वाचस्पत्यम्/भूत

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४६८५

भूत न० भू--क्त । १ न्याय्ये उचिते पृथिवीजलतेजोबायुगगन-

रूपेषु गन्धादिविशेषगुणवत्षु २ द्रव्येषु, ४ सत्ये,
यथार्थे वास्तविके “भूतमप्यनुपत्यस्तं हीयते व्यवहारतः”
इति स्मृतिः । ५ तत्त्वानुसन्धाने च “छलं निरस्य भूतेन”
स्मृतिः । ६ पिशाचादौ पु० ७ कुमारे ८ योगीन्द्रे ९ कृष्णपक्षे
१० प्राणिनि च न० । ११ अतीते वृत्ते १२ सदृशे १३ प्राप्ते
१४ सत्यार्थे त्रि० । १५ कृष्णचतुर्दर्श्या स्त्री टाप् । भूतत्वं
च आत्मान्यत्वे सति विशेषगुणवत्त्वम् न तु जातिः
मूर्त्तत्वेन साङ्कर्य्यात् तथाहि भूतत्वाभावबति मनसि
मूर्त्तत्वस्य सत्त्वात् मूर्त्तत्वाभाववति गगने भूतत्वस्य सत्त्वात्
उभयोः परस्परभावसामानाधिकरण्यम् पृथिव्यादिषु
चतुर्षु च भूतत्वमूर्त्तत्वयोरुभयोः सत्त्वात् परस्परसामा-
नाधिकरण्यमिति माङ्कर्य्यात् जातिव्याधकता ।

भूतकला स्त्री ६ त० । शा० ति० उक्ते धरादिभूतानामुत्-

पादके निवृत्त्याद्ये शक्तिभेदे “धरादिपञ्चभूतानां निवृ-
त्त्याद्याः कलाः स्मृताः । निवृत्तिः सुप्रतिष्ठा स्यात् विद्या
शान्तिरनन्तरन्तरम् । शान्त्यतीतेति ता ज्ञेया नाददेह-
समुद्भवाः” शा० ति० “शक्तिः प्रथमसम्भूता शान्त्य-
तीतापदोत्तरा शान्त्यतीतापदाच्छक्तेस्ततः शान्तिपदं
क्रमात् । ततो विद्यापदं तस्मात् प्रतिष्ठापदसंग्रहः ।
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः परम् । एवमुक्ता
सवासेन सृष्टिरीश्वरनोदिता । आनुलोम्यादथैतेषां प्राति-
लोम्वेन संहृतिः । अस्मात् पञ्चपदोद्दिष्टान्न सृष्ट्यन्तर-
मिष्यते । कलाभिः पञ्चभिर्व्याप्तं यस्माद्विश्वमिदं जगत्”
राघवभट्टधृतवायवीयसंहिता ।

भूतकेश पु० भूतानां केश इव । (भूतकेश) नामके १ तृणभेदे

स्त्रीत्वमपि ङीष् । सा च तत्र, २ शेफालिकार्या च टाप् ।
३ नीलसिन्धुवारे स्त्री ङीष् ।

भूतक्रान्ति स्त्री ६ त० । पिशाचावेशे राजनि० ।

भूतगन्धा स्त्री० भूतः प्रभूतः गन्धो यस्याः । सुरानामगन्ध-

द्रव्ये जटाध० ।

भूतगुण पु० ६ त० । आकाशादीनां शब्दस्पर्शादिषु विशेष-

गुणेषु “शब्दस्पर्शरूप्ररसगन्धा भूतगुणाः स्मृताः” शा० ति०
“भूतगुणा भूतविशेषगुणा इत्यर्थः राघवः” । तत्रैव
भूतानामेकैकविशेषगुणा उक्ता यथा “आकाशस्य गुणः शब्दो
वाग्नेः स्पर्शः तेजसो रूपं जलस्य रसः भूमेर्गन्धः इति
नैयायिकादयः । सांख्यादयस्तु अन्यथाङ्गीचक्रुर्यथोक्त-
मीशानसंहितायाम् “शब्दैकगुण आकाशः शब्दस्पर्श-
गुणो मरुत् । शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज इष्यते ।
शब्दस्पशरूपरसैरापो ज्ञेयाश्चतुर्गुणाः । शब्दस्पर्शरूप-
रसगन्धैः पञ्चगुणा मही” ।

भूतघ्न पु० भतं हन्ति हन--टक् । १ भूर्जपत्रे राजनि० तद्धारणे

हि बालग्रहमूतादिनिवारणं शास्त्रे प्रसिद्धम् । भूतं प्रकृतं
गन्धं हन्ति अधःकरोति । २ लशुने ३ उष्ट्रे च राजनि० ।
३ भूतनाशके त्रि० हेमच० । ४ तुलस्यां स्त्री राजनि० ङीप् ।

भूतचतुर्दशी स्त्री० भूतप्रिया चतुर्दशी तदुद्देशेन तस्यां

दीपदानात् । आश्विनकृष्णपक्षचतुर्दश्यां दीपान्विता-
मावास्यापूर्वतिथौ यमचतुर्दश्याम् ।

भूतजटा स्त्री भूतस्य पिशाचस्य जदेव । १ जटामांस्ताम्

शब्दमा० । २ गन्धमांस्यां राजनि० ।

भूतद्राविन् पु० भूतान् पिशाचान् द्रावयत्यपसारयति द्रु-

णिच्--णिनि । १ रक्तकरवोरवृक्षे २ भूताङ्कुशवृक्षे च राजनि०

भूतद्रुम पु० भूतैव द्रुमः । स्लेष्मातकवृक्षे । भूतवृक्षादयोऽ-

प्यत्र । भूतप्रियः द्रुमः शाक० त० । २ शाखोटकवृक्षे ।

भूतधात्री स्त्री० भूतानि जन्तून् धारयति धा--तृच् ङीप् ।

पृथिव्याम् त्रिका० ।

भूतनाथ पु० ६ त० । १ शिवे २ वटुकभैरवे च । “भैरवो

भूतनाथश्च” इति वटुकस्तोत्रन् । भूतेशभूतपत्यादयोप्यत्र ।

भूतनाशन न० भूतान् नाशयति नश--णिच्--ल्यु । १ रुद्राक्षे

राजनि० २ सर्षपे पु० ३ भल्लातके च रत्नमा० ।

भूतपक्ष पु० भूतप्रियः पक्षः अन्धकारवत्त्वात् । कृष्णपक्षे ।

भूतपत्त्नी स्त्री भूतैव कृष्णं पत्रं यस्याः ङीष् । कृष्ण-

तुलस्याम् राजनि० ।

भूतपुष्प पु० भूत इव पुष्पं कृष्णत्वात् यस्य । श्योनाकवृक्षे रत्नमा० ।

भूतपूर्णिमा स्त्री आश्विनपूर्णिमायाम् शब्दर० ।

भूतभावन पु० भूतानि पृथिव्यादीनि मावयति जनयति

भू--णिष्--ल्यु, भूता सत्या यथार्था भावना यस्त वा ।
१ विष्णौ, २ वटुकभैरवे च “भूतात्मा भूतभावनः” इति ।
तयोः स्तोत्रे ।

भूतमण्डल न० ६ त० । शा० ति० उक्ते पृथिव्यादीनां मण्डल-

भेदे तत्स्वरूपं तत्रोक्तं यथा “वृत्तं दिवस्तत् षड्विन्दु-
लाञ्छितं भातरिश्वनः । त्रिलोणं स्वस्तिकोपेतं वह्ने-
रर्द्धेन्दुसंयुतम् । अम्भोभमम्भसो भूमेश्चतुरस्यं सवज्र-
कम् । तत्तद्भूतकमानानि मण्डमानि विदुर्बुधाः । वर्णेः
पृष्ठ ४६८६
खैरञ्जितान्याहुः स्वस्यनामावृतान्यपि” । “वर्णैः श्वेतादिभि-
र्भूतवर्णैरजोभिरञ्जितानीति पदार्थादर्शः । तत्रैतद्व्याख्या
विस्तरेण दृश्या । मन्त्रमहोदधौ तेषां स्पष्टं स्वरूपं
कर्मविशेषे विनियोगश्चोक्तो यथा “अर्द्धचन्द्रनिभं पार्श्वद्वये
पद्मद्वयाङ्कितम् । जलस्य मण्डलं प्रोक्तं प्रशस्तं शान्ति
कर्मणि । त्रिकोणं स्वस्तिकोपेतं वश्ये वह्नेस्तु मण्ड-
लम् । चतुरस्रं वज्रयुक्तं स्तम्भे भूमेस्तु मण्डलम् ।
वृत्तं दिवस्तु विद्वेषे विन्दु षट्काङ्कितं तु तत् । वायु-
मण्डलमुच्चाटे मारणे वह्निमण्डलम्” ।

भूतमारिन् पु० भूतान् पिशाचान् मारयति अपसारयति

मृ--णिच्--णिनि । चिड़ानामगन्धद्रव्ये राजनि० ।

भूतयज्ञ पु० भूतानि प्राणिनो वायसादीन् उद्दिश्य यज्ञो

वलिः । नित्यं गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते बलिवैश्वदेव
कर्मणि “भूतेभ्यो बलिहरणं भूतयज्ञः” हारीत स्मृतिः ।

भूतयोनि स्त्री ६ त० । भूतानामाकाशादीनां कारणे

परमेश्वरे कैवल्योप० ।

भूतल न० भूरेव तलम् । १ पृथिव्याम् । ६ त० । २ पाताले भूमेरधोभागे ।

भूतलिका स्त्री भूतलं पातालं मूलत्वेनास्त्यस्याः ठन् । पृक्का

याम् (पिड़िङ्शाक) राजनि० बहुदूरगमूलत्वात्तस्या-
स्तथात्वम् ।

भूतलिपि स्त्री ६ त० । भूतदैवत्ये वर्णभेदे “वाथ्यग्निभूज-

लाकाशाः पञ्चाशल्लिपयः क्रमात् । पञ्च ह्रस्वाः पञ्च दीर्घाः
विन्द्वन्ताः सन्धिसम्भवाः । पञ्चशः कादयः षक्षलसहान्ताः
प्रकीर्त्तिताः” शा० ति० । कुलाकुलचक्रशब्दे २१३४ पृ०
दृश्यम् ।

भूतलोन्माथ पु० दानवभेदे हरिवं० २४ अ० ।

भूतवर्ण पु० ६ त० । ध्येये भूतानां श्वेतादिवर्णे यथोक्तं

शा० ति० “स्वच्छं वियन्मरुत् कृष्णो रक्तोऽग्निर्विशदं
प्रयः । पीता भूसिः पञ्चभूतान्येकैकाधारतो विदुः” ।
“स्वच्छं श्वेतं तत्र केषाञ्चिदरूपिद्रव्याणां वर्णकथनमुपा-
दानार्थं स्वशास्त्रानुरोधेन” राघवः । भूतदैवते ह्रस्वदीर्घ-
सहिते वर्गादिवर्णे च । भूतलिपिशब्दे कुलाकुलचक्र-
शब्दे च दृश्यम् ।

भूतवास पु० ७ त० । (वयड़ा) विभीतकघृक्षे । भूतावासा-

दयोप्यत्र

भूतविकाया स्त्री भूतानां तदाविशिष्टानामिव विक्रिया यतः । अपस्माररोगे राजनि०

भूतविद्या स्त्री भूतादिनिवारणार्था विद्या । सुश्रुतीक्ते

देवाद्युपसर्गोपशमार्थे वलिहरणादौ “भूतविद्या नाम
देवासुरगन्धर्वयक्षरक्षापितृपिशाचनागग्रहाद्युपसृष्टचेतसां
शान्तिकर्म बलिहरणादि ग्रहोपशमनार्थम्” सा च तत्र
उत्तरतन्त्रे दर्शिता “ब्रह्मविद्या क्षत्रविद्या नक्षत्रविद्या
भूतविद्या सर्पविद्या” छा० उ० ।

भूतवेशी स्त्री भूतानामिव वेशोऽग्र्याः गौरा० ङीष् । श्वेतशेफालिकायाम् अमरः ।

भूतव्रह्मन् पु० भूतः पिशाच इव व्रह्मा । देवले शब्दमाला ।

भूतशुद्धि स्त्री० भूतानां देहारम्भकपृथिव्यादीनां शुद्धिर्भावना

विशेषात् शोधनम् । तन्त्रादौ प्रसिद्धे देहारम्भकचतु-
र्विंशतितत्त्वानां भावनाविशेषेण संस्कारेण देवरूपता-
सम्पादने । भूतशुद्धिप्रकारस्तन्त्रसारे उक्तो यथा
गौतमीये “सुषुम्णावर्त्मना सोऽहमिति मन्त्रेण
योजयेत् । सहस्रारे शिवे स्थाने परमात्मनि देशिकः ।
धूम्रवर्णं ततो वायुवीजं(यं) षड्विन्दुलाञ्छितम् । पूरये
दिड़या वायुं सुधीः षोड़शमात्रया । मात्रया तु चतुः-
षष्ट्या कुम्भयेच्च सुषुम्णया । द्वात्रिंशन्मात्रया मन्त्री
रेचयेत् पिङ्गलाख्यया । पूरयेदनया चैव सञ्चिन्त्य
नीलमारुतम् । रक्तवर्णं वह्निवीजं (रं) त्रिकोणं स्वस्तिका-
न्वितम् । तेन पूरकयोगेन मात्रया षोड़शाख्यया ।
चतुःषष्ट्या मात्रया च निर्दहेत् कुम्भकेन च ।
वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् । ब्रह्महत्याशिर-
स्कञ्च स्वर्णस्तेयभुजद्वयम् । सुरापानहृदायुक्तं गुरु-
तल्पकटिद्वयम् । तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ।
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् । खड्गचर्मधर”
क्रुद्धमेवं कुक्षौ विचिन्तयेत् । मूलाधारोत्थितेनैव
वह्निना निर्दहेच्च तम् । एवं सन्दह्य परितो द्वात्रिंश-
न्मात्रया ततः । भस्मना सहितं मन्त्री रेचयेदिड़या
पुनः । वामनाड्यां चन्द्रबीजं (ठं) कुन्देन्वयुतसन्निभम् ।
भालेन्दुवीजे संयोज्य ततः षोड़शमात्रया । सुषुम्णया
चतुःषष्टिमात्रया तोयवीजकम् (वं) । ध्यात्वाऽमृतमयीं
वृष्टि पञ्चाशद्वर्णरूपिणीम् । तया देहं विचिन्त्यैवं
मनसा पिङ्गकाध्वना । द्वात्रिंशन्मात्रया मन्त्री
लंवीजेन दृढ़ं नयेत् । स्वस्थाने हंसमन्त्रेण पुनस्तेनैव
वर्त्मना । जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्
ततः । इति कृत्वा भूतशुद्धिं मातृकाम्यासमाचरेत्” ।
ततो हंस इति वीजं हृदयमानीय कुलकुण्डलिनीं
पृतिव्यादीनि च यथास्थाने स्थापयेत् । विशेषतस्तु
शक्तिविषये । हंस इति जीवादिकं परमशिवे संयोज्य
सोऽहमिति मन्त्रेण स्थाने नयेत् । तन्त्रान्तरे “सोऽहमेदं
पृष्ठ ४६८७
समाभाष्य जीवं हृदि समानयेत्” । शूद्रे तु विशेषो
वाराहीतन्त्रे “हंसाख्यं न स्मरेत् शुद्रा भूतशुद्धौ
कदाचन । स्वरणान्नरकं याति दीक्षा च विफला
भवेत्” । शारदायाम् “जीवं तेजोमयं ध्यात्वा नमो
मन्त्रेण योजयेत्” । भूतशुद्धिपदव्युत्पत्तिमाह विशुद्धे-
श्वरे “शरीराकारभूतानां भूतानां यद्विशोधनम् ।
अव्ययब्रह्मसंयोगात् भूतशुद्धिरियं मता” वराहीये
“मूलाधारात्ततो वीजं ब्रह्ममार्गेण देशिकः । हंसेन
पुष्करस्थाने परमात्मनि योजयेत्” । ब्रह्ममार्गः सुषुम्णा ।
त्रिपुरासारसमुच्चये “संयोज्य वीजमथ दुर्गममध्यनाडी-
मार्गेण पुष्करनिविष्टशिवे सुसूक्ष्मे” । ज्ञानार्णवे
“प्राणप्रतिष्ठया पश्चात् जीवं देहे निधापयेत् । मुखवृत्तं
समुच्चार्य्य हंसस्तु विपरीतकः । उद्धरेत् परमेशानि!
विद्येयं त्र्यक्षरी मता । प्राणप्रतिष्ठामन्त्रोऽयं सर्व-
कर्माणि साधयेत् । तेनैव विधिना देवि! स्थिरीकुर्य्या-
न्निजां तनुम्” । तारादौ विशेषस्तत्रैव दृश्यः ।

भूतसञ्चार पु० ६ त० । भूतावेशे राजनि० ।

भूतसञ्चारिन् पु० भूत इव सञ्चरति सम + चर--णिनि ।

दावानले शब्दमा० ।

भूतसंप्लव पु० ६ त० । प्रलवे “आभूतसंप्लवस्थानममृतत्वं हि भाषते” ।

भूतसर्ग पु० ६ त० । भूतसृष्टौ स च चतुर्दशविधः यथोक्तं

वह्निपु० “ब्राह्म्यं प्रजापतीयञ्च सौम्यमैन्द्रन्तथैव च ।
गान्धर्वमथ कौवेररक्षः पैशाचमानुषम् । स्थावरं पाशवं
मार्गं सार्पं शाकुनिकन्तथा । चतुर्दशविधं ह्येतद्भूत-
सर्गं प्रकीर्त्तितम्” क्लीवत्वमार्षम् ।

भूतसाधनी स्त्री भूतानि प्राणिनः साधयति अत्र आधारे

ल्युढ् ङीप् । भूमौ । भूमिं विना जन्तुमात्राणामुत्पत्ते-
रभावात् तस्यास्तथात्वम् यजु० २६ । १ वेददीपः ।

भूतसार पु० भूत इव कृष्णत्वात् सारोऽस्य । श्योनाकवृक्षे राजनि०

भूतहन्त्री स्त्री भूतान् तद्भयं हन्ति हन--तृच् ङीप् ।

१ बन्ध्याकर्कोट्यां, २ श्वेतदूर्वायाञ्च तद्धारणे हि स्त्रीणां
प्रजोत्पत्तिरोधकभूतभयनाशः ।

भूतहर पु० भूतान् हरति अपसारयाति हृ--अच् । गुग्गुलौ राजनि०

भूतहारिन् पु० भूतान् हरति स्थानान्तरं नयति

हृणिनि । देवदारुवृक्षे राजनि० ।

भूतांश पु० १ ऋषिभेदे ऋ० १० । १०६ । ११ । २ काश्यपर्षौ निरु०

१२ । ४० । ६ त० । ३ भूतानासंशे च ।

भूताङ्कुश पु० भूतानां पिशाचानामङ्कुश इवापसारकत्वात् । स्वनामख्याते वृक्षे ।

भूतात्मन् पु० भूतानि पृथिव्यादीनि पञ्च द्रव्याणि आत्मा

स्वरूपं यस्य । १ देहे भूतानि पञ्च द्रव्याणि भूताः
प्राणिनश्च आत्मा स्वरूपं यस्य । २ परब्रह्मणि “मर्वं
खल्विदं ब्रह्म तज्जलानिति” श्रुतिः । ३ सर्वभूतात्मके
हिरण्यगर्भे ४ विष्णौ ५ वटुकमेरवे च ‘भूतात्मा भूतभावनः’
इति तयोः स्तोत्रे ।

भूतादि पु० ६ त० । “परमेश्वरे भूतादिर्निघिरव्ययः” विष्णुन

सांख्यमतसिद्धे २ अहङ्कारतत्त्वे “अहङ्कारात् पञ्चतन्मा-
त्राणि” सा० सू० । स्वार्थे क तत्रार्थे ।

भूतारि पु० ६ त० । हिङ्गौ राजनि० तद्गन्धेन हि भूताप-

सरणमिति तस्य तथात्वम् ।

भूतार्त्त त्रि० ३ त० । पिशाचाविष्टे हेमच० ।

भूतार्थ पु० भूतः सत्यभूतोऽर्थो यस्य । यथार्थे

भूताली स्त्री० भूतानीव अलति पर्य्याप्नोति अल--अच् गौरा०

ङीष् । १ भूमिपाटलौ, २ मूषल्याञ्च राजनि० ।

भूतावास पु० भूतानां प्राणिनामावासः अधिष्ठानत्वात् ।

१ विष्णौ, “भूतावासो वासुदेवः” विष्णु स० । “बसन्ति त्वयि
भूतानि भूतावासस्ततो हरिः” हरिवं० ६ त० । २ विभीतक-
वृक्षे राजनि० ।

भूताविष्ट त्रि० भूतेनाविष्टः । पिशाचग्रस्ते “भूताविष्टेषु

पञ्चाशत् मृतापत्यासु वै शतम्” ज्यो० त० ।

भूतावेश पु० ६ त० । पिशाचप्रवेशे (भूते पाओया) त्रिका० ।

भूति स्त्री भू--क्तित् । १ भवने २ अणिमाद्यष्टविधैश्वर्य्ये ३ शिवाङ्ग

स्थभस्मनि ४ गजवेशे च भेदि० ५ भूतृणे ६ सम्पत्तौ ७ जात्यां
विश्वः ८ वृद्धिनामौषधे च राजनि० ।

भूतिक न० भूत्या सम्पत्त्या कायति कै--क । १ भूनिम्बे २ कत्तृणै

च अमरः । ३ यमान्याम् ४ चन्दने ५ कट्फले हेमच० । पृ०
वा दीर्घः । भूतीकोप्यत्र चित्रके भावप्र० ।

भूतिकील पु० भूतेः सम्पत्तेः कील इव । (खाना) भूमिखाते शब्दमा० ।

भूतितीर्था स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ० ।

भूतियुवक पु० कूर्मचक्रस्य वामकुक्षिस्थे देशभेदे मार्कपु० ५८ अ०

भूतिलय पु० तीर्थभेदे भा० व० १२९ अ० ।

भूतृण न० भुव इव तृणं गन्धवत्त्वात् (गन्धखड) १ तृणभेदे

रत्नमा० २ रीहिषतृणे पु० राजनि० ।

भूतेश ६ त० । १ प्रथमाधीशे २ परमेश्वरे च भूतेश्वरादयोऽप्यत्र ।

भूतेष्टा स्त्री ६ त० । आश्विनकृष्णचतुर्दश्याम् ।

भूतोड्डामर न० तन्त्रभेदे ।

भूतोन्माद पु० भूतकृत उन्मादः । पिशाचकृते उन्मादे ।

पृष्ठ ४६८८

भूत्तम न० भुवि उत्तमम् । सुवर्णे हेमच० ।

भूदरीभवा स्त्री० भूदर्य्यां भूमिबिले भवति भू० अच् ।

आखुकर्ण्याम् (उन्दरकानि) भावप्र० ।

भूदार पुंस्त्री० भुवं दृणाति खनति मुखाद्यर्थम् दॄ--अण् ।

शूकरे अमरः स्त्रियां जातित्वात् ङीष् ।

भूदेव पु० भुवि देव इव । विप्रे अमरः । भूसुरादयोऽप्यत्र

भूधन पु० भूरेव धनमस्य । नृपे हेमच० ।

भूधर पु० भुवं धरति धृ--अच् । पर्वते अमरः ।

भूध्र पु० भुवं धरति धृ--क । महीध्रे पर्वते हेमच० ।

भूधात्री स्त्री भुवि लग्ना धात्री आमसकी शाक० त० । भूम्या-

मलक्याम् राजनि० ।

भूनाग पु० भुवि नाग इव । उपरसभेदे राजनि० ।

भूनिम्ब पु० भुवि लग्नः निम्बः शाक० त० । (चिराता) क्षुपभेदे राजनि०

भूनिम्बाद्य न० चक्रदत्तोक्ते औषधभेदे “भूनिम्बकटुका

व्योषमुस्तकेन्द्रयवान् समान् । द्वौ चित्रकात् वत्सक-
त्वग्भागान् षोड़श चूर्णयेत् । गुड़शीताम्बुना पीतं
ग्रहणीदोषगुल्मनुत् । कामलाज्वरपाण्डुत्वमेहारु-
म्यतिसारनुत् । गुड़योगाद् गुड़ाम्बु स्याद् गुड़वर्ण
रसान्वितम्” ।

