्रि० शमस्त्यस्य शम् + युस् । शुभान्विते त्रिका० ।

शंव त्रि० शमस्त्यस्य शम् + व । १ शुभयुक्ते त्रिका० । २ सूसला-

ग्रलोहे ३ वज्रे च पु० धरणिः ।

शंवर न० शंवृणोति शम् + वृ--अच् । जले अमरः ।

शंसा स्त्री शन्स--अ । १ वाक्ये । २ वाञ्छायां मेदि० ।

३ प्रशंसायाञ्च शब्दर० ।

शंसित त्रि० शन्स--क्त । १ निश्चिते हला० । २ हिसिते । ३ कथिते ४ स्तुते च ।

शंस्य त्रि० शन्स--ण्यत् । १ हिंस्ये २ स्तुत्ये ३ वाच्ये च ।

शक त्रामे अक० संशये सक० भ्वा० आ० सेट् इदित् । शङ्कते

अशङ्किष्ट ।

शक क्षमायां सक० दि० उभ० सेट् । शक्यति ते अशाकीत्-

अशकीत् अशकिष्ट “शक्योऽस्य मन्यु र्भवता विनेतुम्” रघुः ।

शक सामर्थ्ये स्वा० प० अक० इरित् वेट् । शक्नोति

अशकत्--अशाक्षीत् । पुषादिरित्येके तेन अशकदित्येव ।

शक पु० शक--अच् । १ जातिभेदे स च ब्रात्यक्षत्रियः १९०७ पृ०

दृश्यम । २ देशभेदे स्वराज्यावधिवत्सराङ्कप्रवर्त्तके २
नृपभेदे ४ तदीये वत्सरे च । कलियुगे शककर्त्तृषु षट्सु
युधिष्ठिरः विक्रमादित्यः शालिवाहनश्चेति त्रयोगता
पृष्ठ ५०७३
विजयाभिनन्दनादयस्तयो भविष्यन्ति । तथा हि कलौ
षट् शककर्त्तारः तल्लक्षणादि ज्योतिर्वि० १० अ० उक्त यथा
“कलौ भविष्यन्त्यथ भारतावनौ महीभुजो बाहुमृतोऽप्य-
नेकशः । शकास्तथैषामभिषेचनादिकं हितं सदोदी-
रितकालसाधितम् । धराधिभूर्भिल्लशकादिजातिजस्त-
दासनस्थोऽभिजनैर्नमस्कृतः । स्ततौ स राजाधिजनैः
प्रतिष्ठितो न मन्त्रभेदाद्यभिषेचनोचितः । निहन्ति यो
भूतलमण्डले शकान् सपञ्चकोट्यब्जदलप्रमान् कलौ ।
स राजपुत्रः शककारको भवेत् नृपाधिराज्ये ह्युतशाक-
कर्त्तृ हा” । (तत्र शककारकस्य विक्रमादित्यस्य हननात्
शालिवाहवस्य शककर्त्तृत्वम्) “यधिष्ठिरो विक्रमशालि-
वाहनौ नराधिनाथौ विजयाभिनन्दनः । इमेऽनु
नागार्जुनमेदिनीबिभुर्वलिः क्रमात् षट् शककारकाः कलौ” ।
तत्प्रवृत्तिकालांस्तत्राह “युधिष्ठिरात् वेदयुगाम्बरा-
ग्नयः (३०४४) कलम्बविश्वे (१३५) ऽभ्रखखाष्टभूमयः
१८००० । ततोऽयुतं १०००० लक्षचतुष्टयं क्रमात्
धरादृगष्टाविति (८२१) शाकवत्सराः । युघिष्ठिरोऽभूद्भुवि
हस्तिनापुरे तथोज्जयिन्थां पुरि विक्रसाह्वयः । शाले-
यभूमीभृति शालिवाहनःसुचित्रकूटे विजयाभिनन्दनः ।
नागार्जुनो रोहितके क्षितौ बलिर्भविष्यतीन्द्रो भृगु-
कच्छपत्तने । कृतप्रवृत्तिस्तदनन्तरं भवेत्तदा भविष्यन्त्यबनी-
भृतोऽर्कतः” । अत्र युधिष्ठिरात् प्राक् कलौ शककर्त्त्र-
न्तराभावात् कलियुगारम्भकालादेव तस्य शककाल
उक्तः वराहसंहितायां १३ अ० तु तद्राज्यावधित एव
तच्छककाल इत्यभिप्रायेण “आसन् मधासु मुनयः शासति
पृथ्वीं युधिष्ठिरे नृपतौ । षड्द्विकपञ्चद्वियुतः
(२५२६) शककालस्तस्य राज्ञश्च” तेन कलेः (५१८) वर्षेषु
गतेषु युधिष्ठिरस्य राज्यप्रवृत्तिः । षट्कर्तृवत्सरसमष्टिश्च
  • युधि० ३०४४ । इति न कलिमानसंख्याविरोधः
  • विक्र० १३५ अतएव ज्योतिर्विदाभरणशेषे ग्रन्थ-
  • शालि० १८००० कृतैव “वर्षैः सिन्धुरदर्शनाम्बरगणै-
  • विजया० १०००० यांते कलौ सम्भितैः” इति कलि-
  • नागा० ४००००० युगस्यैव ३०६८ वर्षंषु गतेषु ग्रन्थ-
  • बलि० ८२१ करणमुक्तम् ।
३३२०००

शकट पु० न० शक--अटन् । १ यानभेदे (गाड़ि) अमरंः ।

२ असुराधिष्ठिते नन्दानयस्थे शकटविशेषे शकटभञ्जनः
कृष्णः । १ द्विसहस्रपलपरिमाणे हेमच० । स्वल्पार्थे ङीप् ।
क्षुद्रशकटे स्वार्थे क । शकटिका तत्रैव स्त्री ।

शकटहन् पु० शकटमसुराधिष्ठितशकटभेदं हतवान् हन--भूते

क्विप् । श्रीकृष्णे तत्कथा हरिवं० ६२ अ० ।

शकटाह्वा स्त्री शकटाकारत्वात् तदाह्वा यस्याः । रोहिणी-

नक्षत्रे तस्याः शकटाकारचतुस्तारात्मकत्वेन तथात्वम् ।

शकन्धु पु० ६ त० शकन्ध्वा० । परनिघातः शकानां कूपे ।

शकल पु० न० शक--कलक् । १ खण्डे २ एकभागे । ३ त्वचि

४ वल्कले मेदि० ५ शल्के (आँस) च न० ।

शकलिन् पु० शकलं शल्कमस्यास्ति इनि । मत्स्ये अमरः ।

शकाब्द पु० शकककर्त्तृनृपसंबन्धी अव्दः । १ शकप्रवर्त्त

कनृपराज्यावधिवत्सरे २ तत्संख्यायाञ्च ।

शकार पु० “मदमूंर्खताभिमानी दुष्कुलतैश्वर्य्यसंयुक्तः ।

सोऽयमनूढ़ाभ्राता राज्ञः श्यालः शकार उद्दिष्टः” सान्द०
उक्तलक्षणे १ राज्ञोऽनूढ़भार्य्याभ्रातरि । श + स्वरूपे--कार
शस्वरूपे २ वर्णे च ।

शकारि पु० शकानां म्लेच्छजातिभेदानामरिः । विक्रमादित्ये

शकुन न० शक--उनन् । १ शुभाशुभसूचकनिमित्ते--बाहुस्य-

न्दनकाकादिदर्शनादौ । दुःशकुनशब्दे ३६१ पृ० दृश्यम्
२ पक्षिमात्रे ३ पक्षिभेदे गृध्रे च पुं स्त्री० मेदि० ।

शकुनज्ञ त्रि० शकुनं जानाति ज्ञा--क । १ निमित्ताभिज्ञे

२ ज्येष्ठ्यां स्त्री त्रिका० ।

शकुनि पु० शक--उनि! १ पक्षिमात्रे अमरः । २ चिल्लप-

क्षिणि हेमच० । ३ सुवलराजपुत्रे दुर्य्योधनमातुले च ।
३ श्यामापक्षिणि स्त्री ङीप् राजनि० । ४ ववादिषु
करणभेदे पु० ५ दुःसहनृपपुत्रे पु० मार्कण्डे यपु० । विकृतिनृप-
पुत्रभेदे पु० वह्निपु० ।

शकुनिप्रपा स्त्री० ६ त० । पक्षिणां पानीयशालायाम् हारा० ।

शकुन्त पु० शक--उन्त । १ पक्षिमात्रे । २ भासपक्षिणि

३ कीटभेदे च भेदि० ।

शकुन्तला स्त्री० शकुन्तैः लायते ला--घञर्थे--क । मेनका-

गर्भजातायां विश्वासित्रसुतायाम् सा च जातमात्रा
मात्रोत्सृष्टा शकुन्तलालिता पश्चात् कण्वमुनिना प्रति-
पालिता दुष्मन्तनृपेण गान्धर्वविधिना व्यूढेति “निर्जने
तु वने यस्मात् शकुन्तैः परिपालिताः । शकुन्तलोत
लामास्याः कृतं चापि ततो मया” भा० आ० ७२ अ० ।
शकुन्तलामधिकृत्य कृतो ग्रन्थः । अण् आख्याकिकायां
तस्य वा लुक् । कालिदासप्रणीते शकन्तलाधिकारेण कृते
२ नाटकभेदे च अणाऽए कि तु शाकुन्तल तत्रार्थे न० ।
पृष्ठ ५०७४

शकुन्तलाङ्गज पु० ६ त० । शकुन्तलासुते मरतनृपे हेमचन्द्र० ।

शकुन्ति पु० शक--उन्ति । १ पक्षिमात्रे अमरः । २ भासप-

क्षिणि उणादिकोषः ।

शकुल पुंस्त्री० शक--उलच् । मत्स्यभेदे (शौल) अमरः ।

स्त्रियां ङीष् ।

शकुलाक्षी पु० शकुलस्याक्षीव षच् समा० ङीष् । गण्डदूर्वायाम् राजनि० ।

शकुलादनी स्त्री० शकुलैरद्यते अद--ल्युट् । कट्की)

शाकभेदे अमरः । २ जटामांस्यां, ३ जलपिप्पल्यां, कट्फले
च विश्वः ।

शकुलार्भक पु० शकुलस्यार्भक इव क्षुद्रत्वात्तदाकारात्वाद्वा । (गडुइ) मत्स्ये । अमरः ।

शकृत् न० शक--ऋतन् । विष्ठायाम् अमरः ।

शकृत्करि पु० शकृत् किरति कॄ--इन् । १ गवादीनां २ वत्से

२ वत्सायां स्त्री ङीप् ।

शकृद्द्वार न० ६ त० । मलद्वारे अपानस्थाने हेमच० ।

शक्क्(व्)अर पु० शक--क्विप् कृ--अच् कर्म० शक--क्वरप् वा ।

१ वृषे मेदि० । चतुर्दशाक्षरपादके २ छन्दोभेदे । ३ नदीभेदे
४मेखलायाञ्च स्त्री ङीप् । ५ अङ्गुलौ सि० कौ० । पृषो०
शर्करीत्यपि चतुर्दशाक्षरपादके छन्दसि ।

शक्त त्रि० शक--क्त । समर्थे हेमच० ।

शक्ति स्त्री शक--क्तिन् । १ सामर्य्ये २ स्त्रीदेवतायां देवी-

मूर्त्तौ । न्यायाद्युक्ते कारणनिष्ठे कार्य्योत्पादनयोग्ये
३ धर्मभेदे । ३ शव्दनिष्ठे अर्थवोधकतारूपे बोध्यत्वप्रकार-
केच्छाविषयत्वरूपे वृत्तिभेदे शर्वलाख्ये ४ अस्त्रभेदे च अमरः ।
मीमांसकमते शक्तिः पदार्थान्तरम् यथोक्तम् अनुमा० चि० ।
“स्यादेत् ईश्वरवत् कार्य्येणैव शक्तिरप्यनुमीयते तथा
हियादृशादेव करानलसंयोगाद्दाहो जायते तादृशादेव सति
प्रतिबन्धके न जायते अतो यदभावात् कार्य्याभावस्तद्व-
ह्न्यादावभ्युपेयं तेन विना तदभावात् यत्तद्भावानु-
पपत्तेर्व्यतिरेकमुखेन शक्तिसिद्धिः” । न्ययमते तन्निरा-
सस्तत्रैव ईश्वरवादग्रन्थे दर्शितो यथा
“तृणारणिमणिफुत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति
भावहेतुजानन्तशक्तिस्वीकारे गौरवं तावदनन्तव्यक्तिजन्या-
वान्तरवह्निव्यक्तिषु जातित्रयकल्पने लाघवमिति तदेव
कल्प्यते । न च जातौ योग्यानुपलन्धिबाधः गोमयप्रभव-
वृश्चिकयोर्वा पाटलत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्ष-
सिद्धत्वात् तृणजन्यनानावह्निषु तृणजन्यत्वज्ञानानन्तरं
मणिजन्यव्यावृत्त्याऽनुगतबुद्धिरस्त्रि जातिविषया ।
तृणजन्यत्वेनोपाधिनाऽसाविति चेन्न बाघकं विनानुगतबुद्धे-
स्तद्व्यङ्ग्यजातिविषयत्वनियमात् । न च गोमयवृश्चिक-
प्रभववृश्चिकजातिपरम्परायामनगतजात्यापत्तिः गोमय-
जन्यवृश्चिकप्रभवत्वजातेः सत्त्वात् वह्निमात्रे च दाहस्पर्श
वानवयकः तत्संयोगः सेवनादिश्च कारणानि न तु
तृणादिकं विनापि, तदुत्पत्तिप्रसङ्गः विशेषसामग्रीमा-
दायैव साध्यसामग्र्याजनकत्वात्” ।
एवमाधेयशक्तिरपि मीमांसकमतेन पूर्वपक्षीकृत्य तत्र
निरस्ता यथा तच्च प्रोक्षणप्रतिष्ठाशब्दयोर्दर्शितम् अधिकं
किञ्चिदत्र प्रदर्श्यते यथा
“कामिनीचरणामिघातदोहदादिभिरशोकपुष्पोत्कर्षदर्श-
नादपि नाधेयशक्तिः समयविशेषावच्छिन्नचरणदोहा
दिसंयोगध्वंसस्यैव कारणत्वात् चरणाभिधाताकृष्टभागा-
न्तजनितवृक्षादेव वा तदुपपत्तिः कालान्तरे पुष्पाद्युत्क-
र्षात् । दुःखावयवोपचयावश्यम्भावेन वृक्षभेदावश्यकत्वात् ।
नापि ताम्बकांस्यादावम्लभस्मसंयोगादिजन्यशुद्धिरूपा
आधेयशक्तिः तत्संयोगध्वंसस्य संयोगसमानकालीना-
स्पृश्यस्पर्शादिप्रतियोगिकयावदनादिसंसंर्गाभावसहितस्य
शुद्धिपदार्थत्वात् । भस्मादिसंयोगजनितः कांस्याद्युपभोक्तृ
निष्ठः संस्कार एव शुद्धिरित्यन्थे । अभिमन्त्रितपयः
पल्लवादावपि समयविशेषावच्छिन्नाभिमन्त्रणध्वंस एव
व्यथाद्यपनायकः तत्तन्मन्त्रदेवतासन्निधिरेव वा ।
कलमवीजाटीनामापरमाण्वन्तभङ्गे तत्र चावान्तर-
जात्यभावे नियतकलमजातीयादिसिद्धिरपि । परमाणु-
षाकजविशेषादेव कार्य्यवृत्तिरूपादि सजातीयस्य पूर्बरूपा-
दिविजातीयस्य परमाणौ पाकजरूपादैरुभयासिद्धत्वात्
यथा हि कमलवीजं यवादिजात्या व्यावर्त्त्यते तथा
तत्परमाणवोऽपि पाकजैरेव । एवं माघकर्षणजनितात्
परमाणुपाकपरम्पराविशेषादेव हैमन्तिकशस्योत्पत्तिः ।
एतेन लाक्षारसावसेकादयो वाख्याताः । निमित्तविशेष-
जनितपाकजात्तत्फलविशेषः यथा हारीतमांसं हरिद्रा-
मलसाधितमुपयोगात् सद्योष्यापादयति नान्यथा साधि-
तमित्यादि । यत्र च तोयतेजोवायुषु न पाकजोविशेष-
स्तत्रोद्भवानुद्गवद्रवकठिनत्वादयोविशेषास्तत्तदुपनायकादृ-
ष्टविशेषादेव । तुलादौ चाधिवासपूर्वकतुलारोहणसामग्री
तुल्यस्य सत्यासत्यप्रतिज्ञत्वसहिता प्राचीनाधर्माधर्मफले
तज्जयमङ्गौ जनयति । यद्वा अयं निष्पापः पापवान्
वेति तुलारूढ़ाभिशस्तज्ञानविशेषसहिता सा तथा,
तदाहुः, “तांस्तु देवाः प्रपश्यन्ति स्वश्चैबान्तरपुरुषः” इति
पृष्ठ ५०७५
अथ वा प्रतिज्ञाशुद्ध्यशुद्धी अपेक्ष्य तया घर्माधर्मौ
जन्येते ताभ्याञ्च जयपराजयौ सत्यासत्यप्रत्यभिज्ञाभिशस्त-
तुलारोहणस्येष्टानिष्टफलत्वे नार्थतो विधिनिषेधात् ।
अभिशस्तः सत्यपतिज्ञोविजयकामस्तुलामारोहेदित्यसत्यप्र-
तिज्ञो न तुलामारोहेदिति श्रुतेरुन्नयनात् । यद्वा तया
दवतासन्निधिः क्रियते ताश्च कर्मानुरूपलिङ्गमभिव्यञ्ज-
यन्ति” । तत्र च शक्तिपदार्थस्वरूपादिकमुक्तं यथा
“कस्तर्हि शक्तिपदार्थः कारणत्वं तच्च स्वस्वव्याप्येतरस-
कलसंपत्तौ कार्य्याभावव्यापकाभाबाप्रतियोनित्वम् । अथ
वा यत्र कार्य्याभावव्याप्यता इतराभावावच्छिन्ना तत्का-
रणवीजे अङ्कुराभावव्याप्यता न वोजत्वेनावच्छिद्यते
इतरसमवधाने सति वोजादङ्कुरसत्त्वात्, किन्त्वि
तराभावेनावच्छिद्यते इतराभावावच्छिन्ना तत्कारणवीजे
अङ्कुराभावव्याप्यता न वीजत्वेनावच्छिट्यते इतराभावे
वीजस्याङ्कुराभावनियमात् । शिलाशकलेष्वङ्कुरामाव-
व्याप्यता शिलात्वेनैषावच्छिद्यते । यद्वा अन्यासमवधाना-
वच्छिन्नकार्य्यानुत्पत्तिव्याप्यत्वं कारणत्वं, रासभादेः
कार्य्याभावव्याप्यया अन्यासमवधानस्य वैयर्थ्येनानवच्छेदक-
त्वात् । अनन्यषासिद्धनियतपूर्ववर्त्तिजातीयत्वं वा तत्त्वम् ।
अन्यथासिद्धञ्च त्रिधा येन सहैव यस्य यं प्रति पूर्व-
वर्त्तित्वमवगम्यते, यथा घटं प्रति दण्डरूपस्य, (१) अन्यं
प्रति पूर्ववर्त्तित्वे ज्ञाते एव यं प्रति यस्य पूर्ववर्त्तित्व-
मवगम्यते यथा शब्दं प्रति पूर्ववर्त्तित्वे ज्ञाब एव ज्ञानं
प्रत्याकाशस्य (२) । अन्यत्र कॢप्तनियतपूर्ववर्त्तिन एव कार्य्य-
सम्भवे तत्सहभूतत्वम् (३) यथा गन्धवति गन्धागुत्पादा-
दुगन्धं प्रति तत्प्रागभावस्य नियतपूर्ववर्त्तित्वकल्पनात्
पाकजस्थले गन्घं प्रति रूपादिप्रागभावादीनामप्यन्यथा-
सिद्धत्वम् एतत्त्रितयव्यतिरेके नियतपूर्ववर्त्तित्वं कारण-
त्वम् । यागापूर्वयोस्तु यागपूर्ववर्त्तित्वेऽवगते न त्वगम्य-
माने यत्र जन्यस्य पूर्ववर्त्तित्वेऽवगते जनकस्य पूर्वभावो-
ऽवगम्यते तत्र जन्येन जनकस्यान्यथांसिद्धिः । यत्र च
जनकस्य तथात्वेऽवगते जन्यस्य पूर्वभावावगतिस्तत्र
तद्द्वारा तस्य जनकत्वमेव । दण्डसंयोगभ्रमणयोस्तु
युगपदेव पूर्वभावितत्वग्रहः । स्वस्वानन्तरोत्पत्तिकसकलसम-
वधाने सत्यपि यस्याभावात् कार्य्यं न जायते सति च
जायते तज्जातीयं प्रति तदनन्यथासिद्धम् । अनन्यथा-
सिद्धनियतपूर्बवर्त्तित्वं कारणत्वमित्यन्यै तन्न ईश्वरतद्-
बुद्ध्यादीनामसंग्रहात् तद्ज्वतिरेकस्य तत्समवधान-
व्यतिरेकस्य वाऽभावात् । कार्य्यस्यान्यथानुपपद्यमानताव्य-
वस्थाप्यत्वं वाऽनन्यथासिद्धम् । नन्वेवमतिरिक्तशक्तौ
साधकबाधकप्रमाणाभावान्नित्यं संशयः न च साधका-
भावस्य बाधकत्वं बाधकाभावस्य साधकत्वादिति चेन्न
साधकाभावेन वह्नावन्यत्र सिध्यतीन्द्रियधर्माभावसाधने
लाधवं बाधकाभावेनातीन्द्रियधर्मसाधने गौरवमिति
साधकाभावात्तदभाव एव सिध्यतीति” ।
“इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी ।
त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमति” गोरक्षसं० ।
सत्त्वरजस्तमोगुणत्रयाधीने ईश्वरस्य क्रमेण ज्ञानेच्छा-
क्रियारूपे ७ शक्तित्रये । “एषा त्रिशक्तिरुद्दिष्टा
नरसिद्धान्तगामिनी । एषा श्वेता परा सृष्टिः सात्त्विको
ब्रह्मसंस्थिता । एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता ।
एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता । परमात्मा
यथा देव एकएव त्रिधार्पितः । प्रयोजनवशाच्छक्तिरेकैव
त्रिविधाऽभवत्” वराहपु० । प्रकृतिशक्तिश्च ईश्वरस्य
सृष्टिकर्त्तृत्वप्रवर्त्तिता “शिवः शक्त्या युक्तो यदि भवति
शक्तः प्रभवितुम्” आमन्दल० । तन्त्रोक्ते ५ पीठाधिष्टा-
तृदेवताभेदे देवभेदे पीठशक्तयो भिन्नास्तन्त्रसारादौ उक्ताः ।
राज्ञां प्रभावोत्साहमन्त्रजाते ६ सामर्ध्ये च अमरः ।
८ गौर्य्यां मेदि० ९ लक्ष्म्यां शब्दमा० ।
वृत्तिभेदशक्तिश्च अर्थबोधानुकूलः पदपदार्थसम्बन्धः स च
इदं पदममुमर्थं बोधयतु, अस्मात् शब्दादयमर्थो बोद्धव्य
इत्येवंरूपः इच्छात्मकः सङ्केतः, घटादिपदार्थविशेष्यक
घटादिपदजन्यबोधविषयताप्रकारकेच्छाषिषयोवा ।
मीमांसकास्तु अभिधा नाम पदार्थान्तरं सङ्केतग्राह्यं शक्ति-
रित्याहुः । पदपदार्थयोः सम्बन्धान्तरं शक्तिरिति
शाब्दिकाः । सा च शक्तिस्त्रिविधा रूढिर्योगः योगरूढिश्चेति
तत्राद्या घटादिपदेषु, द्वितीया पाचकादिपदेषु, तृतीया
पङ्कजादिपदेषु । प्राभाकरमते शक्तिर्द्विविधा अनुभाविका
स्मारिका च तत्राद्या कार्य्यत्वान्विते, द्वितीया तु जातौ ।
तत्र गवादिपदानां जात्याकृतिविशिष्टव्यक्तौ शक्तिरिति
नैयायिकाः । व्यक्तावेव शक्तिरिति नव्याः । जात्था-
कृतिव्यक्तिषु तिसृषु शक्तिरिति वैयाकरणाः जातावेव
शक्तिर्व्यक्तेर्भानं त्वाक्षेपादिति भाट्टादयः । जातौ थ्यक्तौ
चोभयत्र शक्तिः किन्तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूप-
सती प्रत्यायिकेति । कार्य्यान्वितव्यक्तौ शक्तिरिति प्राभा-
कराः । धातोस्तु फलावच्छिन्नव्यापारे शक्तिरिति
पृष्ठ ५०७६
नैयायिकाः । फल एव शक्तिरिति मण्डनादयः ।
व्यापारे शक्तिरिति रत्नकोषकृत् । आख्यातस्य कृतौ
शक्तिरिति नैयायिकाः । कर्त्तरि शक्तिरिति शाब्दिकाः ।
व्यापारमात्रे शक्तिरिति मीमांसकाः । चतुर्विधविषय-
त्वात् तस्याश्चातुर्विध्यं शब्दश० प्र० अलङ्कारिमते दर्शितं
यथा
“जातिद्रव्यगुणस्पन्दैर्धर्मैः सङ्केतवत्तया । जातिशब्दादि-
भेदेन चातुर्विध्यं परे जगुः” । गोगवयादीनां गोत्वा-
दिजात्या, पश्वाद्यादीनां लाङ्गूलधनादिद्रघ्येण, धन्यपि-
शुनादीनां पुण्यद्वेषादिगुणेन चलचपलादीनाञ्च
शब्दानां कर्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्विध्यमेब रूढ़ाना-
मिति तदुक्तं दण्ड्याचार्यैः “शब्दैरेव प्रतीयन्ते जाति-
द्रव्यगुणक्रियाः । चातुर्विध्यादमीषान्तु शब्द उक्तश्चतु-
र्विधः” इति ।
तदेतन्निरासितं तत्रैव “तदेतज्जड़मूकमूर्खादीनामन्यशू-
न्यादीनाञ्च शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः” ।

