सामग्री पर जाएँ

वाचस्पत्यम्/विज्ञान

विकिस्रोतः तः
पृष्ठ ४८९८

विज्ञान न० वि + ज्ञा ल्युट् । १ ज्ञाने २ कर्मणि मेदि० ३ शि-

ल्पादिज्ञाने अमरः । ४ वेदान्तोक्ते अविद्यावृत्तिमेदे च ।
५ बौद्धमतसिद्धे आत्मरूपे ज्ञाने च । “चतुर्दशानां विद्यानां
धरणं हि यथार्थतः । विज्ञानमितरत् विद्यात् येन धर्मो
विवर्द्धते” कूर्मपु० १४ अ० उक्ते ६ चतुर्दशविद्याज्ञाने च ।

विज्ञानमयकोष पु० विज्ञानात्मवः कोष इवावरकत्वात् ।

ज्ञानेन्द्रियसहिते बुद्धिपदार्थे ।

विज्ञानस्कन्ध पु० बौद्धमतसिद्धेषु रूपविज्ञानवेदनासंज्ञा-

संस्काररूपेषु स्कन्धेषु आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहे ।

विज्ञानिक त्रि० विज्ञानमस्त्यस्य ठन् । विज्ञानयुक्ते भरतः ।

विञ्जोली स्त्री विज--उल--पृषो० । पङ्क्तौ त्रिका० ।

विट आक्रोशे सक० स्वने अक० भ्वा० पर० सेट् । वेटति

अवेटीत् ।

विट पु० विट क । १ षिड्गे जारे अमरः । २ शृङ्गाररसनाय-

कानुचरे “सम्भेगहीनसम्पद् विटस्तु धूर्त्तः फलैक
देशज्ञः । वेशोपचारकुशलो वाग्मी मधुरोऽथ बहुमतो
गोष्ठ्याम्” सा० द० । ३ धूर्त्ते, “विट! विटपममुं ददस्व
तस्यै” माघः ४ पर्वतभेदे ५ लवणभेदे ६ खदिरभेदे ७ मूषिके
च मेदि० । ८ नारङ्गवृक्षे शब्दमाला ।

विटङ्क न० वि + टकि--अच् । कपोतपालिकायां प्रासादाद्य-

ग्रस्थे काष्ठनिर्मिते कपोतावासस्थाने । (पायराखोप)
अमरः ।

विटप पुंन० । विटं विस्तारं वा पाति पिवति वा पा० क । १

शाखायां, २ पल्लवविस्तारे अमरः । ३ स्तम्बे ४ पह्ववे च शब्दर०
५ विटपालके ६ तत्पायिनि च मेदि० “पिवति च पाति
च यासकौ रहस्त्वाद् विट! विटपममुन्ददस्व तस्यै” माघः ।
७ आदित्यपत्रे पु० राजनि० । ८ मुष्कवङ्क्षणान्तरस्थाने
हेमच० ९ विटाधिपे मेदि० ।

विटपिन् पु० विटप + अस्त्यर्थे इनि । १ वृक्षे अमरः । २ वटवृक्षे राजनि० ।

विटप्रिय पु० ६ त० । मुद्गरवृक्षे राजनि० ।

विटमाक्षिक पु० विटप्रियः माक्षिकः । धातुभेदे हेमच० ।

विटि(टी) स्त्री विट--कि वा ङीप् । पीतचन्दने शब्दमाला ।

विट्खदिर पु० विडिव दुर्गन्धः खदिरः । (गुयेवावला) वृक्षे

अमरः ।

विट्चर पुंस्त्री विषि--विष्ठ यां चरति चर--अच् । ग्राम्यशूकरे अमरः स्त्रियां ङीष् ।

विट्पति पु० विश्यते विश--क्विप् विशः कन्यायाः पतिः ।

जामातरि जटाधरः ।

विट्सारिका स्त्री विडिप दुर्गन्धः सारिका । (गुयेमालिक) पक्षिभेदे जटा० ।

विड आक्रोशे भ्वा० पर० सक० सेट् । वेडति अवेडीत् ।

विड न० विड--क । लवणभेदे अमरः ।

“विडं सक्षारमूर्ध्वाधःकफवातानुलोमनम्” ऊर्ध्वं
कफमधोवातं सञ्चारयतीत्यर्थः । “दीपनं लथु तीक्ष्णोष्णं
रूक्षं रुच्यं व्यवायि च । विबन्ध्यानाहविष्टम्भकृदगौ-
रवशूलनुत्” भावप्र० ।

विडङ्ग पु० न० विड--अङ्गच् । १ स्वनामख्याते औषधभेदे अमरः ।

“विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु । शूला-
ध्मानोदरश्लेष्मक्रमिवातविबन्धनुत्” भावप्र० । २ अभिज्ञे
त्रि० मेदि० ।

विडम्बन न० वि--डवि + ल्युट् । १ तिरस्करणे २ अनुकरणे च ।

युच् । विड़म्बनाप्यत्र स्त्री । “इयञ्च तेऽन्या पुरतो
विडम्बनेति” कुमारः ।

विडाल पुंस्त्री विड--कालन् । स्वनामख्याते १ पशुभेदे अमरः

स्त्रियां ङीष् । २ नेत्रपिण्डे मेदि० ३ नयनौषधभेदे च
भावप्र० ४ विदार्य्यां स्त्री राजनि० ङीष् । संज्ञायां कन् ।
हरिताले न० । स्वार्थे क । विडाले पशौ पु० स्त्री० ।
संज्ञायां कन् । नेत्रौषधभेदे तद्विधिः भावप्र० उक्तो यथा
“विड़ालको वहिर्लेपो नेत्रे पक्ष्मविवर्जिते । तस्य
मात्रा परिज्ञेया मुखालेपविधानवत्” । मुखालेपस्तु
“अङ्गुलस्य चतुर्थांशो मुखालेपः कनिष्ठकः । मध्यमस्तु
त्रिभागः स्यादुत्तमोऽर्द्धाङ्गुलो भवेत्” । स्थितिकालोऽपि
तस्योक्तो यावत् कल्को न शुष्यति । तेनापि गुणहीनः
स्यात्तथा दूषयति त्वचम्” । स च “यष्टीगैरिकसिन्धूत्थ-
दार्वीतार्क्ष्यैः समांशकैः । जलपिष्टैर्वहिर्लेपः सर्वनेत्रा
मयापहः” । तार्क्ष्यं रसाञ्जनम् । “रसाञ्जनेन वा लेपः
पथ्याबिल्वदलैरपि । वचाहरिद्राविश्वैर्वा तथा
नागरगैरिकैः” ।

विड़ालपदक न० कर्षपरिमाणे भावप्र० कर्षशब्दे १७७४

पृ० दृश्यम् ।

विडीन न० वि + डी--क्त । पक्षिणां गतिभेदे जटा० खगगतिशब्दे २४१४ पृ० दृश्यम् ।

विडुल पु० विड--कुलन् । वेतसवृक्षे हेमच०

वि(डो)डौजस् पु० विष--क्विप् विट् व्यापकमोजो यस्य पृषो०

वा औत् । इन्द्रे अमरः ।

विड्गन्ध न० विष इव गन्धोऽस्य । विड्लवणे रत्नमाला ।

विड्लवण न० विडिव दुर्गन्धं लवणम् । स्वनामख्याते

लवणभेदे रत्नमाला ।

विड्वराह पुंस्त्री० विट्प्रियो वराहः शाक० । १ ग्राम्यशूकरे

जटा० स्त्रियां ङीष् । “दसुनं विड्वराहञ्च” इति स्मृतिः ।
पृष्ठ ४८९९

वितंस पु० वि + तन्स--अच् । पक्षिणां बन्धनसाधने रज्जु-

प्रभृतौ भरतः ।

वितण्डा स्त्री वि + तडि--भावे अ । स्वपक्षाव्यवस्थापनेन

परपक्षमात्रनिराकरणे कथाभेदे अमरः । २ कच्छीशाके
लाह्वये ४ करव्यां मेदि० ५ दर्व्यां हारा० ।
वितण्डाकथालक्षगं गौ० सू० उक्तं यथा “स प्रतिपक्ष-
स्यापनाहीनो वितण्डा” सू० “स जल्पो वितण्डा
भवति किंविशेषणः । प्रतिपक्षस्यापनया हीनः ।
यौ तौ समानाधिकरणौ विरुद्धौ धर्मौ पक्षप्रतिपक्षा-
वित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति
परपक्षप्रतिषेधेनैव प्रवर्त्तत इति । अस्तु तर्हि प्रतिपक्ष-
हीनो वितण्डा यद्वै खलु तत्परप्रतिषेधलक्षणं वाक्यं
स वैतण्डिकस्य पक्षः न ह्यसौ साध्यं कञ्चिदर्थं प्रति-
ज्ञाय स्थापयतीति तस्मात् यथान्यासमेवास्तु” वा० भा० ।
वृत्तौ तु सूत्रमन्यथा व्याख्यातं यथा
“क्रमप्राप्तां वितण्डां लक्षयति स इति । यद्यपि तच्छ-
ब्देन जल्पो न परामर्ष्टुं शक्यते जल्पस्य स्थापना-
द्वयवतः प्रतिपक्षस्थापनाहीनत्वस्य विरुद्धत्वात् तथापि
स्थापनाद्वयवत्त्वं विहाय जल्पैकदेशः परामृश्यते प्रति-
पक्षो द्वितीय पक्षः तथाच प्रतिपक्षस्थापनाहीना विजि-
गीषुकथा वितण्डेति । न च स्वस्य स्थापनीयाभावात्
कथमियं कथा प्रवर्त्ततामिति वाच्यम् परपक्षखण्डनेन
जयस्यैवोद्देश्यत्वात् । परे तु परपक्षखण्डनेनैव स्वपक्ष-
स्वार्थादेव सिद्धिस्तत्साधनाभावेऽपि न प्रवृत्त्यनुसपत्ति-
रिति वदन्ति” ।

वितथ त्रि० वि + तन--क्थन् । मिथ्याभूते पदार्थे अमरः । स्वार्थे

यत् । वितथ्य तत्रैव ।

वितद्रु स्त्री वि + तम--रु दान्तदेशः । पञ्जावदेशस्थेनदीभेदे उणादिको०

वितरण न० वि + तॄ--ल्युट् । दाने अमरः ।

वितर्क पु० वि + तर्क--भावे अच् । १ सन्देहे २ ऊहे च मेदि० ।

३ ज्ञानसूचके शब्दर० । ४ अर्थालङ्कारभेदे अलङ्कारशब्दे
४०३ पृ० दृश्यम् ।

वितर्दि स्त्री वि + तृद--इन् वा ङीप् । येदिकायाम् अमरः ।

पृषो० वितर्द्धिरप्यत्र स्त्री भरतः वा ङीप् ।

वितल न० विशेषेण तलम् । पातालभेदे शब्दर० । पाताल-

शब्दे ४१९९ पृ० दृश्यम् । २ तलसून्ये त्रि० ।

वितस्ति पुंस्त्री० वि + तस--क्तिच् । द्वादशाङ्गकपरिमाणे

विस्तृत स कनिष्ठामध्यङ्गुष्ठान्तपरिमाणे अमरः ।

वितान न० वि + तन--कर्मभावादौ घञ् । १ वृत्तिभेदे मेदि०

२ अवसरे विश्वः । ३ यज्ञे ४ विस्तारे अमरः ५ चन्द्रातपे पुंन०
६ तुच्छे ७ मन्दे च त्रि० अमरः । ८ शून्ये त्रि० धरणिः ।
स्वार्थे क । चन्दातपे । संज्ञायां कन् । माड़वृक्षे राजनि० ।
९ आहनीयाद्यग्नीनां विस्तारे । वितानेन निर्वृत्तः ठक् ।
वैतानिक वितावसाध्ये अग्न्याधेयप्रभृतौ त्रि० “अग्न्याधेय-
प्रभृतीन्याह वैतानिकानि” आश्व० श्रौ० २ सू० । “विता-
नेषु भवानि वैतानिकानि वितानसाध्यानीत्यर्थः । विता-
नशब्दोऽत्र सूत्रे भाववचनोऽग्नीनां विस्तारवचनः”
नारा० । वितायन्तेऽग्नयोऽस्मिन् वि + वन० आधारे घञ् ।
१० अग्निहोत्रादिकर्मणि । “अथैतस्य समाम्रायस्य विताने
योगापत्तिं व्याख्यास्यामः” आ० गृ० १ सू० । “वितताः
अग्नयो यस्मिन्निति श्रौतकर्मजातमग्निहोत्रादि वितानश-
ब्देनोच्यते” नारा० । तत्र साधुठक् । वैतानिक अग्निहोत्रादि
कर्मसाधने अग्नौ पु० । “वैतानिकेऽग्नौ कुर्वीत” मनुः ।

वितानमूलक न० वितानाय मूलमस्य कप् । उशीरे

राजनि० ।

वितुन्न न० वि + तुद क्त । १ सुनिषण्णके अमरः संज्ञायां कन् ।

२ धान्यके ३ तुत्थे च न० अमरः । ४ भूम्यामलक्यां स्त्री
राजनि० । संज्ञायां कन् । ५ तामलक्यां पु० अमरः ।

वित्त त्यामे अद० चु० उभ० सक० सेट् । वित्तयति ते

अविवित्तत् त वित्तापयतीत्यपि ।

वित्त न० वित्त्यते त्यज्यते वित्त--घञ् । १ धने अमरः ।

विदक्त वा दस्य न नः । २ ख्याते, ३ विचारिते ४ ज्ञाते हेमच०
५ लब्धे च त्रि० ।

वित्ति स्त्री विद--क्तिन् । १ ज्ञाने २ लाभे ३ विचारे च मेदि० ।

वित्तेश पु० ६ त० । कुवेरे ।

वित्सन पु० विद--लाभे क्विप् तां सनोति सन--दाने अच्

वृषभे शब्दच० ।

विथ याचने भ्वा० आ० द्विक० सेट् चङि न ह्रस्वः । येथते अवेथिष्ट ।

विथुर पु० विथ--उरच् किच्च । १ चौरे २ राक्षसे च उणा० ।

विथ्या स्त्री विथ--यत् । गोजिह्वायाम् शब्दच० ।

विद सुखाद्यनुभवे आख्याने, वादे च सक० वासे अल० चु०

उभ० सेट् । वेदयति ते अवीविदत् त ।

विद लाभे तु० उभ० सक० अनिट् मुचादि । विन्दति ते ।

ऌदित् अविदत् अवित्त । विनेद विविदे । विन्नं वित्तम् ।

विद मीमांसे रुधा० आ० सक० अनिट् । विन्ते अवित्त ।

विद भावे, दिवा० आ० वक० विनिट् । विद्यते आवित्त ।

पृष्ठ ४९००

विद ज्ञाने अदा० पर० सक० सेट् । वेत्ति० वेद । अवेदीत् ।

विद् पु० विद--क्विप् । १ पण्डिते अमरः २ बुधग्रह च ज्यो० ।

विद पु० विद--क । १ पण्डिते अमरः २ बुधग्रह च ज्यो० ।

विदंश पु० विदश्यतेऽनेन वि + दन्श करणे घञ् । अवदंशे

(चाटनि) राजनि० ।

विदग्ध त्रि० वि + दह--क्त । १ नागरे त्रिका० २ निपुणे राजनि०

३ पण्डिते च शब्दच० । ४ नायिकाभेदे स्त्री रसगञ्जरी ।
परकीयशब्दे ४२३३ पृ० दृश्यम् । ५ विशेषेण दग्धे त्रि० ।

विदथ पु० विदाकथच् । १ योगिनि, २ कृतिनि च मेदि० ।

विदर न० वि + दॄ--अच् । (फणिमनसा) वृक्षे शब्दर० । भावे अप्

२ विदलीकरणे पु० शब्दर० । प्रा० ब० । ३ विगतभये त्रि० ।

विदर्भ पुंस्त्री० विगताः दर्भाः कुशायतः । देशभेदे कुण्डिन-

नगरे (वड़नागपुर) ।

विदल त्रि० विशेषेण दल्यते दल--घञर्थे क । १ द्विधाभूते

२ दाड़िमकल्के ३ वंशादिपात्रे ४ स्वर्णादेरवयवे च न० ।
५ कलायादौ न० अमरभरतौ ६ रक्तकाञ्चने ७ पिष्टके न०
शब्दच० । ८ त्रिवृति (तेओड़ि) स्त्री राजनि० ।
प्रा० ब० । ९ दलशून्ये त्रि० ।

विदा स्त्री विद--अङ् । १ ज्ञाने २ बुद्धौ च मेदि० ।

विदादि पु० अपत्यादौ “विदादिभ्योऽञ्” पा० अञ्प्रत्ययनिमित्ते

शब्दगणे स च गणः पा० गणसूत्रे दृश्यः ।

विदार पु० वि + दृ--णिच् भावादी अच् । १ विदारणे २

जलोच्छ्वासे च मेदि० । ३ युद्धे हेमच० । ४ द्विधाकरणे ।

विदारक पु० वि + दॄ--णिच्--ण्वुल् । १ जलमध्यस्थतरुशिलादौ

अमरः । २ विदारणकर्त्तरि त्रि० ३ शुष्कनदादेर्जलधारण-
योग्ये गर्त्ते न० सर्वधरेः । ४ जलबन्धके शब्दर० ।

विदारण न० वि + दॄ णिच्--भावादौ ल्युट् । १ भेदने २ विड़म्बे

च मेदि० । ३ मारणे शब्दर० । ४ युद्धे पुंस्त्री० मेदि० ।
५ कर्णिकारवृक्षे पु० शब्दच० ।

विदारिणी स्त्री वि + दॄ--णिनि ङीप् । काश्मर्य्याम् राजनि०

विदारी स्त्री वि + दारि + कर्मणि अच् गौ० ङीष् । १

शालपर्ण्याम् । (शालपान) मेदि० । २ मूभिकुष्माण्डे च अमरः
“विदारी वातपित्तघ्नी बल्या वृष्या रसायनी” राजव० ।
३ कण्ठरोगभेदे भावप्र० “सदाहतोदं श्वयथुं सुताम्ब-
मन्तर्गले पूतिविशीर्णमांसम् । पित्तेन विद्यात् वदने
विदारीं पार्श्वे विशेषात् स तु येन शेते” स तु पुरुषो
येन पार्श्वेन विशेषात् बाहुल्येन शेते तस्मिन् पार्श्वे सा
विदारी भवतीत्यर्थः” ।

विदारीगन्धा स्त्री विदार्य्याः भूमिकूष्माण्डस्येव गन्धो यस्वाः ।

शालपर्ण्याम् (शालपान) अमरः ।

विदारु पु० वि + दॄ--उन् । १ क्रकचपादे २ क्रकलासे हेमच० ।

विदाहिन् न० वि + दह--णिनि । दाहजनकद्रव्ये ।

विदित त्रि० विद--क्त । १ ज्ञाते अमरः २ प्रार्थिते च मेदि०

३ कवौ पु० जटा० । भावे--क्त । ४ विख्यातौ ४ उपगमे
शब्दच० ५ ज्ञाने च । तदस्यास्ति अच् । ६ ज्ञातरि त्रि० ।
“विदितः समाययाविति” किरा० ।

विदिश् स्त्री विगता दिशौ । दिशोर्मध्ये अग्निनिरृति-

वाथ्वीशानकोणचतुष्टये अमरः ।

विदु पु० विद--कु । हस्तिकुम्भमध्यभागे अमरः ।

विदुर त्रि० विद--कुरच् । १ नागरे २ धीरे ३ कौरवाणां

मन्त्रिणि दासीगर्भजाते धर्म्मावतारभेदे च मेदि० भा० आ०
१०६ अ० । ४ ज्ञातरि च अमरः ।

विदुल पु० विद--कुलच् । १ वेतसे २ जलवेतसे मेदि० ३ गन्ध-

रसे च रत्नमा० । ४ क्षत्रियभेदे भा० उ० १३२ अ० ।

विदूर न० विशिष्टं दूरम् । १ अतिदूरे २ तत्रस्थे पदार्थे त्रि० ।

“विदूरे केयूरे कुरु” इति सा० द० ३ परि० । ३ वैदूर्य्यमणि-
सम्भवस्थाने पु० “विदूरभूमिर्नवमेघशब्दात्” कुमारः ।

विदूरज न० विदूरे देशभेदे जायते जन--ड । वैदूर्य्यमणी ।

विदूरथ पु० १ द्वादशमनोः पुत्रभेदे २ पौरवे नृपभेदे विष्णुपु० ३२ अ०

विदूराद्रि पु० विदूरे देशऽद्रिः पर्वतः । पर्वतभेदे । यत्र

वैदूर्य्यमणिरुत्पद्यते ।

विदूषक पु० विदूषयति वि + द्रष--णिच्--ण्वुल् । १ शृङ्गाररस-

सहायभदे २ परनिन्दके त्रि० मेदि० ।
“शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता
नर्मसु निपुणाः कुपितिबधूमानभञ्जनाः शुद्धाः । कुसुम-
वसन्ताद्यभिधाः कर्मवपुर्वेशभाषाद्यैः । हास्यकरः,
कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः” सा० द० ३ व० ।

विदेश पु० विभिन्नो देशः । देशान्तरे “को विदेशः सविद्या-

नाम्” चाणक्यः ।

विदेह पु० विगतो देहः देहसम्बन्धो यस्य । १ जनकाख्ये नृपे

“असमाप्ते ततो यज्ञे वशिष्ठश्चागमद्दिवः । तं दृष्टा
कुपितः प्राह प्रत्याख्यातोऽस्मि पार्थिव! । यस्मात् तस्मात्
शपेयं त्वां विदेहस्त्व भविष्यसि” वह्निपु० । तदीये
२ जनपदे च स च देशः मिथिकादेश इति ख्यातः ।
कूर्मविभागे वृ० स० १४ उक्तः । कूर्मविभागशब्दे दृश्यम् ।
२ तद्वं श्येनृप ब० व० च ३ कैवल्यमुक्तियुते ४ दहसम्बन्धसून्ये
पृष्ठ ४९०१
च त्रि० ४ मिथिलायां स्त्री हेमच० । ५ देहशून्ये देवे
पात० सूत्रभाष्यादौ देवस्य विदेहत्वं समर्थितं यथा
भवप्रत्ययो विदेहप्रकृतिलयानाम्” सू० ।
“स खल्वयं द्विविध उपायप्रत्ययो भवप्रत्ययश्च तत्रोपाय
प्रत्ययो योगिनां भवति” भवप्रत्ययो विदेहप्रकृतिलया-
नाम्” विदेहानां देवानां भवप्रत्ययः ते हि स्वसंस्कारमा-
त्रोपयो(भो)गेन चित्तेन कैवल्यपदमनुभवन्तः स्वसंस्कार-
विपाकं तथाजातीयकमतिवाहयन्ति” भाष्यम् । “भवन्ति
जायन्तेऽस्यां जन्तव इति भवोऽविद्या स खल्वयं
भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः ।
तत्र तयोर्मध्ये उपायप्रत्ययो योगिनां मोक्षमाणानां
भवति विशेषविधानेन शेषस्य मुमुक्षुसम्बन्धं निषेधति ।
केषां तर्हि भवप्रत्ययः । इत्यत्र सूत्रेणोत्तरम् । विदे-
हाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद् व्याचष्टे विदे-
हानां देवानां भवपत्ययः भूतेन्द्रियाणामन्यतममात्मत्वेन
प्रतिपन्नानामुपासनया तद्वासनावासितान्तःकरणाः
पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कार-
मात्रावशेषतया षाट्कौषिकशरीररहिताः विदेहाः
ते हि संस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानु-
भवन्तः प्राप्नुवन्तः विदेहाः । अवृत्तिकत्वञ्च कैवल्येन
सारूप्यम् । स्वाधिकारसंस्कारशेषता च वैरूप्यम् ।
संस्कारमात्रोपभोगेणेति क्वचित् पाठः तस्यार्थः संस्कार-
मात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्ता-
वधयः संस्कारविपाकं तथाजातीयकमतिवाहयन्ति
अतिक्रामन्ति पुनरपि संस्कारे विशन्ति तथा च वायु
प्रोक्तं “दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णम्” विवरणम् । तेषां देवागां मध्ये
यस्य विवेकसाक्षात्कारस्तस्य कैवल्यप्राप्तिः “योयो
देवानां प्रत्यबुध्यत स विमुच्यते” इति श्रुतेः । मीमांसा-
सिद्धे देहशून्ये ५ अचेतने मन्त्रात्मके देवे च ।
अविग्रहशब्दे ४५१ पृ० दृश्यम् ।

विदेहकैवल्य न० कर्म० । “न तस्य प्राणा ह्युत्क्रामन्ति

इहैव समवलीयन्ते” श्रुत्युक्ते जीवन्मुक्तस्य देहपत-
नान्तरं निर्वाणमोक्षे ।
विदेहकैवल्यनिष्पत्तिप्रकारादि शा० सू० भाष्ययोरुक्त
यथा “भोगेन त्वितरे क्षपयित्वा सम्पद्यते” सू० ।
अनारब्धाकार्य्ययोः पुण्यपापयोर्विद्यासामर्थ्यात् क्षय उक्तः
इतरे त्वारब्धकार्य्ये पुण्यपापे उपभोगेन शपययित्वा
ब्रह्म सम्पद्यते “तस्य तावदेव चिरं यावन्न विमोक्ष्ये
अथ सम्पतस्ये” इति । “ब्रह्मैव सन् ब्रह्माप्येति” इति
चैवमादिश्रुतिभ्यः । ननु सत्यपि सम्यगदर्शने यथा प्राग
देहपाताद् भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृतमेव
पश्चादप्यनुवर्त्तेत न, निमित्ताभावात् उपभोगशेषक्षपणं
हि तत्रानुवृत्तिनिमित्तं न च तादृशमस्ति किञ्चित् का
रणम् । नन्वपरः कर्माशयोऽभिनवमुपभोगमारपूस्यते न०
तस्य दग्धवीजत्वात् । मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं
देहपाते उपभोगान्तरमारभते तच्च मिथ्याज्ञाने सम्यग्-
दर्शनेन दग्धमिति साध्वेतत् आरब्धकार्य्यक्षये विदुषः
कैवल्यम” भा० । तत्रैव ४ पादे च सू० भाष्ययोरुक्तं यथा
“सम्पद्याविर्भवः स्वेनशब्दात्” सू० “एवमेवैष संप्रसादोऽ-
आद्देहात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणा-
भिनिष्पद्यते” श्रुतिर्विषयवाक्यं तत्र पूर्वपक्षं दर्शयित्वा
सिद्धान्तितं भाष्यकृता यथा “केवलेनैवात्मनाविर्भवति न
धर्मान्तरेणेति कुतः? स्वेन रूपेणाभिनिष्पद्यते इति स्वश-
ब्दात्” भा० । “मुक्तः प्रतिज्ञानात्” सू० । “योऽत्राभिनिष्पद्यते
इत्युक्तः स पूर्वबन्धविनिर्मुक्तः शुद्धेनैवात्मनावविष्ठते” कुतः?
प्रतिज्ञानात् । “एतं त्वेव ते भूयोऽनुव्याख्यास्यामः” इति
प्रतिज्ञातम् “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः”
इति चोर्पन्यस्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषः”
इति (श्रुतिः) भा० । “अविभागेन दृष्टत्वात् सू० । “अवि-
भक्त एव परणात्मना युक्तोऽभिनिष्पद्यते कुतः? दृष्टत्वात्”
“यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति” एवं मुने-
र्विजानतः आत्मा भवति गौतम!” इत्येवमादीनि मुक्त-
स्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्ति
नदीसमुद्रादिनिदर्शनानि च” भा० । विवेकचू० स्पष्टमुक्तं
यथा “पाषाणवृक्षतृणधान्यकटाम्बराद्या दग्धा भवन्ति
हि मृदेव यथा तथैव । देहेन्द्रियासुमनआदिसमस्त
दृश्यम् ज्ञानाग्निदग्धमुपयाति परात्मभावम् । विलक्षणं
यथा ध्वान्तं लीयते मानुतेजसि । तथैव सकर्ल दृश्यं
प्रज्ञात्मनि विलीयते । षटे नष्टे तथा व्योष व्योमैव भवति
स्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवत् स्वयम् ।
क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयुक्त-
मेकतां याति तथात्मन्यात्मविन्मुनिः । एवं विदेह-
कैवल्यं सन्मात्रत्वमखण्डितम् । ब्रह्मभावं प्रपद्यैव
यतिर्नावर्त्तते पुनः । सदात्मकत्वविज्ञानदन्पाऽविद्यादि-
वर्द्मण । अमुष्य ब्रह्मभूतत्वात् ब्रह्मणः कुत उद्भवः” ।
पृष्ठ ४९०२
“विमुक्तश्च विमुच्यते” न तस्य प्राणाह्युत्क्रामन्ति इहैव
समबलीयन्ते” इत्याद्या श्रुतश्चात्र प्रमाणम् ।

विद्ध त्रि० व्यध० क्त । १ छिद्रिते अमरः । २ क्षिप्ते ३ सदृशे ४ या

धिते मेदि० ५ ताड़िते च ।

विद्धकर्ण पु० विद्धः कर्ण इव पत्रमस्य । पाठायाम्

(आकनादि) द्विरूपकोषः । स्त्रीत्वमपि तत्रैव अमरः । ङीप् ।
स्वार्थे क । तत्रार्थे स्त्री शब्दर० ।