भूनीप पु० भुवि सग्नो नीपः शाक० त० । भूमिकदम्बे राजनि०

भूप पु० भुवं पाति पा क । भूमिपाले अमरः भूमिपादयोप्यत्र ।

भूपति पु० ६ त० । नृपे भूमिपत्यादयोऽप्यत्र ।

भूपद पु० भुवि पदं मूलं यस्य । १ वृक्षमात्रे शब्दच० । २ मल्लि-

लायां स्त्री० ङीष् अमरः ।

भूपरिधि पु० ६ त० । भूमेः परिधौ तन्मानं सू० सि० उक्तं

यथा “योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु ।
तद्वर्गतो दशगुणात् पदं भूपरिधिर्भवेत्” “लम्बज्याघ्नस्त्रि
जीवाप्तः स्फुटो भूपरिधिः” । सि० शि० सूक्ष्मतया-
न्थथोक्तं यथा “प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्ग
नागाब्धव ४९६७ स्तद्व्यासः कुभुजङ्गशायकभुवः सिद्धां-
शकेनाधिकः १५८१ । १०२ । पृष्ठक्षेत्रफलं तथा
युगगुणत्रिंशच्छराष्टाद्रयो ७८५३०३४ भूमेः कन्दुकजालवत्
कुपरिधिप्यासाहतेः प्रस्फुटम्” ।

भूपलाश पु० भुवि पलाशं यस्य । विशल्यकारके क्षुपभेदे रत्नमा०

भूपाटलि भुवि ख्याता पाटलिः । भूतालीवृक्षे राजनि० ।

भूपाल पु० भुवं पालयति पाल--अण् उप० स० । भूपतौ शब्दमा०

भूपुत्र पु० ६ त० । १ मङ्गले २ नरकासुरे च । ३ जानक्यां स्त्री

शब्दर० गी० ङीष् ।

भूपुर न० भूरिव पुरम् । यन्त्रवहिःस्थे रेखासन्निवेशविशेषयुते

भूम्याकारे स्थाने ।

भूपेष्ट पु० भूपस्येष्टः । राजादनीवृक्षे (पियासाल) राजनि०

तद्वीजस्य चिरञ्चि इति ख्यातस्य राजाप्रयत्वात्तथात्वम् ।

भूबदरी स्त्री भुवि ख्याता बदरी । क्षुद्रकोल्यां राजनि० ।

भूबल न० नरपतिजयचर्य्योक्ते जयसाधनोपाये बलभेदे

“स्वरोदयैश्च चक्रैश्च शत्रुर्यत्र समीऽधिकः । तत्र युद्धे बलं
ज्ञेयं भूपलानां जयार्थिनाम् । तेषां नामानि वक्ष्ये-
ऽहं ख्यातानि ब्रह्मयामले । चतुरशीतिसंख्यानां
यद्बलेन जयी रणे । उड्री जालन्धरी पूर्णा कामा कोल्लै
कवीरिका । शिलीन्ध्रा च महामारी क्षेत्रपाली च
यंशजा । रुद्रकालानलं प्रोक्तं कालरेखा निरा-
मया । जयलक्ष्मीर्महालक्ष्मीर्जया विजयभैरवी । बाला
योगेश्वरी चण्डी व्योमाम्बुभूककर्त्तरी । शार्दूली
सिंहली तन्वी महामाया महेश्वरी । देवकोटी शिवा
शक्तिर्घृष्टा माला वराटिका । त्रिमुण्डा मत्सरी धर्मा
मृता वृष्टाक्षयाऽक्षया । दुर्मती प्रवरा गौरी कासी
नरहरी स्मृता । खेचरी भूचरी गुह्या द्वादशी विष्टि
केवला । त्रैलोक्यविजया काली कराला यडवा परा ।
रौद्री च शिशुमातङ्गी अभेद्या दहनी जिता । बहुला
वर्गभूमिश्च कापाली त्वनिलानला । चन्द्रार्कविम्बभूमी
च ग्रहभूराशिलग्नगा । राहुकाकानकी भूमिः स्वर
भूमिर्द्विधा मता । रुद्रत्रिकालिकाञ्चैव राहुकाष्टविध-
स्तथा । चन्द्रः सप्तविधः सूर्य्यचतुर्धा योगिनी त्रिधा ।
कालवेला त्रिभेदा च तिधिनक्षत्रवारगा । इमानि
भूवलान्यत्र ज्ञात्वा यः प्रविशत् रक्षे । करयस्तस्य
नश्यन्ति मेघा वातहता यथा । सममात्राधिके प्रान्नि
स्वरैश्चक्रैश्च भूबलैः । स्यानसैन्याधिके शत्रौ बणविज्ञान-
संयुते” । एतल्लक्षणानि तत्र दृश्यानि ।

भूभर्तृ पु० याजका० । ६ त० । भूमिपतौ भूमिभर्त्त्रादयोऽप्यत्र ।

भूभुज् पु० भुवं भुड्क्ते भुनक्ति पालयति वा भुज--क्विप् ।

भूपाले जटा० ।

भूभृत् पु० भुवं बिभर्त्ति धारयति, पालयति वा भृ क्विप् । १ पर्वते २ भूपाले च मेदि० ।

भूमण्डल त्रि० ६ त० । मण्डलाकारे भूमिभागे ।

भूमन् पु० बहोर्भावः बहु + इमनिच् “बहोर्लोपो भूश्च बहोः”

इलोपे भ्वादेशः । १ बहुत्वे अतिशये स्वार्थे इमनिण्
प्राप्यत् २ अतिशयबह्वत्वयुते च । “यो वै भूमा तत्मुखं
{??} भूमैव सुखं भूमा त्वेव {??}-
पृष्ठ ४६८९
तव्यः । भूमानं भगवो विजिज्ञासे” छा० उ० । “यो वै
भूमा महत् निरतिशयम् बहुरितिपर्य्यायास्तत् सुखं
ततोऽर्वाक् सातिशयत्वादल्पम् । अतस्तद्भिन्नेऽक्ष्पे सुखं
नास्ति अल्पानां तृष्णाहेतुत्वात् तृष्णा च दुःखवी
जम् । न हि दुःखवीजं ज्वरादि सुख दृष्टं लोके ।
तस्माद्युक्तं नाल्पे सुखमस्तीति । अतो भूमैव सुखम्
तृष्णादिदुःखवीजत्वासम्भवाद्भूम्नः” भाष्यम् तस्मिन् प्रपाठके
च यणात् या भूमा तन्निरूपितं दृश्यम् ।

भूमय त्रि० भू + मयट् । १ मृदात्मके २ छायायां त्रिका० स्त्री ङीप्

भूमि(मी) स्त्री भवन्त्यस्मिन् भूतानि भू--मि किञ्च वा ङीप् ।

१ पृथिव्याम् २ स्थानमात्रे मेदि० ३ जिह्वायां संक्षि० उणा०
योगशास्त्रोक्ते ४ योगिनां चित्तस्यावस्थाभेदे, ५
एकसंख्यायाञ्च । पाण्डुसंख्यादितोऽच् समा० बहु० । द्विभूमः
प्रसादः पाण्डुभूमो देशः । योगोक्तमूमयश्च “तस्य
भूमिषु विनियोगः” पा० सू० उक्ताः । “तस्य संयमस्य
जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः । नह्यजिता-
धरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं
लभते तदभावाच्च कुतः तस्य प्रज्ञालोकः, ईश्वरप्रसादा-
ज्जितोत्तरभूमिकस्य च नाधारभूमिषु परचित्तज्ञानादि
संयमो युक्तः कस्मात् तदर्थस्यान्यतएवावगतत्वात् भूमेरस्या
इयमनन्तरा भूमिः” भा० । सा च भूमिः सप्तप्रकारा
यथोक्तं तत्रैव “तस्य सप्तधा प्रान्तभूमिः प्रज्ञा” पात० सू० ।
“तस्मेति प्रत्युदितख्यातेः प्रत्याम्नायः सप्तधेति अशुद्ध्या-
बरणमलापनमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्त-
गकारैव प्रज्ञा विवेकिनो भवति । तद्यथा परिज्ञातं
ज्ञेयं नास्य पुनः परिज्ञेयमस्ति क्षीणा हेयहेतवी न
पुनरेतेषां क्षेतव्यमस्ति साक्षात्कृतं निरोधसमाधिना
हानम् । भावितो विवेकख्यातिरूपो हानोपाय इत्येषा
चतुष्टवी कार्य्यविमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु
त्रयी चरिताधिकारा बुद्धिगुणा गिरिशिस्वरकूटच्युता
इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः
सह तेनास्तं गच्छन्ति । न चैषां विप्रलीनानां
पुनरस्त्युत्पादः प्रयोजनाभावादिति एतस्यासवस्थायां
शुकसम्बन्धातीतस्यरूपमात्रज्योतिरमलः केवली पुरुष
पत्येतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः
कशल इत्याख्यायते प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल
इत्येव भवति गुणातीतत्वादिति सिद्धा भवति विवेक-
रवा तिर्हामोपायः इति” भा० । “प्रत्युदितख्यातेः वर्त्त-
मानख्यातेः योगिनः प्रत्याम्नायः परामशः अशुद्विरेवा-
वरणं चित्तसत्त्वस्य तदेव मलं तस्यापगमात् चित्तस्य
प्रत्ययान्तरानुत्पादे तामसराजसव्युत्यानप्रत्ययानुत्पादे
निर्विप्लववियेकख्यातिनिष्ठामापन्नस्य सप्तप्रकारैव प्रज्ञा
विवेकिनो भवति विषयभेदात् प्रज्ञामेदः प्रकृष्टोऽन्तो
यासां भूमीनामवस्थानां तास्तथोक्ता यतः परं
नास्ति संप्रकर्षः प्रान्ता भूमयः यस्याः प्रज्ञाया
वियेकख्यातेः सा तथोक्ता ता एव सप्तप्रकाराः
प्रज्ञा भूमीः उदाहरति । तद् यथेति तत्र पुरुष-
प्रयत्ननिष्पाद्यासु चतसूषु भूमिषु प्रथमामुदाहरति
परिज्ञातं हेयं यावत् किल प्राधानिकं तत् सर्वं
परिणामतापसंस्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति हेयं
तत् परिज्ञातम् । प्रान्ततां दर्शयति नास्य पुनः किञ्चिद्
परिज्ञातं परिज्ञेयमस्ति । द्वितीयायाह क्षीणा इति ।
प्रान्ततामाह न पुनरिति । तृतीयामाह साक्षात्कृतं
प्रत्यक्षेण निश्चितं यथा संप्रज्ञातावस्थायामेव निरोध०
समाधिसाध्यं हानं न पुनरस्मात् परं निश्चेतव्यमस्तीति
शेषः । चतुर्थीमाह भावितो निष्पादितः विवेकख्याति-
रूपो हानोपायो नास्याः परं भावनीयमस्ति इति
शेषः । एषा चतुष्टयी कार्य्यविमुक्तिरिति कार्य्यान्तरेख
विसुक्तिः प्रज्ञाया इत्यर्था प्रयत्ननिष्पाद्यामुक्त्वाऽनिष्पा-
दनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्तविमुक्तिस्तु
त्रयो । तत्र ध्रथमासाह चरिताधिकारा बुद्धिकृतभोगाव-
बर्गकार्य्येत्यर्थः । द्वितीयामाह गुणा इति प्रान्ततामाह न
चैवामिति । तृतीयामाह एतस्यामवस्थायामिति तस्या-
मवस्थायां जीवन्नेव पुरुषः कुशलो मुक्त इत्युच्यते
चरमदेहत्वादित्याह एतामिति । अनौपचारिकं मुक्त-
माह प्रतिंप्रभवे प्रधानलयेऽपि चित्तस्य मुक्तः कशल
इत्येव भवति गुणातीतत्वादिति” विवरणम् ।
पृथिवीरूपभूमिगुणाश्च भा० शा० उक्ता यथा “भूमेः स्थैर्य्यं
गुरुत्वञ्च काठिन्यं प्रसवार्थता । गन्धो गुरुत्वं शक्तिश्च
संघातः स्थापना धृतिः” । प्रथमगुरुत्वं पतनविरोधी
गुणः द्वितीयगुरुत्वम् पिण्डपुष्टिरतो न पौनरुक्त्यम् ।
शक्तिः धारणादिसामर्थ्यम् सधातः संञ्जिष्टावयवत्वम् ।
स्यापना मनुष्यादेर्धारणानुफुलव्यापारः । धृतिर्धारणा
इत्यर्थः ।

भूमिकदम्ब पु० भूमिजातः कदम्बः शा० त० । कदम्भभेदे

“त्रिकदम्बाः कटूषप्रास वव्या दोषहरा हिमाः । कपाय
निक्ताः पित्तघ्ना वीर्य्यवृद्धिकरा पराः” राजनि० ।
पृष्ठ ४६९०

भूमिकन्दली स्त्री भूलम्ना कन्दली शा० त० । कन्दली-

भेदे माघः ६ । ३० । मल्लि० ।

भूमिकम्प पु० ६ त० । क्षितिचलने तत्कारणादिकं स

फलविशेषं वृ० स० ३२ अ० उक्तं यथा
“क्षितिकम्पमाहुरेके वृहदन्तर्जलनिवासिसत्त्वकृतम् ।
भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये । अनिलो-
ऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्येके । केचि-
त्त्वदृष्टकारितमिदमन्ये प्राहुराचार्य्याः । गिरिभिः
पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च । आकम्पिता
पितामहमाहामरसदसि सव्रीडम् । भगवन्नाम ममैत०
त्त्वया कृतं यदचलेति तन्न तथा । क्रियतेऽचलैश्चलद्भिः
शक्ताह नास्य खेदस्य । तस्याः सगद्गदगिरं किञ्चित्
स्फुरिताधरं विनतमीषत् । साश्रुविलोचननमवलोक्य
पितामहः प्राह । मन्युं हरेन्द्र! घात्र्याः क्षिप
कुलिशं शैलपक्षभङ्गाय । शक्रः कृतमित्युक्त्वा मा भैरिति
वसुमतीमाह । किन्त्वनिलदहनसुरपतिवरुणाः सदसत्-
फलावबोधार्थम् । प्राग्द्वित्रिचतुर्भागेषु दिननिशोः
कम्पविष्यन्ति । चत्वार्यार्यम्णाद्यान्यादित्यं मृगशिरो
ऽश्वयुक् चेति । मण्डलमेतद्वायव्यमस्य रूपाणि सप्ता
हात् । धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन्
भौमम् । विरुजन् द्रुमांश्च विचरति रविरपटुकरावभासी
च । वायव्ये मकम्पे सस्याम्बुवनौषधीक्षयोऽभिहितः ।
श्वयथुश्वासोम्मादज्घरकासभवा वणिक्पीड़ा । रूपायुध-
भृद्वैद्याः स्त्रीकविगान्धर्वपण्यशिल्पिजनाः । पीड्यन्ते
सौराष्ट्रककुरुमगधदशार्णमत्स्याश्च । पुष्याग्नेषविशाखा-
भरणीपित्र्याजभाग्यसञ्ज्ञानि । वर्गो हौतभुजोऽयं
करोति रूपाण्यथैतानि । तारोल्कापातावृतमादीप्त-
मिवाम्वरं सदिग्दाहम् । विचरति मरुत्सहायः
सप्तार्चिः सप्तदिवसान्तः । आग्नेयेऽम्बुदनाशः सलिला-
शयसङ्क्षयो नृपतितैरम् । दद्रूविचर्चिकाज्वरविसर्पिकाः
पाण्डरोगश्च । दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्म०
काङ्गबाह्लीकाः । तङ्गणकलिङ्गवङ्गद्रविड़ाः शवराश्च
नैकविधाः । अभिजिच्छ्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमै-
त्राणि । सुरपथमण्डलमेतद्भवन्ति चास्य स्वरूपाणि ।
चलिताचलवर्ष्माणो गम्भीरविराविणस्तडित्वन्तः ।
गवचलिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ।
ऐन्द्रं श्रुतिकुलजातिख्यातावनिपालगणपविध्वंसि । अ-
तिसारगलग्रहवदनरोगकृच्छर्दिकोपाय । काशियुगन्धर-
पौरवकिरातकीराभिसारबलभद्राः । अर्बुदसुबास्तुमा-
लबपीड़ाकरमिष्टवृष्टिकरम् । पौष्णाप्यार्द्राश्लेषामूलाहि-
र्बुध्न्यवरुणदैवानि । मण्डलमेतद्वारुणमस्यापि भवन्ति
रूपाणि । नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो
वहुलाः । तडिदुद्भासितदेहा धाराङ्कुशबर्षिखो
जलदाः । वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगत-
वैरम् । गीनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ।
षड्भिर्मासैः कम्पो द्वाम्यां पाकञ्च याति मिर्धातः ।
अन्यानप्युत्पातान् जगुरन्ये मण्डलैरेतैः । उल्का
हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः । वातो
ऽतिचण्डो ग्रहणं रवीत्द्वोर्नक्षत्रतारागणवैकृतानि ।
व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमोऽनग्नेर्विस्फुलिङ्गार्चिषो
बा । वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं
दृश्यते वा । सन्ध्याविकाराः परिवेषखण्डा नद्यः
प्रतीपा दिवि तूर्य्यनादाः । अन्यच्च यत् स्यात् प्रकृतेः
प्रतीपं तत्मण्डलैरेव फलं निगाद्यम् । हन्त्यैन्द्रो वायव्यं
वायुश्चात्यैन्द्रमेवमन्योऽन्यम् । वारुणहीतभुजावपि वेला-
नक्षत्रजाः कम्पाः । पथितनरेश्वरमरणव्यसनान्याग्नेय-
वायुमण्डलयोः । क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते
जनाश्चापि । वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो
लोके । गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः ।
पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् । सद्यः
फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः । पलयति
पवनः शतद्वयं शतमनलो दशयोजनान्वितम् । सलिल-
पतिरशीतिसंयुतं कुलिशधरोऽभ्यधिकं च षष्टिकम् ।
त्रिचतुर्थसप्तमदिने मासे पक्षे तथा त्रिपक्षे च । यदि
भवति भूमिकम्पः प्रधाननृपनाशनो भवति ।”
भूमिचलनादयोऽप्यत्र । “निर्घाते भूमिचलने” म० त० ।

भूमिका स्त्री भूमिरिव कायति कै--क । १ रचनायां “अन्य-

रूपैर्यदन्यस्य प्रवेशस्तत्र भूमिका” इत्युक्ते नान्ये अभिनेय-
पात्रादिवेशान्तरसूचके २ ग्रन्थे ३ वक्तव्यकथोद्वाते ४ कक्षा-
याञ्च “नैयायिकादिभिरात्मा प्रथमभूमिकायामयतारितः”
इति सांख्यप्रवचनभाष्यम् ।

भूमिकुष्माण्ड पु० भूमिजातः कुष्माण्डः शा० त० (भुँइ०

कुमड़ा) ख्याते लताभेदे रत्नमा० ।
पृष्ठ ४६९१

भूमिखर्जूरिका स्त्री भुवि जाता खर्जूरिका शा० त० ।

स्वर्जरिकाभेदे “भूमिखर्जूरिका साद्वी दुरारोहा मृदु-
च्छदा । अथ स्कन्धफला काककर्कटी स्वादुमस्तका ।
पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत् । खर्जूरी
गोस्तनाकारा पराद्द्वीपादिहागता । जायते पश्चिमे
देशे सा छोहोरेति कीर्त्तिता । खर्जूरीत्रितयं शीतं
मधुरं रसपाकयोः । स्निग्धं रुचिकरं हृद्यं क्षतक्षय
हरं गुरु । तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम् ।
कोष्ठमारुतकृद्बल्यं बाह्यवातकफापहम् । ज्वराभिघात-
क्षुत्तृष्णाकासश्वासनिवारणम् । मदमूर्च्छामरुत्पित्त-
मद्योद्भूतगदान्तकृत् । महतीभ्यां गुणैरल्पा स्वल्पखर्जू-
रिका स्मृता । खर्जूरीतरुतोयन्तु मदपित्तकरं भवेत् ।
वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्” भावप्र० ।

भूमिचम्पक पु० भूमिलग्नः चम्पकः शाक० त० (भूइचांपा) वृक्ष-

भेदे शब्दच० ।

भूमिज पु० भूमेर्जायते जन--ड । १ मङ्गलग्रहे २ नरकासुरे

मेदि० ३ भूमिकदम्बे ४ मनुष्ये च राजनि० । ५ भूमिजात-
मात्रे त्रि० । ६ सीतायां स्त्री ।

भूमिजगुग्गुलु पु० कर्म० । आशापुरजाते गुग्गुलौ राजनि०

भूमिजम्बु स्त्री ७ त० । क्षुद्रजम्ब्वां रत्नमा० वा जङ्

तत्रार्थे राजनि० । स्वार्थे क । तत्रार्थे स्त्री अमरः ।

भूमिजीविन् पु० भूमिं तत्कर्षणं जीवति जीव--णिनि ।

वैश्ये शब्दरत्ना० ।

भूमिञ्जय पु० विराटनृपस्य पुत्रभेदे भा० वि० ३५ अ० ।

भूमिधर पु० भूमिं धरति धृ--अच् । १ कुलपर्वते उपचारात्

२ पर्वतमात्रे ।

भूमिप पु० भूमिं पाति पा--क । नृपे जटा० । भूमिपालादयोऽप्यत्र ।

भूमिपक्ष पु० भूमिः पक्ष इवास्य । वाताश्वे हारा० ।

भूमिपति पु० ६ त० । भूपतौ भूमिनाथादयोऽप्यत्र ।

भूमिपिशाच पु० भूमौ पिशाच इव । तालवृक्षे जटा० ।

भूमिपुत्र पु० ६ त० । १ मङ्गलग्रहे २ नरकासुरे च भूमिपुत्रा-

दयोऽप्यत्र । ३ जानक्यां स्त्री गौरा० ङीष् ।

भूमिप्रविभाग पु० सुश्रुतोक्ते औषधाङ्गभूमिविभागे

“अथातो भूमिप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः ।
श्वभ्रशकराश्मविषमवल्मीकश्मशानाऽद्यतनदेवतायतनसिक-
ताभिरनुपहतामनूषरामभङ्गुरामदूराद्रिकां स्निग्धां प्ररो-
हवतीं मृद्वीं स्थिरां समां कृष्णां गौरीं लोहितां वा
मूमिमौषधार्थं परीक्षेत तस्यां जातमपि कृमिविषशस्त्रा-
तपपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टं
पृथ्वपगाढ़मूलसुदीच्यां चौषधमाददीतेत्यौषधभमिपरीक्षा-
विशेषः सामान्यः । विशेषतस्तु । तत्राश्मवती स्थिरा
गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुण-
भूयिष्ठा । स्निग्धा शीतलाऽऽसन्नोदका स्निग्धशस्यतृण-
कोमलवृक्षप्राया शुक्लाऽम्बुगुणभूयिष्ठा । नानावर्णा लघ्व-
श्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा ।
रूक्षा भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृक्षप्रायाऽ-
ऽनिलगुणभूयिष्ठा । मृद्वी समाश्वभ्रवत्यव्यक्तरसजला
सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाश-
गुणभूयिष्ठा । तत्र केचिदाहुराचार्य्याः प्रावृट्वर्षा-
शरद्धेमन्तवस न्त ग्री ष्म यथासंख्यं मूलपत्रत्वक्क्षीर-
सारफलान्याददीतेति तत्तु न सम्यक् कस्मात् सौम्याग्ने-
यत्वाज्जगतः । सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीता-
ग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानि भवन्ति । सौम्यान्यौष-
घानि सौम्येष्वृतृषु गृहीतानि सोमगुणभूयिष्ठायां भूमौ
जातान्यतिमधुरस्निग्धशीतानि जायन्ते । एतेन शेषं
व्याख्यातम् । तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ
जातानि विरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुण-
मूयिष्ठायां वमनद्रव्याणि । उभयगुणभूयिष्ठायामुभयती-
भागानि । आकाशगुणभूयिष्ठायां संशमनान्येवं
बलवत्तराणि भवन्ति । सर्वाण्येव चाभिनवान्यन्यत्र
मधुघृतगुडपिप्पलीविड़ङ्गेभ्यः । सर्वाण्येव सक्षीराणि
वीर्य्यवन्ति तेषामसम्पत्तावनतिक्रान्तसंवत्सराण्याददीतेति ।
भवन्ति चात्र । गोपालास्तापसा व्याधा ये चान्ये
वनचारिणः । मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ।
सर्वावयवसाध्येषु पलाशलवणादिषु । व्यवस्थितो न
कालोऽस्ति तत्र सर्वो विधीयते । गन्धवर्णरसोपेता
षड़्विधा भूमिरिष्यते । तस्माद्भूमिस्वभावेन वीजिनः
षड्रसैर्युताः । अव्यक्तः किल तोयस्य रसो निश्चय-
निश्चितः । रस एव स चाव्यक्तो भूमेरेव रसाद्भवेत् ।
सर्वलक्षणसम्पन्ना भूमिः साधारणी स्मृता । द्रव्याणि
यत्र तत्रैव तद्गुणानि विशेषतः । विगन्धेनापरामृष्ट-
मविपन्नं रसादिभि । नवं द्रव्यं पुराणं वा ग्राह्यमेव
विनिर्दिशेत् । विडङ्गं पिप्पली क्षौदं सर्पिश्चाप्यनवं
हितम् । शेषमन्यत्त्वभिनवं गृह्णीयाद्दोषवर्जितम् ।
जङ्गमानां वयःस्थानां रक्तरोमनखादिकम् । क्षीरमूत्र-
पुरीषाणि जीर्णाहारेषु संहरेत् । प्लोतमृद्भाण्डफलक-
शङ्कुविन्यस्तभेषजम् । प्रशस्तायां दिशि शुचौ भोषजा-
गारमिष्यते ।”
पृष्ठ ४६९२