शक्तिग्रह पु० ६ त० । शक्तेः अर्थबोधकतारूपवृत्तेर्ज्ञाने ।

शक्तिग्राहक पु० शर्क्ति गृह्लाति ग्रह--ण्वुल् । १ कार्त्ति-

केये शक्तिं ग्राहयति योधयति ग्रह--णिच् ण्वुल् ।
“शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्यात् व्यवहार-
तश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य
वृद्धाः” इत्युक्ते शक्तिबोधके २ हेतौ । शक्तिग्रहप्रका-
रश्च शब्दशक्तिप्रकाशिकायां दर्शितो यथा
“सङ्केतस्य ग्रहः पूर्व वृद्धस्य व्यवहारतः । पश्चादेवो-
पमानाद्यैः शक्तिधीपूर्वकैरसौ” । प्रथमं षदेषु सङ्केत-
ग्रहोवृद्धस्य व्युत्न्नस्य शब्दाधीनध्यवहारादेव बालानां
तथाहि गामानयेति केनचिन्निपुणेन नियुक्तः कश्चन
व्युत्पन्नस्तद्वाक्यतोऽर्थं प्रतीत्य गवानयनं करोति तच्चो-
पलभमानो बाल इदं गवानर्यनं स्वनोचरप्रवृत्तिजन्यं
चेष्टात्वान्मदीयस्तनपानादिवदित्यनुमाय सा गवानयन-
प्रवृत्तिः स्वविषयधर्मिककार्य्यताज्ञानजन्या प्रवृत्तित्वा-
न्निजप्रवृत्तिवदिति प्रवृत्तेर्गवानयनधर्मिककार्य्यताज्ञान-
जन्यत्वं प्रसाध्य गवानयनगोचरतज्ज्ञानमसाधारण-
हेतुकं कार्य्यत्वाद्धटवदित्येवमनुमिन्वानः समुपस्थितत्वा-
ल्लाघवाच्च श्रुतं वृद्धवाक्यमेव तदसाधारणकारणत्वेना-
वधारयति तदनन्तरञ्च गवादिपदानां प्रत्येकमावापो-
नापेन गवादिबुद्धौ जनकत्वमवगत्यानतिप्रसक्तये गवादि-
सङ्केतस्य तदनुकूलत्वं कल्पयति । पश्चात्तु क्वचिदुप-
मानाच्छक्तिग्रहो यथा गवादिपदशक्तिधीसाचिष्येन
गोसादृश्यातिदेशवाक्यात् गवयपदवाच्यत्वबोधोत्तरं
गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् गवयो गवयपदवाच्य
इत्याकारः । क्वचिच्च व्याकरणात् यथा कर्मणि द्वितीया
कर्त्तरि परस्मैपदमित्यानुशासनात् कर्मत्वादौ द्वितीयादेः ।
क्वचित् कोषादपि यथा “गुणे शुक्लादयः पुंसि गुणिलि-
ङ्गस्तु तद्वति” । “सुशीमः शिशरो जड़ः । चूर्णे क्षोदः
समुत्पिञ्जलौ भृशमाकुले” इत्यादि कोषेभ्यः श्वैत्यादौ
शुक्लादिशब्दस्य । क्वचिद्विरणादपि यथा पचति पाकं
करोतीति तुल्यार्थकवाक्यात् कृत्यादौ तिङादेः । क्वचित्
प्रसिद्धार्थशब्दसामानाधिकरण्यादपि यथा नीरूपस्पर्श-
वान् वायुर्निस्पर्शमूर्त्तिमन्मन इत्यादौ रूपशून्यस्पर्शवदा-
दिषु वाय्वादिपदस्य । वायुत्वादिजातेरतीन्द्रियत्वेन स्वरूप-
तस्तदवच्छिन्नस्यानुपस्यित्या तत्र शक्तिग्रहायागात् यथा
वा “सत्कृत्यालङ्कृतां कन्यां ददानः कृकुदः स्मृतः” इत्या-
दावुक्तरीत्या कन्यादात्रादिषु कुकुदादिपदस्य । सहकार ।
तरौ मघुरं रौति पिक इत्यादिकन्तु न युक्तपमुक्तक्रमेण
शक्तिग्रहस्योदाहरणं तिङर्थे धर्मिण्यभेदेन नामार्थान्व-
वस्याव्युत्पन्नत्वात् प्रत्यक्षसिद्धकौकिलत्वजात्यवच्छिन्न एव
लाघवेन पिकशब्दस्म शक्त्यवच्छेदाच्च । क्वचिद्वाक्यशेषा-
दपि यथा यवपदस्य कङ्गुप्रभृतौ स्लेच्छानां दीर्घशूके
च शिष्टानां घ्यवहारादेकमात्रशक्तेः परिच्छेत्तुमशक्य-
त्वात् नानार्थत्वस्य चान्याय्यत्वात् यवमयश्चरुर्भवतीति-
श्रुतौ यवपदस्यार्थसन्देहे “वसन्ते सर्वशस्यानां जायते
पत्रशातनम् । सोदमानास्तु तिष्ठन्ति यवाः कणिशशालिन” ः
इति विध्यर्थाकाङ्क्षया प्रवर्त्त मानाद्वाक्यशेषाद्दीर्घशूक एव
यवपदस्य शक्तिग्रहः । यथा वा स्वाराज्यकामोऽग्निष्टो-
मेन यजेतेत्यादिविधिशेषीभूतेभ्यः “यन्न दुःखेन सम्भिन्नं
न च ग्रस्तमनन्तरम् । अमिलामोपनीतं च तत्सुखं
खःपदास्पदम” इत्यादिवाक्येभ्यः स्वरादिपदस्य” ।

शक्तिधर पु० शक्तिं धरति घृ--अच् । १ कार्त्तिकेये २ सामर्थ्य-

धरे त्रि० “शक्तिधरः कुमारः” इति रघुः । भृ--क्विप्
६ त० । शक्तिभृदादयोऽप्यत्र ।

शक्तिपर्ण पु० शक्तिरिव पर्णं यस्य । सप्तपर्णे जटा० ।

शक्तिपाणि पु० शक्तिः पाणौ यस्य । कार्त्तिकेये हला०

शक्तिहस्तादयोऽप्यत्र ।

शक्तिहेतिक पु० शक्तिर्हेतिः प्रहरणास्त्रं यस्य कप् । शक्त्या योद्धरि ।

श(स)क्तु पु० ब० व० श(स)च--तुन् (छातु) भृष्ठयवादिचूर्णे

अमरः । कृतान्नशब्दे २१८५ पृ० तद्भेदादि दृश्यम ।
पृष्ठ ५०७७

शक्तुफला(ली) स्त्री शक्तव इव सूक्ष्माणि फलान्यस्याः

वा ङीप् । शमीवृक्षे शब्दच० ।

शक्त्रि(किथ्र) पु० वशिष्ठमुनेः पुत्रे पराशरस्य पितरि मुनिभेदे

शक्नु त्रि० शक--नु । प्रियभाषिणि अमरः ।

शक्य त्रि० शक--यत् । १ शक्तियुक्ते २ शक्त्या बौध्येऽर्थे ।

३ समर्थनीये । ४ साधयितुं योग्ये च ।

शक्यतावच्छेदक त्रि० ६ त० । शक्यपदार्थस्यासाधारणधर्भे

येन धर्मेण अर्थस्य शब्दसङ्केतविषयता तस्मिन् धर्मे ।
यथा घटशब्दः घटत्ववन्तं पदार्थं वोधयति अतस्तदसा-
धारणधर्मो घटत्वं घटशब्दस्य शक्यतावच्छेदकम् ।

शक्र पु० शक--रक् । १ इन्द्रे अमरः । २ कुटजवृक्षं ३ अर्जु

नवृक्षे मेदि० । ४ ज्येष्ठानक्षत्रे ५ पेचके च । इन्द्रस्य
चतुर्दशविधत्वम् भन्वन्तरभेदेन इन्द्रशब्दे दर्शितमतः
तत्संख्यासाम्यात् ६ चतुर्दशसंख्यायाम् ।

शक्रगोप पु० शक्रं शक्रधनुर्गोपायति समवर्णत्वात् गुप--अण् ।

इन्द्रगोपे कीटे जटा० ।

शक्रज पु० शक्रात् जायते जन--ड । १ काके त्रिका० । २ इन्द्र-

जन्ये त्रि० । शक्रजातादयोऽप्यत्र ।

शक्रजित् पु० शक्रं जितवान् जि--क्विप् तुक् च । १ रावणा-

त्मजे मेघनादे राक्षसे । २ इन्द्रजेतरि त्रि० ।

शक्रधनुस् न० ६ त० । मेथलाञ्छने धनुराकारे सूर्य्य-

किरणसम्पर्कजे पदार्थभेदे (रामधनुक) अमरः ।

शक्रध्वज पु० ६ त० । भाद्रशुक्लद्वादश्यां पूज्ये इन्द्रदैवते

ध्वजाकारे पदार्थे । इन्द्रध्वजशब्दे ९४६ पृ० दृश्यम् ।

शक्रनन्दन पु० ६ त० । अर्जुने जटा० । २ इन्द्रगन्दके त्रि० ।

शक्रपर्य्याय पु० शक्रस्य पर्य्यायो नाम नाम यस्य मध्यपदलोपः ।

१ कुटजवृक्षे रत्नमाला ६ त० । इन्द्रस्य २ वाचकशब्दे च ।

शक्रपादप पु० ६ त० । १ देवदारुवृक्षे अमरः । २ कुटजवृक्षे

राजनि० ।

शक्रपुष्पी स्त्री शक्रस्येव पुष्पमस्याः ङीप् ।

अग्निशिखावृक्षे अमरः । स्वार्थे क । तत्रैव रत्नमा० ।

शक्रभवन न० ६ त० । स्वर्गे त्रिका० । शक्रावासादयोऽप्यत्र ।

शक्रभूभवा स्त्री शक्ररूपभुबि भवति भू--अच् । इन्द्र-

वारुण्याम् शब्दच० ।

शक्रमातृ स्त्री शक्रस्य मातेव । १ भार्ग्याम् राजनि० । ६ त० । २ इन्द्रजनन्याम् अदित्याम् ।

शक्रमूर्द्धन् पु० शक्रस्येव शिखावान् मूर्द्धा यस्य । १ वल्मीके

त्रिका० । ६ त० । २ इन्द्रमस्तके । शक्रशीर्षादयोऽप्यत्र ।

शक्रवल्ली स्त्री शक्रप्रिया वल्ली । इन्द्रवारुण्याम् राजनि० ।

शक्रवाहन पु० शक्रं वाहयति वह--णिच्--ल्यु । मेघे

शब्द च० इन्द्रवाहनादयोऽप्यत्र ।

शक्रवीज न० शक्रस्य कुटजस्य वीजम् । इन्द्रयवे राजनि० ।

शक्रशाखिन् पु० शक्रनामकः शाखी । कुटजवृक्षे भावप्र० ।

शक्रसारथि पु० ६ त० । इन्द्रमाररथौ मातलौ ।

शक्रसुत पु० शक्रस्य सुतः । १ वालिनामके वानरराजे

हलायु० । २ इन्द्रपुत्रे अर्जुने च ।

शक्रसुधा स्त्री शक्रस्य सुधेव । पालङ्क्याम् शब्दच० ।

शक्रसृष्टा स्त्री ६ त० । हरीतक्याम् त्रिका० ।

शक्राख्य पु० शक्रस्येवाख्या यस्य । १ पेचके त्रिका० ।

शक्राणी स्त्री शक्रस्य पत्नी ङीष् आनुक् च । पुलोमजाया-

मिन्द्रपत्न्याम् शब्दमा० ।

शक्राशन न० शक्रेणाश्यते अश--कर्मणि ल्युट् । भङ्गायाम्

“शक्राशनन्तु तीक्ष्णोष्णं मोहकृत् कुष्ठनाशनम् ।
बलमेधाग्निद श्लेष्मदोषहारि रसायनम्” राजव० ।

शक्राशन पु० शक्रं तन्नामश्नुते ष्याप्नोति अश--ल्यु । कुटज-

वृक्षे षब्दच० ।

शक्रि पु० शक--क्रिन् । १ मेघे २ वज्रे ३ गजे ४ पत्रे च संक्षिप्तसारः ।

शक्रोत्थान न० शक्रस्य तद्ध्वजस्य उत्थानम् । भाद्रशुक्ल-

द्वादश्यां कर्त्तव्ये १ शक्रध्वजस्थोत्थाने तदुपलक्षिते
२ उत्सवे च । इन्द्रध्वजशब्दे ९४६ पृ० दृश्यम् ।

शक्व पु० शक--वन् । गजे सि० कौ० ।

शङ्क पु० शक--अच् वा + सुम् । शकटादिवाहकवृषे हारा० ।

शङ्कर पु० शं करोति कृ--अच् । १ महादेवे २ कल्याणकरे

त्रि० ३ शिवत्न्यां स्त्री ङीष् । ४ सा च मञ्जिष्ठायां शब्दच० ।
५ शम्यां राजनि० ।

शङ्करावास पु० ६ त० । १ कैलासाचले । शङ्करस्यावास इव शुभ्रत्वात् । २ कर्पूरे राजनि० ।

शङ्का स्त्री शकि--अ । १ त्रासे २ वितर्के मेदि० ३ संशये च ।

शङ्कित त्रि० शङ्का जातास्य तार० इतच् । १ भीते त्रिका०

२ सन्दिग्धे ३ तितर्किते च ।

शङ्कु पु० शकि--उण् । १ स्वाणौ । २ भत्स्यभेदे । ३ शल्यास्त्रे

अमरः । ४ कीलके । ५ दशकोटिसंख्यायाम् ६
तत्सङ्क्याते । ७ महादेवे । ८ कलुषे मेदि० । ९ पत्त्रशिरा-
जाले १० मेढ्रे हेमच० । ११ नखीनामद्रव्ये जटा० ।
१२ छाथापरिभाणार्थे काष्ठादिनिर्मिते, “अर्काङ्गुला तु
सूच्यग्रा काष्ठी द्व्यङ्गुगमूलिका । शङ्कुसंज्ञा भवेच्चैव
तच्छायां परिकल्पयेत्” इत्युक्ते १३ कीलभेदे च ज्यो० त० ।
१४ जनमेजयपुत्रभेदे भा० आ० ९५ अ० । १५ नवरत्नान्त-
पृष्ठ ५०७८
र्गतकविभेदे । दिक्साधनार्थं सू० सि० शङ्कुश्च दर्शितो
यथा
“शिलातलेऽम्बुसंशुद्धं वज्रलेपेऽपि वा समे । तत्र शङ्क्व-
ङ्गुलैरिष्टैः समं मण्डलमालिखेत् । तन्मध्ये स्थापयेच्छङ्कुं
कल्पनाद्द्वादशाङ्गुलम् । तच्छायाग्रं स्पृशेद् यत्र वृत्ते
पूर्वापरार्द्धयोः । तत्र विन्दू विधायोभौ वृत्ते पूर्वापरा
भिधौ । तन्मध्ये तिमिना रेखा कर्त्तव्या दक्षिणोत्तरा ।
याम्योत्तरदिशोर्मध्या तिमिना पूर्वपश्चिमा । दिङ्मध्य-
मत्स्यैः संसाध्या विदिशस्तद्वदेव हि” । तत्र दिक्सा-
धनोधक्रमे प्रथममम्बु संशुद्धे जलवत् समीकृते शिला-
प्रदेशे अपि वाथ वा तदभावेऽन्यत्र वज्रलेपे चत्वरादौ
घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैः शङ्कस्थाङ्गुलवि-
भागमानगृहीतैरभीष्टसंख्याकाङ्गुलैर्व्यासार्द्धरूपैर्वृत्तभव-
क्रमात् लिखेत् । सर्वतः केन्द्राद्वृत्तपरिधिरेखा तुल्या
स्यात् तथेत्यर्थः । ततस्तन्मध्ये तस्य वृत्तस्य केन्द्ररूपमध्ये
कल्पनया द्वादशसंख्याकाङ्गुलानि तुल्यानि यस्मिंस्तं
द्वादशविभागाङ्कितमित्यर्थः । शङ्कुं समतलमस्तकपरि-
धिकाष्ठदण्डं स्थाषयेत् । ततः पूर्वापरार्द्धयोर्दिनस्य
प्रथमद्वितीयभागयोस्तच्छायःग्रं स्थापितशङ्कोश्छायान्त-
प्रदेशो मण्डलपरिधौ यस्मिन् विभागे स्पृशेत् । दिनस्य
प्रथमविभागेऽनुक्षणं छायाह्राद्वृत्ते यत्र प्रविशति
दिनस्यापरार्द्धे छायानुक्षणवृद्धेर्वृत्तं यत्र निर्गच्छतीत्यर्थः ।
तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू पूर्वापरसञ्ज्ञौ
क्रमेण वृत्ते परिधिरेस्वायां कृत्वा तन्मध्वे पूर्वापरविन्द्व-
न्तरमध्ये तिमिना मत्स्येन रेखा कार्य्या सा दक्षिणो-
त्तररेखा भवति । मत्स्यस्तु विन्द्वन्तरालसूत्रमितेन
व्यासार्द्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्तद्वयं निष्पाद्य वृत्त-
द्वअयसंयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्या-
कारं स्थानं भवति । तत्रैकः संयोगो मुखं बाह्यवृत्त-
भागसम्मार्जनेनापरसंयोगस्तु पुच्छमितरवृत्तभागद्वयसम्मा-
र्जनेन सुखपुच्छावध्यृज्वी रेखा दक्षिणोत्तररेखा ।
तत्र विन्दोः सव्यं रेखाग्रं दक्षिणा दिक् । पश्चिमविन्दोः
सव्यं रेखाग्रमुत्तरा दिक् । अनन्तरं पूर्ववृत्तं मत्स्यश्च
सम्मार्जनीयः । शङ्कुरपि तत्स्थानान्निष्कास्य इति
केवला दक्षिणोत्तररेखा स्थितेति तात्पर्य्यम् । दक्षिणो-
त्तरदिशोर्मध्यस्थाने तिमिना दक्षिणोत्तररेखामितेत व्या-
सार्द्धेन दक्षिणोत्तरस्थानाभ्यां पूर्ववत् प्रत्येकं वृत्तं
विधाय पूर्ववत् सिद्धेन मत्स्येतेत्यर्थः । पूर्वपश्चिमा रेखा
कार्य्या । तत्र पूर्वविन्दोरासन्नं रेखाग्रं पूर्वा पश्चिम-
विन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मार्जने केवला
पूर्वापररेखापि सिद्धा । अथ रेखासंयोगस्थानात् दिक्-
साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत् । तद्वृत्तपरिधौ यत्र
रेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्चतुष्टयं
वृत्ते सिद्धम् । तद्वत् यथा दक्षिणोत्तराभ्यां पूर्वापरा
साधिता तत्प्रकारेणेत्यर्थः । एवकारोऽन्यप्रकारनिरा-
सार्थकः । हि निश्चयेन । विदिशः कोणदिशो दिशां
पूर्वादिसिद्धदिशां ये मध्यमत्स्या अघ्यवहितदिग्द्वयान्त-
रोत्पन्ना लघवस्तैः संसाध्याः सम्यक्प्रकारेण साध्याः ।
रेखावृत्तसंयोगस्थत्वेन ज्ञेयाः” रङ्गना० ।
छायाशब्दे २९८६ पृ० दृश्यम् ।

शङ्कुकर्ण पु० शङ्कुरिव कर्णावस्य । १ गर्दभे त्रिका० । दानव-

भेदे हरिवं० ३ अ० । ३ स्कन्दानुचरभेदे भा ४७ अ० ।

शङ्कुतरु पु० शङ्कुयोग्यस्तरुः । सालवृक्षे शब्दर० । शङ्कु-

वृक्षादयोऽप्यत्र ।

शङ्कुला स्त्री शकि--उलच् । १ उत्पलपत्रिकायाम् संक्षिप्तसा०

पूगच्छेदकास्त्रभेदे (जाँति) शङ्कुलाखण्डः इति सि० कौ० ।

शङ्कोच(चि) पु० शकि--उच--(उचि) वा । मत्स्यभेदे

जटा० ।

शङ्ख पु० न० शम--ख । १ स्वनामख्याते समुद्रजाते पदार्थे

अमरः । २ ललाटास्थ्नि, ३ निधिभेदे, ४ नखीनामगन्ध-
द्रव्ये मेदि०, ५ कर्णसमीपस्थे--अस्थ्नि, ६ नागभेदे,
७ हस्तिदन्तमध्ये त्रिका० । ८ दशनिखर्वसंख्यायां, ९
तत्संख्याते च । तस्य शङ्खचूड़ासुरास्थितस्तदुत्पत्तिः
ब्रह्मवै० प्रकृ० १८ अ० उक्ता यथा ।
“अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति । ग्रीष्म-
मध्याह्नमार्त्तण्डसमानरुचमुत्तमम् । शूलञ्च भ्रमणं
कृत्वा पपात दानवोपरि । चकार भस्मसात्तञ्च सरथञ्चा-
बलीलया । स शिवस्तेन शूलेब दानवस्यास्थिजालकम् ।
प्रेम्णा च प्रेरयामास लवणोदे च सागरे ।
अस्थिभिः शङ्खचूड़स्य शङ्खजातिर्बभूव ह । मानाप्रकार
रूपा च शश्वत् पूता सरार्चने । प्रशस्तं शङ्खतोयञ्च
देवानां प्रीतिदं परम् । तोर्थतोयस्वरूपञ्च पवित्रं
शम्भुना विना । शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च
सुस्थिरा । स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा ।
शङ्खे हरेरधिष्ठानं यतः शङ्कस्ततो हरिः । तत्रैव
सततं लक्ष्मीर्दूरीभूतसमङ्खलम् । स्त्रीणाञ्च शङ्खध्वनिभिः
पृष्ठ ५०७९
शूद्राणाञ्च विशेषतः । भीता रुष्टा याति लक्ष्मीः स्थल-
मन्यत् स्थलात्ततः” १० मुद्राभेदे तन्त्रसा० ।
११ प्रस्तरभेदे । युक्तिकल्पतरौ तल्लक्षणादि यथा “क्षी-
रोदकूलेऽपि सुराष्ट्रदेशे तदन्यतोऽपि प्रभवन्ति शङ्खाः ।
अरुष्कवर्णाः शशिशुभ्रभासः सुसूक्ष्मवक्त्रा गुरुवो
महान्तः । ते वामदक्षिणावर्त्तभेदेन द्बिविधा मताः ।
दक्षिणावर्त्तशङ्खस्तु कुर्य्यादायुर्यशोधनम् । तेनैव शिरसा
यस्तु श्रद्दधानः प्रतीच्छति । वारि हित्वा स पापानि
पुण्यमाप्नोति मानवः । वृत्तत्वं स्निम्धताच्छत्वं शङ्खस्येति
गुणत्रयम् । आवर्त्तभङ्गदोषो हि हेमयागाद्विनश्यति ।
ब्रह्मादिजातिभेदेन स पुनश्चतुर्विधः” ।
“ये स्निग्धमसृणाकारा मृदवो लघवस्तथा । ब्राह्मणाः
प्रस्तराज्ञेयाः सर्वकर्मसु शोभनाः । ये दृढ़ाङ्गाः सुगुरव-
तथांशांशविभागिनः । अश्मानः क्षत्रियाज्ञेयाः कर्क-
शाङ्गास्तथैव च । मृदवो गुरुवो ये तु ये स्नेहेनेव
रक्षिताः । ते वैश्याः स्वविभक्तांशा युजन्ते सर्वकर्मसु ।
ये कर्करावृताङ्गाश्च कर्करा ये प्रतिष्ठिताः । येऽत्यन्तगुरुवः
स्निग्धास्ते शूद्राः प्रस्तराधमाः । इति प्रोक्तमशेषेण
सम्यक् पाषाणलक्षणम् । विचार्य्य मतिमान् कार्य्ये
नियोक्तव्यं विचक्षणैः” ।

शङ्खक न० शङ्गस्य विकारः वुन् । १ शङ्खजाते वलयाकारे

पदार्थे मेदिनि० २ शिरोरोगे पु० तस्य लक्षणादि यथा
“पित्तरक्तानिलादुष्टाः शङ्खदेशे विमूर्च्छिताः । तीव्र
रुग्दाहरोगं हि शोथं कुर्वन्ति दारुणम् । सशिरो-
विषवद्वेगान्निरुध्याशु गलं तथा । त्रिरात्राज्जी-
वितं हन्ति शङ्खको नाम नामतः । त्र्यहाज्जोवि-
तभैषज्यं प्रत्याख्येयस्य कारयेत्” । पित्तरक्तानिला
इत्यत्र कफोऽपि योज्यः “कृतानुतापः कफपित्तरक्तै-
रिति” सुश्रुतवचनात् । विमूर्च्छिताः प्रवृद्धाः त्रिरात्रात्
त्रिरात्रमध्ये मारयति” भावप्र० ।

शङ्खकार पु० शङ्खं तद्विकारं वलयाकारं पदार्थं करोति

कृ--अण् । वर्णसङ्करजातिभेदे (र्शाखारी) । स तु शूद्रागर्भे
विश्वकर्मतो जातः व्रह्मवै० ।

शङ्खचरी स्त्री शङ्ख ललाटास्थ्नि चरति चर--ट । ललाटि कायां त्रिका० ।

शङ्खचर्चा स्त्री शङ्खस्य चर्चा भूषा यतः । ललाटिकायां

शब्दर० ।

शङ्खचूर्ण न० ६ त० । शङ्खजाते चूर्णे । “शङ्खचूर्णं कटु क्षारमुष्णं कृमिहरं परम्” राजव० ।

शङ्खद्रावक पु० आर्षधविशेषे । तत्पाकादि यथा “अर्क-

स्नुही तथा चिङ्क्षा तिलारग्बधचित्रकम् । अपामार्ग
भस्मसमं वस्त्रपूतं जलं हरेत् । मृद्वग्निना पचेद्त्तत्तु याश्च-
ल्लवणताङ्गतम् । लवणेन समौ ग्राह्यौ द्वौ क्षारौ टङ्गणं
तथा । समुद्रफेनगोदन्तकाशीशं सोरका तथा ।
द्विगुणं पञ्चलवणं मातुलुङ्गरसेन च । काचकूप्यान्तु
सप्ताहं वासयेदम्लयोगतः । शङ्खचूर्णपलं दत्त्वा वारुणी
यन्त्रमुद्धरेत् । सर्वधातून् हरेच्छीध्रं वराटीशङ्खका-
दिकान् । उदरादिकरोगाणां सद्यो हि नाशकः
परः” भैषज्यर० “योगिनीभैरवाभ्याञ्च बलिमादौ
प्रदापयेत् । पश्चाद् यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी ।
रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः । गुह्याद्
नुह्यतमं गुह्यमिदानीं कथ्यते मया । शङ्खचूर्णं
यवक्षारं सर्जिकाक्षारटङ्गणम् । समञ्च पञ्चलवणं
स्फटिकारी नृशादरः । काचकूप्यां तत्र क्षिप्वा वारुणी
यन्त्रमुद्धरेत् । यामार्द्धं द्रावयत्येष शङ्खशुक्तिवरा-
टकान् । अर्शांसि नाशयेत् षट् च मूत्रकृच्छ्राश्मरीं
तथा । उदराष्टविधं हन्ति गुल्मप्लीहोदराणि च ।
अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम् । भुक्त-
शेषे च भोक्तव्यो माषमात्रोरसोत्तमः । क्षणमात्रा-
द्भवेत् भस्म पुनर्भोजनमिच्छति । प्रत्यहं भोजनान्ते च
संसेघ्योऽयं रसोत्तमः । न रुजायां भयं क्वापि सत्यं
सत्यं वदाम्यहम् । न देयं यस्य कस्यापि सदा गोप्यञ्च
कारयेत् । रसः शङ्खद्रवो बास वैद्यानामुपकारकः” ।

शङ्खद्राविन् पु० शङ्खं द्रावयति द्रु--णिच्--णिनि । अम्ल-

वेतसे राजनि० ।

शङ्खधरा स्त्री घृ--अच् ६ त० । हिलमोचिकायाम् रत्नमा० ।

शङ्खध्म पु० शङ्खं घमति ध्मा--क । शङ्खवादके । क्विप् ।

शङ्खध्मा इत्यप्यत्र ।

शङ्खनख पु० शङ्खस्य नस्त्र इव । १ क्षुद्रशङ्खे (जोङ्गड़ा)

अमरः । २ नखीनामगन्धद्रव्ये शब्दर० स्त्रीत्वमपि तत्र
ङीष् ।

शङ्खपुष्पी स्त्री शङ्ख इव पुष्पमस्याः ङीष् । (शङ्खाली)

वृक्षे राजनि० । “शङ्खपुष्पी तु तीक्ष्णोष्णा मेध्या
कृमिविषापहा” । राजवल्लभः “शङ्खपुष्पी सरा मेध्या
कृष्णा मानसरोगनुत् । रसायनी कषायोष्णा स्मृति-
कान्तिवलाग्निदा । दोषापस्मरभूतासृक्कुष्ठक्रमिविष-
प्रणुतः” भावप्र० ।

शङ्खभृत् पु० शङ्खं बिभर्त्ति भृ--क्विप् तुक् च । विष्णौ हेमच० ।

पृष्ठ ५०८०

शङ्खमुख पुंस्त्री० शङ्ख इव मुखमस्य । कुम्भोरे हेमच० ।

स्त्रियां ङीष् ।

शङ्खिका स्त्री शङ्खस्तदाकारं पुष्पमस्त्यस्याः ठन् । (चोरकाचका) क्षुपभेदे शब्दच० ।

शङ्खिन् पु० शङ्ख + अस्त्यर्थे इनि । १ विष्णौ, २ समुद्रे च मेदि० ।

शङ्खिनी स्त्री शङ्खस्तदाकारं पुष्पमस्त्यस्याः इनि । १

चोरपुष्प्याम्, अमरः । २ श्वेतपन्नागे ३ विश्वः । ४ श्वेतबुह्नायां
५ श्वेतचुक्रायां, ६ यवतिक्तायां, राजनि० । ७ स्त्री-
भेदे, ८ उपदेवताभेदेः, (शाकचिन्नी) ९ शङ्खवत्यां
स्त्रियाञ्च । स्त्रोभेदलक्षणं रतिमञ्जर्य्यामुक्तं यथा
“दीर्घा सुदीर्घनयना वरसुन्दरी या कामोपभोगरसिका
गुणशीलयुक्ता । रेखात्रयेण च विभूषितकण्ठदेशा सम्भो-
गकेलिरसिका किल शङ्खिनी सा” । “शशके पद्मिनी
तुष्टा चित्रिणी रमते मृगे । वृषभे शङ्खिनी तुष्टा
हस्तिनी रमते हये” । “पद्मिनी पद्मगन्धा च मीनगन्धा
च चित्रिणी । शङ्खिनी क्षारगन्धा स्यात् मदगन्धा च
हस्तिनी” ।