विद्यमान पु० विद--शानच । १ वर्त्तमानकाले, २ तद्वृत्तौ पदार्थे० त्रि० ।

विद्या स्त्री विद--क्यप् । १ ज्ञाने । २ तत्त्वसाक्षात्कारे “विद्यया

मृतमश्नुते” इति श्रुतिः । ३ दुर्गायां शब्दच० ४ गणिकारि-
कावृक्षे शब्दच० । तन्त्रोक्ते ५ देवीमन्त्रे च । “शतलक्षप्र-
जप्तापि तस्य विद्या न सिध्यतीति” श्यामास्तवः ।
६ विद्याहेतौ शास्त्रे “अङ्गानि वेदाश्चत्वारो मीमांसान्या-
यविस्तरः । धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं
चतुर्थञ्च विद्या ह्यष्टादशैव ताः” प्रा० त० विष्णुपु० ।
विद्याभेदे देवताभेदाः हेमा० ब्र० विष्णुधर्मोत्तरे उक्ता
यथा “ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः ।
सामवेदं तथा विष्णुः शम्भुश्चाथर्वणो भवेत् । शिक्षा-
प्रजापतिर्ज्ञेया कल्पो ब्रह्मा प्रकीर्त्तितः । सरस्वती
व्याकरणं निरुक्तं वरुणः प्रभुः । छन्दो विष्णुस्तथै-
वाग्निर्ज्योतिषं भगवान् रविः । मीमांसा भगवान्
सोमो न्यायमार्गः समीरणः । धर्मश्च धर्मशास्त्राणि
पुराणञ्च तथा मनुः । इतिहासं प्रजाध्यक्षो धनुर्वेदः
शतक्रतुः । आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः ।
कलावेदो महीदेवी नृत्यशास्त्रं महेश्वरः । सङ्कर्षणः
पञ्चरात्रं रुद्रः पाशुपतं तथा । पातञ्जलमनन्तश्च सांख्यञ्च
कपिलो मुनिः । अर्थशास्त्राणि सर्वाणि धनाध्यक्षः
प्रर्कार्त्तितः । कलाशास्त्राणि सर्वाणि कामदेवो जगद्-
गुरुः । अन्यानि यानि शास्त्राणि यत्कर्माणि प्रचक्षते ।
स एव देवता तस्य शास्त्रं कर्म च देववत्” । श्रुतौ तु
विद्याभेदः द्विविधः पराऽपराभेदात् उक्तः । यया ब्रह्माव-
गमः सा परा “ययाऽक्षरमधिगम्यते सा परेतिश्रुतेः” ।
ऋग्वेदादिलक्षणा अपरा सा च अध्ययनाध्यापनरूपा ।

विद्याचन(ण) त्रि० विद्यया ख्यातः । विद्या + चन(ण)

विद्यया विख्याते ।

विद्याचुञ्चु पु० विद्यया विख्यातः विद्या + चञ्चु । विद्यया ख्याते ।

विद्यादल पु० विद्यायै ज्ञानाय दल्वतेऽसौ । भूर्जवृक्षे शब्दच०

विद्यादान ग० ६ त० । १ अध्यापने २ पुस्तकादिदाने च ।

“विद्यादानञ्च अध्यापनेन व्याख्यया विलिख्यार्पणेन च
भवतीति ज्यो० त० रघु० । तत्राध्यापनविधि० श्रुतौ यथा
“योऽधीत्यार्थिभ्यो विद्यां न प्रयच्छेत् स काको वान्थस्यिन्
स्यात् श्रेयसो द्वारमपावृणुयात् अनध्यापने दोषश्चवणात्
तस्यावशक्यत्वं गम्यते । “अष्टवर्षं मानवकमुपनयीत
तमध्यापयीत” इत्यादिश्रुतौ च अध्यापनाविधिलाभः ।
व्याख्यानादिविधिलाभस्तु “अज्ञानतिमिरोऽपेठान् सन्दे-
हपटलान्वितान् । निरामयान् यः कुरुते शास्त्राञ्जन-
शलाकया । इह कीर्त्तिं राजपूजां लभते सद्गतिं च सः”
ज्यो० त० । तद्धेतुपुस्तकादिदानञ्चाग्रे वक्ष्यमाणप्रमाणात् तत्र
ज्ञानरूपविद्यादानप्रकारः हेमा० दा० वह्निपु० उक्तो यथा
“वाजपेयसहस्वस्य सम्यगिष्टस्य यत् फलम् । तत्फलं
समवाप्नोति विद्यादानान्न संशयः । तस्वाद्देवालये नित्य
धर्मशास्त्रस्य वा श्रुतेः । पठनं कारयेत् राजन्!
यदीच्छेत् धर्ममात्मनः । गोमूहिरण्यवासांसि शयनान्यास-
नानि च । प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तम! ।
धर्माधमौ न जानाति लोकोऽयं विद्यया विना ।
तस्मात् सदैव धर्मात्मन्! विद्यादानरतो भवेत् ।
वेदशास्त्ररहस्यज्ञो यदि नैव नृपोत्तम! । ततोऽज्ञान-
तमोऽन्धस्य कावस्था जगतो भवेत् । ब्रह्मादवः सुराः
सर्वे ऋषयो दग्धकिल्विषाः । मनुष्याः पितरश्चैव
विद्यादाने प्रतिष्ठिताः । चतुर्युगानां राजेन्द्र!
एकसप्ततिसंख्यया । वेदशास्त्रप्रदः स्वर्गे पूज्यते सुरसत्तमैः ।
इत्युपक्रमे “दानं विशेसफलदं जगतीह नान्यद् विद्यां
विहाय वदनाब्जकृताधिवासाम् । गोभूहिरण्यगज-
वाजिरथादि सर्वं तां यच्छतां किमिति भूप! भवेन्न
दत्तम्” । तत्रैव नन्दिपु० “अध्यापयेच्छुभान् शिष्यानभि-
जातान् सुमेधसः । एवं विद्याप्रदानं हि सर्वदानोत्तमो-
त्तमम् । सर्वदा सर्ववर्णानामयं च प्लव उत्तमः । अनेन
विधिना दत्त्वा विद्यां पुण्यपरो नरः” ।
स्वयंविद्यादानासामर्थ्ये आ० त० भविष्यपु० उक्तं यथा
“अध्यापकस्य यो वृत्तिं दत्त्वाऽध्यापयति द्विजान् ।
किं न दत्तं भवेत्तेन धर्मकर्मार्थमिच्छता” । तद्धेतुभूत-
पुस्तकादिदानमपि विद्यादानं हेमा० दा० उक्तं यथा
नन्दिपु० “विद्या च मुख्या दानानां गुरुतोऽस्य विधिं
बुधः । श्रुत्वा विद्याञ्च विधिवत् शुद्धया भाविता ताना ।
सत्पात्रेभ्यश्च तां दद्यात् विशेषात् गुनाशालिषु। उप
पृष्ठ ४९०३
योग्यञ्च यद् यस्य तत्तस्य प्रतिपांदयेत्” । ततः पुस्तकलेखन-
प्रकारस्तद्दानविधिश्च विस्तरेणोक्तस्तत्र दृश्यः । विद्योपयो-
गिद्रव्यादिदानेऽपि विद्यादानं भवति यथोक्तं हेमा० दा०
देवीपु० “आत्मवित्तानुसारेण विद्यादानं करोति
यः । असाध्यं फलमाप्नोति आद्यतुल्यं न संशयः ।
स्त्री तथानेन विधिना विद्यादानफलं लभेत् । भर्त्रा चैवा
ननुज्ञाता विधवा च तमुद्दिशेत्” । विधानमाह “विद्या-
र्थिने सदा दद्याद् वस्त्राभ्यङ्गञ्च भोजनम् । छत्रिका
मुदकं दीपं यस्मात्तैलं विना म सः । लेखनीथटितं
तीक्ष्णं मसीपात्रन्तु लेखनीम् । दत्त्वा तु लभते वत्स!
विद्यादानमनुत्तमम् । पुस्तकस्तरणं दत्त्वा सुप्रमाणं
सुशोभनम् । विद्यादानमवाप्नोति सूत्रवन्धञ्च बुद्धि-
मान् । यन्त्रकं त्वासनञ्चैव दण्डासनमथापि वा ।
विद्यावाचनशीलाय दत्तं भवति राज्यदम् । अञ्जनं
नेत्रपादानां दत्तं विद्यापरायणे । भूमिर्गृहञ्च
क्षेत्रञ्च स्वर्गराज्यफलप्रदम् । यस्य भूम्यां स्थितो नित्यं
विद्यादानं प्रवर्त्तयेत् । तस्यापि भवति स्वर्गस्तत्प्रभावान्न
संशयः” । “येऽपि पत्रं मसीपात्रं लेखनीं सम्पुटादि-
कम् । दद्युः शास्त्राभियुक्ताय तेऽपि विद्याप्रदायिनाम् ।
यान्ति लोकान् शुभान् मर्त्याः पुण्यभाजो नराधिप!” ।
नन्दिपु० “विद्यादानमवाप्नोति प्रदानात् पुस्तकस्य च ।
शिल्पानि शिक्षयेद् यस्तु पौण्डरीकफलं लभेत् । शिल्प-
भाण्डप्रदानेऽपि तद्विद्यादानजं फलम् । अहितेषु
प्रवृत्तस्य तथा कृत्वा निवारणम् । विद्यादानफलं
प्रोक्तं नात्र कार्य्या विचारणा । पापवृत्तस्य च तथा दत्त्वा
चैव परां मतिम् । विद्यादानफलं प्राप्य स्वर्गलोके
महीयते । येन जीवति भाण्डेन तस्मै तद्भाण्डदायकः ।
सर्वकामसमृद्धश्च यज्ञस्य फलमश्नुते” विष्णुधर्मो० ।
तत्रैव स्कन्दपु० विद्यादानोपक्रमे “पुस्तकस्तरणं
दत्त्वा सहस्रं तत्प्रमाणतः । तदासनं वितानं वा
शिवलोके महीयते । यः श्रीपर्णसमुद्भूतं निम्नखातं
सुलक्षणम् । दद्यात् सम्पुटकं कृत्वा चर्मणा वापि
निर्मितम् । शिवज्ञानाभियुक्ताय तदध्ययनहेतुना ।
सुश्लक्ष्णं फलकं वापि विद्यादानफलं लभेत् । यः सौवर्णं
सुसम्पूर्णं सर्वरत्नोपशोभितम् । सपिधानं समञ्जूषं
विद्याकोशसमाश्रयम् । कारयेद्वापि रौप्येण ताम्रेण
चतुरखकम् । कांव्यारकूटं लोहं वा दारुवंशादिनिर्मितम् ।
सकवायातिरक्तेन चर्मणाभिनवेन च । अन्तर्बहिश्च
मठयेत् विद्यादाने नवं गृहम् । सुदृढ़ं कटकोपेतं
दृढ़स्तम्भनिवेशनम् । कुर्य्यात्तालकसंयुक्तं विद्यावर्त्ति-
करण्डकम् । एवं वित्तानुसारेण कारयित्वा गृहं
नृपः । विद्यासिंहासनं तत्र संपूज्य विधिवद्बुधः ।
तस्मिन् पुण्याहशब्देन विद्याकोशगृहं न्यसेत् । एवं
यः शिवविद्यायाः कुर्य्यादायतनं शुभम् । स मुक्तः
पातकैः सर्वैविद्यादानफलं लभेत् । विद्यामण्डलकं कृत्वा
विद्याव्याख्यानमण्डपे । तत्राभ्यर्च्य शिवां विद्यां
तद्व्याख्यां शृणुयात्ततः । सोऽपि याति शिवस्थ्यानं कार्य-
कालसमन्वितम् । अनेन विधिना ज्ञानं यः शृणोति
प्रवक्तृतः । स साम्राज्यश्रियं सौख्यं देहान्ते मुक्ति-
माप्नुयात्” । तत्रैव देवीपु० “तस्मात् सर्वप्रयत्नेन
विद्या देया सदा नरैः । इहैव कीर्त्तिमाप्नोति मृतो
याति परां गतिम् । यस्तु देव्या गृहे नित्यं विद्या-
दानं प्रवर्त्तयेत् । स भवेत् सर्वलोकानां पूज्यः पूज्यपदं
व्रजेत्” । वराहपु० “लेखापयित्वा तच्छास्त्रं देयं
गुणवते सदा । तपस्विने, धर्मरते प्रतिपालनतत्परे । वस्त्र-
युग्मेन संवीतं पुस्तकं प्रतिपादयेत् । वाचकं पूजयेच्चापि
वस्त्रालङ्कारभूषणैः । अनेनैव विधानेन विद्यादानफलं
लभेत्” ।

विद्याधन न० विद्यया लब्धं धनम् । विद्यया लब्धे

“उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनन्तु
तद्विद्यात्” इति, “शिष्यादार्त्विज्यतः प्राप्तं सन्दिग्ध-
प्रश्ननिर्णयात् । अज्ञानसंशयोच्छेदाल्लब्धं प्राध्ययनात्तुयत् ।
विद्याधनन्तु तत् प्राहुः” इति “शिल्पिष्वपि हि धर्मोऽयम्”
इत्युपक्रम्य “परं निरस्य वादेन विद्यया द्यूतपूर्वकम्” ।
विद्याधनं तु तद्विद्यादित्युक्ते च धने ।
विद्याधनविभागे विशेषः “विद्याधनं तु यद् यस्य तत्त-
स्यैव धमं भवेत । कुटुम्बं विभृयाद् भ्रातुर्यो विद्या-
मधिगच्छतः । भागो यवीयसां तत्र यदि विद्यानुपालिनः”
दायमा० । दायतत्त्वे तु “भागं विद्याधनात्तस्मात् स लभेतेता-
श्रुतो सन्” इति पाठः । दायभा० नारदवाक्ये
“देयं वैद्येन तद्धनम्” पाठः । “परभक्तोपयोगेन
विद्या प्राप्ताऽन्यतस्तु या । तया लब्धं धनं यत्तु
विद्यालब्धं तदुच्यते” दाय० त० कात्यायनः । “अन्यतः
पितृमातृकुलव्यतिरिक्तात्” रघु० । “नाविद्यानां तु
वैद्येन देयं विद्याधनात् कचित् । समविद्याधिकानां
त देयं वैद्येन ताजम्” “कुले विनीतविद्यानां भ्रातणां
पितृतोऽपि वा । शौर्य्यप्राप्तं तु यद्वित्तं तद्विभाज्य
वृहस्पतिः” दायत० ।
पृष्ठ ४९०४

विद्याधर पु० विद्यां मन्त्रादिकं धरति धृ--अच् । १ देवयोनि-

भेदे अमरः । २ विद्याधारके त्रि० ।

विद्यारम्भ पु० ६ त० । पञ्चमवर्षे शिशोः कर्त्तव्ये विद्याया

आरम्भे तत्कालादि० ज्यो० त० उक्तं यथा
“संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्दने । षष्ठीं प्रति-
पदञ्चैव वर्ज्जयित्वा तथाष्टमीम् । रिक्तां पञ्चदशीं चैव
शौरिभौमदिनं तथा । एवं सुनिश्चिते काले विद्यारम्भं
तु कारयेत् । पूजयित्वा हरिं लक्ष्मीं देवीञ्चापि
सरस्वतीम् । स्वविद्यासूत्रकारांश्च स्वाञ्च विद्या विशेषतः”
विष्णुध० । “लघुचरशिवमूलाधोमुखत्वष्टृपौष्णशशिषु
च हरिबोधे शुक्रजीवार्कवारे । उदितवति च जीवे
केन्द्रकोणेषु सौम्यैरपठनदिनवर्जं पाठयेत् पञ्चमेऽव्दे”
दोपिका । “विद्यारम्भे गुरुः श्रेष्ठो मध्यमौ भृगुभा-
स्करौ । मरणं शनिभौमाभ्यामविद्या । बुधसोमयोः”
मदनपा० । “विद्यारम्भः सुरगुरुसितज्ञेष्वमीष्टार्थदायी
कर्तुश्चायुश्चिरमपि करोत्यंशुमान् मध्यमोऽत्र । नीहा-
रांशौ भवति जडता पञ्चता भूमिपुत्रे छायासूनावपि
च मुनयः कीर्त्तयन्त्येवमाद्याः” रवेर्गुरोर्भृगोर्लग्ने
तत्स्थेऽर्केऽपीन्दुवृद्धितः । गुर्वर्केन्दूडुशुद्धौ च विद्या-
रम्भः प्रशस्यते” । “प्राङमुखो गुरुरासीनो वरुणाभिमुखं
शिशुम् । अध्यापयेच्च प्रथमं द्विजाशीर्भिः समन्वितम् ।
वृहस्पतिः । तद्विधिः कृत्यतत्त्वे दृश्यः । अविद्या बुधसो-
मयोरिति धनुर्विद्याविषयम् यथोक्तं दोपिकायाम्
“अदितिसुतयमार्कस्वातिचित्राग्निपैत्रध्रुवहरिवसुमूलाश्वी-
ब्दुमाम्यान्त्यभेषु । विशनिशशिबुधाहे विष्णुबोधे विपौषे
सुसमयतिथियोगे चापविद्याप्रदानम्” तत्राक्षरग्रहणे
विद्यारम्भे च लग्नशुद्धिरावश्यकीत्याह” पी० धा०
नृसिंहः “शुभाः पापाश्च रन्ध्रस्थाः सर्वे नेष्टाः सदा
ग्रहाः । भ्रातृषष्ठावकर्मस्थाः पापाः सर्वे शुभावहाः ।
शुभाः केन्द्रत्रिकोणस्थाः धनभ्रातृगताः शुभाः । सर्वे
लाभे प्रशस्ताः स्वुरक्षरग्रहणे शिशोः” । अक्षरग्रहणं
विद्यापलक्षणम्” उभयत्रापि उत्तरायणस्यैव ग्राह्यता ।
“उदग्गते भास्यति पञ्चमेऽवदे” वसिष्ठोक्तेः ।

विद्युत् स्त्री विद्योतते वि + द्युत--क्विप् । १ तड़िति अमरः

२ सन्ध्यायाञ्च विगताद्युत् यस्य प्रा० व० ३ निष्प्रभे त्रि० मेदि० ।
विद्युतत घतुविधाः “अरिष्टनेमिपत्नीनामपत्यानाह षा-
ड़श । बहुपुत्रस्य विदुषश्चतस्रा विद्युतः स्मृताः” । ताश्च
“वाताय कपिला १ विद्युदातपाय हि लोहिता २ । पीता ३
वर्षाय विज्ञेया दुर्भिक्षायासिता ४ भवेत्” ज्यो० । आन्त-
रिक्षोपद्रवविद्युत्कारणञ्च श्रींपतिबोक्तं यथा “निर्घा-
तोल्काघनसुरधनुर्विद्युतश्च कुवायोः संदृश्यन्ते खनगर-
परीवेषपूर्वास्तथान्ये” “सुजलजलधिमध्ये बाड़वोऽग्निः
स्थितोऽस्मात् सलिलभरनिमग्नात् विद्युतस्तत्स्फु
सिङ्गाः” । तदग्निपातरूपवज्राग्निपातसम्भवकारण
अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रितम् । वात्यावद्
भ्रमदाषाते पतिकूलानुकूलयोः । वाथ्वोस्तत् पतति
प्रायो ह्यकालप्राप्यवर्षणे । यतः प्रावृषि नैवेते पांसवः
प्रसरन्ति हि । तत् त्रेधा पार्थिवं चाप्यं तैजसं तत्त-
दुत्थितम् । गतो निर्झरदाहैश्च भूमिस्थैरनुभूयते” ।

विद्युत्प्रिय न० ६ त० । विद्युदाकर्षके कांस्ये धातौ हेमच० ।

विद्युन्माला स्त्री अष्टाक्षरपादके छन्दोभेदे । “मो मो गो गो

विद्युन्माला” छन्दोम० ।

विद्युन्मालिन् पु० राक्षसभेदे भाग० १ । ७ अ० । १ रामायणप्रसिद्धे २ राक्षसभेदे च ।

विद्र न० व्यध--रक् दान्तादेशः । छिद्रे शब्दच० ।

विद्रधि पु० वेत्त्यनेन विद् हृदयं रुणद्धि रुध--कि पृषो० ।

रोगभेदे । तल्लक्षणादि भावप्र० उक्तं यथा
“तत्र विद्रधेः सम्प्राप्तिपूर्वकं सामान्यं लक्षणमाह ।
“त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः । दोमाः
शोथं शनैर्घोरञ्जनयन्त्युच्छ्रिता भृशम् । महामूलं
रुजावन्तं वृत्तं वाप्यथ वायतम् । स विद्रधिरिति ख्यातो
विज्ञेयः षड्विधश्च सः” अस्थिसमाश्रिता दोषा इति
वक्ष्यमाणशोथांद् विद्रधेर्भेदार्थम् । यतो व्रणशोथे दोषा-
णामस्थिसमाश्रयनियमो नास्ति इति व्रणशोथात् दारु-
णम् । आयतन्दीर्घम् । षडविधत्व विवृणोति । “यथा
दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा । षणां तेषां
तुल्यमेव लक्षणं सम्प्रचक्षते” अथ विशिष्टानि लक्ष-
णानि । तत्र वातिकस्य लक्षणमाह “कृष्णोऽरुखो
वा विपमो भृशमत्यर्थवेदनः । चिरोत्थानप्रपाकश्च
विद्रधिर्वातसम्भवः” विषमो भृशम् क्षणमल्पः क्षणं
महान् । चिरीत्थानप्रपाकः चिराद्विलम्बादुत्थानमुद्गतिः
प्रपाकश्च यस्य स । अथ पैत्तिकमाह “पक्वोदुम्बर-
सङ्काशः श्यावो वा ज्वरदाहवान् । क्षिप्रोत्थानप्रपाकश्च
विद्रधिः पित्तसम्भवः” । अथ श्लैष्मिकमाह । “शराव-
दृशः पाण्डुः शीतः सिग्धोऽल्पवेदनः । चिरोत्थान
पृष्ठ ४९०५
प्रपाकश्च विद्रधिः कफमभवः । तनुपीतासिताश्चैषामा-
स्नावाः कमशोमताः” । अथ सान्निपातिकमाह । नाना-
वर्णरुजास्वावो घाटालो विषमो महान् । विषमं पच्यते
वापि विद्रधिः सान्निपातिकः” । नाना अनेकविधाः वर्णाः
कृष्णरक्तपाण्डुरूपाः । रुजा तोददाहकण्डादिरूपाः
स्रवाः तनुपेतसिताः यस्य सः । घाटालः घाटाकोटिः
सासास्तीनि घाटालः अत्युच्छ्रिताग्र इत्यर्थः ।
विषमः निम्नोन्नतः । विषम पच्यते चिराचिरगम्भी-
रोत्तानोर्द्धानूर्द्ध्वभेदेन विषमं यथा स्यात्तथा पच्यते ।
अथाभिघातजस्यागन्तोः विद्रधेः सम्प्राप्तिपूर्वकं लक्षणमाह ।
“तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणाम् । क्षतोष्मा
वायुविसूतः सरक्तं, पित्तमीरयेत् । ज्वरस्तृषा च
दाहश्च जायते तस्य देहिनः । आगन्तुर्विद्रधिर्ह्येषः पित्त-
विद्रधिलक्षणः” । तैस्तैर्भावैः काष्ठलोष्ट्रपाषाणादिभिः
अभिहते यदा रक्तस्रावो भवति । तथाभिहते क्षते कृते
वा अथ वा खड्गशूलादिभिः क्षते यथारक्तस्रावो भवति
तथा क्षते कृते क्षतोष्मा । अत्र क्षतशब्देन हतमात्र
उच्यते तेनाभिहतक्षतयोरुभयोरप्यूष्मा वायुना विसृतः
अभिथातात् क्षते रक्तक्षयात् कुपितेन वायुना प्रसृतः ।
ईरयेत् कोपयेत् । अथ रक्तजमाह “कृष्णस्फोटावृतः श्या-
वस्तीव्रदाहरुजाज्वरः । पित्तविद्रधिलिङ्गस्तु रक्तविद्रधि-
रुच्यते” अधिष्ठानविशेषेण लिङ्गविशेष वोधयितुमाभ्य-
न्तरान् विद्रधीनाह “आभ्यन्तरानतस्तूर्द्ध्वं विद्रधीन्
परिचक्षते । गुर्वसात्म्यविरुद्वान्नशुष्कशाकाम्लभोजनाः ।
अतिव्यवायामवेगाघातात्युष्णविदाहिभिः । पृथक्
सम्भूय वा दोषाः कुपिता गुलमरूपिणम् । वल्मीक-
वत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् । गुद वास्तमुखे नाभ्या
कुक्षा वङ्क्षणयोस्तथा । कक्षयोः प्लीह्नि यकृति हदि
वा क्लोम्नि चाप्यथ । एषां लिङ्गानि जानीयाद्पाह्यविद्र-
विलक्षणैः” सम्भूय वा मिलित्वा वा । समुन्नद्ध
सममन्तादुन्नतम् । स्थानविशेषेण रूपविशेषमाह “गुदे
वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता । नाभ्यां हिक्कां
जृम्भणे च कुक्षौ भारुतकोपनम् । कटिपृष्ठग्रहस्तीव्रो
वङ्क्षणोत्थे तु बिद्रवो । कक्षयोः पार्श्वसङ्कोचः प्लीह्न्यु-
च्छ्वासावराधनम् । सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च
जायते । श्वासो यकृति हिक्का च क्लोग्नि पेपींयते पयः”
स्रावमार्गमाह “नाभेरुपरिजाः पक्वा बान्त्यूर्द्ध्वमितरे
त्वधः”। कक्षादिजाताः यान्ति स्रवन्ति ऊर्द्ध्वमातात्, इतरे
वस्त्यादिजाः अघः गुदात् । नाभिजस्तूभाभ्यां मार्गा-
भ्याम् । तथा च हारीतः ऊर्द्ध्वं प्रभिन्नेषु मुखान्न-
राणां प्रवर्त्ततेऽसृक्सहितो हि पूवः । अधः प्रभि-
न्नेषु तु पायुमार्गाद् द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु” अथ
साध्यत्वादिकमाह “अधःस्रुतेषु जीवेत्तु स्रुतेषूर्द्ध्वं
न जीवति । हन्नाभिवस्तिवर्जषु तेषु भिन्नेषु वाह्यतः ।
जीवेत्कदाचित् पुरुषो नेतरेषु कदा च न” । हृन्नाभिवस्ति-
वर्जेषु प्लीहक्लोमादिजाः तेषु तथाभिन्नेषु न जीवेत्
हृदादीनां मर्मत्वात् । अतएव भोजः “असाध्यो
मर्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः । सन्निपातोत्थितो-
ऽप्येवं पक्व एव हि वस्तिजः । त्वगजो नाभेरघोजश्च
साध्यो यश्च समीपजः । अपक्वश्चैव पक्वश्च साध्यो नीपरि
नाभितः । आध्मानं बद्वनिष्यन्दं छर्दिहिक्कातृषा-
न्वितम् । रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम्”
अथ वाह्यविद्रधोनां साध्यासाध्यत्वमाह “साध्या विद्र-
धयः पञ्च विवर्ज्यः सान्निपातिकः । आमपक्वविदग्धत्वं
तेषां ज्ञेयञ्च शोथवत्” शोथवत् वक्ष्यमाणव्रणशोथवत्” ।

विद्रधिनाशन पु० विद्रधिं नाशयति नश--णिच्--ल्यु । शोभा-

ञ्जने त्रिका० ।

विद्र(द्रा)व पु० विद्रु--अप् घञ् वा । १ पलायने अमरः २ क्षरणे च शब्दमा० ।

विद्रुत त्रि० वि + द्रु--क्त । १ प्राप्तद्रवे २ पलायिते च अमरः ।

विद्रुम पु० विशिष्टो द्रुमः । १ प्रवालरत्नहेतुवृक्षे मेदि० ।

विद्रुमलता स्त्री विद्रुमस्य लतेव । नलीनामगन्धद्रव्ये मेदि०

स्वार्थे क अत इत्त्वम् । विद्रुमलतिका तत्रैव ।

विद्वत्कल्प त्रि० ईषदसमाप्तो विद्वान् विद्वस + कल्पप । ईषदूने विदुषि

विद्वत्तम पु० अतिशयेन विद्वान् विद्वस् + तमप् । अतिपण्डिते

तरप् । विद्वत्तरोऽप्यत्र ।

विद्वद्देशीय त्रि० ईषदससाप्तो विद्वान् विद्वस् + देशीयर् । विद्वत्कल्प

विद्वस् त्रि० विद--क्वसु । १ प्राज्ञे स्त्रियां ङीप् सम्प्र० “विदुषी

मूर्ध्वनि सा विभर्त्ति यान्” नैष० । २ पण्डिते पु०
३ आत्मज्ञानयुक्ते ।

विद्विष् पु० विशेषेण द्वेष्टि वि + द्विष--क्विप् । शत्रौ अमरः । क । विद्विषोऽप्यत्र ।

विद्वेष पु० वि + द्विष--घञ् । वैरिभावे शत्रुतायाम् अमरः ।

विद्वेषण न० वि + द्विष--णिच्--ल्युट् । तन्त्रोक्ते अभिचारकर्म

भेदे येन शत्रूणां परस्परविद्वेषो भवति तस्मिन् व्यापारे ।
वि + द्विष ल्युट् । २ विद्वेषे ।

विध विधाने छिद्रकरणे छेदने च तु० पर० सक० सेट् । विधति । अवेधीत्

विध पुंस्त्री विध क् अच् वा । १ विमाने २ गजभक्ष्यान्ने २ प्रकारे

४ वेधे ५ वृद्धौ रभसः ६ वेतने मेदि० ७ कर्मणि च स्त्री
हेमच० । तत्रार्थे वेधने च स्त्री त्रिका० ।
पृष्ठ ४९०६