भूमिमण्ड पु० भूमिं मण्डयति मण्ड--अण् । (हापरमालि)

लताभेदे रत्नमा० ।

भूमिमण्डपभूषण स्त्री भूमिर्मण्डप इव तं भूषयति भूषिल्यु । माधवीलतायाम् राजनि ।

भूमि(मी)रुह पु० भूम्या भूमौ वा रोहति रुह--क । वृक्षे

महीरुहादयोऽप्यत्र ।

भूमिलाभ पु० भूमिर्लभ्यतेऽत्र लभ--आधारे घञ् । मृत्यौ त्रिका० ।

भूमिलेपन न० भूमिर्लिप्यतेऽनेन लिप--करणे ल्युट् ६ त० ।

गोमये हेमच० ।

भूमिवर्द्धन पु० भूमिं वर्द्धयति स्वदेहस्थपार्थिवांशोपचयेन

वृध--णिच्--ल्यु । शवे मृते हेमच० क्षितिवर्द्धनादयोऽप्यत्र

भूमिशय पु० भूमौ शेते शी--अच् । १ बालके २ भूमौ शयाने त्रि०

भूमिष्ठ पु० भूमौ तिष्ठति स्था--क अम्ब० षत्वम् । भूपृष्ठस्थे ।

भूमिसत्त्र न० भूमिदानरूपं सत्त्रं शा० त० । भूमिदानरूपे

यागभेदात्मके सत्त्रे “इक्षुभिः सहितां भूमिं यवगोधूमशालि-
नीम् । गोऽश्ववाहनपूर्णां वा बाहुवीर्य्यादुपार्जिताम् ।
निधिगर्त्तां ददद्भूमिं सर्वरत्नपरिच्छदाम् । अक्षयान्
लभते लोकान् भूमिसत्त्रं हि तस्य तत्” भा० अनु०६२ अ०

भूमिसम्भवा स्त्री भूमिः सम्भवोऽस्याः । १ सीतायां जटा० ।

२ मङ्गलग्रहे ३ नरकासुरे पु० । ४ भूमिजातमात्रे त्रि० ।

भूमिसेन पु० दशममनोःपुत्रभेदे मार्क० पु० ९४ अ० ।

भूमिस्तोम पु० एकाहसाध्ये यज्ञभेदे आश्व० ९५ । २ ।

भूमिस्पृश् पु० भूमिं स्पृशति स्पृश--क्विन् । १ वैश्ये २ मनुष्ये

३ चौरभेदे मेदि० । ४ खञ्जे ५ अन्धे च शब्दरत्ना० ।

भूमी स्त्री भू--मि किच्च ङीप् । १ कृष्णमृत्तिकायां विषापहनन-

हेतुतया साच सुश्रुते उक्ता “भूमी कुरुवकश्चैव गण
एकसरः स्मृतः । एकशो द्विस्त्रिशो वापि प्रयोक्तव्यो
विषापहः” ।

भूमीच्छा स्त्री भूमौ तत्पतने इच्छा । भूमिपतनेच्छायाम् ।

भूमीन्द्र पु० भूमौ इन्द्र इव । नृपे शब्दर० ।

भूमीसह पु० भूमीं सहते सह--अच् । (भुरसर) वृक्षभेदे

“भूमीसहस्तु शिशिरः रक्तपित्तप्रसादनः” भावप्र० ।

भूम्यनन्तर पु० भूमेरनन्तरः । स्वविषयसनिष्टदेशस्थे नृपाणां

शत्रौ कामन्द० ८५९ ।

भूम्य त्रि० भूमिमर्हति यत् । धरार्हे ऋ० ५ । ४१ । १० ।

भूम्यामलकी स्त्री भूमिलग्ना आमलकी शाक० त० । खनाम-

ख्याते क्षुपे राजनि० । “स्यात् भूम्यामलकी तिक्ता कषाया
मघुरा हिमा । पिपासाकासपित्तासृक्कण्डूपाण्डुक्षय-
पणुत्” भावप्र० ।

भूम्यामली स्त्री भूम्या सह आमलति सम्बध्नाति आ + मल

अच् गौ० ङीष् । भूम्यामलक्याम् राजनि० ।

भूम्याहुल्य न० क्षुपभेदे (भूजातखड़) राजनि० । शब्दरत्ना०

भूयस् अव्य० भुवे भावाय यस्यति यस--भावे क्विप् । पुनरर्थे

भूयस् त्रि० अतिशयेन बहुः ईयसुन् । “वहोर्लोपो भूश्चबहोः”

ईलोपः भूरादेशश्च । बहुतरे मेदि० स्त्रियां ङीप् ।

भूयशस् अव्य० भूयस् + वीप्सार्थे शस् सलोपः । बहुश इत्यर्थे

भूयिष्ठ त्रि० अतिशयेन बहुः इष्ठन् भ्वादेशो युक् च । १

बहुतरे २ प्रचुरे च ।

भूयुक्ता स्त्री भुवा युक्ता संबद्धा । भूमिखर्जूर्य्याम् राजनि०

भूर् अव्य० भू--रुक् । अन्तरीक्षलोकादधःस्थे चरणसञ्चार-

योग्यस्थाने लोके भूः स्वाहा इदं भूः यजुषां
देवतोद्देशः ।

भूरि त्रि० भू--क्रिन् । १ विष्णौ २ शिवे ३ इन्द्रे च मेदि० ।

४ स्वर्णे न० शब्दरत्ना० बहु--रि भ्वादेशः ५ प्रचुरे त्रि० अमरः
६ सोमदपुत्रभेदे पु० भा० आ० १८६ अ० । शिवा० अषत्ये
अण् । भौर भूरेरपत्ये पुंस्त्री० ।

भूरिगन्धा स्त्री भूरिः प्रचुरो गन्धो यस्याः । पुरानामगन्धद्रव्ये राजनि० ।

भूरिगम पु० भूरि भारयुक्तत्वेऽपि बहु गच्छति गम--अच् ।

गर्दभे राजनि० स्त्रियां जातित्वात् ङीष् ।

भूरिज् स्त्री भू--इजि ऊश्च रपरः । पृथिव्यां सि० कौ० ।

भूरिदक्षिण त्रि० भूरिर्दक्षिणा यस्य । १ बहुतरदक्षिणा-

दानयुक्ते २ विष्णौ पु० “कपीन्द्रो भूरिदक्षिणः” विष्णुस० ।

भूरिदुग्धा स्त्री भूरीणि दुग्धानि निर्यासा यस्याः । वृश्चि-

कालौ राजनि० ।

भूरिद्युम्न पु० भूरि द्युम्नं यस्य । नवममनोः पुत्रभेदे सुद्रित-

पुस्तके हरिवं० ७ अ० । मार्क० पु० । भूद्युरिम्ण इति
पाठः प्रथमादिकः तदेववाक्यतया भूरिद्युम्न इत्येव
तत्र पाठस्यौचित्यात् ।

भूरिधामन् पु० नवममनोःपुत्रभेदे हरिवं० ७ अ० ।

भूरिपत्र पु० भूरीणि पत्राण्यस्य । उपर्बलतृणे राजनि० ।

भूरिपलितदा स्त्री भूरि पलितमिव दायति दै--क ।

पाण्डुरकदलीवृक्षे राजनि० ।

भूरिपुष्पा स्त्री भूरीणि पुष्पाण्यस्याः । शतपुष्प्याम् राजनि०

भूरिप्रेमन् पु० भूरिः प्रचुरः प्रेमास्य । चक्रवाक राजनि० ।

भूरिफेना स्त्री भूरीणि फेनान्यस्याः । (चामकषा) सप्तला-

वृक्षे अमरः ।

भूरिबला स्त्री भूरीश्चि बलानि यस्याः ५ न० । २ अतिबलायाम्

राजनि० । २ प्रचुरबले त्रि० ३ धृतराष्ट्रपुत्रभेदे पु० भा० श० २७ अ०
पृष्ठ ४६९३

भूरिमल्ली स्त्री भूरि बहु यथा म्यात् यथा मलति मल--लच्

गौरा० ङीष् । अम्बष्ठायाम् राजनि० ।

भूरिमाय पुंस्त्री० भूरयः माया यस्य । १ शृगाले अमरः

स्त्रियां योपधत्वात् टाप् । २ प्रभूतमायायुते त्रि०

भूरिमूलिका स्त्री भूरीणि मूलानि यस्याः कप् टापि अत

इत्त्वम् । अम्बष्ठायाम् नैघण्टुप्र० ।

भूरिशस् अव्य० भूरि--शस् । बहुश इत्यर्थे ।

भूरिश्रवस् पु० ६ ब० । चन्द्रवंश्ये १ सोमदत्तसुते नृपभेदे । भा०

आ० १८७ अ० । २ प्रचुरयशस्के त्रि० ।

भूरिश्रेष्ठिक पु० भूरयः श्रेष्ठिनो यत्र । (भुरसुट्) गौड़-

देशस्थे पुरभेदे “गौड़े राष्ट्रमनुत्तमं निरुपमा तत्रापि
राढ़ा पुरी भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमोनः
पिता” प्रबोधच० ।

भूरिहन् त्रि० भूरीन् हन्ति हन--क्विप् । १ बहुतरनाशके

२ असुरभेदे पु० भा० शा० २२७ अ० ।

भूरुण्डी स्त्री भुवं रुण्डति आच्छादयति रुडि--आवृतौ

(माधववृत्तौ पठितः) अण् उप० स० । (हातिशुँड़ा)
वृक्षभेदे अमरः ।

भूरुह पु० भुवि रोहति रुह--क ७ त० । महीरुहे वृक्षे शब्द मा०

भूर्ज पु० ऊर्ज--अच् ७ त० । स्वनामख्याते वल्कप्रधाने वृक्षे ।

“भूर्जत्वचः स्पर्शवतीर्दधानाः” कुमा० । “भूर्जः कटुः
कषायोष्णः भूतरक्षाकरः परः । त्रिदोषशमनः पथ्यः
दुष्टकौटिल्यनाशनः” राजनि० । “कर्णरोगपित्तकफ
मेदोविषहरश्च सः” भावप्र० ।

भूर्जकण्टक पुंस्त्री० “ब्रात्यात्तु जायते विप्रात् पापात्मा

भूर्जकण्टकः” मनूक्ते जातिभेदे स्त्रियां ङीष् ।

भूर्जपत्र पु० भुवि--ऊर्जं पत्रं यस्य । स्वनामख्याते वृक्षे ।

भूर्जत्वगादयोऽप्यत्र रत्नमा० ।

भूर्णि स्त्री भृ--नि नि० ऊश्च रपरः । पृथिव्यां सि० कौ० ।

भूर्लोक पु० कर्म० । वादसञ्चारयोग्यस्थानरूपे लोके ।

भूलग्ना स्त्री भूवि लग्ना ७ त० । शङ्खपुष्प्याम् राजनि० ।

भूलता स्त्री भुवि लतेब । महीलतायां (केँचो) सरीसृप-

भेदे हेम० ।

भूलिङ्गशकुनि पु० भूलिङ्गः शकुनिः कर्म० । बिलशायिनि

पक्षिभेदे “प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा”
भा० स० ४१ अ० । तद्विवृतिर्यथा
“अथ चैषा न ते बुद्धिः प्रकृतिं याति मारत! । गयैव
कथितं पूर्वं भूलिङ्गशकुनिर्यथा । भूलिङ्गशकुनि-
र्नाम पार्श्वे हिमवतः परे । भीष्म! तस्याः सदा वाचः
श्रूयन्तेऽर्थविगर्हिताः । मा साहसमितीदं सा सततं
वाशते किल । साहसं चात्मनातीव चरन्ती नावबुध्यते ।
साहि मांसार्गलं भीष्म! मुखात् सिंहस्य खादतः ।
दन्तान्तरविलग्नं यत्तदादत्तेऽनल्पचेतना । इच्छतः सा
हि सिंहस्य भीष्म! जीवत्यसंशयम् । तद्वत्त्वमप्य
धर्मिष्ठ! सदा वाचः प्रभाषसे भा० स० ४४ अ० । “भूलिङ्ग
शकुनिर्यथान्यद्वदत्यन्यत् करोति तद्वत्ते शुद्धं कामयन्ते
शबलं वदन्तीत्यर्थः भुवं लिङ्गतीति भूलिङ्गो बिलशायी
पक्षिविशेषः एषेति पाठे एषा अस्मदीया बुद्धिस्ते
त्वदीया त्वद्वत्ते इति योज्यं तदा स्वसैव शकुन्युप्रमत्वम्
अर्थविगर्हिताः उक्तिविपरीतक्रियया अर्थोविगर्हितो
यासां ताः । वाशते शब्दं करोति । मांसार्गलं दंष्ट्रा-
न्तरलग्नस्य मांसस्य वहिर्निर्गतभागमुल्लोलम् इच्छति
इति । सा हि पक्षिणी मृत्युमुखे प्रविष्टापि तदुपेक्षया
जीवन्ती यथा लोकानुपदिशति मा साहसभिति तथा
त्वमुपदेशकारित्वात् मृत्युमुखे पतितोऽपि मृत्युना
उपेक्षितो जीवस्यस्मांश्चोपदिशसि मृत्युमुखे न पतितव्य-
मिति” नील० ।

भूवलय न० भूर्वलयमिव । भूमिपरिधौ ।

भूशमी स्त्री भूलग्ना शमी शाक० त० । लघुशम्यां मदनपाल निघण्टुः

भूशय पु० भुवि शेते शी--अच् ७ त० । १ बिलशये नकुलादौ ।

२ विष्णौ च “भूशयो भूषणो भूतिः” विष्णु स० । स हि
रामावतारे समुद्रबन्धनाय सागरोपान्तभूमौ शयित
इति तस्य तथात्वम् ।

भूशर्करा स्त्री भुवि ख्याता शर्करा शा० त० । कन्दभेदे नैघण्टुप्र०

भूशेलु पु० भुवि ख्याता शेलुः शा० त० । भूकर्वुदारके

राजनि० ।

भूष मण्डने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

भूषयति ते भूषति अबूभुषत्--त अभूषीत् ।

भूषण न० भूष्यतेऽनेन भूष--करणे ल्युट् । १ अलङ्कारे किरी-

टादौ । भावे ल्युट् । २ भूषायाम् । अलङ्कारभेदाः
तत्साधनद्रव्याणि यथा
“किरीदञ्च शिरोरत्नं कुण्डलञ्च ललाटिका । तालपत्रञ्च
हारश्च ग्रैवेयकमथोर्मिका । प्रालम्विका रत्रसूत्रमुत्तङ्गो-
ऽथर्क्षमालिका । पार्श्वद्योतो नखद्योतोह्यङ्गुलीच्छादक
स्तवा । कटिलग्नं माणवको मूर्द्धतारा ललन्तिका । अङ्गदो
पृष्ठ ४६९४
बाहुवलयः शिस्याभूषणमिङ्गिका । प्रगण्डबन्धं
तत्पाशं नाभिपूरोऽथ मालिका । सप्तकी शृङ्खलञ्चैव
दण्डपत्रञ्च वर्णकः । जरुसूत्रञ्च नीवी च मुष्टिवद्धं
प्रकीर्णकम् । पादाङ्गदं हंसकञ्च मूधुरं क्षुद्रघण्टिका ।
सुखपट्टमिति प्रोक्ता अशङ्काराः सुशोभनाः । चत्वा-
रिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः । अमङ्काराः
प्रदानेन चतुर्वर्गप्रदायकाः । एतेषां पूजनं कृत्वा
प्रदद्यादिष्टसिद्धये । तेषां दैवतमुच्चार्य्य पूजयेत्तु विच
क्षणः । शिरोगतानि चादद्यात् सौवर्णानि तु सर्वदा ।
चूड़ारत्नादिकानीह भूषणानि तु भैरव! । ग्रैवेयका-
दिहंसान्तं सौवर्णं राजतञ्च वा । निवेदयेत् तु देवेभ्यो
नान्यतैजससम्भवम् । रीतिवङ्गादिसंजातं पात्रोपकार-
णादिकम् । दद्यादायसवर्जन्तु भूषणं न कदाचन ।
घण्टाचामरकुम्भादिपात्रोपकरणादिकम् । तद्भूषणान्तरे
दद्यात् यस्मात्तु तदुपभूषणम् । सर्वं ताम्रमयं दद्याद्
यत् किञ्चिद्भूषणादिकम् । सर्वत्र स्वर्णवत्ताम्रमर्घ्यपात्रे
ततोऽधिकम् । पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम् ।
औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा । ताम्रे
देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः । सर्वप्रीतिकरं
ताम्रं तस्मात्ताम्रं प्रयोजयेत् । स्मोपयोगे नरः कुर्य्या-
द्देवानामपि पैरव! । ग्रीवोर्द्धदेशे रौप्यन्तु न कदाचिच्च
भूषणम् । प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च ।
पर्य्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम् । अयोमयमृते
कांस्यमृते यद्भूषणं भवेत् । स्वर्णरौप्यस्य चाभावे त्वधः-
काये नियोजयेत् । एतेषां भूषणादीनां यद्दातुं शक्यते
नरैः । तत्तद्दद्यात् सम्भवे तु सर्वमेव प्रदापयेत् ।
चतुर्वर्गषदं नित्यं भूषणं सर्वसौख्यदम् । तुष्टिपुष्टि
प्रीतिकरं यथाशक्तीष्टये सृजेत् । इदं ते भूषणं प्रोक्तं
सर्वदेवस्य तुष्टिदम्” कालि० पु० ६८ अ० । तद्धारणदिनमुच्यते
“रिवत्यश्विप्लनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधस्या-
ह्नि वस्त्रालङ्कारधारणम् । अनिष्टेष्वपि निर्दिष्टं वस्त्रा-
लङ्कारधारणम् । उद्वाहे राजसम्भाने ब्राह्मणानाञ्च
सम्मते । शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गुदन्तथा ।
कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात् । प्रधान-
भूषणान्येषु यथोस्वं याति निश्चयः । पद्मरागश्च वज्रञ्च
विजयो गोमेदस्तथा । मुक्तावैदूर्य्यनीलञ्च तथा
मरकतं क्रमात् । आदित्यादिदशाजानां सर्वसम्पत्ति-
दावकाः । शुभर्क्षेणापि घटना सर्वेषामुपयुज्यते ।
प्रधानभूषणेष्वेवमप्रधाने न निर्णयः । प्रधानभूषणं
प्रायः शिरसो ह्यभिधीयते । तस्य प्रधानभूतत्वादित्याह
भृगुनन्दनः । सुखदा मणयः शुद्धा दुःखदाः
दोषशालिनः ।” इति युक्तिकल्पतरुः ।

भूषा स्त्री भूष--भावे अ । मण्डनक्रियायाम् अमरः ।

भूषित त्रि० भूष--क्त । अलङ्कृते ।

भूष्णु त्रि० भू--ग्ष्णु । भवनशीले ।

भूसंस्कार पु० ६ त० । यज्ञादौ भूमिभागस्य परिसमूह नोपलेपन

रेखाकरणपांशूद्धरणजलकरणकाभ्युक्षणरूपेषु पञ्चसु
संस्कारेषु तत्प्रकारश्च कात्या० श्रौ० २ । १ । २४ सूत्रपद्धतौ
दर्शितो यथा “तत्र पूर्वमाहवनीयस्वरे पञ्च भूसंस्कारा
कर्त्तव्याः तद्यथा दर्मैः खरं प्राक्संस्थमुदक्संस्थं वा
त्रिः परिसमूह्य १ गोमयेन त्रिरुपलिप्य २ स्फेन प्रागा-
यता उदक्संस्था उदगायताः प्राक्संस्था वा तिस्रो
लेखाः स्वरप्रमाणाः कृत्वा ३ अनासिकाङ्गुष्ठेन ताभ्यो
रेखाभ्यः पांशूनुद्धृत्य ४ अद्भिस्त्रिरभ्युक्षेत्” ५ । परिसमूहनं
(तृणानामपलुम्पनम्) कात्या० श्रौ० ४ । १२ । १० कर्कः ।

भूसुत पु० ६ त० । १ मङ्गलग्रहे शब्दमा० २ नरकासुरे च ३

सीतायां स्त्री ।

भूस्तृण न० भुवस्तृणम् पृषो० सुट् । भूतृणे चात्राके अमरः

“गुह्यवीजञ्च भूतीकं सुगन्धं गोमयप्रियम् । भूस्तृण-
न्तु भवेच्छत्रा माला तृणकमित्यपि । भूस्तृणं कटुकं
तिक्तं तीक्ष्णोष्णं रोचनं लघु । विदाहि दीपनं रूक्ष-
मनेत्र्यं मुखशोधनम् । अवृष्यं बहुविट्कञ्च पित्त-
रक्तपदूषणम्” भावप्र० ।

भूस्पृश पु० भूमिं स्पृशति स्पृश क्विन् । मनुष्ये हेमच० ।

भूस्वर्ग पु० भूमिस्थितः स्वर्गः शा० त० । सुमेरुपर्वते जटा०

तस्यामरधारत्वेन स्वर्गत्वात् तथात्वम् ।

भृ भरणे भ्वा० उभ० सक० अनिट् । भरति--ते अभार्षीत् बभार बभ्रे ।

भृ धारणे पोषणे च जु० उभ० सक० अनिट् । बिभर्त्ति बिभृते

अभार्षीत् अभृत । बिभरामास--बभार । द्वित् । अथु
भरथुः । ड्वित् । क्त्रि--मप् च । भृत्त्रिमः ।

भृकुंस(श) पु० भ्रुवा कुंसा(शा) इङ्गितज्ञापनं यस्य नि०

भ्रुवः वा संप्रसारणम् । स्त्रीवेशधारिणि नटे अमरः ।

भृकुटि(टी) स्त्री भ्रुवः कुटिः भङ्गिः वा संप्रसारणं वा

ङीपू । भ्रुभङ्गे “रचितभृकुटिबन्धं नन्दिना द्वारिरुद्धे”
हरविलासः ।
पृष्ठ ४६९५

भृगु पु० । भृज्जति क्विप् भृक् ज्वाला तया सहोत्पन्नः ।

१ ब्रह्मणः पुत्रे ऋषिभेदे “भृगित्येव भृगुः पूर्वमङ्गारेभ्यो-
ऽङ्गिराऽभवत् । अङ्गारसंश्रयाश्चैव कविरित्यपरोऽभवेत् ।
सह ज्वालाभिरुत्पन्नो भृगुस्तस्मात् भृगुः स्मृतः” भा०
अनु० ८५ अ० । “भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्व-
सुदधेः पुनः । तथा धाता विधाता च तस्यां जातौ
भृगोः सुतौ । आयतिर्नियतिश्चैव मेरुकन्ये
महाप्रभो! । धातुर्विधातुस्ते भार्य्ये ययोर्जातो सुतावुभौ ।
प्राणश्चैव मृकण्डुश्च मार्कण्डेयी मृकुण्डतः । ततो वेद
शिरा जज्ञे प्राणस्य द्युतिमान् सुतः । ततो वंशो मुनि-
श्रेष्ठा! विस्तरं भार्गवो गतः” वह्निपु० । २ महादेवे ३ शुक्र-
ग्रहे मेदि० । ४ गिरिसानौ ५ जमदग्नौ हेम० । ६ निरव-
लम्बने पर्वताद्युच्चस्थाने यतः पातेऽवलम्बनं न भवति
तस्मिन् अतटस्थाने अमरः । भृगोर्गोत्रापत्यानि अण्
बहुषु तस्य लुक् । ८ भृगोरपत्येषु ब० व० । ९ वरुणापत्ये
ऋषिभेदे “भृगुर्वै वारुणिर्वरुणं पितरमुपससाद” तैत्ति० उ० ।

भृगुक पु० कूर्मचक्रस्य दक्षिणपार्श्वस्थे देशभेदे मार्कपु० ५८ अ० ।

भृगुकर्ण पु० तीर्थभेदे काशी० ६ अ० ।

भृगुकेशव पु० काशीस्थे भृगुस्थापितकेशवमूर्त्तिभेदे काशी० २३ अ० ।

भृगुज पु० भृगोर्जायते जन--ड । भार्गवे शुक्राचार्य्ये ।

भृगुतनय पु० ६ त० । शुक्राचार्य्ये भृगुनन्दनभृगुसुतादयोऽप्यत्र

भृगुतुङ्ग न० तीर्थभेदे भा० आ० २१५ अ० । भा० व० ८४ अ० ।

भृगुपति पु० भृगूणां भार्गववंशस्य पतिः । परशुरामे शब्दमा०

तेषां हैहयपतितो हि तेन रक्षा कृता इति तस्य तथात्वम्

भृगुभूमि पु० भार्गवपुत्रभेदे हरिवं० ३ अ० ।

भृगुवल्ली स्त्री भृगुणाऽधीता बल्ली । “भृगुर्वै वारुणिर्वरुणं

पितरमुपससादं” इत्यादिकायां तैत्तिरोयापनिषदः तृतीय-
यङ्ख्याम् ।

भृगूणांपति पु० ६ त० अलुक्स० । परशुरामे शब्दर० ।

भृङ्ग पु० भृ--गन् कित् लट् च । भ्रमरे २ कलिङ्गविहगे

(सिङ्गा) अमरः । ३ भृङ्गराजे ४ जारे मेदि० ५ भृङ्गार
६ भृङ्गरोखे च कीटभेदे (मीमरुल) शब्दरत्ना० ।

