वाचस्पत्यम्/ल

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४८१७

लकारो व्यञ्जनवर्णभेदः । तस्योच्चारणस्थानं दन्तमूलम् ।

स्पर्शोष्मवर्णयोर्मध्यस्थत्वादयमन्तःस्थवर्णः । अस्योच्चारणे
आभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य ईषत्स्पर्शस्ते-
नास्य ईषत्स्पष्टता । बाह्यप्रयत्नाश्च संवारनादघोषाः
अल्पप्राणश्च । मातृकाग्यासेऽस्य ककुदि न्यस्यता । काव्यादौ
प्रथमप्रयोगे व्यसनं फलम् । “व्यसनमथ लवौ” वृ० र० टी ।
तस्व स्वरूपं यथा “अकारं चञ्चलापाङ्गि! कुण्डली-
त्रयसंयुतम् । पीतविद्युल्लताकारं सर्वरत्नप्रदायकम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । त्रिशक्तिसहितं
वर्णं त्रिविन्दुसहितं सदा । आत्मादिसहितं वर्णं हृदि-
भावय पार्वति” कामर्धनुतन्त्रम् । तत्पर्य्याया वर्णाभिधाने
उक्ता यथा “लश्चन्द्रः पूतना पृथ्वी माधवी शक्रवाचकः ।
बलानुजः पिनाकीशो व्यापको मांससंज्ञकः । परायणा
ककुद्वक्त्रः खड्गी नादोऽमृतं दिवि । लवणं वारुणी-
पीतशिखा वाणी क्रियाऽजिता । ज्वालिनी वेगिनी-
नादः प्रद्युम्नः शोषणो हरिः । विशातन्द्रायखी चेतो
मेरुर्गिरि कलोरसः” । तस्याधिष्ठातृध्येयरूपं यथा
चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् । सर्वदा
वरदां भीमां सर्वालङ्कारभूषिताम् । योगीन्द्रसेवितां नित्यं
योगिमीं योगरूपिणीम् । चतुर्वर्गप्रदां देवीं
नागहारोपशोभिताम् । एवं ध्यात्वा लकारन्तु तन्मन्त्रं
दशधा जपेत्” वर्णोद्धारतन्त्रम् ।

पु० ला--क । १ इन्द्रे मेदि० तन्त्रोक्ते भूमिदैवताके २ मन्त्र-

भेदे न० २ एकलघुके वर्णे । लड़ादिदशसु लकारादि
तिड्प्रत्ययेषु “लः कर्मणि च भावे चाकर्मकेभ्यः पा० ।

लक आस्वादे प्राप्तौ च चु० सम० सक० सेट् । लाकयति ते

अलीलकत् त ।

लकच पु० लक--बा० अचन् । लिकुचवृक्षे (माँदार) शब्दर० ।

लकुच पु० लक--उचन् । (माँदार) वृक्षभेदे अमरः ।

“लकुचः क्षुद्रपनलो लिकुचो डहुरित्यपि । आमं
लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा । मधुरञ्च तथाम्लञ्च
दोषत्रितयरक्तकृत् । शुक्राग्निनाशनञ्चापि नेत्रयोरहितं
स्मृतम् । सुपछं तत्तु मधुरमम्लं चानिलपित्तकृत् ।
कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत्” भावप्र० ।
“लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम् । श्लेष्म-
कारि समीरघ्नमुष्णं शुक्राग्निनाशनम्” वैद्यक० ।

लक्तक पु० लक--क्त नि० संज्ञायां कन् । १ अलक्तके (आलता)

शब्दर० । २ जीर्णवस्त्रखण्डे (नेकड़ा) अमरः ।

लक्तकर्म्मन् पु० लक्तं करोति कृ--ममिन । रक्तवर्णलोध्रे शब्दच०

लक्तिका स्त्री गोधायां निघण्टुः ।

लक्ष दर्शने अङ्कने च चु० उभ० सक० सेट् । लक्षयति ते अललक्षत् त ।

लक्ष न० लक्ष--अच् । १ पदे २ चिह्ने ३ व्याजे ४ शरव्ये च ।

५ दशायुतसंख्यायां स्त्री० न० मेदि० ।

लक्षक त्रि० लक्षयति लक्षणयार्थम् लक्ष--ण्वुल् । लक्षण-

यार्थबोधके शब्दे । तल्लक्षणं श० प्र० उक्तं यथा
“यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत् । तत्र तद्ध-
क्षकं नाम तच्छक्तिविधुरं यदि” । “यादृशार्थसम्बन्धवति
यन्नाम सङ्केतितं तदेव तादृशार्थे लक्षकं यदि तादृशार्थे
पृष्ठ ४८१८
शक्तिशून्यं भवेत् । सैन्घवादयश्च शब्दास्तुरगादिसम्बन्धिनि
लवणादाविव तुरगादावपि शक्ता एव । गङ्गादयस्तु
तीरादावसङ्केतिताः तत्सम्बन्धिनीरादिशक्तत्वेन गृहीता
एव तीराद्यन्वयं बोधयन्तीति तत्र लक्षका एव शक्तत्वे
पूर्वपूर्वप्रयुक्तत्वापत्तेः तस्य तद्व्याप्यत्वात् कथञ्चित्तीरा-
दिसम्बन्धित्वेन गृहीतादपि गङ्गादिपदात्तीरादेरन्वय-
बोधेन तीराद्यशक्तत्व सति तत्सम्बन्धितामात्रन्त न
लक्षणा गङ्गागङ्गायां घोष इत्यादावपि गङ्गागङ्गाति-
भागस्य निरुक्तलक्षणायाः सत्त्वेन वैयर्थ्याभावप्रसङ्गाच्च ।
एतेन तीराद्यशक्तत्वे सति तीरादिपरत्वं तीरादि
सम्बन्ध्यनुभावकत्वं वा तल्लक्षकत्वमित्यपि प्रत्युक्तम्
अपभ्रंशस्यापि लक्षकत्वापाताच्च नचेष्टापत्तिः शक्तिल-
क्षणान्यतरवृत्तिमत्त्रे तस्य साधुतापत्तेः पदसाधुतायां
वृत्तिमत्त्वस्यैव तन्त्रत्वात् । किञ्चानुभावकत्वं तदा
घोषादिपदसाकाङ्क्षस्य गङ्गादिपदस्य तीरलक्षकता न स्यात्
तेन तोरसम्बन्धिनो नीरस्यानुभवानर्ज्जनात् स्वरूपयो-
ग्यत्वन्तु सङ्गायामिति वाक्यस्य दुर्वारं तस्याप्याधेयता-
धमिकनीरानुभवं प्रति नीरार्थकनामोत्तर सप्तमीत्वेन
तथात्वात् नीराधेयत्वस्य च तीरसम्बन्धित्वानपायात् ।”
अधिकं लक्षणशब्दे दृश्यम् ।

लक्षण न० लक्ष्यतेऽनेन लक्ष--करणे ल्युट १ इतरभेदानु-

मापके चिह्ने “ऋषयाऽपि पदार्थानां नान्त यान्ति
पृथकत्वतः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः” ।
यथा पृथिव्या गन्धो लक्षणं स हि पृथिवीं परस्मात्
भिन्नतया अनुमापयति । तच्च द्विविधम् “स्वरूप तटस्थं
द्विधा लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नम्”
इत्युक्तेः स्वरूपलक्षणं तटस्थलक्षणं च यथा आकाशो
विलम् सच्चिदानन्दो ब्रह्मेति स्वरूपलक्षणम् । काकवत्
गृहम् जगज्जन्मादिकर्तृ ब्रह्मेति तटस्थलक्षणम् । २ स्वरूपे
यथा घटलक्षणं वस्तु ३ नाम्नि व्यवहारोपयोगिनि ४ चिह्ने
च मेदि० । कर्त्तरि ल्युट् ५ स्वरूपप्रतिप दके “नोदनालक्ष-
णार्थो धर्मः” इति जैमिनिसूत्रम् नोदना विधिवाक्यमेव
लक्षणं स्वरूपज्ञापिका यस्य तादृशोऽर्थः धर्म इति
तदर्थः । ६ शब्दसाधुताप्रतिपादके व्याकरणादिसूत्रे च
न० “लक्षणं त्वनभिज्ञानाम्” अमरः । कर्मणि ल्युट् ।
७ प्रतिपाद्ये यथा “इत्थं द्वादशलक्षण्येति” माधवीयन्याय
मासा द्वादशानां लक्षणानां प्रतिपाद्यविषयाणां
समाहारः इति तदर्थः । लक्ष युच् । शब्दनिष्ठे वाच्यार्थ-
संव र्थिबोधकतारूपे “मुख्यार्थबाधे तद्योगे ययाव्योऽर्थः
प्रतीयते । रूढेः प्रथोजनाद्वापि लक्षणा शक्तिरर्पिते-
त्युक्ते ८ वृत्तिभेद स्त्री । यथा गङ्गायां घोषः प्रतिबसती-
त्यादौ गङ्गाशब्दस्य जलप्रवाहरूपे स्वार्थेऽन्वयासम्भवात
तत्सम्बद्धतीरादिबोधकता । ९ लक्ष्मणे रामानुजे पु०
१० सारसपक्षिणि पुंस्त्री० तत् स्त्रियां राजनि० स्त्री टाप् ।
लक्षणाभेदादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथा
“जहत्स्वार्थाजहत्स्वार्थानिरूढ़ाधुनिकादिकाः । लक्षणा
विविधास्ताभिर्लक्षकं स्यादनेकधा” । काचिल्लक्षणा शक्या-
वृत्तिरूपेण बोधकतया जहत्स्वार्थेत्युच्यते यथा
तीरत्वादिना शङ्गादिपदस्य । काचिच्छक्यलक्ष्योभयवृत्तिना
शक्यवृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था यथा
दूव्यत्वादिना नीलघटत्वादिना च घटपदस्य । काचि-
ल्लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्वपूर्वप्रत्यायकत्वात्
निरूढा यथा आरुण्यादिप्रकारण तदाश्रयद्रव्यानुभाव-
कत्वादरुणादिपदस्य । काचिच्च पूर्वपूर्वं ताद्रूप्येणा-
प्रत्यायकत्वादाधुनिकी यथा घटत्वादिना पटादिपदस्य ।
आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौण्युप-
गृह्यते यथा अग्निर्माणवक इत्यादावग्निसदृशत्वादिना
अग्न्यादिपदस्य । तदेवं विवधलक्षणावत्त्वाल्लक्षकं
नामापि जहत्स्वार्थादिभेदादनेकविधमित्यर्थः । स्वादेतत्
यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरा-
द्यनुभवे भवेद्धेतुर्भवेदप्युक्तक्रमेण लक्षकानां विभामः
नत्वेतदस्ति तीराद्यन्वयबोधं प्रति तीरादिशक्तत्वेनैव
पदज्ञानस्य लाघवेन हेतुतया लक्षकाणामननुभावकत्वात्
गुरूणामग्नौ शैत्य स्पृशेदित्यादौ शक्येन दहनादिनेव
गङ्गायां घोष इत्यादौ लक्षितेन तीरादिना सार्द्धमगृ-
हीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वादेरन्वयबोधप्रविष्टत्वा-
दिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्य धर्म्यन्तरेऽ-
न्वयबुद्धेर्व्युत्पन्नतया तीराद्यविशेषितस्य सुबर्थाधेय-
त्वादेर्घोषादावन्वयबोधायोगात् । न च शक्तस्यैव पदस्य
स्वसाकाङ्क्षपदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्मिकान्वयबोधं
प्रति हेतुत्वादन्वयबुद्धौ लक्ष्यार्थस्याप्रवेशः, कुन्ताः प्रति-
शन्तीत्यादौ लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यत्वानुपपत्तेः
कुमतिः पशुरित्यादौ शक्यलक्ष्यार्थयोरन्वयबोधस्याप्यानुभवि
कावाच्च । तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं भव
त्येव कार्य्यातावच्छेदकस्य सङ्कोचाच्च न व्यभिचारः”
सा च बहुधा विस्तरस्तु सा० द० २ प० दृश्यः ।
पृष्ठ ४८१९

लक्षित त्रि० लक्ष--कर्मण क्त । १ लक्षणया बोधितेऽर्थे, २ ज्ञाते,

३ अनुमिते च कर्त्तरि क्त । ४ लक्षणाश्रये लक्षक-
शब्दे च ।

लक्षितलक्षणा स्त्री लक्षणाभेदे यथा द्विरेफपदेन

बहुब्रीहिलक्षणयोपस्थापिताद्रेफद्वययुक्तम्रमरपदादभिधयैव
भृङ्गोपस्थितिः । अत्र न रूढ़िरस्ति प्रकृते तु रूढ़िप्रयो-
जनाभावान्नेयार्थत्वं इयमेव लक्षितलक्षणेति वाच्यम्” ।
यत्र लक्षिताच्छब्दादर्थाभिधानं तत्रैव लक्षितलक्षणायाः
परिभाषितत्वात्” सा० द० टी० ।

लक्ष्मन् न० लक्ष--मनिन् । १ चिह्ने २ प्रधाने च अमरः ।

स्वार्थे अण् पृषो० न वृद्धिः । ३ सारसपक्षिणि पुंस्त्री०
हेमच० दशरथपत्न्याः सुमित्रायाः ४ ज्येष्ठात्मजे च पु० ।
५ श्वेतकण्ठकार्य्यां हेमच० स्त्री टाप् ६ सारसपक्षिस्त्रियाम्
७ औषधभेदे च स्त्री मेदि० टाप् ।

लक्ष्मी स्त्री लक्ष--ई--मुट् च । १ विष्णोःपत्न्याम् अमरः ।

२ शोभायां, ३ कान्तौ, ४ सम्पतौ, ५ ऋद्ध्यौषधे, ६ वृद्धिना-
मौषधे, ७ फलिनीवृक्षे च मेदि० । ८ स्थलपद्मिन्याम् ९
हरिद्रायां, १० शम्यां, ११ मुक्तायां १२ द्रव्ये च राजनि०
१३ पीड़ायां १४ वारयोषिति च शब्दच० ।
लक्ष्मीपूजाकालादि स्कन्दपु० उक्तं यथा
“पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम् । सिंहे
धनुषि मीने च स्थिते सप्ततुरङ्गमे । प्रत्यव्दं पूजय-
ल्लक्ष्मीं शुक्लपक्षे गुरोर्दिने । नापराह्णे न रात्रौ च
नासिते न त्र्यहस्पृशि । द्वादश्यां चैव नन्दायां रिक्ता-
याञ्च निरंशके । त्रयोदश्यां तथाष्टम्यां कमलां नैव
पूजयेत् । न पूजयेत् शनौ भौमे न बुधे नैव भार्गवे ।
पूजयेत्तु गुरोर्वारे चाप्राप्ते रविसोमयोः । गुरुवारे
हि पूर्णा च यत्नेन यदि लभ्यते । तत्र पूज्या तु कमला
धनपुत्रविवर्द्धिनी । न कुर्य्यात् प्रथमे मासि नैव
कुर्य्याद्विसर्जनम् । न घण्टां वादयेत्तत्र नैव झिण्टीं
प्रदापयेत् । पौषे च दशमी शस्ता चैत्रके पञ्चमी तथा ।
नभस्ये पूर्णिमा ज्ञेया गुरुवारे विशेषतः । आढकं
धान्वसंपूर्णं नानाभरणभूषितम् । सुगन्धिशुक्लपुष्पेण
शुक्लपक्षे विशेषतः । पौष तु पिष्टकं दद्यात् परप्रान्नञ्च
चैत्रके । विष्टकं परमान्नञ्च नभस्ये तु विशेषतः । गुरु-
वारसमायुक्ता नमस्ये पूर्णिमा शुभा । कमलां पूजये
त्तत्र पुनर्जन्म न विद्यते । एकेम कमलेनैव कमलां
पूजयेद् यदि । इह लोके सुखं पाप्य परत्र केशवं
व्रजेत्” । लक्ष्मीचरित्रे तु “न कृष्णपक्षे रिक्तायां दशमी
द्वादशीषु च । श्रवणादिचतुरृक्षे लक्ष्मीपूजां न
कारयेत” । दशमीनिषेधः पौषातिरिक्तपरः प्रागुक्तैक-
वाक्यत्वात् । दीपान्वितामास्यायां तत्पूजादिकं दीपान्वित-
शब्दे ३६०७ पृ० दृश्यम् । कोजागरलक्ष्मीपूजा कोजा-
गरशब्दे २२६२ पृ० दृश्या । माघशुक्लपञ्चम्यां श्री-
पूजनं “पञ्चम्यां श्रीरपि श्रियम्” ति० त० विहितम् ।
“पञ्चम्यां श्रियं पूजयेत्” कल्पश्रुतिरपि तत्परा । गरु० पु०
११४ अ० लक्ष्म्यास्त्यागकारणतोक्ता यथा
“कुचेलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्य
भाषिणम् । मूर्य्योदये चास्तमये च शायिनं विमुञ्चति
श्रीरपि चक्रपाणिनम् । नित्यं छेदस्तृणांनां धरणि-
विलिखनं पादयोरल्पमार्ष्टिर्दन्तानामल्पशौचं वसनमलि-
नता रूक्षता मूर्ध्वजानाम् । द्वे सन्ध्ये चापि निद्रा
विवसनशयनं ग्रासहासातिरेकः स्वाङ्के पीठे च वाद्यं
निधनमुपनयेत् केशवस्यापि लक्ष्मीः । तस्या भाजनहेतुता
तत्रोक्ता यथा “शिरः सुधौतं चरणौ सुमार्जितौ
वराङ्गनासेवनमल्पभोजनम् । अनग्नशायित्वमपर्वमैथुनं
चिरप्रनष्टां श्रियमानयन्ति षट् । यस्य कस्य तु पुष्पस्य
पाण्डरस्य विशेषतः । शिरसा धार्य्यमाणस्य अलक्ष्मीः
प्रतिहन्यते । दीपस्य पश्चिमाच्छाया च्छाया शय्यासनस्य
च । रजकस्य तु यत्तीर्थमलक्ष्मीस्तत्र तिष्ठति” ।