विधवा स्त्री विगतो धवो यस्याः । मृतपतिकायां स्त्रियाम्

अमरः ।
विधवाधर्माश्च शु० त० उक्ता यथा विष्णुस० “मृते भर्तरि
ब्रह्मचर्य्यं तदन्वारोहणं वा” । ब्रह्मचर्य्यं मैथुनवर्जनं
ताम्बूलादिवर्जनञ्च यथाह प्रचेताः “ताम्बूलाभ्यञ्जनं चैव
कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा
च विवर्जयेत्” । कभ्यञ्जनमायुर्वेदोक्तम्” रघु० ।
काशीख० विस्तरेण ४ अ० उक्ता यथा
“अनुयाति न भर्त्तारं यदि दैवात् कदाचन । तथापि
शीलं संरक्ष्यं शीलभङ्गात् पतत्यधः । तद्वैगुण्यादपि
स्वर्गात् पतिः पतति नान्यथा । तस्याः पिता च माता
च भ्रातृवर्गस्तथैव च । पत्यौ मृते च या योषिद्वै-
धव्यं पालयेत् क्वचित् । सा पुनः प्राप्य भर्त्तारं
स्वर्गभोगान् समश्नुते । विधवाकवरीबन्धो भर्तृबन्धाय
जायते । शिरसो वपनं तस्मात् कार्य्यं विधवया सदा ।
एकाहारः सदा कार्य्यो न द्वितीयः कदाचन । त्रिरात्रं
पञ्चरात्रं वा पक्षव्रतमथापि वा । मासोपवासं कुर्य्याद्
वा चान्द्रायणमथापि वा । कृच्छ्रं पराकं वा कुर्य्यात्
तप्तकृच्छ्रमथापि वा । यवान्नैर्वा फलाहारैः शाका-
हारैः पयोव्रतैः । प्राणयात्रां प्रकुर्वीत यावत् प्राणः
स्वयं व्रजेत् । पर्य्यङ्कशायिनी नारी विधवा पातयेत्
पतिम् । तस्माद्भूशयनं कार्य्यं पतिसौख्यसमीहया ।
नैवाङ्गोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित् । गन्ध-
द्रव्यस्य सम्भोगोनैव कार्य्यस्तया पुनः । प्रत्यहं तर्पणं
कार्य्यं भर्तुः कुशतिलोदकैः । तत्पितुस्तत्पितुश्चापि
नामगोत्रादिपूर्वकम् । विष्णोस्तु पूजनं कार्य्यं
पतिसुद्ध्या न चान्यथा । पतिमेव सदा ध्यायेद्विष्णुरूपधरं
परम् । यद् यदिष्टतमं लोके यच्च पत्युः समीहितम् ।
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया । वैशाखे कार्त्तिके
माघे विशेषनियमांश्चरेत् । स्नानं दानं तीर्थयात्रां
विष्णोर्नामग्रहं मुहुः । वैशाखे जलकुम्भांश्च कार्त्तिके
वृतदीपकाः । माघे तिलेन्धनोत्सर्गः स्वर्गलोके
महीयते । प्रपा कार्य्या च वैशाखे देवे देया गलन्तिका ।
उपानद्व्यजनं चापि सूक्ष्मवासांसि चन्दनम् ।
सकर्पूरन्तु ताम्बूलं पुष्पदानं तथैव च । जलपात्राण्यने-
कानि तथा पुष्पगृहाणि च । पानानि च विचित्राणि
द्राक्षारम्भाफलानि च । देयानि द्विजमुख्येभ्यः पतिर्मे
प्रीयतामिति । ऊर्जे यवागूमश्नीयाटेकान्नमथ वा पुनः ।
वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्जयेत् । कार्त्तिके
वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु । कार्त्तिके वर्जयेत् कांस्यं
कार्त्तिके चापि सन्धितम् । कार्त्तिके मौननियमे घण्टां
चारुं प्रदापयेत् । पत्रभोजी कांस्यपात्रं घृतं पूर्णं
प्रयच्छति । भूमिशव्याव्रते देया शय्या श्लक्ष्णा सतूलिका ।
फलत्यागे फलं देयं रसत्यागे च तद्रसः । धान्यत्यागे च
तद्धान्यमथ वा शालयः स्मृताः । धेनुं दद्यात् प्रयत्नेन
सालङ्कारां सकाञ्चनाम् । एकतः सर्वदानानि
दीपदानं तथैकतः । कार्त्तिके दीपदानस्य कलां नार्हन्ति
षोडशीम् । किञ्चिदभ्युदिते सूर्य्ये माघस्नानं समाचरेत् ।
यथाशक्त्या च नियमान्माघे स्नानं समाचरेत् । पक्वा-
न्नैर्भोजयेद्विप्रान् यतीनपि तपस्विनः । लड्डुकैः
फाणितैश्चापि वटकेण्डरिकादिभिः । घृतपक्वंः
समरिचैः शुचिकर्पूरवासितैः । गर्भे शर्करया पूर्णैर्नेत्रा-
नन्दैः सुगन्धिभिः । शुष्केन्धनानां भारांश्च दद्याच्छीताप-
नुत्तये । कञ्चुकं तूलगर्भञ्च तूलिकां सूपवीतिकाम् ।
मञ्जिष्ठारूपवासांसि तथा तूलवतीं पटीम् । ऊर्णामयानि
वासांसि यतिभ्योऽपि प्रदापयेत् । जातीफललवङ्गैश्च
ताम्बूलानि वहून्यपि । कम्बलानि च चित्राणि
निर्वातानि गृहाणि च । मृदुलाः पादरक्षाश्च सुगन्ध्यु-
द्वर्त्तनानि च । घृतकम्बलपूजाभिर्महास्नानपुरःसरम् ।
संस्नाप्य शाम्भवं लिङ्गं पूजयेद् दृढ़भक्तितः । कृष्णा-
गुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः । तूलवर्त्तिप्रदीपैश्च
नैयेद्यैर्विविधैस्तथा । भर्तृस्वरूपो भगवान् प्रीयतामिति
चोच्चरेत् । एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः ।
वैशाखान् कार्त्तिकान् माघानेवमेवातिवाहयेत् । नाधि-
रोहेदनड्वाहं प्राणैः कण्ठगतैरपि । कञ्चुकं न
परीदध्याद्वासो न विकृत वसेत् । अपृष्ट्वातु सुतान्
किञ्चिन्न कुर्य्याद् भर्तृतत्परा । एवं चर्य्यापरा नित्यं
विधवापि शुभा मता । इति धर्मसमायुक्ता विधवापि
पतिव्रता । पतिलोकानवाप्नोति न भवेत् क्वापि दुःखिता” ।
व्रह्मवै० ज० ख० ८३ अ० अश्चिद्विशेष उक्तो यथा
“ब्राह्मणी पतिहीना या भयेन्निष्क्रामणी सदा ।
एकभक्ता दिनान्ते सा हविष्यान्नरता सदा । न धत्ते दिव्य-
वस्त्रञ्च गन्धद्रव्यं सुतिलकम् । स्रजञ्च चन्दनं चैव शङ्खं
सिन्दूरभूषणम् । त्यक्त्वा मलिनवस्त्रा स्यात् नित्यं नारा-
पृष्ठ ४९०७
यणं स्मरेत्” । “पुत्रतुल्यञ्च पुरुषं सदा पश्यति धर्मतः ।
मिष्टान्न न च भुङ्क्ते मा न कुर्य्याद्विभव व्रजम् ।
एकादश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने । श्रीरामस्य
नवम्याञ्च शिवरात्रौ पावित्रया । अधोरायाञ्च प्रेतायां
चन्द्रसूर्य्योपरागयोः । भृष्टद्रव्यं परित्याज्यं भुज्यते
परमेव च । ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारि-
चाम् । सन्यासिनां च गोमाससुरातुल्यं श्रुतौ श्रुतम् ।
रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च । अलाबूर्वर्तुला-
कारा वर्जनीया यतेरपि । पर्य्यङ्कशायिनी नारी विधवा
पातयेत् पतिम् । यानस्यारोहणं कृत्वा विधवा नरकं
व्रजेत् । न कुर्य्यात् केशसंस्कार गात्रमस्कारमेव च ।
कशाषली जटारूपा न क्षौरं तीर्थकं विना । तैलाभ्यङ्गं
न कुर्वीत न हि पश्यति दर्पणम् । मुखञ्च परपुंसां च
यात्रा नृत्यं महोत्सवम् । नर्त्तकं गायकञ्चैव सुवेशं
पुरुषं शुभम्” ।

विधातृ पु० वि + धा--तृच् । १ प्रजापतौ ब्रह्मणि अमरः । २

कामदेवे मेदि० । ३ मदिरायां राजनि० । ४ भृगुमुनिपुत्रभेदे
भाग० ५ विधानकर्त्तरि त्रि० स्त्रियां ङीप् सा च ६ पिप्पल्यां
शब्दर० । ७ अधर्मे पु० “द्वौ धाता च विधाता च पौराणौ
जगतां पती । द्वौ शास्तारौ त्रिलोक्वेऽस्मिन् घर्माधर्मौ
प्रकीर्त्तितौ” अग्निपु० ।

विधातृभू पु० विधातुर्भवति भू--क्विप् । १ नारदमुनौ त्रिका० २ मरीच्यादा च ।

विधात्रायुम् पु० विधातुरायुः प्रमाणं यस्मात् । सूर्य्ये शब्दच०

सूर्य्यक्रियां विना वत्सरादिज्ञानासम्भवात् सूर्य्यस्य
तथात्वम् । ६ त० । तस्य वयःकाले २ महाकल्पे च । तदायुः-
कालस आयुस्शब्दे ७९२ पृ० दृश्यः ।

विधान न० वि + धा ल्युट् । १ करणे २ कर्मणि । ३ विधौ,

जटा० ३ गजभक्ष्यान्ने च हारा० वंज्ञायां कन् । अथायां
म० शब्दर० ।

विधानज्ञ पु० विधानं जानाति ज्ञा--क । १ पण्डिते । २ विधिज्ञे त्रि० ।

विधायक त्रि० वि + धा--ण्वुल् । विधानकर्त्तरि ।

विधि पु० वि + धा--कि । १ गजत्स्रष्टरि ब्रह्मणि, ३ भाग्ये

३ क्रमे अमरः “चिकीर्माकृतिसाध्यत्वहेतुधीविषयो विधि-
शब्दश० उक्ते प्रवर्त्तनारूपे ४ नियोगे तज्जनके ५ वाक्ये
हेमच० । ६ विष्णो हलाय० ७ कमणि त्रिका० । ८
मजमक्ष्यान्ने जटा० । ९ वैद्ये राजनि० । १० अप्राप्तप्रामकरूपे
वाक्यभेदे, व्याकरणोक्ते ११ सूत्रभेदे । तत्र व्याकरणवि-
घिर्निरूप्यते । “संज्ञा च परिभाषा च विधिर्नियम
एव च । अतिदेशोऽधिकारश्च” षड्विधमूत्रलक्षणमित्युक्तेः ।
षट्विधिभेदाः तत्र “तुन्याप्य प्रयत्नं सवर्णम्” पा० सवर्णमंज्ञा
परिभाषा तच्छब्दे ४२४९ पृ० उक्ता । अप्राप्तप्रापको विधिः
यथा “अकः सवर्णे दीर्घः” पा० इत्यादि । अत्र सवर्णे परे
पूर्वस्य दीर्घस्याप्राप्तेस्तत्प्रापकत्वात् तथात्वम् । स च द्वि-
विधः वर्णाद्युत्पादकोऽभावरूपश्च । तत्र वर्णोत्पादक उक्तः
अभावोऽपि द्विविधः लोपरूपो निषेधरूपश्च तत्र “लोपो-
ऽभ्यासस्येति” पा० नाशरूपः । “नाभ्यस्ताच्छतुरित्यादौ”
निषेधरूपः । सामान्यप्राप्तस्य विशेषावधारको नियमः
यथा “रात्मस्यैव” पा० इत्यादि । अन्थधर्मस्याम्यत्रारो-
पणविधिरतिदेशविधिःयथा पुंवद्भावादिः । पूर्वसूत्रस्त्रप-
दादेरन्यत्रोपस्थितिरधिकारविधिः । स च त्रिविधः
“सिंहावलोकितं चैव मण्डूकप्लुतमेव वा । गङ्गा-
प्रवाहवच्चापि ह्यधिकारस्त्रिधा मतः” । अधिकारशब्दे
१२७ पृ० दृश्यम् । विधिश्च विनियोगरूपतया शब्दश० प्र०
निरूपितो यथा
“नेह कृत्यात्मकं विधानम् । आख्यातमात्रस्य तद्बोध-
समर्थत्वात् किन्तु प्रवर्त्तकचिकीर्षायां यतप्रकारकज्ञानस्य
हेतुत्वं स तथा, तादृशञ्च कृतिसाध्यत्वमिष्टसाधवत्वम्
बलवदनिष्टाननुवन्धिवञ्च पत्येकमेय, यागपाकादि-
धर्मिकतन्निश्चयादेव यागादिधर्मिकचिकीर्षोत्पत्त्या तत्र
प्रवृत्तेः । एवञ्च यजेतेत्यादौ यागः कृतिसाध्यः इष्ट-
साधनं बलवदनिष्टाननुबन्धी चेत्याकारको बोधः”
अधिकं तत्र दृश्यम् । मीनांसकमते विधिस्वरूपभेदादिकं
लौगाक्षिभास्करेण दर्शितं यथा
“तत्राज्ञातार्थज्ञापको वेदभागो विधि । म च तादृश-
प्रयोजनवदर्थविधानेनार्थवान् तादृशं चार्थं प्रमाणान्त-
रेणप्रापुं विधत्ते । यथान्धिष्ठोत्रं जुहुयात् स्वर्ग-
काम इति विधिर्मानान्तरेणाप्राप्तस्थर्गप्रयोजनवद्धोमं
विधत्ते । अग्निहोत्रहोमेन खर्गं भावयेदिति बाक्या-
र्थबोधः” । “यत्र कर्म मानान्तरेण प्राप्तं, तत्र तदुद्दे-
शेन गुणमात्रं विघत्ते । यथा दध्ना जुहोतीत्यत्र
होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाद्धोमोद्देशेन
दधिमात्रविधानं दध्ना होमं भावयेदिति । यत्र
तूभयमप्राप्तं तत्र विशिष्टं विधत्तेः यथा सोमेन यजेते-
त्यत्र सोमयागयोरप्राप्तत्वात् सोमविशिष्टविधानम् ।
सामपदे मत्वर्थलक्षणया सोमवता यागेनेष्टं भावयेदिति
वाक्यार्थकोधः । न चाभर्वविधाने वाक्यभेदः प्रत्ये-
पृष्ठ ४९०८
कमुभयस्याविधानात् । न च ज्योतिष्टोमेन स्वर्गकामो
यजेतति विपिप्राप्तोद्देशेन सोमरूपगुणविधानमेवास्तु
सोमेन यागं भावयेदिति, किं मत्वर्थलक्षणयेति
वाच्यम् । तस्याधिकारंविधित्वेगोत्पत्तिविधित्वासम्भवात् ।
ननूद्भिदा यजेत पशुकाम इत्यत्रेव ज्यातिष्टोमेनेत्यत्रःप्यु-
त्पत्यधिकारविधित्वमस्त्विति चेन्न, दृष्टान्ते उत्पत्तिबा-
क्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात् । किञ्च
ज्योतिष्टोमेनेत्यस्योभयविधित्वे तेनैव यागस्तस्य
फलसम्बन्धोऽपि बोधनीय इति सुदृढ़ो वाक्यभेदस्तद्वरं
सोमपदे मत्वर्फलक्षणया विशिष्टविधानम् । स च विधिश्चतुर्विधः
उत्पात्तविधिर्विनियोगविधिः, अधिकारविधिः, प्रयोगवि-
धिश्चेति । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः ।
यथाग्निहोत्र जुहोतीति । अत्र च विधौ कर्मणः
करणत्वेनान्वयः आग्नहोत्रहोमेनेष्टं भागयेदिति ।
ननु यागस्य द्वे रूपे द्रव्यं देवता च! तथाच रूपाश्र-
वणे अग्निद्वोत्रं जुहोतीति कथमुपत्तिविधिः अग्नि-
होत्रशब्दस्य तु तत्प्रख्यन्यायेन नामधेयत्वादिति चेन्न
रूपाश्रवणेऽप्यश्योत्मत्तिविधित्वात् । अन्न्यथा रूपश्रवणा-
द्दध्ना जहोतीति अयमवोत्पत्तिविधिः स्यात् । तया
चाग्निहात्र जहोतीति वाक्यमनर्थकं स्यात् । अङ्गप्रधान-
सम्बन्धवाधको विधिर्विनियोगविधिः । यथा दघ्ना जुहो-
तीति । स हि तृतीयया प्रतिपन्नाङ्गभावं दध्ना
होमसम्बन्धं विवत्ते दध्ना हीमं भावयेदिति । गुणविघौ
च धात्वर्थस्य साध्यत्वेनैवान्वयः । क्वचिदाश्रयत्वेनापि
यथा दध्नन्द्रियकामस्य जुहुयादित्यत्र दधिकरणत्वेने-
न्द्रियं भावयेत् तच्च किंनिष्ठमित्य काङायां सन्निधि-
प्राप्तहोम आश्रवत्वेनान्वेति । एतस्य विधेः सहकारि-
मूतानि षट्प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थान-
समाख्यारूपाणि । एतत्सहकृतेनानेन विधिनाङ्गत्वं
परोदृशप्रवृत्तकृतिसाव्यत्वरूपं परार्थ्यापरपर्य्यायं ज्ञाप्यते”
ततः तत्सहकाराणि श्रुत्यादीनि निरूपितानि तत्र
दृश्यानि “तदेवं निरूपितानि सङ्क्षेपतः श्रुत्यादीनि षट्
प्रमाणानि । एतत् सहकृतेन विनियोगविधिना समिदा-
दिभिरुपक्रम्य “दर्शपूणमासाभ्यां यजेत” इत्येवं रूपेण
यानि विनियाज्यन्ते तान्यङ्गानि द्विविधानि सिद्धरू-
पाणि, कियारूपाणि चेति । तत्र सिद्धानि जाति-
द्रव्यसङ्ख्यादीनि तानि च दृष्टार्थान्येव । क्रियारूपाणि
च । द्वबिवानि । गुणकर्माणि प्रधानकर्माणि च । एता-
न्येव सन्निपत्योपकारकाणि आरादुपकारकाणीति
चोच्यते । कर्माङ्गद्रव्याद्युद्देशेन विधीयमानं कर्म सान्न-
पत्योपकारकम् । यथाऽवघातप्रोक्षणादि तच्च दृष्टार्थ-
मदृष्टार्थं दृष्टादृष्टार्थं चेति । दृष्टार्थमवर्घातादि
अदृष्टार्थं प्रोक्षणादि । दृष्टादृष्टार्थं पशुपुरोड़ाशादि ।
तद्धि द्रव्यत्यागांशेनैवादृष्टं देवतोद्देशेन च देवतास्मरणं
दृष्टं करोति । द्रव्याद्यनुद्दिश्य केवलं विधीयमान
कर्म त्वारादुपकारकम् । यथा प्रयाजादि । आरादुपका-
रकञ्च परमापूर्वोत्पत्तावेवोपयुज्यते । सन्निपत्योपकारकन्तु
द्रव्यदेवतासंस्कारद्वारा यागस्वरूपेऽप्युपयुज्यते । इदमेव
चाश्रयिकर्मेत्युच्यते । तदेवं निरूपितः सङ्खेपतो
विनियोगविधिः । प्रयोगप्राशुभाववोधको विधिः प्रयाग-
विधिः । स चाङ्गवाक्यैकतापन्नः प्रधानविधिरेव । स हि
साङ्गं प्रधानमर्नुष्ठापयन्विलम्बे प्रमाणाभावादविलम्बा-
परपर्य्याय प्रयोगप्राशुभावं विधत्ते । न च तदवि-
लम्बेऽपि प्रमाणाभाव इति वाच्यं विलम्बे ह्यङ्गप्रधान-
विध्येकवाक्यतावगततत्साहित्यानुपपत्तिः विकस्तेन
कियमाणयोः पदार्थयोः इदमनेन सहकतमिति साहिन्य-
व्यवहाराभावात् । स चाविलन्वी नियते क्रम आश्रि-
यमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत् कर्त्त-
व्यमेददनन्तरं वेति प्रयोगविक्षेपापत्तेः । अतः प्रयोग-
विधिरेव स्वविधेयप्रयोगप्राशुभावसिद्ध्यर्थं नियतं क्रममपि
पदार्थविशेषणतया विधत्ते । अतएवाङ्गानां क्रमबोधको
विधिः प्रयोगविधिरित्यपि लक्षणम्” ।
“तदेवं संक्षेपतो निरूपितः षड्विध क्रमनिरूपणेन
प्रयोगविधिः । कर्भजन्यफलस्वास्यबोधकोविधिरधिकार-
विधिः । कर्मजन्यफलखान्यं च कर्मसन्यफलभोक्तृत्वम् ।
स च यजेत स्वर्गकाम इत्यादिरूपः, र्गमुद्दिश्य यागं
विदधतानेन स्वगकामस्य यागजन्यफलभोक्तृत्वं प्रति-
पाद्यते “यस्याहिताग्नेरग्निर्गृहान्दहेत्सोऽग्नयेऽणामव-
तेऽष्टाकपालं पुरोडाशं निर्वपेत” इत्यादिना दाहादौ
निमित्ते कर्म विदघता निमित्तवत कर्मजन्यपापक्षयरूप-
फलस्वाम्यं प्रतिपाद्यते । एवम् “अहरहः सन्ध्यामुपा-
सीत” इत्यादिना शचिविहितकालजीविनः सन्ध्योपासना-
जन्यप्रत्यवायपरिहाररूपफलस्वाम्यं बोध्यते । तच्च
फलस्वाम्यं तस्यैव योऽधिकारविशिष्टः । अधिकारश्च स एव
यद्विधिवाक्ये पुरुषविशेषणत्वेन श्रूयते यथा काम्ये
कर्मणि फलकामना । नैमित्तिके कर्मणि निमित्तनिश्चयः ।
पृष्ठ ४९०९
नित्ये सन्ध्योपासनादौ शुचिविहितकालजीवित्वम्
अतएव “राजा राजसूयेन स्वाराज्यकामोयजेत” इत्यनेन
विषिवाठ्येन स्वाराज्यमुद्दिश्य राजसूयं विदधता न
स्वराज्यकाममात्रस्य फलभोक्तृत्वं प्रतिपाद्यते किन्तु राज्ञः
सत स्वाराज्यकामस्यैव राजसूयस्यापि अधिकारि-
विशेषणत्वेन श्रवणात् । किञ्चित् तु पुरुषविशेषणत्वेना-
श्रुतमप्यधिकारिविशेषणं यथाध्ययनविधिसिद्धा विद्या
क्रतुविधीनामर्थज्ञानापेक्षत्वेनाध्ययनविधिसिद्धार्थज्ञानवन्त-
प्रत्येव प्रवृत्तेः । एवमग्निसाध्यकर्मसु आधानसिद्धाग्नि-
मता अग्निसाध्यकर्मणा । मग्न्यपेक्षत्वेन तद्विघीनामाधान-
सिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः । एवं सामर्थ्यमपि आख्या-
तानामर्थं ब्रुवतां शक्ति सहकारिणोति न्यायात्
समर्थं प्रत्येव विधिप्रवृत्तेः । तदेवं निरूपितो विधिः” ।
विधिरसायने च विधिभेदोऽन्यथा दर्शितो यथा
“विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र
चान्यत्र च प्राप्तौ परिसंख्येति गोयते” तत्तच्छब्दे विशेषो
दृश्यः । १२ अर्थालङ्कारभेदे च । अलङ्कारशब्दे ४०३ पृ०
दृश्यम् ।

विधिज्ञ त्रि० विधिं क्रमं जानाति ज्ञा--क । विधानक्रमज्ञे ।

विधित्सा स्त्री विधातुमिच्छा वि + धा--सन् भावे अ । विधा-

गेच्छायाम् ।

विधिदेशक पु० विधिं विधानं दिशति दिश + ण्वुल् । विधि-

दर्शिनि १ मदस्ये अमरः २ गुरौ च ।

विधिवत् अव्य० विधिमर्हति विधि + वति । विध्यनुसारे

विधु पु० व्यध--क । १ चन्द्रे २ कर्पूरे ३ विष्णौ मेदि० । ४ ब्रह्मणि

शब्दर० । ५ शङ्करे ६ राक्षसे विश्वः । ७ वायौ ८ युधि च
संक्षिप्नसा० ।

विधुत त्रि० वि + धु--क्त १ कम्पिते । २ त्यक्ते च अमरः ।

विधुनन न० वि + धु--णिच्--नुक्च । चालने जटा० ।

विधुन्तुद पु० विधुं तुदति तुद--खश् मुम्च । राहौ अमरः

विधुपिञ्जर पु० विधोः पिञ्जर इव । १ खड्गे शब्दर० ।

विधुर त्रि० विगता धूर्यस्य अच्समा० । १ विश्लेष्टे अमरः ।

२ विकले च मेदि० । विगता धूः । ३ वैकल्ये ४ विश्लेषे
च न० त्रिका० । ५ रमालायां स्त्री मेदि० ।

विधुवन न० वि + धु--ल्युट् । अम्पने अमरः ।

विधूत त्रि० वि + धू--क्त । १ कम्पिते २ थक्ते च हेमच० ।

“विधूतपापास्ते यान्ति” ब्रह्मलोकमनाजयम” स्मृतिः ।

विधेय त्रि० वि + धा--यत् । १ विधातं योग्ये २ वचनस्थे आ-

यत्ते अमरः । ३ विधिना बोध्ये च । ४ उद्देश्यप्रकार-
तया ज्ञाययाने विलक्षणविषयतायुते पदार्थे यथा
पर्वतो वह्निमानित्यादौ वह्निर्विधेयः । पचतीत्यादौ
पाककृतिः आख्यातार्थस्य विधेयतयैव बोधस्याङ्गी-
कारात् । विधेयता तु विलक्षणविषयता अनुवाद्य-
भिन्ननिष्ठा “अनुवादमनुक्त्वा च न विधेयमुदीरयेत्” इति
शाब्दिकनियमः । प्रत्यक्षादिप्रमितविशेष्यतावच्छेदकता-
भिन्ना विशेष्यतानिरूपिता च सेत्यन्ये ।

विधेयाविमर्श पु० विधेयस्याविमर्षो यत्र । अविमृष्ट-

विधेयांशरूपे काव्यदोषभेदे दोषशब्दे ३७६३ पृ० तस्य
स्वरूपादिकं दृश्यम् ।

विध्याभास पु० अर्थालङ्कारभेदे सा० द० अलङ्कारशब्दे ४०३ पृ० दृश्यम् ।

विध्वंस पु० वि + ध्वन्स घञ् । नाशे ।

विनत त्रि० वि + नम--क्त । १ प्रणते २ भुग्ने ३ शिक्षिते च

मेदि० । गरुड़मातरि ४ कश्यपपत्नोभेदे ५ पिटकाभेदे च
स्त्री मेदि ।

विनतासूनु पु० ६ त० । १ अरुणे २ गरुड़े च जटा० । विनतात्मजादयोऽप्युभयत्र ।

विनद पु० विशेषेण नदति नद--अच् । (छातियान) वृक्षे

शब्दच० ।

विनम्रक न० विशेषेण नम्रमिव इवार्थे कन् । तगरपुष्पे राजनि० ।

विनय पु० वि + नी--भावे अच् । १ शिक्षायां । २ प्रणामे

३ अनुमये च मेदि० । वि + नी--कर्त्तरि अच् । ३ विनययुक्ते,
जने, विनयश्च शास्त्रज्ञानजन्यसंस्कारनेदः इन्द्रियसंयमा वा ।
४ निभृते, ५ क्षिप्ते, ६ जितेन्द्रिये च । ७ वणिग्जने पु०
अमरः । ८ दण्डे व्यव० त० । ९ वाट्यालके स्त्री वेदि० ।

विनयग्राहिन् त्रि० विनयं शिक्षां गृह्णाति ग्रह णिनि ।

वचनस्थिते आयत्ते अमरः । स्त्रियां ङीप् ।

विनयस्थ त्रि० विनये तिष्ठति स्था--क । वचनग्राहिणि

आयत्ते हेमच० ।

विनशन न० वि + नश--ल्युट् । १ विनाशे । विनश्यति पदर्शनं

गच्छति सरस्वत्यत्र वि--नश + आधारे ल्युट् । २ कुरु-
क्षेत्रस्थे तीर्थभेदे त्रिका० । “हिमवद्विन्ध्ययोर्मध्यं
यत् माग् विनशनादपि” मनुः । स च सरस्वत्यन्त-
र्धानदेश एव प्रभासतीर्थसन्निकृष्टनिषादपुरसमीपस्थः
यथोक्तं भा० व० १३० अ० ।
“एषा सरस्वती रम्या दिव्या चोघवती गदी । एतद्विन-
शनं नाक सरस्यत्या विशाम्पते । द्वारं निपादरष्ट्रस्य येषां
दोषात् सरस्वई । प्रविष्टा पृथिवीं वीर! मा निषादा हि
पृष्ठ ४९१०
मां विदुः” । “शुक्लपक्षसप्तम्या दीक्षा सरस्वतीविनशते”
कात्या० श्री० २४ । ५ । ३० । “सरस्वतीविनशने सरस्वती
समुद्रसङ्गमे प्रभासे मारस्वतसत्रार्थं दीक्षा भवति” कर्कः
यत्र सरस्वत्यन्तर्भवति तद्विनशनमुच्यत इत्याग्नस्वामिनः ।
“सरस्वती नाम नदा प्रत्यक्स्रोता प्रवहात तस्याः प्राग
परभागौ सर्वलोकप्रत्यक्षौ मध्यमस्तु मागो भूम्यन्त-
र्निमग्न प्रवहति नासौ केनाचद् दृश्यते तद्विनशन-
मुच्यत” इति लाट्या० १० । १५ । १ माधवाचार्य्याः ।

विनष्ट त्रि० वि + नश--स्य । १ विनाशपतियागिनि २ पतिते

च “विनष्टे वाप्यशरणे पितर्युपरतस्पृहे” नारदः ।
“विनष्टे पतिते” दायभा० ।

विना अव्य० वि + ना । १ वर्ज्जने २ अन्तरंणेत्यर्थे च । एतद्योगे

२ द्वितीया तृतीया पञ्चमी च ।

विनाकृत त्रि० विनेति कृतम् विना + कृ--क्त । १ त्यक्ते २ रहिते च त्रिका० ।

विनाडिका स्त्री विभक्ता नाडिका यया । “दश गुर्वक्षरः

प्राणः षड्भिः प्राणैर्विनाडिका । तत्पष्ट्या तु भवेन्नाडी”
सू० सि० उक्ते दण्डषष्टिभागात्मके पलरूपे काले ।

विनायक पु० वि + नी--ण्वुल् । १ गणेशे २ बुद्धे अमरः

३ विघ्ने ४ गुरौ च । ६ त० । ५ गरुड़े मेदि० । ६ गरुड़पत्न्यां
स्त्री शब्दमा० टाप् कापि अत इत्त्वम् ।
विनायकश्च कर्मविघ्नसिद्ध्यर्थमीश्वरेण नियुक्तः वेवभेदः
यथोक्तं याज्ञवलक्येन “विनायकः कर्मविघ्नसिद्ध्यर्थं
विनियोजितः । गणानामाधिपत्य च रुद्रेण ब्रह्मणा तथा”
“कर्मणां पुरुषार्घसाधनानां विघ्नसिद्ध्यर्थं स्वरूपफलसाध
नत्वविघातसिद्ध्यर्घं नियोजितो नियुक्तः” मिता० ।
तेनोपसृष्टस्य लक्षणान्याह म एव “तेनोपसृष्टो
यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं
मुण्डाःश्च पश्यति । कपायवासमश्चैव क्रव्यादांश्चाधिरो-
हति । अन्त्यजैर्गर्दमैरुष्ट्रैः सहैकत्रावतिष्ठति । व्रजत्यपि
तथात्मानं मन्यतेऽनुगतं परैः” तस्य प्रत्यक्षलक्षणान्याह
स एव “विसना विकलारम्भः संसीदत्यनिमित्ततः ।
तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी न
च भर्त्तारमपत्यं नर्भमकना । आचार्य्यत्वं श्रोत्रियश्च न
शिष्योऽध्ययनं तथा । वणिगलाभं न चाप्नोति कृषि-
ञ्चापि कृषीवलः” तन्निवारणविघिश्च तत्रोक्तो दृश्यः ।
“विनायका विघ्नकारा महोग्राः” रक्षामन्त्रः ।