भृङ्गक पु० भृङ्ग इव कायति कै--क । राजवाशनखगे शब्दच०

भृङ्गजा स्त्री भृङ्ग इव जायते जन--ड । १ भार्ग्याम् । २

अगुरुचन्दने न० राजनि० ३ अभ्रके ४ गुड़त्वचि न० रत्नमा० ।

भृङ्गपर्णी स्त्री भृङ्ग इव कृष्णत्वात् पर्णं यस्याः ङीप् ।

सूक्ष्मैलायाम् । स्वार्थे क । भृङ्गपर्णिका तत्रार्थे शब्दच०

भृङ्गप्रिया स्त्री ६ त० । मादवीलतायां प्रचुरमधुमत्त्वात्

तस्यास्तत्प्रियत्वम् राजनि० ।

भृङ्गमूलिका स्त्री भृङ्गस्य भृङ्गराजस्येव मूलमस्याः कप्

कापि अत इत्त्वम् । भ्रमरच्छक्क्याम् राजनि० ।

भृङ्गरज पु० भृङ्गान् रञ्जयति अन्तर्भूतण्यर्थे रन्ज--अच्

पृषो० नलोपः । भृङ्गराजे (केशुरिया) । भरतः ।

भृङ्गरजस् पु० भृङ्गान् रजयति अन्तर्भूतण्यर्थे रन्ज--असुन्

नलोपः । भृङ्गराजे अमरटीकायां भरतः ।

भृङ्गराज पु० भृङ्गान् रजयति रन्ज--णिच्--अण् नि०

६ त० । (केशुरिया) । १ क्षुपभेदे । “भृङ्गराजः
लटुस्तिक्तो रूक्षोष्णः कफवातनुत् । केश्यस्त्वच्यः कृमिश्वास-
कासशोथामयापहृत् । दन्त्यो रसायनी बल्यः कण्ठनेत्र-
क शिरोर्त्तिजित्” भावप्र० २ पक्षिभेदे ६ त० टच् । ३ भ्रमर-
श्वेष्ठे मेदि० ४ यक्षभेदे च धरणिः ।

भृङ्गराजाद्य न० “भृङ्गराजरसप्रस्थे यष्टोमधुपलेन च ।

तैलस्य कुड़नं पक्वं सद्यो दृष्ठिं प्रसादयेत् । तत् स्याद्
बलीपलितघ्नं मामेनैतन्न संशयः” चक्रदत्तोक्ते तैलभेदे ।

भृङ्गरिट(टि) पु० भृङ्ग इव रटति अच् इन् वा पृषो० अत

इत्त्वम् । शिवपार्श्वचरभेदे ।

भृङ्गरोल पु० भृङ्ग इव रौति रु--अच् । (भीमरुल) ख्याते कीटभेदे त्रिका० ।

भृङ्गवल्लभ पु० ६ त० । १ धाराकदम्बे २ भूमिकदम्बे च । भृङ्गवत्

लभ्यते लभ--क । २ भूमिजम्ब्वाम् स्त्री राजनि० ।

भृङ्गसोदर पु० भृङ्गस्य सोदर इव । (केशुरिया) केशराजे त्रिका०

भृङ्गानन्दा स्त्री आनन्दयति आ + नन्द + णिच्--अच् ६ त० ।

यूथिकायाम् (युइ) राजनि० ।

भृङ्गाभीष्ट पु० अभि + ष--क्त ६ त० । आम्रवृक्षे राजनि० ।

भृङ्गार पु० बभर्त्ति जलं भृ--आरक् नि० । १ स्वर्णमयजलपात्र-

भेदे अमरः २ जलपात्रभेदे च (झारी) । भृङ्ग इव
ऋच्छति ऋ--अच् । ३ भृङ्गराजे जटा० । ४ लवङ्गे ५ सुवर्णे च
न० राजनि० । ६ झिल्लीनामकीटे स्त्री अमरः गौरा०
ङीष् । स्वार्थे क । भृङ्गारिका तत्रैव । तत्र भृङ्गार
पात्ररचनादिकं युक्तिकल्पतरावुक्तं यथा
“राज्ञोऽभिषेकपात्रं यद् भृङ्गार इति तन्मतम् । तदष्टधा
तस्य मानं प्रकृतिश्चापि चाष्टधा । सौवर्णं राजतं भौमं
ताम्रं स्फाटिक्रमेब च । चान्दनं लौहजं शार्ङ्गमेत-
दष्टविधं मतम् । भानु १२ दिङ् १० नवसप्ताष्टरुद्र ११
लोक३ सुरोन्मिताः ३३ । अष्टावष्टौ समाख्याता आयामपरि-
णाहयोः । द्विचतुर्वाण ५ वेदाब्धि ४ वाण ४ सप्ताष्टवृत्तिता ।
यथाक्रमं समुद्दिष्टमादित्यादिदशाभुवाम् । पद्मरागस्तथा
वज्रं बेदूर्य्यं मौक्तिकन्तथा । नीलं मारकतञ्चेव मुक्ता
पृष्ठ ४६९६
च सप्तकीर्त्तिताः । भृङ्गारसप्तके न्यास्या न भौमो
मणिमर्हति । कानकं मृण्मयं वापि सर्वेषामुपयुज्यते ।”
“कानकन्तु क्षितीशानां मृण्मयं सार्वभौतिकम् । शङ्ख-
पद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् । चतुर्विधानां
भूपानां चान्द्रः (रौप्यः) सर्वत्र शस्यते । श्वेतं रक्तं तथा
पीतं कृष्णं चन्दनमुच्यते । एतेषां सलिलैः सेकश्चतुर्णां
स्यान्मयीभुजाम् । मल्ली पद्मञ्च नीलञ्च तथा कृष्णाप-
राजिता । एषां पुष्याणि केशेषु चतुर्जातिमही
भूजाम् । हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च ।
चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि । इत्थं
निश्चित्य यः कुर्य्यान्नृपतिः सेकमात्मनः । सं चिरायु-
र्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन्” ।

भृङ्गारि स्त्री भृङ्गवद्वणमृच्छति ऋ--इन् । १ केरिकापुष्पे

२ भ्रमरच्छल्ल्यां राजनि० ।

भृङ्गाह्वा पु० भृङ्गमाह्वयते स्वर्द्धते आ + ह्वे--क । १ जीरके

२ भृङ्गराजे च ३ भ्रमरच्छल्यां स्त्री राजनि० ।

भृङ्गि पु० भृ--निक् नुट् च । शिवपार्श्वचरभेदे । “प्राप्ता

गणाधिपत्यं त्वं नाम्ना भृङ्गिरिति स्मृतः” वामनपु० ।

भृङ्गिन् पु० भृङ्गस्तद्वर्णः कृष्णत्वादस्त्यस्य इनि । १ वटवृक्षे

राजनि० २ शिवानुचरभेदे । तस्य शिवतेजो जातत्वेऽपि
कृष्णत्वात् तद्धामता यथोक्तं कालिकापु० ४५ अ० यथा
“अग्नावुत्सृज्यमानस्य तजसः शशभृद्भृतः । अणुद्वत-
मतिस्वल्पं गिरिप्रस्थे पपात ह । तयोः कारणयोः
बद्यः सम्भूतौ शङ्करात्मजौ । एको भृङ्गलमः कृष्णो
भिन्नाञ्जननिभोऽपरः । भृङ्गी तस्य तदा ब्रह्मा नाम
भृङ्गीति चाकरोत् । महाकृष्णैकरूपस्य महाकालेति
लोकभृक्” । वामनपु० तु अन्धकासुरस्यैव शिववरेण भृङ्गि-
रूपत्व गणाधिपत्यञ्च जातमित्युक्तम् ।

भृङ्गी स्त्री भृ--गन् कित् नुट् च गौरा० ङीष् ।

अतिविषायाम् राजनि० ।

भृङ्गीफल पु० भृङ्ग्या अतिविषाया इव फलमस्य । आम्रातके राजनि० ।

भृङ्गीश पु० ६ त० । महादेवे शब्दरत्न० ।

भृङ्गेरिटि पु० भृङ्गरिटि + पृषो० । भृङ्गिणि शिवपार्श्वचरे त्रिका० ।

भृङ्गेष्टा स्त्री ६ त० । १ घृतकुमार्य्यां २ भार्म्यां ३ तरुण्यां

४ काकजम्ब्वाञ्च राजनि० ।

भृज भर्जने (भाजा) पाकभेदे भ्वा० आत्म० सक० सेट् । भर्जते

अभर्जिष्ट । ईदित् निष्ठायां नेट् भृक्तः ।

भृज्जन पु० भ्यसज--करणे क्युत् सम्प्र० । अम्बरीषे (भाजनाखोला) उज्ज्व०

भृणीय क्रोधे भा० आत्म० सक० सेट् निघण्टुः । भृणीयते ।

अभृणीरिष्ट ।

भृण्टिका स्त्री भिरिण्टिका पृषो० । श्वेतगुञ्जायाम् राजनि० ।

भृण्डि स्त्री वीचौ हारा० ।

भृत त्रि० भृ--क्त । १ पुष्टे वेतनादिना प्रतिपालिते २ दासभेदे

च । “उत्तमस्त्वायुधीयो यो मध्यमस्तु कृषीवलः । अधमो
भारवाही स्यादित्येवं त्रिविधो भृतः” मिता० । भावे--क्त ।
४ भरणे न० ।

भृतक त्रि० भृतं भरणं वेतनमुपजीवति कन् । वेतनोष-

जीविनि अमरः “भृतकाध्यापको यस्तु नृतकाध्यापित-
स्तथा” मनुः । भृतकभेदाः शुक्रनीतिसारे ४ स्य० उक्ता यथा
“दश प्रोक्ताः पुरोधाद्या ब्राह्मणाः सर्व एव ते । अभावे
क्षत्रिया योज्यास्तदभावे तथोरुजाः । नैव शूद्रास्तु
संयोज्या गुणवन्तोऽपि पार्थिवैः । भागग्राही अत्रियस्तु
साहसाधियतिश्च सः । ग्रामपो ब्राह्मणो योज्यः
कायस्थो लेखकस्तथा । शुक्लग्राही तृ वैश्यो हि प्रति-
प्रतिहारश्च पादजः । सेनाधिपः क्षत्रियस्तु ब्राह्मण-
स्तदभावतः । न वैश्यो न च वै शूद्रः कातरश्च
कदाचन । सेनापतिः शूर एव योज्यः सर्वासु जातिषु ।
भसङ्करचर्तुर्वर्णधर्मोऽयं चैव पावनः । यस्य वर्णस्य
यो राजा स वर्णः सुखमेधते । नोपकृतं मन्यते स्य न
तुष्यति मुसेवनैः । कथान्तरे न स्मरति शङ्कते प्रलप-
त्यपि । क्षुभ्रस्तनोति मर्माणि तं नृपं भृतकस्त्यजेत्”

भृति स्त्री भृ--क्तिन् । १ भरणे २ पोपणे च करणे क्तिन् ।

३ वेतते अमरः ४ सूल्ये च मेदि० । भृत्यभेदानां भृति-
दानप्रकारादिकं शुक्रनीतिसारे उक्तं यथा
“कालमानं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम् ।
भृतिदाने सदा सौरं चान्द्रं कौसीदबुद्धिषु । कल्पवेत्
सावनं नित्यं दिनभृत्येऽवधौ सदा । कार्य्यमाना
कालमाना कार्य्यकालमितिस्त्रिधा । भृतिरुक्ता तु तद्विज्ञैः
सा देया भाषिता यथा । अयं भारस्त्वया तत्र स्थाप्य-
स्त्वैतावतीं भृतिम् । दास्यामि कार्य्यमाना सा कीर्तिता
तन्निदेशकैः । वत्सरे वत्सरे वापि नासि मासि दिने
दिने । एतावतीं भृतं तेऽहं दास्यामीति च कालिकी ।
एतावता कार्य्यामिदं कालेनापि त्वया कृतम् । भृतिमेता-
वतीं दास्ये कार्य्यकालमिता च सा । न कुर्य्याद् भृति-
लोपं तु तथा भृतिविलम्बनम् । अवश्यपोष्यभरणा-
भृयिर्मध्या प्रकीर्त्तिता । परिपोष्या भृतिः श्रेष्ठा स सा-
पृष्ठ ४६९७
न्नाच्छादनार्थिका । भवेदेकस्य भरणं यथा सा
हीनसंज्ञिका । यथा यथा तु गुणवान् भृतकस्तद्भृतिस्तथा ।
संयोज्या तु प्रयत्नेन नृपेष्णात्महिताय वै । अवश्य-
पोष्यवर्गस्य भरणं भृतकाद्भवेत् । तथा भृतिस्तु सयोज्या
तद्योग्या भृतकाय यै । ये भृत्या हीनभृतिकाः शत्रवस्ते
स्वयं कृताः । परस्य साधकास्ते तु छिद्रे कोशप्रजा
हराः । अन्नाच्छादनमात्रा हि भृतिः शूद्रादिषु स्मृता ।
तत्पापभागन्थथा स्यात् पोषको मांमभोजिषु । यद्
ब्राह्मणेनापहृतं धनं तत् षरलोकदम् । शूद्राय दत्त-
मपि यन्नरकायैव केवलम् । मन्दो मध्यस्तथा शीघ्र-
स्त्रिविधो भृत्य उच्यते । समा मध्या च श्रेष्ठा च
भृतिस्तेषां क्रमात् स्मृता । भृत्यानां गृहकृत्यार्थं दिवा-
यामं समुत्सृजेत् । निशि यामत्रयं नित्यं दिनभृत्ये-
ऽर्द्धयामकम् । तेभ्यः कार्य्यं कारयीत ह्युत्सवाद्यै-
र्विना नृपः । अत्यावश्यं तूतसयेऽपि हित्वा श्राद्ध-
दिगं सदा । पादहीनां भृतिं त्वार्त्ते दद्यात् त्रैमा-
सिकीं ततः । पञ्चवत्सरभृत्ये तु न्यूनाधिक्यं यथा
तथा । षाण्मासिकीं तु दीर्धार्त्ते तदूर्ध्वं न च
कल्पयेत् । नैव पक्षार्द्धमार्तस्य हातव्याल्पापि वै भृतिः ।
संवत्सरोषितस्यापि ग्राह्यः प्रतिनिधिस्ततः । सुमहद्-
गुणिनं त्वार्तं भृत्यर्द्धं कल्पयेद् सदा । सेवां विना नृपः
वक्षं दद्याद् भृत्याय वत्सरे । चत्वारिंशत् समानीताः
सेवया येन वै नृपे । ततः सेवां विना तस्यै भृत्यर्द्धं
कल्पयेत् सदा । यावज्जीवं तु तत्पुत्रेऽक्षमे बाले तद
र्द्धकम् । भार्य्यायां वा सुशीलायां कन्यायां वा स्वश्रे-
य{??} । अष्टमांशं पारितोष्यं दद्याद् भृत्याय वत्सरे ।
कार्य्याष्टमांशं वा दद्याद् कार्य्यं द्रानक्षिकं कृतम् ।
स्मामिकार्य्ये बिनष्टो यस्तत्पुत्रे तद्भृतिं वहेत् । यावद्
बालोऽन्यथा पुत्रगुणान् दृष्ट्वा भृतिं बहेत् । षष्ठांशं वा
चतुर्थांशं भृतेर्भृत्यस्य पालयेत् । दद्याद् तदर्द्धं भृत्याय
द्वित्रिवर्षेऽखिलां तु वा । वाक्पारुष्यान्न्यूनभृत्या स्वामी
प्रबलदण्डतः । भृत्यं प्रशिक्षयेन्नत्यं शत्रुत्वं त्वप-
मानतः । भृतिदानेन सन्तुष्टा मानेन परिबर्द्धिताः ।
सात्त्विता मृदुवाचा ये न त्यजन्त्यधिपं हि ते । अधमा-
धनमिच्छन्ति धनमानौ तु मध्यमाः । उत्तमा
मानभिच्छन्ति मानो हि महतां धनम् । यथागुणान्
स्वभृत्यांश्च प्रजाः स्वंरञ्जयेन्नृपः । शाखाप्रदानतः कांश्चि
दपरान् फलदानतः । अस्यान् सुचक्षुषा हास्यैस्तथा को-
मलया गिरा । सुभोजनैः सुवसनैस्ताम्बूलैश्च धेनैरपि ।
कांश्चित् सुकुशलप्रश्नैरधिकारप्रदानतः । वाहनानां प्रदा-
नेन योग्याभरणदानतः । छत्रातपत्रचमरदीपिकानां
प्रदानतः । क्षमया प्रणिपातेन मानेनाभिगमेन च ।
सत्कारेण च दानेन ह्यादरेण समेन च । प्रेम्णा-
समीपवासेन स्वार्धासनप्रदानतः । सम्पूर्णासनदानेन
स्तुत्योपकारकीर्त्तनात् यत्कार्य्ये विनियुक्ता ये कार्य्या-
ङ्कैरङ्कयेच्च तान् । लोहजैस्ताम्रजेरीतिभवैरजतसम्भवैः ।
सौवर्णै रत्रजैर्वापि यथायोग्यैः स्वलाञ्छनैः । प्रविज्ञा-
नाय दूरात् तु वस्त्रैश्च मुकुदैरपि । वाद्यवाहनभेदैश्च
भृत्यान् कुर्य्यात् पृथक् पृथक् । स्वविशिष्टं च यच्चिह्नं
न दद्यात् कस्यचिन्नृपः” ।
४ अ० तत्र विशेष उक्तो यथा “कालं भृत्यवधिं देयं दत्तं
भृत्यस्य लेखयेत् । कति दत्तं हि भृत्येभ्यो वेतनं पारि-
तोषिकम् । तत्प्राप्तिपत्रं गृह्णीयादृद्याद्वेतनपत्रकम् ।
सैनिकाः शिक्षिता ये ये तेषु पूर्णा भृतिः स्मृता ।
व्यूहाम्यासे नियुक्ता ये तेष्वर्द्धां भृतिमावहेत्” “स्व-
कार्य्यसाधका ये तु सुभृत्या पोपयेच्च तान् । लोभेना
सेवनाद्भिन्नास्तेष्वर्द्धां भृतिमावर्हेत् । शत्रुत्यक्तान् सुगु-
खिनः सुभृत्या पालयेन् नृपः । परराष्ट्रे हृते दद्यात्
भृतिं मिन्नावधिं तथा । दद्यादर्द्धां तस्य पुत्रे स्त्रियै
पादमितां किल । हृतराज्यस्य पुत्रादौ सद्गुणे
पादसम्मिताम् । दद्याद्वा तद्राज्यतस्तु द्वात्रिंशांशं प्रकल्पयेत्”