शङ्खिनीफल पु० शङ्खिन्या इव फलमस्य । शिरीषवृक्षे राजनि० ।

शङ्खिनीवास पु० ६ त० । शाखोटकवृक्षे शब्दच० ।

शच गतौ भ्वा० आत्म० सक० सेट् इदित् । शञ्चते, अशञ्चिष्ट ।

शच वाचि भ्वा० आत्म० सक० सेट् । शचते अशचिष्ट ।

शचि(ची) स्त्री शच--इन् वा ड़ीप् । १ इन्द्रपत्न्याम् अमरः ।

२ करणान्तरे मेदि० ।

शचीपति पु० ६ त० । इन्द्रे अमरः । शचीभर्त्त्रादयोऽप्यत्र ।

शट(ठ) श्लाघायां चु० आ० सक० सेट् । शाट(ठ)यत

अशीशट(ठ)त ।

शट शादे अक० रोगजनने गतौ भेदे च सक० पर० भ्वा० शटति । अशाटीत् अशटीत् ।

शट पु० शटति रुजति दन्तं शट--अच् । १ अम्ले सि० कौ० ।

२ सिंहकेसरे ३ जटायाञ्च स्त्री अमरः टाप् ।

शटि(टी) स्त्री शट--इन् वा ङीप् । (वन आदा) स्वनाम-

ख्याते ओषघिभेदे
“शटी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका । गन्धा-
रिका गन्धवधूर्वधूः पृथुपलाशिका । भवेद्गन्धपलाशी
तु कषाया ग्राहिणी लघुः । तिक्ता तीक्ष्णा च कटु
काऽनुष्णास्यमलनाशिनी । शोषकासव्रणश्वासशूलाध्मान
ग्रहापहा भावप्र० ।

शट्टक न० शट--क्विप् टक--अच् कर्मधा० । घृतजलमिश्रित-

शालिचूर्णे । “शालिचूर्णं घृतं तोयं मिश्रितं शट्टकं
वदेत्” भावप्र० ।

शठ बधे सक० कैतवे क्लेशे च अक० भ्वा० पर० सेट् । शठति

अशाठीत् अशठीत् ।

शठ आलस्ये चु० पर० अक० सेट् । शाठयति ते अशीशठत् त ।

शठ दुष्टवचने अद० चु० उभ० सक० सेट् । शठयति ते अशशठत् त

शठ न० शठ--अच् । १ तगरे २ कुङ्कुमे ३ लौहे च राजनि० ।

४ धूस्तूरे ५ मध्यस्थपुरुषे च पु० । “प्रियं वक्ति पुरो-
ऽन्यत्र विप्रियं कुरुतं भृशम् । व्यक्तापराधचेष्टश्च
शठोऽयं कथितो बुधैः” विष्णपु० उक्ते ६ धूर्त्ते त्रि० मेदि०
७नायकभेदे पु० तल्लक्षणं यथा
“शठाऽयमेकत्र बद्धभावो यः । दर्शितबहिरनुरागो विप्रि-
यमन्यत्र गूढ़माचरति” सा० द० ।

शठता स्त्री शठस्य भावः तल् । शाठ्ये वञ्चनायाञ्च ।

शठम्बा स्त्री शठ--अच् अबि--अच् कर्म० शक० । अम्बष्ठायाम् राजनि०

शड संघाते रोगे च अक० भ्वा० पर० सेट् इदित् । शण्डति

अशण्डिष्ट ।

शण दाने भ्वा० पर० सक० सेट् । शणति अशाणीत् अशणीत् शशाणे शेणतुः ।

शण पु० शण--अच् । स्वनामख्याते क्षुपभेदे हेमच० ।

शणघण्टिका स्त्री शणः घण्टेव तत्तुल्यरवफलकत्वात् इवार्थे

कन् । घण्टारवतुल्यफलायाम् शणपुष्प्यां राजनि० ।

शणपर्णी स्त्री शणस्येव पर्ण्यान्यस्याः ङीप् । असनपर्ण्याम्

राजनि० ।

शणपुष्पी स्त्री शणस्येव पुष्पमस्याः ङीप् । (झाझने) वनशणे स्वार्थे क । तत्रैव ।

शणसूत्र न० शणाज्जातं सूत्रम् । शणजातं जाले अमरः ।

शणालुक पु० शण इवालुकः । आरेवतवृक्षे (शोणालु) शब्दर०

शणिका स्त्री शणस्तत्पुष्पमस्त्यस्याः ठन् । शणपुष्प्यां राजनि०

शण्ड न० शडि--अच् । १ पद्मादिसमूहे शब्दर० । २ नपुंसके

३ वृषे च द्विरूपको० ।

शण्डिल पु० शडि--इलच् । शाण्डिल्यस्य पितरि मुनिभदे तस्यापत्यं गर्गा० घञ् शण्डिल्य ।

शण्ढ न० शण--ढ तस्य नेत्त्वम् । १ अन्तःपुररक्षके कृत्रिम-

क्लीवे २ क्लीवमात्रे भरतः । ३ वृषे मेदि० ४ बन्ध्यपुरुषे
जटा० ५ उन्मत्ते धनङ्गयः ।

शत न० एक० व० शो--डतच् । १ स्वनामख्यातसख्यायाम्

२ बहुसंख्यायां ३ तत्संख्याते च । स्वार्थे क । तत्रैव न०
शतवाचकशब्दाश्च धार्त्तराष्ट्रः१ शतभिषा तारा२ पुरु-
षायुषम्३ रावणाङ्गुलिः४ पद्मदलं५ इन्द्रयज्ञः६ अब्धियो-
जनम्७” कविकल्पलता ।

शतक त्रि० शतं परिमाणमस्य लन् । १ शतसंख्यायुक्ते ।

शतकुम्भ पु० शतं कुम्भायत्र । स्वर्णस्वनिपर्वतभेदे भरतः ।

पृष्ठ ५०८१

शतकोटि पु० शतं कोटयोऽग्राणि यस्य । १ वज्रे अमरः ।

शतगुणिता कोटिः शाक० । २ शतगुणितकोटिसं-
ख्यायां स्त्री ।

शतक्रतु पु० शतं क्रतवोऽस्य । इन्द्रे अमरः ।

शतग्रन्थि स्त्रा शतं ग्रन्थयोऽस्य । दूर्वायाम् राजनि० ।

शतघ्नी स्त्री शतं हन्ति हन--टक् । १ अस्त्रभेदे “अयःकण्ट-

कसंछन्ना शतघ्नी महती शिला” विजयरक्षितः ।
२ वृश्चिकाल्यां ३ करञ्जे च मेदि० ।

शततम त्रि० शतस्य पूरणः तमप् । शतसंख्यापूरणे ।

शततारा स्त्री शतगुणिता ताराः शाक० । शतभिषानक्षत्रे ।

शतदन्तिका स्त्री शतं दन्ता इव सन्त्यस्य ठन् । नागद-

न्त्याम् राजनि० ।

शतद्रु पु० शतधा द्रवति--द्रु--कु नि० । नदीभेदे तन्नामनिरु

क्तिर्यथा “शोके बुद्धिं तदा चक्रे नचैकत्र व्यतिष्ठत ।
सोऽगच्छत् पर्वतांश्चैव सरितश्च सरांसि च । दृष्ट्वा स (वसिष्ठः)
पुनरेवर्षिर्नर्दी हैमवतीं तदा । चण्डग्राहवतीं भीमां
तस्याः स्रोतस्यपातयत् । सा तमग्निसमं विप्रमनुचिन्त्य
सरिद्वरा । शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ।
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना । मर्त्तुं न
शक्याभीत्युक्त्वा पुनरेवाश्रमं ययौ” भा० आ० १७७ अ० ।

शतधा स्त्री शतं ग्रन्थीन् धत्ते धा--क १ दूर्वायाम् ।

शत + प्रकारे धाच् । २ शतप्रकारे अव्य० ।

शतधामन् पु० शतं धामानि यस्य । विष्णौ जटा० ।

शतधार पु० शतं धारा अग्राणि यस्य । १ षज्रे त्रिका० ।

२ शतधारायुक्ते त्रि० “वसोः पवित्रमसि शतधारम्”
यर्जुर्वेदः १३ । ४९ ।

शतधृति पु० शतं धृतयोऽस्य । १ इन्द्रे २ ब्रह्मणि मेदि० ३ स्वर्गे च विश्वः ।

शतपत्त्र न० शतं बहूनि पत्त्राणि सुमस्थदलान्यस्य । १ पद्मे

अमरः । २ मयूरे ३ सारसखगे ४ दार्वाघटखगे मेदि०
५ राजकीरे हेमच० ।

शतपत्त्री स्त्री शतं पत्त्राणि दलान्यस्याः ङीप् । (सेओति)

पुष्पवृक्षभेदे । स्वार्थे क । तत्रैव ।

शतपथ पु० शतं पन्थानो यत्र अच्समा० । यजुर्वेदीयब्राह्मणात्मकग्रन्थभेदे ।

शतपथिक त्रि० शतपथं वेत्त्यधीते वा ठन् । शतपथब्राह्म-

णात्मकग्रन्थाध्यायिनि ।

शतपद न० शतं पदानि यत्र । ज्योतिष्योक्ते नक्षत्रपादानु-

सारेण नामकरणोपयोगिप्रथमवर्णसूचके १ चक्रभेदे चक्र-
शब्दे २८१७ पृ० दृश्यम् । शतं पादाः यस्याः षाद्भावः
समा० ङीष् पद्भावः । शतपदी २ कीटभेदे (काण्डाइ) स्त्री
अमरः । ३ शतमूल्यां राजनि० ।

शतपद्म न० शतदलयुक्तं पद्मम् । १ शतदलकमले २ श्वेतपद्मं च रत्नमा० ।

शतपर्वन् यु० शतं पर्वाणि ग्रन्थयो यस्य । १ वंशे अमरः

२ इक्षुभेदे च “शतपर्वा भवेत् किञ्चित् कोशकारगुणा-
न्वितः । विशेषात् किञ्चिदुष्णश्च सक्षारः पवनापहः”
भावप्र० । ३ कटुकायां राजनि० । ४ वचायां ५ दूर्वायां च
स्त्री ६ भार्ग्यां मेदि० । ७ कोजागरपूर्णिमायां शब्द-
रत्ना० । कप् । तासु मेदि० ८ यवे शब्दर० ।

शतपाद् स्त्री शतं पादा अस्याः पाद्भावः । कीटभेदे

(काण्डाइ) जटा० ।

शतपादिका स्त्री शतं पादा मूलान्यस्याः कप् । १ काकोल्यां जटा० । २ जलौकायां च शब्दर० ।

शतपुष्पा स्त्री शतं पुष्पाणि यस्याः । (सुल्फा) १ शाकभेदे

(मौरी) २ क्षुपभेदे च । कष् । तत्रैव ।
“शतपुष्पा कदुः स्निग्धा तिक्तोष्णा कफवातकृत् । रुच्या-
वस्तिहिता नेत्र्या बद्धविट् कृमिशुक्रहृत् । संग्राहि-
शीतला तिक्ता दाहनुत् वातला लघुः” भावप्र० । किरा-
तार्जनीयग्रन्थकारके भारविकवौ पु० त्रिका० ।

शतप्रसूना स्त्री शतं प्रसूनानि यस्याः । (सुल्फा) शाके राजनि० ।

शतप्रास पु० शतं प्रासा इव फलानि यस्य । करवीरक्षे अमरः

शतभिषज् स्त्री शतं भिषज इव ताराः यत्र । शततारा-

त्मके अश्विन्यादिषु चतुर्विंशे नक्षत्रे । शतभिषाप्यत्र स्त्री

शतभीरु स्त्री शतं बहवो वियोगिनो भीरवो यस्याः

५ त० । मल्लिकायाम् अमरः तद्दर्शने हि बहुवियोगिनां
कामोद्दीपनात् ततो भीरुत्वम ।

शतमख पु० शतं मखा यज्ञा यस्य । १ इन्द्रे हलायुधः । २ पेचके च ।

शतमन्यु पु० शतं मन्यवो यज्ञा यस्य शते दैत्यंषु मन्युः

क्रोधो वा यस्य । १ इन्द्रे अमरः । २ पेचके च ।

शतमान पु० न० शतेन मीयते मि--ल्युट् । १ रूप्यपले

२ आढ़के २ तत्परिमिते च अमरः ।

शतमारिन् पु० शतं मारयति मृ--णिच्--णिनि । विशिष्टचिकित्सके ।

शतमुखी पु० शतं मुखानि यस्याः ङीष् । १ संमार्जत्यां

२ शतमुखयुक्ते त्रि० ।

शतमूला स्त्री शतं मूलान्यस्याः टाप् । १ दूर्वायां २ स्वनाम-

ख्यातायां लतायाञ्च ङीवन्तः अमरः ।

शतयष्टिक पु० शतं यष्टयो गुच्छा यस्य । शतगुच्छके हारभेदे अमरः ।

शतरुद्रीय न० शतं रुद्रानधिकृत्य कृतो ग्रन्थः छ । १६ अ०

यजुर्वेदोक्ते “नमस्ते रुद्र! मन्यव इत्यादिके रुद्राध्याये ।
पृष्ठ ५०८२

शतरूपा स्त्री शत रूपाण्यस्याः । १ व्रह्मणः पत्न्यां २ तत्कन्यायां

सावित्र्यां च “ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् ।
स्त्रारूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् । शतरूपा च सा
ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्री
व्रह्माणी च परन्तप । दृष्ट्वा तां व्यथितस्तावत् कामवाणा-
र्दितो विभुः । उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ।
ततः कालेन महता ततः पुत्रोऽभवन्मनुः । खायम्भुव
इति ख्यातः स विराड़िति नः श्रुतम्” मात्स्ये ३ अ० ।

शतवीर्य्या स्त्री शतं वीर्य्याणि यस्या ५ ब० । १ श्वेतदूर्वायाम्

२ शतावर्य्यां ३ कपिलद्राक्षायां च राजनि० ।

शतवेधिन् पु० शतं विधति विध--णिनि । अम्लवेतसे अमरः

शतसहस्र न० शतगुणितं सहस्रं शाक० । लक्षसंख्यायाम् ।

शतसाहस्र त्रि० शतं सहस्राणि परिमाणमस्य अण् उत्त-

रपदवृद्धिः । लक्षसंख्याते ।

शतह्नदा स्त्री शतं ह्रादाः शब्दायस्याः पृषो० ह्रस्वः ।

१ विद्युति अमरः । २ वज्रे मेदि० ३ दक्षकन्याभेदे वह्निपु०

शताक्षी स्त्री शतमक्षीणीव पुष्पाण्यस्याः षच् समा० ङीष् ।

१ रात्रौ २ शतपुष्पायाम् । शब्दच० ३ दुर्गायाञ्च “भूयश्च
शतवार्षिक्यामनाबृष्ट्यामनम्भसि । मुनिभिः संस्तुता भूमौ
सम्भविष्याम्ययोनिजा । ततः शतेन नेत्राणां निरी-
क्षिप्यामि यन्मुनीन् । कीर्त्तयिष्यन्ति मनुजाः शताक्षी-
मिति मां ततः” देबीमाहात्म्ये ।

शताङ्ग पु० शतमङ्गान्यवयवायस्य । १ रथे अमरः २ तिनिसवृक्षे च राजनि० ।

शतानन्द पु० शतमानन्दयति अण् । गोतमपुत्रे अहल्या-

गर्भजे १ मुनिभेदे । स च जनकराजपुरोहितः । ३ देवकी-
नन्दने मेदि० ४ ब्रह्मणि हेमच० ५ विष्णुरथे त्रिका० ।
६ शतजनानन्दके त्रि० ।

शतानीक पु० शतमनीकानि यस्य । १ व्यासशिष्ये मुनिभेदे

२ चन्द्रवंश्ये नृपभेदे मेदि० । ३ सुदासराजपुत्रे भाग०
९ १२ अ० ।

शतार न० शतमराण्यस्य । वज्रे त्रिका० ।

शतारुस् न० शतं अरूंषि यत्र । कुष्ठभेदे “रक्तं श्यावं

सदाहार्त्ति शतारुः स्याद् बहुव्रणम्” भावप्र० ।

शतायुस् त्रि० शतमायुर्वर्षकालोऽस्य । शतवर्षमितवयस्के

“शतायुर्वै पुरुषः” श्रुतिः ।

शतावरी स्त्री शतमावृणोति आ + वृ--अच् गौरा० ङीष् ।

१ शतमूल्याम् अमरः । “शतावरी गुरुः शीता तिक्ता
{??} रसायनी । मेधाग्यिपुष्टिदा स्निग्धा नेत्र्या
गुल्मातिसारजित् । शुक्रस्तन्यकरी बल्या वातपित्ता-
स्रशोथजित्” भावप्र० । २ इन्द्रभार्य्यायां शब्दच० ।
३ शट्यां त्रिका० ।

शतावर्त्त पु० शतमावर्त्ता यस्य । विष्णौ हेमच० । शतधा वर्त्तते णिनि । तत्रैव । शतावर्त्तिन् ।

शताह्वा स्त्री शतं शतमूली शतपुष्पा वेति आह्वा यस्याः

मध्यपदलोपः । १ शतमूल्यां राजनि० २ शतपुष्पायाञ्च जटा०

शतिक त्रि० शतेन क्रीतः, तस्य विकारः तस्येदं वा ठन् ।

१ शतेन क्रीते पदार्थे । २ तद्विकारे ३ तत्सम्बन्धिनि च ।
शतमस्मै वृद्धिः आयः लाभः शुलकम् उपदा वा
दीयते ठन् । ४ वृद्ध्यादिरूपण शतदानसम्प्रदाने । पक्षे यत्
शत्य तत्रार्थे ।

शत्य त्रि० शतेन क्रीतः शतिकशब्दवत् यत् । शतसंख्यातद्रव्येण क्रीतादौ शतिकशब्दार्थे ।

शत्त्रु पु० शद--त्रुन् । १ रिपौ राज्ञां २ विषयानन्तरस्थे नृपे

अमरः ३ ज्योतिषोक्ते लग्नावधिकषष्ठस्थाने ४ कामादिषु
च । ५ शातके त्रि० ।

शत्त्रुघ्न पु० शत्रून् हन्ति हन--क । दशरथात्मजे

सुमित्रागर्भजेलक्ष्मणानुजे २ रिपुनाशके त्रि० ।

शद शातने शीर्णतायां भ्वा० पर० अक० अनिट् ऌदित् । शीयते

अशदत् । शत्स्यति

शद गतौ भ्वा० षर० सार्वधातुके आत्म० सक० अनिट् । शीयते

शद पु० शद--अच् । फलभूलादौ सिद्धान्तकौ० ।

शद्रि पु० शद--क्रि । १ मेघे २ जिष्णौ मेदिनी० ३ गजे उणा०

शद्रु त्रि० शद--क्रु १ पतनककर्त्तरि २ गन्तरि च ।

शनकावलि(ली) स्त्री शनैः कायति कै--क पृषो० तेषा-

मावलिर्यत्र वा ङीप् । गजपिप्पल्यां शब्दच० ।

शनपर्णी स्त्री शणस्येव पर्णान्यस्याः पृषो० णस्य नः ।

कटुक्याम् शब्दच० ।

शनि पु० शा--अनि किच्च । १ सूर्य्यपुत्रे छायागर्भजाते ग्रह-

भेदे “शनिर्विहङ्गोऽनिलवन्यवन्ध्या शूद्राङ्गना धातुःसमो-
स्थिरश्च । क्रुरः प्रतीचीतुवरोऽतिवृद्धोऽकरः क्षितीट्
दीर्घसुनीललौहम्” । नील० ताज० । “मन्दोऽलसः
कपिलकुन्तलदीर्घगात्रः स्थूलद्विजः परुषरोमक-
चोनिलात्मा” वृहज्जा० । २ तत्स्वामिकदिने च “शनौ
बन्ध्यां विजानीयात्” ज्यो० त० ।

शनिवार पु० शनिस्वामिकोवारः । सूर्य्यादिवारमध्ये सप्तमेवारे ।

शनैश्चर पु० शनैश्चरति चर--अच् । शनिग्रहे तस्य ग्रहाणां

मध्ये सर्वोपरिकक्षस्थितत्वात् बहुफालेनैकैकराशिभोगात्
भृदुगतित्वम् ।

शनैस् अव्य० शण--डैसि पृषो० नुक् च । मन्दे २ अशैघ्य्रे च अमरः ।

पृष्ठ ५०८३

शन्स हिंसायां स्तुतौ कथने च भ्वा० पर० सक० सेट् क्त्वा

वेट् । शंसति अशंसीत् ।

शप आक्रोशे वा भ्वा० पक्षे दिवा० उभ० सक० अनिट् । शपति ते शप्यति ते अशाप्सीत् ।

शपथ पु० शप--अथन् । सत्यताकरणाय दिव्यभेदकरणे यथा

एतत् यदि मिथ्या स्यात् तदा मे एतदनिष्टं स्यादित्यादि

शपन पु० शप--ल्युट् । १ शपथे अमरः । २ गालौ त्रिका० ।

शप्त त्रि० शप--क्त । १ अभिशापग्रस्ते २ उलपाख्ये तृणभेदे

पु० शब्दच० ।

शफ न० शम--अच् पृषो० पस्य फः । १ गवादीनां खुरे २ वृक्षमूले च मेदि० ।

शफर पुंस्त्री० शफं राति रा--क । (पुँटी) मत्स्यभेदे अमरः

स्त्रियां ङीष् ।

शफराधिप पु० ६ त० । इल्लिसमत्स्ये त्रिका० ।

शब्द शब्दकरणे अ० चु० उभ० सक० सेट् । शब्दयति ते अशशब्दत् त ।

शब्द पु० शब्द--घञ् । १ ध्वन्यात्मके २ वर्णात्मके च श्रोत्रे-

न्द्रियग्राह्ये आकाशस्थे गुणभेदे ।

शब्दग्रह पु० शब्दं गृह्वाति ग्रह--अच् । १ श्रोत्रेन्द्रिये

घञर्थे अप् ६ त० । २ शब्दज्ञाने ।

शब्दतन्मात्र न० कर्म० । सांख्यमतसिद्धे आकाशकारणे

सूक्ष्मभूतभेदे तन्मात्रशब्दे ३२२९ पृ० दृश्यम् ।

शब्दन त्रि० शब्द--ल्यु । शब्दकारके अमरः ।

शब्दब्रह्मन् न० शब्दात्मर्क ब्रह्म । १ वेदात्मके २ स्फोटात्मके च

नित्थे शब्दरूपे ब्रह्मणि ।

शब्दभेदिन् पु० शब्दानुसारेण भिनत्ति लक्ष्यम् भिद--णिनि । १ वाणभेदे २ अर्जुने त्रिका० ।

शब्दवेधिन् पु० शब्दानुसारेण विधति लक्ष्यं विध--णिनि ।

१ वाणभेदे २ अर्जुने च धंनञ्जयः ।

शब्दशक्ति स्त्री ६ त० । शब्दानामर्थावबोधकतारूपे

अभिघालक्षणादौ वृत्तिरूपे सामर्थ्ये ।

शब्दाधिष्ठान न० ६ त० । कर्णे हेमच० ।

शब्दानुशासन न० अनुशिष्यतेऽनेन अनु + शास--ल्युट्

६ त० । शब्दसाधुताज्ञापक व्याकरणे । “अथ शब्दानुशा-
सनम्” महाभाष्यम् ।

शब्दालङ्कार पु० शब्दमात्रकृतोऽलङ्कारः । अलङ्कारशास्त्र-

प्रसिद्धेऽनुप्रासादौ अलङ्कारे । अलङ्कारशब्दे तद्भेदा-
दिकं दृश्यम् ।

शब्दित त्रि० शब्द--क्त । आहूते ।

शम शान्तौ अक० शान्तीकरणे सक० दि० शमा० पर० सेट् ।

शाम्यति इरित् अशमत्--अशमीत् । उदित् क्त्वा वेट् ।
शान्तः । शमयति शामवति ।

शम आलोचने चु० उम० सक० सेट् । शामयति ते

शमयति ते अशीशमत् त ।

शम पु० शम--घञ् । १ शान्तौ अन्तरिन्द्रिवदमने अमरः ।

२ मोक्षे त्रिका० ३ पाणौ रामाश्रमः । ३ उपचारे राजनि० ।

शमथ पु० शम--अथच् । १ शान्तौ अमरः । २ मन्त्रिणि मेदि० ।

शमन पु० शमयति शम--णिच्--ल्यु । लोकार्ना पुण्यापुण्य-

फलदातृत्वेन दण्डकारके १ यमे अमरः । शम--णिच्-
भावे ल्युट् । २ शान्तीकरणे न० । ३ यज्ञार्थपशुधाते अमरः
४ चर्वणे धरणिः ५ हिंसायां हेमच० ६ मृगभेदे शब्दच० ।

शमनस्वसृ स्त्री ६ त० । यमुनायाम् अमरः ।

शमल न० शम--कलच् । १ विष्ठायाम् अमरः । २ पापे संक्षिप्त०

शमि(मी) स्त्री शम--इन् वा ङीप् । (शाँव) १ वृक्षभेदे

“शमी तिक्ता कटुः शीता कषाया रेचनी सघुः । कम्प-
कासश्रमश्वासकुष्टार्शःकृमिजित् स्मृता” मावप्र० ।
२ शिम्बायाच्च (शुँटि) हेमच० । ३ बाङ्खजौ मेदि० ।

शमिन् त्रि० शाम्यति शम--णिनि । शान्ये ।

शमीक पु० शम--बा० ईक । मुनिभेदे ।

शमीगर्भ पु० शमीगर्भ आधारत्वेनास्त्यस्य अच् । १ वह्नौ २ विप्रे च शब्दच० ।

शमीधान्य न० शमी शिग्यैव धान्यम् । शिम्बात्मके

माधमुद्गादौ धान्ये अमरः ।
“शमीजाः शिम्बिजाः शिम्बा तराः सूप्याश्च वैदलाः।
वैदलामधुरा रूक्षाः कषायाः कटुपाकिनः । पातलाः
कफपित्तघ्ना बद्वमूत्रमला हिमाः । ऋते सुद्गमसृराभ्या-
मन्ये त्वाध्मानकारकाः” । सुद्गमसूरसोरनाष्मानदारि-
त्वमन्यवैदलापेक्षया न तु सर्वता एतयोरपि किञ्चिदा-
ध्मानकारित्वदर्शनात्” भावप्र० “शूकधान्यं शमीधान्यं
समातीतं प्रशस्यते । परतो वातकृद्रूणं ध्रायेणाभिननं
गुरु । यवगोधूममाषाश्च तिलाश्चाभिनया हिताः ।
पुराणाविरसारूक्षा न तथार्धकरा कताः” राक्षवसुभः ।

शमीपत्त्री स्त्री शम्या इव पत्त्रमस्याः ङीप् । सज्जादु-

लतायां जटा० ।

शमीर पु० अल्पा शमी अल्पार्थे र “क्वचित् स्वार्धिधा अपि

प्रत्ययाः प्रकृतितो लिञ्जवचनान्यतिवर्त्तन्ते” इति
भाष्योक्तेः पुंस्त्वम् । क्षुद्रायां शभ्याम् अमरः ।

शम्पा स्त्री शं पाति पा--क । विद्युति अमरः ।

शम्पाक पु० शं शिवं पाके फले वा यस्य । १ आरग्बधे अमरः ।

२ विपाके ३ यावके च हेमच० ।

शम्ब गतौ भ्वा० पर० सक० सेट् । शम्बति अशम्बीत् ।

पृष्ठ ५०८४

शम्ब पु० शम्ब--अच् । १ वज्रे २ मूसलाग्रस्थितलौहे मेदि० ।

२ लौहकाञ्च्यां हेलच० । ४ अनुलोमकर्षणे भरतः ।
५ दरिद्रे च संक्षिप्तसा० ६ भाग्यबति त्रि० रामाश्रमः ।

शम्बर न० शम्ब--अरन् । १ जले २ धने ३ व्रते रत्नमा० ।

४ चित्रे च ५ बौद्धव्रतभेदे हेमच० । ६ मृगभेदे ७ दैत्यभेदे
पु० मेदि० ८ मत्स्यभेदे ९ पर्वतभेदे १० जिनभेदे पु० विश्वः ।
११ युद्धे पु० १२ श्रेष्ठे त्रि० धरणिः १३ चित्रकवृक्षे
१४ लोध्रे १५ अर्जुनवृक्षे च पु० राजनि० ।

शम्बरकन्द पु० शम्बरः श्रेष्ठः कन्दो यस्य । वाराहीकन्दे राजनि० ।

शम्बरचन्दन न० ६ त० । शम्बरपर्वतजाते चन्दनभेदे रालनि०

शम्बरसूदन पु० शम्बरमसुरं सूदयति हिनस्ति चु०

सूदल्यु । कामदेवे हला० तद्वननकथा हरिवं० १६३ । १६४
अ० दृश्या ।

शम्बरारि पु० ६ त० । कामदेवे अमरः । शम्बररिप्वादयोऽप्यत्र ।

शम्बरी स्त्री शम्बरं जलं बाहुल्येनास्त्यस्था अच् गौरा० ङीष् ।

१ आखुपर्ण्यां मेदि० । २ मायायां शब्दर०!