विनारुहा स्त्री विना मूलं विना रोहति रुह--क १ त्रि-

पर्णिकायां राजनि० ।

विनाश पु० वि + नश अञ् । १ ध्वंसे २ अदर्शने च ।

विनाशोन्मुख त्रि० विनाशाय उन्मुख उद्यतः । १ नष्टप्रावे

२ पक्वे च अमरः ।

वि(वी)नाह पु० वि + नह--घञ वा उपसर्गदीर्घः । कूपमुखपिधाने शब्दच० ।

विनिद्र त्रि० विगता निद्रा यस्य । १ प्रकाशिते शब्दमा० । २ निद्रा-

हीने च । तस्य भावः । त्वा विनिद्रत्व प्रबोधे न० हेमच० ।

विनिपात पु० वि + नि + पत--घञ् । १ निपाते २ दैवादिकृते

व्यसने मेदि० ३ अपमाने च हेमच० ।

विनिमय पु० वि + नि + मि--अच् । परिवर्त्ते १ तुल्यद्रव्यदानेन

द्रव्यान्तरग्रहणे शब्दच० । २ बन्धक च शब्दमा० ।

विनियोग पु० वि + नि--युज--घञ् । क्रियासु प्रवर्त्तने

“लनेनेदन्तु कर्त्तव्यं विनियोगः प्रकीर्त्तितः इत्युक्ते २
अनुष्टानक्रमविष्ठाने च “आर्षं छन्दश्च देवत्य विनियोगस्त-
थैव चेति” योगियाज्ञ० ।

विनिर्भय त्रि० विनिर्गतं भयं यस्मात् । १ भयशून्ये साध्यदेवगणभेदे पु० वह्निपु० ।

विनीत त्रि० वि + नी--क्त । १ विनययुक्ते २ कृतदण्डे ३ क्षिप्ते

अमरः ४ अपनीते ५ निभृते च । ६ जितेन्द्रिये ७ हृते
च मेदि० । ८ सुशिक्षिताश्वे अमरः । ९ मदनवृक्षे च पु०
१० शिक्षितवृषादौ राजनि० ११ वणिजि पु० मेदि० ।

विनीय पु० वि + नी--क्यप् । १ कल्के २ पापे च ल्यप्

शिक्षयित्वेत्याद्यर्थे अव्य० ।

विनेतृ त्रि० वि + नी--तृच् । १ शिक्षके २ नृपे पु० मेदि० ।

विनेय त्रि० वि + नी--यत् । १ शिक्षणीये २ प्राप्ये च ।

विनोक्ति स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०३ पृ० दृश्यम्

विनोद पु० वि + नुद--घञ् । १ कौतूहले हला० । २ क्रोड़ायां

३ खण्डने च । ४ गृहभेदे “दीर्घे त्रयोदशहस्ताः प्रमा-
रतो द्वौ प्रथितौ । विनोद एष द्वाराणि त्रिंशत्कोष्ठ-
द्वयं भवेत्” युक्तिक० ।

विन्ध्य पु० विध--यत पृषो० मुम् च । १ पर्वतभेदे अमरः ।

२ व्याधे च । ३ लवनीवृक्षे स्त्री मेदि० । ४ सूक्ष्मेलायां
हेमच० । ५ आवन्त्ये नृपभेदे पु० अनुविन्ध्यशब्दे १८५
पृ० दृश्यम् ।

विन्ध्यवासिना स्त्री विन्ध्येऽचले वसति वस--णिनि ङीप् ।

यशोदागर्भजातायां दुर्गायाम् । “महस्राक्षोऽपि तां
(यशोदागर्भजकन्याम्) गृह्य विन्ध्यं वेगाज्जगाम ह ।
तत्र गत्वा तथोवाच तिष्ठस्वात्र महावने । पूज्यमाना
सुरैर्नाम्ना ख्याता त्वं बिन्ध्यवासिनी” वामनपु० ५१ अ० ।
“ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी” देवीपा० ।
२ व्याडिमुनौ पु० हेमच० । विन्ध्यस्थोऽप्यत्र जटा० ।
पृष्ठ ४९११

विन्ध्याचल पु० कर्म० । विन्ध्यपर्वते ।

विन्ध्याटवी स्त्री विन्ध्यस्था अटवी । विन्ध्यपर्वतस्थे वनभेदे ।

विन्ध्यावली स्त्री वाणासुरमातरि त्रिका० ।

विन्न त्रि० विद--कर्मणि क्त । १ विचारिते २ प्राप्ते अमरः ।

३ ज्ञाते ४ स्थिते च विश्वः ।

विन्याक पु० वि + नि + अक--घञ् । विद्धवृक्षे (छातियान) शब्दच० ।

विन्यास पु० वि + नि + अस--घञ् १ स्थापने २ रचने तन्त्रोक्ते

मन्त्राद्युच्चारणपूर्वकं हृदयादिषु अङ्गुल्यादीनां अर्पण-
भेदे च ।

विप क्षेपे चु० उभ० सक० सेट् । वेपयति--ते अवीविपत् त ।

विपक्त्रिम त्रि० विपाकेन निर्वृत्तः वि + पच--क्त्रि मपच् ।

विपाकाधीनजाते “विपक्त्रिमज्ञानगतिर्मनस्वी” भट्टिः ।

विपक्ष त्रि० विरुद्धः पक्षो यस्य । १ शत्रौ अमरः । २ प्रतिकूल-

पक्षावलम्बिनि च । विरुद्धः पक्षः प्रा० स० । ३ प्रतिकूले
पक्षे विवादे अर्थिसमल्लिखितपक्षस्य विरुद्धे ४ पक्षे च ।

विपञ्ची स्त्री वि + पचि--अच् गौरा० ङीष् । १ वीणायाम्

अमरः । २ केलौ मेदि० । स्वार्थे क ह्रस्वः । विपञ्चिका
तत्रैव ।

विपण पु० वि + पण--घञर्थे क । विक्रये अमरः ।

विपणि(णी) पुंस्त्री० वि + पण--इन् स्त्रीत्वपक्षे वा ङीप् ।

१ पण्यविक्रयशालायाम् (हाटचाला) २ हट्टे च अमरः ।
क्रये मेदि० ।

विपणिन् पु० वि + पण--बा० इनि । विक्रेतरि वणिजि जटा०

विपत्ति स्त्री वि + पद--क्तिन् । आपदि अमरः । २ नाशे

३ यातनायाञ्च मेदि० । “यस्मिन् राशौ गते भानौ विपत्तिं
यान्ति मानवाः” म० त० ।

विपथ पु० विरुद्धः पन्थाः अचसमा० । निन्दितमार्गे अमरः

विपद्(दा) स्त्री वि + पद--सम्प० क्विप् वा टाप् । १ विपत्तौ

ज्यो० उक्ते जन्मतारातः तृतीयद्वादशैकविंशतिसंख्याक
नक्षत्रे च “विपत्तारे गुड़ंदद्यात्” ज्यो० त० ।

विपन्न त्रि० वि + पद--क्त । १ विपद्युक्ते मेदि० २ नष्टे च

शब्दच० । ३ सर्पे पुंस्त्री० मेदि० स्त्रियां ङीष् ।

विपरीत त्रि० वि + परि + इण--क्त । १ प्रतिकूले जटा० । २ त्यक्त-

क्रमे च ३ कामुक्यां स्त्री ४ नारीणां पुरुषायितरसणे नं
“महाकालेन च समं विपरीतरतातुराम्” कर्पूरस्तवः । “पाद-
मेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम । नारीपु रमते
कामी विपरीतस्तु बन्धक” रतिम० उक्ते ५ रतिबन्धभेदे ।
संज्ञायां कम् । “पादमेकमूरा कत्वा द्वितीयं स्कन्धसंस्थि-
तम् । कामिनीं कामयेत् कामी बन्धः स्यात् विपरीतकः”
स्मरदीपिकोक्ते रतिमन्धभेदे ।

विपर्णक पु० विगतानि पर्णान्यस्य कप् । १ पुष्पप्रधाने

पलाशवृक्षे शब्दच० । २ अल्पपत्त्रके त्रि० ।

विपर्य्यय पु० वि + परि + इण--अच् । व्यतिक्रमे । २ अतस्मिं-

स्तद्बुद्धौ च । पात० उक्ते ३ चित्तवृत्तिभेदे
“विपर्य्ययो मिथ्याज्ञानमतत्प्रतिष्ठम्” पात० सू० ।
“संशयस्यापि विपर्य्यत्वमतद्रूपप्रतिष्ठानत्वात् तस्य
तद्धर्मिकभावाभावगोचरतया एकांशे अतद्रूपप्रतिष्ठत्वान
पायात् । स कस्मात् न प्रमाणम्? । यतः प्रमाणन
बाध्यते भूतार्थविषयत्वात् प्रमाणस्य, तत्र प्रमाणेन
बाधनमप्रमाणस्य दृष्ठम् । तद्यथा द्विचन्द्रदर्शनं सद्विषययेणैक-
चन्द्रदर्शनेन बाध्यते” भा० । “स च पञ्चविधः अविद्या-
ऽस्मितारागद्वेशामिनिवेशाः पञ्च क्लेशाः” पात० सू० ।
इति पञ्च विपर्य्याया । इत्यादि भा० ।

विपर्य्यस्त त्रि० वि + परि + अस--क्षेपे क्त । १ व्यतिक्रान्ते २ परावृत्ते च

विपर्य्यास पु० वि + परि + अस--घञ् । १ वैपरीत्ये २ व्यति-

क्रमे ३ उत्क्षेपे च । ४ विपर्य्यये भ्रान्तौ च ।

विपल न० विमक्तं फलं येन प्रा० ब० । फलषष्टिभागे कालभेदे ।

“लग्नदण्डपलं द्विघ्नं तत्संख्य क्रमतः पलम् । विपलं च
रवेर्भोग्यमेवं कल्पनमस्तमे” ज्यो० त० ।

विपश्चित् पु० विप्रकृष्टं चेतति वि + प्र + चित--क्विप् पृषो० । पण्डिते अमरः ।

विपाक पु० वि + पच--भावे घञ् । १ पाके २ स्वेदे च ।

कर्मणि घञ् । २ कर्मफलपरिणामे जात्यायुर्भोगरूपे पदार्थे ।
“सति मूले तद्विपाको जात्यायुर्भोघाः” पात० सू० “सतसु
क्लेशेषु (अविद्यादिषु) कर्माशयो विपाकारम्भी भवति
नोच्छिन्नक्लेशमूलोऽपि । यथैव तुषारनद्धाः शालितण्डुलाः
अदग्धवीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा-
दग्धवीजमावा वा तथा क्लेशावनद्धः कर्माशयो विपाक-
प्ररोही भवति नापनीतक्लेशो न प्रसंख्यानदग्धवीजभावो
वेति । स च विपाकस्त्रिविधो जातिरायुर्भोगश्चेति” भा० ।

विपाश्(शा) स्त्री विगतः पाशो वशिष्ठस्य यस्याः । स्वनामख्याते

नदीभेदे अमरः । विपाशयति विभुक्तपाशं वशिष्ठं करोति
विपाश + णिच्--क्विप् । तत्रार्थे अमरः । तस्या-
स्तथात्वकथा भा० आ० १७७ अ० । “अथ पाशैस्तदात्मानं गाढं
वद्ध्वा महामुनिः (वशिष्ठः) तस्या जले महानद्या निममज्ज
सुदुःखितः । अथ छित्त्वा नदी पाशांस्तस्यारिबलसूदन! ।
पृष्ठ ४९१२
स्थलस्थ तमृषि कृत्वा विपाशं समवासृजत् । उत्ततार
ततः पाशैर्विमुक्तः स महानृषिः । विपाशेति च नामा-
स्यानद्याश्चक्र महामुनः” “शतद्रोर्विपाशायुजः सिन्धु-
नद्याः सुशीतं लघु स्वादु सर्वामयघ्नम् । जलं निर्मलं
दीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च” राजनि० ।

विपिन न० वप--इनन् पृषो० । वने अमरः ।

विपुल त्रि० वि + पुल--विस्तारे क । १ विस्तीर्णे अमरः ।

२ अगार्धे ३ मेरुपश्चिमस्थे भूधरभेदे पु० मेदि० ४ मेरौ
५ हिमाचले च धरणिः । ६ आर्य्याछन्दोभेदे स्त्री ।
“सलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ।
यस्यास्तां पिङ्गलनागा विपुलामिति समाख्याति” वृ० र० ।
विपुलाचलश्च मेरोर्विष्कम्मपर्वतभेदो यथोक्तम् विष्णुपु०
“मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । इलावृतं
महाभाग! चत्वार उपपर्वताः । विष्कम्भा रचिता मेरो-
र्योजनायुतसंस्थिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्ध-
मादनः । विपुलः पश्चिमे भाग सुपार्श्वश्च तथात्तरे” तत्र
चिह्नवृक्षादिकं तत्राक्तं यथा “कदम्ब १ स्तेषु जम्बू २ श्च
पिप्पलो ३ वट ४ एव च । एकादशशतायामाः पादपा गिरि-
केतवः । वनं चैत्ररथं १ पूर्वं दक्षिणा गन्धमादनम् २ ।
वैभ्राजं ३ पश्चिमे तद्वदुत्तरे नन्दनं ४ स्मृतम् । अरुणोदं १
महाभद्रं २ शशिमेदं ३ च मानसम् । सरांस्येव च चत्वारि
देवभोग्यानि सर्वदा” । धान्यशैलशब्दे दर्शिते दानार्थं
कल्पिते तिलमथे ७ तन्नामकपर्वते हेमा० दा० ।

विपुलास्रव स्त्री विपुल रसमास्रवात आ + स्रु--अच् । घृतकु-

मारीवृक्षे राजनि० ।

विपूय पु० वि + पू--करणे नि० क्यप् । मुञ्जे मुग्धबो० ।

विप्र पु० वप--रन् पृषो० अत इत्त्वम् वि + प्रा पूर्त्तो--क वा ।

१ ब्राह्मण अमरः “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज
उच्यत । विद्यबयाति विप्रत्व त्रिभिः श्रोत्रियौच्यते”
प्रा--वि० वाक्यम् २ अश्वत्थे राजनि० ३ विशेषेण पूरके त्रि०

विप्रकार पु० वि + प्र + कृ--घञ् । १ अपकारे अमरः । २

तिरस्कारे हेमच० ।

विप्रकाष्ठ न० विशेषेण प्राति प्रा--क विप्रं पूरकं काष्ठं यस्य । तूलवृक्षे राजनि० ।

विप्रकर्ष पु० वि + प्र + कृष--घञ् । दूरत्वे हला० ।

विप्रकृत त्रि० वि + प्र + कृ--क्त । १ उपद्रुते, २ तिरस्कृते च

“तस्मिन् विप्रकृताः काले” कुमारः ।

विप्रकृष्ट त्रि० वि + प्र + कृष--क्त । दूरस्थे हला० । स्वाथं क । तत्रैवार्थे अमरः ।

विप्रचित्ति पु० वि + प्र + चित--क्तिच् । दानवभेदे ।

विप्रतिपत्ति स्त्री वि + प्रति + पद--क्तिन् । १ विरोधे “पर०

स्परं मनुष्याणां स्वार्थे विप्रतिपत्तिषु” स्मृतिः ।
२ संशयजनके वाक्ये “व्याहतमेकार्थकं विप्रतिपत्तिः”
गौ० सू० व्याघातो विरोधोऽसहभाव इति । आत्माऽ-
स्तीत्येव दर्शनं नास्त्यात्मेत्यपरः” वा० भ० । ३ विरुद्ध-
कोटिद्वयोपस्थापके शब्दे च वादिना पर्वतो वह्निमान्
प्रतिवादिना च पर्वतो वह्न्यभाववान् इति प्रति-
ज्ञाते मध्यस्थस्य पर्वतो वह्निमान् नवेति संशय
उदेति अतस्तस्य संशयाधायकत्वात्तथात्वम् । स च
विरुद्धार्थप्रतिपादकवाक्यद्वयात्मकः पर्वतो वह्निमा-
न्नवेति संशयापादकः । “विपरीतायां निन्दितायां
च ४ प्रतिपत्तौ ५ विकृतावनूहे च “शब्देऽविप्रतिपत्तिः”
कात्या० श्रौ० अप्रतिपत्तिरनूहः” प्रतिनिधिशब्दे
४४४३ पृ० दृश्यम् ।

विप्रतिपन्न त्रि० वि + प्रति + पद--क्त । १ संदेहयुक्ते २ कृतविरोधे च ।

विप्रति(ती)सार पु० वि + प्रति + सृ--घञ् वा दीर्थ । १

अनुतापे, अनुशये, २ रोषे च मेदि० ।

विप्रयुक्त त्रि० विप्र + युज--क्त । १ वियुक्ते, २ विरहिणि च

विप्रयोग पु० वि + प्र + युज--घञ् । १ विप्रलम्भे अमरः

२ विरोधे ३ विसंवादे ४ वियोगे च । ५ रागिणोर्विच्छेदे ।

विप्रलब्ध त्रि० वि + प्र + लभ--क्त । वञ्चिते, हेमच० “प्रियः

कृत्वाऽपि सङ्केतं यस्या नायाति सन्निधिम् । विप्रलब्धेति
सा ज्ञेया” सा० द० उक्तलक्षणे नायिकाभेदे स्त्री ।

विप्रलम्भ पु० वि + प्र + लभ--घञ् मुम् च । १ विसंवादे, २ वञ्चने,

३ विरहे च अमरः । “यूनोरयुक्तयोर्भावो युक्तयोर्वाथ वा
मिथः । अभीष्टालिङ्गनादीनामनवाप्तौ प्रहृव्यते । स
विप्रलम्भो विज्ञेयः” उज्ज्वलमण्युक्ते ४ शृङ्गारावस्थाभेदे ।

विप्रलाप पु० वि + प्र + लप--घञ् । १ विरोधोक्तौ परस्परविरु-

द्धार्थककने अमरः । २ अनर्थकवाक्ये हेमच० ।

विप्रलोभिन् पु० विप्रलोभयति वि + प्र + लुभ + णिच्--णिनि ।

किंकिरातवृक्षे, अशोकवृक्षे । राजनि० ।

विप्रश्निका स्त्री विशेषेण प्रश्नायस्याः ५ ब० कप् अत इत्त्वम् ।

दैवज्ञाया स्त्रियाम् अमरः ।

विप्रसात् अव्य० विप्रस्याधीनं करोति विप्र + साति । विप्रस्याधीनतायाम् ।

विप्रस्व न० ६ त० । विप्रस्वामिके धने ।

विप्रिय पु० विरुद्धं प्रियं वि + प्री--क वा । १ अपराधे हेमच० ।

२ अप्रिये च “कृतवानसि विप्रियं न मे” कुमार
प्रादि० ६ व० । विगतपिये त्रि० ।
पृष्ठ ४९१३

विप्रुष स्त्री० ब० व० वि + प्रुष--क्विप् । १ विन्दुषु २ वेदपाठकाले

मुखनिर्गतजलविन्दुषु अमरः ।
“मक्षिका विप्रुषच्छाया गौरश्वः सूर्य्यरश्मयः । रजो भूर्वा-
युरग्निश्च स्पर्शमेध्यानि निर्दिशेत्” शु० त० । आचमनकाले
मुखनिःसृतानां तासां नोच्छिष्टदोषजनकता यथाह
“नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽडं नयन्ति याः । दन्त-
वन् दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत्” कूर्म० उ० ३ अ० ।

विप्रोषित त्रि० वि + प्र + वस--क्त । गतप्रवासे ।

विप्लव पु० वि + प्लु--अप् । १ परनृपतिराष्ट्रादिता भये । २ राष्ट्रो-

पद्रव च अमरः ।

विप्लाव पु० वि + प्लु--घञ् । अश्वस्य १ गतिभेदे २ समन्तात् जलप्लावे च ।

विप्लुत त्रि० वि + प्लु--क्त । १ व्यसनयुक्ते हेमच० २ उपद्रुते च

“अविप्लुतब्रह्मचर्य्यः” स्मृतिः

विफल त्रि० विगत फलमस्य । १ निरर्थके २ फलरहिते च ३ केतक्यां स्त्री० राजनि० ।

विबध पु० विगतो बधो हननं गतिर्यस्मात् । संगृहीतधा-

न्यतण्डुलादौ “निरुद्धविबधासारेति” ति माघः पृषो० ।
दीर्घः वीबध तत्रार्थे विश्वः ।

विबन्ध पु० विबन्धाति मलस् वि + बन्ध--अच् । मलबन्धकारके रोगभेदे अमरः ।

विबुध पु० वि + बुध--क । १ पण्डिते मेदि० २ देवे अमरः

“विबुधसखः” भट्टिः । ३ चन्द्रे च हेमच० ।

विभक्त त्रि० वि + भज--क्त । १ पृथक्कृते २ विभिन्ने

कृतविभागे च ३ भाव क्त । ३ विभागे ४ भेदे न० । “पञ्चमी
विभक्ते” पा० । यस्य विभागः कृतः ५ तादृशे धने “अविभक्तं
स्थावरं यत् सवषामेव तत् भवेत् । विभक्तं स्थावरं
ग्राह्यं नान्योदर्य्यैः कथञ्चन” यमवचनम् । तदस्यास्ति
अच् । येन धनस्य विभागःकृतस्तस्मिन् ६ जने तत्र ।
विभक्तधर्मादिकं दायभागादौ दर्शितं यथा
“भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते । तद
भावे विभक्तानां धर्मस्तेषां विवर्द्धते” “विभक्तानां
स्वमात्रधनेन वैदिककरणातन्मात्रधर्मत्वेन तद्वृद्धिः”
दाय० त० रघु० । “दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः । साक्षित्वं
प्रातिभाव्यञ्च दानं ग्रहणमेव च । विभक्ता भ्रातरः
कुर्युर्नाविभक्ताः परस्परम् । येषामेताः क्रिया लोके
प्रवर्त्तन्ते स्वरिक्यतः । विभक्तानवगच्छेयुर्लेख्यमप्य-
न्तरेण तान्” नारदः “भ्रातृनामथ दम्पत्योः पितृः पुत्रस्य
चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तद्
भवेत्” याज्ञ० । “बन्धूनासविभक्तानां भोगं नैव प्रदापयेत्”
कात्या “भ्रातॄणामविभक्तानामेको धर्म प्रवर्त्तते ।
विभागे सति धर्मोऽपि भवेत् तेषां पृथक् पृथक्” कात्या०
“अविभक्ता विभक्ता वा कुर्युः श्राद्धञ्च दैविकम् ।
मघासु च तथान्यत्र नाधिकार पृथग् विना” श्रा० त०
धृतवचनम् । “वहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः ।
सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् । द्रव्येण
चाविभक्तेन मर्वैरेव कृतं भवेत्” शु० त० । “अविभक्ता
विभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः
सर्वत्र दानाधमनविक्रये” नारदः । “एतत् दुर्वृत्त-
पुरुषविक्रयविषयमिति” दाय० त० रघु० ।

विभक्ति स्त्री वि + भज--क्तिन् । १ विभागे “संख्यात्वव्याप्य

सामान्ये शक्तिमान् प्रत्ययस्तु यः । सा विभक्तिर्द्विधा
प्रोक्ता सुप् तिङ् चेति प्रभेदतः” श० श० प्र० उक्तलक्षणे २
प्रत्ययभेदे च । “सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु”
“विशेष्यस्यैव यल्लिङ्गं विभक्तिवचने च । ये तानि सर्वाणि
योज्यानि विशेषणपदेष्वपि” व्या० का० ।

विभव पु० वि + भू--अच् । १ धने २ मोक्षे सर्वमूर्त्तसंयोग-

रूपे ३ ऐश्वर्य्ये नेदि० । षष्टिसंवत्सरमध्ये “सुभिक्षं क्षेम-
मारोग्यं सर्वे व्याधिविवर्जिताः । प्रशान्ता मानवास्तत्र
बहुशस्या वसुन्धराः । हृष्टाः पुष्टाः जनाः सर्वे विभवे-
ऽवदे वरानने! इत्युक्तफलके ४ वर्णभेदे पु० ।