लक्ष्मीकान्त पु० ६ त० । १ विष्णौ, २ राजनि च । लक्ष्मी-

पत्यादयोऽप्यत्र । “विहाय लक्ष्मीपतिलक्ष्मकार्मुकम्”
किरा० । लक्ष्मीपतिस्तु लवङ्गे पुगवृक्षे च विश्वः ।

लक्ष्मीजनार्द्दन न० शालग्रामभेदे । तस्य लक्षणं यथा

“एकद्वारे चतुसक्रं नवीननीरदोपमम् । लक्ष्मीजनार्द्दनं
ज्ञेयं रहितं वनमालया” ब्रह्मवै० प्र० ।

लक्ष्मीनारायण पु० शालग्रामभेदे तस्य लक्षणं यथा

“एकद्वारे चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं
लक्ष्मीनारायणाभिधम्” व्रह्मवै० प्र० ।

लक्ष्मीनृसिंह न० शालग्राममेदे तस्य लक्षणं यथा “द्विचक्रं

विस्तृतास्यञ्च वनमालासमन्वितम् । लक्ष्मीनृसिंहं
विज्ञेयं गृहिणाञ्च सुखप्रदम्” ब्रह्मवै० प्र० ।

लक्ष्मीपुत्र पु० ६ त० । १ कामदेवे, २ अश्वे मेदि० ३ कुशे

लवे च शब्दच० । ५ गन्धर्वभेदे ।

लक्ष्मीफल पु० लक्ष्म्यै फलमस्य । श्रीफले विल्ववृक्षे राजनि०

लक्ष्मीवत् पु० लक्ष्मीः शोभास्त्यस्य मतुप् मस्य वः । १ पनसे

शब्दच० । २ श्रीयुक्ते त्रि० अमरः स्त्रियां ङीप् ।
३ श्वेतरीहितकवृक्षे पु० राजनि० ।
पृष्ठ ४८२०

लक्ष्मीसहज पु० लक्ष्म्या सह क्षीराब्धौ जायते जन--ड ।

१ चन्द्रे, शब्दच० २ उच्चैःश्रवसि ३ कर्पूरे च ।

लक्ष्य न० लक्ष--यत् । १ वेधार्थमुद्दिश्यमाने शरव्ये अमरः ।

२ लक्षणाबोध्येऽर्थे ३ उद्देश्ये, ४ ज्ञेये, ५ अनुमेये च त्रि० ।

लक्ष्यसन न० रुद्रजा० उक्ते आलनभेदे । “अथ लक्ष्यासनं

वक्ष्ये लिङ्गाग्रेऽङ्घ्रितलद्वयम् । गुह्यदेशे हस्तयुग्मं
तलाभ्याम्बन्धयेत् भुवि” ।

लख गती भ्वा० पर० सक० सेट् । लखति । अलखीत्--अला-

खीत् । इदिदप्ययम् लङ्खति अलङ्खीत् ।

लग खञ्जीभावे अक० गतौ सक० भ्वा० प० सेट । लङ्गति अलङ्गीत

लग सङ्गे भ्वा० पर० सक० सेट् । लगति एदित् अलगीत्

घटा० लगयति । “छायेव तस्या लगति स्म पश्चात्” नैष० ।

लग स्वादे प्रप्तौ च सक० चु० उभ० सेट् । लागयति ते अली

लगत् त ।

लगित त्रि० लग--क्त । संसक्ते ।

लगुड़(ल)(र) पु० लग--उलच् लस्य डरौ वा । दण्डाकारे

काष्ठनिर्मिते पदार्थे (लाटी) अमरः ।

लग्न न० लस्ज--क्त तस्य नः । १ मेषादिराशीनामुदये अमरः ।

२ लज्जिते त्रि० । लग--क्त पृषो० । ३ संसक्तके त्रि० ।
४ स्तुतिपाटके पु० त्रिका० । लग्न इव इवार्थे कन् ।
५ प्रतिभुवि । (जामिन) “खादको वित्तहीनः स्यात्
लग्नको वित्तवान् यदि” इति स्मृतिः । मेषादिराश्युदय-
रूपलग्नपदार्थस्य देशभेदे कालमानं खगोलशब्दे २४५२ ।
५३ पृ० दर्शितम् । इष्टकाले लग्नसाधनञ्च ३८०२ पृ० दृश्यम् ।

लग्निका स्त्री नग्नेव कन् पृषो० । अदृष्टरजस्कायां स्त्रियाम्

अमरटीका ।

लघ अभोजने सीमातिक्रमे गतौ च भ्वा० आ० सक० सेट् इदित् ।

लङ्घते अलङ्घिष्ट । “कल्लोलिनीवल्लभमुल्ललङ्घे” महाना० ।

लघ शोके भ्वा० पर० सक० सेट् इदित् । लङ्घति अलङ्घीत् ।

लघ प्रकाशे चु० उभ० स० सेट् इदित् । लङ्घयति ते अललङ्घत् त

लघ आस्वादने चु० उभ० सक० सेट् । लाघयति--ते अलीलघत्--त

लघट्(टि) पु० लघि--शोषे “लङ्घेर्नलोपश्च” उणा० अटिः इकार

उच्चारणार्थः उज्ज्वल० पारायणे तु न तथा । वायौ ।

लघिमन् पु० लघोर्भावः इमनिच् डिच्च । १ लघुत्वे लाघवे,

येनोर्द्धगतिसम्भवः । २ ऐश्वर्य्यभेदे च ।

लघिष्ठ त्रि० अतिशयेन लघुः इष्ठन् डित् । अतिशय-

लघुत्वयुक्ते । ईयसुन् । लघीयानप्यत्र स्त्रियां ङीप् ।

लघु न० लघि--कु नि० नलोपः । १ शीघ्रे अमरः । २ कृष्णागुरुणि

मेदि० । ३ वीरणमूले राजनि० । ४ पृक्कानामौषधौ
स्त्री मेदि० । ५ निःसारे, ६ लाथवगुणान्विते, ७ ह्रस्वे,
८ मनोहरे च त्रि० मेदि० । व्याकरणोक्ते ह्रस्वसंज्ञके
९ अकारादौ वर्णे, ज्योतिषोक्तेमु “पुष्याश्चिहस्ता लघुः”
इत्युक्तेषु १० पुष्यादिनक्षत्रेषु च पु० । ११ लघुतावत्यां
स्त्रियां स्त्री वा ङीप् । तत्कृतौ णिच् लचयति ।

लघुकाय पुंस्त्री० लघुः कायो यस्य । १ छागे त्रिका० स्त्रियां

योपधत्वात् टाप् । कर्म० । २ क्षुद्रशरीरे पुंन० ।

लघुकाश्मर्य्य पु० नित्यकर्म० । कट्फले वृक्षे राजनि० ।

लघुचिर्भिटा स्त्री नि० कर्म० । मृगेर्वारौ कर्कटीभेदे राजनि० ।

लघुदन्ती स्त्री कर्म० । क्षुद्रदन्तीवृक्षे ।

“दन्तीद्वयं सरं पाके रसे च कटुदीपनम् । गुदाङ्कुराश्म
शूलास्रकण्डूकुष्ठविदाहनुत् । तीक्ष्णास्नं हन्ति
पित्तास्रं कफशोथोदरक्रिमीन्” “क्षुद्रदन्तीफलन्तु स्यान्म-
धुरं रसपाकयोः । शीतलं सृष्टविण्मूत्रं गलशोथ
कफापहम्” भावप्र०

लघुद्राक्षा स्त्री कर्म० । काकलीद्राक्षायाम् राजनि० ।

लघुनामन् पु० लघुवर्णयुक्तं नाम वाचकशब्दो यस्य ।

अगुरुचन्दने शब्दच० ।

लघुपत्रक पु० लघूनि ह्रस्वानि पत्राण्यस्य कप् । (गुड़ारो-

चना) लताभेदे शब्द च० । कब भावे ङीप् । लघुपत्री
स्त्री २ अश्वत्थवृक्षे राजनि० ।

लघुपुष्प पु० लघु पुष्पं यस्य । भूमिकदम्बे राजनि० ।

लघुबदर पु० कर्म० । १ क्षुद्रकोलौ । २ भूवदर्य्याम् स्त्री राजनि० ङीष् ।

लघुब्राह्मी स्त्री कर्म० । क्षुद्रब्राह्म्याम् राजनि० ।

लघुमन्थ पु० । अग्निमन्थः मन्थः पूर्वपदलोपः कर्म० । क्षुद्रा-

ग्निमन्थे राजनि० ।

लघुलय न० लघु शीघ्रं लीयते ली--अच् । वीरणभूल अमरः

लघुसदाफला स्त्री सदा फलं यस्याः कर्म० । क्षुद्रोदुम्बरि-

कायाम् (छोट डुमुर) राजनि० ।

लघुहेमदुग्धा स्त्री कर्म० । क्षुद्रोडुम्बरे (छोट डुमुर) राजनि०

लघूदुम्बरिका स्त्री कर्म० । क्षुद्रोदुम्बरभेदे राजनि० ।

लङ्का स्त्री लक अच् मुम् च । स्वनामख्यातायां १ पुर्य्याम् ।

सा च भूगोलस्य याम्ये भूवृत्तपादविवरे समुद्रभध्ये
स्थिता” सि० शि० । २ सारिवोधौ ३ वेश्यायां ४ शाखा-
याञ्च विश्वः ।
पृष्ठ ४८२१

लङ्काधिप पु० ६ त० । १ रावणे लङ्कानाथादयोऽप्यत्र ।

२ कुवेरे च ।

लङ्का(यि)पिका स्त्री लङ्कामयते आप्नोति वा ण्वुल् । पृक्कायां (पिड़िङ्) शाकभेदे शब्दच० ।

लङ्कास्थायिन् पु० लङ्कायां तिष्ठति स्था णिनि । (लङ्कासिज)

वृक्षभेदे शब्दच० । २ लङ्कावासिनि त्रि० ।

लङ्कोपिका स्त्री लङ्कायामुप्यत वप--ण्वुल् पृषो० । पृक्का-

याम् । (पिड़िङशाक) शब्दर० ।

लङ्घन न० लघि० ल्युट् । १ अभोजने, २ अतिक्रम्य गमने,

३ क्रमणे, ४ प्लवने च मेदि० । ५ कर्षणे च
भावप्र० लङ्घनस्य लक्षणस्वरूपगुणादिकमुक्तं यथा
“ज्वरी लङ्घनं कुर्य्यादित्याह चरको वाग्भटश्च “आमा-
शयस्थो हत्वाग्निं सामो मार्गान् पिधापयन् ।
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत्” । तथा “ज्वरादौ
लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम् । ज्वरान्ते भेषजं
दद्याज्ज्वरमुक्ते विरेचनम् । त्रिविधं त्रिविधे दोषे
तत्समीक्ष्य प्रयीजयेत् । दोषोऽपि लङ्घनं पथ्यं मध्ये
लङ्घनपाचनम् । प्रभूते शोधनं तच्च मूलादुन्मूलयेन्म-
लान्” । चक्रदत्तश्च “तरुणं तु ज्वरं पूर्वं लङ्घनेन
क्षयं नयेत् । आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि ।
वातः पचति सप्ताहात् पित्तन्तु दशभिर्दिनैः । श्लेष्मा-
द्वादशभिर्घस्रैः पच्यते वदतांवर! । लङ्घनं लङ्घनीयन्तु
कुर्य्याद्दोषानुरूपतः । त्रिरात्रमेकरात्रं वाऽहोरात्रमथ
वा ज्वरे । निर्वातसेवनात् स्वेदाल्लङ्घनादुष्णवारिणः ।
पानादामज्वरे क्षीणे पश्चादौषधमाचरेत्” । आत्रेये-
णोक्तम् “ज्वरादौ लङ्घनं प्राक्तं ज्वरमध्ये तु
पाचनम् । ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम् ।
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च । लङ्घितश्चाप्य-
दोषश्चेत् यवागूपानमाचरेत् । शालिषष्टिकमुद्गानां यूषं
वा शस्तमाचरेत् । पञ्चकोलेन संसिद्धां यवागूं मध्य-
लङ्घने । अत्यर्थं लङ्घितं दृष्ट्वा तस्य सन्तर्पणं हितम् ।
द्राक्षादाडिमखर्जूरपियालैः सपरुषकैः । तर्पणार्हस्य
कर्त्तव्यन्तर्पणं ज्वरशान्तये” । अत्र लङ्घनशब्देनानशन-
मुच्यते । यत आह सुश्रुतः “आनद्धस्तिमितैर्दोषैर्यावन्तं
कालमातुरः । तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत् ।
आनद्धस्तिमितैर्दोषैः सम्बद्धः । संसर्गम् औषधान्नादि-
प्रसङ्गम्” । यत आह चरकः “चतुःप्रकाराः संशुद्धिः
पिपासा मारुतातपौ । पाचनान्युपवासश्च व्यायामश्चेति
लङ्घनम् । चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम्” । नि-
रूहवस्तिशिरोविरेचनानि नत्वनुवासनं तस्य वृंहण-
त्वात् । अत्र लङ्घनं कर्षणमित्यर्थः । सुश्रुतः “शरीर-
लाघवकरं यद्द्रव्यं कर्म वा पुनः । तं लङ्घनमिति
ज्ञेयं वृंहणं तु पृथग्विधम्” । लङ्घनात्कर्षणादन्यत्
शरोरपोषकमित्यर्थः” ।

लछ चिह्नकरणे भ्वा० पर० सक० सेट् । लच्छति अलच्छीत् ।

लज व्रीड़ायाम् भ्वा० आ० अक० सेट् । लजते अलजिष्ट ।

लज तिरस्कारे भ्वा० पर० सक० सेट् इदित् । लञ्जति अलञ्जीत्

लज अन्तर्द्धाने चुरा० उ० सक० सेट् । लाजयति--ते

अलीलजत् त ।

लज भाषणे हिंसायां दाने च सक० सामथ्य वास च अक०

चुरा० उभ० सेट् इदित् । लञ्जयति--ते अललञ्जत् त ।

लज भासने अद० चु० उभ० सक० सेट् । लजयति--ते अललजत्--त

लजकारिका स्त्री लजं लज्जां करोति कृ--ण्वुल् अत

इत्त्वम् । लज्जालुलतायाम् हेमच० ।

लज्जा स्त्री लस्ज भावे अ । अकृत्यप्रवृत्तौ परदर्शने दुष्टत्व-

धिया ततो निवृत्तिमाधने चित्तवृत्तिभेदे अमरः ।

लज्जालु स्त्री लस्ज--आलुच् । १ लतामदे शब्दच० । २ लज्जा-

वति त्रि० ।
“लज्जालुः स्यात् शमीपत्रा समङ्गाञ्जलिकारिका । रक्त-
पादी नमस्कारी नाम्ना खदिरकेत्यपि । लज्जालुः
शीतला तिक्ता कषाया कफपित्तजित् । रक्तपित्तमतीसारं
योनिरोगं विनाशयेत्” भावप्र० ।

लज्जाशील त्रि० लज्जां शीलयति शील--अण् । लज्जाविशिष्टे ।

लज्जिरी स्त्री लज्जा + अस्त्यर्थे इरच् गौरा० ङीष् । लज्जालु-

लताभेदे राजनि० ।

लञ्ज भासने अद० चु० उभ० अक० सेट् । लञ्जयति ते अललञ्जत् त ।

लञ्ज पु० लञ्ज--अच् । १ पदे २ कच्छौ च हेमच० । ३ पुच्छे जटा०

संज्ञायां कन् अत इत्त्वम् । लञ्जिका वेश्यायाम् हेमच० ।

लट बालभावे अक० उक्तौ द्वि० भ्वा० पर० सेट् । लटति ।

अलाटीत् अलटीत् ।

लट पु० लट--बा० घञर्थे क । १ प्रमादवचगे २ दोषे च विश्वः ।

लटक पु० लट--वुन् । दुर्जने उणादिकोषः ।

लटपर्ण न० लटं दुष्टं पर्णमस्य । त्वचे (दारचिनि) राजनि०

लटा स्त्री लट--व । (नाटाकरमचा) १ करञ्जभेदे, २ वाद्यभेदे,

३ ग्रामचटके, मेदि० ४ कुसुम्भे हेमच० । ५ भ्रमरके च
भरतः । ६ लावे स्वगे पुंस्त्री० जातिभेदे पुंस्त्री० ७ रागभेदे
पु० उणा० ।
पृष्ठ ४८२२

लड विलासे भ्वा० पर० अक० सेट् । लडति अला(ड)डीत्

लड उत्पीड़ने सक० जिह्वाचालने अक० भ्वा० पर० सेट् ।

लडति अलाडीत्--अलडीत् घटा० । लडयति ।

लड अत्यन्तपालने चु० लभ० सक० सेट् । लाडयति--ते अलीलडत् त ।

लड व्याप्तौ चु० उभ० सक० सट् । लाडयति--ते अलीलडत् त ।

लड भाषणे द्विक० वा चु० उभ० पक्षे भ्वा० पर० सेट् इदित् ।

लण्डयति--ते लण्डति । अललण्डत्--त अलण्डीत् ।

लड उत्क्षेपणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।

लण्डयति--ते लण्डति । अललण्डत्--त अलण्डीत् ।

लड क्षेपणे अद० चु० उभ० सक० सेट् । लडयति ते अललडत् त

लड्डुक पु० लड--डु तस्य नेत्त्वम् स्वार्थे क । तैलादिपक्वे

गोधूमादिचूर्णनिर्मिते (लाडु) मिष्टान्नभेदे “पृथुलड्डु
कस्तनीति नैषधम् स्त्रीत्वमप्यस्य ।