शम्बल पु० न० शम्ब--कलच् । १ कूले २ प्राथेये ३ मत्सरे च मेदि०

शम्बाकृत त्रि० शम्बं कृष्टमप्यनुलोममाकृष्यते शम्ब + कर्ष-

णार्थे डाच् + कृ--क्त । अनुलोमेन द्विरावृत्ते कृष्टे
क्षेत्रे अमरः ।

शम्बु(म्बू) पुंस्त्री० शम्ब--उन् कूवा । १ जलशुक्तौ (शामुक)

हेमच० स्वार्थे क । तत्रार्थे । संज्ञायां कन् ।
गजकुम्भान्तभागे च । रामायणप्रसिद्धे शूद्रतापसे, शङ्खे
हेमच० दैत्यभेदे च पु० ।

शम्भ त्रि० शमस्त्यस्य शम् + भ । कल्याणयुक्ते ।

शम्भल पु० शम्भं कल्याणदायकं तीर्थं लाति--ला क । १ ग्रा-

मभेदे यत्र कल्की भविष्यति तस्मिन् । २ कुट्टिन्यां स्त्री
अमरः गौरा० ङीष् ।

शम्भु पु० शम् + मू--डु । १ महादेले अमरः । २ ब्रह्मणि ३ वृद्धे

मेदि० ४ विष्णौ हला० ५ सिद्धे शब्दर० । ६ श्वेतार्के
शब्दर०

शम्भुतनय पु० ६ त० । १ गणेशे २ कार्त्तिकेये च शब्दमा० शम्भुसुतादयोऽप्यत्र ।

शम्भुप्रिया स्त्री ६ त० । १ आमलक्यां हेमच० २ दुर्गायाञ्च ।

शम्भुवल्लभ न० ६ त० । १ श्वेतपद्मे राजनि० २ महादेवप्रिये च

शम्या स्त्री शम--यत् टाप् । १ युगकीलके अमरः । २ दक्षहस्त-

दत्ततालभेदे संगीतदा० ।

शय पु० शी--अच् । १ हस्ते अमरः । २ सर्पे ३ शय्यायां मेदि० ४ निद्रायां ५ पणे च विश्वः ।

शयथ पु० शो--अथच् । १ अजगरसर्पे २ मृत्यौ ३ निद्राशीले

त्रि० हेमच० । ४ वराहे ५ मत्स्ये च पुंस्त्री० संक्षिप्तसारः ।

शयन न० शी--ल्युट् । १ निद्रायां २ शय्यायाम् अमरः ३

मैथुने च मेदि० ।
देवभेदे शयनकालभेदादि वामनपु० १६ अ० उक्तं यथा
“मिथुना भगते सूर्ये शुक्लपक्षे तपोधन! । एकादश्यां
जगत्स्वामिशयनं परिकल्पयेत् । शेषाहिभोगपर्य्यङ्कं
कृत्वा संपूज्य केशवम् । कृत्वोपवीतकञ्चैव सम्यक् संपू
च द्विजान् । अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः
शुचिः । लब्ध्वा पीताम्बरधरं स्वस्ति निद्रां समानयेत् ।
त्रयीदश्यां ततः कामः स्वपते शयने शुभे । कदम्बानां
सुगन्धानां कुसुमैः परिकल्पिते । चतुर्दश्यां ततो यक्षाः
स्वपन्ति सुखशीतले । सुवर्णपङ्कजकृते सुखास्तीर्णोप-
धानके । पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे ।
वैयाघ्रे च जटाभारं सभुद्ग्रथ्यान्यचर्मणा । ततो
दिवाकरे राशिं संप्रयाति च कर्कटम् । ततोऽमराणां
रजनी भवते दक्षिणायनम् । ब्रह्मा प्रतिपदि तथा
नीलोत्पलदलेऽनघ! । तल्पे स्वपिति देवानां दर्शयन्
मार्गमुत्तमम् । विश्वकर्मा द्वितीयायां तृतीयायां गिरेः
सुता । विनायकश्चतुर्थान्तु पञ्चम्यामपि धर्मराट् ।
षष्ठ्यां स्कन्दश्च स्वपिति सप्तम्यां भगवान् रविः । कात्या-
यनी तथाष्टम्यां नवम्यां कमलालया । दशम्यां भुजगे-
न्द्राश्च स्वपन्ति वायुभोजनाः । एकादश्यान्तु कृष्णायां
साध्या ब्रह्मन् स्वपन्ति हि । एष क्रमस्ते सदितो
निशायां शयने मुने! । स्वपत्सु तेषु देवेषु प्रावृट्कालः
समाययौ” ।
अथ लोकानां शयनप्रकारादि प्रदर्श्यते
“उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नानितृप्तोऽथ संविशेत् । शुचिं
देशं विविक्तन्तु गोमयेन तु लेपयेत् । प्रागुदक्प्रवणं
चैव संखपेत सदा बुधः । प्राक्शिराश्च स्वपेन्नित्यं
तथा वै दक्षिणाशिराः । स्वपेदुदक्शिरा नैव तथा
प्रत्यक्शिरा न च । न चान्तर्द्धानहीने तु न तिर्य्यक
च कदाचन । शून्यालये श्मशाने तु एकवृक्षे चतुष्पथे ।
महादेवगृहे चापि मातृवेश्मनि न स्वपेत् । न यक्ष
नागायतने स्कन्दस्यायतने तथा । दर्भेषु च विना दीक्षां
न स्वपेच्च कथञ्चन । धान्यगेहे च विप्राणां गुरूणाञ्च
तथोपरि । नाशुचौ पर्णकीर्णे तु नाशुचिर्नाशिख-
स्तथा । दिने सन्धौ न नग्नञ्च नोत्तरापरमस्तकः ।
पृष्ठ ५०८५
नाकाशे पर्वते शून्ये न च चैत्यद्रुमे तथा । न तु द्वारे-
ऽम्भसाकीर्णे नार्द्रपादस्त्वधावितः । पालाशे शयने नैव
बहुदारुकृते न च । न दग्धे विद्युता चैव वह्निप्लुष्टे
जले तथा । न स्वपेत् सन्ध्ययोर्नित्यं न शिवस्यासने कटे ।
एवं स्वपन् नरो नित्यं सुखस्येह परत्र भाक् । व्यत्यये च
भवेद्दुःखी मृतो नरकमश्नुते” वह्निपु० । सति सूर्य्ये
शय्या न पातनीया सूर्य्योदयात् पूर्वमुत्तोलनीयेत्याह
स्मृतिः “भास्करादृष्टशय्यानि नित्याग्निसलिलानि च ।
सूर्य्यावलोकिदीपानि लक्ष्म्या वेश्मानि भाजनम् । आसनं
वसनं शय्या जायापत्यं कमण्डलुः । आत्मनः शुचि-
रेतानि न परेषां कदाचन” । न कदाचन इत्यनुमतिं
विना अन्यथाऽऽतिथ्यानुपपत्तेः रघु० । व्यासः “शुचौ देशे
विविक्ते तु गोमयेनोपलिप्तके । प्रागुदक्प्रवणे चैव
संविशेत्तु सदा बुधः । माङ्गल्यं पूर्णकुम्भञ्च शिरस्थाने
निधापयेत् । वैदिकैर्गारुड़ैर्मन्त्रैरक्षां कृत्वा स्वपेत्ततः” ।
गर्गः “स्वगृहे प्राक्शिराः शेते आयुष्ये दक्षिणाशिराः ।
प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शिराः” मार्कण्डेयपु०
“प्राक्शिरःशयने विद्यात् धनमायुश्च दक्षिणे ।
पश्चिमे प्रबलां चिन्तां हानिं मृथ्रं तथोत्तरे” तथा
“नमस्कृत्याव्ययं विष्णुं समाधिस्थः स्वपेन्निशि” मार्कण्डेयपु०
“शृन्यागारे श्मशाने च एकवृक्षे चतुष्कये । महादेव-
गृहे चापि शर्करालोष्ट्रपांशुषु । धान्यगोविप्रदेवानां
गुरूणाञ्च तथोपरि । न चापि भग्नशयने नाशुचौ
नाशुचिः स्वयम् ।” नार्द्रवासा न नग्नश्च नोत्तरापरम-
स्तकः । नाकाशे सर्वशून्ये च न च चैत्यद्रुमे तथा” ।
न स्वपेदित्यर्थः आ० त० । “भुक्त्वा च विधिवन्-
मन्त्रैर्द्विजो भुक्त्वाऽबशिष्टकम् । ससुहृद्बान्धवजनः स्वपेत्
शुष्कपदो निशि । नोत्तराभिमुखः स्वप्यात् पश्चिमाभि-
मुखो न च । न चाकाशे न नग्नो वा नाशुचिर्नासने
क्वचित् । न शीर्णायान्तु खद्वायां शून्यागारे न चैव
हि । नापि वंश्ये च पालाशे शयने वा कदाचन”
कौर्मपु० १८ अ० “कृतपादादिशौचश्च भुक्त्वा सायं
ततो गृही । गच्छेत् शय्यां सयन्त्राञ्च अथवा दारु-
निर्मिताम् । शाल्मलस्य कदम्बस्य नीपमन्दारकस्य
च । किंशुकस्य वटस्याथ तथा कुशमयस्य च ।
आरोहणात् भवेत् पापं तस्मात्तेषु न च स्वपत् । प्ररोह
शय्यां सूत्रेवा अर्पणे परमेश्वरि! । न शुक्रे नापवित्रे
च न तृणे न च भूतले । तूलिकायां तग्रा वस्त्रे शय्या-
भावे स्वपेद् गृही । स्वपेन्न पट्टवस्त्रे च कलङ्की कम्ब-
लेषु च” मत्स्यपु० ४४ प० । “श्वासानष्टौ ससुत्तानस्तान्
द्वि१६ पार्श्वे च दक्षिणे । ततस्तद्द्विगुणान्३२ वामे
पश्चात् स्वप्यात् यथासुखम् । वामदिशायामनलो नाभे
रूर्द्ध्वोऽस्ति जन्तूनाम् । तस्मात्तु वामपार्श्वे शयीत भुक्त
प्रपाकार्थम्” भावप्र० ।

शयनीय न० शी--आधारे अनीयर् । शय्यायाम् स्वार्थे क । तत्रैव ।

शयनैकादशी स्त्री ६ त० । आषाढ़शुक्लैकादश्याम् ।

शयालु त्रि० शी--आलुच् । निद्राशीले अमरः । २ अजगरे,

३ कुक्कुरे च पु० हारा० ।

शयित त्रि० शो--कर्त्तरि क्त । १ निद्रिते । भावे--क्त । नि द्रायां न० ।

शयु पु० शी--उ । १ अजगरे सर्पे अमरः । उनन् । शयुनो-

ऽप्यत्र उणादिको० ।

शय्या स्त्री शी--आधारे क्यष् । १ खट्वायाम् अमरः । भावे

क्यप् । २ शयने ३ गुम्फने मेदि० । “त्रिदोषशमनी खद्वा तूलौ
वातकफापहा । भूशय्या वृंहणी वृष्या काष्ठपट्टी तु
वातला” । “भूशय्या वातलातीव रूक्षा पित्तास्वनाशिनी ।
सुशय्याशयनं हृद्यं पुष्टिनिद्राधृतिप्रदम् । श्रमानिलहरं
वृष्यं विपरीत मतोऽन्यथा” भावप्र० । तद्वमनविधानं
यथा “कृतपादावशौचश्च भुक्त्वा सायं ततो गृही ।
गच्छेत् शय्यामस्फुटितामेव दारुमयीं नृप! । नावि-
शालां न वै भग्नां नासमां मलिनां न च । न च
जन्तुमयीं शय्यामधिगच्छेदनास्तृताम्” । विष्णुपु०
३ अशे ११ अ० ।

शर न० शॄ--अच् । १ जले २ वाणे ३ दधिदुग्धाग्रसारे पु०

मेदि० ४ इषुसाधने तृणभेदे पु० । “भद्रमुञ्जः शरो
वाणस्तेजनश्चक्षुवेष्टनः । मुञ्जो मुञ्जातको वाणः स्थूल-
दर्भः सुमेधसः । नुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा ।
दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रय-
हरं वृष्यं मेखलासूपयुज्यते” भावप्र० । भावे अप् ।
५ हिंसायाम् ।

शरकाण्ड पु० ६ त० । १ शरस्तम्बे २ तन्निमित्तकवाणे च ।

शरज न० शरात् दधिदुग्धपारात् जायते जन--ड । १ हैयङ्ग-

वीने हेमच० शरवणे जाते २ कार्त्तिकेये पु० । अग्नि
कुमारशब्दे ५४ पृ० दृश्यम् ।

शरजन्मन् पु० शरवणे जन्म यस्य । कार्त्तिकेये अमरः ।

शरट पु० शॄ--अटन् । १ कृकलासे अमरः २ कुसुम्भशाके च भरतः

शरण न० शॄ--ल्युट् । १ गृहे २ रक्षके अमरः । ३ रक्षणे ४ बधे

मेदि० । ५ घातके शब्दच० । ६ प्रसारण्यां स्त्री शब्दर० टाप् ।
पृष्ठ ५०८६

शरणागत त्रि० शरणमागतः आ + गम--क्त । शरणापन्ने ।

शरणापन्न त्रि० शरणमापन्नः आ + पद क्त । शरणमागते ।

शरणार्थिन् त्रि० शरणमर्थयते अर्थ--णिनि । शरणकामे ।

श(स)रणि(णी) स्त्री शॄ(सृ)--अनि वा ङीप् । १ पथि,

पङ्क्टौ मेदि० २ प्रसारर्ण्यां शब्दर० । ३ जयन्त्याञ्च स्त्री
शब्दर० । ४ पृथ्व्याम् अजयः ।

शरण्ड पु० जॄ--अण्डच् । १ खगे कामुके शब्दरत्ना० । २ धूर्त्ते

३ धरदे ४ भूषणभेदे मेदि० । ५ चतुष्पदि संक्षिप्तसा० ।

शरण्य त्रि० शरणाय साधुः यत् । १ शरणागतत्राणकरण-

षोम्ये २ दुर्गायां स्त्री ।
“विषाम्निभयघोरेषु शरणं स्मरणाद् यतः । शरण्या तेन
सा देवी पुराणे परिपठ्यते” देवीपु० ।

शरण्यु पु० शॄ--अन्थु । १ मेघे २ वाते च विश्वः ।

शरत्कामिन् पु० शरदि कामयते कम--णिनि । कुक्कुरे शब्दर०

शरत्पद्म न० शरदिव शुभ्रं पद्मम् । श्वेतपद्मे राजनि० ।

शरत्पर्वम् न० ७ त० । कोजागरपूर्णिमानिमित्तोत्सवे जटा० ।

शरद् स्त्री घृ--अदि । १ वत्सरे, २ आश्विरकार्त्तिकमासात्मके

णृतौ च अमरः । तद्वारिगुणा भावप्र० उक्ता यथा
“वर्षसु नाभसं वारि सेवेतौद्भिदमेव वा । सर्वं शरदि
हेमन्ते तड़ागं सारसन्तु वा” । शारदं चानभिष्यन्दि
लघु तत् परिकीर्त्तितम् । हैमन्तिकजलं स्निग्धं बल्यं वृष्यं
हितं धृस” राजव० । तत्रोत्तरवायुसेवनं हितं यथा
“वसन्ते दक्षिणो वातो भवेत् वर्षासु पश्चिमः । उत्तरः
शारदे काले पूर्षो हेमन्तशैशिरे” राजनि० । ऋतुशब्दे
हृ० दृश्यम् । “शरदृतुश्च वैद्यकमते भाद्राश्विनमासा-
त्भयः । तत्र वर्णनीयानि चन्द्रपटुता जलशुष्कता
अगस्त्यः हंसः वृषः” कविकल्प० ।

शरधि पु० शरा धीयन्तेऽत्र धा--आधारे कि । तूणे हेमच०

शरपुङ्खा स्त्री शरस्येव पुङ्खो यस्याः । नीलीधृक्षाकृतौ काण्ड-

पुङ्खावृक्षे “शरपुङ्खा यकृत्प्लीहगुल्मव्रणविषापहा ।
तिक्ता कषाया कासास्नज्वरश्वासहरी लघुः” भावप्र० ।

शरभ पु० शृ--अभच् । “अष्टपादूर्द्धनयन ऊर्द्ध्वपादचतुष्टयः”

इत्युक्तलक्षणे १ मृगभेदे अमरः । २ करभे, ३ वानरभेदे
अमरः । ३ उष्ट्रे च जटा० । ४ शिशुपालपुत्रभेदे भा०
आश्व० ८३ अ० । ५ दानबभेदे मा० आ० ६५ अ० ।
“अष्टपादूर्द्धनयनः शरभो वनगोचरः । तं सिंहं
हन्तुमागच्छन्मुनेस्तस्य निवेशनम् । तं मुनिः शरभ-
ञ्चक्रे वलोत्कटमरिन्दमम् । ततः स शरभो वन्यो
मुनेः शरभमग्रतः । दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्व-
नात् । स एवं शरभस्थाने संन्यस्तो मुनिना तदा । मुनेः
पार्श्वगतो नित्यं शरभः सुखमाप्तवान् । ततः शरभस-
न्त्रस्ताः सर्वे मृगगणास्तदा । दिशः सम्प्राद्रवन् राजन्!
भयाज्जीवितकाङ्क्षिणः । शरभोऽप्यतिसंहृष्टो नित्यं
प्राणिवधे रतः । फलमूलाशनं कर्त्तुं नैच्छत् स पिशिता-
शनः । ततो रुधिरतर्षेण वलिना शरभोऽन्वितः । इयेष
तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः । ततस्तेन
तपःशक्त्या विदिती ज्ञानचक्षुषा । विज्ञाय स महाप्राज्ञो
मुनिःश्वानं तमुक्तवान् । श्वा त्वं द्वीपित्वमापन्नो द्वीपी
व्याघ्रत्वमागतः । व्याघ्रान्नागो मदपदुर्नागः सिंहत्वमा-
गतः । सिंहस्त्वं वलमापन्नो भूयः शरभतां गतः ।
मया स्नेहपरीतेन विसृष्टो नकुलान्वयः । यस्मादेवम-
पापं मां पाप! हिंसितुमिच्छसि । तस्मात् श्वयोनि-
मापन्नः श्वैव त्वं हि भविष्यसि । ततो मुनिजनद्वेष्टा
दुष्टात्मा प्राकृतोऽबुधः । ऋषिणा शरमः शप्तस्तद्रूपं
पुनराप्तवान्” भा० शा० ११७ अ० ।

शरभू षु० शरे शरवणे भवति भू--क्विप् । कार्त्तिकेये हेमच०

शरमय त्रि० शरस्य विकारः मयट् । शरजाते प्रदार्थे ।

श(स)रयु(यू) स्त्री शॄ--(सृ)--अयु वा ऊङ् । अयोध्या-

नगरीनिम्नवाहिन्यां नद्याम् । तस्यां भवः अण् नि० ।
सा (शा) रव तत्र भवे त्रि० अमरः ।

श(स)रल त्रि० शॄ(सृ)--अलच् । १ सुगमे, २ अकुटिलचित्ते

(सरल) ३ वृक्षभेदे च ।

शरवणोद्भव पु० शरवणम् उद्भवः उत्पत्तिस्थानमस्य । कात्तिकेये ।

शरव्य न० शरवे वाणशिक्षायै हितं शरु + यत् । लक्ष्ये,

शरेण वेधनायोद्देश्ये अमरः ।

शराटि(डिं)(लि) स्त्री शरमनलक्ष्य अटति अट--इन् पृषो-

टस्य डो लो वा । (शराल) पक्षिभेदे अमरः ।

शराभ्यास पु० ६ त० । वाणमोचनशिक्षायान् अमरः ।

शरारु त्रि० शॄ--आरु । हिंस्रे अमरः ।

शरारोप पु० शराः आरोप्यन्तेऽत्र आ + रुह--णिच् । अण् धनुषि जष्टा०

शराव पु० शरं दध्यादिसारमवति अव--अण् । १ मृण्मये

पात्रभेदे, (शरा) अमरः । २ कुडवद्वयपरिमाणे च वैद्यकम् ।

शरावती स्त्री शराः अन्त्यस्याम् मतुप् यस्य वः पूर्वदीर्घश्च ।

नदीभेदे अमरः ।

शराश्रय पु० ६ त० । तूणे हेमच० ।

पृष्ठ ५०८७

शरासन पु० शराः अस्यन्तेऽनेन अस--ल्युट् । १ धनुषि

अमरः । शराणामासनम् । २ तूणे च ।

शरिमन् पु० शॄ--उणा० इमनिच् । प्रसवे सि० कौ०

शरी स्त्री शीर्य्यते शृ--ई । एरकातृणे भावप्र० ।

शरीर न० शॄ--ईरन् । प्रतिक्षणं क्षीयमाणे १ देहे ।

तस्य अङ्गप्रत्यङ्गभेदा भावप्र० उक्ता यथा
“गर्भाशयगबं शुक्रमार्त्तवं जीवसंज्ञकः । प्रकृतिः
सविकारा च तत् सर्वं गर्भसंज्ञकम् । कालेन वर्द्धितो गर्भो
यद्यङ्गोपाङ्गसंयुतः । भवेत्तदा स मुनिभिः शरीरीति
निगद्यते” । अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः । “तस्य
त्वङ्गान्यु पाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः । मस्तकादभि
धीयन्वे शिष्याः! शृणुत यत्नतः । आद्यमङ्गं शिरः
प्रोक्तं तदुपाङ्गानि कुन्तलाः । तस्यान्तर्मस्तुलुङ्गं च
ललाटं भ्रूयुगन्तथा । नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे
कनीनिके । दृष्टिद्बयं कृष्णगोलौ श्वैतभागौ च वर्त्मनो ।
पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम् ।
पालिद्वयं कषोलो च नासिका च प्रकीर्त्तिता । ओष्ठा-
धरौ च सृकिण्यौ मुखं तालु हनुद्वयम् । दन्ताश्च दन्त-
वेष्टाश्च रसना चिवुकङ्गलः । द्वितीयमङ्गं ग्रीवा तु यया
मूर्द्धा बिधार्यते । तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे ।
तत्रोपरिगतौ स्कन्घौ प्रगण्डौ भवतस्त्वधः । कफोनि-
युम्भं तदधः प्रकोष्ठयुगलन्तथा । मणिबन्धौ तले हस्तौ
तयोश्चाङ्गुलयो दश । नखाश्च दश ते स्थाप्या दश च्छेद्याः
प्रकीर्त्तिताः । चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे ।
स्तनौ पुंसस्तथा मार्य्या विशेष उभयोरयम् । यौवना-
गमने नार्य्याः पीवरौ भवतः स्तनौ । गर्भवत्थाः प्रसूता-
यास्तविव क्षीरपूरितौ । हृदयं पुण्डरोकेण सदृशं स्या-
दधोमुखम् । जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ।
आशयस्तत्तु जीवस्य चेतनास्थामगुत्तमम् । अतस्तस्मिं-
स्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि” । चेतनास्थान-
मुत्तममित्यस्याभिप्रायः “केशलोमनखाग्रं च मलं,
द्रव्यगुणैर्विना” इत्युक्तवता चरकेण प्तकलं शरोरं
चेतनास्थानमुक्तम् तदपेक्षया हृदयं विशेषतश्चेतना-
स्थानमिति “कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते
कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ ।
उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम् । सपृष्ठवंशं तु
तथा समस्तं सप्तमं स्मृतम् । उपाङ्गानि च कथ्यन्ते तानि
जानोहि यत्नतः । शोणिताज्जायते प्लीहा बामतो
हृदयादधः । रक्तवाहिसिराणां स मूलं ख्यातो मह
र्षिभिः । हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः ।
अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः । तत्तु-
रञ्जजपित्तस्य स्थानं शोणितजं मतम् । अधस्तु दक्षिणे-
भागे हृदयात् क्लोम तिष्ठति । जलवाहिसिरामूलं
तृष्णाच्छादनकृन्मतम्” । क्लोम तिलकम् एतत्तु वातरक्त-
जम् । अत्र वृद्ववाग्भटः “रक्तादनिलसंसक्तात्कालीय-
कसमुद्भव” इति “मेदःशोणितयोः साराद्बुक्वयोर्यु-
गलं भवेत् । तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ।
उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः ।
अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत् ।
उन्दुकश्च कटी चाषि त्रिकं वस्तिश्च वङ्क्षणौ । कण्ड-
राणां प्ररोहः स्थात् स्थानं तद् वीर्य्यमूत्रयोः । स एव
गर्भस्याधानं कुर्य्याद्वर्भाशये स्त्रियाः । शङ्खनाभ्याकृति-
र्य्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता । तस्यास्तृतीये त्वावर्त्ते
गर्भशय्या प्रतिष्ठिता । वृषणौ भवतः सारात्कफासृग्भ्यां
च मेदसाम् । वीर्य्यवाहिसिराधारौ तौ मतौ पौरु-
षावहौ । गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम् ।
तत्र स्युर्वस्तवस्तिस्रः शङ्खाबर्त्तनिभास्तु ताः । प्रवाहिणी
भवेत् पूर्वा सार्द्धाङ्गुलमिता मता । उत्सर्जनी तु तदघः
सा सार्द्धाङ्गुलसम्मिता । तस्याघः सञ्चरणी स्यादेकाङ्गु-
लसमा मता । अर्द्धाङ्गुलप्रमाण तु बुधैर्गुदमुखं मतम् ।
मलोत्सर्गस्य मार्गोऽयं पायुर्देहे विनिर्मितः । पुंसः प्रोथौ
स्मृतौ यौ तु तौ नितम्बौ च योषितः । तयोःककुन्दरे
स्नातां सक्थिनी त्वङ्गमष्टमम् । तदुपाङ्गानि च
ब्रूमो जानुनो पिण्डिकाद्वयम् । जङ्घे द्वे घुण्डिके
पार्ष्णीतले च प्रपदे तथा । षादावङ्गुलथस्तत्र दश तासां
नस्वा दश” ।

शरीरक पु० शरीरं कायति आत्मत्वेनाभिमन्यते कै--क ।

जीवे । स्वार्थे वुञ् । शारीरकोऽप्यत्र ।

शरीरज पु० शरीरात् जायते जन--ड । १ रोगे २ कामदेवे

३ पुत्रे च धरणिः । ४ देहजातमात्रे त्रि० ।

शरीरावरण न० शरीरमावृणोति आ + वृ--युच् ।

देहव्यापिनि १ चर्मणि राजनि० । २ देहावरके त्रि० । ल्युट् ।
३ देहाच्छादने न० ।

शरीरिन् पु० शरीरमात्माभिमानाश्रयत्वेनास्त्यस्य इनि । जीवे जटा० ।

शरु पु० शॄ--उन् । १ क्रोधे २ वज्रे मेदि० । ३ वाणे हेमच० ।

४ आयुधे च संक्षिप्तसा० ।
पृष्ठ ५०८८

शरेष्ट पु० शॄणाति कामिनं शॄ--अच् शरः कामः तस्य इष्ट

इष--क्त । आम्रे जटा० ।

शर्करक पु० शर्करायाः रसः अण् वृद्ध्यभावः शर्करः रस

इव कायति मधुरत्वात् कै--क । मधुरजम्बीरे राजनि० ।

शर्करजा स्त्री शर्करात् जायते जन--ड । सिताखण्डे राजनि०

शर्करा स्त्री शॄ--करन् कस्य नेत्त्वम् । १ खण्डविकारे (चिनि)

अमरः । २ उपलखण्डे ३ कर्परखण्डे च (खापरा) मेदि० ।
शर्कराः सन्तस्य मतुप् तस्य लुक् । ४ बहुशर्करायुते देशे
अमरः । ५ रोगभेदे अश्मरीशब्दे ४९५ पृ० दृश्यम् ।
६ शकले च मेदि० । शर्कराभेद गुणा राजनि० उक्ता यथा
“स्निग्धा पण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके
चक्षुष्या बलवर्द्धनी सुमधुरा रूक्षा च वंशेक्षुजा । वृष्या
तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्ति
करीरसालजनिता रक्तेक्षुजा पित्तजित्” “यावनाली
हिमोत्पन्ना हिमाली हिमशर्करा । क्षुद्रशर्करिका क्षुद्रा
गुड़जा जलबिन्दुजा । हिमजा शर्करा गौल्या सोक्ता०
तिक्ताऽतिपिच्छला । वातघ्नी सारिका रुच्या दाहपि-
त्तास्रदायिनी । “शीतजान्याकर्करजा माध्वी च
मधुशर्करा । माक्षिका० शर्करा प्रोक्ता सिताखण्डश्च
खण्डकः । सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्दिनाशनः ।
कुष्ठव्रणकफश्वासहिक्कापित्तास्नदोषनुत् । यवासशर्करा
त्वन्या सुधामोदकमोदकः । तवराजः खण्डसारः
खण्डजा खण्डमोदकः” । “मत्स्यण्डीकाः खण्ड-
सिता गुणश्रेष्ठा यथोत्तरम् । विमलाः शीतलाः
स्निग्धाः गुर्व्यः स्वादुतराः सराः । वृष्यास्तृषाक्षत
क्षोणरक्तपित्तानिलापहाः । मत्स्यण्डी ग्राहिणी बल्या
कषाया वातजित् गुरुः । खण्डं गुरु सरं रुच्यं वातघ्नं
वलपुष्टिदम् । सितोपला सरा गुर्वी वातघ्नी न
कफप्रदा” । पय्यापथ्यविवेकः “शर्करा ज्वरपित्तासृङ्मूर्च्छा
च्छर्दितृषापहा । तृष्णाघ्नस्ववराजस्तु ज्वरदाहास्रपित्त-
नुत् । लसिका फाणितगुड़खण्डमत्स्यण्डिकासिताः ।
निर्मला लषवो ज्ञेयाः शीतवीर्य्या यथोत्तरम् । यथा यथैषां
वेमल्यं भवेच्छैत्यं तथा तथा” राजवल्लभः । “खण्डन्तु
सिकतारूपं सुश्वेतं शर्करा सिता । सिता सुमधुरा रुच्या
वातपित्तास्रदाहजित् । मूर्च्छाच्छर्दिज्वरान् हन्ति
सुशीता शुक्रकारिणी । भवेन्मधुसिता शीता रक्तपित्त-
हरो गुरुः । छर्द्यतीसारतृडदाहरक्तकृत्तुवरा हिमा ।
यथा यथैषां नैर्मल्यं मधुरत्वं यथा तथा । स्नेहलाघव
शेत्यानि रसत्वञ्च तथः तथा” भावप्र० गुणग्रन्थे ।