विभा स्त्री वि + भा--अचा १ किरणे हेमच० २ शोमायां

३ प्रकाशे च राजनि० ।

विभाकर पु० विभा प्रकाशं करोति कृ--अच् । १ सूर्य्ये

२ अर्कवृक्ष च । ३ चित्रकवृक्षे अमरः ४ अग्नौ मेदि० ।

विभाग पु० वि + भज--भावे घञ् । १ भागे पूर्वस्वामिस्वत्वना-

शोत्तरं तत्सम्बन्धाधोनजातस्वत्वस्य २ व्यञ्जले व्यापारभेदे
दायभागादि । सामान्यधर्मयुतानां बहूनां परस्परविरु-
द्धतद्व्याप्यधर्म प्रकारेणा ५ प्रतिपादने श्रीकृष्णः । वैशे-
मिकोक्ते ४ गुणभेदे तल्लक्षणविभागादि कणा० सू० । वृ०
दर्शितं यथा
“एतेन विभागो व्याख्यातः” कणा० सू० । “विभागे
संयोगोत्पत्तिप्रकारमतिदिशन्नाह संयोगवद्विमागो-
ऽप्यन्यतरकर्मज १ उभयकर्मजो २ विभागजश्च ३ श्येनकर्म-
णास्थाणुश्येनविभागः १ संयुक्तवोर्मल्वयोर्मेप्रयोर्वा कर्मम्यां
तदुभयविभागः २ सचायं कर्मोत्पत्त्यव्यहितचाणोत्पत्तिकः
अपेक्षणीयान्तराभावात तदुक्तं “संयोगविमागयोरन-
पेक्षकारणं कर्म इति विभागे जननीये आश्रयः” सं-
पृष्ठ ४९१४
योगे च जननीये पूर्वसंयोगनाशश्चापेक्षणीय इति चेन्न
स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षत्वस्य कर्मणो
निरपेक्षत्वात् । विभागज ३ स्तु विभागो द्विविधः कारणमात्र
विभागजकारणाकारणविभाग १ भदात् कारणाकारण-
विभागजकार्य्याकार्य्यविभाग २ भेदाच्च तत्र कारणमात्र
विभागात् कारणाकारणावभागो यथा कपालद्वयविभा-
गात् कपालाकाशविभागः १ कारणाकारणविभागाच्च
कार्य्याकार्य्यविभागो २ यथाऽङ्गुलीतरुविभागाद्धस्ततरुवि-
भागस्ततः शरीरतरुविभाग इति । ननु विभान
एवन प्रमाणं संयोगाभाव एव विभागव्यवहारादिति चेन्न
संयोगाभावोऽत्यन्ताभावश्चेत् गुणकर्मणोरपि विभागव्यव-
हारप्रसङ्गात् द्रव्ययोर्वर्त्तमानः संयोगात्यन्ताभावो
विभक्तप्रत्ययहेतुरिति चेन्नाबयवायवविनोरपि प्रसङ्गात्
अकार्य्यकारणभूतयोर्द्रव्ययोरिति चेत् यिन्ध्यहिमवतो-
रपि स्यात् भ्वत्येव तत्रेति चेन्न भ्रान्तस्य गुणकर्मणो-
रपि भावात् अभ्रान्तमधिकृत्य व्यवहारस्य चिन्त्यमानत्वात्
संयोगविनाशा विभाग इति चेत् एकतरसंयोगिनाशेन
नष्टे संयोगे तद्व्यवहारप्रसङ्गात् संयोगिनोर्विद्यमान-
योरिति चेत् एकसंयोगनाशानन्तरं पुनः संयुक्तयोः
कुवलामलकयोः संयोगदशायामपि विभक्तप्रत्ययप्रसङ्गात्
यावत्संयोगनाशस्तथेति चिदेकसंयोगनाशे तदभाव-
प्रसङ्गात् तत्र यावदर्थाभावात् । तस्मादस्ति विभागोऽर्था
न्तरम् स च गुणः विरोधिगुणान्तरनाश्यः विरोधिनं
समानाधिकरणं गुणमन्तरेण सत्याश्रये गुणनाशानुपपंत्तेः
कमव संयोगनाशकं स्यादिति चेन्न विरोधिनो गुणस्य
गुणनाशकत्वात् । किञ्च यत्राङ्गुलीहस्तभुजशरीराणां
स्वस्वकर्मणा तरुसंयोगस्तत्राङ्गुलीमात्रे समुत्पन्नेन वर्म-
णाऽङ्गुलीतरुसंयोगनाशसम्भवेऽपि हस्ततरुमुजतरुशरीर-
तरुर्सयोगानामनाशप्रसङ्गात् हस्तादीनामक्रियत्वात्
अङ्गुलीकर्मणश्च व्याधकरणत्वात् व्यधिकरणस्यापि कर्मणः
संयोगनाशकत्वे क्वचिदप्युत्पन्नेन कर्मणा युगपदेव सर्व-
संयोगनाशापत्तः । त्वन्मते तत्र का गतिरिति चेत् अङ्गुलो
तरुविभागेन जनिती हस्ततरुविभागो हस्ततरुसंयोग-
नाशक इत्यभ्युपगमात् । व्यधिकरणेनाङ्गुलीकर्मणैव
हस्ततरुसंयोगनाशोऽस्तु न चातिप्रसङ्गः आश्रयाश्रित
परम्परासंयोगस्यैव व्यधिकरणकर्मनाष्ट्यत्वाभ्युपगमा-
दिति सर्वज्ञेन यदुक्तं तदपि न युक्तं विरोधिनः
समानाधिकरणस्यैव सर्वत्र नाशकत्वानुभवात् वाधकमन्यरेण
तत्परित्यागामुपपत्तेः । शब्दविभागौ च विभागकाव्यौ
तत्र विभागस्य शब्दासमबायिकारणत्वं न मृष्यामहे न हि
वंशे पाट्यमाने दले च चरणयन्त्रणाबष्टब्धे
दलान्तरे चोपरिकृष्यमाणे यः शब्दोजायते तत्र दलाकाश-
विभागादन्य दसमवायिकारणं पश्यामः । न च दवदह
नदह्यमानस्फुटद्वेणुचीत्कारे विभागातिरिक्तमसमवा-
यिकारणं पश्यामः । कारणाकारणविभागाच्च कार्य्या-
कार्य्यविभागमनुमन्यामहे कथमन्यथा स्वस्वकर्मजनिताङ्गु-
लीतरुसंयोगभुजतरुसंयोगशरीरतरुसंयोगानामङ्गुलीमा-
त्रोत्पन्नकर्मणाऽङ्गुलीतरुविभागे सति अङ्गुलीतरुसंयोम-
नाशे सत्यपि हस्ततरुसंयोगादीनां नाशः तत्र हि
विभागजविभागपरम्परैव तत्तत्संयोगनाशिकेत्युक्तत्वात्
कारणद्वयविभागपूर्वके तु कारणाकारणविभागे न संप्र-
त्ययः यतोवंशदले यदुत्पन्नं कर्म तेन दलान्तरविभाग-
वदाकाशादिविभागस्यापि जननसम्भवात् यावद्भिः समं
तद्दलं संयुक्तमासीत् तावद्भिस्तत्कर्मणा विभागस्य दर्श-
नात् नह्यङ्गुल्य सुत्पन्नेन कर्मणाऽङ्गुल्यन्तरावभागवदा-
काशादिदेशेभ्योऽपि विभागा न जन्यन्ते । कमकलदले
चोत्पन्नेन कर्मणा दलान्तरविभागवदाकाशादिदेशेभ्यो
वा न विभागा आरभ्यन्ते द्रव्यारम्भकसंयोगाविरोधिनः
शतमपि विभामानेकं कर्मारमताम् । यत्तु कर्म द्रव्यार-
म्भकसंयोगविरोधिनं विभागमारभते न तत् द्रव्यारम्भक-
सयोगाविरोधिनमपि यच्च द्रव्यारम्भकसयोगाविरोधिनं
तद् द्रव्यारम्भकसंयोविरोधिनमिति व्रूमः । कुत एतदिति
चेत् कार्य्यवैचित्र्येण कारणवैचित्र्यस्यावश्यकत्वात् । ननु
कर्मणि वैचित्र्यमावश्यकं तथाचैकं कर्म द्रव्यारम्भकसं-
योगविरोधिनं विभागं जनयतु यथा विकसत्
कमलकुद्मलादावपरञ्च द्रव्यारम्भकसंयोगविरोधिनमविरोधिन-
ञ्चोभयमिति मैवं कार्य्यविरोधो हि कारणवैचित्र्यकल्प-
नामूलं स च विरोघः एकस्य द्रव्यारम्भकसंयोगप्रतिद्वणि-
त्वेन अपरस्य तु तदप्रतिद्वन्द्वित्वेनेति तथैव वैचित्र्यस्यापि
कल्पनौचित्यात् तच्चेदं वशदले वर्त्तमानं कर्म दलद्वयवि-
भागमात्रं जनयति स च विभागोऽग्रे आकाशादिदेशाद्वि-
भागं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विनं विभागमारभते तस्य
च निरपेक्षस्य विभागजनने कर्मत्वापत्तिरिति द्रव्यनाशवि-
शिष्टं कालमपेक्षते । ननु तदानीमपि कर्मैव तज्जनयतु
अतीतकालत्वात् विभागजनने कर्मण स्वोत्पत्त्यमन्तर
एव काले नत्वेवं विभागेन जनिते विभागान्तरे कर्म
पृष्ठ ४९१५
प्रदेशान्तरसंयोगमपि न जनयेत्, न संयोगजननं प्रति-
कर्मणोऽनतीतकालत्वात् अन्यथा कर्म न नश्येदेव तस्यो-
त्तरसंयोगमात्रनाश्यत्वात् । सोऽयं विभाग उत्तरसंयोग
नाश्यः क्षणत्रयस्थायी क्वचिदाश्रयनाशनाश्यः
तद्यथा तन्तोरवयवेऽंशौ कर्म तदनन्तरमंशुद्वयविभागस्तदैव
तन्त्वन्तरे कर्म ततोऽंशुद्वयविभागेन न्त्वारम्भकसंयोग-
नाशस्तन्तुकर्मणा च विभागस्ततो द्रव्यारम्भकसंयोगना-
शात्तन्तुकर्मणो नाशस्तन्नाशाच्च तन्त्वन्तरकर्मजन्यविभाग-
नाशः । नन्वेवं तन्त्वन्तरोत्पन्नस्य कर्मणो न नाशः स्या-
द्विनाशकाभावात्, उत्तरसंयोगेन हि तन्नाश्येत विभागे
च नष्टे नोत्तरसंयोग इति चेन्न तन्तौ यत् कर्मो-
त्पन्नं तेन यथा विनश्यदवस्थतन्तोर्विभागो
जनितस्तथा तदंशोरपि विभागो जननीयः सोऽप्यार-
म्भकसंयोगविरोध्येव तेनांशुतन्तुविमागेन तन्त्वाकाश-
विभागस्ते न चोत्तरसयोगस्तेन ततः कर्मनाशः । यद्वा-
यत्र तन्तौ यदा कर्म तदांशावपिं तदैव कर्म तच्च कर्म-
विनश्यदवस्थतन्तुतदवयवाकाशादिदेशाद्युगपदेव विभा-
गानारभते सर्वेषां विभागानामारम्भकसंयोगविरोधि-
त्वात् तथा च कारणसंशुरकारणञ्चाकाशादि तद्विभागात्
कार्य्यस्य तन्तोरकार्य्येणाकाशादिना यो विभाग उत्पन्न-
स्तदन न्तरोत्पत्तिकेन संयोगेन तन्तुसमवेतस्य कर्मणो
विनाश इति । क्वचिद्द्वाभ्यां तद् यथा तन्तुवीरणयोः
संयोगे सति तन्त्ववयवेऽंशौ कर्म वीरणे च कर्मेत्येकः
कालः अंशुकर्मणाऽंश्वन्तरविभागस्तेन च संयोगस्य
तन्त्वारम्भकस्य विनाशः वीरणकर्मणा च तन्तुवीरण-
विभागस्तन्तुवीरणसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशा-
नन्तरं तन्तुनाशस्तन्तुवीरणसंयोगनाशानन्तरं वीरणस्य
प्रदेशान्तरसंयोगस्ताभ्यामाश्रयनाशसंयोगाभ्यां विभाग-
नाशः” उप० वृत्तिः । कर्मणि घञ् । ५ अंशे खण्डे च ।

विभाज्य त्रि० विमक्तुमर्हति वि + भज--अहांर्थे ण्टत् ।

विभागयोग्ये विभजनीये धनादौ ।
“कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा । शौर्य्य-
प्राप्तं तु यद्वित्तं विभाज्य तद्वृहस्पतिः” ।

विभाण्डक पु० ऋष्यशृङ्गर्षिपितरि मुनिभेदे रामा० ।

विभाण्डी स्त्री० विभाण्ड + गौरा० ङीष् । आवर्त्तकीलतायां

राजनि० ।

विभात न० वि + भा--क्त । प्रभाते शब्दरत्ना० ।

विभाव पु० वि + भू--घञ् । १ परिचये कलङ्कारोक्ते रस-

स्योद्दीपके २ आलम्बनादौ “रत्याद्युद्बोधकालोके
विभावाः काव्यनाट्ययोः । आलम्बनोद्दीपनाख्यौ तस्य
भेदाविमौ स्मृताः” । ये हि लोके रामादिगतरति-
हासादीनामुद्बोधकारणानि सीतादयस्त एव काव्ये
नाट्ये च निवेशिताः सन्तः विभाव्यन्ते आस्वादा-
ङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिमावा
एभिरिति विमावा उच्यन्ते” सा० द० ३ प० ।
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा” सा० ३ प० ।

विभावना स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०४ पृ० दृश्यम् ।

विभावरी स्त्री वि + भा--कनिप् ङीप् वनो र च । १ रात्रै

अमरः । २ हरिद्रायां ३ कुट्टिन्याम् ४ वक्रयोषिति ५
विवादवस्त्रमुण्ड्यां मेदि० । ६ मुखरस्त्रियाम् शब्दर० । ७मेदा-
वृक्षे च रत्नमा० ।

विभावसु विभायुक्ता वसवोऽस्य । १ सूर्य्ये २ अर्कवृक्षे ३ वह्नौ

चित्रकवृक्षे अमरः । ५ चन्द्रे ६ हारभेदे च हेमच० ।

विभाषा स्त्री विरुद्धा भाषा वि + भाष्--अ वा । व्याकरणोक्ते

पाक्षिकप्राप्तिफलके “नषेति विभाषा” इत्युक्तलक्षणे
विकल्पविधाने ।

विभिन्न त्रि० वि + भद--क्त । १ प्रकाशिते २ विदलिते ३ विभक्ते च ।

विभीतक पु० विशेषेण भीत इव इवार्थे कन् । (वयड़ा)

वृक्षे अमरः । “विभीतकं स्वादुपाकं कषायं कफपित्तनुत् ।
उष्णवीर्य्यं हिमस्पर्शं भेदनं कासनाशनम् । रूक्षं
नेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम् । विभीतमज्जा
तृट्छर्दि कफवातहरो लघुः । कषायो मदकृच्चाथ धात्री
मज्जापि तद्गुणः” भावप्र० । काभावे विभीतोऽप्यत्र ।

विभीषण पु० विशेषेण भीषयते शत्रून् भी--णिच्--सुक् च

ल्यु । १ रावणभ्रातरि राक्षसे रामा० । २ नलतृणे
राजनि० । ३ भयकारके त्रि० ।

विभीषिका स्त्री वि + भी--णिच्--सुक् च धात्वर्थनिर्देशे ण्वुल् । भयप्रदर्शने

विभु पु० वि + भू--डु । सर्वमूर्त्तसंयुक्ते १ कालादौ २ महादेवे

३ व्रह्मणि च मेदि० । ४ भृत्ये त्रिका० । ५ विष्णौ शब्दमा०
६ व्यापके ७ नित्ये ८ अर्हद्देवे हेमच० । ९ दृढ़े त्रि० अजयः ।
१० परममहत्त्वयुते सि० मुक्ता० ।

विभूति स्त्री वि + भू--क्तिन् । १ भस्मनि “अणिमा लघिमा

प्राप्तिः प्रावाम्यं महिमा तथा । ईशित्वं च वशित्वञ्च
तथा कामावसायिता” इत्युक्ते २ ऐश्वर्य्ये च । ऐश्वर्य्य-
शब्दे १५४९ पृ० दृश्यम् ।

विभूषा स्त्री वि + भूष--अ । १ शोभायां हेमच० २ भूषणे च ।

पृष्ठ ४९१६

विभ्रम पु० वि + भ्रम--घञ् । १ स्त्रीणां शृङ्गाराङ्गे चेष्टाभेदे

“विभ्रमस्त्वरयाऽकाले भूपास्थानविपर्य्ययः” इत्युक्ते
२ त्वरया भूषास्थानवैपरीत्ये च “यश्चाप्सारो विभ्रम-
मण्डनानाम्” कुमारः । विशेषेण ३ भ्रान्तौ मेदि०
४ शोभायां ५ सन्देहे हेमच० । ७ भ्रमणे शब्दरत्ना० ।
“चित्तवृत्त्यनवस्थानं शृङ्गारात् विभ्रमो भवेत्” उक्ते
८ शृङ्गाराच्चित्तवृत्त्यनवस्थाने । “क्रोधं स्मितञ्च कुसुमा-
भरणादि याचञा तद्वर्जनञ्च सहसैव विमण्डनञ्च ।
आक्षिप्य कान्तवचनं लपनं सखीभिर्निष्कारणोत्थितगतं
वद विभ्रमं तत्” इत्युक्ते स्त्रीणां ९ चेष्टाभेदे च ।
अस्त्यर्थे अच् । १ वार्द्धक्यावस्थायां स्त्री शब्दरत्ना० ।

विभ्राज् त्रि० वि + भ्राज--क्विप् । भूषणादिना दीप्ते अमरः

विमत त्रि० वि + मत--क्त । विरुद्धमतियुक्ते १ विषमे २ सन्दि-

ग्वे च ।

विमनस्(स्क) त्रि० विक्षिप्तं मनो यस्य वा कप् । चिन्तादिना व्याकुलचित्ते अमरः ।

विमर्द पु० विमृद्यतेऽसौ वि + मृद--घञ् । (कालकासुन्दिया)

१ वृक्षे रत्नमा० । संज्ञायां कन् । चक्रमर्दके राजनि० ।
भावे घञ् । ३ मर्दने ३ कुङ्कुमादिमर्दने च ।

विमर्शन न० वि + मृश--ल्युट् । १ परामर्शे न्यायोक्ते साध्य-

व्याप्यहेतुमत्त्वेन पक्षनिश्चये २ वितर्के च हेम० । घञ्
विमर्श तत्रैवार्थे पु० ।

विमर्ष पु० वि + मृष--घञ् । १ विचारे जटा० २ नाटकाङ्ग-

सन्धिभेदे च । स च “अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये
सति । मुखं प्रतिमुखं गर्भो विमर्ष उपसंहृतिः ।
इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते” इति
विभज्य “यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः ।
शापाद्यैः सान्तरायश्च स विमर्ष इति स्मृतः” इति
सा० द० लक्षितः । तदङ्गानि च तत्रोक्तानि यथा
“अपवादोऽथ सम्फोटो व्यवसायोद्रवोद्युतिः । शक्तिः-
प्रसङ्गखेदश्च प्रतिषेधो विरोधनम् । प्ररोचना प्रहर्षे
स्यादादानं छादनं तथा” ।

विमल त्रि० विगतो मलो यस्मात् । १ स्वच्छे निर्मले अमरः ।

विगतो मलो यस्याः ५ ब० । (चामकषा) २ सप्तलायाम्
अमरः । जगन्नाथक्षेत्रस्थे ३ देवीभेदे स्त्री तन्त्रसा० ।
४ दुर्गामूर्त्तिभेदे देवीपु० । ५ उपरसभेदे न० राजनि० ।
६ जि?न}देवे पु० ७ चारुणि त्रि० शब्दर० । “चेतसा सत्त्व-
युक्तेन दानं यद् विमलं स्मृतम्” गरुड़पु० उक्ते ८
सात्त्टिके दानभेदे न० ।

विमातृ स्त्री विरुद्धा माता । मातृसपत्न्याम् । “मातुः

पितुः कनीयांसं न नमेद्वयसाधिकः । नमस्कुर्य्यात्
गुरोः पत्नीं भ्रातृजायां विमातरम्” म० त० स्मृतिः ।
तत्रैव स्मृत्यर्यसारे “स्त्रियो नमस्या वृद्धाश्च वयसा
पत्युरेव ताः” । “यतः पत्युर्वयसा ताः स्त्रियो वृद्धाः अतः
कनिष्ठा अपि अपि नमस्याः” म० त० रघु०

विमातृज पु० विमातुर्जायते जन--ड । सापत्ने भ्रातरि अमरः ।

विमान पुंन० वि + मन--घञ् वि + मा--ल्युट् वा । १ देवयाने

रथे अमरः । २ सार्वभौमगृहभेदे च ३ यानमात्रे ४ अश्वे
पु० मेदि० ५ परिमाणे च न० ।

विमार्ग पु० विरुद्धो मार्गः । १ कुपथे २ निन्दिताचारे च ।

विमुख त्रि० विरुद्धमननुकूलं मुखमस्य । १ वहिर्मुखे २ निवृचे च

विमुद्र त्रि० विगता मुद्रा मुकुलीभावो यस्य । १ विकशिते

हेमच० । २ मुद्रारहिते च ।

विम्ब पुंन० । वी + बन मुमह्रस्वौ । १ दर्पणादौ भासमान-

प्रतिविम्बाश्रये २ कमण्डलौ च संक्षिप्तसा० । ३ सूर्य्यादि-
मण्डले अमरः । ४ कृकलासे पुंस्त्री० मेदि० स्त्रियां ङीष् ।
विम्बायाः फलम् अण् तस्य लुप् । ५ विम्बिकाफले न० ।

विम्बजा स्त्री विम्बं फलं जायतेऽस्याः जन--ड १

विम्बिकालतायां (तेलाकुचा) शब्दच० ।

विम्बट पु० विम्बमटति अट--अच् शक० । सर्षपे शब्दच० ।

विम्बा(म्बी) स्त्री विम्बमस्त्यस्याः अच् वा गौरा० ङीष् ।

(तेलाकुचा) १ लताभेदे शब्दर० “विम्बीफलं भ्वादु शातं
गुरु पित्तास्रवातजित् । स्तम्भनं लेखनं रुच्य विबन्धा-
ध्मानकारकम्” भावप्र० । स्वार्थे क कापि अत इत्त्वम
तत्रार्थे । सूर्य्यदिमण्डले पु० न० नात इत्त्वम् ।

वियत् न० वि + यम--क्विप् मलोपे तुक् । आकाशे अमरः ।

वियद्गङ्गा स्त्री वियत्स्था गङ्गा शाक० । स्वर्गगङ्गायां

मन्दाकिन्याम अमरः ।

वियद्भूति स्त्री वियतो भूतिरिव । अन्धकारे त्रिका० ।

वियन्मणि पु० वियतो मणिरिव प्रकाशकत्वात् भूषकत्वाद्वा

द्युमणौ सूर्य्ये हारा० ।

वियम पु० वि + यम--घञ् । १ संयमे अमरः । २ दुःखे क्षीर-

स्वामी । पक्षे वृद्धिः । वियाम तत्रार्थे

वियात त्रि० वि + या--क्त याति अच् वा । १ धृष्टे २ निर्लज्जे

च अमरः । तस्य भावः ष्यञ् । वैयात्य निर्लज्जत्वे न०
“वैयात्यंसुरतेष्वपि” माघः ।

वियोग पु० वि + यज--घञ् । १ विच्छेदे हेमच० ६ त०

२ पक्षियोगे च गणितप्रसिद्धे ३ राश्योर्व्यवकलने च ।
पृष्ठ ४९१७

वियोगिन् पु० वि + युज--घिनुण् । १ चक्रवाके पक्षिणि

शब्दच० । २ विच्छेदवति । ३ पक्षियोगवति च त्रि० ।
स्त्रियां ङीप् “वियोगिनीमैक्षत दाडिमीमसौ” नैष० ।

विरक्त त्रि० वि + रन्ज--क्त । १ विच्छिन्ने २ अननुरक्ते

३ दुर्भगायां स्त्रियां स्त्री त्रिका० ।

विरङ्ग पु० वि + रन्ज--घञ् । कङ्गुष्ठे राजनि० ।

विरचित त्रि० वि + रच--क्त १ कृते २ निर्मिते च ।

विरजस्तमस् त्रि० विगते रसस्तमसी यतः । सत्त्वगुणप्रधाने अमरः ।

विरजस्(स्का) स्त्री विगतं रजो यस्याः वा कप् । १ गतार्त्त

वायां स्त्रियाम् जटा० । २ रजोगुणहीने त्रि० ।

विरजा स्त्री विशेषेण रज्यतेऽत्र रन्ज--घञर्थे क । १ दूर्वायां

हारा० गोलोकस्थे २ राधासखीभेदे तच्छापाज्जायमाने
३ नदीभेदे च ब्रह्मवै० ज० ख० ३५ अ० । ४ कपित्था-
नीवृक्षे रत्नमा० । ५ ययातिमातरि कूर्मपु० २० अ० ।
सा च नदी उत्कलदेशस्था जगन्नाथसन्निकृष्टा “उतकले
नाभिदेशश्च विरजाक्षेत्र उचाते । विमलाऽत्र महादेवी
जगन्नाथस्तु भैरवः” पीतनिर्णयः । तत्र मुण्डनोपवासौ
न कार्य्यौ “मुण्डनं चोपवासंश्च सर्वतीर्थेष्वयं विधिः ।
वर्जयित्वा गयां गङ्गां विशार्ला विरजां तथा” प्रा० त० ।

विरञ्च(ञ्चि) पु० वि + रच--अच् इन् वा सुम् च । जगत्-

स्रष्टरि ब्रह्मणि हेम० ।

विरण न० विशिष्टो रणो मूलमस्य । उशीरे (वेणारमूल) शब्दर० ।

विरत त्रि० वि + रम--क्त । निवृत्ते ।

विरति स्त्री वि + रम--क्तिन् । १ निवृत्तौ २ विषयसेवासु व्यापाराभावे च अमरः ।

विरल त्रि० वि + रा--कलन् । १ अवकाशे २ विच्छिन्ने अमरः ।

३ अनिविड़े च । ४ दध्नि न० राजनि० ।

विरलजानुक त्रि० ६ त० । वक्रजानुके हेमच० ।

विरलद्रवा स्त्री ६ ब० । श्लक्ष्णायां यवाग्वां जटा० ।

विरह पु० वि + चु० रह--अच् । १ विच्छेदे २ अभावे शृङ्गार-

रसस्य विप्रलम्भाख्ये ३ अवस्थाभेदे च हेमच० ।

विरहित त्रि० वि + रह--क्त । १ त्यक्ते २ हीने च ।

विरहिन् त्रि० वि + रह णिनि । १ विरहयुते स्त्रियां ङीप् ।

सा च २ भृतौ शब्दमा० ।

विरहोत्पण्ठिता स्त्री “आगन्तु कृतचित्तोऽपि दैवान्नायाति

यत्प्रियः । तदनागमदुःखार्त्ता विरहोन्कण्ठिता तु सा”
सा० द० ३ प० लक्षिते नायिकाभेदे ।

विराग पु० नि + रन्ज--घञ् । १ रागाभाव । विगतो रागो

यस्य । २ रागशून्ये त्रि० । “विधयेष्वतिसंरागो मानसो
मल उच्यते । तेष्वेव तु विरागो हि नैर्मल्यं समुदा-
हृतम्” प्रा० त० । वैराग्यशब्दे दृश्यम् ।

विराज् पु० विशषेण राजते क्विप् । १ क्षत्रिये ब्रह्माण्डा-

त्मकस्थूलदेहाभिमानिनि २ आदिपुरुषे ३ छन्दोभेदे च ।
वेदे द्वाभ्यामक्षराभ्यां गायत्र्यादीनां समष्टावधिकत्वे विराट्
छन्दो भवति छन्दःशब्दे २९७८ पृ० कात्यायनवाक्यं
दृश्यम् । “समष्टिरूपस्थूलशरीराभिमानी चेतनः विराट्-
संज्ञो वेदान्तादौ प्रसिद्धः तस्योत्पत्तिः तद्रूपञ्च भागव-
तादौ दृश्यम् । अच् । विराजोऽपि समष्टिस्थूलाभिमा-
निनि चेतने । ४ स्वायम्भवमनौ च । “ततः कालेन महता
तस्य पुत्रोऽभवन्मनुः । स्वायम्भुव इति ख्यातः स
विवाडितिः नः श्रुतम्” मत्स्यपु० ३ अ० । “मानवे तु स्वाय-
म्भुवस्य विराट्पुत्रत्वमभिहितम् । यथा “द्विधा कृत्वा-
त्मनो देहमर्द्धेन पुरुषोऽभवत् । अर्द्धेन नारी नाभ्यां
स विराजमसृजत् प्रभुः । तपस्त्वप्त्वाऽसृजद् यन्तु स
स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्वष्टारं
द्विजसत्तमाः!” ।

विराट पु० विशेषो राटो यत्र । १ देशभेदे, तद्देशाधिपे २ नृपे च । भा० विराटपर्वणि दृश्यम् ।

विराध पु० राक्षसभेदे । स च तुम्बुरुनामा गन्धवेः कुवेर-

शापात् राक्षमत्वमाप्तः रामेण मोचितः तत्कथा वह्निपु०
“तुम्बुरुर्नाम गन्धर्वः प्रविष्टो राक्षसीं तनुम् ।
अभिशापादहं घोरं प्राप्तो वैश्रवणेन वै” ।

विराधन न० वि + राध--ल्युट् । पीड़ायाम् । शब्दर० ।

विराम पु० वि + रम--घञ् । १ अवसाने, २ विरतौ, ३ निवृत्तौ च

जटा० । ४ मध्ये त्रिका० ५ व्याकरणोक्ते परवर्णाभावे च ।

विराल पुंस्त्री० वि + डल--घञ् डस्य रः । विड़ाले पशुभेदे

अमरः स्त्रियां ङीष् ।

विराव पु० वि + रु--घञ् । १ शब्दे अमरः । पादि० ६ व० । २ विगतरवे त्रिका० ।

विरिञ्च पु० बि + रिच--अच् मुम् च । १ विष्णौ २ जगत्म्रष्टरि

येधसि, ३ शिवे च शब्दर० । इन् विरिञ्चि तत्रैवार्थे
अमरः ।

विरुद्ध त्रि० वि + रुध--क्त । विरोधयुक्ते २ हेत्वाभासभेदे

“अनैकान्तो विरुद्धश्चेत्याद्रिना विभज्य “यः साध्यवति
नैयास्ति स विरुद्ध उदाहृतः” भाषा० लक्षितः । “एवकारेण
साध्यवत्त्वावच्छेदेन हेत्वभाव इति सूचितम् तथा च
साध्यव्यापकाभावप्रतियागित्वं तदर्थः सि० मुक्ता०” गातम
१ ४७ सू० अन्यथा लाक्षता यथा “सिद्धान्तमभ्युपेत्य
पृष्ठ ४९१८
तद्विरोधी विरुद्धः” “तं (सिद्धान्तं) विरुणद्धीति तद्वि-
रोधी अभ्युपगतं सिद्धान्तं व्याहन्तीति । यथा सोऽयं
विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् अपेतोऽप्यस्ति
विनाशप्रतिषेधात् न नित्यो विकार उपपद्यते इत्येव
हेतुव्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन
विरुध्यते । कथं? व्यक्तिरात्मलाभः अपायः प्रच्युतिः
यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति नित्यत्वप्रतिषेधी
नीपपद्यते यत् व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत्
खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विका-
रस्यात्मलाभप्रच्युतेरुपपत्तिः । यद् आत्मलाभात्
प्रच्यवते तदनित्यं दृष्टं यदस्ति न तदात्मलाभात् प्रच्य-
वते । अस्तित्वं चात्मलाभात् प्रच्युतिरिति तद्विरद्धा
वेतौ न सह सम्भवतः । स चाय हेतुर्यत्सिद्धान्तमाश्रित्य
प्रवर्त्तते तमेव व्याहन्तीति” वा० भा० ।
वृत्तौ त्विदमन्यथा व्याख्यातं यथा “क्रमप्राप्तं विरुद्धं
लक्षयति सिद्धान्तमिति अत्र च सिद्धान्तं साध्यं प्रति-
ज्ञायां हि सिद्धस्य पक्षस्यान्ते साध्यमभिधीयते तथा च
साध्यमभ्युपेत्य उद्दिश्य प्रयुक्तस्तद्विरोधी साध्याभाव-
व्याप्त इति फलितार्थः । यथा वह्निमान् ह्रदत्वादिति ।
एतस्य साध्याभावानुमितिसामग्रीत्वेन साध्यानुमिति
प्रतिबन्धो दूषकतावीजम् । न च सत्प्रतिपक्षाविशेषः
तत्र हेत्वन्तरं साध्याभावसाधकम् । इह तु हेतुरेव
साध्याभावसाधकः साध्यसाधकत्वेन त्वयोपन्यस्त इत्य-
शक्तिविशेषोन्नायकत्वेन विशेषात्” । इदञ्च नासङ्कीर्ण-
विरुद्धोदाहरणम् व्यमिचारादेः सत्त्वात् । किन्तु उपाधेय-
सङ्कुरेऽप्युपाधेरसङ्करादित्युक्तेरस्य दूषकतावीजसत्त्वा-
च्चोदाहरणत्वं वोध्यम् ।

विरुद्धमतिकृत् पु० “विपरीतार्थधीर्यस्मात् विरुद्धमतिन्मतम्”