लण्ड पु० लडिरन् । (लण्डन) इति ख्याते देशभेदे ।

लत आघाते सौ० पर० सक० सेट् । लतति अलातीत् अलतीत् ।

लता स्त्री लत--अच् । शाखारहिते १ गुडूच्यादौ अमरः ।

२ शाखायां ३ प्रियङ्गौ ४ पृक्कायाम् ५ असनपर्ण्यां च
अमरः । ६ ज्योतिष्मत्यां ७ लताकस्तूरिकार्या ८ माधवील
तायां ९ दूर्वायाञ्च मेदि० । १० कैवर्त्तिकायां ११ सारिवोषधौ
च राजनि० ।

लताकरञ्ज पु० लतारूपः करञ्ज । करञ्जभेदे राजनि० ।

लताकस्तूरिका स्त्री लतायां कस्तूरीव सुगन्धत्वात् इवार्थे

कन् । कस्तूरीगन्धयुक्तपत्रयुतायां लतायाम् राजवल्ल० ।
“लताकस्तूरिका तिक्ता हृद्या शीतास्यरोगहृत्” ।

लताजिह्व पुंस्त्री० लतेव जिह्वा यस्य । सर्पे शब्दमा० स्त्रियां

ङीष् ।

लतातरु पु० लतेव दीर्घस्तरुः । १ तालवृक्षे २ नागरङ्गवृक्ष च

शब्दच० । ३ शालवृक्षे राजवल्ल० । लताद्रुमादयोऽप्यत्र ।

लतापनस पु० लतायां पनसमिव स्थूलं फलमस्य ।

(तरमुज) लताभेदे त्रिका० ।

लतापृक्का स्त्री लतेव विस्तीर्णा पृक्का । (पिड़िङ्ग) शाकभेदे शब्दच० ।

लताफल न० लतायां फलमम्य । पटोले ।

लतामरुत् स्त्री लतायां मरुत् वायुर्यस्याः । पृक्वायां शब्दच०

तल्लतासेवने हि वायुवृद्धिरिति वैद्यकप्रसिद्धम् ।

लतायष्टि स्त्री लतापि यष्टिरिव । मञ्जिष्ठायाम् शब्दमा० ।

लतायावक न० लताया यावकमिव । प्रबाले हारा० ।

लतार्क पु० कतयाऽर्क इव । हरित्पलाण्डौ अमरः ।

लतावेष्ट पु० “बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा स्त्रियं

रमेत् । लथुलिङ्गताड़नं योनौ लतावेष्टमुच्यते” रसम०
उक्ते स्रालिङ्गनभेदे ।

लतावेष्टितक न० आलिङ्गनभेदे । “उद्घट्टपीड़ितं लतावेष्टितकं तथा” शब्दमा० ।

लप कथने भ्वा० पर० द्विक० सेट् । लपति । अलापीत्--अल-

पीत् । ऋदित् चङि न ह्रस्वः ।

लपन न० लप्यते उच्यतेऽनेन लप--करणे ल्युट् । १ मुखे

अमरः । भावे ल्युट् । २ कथने च ।

लपित त्रि० लप--कर्मणि क्त । १ कथिते । भावे क्त । २ कथने न० अमरः ।

लप्सिका स्त्री खाद्यभेदे कृतान्नशब्दे २ । ८१ पृ० दृश्यम् ।

लब आलम्बने सक० शब्दे अक० भ्वा० आत्म० सेट् इदित् ।

लम्बते अलम्बिष्ट ।

लब्ध त्रि० लभ--कर्मणि क्त । १ प्राप्ते अमरः । २ नायिकाभेदे

स्त्री जटा० । भावे क्त । प्राप्तौ ३ लाभे न० ।
“ब्राह्मस्याधिकं लब्धम्” गौत० स्मृति ।

लब्धवर्ण पु० लब्धो वर्णो वर्णनं प्रशंसा ज्ञानवत्त्वेन येन ।

पण्डिते अमरः ।

लभ शब्देअक० भ्वा० आत्म० सेट् इदित् । लम्भते अलम्भिष्ट ।

लभ प्राप्तौ सक० भ्वा० आत्म० अनिट् । लभते । अलब्ध ।

ड्वित् लब्ध्रिमः । षित् लभा । अलिट्यजादावार्द्दधातुके मुम् ।
आलम्भः उपालम्भः । अनुपसर्गात् घञि तु न लाभः ।
खलि च सर्वथा दुर्लभः ।
आ + स्पर्शे बधे च उप + ज्ञानभेदे उप + आ + तिरस्कारे ।

लभस न० लभ--असच् नि० मुम् । वाजिबन्धने उज्ज्वल० ।

लभ्य त्रि० लभ--कर्मणि यत् । १ प्राप्तव्ये मेदि० २ न्याय्ये अमरः

लमक पु० रम--वुन् रस्य लः । १ मिङ्गे जारे सि० कौ० ।

लम्पट पु० रस--अटन् पुक् च रस्य लः । परस्त्रीषु १ लोलुपे,

मेदि० । २ आसक्ते च ।

लम्ब पु० लवि--अच् । १ नर्त्तके २ कान्ते ३ अङ्गे च उणा० ।

४ उत्कोचे हेमच० अङ्कशास्त्रोक्ते त्रिभुजादिक्षेत्रे
मुजकर्णयोर्मध्यस्थे लम्बमाने ५ सूत्रे च “स्वाबाधाभुजकृत्यो-
रन्तरमूलं प्रजायते लम्बः । लम्बगुणं भूम्यर्द्धं स्पष्टं त्रि
भुजे फलं भवति” लीला० । ७ दीर्घे ८ लम्बमाने च त्रि० ।

लम्बकर्ण पु० लम्बः कर्णो यस्य । १ छागे मेदि० २ अङ्कोट-

वृक्षे पु० ३ हस्तिनि ४ राक्षसे च पुंस्त्री० शब्दच० ५ श्येनप
क्षिणि राजनि० । ६ लम्बश्रोत्रयुते त्रि० । कर्म० । ७ लम्ब
माने श्रोत्रे पु० । सर्वत्र स्त्रियां जातित्वात् ङीष् ।
पृष्ठ ४८२३

लम्बकेश त्रि० लम्ब दीर्घः केशो यस्य । दीर्घामयुक्ते कुशमये

विष्टरे । “ऊर्ध्वकेशो भवेत् ब्रह्मा लम्बकेशस्तु विष्टरः ।
दक्षिणावर्त्तको व्रह्मा वामावर्त्तस्तु विष्टरः” स० त० ।
“केशोऽत्राग्रम्” रघु० । २ दीर्घकेशयुक्ते त्रि० । कर्म० ।
३ दीर्घे केशे च पु० ।

लम्बदन्ता स्त्री लम्बोदीर्घः दन्त इव वीजकण्टको यस्य ।

१ सिंहलद्वीपभवपिष्पल्याम् राजनि० । २ दीर्घदन्तयुक्ते त्रि०
कर्म० । ३ दीर्घे दन्ते पु० ।

लम्बन न० लबि० ल्युट् । नाभिदेशपर्य्यन्तं १ लम्बमाने

माल्यादौ अमरः । भावे ल्युट् । २ आचयणे न० ।

लम्बवीजा स्त्री लम्बं दीर्धं वीजं यस्याः । सिंहलदेशजात-

पिप्पल्याम् राजनि० ।

लम्बा स्त्री लम्बते लबि--अच् । १ तिक्ततुम्ब्यां (तितलाउ)

२ लक्ष्म्यां ३ गौर्य्याञ्च मेदि० ४ दक्षकन्याभेदे ५ हिमालय-
कन्याभेदे च हरिवं० ।

लम्बोदर पु० लम्बं दीर्घमुदरं यस्य । १ गणेशे अमरः । २ तारा-

नाम्न्यां देव्यां स्त्री तन्त्रम् ङीष् । ३ दीर्घोदराद्ये त्रि० ।

लम्बो(म्बौ)ष्ट पुंस्त्री० लम्बौ ओष्ठौ यस्य । उष्ट्रे त्रिका०

स्त्रियां ङीष् ।

लय गतौ भ्वा० आत्म० सक० सेट् । लयते अलविष्ट । अलविढ्वम् अलयिध्वम् ।

लय पु० ली--अच । १ संश्लेषे २ विमाशे ३ नृत्यगीतवाद्याना-

मेकतानतारूपे साम्ये च मेदि० । लीयतेऽत्र । सर्वभूत-
क्षरकरे ४ प्रलयकाले शब्दर० ५ ईश्वरे च । णस्यलयभेदाश्च
“द्विपदी स्याद्बलतिका झल्लिका छिन्नखण्डिका । वाम
भ्रुवस्ततश्छिन्ना खण्डधारा फड़क्ककः । जम्भट्टिका-
कलतिकः खण्डकः खुरिकस्तथा । कथितश्चतुरस्रोऽर्द्धचतु-
रस्रोऽथ नर्त्तकः । त्र्यस्रः षट्युन्दालनावकृष्टमन्दघटी-
त्यपि । कादम्बश्चर्चरी घट्टा मिश्रोऽर्द्धवलिता ततः ।
अतिचित्रः समग्रश्च वलितोऽर्द्धदलस्तथा । आविद्धस्तु
टङ्कवकस्ततश्चित्रविचित्रकौ । आन्त्री विकृतधारा च
मुकुलोऽथ विलोलकः । रमणीयस्ततश्चैव करकण्टक-
संज्ञकः । चत्वारिंसदिमे प्रोक्ता लया लयविशारदैः ।
लयेन वश्यो भगवान् लये लीनो जनार्दनः” सङ्गीतदा० ।

लर्व गतौ भ्वा० पर० सक० सेट् । लर्वति अलर्वीत् ।

लल इच्छायां चु० उभ० सक० सेट । लालयति--ते अलीललत् त

लल इच्छायां अद० चु० उभ० सक० सेट् । ललयति ते

अलललत् त ।

ललज्जिह्व पु० लडन्ती आस्वाद्यास्वादनाय चलन्ती जिह्वा

यस्य डस्य लः । १ कुक्कुरे, २ उष्ट्रे, ३ हिंस्रसत्त्वे त्रि० मेदि०
स्त्रियां जातित्वात् ङीष् । ४ चलद्रसवायुक्ते त्रि० ।
स्त्रियां टाप् ।

ललन न० लड--ल्युट् डस्य लः । १ चालने । ३ केलौ हेमच०

३ बाले ४ सालवृक्षे ५ पियालवृक्षे च पु० राजनि० । चु०
लल--ल्यु । ६ जिह्वार्या ७ नार्य्याञ्च स्त्री मेदि० ।

ललनाप्रिय पु० कर्म० । १ कदम्बे । २ ह्रोवेरे न० राजनि० ।

३ जिह्वाप्रिये, ५ रमणीवल्लभे च त्रि० ।

ललन्तिका स्त्री लड--झच् स्वार्थे क अत इत्त्वम् डस्य लः ।

नाभिदेशपर्य्यन्तं लम्बमाने १ माल्यादौ अमरः ।
२ गोधायां शब्दच० ।

ललाट न० लड--अच् डस्य लः ललमटति अट--अण् ।

अललाधःस्थेऽङ्गभेदे (कपाल) अमरः ।

ललाटन्तप पु० ललाटं तापयति तप--णिक् खच्--ह्रस्वः ।

१ सूर्य्ये सि० कौ० । २ ललाटतापके त्रि० “लिपिर्ललाट-
न्तपनिष्ठराक्षरा” नैषधम् ।

ललाटपट्ट पु० ललाटं पट्टमिव विस्तीर्णत्वात् । पशस्त-

ललाटे ललाटफलकादयोऽप्यत्र ।

ललाटिका स्त्री ललाटे आवध्यते ठन् । १ ललाटभूपणे (टीका)

अमरः २ ललाटस्थे चिह्ने च ।

ललाम न० लल--अच् तममति अम--अण् । १ प्रधाने, २ ध्वजे

३ शृङ्गे ४ बालधौ ५ चिह्ने ६ भूषायां ७ रम्ये ८ तिलके
९ घोटके १० प्रभावे च मेदि० । नान्तत्वमप्यस्य रुद्रः ।

ललामक न० ललामं तिलकमिव इवार्थे कन् । ललाट-

पर्य्यन्तं सम्मुखन्यस्ते माल्यभेदे अमरः ।

ललित न० लल--क्त । १ शृङ्गारानुगुणे चेष्टाभेदे “सुकुमार-

तयाऽङ्गानां विन्यासो ललितं भवेत्” सा० द० । २ सुन्दरे,
३ ईप्सिते च त्रि० अमरः ४ स्वरभेदे पु० सङ्गी० लड क्त
डस्य लः । ५ चालने न० ६ फस्तूर्य्यां ७ नार्य्यां च स्त्री
राजनि० । ८ नदीभेदे सा च नदी कालिकापु० ८१ अ०
उक्ता । ९ दुर्गायाम् “या दुर्गा सैव ललिता” पद्मपु०
पाता० । १० राधासखीभेदे च ।

ललितासप्तमी स्त्री ललिताप्रिया सप्तमी । ललितापूजाङ्गे

१ भाद्रशुक्लसप्तम्याम्, तद्दिनकर्त्तव्ये २ व्रतभेदे च ।

लव पु० लू--अप् । १ लेशे २ विनाशे ३ छेदने श्रीरामपुत्रे मेदि०

५ कालपरिमाणभेदे काष्ठाद्वये हेमच० ६ गोलाङ्गूल-
लोम्नि, ७ बाले केशे च ८ जातीफले न० शब्दच० । ९ लवङ्गे
१० लामज्जके ११ ईषदर्थे राजनि० । १२ लावखगे पुंस्त्री०
राजनि० ।
पृष्ठ ४८२४

लवङ्ग न० लू--अङ्गच् । स्वनामख्याते द्रव्ये अमरः । “लवङ्गं

कटुकं तिक्तं लघु नेत्रहितं हितम् । दीपनं पाचनं
रुच्यं कफपित्तास्रनाशनम् । तृष्णां छर्दिं तथा
ध्मानशूलमाशु विनाशयेत् । कासं श्वासं च हिक्कां च
क्षयं क्षिपति तद्ध्रुवम्” भावप्र० । स्वार्थे क तत्रैव शब्दर० ।

लवङ्गकलिका स्त्री लवङ्गं कलिकेव । लवङ्गे राजनि० ।

लवण पु० लू--ल्युट् पृषो० णत्वम् । १ रसभेदे “लवणः

शोधनो रुच्यः पाचनः कफपित्तदः । पुंस्त्ववातहरः-
कायशैथिल्यमृदुताकरः । चक्षुर्नासास्यजलदः कपोल-
गलदाहकृत् । सोऽतियुक्तोऽक्षिपाकास्रपित्तकोटक्षतादि-
कृत् । “बलीपलितखालित्यं कुष्ठवीसर्पतृट्प्रदः” भावप्र० ।
तत्प्रधाने २ सैन्धवसौवर्चलविड़ादिरूपे पदार्थे च न० ।
तदुत्पत्तिस्थाने ३ सिन्धुदेशे ४ समुद्रे ५ मधुदैत्यसुते
असुरभेदे च पु० । ६ लवणरसयुक्ते मेदि० ७ लावण्यवति
च त्रि० ८ नदीभेदे ९ दीप्तौ च स्त्री मेदि० ।

लवणकिंशुका स्त्री लवणरसान्वितं किंशुकं पलाशं

यस्याः । महाज्योतिष्मत्याम् राजनि० ।

लवणक्षार पु० लवक्षमयः क्षारः । लवणसंयुक्ते क्षारे राजनि०

लवणखनि स्त्री ६ त० । शाम्भरिलवणोत्पत्तिस्थाने हेमच० ।

लवणधेनु स्त्री दानार्थं कल्पितायां लवणनिर्मितायां धेनौ

वराहपु० ।

लवणाचल पु० दानार्थं कल्पिते अचलाकारे लवणस्तूपे । धान्यशैलशब्दे ३८८१ पृ० दृश्यम् ।

लवणाब्धि पु० लवणमयोऽब्धिः । लवणप्रचुरसमुद्रे ।

लवणसमुद्रादयोऽप्यत्र ।

लवणाब्धिज न० लवणाब्धेर्जायते जन--ड । सामुदूलवणे (करकचलवण) राजनि० ।

लवणोत्तम न० लवणेषु उत्तमम् । सैन्धवलवणे रत्नमा० ।

लवणोद पु० लवणमयमुदकं यस्य उदादेशः । लवणसमुद्रे

अमरः ।

लवन न० लू--भावे कर्मणि च ल्युट् । १ छेदने अमरः (लोना

आता) २ वृक्षे स्त्री शब्दच० ङीप् ।

लवली स्त्री० लवं लेशं लाति--ला क गौ० ङीष् । (नोयाड़) वृक्षे राजनि० ।

लवित्र न० लूयतेऽनेन लू--इत्र । १ दात्रे अमरः ।

लश(ष)(स) शिल्पयोगे चु० उभ० अक० सेट् । लाश(ष)(स)यति

ते अलोलश(ष)(स)त् त ।

लशु(शू)न न० अश--उनन् ऊनन् वा धातोरादेर्लश्च ।

(रशुन) । रसोने भावप्र० ।
तस्योत्पत्तिगुणादि भावप्र० उक्तं यथा
“लशुनन्तु रसोनः स्यादुग्रगन्धो मश्लौषधम् । अरिष्टो
म्लेच्छकन्दः स्यात् पवनेष्टो रसोनकः । यदामृतं वैनतेयो ।
जहार सुरसद्मनः । तदा ततोऽपतद्विन्दु स
रसोनोऽपतद् भुवि । पञ्चभिश्च रसैर्युक्तोरसेनाम्लेन वर्जितः
तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः । कटुक-
श्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टो
नालाग्रे लवणः स्थितः । वीजे तु मधुरः प्रोक्तो रस
स्तद्गुणवेदिभिः । रसोनो वृंहणो वृष्यः स्निग्धोष्णः
पाचनः सरः । रसे पाके च कटुकस्तीक्ष्णो मधुरसो
मतः । भग्नसन्धानकृत् कण्ठ्यो गुरुपित्तास्ववृद्धिदः ।
बलार्णकरो मेधाहितो नेत्र्यो रसायनः । हृद्रोग-
जीर्णज्वरकुक्षिशूल विबन्धगुल्मारुचिकासशोफान् ।
दुर्णामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति । मद्यं
भांसं तथाम्लञ्च हितं लशुनसेविनाम्” । दीर्घमध्यः
शब्दर० ।