भृतिभुज् त्रि० भृतिं येतनं भुङ्क्ते भुज--क्विप् । वेतनोप-

जीविनि कर्मकरे अमरः ।

भृत्य पु० भृ--क्यप् तुक् च । १ दासे २ भरणीये त्रि० अमरः । भावे

क्यप् ३ भरणे स्त्री टाप् । “कुमारभृत्याकुशलैः” रघुः ।
निन्द्यानिन्द्यभृत्यपरीक्षा शुक्रनीतिसारे २ अ० उक्ता यथा
“भृत्यं परीक्षयेन्नित्यं विश्वास्यं विश्वसेत् सदा । नैव
जातिर्न च कुलं केवलं रुक्षयेदपि । कर्मशीलगुणाः
पूज्यास्तथा जातिकुले न हि । न जात्या न कुलेनैव
श्रेष्ठत्वं प्रतिपद्यते । विवाहे भोजने नित्यं कुलजाति-
विवेचनम् । सत्यभाक् गुणसम्पन्नस्तथाभिजनवान् धनी ।
सुकुलश्च सुशीलञ्च सुकर्मा च निरालसः । यथा
करोत्यात्मकार्य्यं स्वामिकार्य्यं ततोऽधिकम् । चतुर्गुणेन यत्नेन
कायवाङ्मानसेन च । भृत्यैव तुष्टो मृदुवाक् कार्य्य-
दक्षः शुचिर्दृढ़ः । परीपकरणे दक्षो ह्यपकारपराङ्-
मुखः । खाम्यागस्कारिणं पुत्रं पितरं वापि दर्शकः ।
पृष्ठ ४६९८
अन्यायगामिनि पत्यावतद्रूपः सुबोधकः । भाक्षेप्ता
तद्गिरं काञ्चित् तन्यूनस्याप्रकाशकः । अदीर्थसूत्रः
सत्कार्य्ये ह्यसत्कार्य्ये चिरक्रियः । न तद्भार्य्यापुत्र-
मित्रच्छिद्रदर्शी कदाचन । तद्वद्बुद्धिस्तदीयेषु भार्य्या-
पुत्रादिबन्धुषु । न श्लाहते स्पर्द्धते न नाभ्यसूयति
निन्दति । नेच्छत्यन्याधिकारं हि निस्पृहो मोदते
सदा । तद्दत्तवस्त्रभूषादिधारकस्तत्पुरोऽनिशम् । भृति-
तुलस्यव्ययी दान्तो दयालुः शूर एव हि । तद
कार्य्यस्य रहसि सूचको भृतको वरः । विपरीतगुणै-
रेभिर्भृतको निन्द्य उच्यते । ये भृत्या हीनभृतिला
ये दण्डेन प्रकर्षिताः । शठाश्च कातरा कुब्जाः समक्षं
प्रियवादिनः । मत्ता व्यसनिनश्चार्त्ता उत्कोचेष्टाश्च
देविनः । नास्तिका दाम्भिकाश्चैवासत्यबाचोऽभ्यसू-
यकाः । ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः ।
रिपोर्मित्रासेवकाश्च पूर्ववैरानुबन्धिनः । चण्डाः
साहसिका धर्महीना नैते सुसेवकाः । संक्षेपतस्तु कलितं
सदसद्भृत्यलक्षणम्” ।
तत्परिशिष्टे सर्वभृत्यकृत्यमुक्तं यथा
“उत्थाय पश्चिमे यामे गृहकृत्यं विचिन्त्य च ।
कृत्वोत्सर्गं तु विष्णु हि स्मृत्वा स्वायादनन्तरम् ।
प्रातः कृत्यं तु निर्वर्त्य यावत् सार्द्धमुहूर्त्तकम् ।
गत्वा स्वकार्य्यशालायां कार्य्याकार्य्यं विचिन्त्य च ।
विशङ्गया विशन्तं तु द्वाःख्यः सम्वग् निरोधयेत् ।
निदेशकाय विज्ञाप्य तेनाज्ञप्तः प्रमोचयेत् । दृष्ट्वाभतान्
सभामध्ये राज्ञे दण्डधपः क्रमात् । निवेद्य तन्नतीः
पञ्चात् तेषां स्थानानि सूचयेत् । ततो राजगृहं गत्वा-
ऽऽज्ञप्तौ गच्छेच्च मन्निधिम् । नत्वा नृपं यथान्यायं
विष्णुरूपमिवापरम् । प्रविश्य सानुरागस्य चित्तज्ञस्य
समन्ततः । भर्त्तुरर्द्धसने दृष्टिं कृत्वाऽन्यत्र विनिःक्षि-
पेत् । अग्निं दाप्तमिवासीदेद्राजानमुपशिक्षितः ।
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् । यत्नेनोपचरे-
न्नित्यं नाहमस्मीति चिन्तयन् । समर्थयंश्च तत्पक्ष
याधु भाषत भाषितम् । तन्नियोगेन वा ब्रूयादर्थं सुपरि-
निश्चितम् । सुराप्रबन्धगौडीषु विवादे वादिनां मतम् ।
विजानन्नपि नो ब्रूयात् मर्त्तुः क्षित्पोत्तरं वचः ।
सदाऽनुद्धतवेषः । स्यान्नृपाहूतस्तु प्राञ्जलिः । तद्गा कृतनतिः
श्रत्वा वस्त्रान्तारतसम्मुखः । तदाज्ञां धारयित्वादौ
स्वकार्य्याणि निवदयेत् । नत्वाऽऽसीतासने प्रह्वस्तत्-
पार्श्वे सम्मुखाज्ञया । उच्चैःप्रहसनं कासं ष्ठीवनं
कुत्सनं तथा । जृम्भणं मात्रभङ्गं वा पर्वास्फोटञ्च वर्ज-
येत् । राज्ञादिष्टं तु यत् स्थानं तत्र तिष्ठेन्मुदान्वितः ।
प्रवीणोचितमेधावी वर्जयेदभिमानिताम् ।
आपद्युन्मार्गगमने कार्य्यकालात्ययेषु च । अपृष्टोऽपि-
हितान्वेषी ब्रूयात् कल्याणभाषितम् । प्रियं तस्यं
च पथ्यञ्च वदेत् धर्मार्थकं वचः । समानवार्त्तया चापि
तन्नितं बोधयेत् सदा । कीर्त्तिमन्यनृपाष्णां च
वदेन्नीटिकलं तथा । दाता त्वं धार्मिकः शूरोनीतिमानसि
भूपते! । अनीतिस्ते तु मनसि वर्त्तते न कदाचन ।
ये ये भ्रष्टा अनीत्या तान् तदग्रे कीर्त्तयेत् सदा ।
नृपेभ्या ह्यधिकोऽसीति सर्वेभ्योऽपि विशेषयेत् । परार्थं
देशकालज्ञो देशे काले च साधयेत् । परार्धनाशनं
न स्यात्तथा ब्रूयात् सदैव हि । न कर्षयेत् प्रजाकार्य्य-
मुपेतश्च नृपं वदा । अपि स्थाणुबदासीत शुष्यन्
परिगतः क्षुधा । जात्वेवानर्धसम्पन्नां वृत्तिं नेहेत पण्डितः ।
यत्कार्य्ये यो नियुक्तः स भूयात्तत्कार्य्यतत्परः ।
नान्याधिकारमन्विच्छेन्नाभ्यसूयेच्च केनचित् । न न्थूनं
लक्षयेत् कस्य पूरयीत खशक्तितः । परोपकरणं भ्रश्यन्न-
स्यान्मितकरः सदा । करिष्यामीति ते कार्य्यं न
कुर्य्यात् काललम्बनम् । द्राक् कुर्य्यात्तु समर्थश्चेत् स्वांशं
दीर्घं न रक्षयेत् । गुह्यं कर्म च मन्त्रं च न भर्त्तुः
संप्रश्चाशयेत् । विद्वेषं च विमाशं च मनसापि न
चिन्तयेत् राजा परममित्रोऽस्ति ग कालं विरिचेदिति ।
स्त्रीभिस्तदर्थिमिः पापैर्वैरिभूतैर्निराकृतैः । एकार्थचर्य्यं
साहित्यं संसर्गञ्च विवर्जयेत् । वेषभाषामुकरणं न
कुर्य्यात् पृथिवीपतेः । सम्पन्नोऽपि च मेधावी न च
स्पर्द्धेत तद्गुणैः । रागापरागौ जानीयाद्भर्तुः कुशल-
कर्मकृत् । ईङ्गिताकारचेष्टाभ्यस्तदभिप्रायतां तथा ।
त्यजेत् विरक्तं नृपतिं रक्ते वृत्तिं तु कारयेत् । विरक्तः
कारयेन्नाशं विपक्षाभ्युदयं तथा । आशावर्द्धनकं
(कामच्छेदम्) कृत्वा फलनाशं करोति च । अकोपोऽपि
सकोपाभः प्रसन्नोऽपि च निष्फलः । वाक्यञ्च समदं
वक्ति वृत्तिच्छेदं करोति च । लक्ष्यते विमुखश्चैव गुणसं-
कीर्त्तने कृते । दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि ।
विरक्तलक्षणं ह्येतद्रक्तस्य लक्षणं ब्रुवे । दृष्ट्वा प्रसन्नो
भवति वाक्यं गृह्णाति चादरात् । कुशलादि यदि
पृच्छेत् प्रदापयति आसनम् । विविक्तदर्शनं चास्य रह-
पृष्ठ ४६९९
श्येनं न शङ्कते । जायेत हृष्टवदनः श्रुत्वा तद्गिरम-
न्तरा । अप्रियाण्यपि चान्यानि तद्युक्तान्यभिमन्यते ।
उपायनं च गृह्णाति स्तोकं सम्पादयेत्तथा । कथान्तरेषु
स्परति प्रहृष्टवदनस्तथा । इति रक्तस्य वै लक्ष्म कर्त्तव्यं
तस्य सेवनम् । तद्दत्तवस्त्रभूमादि चिह्नं संधारयेत् सदा ।
न्यूनाधिके स्वाधिकारे नित्योद्युक्तो भवेत् सदा ।
तदर्थां तत्कृतां वार्त्तां शृणुयाद्वाषि कीर्त्तयेत् ।
चारसूचकदोषेण ह्यन्यथा यदृशे नृपः । शृणुयान्मौनमा-
श्रत्य तथ्यं यत्नेन मोदयेत् । आपद्गतं सुभर्त्तारं
कदापि न परित्यजेत् । एकवारमथादिष्टं यत्स्थानं
ह्यादरेण तत् । तदिष्टं चिन्तयेन्नित्यं पालकस्याञ्जसा
न किम् । अप्रधानः प्रधानः स्यात्, काले चात्यन्त-
सवनात् । प्रधानीऽप्यप्रधानः स्यात् सेवालस्यादिना यतः ।
नित्यं संसेवनरतो भृत्यो राज्ञः प्रियो भवेत् । स्व
स्वाधिकारकार्य्यं यत् द्राक् कुर्य्यात् सुमाना यतः । न
कुर्य्यात् सहसा कार्य्यं नीचं राजापि नोदिशेत् । तत्
कार्य्यकारकाभाये राज्ञः कार्य्यं सदैव हि । काले यदुचितं
कर्त्तुं नीचमप्युत्तमोऽर्हति । यस्मिन् प्रीतो भवेद्राजा
तदनिष्टं न चिन्तयेत् । न दर्शयेत् स्याधिकारगौरवं
तु कदाचन । परस्परं नाभ्यसूयुर्न मेदं प्राप्नुयुस्तथा ।
राज्ञा चाधिकृताः सन्तः स्वस्वाधिकारगुप्तये ।
अधिकारिगणो राजा सद्वृत्तौ यत्र तिष्ठतः । उभौ, तत्र
स्थिरा लक्ष्मीर्विपुला समुखीभवेत् । अन्याधिकार-
वृत्तं तु न ब्रूयाच्छ्रुतमप्युत । राजा न शृणुयादन्य
मुखतस्तु कदाचन । न बोधयन्ति च हितमहितं
चाधिकारिणः । प्रच्छन्नवैरिणस्ते तु दासरूपमुपा-
श्रिताः । हिताहितं न शृणोति राजा मन्त्रिसुखाच्च
यः । स दस्यूराजरूपेण प्रजानां धनहारकः । सुपुष्ट-
व्यवहारा य राजपुत्रैश्च मन्त्रिणः । विरुध्यन्ति च तैः साकं
ते तु प्रच्छन्नतस्कराः । बाला षपि राजपुत्राः
नावमान्यास्तु मन्त्रिभिः । सदा सुबहुवाक्यैस्तु संबोध्यास्ते
प्रयत्नतः । असदाचरितं तेषां क्वचित् राज्ञे न दर्शयेत् ।
स्त्रीपुत्रमोहो बलवान् तयोर्निन्दा न श्रेयसे । राज्ञोऽवश्य-
तरं कार्य्यं प्राणसंशयितं च यत् । आज्ञापयाग्रतश्चाहं
करिष्ये तत्तु निञ्चितम् । इति विज्ञाप्य तत् कर्त्तुं
प्रयतत खशक्तितः । प्राणानपि च संदद्यान्महाकार्य्ये
नृपस्य च । भृत्यकुटुम्बपुष्ट्यर्थं नान्यथा तु कदाचन ।
भृत्या धनहराः सर्वे युक्त्या प्राणहरो नृपः । युद्धादौ
तु महाकार्य्ये भृत्यप्राणान् हरेन्नृपः । नान्यथा भृति-
रूपेण भृत्यो राजधनं हरेत् । अन्यथा हरतस्तौ तु
भवतश्च स्वनाशकौ । राजा च युवराजश्च मान्योऽमात्या-
दिक्कै सदा । तद्यूनामात्येन च किं तच्छूनाधिकृतेन
किम् । मन्त्रितुल्यश्च भृतको न्यूनः साहखिको मतः ।
न क्रीड़वेद्राजसमं व्रोड़िते तं विशेषयेत् । नावम्मान्या
राजपत्नी कन्या ह्यपि च मन्त्रिभिः । राजसम्बन्धिनः
पूज्याः सुहृदश्च यथार्हतः । नृपाहूतस्तुरं गच्छेत् त्यक्त्वा
कार्य्यशतं महत् । मित्रायापि न वक्तव्यं राजकत्यं
सुमन्त्रितम् । भृतिं विना राजद्रव्यमदत्तं नाभिलाष-
येत् । राजाज्ञया विना नेच्छेत् कार्य्य माध्यस्थिकीं
भृतिम् । न हि हन्यात् द्रव्यलोमात् न कार्य्यं यस्य
कस्यचित् । स्वस्त्रीपुत्रधनप्राणैः काले संरक्षयेन्नृपम् ।
उत्कोचं नैव गृह्णीयात् नान्यथा बोधयेन्नृपम् । अन्यभा-
दण्डकं भूपं नित्यं प्रबलदण्डकम् । निगृह्य बाधयेत्
सम्यक् एकान्ते राज्यगुप्तये । हितं राज्ञश्चाहितं
यल्लोकानां तन्न कारयेत् । नवीनकरशुक्लाद्यैर्लोक
उद्विजते ततः ।”
“भृत्यः कुर्य्यात् तु राजाज्ञां शिष्यवत् सश्रियः
पतेः । न क्षिपेत् वचनं राज्ञो ह्यनुकूनं प्रियं षदेत् ।
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् । न नियुक्तो
हरेद् वित्तं नोपेक्षेत् तस्य मानकम् । राज्ञश्च न
तथाकार्य्यं वेशभाषाविचेष्टितम् । अन्तःपुरचराध्यक्षो वैरभूतै-
र्निराकृतेः । संसर्गं न व्रजेद् भृत्यो राज्ञो गुह्यञ्च
गोपयेत् । दर्शयेत् कौशलं किञ्चिद्राजानं च विशेषयेत् । राज्ञा
यच्छ्रावितं गुह्यं न तल्लाके प्रकाशयेत् । आज्ञाप्यमाने
वान्यस्मिन् किङ्करोमीति वा वदेत् । वस्त्रं रत्नमलङ्कारं
राज्ञा दत्तं च धारयेत् । नानिर्दिष्टो द्वारि विशेन्ना-
योग्यभुवि राजदृक् । जृम्भां निष्ठीवनङ्कासं कोपं
पर्य्यङ्किकाश्रयम् । भृकटीं वातसुद्गारं तत्समीपे
विवर्जयेत् । स्वगुणाख्यापने युक्त्या परात्मानं नियो-
जयेत् । शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रता
तथा । चापल्यञ्च परित्याज्य नित्यं राजानुजीविना ।
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना । राजसेवां
ततः कुर्य्याद् भूतये भूतिवर्द्धनः । नमस्कार्य्याः सदा
चास्य पुत्रवल्लभमान्त्रणः । सचिवैर्नास्य विषासो
राजचित्तप्रियञ्चरेत् । त्यजेद् बिरक्तं रकात् तु वृत्तिमीहेत
राजवित् । अपृष्टश्चास्य न ब्रुयात् कामं कर्य्यात तथा-
पृष्ठ ४७००
पदि । आसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते ।
कुशलादि परिप्रश्नं सम्प्रयच्छति चासनम् । तत्कथा-
श्रवणाद्धृष्टो ह्यप्रियाण्यपि नन्दते । अल्पं दत्तं प्रगृ-
ह्णाति स्मरेत् तत्तु कथान्तरे । रक्तस्य राज्ञः कर्त्तव्या
सेवामन्यस्य वर्जयेत्” अग्निपु० २२१ अ० ।
ते च दशधा तेषां प्राधान्याप्राधान्ये च तत्रैव उक्ते यथा
“पुसोधाः प्रथमं श्रेष्ठः सर्वेभ्यो राजराष्ट्रभृत् । तदनु-
स्यात् प्रतिनिधिः प्रधानस्तदनन्तरम् । सचिवस्तु ततः
प्रोक्तो मन्त्री तदनु चोच्यते । प्राड्विवाकस्ततः प्रोक्तः
पण्डितस्तदनन्तरम् । सुमन्त्रस्तु ततः ख्यातो ह्यमात्यस्तु
ततःपरम् । दूतस्ततः क्रमादेते पूर्वश्रेष्ठा यथा गुणाः” ।
तत्करणमुहूर्त्तादि मु० चि० उक्तं यथा
“क्षिप्रे मैत्रे वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजे
वा खलाभे । योनौ मैत्र्यां राशिपोश्चापि मैत्र्यां
सेवा कार्य्या स्वामिनः सेवकेन” मु० चि० । “अथ
सेवकस्य स्वामिसेवायां मुहूर्त्तं शालिन्याह । क्षिप्रे मैत्रे
इति । क्षिप्रे मैत्रे अश्विनीपुष्यहस्तचित्रानुराधामृग-
रेवतीपुष्यनक्षत्रेषु, वित्सितार्केज्यबारे बुधशुक्रसूर्य्य-
गुरुवारे तथा सौम्यग्रहे लग्नसंस्थे सति अर्के वा
अथ वा कुजे भौमे वा खलाभे दशमैकादशस्थे सति
सेवकेन भृत्येन स्वामिनो राजादेः सेवा कार्य्या ।
राजादिदर्शनं प्रागुक्तं वेतनग्रहणकार्य्याद्यङ्गीकारूपा
सेवास्मिन् मुहुर्त्ते काय्यां तत्रापि स्वामिसेवकयोर्योनि-
मैत्र्यां सत्याञ्च पुनः राशिपोः स्वामिसेवकयोर्यौ
जन्मराशी तयोर्यावधिपती तयोरपि मैत्र्यां प्रीतौ सत्यां
कार्या उक्तञ्च श्रीपतिना “शुभे विलग्ने दशमायगे च रवौ
कुजे वा स्ववशेन योनेः । विद्यायुधाभ्यासरतेन कार्य्य
समाश्रयः स्वामिनि सेवकेन” । कश्यपोऽपि “दशमैकादशे
सूर्य्ये कुजे वा शुभलग्नके । विद्यायुधाभ्यासयुक्तसेवा,
कर्मापि सिद्ध्यति” । राशिमैत्रीसाहित्यं तु “बभ्रूरगं
श्वेणमिभेन्द्रसिंहमोत्वास्वुसंज्ञं त्वजवानरञ्च गोव्याघ्रमश्वो-
त्तरमाहिषञ्च वैर नृनार्योर्मृपभृत्ययोश्चेति” वसिष्ठीक्ति
मङ्गीकृत्य तुल्यन्यायत्वादत्राप्युक्तं ग्रन्थकृता योनिमैत्री
राशिमेत्री च विवाहप्रकरणे अश्विन्यम्बुपयोरिति
“मित्राणि द्युमणेरिति वक्ष्यते” र्पा० धा० । उपयमशब्दे
१२५० पृ० दृश्यम् ।

भृत्रिम त्रि० भरणाज्जातः भृ--क्त्रि--मप् च । भरणाज्जाते ।

भृ(भ्र)मि पु० भ्रम--इन् पृषो० वा संप्रसारणम् । (घूर्णा)

१ वायुभेदे ३ भ्रमणे च । “किमु चक्रभ्रमिकारितागुणः”
नैषधम् ।

भृम्यश्व पु० भृमय इवाश्वाः यस्य । ऋषिभेदे तस्य पुत्रः

अण् । भार्म्यश्व तदपत्ये ऋषौ नि० ९ । ४ ।

भृश अधःपतने दि० पर० अक० सेट् । भृश्यति इरित् अभृशत्

अभर्शीत् बभर्श । उदिच्च क्त्वा वेट् ।

भृश न० भृश--क । १ अतिशये २ तद्वति त्रि० । ततो भृशादि०

च्व्यर्थे भवतौ क्यङ् भृशायते ।

भृशम् अव्य० मान्तमव्ययम् भृश--बा० कमु । १ मुहुरर्थे २ शोभने शब्दरत्ना० ।

भृशादि पु० च्व्यर्चे भवतौ क्यङ्प्रत्ययनिमित्ते शब्दगणे

स च गणः पा० ग० उक्तो यथा
“भृश शीघ्र चपल मन्द्र पण्डित उत्सुक सुमनस्
दुर्मनस् अभिमनस् उन्मनस् रहस् रोहत् रेहत् संश्चेत्
तृपत् शश्वत् भ्रमत् वेहत् शुचिस् शुचिवर्चस् अन्तर
वर्चस् ओजस् सुरजस् अरजस् एते भृशादयः । आकृति-
गणोऽयं तेन श्यामायते इत्यादि सि० कौ० । एवं
घूर्णायते “घूर्णायमानेक्षणम्” थूर्णायमानशब्दे दर्शितम्

भृषद् स्त्री दृषद् + पृषो० । पाषाणे शब्दरत्ना० । तत्र दृषद्

इत्येव पाठः भृषदित्यपपाठः ।

भृष्ट त्रि० भ्रस्ज--क्त । जलोपसेकं विना बालुकाग्निसंयोगाभ्यां

पक्के हेम० । “सुगन्धिः कफहा रूक्षः पित्तलो भृष्ट-
तण्डुलः” राजनि० ।

भृष्टयव पु० कर्म० । धानाशब्दार्थे अमरः ।

भृष्टान्न न० कर्म० । जलोसेकेन भृष्टे तण्डुले (मुड़ि) शब्दच०

भृष्टि स्त्री भ्रस्ज--भावे क्तिन् । १ भर्जने २ शून्यवाटिकायां मेदि०

भॄ भर्जने भर्त्सने भरणे च क्य्रादि० प्वा० पर० सक० सेट् ।

भृणाति अभारीत् वभार बभरतुः ।

भेक पुंस्त्री० भी--कन् कस्य नेत्त्वम् । (व्याङ) १ जन्तुभेदे अमरः

स्त्रियां जातित्वात् ङीष् । “तेजःसद्योबलकरः भ्रमतृड्-
दाहमेहनुत् । स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्त्तितः”
राजनि० । २ मेघे मेदि० ३ मण्डूकपर्ण्यां स्त्री ङीप् अमरः

भेकट पु० भेक इव टलति टल--ड । मत्स्यभेदे द्विरूपकोषः ।

भेकनि(लि) पु० (भाङ्गन) मत्स्यभेदे राजव० ।

भेकपर्णी स्त्री भेक इव पर्णमस्याः ङीप् । मण्डूकपर्ण्याम्

भेकभुज् पु० भेकं भुङ्क्ते भुज--क्विप् । सर्पे त्रिका० ।

भेकासन न० रुद्रयामलोक्ते पूजाङ्गे आसनभेदे तल्लक्षणं यथा

“भेकनामासनं योगं निजवक्षसि स्वं मुखम् । निधाय
पादयुगलं स्कन्धे बाहौ पदोपरि । ध्यायेदिष्टपदं श्रीमात्र
पृष्ठ ४७०१
आसनस्थः सुखाच्च तत् । यदि सर्वाङ्गमुत्तोल्य गगने
खेचरासनम् । महाभेकासनं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
महाविद्यामहामन्त्रं पाषोति जपतीह यः” ।

भेकुरि स्त्री अप्सरोरूपे नक्षत्रे “सुषुम्णः सूर्य्यरश्मिश्चन्द्रमा

गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम” यजु० । १८ । ४०
“तस्य चन्द्रमसः नक्षत्राणि नाम अप्सरसः कीदृश्यः भेकु-
रयः भां कान्तिं कुर्वन्तीति भेकुरयः पृषोदरादित्वात्साधुः
“चन्द्रमाह गन्धर्वो नक्षत्रैरपसरोभिर्मिथुनेन सहोच्चक्राम-
भेकुरयो नामेति भेकुरयोह नामैते भां हि नक्षत्राणि
कुर्वन्नीति” शत० ब्रा० ९ । ४ । १ । ९ ।

भेड पुंस्त्री० भी--ड तस्य नेत्त्वम् । मेषे (भेड़ा) हेमच० स्त्रियां ङीष् ।

भेड्र पुंस्त्री० भेड + पृषो० । मेषे त्रिका० स्त्रियां ङीष् ।

भेद पु० भिद--घञ् । १ पृथक्करणे २ अन्यतो विशेषे राज्ञामु-

पायभेदे विपक्षशासनार्थं ३ तत्पक्षीयामात्यादिभेदने
४ न्यायमतोक्ते अन्योऽन्याभावे च यथा घटात् पटस्य
भेदः (तादात्म्येनाभावः) उपायभेदभेदप्रकारो यथा
“परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः । तेषां
भेदं प्रयुञ्जीत परमं दर्शयेत् भयम् । आत्मीयान् दर्शये-
दाशां येन दोषेण विभ्यति । परास्तेनैव ते भेद्या
रक्ष्यो वै ज्ञातिभेदकः । सामन्तकोपो बाह्यस्तु मन्त्र्य
मात्यात्मजादिकः । अन्तःकोषञ्चोपशाम्यं कुर्वन् शत्रीश्च
नं जयेत्” अग्निपु० २२५ अ० । ५ द्वैधे ६ विदारणे मेदि० ।
७ विरेके वैद्यकम् ।

भेदक त्रि० भिद--ण्वुल् । १ रेचके २ विदारके ३ भेदकारके

४ विशेषणे च । “स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं
पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः” अमरः

भेदन त्रि० भेदयति भिद--णिच्--ल्यु । १ विरेचने २ विशेषणे च

३ हिङ्गौ न० ४ शूकरे ५ अम्लवेतसे च पु० राजनि० ।
भिदभावे ल्युट् । ६ विदारणे ७ द्वैधीकरणे न० ।

भेदित त्रि० भिद--णिच्--क्त । १ विदारिते भिन्ने च “आद्वयं

हृदये, शीर्षे वषट् वौषट् च मध्यमे । स एव भेदितो
मन्त्रः सर्वशास्त्रविवर्जितः” तन्त्रसारोक्ते ३ मन्त्रभेदे पु० ।

भेदिन् त्रि० भिद--णिनि । १ भेदकारके स्त्रियां ङीप् ।

२ अम्लवेतसे पु० राजनि० ।

भेदुर न० भिदुर + पृषो० । वज्रे द्विरूपकोषः ।

भेद्य त्रि० भिद--ण्यत् । १ शस्त्रादिना विदार्य्ये २ विशेष्ये च ।

“त्रिष्वैषां भेद्यगामि यत्” अमरः । भेद्यरोगप्रतिषेधश्च
सुश्रुते उक्तो यथा
“अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः । स्वेदयित्वा
विसग्रन्धिं छिद्रमस्य निराश्रयम् । पक्कं भित्त्वा तु
शस्त्रेण सैन्धवेनावचूर्णयेत् । कासीसमागधीपुष्पनैपाल्ये
लायुगेन तु । ततः क्षौद्रं घृतं दत्त्वा सम्यगेवमुपाचरेत् ।
रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च । प्रति-
सारणमेकैकं भिन्ने च गण इष्यते । महत्यपि च
युञ्जीत क्षाराग्निविधिकीविदः । स्विन्नां भिन्नां विनि-
ष्पीड्य भिषगञ्जननामिकाम् । शिलैलानतसिन्धूत्थै-
सक्षौद्रैः प्रतिसारयेत् । रसाञ्जनमधुभ्यां वा भिन्नां वा
शस्त्रकर्मवित् । प्रतिसार्य्याञ्जनैर्युञ्ज्यादुष्णैर्दोपशिखो-
द्भवैः । सम्यक्स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रति-
सारणम् । त्रिफलातुत्थकासीससैन्धवैस्तु रसक्रियाम् ।
भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः । लेखयेन्म-
ण्डलाग्रेण समन्तात् प्रोञ्छयेदपि । संस्नेह्म पत्रभङ्गैश्च
स्वेदयित्वा यथासुखम् । आपाकाद्विधिनोक्तेन पञ्च
भेद्यानुपाचरेत् । सर्वेष्वेतेषु विहितं विधानं स्नेह-
पूर्वकम् । सम्पक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम्” ।

भेर पु० भी--रन् । पटहे संक्षिप्तसा० । उज्ज्वलदत्तेन

गौरा० ङीष् भेरीत्येवमुक्त्वा भेरी दुन्दुभिरित्युक्तम् ।

भेरि(री) स्त्री भी--क्रिन् वङ्क्य्रा० नि० वा ङीप् । १ वृहड्ढ-

क्कायाम् । २ पटहे “रवः प्रगल्भाहतभेरिसम्भवः”
कुमारः उज्ज्वलदत्तः । “ततः शङ्खाश्च भेर्य्यश्च” गीता ।

भेरीस्वनमहास्वना स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ०

भेरुण्ड न० १ गर्भधारणे शब्दर० २ भयानके त्रि० ३ देवताभेदे

कालिपु० “महाविश्वेश्वरी श्वेता भेरुण्डा कुलसुन्दरी”
तत्सहस्रनाम । ४ यक्षिणीभेदे स्त्री मेदि०