शर्कराचल पु० दानार्थं कल्पिते शर्कराकृते पर्वते ।

तद्विधिः हेमा० दा० पद्मपुराणे उक्तो यथा
“अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम् । यस्य प्रदा-
नाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा । अष्टभिः शर्करामारै
रुत्तमः स्यान्महाचलः । चतुर्भिर्मध्यमः प्रोक्तो भारा-
भ्यामधरः स्मृतः । भारेण बार्द्धभारेण कुर्य्याद् यः
स्वल्पवित्तवान् । विष्कम्भपर्वतान् कुर्य्यात् तुरीयांशेन
मानवः । धान्यपर्वतवत्सर्वमासाद्यामरसंयुतम् । मेरो-
रुपरि तद्वच्च स्थाप्य हेमतरुत्रयम् । मन्दारः पारिजा-
तश्च तृतीयः कल्पपादपः । एतद्वृक्षत्रयं मूर्ध्नि सर्वे-
ष्वपि निवेशयेत् । हरिचन्दनसन्तानौ पूर्वपश्चिम-
भागयोः । निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले ।
मन्दारे कामदेवश्च प्रत्यग्वक्त्रः सदा भवेत् । गन्धमादन-
शृङ्गे च धनदः स्यादुदङ्मुखः । प्राङ्मुखो वेदमूर्त्तिश्च
हंसः स्याद्विपुलाचले । हैमी सुपार्श्वे सुरभी दक्षिणा-
भिमुखी भवेत् । धान्यपर्वतवत् सर्वमावाहनमखादिकम्” ।

शर्कराधेनु स्त्री दानार्थं कल्पिते शर्कराकृते धेन्वाकारे स्तूप-

भेदे हेमा० दा० स्कन्दपुराणोक्तस्तद्विधिर्यथा
“तद्वच्च शर्कराधेनुं राजन्! कुर्य्यात् यथार्थतः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे । धेनुः शर्करया
राजन्! सदा भारचतुष्टयम् । उत्तमा कथ्यते सद्भि-
श्चतुर्थांशेन वत्सकः । तदर्द्धं मध्यमा प्रोक्ता चतुर्थांशेन
कन्यसा । तद्वद्वत्सं प्रकुर्वीत चतुर्थांशेन मानवः ।
अथ वा धेनुतः कुर्य्यादष्टांशेन तु वत्सकम् । स्वशक्त्या
कारयेद्धेनुं यथात्मानं न पीड़येत् । सर्ववीजानि
संस्थाप्य चतुर्दिक्षु समन्ततः । सौवर्णमुखशृङ्गाणि
मौक्तिकैर्नयनानि च । गुडेन च मुखं कार्य्यं जिह्वा
पिष्टमयी तथा । कम्बलं पट्टसूत्रेण घण्टाभरणभूषिता ।
इक्षुपादा रौप्यखुरा नवनीतमयस्तना । प्रशस्तपत्रश्रवणा
सितचामरभूषिता । पञ्चरत्नसमायुक्ता दर्भरोमसमन्विता ।
कांस्योपदोहना सम्यक् गन्धपुष्पेः समन्विता । ईदृक्
विधानसंयुक्तां वस्त्रैराच्छादितां तथा । गन्धपुष्पैरलंकृत्य
ब्राह्मणाय निवेदयेत्” ।

शर्करार्बुद पु० रोगभेदे तल्लक्षणं भावप्र० उक्तं यथा

“प्राप्य मांसं सिराः स्नायुं मेदः श्लेष्मा तथानिलः ।
ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिवसानिभम् । स्रवत्या-
स्रावमत्यर्थं तत्र वृर्द्धि गतोऽनिकः । मांसं विशोप्य
पृष्ठ ५०८९
ग्रथितां शर्करां जनयत्यतः । दुर्गन्धक्लिंन्नमत्यर्थं नानावर्णं
ततः सिराः । स्ववन्ति सहसा रक्तं तं विन्द्याच्छर्करा-
र्बुदम्” । शर्करा बालुकातुल्या” भावप्र० ।

शर्करावत् त्रि० शर्कराः सन्त्यस्मिन् मतुप् मस्य वः ।

बहुशर्करायुक्तदेशे ।

शर्करासप्तमी स्त्री वैशाखशुक्लपक्षसप्तम्याम् । तद्विधानं

मत्स्यपु० ७२ अ० उक्तं यथा “शर्करासप्तमीं वक्ष्ये तद्वत्
कल्मषनाशिनोम् । आयुरारोग्यमैश्वर्त्यं यथानन्तं प्रजा-
यते । माधवस्य सिते पक्षे सप्तम्यां शुक्लपक्षतः । प्रातः-
स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनैः । स्यण्डिले
पद्मभालिख्य कुङ्कुमेन सकर्णिकम् । तस्मै नमः सवित्रे
तु गन्धपुष्पं निवेदयेत्” इत्यादि ।

शर्करोदक न० शर्करामिश्रितमुदकम् । (चिनिर पाना)

शर्करामिश्रिते जले तत्करणप्रकारगुणादिकं भावप्र० उक्तं
यथा “जलेन शीतलेनैव घोलिता शुभ्रशर्करा ।
एलालवङ्गकर्पूरमरिचैश्च समन्विता । शर्करोककनाम्नैतत्
प्रसिद्धं विदुषां मतम् । शर्करोदकमाख्यातं शुक्रलं
शिशिरं सरम् । बल्यं रुच्यं लघु स्वादु वातपित्तास्रनाश-
नम् । मूर्च्छाच्छर्दितृषादाह ज्वरशान्तिकरंपरम्” भावप्र०

शर्करिक त्रि० शर्कराः सन्त्यस्य ठक् । बहुशर्करायुक्तदेशे

इलच् । शर्करिल--तत्रैव उभयत्रामरः ।

शर्द्ध पु० शृध--थञ् । अपानवायूत्सर्गे । ल्युट् । तत्रैव न० ।

शर्द्धञ्जह पु० शर्द्धमपानवायूत्सर्गं जहाति हा--खश् मुम्च ।

माषे । तद्भोजने हि अपानवायुर्निःसरतीति तस्य
तथात्वम् ।

शर्ब हिंसायां गतौ च भ्वा० पर० सक० सेट् । शर्बति अशर्बीत् ।

शर्मद त्रि० शर्म ददाति दा--क । १ सुखदायके २ विष्णौ पु०

विष्णुसं० ।

शर्मन् शॄ--मनिन् । १ सुखे २ तद्वति त्रि० ३ ब्राह्मणोपाधौ पु० ।

“शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभजः । भृतिर्दत्तश्च
वैश्यस्य दासः शूद्रस्य कारयेत्” यमः । “शर्मान्तं ब्राह्म-
णस्य स्थात् वर्मान्तं क्षत्त्रियस्य तु । धनान्तञ्चैव वैश्यस्य
दासान्तं चान्त्यजन्मनः” शातातपः ।

शर्मरा स्त्री शर्म--राति रा--क । १ दारुहरिद्रायां २ वस्त्रभेदे

पु० धरणिः ३ सुखदायके त्रि० ।

शर्य्या स्त्री शॄ--यत् । रात्रौ वाचस्पतिः ।

शर्य्याति पु० वैवस्वतमनोः पुत्रभेदे ।

शर्व हिसे भवा० पर० सक० सेट् । शर्वति अशर्वीत् ।

शर्व पु० शर्व--अच् । १ महादेवे हेमच० । २ विष्णौ विष्णुस० ।

शर्वर पु० शर्व--अरन् । १ कामदेवे २ तमसि न० उणादि० ।

३ सन्ध्यायाञ्च संक्षिप्तसा० ४ स्त्रियां मेदि० ।

शर्वरी स्त्री शॄ--वनिप् ङीप् वनो र च । १ रात्रौ अमरः ।

शर्वरीशश्चन्द्रः । २ हरिद्रायां विश्वः ।

शर्वला स्त्री शर्व--घञ् शर्वं लाति ला--क । तोमरास्त्रे हेमच० ।

शर्वाणी स्त्री शर्वस्य पत्नी ङीष् आनुक् च । गवान्यां हेमच०

शल चालने भ्वा० आत्म० सक० सेट् । शलते अशलिष्ट ।

अशलिढ्व(ध्व)म् शेले

शल गतौ भ्वा० पर० सक० सेट् । शलति अशालीत् । ज्वलादि० शलः शालः ।

शल श्लाघायां चु० आत्म० सक० सेट् । शालयते अशीशलत ।

शल वेगे भ्वा० पर० सक० सेट् । शलति अशालीत् ।

शल न० शल--अच् । १ शल्लकीलोम्नि (सजारुकाँटा) अमरः

२ शृङ्गिणि ३ क्षेत्रभेदे ४ ब्रह्मणि च पु० मेदि० ५ कुन्तास्त्रे
त्रिका० ६ उष्ट्रे पुंस्त्री० हेमच० स्त्रियां ङीष् ।

शलक पु० शल--वुन् । (माकड़्सा) कोटभेदे त्रिका० ।

शलङ पु० शल--अङ्गच् । १ लोकपाले २ लवणभेदे उणादि० ।

शलभ पु० शल--अभच् । कीटभेदे षतङ्गे अमरः ।

शलल न० स्त्री शल--कलच् । शल्लकीलोम्नि (सजारुकाँटा)

अमरः । स्त्रोत्वे गौरा० ङीष् ।

शलाका स्त्री शल--आकन् । १ शल्ये २ मदनवृक्षे (मयना)

३ शारिकायां ४ शल्लक्यां ५ शरे मेदि० ६ आलेख्यतूलि-
कायां हेमच० । ७ अस्थ्नि च शब्दच० । सुश्रुतोक्ते शृकाद्यु-
द्वारणार्थे यन्त्रभेदे शस्त्रशब्दे दृश्यम् ।

शलाकापरि अव्य० अव्ययी० । शलाकासाघनक्रीड़ायां पराजये

शलाकापुरुष पु० हेमचन्दोक्ते वौद्धानां त्रिषष्टिदेवपुरुषभेदे

शलाटु त्रि० शल--आटु । १ अपक्वफले अमरः । २ मूलभेदे

उणादि० ३ बिल्वे च पु० राजनि० ।

शलालु पु० शल--आलुच् । सुगन्धिद्रव्यभेदे सि० कौ० ।

शलालुक त्रि० शलालुना क्रीतं ष्ठन् । शलालुद्रव्येण क्रीते

पदार्थे स्त्रियां ङीष् ।

शल्क न० शल--क कस्य नेत्त्वम् । १ खण्डे २ वृक्षयल्कले अमरः ।

३मत्स्यत्वचि च (आँस) कोषान्तरम् ।

शल्कल न० शल--कलन् कस्य नेत्त्वम् । १ मत्स्यवल्कले २ वृक्षत्वचि च सि० कौ०

शल्कलिन् पु० शल्कलमस्त्यस्य इनि । मत्स्यं शब्दर०

शल्किन् पु० शल्कमस्त्यस्य इनि । मत्स्ये हेमच० ।

शल्पदा स्त्री शल--अच् तादृशं पदं मूलं यस्याः । मेदाया-

मोषधौ राजनि० ।
पृष्ठ ५०९०

शल्भ प्रर्शसायां भ्वा० आ० सक० सेट् । शल्भते असल्भिष्ट ।

श(शा)ल्मलि पु० शल--मलच् स्वार्थे इन् इञ् वा । शाल्-

मलिवृक्षे (शिमुल) द्विरूपकीषः स्त्रीत्वमपि तत्र ना ङीप्
तत्रार्थे ।

शल्य न० शल--यत् । १ वाणे २ तोमरे ३ क्ष्वेड़े मेदि० ४

वंशकविकायां विश्वः । ५ दुःसहे ६ दुर्वाक्ये शब्दर० ७ पापे
त्रिका० “शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोष्ट्र-
बालनखपूयास्रावान्तर्गर्भशल्योद्धारणार्थं यन्त्रशस्त्राक्षा-
राग्निप्रणिधानं व्रणविनिश्चयार्थञ्च” सुश्रुतोक्ते ८ चिकि-
त्साङ्गे यन्त्रभेदे ९ अस्थ्नि ज्यो० त० । वास्तुभूमिस्थ शल्य-
ज्ञानं प्रश्नाक्षरेण यथा भवति तथोक्तं ज्यो० व०
“सुनिश्चितां मन्दिरभूमिमादौ निखाय तोयावधि यत्नत-
स्ताम् । कुर्य्याद्विशल्यामथ वा नृमानं खात्वाथ वा प्रश्न-
वशाद्विधिज्ञः । दूर्वाप्रवालाक्षतपुष्पपाणिः शुचिः शुचिं
दैवविदं समेत्य । पृच्छेद्विनीतो मधुरस्वरेण शल्यस्य तत्त्वं
भवने तदीशः । ततः प्रश्नादिमो वर्णः सन्धार्य्यो यत्नतो-
ऽथ वा । क्रमात् पुष्पापगादेवफलामां ब्राह्मणादिवः ।
प्रणवो धरणी धारिणी करौ तदनन्तरम् । न भूत्यै
नम इत्येष मन्त्रो वह्निप्रियात्मकः” वह्निप्रिया स्वाहा
“मन्त्रेणानेन कठिनीमभिमन्त्र्य विभाजयेत् । नवधा
सदनक्षेत्रं तया पश्चाद्विलेखयेत् । वकचत एहाः शपया
नव चेत् प्रश्नाक्षराणि जायन्ते । प्रागादिकोष्ठनवके
वर्णास्ते शल्यमाख्यान्ति । प्रश्ने वकारः पुरतो नरास्थि
ब्रवीति शल्यं मरकप्रदायि । क्षौणीशदण्डोरगहेतुमृत्यु-
प्रदं ककारः खरशल्यमग्नौ । याम्यं चकारः प्लवगास्थि-
वेश्म प्रभोर्विनाशं प्रकरोति शल्यम् । रक्षोदिशि श्वास्थि
गृहस्थितानां महद्भयं बक्ति सुनिश्चितं तः । एः पाशिदि-
श्यस्थि शिशोर्ब्रवीति मृत्युं प्रवासाद् मृहमेव शल्यम् ।
होवायुकोणे नररूपमस्थि दारिद्र्यमित्रक्षयकृद्विधत्ते ।
धनपदिशि शकारः प्राह विप्रास्थि वित्तक्षयकृदथ पकारो
वक्ति ऋक्षास्थि शम्भौ । तदिह कुलविगाशं गोधनानाञ्च
हानिं वितरति गृहनाथस्यापि गुप्तस्य देवैः । यो मध्य-
भागे भसितं कपालं कालायसं चाह कुलक्षयाय ।
यत्नादपास्यान्यधुना प्रमाणं सर्वत्र तथ्यं कथयामि शल्ये ।
चन्द्ररक्षोजलेशाने शल्यं सार्द्धकरे कटौ । वह्न्यन्तक-
कुबेरेषु पुरुषे मध्यवातयोः” । देवीपु० “पुरुषाधःस्थितं
शल्य न गृहे दोषदं भवेत् । प्रासादे दोषदं शल्यं भवेत्
यावज्जलान्तकम् । गृहांरम्भेऽतिकण्डूतिः स्याम्यङ्गे
यदि जायते । शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि बा” ।
१० मदनवृक्षे ११ श्वाविधि च पु० अमरः १२ नकुलमातुल
मद्राधिपे नृपभेदे पु०१३ सीम्नि १४ शलाकायां पु० हेमच०
१५ बिल्ववृक्षे पु० १६ मत्स्यभेदे राजनि० । १७ शस्त्रभेदे
पु० त्रिका० ।

शल्यक पु० शल्य इव कायति कै--क । १ मदनवृक्षे (मयना)

शब्दच० । २ शल्लकीखगे च पुंस्त्री० स्त्रियां ङीष्
राजनि० ।

शल्यलोमन् न० शल्यमिव लोम । शल्लकीलोम्नि राजनि० ।

शल्यारि पु० ६ त० । शल्यनृपहन्तरि युधिष्ठिरे तद्धननकथा

भा० शल्य० दृश्या ।

शल्ल गतौ भ्वा० पर० सक० सेट् । शल्लति अशल्लीत् ।

शल्ल न० शल्ल--अच् । १ त्वचि २ भेकै पु० शब्दच० । स्वार्थे क

त्वचि न० । ३ शोणवृक्षे पु० जटा० । (सजारु) ४ पक्षिभेः
स्त्री गौरा० ङीष् । सा च ५ गजभक्ष्यावृक्षे अमरः ।

शल्लकीद्रव पु० शल्लक्याद्रव इव स्वादुत्वात् । सिह्लके जटा०

शल्व पु० शल--व । शाल्वदेशे उणा० ।

शव विकारे गतौ च भ्वा० पर० सक० सेट् । शवति० अशावीत् अशवीत् ।

शव पु० न० शव--अच् । मृतदेहे गतप्राणे १ देहे अमरः । २ जले

पु० मेदि० ।

शवकाम्य म० शवः काम्यो यस्य । कुक्कुरे शब्दर० ।

शवयान न० शववाहनं यानम् शाक० । मृतदेहवाहनार्थे

तल्पे हारा० ।

शवर न० शव--अरन् । १ म्लेच्छजातिभेदे अमरः । २ पानीये

२ शिवे च पु० मेदि० ३ तत्पत्न्यां स्त्रो ङीष् । ४ शास्त्र-
भेदे ५ हस्ते पु० उणादिको० मीमांसाभास्यकारके
६ विद्वद्भेदे ।

शवरथ पु० शववाहनार्थं रथः शाक० । शववाहनार्थे याने शब्दर० ।

शवरलोध्र पु० शवरप्रियः लोध्रः । श्येतलोध्रे रत्नमा० ।

शवरालय पु० ६ त० । शवरावासस्थामे अमरः ।

शवल पु० शव--कलन् । १ कर्वूरवर्णे २ तद्वति त्रि० अमरः ।

३ तद्वर्णवत्यां धेनौ स्त्री अमरः ।

शवसान पु० शव--आनच् सुक्च् । पथिके सि० कौ० ।

शश प्लुतगतौ भ्वा० पर० सक० सेट् । शशस्ति । अशाशीत् अशशीत्

शश पुं स्त्री० शश--अच् । पशुभेदे (खरगोश) अमरः । स्वार्थे

क । तत्रैव ।
“शशः शीतो लघुर्ग्राही रूक्षः स्वादुः सदा हितः
वह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः । ज्वर
पृष्ठ ५०९१
तिसारशोषाम्रश्वासामयहरश्चसः” भावप्र० । श्राद्धे तन्मांस
दाने फलभेदः श्रा० त० उक्तो यथा “ऐणरौरव
वाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति
दत्तेनेह पितामहाः” तन्मासं विष्णवे देयं यथोक्तं
“मार्गं मांसं तथा छागं शाशं समनुषज्यते । एतानि
मे प्रियाणि स्युः प्रपद्यानि वसुन्धरे!” । वराहपु० २ चन्द्रा-
ङ्करूपेमृगे धरणिः । ३ बोले ४ लोध्रे ५ नरभेदे मेदि० ।
तल्लक्षणं यथा “मृदुवचनसुशीसः कोमलाङ्गः सुकेशः
सकलगुणनिधानं सत्यवादी शशोऽयम्” रतिम० ।

शशक पुंस्त्री० शश--स्वार्थे क । (स्वरगोश) पञ्चनस्येषु भक्ष्ये

पशुभेदे “शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः ।
भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः” मनुः ।

शशधर पु० शशं मृगभेदं धरति धृ--अच् । १ चन्द्रे २ कर्पूरे

च अमरः । भृ--क्विप् शशभृदादयोऽप्यत्र ।

शशलाञ्छन पु० शशः मृगभेदो लाञ्छनं वस्य । १ चन्द्रे

२ कपूरे च शशाङ्कादयोऽप्यत्र ।

शशबिन्दु पु० १ राजभेदे २ विष्णौ च मेदि० ।

शशशिम्बिका स्त्री शश इव शिम्बी तया कायति कै--क ।

जीवन्त्यां राजनि० ।

शशस्थली स्त्री शशवासयोम्या स्यली । अन्तर्वेद्यां गङ्गायमुनयोर्मध्यस्ये देशभेदे त्रिका० ।

शशाण्डुलि स्त्री अडि--उलि ६ त० वा ङीप् । कर्कटीभेदे रा०

जनि० । “शशाण्डुली तिक्तकटुश्च कोमला कट्वम्लयुक्ता मधुरा
कफापहा । पाके तु साऽम्ना मधुरा विदाहकृत् कफे तु
शुष्का रुचिकृच्च दीपनी” राजनि० ।

शशाद पु० शशमत्ति अद- अण् । श्येनविहगे राजनि० । ल्यु । तत्रैव ।

शशिकला स्त्री ६ त० । १ चन्द्रस्य षोड़शभागे “गुरुनिघनमनु-

लघुरिह शशिकला” छन्दोभ० उक्तलक्षणे २ पञ्चदशाक्ष-
रपादके छन्दोभेदे ।

शशिकान्त न० शशी कान्तो यस्य । १ कुमुदे २ चन्द्रकान्तमणौ पु० राजनि० ।

शशिन् पु० शशोऽस्त्यस्य इनि । १ चन्द्रे २ कर्पूरे च शब्दमा० ।

शशिप्रभ न० शशिना प्रभा स्येव वा प्रभा यस्य । १ कुसदे । २

मुक्तायां राजनि० । ६ त० ३ ज्योत्स्नायां जटा० ।

शशिभूषण पु० शशी भूषणं यस्य । १ महादेवे शशिमण्डनादयोऽप्यत्र ।

शशिलेखा स्त्री शशिनो रेखा रस्य लः । १ चन्द्रकलायां

शशिनो लेखेव अमूतास्पदत्वात् । २ गुडूच्यां मेदि० ।
“म्रौ मो यौ चेत् भवेतां सप्ताष्टकैश्चन्द्रलेखा” छन्दोम०
उक्तलक्षणे ३ पञ्चदशाक्षरपादके छन्दोभेदे ।

शशिवाटिका स्त्री शशिनो वाटाव इवार्थे कन् । पुनर्नवायां राजनि० ।

शशिशेखर पु० शशी शेखरं यस्य । महादेवे हला०

शशिमर्द्धादयोऽप्यत्र ।

शशोर्ण्ण न० ६ त० । शशस्य लोम्नि अमरः ।

शश्वत् अव्य० शश--वति । १ नैरन्तर्य्ये २ पुनःपुनरित्यर्थे च अमरः ।

शष वधे भ्वा० पर० सक० सेट् । शषति अशाषीत् अशषीत् ।

शष्कुल पु० शष--कुलच् कस्य नेत्त्वम् । (डहरकरमचा)

१ वृक्षे २ अपूपभेदे स्त्री शब्दच० गौरा० ङीष् । ३ कर्ण-
रन्ध्रे “अवलम्बितकर्णशष्कुली” नैष० । ४ मत्स्य-
भेदे च भावप्र० दन्त्यमध्योऽप्ययमत्रार्थे ।

शष्प न० शष--पक् । १ बालतृणे घासे अमरः २ प्रतिभाक्षये पु० मेदि० ।

शस बधे भ्वा० पर० सक० सेट् उदित् क्त्वा बेट् । शसति ।

अशासीत् अशसीत् ।

शस आशिषि भ्वा० आत्म० सक० इदित् सेट् । प्रायेश्चाङ्-

पूर्वः । आशंसते आशंसिष्ट ।

शस स्वप्ते अदा० पर० अक० सेट् इदित् । शंस्ति अशंशत् ।

शसन न० शस--बधे ल्युट् । यज्ञार्थं पशुहनने ।

शस्त न० शन्स--क्त । १ कल्याणे २ तद्ववि अमरः । ३ लुते

४ प्रशस्ते च त्रि० मेदि० । ५ देहे न० त्रिका० संज्ञायां कन् ।
६ अङ्गुलित्राणे शब्दच०!