लष स्पृहायां दिवा० भ्वा० च उम० सक० सट् । लव्यति--ते

लषति ते अलषीत् अलाषीत् अलषिष्ट ललाष लेषे ।

लस श्लेषे क्रीडायां दीप्तौ च अक० भ्वा० पर० सेट् । लसति-

अलासीत् अलसीत् ।

लसा स्त्री लसति लस--अच् । हरिद्रायाम् हारा० ।

लसिका स्त्री लस अच् टाप् अत इत्त्वम् । लालायां शब्दच० ।

लस्ज व्रीडायां भ्वा० आ० अक० सेट् । लज्जते अलज्जिष्ट ।

इदित् निष्ठायामनिट् ओदित् निष्ठातस्य नः । लग्नः ।

लस्त त्रि० लस--क्त नि० इडमावः । १ श्लिष्टे, क्रीड़िते,

२ शिल्पयुक्ते च । संज्ञायां कन् । धनुर्मध्यभागे पु० अमरः

लहरि(री) स्त्री लेन--इन्द्रेणेव ह्रियते ऊर्द्ध्वगमनाय हृ--कर्मणि

इन् वा ङीष् । महातरङ्गे हेमच० ।

ला आदाने अदा० पर० सक० अनिट् । लाति अलासीत् ।

लाक्षणिक त्रि० लक्षणया बोधयति ठक् । १ लक्षणया अर्थबो-

धके शब्दे । अस्त्यर्थे ठन् स्वार्थे अण् । २ लक्षणयुक्ते च ।

लाक्षण्य त्रि० लक्षणं वेत्ति ञ्य । १ शुभाशुभलक्षणज्ञे ।

अस्त्यर्थे बा० ञ्य । २ लक्षणयुक्ते ।

लाक्षा स्त्री लक्ष्यतेऽनया लक्ष--अच् पृषो० वृद्धिः । (ला)ख्याते

पदार्थे अमरः । २ रञ्जनद्रव्ये ।

लाक्षातरु पु० लाक्षायोनिस्तरुः । (ला) द्रव्यसाधने वृक्षे

शब्दच० । लाक्षावृक्षादयोऽप्यत्र ।

लाक्षादितैल न० लाक्षादिभिः पक्वं तैलम् शा० त० । वैद्यकप्र-

सिद्धे तैलभेदे तच्च द्विविधं स्वल्पं वृहच्चेतिभेदात् तत्र स्वल्पं
यथा “लाक्षा हरिद्रा मञ्जिष्ठाकल्कैस्तैलं विपाचितम् ।
पृष्ठ ४८२५
तद्गुणेनारनालेन दाहशीतज्वरापहम्” । वृहत् यथा
“लाक्षारसाढके प्रस्थं तैलस्य विपचेत् भिषक् । मस्त्वा-
ढकसमायुक्तं पिष्ट्वा चात्र समावपेत् । शतपुष्पां
हरिद्राञ्च मूर्वां कुष्ठं हरेणुकाम् । कटुकां मधुकां
रास्नामश्वगन्धाञ्च दारु च । मुस्तकं चन्दनं चैव पृथगक्ष-
समानकैः । द्रव्यैरेतैश्च संसिद्धमभ्यङ्गात् मारुतापहम् ।
विषमाख्यान् ज्वरान् सर्वानाश्वेवं प्रशमं नयेत् । कासं
श्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम् । त्रिकपृष्ठ-
ग्रहं शूलं गात्राणां स्फुटनं तथा । पापालक्ष्मीप्रशमनं
सर्वग्रहनिवारणम् । अश्विभ्यां निर्मितं सम्यक् तैलं
लाक्षादिकं महत्” मुखबोधः ।

लाक्षाप्रसाद पु० लाक्षायां पसादो यस्य । पट्टिकालोध्रे राजनि०

लाक्षाप्रसाधन न० प्रसाध्यते भूष्यतेऽनेन ल्युट् लाक्षा

तद्रस एव प्रसाधनमस्य । २ रक्तलोध्रे अमरः ।

लाक्षारस पु० लाक्षानिःसृतो रसः द्रवः । अलक्तकरसे ।

लाख शोषे भूषणे दाने वारणे च सक० सामर्थ्ये अक० भ्वा०

पर० सेट् । लाखति अलाखीत् ऋदित् चङि न ह्रस्वः ।

लाघ सामर्थ्ये भ्वा० आ० अक० सेट् । लाघते अलाघिष्ट ।

ऋदित् चङि न ह्रस्वः ।

लाघव न० लघोर्भावः अण् । १ लघुत्वे आरोग्ये च राजनि०

लाङ्गल न० लगि--कलच् पृषो० वृद्धिः । स्वनामख्याते

१ भूमिकर्षके पदार्थे अमरः । २ लिङ्गे त्रिका० ३ पुष्पभेदे
४ तालवृक्षे ५ गृहदारुणि च मेदि० ।

लाङ्गलदण्ड पु० ६ त० । लाङ्गलमध्यस्थे काष्ठमये दण्ड (ईश) अमरः ।

लाङ्गलपद्धति स्त्री लाङ्गलखाता पद्धतिः रेखा । सीतायाम्

लाङ्गलखातक्षेत्रस्थभूमिरेखायाम् अमरः ।

लाङ्गलिकी स्त्री लाङ्गलमिवाकारेऽस्त्यस्याः ठन् गौ० ङीष्

(विषलाङ्गला) १ वृक्षभेदे अमरः । तत्र भवः अण्
२ विषभेदे पु० हेमच० ।

लाङ्गलिन् पु० लाङ्गलं प्रहरणसाधनत्वेनास्त्यस्य इनि । १

बलरामे शब्दर० । लाङ्गलदण्ड इव दीर्घः आकारोऽस्त्यस्य
इनि । ३ नारिकेलवृक्षे अमरः ।

लाङ्गली स्त्री लाङ्गलाकारः पुष्पमस्त्यस्याः अच् गौरा० ङीष्

(काँचड़ा) शाकमेदे अमरः ।

लाङ्गूल न० लगि--ऊलच् पृषो० । पशूनां पाश्चाद्वर्त्तिनि रोम

गुच्छे सारसुन्दरी २ शेफे मेदि० ३ कुशूले सि० कौ० ।

लाङ्गूलिका स्त्री लाङ्गूलाकारोऽस्त्यस्याः ठन् । पृश्निपर्ण्याम्

राजनि० ।

लाङ्गूलिन् पु० लाङ्गूलवस्त्यस्य इनि । १ वानरे शब्दच० तदाकारपुष्पयुते २ ऋषभौषधे च राजनि० ।

लाछ अङ्कने भ्वा० पर० सक० सेट इदित् । लाञ्छति

अलाञ्छीत् ।

लाज भर्त्सने भ्वा० पर० सक० सेट् । लाजति अलाजीत् । इदि दयप्ययम् । लाञ्जति जलाञ्जीत् ।

लाज न० लाज--अच् । १ उशीरे २ आर्द्रतण्डुले पु० मेदि० ।

३ भृष्टधान्ये (खै) पु० ब० व० अमरः । स्त्रीत्वमप्यत्र मेदि० ।

लाञ्छन न० लाञ्छ्यते लाछि--कर्मणि ल्युट् । १ चिह्ने

२ नामनि च मेदि० भावे ल्युट् । ३ अङ्कने ।

लाट पु० लट--मंज्ञायां घञ् । १ देशभेदे २ वस्त्रे अमरः

३ जीर्णालङ्कारे शब्दर० । ४ विदग्धपुरुषे च सा० द० ।

लाटानुप्रास पु० अलङ्कारोक्ते शब्दालङ्कारभेदे अनुप्रासशब्दे

१७९ पृ० अलङ्कारशब्दे च ३८९ पृ० दृश्यम् ।

लाड क्षेपे अद० चु० उभ० सक० सेट् । लाडयति ते ।

लाभ पु० लभ्यते लभ--लर्मणि घञ् । १ मूलधनादितोऽधिके

लम्यमाने धने अमरः । भावे घञ् । २ प्राप्तौ ।

लामज्जक न० लायते ला--क्विप् लाः आदीयमानः मज्जा

सारो यस्य कप् । वीरणमूले अमरः ।

लालन न० चु० लल--ल्युट् । स्नेहपूर्वकपालने ।

लालसा स्त्री लस--स्पृहायां यङ् लुक् भाव अ । १ अतिश-

येच्छायाम् अमरः । २ गर्भिणीदोहदे हेमच० । ३ याच्ञायां
औत्सुक्ये च मेदि० । कर्त्तरि अच् । ५ लोले त्रि० हेमच० ।

लाला स्त्री चु० लल--णिच् अच्--टाप् । सुखजजललवे अमरः

लालाटिक त्रि० ललाटं प्रभोर्माग्यं पश्यति ठञ् । १ प्रभु-

भाग्यापजीविनि कार्य्यासमर्थे अमरः । ललाटात्
ललाटस्थसाग्यात् आगतः तस्येदं वा ठण् । २ भाग्या-
धीने त्रि० “प्राप्तिस्तु लालाटिकी” इत्युद्भटः । ३ ललाट-
सम्बन्धिनि त्रि० ।

लालाविष पु० लालायां विषमस्य । १ लूतादौ कीटे हेमच०

कीटशब्दे २०५९ पृ० दृश्यम् ।

लालास्राव लालां स्रावयति स्रु--णिच्--अण् । लूताकीटे हेमच० ।

लालित्य न० ललितस्य भावः ष्यञ् । १ सौन्दर्प्ये २

मनोहरत्वे “नैषधे पदलालित्यम्” इत्युद्भटः ।

लाव पुंस्त्री० लू--कर्त्तरि संज्ञायां घञ् । १ पक्षिभेदे अमरः ।

स्त्रियां ङीष् । स्वार्थे क । तत्रैव भावे घञ् । २ छेदने ।

लावण न० लवणे संस्कृतम् अण् । लवणसंस्कृते औषधादौ

लावणिक न० लवणे संस्कृतम् ठण् । १ लवणे संस्कृतौषधादौ

हेमच० । लवणं पण्यमस्य ठण् । २ लवणविक्रयोपजी-
विनि वणिग्भेदे च ।
पृष्ठ ४८२६

लावण्य न० लबणस्य भावः ष्यञ् । लवणत्वे “मुक्ताफलेष

छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लाव-
ण्यमिहोच्यते” उज्ज्वलम स्युक्ते देहसौन्दर्य्यभेदे च ।

लासिका स्त्री लस--ण्वुल् । नर्त्तक्याम् अमरः । पृषो०

लासकीत्यप्यत्र तट्टीका ।

लास्य न० लस--ण्यत् । १ नृत्ये अमरः । २ वाद्यनृत्यगीति-

त्रिके मेदि० । “स्त्रीनृत्यं लास्यमुच्यते” इत्युक्ते ३ स्त्री-
तृत्ये च । स्वार्थे अ । तत्रैव ।

लिकुच पु० लकुच--पृषो० इत्त्वम् । (माँदार) वृक्षे अमरः ।

लिक्षा(क्का) स्त्री लिश--गतौ क्स षड़कषत्वानि पृषो० वा

क्वश्च । १ यूकाण्डे शब्दर० । “जालान्तरगते भानौ
यच्चाणु दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिक्षा” २ इत्युक्ते
परिमाणभेदे च ।

लिख लेखने तुदा० पर० सक० सेट् । लिखति अलेखीत् ।

कुटादिरप्ययम् तेन लिखनमिति सिद्धम् ।

लिख गतौ भ्वा० पर० सक० सेट् इदित् । लिङ्खति अलिङ्खीत्

लिखन न० कु० लिख--भावादौ ल्युट्! १ लेखने २ लिपौ च

लिखित न० लिख--भावे क्त । १ लेखने । आधारे क्त ।

२ लिपौ अमरः । विवादे अर्थसाधके ३ पत्रे च “प्रमाणं
लिखितं भक्तिः” स्मृतिः । लेख्यशब्दे दृश्यम् । ४ स्मृतिकारके
शङ्खमुनिभ्रातरि मुनिभेदे पु० ।