उक्ते काव्यदाषभेदे ३७६३ पृ० दृश्यम् ।

विरूढ़ त्रि० विशेषेण रोहति वि + रुह--क्त । १ जाते २ अङ्कुरिते च मेदि० ।

विरूप त्रि० विकृतं रूपमस्य । १ दुष्टरूपयुक्ते २ निन्दिते च ।

५ पिप्पलीमूले न० राजनि० । ४ अतिविषाया, ५ दुराल-
भायाञ्च स्त्री० राजनि० ।

विरूपाक्ष पु० विरूपे विकटे अक्षिणी यस्य षच् समा० ।

१ महादेवे अमरः । २ विकटनेत्रे त्रि० ।

विरूपिन् त्रि० विकृतं रूपमस्यास्त्रि इनि । १ कुरूपे त्रिका० ।

२ जाहकजन्तौ पु० राजनि० ।

विरेक पु० वि + रिच--घञ् । १ मलादेरधोनिःसरणे, शब्दर० । २ अतिरेके च ।

विरेचन न० वि + रिच--णिच्--ल्युट् । १ मलादेर्निःसारणे,

तद्विधिः भावप्र० उक्तो यथा
“स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम् ।
अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः । मन्दाग्निं
गौरवं कुर्य्याज्जनयेद् वा प्रवाहिकाम् । अथ वा
पाचनैरामं वलासं परिपाचयेत् । ऋतौ वसन्ते
शरदि देहशुद्धौ विरेचयेत् । अन्यदात्ययिके कार्य्ये शोधनं
शीलयेद् बुधः” । आत्ययिके प्राणसङ्कटे । “पित्ते
विरेचनं युञ्ज्यादामोद्भूते गदे तथा । उदरे च
तथाध्माने कोष्ठशुद्धौ विशेषतः । दोषाः कदाचित् कुप्यन्ति
जिता लङ्घनपाचनैः । शोधनैः शाधिता ये तु न तेषा
पुनरुद्भवः । बालो वृद्धो मृशं स्निग्धः क्षतक्षीणो
भयान्वितः । श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरो ।
नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी । शल्यार्दि-
तश्च रूक्षश्च न विरेच्या विजानता । जीर्णज्वरी
गरव्याप्तो वातरोगी भगन्दरी । अर्शःपाण्डूदरग्रन्धि
हृद्रोगारुचिपीड़िताः । योनिरोगप्रमेहार्त्तो गुल्म-
प्लीहव्रणार्दितः । विद्रधिच्छर्दिविस्फोटविसू चीकुष्ठ-
संयुताः । कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः । प्ली-
हशोथाक्षिरोगार्त्ताः कृमिक्षारानिलार्दिताः ।
शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः । बहुपित्तो
मृदुः प्रोक्तो बहुश्लेष्मा च मध्यमः । वहुवातः क्रूर-
कोष्ठो दुर्विरेच्यः स कथ्यते । मृद्वी मात्रा मृदौ काष्ठे
मध्यकोष्ठे च मध्यमा । क्रूरे तीक्ष्णा मता द्रव्यैर्मृदु
मध्यमतीक्ष्णकैः । मृदुर्द्राक्षापयश्चञ्चुतैलैरपि । विरे-
च्यते । मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरेच्यते । क्रूरः
स्रुक्पयसा हेमक्षीरीदन्तीफलादिभिः” । चञ्चुतैलम्
एरण्डतैलम् । राजवृक्षः (वनवहेरा) हेमक्षीरी
(चोक) दन्तीफलम् वृहद्दन्तीफलम् जयपालेति
प्रसिद्धम् “मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तकः ।
वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका । द्विपलं
श्रेष्ठमाख्यातं मध्यमं च पलं भवेत् । पलार्द्धञ्च
कषायाणां कनीयस्तु विरेचनम् । कल्कमोदकचूर्णानां कर्ष-
मध्वाज्यलेहतः । कर्षद्वयं पलं वापि वयोरोगाद्यपे-
क्षया । पित्तोत्तरे त्रिवृच्चूर्णं द्राक्षाक्वाथादिभिः पिवेत् ।
त्रिफलाक्वाथगोमूत्रैः पिवेद्व्योषं कफार्दितः । त्रि-
वृत्सेन्धवशुण्ठीनां चूर्णमम्लैः पिवेन्नरः । वातार्दितो
विरेकाय जाङ्गलानां रसेन वा । एस्ण्डतैलं त्रिफला-
पृष्ठ ४९१९
क्वाथेन द्विगुणेन वा । युक्तं पौतं पयोभिर्वा न
चिरेण विरेच्यते” । शोघ्रमेव विरेच्यत इत्यर्थः “त्रिवृता
कौटजं वीजं पिप्पलीविश्वभेषजम् । समृद्वीकारस
क्षौद्रं वर्षाकाले विरेचनम् । त्रिवृद्दुरालभामुस्तशर्क-
रोदीच्यचन्दनम् । द्राक्षाम्बुना सयष्ट्याह्वशीतलञ्च
घनात्यये” । उदोच्याम्बाला घनात्यये शरदि । “पिप्पलीं
नागरं सिन्धुं श्यामां त्रिवृतया सह । लिह्यात् क्षौद्रेण
शिशिरे वसन्ते च विरेचनम्” । श्यामा (कृष्णासाण्ड) (त्रि-
वृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् । अभयामरिचं
शुण्ठीविड़ङ्गामलकानि च । पिप्पली पिप्पलीमूल
त्वक्पत्रं मुस्तमेव च । एतानि समभागानि दन्ती तु
त्रिगुणा भवेत् । त्रिवृताष्टगुणा ज्ञेया षड्गुणा चात्र
शर्करा । भधुना मोदकान् कृत्वा कर्षमात्रान् प्रमाणतः ।
एकैकं भक्षयेत्प्रातः शीतञ्चानु पियेज्जलम् । तावद्विरे-
च्यते जन्तुर्यावदुष्णं न सेवते । पानाहारविहारेषु
भवेन्निर्यन्त्रणः सदा । विषमज्वरमन्दाग्निपाण्डुकास
भगन्दरान् । पृष्ठपार्श्वोरुजघनजङ्घादररुजं जयेत् ।
स्नेहाभ्यङ्गञ्च रोषं च दिनमेकं सुधीस्त्र्यजेत् । सततं
शीलनादेव पलितानि प्रणाशयेत् । अभया मोदका
ह्येते रसायनपराः स्मृताः” । इति अभयादिमोदकः
“पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी । सुगन्धि
किञ्चिदाघ्राय ताम्बूलं शीलयेद् बुधः । निर्वातस्थो न
वेगांश्च धारयेन्न शयीत च । शीताम्बु न स्पृशेत् क्वापि
कोष्णनीरं पिबेन्मुहुः । वलासौषधपित्तानि वायुर्वान्ते
यथा व्रजेत् । रेकात्तथा मलं पित्तं भेषजञ्च कफो
व्रजेत् । दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक् ।
पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम् । विदाहोऽरु-
चिराध्मानं भ्रमश्छर्दिश्च जायते । तं पुनः पाचनैः
स्नेहैः पक्त्वा स्निग्धन्तु रेचयेत् । तेनास्योपद्रवा यान्ति
दीप्ताग्नेर्लघुता भवेत् । विरेकस्यातियोगेन मूर्च्छा
भ्रंशो गुदस्य च । शूलं कफातियोगः स्यान्मांसधारण
सन्निभम् । मेदोनिभञ्जलाभासं रक्तञ्चापि विरेच्यते ।
तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः ।
मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु । सहकार-
त्वचः कल्को दध्रा सौवीरकेण वा । पिष्ट्वा नाभिप्रले-
पेन हन्त्यतीसारमुल्वणम् । सौवीरं तु यवैरामैः
पक्वैर्वा निस्तुषैः कृतैः” । सौवीरं सन्धानम् “अजाक्षीरं
रसञ्चापि वैष्किरं हारिणं तथा । शालिमिः षष्टिकै-
स्तुल्यैर्मसूरैर्वापि भोजयेत् । वर्त्तिकालावविकिरक-
पिञ्जलकतित्तिराः । चकोरक्रकराद्याश्च विष्किराः
समुदाहृताः” । कपिञ्जल इति ख्यातो लोके कविशति-
त्तिरः । क्रकरः । (कराट) इति लोके । हरिणस्ता-
म्रवर्णः मृगः । “शीतः सग्राहिभिर्द्रव्यैः कुर्य्यात्
संग्रहणं भिषक् । लाघवे मनसस्तुष्टावनुलोमङ्गतेऽनिले ।
सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि । इन्द्रि-
याणां बलं बुद्धेः प्रसादो वह्निदीप्तता । धातु स्थैर्य्यं
वयस्थैर्य्यम्भवेद्रेचनसेवनात् । प्रतापसेवां शीताम्बु
स्नेहाभ्यङ्गमजीर्णताम् । व्यायामं मैथुनञ्चैव न सेवेत
विरेचितः । शालिपष्टिकमुद्गाद्यैर्यवागूम्भोजयेत् कृताम् ।
जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् ।
राजीवः पृषतश्चैव जङ्घालाः सरभादयः” । विरेचयति
वि + रिच--णिच्--ल्यु । २ पीलुवृक्षे पु० राजनि० । २ भेदक-
मात्रे त्रि० । ण्वुल् विरेचक तत्रार्थे त्रि० ।

विरेफ पु० वि + रिफ--अच् । मदमात्रे धनञ्जयः । प्रादि० ब०

२ रकारवर्णशून्ये त्रि० ।

विरोक पु० न० वि + रुच--घञ् चस्य कः । १ छिद्रे त्रिका० । २ सूर्य्यकिरणे पु० हेमच० ।

विरोचन पु० वि + रुच--युच् । १ सूर्य्ये २ अर्कवृक्षे अमरः ।

३ बलिपितरि प्रह्लादतनयेऽसुरभेदे ४ चन्द्रे ५ वह्नौ च
मेदि० । विरोचयति वि + रुच--णिच्--ल्यु । ६ रोहितकवृक्षे
७ श्योनाकवृक्षे ८ घृतकरञ्जे च पु० राजनि० । ९ रुचि-
कारके त्रि० ।

विरोध पु० वि + रुध--घञ् । १ वैरे २ विरुद्धतायाम् न्या-

योक्ते साध्येनासामानाधिकरण्यरूपे ३ हेतुदोषे यथा
वह्निमान् जलादित्यत्र जलरूपहेतोर्वह्निना सामानाधि-
करण्यं नास्ति अतस्तस्य दुष्टत्वम् । ४ अर्थालङ्कारभेदे
अलङ्कारशब्द ४०४ पृ० दृश्यम् । ५ विपरीतार्थकत्वे च ।
“विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्” जैमि० प्रभ-
वादिषु “विषमस्थं जगत् सर्वं विरोधे भयसंप्लवम् ।
विकारः सर्वतोऽपायः इत्युक्तफलके ६ वर्षभेदे ।

विरोधन न० वि + रुध--ल्युट् । वैरे अमरः ।

विरोधिन् पु० वि + रुध--णिनि । १ रिपौ अमरः । पधि

संवत्सरमध्ये “जायते मानुषे कष्टं विरोधिनि न संशयः”
इत्युक्तलक्षणे २ वत्सरभेदे च । ३ विरोधकारके त्रि० ।

विरोधाभास पु० विरोधः इवाभासते आ + भास--अच् ।

अर्थालङ्कारभेदे अलङ्कारशब्दे ४०४ पृ० दृश्यम् ।

विरोधोक्ति स्त्री वरवचनविरोधिवचने अमरः ।

पृष्ठ ४९२०

विल स्तृतौ तु० पर० सक० सेट् । विलति अवेलीत् ।

विलक्ष पु० वि + लक्ष--अच् । विस्मययुक्ते अमरः ।

विलक्षण त्रि० विशिष्टं लक्षणमस्य प्रा० ब० । १ विभिन्ने जटा०

२ विशेषणयुक्तं च । ३ निष्प्रयोजनस्थितौ च न० भागुरिः
४ दानार्थं कल्पितकाञ्चनपुरुषमूर्त्तियुतशय्याभेदे स्त्री ।
“अशौचान्तात् द्वितीयेऽह्नि शय्या दद्यात् विलक्षणाम् ।
काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम् । संपूज्य द्विज-
दाम्पत्यं नानास्तरणभूषणैः” शु० त० मत्स्यपु० ।

विलग्न त्रि० विशेषेण लग्नं लवज--क्त तस्य नः जस्य गः ।

१ संलग्ने मेदि० । “मध्येन सा वेदि विलग्नमध्या” कुमा०
२ मध्यभागे हेमच० । ३ कटौ अमरः । ४ उदितमेषादि
राशौ च न० “गोचरे वा विलग्ने वा” इति ज्योतिषम् ।

विलम्ब पु० वि + लवि घञ् । विलम्बने अशीघ्रत्वे प्रतीक्षणीय

काले २ प्रभवादिषु “तस्करैः पार्थिवैश्चैव अभिभूतमिदं
जगत् । अर्घो भवति सामान्यो विलम्बे तु भयं महत्”
ज्यो० त० उक्तलक्षणे वर्षभेदे ।

विलम्बित त्रि० वि + लवि--क्त । १ अशीघ्रे, २ मन्दे च

विलम्बन्ते कण्ठकरचरणादयः प्रत्येकं प्रदर्शनाय स्वरवि-
शेषज्ञानाय वा यत्र आधारे क्त । मध्यकालेन परिच्छेद्ये
३ नृत्ये ४ गीते च । ५ विलम्बयुते त्रि० । तत्र वेदपाठे
कालभेदे विलम्बवृत्तिः साञ्जेनीक्ता यथा “द्रुतामध्यमने वृत्तिं
प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपरोधार्थे
विलम्बितां समाचरेत्” ।

विलम्भ पु० वि + लभ--घञ् मुम् । अतिदाने अमरः ।

विलय पु० वि + ली--अच् । १ प्रलये शब्दर० २ नाशे च ।

विलला स्त्री० वि + लल--अच् । श्वेतबलायाम् रत्नमा० ।

विलाप पु० वि + लप--घञ् । परिदेवनोक्तौ अमरः ।

विलाम पु० वि + लस घञ् । “तत्कालिको विशेषस्तु विला-

सोऽङ्गक्रियादिषु” इत्युक्ते १ त्रीणां शृङ्गारचेष्टाविशेषे
२ दीप्तौ च । “गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम् ।
विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना” उक्ते स्त्रीणां
सात्त्विकभावभेदे सा० द० “यद्रुपं तदभेदेन स्वरूपेण
विराजते । आकृत्यादिमिरन्यादृक् स तदेकात्मरूपकः । स
विलासः स्वांश इति धत्ते भेद्द्वयं पुनः । स्वरूपमन्याकार
यत्तस्य माति विलासतः । पायणात्मममं शक्त्या स
विकासो निगद्यते” ४ भागवताभृतोक्ते पदार्थे

विलासिका स्त्री उपरूपकरूपे नाटिकाभेदे “शृङ्गारबहु-

तैकाङ्का दशलास्याङ्गसंयुता । विद्रषह्वविटाभ्याञ्च
पीठमर्देन भूषिता । हीना गर्भविमर्षाभ्यां सन्धिभ्य
हीननायका । स्वल्पवृत्ता सुनेपथ्या विख्याता सा
विलासिका” सा० द० ६ प० ।

विलासिनी स्त्री० विलासोऽस्त्यस्या भूम्ना इनि ङीप् ।

१ नार्य्यां राजनि० । २ वेश्यायां धरणिः । ३ भोगवति
त्रि० । ४ सर्पे ५ कृष्णे ६ ह्नौ च पु० मेदि० ७ चन्द्रे ८ जरे,
९ महादेवे पु० शब्दर० ।

विलीन त्रि० वि लीं--क्त । १ प्राप्तद्रवीभावे घृतादौ, अमरः । २ विश्लिष्टे ३ नष्टे च ।

विलेपन न० विलिप्यतेऽनेन करणे ल्युट् । गात्रानुसेपनद्रव्यं

१ पिष्ट २ घृष्टे वा चन्दनकुङ्कुमादौ । कर्मणि ल्युट्
ङीप् । ३ यवाग्वां ४ सुवेशायां स्त्रियाञ्च स्त्री० मेदि० ।

विलेप्य पु० वि + लिप--यत् । १ यवाग्वाम् शब्दर० । २

विलेपनीये त्रि० ।

विलोचन न० वि + लुच--करणे ल्युट् । १ नेत्रे जटा० । भावे

ल्युट् । २ दर्शने ।

विलोडित न० वि + लोड--क्त । १ तक्रे राजनि० । २ आलोडिते त्रि० ।

विलोम त्रि० विगतं लोम यत्र अच्समा० । १ विपरीते

हेमच० २ अरघट्टके न० ३ सर्पे ४ कुक्कुरे पुंस्त्री० स्त्रियां
ङीष् ५ वरुणे च पु० मेदि० । ६ व्यस्तत्रैराशिक-
फलज्ञापके क्रियाभेदे “व्यस्तविधिर्विलोमे” लीला० ।
७ व्युत्क्रमान्विते यथा अकारादिहकारान्तवर्णानां व्युत्
क्रमेण हकाराद्यकारान्ततया जपः । सप्तशतीप्रयोगमेदे
मार्कण्डेय उवाचेत्यादिकस्य सावर्णिर्भविता मनुरित्यन्तस्य
मालामन्त्रस्य व्युत्क्रमेण पाठः ।

विलोमकर्म्मन् कर्म० । विपरीतकर्मणि “छेदं गुणं गुर्ण

छेदं वर्गं मूलं पदं कृतिम् । ऋणं स्वं स्वमृणं कुर्य्यात्
दुश्ये राशिप्रसिद्धये” लीला० उक्ते व्यक्तराशेर्मान-
ज्ञानार्थे क्रियाभेदे

विलोमजिह्व पुंस्त्री० विलोमा विपरीता जिह्वा यस्य । गजे

त्रिका० स्त्रियां ङीष् । तस्य तथात्वकथा भा० आनु० ८५ अ०
यथा “इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् ।
परीयुर्ज्वलनस्यार्थे न चाविन्दन् हुताशनम् । अथ तान्
द्विरदः कश्चित् सुरेन्द्रद्विरदोपमः । अश्वथस्थोऽग्नि-
रित्येवमाह देवान् भृगूद्वह! । शशाप ज्वलनः सर्वान्
द्विरदान् क्रोधमूर्च्छत । प्रतीपा भवतां जिह्वा
भवित्रीति भृगूद्वह!” ।

विलोमवर्ण पु० विलोमजः स्मृत्यनुक्ततया व्युत्क्रमजो

वर्णः । प्रतिलोमजाते उत्तमस्त्रियामधमवर्णेन जनिते
सङ्कीर्णे वर्णे ।
पृष्ठ ४९२१

विलोमी स्त्री विशिष्टं लोम केशो यस्याः ५ व० अच्समा० गौरा० ङीष् । आमलक्याम् मेदि० ।

विलोल त्रि० वि + लुल--अच् । १ चञ्चले २ विशेषसतृष्णे च ।

विवर न० वि + वृ--अच् । १ छिद्रे अमरः २ दोषे च मेदि० ।

विवरण न० वि + वृ--ल्युट् । १ व्याख्याने हला० व्याख्यान-

ग्रन्थव्याख्याने २ ग्रन्थभेदे च । भा० भा० टीकापञ्च-
पादिकोपरि विवरणम् । पातञ्जलभाष्योपरि वाचस्पत्य
विवरणम् । कैयटोपरि नागेशकृत विवरणमित्यादि ।

विवरनालिका स्त्री विवरयुक्तं नालमस्त्यस्याः ठन् । वेणौ

(वाँश) त्रिका० ।

विवर्ण त्रि० विरुद्धो वर्णोऽस्य । १ अधमे २ नीचे च अमरः ३ मलिने च ।

विवर्त्त पु० वि + वृत--घञ् । १ नृत्ये २ समुदाये ३ अपवर्त्तने

वेदान्तोक्ते कारणात् विषमसत्ताकतया उत्पद्यमाने
४ कार्य्ये च । यथा रङ्गात् रजतम् ब्रह्मणो जगत् ।
वेदान्तिभिः विवर्त्तवाद एवाश्रितः । न परिणामवादः ।

विवश त्रि० विगतो वश आयत्तता यस्य । १ अस्वतन्त्रे

२ व्याकुले ३ अरिष्टबुद्धियुते मेदि० ।

विवस्वत् पु० वि + वस + क्विप् अस्त्यर्थे मतुप् मस्य वः । १ सूर्य्ये

२ अर्कवृक्षे अमरः । ३ अरुणे शब्दर० । ४ देवे च मेदि० ।

विवाक पु० वि + वच--संज्ञायां कर्त्तरि घञ् । विवेचके

प्राग्विवाकशब्दे पृ० दृश्यम् ।

विवाद पु० विरुद्धो वादः । “ऋणादिदायकलहे द्वयोर्बहु-

तरस्य वा । विवादो व्यवहारश्च” इत्युक्तलक्षणे
व्यवहारे व्यवहारशब्दे दृश्यम् । २ कलहे च ।

विवाह पु० वि + वह--घञ् । दारपरिग्रहे तज्जनके व्या-

पारे च । उद्वाहशब्दे उपयमशब्दे च दृश्यम् ।
“भार्य्यात्वसम्पादकज्ञानं विवाहः” इति उद्वा० रघु० ।
भार्य्यात्वस्योपलक्षणतया निवेशः । तेन नान्योन्याश्रयः
चरमसंस्कारो विजातीयसंस्कारो वा विवाहः” इत्यन्ये ।

विवाहित पु० विवाहो ज तोऽस्य तार० इतच् ।

जातविवाहे ।

विवाह्य त्रि० वि + वह--ण्यत् । १ विवाहयोग्ये २ विशेषेण वाह्ये च ।

विविक्त त्रि० वि + विच--क्त । १ निर्जने २ पवित्रे अमरः

३ असंयुक्ते च । ४ कर्त्तरि--क्त । ४ विवेकिनि त्रि० मेदि०
५ दुर्भगायां स्त्रियां स्त्री त्रिका० ।

विविध त्रि० विभिन्ना विधा यस्य । नानाप्रकारे ।

विवीत पु० विशिष्टं वीतं गवादिप्रचारस्थानं यत्र । प्रचुर-

तृणषासादियुक्ते देशे । “पथि ग्रामविवीतान्ते क्षेत्रे
दोषो न विद्यते” याज्ञवल्क्यस्मृतिव्याख्याने मिताक्षराकृत् ।

विवृत त्रि० वि + वृ--क्त । १ विस्तृते मेदि० २ व्याख्याते च ।

३ क्षुद्ररुग्भेदे स्त्री मेदि० ।

विवृताक्ष पुंस्त्री० विवृते अक्षिणी यस्य षच्समा० । कुक्कुटे

हेमच० । स्त्रियां जातित्वात् षित्त्वाच्च ङीष् ।

विवृति स्त्री वि + वृ--क्तिन् । १ विस्तारे मेदि० २ व्याख्याने

च । “वाक्यस्य शेषाद्विवृतेर्वदन्ति” शक्तिग्राहकमानम् ।

विवृत्त त्रि० वि + वृत क्त । १ तिर्य्यक्चलिते २ प्रकटिते ३ क्षुद्र-

रोगभे स्त्री भावप्र० । “विवृत्तास्यां महादाहां पक्वो-
डुम्बरसन्निभाम् । विवृत्तामिति तां विद्यात् पित्तोत्थं
परिमण्डलम्” परितः शोथवतामिति शेषः” ।

विवेक पु० वि + विच--घञ् । १ याथार्थ्येन वस्तुस्वरूपाव-

धारणे २ प्रकृतिपुरुषयार्भदज्ञाने च जटा० ।
३ अन्योन्यधर्मव्यावर्त्तनेन वस्तुस्वरूपावधारणे । विवेकचू-
तत्प्रकारो दृश्यः । ४ विचारे ५ जलद्रोण्याम् मेदि० ।
संज्ञायां कर्त्तरि घञ् । ६ विचारके च प्राड्विवेकः ।

विवेकिन् त्रि० वि + विच--ष्टिवृण् । विवेकशीले मैरववंश्ये

देवमेनपुत्रभेदे पु० कालिपु० ९ अ० ।

विवोढृ पु० वि + वह--तृच् । १ जामातरि २ पत्थौ च हेमच०

विव्वोक पु० वि + वा--कु तस्य ओकः स्थानम् । “गर्वाभि-

मानादिष्टेऽपि विव्वोकीऽनादरक्रिया” इत्युक्तलक्षणे
स्त्रीर्णा शृङ्गारचेष्टाभेदे ।

विश प्रवेशे तु० पर० सक० अनिट् । विशति अविक्षत् ।

  • अधि + उपवेशने ।
  • अभि + नि + मनसः स्थितिहेतुसंयोगभेदे आत्म० एतदर्थे
आधारस्य कर्मता धर्ममभिनिवेशते अन्यत्रार्थे न कर्मता । “या
या संज्ञा यस्मिन् यस्मिन्नमिनिविशते” भाष्यम् । “क्वपि-
दपवादविषयेऽप्युत्सर्गोऽभिनिविशते” व्या० परिभाषा ।
  • उप + आसनादौ स्थितिभेदे ।
  • नि + स्थितिभेदे आत्म० “निविशते यदि शूकशिखा पदे” मैम०
  • निर् + उपभोगे “क्रीड़ारसं निर्विशतीव बाल्ये” कुमा० ‘निर्वेपी-
भृतिभोगयोः’ अमरः “निर्विष्टविषयस्नेहः” रघु० ।
  • प्र + अभ्यन्तरगमने ।

विश पु० विश--क्विप् । १ मनुजे २ वैश्ये च अमरः ।

विश न विश--क । १ मृणाले रायमु० । २ प्रवेशकर्त्तरि त्रि० ।

विश(ष)(स)कण्ठा स्त्री विश(सं)(षं) मृणालमिव कण्ठो-

ऽस्याः । बलाकायां राजनि० षमध्यः समध्योऽप्यत ।

विशङ्कट त्रि० वि + शङ्कटच् । विशाले अमरः ।

पृष्ठ ४९२२

विशद पु० वि + शद--अच् । १ शुभ्रवर्णे २ तद्वति त्रि० अमरः ।

३ विमले हेम० । ४ व्यक्ते च त्रि० मेदि० ।

विशय पु० वि + शी--अच् । संशये “विषयो विशयश्चैवेति” मीमांसा ।

विशर पु० वि + शॄ--अच् । १ बधे अमरः । प्रादि० व० । २ विगत-

वाणे त्रि० ।

विशल्यकृत् पु० विशल्यं तत्प्रहारवेदनानिवृत्तिं करोति

कृ--किप् । (हापरमाली) १ वृक्षे रत्नमा० । २ विशल्य-
कारके त्रि० ।

विशल्यकरणी स्त्री विशल्यं क्रियतेऽनया कृ--ल्युट् ङीप् ।

ओषधिभेदे “पूर्वं तु कथिता यासौ वीर! जाम्बवता
तव । दक्षिणे शिखरे जातां महौषधिमिहानय ।
विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा । संजीव
करणीं वीर! सन्धानीञ्च महौषधिम्” रामा० लङ्का०
१०२ स० ।

विशल्या स्त्री विगतं शल्यं तत्प्रहारवेदना यस्याः ५ व० ।

१ अग्निशिखवृक्षे २ दन्तीवृक्षे ३ गुडूच्याम् अमरः ४ त्रि-
पुट्याम् ५ अजमोदायाञ्च राजनि० ।

विशसन न० वि + शस--हिंसने ल्युट् । १ मारणे अमरः ।

करणे ल्युट् । २ खड्गे पु० त्रिका० “असिर्विशसनः
खड्गः” खगड्पूजामन्त्रः ।

विशस्त त्रि० वि + शस--अविनये न इट् अन्यत्र इट् । धृष्टे

सि० कौ० । इटि विशसित । मारिते त्रि० ।

विशस्तृ पु० वि + शस--तृच् न इट् । चण्डाले संक्षिप्त० ।

विशाकर पु० विशाकः विगतशाकः सन् राजते राज--बा०

ड । भद्रकूडे (लङ्कासिज) शब्दच० । तस्य शाकशून्यत्वात्
तथात्वम् ।

विशाख पु० विशिष्टा शाखाऽस्य । १ कार्त्तिकेये २ धन्विनां

वितस्त्यन्तरालपादावस्थाने अमरः । ३ पुनर्नवायां राजनि०
४ याचके च मेदि० । ५ स्कन्दांशजाते देवभेदे तन्नामनि-
रुक्तिः मा० व० २२६ अ० उक्ता यथा “वज्रप्रहारात् स्कन्दस्य
सजातः पुरुषोऽपरः । युवा काञ्चनसन्नाहः शक्तिधृग्दिव्य-
कुण्डलः । यद्वज्रवेशनाज्जातो विशाखस्तेन कीर्त्तितः” ।
६ स्कन्दानुजभ्रातरि “अग्नेः पुत्रः कुमारस्तु श्रीमान्
शरवनालयः । तस्य शाखो विशाखश्च नैगमे यश्च
पृष्ठजः” भा० आ० ६६ अ० । ७ शिवे भा० आ० १७ अ० ।

विशाखज पु० विशिष्टा शाखा यस्य तथा सन् जायते

जनक । नारङ्गे शब्दच०

विशाखल न० “विशालान्तरविन्यस्ते पादयुम्मे विशाखलम्” शब्दमालोक्ते धन्विनामवस्थानभेदे ।

विशाखा स्त्री विशिष्टा शाखा प्रकारो यस्याः । १ बहुल-

नक्षत्रात्मकेऽश्विन्यवधिके षोड़शे नक्षत्रे अमरः । “विशा-
खयोर्मध्यगतः सम्पूर्ण इव चन्द्रमा” रामा० प्रयोगात्
तस्य द्विवचनान्ततेत्यन्ये । “बहुपुत्रो विशिखासु” भा०
अ० ९ उक्तेर्बहत्वं बहुतारत्मकत्वेनेति बोध्यम् ।
अदोषाशब्दे ४९७ पृ० दृश्यम् । २ कठिल्लके मेदि० ।

विशाय पु० वि + शी--पर्य्याये णच् । प्रहरिणां पर्य्यायेण

शयने अमरः ।

विशारण न० वि + शृ--स्वार्थे णिच्--ल्युट् । मारणे हेमच० ।

विशारद पु० विशालं ददाति दा--क लस्य रः । १ बकुलवृक्षे

२ क्षुद्रदुरालभायां स्त्री राजनि० । ३ पण्डिते पु० ४ प्रगल्भं
त्रि० अमरः ५ श्रेष्ठे च त्रि० अजयः ।

विशाल त्रि० वि + शालच् । १ विस्तीर्णे २ वृहति च अमरः ।

२ मृगभेदे ३ खगभेदे पुंस्त्री० मेदि० स्त्रिया ङीष् ।
४ नृपभेदे पु० ५ वृक्षभेदे शब्दर० । ६ इन्द्रवारुण्याम् स्त्री
अमरः । ७ माहेन्द्रवारुण्याम् ८ उपोदक्यां च स्त्री
राजनि० । ९ उज्जयिनीनगर्य्यां स्त्री मेदि० । १० नदीभेदे
च स्त्री “विशालां विरजां तथा” मुण्डनोपवासपर्यु-
दासः विरजाशब्दे दृश्यः ।

विशालता स्त्री विशालस्य भावः तल् । १ पार्श्वविस्तारे अमरः २ वृहत्त्वे शब्दर०

विशालतैलगर्भ पु० विशालं विस्तीर्णं तैलं गर्भे फलमध्ये

यस्य । अङ्कोटकवृक्षे राजनि० ।

विशालत्वच् पु० विशाला त्वक् यस्य । सप्तच्छदवृक्ष । अमरः ।

विशालपत्र पु० विशालं पत्त्रमस्य । १ कासालौ, २ श्री-

तालवृक्षे च राजनि० ।

विशालाक्ष पु० विशाले अक्षिणी यस्य षच्समा० । १ महादेवे,

२ गरुडे, ३ विष्णौ च ४ वृहन्नेत्रे, त्रि० मेदि० । ५ पार्वत्यां
६ नागदन्त्यां च स्त्री राजनि० ङीष् । ७ वरस्त्रियां स्त्री
विश्वः । ८ योगिनीभेदे स्त्री ।

विशाली स्त्री० वि + शालच् गौरा० ङीष् । अजमोदायाम् । राजनि० ।

विशिख पु० विशिष्टा विगता वा शिखा यस्य प्रादि० ब० ।

१ शरवृक्षे राजनि० । २ वाणे अमरः । ३ तोमरे च मेदि० ।
४ शिखारहिते त्रि० । ५ खनित्र्यां ६ नालिकायाम
७ रथ्यायाञ्च स्त्री० मेदि० ।