शस्त्र न० शस--ष्ट्रन् । १ लौहे २ खङ्गादौ अस्त्रै च हेमच०

स्वार्थे क । तत्रैव । तत्र मुक्तमस्त्रममुक्तं शस्त्रमिति भेदः
शंस--तन् । ३ प्रगीते मन्त्रभेदे चिकित्साङ्गशस्त्राणां
श्चक्षणादि सुश्रुतोक्तं यथा
“अथातःशस्त्रावचारणीयमध्यायं व्याख्यास्यामः विंशतिः
शस्त्राणि । तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्र-
मुद्रिकोत्पलपत्रकार्द्धधारसूचीकुशपत्राटीमुखशरारीमुखा-
न्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्रक्वड़िश-
दन्तशङ्क्केषण्य इति । तत्र मण्डलाग्रकरपत्रे स्यातां
छेदने लेखने च । वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्र-
कार्द्धधाराणि छेदने भेदने च । सूचीकुशपत्राटीमुख-
शरारीमुखान्तर्मुखत्रिकूचेकानि विस्नावणे । कुठारीका-
व्रीहिमुखारावेतसपत्रकाणि घ्यधने सूची च । वड़िशो
दन्तशङ्कुश्चाहरणे । एषण्येषणे आनुलोभ्ये च ।
सूच्यः सेवने इत्यष्टविधे कर्मण्युपयोगः शस्त्रार्णा
व्याख्यातः । तेषामथ यथायोगग्रहणसमासोपायः
कर्मसु वक्ष्यते । तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे
गृह्णीयाद्भेदनान्येवं सर्वाणि । वृद्धिपत्रं मण्डलाग्रञ्च
किञ्चिदुत्तानपाणिना लेखने बहुशोऽवत्तार्व्यं वृन्ताग्रे
पृष्ठ ५०९२
विस्रावणानि विशेषेण बालवृद्धसुकुमारभीरुनारीणां
राज्ञां राजपुत्राणाञ्च त्रिकूर्चकेन विस्रावयेत् ।
तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखम् । कुठारीकां
वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुष्ठविष्टब्धयाभिहन्यात् ।
आराकरपत्रैषण्यो मूले । शेषाणिं तु यथायोगं
गृह्णीयात् । तेषां नामभिरेवाकृतयः प्रायेण व्या-
ख्याताः । तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते ।
वड़िशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवसन्त-
मुखे । एषणी गण्डूपदाकारमुखी । प्रदेशिन्यग्रपर्वप्रदेश-
प्रमाणा मुद्रिका । दशाङ्गुला शरारीमुखी सा कर्त्तरीति
कथ्यते । शेषाणि तु षड़ङ्गलानि । तानि सुग्रहाणि
सुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखा-
ग्राण्यकरालानि चेति शस्त्रसम्पत् । तत्र वक्रं कुण्ठं
खण्डं खरधारमतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमि-
त्यष्टौ शस्त्रदोषाः । अतो विपरीतगुणमाददीतान्यत्र
करपत्रात्तद्धि ञ्चरधारमस्थिच्छेदनार्थम् । तत्र घारा
भेदनानां मासूरी । लेखनानामर्द्धमासूरी । व्यधनानां
विस्नावणानाञ्च कैशिकी । छेदनानामर्द्धकैशिकीति ।
तेषां पायना त्रिविधा क्षारोदकतैलेषु तत्र क्षारपायितं
शरशल्यास्थिच्छेदनेषु । उदकपायितं मांसच्छेदनभेदन-
पाटनेषु तैलपायितं सिराव्यधनस्नायुच्छेदनेषु । तेषां
निशाणार्थं श्लक्ष्णशिला माषवर्ण्णा । धारासंस्यापनार्थं
शालमलोफलकमिति” । भवति चात्र “यदा सुनिशितं
शस्त्रं रोमच्छेदि सुसंस्थितम् । सुगृहीतं प्रमाणेन
तदा कर्मसु योजयेत्” । अनुशस्त्राणि तु त्वक्सारस्फ-
टिककाचकुरुविन्दजलौकाग्निक्षारनखगोजीशेफालिका-
शाकपत्रकरीरबालाङ्गुलय इति । “शिशृनां शस्त्रभी-
रूणां शस्त्राभावे च योजयेत् । त्वक्सारादि चतुर्वर्गं
छेद्ये भेद्ये च बुद्धिमान् । आहार्य्यच्छेद्यभेद्येषु नखं
शक्येषु योजयेत् । विधिः प्रवक्ष्यते पश्चात् क्षारवह्नि-
जलौकसाम् । ये स्युर्मुखगता रोगानेत्रवर्त्मगताश्च ये ।
गोजीशेफालिकाशाकपत्रैर्विस्वावयेत्तु तान् । एष्येष्वे-
षण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः । शस्त्राण्येतानि
मतिमान् शुद्धशेक्यायसानि तु । कारयेत्करणैः प्राप्तं
कर्मारं कर्मकोविदम् । प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति
नित्यशः । तस्मात्परिचयः कार्य्यः शस्त्राणामादितः
सदा” ।

शस्त्रकोषतरु पु० शस्त्रकोषस्य हितस्तरुः । महापिण्डीवृक्षे राजनि० ।

शस्त्रजीविन् पु० शस्त्रेण जीवति जीव--णिनि । शस्त्र-

व्यापारेण युद्धादिना वृत्तिसति हेमच० ।

शस्त्रपाणि पु० शस्त्रं पाणौ यस्य । १ शस्त्रधारके २ आतता-

यिभेदे च “शस्त्रपाणिर्धनापहः” इति स्मृतिः ।

शस्त्रमार्ज्ज पु० शस्त्रं मार्ष्टि मृज--अण् (शिकलकर)

शस्त्रमार्ज्जनकरे शिल्पिभेदे अमरः ।

शस्त्रहत त्रि० ३ त० । १ शस्त्रघातेन मृते “पक्षिपत्स्यमृगैर्ये

तु दंष्ट्रिशृङ्गिनखैर्हताः । पतनानशनप्रायैर्वज्राग्नि
विषबन्धनैः । मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः”
देवीपु० परिभाषिते २ खगादिहते च । तस्याशौचादि
शुद्धित० उक्तं यथा “शस्त्रघाते त्र्यहादूर्द्ध्वं यदि
कश्चित् प्रमीयते । अशौचं प्राकृतं तत्र सर्ववर्णेषु
नित्यशः” व्याघ्रः “क्षतेन म्रियते यस्तु तस्याशौचं भवेद्-
द्विधा । आसप्ताहात् त्रिरात्रं स्यात् दशरात्रमतःपरम्” ।
अत्र शस्त्रघातपरं क्षतेतरशस्त्रघातपरं पारिभाषिकशस्त्र-
षातपरञ्च । न च शास्त्रीयव्यवहारेऽन्तरङ्गत्वेन पारि-
भाषिकस्यैव ग्रहणं युक्तमितिवाच्यम् श्राद्धे पारिभाषि-
कापरिभाषिकशस्त्रघातग्रहणवदत्रापि तथा युक्तत्वात्
पारिभाषिकत्वादेव न प्रकरणनियमः” शु० त० रघु० ।

शस्त्रहतचतुर्दशी स्त्री शस्त्रहतोद्देश्यकश्राद्धाङ्गं चतुर्दशी ।

गौणाश्विनकृष्णपक्षचतुर्दश्यां तत्र कर्त्तव्यं आद्धवि०
दर्शितं यथा
“अथ शस्त्रहतचतुर्दशी । विष्णुः युद्धहतानां श्राद्ध-
कर्मणि चतुर्दशी प्रशस्ता” ।
शस्त्रयुद्धहतानामेवेति न नियमार्थम् ब्रह्मपुराणे
“प्रायाऽनशनशस्त्राग्निबिषोद्वन्धनिनां तथा । चतुर्दश्यां
तु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः” प्रायोमहापथगम-
नम् । वायुपुराणे “युवानस्तु गृहे यस्य मृतास्तेषान्तु
दापयेत् । शस्त्रेण च हता ये वै तेषां दद्याच्चतुर्द-
शीम्” । युवान एव पुत्रादयो मृता इत्यर्थः । मरीचिः
“विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् ।
चतुदैश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता” । ब्राह्म-
णकृतघातोऽस्यास्तीति ब्राह्मणघाती तेषां, ये च ब्राह्म-
णैर्हताः” इति ब्रह्मपुराणवचनात् न तु कृतव्राह्मणा-
घातस्य पतितत्वात् । अन्येषाम् अशस्त्रादिहतानाम्
एतच्च शस्त्रहतश्राद्धं विष्ण्वादिभिः सामान्यप्रकरण-
लिखनात् सकलकृष्णपक्षसाधारणम् पित्रादीनामेय
पार्वणविधिप्रकरणात् पार्वणविधिना कार्य्यं “सपि-
पृष्ठ ५०९३
ण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं
कुर्य्याद्वर्जयित्वा मृताहनि” इति शङ्खवचनाच्च ।
मनु “अन्येषान्तु विगर्हिता” इति श्रवणात् कथं त्रैपुरु-
षिकपार्वणविधिः न यस्य पुरुषास्त्रय एव शस्त्रहतास्तस्य
त्रैपुरुषिकविधिरुपपद्यत एव यस्य द्वौ शस्त्रहतौ एको
वा तेनापि द्वैपुरुषिकैकपुरुषिकमेव पार्वणं कर्त्तव्यं
यथा मनुः “पिता यस्य तु वृत्तः स्याज्जीवेद्वापि पिता-
महः । पितुः स नाम संकीर्त्त्य कीर्त्तयेत् प्रपितामहम्”
तथा हारोतः “पितामहोऽपि जीवेद्वै पितर्य्येव
समापयेत्” । नन्वेकोद्दिष्टमात्रं श्रूयते यथाह गार्म्यः
“सपिण्डीकरणादूर्द्ध्वं मृते कृष्णचतुर्दशीम् । प्रतिसंवत्-
सरादन्यदेकोद्दिष्टं न कारयेत्” यमः “सपिण्डीकर-
णादूर्द्ध्वं यत् पितृभ्यः प्रदीयते । एकोद्दिष्टविधानेन
प्रदेयं शस्त्रघातिने” भविष्यपुराणे “समत्वमागतस्यापि
पितुः शस्त्रहतस्य च । चतुर्दश्यां तु कर्त्तव्यमेकोद्दिष्टं
न पार्वणम् । चतुर्दश्यां तु यत् श्राद्धं सपिण्डीकरणे
कृते । एकोद्दिष्टविधानेन प्रदेयं शस्त्रघातिने” उच्यते ।
एषां वचनानाममूलत्वात् समूलत्वेऽपि पार्वणाशक्तवि-
षयकाण्येवैतानि विष्णादिवचनेषु पार्वणावगतेः । भ्रा-
त्रादीबान्तु शस्त्रहतावाम् एकोद्दिष्टविधिना कार्य्यम् ।
“अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।
तेषामपि च देय स्यादेकोद्दिष्टं न पार्वणम्” इत्याप-
स्तम्बवचने पार्वणनिषेधात् तच्च न सकलकृष्णपक्षसा-
धारणं विष्ण्वादिवचने श्राद्धशब्दस्य पार्वणवरत्वोक्तेः ।
किन्त्वाश्विनमासीयकृष्णपक्षविपयम् । ब्रह्मपुराणे “प्राया-
मशनेत्यादिना सकलकृष्णपक्षसाधारणं श्राद्धमभिधाया-
श्विने “तर्पणीयाश्चतुर्दश्यां लुप्तपिण्डोदकक्रियाः” इति
पुनरभिधानं तच्छस्त्रहतभ्रात्रादिविषयम् अतएव तत्रैव
“अमाबास्यार्या पितरः पूज्या नान्दीमुखा अपीति” वृद्ध-
प्रपिताम हादीनामपि श्राद्धं दर्शितम् । इयञ्च चतुर्दश्या-
मशस्त्रहतश्राद्धनिन्दा आश्विनमासीयकृष्णयपक्षश्राद्धा-
दिकल्पव्यतिरिक्तमामान्यकृष्णपक्षविहितश्राद्धकाम्यश्राद्धवि-
घया प्रकरणभेदेन श्राद्धकर्मभेदात् सामान्यविशेषन्या-
याच्च इतरथा चतुर्दश्यां संक्रान्तिश्राद्धेऽशस्त्रहतनिन्दा-
स्यात् अतएव “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशी-
मिति” भनुवचनेऽपि चतुर्दशीवर्जनं पक्षश्राद्धादिव्यति-
रिक्तविषयम् । ननु शस्त्रादिहतानां श्राद्धनिषेधः श्रू-
यते यथा छागलेयः “शस्त्रविप्रहतानाञ्च शृङ्गिदंष्ट्रि
सरीसृपैः । आत्यनस्त्यागिनाञ्चैव श्राद्धमेषां न
कारयेत्” । सत्यं बुद्धिपूर्वकमृतानामेव । प्रमादमृतानाञ्च
श्राद्धादिकमाह अङ्गिराः “अथ कश्चित् प्रभादेन म्रियते
ऽग्न्युदकादिभिः । अशौचं तस्य कर्त्तव्यं कर्त्तव्या
चोदकक्रिया” । अबुद्धिपूर्वकमपि शृङ्ग्यादिमिः क्रीड़ां
कुर्वतां मृतानां न कर्त्तव्यम् । ब्रह्मपुराणे “शृङ्गिदंष्ट्रि-
नखिव्यालविषवह्निस्त्रिया जलैः । आदरात् परिहर्त्तव्यः
कुर्वन् क्रीड़ां मृतस्तु यः” । परिहर्त्तव्यः श्राद्धादौ ।
शास्त्रानुमत्या बुद्धिपूर्वकमृतानामपि कर्त्तव्यम् । गर्ग्यः
“नष्टशौचस्मृतिर्लुप्तप्रत्याख्यतभिषक्क्रियः । आत्मानं
घातयेद्यस्तु भृग्वग्न्यनशनादिभिः । तस्य त्रिरात्रमा-
शौचं द्वितीये त्वस्थिसञ्चयः । तृतीये तूदकं कृत्वा चतुर्थे
श्राद्धमिष्यते” । एवं क्रीड़ाव्यतिरेकेणाऽवुद्धिपूर्वमृताः
शास्त्रानुमत्या च बुद्धिपूर्वकमृता अपि श्राद्धार्हाः । कथम्
लुप्तपिण्डोदकत्वम् इति चेद्गौणमिति ब्रूमः बुद्धि-
पूर्वकमृते पिण्डोदकक्रियालोपात्” ।

शस्त्राभ्यास पु० ६ त० । शस्त्रप्रयोगशिक्षायां त्रिका० ।

शस्त्रायस शस्त्रयोग्यमयः अच्समा० । लोहभेदे (इष्पात) राजनि० ।

शस्त्रिन् त्रि० शस्त्रमस्त्यस्य इनि । शस्त्रविशिष्टे ।

शस्त्री स्त्री स्वल्पं शस्त्रं ङीप् । छुरिकाथाम् मेदि० ।

शस्प न० शस--प । बालतृणे घासे अमरे पाठान्तरम् ।

शस्य न० शस--यत् । वृक्षादीनां फले “शस्यं क्षेत्रगतं प्राहुः

सतुषं धान्यमुच्यते” इत्युक्ते क्षेत्रस्थे धान्यादौ च
अस्य दन्त्यादित्वमपि नवशस्यसम्भोगनक्षत्राणि ज्यो० त०
उक्तानि यथा “अनुराधा मृगशिरो रेवती चोत्तरा
त्रयम । हस्ता चित्रा यघा पुष्या श्रवणा च पुनर्वसुः ।
रोहिणी नवशस्यादिनवद्रव्याशनादिषु । प्रशस्तं
नवपीठादिसम्भोगे ग्रहविद्वदेत्” ।

शस्यध्वंसिन् पु० शस्यं ध्वंसयति ध्वन्स--णिच्--णिनि ।

१ तुन्नवृक्षे (तुँद) शब्दच० २ शस्यनाशके त्रि० ।

शस्यमञ्जरी स्त्री ६ त० । अभिनवथान्यादिशीर्षे अमरः ।

शस्यशूक न० धान्यादेः शीर्षे अमरः ।

शस्यसम्बर पु० शस्यं संवृणोति सम् + बृ--अच् । सालवृक्षे अमरः ।

शस्यारु पु० शस्यमृच्छति ऋ--उण् । क्षुद्रशमीवृक्षे शब्दच० ।

शाक पु० न० शक--घञ् । १ पत्रपुष्पादौ अमरः २ वृक्षनेदे पु०

(सेगुण) वृक्षे च ३ शक्तौ ४ शिरीषवृक्षे पु० शब्दरत्ना० ।
५ स्वराज्यावधि वत्सरप्रवर्त्तके राजभेदे ६ तदीये वत्सरे
च पु० मेदि० । श्यति सामर्थ्यं शो--क तस्य नेत्त्वम् ।
पृष्ठ ५०९४
“मूलपत्त्रे करीराग्रे फलकाण्डाधिरूढ़कम् । त्वक्पुष्पं
कवकञ्चैव शाकं दशविधं स्मृतम्” इत्युक्तेषु ७ वृक्षा-
दीनां पत्त्रादिषु न० । तत्र १ मूलं भूलकादेः । २ पत्रं
वास्तूकादेः । ३ करीरं वंशादेः । ४ अग्रं वेत्रादेः । ५ फलं
कुष्माण्डादेः । ६ काण्डं उत्पलादेः । ७ अधिरूढं ताला-
स्थिमज्जादेः । ८ त्वक् मातुलाङ्गादेः । ९ पुष्पं कोविदा-
रादेः । १० कवकं छत्रिकादेः । भावप्र० अन्यथोक्तं यथा
“पत्रं पुष्प फलं नालं कन्दं संस्वेदजं तथा । शाकं
षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम्” । “प्रायः शाकानि
सर्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्चांसि
सृष्टविण्मारुतानि च । शाकं भिन्नत्ति वपुरस्थि
नहन्ति नेत्रम् वर्णं विनाशयति रक्तमथापि शुक्रम् ।
प्रज्ञाक्षयं च कुरुते पलितञ्च नूनम् हन्ति स्मृतिं गति
मिति प्रवदन्ति तज्ज्ञाः” । ८ द्वीपभेदे मत्स्यपु० १२१ अ०
तत्प्रमाणाद्युक्तं यथा
“शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम् । कथ्यमानं
नियोधध्वं शाकं द्वीपं द्विजोत्तमाः! । जम्बूद्वीपस्य
विस्ताराद्द्विगुणस्तस्य विस्तरः । विस्तारात् द्विगुणश्चापि
परीणाहः समन्ततः । तेनावृतः समुद्रोऽयं द्वितीयो
णवणोदकः । तत्र पुण्या जनपदा चिराच्च म्रियते
जनः । कुत एव च दुर्भिक्षं क्षपातेजोयुतेष्विह ।
तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः । शाकद्वीपा-
दिषु स्येषु सप्त सप्त नगास्त्रिषु । ऋज्वायताः प्रति-
दिशं निविष्टाः पर्वतोत्तमाः । रत्नाकराद्रिनामानः
सालुमन्तो महाचिताः । समोदिताः प्रतिदिशं द्वीपवि-
स्तारमानतः । उभवत्रावगाढ़ौ च लवणक्षीरसागरौ ।
शाकद्वीप्रे तु वक्ष्यामि सप्त दिव्यान् महाचलान् । देवर्षि-
गन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायतः स सौवर्ण
चदयो नाम पर्वतः । तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यप-
यान्ति च । तस्यापरेण सुमहान् जलधारो
महागिरिः । स वै चन्द्रः समाख्यातः सर्वौवधिसमन्वितः ।
तस्मान्नित्यमुपादत्ते वासवः परमञ्जलम् । नारदो नाम
चैवोक्तो दुर्गशैलो महाचितः । तत्राचलौ समुत्पन्नौ पूर्वं
नारदपर्वतौ । तस्यापरेण सुमहान् श्यामो नाम
महागिरिः । यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ।
स एव दुन्दुभिर्नाम श्यामपर्वतसन्निभः । शब्दमृत्युः
पुरा तस्मिन् दुन्दुभिस्ताड़ितः सुरैः । रत्नमालान्तरमयः
शाल्मलश्चान्तरालकृत् । तस्यापरेण रजतो महानस्तो-
गिरिः स्मृतः । स वै सोमक इत्युक्तो देवैर्वत्रामृतं
पुरा । अमृतञ्चाहृतञ्चेव मातुरर्थे गरुत्मता । तस्या-
परे चाम्बिकेयः सुमनाश्चैव स स्मृतः । हिरण्याक्षो
वराहेण तस्मिन् शैले निषूदितः । आम्बिकेयात् परो
रम्यः सर्वाषधिनिवेशितः । विभ्राजस्तु समाख्यातः
स्फाटिकस्तु महान् निरिः । यस्माद्विभ्राजते वह्निर्वि-
भ्राजस्तेन स स्मृतः । सैवेह केशवेत्युक्तो यतो वायुः
प्रवाति च । तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजो-
त्तमाः । शृणुध्वं नामतस्तानि यथावदनुपूर्वशः । द्वि-
नामान्येव वर्षाणि यथैव गिरयस्तथा । उदयस्योदयं
वर्षं जलधारेति विश्रुतम् । नाम्ना गतभयं नाम वर्षं
तत् प्रथमं स्मृतम् । द्वितीयं जलधारस्य सुकुमारमिति
स्मृतम् । तदेव शैशिरं नाम वर्षं तत् परिकीर्त्तितम् ।
नारदस्य च कौमारन्तदेव च सुखोदयम् । श्यामपर्वत-
वर्षं तदनीचकमिति स्मृतम् । आनन्दकमिति प्रोक्तं
तदेव मुनिभिः शुभम् । सोमकस्य शुभं वर्षं विज्ञयं
कुसुमोत्करम् । तदेवासितमित्युक्तं वर्षं सोमकसंज्ञितम् ।
आम्बिकेयस्य मैनाकं क्षेमकञ्चैव तत् स्मृतम् । तदेव
ध्रुवमित्युक्तं वर्षं विभ्राजसंज्ञितम् । द्वीपस्य
परिणाहञ्च ह्रस्वदीर्घत्वमेव च । जम्बूद्वीपेन संख्यातं तस्य
मध्ये वनस्पतिम् । शाको नाम महावृक्षः प्रजास्तस्य
सहानुगाः । एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः ।
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह । तत्र पुण्या
जनपदाश्चातुर्वर्ण्यसमन्विताः । तेषु नद्यश्च सप्तैव प्रति-
वर्षं समुद्रगाः । द्विनाम्ना चैव ताः सर्वा गङ्गा सप्तविधा
स्मृता । प्रथमा सुकुमारीति गङ्गा शिवजला शुभा ।
मुनितप्ता च नाम्नैषा नदी सम्परिकीर्त्तिता । सुकुमारी
तपःसिद्धा द्वितीया नामतः सती । नन्दा च पावनी
चैव तृतीया परिकीर्त्तिता । शिविका च चतुथी
स्यात् द्विविधा च पुनः स्मृता । इक्षुश्च पञ्चमी श्वेथा
तथैव च पुनः कुहूः । वेणुका चामृता चैव षष्ठो सम्प-
रिकीर्त्तिता । सुकृता च गभस्ती च सप्तमी परिकी-
र्त्तिता । एताः सप्त महाभागाः! प्रतिवर्षं शिवोदकाः ।
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् । अभिगच्छन्ति
ताश्चान्या नदनद्यः सरांसि च । बहूदकपरिस्रावा
यतो वर्षति वासवः । तासान्तु नामधेयानि परिमाणं
तथैव च । न शक्यं परिसंख्यातुं पुण्यास्ताः
सरिदुत्तमाः । ताः पिबन्ति सदा हृष्टा नदीर्जन्पदास्तु ते ।
पृष्ठ ५०९५
एते शान्तभयाः प्रीक्ताः प्रमोदा ये च वै शिवाः ।
आनन्दाश्च सुखाश्चैव क्षेमकाश्च नरैः सह । वर्णाश्रमा-
चारयुता देशास्ते सप्त विश्रुताः । आरोग्या बलिनश्चैव
सर्वे मरणवर्जिताः । अवसर्पिणी न तेष्वस्ति तथैवोत्
सर्पिणी पुनः । न तत्रास्ति युगावस्था चतुर्युगकृता
क्वचित् । त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते । शाक
द्वीपादिषु ज्ञेयं पञ्चस्वंतषु सर्वशः । देशस्य तु विचा-
रेण कालः स्वाभाविकः स्मृतः । न तेषु सङ्करः
कश्चित् वर्णाश्वमकृतः क्वचित् । धर्मस्य चाव्यभीचारादेका-
न्तसुखिनो जनाः । न तेषु माया लोभो वा ईर्ष्यासूया
भयं कुतः । विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं
स्मृतम् । कालो मैव च तेष्वस्ति न दण्डो न च
दाण्डिकः । स्वधर्मेण च धर्मज्ञास्ते रक्षन्ति परस्परम्” ।

शाकचुक्रिका स्त्रा शाकेषु मध्ये चुक्रिका । चिञ्चायां

राजनि० ।

शाकट न० शकटाय हितम् अण् । १ शकटसम्बन्धियुगादौ

२ शकटयोद्धरि च मेदि० । २ श्लेष्मातक वृक्षे राजनि० ।
४ धववृक्षे च पु० रत्नमा० ।

शाकटायन पु० व्याकरणकारके मुनिभेदे “इन्द्रश्चन्द्रः काश

कृत्स्त्न्यापिशली शाकटायनः । पाणिन्यमरजैनेन्द्राः
जयन्त्यष्टादिशाव्दिकाः” कविकल्पद्रुमः ।

शाकटिक पु० शकटेन चरति टञ् । शकटेन गन्तरि ।

शाकटीन पु० शकटः परिमाणमस्य खञ् । विंशतितुला-

परिमाणे हेमच० ।

शाकतरु पु० शाकाख्यः तरुः । (सेगुण) वृक्षे शब्दच० । शाकवृक्षादयोऽप्यत्र ।

शाकपत्त्र पु० शाकस्येव पत्त्रमस्य । शिग्रुवृक्षे राजनि० ।

शाकबालेय पु० वलये हितम् ढक् शाकप्रधानो बालेयः ।

ब्रह्मयष्टिकायाम् शब्दच० ।

शाकबिल्व पु० शाकोऽपि बिल्य इव । वार्त्ताकौ जटा० स्वार्थे क । तत्रैव त्रिका० ।

शाकम्भरी स्त्री शाकैर्विभर्त्ति भृ--स्वच् मुम् च । “भरिष्यामि

सुराः शाकैरावृष्टेः प्राणधारकैः । शाकम्भरीति
विख्यातिं तदा यास्याम्यहं भुवि” देवीमा० निरुक्ता-
याम् १ दुर्गायाम् । २ रोमकान्तर्गतशाकम्भरनगर्य्यां न० तत्र
भवं छ । शाकम्भरीय लवणभेदे न० “शाकम्भरीयं कथितं
गड़ाख्यं रोमकं तथा! गड़ाख्यं लघु वातघ्नमत्युष्णं
भेदि पित्तलम् । तीक्ष्णं व्यवायि सूक्ष्मञ्चाभिष्यन्दि
कटुपाकि च” भावप्र० ।

शाकयोग्य पु० शाके तद्भक्षणे योग्ब्रः । धन्याके राजनि० ।

शाकराज पु० शाकेषु राजते अच्, शाकानां वा राजा

टच् समा० । वास्तूकशाके राजनि० ।

शाकल पु० ब० व० शकलेन ऋषिणा प्रोक्तमधीयते अण् ।

१ शकलर्षिप्रोक्तकल्पादिग्रन्थाध्येतृषु । तेषां संघोऽङ्को
घोषो वा पुनरण् वुन् वा । शाकल शाकलक वा ।
१ तत्समूहे २ तदङ्के । ३ तद्धोषे च पु० । अङ्कः परस्परा
सम्बन्धः” सि० कौ० ।

शाकलिक त्रि० शकलस्येदं ठक् कात्या० वार्त्ति० ।

शकलसम्बन्धिनि पक्षे अण् शाकल तत्रार्थे ।

शाकवीर पु० शाकेषु वोरः वीर्य्याधायकत्वात् । १ वास्तूकशाके त्रिका० ।

शाकशाकट न० शाकस्य क्षेत्रं शाकटच् । शाकक्षेत्रे ।

शाकटिनच् शाकशाकटिन अत्रार्थे हेमच० ।

शाकश्रेष्ठ पु० शाकेषु श्रेष्ठः । १ वास्तूकशाके शब्दर० । २

जीवन्त्यां ३ वार्त्ताकौ स्त्री हेमच० ।

शाकाङ्ग न० शाकस्य तद्भणस्याङ्गमुपयोगि । १ मरिचे २डोडीक्षुपे राजनि० ।

शाकाम्ल न० शाकमेवाम्लम् । वृक्षाम्ले राजनि० ।

शाकाम्लभेदन न० शाकरूपम् अम्ल भिनत्ति भिद--ल्यु ।

१ चुक्रे (चुकोपालङ्ग) राजनि० ।

शाकालाबु स्त्री शाकप्रधानालाबुः । अलाबुभेदे राजालाबु वृक्षे राजनि० ।

शाकाष्टका स्त्री शाकेन कर्त्तव्या अष्टका । गौणफाल्गुन-

कृष्णाष्टम्याम् अष्टकाशब्दे ५१६ पृ० दृश्यम् ।

शाकिनी स्त्री शाकमस्त्यस्याः उत्पद्यत्वेन इनि । १ शाकभव-

नयोग्यायां मूमौ गृहवाटिकायाम् २ देवीसहचरीभेदे च ।
“डाकिनी योगिनी चैव खेचरी शाकिनी तथा । दिक्षु
पूज्या इमा देव्यः सुसिद्धिफलदायिकाः” कात्या० कल्प० ।
कण्ठदेशस्थे विशुद्धाख्ये चक्रे स्थितायां ३ देवीशक्तौ च
“विशुद्धाख्ये महाचक्रे षोड़शस्वरसंयुते । सदाशिवं
शाकिनीञ्च विन्यसेत् पूर्ववत्ततः” तन्त्रसा० ।

शाकुण पु० शक--वा० उणन् । परतापके शब्दमा० ।

शाकुन पु० शकुनं शुभाशुभसूचकं निमित्तमधिकृत्य कृतो

ग्रन्थः अण् । शकुनज्ञानसाधने ग्रन्थे (काकचरित) ।
“शुभाशुभज्ञानविनिर्णयार्थो हेतुर्नृणां यः शकुनः स
उक्तः । गतिस्वरालोकनभावचेष्टां संकीर्त्तयामोद्वि-
पदादिकानाम् । लोकोऽमुना शाकुनसंज्ञकेन ज्ञानेन
विज्ञातसमस्तकर्म्मा । नापायकूपे पतति प्रसर्पन् शास्त्रं
हि दिव्या दृगतीन्द्रियेषु” वसन्ताजिः ।

शाकुनिक पु० शकुनेन पक्षिवधादिना जीवति ठञ् ।

पक्षिथातके अमरः ।
पृष्ठ ५०९६

शाकुन्तलेय पु० शकुन्तलाया अपत्यं ढक् । दुष्मन्तात्मजे

शकुन्तलाभजे भरते नृपे जटा० ।

शाक्त त्रि० शक्तिर्दवताऽस्य अण् । तन्त्रोक्ते शक्तिदेवतोपासके

तस्य प्रशंसा मुण्डमालात० २ पटले उक्ता “स्वर्गे मर्त्ये च
पाताले नास्ति शाक्तात् परः प्रियः । सौराणां
गाणपत्यानां वैष्णवानां तथैव च । शैवान्ते चैव शाक्तश्च
क्रमशः क्रमशः प्रिये!” “शाक्ता एव द्विजाः मर्वे न
शैवा न च वैष्णवाः । उपासते यतो देवीं गायत्रीं
परमाक्षराम्” निर्वाणत० २ पटले । “अस्याश्चाराधनं कृत्वा
नान्यस्याराधनं चरेत् । अन्यस्य स्मरणाद्देवि! योगिनी
शापमालभेत्” गन्घर्वत० । “तर्जन्या रजतं धार्य्यं स्वर्णं
धार्य्यमनामया । एष एव कुशः शाक्तो न दर्भो
वनसम्भवः” श्यामार० ।

शाक्तीक पु० शक्तिः प्रहरणमस्य ईकक् । शक्त्या योद्धरि अमरः ।

शाक्य पु० शक--थञ् तत्र साधुः यत् । बुद्धे ।

शाक्यशब्दनिरुक्तिरन्यथोक्ता यथा
“शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे । तस्मादि-
क्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः” भरतधृतवच-
नम् । इयमत्राख्यायिका पितृशप्ताः केचिदिक्ष्वाकुवंश्या
गोतमवंशजकपिलमुनेराश्रमे योगाभ्यासाय शाकवृक्षे
कृतवासाः शाक्या इति ख्यातिमापन्नाः ।

शाक्यमुनि पु० शाक्यो मुनिः । बुद्धभेदे अमरः!