लिग गतौ भ्वा० पर० सक० सेट् इदित् । लिङ्गति अलिङ्गीत् ।

लिग चित्रीकरणे चुरा० उभ० सक० सेट् इदित् । लिङ्गयति ते

अलिलिङ्गत् त ।

लिङ्ग पु० लिगि--अच् । १ चिह्ने २ पुसोऽसाधारणचिह्ने

उपस्थेन्द्रिये अमरः । ३ अनुमानसाधने हेतौ ४ सांख्यो-
क्ते प्रधाने तस्यात्मविवेकहेतुत्वात् तथात्वम् । ५ शिवमूर्त्ति-
भेदे मेदि० ६ व्याप्ये ७ व्यक्ते शब्दानष्ठे पदसाधुताप्रयो-
जके ८ धर्मभेदे त्रिका० ९ अर्थप्रकाशनसामर्थ्ये च । “क्षमता
च लिङ्गमिति” मीसांसकाः ।
शब्दधर्भलिङ्गं चास्माभिः शबदार्थरत्ने निरूपितं यथा
“लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मको धर्म एव तद्विशेषश्च
पुंनपुंसकत्वादिः । तथा हि सर्वेषां त्रिगुणप्रकृतिका-
र्य्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छस्देषु
लिङ्गविशेष इति कल्प्यते स च विशेषः शास्त्रे इत्थ-
मभ्यधायि । “विकृतसत्त्वादीनां तुल्यरूपेणावस्थानात्
नपुंसकत्वं सत्त्वस्याधिक्ये पुंस्त्वम् अल्पत्वे(रज आधिक्ये)
स्त्री त्वमिति” । एवञ्च लिप्तस्य शब्दधर्मत्वेऽपि शब्देन
सहार्थाभेदारोपात् असति बाधके अर्थेऽपि साक्षात्
तत्पारतन्त्र्येण वा सर्वत्र तस्य विशेषणत्वम् शाब्दबोधे
शब्दभानस्येष्टत्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्ग-
स्यापि नांमार्थतौचित्यात् “न सोऽस्ति प्रत्ययो लोके यः
शब्दानुगमादृते” इति हर्य्युक्तेः “शब्दोऽपि यदि भेदेन
विवक्षा स्यात्तदा तथा । नो चेत् श्रोत्रादिभिः सिद्धो-
ऽप्यसावर्थेऽवभासते” हर्य्युक्तेश्च शब्दानां नामार्थ-
तावगतेः । तथा प्रातिपदिकार्थाभेदविवक्षायां तु
श्रोत्रादिभिरेव सिद्धः ज्ञातः सन् अर्थे प्रकारतया
भासते इति तदर्थः । युक्तञ्चैतत् पुंलिङ्गः शब्द इति
व्यवहारात् “स्वमोर्नपुंसकादिति” पा० सूत्रे शब्दस्यैव नपुं-
सकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयबाधाच्च लिङ्गस्य
शब्दधर्मत्वमन्यथैतेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहारसूत्र-
निर्देशासङ्गत्यापत्तेश्च । तथा अर्थभेदाच्छब्दभेदवत्
लिङ्गभेदादपि शब्दभेद इति कल्प्यते प्रागुक्तवर्मविशेषरूप-
भेदकसद्भावात् । उक्तञ्च भाष्ये “एकार्थे शब्दान्यत्वाद्
दृष्टं लिङ्गान्यत्वमिति” । एवञ्च तटादिशब्दानामनेक-
लिङ्गत्वव्यहारः समानानुपूर्वीकत्वेनैव वस्तुतस्तेषां
भिन्नानामेव भिन्नलिङ्गत्वमिति दिक्” ।
अर्थप्रकाशनसामर्थ्यरूपलिङ्गन्तु द्वितीयादिश्रवणे
तत्तन्मन्त्रपकाश्यार्थे विनियोगसाधकं यथा “बर्हिर्देवसदनं
दानीति अत्र दानीति पदस्य दा लवने इत्यस्माद्धातो
सिद्धस्य च्छेदनप्रकाशनसामर्थ्यात् वर्हिरित्यस्य चास्तृत-
दर्भप्रकाशनसामर्थ्यात् दर्भच्छेदने समुदायमन्त्रस्य
विनियोगोऽवगम्यते” तत्त्वबोध० । प्रत्यक्षद्वितीयाश्रवणे तु
लैङ्गिकविनियोगस्त्यज्यते “श्रुतिलिङ्गवाक्यप्रकरणस्थानस-
माख्याना समवाये पारदौर्बल्यमर्थविप्रकर्षात्” जै० सू० ।
यथा “ऐन्द्र्या गार्हपत्यमुप्रतिष्ठते” श्रुतिः ऐन्द्री च ऋक्
“कदाचन स्तरोरसि नेन्द्र! दासुषे” अस्य मन्त्रस्य इन्द्र-
प्रकाशनसामर्थ्यम् तदेतत् निरूपितं तत्त्वबोधन्याम्
“तथा हि गार्हपत्यमिति द्वितीयारूपप्रत्यक्षश्रुत्या गार्ह-
पत्याग्निगतं क्रियाजन्यप्रीतिफलाश्रययत्वरूपं कर्मत्वं
साक्षाद्बोधितं तथा च तस्य देवतात्वं श्रुतिप्राप्तं क्रि-
याजन्यप्रीतिभागित्वेनोद्देश्यस्यैव देवतात्वादिति गार्ह-
पत्याग्नेरुपस्थानस्य शेषितावगम्यते ऐन्द्र्येति तृतीयया
ऋचः करणत्वबोधनादुपस्थानशेषत्वमवगम्यते मन्त्रलिङ्गे-
नेन्द्रस्यापि शेषत्वमित्युभयोरुपस्थानं देवतात्वञ्चावगम्यते ।
तथा च विरोधः न ह्यन्यप्रकाशकमन्त्रेणान्योपस्थानं
पृष्ठ ४८२७
विहितमिति तत्परीहाराय मन्त्रस्थेन्द्रपदे विधिवाक्य-
स्थगार्हपत्यपदे वा एकत्र लक्षणावश्यकी । तत्र गार्हपत्य
पदस्य इन्द्रे न लक्षणा गार्ह्यपत्यदेवतात्वस्य लिङ्गानिर-
पेक्षश्रुतिप्राप्तत्वात् इन्द्रदेवतात्वन्तु लिङ्गेन विलम्बबोध्यम् ।
तथा हि इन्द्रप्रकाशनसामर्थ्यान्यथानुपत्त्या इन्द्रमुपति-
ष्ठते इति कल्प्यते इति इन्द्रस्य देवतात्वं विलम्बगम्यमिति
शीघ्रबोधकत्वेन श्रुतिरेव वलयसीति लिङ्गं दुर्बलम् ।
अतएव न समुच्चयः न वा इन्द्रस्यैवेति नियमः लिङ्गः
दुर्बलत्वेन इन्द्रोपस्थानस्याप्राप्तत्वात् । एवञ्च श्रुतितोऽग्ने
रुपस्थाने सिद्धे कथमित्याकाङ्क्षायामैन्द्र्येति । ततश्च
मन्त्रस्येन्द्रप्रकाशकत्वात् तेनाग्नेरुपस्थानानुपपत्तेः न
ह्यन्योपस्थापकमन्त्रेणान्यस्योपस्थानं युक्तमित्यनुपपत्त्या-
मन्त्रस्थेन्द्रपदस्य इदि परमैश्वर्य्य इति धात्वनुसारादैश्वर्य्य-
गुणयोगादग्नौ लक्षणा” “यावदेव हि मन्त्रार्थो मन्त्रेण
प्रतिपाद्यते । मन्त्रार्थं मन्त्रतो बुद्ध्वा पञ्चाच्छक्तिर्निरूप्यते ।
मन्त्राकाङ्क्षावशेऽन्येन्द्रशेषत्वश्रुतिकल्पना । श्रुत्या प्रत्यक्षया
पूर्वं नार्हपत्यार्थतां तते । लिङ्गस्य हि प्रमाणत्वं मन्त्राका-
ङ्क्षानिबन्धनम् । ताञ्च श्रुतिर्विरुध्यन्ती ह्यविरोधेन
गच्छति । विरोधे च श्रुतिर्लिङ्गं बलीयस्त्वेन बाधते” ।
लियं लयं गच्छति पृषो० । १० सांख्योक्ते महत्तत्त्वे देह
शब्दे ३७५४ पृ० दृश्यम् । ११ सप्तदशाबयवे लिङ्गदेहे ।
“सप्तदशैकं लिङ्गम्” सा० सू० “सूक्ष्मशरीरमप्या-
धाराधेयभावेन द्विविधं भवति तत्र सप्तदश मिलित्वा
लिङ्गशरीरं तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः ।
एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश ।
अहङ्कारस्य बुद्धावेवान्तर्भावः । चतुर्थसूत्रवक्ष्यमाणप्रमा-
णादेतान्येव सप्तदशलिङ्गं मन्तव्यम् । न तु सप्तदश एकं
चेत्यष्टादशतया व्याख्येयम् उत्तरसूत्रेण व्यक्तिभेदस्यो-
पपाद्यतयात्र लिङ्गैकत्वे एकशब्दस्य तात्पर्य्यावधारणाच्च ।
“कर्मात्मा पुरुषो योऽसौ बन्धमोक्षैः स युज्यते । ससप्तदश
कनापि राशिना युज्यते च सः” इति मोक्षधर्मादौ
लिङ्गशरीरस्य सप्तदशत्वसिद्धेश्च सप्तदंशावयवा अत्र
सन्तीति सप्तदशको राशिरित्यथः । राशिशब्देन स्थूल
देहस्यावयवित्वं निराकृतम् अवयविरूपेण द्रव्यान्तर-
कल्पवायां गौरवात् । स्थूलदेहस्य चावयवित्वमेक
तादिप्रत्यक्षानुरोधेन कल्प्यत इति । अत्र च लिङ्गदेहे
बुद्धिरेव प्रधानेत्याशयेन लिङ्गदेहस्य भोगः प्रागुक्तः ।
प्राणश्चान्तःकरणस्यैव वृत्तिभेदः । अतो लिङ्गदेहे प्राण-
पञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशावयवकस्य शरीरत्वं स्वयं
वक्ष्यति “लिङ्गशरीरनिमित्तक इति सनन्दनाचार्य्यः” इति
सूत्रेण । अतो भोगायतनत्वमेव मुख्यं शरीरलक्षणम् ।
तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चाद्व्यक्तीभवि-
व्यति । चेष्टेन्द्रियार्थाश्रयः शरीरमिति तु न्यायेऽपि
तस्यैव लक्षणं कृतमिति” भा० । “तदधिष्ठानाश्रये देहे
तद्वादाद् तद्वादः” सा० सू० । “तस्य लिङ्गस्य तदधि-
ष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्नये षाट्कौशिक-
देहे तद्वादो देहवादस्तद्वादाद् तस्याधिष्ठानशब्दोक्तस्य
देहस्य वादादित्यर्थः लिङ्गसम्बन्धादधिष्ठानस्य देहत्वमधि-
ष्ठानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्य्यवसितोऽर्थः” ।
अधिष्ठानशरीरं च सूक्ष्मं पञ्चभूतात्मकं वक्ष्यते तथा च
शरीरत्रयं सिद्धम्” “वासना भूतसूक्ष्मं च कर्मविद्ये
तथैव च । दशेन्द्रियं मनोबुद्धिरेतल्लिङ्गं विदुर्बुधाः”
इति वाशिष्ठादिवाक्येभ्यः । अत्र लिङ्गशरीरप्रतिपादन-
गैव पुर्य्यष्टकमपि व्याख्येयमित्याशयेन बुद्धिधर्माणामपि
वासनाकर्मविद्यानां पृथगुपन्यासः । भूतसूक्ष्मं चात्र
तन्मात्रा, दशेन्द्रियाणि च ज्ञानकर्मेन्द्रियभेदेन पुरद्वय-
मित्याशयः । यत् तु मायावादिनो लिङ्गशरीरे
तन्मात्मस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्य्यष्टकं चान्यथा
कल्पयन्ति तदप्रामाणिकमिति” भा० । वेदान्तिनये
“पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृत-
भूतोत्थं सूक्ष्माङ्गं भोगसाधनम्” इत्युक्तं सप्तदशावयवं
लिङ्गशरीरमिति भेदः ।

लिङ्गक पु० लिङ्गेन कायति कै--क । कपित्थवृक्षे शब्दच० ।

लिङ्गपुराण पु० व्यासप्रणीते महापुराणभेदे लिङ्गपुराण-

प्रतिपाद्यविषया यथा “व्रह्मोवाच “शृणु पुत्र!
प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम् । पठतां शृण्वता-
ञ्चैव भुक्तिमुक्तिप्रदायकम् । यच्च लिङ्गाभिधे तिष्ठत्
वह्निलिङ्गे हरोऽभ्यधात् । मह्यं धर्मादिसिद्ध्यर्थमग्नि-
कल्पकथाश्रयम् । तदेव व्यासदेवेन भागद्वयसमाचितम् ।
पुराणं लिङ्गमुदितं वह्वाख्यानविचित्रितम् । तदेकादश-
सहस्रं हरमाहात्म्यसूचकम् । परं सर्वपुराणानां
सारभूतं जगत्त्रये । पुराणोपक्रमे प्रश्नः सृष्ठिसंक्षेपतः
पुरा” । तत्र पूर्वभागे “योगाख्यानं ततः प्रोक्तं कल्पा-
ख्यानं ततः परम् । लिङ्गोद्भवस्तदर्च्चा च कीर्चिता हि
ततःपरम् । सनत्कुमारशैलादिसंवादश्चाथ पापनः । ततो
दधीचिचरितं युगधर्मनिरूपणम् । ततो भुवनकोषाख्या
पृष्ठ ४८२८
सूर्य्यसोमान्वयस्ततः । ततश्च विस्तरात् सर्गस्त्रिपुराख्या-
नकं तथा । लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम् ।
शिवव्रतानि च तथा सदाचारनिरूपणम् । प्रायश्चित्ता-
न्यरिष्टानि काशीश्रीशैलवर्णनम् । अन्धकाख्यानकं पश्चा-
द्वाराहचरितं पुनः । नृसिंहचरितं पश्चाज्जलन्धरबध-
स्ततः । शैवं सहह्रनामाय दक्षयज्ञविनाशनम । कामस्य
दहनं पश्चात् गिरिजायाः करग्रहः । ततो विनायका
ख्यानं नृत्याख्यानं शिवस्य च । उपमन्युकथा चापि
पर्वभाग इतीरितः” । उत्तरभागे “विष्णुमाहात्म्यकथनमम्ब-
रीषकथा ततः । सनतकुमारनन्दीशसंवादश्च पुनर्मुने! ।
शिवमाहात्म्यसंयुक्तस्नानयागादिकं ततः । सूर्य्यपूजाविधि-
श्चैव शिवपूजा च मुक्तिर्दा । दानानि बहुधोक्तानि
आद्धप्रकरणन्ततः । प्रतिष्ठा तत्र गदिता ततोऽघोरस्य
कीर्त्तनम । व्रजेश्वरी महाविद्या गायत्रीमहिमा ततः ।
त्र्यम्बकस्य च माहात्म्य पुराणश्रवणस्य च । एतस्योप-
रिभागस्ते लैङ्गस्य कथितो मया । व्यासेन हि
निवद्धस्य रुद्रमाहात्म्यसूचिनः । लखित्वैतत् पुराणन्तु
तिलधेनुसभाचितम् । फाल्गुन्यां पूर्णिमायां यो दद्या-
द्भक्त्या द्विजातये । यः पठेच्छृणुयाद्वापि लैङ्गं पापा-
पर्ह नरः । स भुक्तभोगो लोकेऽस्मिन्नन्ते शिवपुरं
व्रजेत् । लिङ्गानुक्रमणीमेतां पठेद् यः शृणुयात् तथा ।
तावुभौ शिवभक्तौ तु लोकद्वितयमोगिनौ । जायेतां
गिरिजाभर्तुः प्रसादाम्रात्र मंशयः” नार० पु० १०२ अ० ।

लिङ्गबर्द्धिनी स्त्री लिङ्गं पुरुषचिह्नभेदं वर्द्धयति

वृधणिच्--णिनि । अपामार्गे शब्दच० ।

लिङ्गवृत्ति पु० लिङ्गं संन्यासादिवेशधारणमेव वृत्तिः

जीविका यस्य । जीविकार्थसन्न्यासचिह्नादिधारिणि
कपटपरिव्राजके अमरः ।

लिङ्गिन् त्रि० लिङ्गमस्त्यस्य इनि । १ चिह्नवति, २ जीवि-

कार्थसंन्यासादिचिह्नवति ३ प्रशस्तलिङ्गवति गजे च पु०
जटा० । ४ लिङ्गज्ञानज्ञेये साध्ये ५ पक्षे च ।
“तल्लिङ्गालङ्गिज्ञानपूर्वम्” सा० का० व्याख्याने लिङ्गि-
ग्रहणञ्चावर्त्तनीयं तेन लिङ्गमस्यास्तीति पक्षधर्मताज्ञान-
मपि दर्शितम्” त० कौ० ।

लिङ्गिनी स्त्री लिङ्गमिवाकारोऽस्त्यस्याः इनि ङीप् । (पंचगुरिया) लताभेदे राजनि० ।

लिङ्गोपहित पु० लिङ्गेन हेतुना उपहितः विशिष्टः ।

साध्यानुमानाङ्गहेतुयुक्ते पक्षे । आचार्य्यमते लिङ्गोप-
हित एव पक्षे लैङ्गिकस्य साध्यस्य भानम् । तथा हि
वह्निव्याप्यो हि धूमो वह्नेर्लिङ्गं तद्वति पक्षे वह्नेर्मानम्
वह्निव्याप्यधूमनान् पर्वत इति परामर्शोत्तरं जायमाना-
नुमाने ज्ञानलक्षणया तादृशपक्षमानस्यावश्यकत्वात् ।
तथा च वह्निव्याप्यधूमवान् पर्वतो वह्निमान् इत्येव
तत्रानुमानप्रकारः ।

लिप लेपने, तुदा० उभ० मुचा० सक० अनिट् । लिम्पति ते अलिपत् अलिपत अलिप्त ।

लिपि(पी) स्त्री लिप--इक् वा ङीप् । १ लिखिताक्षरके पत्रे,

अमरः २ लेखने च ।

लिपिक(का)र पु० लिपिं करोति कृ--अच् अण् वा । लेखके अमरटी० ।

लिप्त त्रि० लिप--क्त । १ भुक्ते, २ कृतचन्दनादिलेपे अमरः

३ मिलिते सि० कौ० ४ विपदिग्धे च मेदि० । ज्योतिषोक्ते
राशेः षष्टिभागात्मके कलारूपे ५ भागे स्त्री । “लिप्तार्द्धहीनं
यदि पूर्णमेतत्” इति नी० ताजकम् । स्वार्थे क अत
इत्त्वम् । लिप्तिका दण्डात्मककाले ।

लिप्तक पु० कुत्सितं लिप्तम् कन् । विषाक्तवाणे अमर ।

लिप्सा स्त्री लभ सन्--भावे अ । १ लाभेच्छायाम् २ इच्छायां

अमरः । “लिप्सास्रत्रे तृतीयवर्णक द्रव्यार्जननियमस्य
क्रत्वर्थत्वमापादितं गुरुणा” मिता० ।

लिम्पाक पु० लिप आकन् पृषो० । १ जम्बीरभेदे (पातिलेवु) २ खरे च शब्दर० ।

लिबि(बी) लिप--इक् पृषो० पस्य बः वा ङीप् । लिपि-

शब्दार्थे अमरः । लिबिकरादयोऽपि लिपिकराद्यर्थे ।

लिश श्लेषे अल्पीभावे च दि० अक० आत्म० अनिट् । लिश्यते

अलिक्षत ।

लिश गतौ तु० पर० सक० अनिट् । लिशति अलिक्षत् ।

लिह आस्वादने अदा० उभ० सक० अनिट् । लेढि लीढे ।

अलिक्षत् त ।

ली श्लेषे दिवा० आ० अक० अनिट् । लीयते अलेष्ट । ओदित् निष्ठातस्य नः । लीनः ।

ली श्लेषे क्र्या० पा० पर० अक० अनिट् । लिनाति अलैषीत् ।

ली द्रावणे वा चुरा० उभ० सक० सेट् पक्षे भ्वा० पर० अ

निट् । लीनयति ते लाय(प)यति ते घृतम् लयति ।
अस्नेहद्रावणे लौहं विलायतीत्येव । प्रलम्भने अभिभवे
पूजायाञ्च सक० आत्म० । तत्र नित्यमात्त्वे पुक ।
जटाभिर्लापयते पूजामधिगच्छतात्यर्थः । श्योनो वर्त्तिकामु-
ल्लापयते अभिभवतीत्यर्थः । वालमुल्लापयत वञ्चयतीत्यर्थः ।
अलीलनत् त अलील(प)यत् त । अलेषीत् । अलासीत् ।

लीढ त्रि० लिह--आस्वादे क्त । १ आस्वादिते, २ स्पृष्टे च ।

पृष्ठ ४८२९

लीला स्त्री ली--क्विप् लियं लाति ला--क । १ केलौ, २ विलामे

३ शृङ्गारादिजातचेष्टायाम् मेदि० । “अप्राप्तवल्लमसमा-
गमनायिकायाः, सख्याःपुरोऽत्र निजचित्तविनोदबुद्ध्या,
आलापवेशगतिहास्यविलोकनाद्यैः प्राणेश्वरानुकृतिमाक-
लयन्ति लीलाम्” उज्ज्वलमण्युक्ते ४ प्रियानुकरणे च ।

लीलावती स्त्री लीला + अस्त्यर्थे मतुप् मस्य वः । १ विलास-

वत्यां स्त्रियां, भास्कराचार्य्यस्य २ पुत्र्यां, तत्कृते ३ अङ्क-
ग्रन्थभेदे मण्डनाचार्य्यस्य ४ भार्य्यायां तन्नामके न्यायशा
स्त्रप्रसिद्धे “नाथः सृजतीत्यादिके” न्यायमतसिद्धपदार्थ
प्रतिपादके ५ ग्रन्थभेदे, पुराणप्रसिद्धे ६ वेश्याभेदे च
ति० त० मत्स्यपु० ।