भेल त्रि० भी--र रस्य लः । १ पुरे २ भीरुके ३ निर्बुद्धौ ४ मुनि-

भेदे विश्वः । ५ चञ्चले शब्दर० । स्वार्थे क । भेलक प्लवे
उडुपे (भेला) शब्दर० ।

भेष भये भ्वा० उभ० अक० सेट् । भेषति ते अभेषीत् अभेषिष्ट ।

ऋदित् चङि न ह्रस्वः । अबिभेषत् त ।

भेषज न० भेष--घञ् भेषं रोगभयं जयति जि--ड । १ औषधे ।

स्वार्थे ष्यञ् । भैषज्य तत्रार्थे भेषजसेवनकालादि भावप्र०
उक्तं यथा
“अथ भेषजभक्षणसमयः “भैषज्यमभ्यवहरेत् प्रभाते
प्रायशो वुधः । कषायांस्तु विशेषेण तत्र भेदस्तु
दर्शितः । ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम ।
किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने । सायन्तने
पृष्ठ ४७०२
मोजने च मुहुश्चापि तथा निशि । तत्र प्रथमकालः
“प्रायः पित्तकफोद्रेके विरेकवमनार्थयोः । लेखनार्थे च
भैषज्यं प्रभातेऽनन्नमाहरेत्” । अथ द्वितीयकालः “भैषज्यं
विगुणे पाने भोजनाग्रे प्रशस्यते । अरुचौ चित्रभो-
ज्यैश्च मित्रं रुचिरमाहरेत् । समानवाते विगुणे
मन्देऽग्नावतिदीपनम् । दद्याद्भोजनमध्ये च भैषज्यं
कुशलो भिषक्। व्यानकोपे तु भैषज्यं भोजनान्दे
समाहरेत् । हिक्काक्षेपककम्पेषु पूर्वमन्ते च भोजनात्” ।
अथ तृतीयकालः “उदाने कुपिते वाते स्वरभङ्गादि
कारिणि । ग्रासग्रासान्तरे देयं भैषज्यं सान्ध्य-
भोजने । प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते प्रदीयते ।
औषधं प्रायशो धीरैः कालोऽयं स्यात् तृतीयकः” ।
अथ चतुर्थकालः “मुहुर्मुहुश्च तृट्छर्द्दिहिक्वाश्वास-
गरेषु च । सान्नञ्च भेषजं दद्यादिति कालश्चतुर्थकः” ।
अथ पञ्चमकालः “ऊर्ध्वजत्रुविकारेषु लेखने वृंहणे
तथा । पाचने शमने देयमनन्नं भेषजं निशि” इति
पञ्चमकालः । निरन्नस्य मेषजस्य गुणमाह “वीर्य्याधिकं
भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु
चैव । तद्बालवृद्धयुवतीमृदुभिश्च पीतम् ग्लानिं
परां नयति चाशु बलक्षयञ्च” । सान्नस्य भेषजस्य
गुणमाह “शीध्रं विपाकमुपयाति बलेन हिंस्यादन्नावृतन्न
च मुहुर्वदनान्निरेति । एतद्धितं स्थविरबालकृशा-
ङ्गनाभ्यः प्राग्भोजनाद्यदशितं किल तच्च तद्वत्” तद्वत्
अन्नावृतवत् भेषजमिति शेषः । “औषधशेषे भुक्तं भोजनशेषे
यदौषधं पीतम् । न करोति गदोपशमं प्रकोपयत्यन्यरो-
गांश्च” । पीतमित्युपलक्षणं लीढ़ादिकञ्च । “अनुलोमोऽनिलः
स्वास्थ्यं क्षुत्तृष्णासुमनस्कताः । लघुत्वमिन्द्रियोद्गार-
शुद्धिजीर्णौषधाकृतिः । क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छा
शिरोरुजः । अरतिर्बलहानिश्च सावशेषौषधाकृतिः” ।
अथ भेषजभक्षणविधिमाह चरकः “देवान् गुरूंस्तथा
विप्रान् पूजयित्वा प्रणम्य च । आशिषश्च समादाय
श्रद्धया भेशजं भजेत् । रसायनमिवर्षीणां देवाना-
ममृतं यथा । सुधेवोत्तमनागानां भैषज्यमिदमस्तु
ते । ब्रह्मदक्षाश्विरुद्रेन्द्रमूचन्द्रार्कानिलानलाः । देवाश्च
सौषधिग्रामा भूमिदेवाश्च पःन्तु वः । औषधं हेम
रजतमृद्नाजनपरिस्थितम् । पिबेदाप्तजनस्याग्रे प्रसन्नव-
दनेक्षणः । विश्रान्तस्तूपविथ्याथ पीत्वा पात्रमधोमुखम् ।
निःक्षिप्याचम्य सलिलताम्बूलाद्युपयोजयेत् ।”
२ जल ३ सुणे च निघण्टुः । ४ विष्णौ पु० “निर्वाणं
भेषजं भिषक्” विष्णुस० । तद्भक्षणविहितनक्षत्रादिकं
ज्यो० त० उक्तं यथा
“विष्णुधर्मोत्तरे । हरिं गोद्विजचन्द्रार्कसुराग्नीन् प्रति-
पूज्य च । शृण्वन् मन्त्रमिमं पुण्यं विद्वान् भेषज-
मारभेत् । ब्रह्मदक्षाश्विरुद्रेन्द्राभूचन्द्रार्कानिलानलाः ।
ऋषयश्चौषधिग्रामाभूतसङ्घाश्च पान्तु ते । रसायनमिव-
र्षीणां देवानाममृतं यथा । सुधेवोत्तमनागानां भैषज्य-
मिदमस्तु ते । स्वय मक्षणे तु ते इत्यत्र मे इति
वदेत् । अविशेषेण स्वयंभक्षणेऽपि पठेत् । “द्व्यङ्गोदये
गुरुबुधेन्दुसितेषु तेषां वारे रवेश्च सुविधौ सुतिधौ
सुयोगे । भेषूग्रपन्नगविशाखशिवेतरेषु जन्मर्क्षविष्टि-
रहितेष्वगदः शुभाय” । “औषधकरणं चित्रायुगे विधि-
युगे मित्रयुगे लघुषु वारुणविष्णौ । वस्तिविरेचनवेधाः
शुभदिनतिथिचन्द्रलग्नेषु” । वस्तिश्चर्मपुटं विरेचनं
विरेकः । वेधोव्रणादिवेधः । “पौष्णाश्विनीद्रविणशक्रसमेन्द्र-
पुष्याहस्तादितीन्दुहरिमूलहुताशमित्रैः, चित्रान्वितैर्भृगु-
बुधेन्दुरवीज्यवारे भैषज्यपानमचिरादपहन्ति रोगान् ।
रत्नमालायाम् द्यूनशत्रुनिधनव्ययशुद्धौ सद्गृहेषु
निरतां बलबत्सु । आयुषश्च हित्कारिणि योगे
कीर्त्तिता नियतमौषसेवा । द्यूनादिषु पापयोगेक्षण-
शून्येषु । आयुष्मानित्यादिशुभयोगे । भीमपराक्रमे,
“भैषज्यपाने गुरुसोमशुक्राः शुभं विलग्नं दिवसोरवेश्च ।
तिथावरिक्ते करणे च शस्ते योगे च लग्ने द्विशरीर
संज्ञे” । तत्रैव “रोहिणी चानुराधा च शस्तमौषध-
भक्षणे” इति वचनाद्रोहिण्यामपिं । “भैषज्यं सल्लथु
मृदुचरे मूलभे द्व्यङ्गलग्ने शुक्रेश्वीज्ये विदि च
दिवसे चापि तेषां रवेश्च । शुद्धे रिप्फद्युनमृतिगृहे
सत्तिथौ नोजनेभे” मु० चि० । “लघुमृदुचरे अश्विनी
पुष्यहस्तचित्रासृगानुराधारेवतीश्रवणधनिष्ठाशततारक-
स्वातीपुनर्वसुभेषु मूले च भैषज्यम् ओषधं प्रारब्धं
भक्षितं वा सत् शुभफलदं भवतीत्यधः तथाचाह
श्रीपतिः “पौष्णद्वये चादितिभद्वये च हस्तत्रये
च श्रवणत्रये च । मैत्रे च मूले च मृगे च शस्त भैषज्य-
कर्म प्रवदन्ति सन्तः” । वसिष्ठोऽपि “हस्तत्रये चाश्विन-
पौष्णभेषु मित्रेन्दुमूलेषु च सूर्य्यवारे । भैषज्यमुक्तं
शुभवासरेऽपि” । अथ द्व्यङ्गलग्नें द्विस्वभावराशिषु
मिथुनकन्याधनुर्मीनेषु सत्सु शुक्रेन्द्वीज्ये विदि च
पृष्ठ ४७०३
शुकचन्द्रवृहस्पतिबुधेषु द्विस्वभावलग्नस्थेषु सतसु
च पुनस्तेषां शुक्रेन्द्वीज्यबुधानां रवेश्च दिवसे बारे
सत्तिथौ रिक्तामारहिते दिने भैषज्यं सत् । उक्तञ्च
दीपिकायाम् “द्व्यङ्गोदये गुरुबुधेन्दुसितेषु तेषां
वारे रवेश्च सुविधौ सुतिथौ सुयोगे” । अथ रिप्फद्युन-
मृतिगृहे लग्नात् द्वादशसप्ताष्टमगृहेषु शुद्धेषु शुभपाप-
रहितेषु सत्सु भैषज्यं सत् तत्र वर्षफलप्रश्नादिना
सत्यायुर्द्दाययोगे औषधसेवनं हितमित्ययं विशेषो
ध्येयः । तदुक्तं श्रीपतिना “द्यूनशत्रु निधनव्ययशुद्धौ
सद्ग्रहेषु नितरां बलवत्सु । आयुषश्च हितकारिणि
योगे कीर्त्तिता नियतमौषधसेवा” । कश्यपोऽपि “षट्-
सप्ताष्टान्त्यशुद्धौ च बलिनः शुभखेचराः । आयुर्दाय
करे योगे कर्त्तव्या ह्यौषधक्रियेति” । अथ जनेर्भे जन्म
नक्षत्रे नो भैषज्यं सत् तदुक्तं दीपिकायां “जन्मनक्षत्र-
गश्चन्द्रः प्रशस्तः सर्बकर्मसु । क्षौरभैमज्यवादाध्वकर्त्त-
नेषु च वर्जयेत् ।” पी० धा० ।

भेषजाङ्ग न० ६ त० । औषधस्य अनुपेये वस्तुनि शब्दच० ।

भैक्ष न० भिक्षैव तत्समूहो वा अण् । १ भिक्षायां २ भिक्षासमूहे

च । भिक्षायां भवः तत्प्रतिपाद्यग्रन्थव्याख्या वा ऋगयना०
अण् । ३ भिक्षाभवे त्रि० स्त्रियां ङीप् । ४ तत्प्रतिपादक-
ग्रन्थव्याख्याने च । “भिक्षाशनमनुद्यागात् प्राक् केनाप्य
निमन्त्रितम् । अयाचितं तु तद्भैक्षं भोक्तव्यं मनुरब्र
वीत्” उशनाः ।

भैक्षचर्य्या स्त्री चर--भावे क्यप् ६ त० । भिक्षाचरणे मनुः २ । १०८

भैक्षजीविका स्त्री ३ त० । भिक्षया जीवने त्रि० ।

भैक्षव न० भिक्षूकाणां समूहः खण्डिका० अञ् । भिक्षुसमूहे ।

भैक्ष्य न० भिक्षाणां समूहः ष्यञ् । १ भिक्षासमूहे ।

भिक्षैव चातुर्वर्णा० ष्यञ् । २ भिक्षायाम् ।

भैदिक त्रि० भेदं नित्यमर्हति छेदा० ठञ् । नित्यभेदनार्हे

भैम त्रि० भीमस्य नृपस्येदम् अण् । १ भीमनृपसम्बन्धिनि स्त्रियां

ङीप् । सा च २ नलपत्न्यां दमयन्त्याम् । भीमेनोपासिता
अण् ङीप् । ३ माघशुक्लैकादश्याम् । एका० त० विष्णुधर्मोत्तरे
“मृगशीर्षे शशधरे माघे मासि प्रजायते । एकादश्यां
सिते पक्षे सोपवासो जितेन्द्रियः । द्वादश्यां षट्तिला-
चारं कृत्वा पापात् प्रमुच्यते । तिलस्नायी तिलोद्वत्तीं
तिलहोमी तिलोदकी । तिलस्य दाता भोक्ता च
षट्तिली नावसोदति” । मत्स्यपुराणे “यद्यष्टम्यां
चतुर्दश्यां द्वादश्यामथ भारत! । अन्येष्वपि दिनर्क्षेषु
न शक्तस्त्वमुपोषितुम् । ततः पुण्यामिमां भीमतिथिं
प्रापप्रणाशिनीम् । उपोष्य विधिनानेन गच्छेद्विष्णोः
परं पदम् । भीमतिथिं भैमीत्वेन ख्यातामेकादशीम्” रघु०

भैमगव पु० गोत्रभेदे “हरितकुत्सपिङ्गलशङ्घदर्भमैमगवानामा-

ङ्गिरसाम्वरीषयौवनाश्वेति” आश्व० श्रौ० १२ । १२ । ३

भैमरथ पु० भीमरथमधिकृत्य कृतो ग्रन्थः । भीमरथाधि-

कारेण कृते ग्रन्थे

भैमसेन्य पु० भीमसेनस्यापत्यम् कुरुत्वात् अणि प्राप्ते वार्त्ति०

{??} । भीमसेनापणे बा० इञ् । भैमसेनि तत्रार्थे

भैमायन पुंस्त्री० भीमस्वापत्यं युवा इञन्तात् फक् । भीमण

यून्यपत्ये ।

भैरव पु० भीरोरिदम् अण् । १ भये २ तद्वति त्रि० अमरः ।

नाट्यादिप्रसिद्धे ३ भयानके रसे । ४ भयसाधने त्रि० मेदि०
स्त्रियां ङीप् । ५ शङ्करे ६ तदवतारतद्गणभेदे शब्दर०
७ नदभेदे च पु० हेमच० । ८ शिवपत्न्यां स्त्री ङीप् ।
भैरवभेदानामुत्पत्तिर्वामनपु० २७ अ० यथा
“दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत् । संहि-
तस्तु महायोगी सर्वाधारः प्रजापतिः । गदापातक्षता-
द्भूरि चतुर्धाऽसृगथापतत् । पूर्वधारासमुद्भूतो भैरवो-
ऽग्निसमप्रभः । विद्याराजेति विख्यातः पद्ममालावि-
भूषितः । तथा दक्षिणधारीत्थो भैरवः प्रेतमास्थितः ।
कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः । नागराजेति
विख्यातश्चक्रमालाविभूषितः । क्षतजाद्रुधिराज्जातो
भैरवः शूलभूषितः । सच्छन्दराजेति ख्यात इन्द्रा-
युधसमप्रभः । भूयिष्ठाद्रुधिराज्जातो भैरवः फलमूमितः ।
ख्यातो लग्वितराजेति शीभाञ्जनसमप्रभः । ततो
भूद्देवराजेति भैरवः क्षतजादथ । उग्रराजो बभूवाथ
क्षतजाद्भैरवोऽपरः । एवं हि सप्तरूपोऽसौ कथ्यते
भैरवोमुने! । विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते ।”
शारदीयदुर्गापूजायां तस्याश्चाष्टौ भैरवा यथोक्तं ब्रह्मवै०
प्र० ख० ६१ अ० । “आदौ महाभैरवञ्च संहारभैरवन्तथा ।
असिताङ्गभैरवञ्च रुरुभैरवमेव च । ततः कालभैरवञ्च
क्रोधभैरवमेव च । ताम्रचूड़ं चन्द्रचूड़म् अन्ते च
भैरवद्वयम् । एतान् संपूज्य मध्ये च नव शक्तीश्च
पूजयेत् ।” कालीपूजादौ पूजनीया भैरवाश्च तन्त्रसारोक्ता
यथा “ससिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः ।
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः” । ९ शिवगणा-
धिपभेदे कालि० पु० ४४ अ० यथा “नन्दी भृङ्गी
पृष्ठ ४७०४
महाकालो वेतालो भैरवस्तथा । अङ्गं भूत्वा
महेशस्य वीतभीतास्तपोधनाः । यैर्मानुषशरीरेण प्रापिरे
तपसोबलात् । गणानामाधिपत्यन्तु ते जानन्ति हरं
परम् ।” शिवांशकरवीरभूपचन्द्रशेखरस्य पार्वत्यंश तारा-
वतीगर्भजाते १० वेतालसोदरे च यथोक्तं कालिपु० ४५ अ० ।
“प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि
तस्यान्तु कामार्थं समुपस्थितः । कामावसाने तस्यान्तु
सद्योजातं सुतद्वयम् । अभवन्नृपशार्दूल! तथा शाखा-
मृगाननम् । ततस्तयोर्नाम चक्रे नारदवचनान्नृपः ।
ज्येष्ठो भैरबनामाभूत् भीरोः पुत्रो भयङ्करः । वेताल-
सदृशः कृष्णो वेतालोऽभूत्तथाऽपरः” । अपि च “यीऽसौ
भृङ्गी हरसुतो महाकालोऽपि भूगतः । तावेव गौरी-
शापेन सम्भूय नरयोनिजौ । वेतालभैरवौ जातौ
पृथिव्यां नृपवेश्मनि । यथा भृङ्गिमहाकालावुत्पन्नौ
प्राक् तथा शृणु । योऽसौ महाभैरवाख्यः सकायः
शारमो हरः । भैरवः पृथगेवायं गणाध्यक्षो
हरात्मजः ।” देवीभेदेषु शिवरूपभैरवभेदाश्च तीड़ल-
तन्त्रे १ पटले उक्ता यथा “शिव उवाच । शृणु
चार्वङ्गि! शुभगे! कालिकायाश्च भैरवम् । महाकालं
दक्षिणाया दक्षभागे प्रपूजयेत् । महाकालेन वै सार्द्धं
दक्षिणा रमते सदा । ताराया दक्षिणे भागे अक्षोभ्यं
परिपूजयेत् । समुद्रमथने देवि! कालकूटं समुत्थितम् ।
सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः । क्षोभादि-
रहितं यस्मात् पीतं हालाहलं विषम् । अतएव
महेशानि! अक्षोभ्यः परिकीर्त्तितः । तेन सार्द्धं
महामाया तारिणी रमते सदा । महात्रिपुरसुन्दर्य्या दक्षिणे
पूजयेत् शिवम् । पञ्चवक्त्रं त्रिनेत्रञ्च प्रतिवक्त्रं सुरे-
श्वरि! । तेन सार्द्धं महादेवी सदा कामकुतूहला ।
अतएव महेशानि! पञ्चमीति प्रकीर्त्तिता । श्रीमद्भु-
वनसुन्दर्य्या दक्षिणे त्र्यम्बकं यजेत् । स्वर्गे मर्त्त्ये च
पाताले या चाद्या भुवनेश्वरी । एतया रसते तेन
त्र्यम्बकस्तेन कथ्यते । सशक्तिश्च समाख्यातः सर्वतन्त्रे
प्रपूजितः । भैरव्या दक्षिणे भागे दक्षिणामूर्त्तिर्सज्ञ-
कम् । पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि । छिन्न-
मस्तादक्षिणांशे कबन्धं पूजयेत् शिवम् । कबन्ध-
पूजनाद्देवि! सर्वसिद्धीश्वरी भवेत् । धूमावती
महामिद्या विधवा रूपधाऐणी । वगलाया दक्षभागे
एकवक्त्रं प्रपूजयेत् । महारुद्रेति विख्यातं जगत्संहार-
कारकम् । मातङ्गीदक्षिणांशे च मतङ्गं पूजयेत्
शिवम् । तमेव दक्षिणामूर्त्तिं जगदानन्दकारकम् ।
कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् । पूजयेत्
परमेशानि! स सिद्धो नात्र संशयः । पूजयेदन्नपूर्णाया
दक्षिणांशे च रूपकम् । महामोक्षप्रर्द देवं
दशवक्त्रं महेश्वरम् । दुर्गाया दक्षिणे देशे नारदं
परिपूजयेत् । नकारः सृष्टिकर्त्ता च दकारः पालकः सदा ।
रेफसंहाररूपत्वान्नारदः परिकीर्त्तितः । अन्यासु सर्व-
विद्यासु ऋषिर्यः परिकीर्त्तितः । स एव तस्या भर्त्ता च
दक्षभागे तु पूज्यते” । ११ रागभेदे स च महादेवस्वरूपः ।
धैवतनिषादषड्जगान्धारमध्यमरूपपञ्चस्वरमिलितैर्गेयः ।
अस्य स्थानं धैवतस्वरः शरदृतौ प्रातर्गेयता ।
मतान्तरे अस्य रागिण्यः पञ्च । भैरवी वैराटी
मधुमाधवी सिन्धवी वङ्गाली चेति” कलानाथमते भैरवो
गुर्लरी भाषा विलाबली कर्णाटी वतंसा वड़हंसी
चेति षट् । भरतमते मधुमाधवी ललिता वरारी
बहाकुली भैरवी चेति अन्यविधा पञ्च सङ्गी० दा०
दृश्या । १२ महाविद्यामूर्त्तिभेदे स्त्री ङीप् सा च
पञ्चदशविधा तन्त्रसारे उक्ता यथा
१ त्रिपुरभैरवी २ सम्पत्प्रदा भैरवी ३ कौलेशभैरवी ४
भयविध्वंसिनी भैरवी ५ सकलसिद्धिदा भैरवी ६ चैतन्यभैरवी
७ कामेश्वरी भैरवी ८ षट्कूटा भैरवी ९ नित्या भैरवी १० रुद्र-
भैरवी ११ भुवनेश्वरी भैरवी १२ सकलेश्वरी भैरवी १३ त्रि-
पुरबालाभैरवी १४ नवकूटा वालाभैरवी १५ अन्नपूर्णेश्वरी-
भैरवी च एतासां मन्त्रध्यानादिकं क्रमेण तत्र दृश्यम् ।
१३ तारिणीशक्तियोगिनीभेदे च “महाकाल्यथ रुद्राणी
उग्रा भीमा तथैव च । घोरास्या भ्रामरी चैव
महारात्रिश्च सप्तमी । अष्टमी भैरवी प्रोक्ता योगिनीस्ताः
प्रपूजयेत्” तन्त्रसा० । तत्र शिवस्य पत्न्यां “कालीतन्त्रादौ
“भैरव्युवाच “कालीपूजा श्रुता नाथ” कालीकवचम्
१४ भैरवरागस्य पत्नीरूपरागिणीभेदे स्त्री “भैरवी कौशिकी
चैव भाषा वेलाबली तथा । बङ्गाली चेति रागिण्यो
भैरवस्यैव वल्लभाः” संगीतसा० । मतान्तरे १५ मालवरागस्य
पत्नीभेदे “धानसी मानसी चैव रामकीरी च सिन्धुता ।
आशावरी भैरवी च मालवस्य प्रिया इमाः” । तस्या
गानकालः पूर्वाह्णः । “विभाषा ललिता चैव कामोदा
पठमञ्जरी । रामकीरी रामकेली वेला मारी च गुर्जरी ।
देशकारी च सुभगा पञ्चमी च गडातुड़ी । भैरवी चाथ
पृष्ठ ४७०५
कौमारी रागिण्यो दश पल्ल च । एताः पूर्वाह्णकाले
तु गीयन्ते गायनोत्तमैः” सङ्गीतदा० । १५ नागभेदे पु०
भा० आ० ५७ अ० ।

भैरवीचक्र न० भैरव्याः पूजनार्थं चक्रमू । देवीपूजार्थे

कुलाचारवतां चक्राकारसमूहे तद्विधिर्यथा उत्पत्तितन्त्रे
“नित्यं नैमित्तिकं काम्यं प्रकुर्य्याच्च दिने
दिने । कुलवारे कुलर्क्षे च तिथौ चन्दनके तथा ।
भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्ववत् प्रिये । सुराणां
शोधनं कुर्य्याद् यथावत् परमेश्वरि! । प्रवृत्ते भैरवी-
चक्रे सर्वे वर्णा द्विजोत्तमाः । निवृत्ते भैरवीचक्रे सर्वे
वर्णाः पृथक् पृथक्” ।

भैषज न० भेषजमेव स्वार्थे अण् । १ औषधे २ लावकखगे जटा०

भिषजो गोत्रापत्यं गर्गा० यञ् । भैषज्य तस्य छात्राः
कण्वा० अण् यलोपः । ३ भिषजो गोत्रापत्यच्छात्रेषु व० व०