विशिप न० विश--इपक् । मन्दिरे उणादिको०

विशिष्ट त्रि० वि + शिष--क्त । १ युक्ते २ विलक्षणे ३ विशेषणयुक्ते च ।

पृष्ठ ४९२३

विशिष्टबुद्धि स्त्री ६ त० । विशषणवतो विशेष्यस्य ज्ञाने यथा

घट इत्यादिकं ज्ञानम् अत्र घटत्वस्य विशेषणतया भास-
मानस्य घटे विशिष्ये भानम् एतत्कारणञ्च विशेषण-
ज्ञानं तदनुरोधेनैव अयं घट इत्यादिप्रत्यक्षसिद्ध्यर्थं
तत्कारणस्य घटत्वज्ञानस्य पूर्वं सम्पत्त्यर्थं घटघटत्वे इति
निर्विकल्पकज्ञानमग्रे भवतीत्यङ्गीकृतं नैयायिकैः ।

विशिष्टवैशिष्ट्यज्ञान ६ त० । विशेषणंविशिष्टे वैशिष्ट्यस्य

संसर्गस्य ज्ञाने यथा रूपवान् घट इत्यादि ज्ञानं तत्र
घटत्वविशिष्टे रूपादेः संसर्गस्य भानम् । तच्च द्विविधम्
विशेषणोपलक्षितप्रतियोगिकवैशिष्ट्यावगाहि विशेषणवि-
शिष्टप्रतियोगिकवैशिष्ट्यावगाहि च । आद्ये विशेषण-
ज्ञानासंसर्गयोः कारणता द्वितीये तु विशेषणतावच्छेदक-
प्रकारकविशेषणज्ञानस्य कारणता । यथाकारणं च
तयोर्योधवैलक्षण्यम् । तत्र क्वचित् विशेष्ये यद्विशेषणं तत्रापि
विशेषणान्तरमिति रीत्या ज्ञानं जायते यथा दण्डवान्
पुरुष इति ज्ञानम् अत्र ज्ञाने पुरुषांशे दण्डो दण्डांशे
दण्डत्वं विशेषणतया भासते । तत्र विशृङ्खलोपस्थितिः
प्रयोजिका । क्वचिदेकत्र द्वयमिति रीत्या बोधः । यथा
दण्डवान् पुरुष इति ज्ञानम् अत्र च ज्ञाने एकस्यांव्यक्तौ
पुरुषे पुरुषत्वं दण्डश्चेत्युभयं विशेषणतया भासते
नतु विशेषणविशेषणतावच्छेदकभावेन । क्वचित् विशिष्ट-
वैशिष्ट्यावगाहि ज्ञानं भवति यथा दण्डवान् पुरुष इति
ज्ञानमत्र च ज्ञाने विशेषणतावच्छेदकप्रकारकं विशेषणज्ञानं
कारणम । तत्र दण्डरूपविशेषणावच्छिन्न्प्रतियोगिक-
वैशिष्ट्यरूपः संसर्गः पुरुषांशे संसर्गतया भासते । अतएव
विशेषणविशिष्टसंसर्गावगाहि तदिति उपलक्षितज्ञानात्
विशेषः । क्वचिच्च विशिष्टज्ञानं यथा अयं दण्डीति
ज्ञानम् अत्र च ज्ञाने इदमर्थे विशेष्ये दण्डात्मक-
विशेषणप्रतियोगिकः संसर्गः संसर्गतया मासते उपलक्षणे
तु न तत्प्रतियोगिकतया संसर्गस्य भानमिति भेदः ।
विशिष्टवैशिष्ट्यशाब्दबोधे त्वयं भेदः व्युत्पत्तिवैचित्र्येण
उद्देश्यतावच्छेकविधेयतावच्छेकयीः पारतन्त्र्येण परस्परं
प्रयोज्यप्रयोजकभावेनान्वयः । यथा धनवान् सुखीत्यत्र
वनप्रयोज्यत्वस्य सुखे, सुरापः पततीत्यत्र सुरापानस्य
पतने प्रयोज्यत्वस्यान्वयः ।

विशिष्टाद्वैत न० रामानुजाद्युक्ते प्रकृतिविशिष्टस्य ब्रह्मणो-

ऽद्वयत्वे । रामानुजशब्दे दृश्यम् ।

विशिष्टाभाव पु० ६ त० । विशेषणविशिष्टस्यामावे स च

कचित् विशेषणाभावप्रयुक्तः क्वचिच्च विशिष्याभावप्र-
युक्तः कचिदुभयाभावप्रयुक्तः ।

विशीर्ण त्रि० वि + शॄ--क्त । १ शुष्के, २ जरावस्थापन्ने ।

विशीर्णपर्ण पु० विशीर्णं पर्णमस्य । निम्बवृक्ष राजनि० ।

विशुद्ध त्रि० वि + शुध--क्त । १ दोषरहिते, २ विशदे च ।

तन्त्रोक्ते कण्ठस्थे ३ चक्रभेदे चक्रशब्दे २८०८ पृ० दृश्यम

विशुद्धाद्वैत न० ६ त० । वल्लभाचार्य्यमतप्रसिद्धे दोषरहि-

तस्य व्रह्मणोऽद्वयत्वे ।

विशुद्धि स्त्री० वि + शुध--क्तिन् । १ शोधने २ दोषराहित्ये च ।

विशृङ्खल त्रि० विगता शृङ्खला पद्धतिर्यस्याः । परिपाटीशून्ये

विशेष पु० वि + शिष--घञ् । १ प्रभेदे, २ प्रकारे, जटा० । ३ व्यक्तौ

हेमच० । ४ तिलके, हारा० । “अन्त्योनित्यद्रव्यवृत्तिर्कि
शेषः परिकीर्त्तित” इति भाषा० उक्ते ५ पदार्थभेदे
“अन्ते अवसाने तिष्ठतीति अन्त्यः यदपेक्षया विशेषो
नास्तीत्यर्थः । घटपटादीनां द्व्यणुकपर्य्यन्तानां तत्त-
दवयवभेदात् परस्परं भेदः । परमाणूनां भेदको
विशेष एव स तु स्वत एव व्यावृत्तः तेन तत्र विशेषात्नरा-
पेक्षा नास्तीति” सि० मुक्ता० । अयञ्च नित्यद्रव्ये समवायेन
तिष्ठति “तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः” भाषायां
चकारेण नित्यद्रव्येषु विशेषसम्बन्धस्य समवायतायाः
ग्रहणात् । “द्रव्यगुणकर्मसामान्यविशेषसमवायानां
पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानानिःश्रेयसम्”
कणा० सू० उद्दिश्य लक्षितं यथा “अन्यत्रान्त्येभ्यो
विशेषेभ्यः” सू० । “अन्त्या विशेषा नित्यद्रव्यवृत्तयो येऽभि-
हितास्तान् वर्जयित्वा सामान्यविशेषाभिधानमित्यर्थः ।
अन्ते अवमाने भवन्तीत्यन्त्याः यतो न व्यावर्त्तकान्तरमस्ती
त्याचार्य्याः उत्पादविनाशयोरन्तेऽवसाने भवन्तीत्यन्त्यानि
नित्यद्रव्याणि तेषु भवन्तीत्यन्त्या विशेषाः इति वृत्तिकृतः
ते हि विशेषा एव व्यावृत्तबुद्धिहेतवः न तु सामान्य-
रूपा अपि” उप० वृ० । नित्यैकमात्रवृत्तय इति
फलितार्थः । “अन्योन्याभावविरोधिसामान्यरहितः समवेतो
विशेषः” सर्व० औ० माधवः । ६ व्याप्यधर्मे । यथा नीलघटः
इत्यादौ घटत्वव्याप्यधर्मः नीलत्वादिविशिष्टष्टत्वादिः ।
७ अर्थालङ्कारभेदे च अलङ्कारशब्दे ४०५ पृ० दृश्यम् ।

विशेषक पुंन० विशेषयति वि + शिष--णिच्--ण्वुल् । १ ललाट-

कृते तिलके अमरः । २ विशेषकर्त्तरि त्रि० मेदि० “त्रिभि-
र्ज्ञेयं विशेषकम्” इत्युक्ते एकवाक्यतापन्ने ३ श्लोकत्रये
न० । ४ तिलवृक्षे राजनि० ।

विशेषगुण पु० कर्म० । “बुद्ध्यादिषटकं रूपादिचतुष्कं

स्नेहभावने । स्वाभाविकद्रवत्वञ्च अदृष्टे शब्द एव च”
भाषा० उक्तेषु गुणभेदेषु ।
पृष्ठ ४९२४

विशेषण न० विशिष्यतेऽनेन वि + शिष--ल्युट् । भेदकधर्मे

गुणक्रियादौ यथा नीलम् उत्पलं चलो गौरित्यादौ
गुणक्रियादिर्भेदकधर्मः ।
विशेषणञ्च त्रिविधं व्यावर्त्तकं विधेयं हेतुगर्भञ्च । तत्राद्यं
नीलो घट इत्यादौ नीलः, द्वितीयं पर्वतो वह्निमान्” अत्र
वह्निर्विधेयविशेषणम् । “न्यक्कारो ह्ययमेव मे यदरयः” इत्यादौ
लक्कारोविधेयः । तृतीयं यथा सुरापः पततीत्यादौ सुरा-
पानं हेतुगर्भविशेषणम् । तस्य भावः तल् । विशेषणताप्रका-
रताख्यविषताभेदे स्वरूपसम्बन्धविशेषे च स्त्री । स च
तत्पदजन्यबोधविषयत्वेन शक्तिविषयत्वरूपः । अभावप्रत्यक्षे
सन्निकर्षभेदे च । यथा घटाभाववद् भूतलमित्यादि चाक्षुष-
प्रत्यक्षे भूतलांशे घटाभावस्य विशेषणता सन्निकर्षः ।
“विशेषणतया तद्वदभावानां ग्रहो भवेत्” भाषा० । सा
च नानाविधा यथोक्तं
“यद्यपि विशेषणता नानाविधा तथाहि भूतलादौ
घटाभावः संयुक्तविशेषणतया गृह्यते, संख्यादौ रूपत्वाद्य-
भावः संयुक्तसमवेतविशेषणतया, संख्यात्वादौ रूपाद्यभावः
संयुक्तसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्रावच्छिन्न-
विशेषणतया । कत्वादौ खत्वाद्यभावः श्रोत्रावच्छिन्न-
समवेतविशेषणतया । एवं कत्वावच्छिन्नाभावे खत्वा-
भावादिकं विशेषणविशेषणतया । एवं घटाभावादौ
पटाद्यभावः संयुक्तविशेषणविशेषणतया । एवमन्यदप्यूहं
तथापि विशेषणतात्वरूपेणैकेव सा गण्यते । अन्यथा
षोढ़ा सन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” सि०
मुक्ता० । “प्रत्यक्षं समवायस्य विशेषणतया भवेत्” भाषा०
उक्तेः समवायप्रत्यक्षसन्निकर्षभेदे च ।

विशेषणासिद्ध पु० विशेषणेनासिद्धः । हेत्वाभासभेदे यो

हेतुः विशेषणविशिष्टः सन् पक्षे न तिष्ठति तादृशे हेतौ
यथाशब्दो नित्थः द्रव्यत्वे सत्यस्पार्शत्वात् इत्यादौ द्रव्यत्व-
रूपविशेषणस्य शब्दे वाधात् तथात्वम् ।

विशेषविधि पु० विशेषे विधिः । सामान्यविशेषयोर्मध्ये

विशेषगोचरे विधाने यथा ब्राह्मणेभ्यो दधि दीयतां
कौण्डिन्थाय तक्रमित्यत्र कौण्डिन्यस्य ब्राह्मणविशेषत्वेन
तद्विषये दधिदानापवादेन तक्रदानविधिः । “अल्पः
खाद् विषयो यस्य स विशेषविधिर्सतः” व्या० का० ।

विशेषित त्रि० वि + शिष--णिच--क्त । १ भेदिते २ विशेषणयुक्ती कृतं च ।

विशेषोक्ति स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०५ पृ०

दृश्यम् ।

विशेष्य त्रि० विशिष्यते भेद्यते गुणादिभिरसौ वि +

शिषकर्मणि ण्यत् । गुणादिभिर्भद्ये १ व्यवच्छेद्ये पदार्थे
२ धर्मिणि च । तस्य भावः तल् । विशेष्यता
विषताविशेषे स च तज्ज्ञानीययत्किञ्चित्प्रकारतानिरू-
पितः संसर्गविषताभिन्नः विषयताविशेषः इति प्राञ्चः ।
तत्र समानाधिकरणा प्रकारता विशेष्यता च एकैवेति
जगदीशः । तयोर्भिन्नत्वम् अवच्छेद्यावच्छेदकभावश्चेति
गदाधरः । यथा घटाभाववद् भूतलमित्यादौ घटनिष्ट-
प्रकारतानिरूपिता या अभावनिष्ठा विशेष्यता सैव
तदवच्छेद्या वा या अभावनिष्ठा प्रकारता तन्निरूपिता
भूतलनिष्ठविशेष्यतेति प्राञ्चः । स्वरूपसम्बन्धविशेष
इत्यन्ये ।

विशेष्यासिद्ध पु० स्वरूपासिद्धे हेत्वाभासभेदे । यो हेतुः

स्वघटकविशेष्यस्वरूपः पक्षे न तिष्ठति तादृशे हेतौ
यथाशब्दो नित्योऽस्पार्शत्वे सति द्रव्यत्वादित्यादौ अत्र अस्पार्श-
त्वविशिष्टं द्रव्यत्वं हेतुः तत्र विशिष्यं दूव्यत्वं शब्दे-
ऽसिद्धमिति स्वरूपासिद्धो हेतुः ।

विशोक पु० विगतः शोकः यस्मात् यस्य वा । १ अशोकवृक्षे

राजनि० । २ शोकरहिते त्रि० । योगशास्त्रोक्ते ३ चित्त-
वृत्तिभेदे स्त्री । “विशोका वा ज्योतिष्मती” पात० सू० ।
“विशोका विविधविषवतीति” विवरणम् ।

विशोधनी स्त्री विशुध्यतेऽनया शुध--ल्युट् ङीप् । १ दन्ती-

वृक्षे राजनि० । भावे ल्युट् । २ शोधने न० । वि + शुध--ल्यु ।
२ शोधनकारके त्रि० । “प्रायश्चित्तं विशोधनम्” स्मृतिः ।

विशोधिन् त्रि० वि + शुध--णिच्--णिनि । १ शोधनकारके

२ नागदन्त्यां राजनि० स्त्री ङीप् ।

विश्न पु० विश--दीप्तौ भावे नङ् । दीप्तौ सि० कौ० ।

विश्र(श्रा)णन न० वि + श्रण--णिच्--ल्युट् वा वृद्धिः । दाने अमरः

विश्रब्ध त्रि० वि + श्रन्भ--क्त । विश्वस्ते “विश्रब्धं परिचु-

म्ब्यजातपुलका” सा० द० । २ शान्ते ३ अनुद्धते त्रि० हेमच०
४ गाढ़े त्रि० मेदि० ।

विश्र(श्रा)म पु० वि + श्रम--घञ् वा वृद्धिः । १ विरामे प्रवृत्तव्यापारस्यावसाने च भरतः ।

विश्रम्भ पु० वि + श्रन्म--घञ् । १ विश्वासे अमरः । २ प्रणये

३ केलिकलहे मेदि० ३ बधे च विश्वः ।

विश्राव पु० वि + श्रु--घञ् । १ प्रसिद्धौ अमरः २ ख्यातौ च ।

विश्रुत पु० वि + श्रु--क्त । १ विख्याते अमरः । २ विशेषेण श्रुते च

पृष्ठ ४९२५

विश्लिष्ट त्रि० वि + श्लिष--क्त । १ वियुक्ते २ शिथिले च ।

विश्लेष पु० वि + श्लिष--घञ् । १ वियोगे २ शैथिल्ये च मेदि० ।

विश्व न० विश--व । १ जगति संसारे । २ तदभिमानिनि

जीये पु० । व्यस्तस्थूलदेहे प्रवेशात्तस्य तथात्वम् वेदान्तसारे
उक्तम् । ३ श्राद्धदेवविशेषे पु० ब० व० । ४ सकले त्रि०
३ तदर्थेऽस्य सर्वनामता । श्राद्धदेवाश्च दशविधाः
गणदेवताभेदाः यथोक्तम् “वसुसत्यौ क्रतुदक्षौ कालकामौ
धुरिः कुरुः । पुरूरवा मार्द्रावाश्च विश्वे देवाः प्रकी-
र्त्तिताः” द्रैवशब्दे ३७५७ पृ० दृश्यम् । ५ नागरे विश्वः
६ दक्षकन्याभेदे विश्वदेवमातरि स्त्री मत्स्यपु० ५ अ० ।
७ अतिविषायां स्त्री अमरः । ८ शतावर्य्यां स्त्री राजनि०
९ विंशपलपरिमाणे स्त्री । “गुञ्जाः षण्णवतिः स्तोमो
दशघ्न तत्पलं भवेत् । विश्वा विंशत्पलं प्रोक्तं” ज्योति-
ष्मती । अयं परिमाणभेदः कंसवणिक्प्रसिद्धः । १० विष्णौ
न० विष्णुस० । १ १ देहे न० चक्रशब्दे २८०८ पृ० दृश्यम् ।

विश्वकद्रु पु० विश्वकं द्रवति द्रु--डु । १ मृगयाकुशलकुक्कुरे

अमरः । २ शब्दे पु० ३ खले त्रि० मेदि० ।

विश्वकर्म्मन् पु० विश्वेषु कर्म व्यापारो यस्य । १ सूर्य्ये

२ देवशिल्पिनि अमरः । ३ मुनिभेदे मेदि० ४ परमेश्वरे च ।

विश्वकृत् पु० विश्वं करोति कृ--क्विप् । १ विश्वकर्मणि २ परमेश्वरे च

विश्वकेतु पु० विश्वे केतबोऽस्य । अनिरुद्धे अमरः ।

विश्व(ष्व)क्सेन विशु(षु)ची सेना यस्य । १ विष्णौ अमरः

२ प्रियङ्गुवृक्षे स्त्री ३ विष्णोर्निर्माल्यधारके तदीयगणभेदे
“निर्माल्यधारी विष्णोस्तु विश्च(ष्व)क्सेनश्चतुर्भुजः”
कालिकापु० ८२ अ० । ४ त्रयोदशमनौ मत्स्यपु० ९ अ० । षमध्य
एवेष्वर्थेषु पा० सम्मतः भरतस्तु शमध्यतामाह तन्मूलं
चिन्त्र्यम् ।

विश्वगन्ध न० विश्वतो गन्धोऽस्य । १ वोले गन्धरसे २ पलाण्डौ च राजनि० ।

विश्वगन्धा स्त्री विश्वे सकला गन्धा यस्याम् । पृथिव्याम्

शब्दच० ।

विश्वग्रन्थि स्त्री विश्वतो ग्रन्थिर्यस्याः । हंसपदीलतायाम् राजनि० ।

विश्व(ष्व)च् अव्य० विषु विश्वं वा अञ्चति क्विप् पृषो० विश्वस्य

विशुः ततः सप्तम्याद्यर्थे असि तस्य लुक् । १ सर्वत इत्यर्थे ।
असेरभावे । २ सर्वत्रगामिनि त्रि० स्त्रियां विषूचो भत्वे
विषू(शू)च इत्यादि । अद्र्यागमे विष्वद्र्यच् उक्तार्थे । भत्वे
विष्वद्रीच इत्यादि । शमध्यतां भरत आह तन्मूलं मृग्यम् ।

विश्वचक्र न० द्वादशे महादानभेदे मत्स्यपु० तद्विधिर्यथ

“अथातः संप्रवक्ष्यासि महादानमनुत्तमम् । विश्वचक्र-
मितिख्यातं सर्वपातकनाशनम् । तपनीयस्य शुद्धस्य विश्व-
चक्रन्तु कारयेत् । श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्य-
मम् । तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् । अ
न्यद्विंशत्पलादूर्द्ध्वमशक्तोऽपि निवेदयेत् । षोड़ाशारं
ततश्चक्रं भूमिनेम्यष्टकावृतम् । नाभिपद्मे स्थितं विष्णु
भोगारूढ़ं चतुर्भुजम् । शङ्खवक्रस्य पार्श्व तु देव्यष्टक-
समावृतम् । द्वितोयावरणे तद्वत् पूर्वतो जलशायिनम् ।
अत्रिर्भृगुर्वशिष्ठश्च ब्रह्मा काश्यप एव च । मत्स्यः कूर्मो
वराहश्च नरसिंहाऽथ वामनः । रामो रामश्च रामश्च
बुद्धः कल्की च ते दश । तृतीयावरणे गौरी मातृभि-
र्बहुभिर्युता । चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च ।
पञ्चमे पञ्च भूतानि रुद्राश्चैकादशैव तु । लोकपाला-
ष्टकं षष्ठे दिङ्मातङ्गास्तथैव च । सप्तमेऽस्त्राणि सर्वाणि
मङ्गल्यानि च कारयेत् । अन्तरान्तरतो देवान् विन्य-
सेदष्टमे पुनः । तुलापुरुषवत् शेषं समन्तात् परिकल्प-
येत् । ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम् । विश्व-
चक्रं ततः कुर्य्यात् कृष्णाजिनतिलोपरि । तथाष्टा-
दश धान्यानि रसाश्च लवणादयः । पूर्णकुम्भाष्टकञ्चैव
वस्त्राणि विविधानि च । माल्येक्षु फलरत्नानि वितान
चापि कल्पयेत् । ततो मङ्गलशब्देन म्नातः शुक्लाम्बरी
गृही । होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः ।
इममुच्चारयेन्मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम् । नमो विश्व-
मयायेति विश्वचक्रात्मने नमः । वरम नन्दरूपी त्वं
पाहि नः पापकर्दमात् । तेजोमयमिदं यस्मात् सदा
पश्यन्ति योगिनः । हृदि तत्त्रिगुणातीतं विश्वचक्र
नमाम्यहम् । वासुदेवस्थितञ्चक्रं चक्रमध्ये च
माथवम् । अन्योन्याधाररूपेण प्रणमामि स्थिताविह ।
विश्वचक्रमिदं यस्मात् सर्वपापहरं परम् । आयुध-
ञ्चाधिवासञ्च भवादुद्धर मामितः” ।

विश्वजित् पु० विश्वं जयति जि--क्विप् । १ विष्णौ २ सर्मस्व

दक्षिणे यज्ञभेदे “विश्वजिता यजेत” श्रुतिः । ३ तदधि-
कारेण अश्रुतफलत्वे स्वर्गफलकल्पकन्यायभेदे मीमां० ।

विश्वदेवा स्त्री विश्वतो दीव्यति दिव--अच् । १ ह्रस्वगवेधु-

कायाम् (गोरक्षषाकुलिया) जटा० । २ नागवलायां ३ रक्त-
पुष्पदलोत्पले च रत्नमाला । कर्म० । ४ विश्वाख्यदेवगणे पु०

विश्वधारिणी स्त्री विश्वं धारयति धृणिनि । पूथिव्याम

विश्वपर्ण्णी स्त्री विश्वतः पर्णान्यस्याः । मूम्यामलक्यां राजुनि-

विश्वप्सन् पु० विश्व प्साति भक्षति प्सा--कनिन् । १ सर्वभक्षके वह्नौ

२ चन्द्रे हेमच० । ३ देवे ४ विश्वकर्मणि ५ भूमौ संक्षिप्तमा०
६ सूर्य्ये शब्दर० ।
पृष्ठ ४९२६

विश्वभेषज न० विश्वेषां भेषजम् । रण्ठ्याम् अमरः ।

विश्वमदा स्त्री विश्वस्य मदो यस्याः । अग्निजिह्वाभेदे शब्दमा०

विश्वम्भर पु० विश्वं विभर्त्ति भृ--अच् मुम् च । १ इन्द्रे अमरः

२ विष्णौ च । ३ पृथिव्यां स्त्री ।

विश्वरूपक न० विश्वं रूपमम्य कप् । कृष्णागुरुणि राजनि०

विश्वरेतस् पु० विश्वं रेतोरेतोजन्यं यस्य । चतुर्मुखे ब्रह्मणि

हेमत्व० ।

विश्वरोचन पु० विश्वान् रोचयति रुच--णिच्--ल्यु । नाड़ीचशाके त्रिका० ।

विश्ववेदस् पु० विश्वं वेत्ति विद--असुन् । १ इन्द्रादौ देवे

२ सर्वज्ञे च ।

विश्वसार न० विश्वेषां सारम् । १ तन्त्रभेदे । संज्ञायां कन् । (फणिमनस) २ वृक्षे पु० शब्दच० ।

विश्वसृज् पु० विश्वं सृजति सृज--क्विन् । चतुर्मुखे ब्रह्मणि

अमरः । हलादौ कुः विश्वसृक् विश्वसृग्भ्वामित्यादि

विश्वस्त त्रि० वि + श्वस--क्त । १ जातविश्वामे । २ विधवायां

स्त्रियां स्त्री अमरः । वा इट् । विश्वशित त्रि० जातविश्वासे

विश्वस्था स्त्री विश्वतः तिष्ठति स्था--क । शतावर्य्याम् राजनि०

विश्वाची स्त्री विश्वमञ्चति अन्च--क्विप् । १ अप्सरोभेदे

वह्निपु० । २ वाहुरोगभेदे भावप्र० तल्लक्षणादि० तत्रोक्तं
यथा “अथ विश्वाचीलक्षणमाह “तलं प्रत्यङ्गलीनां
या कण्डरा बाहुपृष्टतः । व ह्वेः कर्मक्षयकरी
विवाचो सा निगद्यते” । कण्डरा महास्नायुः तलं हस्त
स्योपरिभागः तलशब्दोऽत्र उपरिवाचकः यथा भूमितल-
मिति । तेनायमर्थः बाहुपृष्ठतः बाह्वोः पृष्ठं बाहुपृष्ठ-
मारभ्य तलं प्रतिहस्ततलं यावल्लक्षीकृत्य अङ्गुलीनां
काण्डरास्ताः सन्दूष्य बाह्वोः प्रसारणाकुञ्चनादिकर्म-
क्षयकरी भवति सा इह वातष्याघिषु विश्वाचीत्युच्यते
व ह्वोरिति द्वित्वं सम्भवपरम् । एकस्मिन्नपि वाहौ
विश्वाची भवति” भावप्र० ।

विश्वात्मन् पु० विश्वमात्म यस्य । विष्णौ विष्णुस० ।

विश्वधामन् पु० विश्व दवाति वालयति धा--असुन् णिच्च

पूर्वर्दार्घः । देवे सि० कौ० ।

विश्वानर पु० अग्निजनके विभमेदे वैश्वानरशब्दे दृश्यम् ।

विश्वामित्र पु० विश्वं मित्रमस्य पूर्वपददीर्घः । गाधिसुते

नृपे ब्रह्मर्षिभेदे हरिवं० २८ अ० ।

विश्वामित्रप्रिय पु० ६ त० । १ नारिकेले शब्दर० २ श्रीरामे च

विश्वा(श्व)राज् पु० विश्वेषु राजते राज--क्विप् । १ विश्वेषां

राजनि । २ परमेश्वरे च अस्य हलादावेवाःत्त्वमन्थत्र
विश्वराजावित्यादि ।

विश्वावसु पु० विश्वेषां वसु यस्मात् पृषो० दीर्घः । १ गन्धर्वभेदे २ रात्रौ स्त्री मेदि० ।

विश्वास पु० वि + श्वस--घञ् । इदमित्थमेवेत्याकारे १ चित्त-

वृत्तिभेदे प्रत्यये अमरः । २ श्रद्धायाञ्च “नखिनाञ्च नदीनाञ्च
शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः” चाणक्यः

विश्वेदेव पु० ब० व० कर्म० अलुकस० । “क्रतुर्दक्षो वसुः सत्यः

कामः कालस्तथा घुरिः । रोचनोमाद्रवाश्चैव तथा
चान्यः पुरूरवाः । विश्वे दैवा भवन्त्येते दश श्राद्धेषु
पूजिता” इत्युक्ते श्राद्धदेवभेदे । २ वह्नौ पु० संक्षिप्त० ।