लीलोद्यान न० लीलार्थमुद्यानम् । १ क्रीड़नार्थे आरामे, २ देववने च त्रिका० ।

लुक्कायित त्रि० लुच्यते लुन्च--अपनयने क्विप् लुक् कायो

यस्य तादृश इवाचरति लुक्काय + क्विप्--क्त । अन्तर्हितदेहे

लुज कथने अट्टधातोरर्थे च चुरा० उभ० सक० सेट् इदित् ।

लुञ्जयति ते अलुलुञ्जत् त ।

लुञ्चित त्रि० लुन्च--णिच्--क्त । अपसारिते दूरीकृते ।

लुट दीप्तौ अक० प्रतिघाते सक० भ्वा० आत्म० सेट् । लोटते

सृदित् लुङि उभ० अलुटत् अलोटिष्ट ।

लुट हरणे भ्वा० पर० सक० सेट् इदित् । लुण्टति अलुण्टीत् ।

लुट दीप्तौ चु० उभ० सक० सेट् । लोढयति ते अलूलुटत् त ।

लुट बिलोड़ने, हरणे च दिवा० सक० पर० सेट् । लुट्यति

अलुटत् । ऋदित् चङि वा ह्रस्वः ।

लुट विलोड़ने सम्बन्धे च दिवा० सक० पर० सेट् ।

लुट्यति अलोटीत् । अत्रार्थे भ्वादिरपि । लोटति ।

लुट गतौ चौर्य्ये च सक० खञ्जीभावे आलस्ये च अक० भ्वा०

पर० सेट् इदित् । लुण्टति अलुण्टीत् ।

लुठ प्रतिघाते भ्वा० आ० लुङि उभ० सक० सेट् । लोठते ।

अलुठत् अलोठिष्ट । ऋदित् चङि न ह्रस्वः ।

लुठ उपघाते भ्वा० पर० सक० सेट् । लोठति अलोठीत् ।

लुठ लोठे तु० कु० प० अक० सेट् । लुठति अलुठीत् ।

लुठ चौर्य्ये चु० उभ० सक० सेट् । लोठयति ते अलूलुठत् त ।

लुठन न० कु० लुठ--ल्यट् । अश्वादेर्भूम्यादौ श्रमापनयनार्थं

पुतः पुनरङ्गचालने (लोटा) त्रिका० ।

लुठित त्रि० लुठ--क्त । भूमौ कृतभूरिदेहपरावर्त्तने ।

लुड मन्थने भ्वा० पर० सक० सेट् । लोडति अलोडीत् ।

लुड संवृतौ सक० श्लेषे अक० तु० कु० पर० सेट् । लुडति

अलुडीत् । लुडनम् ।

लुण्ट अवज्ञाय चौर्य्ये च वा चु० उभ० पक्षे भ्वा० पर०

सक० सेट् । लुण्ठयति ते लुण्ठति अलुलुण्टत् त
अलुण्टीत् । कर्मणि लुठ्यते ।

लुण्टक पु० लुण्ट--ण्वुल । (नटिया) शाकभेदे शब्दच० ।

लुण्टाक त्रि० लुटि--षाकन् । चौरे स्त्रियां ङीष् ।

लुण्ठक त्रि० लुठि--ण्वुल् । चौरे ।

लुण्ड चौर्य्ये चु० उ० सक० सेट् । लुण्डयति ते अलुलुण्डत् त

लुथ बधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । लुन्थति

अलुन्थीत ।

लुन्च अपनयने भ्वा० पर० सक० सेट् । लुञ्चति अलुञ्चीत् ।

लुप छेदने विनाशने च तु० मुचा० उभ० सक० अनिट् । लुम्पति

ते अलुपत् अलुप्त । ऋदित् चङि वा ह्रस्वः । अलूलुपत्
त अलुलोपत् त ।

लुप आकुलीभावे दिवा० पर० अक० सेट् । लुप्यति अलुपत् अलोपीत् नित्यमङ् इत्येके ।

लुप्त न० लुप--क्त । १ अपहृतधने । २ छिन्ने ३ नष्टे त्रि० ।

लुब अर्द्दने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।

लुम्बयति ते लुम्बति । अलुलुम्बत् त अलुम्बीत् ।

लुब्ध पु० लुभ--क्त । १ व्याधे । २ लम्पटे शब्दर० ३ लोलुपे च

मेदि० । स्वार्थे क । तत्रैव । लुब्ध इव कायति कै--क ।
लुब्धक व्याधाकारताराभेदे खगोलशब्दे २४२२ पृ० दृश्यम् ।

लुभ विमोहने तु० पर० अक० सेट् । लुभति अलोभीत् ।

लुभ आकाङ्क्षायां दि० पर० सक० सेट् । लुभ्यति । इरित्

अलुभत्--अलोभीत् ।

लुल विमर्दने सौ० पर० सक० सेट् । लोलति । अलोलीत् ।

लुलाप पुंस्त्री० लुल घञर्थे क तमाप्नोति अण् । महिषे

अमरः स्त्रियां ङीष् ।

लुलित त्रि० लुल क्त । १ आन्दोलिते, २ चालिते च “अथ लुलितपतत्त्रिमालम्” भट्टिः ।

लुष चौर्य्ये भ्वा० पर० सक० सेट् । लोषति अलोषीत् ।

लुष हिंसायां सौ० पर० सक० सेट् । लोषति अलोषीत् ।

लुह आकाङ्क्षायां भ्वा० पर० सक० अनिट् । लोहति

अलुक्षत् ।

लू छेदने क्र्या० प्वा० उभ० सक० सेट् । लुनाति लुनीते अलावीत् ।

लूता स्त्री लू--तक् । कीटभेदे (माकड़्सा) अमरः । स्वार्थे

क अत इत्त्वम् । तत्रैव । २ पिपीलिकायां ३ रोगभेदे
(मर्म्मव्रणे) मेदि० ।

लून त्रि० लू--क्त निष्टातस्य नः । छिन्ने अमरः ।

लूम न० लू--मक् । लाङ्गूले अमरः ।

लूष बधे स्तेये च चु० उभ० सक० सेट् । लुषयति ते अलूलुषत् ।

लेख पु० लिख्यते पूज र्थं चित्रादिपटेऽसौ लिख--कर्मणि

घञ् । दिवे अमरः । भावे घञ् २ लेखने । कर्मणि घञ् ।
३ लेख्ये त्रि० मेदि० । आधारे घञ् । ४ लेखनाधारे पत्रे
“निर्द्धारितेऽर्थे लेखेन” इति माघः ।
पृष्ठ ४८३०

लेखक पु० लिख--ण्वुल् । लिपिकरे अमरः । लेखकलक्षणादि

मत्स्यपु० १८९ अ० उक्तं यथा
“सर्वदेश क्षराभिज्ञः सर्वशास्त्रविशारदः । लेखकः कथितो
राज्ञः सर्वाधिकरणेषु वै । शीर्षोपेतान् सुसम्पूर्णान्
समश्रेणिगतान् समान् । अक्षरान् वै लिखेद् यस्तु लेखकः
स वरः स्मृतः । उपायवाक्यकुशलः सर्वशास्त्रविशारदः ।
बह्वर्थवक्ता चाल्पेन लेखकः स्याद् भृगूत्तम! । वाक्या-
भिप्रायतत्त्वज्ञो देशकालविभागवित् । अनाहार्य्यो नृपे
भक्तो लेखकः स्याद् भृगूद्वह” । “सकृदुक्तगृहीतार्थो
लघुहस्तो जिताक्षरः । सर्वशास्त्रसमालोकी प्रकृष्टो नाम
लेखकः” चाणक्यः राजलेखकलक्षणं तु पत्रकौमुद्यामुक्तं
यथा “ब्राह्मणो मन्त्रणाभिज्ञो राजनीतिविशारदः ।
नानालिपिज्ञो मेधावी नानाभाषासमन्वितः । मन्त्रणा-
चतुरो धीमान् नीतिशास्त्रार्थकोविदः । सन्धिविग्रह-
भेदज्ञो राजकार्य्ये विचक्षणः । सदा राज्ञो हितान्वेषी
राजसन्निधिसंस्थितः । कार्य्याकार्य्यविचारज्ञः सत्यवादी
जितेन्द्रियः । स्वरूपवादी शुद्धात्मा धर्मज्ञो राजधर्मवित् ।
एवमादिगुणैर्युक्तः स एव नृपलेखकः । नृपानुवर्त्ती सततं
नृपविश्वासरक्षकः । नृपतेर्हितकान्वेषी स एव
राजलेखकः” । “लेखकानपि कायस्थान् लेख्यकृत्ये विचक्ष-
णान्” पराशरेणोक्तं कायस्थस्य लेखकत्वं विवादान्तर्गत-
विषयलेखने एव न पुस्तकादौ अब्राह्मणलिखितपुस्तकस्य
पाठनिषेधात् ।

लेखन न० लिख० ल्युट् । १ पत्रादौ वर्णादिविन्यासे, २ छर्दने

च । आधारे ल्युट् । ३ भूर्ज्जपत्रे मेदि० । लिख्यते-
ऽनया ल्युट् । ४ काशे राजनि० ५ लेखनसाधने (कलम)
स्त्री ङीप् । “मस्याधारं लेखनीञ्च” इति ति० त० ।
६ रोगोत्सारणार्थशस्त्रभेदे स्त्री ७ अञ्जनाङ्गे व्यापारभेदे
८ चूर्णभेदे च न० । ९ लेखनसाधनवर्त्तिभेदे स्त्री भावप्र०
तत्र लक्षणक्रियां तत्साधनलेखनीप्रमाणञ्चोक्तं यथा
“लेखनं क्षारतिक्ताम्लरसैरञ्जनमुच्यते । नेत्रवर्त्म-
सिराजालश्रोत्रशृङ्गाटकस्थितम् । मुखलालाक्षिमि-
र्दोपमुत्क्लेश्य स्रावयेच्च तत्” । तद्वर्त्तिमानं तत्रैव
“एरण्डमात्रारत्रिस्तु लेखनी स्यात् प्रमाणतः । चूर्णं तु
लेखनं वैद्यैर्द्विशलाकं प्रदीयते । तस्य शलाकास्वरूपादि
तत्रैव “मुखे सुकुमुमाकारा कलायपरिमण्डला । अष्टा-
ङ्गुला शलाका स्यादश्मजा धातुजाऽथ वा” कलायपरिम-
ण्डला अग्रे कलायवद् वर्तुला । “ताम्रलोहाश्मसंजाता
शलाका लेखने मता” । चन्द्रोदयाख्या लेखनी वर्त्तिश्च
तत्रोक्ता यथा “शङ्खनाभिविभीतस्य मज्जा पथ्या
मतःशिला । पिप्पली मरिचं कुष्ठं वचा चेति समांशकम ।
छागक्षीरेण संपिष्य वर्त्तिं कुर्य्यात् यवोन्मिताम् ।
एरण्डमात्रां संपिष्य जलैः कुर्य्याद्यथाञ्जनम् । तिमिरं
मांसवृद्धिञ्च काचं पटलमर्बुदम् । रात्र्यन्धं वार्षिकं पुष्पं
वर्त्तिश्चन्द्रोदया हरेत्” । रसक्रिया लेखनी तत्रैवोक्ता
यथा “तुत्थमाक्षिकसिन्धूत्थासिताशङ्खमनःशिला । गैरिकं
सिन्धुफेनञ्च मरिचं चेति चूर्णयेत् । संयोज्य मघुना
कुर्यादञ्जनार्थं रसक्रियाम् । वर्त्मरीगार्शतिभिरकाच-
शुक्लहरीं पराम्” । चूर्णलेखनञ्च तत्रोक्तं यथा “दक्षा-
ण्डत्वक्शिलाकाचशङ्खचन्दनसैन्धवैः । अञ्जनं हरते नित्यं
सर्वानक्षिगदान् बलात्” दक्षः कुक्कुटः” । अक्षरलेखनी-
प्रमाणादि योगिनीतन्त्रोक्तं यथा “वंशसूठ्या लिखेद् यस्तु
तस्य हानिर्भवेद् ध्रुवम् । ताम्रसूच्या तु विभवो भवेन्न
तत्क्षयो भवेत् । महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य
शलाकया । वृहन्नलस्य सूच्या वै नातिवृद्धिः प्रजायते ।
तथा अग्निमयैर्देवि! पुत्रपौत्रघनागमः । रैत्येन
विपुला लक्ष्मीः कांस्येन मरणं भवेत् । अष्टाङ्गुल-
प्रमाणेन दशाङ्गुलेन चाथ वा । चतुरङ्गुलसूच्या वा यो
लिखेत् पुस्तकं शुभे! । तत्तदक्षरसंख्याते स्वल्पायुर्याति
वै दिने ।”