भैषज्य न० भिषजः कर्म भेषज--स्वार्थे वा ष्यञ् । १ औषपे

भिषजोऽपत्यं गर्गा० यञ् । २ भिषजोऽपत्ये पुंस्त्री० ।

भैष्णज पु० ब० व० भिष्णजो गोत्रापत्यं गर्गा० यञ् तस्य छात्राः

कण्वा० अण् यलोपः । भिष्णग्गोत्रापत्यच्छात्रेषु ।

भैष्णज्य पुंस्त्री० भिष्णजो गोत्रापत्यं गर्गा० यञ् । तद्गोत्रापत्ये

भैष्मकी स्त्री भीष्मकस्य रच्यपत्यम् इञ् ङीप् । भीष्मकनृप-

कन्यायां रुक्मिण्याम् हरिवं० १२० अ० ।

भोक्तृ त्रि० भुज--भोजने अवने च तृच् । १ भोजनकर्त्तरि

२ भोगकर्त्तरि च ३ त्राणकर्त्तरि हेमच० । स्त्रियां ङीप् ।
४ विष्णौ पु० “भ्राजिष्णुर्भोजनं भोक्ता” विष्णुस० ।

भोग स्त्री भुज--भावकर्मादौ घञ् । १ सुखे २ दुःखे ३ सुखदुः-

खाद्यनुभवे ४ स्त्र्यादीनां भाटके ५ भाटकमात्रे च ६ सर्पदेहे
७ तत्फणायाञ्च अमरः । ८ धने ९ पालने १० भोजने च मेदि०
११ देहे १२ सर्पे १३ माने च शब्दरत्ना० १४ रव्यादीनां राशि-
गतिकाले “अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः”
तिथित० । १५ भूम्यादीनां फलभुक्तौ भुक्तिशब्दे दृश्यम् ।
१६ विभवभेदे “कर्त्ता च देही भोक्ता च आत्मा भोजयिता
सदा । भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च” ब्रह्मवै०
प्र० ख० २३ अ० ।

भोगक त्रि० भोग + संज्ञायां कन् । भोगकालीने ततः विदा०

अपत्ये घञ् । भौगक तदपत्ये पुंस्त्री० ।

भोगगृह न० भोगार्थं गृहम् । वासगृहे हेमच० ।

भोगदेह पु० भुज्यते सुखदुःखादिकमत्र भुज--आधारे घञ्

कर्म० । पुण्यपापफलभोगार्थे देहे “प्रेतदेहं परित्यज्य
भोगदेहं प्रपद्यते” शु० त० । २ भोगसाधने देहे स
च लिङ्गशरीरात्मकः तस्यैव भोगसाधनत्वात् “पञ्चप्राण
मनोबुद्धिदशेन्दियसमन्वितम् । अपञ्चीकृतभूतोत्थं
सूक्ष्माङ्गं भोगसाधनम्” वेदान्तिनः । सांख्यमते पञ्चप्राणस्थले
पञ्चभूतमात्रा इति भेदः । स्थूलदेहस्य भोगावच्छेदक-
त्वात् उपचारात् तथात्वमिति बोध्यम् । तद्विवृतिर्यथा
“शृणु देहविवरणं कथयामि यथागमम् । पृथिवी
वायुराकाशस्तेजस्तोयमिति स्फुटम् । देहिनां
देहवीजञ्च स्रष्टुः सृष्टिविधौ परम् । पृथिव्यादिपञ्चभूतैर्यो
देहो निर्म्मितो भवेत् । स कृत्रिमो नश्वरश्च भस्मसाच्च
भवेदिह । वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवः पुरुषः कृतः ।
विभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे । स देहो न
भवेद्भस्म ज्वलदम्रौ यमालये । जले न नडो देहो वा
प्रहारे सुचिरे कृते । न शस्त्रे च न चास्त्रे च न
तीक्ष्णकण्टके तथा । तप्तद्रवे तप्नलोहे तप्तपाषाण एव
च । प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्ध्वपतनेऽपि च । न च
दग्धो न भग्नश्च मुङ्क्ते सन्तापमेव सः” ब्रह्मवै० प्र० २९ अ० ।

भोगपाल पु० भोगं भोगसाधनमश्वं पालयति पालि--अण्

उप० स० । अश्वरक्षके शब्दमा० ।

भोगपिशाचिका स्त्री भोगे पिशाचिकेव । क्षुधायाम् हारा०

भोगप्रस्थ पु० उत्तरस्थदेशभेदे वृ० स० १४ अ० दृश्यम् ।

भोगभूमि स्त्री भोगार्थैव भूमिः न कर्मार्था । भारतवर्षाति-

रिक्ते वर्षे “तत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने! ।
यतो हि कर्मभूरेषा ततोऽप्या भोगभूमयः” विष्णुपु०
२ अंशे ३ अ० ।

भोगवती स्त्री भोगः सर्पशरीरं भूम्नाऽस्त्यस्याम् मतुप् मस्य

वः ङीप् । १ पातालगङ्गायाम् “भोगवती च पाताले स्वर्गे
मन्दाकिनी तथा” इति पुराणम् । २ कुमारानुचरमातृ-
भेदे भा० श० ४७ अ० । ३ नदीभेदे भा० व० । २ अ० ।
४ भोगयुक्ते त्रि० स्त्रियां ङीप् ।

भोगवर्द्धन पु० देशभेदे मार्क० पु० ५७ अ० ४८ श्लो० ।

भोगसद्मन् व० भोगार्थं सद्म । वासगृहे शब्दरत्ना० ।

भोगायतन न० ६ त० । स्थूलदेहे “भोक्तुरधिष्ठानात् भोगा-

यतननिर्माणमन्यथा भूतिभावः” सा० सू० ।

भोगार्ह न० भोगमर्हति अर्ह--अण् उप० स० । १ धान्ये

राजनि० भोग्ये ३ वस्तुमात्रे च त्रि० ।

भोगावली स्त्री ६ त० । १ भोगश्रेणौं । २ स्तुतौ उपचारात्

३ स्तुतिपाठके जटा० ४ नागपुर्य्या हेमच० ।
पृष्ठ ४७०६

भोगावास पु० भोगार्थ आवासः । वासगृहे हारा० ।

भोगिक पु० भोगः अश्वभोगः अस्त्यस्य कर्मत्वेन ठन् ।

अश्वरक्षके शब्दमा० ।

भोगिकान्त पु० ६ त० । वायौ त्रिका० । सर्पाणामनिला-

हारत्वात् तस्य तत्कान्तत्वम् ।

भोगिगन्धिका स्त्री भोगिनः सर्पस्येव गन्धो यस्याः कप्

कापि अत इत्त्वम् । लघुमङ्गुष्ठाख्ये वृक्षे भैषण्टुप्र० ।

भोगिन् पु० भोगः फणाऽस्त्यस्य इनि । १ सर्पे अमरः तद्देव-

ताके । २ अश्लेषानक्षत्रे च ३ ग्रामपात्रे ४ नृपे मेदि० तस्य
प्रशस्तभोगवत्त्वात्तथात्वम् । ५ नापिते विश्वः । ६ व्यावृत्तिकरे
हेमच० ७ भोगयुते त्रि० स्त्रियां ङीप् सा च ८ महिषी-
भिन्नराजभार्य्यायाम् अमरः भट्टिनीत्यत्र पाठान्तरम् ।

भोगिभुज् पु० भोगिनं सर्पं भुङ्क्ते मुज--क्विप् । मयूरे

नैघण्टुप्र० ।

भोगिवल्लभ न० ६ त० । चन्दने राजनि० ।

भोगीन्द्र(श) पु० भोगी इन्द्र इव ६ त० वा । १ अनन्तदेवे

शब्दरत्ना० २ वासुकौ च ।

भोग्य न० भुज--ण्यत् कुत्वम् । १ धने २ धान्ये च । भोगमर्हति

यत् । ३ भोगार्हे त्रि० । भोगार्हस्त्रियां ४ वेश्यायाञ्च स्त्री
राजनि० । ५ आधिभेदे पु० यथाह नारदः “विश्रम्भहेतू द्वा-
वत्र प्रतिभूराधिरेव च । अधिक्रियत इत्याधिः स विज्ञेयो
द्विलक्षणः । कृतकालोपनेयश्च यावद्देयोद्यतस्तथा । स
पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च” ।

भोज पु० भुज--अच् । १ स्वनामख्याते देशभेदे स च दशः

(भोजपुर) इति ख्यातः । २ धारापुरस्य नृपभेदे
भोजप्रबन्ध भोजचरितादौ तद्वृत्तान्तो दृश्यः ।
“धन्थः श्रीभोजराजस्त्रिभुवनविजयी” उद्भटः । वसुदेवस्य
शान्तिदेवागर्भजाते ३ पुत्रभेदे पु० हरिवं० ६६ अ० ।
४ द्रुह्युनृपपुत्रभेदे भा० आ० ८३ अ० ।

भोजक त्रि० भोजयति भुज--णिच्--ण्वुल् । १ भोजनसम्पा-

दके याज्ञ० २ । २३५ श्लो० भुज--ण्वुल् । २ भोजनकर्त्तरि त्रि०

भोजकट पु० भोजः कट इव । भोजाख्ये देशे भा० स० ३५ अ० ।

भोजकटे भवः “एङ्प्राचां देशे” पा० वृद्धसंज्ञायाम्
“वृद्धाच्छः” पा० छ । भोजकटीय तद्देशभवे त्रि० ।

भोजदेव पु० भोजो देव इव । भोजराजे तेन च पातञ्जल-

वृत्तिप्रभृतिग्रन्थाः कृताः ।

भोजन न० भुज--ल्युट् । १ कठिनद्रव्यस्य गलबिलाधःसंयोजने ।

करणे ल्युट् । २ धने निघण्दुः ३ विष्णौ पु० । “भ्राजिष्णु-
भोजनं भोक्ता” विष्णुस० । “भोज्यरूपा च प्रकृतिर्यया
भोजनमुच्यते” मायाया भोज्यरूपेण परिणामात् विष्णो-
स्तदधिष्ठानत्वात् तथात्वमिति भाष्यादौ दृश्यम् । भोजन-
गुणादि भावप्र० उक्तम् आहारशब्दे ८९७ पृ० दृश्यम् ।
तत्र विशेष आह्निकतत्त्वोक्तोत्राभिधीयते “विष्णुपु०
“मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप! । अन्यत्र
फलमांसेभ्यः शुष्कशाकादिकात् तथा । तद्वदौदरिके-
भ्यञ्च गुरुपक्वेभ्य एव च । भुञ्जीतोद्धृतसाराणि न
कदाचिन्नरेश्वर! । नाशेषं पुरुषोऽश्नीयादन्यत्र जगतो-
पते! । मध्वन्नदधिसर्पिर्भ्यः सक्तुभ्यश्च विवेकवान् ।
अश्नीयात्तन्मना भूत्वा पूर्वन्तु मधुरं रसम् । लवणाम्नौ
तथा मध्ये कटुतिक्तादिकांस्तथा । प्राग्द्रवं पुरुषोऽश्रन्
वै मध्ये च कठिनाशनः । पुनरन्ते द्रवाशी तु
बलारोग्ये न मुञ्चति । अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्न-
मकुत्सयन् । पञ्च ग्रासान् सहामौनं प्राणाद्य प्ययनाय
तत्” । मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रीति
वचनात् गायत्राभिमन्त्रितम् । गारुड़े “शाकं सूपञ्च
भूयिष्ठम् अत्यम्लञ्च निवर्जयेत् । न चैकरससेवायां
प्रसज्येत कदाचन ।” “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां
मर्त्यवासिनां नित्यम् । अहनि च तथा तमस्विन्यां
सार्द्धप्रहरयामान्तः” छन्दोगप० । विष्णुः “न तृतीयमथा-
श्रीयादापद्यपि कदाचन” । भगवत्गीतासु “आयुःसत्त्व-
बलरोग्यसुखप्रीतिविवर्सनाः । रखाः स्निग्धाः स्थिरा
हृद्या आहाराः सात्त्विकप्रियाः । कड्ववणात्युष्ण-
तीक्ष्णरूक्षविदाहिनः । आहाराराजसस्येष्टा दुःख-
शोकामयप्रदाः । यातयामं गतरसं पूति पर्य्युषितञ्च
यत् । उच्छिष्टमपि चामेध्यं भोजनं ताममप्रियम्” ।
महाभारते “इन्दुव्रतसहसृस्तु यश्चरेत् कायशोधनम् ।
पिबेद्यश्चापि गङ्गाम्भस्तस्य साम्यं न यात्यसौ” ।
गङ्गामधिकृत्य मत्स्यपुराणम् “अवगाह्म च पीत्वा च
पुनात्यासप्तमं कुलम्” । देवीपुराणम् “ये चैव नृत्तिका
स्तस्मात्तीर्थादाहृत्य भुञ्जते । ते सर्वपापनिर्मुक्ताः
प्रभवन्ति गतामयाः” । मनुः “आयुष्यं प्राङ्मुखो
भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियः प्रत्यङ्मुणो
भुङ्क्त ऋतं भुङ्क्ते ह्युदङ्मुखः” । नियमे त्वेवम् ।
अनियमे तु नोदङ्मुखः । हारीतः “नोदङ्मुखो-
ऽश्नीयात्” इति “निष्कानस्य तु प्राङ्मुखेनैव भीजनम् ।
यथाह देवलः “प्राङ्मुखोऽन्नानि भुञ्जीत शुचिः पीठमधि-
पृष्ठ ४७०७
ष्ठितः । विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः”
जीवन्मातृकस्य दक्षिणामुखत्वनिषेधमाह आपस्तम्बः
“दक्षिणामुखो न भुञ्जीत एवंविधभोजनमनायुष्यं
गातुरुपदिशति” केचित्तु “कुहूस्नानं गयाश्राद्धं
तिलैस्तर्पणमेव च । न जीवत्पितृकः कुर्य्यादृक्षिणा-
मुखभोजनम्” इत्याचारत्न करवृताज्जीवत्पितृकस्यापि
निषेध इत्याहुः । व्यासः “पञ्चार्द्रो भोजनं कुर्य्यात्
प्राङ्मुखो मौनमास्थितः । हस्तौ पादौ तथैवास्यमेषु
पञ्चार्द्रता मता ।” गोभिलः “भुञ्जानेषु तु विप्रेषु
यस्तु पात्रं परित्यजेत् । भोजने विघ्नकर्त्तासौ ब्रह्महा-
पि तथोच्यते” । आपस्तम्बः “दिवा पुनर्न भुञ्जीतान्यत्र
फलमूलेभ्यः” । मनुः “नातिप्रगे नातिमायं न सायं
प्रातराशितः” । अतिप्रगेऽचिरोदितसूर्य्ये अतिसायं
सूर्य्यास्तमितिसमय एवं प्रातराशितः दिनभीजनेनाति-
तृप्तः न सायं न रात्रौ भुञ्जीतेत्यर्थः । आपस्तम्बः
“यस्तु भोजनशालायां भोक्तुकाम उपस्पृशेत् ।
आसनस्थो न चान्यत्र स विप्र पङ्क्तिदूषकः” भोजनशालायां
भोक्तुकामः सन् आसनस्थो वान्यत्र स्थितो वा न
चोपस्पृशेत् । बौधायनः “उपलिप्ते समे स्थाने शुचौ
सध्यासनान्विते । चतुरस्रं त्रिकोणञ्च वर्त्तुलञ्चार्द्ध
चन्द्रकम् । कर्त्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम् ।
अकृत्वा मण्डलं ये तु भुञ्जतेऽधमयोनयः ।
तेषान्तु यक्षरक्षांसि हरन्त्यन्नानि तद्बलात्” ।
आपस्तम्बः “भिन्नकांस्ये तु यो विप्रो यदि भुङ्क्ते तु
कामतः । उपवासेन चैकेन पञ्चगव्येन शुद्ध्यति” ।
तथा शूद्रादिभोजनेनापरिष्कृतपात्रेऽपि । वृद्धमनुः
“ताम्मपात्रे न भुञ्जीत भिन्नकांस्ये मलाविले । पलाश-
पद्मपत्रे वा गृही भुक्तैन्दवं चरेत्” । गव्यवर्द्धमान-
धृताग्निपुराणम् “अर्कपत्रे तथा पृष्ठे आयसे ताम्र-
भाजने । करे कर्पटके चैव भुक्त्वा चीन्द्रायणं चरेत्”
पृष्ठे कदलीपत्रादिपृष्ठे । पैठीनसिः “ताम्ररजतसुवर्णाश्म-
शङ्खशुक्तिस्फटिकानां भिन्नमभिन्नम् इति न दोषः” । अत्र
पाषाणपातं भाजने विहितम् “तैजसानां मणीनाच्च
सर्वस्याश्ममयस्य च । भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता
मनीषिभिः” इति मनुना पाषाणपात्रस्य शुद्धिविधानाच्च ।
प्रचेताः “तान्घूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् ।
यंतश्च ब्रह्मचारी च विधवा च विवर्जयेत्” । अत्रिः
“आसने पादमारीप्य बो भुङ्क्ते ब्राह्मणः क्वचित् ।
मुखेन चान्नमश्नाति तुल्यं गोमांसभक्षणैः” । मुखेन
हस्तोत्तोलनं विना गवादिवदित्यर्थः । आश्वमेधिके
“आर्द्रपादस्तु भुञ्जीत प्राङ्मुखश्चासने शुचौ । पादाभ्यां
धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः” । बौधायनः
“भोजनं हवनं दानमुपहारः परिग्रहः । बहिर्जानु न
कार्य्याणि तद्वदाचमनं स्मृतम्” । हारीवः “मार्ज-
नाच्च वलिकर्म भोजनानि दैवतीर्थेन कुर्य्यात्” ।
पराशरभाष्ये वृद्धमनुः “न पिबेन्न च भुञ्जीत द्विजः
सष्येन पाणिना । नैकहस्तेन च जलं शूद्रेणावर्जितं
पिबेत्” । मार्कण्डेयपुराणम् “पादप्रसारणं कृत्वा न च
वेष्टितमस्तकः” । मनुः “पूजयेदशनं नित्यं चाद्याच्चैव
मकुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेच्च प्रणमेच्चैव सर्वदा ।
अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः प्रार्थयेत्ततः । अस्माकं
नित्यमस्त्वेतदिति भक्त्याथ वन्दयेत्” । विष्णुपु० “नागः
कूर्मश्च क्रकरो देवदत्तो धनञ्जयः । वहिस्था वायवः
पञ्च तेषां भूमौ प्रदीयते । अदत्त्वा बाह्यवायुभ्यः प्राणा-
दिभ्यो न होमयेत्” । इति शिष्टपठितवचनान्नागादिभ्यो
बलिदानमिति प्राचीनाचारः । तत्रान्नं देवेभ्योदत्त्वा
भोक्तव्यं तथा च भगवद्गीतायाम् “इष्टान् भोगान् हि वो
देवादास्यन्ति यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्-
“क्ते स्तेन एव सः” । यज्ञैः संवर्द्धिता देवा वो युष्मभ्यं
भोगानन्नादीनि वृष्ट्यादिद्वारा दास्यन्ति । अतो देवैर्दत्तान्
अन्नादीन् तेभ्योऽदत्त्वा यो भुङ्क्ते स चौर एव ।
स्मृतिः “निवेद्य प्राशनात् पूर्वं देवपादोदकाहुतिः ।
होतव्या जठरे वह्नौ स्वेन पाणितलेन तु” । तेन पादोदकेना-
पोशानं कृत्वा प्राणाहुतिर्नैवेद्येन कार्य्या” आ० त० रघु० ।

भोजनगर न० भोजदेशस्थे नगरे धारापुरे भा० उ० ११७ अ०

भोजपुरादयोऽप्यत्र ।

भोजपति पु० ६ त० । १ भोजदेशाधिपे २ कंसराजे च भाग० १० । ४७ अ० भोजनाथादयोऽप्युत्र

भोजिन् त्रि० भुज--णिनि । भोजनकर्त्तरि स्त्रियां ङीप् ।

भोज्य त्रि० भोज--ण्यत् भक्षणार्थत्वान्न कुत्वम् । १ भक्षणीय-

द्रव्यमात्रे २ भक्ष्यभेदे आहारशब्दे दृश्यम् । श्राद्धान-
कल्पे पितॄणां तृप्त्यर्थं देये ३ अन्नादौ च ।

भोज्यसम्भव पु० सम्भवत्यस्मात् सम् + भू--अपादाने अप् ६ ब० ।

भोज्यजाते देहस्थे रसधातौ शब्दच० ।

भोट पु० (भोटान) देशभेदे शब्दरत्ना० ।

भोटाङ्ग पु० (भोटान) देशभेदे शब्दर० ।

भोलि पु० भा--उलि । १ उष्ट्रे त्रिका० ।

पृष्ठ ४७०८

भोस् अव्य० भा--डोसि । १ सम्बोधने अमरः २ प्रश्नविधाने शब्दर०

भौजीय त्रि० भोजे देशभेदे भवः गहा० छ । भोजदेशभवे ।

भौत पु० भूतानि प्राणिनोऽधिकृत्य प्रवृत्तः तानि देवता वा अस्य

अण् । १ देवले ब्रोह्मणे शब्दमा० । बलिकर्मरूपे गृहस्थ-
कर्त्तव्ये पञ्चयज्ञान्तर्गते २ महायज्ञभेदे । “होमो दैवो
वलिर्भौतो नृयज्ञोऽतिथिपूजनम्” मनुः । २ रात्रौ स्त्री
ङीप् हेमच० । भूतप्रियत्वात्तस्यास्तथात्वम् ।

भौतिक त्रि० मूतानि पृथिव्यादीनि पिशाचान् वा अधिकृत्य

जातानि ठक् । १ भूताधिकारेण जाते “आहङ्कारिकत्व-
श्रुतेर्न भौतिकानि” सा० सू० । २ उपद्रवे व्याध्यादौ ।
३ मुक्तायां राजनि० । ४ महादेवे पु० त्रिका० ।

भौत्य पु० भूतेरपत्यं बा० यक् । चतुर्दशमनौ हरिवं ७ अ० ।

“बभूवाङ्गिरसःपुत्रो भूतिर्नाम्नातिकोपनः” इत्युपक्रमे
मार्कपु० १०० तदुत्पत्त्यादिकमुक्तम् ।

भौम पु० भूमेरपत्यं तस्या इदं वा अण् । १ नरकासुरे “त्वयि

भौमं गते जेतुम्” माघः । २ मङ्गलग्रहे च । ३ भूमिभवे त्रि०
मेदि । भौमजलगुणादिकम् अम्बुशब्दे ३३० पृ० दृश्यम् ।
४ भूमिव्यापके अम्बरे धरणिः । ५ रक्तपुनर्नवायां राजनि०

भौमन पु० भूम्नोऽपत्यम् अण् मन्नन्तत्वात् न टिलोपः ।

विश्वकर्मणि भा० आ० ३२ अ० ।

भौमिक त्रि० भूमौ तिष्ठति अधिकरोति वा ठक् । भूम्यधि-

कारिणि २ भूमिस्थिते च मनुः ५ । १४२ ।

भौरिक त्रि० भूरि स्वर्णमधिकरोति ठक् । कनकाध्यक्षे अमरः ।

भौरिकि पुंस्त्री० भूरिकस्यर्मरपत्यमिञ् । भूरिकर्षेरपत्ये

स्त्रियां क्रौड्या० ष्यङ् । भोरिक्या तदपत्ये स्त्रियां
षित्त्वात् ङीष् च भौरिकीत्यपि तत्रार्थे । ततः अपत्ये
तिका० फिञ् । भौरिक्यायणि भौरिकेरपत्ये पुंस्त्री० ।
भौरिक्या० विषये र्थे विधल् । भौरिकिविध तद्विषये देशे

भौरिक्यादि पु० देशे विषये विधल्प्रत्ययनिमित्ते शब्दनणे

स च गणः पा० ग० उक्तो यथा “भौरिकि भौलिकि
चौपयत चैटयत काणेय बाणिजक बालिकाज्य सैकयत
वैकयत” ।

भौलिकि पुंस्त्री० भौरिकि + वा रस्य लः । भौरिकिशब्दार्थे भौरिकिशब्दवत् सर्वम् ।

भौलिङ्ग पुंस्त्री० भूलिङ्गस्य खगभेदस्यापत्यम् अण् । भूलिङ्ग-

खगापत्ये स्त्रियां गौरा० ङीष् । ततः युवप्रत्ययस्य लुक्

भौवादिक पु० भ्वादौ गणे पठितः ठक् वात्पूर्वम् ऐच् ।

भ्वादिनणपठिते धातौ । एवम् आदादिकजौहुत्यादि-
कदैवादिकादयोऽपि अदाद्यादिगणपठिते धातौ ।

भ्यस भये भ्वा० आ० अक० सेट् । भ्यसते अभ्यसिष्ट ।

भ्यसते अव्य० । उत्तरदिशि निघण्टुः ।

भ्रंश पु० भ्रन्श--भावे घञ् । व्यसने अमरः । अतःपाते च

भ्रंशकला अव्य० ऊर्य्या० । हिसायाम् गणरत्र० टी० । भ्रंश-

कलाकृत्य हिसित्वेत्यर्थः ।

भ्र(भ्रु)(भ्रू)कंश पु० भ्रुवा कुंशा इङ्गितज्ञापनं यस्य ।

“अभ्रूकुंशादीनाम्” वार्त्ति० अ पक्षे वा ह्रस्वः इति
रूपत्रयम् स्त्रीवेशधारिणि नटे अमरः ।