विश्वेश पु० ६ त० । शिवे, विश्वेश्वरादयोऽप्यत्र ।

विश्वौषध न० विश्वेषु रोगेषु औषधम् । शुण्ठ्याम् । राजनि०

विष व्याप्तौ जु० उभ० सक० अनिट् । वेवेष्टि वेविष्टे इरित्

अविषत् अविक्षत् त । विष्णुः ।

विष विप्रयोगे क्र्या० पर० अक० अनिट् । विष्णाति अविक्षत्

विष सेचने भ्वा० पर० सक० अनिट् । वेषति अविष्टत् ।

विष् स्त्री विष--क्विप् । १ विष्ठायाम् अमरः २ कन्यायां च विट्पतिः ।

विष न० विष--क । १ जले अमरः २ पद्मवेशरे, रायमुकुटः ।

३ गन्धरसे बोले ४ वत्सनाभे--विषे च ५ गरलमात्रे पुंन०
राजनि० । ६ मृणाले पु० अमरः । गरलरूपविषस्य नाम
लक्षणादिकं भावप्र० उक्तं यथा “विषं तु गरलः क्ष्वेड़-
स्तस्य भेदानुदाहरे । वत्सनानाभः सहारिद्रः सक्तु-
कश्च प्रदीपनः । सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव
च । हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव” । तत्र
वत्सनाभस्य स्वरूपनिरूपणम् । “सिन्दुवारसदृक्पत्रो
वत्सनाभ्याकृतिस्तथा । यत्पार्श्वेन तरोर्वृद्धिर्वत्स नाभः
स भाषितः” । अथ हारिद्रस्य स्वरूपनिरूपणम्
“हरिद्र तुल्यमूलो यो हारिद्रः स उदाहृतः” । अथ
सक्तुकस्य स्वरूपम् “यद्ग्रन्थिः सक्तुकेनेव पूर्णमध्यः
स सक्तुकः” । अथ प्रदीपनस्य स्वरूपम् “वर्णतो
लोहितो यः स्याद्दीप्तिमान् दहनप्रभः । महादाहकरः
पूर्वैः कथिमः स प्रदीपनः” । अथ सौराष्ट्रिकस्य स्वरू-
पम् “सराष्ट्रविशये यः स्यात् स सौराष्ट्रिक उच्यते” । अथ
शृङ्गिकस्य स्वरूपम् “यस्मिन् गोशृङ्गके यद्धे दुग्धम्भवति
लोहितम् । स शृङ्गिक इति प्रोक्तो द्रव्यतत्त्वविशा-
रदैः” । अथ कालकूटस्य स्वरूपम् “देवासुररणे देवै-
र्हतस्य पृथुमालिनः । दैत्यस्य रुधिराज्जातस्तरुरश्वत्थ
सन्निभः । निर्यासः कालकूटोऽस्य मुनिभिः परिकी-
पृष्ठ ४९२७
र्त्तितः । सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत्”
अथ हालाहलस्य स्वरूपम् “गोस्तनाभफलो गुच्छ-
स्तालपत्रच्छदस्तथा । तेजसा यस्य दह्यन्ते समीपस्था
द्रुमादयः । असौ हालाहलोज्ञेयः किष्किन्धायां
हिमालवे । दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते” ।
अथ ब्रह्मपुत्रस्य स्वरूपम् “वर्णतः कपिलो यः स्यात्तथा
भवति सारतः । ब्रह्मपुत्रः स विज्ञेयो जायते मलया-
चले । ब्राह्मणः पाण्डुरस्तेषु क्षत्रियो लोहितप्रभः ।
वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः । रसायने
विषं विप्रं क्षत्रियं देहपुष्टये । वैश्यं कुष्ठविनाशाय
शूद्रं दद्यात् वधाय हि” । (एते च स्थावरविषाः)
तेषां शोधनविधिः तत्रैव स्थानान्तरे “गोमूत्रे त्रिदिनं
स्थाप्यं विषं तेन विशुद्ध्यति । रक्तसर्षपतैलाक्तं तथा
धार्य्यञ्च वाससि । ये गुणा गरले प्रोक्तास्ते स्युर्हीना
विशोधनात् । तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोज-
येत्” । अथ विषस्य गुणाः “विषं प्राणहरं प्रोक्तं
व्यवायि च विकाशि च । आग्नेयं वातकफहृत्
योगवाहि महावहम्” । व्यवायि सकलकायगुणव्यापनपूर्व-
कपाकगमनशीलम् । विकाशि ओजःशोषणपूर्वकसन्धि-
बन्धशिथिलीकरणशीलम् । आग्नेयम् अधिकाग्न्यंशम् ।
योगवाहि संसर्गिगुणग्राहकम् । मदावहं तमोगुण-
प्राधान्येन बुद्धिविध्वंसकम् । “तदेव युक्तियुक्तन्तु प्राण-
दायि रसायनम् । योगवाहि परं वातश्लेष्मजित् सन्नि-
पातहृत्” । अथोपविषाणां निरूपणम् “अर्कक्षीरं स्नुही-
क्षीरं लाङ्गली करवीरकः । गुञ्जाहिफेनोधत्तूरः सप्तो
पविषजातयः” । एतेषां शोधनं चिन्त्यं गुणास्तत्र तत्र
द्रष्टव्याः” ।
तत्र विषस्य द्वैविध्यमाह “स्थावरं जङ्गमञ्चैव द्विविघं
विषमुच्यते । दशाधिष्ठानमाद्यं तु द्वितोय षोड़षाश्र-
यम” । स्थावरविषस्य दशाश्रयानाह “मूलं पत्रं फलं
पुष्पं त्वक् क्षीरं सारमेब च । निर्यासो धातवः कन्दः
स्थावरस्याश्रया दश” । तद्यथा मूलविषं करवीरादि ।
पत्रविषं विषपत्रिकादि, फलविषं कर्कोटकादि, पुष्पविषं
वेत्रादि, त्वक्सारनिर्य्यासविषाणि करम्भादीनि क्षीरविषं
स्नुह्यादि धातुविषं हरितालादि कन्दविषं वत्सनाभ-
सक्तुकादि । जङ्गमविषस्य षोड़शाश्रयानाह “दृष्टि-
निःश्वासदंष्ट्रा च नखमूत्रमलानि च । शुक्रं लाला-
नखस्पर्शः सदंशं स्वावमर्दितम् । गुदास्थिपित्तशुक्राणि
दश षट् जङ्गमाश्रयाः” । तद्यथा दृष्टिनिःश्वासविषाः
दिव्याः सर्पाः, दंष्ट्राविषाः मौमसर्पाः दंष्ट्रानखविषा
व्याघ्रादयः, मूत्रपुरीषविषाः गृहगोधिकादयः शुक्रविषा
मूषिकादयः, लालाविषाः उच्चिटिकादयः, लालास्पर्शमूत्र-
पुरीषार्त्तवशुक्रमुखसन्दंशदंष्ट्रास्पर्शावमर्दितगुदपुरीषविषा-
श्चित्रशीर्षादयः, अस्थिविषाः सर्पादयः, पित्तविषाः
शकुलमत्स्यादयः, शूकविषाः भ्रमरादयः । स्थावरविषाणां
सामान्यानां कार्य्याण्याह । तत्र मूलविषस्य कार्य्यमाह
“उद्वेष्टनं मूलविषैर्मोहः प्रलपनं तथा” । पत्रविषस्य
कार्य्यभाह “जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत्” ।
फलविषस्य कार्य्यमाह “शुष्कशोथः फलविषैर्दाहोद्वेषश्च
मोजने” । पुष्पविषस्य कार्य्यमाह “भवेत् पुष्पविषैश्छर्दि-
राध्मानं मूर्च्छनं तथा” । त्वक्सारनिर्य्यासकार्य्याण्याह
“त्वक्सारनिर्य्यासविषैरुपभुक्तैर्भवन्ति हि । आस्यदौर्ग-
न्ध्यपारुष्यशिरोरुक्कफसंश्रयाः” । क्षीरविषकार्य्यमाह
“फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता” । धातुविष-
कार्य्यमाह “हृत्पीड़नं धातुविषैर्मूर्च्छा दाहश्च तालुनि ।
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत्” । एतानि
मूलविषाणि नव कालघातीनि कालान्तरे मारकाणि ।
कन्दविषस्य कार्य्यमाह । “कन्दजान्युग्रवीर्य्याणि
यान्युक्तानि त्रयोदश । सर्वाण्येतानि कुशलैर्ज्ञेयानि
दशभिर्गुणैः । स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्वि-
मम् । सद्यो निहन्ति तत् सर्वं गुणैश्च दशभिर्युतम्” ।
तान् दशगुणानाह “रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु
व्यवायि च । विकाशि विशदञ्चैव लघुपाकि च ते
दश” तैर्गुणैर्विषस्य कार्य्यमाह “तद्रौक्ष्यात् कोपयेद्वायु-
मौष्ण्यात्पित्तं सशोणितम् । तैक्ष्ण्यान्मतिं मोहयति
मर्मबन्धान् छिनत्ति हि । शरीरावयवान् सौक्ष्म्यात्
प्रविशेद्विकरोति च । आशुत्वादाशु तत् प्रोक्तं व्यवायात्
प्रकृतिं हरेत् । विकाशित्वात् क्षपयति दोषान् धातून्म-
लानपि । अतिरिच्यते वैशद्यात् दुश्चिकित्स्यं च
लाघवात् । दुर्जरं चाविपाकित्वात् तस्मात् क्लेशयते चिरम्” ।
विषलिप्तशस्त्रहतस्य लक्षणमाह “सद्यः पाकं याति यस्य
क्षतं तत् स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम् । कृष्णीभूतं
क्लिन्नमत्थर्थपूतिक्षतान्मांसं शीर्य्यते यस्य वापि । तृष्णा-
तापौ दाहमूर्च्छे च यस्य दिग्धं विद्धं तं मनुष्यं
व्यवस्येत् । लिङ्गान्येतान्येव कुर्य्यादमित्रैर्दत्तः क्ष्वेड़ो वा
व्रणे यस्य चापि” । पच्यते चाप्यभीक्ष्णं पुनः पुनः
पृष्ठ ४९२८
पाकमेति तापः वहिःस्थितः, दाहोऽभ्यन्तरे । यः कुर्य्या-
दित्यत्र क्षतं कर्त्तृपदं बोद्धव्यम् । प्रायेण राजादी-
नामन्नादौ शत्रवो विषं ददति । तेषां ज्ञानार्थं लक्षण-
माह “इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः ।
जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् । न ददात्यु-
त्तरं पृष्टो विवक्षुर्मोहमेति च । अपार्थं बहु सङ्कीर्णं
भाषते चापि मूढ़वत् । अङ्गुलीः स्फोटयेदुर्वीं विलिखेत्
प्रहसेदपि । वेपथुश्चास्य भवति त्रस्तश्चैकैकमीक्षते ।
विवर्णवक्त्रः श्यामश्च नखैः किञ्चिच्छिनत्ति च । आलभेता
सकृद्दीनः करेण च शिरोरुहान् । निर्यियासुरपद्वारैः
वीक्षते च पुनः पुनः । वर्त्तते विपरीतं च विषदाता
विचेतनः” । इङ्गितमभिप्रायसूचकम् आकारं मुखवै-
कृतं मुखवैवर्ण्यादि एभिर्लिङ्गैर्वक्ष्यमाणैः न ददात्यु-
त्तरं पृष्टः स्वीयासत्कर्मजनितव्यामोहात् सङ्कीर्णम्
अस्फुटं भयजनितपर्वव्यथापनोदायाङ्गुलीः स्फोटयेत् प्रह-
सेत् । अहेतावपि श्यामः दग्धसमानवर्णः, आलभेत
स्पृशेत् विपरीतं यथा स्यादेवं वर्त्तते । जङ्गमविषाणां
सामान्यानां कार्य्याण्याह “निद्रां तन्द्रां क्लमन्दाहं
सम्पाकं लोमहर्षरम । शोथं चैवातिसारं च कुरुते
जङ्गमं विषम्” । गङ्गमेषु तीक्ष्णतरेषु सर्पानाह “वात-
पितकफात्मानो माभिमण्डलराजिलाः । यथाक्रमं
समाख्याता द्व्यन्तरा द्वन्द्वरूविणः । फणिनो भोगिनो
ज्ञेया संख्यातास्तेऽत्र विंशतिः । मण्डलैर्विविधैश्चित्राः
पृथवो मन्दगामिनः । षट् ते मण्डलिनो ज्ञेया
ज्वलनार्कविषाः ऋताः । स्निग्धा विविधवर्णाभिस्तिर्य्यगू-
र्घ्वञ्च राजिभिः ॥ विचित्रा इव ये भान्ति राजिलास्ते
हि तेऽपि षट्” । एते यथाक्रमं वातपित्तकफात्मानः
द्व्यन्तराः द्वे अन्तरे भेदौ येषां ते द्व्यन्तरा, यथा
भोगिनो मण्डनिन्यां जाताः इत्यादि । भोगिप्रभृति-
कृतदशदेशलक्षणमाह “दंशो भोगिकृतः कृष्णः सर्व-
वातविकारकृत् । पीतो मण्डलिनः शोयो मृदुः पित्त-
विकारवान् । राजिलोत्थो भवेद्दंशः स्थिरशोथश्च
पिच्छिलः । पाण्डुः स्निग्धोऽविसान्द्रासृक्सर्वश्लेष्मविकार-
वान्” । देशविशेषे कालविशेते च दष्टस्यासाध्यत्वमाह
“अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु ।
याम्ये च पित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये
च दष्टाः” । याम्ये भरण्यां पित्र्ये मघायाम् “दर्वी-
कराणां विषमाशु हन्ति सर्वाणि चोष्णे द्विगुणीमान्ति” ।
उष्णे उष्णसंयोगे । दर्वीकरलक्षणमाह “रथाङ्गलाङ्ग-
लच्छत्त्रस्वस्तिकाङ्कुशधारिणः । ज्ञेया दर्वीकराः सर्पाः
फणिनः शीघ्रगामिनः” । अपरेषु येषु विषमाशु मारकं
भवति तानाह “अजीर्णपित्तातपपीड़ितेषु बालेषु वृद्धेषु
बुभुक्षितेषु । क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षे बले
गर्भवतीषु चापि । शस्त्रक्षते यस्य न रक्तमस्ति राज्यो
लताभिश्च न सम्भवन्ति । शीताभिरद्भिश्च न रोमहर्षो
विषाभिभूतं परिवर्जयेत्तम् । जिह्मं मुखं यस्य च
केशशातो नासावसादश्च सकण्ठभङ्गः । कृष्णश्च रक्तः श्वय-
थुश्च दंशे हन्वोः स्थिरत्वसु विवर्जनीयम्” । केशशातः
आकर्षणात्, नासावसादः नासायाः नतत्वं कण्ठभङ्गः
ग्रीवाधारणाशक्तिः हन्वोः स्थिरत्वं हनुद्वयस्तम्भः ।
अपरञ्च “वान्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्द्ध्वमधश्च
यस्य । दंष्ट्रानिपातांश्चतुरश्च पश्येद् यस्यापि वैद्यैः
परिवर्जनीयः” । वान्तिः रुधिरस्य, यस्य च नासामुखलिङ्गगु-
दादिभ्यो रक्तं स्रवेत् “उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं
वाप्यथ वा विवर्णम् । सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र
न कर्म कुर्य्यात्” । अत्यर्थमुपद्रुतं वा ज्वरातिसारादिभि-
रतिशयेनोपद्रुतं हीनस्वरं वक्तुमक्षमं विवर्णं कृष्ण-
वर्णं सारिष्टं नासाभङ्गादियुक्तम् । अवेगिनं वेगो
विषवेगः । (लहरि) इति लोके तद्रहितम् । स्थावरं
जङ्गमं च विषमेव जीर्णत्वादिभिः कारणैः दूषीविष-
संज्ञां लभते तदाह “जीर्णं विषघ्नौषधिदूषितं वा
दावाग्निवातातपशोषितं वा । स्वभावतो वा गुणविप्र-
हीनं विषं हि दूषीविषतामुपैति” । जीर्णम्
अतिपुराणं विषघ्नौषधिदूषितं विषघ्नीभिरौषधीभिर्वीर्य्यही-
नीकृतं स्वभावतो वा गुणविप्रहीनं स्वभावादेव दशानां
गुणानां मध्ये एकद्वित्र्यादिगुणहीनम् । दूषीविषस्य
कार्य्यमाह “वीर्य्याल्पभावान्न निपातयेत् तत् कफान्वितं
वर्षगणानुबन्धि । तेनार्दितो भिन्नपुरीषवर्णो विगन्धि-
वैरस्ययुतः पिपासी । मूर्च्छां भ्रमं गद्गदवाग्वमिञ्च
विचेष्टमानोऽरतिमाप्नुयाद् वा” । न निपातयेत् न
मारयति कफान्वितं कफेन मन्दीकृतौष्णादिगुणं वर्षगणा-
लबन्धि कफेनाग्नेर्मान्द्यादीषत्पाकाच्चिरस्थायि तथा
दूषीविषजदद्रुरोगवतां भिन्नपुरीषवर्णश्च भिन्नपुरीषो-
द्गतमलः भिन्नवर्णो विवर्णः । विचेष्टमानः विरुद्धां चेष्टां
कुर्वन् मूर्च्छादीन् व्याधीन् लभते । स्थानविशेषोत्थिते
दुषीविषे लिङ्गविशेषमाह । “आमाशयस्थे कफवात-
पृष्ठ ४९२९
रोगी पक्वाशयस्थेऽनिलषित्तरोगी । भवेत् समुद्ध्वस्तशि-
रोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः” । समुद्ध्वस्तशि-
रोऽङ्गरुट्कः समुद्धस्ताः शिरोरुहाः केशाः अङ्गरुहः
लोमानि यस्य सः एतदपि लिङ्गं पक्वाशयस्थे दूषी-
विषे बोद्धव्यम् “स्थितं रसादिष्वथ तद्यथोक्तान् करोति
धातुप्रभवान् विकारान्” । तत् दूषीविषं यथोक्तान् सुश्रुते
व्याधिसमुद्देशीयोक्तान् । दूषीविषस्य प्रकोपसमयमाह
“कोपं तु शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य
रूपम्” । कुपितस्य दूषीविषस्य पूर्वरूपमाह “निद्रा
गुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावथ वाङ्गमर्दः” ।
विश्लेषः गात्रशौथिल्यं हर्षः रोमाञ्चः । रूपमाह “ततः
करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्मा । मांसक्षयं
ग्राणिपदाक्षिशोथं मूर्च्छां तथा छर्द्रिमथातिसारम् ।
दूषीविषं श्वासतृषौ ज्वरांश्च कुर्य्यात् प्रवृद्धिं जठरस्य चापि”
अन्नमदः अन्ने मुक्ते पूगफलेनेव मदः । अविपाकः अन्नस्य ।
दूषीविषभेदेन विकारानाह “उन्मादमन्यज्जनयेत्तथान्य-
दानाहमन्यत् क्षपयेच्च शुक्रम् । गाद्गद्यमन्यज्जनयेच्च कुष्ठं
तांस्तान्विकारांश्च बहुप्रकारान्” । अन्यत् दूषीविषं
तांस्तान् विकारान् विसर्पविस्फोटादीन् । दूषीविषस्य
निरुक्तिमाह “दूषितं देशकालान्नं दिवास्वप्नैरभीक्ष्णशः ।
यस्मात् संदूषयेद्धातूंस्तस्माद्दूषीविषं स्मृतम्” । देशः
अनूपादिः काला दुर्दिनादिः अन्नं कुलत्थतिलमसू-
रादि धातुदूषकत्वाद्दूषीविषम् । दूषीविषस्य साध्य-
त्वादिकमाह “साध्यमात्मवतः सद्यो याप्यं संवत्सरो-
त्थितम् । दूषीविषससाध्यं स्यात् क्षीणस्याहितसेविनः” ।
कृत्रिमं विषं द्विविधम् एकं सविषं दूषीविषसंज्ञम्
अपरमविषं तदेव तरसंज्ञं तथा च काश्यपसंहितायाम्
“संयोगजञ्च द्विविघं द्वितीयं विषमुच्यते । दूषीविषं तु
सविषमविषङ्गर उच्यते” । संयोगजं कृत्रिमं विषं द्वि-
तीयं स्वाभाविकं तच्च द्विविधम् । तत्र दूषीविषमभि-
धाय गरं दर्शयितुमाह “सौभाग्यार्थं स्त्रियः स्वेद-
रजोनानाङ्गजान् मलान् । शत्रुप्रयुक्तांश्च गरान् प्रय-
च्छन्त्यन्नमिश्रितान्” । गरकार्य्यमाह “तैः स्यात् पाण्डु
कृशोऽल्पाग्निर्ज्वरश्चास्योपजायते । मर्मप्रधमनाघ्मानं
हस्तयोः शोथसम्भवः । जठरग्रहणीरोगा यक्ष्मागुल्मक्षयो
ज्वरः” । तैः गरैः स्वेदरजःप्रभृतिभिः ज्वरश्चास्योपजा-
यत इति अपाकात् । मर्मप्रधमनं मर्मव्यथा क्षयो धातु-
क्षयः । लूतानां जन्तुविशेषाणामुत्पत्तिं निरुक्तिं सङ्ख्या-
ञ्चाह “यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदविन्दवः । तेभ्यो
जातास्तथा लूता इति ख्यातास्तु षोड़श” । अत्र सुश्रुतः
“विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् । वशिष्ठं कोपयामास
गत्वाऽश्रमपदं किल । कुपितस्य मुनेस्तस्य ललाटात् स्वेद-
विन्दवः । अपतद्दर्शनादेव ह्यधस्तात्तोव्रवर्चसः । लूने तृणे
महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च । ततो जातास्त्विमे
घोरा नानारूपा महाविषाः । तासामष्टौ कष्टसाध्या
वर्ज्यास्तावत्य एव हि” । तत्र त्रिमण्डलप्रभृतयोऽष्टौ कष्ट-
साध्याः सौवर्णिकप्रभृतयोऽष्टावसाध्याः । तासां सामा-
न्यानां दंशलक्षणमाह “ताभिर्दष्टे दंशकोथः प्रवृत्तिः
क्षतजस्य च । ज्वरो दाहोऽतिसारश्च गदाः स्युश्च
त्रिदोषजाः । पिड़का विविधाकारा मण्डलानि महान्ति
च । शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा ।
सामान्यं सर्वलूतानामेतद्दंशस्य लक्षणम्” । दंशकोथः
दंशमध्ये पूतिभावः । “दंशमध्ये तु यत्कृष्णं श्यावं
वा जालकावृतम् । दग्धाकृति मृशम्पाकं स्वेदर्शोथज्वरा-
न्वितम् । दूषीविषामिर्लूताभिस्तद्दष्टमिति निर्दिशेत्” ।
सौवर्णिकादयोऽष्टावसाध्या प्रणिहरास्तासां लक्षणमाह
“शोषः श्वेता सिता रक्ता पीता च पिड़का ज्वरः ।
प्राणान्तिको भवेद्दाहः श्वासहिक्काशिरोग्रहः” ।
आखुदूषीविषलक्षणमाह “आदंशाच्छोणितं पाण्डुमण्डलानि
रोऽरुचिः । लोमहर्षश्च दाहश्चाप्याखुदूषीविषा-
र्दिते” प्राणहरमूषकविषकार्य्यमाह “मूर्च्छाङ्गशोथ-
वैवर्ण्यं क्लेदशब्दाश्रुतिज्वराः । शिरोगुरुत्वं लाला-
सृक् छर्दिश्चासाध्यमूषकात् । अङ्गशोथोऽत्र मूषकाकारो
बोद्धव्य इति । तन्त्रान्तरे कृकलासदष्टस्य लक्षणमाह
“शोथस्य कार्श्यमथ वा नानावर्णत्वमेव च । मोहोऽथ
वर्चसो भेदो दष्टस्य कृकलासकैः” । वृश्चिकविषस्य लक्ष-
णमाह “दहत्यग्निरिवादौ तु भिनत्तीवोर्द्धमाशु च ।
वृश्चिकस्य विषं याति पश्चात् दंशेऽवतिष्ठते” । असाध्यस्य
वृश्चिकदष्टस्य लक्षणमाह “दष्टोऽसाध्यैस्तु हृद्घ्राण
रसनोपहतो नरः । मांसैः पतद्भिरत्यर्थं वेदनार्त्तो
जहात्यसून्” । असाध्यैर्वृश्चिकैस्तेषामेवानुवृत्तेः हृदा-
दिषु उपहतः हृदादिकार्य्यरहितो भवति अत्यर्थं
वेदनार्त्त इत्यन्वयः । कणभदष्टस्य लक्षणमाह “विसर्पः
श्वयथुः शूलं ज्वरश्छर्दिरथापि वा । लक्षणं कणभैर्दष्टे
दंशश्चैवावशीर्य्यते” । कणभः कीष्टविशेषः । उच्चिटि-
ङ्गदष्टस्य लक्षणसाह “कृष्णलोमोच्चिटिङ्गेन स्तब्धलिङ्गो-
पृष्ठ ४९३०
भृशार्त्तिमान् । दष्टः शीतोदकेनेव सिक्तान्यङ्गानि
मन्यते” । कृष्णलोमा अधिकतरकृष्णरोमा उच्चिटिङ्ग-
(चीटा) कीटविशेषः । सविषमण्डूकदष्टस्य लक्षणमाह
“एकदंष्ट्रार्दितः शूनः सरुजः पीतकः सतृट् ।
सनिद्रश्छर्दमान् दष्टोमण्डूकैः सविषैर्भवेत्” । एकदंष्ट्रार्दितः
स्वभावादेकयैव दष्ट्रया दष्टो भवति । मत्स्यविषस्य कार्य्य-
माह “मत्स्यास्तु सविषा कुर्युर्दाहं शोथं रुजं तथा” ।
जलौकाविषकार्य्यमाह “वण्डूं शोथं ज्वरं मूर्च्छां
सविषास्तु जलौकसः” । कुर्युरिति शेषः । गृहगोधिका
विषकार्य्यमाह “विदाहं श्वयथुं तोदं प्रस्वेदं
गृहगोधिकाः” । कुर्य्युरिति शेषः । शतपदीविषकार्य्यमाह
“दंशे स्वेदं रुजं दाहं कुर्य्याच्छतपदीविष” शतपदी
(गिजाई) इति लोके । मशकविषकार्य्यमाह “कण्डूमा-
न्मशकैरीषच्छोथः स्यान्मन्दवेदनः” । असाध्वमशकल-
क्षणमाह “असाध्यकीटसदृशमसाध्यं मशकक्षतम्” ।
असाध्यकीटसदृशं असाध्यैः कीटैर्लूतादिभिः कृतं यत्
क्षतं तत् सदृशवेदनम् । मक्षिकार्दशलक्षणमाह “सद्यः
संस्राविणी श्यावादाहमूर्च्छाज्वरान्विता । पिड़का
मक्षिका दंशे तासान्तु स्थगिका सुहृत्” । तासामित्यादि
तासां सुश्रुतोक्तानां षणां मक्षिकाणां मध्ये स्थिगिका-
नाम्नी शीघ्रं प्राणं हरतीत्यर्थः । व्याघ्रादिविषाणां
कार्य्यमाह “चतुष्पाद्भिर्द्विपाद्भिर्वा नखैर्दन्तैश्च यत् कृतम् ।
शूयते पच्यते तत्तु स्रवति ज्वरयत्यपि” । चतुष्पाद्भिः
व्याघ्रादिभिः द्विपाद्भिः वनमनुष्यादिमिः शूयते शूनो
भवति । विषोज्झितस्य लक्षणमाह “प्रसन्नदोषं प्रकृति-
स्थधातुमन्नाभिकामं सममूत्रविट्कम् । प्रसन्नवर्णेन्द्रिय
चित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम्” । प्रसन्नदोषं
प्रकृतिस्थदोषं शेषं सुगमम्” ।

विषकण्टकिनी स्त्री विषयुक्तं कण्टकमस्त्यस्या इनि । बन्ध्याकर्कोट्याम् राजनि०

विषकण्ठ पु० विषं कण्ठे यस्य । शिवे ।

विषघा स्त्री विषं हन्ति हन--ड नि० कुत्वञ्च । गुडूच्याम् शब्दच० ।

विषघातिन् पु० विषं हन्ति हन--णिनि । शिरीषवृस्ते

शब्दमाला । २ विषनाशके त्रि० ।

विषघ्न पु० विषं हन्ति हन--टक् । १ शिरीषवृक्षे शब्दच० । २ यवासे

३ विभीतके राजनि० । ४ चम्पकवृक्षे च जटा० । ५ हिलमो-
चिकायां (हेलेञ्चा)स्त्री ङीप् । ६ इन्द्रवारुण्याम् ७ वनवर्ष-
रायाम् ८ भूम्यामलक्याम् ९ रक्तपुनर्नवायाम् १०
हरिद्रायाम् ११ वृश्चिकाल्याम् १२ महाकरञ्जे च १३ झ
ज्झफलायां स्त्री राजनि० ङीप् । १४ विषनाशके त्रि० ।

विषजिह्व पु० विषयुक्ता जिह्वेव पत्रमस्याः । देवताड़वृक्षे

रत्नमा० ।

विषज्वर पुंस्त्री० विषमिव प्राणहन्ता ज्वरो यस्य । १ महिषे शब्दर० । स्त्रियां ङीष् ।

विषण्ड न० विशेषेण षण्डम् । मृणाले शब्दर० ।

विषतिन्दु पु० विषयुक्तस्तिन्दुः । १ कुपीलौ भावप्र० । २ कारस्कर-

वृक्षे राजनि० ।

विषद न० वि + षद--अच् । १ पुष्पकासीसे राजनि० । २ शुक्ल-

विषदंष्ट्रा स्त्री विषयुक्ता दंष्ट्रा । १ सर्पदंष्ट्रायाम् । विषस्य

दंष्ट्रेव नाशकत्वात् । २ सर्पकङ्कालीलतायां रत्नमा० ।

विषदन्तक पुंस्त्री० विषं दन्ते यस्य कप् । १ सर्पे शब्दच०

स्त्रियां ङीष् ।

विषदर्शनमृत्युक पुंस्त्री० विषस्य दर्शनेन मृत्युरस्य कप् । चकोरखगे हेमच० स्त्रियां ङीष् ।

विषद्रुम पु० विषयुक्तो द्रुमः । कारस्वरवृक्षे राजनि० ।

विषधर पुंस्त्री० विषं धरति धृ--अच् । १ सर्पे अमरः स्त्रियां

ङीष् । “विषधरविषमं वनं भविता” उद्भटः ।

विषधर्म्मन् पु० विषस्येव धर्मोऽस्य अनिच्समा० । (आलकुशी)

लतायाम् शब्दच० ।

विषनाशन पु० विषं नाशयति नश--णिच्--ल्यु । १ शिरीषवृक्षे हारा० । २ विषनाशके त्रि० ।

विषनाशिनी स्त्री विषं नाशयति नाशि--णिनि ङीप् ।

सर्पकङ्कालीलतायां शब्दच० ।

विषनुद् पु० विषं नुदति नुद--क्विप् । श्योनाकवृक्षे शब्दच० ।

विषपुष्प न० विषमिव नीलं पुष्पमस्य । १ नीलपद्मे

शब्दमा० २ छर्दनवृक्षे (मनफल) रत्नमा० कप् । मदनवृक्षे
भावप्र० ।

विषम त्रि० विगतो विरुद्धो वा समः । १ असमे २ अयुग्मे

(वियोड़) ३ उन्नतानते ४ दारुणे ५ सङ्कटे च “भिन्नचिह्न-
चतुष्पादं विषमं परिकीर्त्तितम्” इत्युक्ते ६ पद्यभेदे न० ।
“ओजोथ युग्मं विषमः समश्च” ज्यो० त० उक्ते ७ मेषमिथुना-
द्यसमराशौ पु० । ८ तालभेदे पु० “चतुर्विधः परिज्ञेयस्तालः
कङ्कणनामकः । पूर्णः १ खण्डः २ सम ३ श्चैव विषम ४ श्चैव
कथ्यते । नचतुष्कं गलौ पूर्णे १ खण्डे २ विन्दुद्वयं गुरुः ।
यगणस्तु समे ज्ञेयस्तमयट्गणो विषमे भवेत्” सङ्गीत० ।
विषमादागतः विषमय, रूप्यप्, विषमरूप्य छ, विषमीय
विषमादायते त्रि० सि० कौ० ।

विषमच्छद पु० विषमाणि अयुग्मानि सप्त छदाः यस्य । सप्तच्छदे(छातिम) अमरः ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/विज्ञान&oldid=57843" इत्यस्माद् प्रतिप्राप्तम्