लेखनिक पु० लेखनं शिल्पमस्य ठन् । लिपिकरे मेदि० ।

लेखर्षभ पु० लेख ऋषभ इव श्रेष्ठत्वात् । इन्द्रे अमरः ।

लेखहार पु० लेखं हरति हृ--अण् । १ पत्रवाहके । ण्वुल् ।

लेखहारकोऽप्यत्र ।

लेखा स्त्री लिख--अ टाप् । १ रेखाया, २ पड्क्तौ च ।

आधारे संज्ञायां घञ् टाप् । ३ लिपौ मेदि० ।

लेख्य त्रि० लिख--ण्यत् । १ लेखनीये । २ व्यवहारे स्वत्वाढ्या

वेदके पत्रभेदे न० । तल्लक्षणादि वीरमि० उक्तं यथा
“अथ लेख्यं निरूप्यते । तत्र वृहस्पतिः “साक्षिणा-
मेष निर्दिष्टः संख्यालक्षणनिश्चयः । लिखित-
स्याधुना वच्मि विधानमनुपूर्वशः । पाण्मासिकेऽपि
समये भ्रान्तिः सञ्जायते नृणाम् । पात्राक्षराणि
सृष्टानि पत्रारूढ़ान्यतः पुरा । राजलेख्यं स्थानकृतं
स्वहस्तलिखितन्तथा । लेख्यन्तु त्रिविधम्प्रोक्तं भिन्नन्त-
पृष्ठ ४८३१
द्वहुथा पुनः । भागदानक्रयाधानसंविद्दास ऋणादिभिः ।
सप्तधा लौकिकं लेख्यन्त्रिविधं राजशासनम्” । मरीचि
रपि “स्थावरे विक्रयाधाने विभागे दान एव च । लिखिते-
नाप्नुयात् सिद्धिमविसंवादमेव च” विभागो दायभागः
आधानमाधीकरणश संवित्समयः आदिशब्देन विशुद्ध्या-
दिग्रहणम् । भागपत्रादीनां लक्षणमाह वृहस्पतिः
“भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् । विभाग
पत्रं कुर्वन्ति १ भागलेख्यन्तदुच्यते । भूमिन्दत्त्वा तु यत्पत्रं
कुर्याच्चन्द्रार्ककालिकम् । अनाच्छेद्यमनाहार्य्यन्दान-
लेख्यन्तु २ तद्विदुः । गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्या-
क्षरान्वितम् । पत्रं कारयते यत्तु ३ क्रयलेख्यन्तदुच्यते ।
जङ्गमं स्थावरम्बन्धं दत्त्वा लेख्यङ्करोति यः । गोप्य-
भोग्यक्रियायुक्तमाधिलेख्य ४ न्तदुच्यते । ग्रामे देशे च
यत्कुर्य्यात् सत्यलेख्यम्परस्परम् । राजाविरोधिधर्म्लार्थं
संवित्पत्र ५ वदन्ति तत् । वस्त्रान्नहीनः कान्तारे
लिखितं कुरुते तु यः । कर्म्माणि ते करिष्यामि दासपत्र
६न्तदुच्यते । धनं वृद्ध्व्या गृहीत्वा तु स्वयं कुर्य्याच्च
कारयेत् । उद्धारपत्रन्तत्प्रोक्तमृणलेख्यं ७ मनीषिभिरिति” ।
विशुद्धिपत्रमुक्तं कात्यायनेन “अभिशापे समुत्तीर्णे प्राय-
श्चित्ते कृते बुधैः । विशुद्धिपत्रकन्देयन्तेभ्यः साक्षिसमन्वि
तम्” । सन्धिपत्रमप्याह स एव “उत्तमेषु समस्तेषु
अभिशापे समागते । वृत्तानुवादलेख्यं यत् तज्ज्ञेयं सान्ध
पत्रकम्” । अन्वाधिपत्रमाह प्रजापतिः धनी धनेन
तेनैव परमाधिं नयेद्यदि । कृत्वा तदाधिलिखितं पूर्वं
वाऽस्य समर्पयेत्” । पूर्वमाधिपत्रम् । सीमापत्रमप्याह
कात्यायनः सीमाविवादे निर्णीते सीमापत्रं विधीयते”
इति । ऋणशोधने कृते ऋणपत्रनाशादौ सति
प्राप्तिपत्रमुत्तमर्णेवाधसर्णाय देयमित्याह याज्ञबल्क्यः
“दत्त्वर्णम्पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत्” । अत्र
लौकिक सप्तविधं लेख्यं स्वकृतान्यकृतभेदेन द्विविधन्नारदे
नोक्तम् “लेख्यन्तु द्विविधं प्रोक्तं स्यहस्तान्यकृतन्तथा” ।
स्वकृते साक्ष्यनियमोऽम्यकृते तन्नियम इत्याहोत्तरार्द्धेन
स एव “असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयो-
रिति” । असाक्षिमदपीत्यर्थः । याज्ञवल्क्यः “विनापि
साक्षिभिर्लेख्यं स्वहस्तलिखितञ्च यत् । तत्प्रमाणं स्मृतं
सर्वं बलोपधिकृताछते । इत्यपिशब्दः प्रागुक्तबलोप-
धिकृतत्वपर्थ्यदासः सर्वलेख्यविषयो न स्वकृतमात्र-
विषयः । तथा च मनुः “बलाद्भुक्तं बलाद्दत्तं बलाद्
यच्चापि लेखितम् । सर्वान् बलकृतानर्थानकृतान्ममु-
रब्रवीत्” । नारदोऽपि “मत्ताभियुक्तस्त्रीबालवलात्-
कारकृतञ्च यत् । तदपमाणं लिखितं भयोपधिकृत-
न्तथेति” । अन्यकृते विशेषान्तरमाह योगीश्वरः
“यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यन्तु
साक्षिमत्कार्य्यं तस्मिन्धनिकपूर्वकम् । समामासतद-
र्द्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीयपितृ-
नामा दिचिह्नितम्” । धनिकनामपूर्वकमित्यनेनोत्तमर्ण-
नामोपरि लेख्यमधमर्णनाम तदध इत्यर्थः । एतदधमर्ण-
पत्रादिविषयमन्यत्राऽसम्भवात् । समामासादि यथा
सम्भवमन्यत्रापि सब्रह्मचारिकम्बह्वृचादिशाखाप्रयुक्त-
गुणनाम वह्वृचः कठ इत्यादि । वशिष्ठोऽपि “कालं
निवेश्य राजानं स्थानं निवसनन्तथा । दायकं ग्राहकञ्चैव
पितृनाम्ना च संयुतम् । जातिडोत्रञ्च शाखाञ्च द्रव्य-
माधिं ससङ्ख्यकम् । वृद्धिं ग्राहकहस्तञ्च विदितार्थौ च
साक्षिणौ” । स्थानं जनपदः । निवसनं पुरग्रामादिकं
ग्राहकोऽधमर्णः । तन्निवेशनप्रकारमाह योगीश्वरः
“समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशवेत् । मतं
मेऽमुकपुत्त्रस्य यदत्रोपरि लेखितमिति” । साक्षिणा-
वित्यनेन द्वयोरम्यनुज्ञानात् अवरत्वनियमो नात्रेत्युक्त-
मेकस्तु न भवत्येवेति । अत्र साक्षिलेखकाभ्यां स्यहस्त-
चिह्नं कार्य्यमित्यप्याह स एव “साक्षिणश्च स्यहस्तेन
पिवृनामकपूर्वकम् । अत्राहममुकः साक्षी लिक्षेयुरिति
ते समाः । उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना
लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्” । समा
इत्यनेन गुणसाम्य सङ्ख्यासाम्यञ्च वैषम्यानियमाय
विवक्षितम् । असमा इत्यकारप्रश्लेषस्तु वैषम्यस्य सामान्यत
एव साक्षिषु प्राप्तेर्नोपादेयः । ऋणिसाक्षिणोः सर्वथा
लिप्यनभिज्ञत्वे नारद आह “अलिपिज्ञ ऋणी यः
स्यात् स्वमतं स तु लेखयेत् । साक्षी वा साक्षिणान्येन
सर्वसाक्षिसमीपतः इति ।
त्रिविधं राजशासनमित्युक्तम् त्रैविध्यं विविनक्ति
वृहस्पतिः “दत्त्वा भूम्यादिकं राजा ताम्रपद्दे पटेऽथ वा ।
शासनं कारयेद्धर्मं स्थानवंशादिसंयुतम् । मातापित्रो-
रात्मनश्च पुण्यायामुकसूनवे । दत्तम्मयामुकायाद्य दानं
सब्रह्मचारिणे । चन्द्रार्कसमकालीनं पुत्त्रपौत्रान्वया-
नुगम् । अनाच्छेद्यमनाहार्य्यं सर्वभागविवर्जितम् ।
दातुः पालयितुः स्वर्ग्यं हर्त्तुर्नरकमेव च । षष्टिं
पृष्ठ ४८३२
वर्पसहस्राणि दानाच्छेदफलं लिखेत् । ज्ञातं मयेति
लिखित सन्धिविग्रहलेखकैः । समुद्रं वर्षमासादिधनाध्यक्षा-
क्षरान्वितम् । एवंविधं राजकृतं शासनं १ समुदाहृतम् ।
देशादिकं यस्य राजा लिखितेन प्रयच्छति । सेवा-
शौर्य्यादिना तुष्टः प्रसादलिखित २ न्तथा । पूर्वोत्तरक्रिया-
वादनिर्णयान्ते यदा नृपः । प्रदद्याज्जयिने लेख्यं
जयपत्रं ३ तदुच्यते” । सब्रह्मचारिणे अमुकशाखा
ध्यायिने । सर्वभागविवर्जितम् सकलराजपुरुषादि
देयांशरहितम् । योगीश्वरः शासनपत्रमाह “भूमिं
दत्त्वा निबन्धं वा कृत्वा लेख्यत्तु कारयेत् । आगामि
भद्रनृपतिपरिज्ञानाय पार्थिवः । पटे वा ताम्रपट्टे वा
स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनोऽवंश्यानात्सानञ्च
महीपतिः । प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसम्पन्न शामनं कारयेत् स्थिरमिति” । इयन्ति
पर्णक्रमुकभारादावियन्ति पर्णक्रमुकादीन्यस्मै देयानीति
राज्ञो नियतदानाज्ञानिबन्धं कारयेत् सन्धिविग्रहाद्यधि-
कारिद्वारेत्यर्थात् । तथा च व्यासः “राज्ञा तु स्वय-
मुद्देष्टः सन्धिविग्रहलेखकः । ताम्रपट्टे पटे वापि
प्रलिखेद्राजशासनमिति” । प्रतिगृह्यत इति प्रतिग्रहो
भूम्यादिस्तत्परीमाणं प्रतिग्रहपरीमाणं उपसर्गस्य दीर्घो
बाहुलकः । दीयत इति दानम् भूम्यादि तस्य च्छेदः
क्षेत्रादेर्मर्य्यादा तदुपवर्णनं तन्निर्देशम् । आत्मवंश्यादी-
नभिलिख्येत्यन्वयः । इदञ्च साधुशब्दैरेव लेखनीयं न
लौकिकवत्तदनियमः । तथा च संग्रहकारः “राजा
स्वहस्तचिह्नेन राजादेशेन संयुतम् । युक्तं राजाभि-
धानेन मण्डितं राजमुद्रया । सुलिप्यनपशब्दोक्तिसम्पू-
र्णापयवाक्षरम् । शासनं राजदत्तं स्यात् सन्धिपिग्रह-
लेखकैः” । अन्तिमपादोत्तरं लिखितमिति शेषः । तस्मि-
न्निव लौकिके देशभाषादिप्रतिशेधो नेत्याह नारदः
“देशाचाराविरुद्ध यद्व्यक्तापिविधिलक्षणम् । तत्प्रमाणं
स्मृतं लेख्यमविलुप्तक्रमाक्षरमिति” । शासने राज्ञा
स्वहस्तेनैव स्वसम्मतं लेख्यमित्यप्याह व्यासः “सन्निवेशं
प्रमाणञ्च स्वहस्तेन लिखेत्स्वयम् । मतम्मेऽमुकपुत्त्रस्य
अमुकस्य महीपतेः” । सन्निवेशं प्रमाणञ्चेत्यस्य गूर्ववाक्ये
प्रलिखेदित्यत्रान्वयः तयोराजस्वहस्तलिखनानियमात् ।
इदञ्च राज्ञा प्रतिग्रहीत्रे समर्पणीयमित्याह विष्णुः
“पटे वा ताम्रपट्टे वा लिखितं स्वमुद्राङ्कमागामि
नृपतिपरिज्ञानार्थे दद्यादिति” । अतएप दत्तापहार-
दोषप्रतिपादनमपि भाविनृपप्रत्यायनार्थं तत्रावश्यक-
मित्यप्याह व्यासः “षष्टिवर्षसहस्राणि दानच्छेद-
फलत्तथा । आगामिनृपसामन्तबोधनायाभिलेखयेत्”
इति । पष्टिवर्षसहस्राणीत्यादि पुराणवचतप्रसिद्धन्दा-
गाच्छेदयोः दानापहारयोः स्वर्गाद्रिनरकादिफलं
लेखयेद्राजेत्यर्थः ।”

लेख्यपत्त्र पु० लिख्यतेऽत्र ण्यत् लेख्यं पत्रं यस्य । १

तालवृक्षे भरतः । कर्म० २ लेख्ये पत्रे न०

लेप गमने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः । लेपते अलेषिष्ट ।

लेप पु० लिप लेप--वा घञ् । १ भोजने, २ लेपने च मेदि० ।

कर्मणि घञ् । ३ सुधायाम् (कलिचुन) विश्वः । ४ पितृ-
दत्तपिण्डशेषे “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्ड-
भागिनः” स्मृतिः ।

लेपक त्रि० लिम्प त लिप--ण्वुल् । १ लेपनकरे २ ज तिभेदे पलगण्डे पु० अमरः ।

लेपन न० लिप--ल्युट् । (लेपा) इति ख्याते १ व्यापारे । कर्मणि

ल्युट् । २ तुरस्कनामगन्धद्रव्ये राजनि० ।

लेय पु० सिंहराशौ ज्यो० त० ।

लेलिहा स्त्री सर्वदेवजीवन्यासाङ्गे मुद्राभेदे तल्लक्षणं यथा

तर्जनीमध्यमाऽनामाः समं कुर्य्यादधोमुखीः ।
अनामायां क्षिपेत् वृद्धामृज्वीं कृत्वा कनिष्ठिकाम् । लेलिहा
नाम मुद्रेयं जीवन्यासे प्रकीर्त्तिता” तन्त्रसा० ।

लेलिहान पु० लिह यङ् लुक् ताच्छील्ये चानश् । १ शिवे

शब्दर० २ सर्पे पुंस्त्री० हेमच० । ३ पुनःपुनलेहनकरे त्रि०
तारादेवतापूजाङ्गे अङ्गुल्यादिसन्निवेशविशेषरूपे ४ मुद्रा-
भेदे स्त्री । तल्लक्षणं यथा “वक्त्रं विस्तारितं कृत्वाप्यधो
जिह्वां च चालयेत् । पार्श्वस्थं मुष्टियुगलं लेलिहा-
नेति कीर्त्तिता” तन्त्रसा० ।

लेश पु० लिश अल्पीभावे घञ् । १ अल्पे २ लवे अमरः । ३ अल्पत्वे च ।

लेष्टु पु० लिष--तुन् । लोष्टे अमरः ।

लेष्टुघ्न पु० लोष्टुं हन्ति हन--क । लेष्टभेदके मुद्गरे शब्दच० ल्यु लोष्टुभेदनोऽप्यत्र ।

लेह पु० लिह--घञ् । १ आहारे २ आस्वादे जिह्वया

रसादानव्यापारभेदे (चाटा) च हेमच० । भावे ल्युट् । लेहन-
मप्यत्र न० ।

लेहिन पु० लिह--इनन् । टङ्कणे (सोहागा) हेमच० ।

लेह्य त्रि० लिह ण्यत् । जिह्वया १ आखाद्ये । २ अमृते न०

शब्दच० ।
पृष्ठ ४८३३

लैङ्ग न० लिङ्गमधिकृत्य कृतो ग्रन्थः अण् । अष्टादशसु

महापुराणेषु एकादशे १ महापुराणे । लिङ्गं तदाकारः
अस्त्यस्याः फलेषु अण् ङीप् । २ लिङ्गिनीवृक्षे स्त्री
राजनि० तस्येदमण । २ लिङ्गसम्बद्धे त्रि० स्त्रियां ङीप् ।

लैङ्गिक त्रि० लिङ्गेनानुमापकचिह्नादिना आपादितस्तत

आगतो वा ठण । लिङ्गादिभिः १ कल्पिते २ अनुमिते
साध्ये लिङ्गोपहितलैङ्गिकभानमित्याचार्य्याः । अर्थप्र-
काशसामर्थ्यलिङ्गेन कल्पिते ३ मन्त्रःदीनां तत्तत्कर्म्मादि
विनियोगे च ।

लोक दीप्तौ चु० उभ० सक० सेट् । लोकयति ते अलूलुकत् त ।

लोक दर्शने भ्वा० आ० सक० सेट् । लोकते अलोकिष्ट लुलोके ।

ऋदित् चङि न ह्रस्वः । अलुलोकत् त ।

लोक पु० लोक्यतेऽसौ लोक--घञ् । १ भुवने भुवनशब्दे

दृश्यम् । २ जने च अमरः । भावे घञ् । ३ दर्शने ।

लोककान्ता स्त्री ६ त० । १ ऋषभौषधे राजनि० २ लोकस्वा०

मिनि ३ लोकप्रिये च त्रि० ।

लोकजित् पु० लोक लोकाचारं जितवान् जि--क्विप । बुद्धे अमरः ।

लोकपाल पु० लोकान् पालयति पा--णिच अण । १

लाकपालके नृपे, ३ इन्द्रादिदिकपाले, ३ विनायकादिषु
पञ्चसु । ४ लोकरक्षकमात्रे त्रि० । लोकनाथादयोऽप्यत्र ।

लोकबान्धव पु० लोकानां बान्धवः सर्वकर्मप्रवर्त्तकत्वात् ।

सूर्य्ये जटा० ।

लोकबाह्य त्रि० बहिश्चरति बहिस + ष्यञ टिलोपश्च ५ त० । लोकबहिर्भूते ।

लोकमातृ स्त्री लोकानां मातेव रक्षित्री । १ लक्ष्म्याम्

अमरः ६ त० । लाकानां ज्ञातरि त्रि० ।

लोकलोचन पु० लोकेलाच्यतेऽनेन लुच ल्युट् । १ सूर्ये शब्दर०

लोकस्य लोचनमिव । सूर्य्ये न० । लोकनेत्रादयोऽप्यत्र न०

लोकायत न० लोकेषु आयतम् विस्तीर्णम् अनायाससाध्य-

त्वात् । चार्वाकमतसिद्धधर्म्मे शब्दच० ।

लोकायतिक पु० लोलायतं तन्मतम् अस्त्यस्य ठन् । चार्वाके ।

लोकालोक पु० ल क्यतेऽसौ लोकः न लोक्यतेऽसौ कर्म्म० ।

स्वनामख्याते सूर्प्यकिरणसम्पर्कसीमापर्बते । तस्य च
पार्श्वयोरातपानातपमम्बन्धात्तथात्वम ।

लोकेश पु० ६ त० । १ ब्रह्मणि अमरः । २ नृपतौ ३ पारद च

राजनि० बुद्धभेदे त्रिका० ।

लोच दोप्तौ चु० उभ० अक० सेट् । लाचयति ते ऋदित् चङि न ह्रस्वः । अलुलचित् त ।

लोच दर्शने भ्वा० आत्म० सक० सेट् । लोचते अलोचिष्ट

ऋदित् चङि न ह्रस्वः ।

लोचक न० लोच--ण्वुल् । १ मांसपिण्डे, २ अक्षितारके

३ कज्जसे ४ स्त्रीणां ललाटाभरणे, ५ नीलवस्त्रे, ६ कर्णपूरे,
७ कदल्यां, ८ मूर्वायां ९ निर्बुद्धौ भ्रूश्लथचर्मणि मेदि०
११ सर्पकञ्चुके शब्दर० ।

लोचन न० लोच्यतेऽनेन लोच--करणे ल्युट् । १ नेत्रे अमरः ।

भावे ल्युट् । २ दर्शनक्रियायाम् । युच् । ३ दर्शने
४ आलोचने च स्त्री टाप् अमरः । ३ महाप्राणिकीटे स्त्री
राजनि० ङीप् ।

लोचनहिता स्त्री ६ त० । (तुत्थाञ्जने तुँते) राजनि० ।

लोचमस्तक पु० लोच्यते लोचं मस्तकं यस्य । मयूर-

शिखायाम् अमरः ।

लोट(ड) उन्मादे भ्वा० पर० सक० सेट् । लोट(ड)ति ।

अलोटी(डो)त् । ऋदित चङि न ह्रस्वः ।

लोणा स्त्री लवणमस्त्यस्याः भक्षणसपये अपेक्ष्यत्वेन अच् ।

१ क्षुद्राम्लिकायाम् राजनि० । लोणाम्लाप्यत्र राजनि०

लोणार न० लवणमृच्छति कारणत्वेन ऋ--अण् उप० स० ।

पृषो० लवणजे क्षारभेदे राजनि० ।

लोत न० लू--तन् । १ चोरितधने, लोप्त्रे (वमाल) जटाधरः

३ चिह्ने सि० कौ० । ४ नेत्राम्बुन त्रिका० ५ लवणे च

लोत्र न० लू--ष्ट्रन् । १ चक्षुर्जले, २ चोरितधने च संक्षिप्तमा० ।

लोध पु० रुध--अच् रस्य लः । स्वनामख्याते वृक्षे रत्नमा० ।

लोध्र पु० रुध--रन् रस्य लः । (लोध) ख्याते वृक्षे अमरः ।

“लोध्रो राही लघुः शीतश्चक्षुष्य कफपित्तनुत् ।
कषायो रक्तपित्तासृग्वातातीसारशाथहृत्” भावप्र० ।

लोप पु० लुप--भावे घञ् । १ विनाशे २ छेदने, ३ आकुलीभावे,

४ व्याकरणोक्ते अदर्शनरूपे नाश च । लोपयति स्त्रीणां
रूपगर्वम् अच् । २ अगस्त्यमुनिपत्न्यां स्त्री जटा० ।

लोपापक पुंस्त्री० लोपमदर्शनमाप्नोति द्रुतम् आप--ण्वुल् ।

शृगाले शब्दमा० स्त्रियाम् अजा० टाप् अत इत्त्वम् ।

लोपामुद्रा स्त्री मुदं राति रा--क कर्म० । अगस्त्यमुनि-

पत्न्याम् अमरः ।

लोप्त्र न० लुप--ष्ट्रन् । स्तेयधने स्त्रीत्वमपीच्छति तत्पक्षे ङीष् ।

लोभ पु० लुभ--आकाङ्क्षायां भावे घञ् । परद्रव्येषु

आतशयिताभिलाषे “परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते ।
अभिलाषो द्विजश्रेष्ठ! स लोभः परिकीर्त्तिनः” पद्मपु० ।

लोभिन् त्रि० लुभ--णिनि । परद्रव्येषु अतितृष्णावति जटा० ।

लोभ्य पु० लुभ--कर्मणि यत् । १ मुद्गे हेमच० । २ लोभनीय-

पदार्थे त्रि० ।

लोम न० लू--मन् । देहजाते केशाकारे १ रोमाख्ये द्रव्ये अमरः । तत्प्रधाने २ लाङ्गूले न० जटा० ।