भ्र(भ्रु)(भ्रू)कुटि पुंस्त्री० भ्रुवः कुटिः कौटिल्यम् । भ्रकुं-

शवत् रूपत्रयम् । भ्रुवः कौटिल्ये अमरः ।

भ्र(भ्ल)क्ष अदने भ्वा० उ० सक० सेट् वा रस्य लः धातुपाठः ।

भ्र(भु)क्षति ते अभ्र(भ्ल)क्षोत् । बभ्र(भ्ल)क्ष ।

भ्रजस् पु० भ्राजते भ्राज--असुन् पृषो० ह्रस्वः । १ अग्नौ

छन्दसि यजु० १५ । ५ । “अग्निर्वै भ्रजश्छन्दः” शत० ब्रा०
८ । ५ । २ । ५ । २ आदित्यरूपे क्षुरे च “क्षुरो भ्रमश्छन्द
इत्यसौ वा आदित्यः क्षुरो भ्रजश्छन्दः” तत्रैव ।

भ्रण शब्दे भ्वा० पर० सक० सेट् । भ्रणति अभ्राणीत् अभ्रणीत्

बभ्राण ।

भ्रन्श अधःपतने दिवा० अक० सेट् । भ्रश्यति इरित् अभ्रशत् अभ्रंशीत् भ्रश्यत ।

भ्रन्श अधःपाते अक० सेट् । भ्रंशति ऋदित् अभ्रशत् ।

उदित् । भ्रंशित्वा भ्रष्ट्वा । भ्रष्टः ।

भ्र(भ्रु)(भ्रू)भङ्ग पु० ६ त० । भ्रुकुंशवत् वा अकारह्रस्वौ भ्रुवो भङ्गे ।

भ्रम चलने भ्वा० पर० अक० सेट् । भ्रमति कौटिल्ये इरित् ।

अभ्रमत् अभ्रमीत् । बभ्राम कणा० भ्रेमतुः बभ्रतुः ।

भ्रम चलने दिवा० पर० सक० सेट् शमा० । भ्राम्यति अभ्रमीत् ।

भ्रम भ्वा० पर० अक० सेट् । भ्रमति अभ्रमीत् फणा० भ्रेमतुः

बभ्रमतुः चङि न ह्रस्वः । ज्वला० भ्रमः भ्रामः ।

भ्रम पु० भ्रम--घञ् । १ मिथ्याज्ञाने (अन्यथाभूतस्य वस्तुनो-

ऽन्यथारूपेण ज्ञाने) २ जलनिर्गमस्थाने ३ कुन्दे (कुंद)
४ भ्रमणे च मेदि० । भ्रमश्च तद्वति तत्प्रकारकज्ञानम् ।
व्यधिकरणप्रकाराच्छिन्नविषयताशालिज्ञानम् । यत्प्रका-
रिका या विषयता तत्प्रकारव्यधिकरणविषयताकज्ञानम् ।
स्वप्रकारव्यधिकरणविषयताकज्ञानम् । स्वव्यधिकरणप्र-
कारावच्छिन्नविषयताप्रतियोगिज्ञानम्” (चि०) तदभाव-
वन्निरूपिततन्निष्ठविषयताप्रतियोगिताकतदभाववति
तत्सम्बन्धेन तद्धर्मविशिष्टतन्निरूपितवैशिष्ट्यविषयताशासि
ज्ञानम् । विशेष्यितासम्बन्धेन तत्तद्व्यक्तित्वावच्छिन्नप्रतियो-
तिताकतदभाववदवच्छिन्ना या तद्व्यक्तिप्रकारिता त-
पृष्ठ ४७०९
च्छालिज्ञानम् । (मू० मा०) “मिथ्याज्ञानापरपर्य्यायोऽयं
निश्चयः” (गौ० वृ०) अतस्मिंस्तद्ग्रहः (भा० प०) ।
तदभाववति तत्प्रकारकं ज्ञानम् यथा शुक्तौ इदं रजतम्
इति ज्ञानम् । (त० प्र०) भ्रमो द्विविधः । विपर्य्यासः
संशयश्च । तद्धेतवश्च दोषा दोषशब्दे ३७६३ पृ० दृश्याः

भ्रमण न० भ्रम--ल्युट् । गतिभेदे पर्य्यटने कर्मन्शब्दे दृश्यम्

भ्रमणी स्त्री भ्रम--करणे ल्युट् ङीप् । १ क्रीडार्थपर्य्यटने

तत्साधने २ क्रीडिकायाञ्च मेदि० ।

भ्रमत्कुटी स्त्री भ्रमन्ती कुटीव । तृणादिनिर्मिते छत्रे त्रिका०

भ्रमर पुंस्त्री० भ्रम--करन् । १ मधुकरे अमरः स्त्रियां जाति-

त्वात् ङीष् । २ कामुके मेदि० । ३ भ्रमरच्छल्लीलताभेदे स्त्री
राजनि० टाप् ।

भ्रमरक पु० भ्रमर इव कायति कै--क । ललाटलम्बिते भ्रमर-

तुल्ये चूर्णकुन्तले अमरः । स्वार्थे क । भ्रमरक भ्रमरे
वालमूषिकायाञ्च मेदि० । (तुरमीन) वेधनयन्त्रभेदे
दशकुमा० । जलभ्रमणे विश्वः ।

भ्रमरकीट पु० भ्रमर इव कीटः । (कुमेरपोका) कीटभेदे

भ्रमरच्छल्ली स्त्री लताभेदे राजनि० । भृङ्गच्छल्ल्य दयोऽप्यत्र

“भृङ्गच्छली च कटुका तिक्ता दीपनरोचनी” राजनि० ।

भ्रमरपदक न० “भ्रमरपदकमिदमभिहितम्” द्वादशाक्षर-

पादके वृ० र० टी० उक्ते छन्दोभेदे ।

भ्रमरप्रिय पु० ६ त० । धाराकदम्बे रत्नमा० ।

भ्रमरमारी स्त्री भ्रमरं मारयति मारि अण् उप० स० गौरा०

ङीष् । भृङ्गारिलतायाम् राजनि० । भृङ्गार्य्यादयोऽप्यत्र
“भ्रमरारिश्च तिक्ता स्यात् पित्तश्लेष्मकफापहा । त्रिदोष-
कुष्ठकण्डूतिशोफव्रणविनाशिनी” राजनि० ।

भ्रमरविलसिता स्त्री “मोगो नौगो भ्रमरविलसिता” छन्दो-

म० उक्तै एकादशाक्षरपादके छन्दोभेदे अस्य क्लीवत्व-
मेके वदन्ति ।

भ्रमरातिथि पु० भ्रमरः अतिथिर्यस्य । चम्पके राजनि० ।

भ्रमरानन्द पु० भ्रमरान् आनन्दयति आ + नन्द--णिच्-

अण् उप० स० । १ बकुले २ अतिमुक्तके रक्ताम्लाने च राजनि०

भ्रमरालक पु० भ्रमर इव अलति पर्य्याप्नोति अल--ण्वुल् ।

ललाटस्थे चूर्णकुन्तले हेमच० ।

भ्रमरी स्त्री भ्रमर + ङीष् । १ षट्पद्यां अस्त्यर्थे अच् गौरा०

ङोष् । तदाकारवत्यां २ जतुकायां ३ पुत्रदात्र्याञ्च राजनि०

भ्रमरेष्ट पु० ६ त० । १ श्योनाकवृक्षे २ भार्ग्या ३ भूमिजम्ब्वाञ्च

स्त्री राजनि० ।

भ्रमरोत्सवा स्त्री भ्रमराणासुत्सवो मोदो यत्र । माधवी-

लतायाम् राजनि० ।

भ्रमासक्त त्रि० भ्रमे निशानार्थचक्रभ्रमणे आसक्तः । शस्त्रनिशानासक्ते शस्त्रमार्जके हेमच० ।

भ्रश अधःपतने दि० पर० सक० सेट् । भ्रश्यति अभ्राशीत्

अभ्रशीत् । उदित् क्त्वा वेट् । भ्रशित्वा भ्रष्ट्वा । भ्रष्टः ।

भ्रशिमन् पु० भृशस्य भावः अतिशये वा इमनिच् ऋतोरः ।

१ भृशत्वे २ अतिशयभृशे च । अतिशये इष्ठन् भ्रशिष्ठ
ईयसुन् भ्रशीयस् अतिशयभृशे त्रि० ईयसुनि स्त्रियां ङीप् ।

भ्रष्ट त्रि० भ्रश--क्त । च्युते गलिते स्वार्थे क । तत्रार्थे स च

उपका० ।

भ्रस्ज पाके तु० उ० सक० अनिट् । भृज्जति आर्द्धधातुके

वा भर्जादेशः स च सेट् अभ्राक्षीत् अभर्जीत् । अभ्रष्ट
अभर्जिष्ट । बभर्ज वभ्रज्ज ।

भ्राज दीप्तौ भ्वा० आत्म० अक० सेट् । भ्राजते अभ्राजिष्टं फणा०

भ्रेजे बभ्राजे । चङि वा ह्रस्वः । द्वितं अथु भ्राजर्थुः ।

भ्राज न० वर्षसाध्ये गवामयनसत्रे विषुवन्नामके प्रधानदिने

गेये दिवाकीर्त्त्ये सामभेदे “दिवाकीर्त्त्य सामा भवति”
इत्युपक्रमे तस्य दिवाकीर्त्त्यत्वं समर्थ्य “भ्राजा-
भ्राजे पवमानमुखे भवतो मुखत एवास्य ताभ्यां
तमोऽपघ्नन्ति” ता० ब्रा० ४ । ६ । १४ । “यद्यप्यत्र पवमानमुख
इति सामान्यसम्बन्ध एव दृश्यते ये गायत्रे ते गायत्री-
षूत्तरयोः पवमानयोरिति विशेषावगतेरेवं व्याख्यातं
स्पष्टमन्यत् । अनेन भ्राजाभ्राजयोः साम्नोः स्थान-
नियमोऽर्थादुक्तो भवति” भा० तच्च स म “परिस्वानो
गिरिष्ट” इत्यस्मिन् गेयम् तच्च ऊहगाने ३ प्र० १२ ।

भ्राजक त्रि० भ्राज--ण्वुल् । १ दीप्तिशीले २ पित्तभेदे न० शब्द-

रत्ना० पित्तशब्दे ४३३५ पृ० भावप्र० वाक्यं दृश्यम् ।

भ्राजिर पु० भौत्यमन्वन्तरे देवभेदे मार्कपु० १०० अ० ।

भ्राजिष्णु त्रि० भ्राज--इष्णुच् । १ दीप्तिशीले २ विष्णौ पु० ।

“भ्राजिष्णुर्भोजनं भोक्ता” विष्णुस० ।

भ्रातुष्पुत्र पु० ६ त० अलुक्स० कस्का० । भ्रातुः पुत्रे ।

भ्रातृ पु० भ्राज--तृच् पृषो० । एकपितृजाते (भाइ) इति

ख्याते पदार्थे तस्य स्वस्ना सहोक्तौ एक० । २ भ्रातृ-
भगिन्योः द्वि० व० ।

भ्रातृक त्रि० भ्रातुरिदम् ठञ् । भ्रातृसम्बन्धिनि ।

भ्रातृज पुंस्त्री० भ्रातुर्जायते जन--ड ५ त० । १ भ्रातुपुत्रे

२ तत्कन्यायां स्त्री ।
पृष्ठ ४७१०

भ्रातृजाया स्त्री ६ त० । भ्रातृपत्न्यां कलौ नियोगेनापि तद्-

गमननिषेधो यथा “भ्रातृजायां कमण्डलुम्” कलिशब्दे
१८७३ पृ० दृश्यम् । अनियोगेन तद्गमने दोषो यथा
“भ्रातृजायापह्वारी च मातॄगामी भवेन्नरः” ब्रह्मवै० प्र०
५६ अ० । भ्रातृपत्न्यादयाऽप्यत्र ।

भ्रातृद्वितीया स्त्री भ्रातृभीजनार्था द्वितीया । कार्त्तिकशुक्ल-

पक्षस्य द्वितीयायाम् यमद्वितीयायां तद्विधिः निर्णयसि०
भविष्ये “कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर! ।
यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः । अतो यमद्वि-
तीयेयं त्रिषु लोकेषु विश्रुता । अस्यां निजगृहे विद्वन्! न
भोक्तव्यं ततो नरैः । स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टि-
वर्द्धनम् । दानानि च प्रदेयानि भगिनीभ्योऽपि विधानतः ।
स्वर्णालङ्कारवस्त्रान्नपूजासत्कारभोजनैः । सर्वा भगिन्यः
संपूज्या अभावे प्रतिपन्नकाः” प्रतिपन्नाः मातृभगिन्य इति
हेमाद्रिः । “पितृव्यभगिनीहस्तात् प्रथमायां युधिष्ठिर! ।
मातुलस्य सुताहस्ताद्द्वितीयायां तथा नृप! । पितुर्मातुः
स्वसः कन्ये तृतीयायां तयोः करात् । भोक्तव्यं सहजा-
याश्च भगिन्या हस्ततः परम् । सर्वासु भगिनीहस्ता-
द्भोक्तव्यं बलबर्द्धनम् । यस्यां तिथौ यमुनया यमराजदेवः
सम्भोजितः प्रतिजगत् स्वसृसौहृदेन । तस्यां स्वसुः
करतलादिह यो भुनक्ति प्राप्नोति रत्नसुखधान्यमनुत्तमं
सः । गौडास्तु “यसं च चित्रगुप्तं च यमदूतांश्च पूजयेत् ।
अर्व्यञ्चात्र प्रदातव्यं यमाय सहजद्वयैः मन्त्रः “एह्येहि
मार्त्तण्डज! पाशहस्त! यमान्तकालोकधरामरेश! । भ्रातृ-
द्वितीयाकृतदेवपूजां गृहाण चाऽर्घ्यं भगवन्नमस्ते! भ्रा-
तस्तवानुजाताहं भुङ्क्ष्य भक्तमिदं शुभम् । प्रीतये
यमराजस्य यमुनाया विशेषतः” ज्येष्ठाऽग्रजातेति वदेदिति
स्यार्त्ताः । इत्यन्नदानमित्यप्याहुः । ब्रह्माण्डपुराणेऽपि
“या तु भोजयते नारी भ्रातरं युग्मके तिथौ । अर्च्चये-
च्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात् । भ्रातुरायुःक्षयो
राजन् न भवेत् तत्र कर्हिचित्” ।

भ्रातृबधू स्त्री ६ त० । (भादरवौ) कृनिष्ठभ्रातृजायार्यां हला०

भ्रातृभगिनी स्त्री द्वि० व० । वा एकशेषः । भ्रात्रासहित

भगिन्याम् ।

भ्रातृवल त्रि० भ्राताऽस्त्यस्य वलच् । भ्रातृयुक्ते ।

भ्रातृव्य पु० भ्रातुः पुत्रः भ्रातृ + व्यत् । १ भ्रातुष्पुत्रे २ शत्रौ च

हेमच० “अतिपाप्मानं भ्रातृव्यं क्षपयति य एतया स्तु-
ते” ता० ब्रा० २ । ७ । २ ।

भ्रातृश्वशुर पु० भ्रात्रा पतिभ्राता श्वशुर इव पूज्यत्वात् ।

पतिज्येष्ठभ्रातरि (भासुर) शब्दरत्ना० ।

भ्रात्र न० भ्रातुरिदम् शिवा० अण् । भ्रातृसम्बन्धिनि ।

भ्रात्रीय पुंस्त्री० भ्रातुरपत्यम् छ । भ्रातुष्पुत्रे अमरः ।

भ्रान्त न० भ्रम--भावे क्त । १ भ्रमणे “जनस्थाने भ्रान्तम्” नाट०

कर्त्तरि क्त । २ मिथ्याज्ञानयुक्ते ३ भ्रमणयुक्ते च त्रि० ।
४ धुस्तूरे ५ मत्तगजे च पु० राजनि० ।

भ्रान्ति स्त्री भ्रम--क्तिन् । १ भ्रमणे २ अयथार्थज्ञाने च ।

“षाण्मासिके तु संप्राप्तै भ्रान्तिः संजायते नृणाम् ।
धात्राक्षराणि सृष्टानि पत्रारूढ़ान्यतः पुरा” ज्यो० त० ।
भ्रान्तिज्ञानञ्च चित्तविक्षेपः योगान्तरायः पात० सू० उक्तः
चित्तविक्षेपशब्दे २९४१ पृ० दृश्यम् ।

भ्रान्तिमत् त्रि० भ्रान्तिरस्त्यस्य मतुप् मस्य वः । १ भ्रमज्ञान-

युते स्त्रियां ङीप् । २ अर्थालङ्कारभेदे पु० अलङ्कारशब्दे
दृश्यम् ।

भ्रान्तिहर पु० भ्रान्तिं हरति हृ--ट ।

१ मन्त्रिणि शब्दरत्ना० २ भ्रमनाशके त्रि० स्त्रियां ङीप् ।

भ्राम त्रि० भ्रम--ज्वला० कर्त्तरि ण । भ्रमयुक्ते ।

भ्रामक त्रि० भ्रामयति भ्रम--णिच्--ण्वुल् । १ भृमजनके २

शृगाले पुंस्त्री० स्त्रियां ङीप् । ३ धूर्त्ते त्रि० । ४ सूर्य्यावर्त्ते
मणौ ५ अयस्कान्ते (चुम्बकपातर) मेदि० तस्य
लौहचालकत्वात् तथात्वम् ।

भ्रामर न० भ्रमरेण संभृतं सम्पादितम् अस्येदं वा अण् ।

१ मधुनि । २ भ्रमरसम्यन्धिनि त्रि० ३ अयस्कान्ते पु० मेदि० ।
“तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट् पदम्” इत्युप-
क्रम्य “भ्रामरीति च मां लोकाः” इति देवीमा० उक्ते
४ चण्डीमूर्त्तिभेदे स्त्री । भ्रामरमधुगुणादि “किञ्चित् सृक्ष्मैः
प्रसिद्धेभ्यः पुष्पेभ्योऽलिभिश्चितम् । निर्मलं स्फटिकाभं
यत्तन्मधु भ्रामरं स्मृतम् । भ्रामरं रक्तपित्तघ्नं मूत्र-
जाड्यकरं गुरु । स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं
हिमम्” भावप्र० उक्तम् । ५ अपस्माररोगे शब्दमाला ।

भ्रामरिन् त्रि० भ्रामरं भ्रमरस्येव धूर्णनवत्त्वात् रूपमस्य

इनि । अपस्माररोगयुते “भ्रामरी गण्डमाली च” मनुः
३ । १६१ । टीकायां कुल्लू० ।

भ्राशं भासे भ्वा० आ० अक० सेट् । भ्राशते भ्राश्यते अभ्राशिष्ट ।

फणा० भ्रेशे बभ्राशे । ऋदित् चङि न ह्रस्वः । द्वित्
अथुः भ्राशथुः ।

भ्राष्ट्र पु० भ्रस्ज--करणे ष्ट्रत् । १ अम्यरीषे (भाजनाखोसा)

अमरः । भ्राष्ट्रे संस्ततः अण् । २ अम्बरीषसंस्तते भृष्ट-
तण्डुलादौ त्रि० स्त्रियां ङीप् ।

भ्राष्ट्रकि पु० गोत्रर्षिप्रवरभेदे प्रवरा० ।

पृष्ठ ४७११

भ्राष्ट्रिव्रतिन् पु० गोत्रप्रवरर्षिभेदे हेमा० व्र० प्रवराध्यायः ।

भ्रास दीप्तौ दिवा० आ० अक० सेट् । भ्रास्यते अभ्रासिष्ट ।

भ्रास दीप्तौ भ्वा० आ० अक० सेट् । भ्रास्यते अभ्रासिष्ट कणा०

भ्रेसे बभ्रासे द्वित् । भ्रासथुः ऋदित् चङि ग ह्रस्वः ।

भ्री भवे अक० भरणे सक० क्य्रा० वा प्त्वा० पर० अनिट् ।

भ्रीणाति भ्रिणाति अभ्रैषीत् ।

भ्रुड संवरणे सक० संघाते अक० तु० कु० पर० सेट् । भ्रु-

डति अभ्रुडीत् बुभ्रोड़ ।

भ्रू स्त्री भ्रम--डू । नेत्रयोरूर्ध्वस्वायां रोमराजौ अमरः ।

तच्छुभाशुभलक्षणं गरु० ६६ अ० उक्तं यथा “विशालोन्नता
सुखिनो दरिद्रा विषमभ्रुवः । धनी दीर्घासंसक्तम्बूर्बाले-
न्दून्नतसुभ्रुवः । आद्यो निस्वश्च खड्गभ्रूर्मध्याश्च
विनतभ्रुवः” । भ्रुवो मूलम् जाहच् । भ्रूजाह भ्रूमूले न० ।

भ्रूक्षेप पु० ६ त० । १ भ्रूभङ्गे २ सङ्केतज्ञापनाय भ्रुवोस्तिर्य्यक्-

चालने “भ्रूक्षेपमात्रानुमितप्रवेशाम्” कुमारः ।

भ्रूण आशायां विशङ्कायाञ्च चु० आत्म० सक० सेट् । भ्रूणयते

अयुभ्रुणत

भ्रूण पु० भ्रूण--घञ् । स्त्रीणां १ गर्भे २ वासके च अमरः ।

भ्रूणघ्न त्रि० भ्रूणं गर्भं हन्ति हन--क । भ्रूणहत्याकारके

क्विप् भ्रुणहाप्यत्र । “अपि भ्रूणहनं मासात्” मनुः ।
तत्प्रायश्चित्तं प्रा० वि० उक्तं यथा
“तत्र पुंस्त्रेन ज्ञाते पुरुषबधप्रायश्चित्तं स्त्रीत्वेन ज्ञाते स्त्री-
बधप्रायश्चित्तम् । अविज्ञाते तु पुंबधप्रायश्चित्तमाह मनुः
“हत्या गर्भमविज्ञातमेतदेव व्रतञ्चरेत् । राजन्यवैक्ष्यौ
चेच्ज्ञानादात्रेयी (रजस्वलां) मेव च स्त्रियम्” एतदेवेति ।
ब्रह्मवधप्रायश्चित्तमित्यर्थः । ब्राह्मणीगर्भबधविधयमिदं
तस्यैव प्रकृतत्वात् । क्षत्रियादिगर्भबधे तु यद्वर्णो गर्भस्त-
द्वर्णबधप्रायश्चित्तं कार्य्यं यथा याज्ञवल्क्यः “यागस्य-
क्षत्रविड्घाते चरेद्ब्रह्महणो व्रतम् । गर्भहा च
यथावर्णं तथात्रेयीनिसूदनः” व्रतपदोपादानात् ज्ञानत
इदम् अज्ञानतस्तदर्द्धं तेन ज्ञानकृते ब्राह्मणगर्भबधे द्वा-
दशवार्षिकम् । क्षत्रियगर्भबधे त्रैवार्षिकं वैश्यगर्भबधे
सार्द्धवार्षिकं शूद्रगर्भबधे नवमासिकं, धेनुसङ्कलनमप्यूह-
नीयम्” ।

भ्रूभङ्ग पु० ६ त० । क्रोधादिज्ञापनार्थं भ्रुवस्तिर्प्यक्चासने

“भ्रूभङ्गदुष्प्रेक्षसुणस्य तस्य” इति कुमारः ।

भ्रेज भासे भ्वा० आत्म० अस० सेट् । भ्रेजते अम्रेजिष्ट । ऋदित्

चङि ग ह्रस्वः । अगिभ्रेजत् त ।

भ्रे(भ्ले)ष पतने चलने च अक० भ्वा० उभ० सेट् । भ्रे(भ्ले)षति

ते अभ्रे(भ्ले)षीत् अभ्र(भ्ले)षिष्ट । ऋदित् चङि न
ह्रस्वः । अबिभ्रे(भ्ले)षत् त । तत्र पतने आ० भये चलने
उभ० अक० इति भेदः ।

भ्रेष पु० भ्रेष--घञ् । उचितस्थानात् पतने अमरः ।

“कारणभ्रेषे कार्य्यभ्रेषो मा भूदिति” वृ० उ० भा० ।

भ्रौवेय त्रि० भ्रुव इदम् “भ्रुवो वुक् च” पा० टक् वुक् च ।

भ्रूसम्बन्धिनि च ।

भ्लक्ष भक्षणे भ्वा० उभ० सक० सेट् । भ्लक्षति ते अभ्लक्षीत्

अभ्लक्षिष्ट । दुर्गनते भ्रक्षधातुरयम् ।

भ्लाश दीप्तौ वा दिवा० पक्षे भ्वा० आ० अक० सेट् । भ्लाश्यते

भ्लाशते अभ्लाशिष्ट फणा० भ्लेशे बभ्लाशे । द्वित् (अक्षु)
भ्लाशक्षुः । वोपदेबमते भ्राशधातुरयम् ।
इति श्रीतारानाथतर्कबाचस्पतिभट्टाचार्य्यसङ्कलिते
वाचस्पत्ये भकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/भूत&oldid=57832" इत्यस्माद् प्रतिप्राप्तम्