शाक्यसिंह पु० शाक्यवंशे सिंह इव । बुद्धभेदे अमरः ।

शाक्र त्रि० शक्रस्येद स देवताऽस्य वा अण् । १ इन्द्रसम्बन्धिनि

२ इन्द्रदेवताके हविरादौ । स्त्रियां ङीप् । शक्रस्तत्तुल्य-
पराक्रमः अस्त्यस्या अण् । ३ शक्रतुल्यपराक्रमायां
दुर्गायाञ्च “इन्द्राणी इन्द्रजननी शाक्री शक्रपराक्रमा”
देवीपु० ।

शाक्वर पु० शक--ष्वरप् स्वार्थे अण् । वृषे हेमच० ।

शाख व्याप्तौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः ।

शाखति अशाखोत् ।

शाख पु० शाख--अच् । कृत्तिकापुत्रे स्कन्दानुजे १ कुमारानु-

चरगणभेदे “अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः” मत्स्यपु० ५ अ० ।
२ ग्रन्थपरिच्छेदे सर्गस्थानीवे ग्रन्थांशभेदे शब्दच० । वृक्ष-
स्यांशभेदे (डाल) स्त्री अमरः । ३ पक्षान्तरे ४ राहौ ५ वेदै-
कदेशे च स्त्री मेदि० । ६ अन्तिके विश्वः । ७ देहांशभेदे च ।

शाखाकण्ट पु० शाखाव्यापी कण्टः कण्टको यस्य । स्नुही

वृक्षे राजनि० ।

शाखानगर न० शाखेव नगरम् । मूलनगरसमीपस्थे क्षदपुरे अमरः । शाखापुरादयोऽप्यत्र

शाखापित्त पु० शाखासु पित्तं यतः । पाणिपादादिदेह-

शाखादाहे राजनि० ।

शाखामृग पुंस्त्री० शाखास्थो मृगः पशुः । वानरे अमरः । स्त्रियां ङीष् ।

शाखाम्ला स्त्री शाखास्वप्यम्ला । वृक्षाम्ले राजनि० ।

शाखारण्ड पु० शाखायां वेदशाखायां रण्डः तद्विहित-

कर्मानाचरणात् । स्वशाखात्यागेनापरशाखोक्तकर्मकर्त्तरि
हेमच० ।

शाखाल पु० शाखाः बाहुल्येन सन्त्यस्य लच् । वानीरवृक्षे राजनि० ।

शाखाशिफा स्त्री शाखारूढ़ा शिफा मूलम् शाक० ।

वटादीनां शाखाजाते १ मूले अमरः । २ शिफामारभ्य शाखा
युतायां गुडूच्यादिलतायाम् भरतः ।

शाखिन् पु० शाखाऽस्त्यस्य इनि । १ वृक्षे अमरः । २ वेदैक-

देशवति, ३ नृपभेदे, ४ म्लेच्छभेदे च मेदि० ।

शाखोट पु० शाख--व्याप्तौ ओटन् (श्याड़ा) वृक्षे त्रिका०

स्वार्थे क । तत्रैव ।

शाङ्खिक पुंस्त्री० शङ्खस्तद्विकारबलयनिर्माणं शिल्पमस्य ठञ् ।

जातिभेदे (शाँखारी) अमरः स्त्रियां ङीष् ।

शाङ्गुष्ठा स्त्री श्यति शो--क शः अङ्गुष्ठ इव यस्याः । गुञ्जायां रत्नमा० ।

शाट पु० शट--थञ् । वस्त्रे अमरः । स्त्रीत्वमपि गौरा० ङीष् ।

शाटक पु० न० शट--ण्वुल् । वस्त्रे अमरः स्त्रीत्वमपि टाप् ।

शाट्यायन पु० १ मुनिभेदे, तेन प्रोक्तम् अण् । २ प्रकृतहोम-

कर्मणि वैगुण्यसमाधनार्थं विहिते होमभेदे न० भवदवः ।

शाठ्य न० शठस्य भावः ष्यञ् । शठतायाम् ।

शाड श्लाघायां भ्वा० आ० सक० सेट् । शाडते अशाडिष्ट ऋदित् चङिन ह्रस्वः ।

शाण न० शणेन निर्वृत्तम् अण् । शणसूत्रनिर्मिते १ वस्त्रादौ

शण--दाने (तेजने) घञ् । (कष्टिपाथर) २ कषपाषाणे
३ अस्त्रादीनां निकषणे तीक्ष्णकरणयन्त्रभेदे मेदि० ४
करपत्रे (करात) विश्वः । ५ माषचतुष्कमाने भावप्र० ।

शाणाजीव पु० शाणमाजीवति आ + जीव--अण् । अस्त्र-

तीक्ष्णताकारके शिल्पिनि हेमच० ।

शाणि पु० शण--इण् । १ पट्टवृक्षे शब्दच० । शणेन निर्वृत्ता

इञ् वा ङीप् । २ शणनिर्मिते पट्टिकावस्त्रे ३ सच्छिद्रवस्त्रे
च हेमच० ४ हस्तकटाक्षादिसूचनायां शब्दर० । ५ वस्त्र-
मण्डपे (ताँवु) मेदि० ।

शाणित त्रि० शण--दाने (तेजने) णिच्--क्त । तीक्ष्णीकृते ।

शाणीर न० शण--बा० ईरण् । शोणनदमध्यस्थतले विश्वः ।

पृष्ठ ५०९७

शाण्डिल्य त्रि० शण्डिलस्यापत्यम् यञ् । गोत्रप्रवर्त्तके

भक्तिशास्त्रकारके १ मुनिभेदे मेदि० । भक्तिशब्दे तन्मतं
दिग्मात्रं दर्शितम् । तत्प्रियत्वात् २ बिल्ये अमरः
३ वह्निभेदे च मेदि० ।

शात न० शो--क्त । १ सुखे २ तद्वति त्रि० अमरः । ३ छिन्ने ४ कृशे

त्रि० विश्वः । ५ दुर्बले ६ निशिते च त्रि० मेदि० । ७ धूस्तूरे
पु० अमरः ।

शातकुम्भ न० शतकुम्भे गिरौ भवः अण् । १ हिरण्ये अमरः २ धूस्तूरे ३ करवीरे च पु० मेदि० ।

शातकौम्भ न० शतकुम्भे भवम् अण् द्विपदवृद्धिः । १

हिरण्थे २ धूस्तूरे च द्विरूपकोषः ।

शातन न० शो--णिच्--तङ् च ल्युट् । १ तनूकरणे २ विना-

शते च “वसन्ते सर्वशस्यानां जायते पत्त्रशातनम्”
इति अधिकरणमाला ।

शातपत्त्रक पु० शतपत्त्रमिव हायति कै--क स्वार्थे अण् । चन्द्रप्रकाशे शब्दच० ।

शातभीरु पु० शाता दुर्बलाः पान्वा भीरवो यस्याः ५ ब० ।

१ मल्लिकाभेदे रत्नमाला ।

शातमान त्रि० शतमानेन क्रीतम अण् । शतमानेन क्रीते सि० कौ० ।

शातला स्त्री शातं कार्श्यं लाति ला--क । (चामकषा)

वृक्षे भरतः ।

शातातप पु० स्मृतिकारके मुनिभेदे । तेन प्रोक्तं छ । शाता-

तपीय तत्प्रोक्ते कर्मविपाकग्रन्थे ।

शात्रव पु० शत्रुरेव स्वार्थेऽण् । १ रिपौ अमरः । तस्य भावः

तेषां संघो बा अण् । २ वैरे ३ रिपुसमूहे च न० ।

शाद पु० शद--घञ् । १ कर्दमे २ हरिततृणे च अमरः ।

शादहरित पु० शादेन हरितस्तद्वर्णयुक्तः । शाद्वले देशे अमरः

शाद्वल पु० शादाः सन्त्यत्र ड्वलच् । बहुलहरिततृणयुक्ते देशे

अमरः ।

शान तेजने भ्वा० उभ० सक० सेट् स्वार्थे सन् । शीशांसति ते अशीशांसीत् अशीशांसिष्ट ।

शान पु० शान--अच् शो निशाने इत्युक्तेरनित्यः सन् ।

अस्त्रादीनां तीक्ष्णताकारके यन्त्रभेदे भरतः ।

शानी स्त्री शान--इन् ङीप् । इन्द्रवारुण्यां शब्दच०

शान्त त्रि० शम--क्त । १ शमयुक्ते २ अभियुक्ते च

शमणिच्--क्त नि० । ३ शान्तिं गमिते त्रि० । ४ निर्वेदस्थायि०
भावके रसभेदे पु० मेदि० । ५ लोमपादराजकन्यायाम्,
ऋष्यशृङ्गपत्न्यां ६ शमीभेदे च स्त्री राजनि० ।
शान्तरसनिरूपणं सा० द० ३ प० यथा
“शान्तः शमस्थायिभाव उत्तमप्रकृतिर्मतः । कुन्देन्दुसुन्दर-
च्छायः श्रीनारायणदैवतः । अनित्यत्वादिनाऽशेषवस्तु-
निःसारता तु या । परमात्मस्वरूपं वा तस्यालम्बन-
मिष्यते । । पुण्याश्रमहरिक्षेत्रतीर्थरभ्यवनादयः ।
महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः । रोमाञ्चाद्याश्चानुभा-
वास्तथा स्युर्व्यभिचारिणः । निर्वेदहर्षस्मरणमतिभूत-
दयादयः । निरहङ्काररूपत्वाद्दयावीरादिरेष नो” ।
दयावीरादौ हि जीमूतवाहनादौ अन्तरा मलयवत्या-
द्यनुरागादेरन्ते च विद्याधरचक्रवर्त्तित्वाद्याप्तेर्दर्शनाद-
हङ्कारोपशमो म दृश्यते । शान्तस्तु सर्वप्रकारेणाहङ्कार-
प्रशमैकरूपत्वान्न तत्रान्तर्भावमर्हति । अतश्च नागानन्दे
शान्तरप्रधानत्वमपास्तम्” । ननु “न यत्र दुःखं न सुखं
न चिन्ता ब द्बेषरागौ न च काचिदिच्छा । रसः स
शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रमाणः”
इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मरूपापत्तिल-
क्षणायां प्रादुर्भावात् तत्र सञ्चार्य्यादीनामभावात् कथं
रसत्वमित्युच्यते । “युक्तवियुक्तदशायामवस्थितो यः
शमः स एव यतः रसतामेति तदस्मिन् सञ्चार्य्यादेः
स्थितिश्च न विरुद्धा” । यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्य
वैषायिकसुखपरत्वान्न विरोधः । उक्तं हि “यच्च
कामसुखं लोके यच्च दिव्यं महासुखम् । तृष्णाक्षय-
सुखस्यैते नार्हतः षोड़शीं कलाम् । सर्वाकारमहङ्कार-
रहितत्वं व्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति दयावीरा-
दयस्तदा” । आदिशब्दात् धर्मबीरदानवीरदेवताविषय-
रतिप्रभृतयः” ।

शान्तनव पु० शान्तनोरपत्यम् अण् । भीष्मे “भीष्मः शान्तनव” इति तत्तर्पणमन्त्रः ।

शान्तनु पु० द्वापरयुगभवे चन्द्रवंश्ये प्रतीपराजपुत्रे नृपभेदे

शान्तम् अव्य० शान्ति + बा० डमु । निवारणे मेदि० ।

शान्ति स्त्री शम--क्तिन् । १ कामक्रोधादिजये २ विषयेभ्यो

मनसो निवाइणे अमरः । ३ उपद्रवनिवारणे ४ निवारणे
च “यत्किञ्चिद्वस्तु संप्राप्य स्वल्पं वा यदि वा बहु ।
या तुष्टिर्जायते चित्ते सा शान्तिः कथ्यते बुधैः” पद्मपु०
क्रियायो उक्ते ५ सन्तोषभेदे ६ दुर्गायाम् “सर्वज्ञा सर्ववेत्तृ-
त्वात् शान्तित्वाच्छान्तिरुच्यते” देवीपु० । ७ पूजाहोम-
जपदानादिद्वारा गोचरविलग्नादिस्थग्रहदौःस्थ्यदुः-
स्वप्नादिसूचितैहिकानिष्टहेतुपापनिवृत्तौ च “यथा
शस्त्रप्रहाराणां कवचं विनिवारकम् । तथा दैवोपघा-
तानां शान्तिर्भवति वारणम्” मलमासधृतवाक्यम् । सा
च मलमासेऽपि कार्य्या नैमित्तिकत्वात् “नैमित्तिकानि
काम्यानि निपतन्ति यथा यथा । तथा तथैव कार्य्याणि
पृष्ठ ५०९८
न कालस्तु विधीयते” इति मल० त० वाक्यात् । अद्भु-
तादिशान्तिश्च हेमाद्रिशान्तिकाण्डे शान्तिमयूस्रादौ दृश्या ।

शान्तिक त्रि० शान्तये हितं ठक् । शान्तिसाधने होमादौ

तत्करणमुर्हूर्त्तादिकं मु० चि० उक्तं पी० ध० यथा
“क्षिप्रघ्रुवान्त्यचरमैत्रमघासु शस्तं स्याच्छान्तिकञ्च सह
मङ्गलपौष्टिकाभ्याम् । खेऽर्के विधौ सुखगते तनुगे गुरौ,
नोमौद्यादिदुष्टसमये, शुभदं निमित्ते” । “अथ शान्तिक-
पौष्टिकादिकृत्येषु मुहूर्त्तं वसन्ततिलकेनाह । क्षिप्रेति
क्षिप्रादोनि मघान्तानि प्रसिद्धानि तेषु पौष्टिकं मङ्गलं
विनायकशान्त्यादि शान्तिकं दुष्टफलदमूलवक्षत्राद्युत्पन्नशा-
न्त्यादि एतानि कर्माणि कार्य्याणि उक्तञ्च दीपि-
कायाम् । “मित्रादित्यमघोत्तराशतभिषक्स्वातीविर-
ञ्च्यच्युतस्वर्गाधीश्वरपूज्यपौष्णरविषु स्फीते तुषारत्विषि ।
रिक्तां पर्व विहाय सौम्यदिवसे शस्ते नृणां भूबये सर्वैः
शान्तिकपौष्टिकं निगदितं गर्गादिभिर्बिश्चयात्” अथ
लग्नशुद्धिः तत्रार्के सूर्य्ये खे दशमे सति विधौ चन्द्रे
सुखगते चतुर्थस्थे गुरौ तनुगे लम्बस्थे सति शान्त्यादिकं
कर्म कार्य्यं उक्तञ्च रत्नमालाथाम् । “पूर्णे चन्द्रे वेश्म४-
गेऽर्केऽम्बर १० स्थे लग्ने जीवे, वाक्पतेर्वासरे च । श्रीमत्या-
युष्याणि कार्य्याणि कार्य्याणीति” नोतच्छान्तिकादि मौद्ये
गुरुशुक्रयोरस्तादिके बाल्यबार्द्धकसिंहस्यगुर्वादिरूपेदुष्ट-
समयेऽपि न शुभदम् । तथा निमित्ते केत्वाद्युत्पातदर्शने
सति शुभदं उक्तञ्च दीपिकायाम् । शान्तिकर्माणि कुर्वीत-
रोगे नैमित्तिके तथा । गुरुभार्गवभौद्येऽपि दोषस्तत्र
न विद्यते” । उक्तञ्चैतत् “यतोऽस्तीदं शान्तिकं नैमित्ति
कम् “अनिमित्तकृता शान्तिर्निमित्तायोपजायते इति
स्मरणात् । तत्र निमित्ते संगरूपे केत्वाद्युत्पातान्तरदर्शन-
रूपे च भवति नैमित्तिकं तच्च बहुदिनव्यापके गुरु-
शुक्रास्तादिदोषेऽप्यवश्यं विधेयं यतो जन्मान्तरीयदुर-
दुष्टसूचकमिदं निमित्तमुत्पन्नं तस्य शान्त्या निरासादशु-
भादृष्टस्यापि निरासः । बहुदिनप्राप्ये निर्दूषणे काले
क्रियमाणं शान्तिकं किञ्चिद्दूरदुष्टज्ञापकं यद्यपि भवति
तथापि तावद्भिर्दिनैर्दुरदुष्टस्य प्राबल्याद् दुःखप्राप्तिः
यथाल्पोऽप्यग्निरल्पेनैव जलेन शान्तो भवति तथा
सकलनगरदाहको मनुष्यैर्बहुभिर्युगपद् गृहीतजल-
पूर्णघटैरेकदेशनिर्वापितोऽपि सकलोऽग्निर्ननिर्वाप्यते
इत्यर्थः सर्वथा मौद्यादिदोषं विनैव यथा कथञ्चित्कथित-
प्रकारेण दिनशुद्धिमङ्गीकृत्य शान्तिकाद्यवश्यं विधेयम्” ।

शाप पु० शप--घञ् । (अनिष्टं भूयादित्येवम्) १ आक्रोश

रूपे २ शपथे च मेदि० ।

शापास्त्र पु० शाप एवास्त्रं यस्य । मुनौ त्रिका० ।

शाब्दबोध पु० शब्देन निर्वृत्तः अण् कर्म० । अन्वयबोधे शब्द-

ज्ञानजन्ये पदार्थस्मृतिद्बारके ज्ञानभेदे न्यायमतम् ।
शाब्दत्वं त्वनुभवत्वव्याप्यं जातिभेदः तद्बोधप्रकारादि
भाषा० उक्तं यथा “पदज्ञानन्तु करणं द्वारं तत्र
पदार्षधीः । शाब्दबोधः फलं तत्र शक्तिधोः सहकारिणी ।
लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः । आसत्तियो-
ग्यताकाङ्क्षातात्पर्य्यज्ञानमिष्यते” । भाषा० सि० मु० विवृत-
मेतत् यथा
“शाब्दबोधप्रकारं दर्शयति । पदज्ञानन्त्विते । न तु
ज्ञायमानं पदं करणम् पदाभावेऽपि मौनिश्लोकादौ
शाब्दवोधात् । पदार्थधीरिति । पदजन्यपदार्थस्मरणं
व्यापारः । अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थो-
पस्थितावपि शब्दबोधापत्तेः । तत्रापि वृत्त्या
पदजन्यत्वं बोध्यम् । अन्यथा घटादिपदात् समवायसम्ब-
न्धेन यत्राकाशस्मरणं जायते तत्राकाशस्यापि शाब्द-
मोधापत्तेः । वृत्तिः शक्तिलक्षणान्यतरः सम्बन्घः ।
अत्रैव शक्तिज्ञानस्योषयोगः । पूर्वं शक्तिग्रहाभावे
पदज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः । पदज्ञानस्य
सम्बन्धिज्ञानविधयार्थस्मारकत्वम् । शक्तिश्च पदेन सह
पदार्थस्य सम्बन्धः । सा चास्माच्छब्दादयमर्थो बोद्धव्य
इतीश्वरेच्छारूपा । आधुनिके नाम्नि शक्तिरस्त्येव ।
“एकादशेऽहनि पिता नाम कुर्य्यात्” इतीश्वरेच्छायाः
सत्त्वात् । आधुनिके तु सङ्केते न शक्तिरिति सम्प्रदायः ।
नघ्यास्तु ईश्वरेच्छा न शक्तिः किन्त्विच्छैव । तेन
आधुनिकसङ्केतेऽपि शक्तिरस्तीति वदन्ति” ।

शाब्दिक पु० शब्दं शब्दसाघुताज्ञापकं शास्त्रं वेत्त्यधीते वा

ठक् । ष्याकरणशास्त्रभिज्ञे ।

शामित्र न० शम--णिच् इत्रच् । १ पशुबन्धने । शमितुः

कर्म--अण् । यज्ञार्थपशुहननकर्त्तृभावे २ तद्धनने च ।

शामीन न० शम--ईनञ् । १ भस्मनि २ स्रुचि स्त्री ङीष् सि० कौ०

शाम्बरी स्त्री शम्बरेण निर्वृत्ता अण् ङीप् । मायायाम्

इन्द्रजालादौ अमरः ।

शाम्बविक त्रि० शम्बूः पण्यमस्य ठक् । शाङ्खिके (शाँखारी) जटा० ।

शाम्बु(म्बू)क पु० श(म्बु)म्बुक + स्वार्थे अण् । शम्बुके

(शामुक) भरतः ।
पृष्ठ ५०९९

शाम्भव पु० शम्भोरयम् अण् । १ गुग्गुलौ २ कर्पूरे ३

शिवमल्लिकायां राजनि० । ४ विषभेदे शब्दच० ५ शम्भुपुत्रे पु०
६ देवदारुणि च न० र जवि० ७ शिवसम्बन्धिनि ८ तदुपासके
च त्रि० । ९ दुर्गायां स्त्री “शाम्भवी कुपिता तस्येति” तन्त्रम् ।

शा(सा)यक पु० शो (सो) वा--ण्वुल् । १ वाणे खङ्गे च जटा०

शार दौर्वल्ये अद० चु० उम० सक० सेट् । शारयति--ते

अशशारत् त ।

शार न० शार--अच्, शृ--घञ् वा । १ कर्वूरवर्णे २ तद्वति त्रि०

अमरः ३ वायौ पु० अमरः ४ अक्षोपकरणे मेदि० ।

शारङ्ग पुंस्त्री० शारं कर्वुरमङ्गं यस्य शक० । १ चातकपक्षिणि

२ हरिणे ३ गजे ४ भृङ्गे ५ मयूरे च । रायमुकुटः जाति-
त्वात् स्त्रियां ङीष् । ६ हिंस्रे ७ वाद्ययन्त्रभेदे स्त्री ङीप्
शब्दार्थचि० ।

शारद न० शरदि भवम्--ऋत्वण् । १ श्वेतपद्मे राजनि० । २ कासे

३ बकुले ४ हरिन्मुद्गे च पु० राजनि० । ५ शरद्भवमात्रे त्रि०
स्त्रियां ङीप् । शारदं श्वेतपद्ममस्त्यस्याः अच् । ५
सरस्वत्यां स्त्री त्रिका० । ७ नूतने ८ अप्रतिभे त्रि० मेदि० ।
९शालीने त्रि० विश्वः । १० दुर्गायां स्त्री टाप् “शारत्काले
पुरा यस्मात् नवम्यां बोधिता सुरैः । शारदा सा
समाख्याता पीठे लोके च नामतः” ति० त० । ११ वानरभेदे
शब्दर० । १२ तोयपिप्पल्यां १३ सप्तच्छदे स्त्री मेदि० ङीप्
एवं १४ कोजागरपुर्णिमायां स्त्री शब्दरत्ना० शरत्कालोने
पूजादौ त्रि० स्त्रियां ङीप् । “शारदी चण्डिकापूजा त्रि-
विधा परिकीर्त्तिता । सात्त्विकी राजसी चैव तामसी चेति
तां शृणु” भविष्यपु० ।

शारदिक न० शरदि भवं श्राद्धं रोगो वा ठञ् । शरत्काले भवे १ श्राद्धे २तत्कालजे रोगे पु०

शारदीय त्रि० शरदि भवः छण् । १ शरत्काले कर्त्तव्ये

उत्सवादौ तथाभूतायां दुर्गापूजायां स्त्री “अदूरे
जगदम्बायाः शारदीयो महोत्सवः” । “शारदीया
महापूजा चतुःकर्ममयो शुभा” ति० त० ।

शारि(री) स्त्री शॄ--इञ् वा ङीप् । १ पाशकादिगुटिकायां

२ अक्षोपकरणे च मेदि० । ३ पक्षिभेदे च “शारीं चरन्तीं
सखि! भारयेति” नैषधम् । ४ युद्धार्थगजपर्थ्याणे
५ व्यवहारभेदे मेदि० । ६ कपटे धरणिः । स्वार्थे क ।
पक्षिभेदे वीणावादने च हेमच० ।

शारिफल पु० न० शारेः फलमिवाधारः । शारिफलके

पाशकक्रीड़ासाधने २ द्रव्ये (छक) अमरः स्वार्थे क ।
तत्रैव ।

शारिवा स्त्री शारिरिव वनति वन--ड । श्यामालतायाम्

अमरः । “एकं वै शारिवामूलं सर्वव्रणविशोषणम्” वैद्य० ।

शारिशृङ्खला स्त्री शारेः शृङ्खलेव । पाशकभेदे तद्भेदाश्च

“चुञ्चुरी तिन्तिड़ी द्यूतं पञ्चमी शारिशृङ्खला । नय
पीठी चाष्टकाक्षो नयः स्याज्जयपुत्रकः । एते पाशक-
भेदाः स्युर्जयकोलाहलोऽपि च” शब्दर० ।

शारीर त्रि० शरीरस्येदम् अण् । १ देहसम्बद्धे सुखदुःखादौ

तत्सोढ़मस्य पुनः अण् । २ वृषे पु० मेदि० । शरीरमात्म-
त्वेनाभिमन्यते अण् । ३ जीवे । स्वार्थे क । तत्रार्थे ।
शारीरं जीवं दुःखं वा अधिकृत्य कृतो ग्रन्थः कन् ।
व्यासकृते वेदान्तसूत्रे चिकित्साङ्गे सुश्रुतग्रन्थाद्येकदेशे च
शारीरञ्च दुःखं रोगादिकं यथोक्तं विष्णुपु० ६५ अ० ।
“आध्यात्मिकोऽपि द्विविधः शारीरो मानसस्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः । शिरोरोग
प्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयपुश्वास
छर्द्यादिभिरनेकधा । तथाक्षिरोगातिसारकुष्ठाङ्गामय-
संज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि”
सुश्रुतान्तर्गतशारीरकस्थानञ्च तत्र दृश्यम् ।

शारीरिक त्रि० शरीरे भवः ठक् । देहजाते दुःखादौ ।

शारुक त्रि० शॄ--उकञ् । हिंसके ।

शार्कर त्रि० शर्करा अस्त्यस्य अण् । १ शर्करायुक्ते देशे शर्क-

राया विकारः अण् । २ फाणिते ३ दुग्यफेणे च पु० मेदि० ।
शर्करीछन्दोऽस्य अण् । शर्करीछन्दोयुक्ते ४ मन्त्रादौ ।

शार्ङ्ग त्रि० शृङ्गस्य विकारः अण् । १ शृङ्गजाते पदार्थे ।

२ विष्णुधनुषि ३ धनुर्मात्रे च पु० मेदि० ४ आर्द्रके न०
राजनि० ।

शार्ङ्गिन् पु० शार्ङ्गः अस्त्यस्य इनि । १ विष्णौ अमरः । २ धन्विमात्रे त्रि० ।

शार्दूल पुंस्त्री० शॄ--जलञ् दुकच । १ व्याथ्रभेदे अमरः ।

२ पशुभेदे ३ शरभे ४ राक्षसभेदे च मेदि० उत्तरपदस्थः ।
५ श्रेष्ठार्थे अमरः । ६ पक्षिभेदे धरणिः ७ चित्रके
राजनि० । स्त्रियां सर्वत्र जातित्वे ङीष् ।

शार्दूलललित न० अष्टादशाक्षरपादके छन्दोभेदे तल्लक्षणं

यथा “सः सो जः सतसा दिनेशऋतुभिः शार्दूत्रललि-
तम” छन्दोम० ।

शार्दूलविक्रीड़ित न० ऊमविंशत्यक्षरपादके छन्दोनेदे तक्व-

क्षणं यथा “सूर्य्याश्वैर्मसजस्तताः सगुरवः शार्दूलवि-
क्रीड़ितम्” छन्दोम० ।
पृष्ठ ५१००

शार्वर न० शवर्य्या इदं शैषिश्चोऽण् । १ अत्यन्ततमसि ।

२ घातुके च त्रि० मेदि० । ३ रात्रिसम्बन्धिनि त्रि० ।
“शार्वरस्य तमसो निषिद्धये” किरा० भवार्थे तु कालाङ्
ठञ्” शार्वरिक इत्येव रात्रिभवे ।

शाल कथने भ्वा० आत्म० सक० सेट् चङि न ह्रस्वः । शालते अशालिष्ट ।

शाल पु० शल--घञ् । १ मत्स्यभेदे २ प्राकारे स्वनामख्याते

३ वृक्षभेदे अमरः । ४ बृक्षमात्रे राजनि० दन्त्यादिस्तु
वृक्षमात्रे “रसालः सालः समदृश्यतामुना” इति नैषधम ।
५नदभेदे शब्दच० । ६ शालिवाहननृपे विश्वः ।