लोमकर्ण पुंस्त्री लोमबहुलः कर्णो यस्य शाक० । शशके

हेमच० तत्कर्णस्य लोमशत्पात्तथात्वम् स्त्रियां ङीष् ।
पृष्ठ ४८३४

लोमकूप पु० लोम्नां कूप इव । रोमाधारे १ विन्द्वाकारे गर्त्ते

लोमघ्न न० लोमानि हन्ति हन--टक् । (टाक) रोमभेदे ।

लोमन् पु० लू--मनिन् । देहस्थे केशतुल्य (रो--या) षदार्थे

अमरः ।

लोमपाद पु० लोमयुक्तौ पादावस्य शा० त० । अङ्गदेशस्थे नृपभेदे रामा०

लोमश पु० लोमानि बाहुल्येन सन्त्यस्य श! १ मुनिभेदे

२ मेषे ३ लोमयुक्ते त्रि० मेदि० । ४ काकजङ्घायां ५
जटामांस्यां, ६ वचायाम् ७ शुकशिम्ब्याम् ८ महामेदायां
९ काशीसे १० शाकिनीभेदे च स्त्री मेदि० ११ शणपुष्फ्याम्
१२ अतिबलायां च स्त्री विश्वः । १३ बन्धमांस्यां स्त्री
रजनि० ।

लोमशकाण्डा स्त्री लोमश इव काण्डोऽस्याः । कर्कट्याम् राजनि० ।

लोमशपर्णिका स्त्री लोमशानीव पर्णानि यस्याः कप्

अत इत्त्वम् । माषपर्ण्याम् शब्दच० ।

लोमशपुष्पक पु० लोमशमिव पुष्पमस्य कप् । शिरीषवृक्षे राजनि० ।

लोमशातन न० लोमानि शातयति शद--णिच् तान्ता-

देशः ल्यु । लोमपातने औषधभेदे गरु० पु० १८५ अ०
तदौषधमुक्तं यथा “हरितालशङ्खचूर्णं कदलीदलभ-
स्मना । एतद्द्रव्येण चोद्वर्त्त्य लोमशातनमुत्तमम् । ल
वणं हरितालञ्च तण्डुल्याश्च फलानि च । लाक्ष
र सकमायुक्तं लोमशातनमुत्तमम् । सुधा च हरितालञ्च
शङ्खञ्चैव मनःशिला । सैन्धवेन सहैकत्र छागमूत्रेण
पेषयेत् । तत्क्षणोद्वर्त्तनादेव लोमशातनमुत्तमम्” ।

लोमहर्षण न० लोम्नां हर्षणं हर्षजनकव्यापार इव उद्भेद

इति यावत् । १ रोमाञ्चे । लोमानि हर्षयति उत्तमश्लोक-
कथया हृष--णिच्--ल्यु । व्यासशिष्ये सूतवंश्ये स्वनाम-
ख्याते २ पौराणिके पु० “प्रख्यातो व्यासशिष्योऽभूत् सूतो
वै लोमहर्षणः । पुरणसंहितां तस्मै ददौ व्यासो
महामुनिः” विष्णुपु० ।

लोमहृत् पु० लोमानि हसति हृ--क्विप तुक् च । १

हरिताले हेमच० । लोमशातनशब्दे तस्य तथात्वं दृश्यम् ।

लोल त्रि० लोड--अन् डस्य लः । १ सवृष्णे २ चञ्चले च अमरः

च ३ जिह्वायां ४ लक्ष्म्याञ्च स्त्री मेदि० ।

लोलार्क पु० काशीस्थे अर्कमूर्त्तिभेदे काशीख० ४६ अ० ।

लोलिका स्त्री लोडयति सेवने दन्तान् लोड--ण्वुल् डस्य

लः । १ चाङ्गेर्य्याम् (चुकोपालङ्ग) जटा० ।

लोलित त्रि० लुल--विमर्दे णिच् क्त । चालिते ।

लोलुप(भ) त्रि० लुभ--यङ् अच् पृषो० भस्य वा पः ।

अतिलोभयुक्ते अमरः ।

लोष्ट संहतौ राशीकरणे भ्वा० आ० सक० सेट् । लोष्टति अलोष्टिष्ट ।

लोष्ट पुंन० लोष्ट--अच् । १ मृत्पिण्डे (ढेला) अमर । २

लौहमले राजनि० ।

लोष्टघ्न पु० लोष्टं हन्ति सर्दयति हन० क । लौष्टभेदने मुद्ग-

रादौ भरतः ।

लोष्टभेदन पु० लोष्टं मिनत्ति विमर्दयति भिद--ल्यु । लोष्टभेदनसाधके मुद्गरादौ भरतः ।

लोष्ट्र पु० लोष्ट--रन् । लोष्टे हेमच० ।

लोह पुंन० लू--विच् लौस्तं जहाति हा--क । १ धातुभेदे

अमरः । २ धातुमात्रे मेदि० ३ रुधिरे राजनि० ४ अगुरु-
चन्दने न० अमरः । धातुभेदस्वरूपादि भावप्र० उक्तं
यथा “अथ लोहस्योत्पत्तिनामलक्षणगुणाः “पुरा लोमि-
लदैत्यानां निहतानां सुरेर्युधि । उत्पन्नानि शरीरेभ्यो
लोहानि विविधानि च । लोहोऽस्त्री शस्त्रकं तीक्ष्णं
पिण्डं कालायसायसी । गुरुतादृढ़तोत्क्लेदकफ-
दाहस्य कारिता । अश्मदोषः सुदुगन्धो दोषाः सप्ताय-
सस्य तु । लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु ।
रुक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् । कफं पित्तं
परं शूलं शोथार्शःप्लीहपाण्डुताः । मेदोमेहकृमीन्
कुष्ठं तत्किट्टं तद्वदेव हि । पाण्डुत्वकुष्ठामयमृत्युदं
भ{??} हृद्रोगशूलौ कुरुतेऽश्मरीञ्च । नानारुजाञ्चापि तथा
प्रकोपं करोति हृल्लासमशुद्धलोहम् । जीपहारि
मदकारि चायर्स चेदशुद्धिमदसंस्कृतं ध्रुवम् । पाटवं न
तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति ।
कुद्माण्डं तिलतैलञ्च माषान्नं राजिकां तथा । मद्य-
मम्लरसञ्चापि त्यजेल्लोहस्य सेवकः” । तत्र सारलोहस्य
लक्षणं गुणाश्च “क्षमामृच्छिखराकाराण्यङ्गान्यम्लेन
लेपयेत् । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ।
लोहसारो ह्ययं हन्याद्ग्रहणीमतिसारकम् । अर्द्ध-
सर्वाङ्गजं वातं शूलञ्च परिणामजम् । छर्दिञ्च पीनसं
पित्तं श्वासं कासं व्यपोहति” । अथ कान्तलोहस्य
लक्षणं गुणाश्च । “यत् पात्रेण प्रसरति जले
तैलविन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां
निम्बवल्कः । तप्तं दुग्धं भवति शिखराकारकं
नैति भूमिं कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहं
तदुक्तम् । गुल्मोदरार्शःशूलाममामवातं भगन्दरम् ।
कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत् । प्लोहान-
पृष्ठ ४८३५
मम्लपित्तञ्च यकृच्चापि शिरोरुजम् । सर्वान् रोगान्
विजयते कान्तलोहं न संशयः । तलं वीर्य्यं वपःपष्टिं
कुरुतेऽग्निं विवर्द्धयेत् । अथ किदम्य “ध्मायमानस्य
लोहस्य मलं मण्डूरमुच्यते । लोहसिंहानिका किट्टं
सिंहानञ्च निगद्यते । यल्लोहं यद्गुणं प्रोक्तं तत्किट्ट
मपि तद्गुणम्” । अथ लोहस्य दोषशान्तये शोधनमभि-
धीयते “पत्तलीकृतपत्राणि लोहस्याग्नौ प्रतापयेत् ।
निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके । गोमूत्रे
च कुलत्थानां कषाये च त्रिधात्रिधा । एवं लोहस्य
पत्राणां विशुद्धिः संप्रजायते” । अथ लोहस्य मारण-
विधिः “शुद्धलोहभवं चूर्णं पातालगरुड़ीरसैः ।
मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटद्वयम् । पुटत्रयं
कुमार्य्याश्च कुठारच्छिल्लिकारसैः । पुटषट्कं ततो दद्यादेवं
तीक्ष्णा मृतिर्भवेत्” । अन्यच्च । “क्षिपेद्द्वादशर्माशेन दरदं
तीक्ष्णचूर्णतः । मर्दयेत् कन्यकाद्रावैर्यामयुग्मं ततः
पुटेत् । एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात् ।
सत्याऽनुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारुणे । कथ्यते
रामराजेन कौतूहलधियाऽधुना । सूतकद्द्विगुण
गन्धं दत्त्वा कुर्य्याच्च कज्जलीम् । द्वयोः सर्म लोहचूर्णं
मर्द्दयेत् कन्यकाद्रवैः । यामयुग्मं ततः पिण्डं कृत्वा
ताम्रस्य पात्रके । घर्मे धृत्वा रूचकस्य पत्रैराच्छादवेद्-
वुधः । यामद्वयाद्भवेदुष्णं धान्यराशो न्यसेत्ततः ।
दत्त्वोपरि शरावञ्च त्रिदिनान्ते समुद्धरेत् । पिष्ट्वा च
गालयेद्वस्त्रादेवं वारितरं भवेत् । दाडिमस्य दलं पिष्ट्वा
तच्चतुर्गुणवारिणा । तद्रसेनायसश्चूर्णं सन्नीयात्
प्लावयेदपि । आतपे शोधयेत्तच्च पुटेदेवं पुनः पुनः ।
एकविशतिवारैस्तन्म्रियते नात्र संशयः । एव सर्वाणि
लोहानि स्वर्णादीन्यपि मारयेत्” । एवं मारितलोहस्य
गुणाः “लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु ।
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् । कफं पित्तं
गरं शूलं शोफार्शःप्लीहपाण्डुताः । मेदोमेहक्रमीन्
कुष्ठं तत्किट्टं तद्वदेव हि । गुञ्जामेकां समारभ्य यावत्
स्युर्नव रत्तिकाः । तावल्लोहं समश्नीयाद्यथादोषानलं
परः । कुष्माण्डं तिलतैलञ्च माषान्नं राजिकान्तथा ।
मद्यमम्लरसञ्चव वर्जयेल्लोहसेवकः” भावप्र० । “यदा तु
आयसे पात्रे पक्वमश्नाति वै द्विजः । स पापिष्ठोऽपि भुङ्-
क्तेऽन्नं रौरवे परिपच्यते” मत्स्यपु० । “अयःपात्रे
पयःपानं गव्यं सिद्धान्नमेव च । भृष्टादिकं मधु गुड़ं
नारिकेलोदकं तथा । फलं मूलञ्च यत् किञ्चिदभक्ष्य
मनुरब्रवीत् “ब्रह्मवै० ।

लोहकण्टक पु० लोहमिव कठिनः कण्ठको यस्य । १

मदनवृक्षे शब्दच० । २ लोहमयवण्टके च ।

लोहकार पु० लोह तन्मयं शस्त्रादि करोति कृ--अण । कम

कारे । ण्वुल् । लोहकारकाऽप्यत्र । “गोपालात् तन्तुवार्य्या
वै कर्मकारोऽभवत् सुतः” पराशरोक्ते जातिभेदे पुंस्त्री ।

लोहकिट्ट न० ६ त० । लौहमले । (लोहार गु) । राजनि०

लोहचूर्ण न० ६ त० । (लोहाचुर) ख्यात १ पदार्थे २ लोहमले

राजनि० ।

लोहज न० लोहात् लोहाभ्यां वा जायते जन--ड । १

लोहमले राजनि० २ धातुद्वयजे कांस्ये च हेमच० ।

लोहद्राविन् पु० लोहानि धातुद्रव्याणि द्रावयति द्रु--णिच्

णिनि । १ टङ्कणे (सोहागा) राजनि० । २ धातुद्रावके
त्रि० ।

लोहपृष्ठ पुंस्त्री० लोहमिव कठिनं पृष्ठमल । कङ्कपक्षिणि अमरः स्त्रियां ङीष् ।

लोहमारक पु० लोहं मारयति जारयति मृ--णिच्--ण्वुल् ।

शालिञ्चशाक त्रिका० ।

लोहल पु० लोहमिव लाति ला--क । १ अव्यक्तवचने अमरः २ लोहग्राहके त्रि० ।

लोहवर न० लोहेषु सर्वधातुषु मध्ये वरम् । स्वर्णे मेदि० ।

लोहश्लेषण न० लोहानि स्वर्णादीनि श्लवयति योजयति

श्लिष--णिच्--ल्यु । टङ्कण (सोहागा) हेमच० ।

लोहसङ्कर न० लोहानां धातुद्रवाणां सङ्करो यत्र । मिश्रित-

धातौ १ रीत्यादौ २ वर्त्तलोहे च राजनि० ।

लोहाभिसा(हा)र पु० लोहं तन्मयशस्त्रम अभिस्रि(ह्रि)-

यतेऽत्र अभि + सृ--(ह)--वा आधारे घञ् । राज्ञां
युद्धयात्रादौ शस्त्रनीराजनाविधौ अमरः ।

लोहार्मल पु० १ तीर्थभेदे वराहपु० । २ लोहकीले च ।

लोहित न० रुह इतच् रस्य लः । १ कुङ्कुमे २ रक्तचन्दन

३ रक्तगोशीर्षकभेदे मेदि० । ४ पत्तङ्गे ५ हरिचन्दने शब्दच० ।
६ तृणकुङ्कुमे ७ रुधिरे च राजनि० ८ युद्धे हेमच० ।
९ नदभेदे १० मर्दने ११ रक्तवर्णे च पु० मेदि० । १२ रक्ततायुत
त्रि० । १३ मृगभेदे १४ रोहितमत्स्ये १५ सर्पे १६ देवभेदे
भरतः । १७ मसूरे शब्दच० १८ रक्तालौ १९ रक्तशालौ
राजनि० । २० वनभेदे २१ सरोवरभेदे ब्रह्मपुत्रशब्दे दृश्यम् ।
सर्वत्र जातौ स्त्रियां ङीष् । वर्णे तु स्त्रीत्वे ङीप् तस्य
नः । लोहिनी लाहितवर्णयुतस्त्रियाम् । रुह--इनन्
रस्य लः । रोहणकर्त्तरि स्त्रियां टाप् ।
पृष्ठ ४८३६

लोहितक न० लोहितमिव कायति कै--क । १ पित्तले

राजनि० । लोहित + इवार्थे कन् । २ पद्मरागमणौ पु०
हेमच० । ३ मङ्गलग्रहे पु० शब्दमाला ।

लोहितचन्दन न० कर्म० । १ कुङ्कुमे अमरः २ रक्तचन्दने च ।

लोहितपुष्पक पु० लोहितानि रक्तानि पुष्पाण्यस्य कप् ।

दाड़िमवृक्षे भावप्र० । २ रक्तवर्णपुष्पयुते त्रि० ।

लोहितमृत्तिका स्त्री कर्म० । १ गैरिके (गेरिमाटी) रत्नमा०

२ रक्तमृदि च ।

लोहिता स्त्री रुह--इतच् रस्य लः । १ वराहक्रान्तायां

शब्दच० २ रक्तपुनर्नवायां राजनि० । ३ रक्तवर्णायां
स्त्रियाञ्च ।

लोहिताक्ष पु० लोहिते अक्षिणी यस्य षच् समा० । १ विष्णौ

शब्दच० २ कोकिले च पुंस्त्री० शब्दच० । ३ रक्तनेत्रयुते
त्रि० स्त्रियां ङीष् ।

लोहिताङ्ग पु० लोहितमङ्गमस्य । १ मङ्गलग्रहे अमरः २ काम्पिल्लवृक्षे च राजनि० ।

लोहितानन पुंस्त्री० लोहितमाननमस्य । १ नकुले राजनि०

स्त्रियां ङीष् । २ रक्तमुखे त्रि० स्त्रियां टाप् ।

लोहितायस न० लोहितं वर्णमेति इण्--असुन् । ताम्रे त्रिका० ।

लोहितायस न० लोहितमयः अच् स० । १ ताम्रे २ रक्त-

वर्णायोजातिमेदे च ।

लोहोत्तम न० लोहेषु धातुषूत्तमम् । स्वर्णे हेमच० ।

लौकायतिक न० लोकायतं चार्वाकशास्त्रं वेत्त्यधीते वा

ठक् । चार्वाकमताभिज्ञे ।

लौकिक त्रि० लोके विदितः प्रसिद्धो हितो वा ठण् ।

१ लोकविदिते २ लोकप्रसिद्धे । २ लोकहिते च ।

लौकिकाग्नि पु० कर्म० । विधानेन संस्कारशून्ये वह्नौ ।

लौड उन्मादे भ्वा० पर० सक० सेट् । लौडति अलौडीत् ।

ऋदित् चङि न ह्रस्वः ।

लौह पु० लोहमेव स्वार्थे अण् । (लोया) १ धातुभेदे भरतः । २ धातुमात्रे च ।

लौहज न० लौहात लौहाभ्यां जायते वा जन--ड । १ मण्डूरे

रमा० । धातुद्वयजे कांस्यपित्तलादौ च ।

लौहभाण्ड पु० लोहस्य विकारः अण् कर्म० । (हामान-

टिस्ता) २ लौहमये पात्रभेदे शब्दच० । ३ लोहमयपात्र-
मात्रे न० ।

लौहमल न० लोहस्येदमण् कर्म० । लोहकिट्टे राजनि० ।

लौहित्य न० लोहितस्य भावः ष्यञ् स्वार्थे ष्यञ् वा । १ रक्त-

वर्णे २ रक्तत्वे “लोहितात् सरसो जातो लोहित्यस्तु ततोऽभवत्”
उक्ते ३ ब्रह्मपुत्रनदभेदे । “तीर्णलौहित्ये” रघुः ।

ल्पी श्लेषे क्य्रा० प्वा० पर० सक० अनिट् । ल्पिनाति अल्पैषीत्।

ल्वी गतौ क्या० पा० पर० सक० अनिट् । ल्विनाति अल्वैषीत् ।

इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते
वाचस्पत्ये लकारादिशब्दार्थ सङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ल&oldid=57839" इत्यस्माद् प्रतिप्राप्तम्