शालग्राम पु० शालानां वृक्षाणां ग्रामः समहो यत्र ।

१ पर्वतभेदे तत्र जातः अण् । तत्र जाते २ विष्णोर्मूर्त्तिभेदे
गण्डकशब्दे २५११ पृ० दर्शिते गण्डक्या एकदेशस्थ
लभेदजाते ३ विष्ण्वादिदेवचक्रयुक्तशिलाभेदे च तदुत्पत्ति-
र्लक्षणभेदेन तन्नामभेदाश्च यथा “कीटयोनिं प्रपद्येथा” इति
गण्डक्याः सुरान् प्ततिशापे “तेन कर्मविपाकेन जडा
कृष्णा नदी भयेति” देवानां गण्डकीं प्रति शापे च जाते
विष्णुना तत्समाधानायोक्तं यथा
“शृणु ब्रह्मन्! महादेव! शृणु देव! गजानन! ।
मद्गणो ब्राह्मणौ ग्राहमातङ्गौ शापतोऽत्र वै ।
भविष्यतस्तयोर्मक्षं मविष्यामि कलेवरम् । शीर्णं
भविष्यति यदा तन्मेदोमज्जसंभवाः पाषाणान्तर्गताः
कीटा वज्राख्याः प्रभविष्यथ” इति “अद्यैव गण्डकी
पुण्या गङ्गातुल्या महानदी । गण्डक्यां गिरिराजस्य
दक्षिणे दशयोजनम् । विस्तोर्णं तन्महाक्षेत्रं पुण्य-
शेत्रं महीतले । चक्रतीर्थमिति ख्यातं त्रिषु लोकेषु
विश्रुतम् । शालग्रामगता देवा देवो द्वारावतीं गतः ।
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः । सर्वदेवप्रीति
करा भुक्तिमुक्तिप्रदायिनः । भवन्त्वस्यां तु पाषाणा-
मेतदन्तर्गता सुराः । प्रार्थितं स्वं विना सर्वे वज्रकीटा
भवन्त्विति । अनेनैव तु गण्डक्याः पुत्रत्वं भवतामपि ।
मविष्यति तदन्तश्च चिह्नं तद्दैवतोद्भवम् । विज्ञाय येऽर्च-
विष्यन्ति प्रीषतां सा च देवता” इति विष्णूक्तौ ब्रह्मणा
तल्लक्षणस्य प्रश्ने विष्णूक्तिर्यथा
“स्योयवर्णा शिला पूज्या ब्राह्मणाद्यैः सुखाप्तस्ये । स्रिग्धा
शिला मन्त्रसिद्धिं रूक्षाऽसिद्धिं करोति च । मेचका
कोर्त्तिहा धौताङ्गारवत् सा यशोहरा । पाण्डुरूपार्थ-
शमनि मलिना पापधीकरी । पीता पुत्रफलं दद्या-
रवर्णा सुतान् हरेत् । नीला संदिशते लक्ष्मीं धूम्राभा
हरते मतिम् । रोगप्रदा रक्तवर्णा सिन्दूराभा महा
कलिम् । दारिद्र्यकारिणी वक्रा समा सर्वार्थसाधिका ।
स्थूला निहन्ति चैवायुः सूक्ष्मा स्वल्पमतिं हरेत् ।
पूजाफलं लाञ्छितया निष्फला लाञ्छनं विना ।
कपिला चित्तवैकल्यं नेत्रयोगञ्च कर्वुरा । भग्ना भङ्गकरो-
ज्ञेया बहुचक्रापमानदा । लक्षणान्तरहीना च देवचक्रा
वियोगदा । वृहन्मुखी कलत्रघ्नी वृहच्चक्रा सुतान्
हरेत् । संलग्नचक्रा त्वसुखं बद्धचक्रा महागदम् । भग्न-
चक्रा तु दारिद्र्यं सर्वनाशं त्वधोमुखी । कुष्ठादिकं
व्यालमुखी विषमा विविधापदः । विकृताबर्त्तनाभिश्च
विकारान् कुरुते वहून् । वंशच्छेदो गृहस्थानां
नारसिंह्यां प्रजायते । रेखार्त्ता दुःखदात्री च यथा सूक्ष्मा
तथा सुखम् । यथा स्निग्धा तथा लक्ष्मीस्तद्विभेदानतः
शृणु । लक्ष्मोहरिः १ स विज्ञेयो यत्र पद्मं सचक्रकम् ।
केवला वनमाला च गृहस्थानामभीष्टदा । वासुदेवः २
स विज्ञेयो यद्द्वारे चक्रयुग्मकम् । निरन्तरं समं चापि
स श्वेतः पापनाशनः । सङ्कर्षणः ३ स विज्ञेयः प्राक्-
पश्चाच्चक्रयुग्मकम् । संलग्नपूर्वभागस्थं महारत्नं सुशो-
भनम् । प्रद्युम्नः ४ सूक्ष्मचक्रं स्याच्छिद्रं दीर्घं सुवि-
स्तरम् । सुस्थिरान्वबेहिश्छिद्रः पीत इष्टप्रदायकः ।
अनिरुद्धस्तु ५ नीलाभो वर्तुलश्चातिशोभनः । रेखाद्वयं
तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् । केशवः६ स तु
विज्ञेयस्त्वेकं वा द्वयमेव वा । प्राग्वा पश्चाच्च चक्रं
स्यात् चतुष्काणः स भाग्यकृत् । नारायणः ७ श्यामवर्णो
नाभौ चक्रं तथोन्नतम् । दीर्घरेखासमायुक्तं दक्षिणे
शुषिरं पृथु । हरिरूपा ८ शिला सा स्यात् यथा ऊर्द्धं
सुखं भवेत् । हरिवद् दृश्यते द्वारं भुक्तिमुक्तिप्रदा तु
सा । परमेष्ठी ९ स विज्ञेयः पद्मचक्रान्वितस्तु यः ।
यिल्वाकृतिश्च शुक्राभः पृष्ठे च शुषिरं महत् । विष्णुस्तु १०
कृष्णवर्णः स्यात् स्थूलचक्रे सुशोभो । द्वारोपरि तथा
रेखा दृश्यते मध्यदेशतः । नारसिंहस्तु ११ कपिलः
पृथुचक्रो वृहन्मुखः । त्रयो वा पञ्च चा यत्र बिन्दवो
गृहिणां न सन् । कपिलनारसिंहस्तु १२ गुड़लाक्षा-
निभो भवेत् । स्थूलचक्रद्वयं मध्ये द्वारे रेखा सुशोभना ।
महानृसिंहो १३ विज्ञेयः पूर्वोक्तैर्लक्षणैर्युतः । रेस्याश्च
केशराकारा मुखं दीर्थं भयानकम् । लक्ष्मीनृसिहो १४
विज्ञेयश्चतुश्चक्रः सबिन्दुकः । पूर्वोक्तलंक्षणैर्युक्तो
वनमालाविभूषितः । वराहोऽसौ१५ शक्तिलिङ्गे चक्रे
च विषमे तथा । इन्द्रलीलनिभः स्थूलस्त्रिरखाला-
पृष्ठ ५१०१
ञ्छिती भवेत् । पृथ्वेवराहनाम्नी १६ सा या वराहा-
कृतिः शिला । आभुग्ना चैव रेखैका गतराज्यप्रदा-
यिका । मत्स्याख्या १७ सा शिला ज्ञेया बिन्दुत्रय
विभूषिता । कांस्यद्वारा स्वर्णनिभा दीर्घा सा भुक्ति०
मुक्तिदा । कूर्माख्या १८ तु शिला पृष्ठे वर्तुला चोन्नता
भवेत् । हरितं वर्णमायाता कौस्तुभेन च चिह्निता ।
शिलाकूर्म १९ स विज्ञेयः कूर्माकारस्तु यो भवेत् ।
चक्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा । हयग्रीवो २०
ऽङ्कुशाकारो रेखा चक्रसमीपगा । बहुबिन्दुसमायुक्तं
पृष्ठं नीरदनीलभम् । ज्ञेयः सौम्यहयग्रीवो २१
हयग्रीवासमा शिला । दीर्घया लेखया युक्ता रेखा वा
तादृशी भवेत् । हयशीर्षः २२ स विज्ञेयो मुखं यस्य
हयाकृति । पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा ।
वैकण्ठ २३ स्तिलवर्णाभश्चक्रमेकं तथा ध्वजम् । द्वारापरि
तथा रेखा पूज्याकारा सुशोभना । श्रोधरस्तु २४ तथा
देवश्चिह्नितो वनमालया । कदम्बकुसुमाकारो रेखा
पञ्चकभूषितः । वामनः २५ स तु विज्ञेयो योऽतिह्रखश्च
वर्तुलः । अतसीकुसुमप्रख्या बिन्दुनोपरिशोमितः ।
टधिवामननामा २६ तु जर्ग्घाधश्चक्रसंयुतः । महाद्युति-
रतिह्रस्यः सुभिक्षक्षेमदायकः । सुदर्शन २७ स्तथा देवः
श्यामवर्णो महाद्युतिः । वामपार्श्वे तथा चक्रं रेखैकैव
तु दक्षिणे । सहस्रार्जुननामा २८ऽसौ नानारेखामयो
भवेत् । चक्राकारा यन्त्रपङ्क्तिः स नष्टद्रव्यदायकः ।
स्थूलदामोदरो २९ यस्य मध्ये चक्रं प्रतिष्ठितम् । दूर्वा-
भो द्वारसंकीर्णः पीतरेखो धनप्रदः । राधादामोदरो ३०
ज्ञेय ऊर्द्ध्वाधश्चक्रवद्बिलम् । नातिदीर्घमुखं मध्ये लम्ब-
रेखा स भोगदः । दामोदरः २१ स विज्ञेयो यश्चक्रद्वय-
लाञ्छितः । सूक्ष्मं भवेच्चावयवं पूजितः सुखदः सदा ।
अनन्तो ३२ बहुवर्णः स्यान्नागभोगेन चिह्नितः । अनेक-
चक्रसंमिन्नः सर्वकामफलप्रदः । पुरुषोत्तमनामा ३३ऽसौ
यस्य दिक्षुविदिक्षु च । ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरु-
पार्थफलप्रदः । योगेश्वरः ३४ स विज्ञेयो लिङ्गं यस्य
शिरोगतम् । ब्रह्महत्यादिपापानां नाशको योगसि
द्धिदः । पद्मनाभ ३५ स्तथा रक्तः पङ्कजच्छत्रसंयुतः ।
तुलस्या पूजितो नित्यं दरिद्रस्त्वोश्वरोभयेत् । रश्मि
जाली हिरण्याक्ष ३६ श्चन्द्राभः स्फटकोपमः । अथ वा
जायते नानास्वर्णरेखाभिरन्वितः । गरुड़ ३७ स तु
विज्ञेया मध्ये पक्षद्वयान्विते । सुदीर्धा दृश्यते रेखा स
सर्पविषनाशकः । जनार्दनः ३८ स विज्ञेयः केवलानि
स्फुटानि च । यस्योदरे तु चक्राणि चत्वारि पितृतृप्ति-
कृत् । लक्ष्मीनारायणो ३९ ज्ञेयो वनमालाङ्कितोदरः ।
सूक्ष्मद्वारश्चतुश्चकौ भुक्तिमुक्तिप्रदायकः । हृशीकेशः ४०
सविज्ञेयो योऽर्द्ध्वंचन्द्राकृतिर्भवेत् । तमभ्यर्च्य लभेत् स्वर्गं
विषयांश्च समोहितान् । लक्ष्मीनरहरि ४१ र्ज्ञेयः कृष्ण-
वर्णः सबिन्दुकः । वामपार्श्वे समे चक्रे गृहस्थार्भा-
ष्टदायकः । त्रिविक्रमस्तु ४२ विज्ञेयः श्यामवर्णो
महाद्युतिः । वामपार्श्वे चक्रयुग्ममेकरेखा तु दक्षिणे ।
कृष्णो ४३ ज्ञेयः शिला कृष्णा सचक्रा वा विचक्रिका ।
प्रदक्षिणावर्त्तकृतवनमालाविभूषिता । चतुर्मुखः ४४
स विज्ञेयो द्वे चक्रे मध्यदेशतः । चतस्रः पार्श्वगा रेखा
वेदशास्त्रागमप्रदः” मेरुत० । शिवादिशिलाभेदास्तत्रै-
वोक्ता यथा शिवोक्तिः “शालग्रामा मतस्वरूपाः शृणु
तेषान्तु लक्षणम् । यत्सेवनाद्भवेदिष्टमिह लाके परत्र
च । शिवनाभः १ स विज्ञेयः सलिङ्गाकारतां गतः ।
स्वयम्भुलिङ्गाकृतिमान् मन्त्रसिद्धिविधायकः । त्र्यम्चकः २
स तु विज्ञेया विन्दूत्तरविभूषितः । शूलाकारा तथा
रेखा गतपुंस्त्वप्रदायकः । धूर्जाटिः ३ स तु विज्ञेयो
यत्र रेखा जटासमा । तिस्रो यत्र प्रदृश्यले सोऽर्चिता
ज्ञानदायकः । शम्भुभ्तु ४ पाण्डुरा ज्ञेयो विन्दुः कृष्णस्तु
मस्तके । बिल्वममाणस्तेजस्वी पूजितः स्त्री २ शङ्करः ।
ईश्वरः ५ स तु विज्ञेयो रक्ता विन्दुस्तु मस्तके ।
एकचक्रो द्विचक्रो वाभ्यन्तरेऽपश्च गोष्पदम् । मृत्युञ्जयः ६
स विज्ञेयस्त्वपमृत्युविनाशकः । अधश्चक्रं तदूर्द्धञ्च
श्वेता रेखा त्रिशूलवान् । चन्द्रशेखर ७ नामाऽसावर्द्ध-
चन्द्राकृतिस्तु के । मध्ये चक्रद्वयं तस्य सेवनाद्रोगनाश-
नम् । रुद्रः ८ स एव विज्ञेयः कपिलो मूर्ध्नि लक्षितः ।
चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम्” । “शालग्रामानथा
वक्ष्ये शक्तिकीटसमुद्गवान् । येषां पूजनतो देवी भवानी
सुप्रसीदति । श्रीविद्या १ सा तले चक्रमूर्द्ध्वे छत्रं प्रवृ-
श्यते । बाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा श्यामाखिले-
ष्टदा । महाकाली २ तु सा ज्ञेया योनिचिह्नसमन्विता ।
द्विच्छिद्राढ्या सर्वशिला त्रिकोणेनाङ्किता च या ।
यदायुधाकृतिश्चोर्द्ध्वं तां देवीं तत्र निर्दिशेत् । देवीशिला
सचक्रा या दक्षमार्गेण तां यजेत् । सार्चिता वाममार्गण
लोकद्वयसुखावहा । या चक्ररहिता देवीशिलांतां
वामतोऽर्चयेत्” ।
पृष्ठ ५१०२
“सौरी शिला दुर्लभैव प्रायः कलियुगे पुनः । स्फटि-
काभा भवेत् सा तु धर्मं नित्यं विमुञ्चति । गणेशः स तु
विज्ञेयः स्वल्पशुण्डाङ्कितो भवेत् । शुण्डाकारा शिला
वापि गजाननसमापि वा । यस्या मध्ये महच्चक्रं
सूक्ष्मचक्रञ्च यद्दिशि । सा शिला तस्य दिक्पस्य सेव्या
यद्दिशि राज्यदा । अर्द्धचन्द्राकृतिर्यत्र दृश्यते
शकलइवम् । सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिला मता ।
वाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः! । दीर्घेण
चतुरस्रेण युक्ता गुरुशिला मता । पञ्चकोणा तु शुक्रस्य
चापाकारा शनेर्मता । सर्पाकारा तु राहोः स्यात्
केतोस्तु ध्वजरूपिणी” मेरुत० ।
तुलसीं प्रति भगवदुक्तिः “अहञ्च शैलरूपी च गण्डकी-
तीरसन्निधौ । अधिष्ठानं करिष्यामि भारते तव
शाषतः । वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै ।
तच्छिकाकुहरे चक्रं करिष्यन्ति मदीयकम् । एकद्वारे
चतुरक्रं वनमासाविभूषितम् । नवीननीरदाकारं
लक्ष्मीनारायणामिधम् १ । एकद्वारे चतुश्चक्रं नवीननीर-
दोपमम् । लक्ष्मीजनार्द्दनं २ ज्ञेयं रहितं वनमालया ।
द्वारद्वये चतुरक्रं शोष्पदेन समन्वितम् । रघुनाथाभिधं ३
ज्ञेयं वेष्टित्तं वनमालया । अतिक्षुद्रं द्विचक्रन्तु नवीन-
नीरदोपमम् । दधिवासनं ४ विज्ञेयं गृहिणाञ्च
सुखप्रदम् । अतिक्षुद्रं द्विचक्रञ्च वनमालाविभूषितम् ।
श्रीधरं देवि! विज्ञेयं श्रीपदं गृहिणां सदा । स्थूलञ्च
वर्त्तुलाकारं रहितं वनमालया । द्विचक्रं स्फुटमत्यन्तं
ज्ञेयं दामोदरामिधम् ६ । मध्यभं बर्तुलाकारं द्विचक्रं
बाणविक्षतम् । बलरामाभिधं ८ ज्ञेयं शरतूणसमन्वि-
तम् । स्थूलं चतुर्दशचक्रं नवीनजलदप्रभम् । अनन्ता-
ख्यकं ९ विज्ञेयं चतुर्वर्गफलप्रदम् । मध्यमं सप्तचक्रञ्च
छत्रतूणसमन्वितम् । राजराजेश्वरं १० ज्ञेयं राजस-
म्पत्करं नृणाम् । चक्राकारं द्विचक्रञ्च सश्रीकं
जलदप्रभम् । सगोष्पदं मध्यमञ्च विज्ञेयं मधुसूदनम् ११ ।
सुदर्शनं १२ चैकचक्रं गुप्तचक्रं गदाधरम् १३ । द्विचक्रं
हयवक्त्रभं हयग्रीवं १४ प्रकीर्त्तितम् । अतीव विस्तृता-
स्यञ्च द्विचक्रं विकटं सति! । नरसिंहाभिधं १५ ज्ञेयं
सद्यो वैराग्यदं नृणाम् । द्विचक्रं विस्तृतास्यञ्च
वनमालासमग्वितन् । लक्ष्मीनृसिंहं १६ विज्ञेयं गृहिणां
सुखदं सदा । द्वारदेशे द्विचक्रञ्च सश्रीकञ्च समं स्फु-
टम् । वासुदेवञ्च १७ विज्ञेयं सर्वकामफलप्रदम् । प्रद्यु-
म्नं १८ सूक्ष्मचक्रञ्च नवीननीरदप्रभम् । शुषिरे छिद्र
बहुलं गृहिणाञ्च सुखप्रदम् । द्वे चक्रे चैकलग्ने तु
पृष्टे यत्र तु पुष्कलम् । सङ्कर्षणन्तु १९ विज्ञेयं सुखदं
गृहिणां सदा । अनिरुद्धञ्च २० पीताभं वर्तुलमतिशो-
भनम् । सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः” ब्रह्मवै०
प्र० १९ अ० ।
“शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक । शुक्लाभो
वासुदेवाख्यः १ सोऽव्यात् यः श्रीगदाधरः । लग्नद्वि-
चक्रोरक्ताभः पूर्वभागे तु पुष्कलः । सङ्कर्षणो २ ऽथ
प्रद्युम्नः ३ सूक्ष्मचक्रस्तु पीतकः । सुदीर्घशुषिरच्छिद्रः
सोऽनिरुद्धस्तु ४ वर्त्तुलः । नीलोद्वारि त्रिरेखश्च अथ
नारायणो ५ऽसितः । मध्ये गदाकृती रेखा नाभिचक्रमहो-
न्नतः । पृथुचक्रो नृसिंहो (६) ऽथ कपिलोऽव्यात् त्रिवि-
न्दुकः । अथ वा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणाम् ।
वराहः ७ शुभलिङ्गोऽव्यात् विषमस्थद्विचक्रकः ।
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्त्तिः ८ सबिन्दुमान् । कृष्णः स
वत्तुलावर्त्तः पातु चोन्नतपृष्ठकः । श्रीधरः ९ पञ्चरेखोऽ-
व्यात् वनमाली गदान्वितः । वामनो १० वर्त्तुलो ह्रखः
वामचक्रः सुरेश्वरः । नानावर्णोऽनेकमूर्त्तिर्नागभोगी
त्वनन्तकः ११ । स्थूला दामोदरो १२ नीलो मध्येचक्रः
स नीलकः । संकीर्णद्वारकः सोऽव्यादथ ब्रह्मा १३
सुलोहितः । सदीर्घरेखशुषिर एकचक्राम्बुजः पृथुः ।
पृथुच्छिद्रः स्थूलचक्रः कृष्णो विष्णुस्तु १४ बिन्दुमान् ।
हयग्रीवो १५ ऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः ।
वैकुण्ठो १६ मणिरत्नाभः एकचक्राम्बुजोऽसितः ।
मत्स्यो १७ दीर्घाम्बुजाकारो द्वाररेखश्च पातु वः ।
वामचक्रो द्वाररेखः श्यामो वोऽव्यात् त्रिविक्रमः १८ ।
एकेन लक्षितो योऽव्यात् गदाधरी सुदर्शनः १९ । एकद्वारे
चतुश्चक्रं वनमालाविभूषितम् । स्वर्णरेखासमायुक्तं
गोष्पदेन विराजितम् । कदम्बकुमुमाकारं लक्ष्मीनारायणं
विदुः” गरुड़ पु० ४५ अ० पुराणान्तरेष्वपि लक्षणान्त-
राणि उक्तानि दृश्यानि । तत्र लक्षणभेदस्तु विकल्पार्थः ।
वराहपु० भूमिं प्रति वराहोक्तिः “गृहे लिङ्गद्वयं
नार्च्यं शालग्रामद्वयं तथा । द्वेचक्रे द्वारकायास्तु
नार्च्यं सूर्य्यद्वयं तथा । शालग्रामशिला भग्ना पूजनीया
सचक्रिका । खण्डिता स्फुटिता वाऽपि शालग्रामशिला
शुभा । शालपामो न स्प्रष्टघ्यो हीनवर्णैर्वसुन्धरे! ।
स्त्रीशुद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः । सोहात् यः
पृष्ठ ५१०३
संस्पृशेत् शूद्रो योषिद्वापि कदाचन । स पतेन्नरके घोरे
यावदाहूतसंश्ववम् । यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि
वसुन्धरे! । दूरादेवास्पृशन् पूजां कारयेत् सुसमाहितः” ।
तत्पूजने तत्स्पर्शे च स्त्राणां नाधिकर “न जातुचित्
स्त्रियाः कार्यं शालग्रामस्य पूजनम् । भर्तृदीनाऽथ
सुभगा सर्वलाकहितैषया । मेहात् स्पृशेत्तु महिला
जन्मशीलगुणान्विता । हित्वा पुण्यलमूहं तु सत्वरं
नरकं व्रजेत्” ब्रह्मवै० पा० २० अ० ।
“अभक्ष्यं शिवनिर्माल्य पत्रं पुष्प फलं जलम् ।
शालग्रामशिलास्पर्शात् पावनं तत् भवेत् सदा” ।
“दद्यात् भक्ताय यो देवि! शालग्रामशिलां नरः ।
सुवर्णसहितां, पृथ्वी सपर्वतवनान्विता । ससमुद्रा
भवेद्दत्ता सत्पात्रे च वसुन्धरे! । शामग्रामशिलायास्तु
मुल्यमुद्घाटयेत् क्वचित् । विक्रेता क्रयकर्त्ता वा नरके
वै पतेत् ध्रुवम्” वराहपु० ।
तस्याकारादिभेदे फलभेदो यथा
“छत्राकारे भवेद्राज्यं वर्तुल च लभेत् श्रियम् ।
दुःखञ्च शकटाकारे शूलाभे मरणं भवेत् । विकृतास्ये च
दारिद्र्यं पिङ्गले हानिरेव च । लग्नचक्रे भवेद्धानिर्वि-
दीर्णे मरणं ध्रुवम्” । तत्स्पर्शेन मिथ्यादिव्यादिकरणादौ
दोषो यथा “शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु
च । स याति कूर्मदंष्ट्रञ्च यावद्वै ब्रह्मणो वयः ।
शालग्रामशिलां धृत्वा स्वीकारं योन पालयेत् । स प्रयात्यसि-
पत्रञ्च लक्षमन्वन्तरावधि । तुलसीपत्रविच्छेदं शालग्रामे
करोति यः । तस्य जन्मान्तरे कान्ते! स्त्रीविश्लेषो
भविष्यति । शालग्रामञ्च तलसीं शङ्खञ्चैकत्र एव च । यो
रक्षति स च ज्ञानी स भवेत् श्रीहरिप्रियः” ब्रह्मवै० प्र०
१९० अ० । “शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम् ।
कलेर्दशसहस्नान्ते याति त्यक्त्वा हरेः पदम्” ब्रह्मवै० प्र०
६ अ० । “शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि ।
विषमा नैव पूज्याः स्युरेकैव विषमेष्वपि” पद्मपु० पा० २० अ० ।
“शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवा-
ऽसुरा यक्षा भुवनानि चतुर्दश” पद्मपु० । “अत्र सर्वसान्नि-
ध्यादत्र तेषां पूजा प्रतीयते तत्रावाहनविसर्जने न स्तः
“शालग्रामे स्थावरे वा नावाहनविसर्जने” इति राघव-
भट्टधृतवाक्यात्” दीक्षा० रघु० ।
४ क्षेत्रभेदे न० तन्नामकारणं वराहपु० उक्तं यथा
“अथ दीर्षेण कालेन स (शालङ्कायनः) मुनिः संशितव्रतः ।
तप्यमानो यथान्यायं पश्यते शालमुत्तमम् । विश्राम
कुरुते तत्र दूष्टुकामोऽथ मां (हरिम्) मुनिः । मायया
मम मूढ़ात्मा शक्तो द्रष्टुं न मामभूत् । ततः पूर्वेण
पार्श्वन तस्य शालस्य सुन्दरि! । वैशाखमासद्बादश्यां
मद्दर्शनमुपागतः । दृष्ट्वा मां तत्र स मुनिस्तपस्वी संशित-
व्रतः । तुष्टाव वैदिकैः सूक्तैः प्रणम्य च पुतम्पुनः ।
ततोऽहं स्तूयमानो वै ऋषिमुख्येन सुन्दरि! । प्राप्तो-
ऽस्मि परमां प्रीतिं तमवोचं ततो मुनिम् । अत्राश्रमे
महाभाग! स्थित्वा त्वं तपसां निधे! । पुत्रेण
परमप्रीतो मत्क्षेत्रे मत्समो भव । अन्यच्च गुह्यं वक्ष्यामि
शालङ्कायन! तच्छृणु । तव प्रोत्या प्रवक्ष्यामि येनैतत् क्षेत्र-
मुत्तमम् । शालग्राममिति ख्यातं तन्निबोध मुने! शुभम् ।
योऽयं वृक्षस्त्वया दृष्टः सोऽहमेव म संशयः” वराहपु० ।

शालग्रामगिरि पु० पर्वतभेदे वराहपु० “कथयिष्यामि ते

गुह्यं शालग्राममिति श्रुतम् । तस्मिन् क्षेत्रे हरो देवो
मत्स्वरूपेण संयुतः । शालग्रामे गिरौ तस्मिन् शिला-
रूपेण तिष्ठति । अहं तत्रैव तिष्ठामि शिलारूपेण
नित्यदा । तस्मिन् शिलाः समग्रास्तु मत्स्वरूपा न संशयः ।
पूजनीयाः प्रयत्नेन किं पुनश्चक्रलाञ्छिताः । लिङ्गरू-
पेण तु हरस्तत्र देवालये गिरौ । शिवनामाः शिला-
स्तत्र चक्रनाभास्तथा शिलाः । सोमेश्वराधिष्ठितस्तु
शिवरूपो गिरिः स्मृतः । शालग्रामगिरिर्विष्णुरहं सोमेश्वरा-
भिधः” वराहपु० ।

शालङ्कायन पृ० ऋषिभेदे शालग्रामशब्दे दृश्यम् ।

शा(सा)लज पु० शा(सा)लात् जायते जन--ड । सर्जरसे

(धुना)शब्दर० ।

शालनिर्य्यास पु० ६ त० । सर्जरसे (धुना) रत्नमा० ।

शालपर्णी स्त्री शालस्येव पर्णान्यस्याः ङीष् । (शालपानी)

वृक्षभेदे राजनि० । “शालपर्णी गरच्छर्द्दिज्वरश्वासा-
तिसारजित् । शोषदोषत्रयहरी वृंहण्युक्ता रसायनी ।
तिक्ता विषहरी स्वादुः क्षतकासक्रमिप्रणुत्” भावप्र० ।

शालभञ्जिका स्त्री शालेन भज्यते निर्मीयते भन्ज--ण्वुल् ।

१ काष्ठनिर्मितपुत्तलिकायां, २ वेश्यायाञ्च जटा० ।

शालव पु० शालः तन्निर्यास इव वलति वहिर्गच्छति बल--ड ।

लोध्रे शब्दर० ।

शालवेष्ट पु० शालस्य वेष्ट इव । सर्जरसे (धुना) त्रिका० ।

शालसार पु० शालस्य सारः । १ हिङ्गनि शालेषु सारः ।

वृक्षश्रेष्ठे विश्वः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/श&oldid=85320" इत्यस्माद् प्रतिप्राप्तम्