वाचस्पत्यम्/भाग

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४६४९

भाग पु० भज--भावे घञ् । १ भजने कर्मणि घञ् । २ अशे अमरः

इष्टवस्तुनोऽर्द्धे ३ एकदेशे ४ भाग्ये “त्रिंशांशकेस्तथा राशेर्भाग
इत्यभिधीयते” इति ज्योतिषोक्ते राशेः ५ त्रिंशांशके च
शब्दर० । भगो देवताऽस्य अण् । ६ पूर्वफल्गुनीनक्षत्रे
तत्समसख्यायाम् ७ एकादशसंख्यायां ८ भागहारे
केनचित् अङ्केन कस्यचित् भजनरूपे अङ्कशास्त्रोक्ते व्या-
पारभेदे ।

भागजाति स्त्री । भागस्य विभजनस्य प्राकारभेदे सा च

चतुर्विधा भागजातिः प्रभागजातिः भागानुबन्धो भागा-
पवाहश्च तत्र अंशानां समछेदकरणं भागजातिः
इत्युच्यते । यथा “अन्योऽन्यहराभिहतौ हरांशौराश्योः
समच्छेदविधानमेवम् । मिथोहराभ्यामपर्त्ति ताभ्यां यद्वा
हरांशौ सुधियात्र गुण्यौ” लीला० । भागस्य भागः
प्रभागो यथा “लवालवघ्नाश्च हराहरघ्नाः भागप्रभागेषु
सवर्णनं स्यात्” । लीला० । भागस्यानुबन्धो योजनं भागानु-
बन्धो भागावाहश्च तद्वियोजनम् यथा । “छेदघ्नरूपेषु लवा
धनर्णमेकस्य भागा अधिकोनकाश्चेत् । स्वांशाधिकोनाः
खलु यत्र तत्र भागानुबन्धे च लवापवाहे । तलस्थहारेण
हरं निहन्यात् स्वांशाधिकोनेन न तु तेन भागान्” लीला०

भागधेय न० भाग + स्वार्थे धेय अभिधानात् नपुं सकत्वम् ।

१ भाग्ये । भागेन धीयतेऽसौ धा--कर्मणि यत् । २ राजदेये
करे पु० अमरः । भागो धीयतेऽस्मै धा--सम्प्रदाने यत् ।
३ दायादे सपिण्डे अजयपालः ।

भागलक्षणा स्त्री भागे लक्षणा । शक्यार्थांशभेदपरित्यागेन

इतरांशबोधकलक्षणाभेदे जहजहत्स्वार्थलक्षणायाम् ।
जहजहल्लक्षणाशब्दे ३०८१ पृ० दृश्यम् ।

भागवत त्रि० भगवतः भगवत्या वा इदम् सोऽस्य देवता वा

अण् । भगवतः भगवत्या वा १ भक्ते, २ तयोः सम्बन्धिनि च
“भग्नाः कृषेर्भागवता भवन्ति” उद्भटः । तयोः सम्बन्धि-
गुणवर्णने ३ महापुराणे ४ उपपुराणे च न० “यैर्न श्रुतं
प्रागवतं पुराणम्” भाग० । भागवतञ्च महापुराणभेदः
उपपुराणभेदो वा उपपुराणशब्दे विस्तरेणं दर्शितः ।
नारदीयपु० महापुराणप्रतिपाद्यविषयोक्तौ ये विषया
उक्तास्ते नान्यत्रेति विष्ण भागवतस्यैव महापुराणत्व-
मित्येके उपपुराणशब्दे अन्यमतं दृश्यम् ।
विष्णुभागवतप्रतिपाद्यविषयाश्च नार० पु० ४ अ० ९६ उक्ता यथा
“मरीचे! शृणु वक्ष्यामि वेदव्यासेन यत् कृतम् । श्रीमद्-
भागवतं नाभ पुराणं ब्रह्मसम्मितम् । तदष्टादशसाहस्रं
कीर्त्तितं पापनाशनम् । सुरपादपरूपोऽयं स्कन्धै-
र्द्वादशभिर्युतः । भगवानेव विपेन्द्र! विश्वरूपी
समीरितः” तस्य प्रथमस्कन्धे । “तत्र तुप्रथमे स्कन्धे
सूतर्षीणां समागमः । व्यासस्य चरितं पुण्यं पाण्डवानां
तथैव च । पारीक्षितसुपाख्यानमितीदं समुदाहृतम्” ।
द्वितीयस्कन्धे “परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम् ।
ब्रह्मनारदसंवादेऽवतारचरितामृतम् । पुराणलक्षणञ्चैव
सृष्टिकारणसम्भवः । द्वितीयोऽयं समुदितः स्कन्धो
व्यासेन धीमता” । तृतीयस्कन्धे “चरितं विदुरस्याथ
मैत्रेयेणास्य सङ्गमः । सृष्टिप्रकरणं पश्चाद् ब्रह्मणः
परमात्मनः । कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदा-
हृतः” । चतुर्थस्कन्धे “सत्याश्चरितमादौ तु ध्रुवस्य
चरितं ततः । पृथोः पुण्यसमाख्यानं ततः प्राचीन
वर्हिषः । इत्येष तूर्य्यो गदितो विसर्गे स्कन्ध उत्तमः” ।
पञ्चमस्कन्धे “प्रियव्रतस्य चरितं तद्वंश्यानाञ्च पुण्यदम् ।
ब्रह्माण्डान्तर्गतानाञ्च लोकानां वर्णनन्तत ।
नरकस्थितिरित्येष संस्थाने पञ्चमो मतः” । षष्ठस्कन्धे “अजा-
मिलस्य चरितं दक्षसृष्टिनिरूपणम् । वृत्राख्यानं ततः
पश्चान्मरुतां जन्म पुण्यदम् । षष्ठोऽयमुदितः स्कन्धो व्या-
सेन परिपोषणे” सप्तमस्कन्धे “प्रह्लादचरितं पुण्यं
वर्णाश्रमनिरूपणम् । सप्तमी गदितो वत्स! वासनाकर्म-
कीर्त्तने” । अष्टमस्कन्धे । “गजेन्द्रमोक्षणाख्यानं
मन्वन्तरनिरूपणम् । समुद्रमथनञ्चैव बलिवैभवबन्धनम् ।
मतस्यावतारचरितमष्टमोऽयं प्रकीर्त्तितः” । नवमस्कन्धे
“सूर्य्यवंशसमाख्यानं सोमवंशनिरूपणम् । वंश्यानुचरिते
प्रोक्तो नवमोऽयं महामते!” । दशमस्कन्धे “कृष्णस्य
बालचरितं कौमारञ्च व्रजस्थितिः । कैशोरं मथुरा-
स्थानं यौवनं द्वारकास्थितिः । भूभारहरणञ्चात्र
निरोधे दशमः स्मृतः” । एकादशस्कन्धे “नारदेन तु
संवादो वसुदेवस्य कीर्त्तितः । यदोश्च दत्तात्रेयेण श्रीकृष्णे-
नोद्धवस्य च । यादवानां मिथोऽन्तश्च मुक्तावेकादशः
स्मृतः । द्वादशस्कन्धे “भविष्यकलिनिर्देशो मोक्षो
राज्ञः परीक्षितः । वेदशाखाप्रणयनं मार्कण्डेयतपः
स्मृतम् । सौरी विभूतिरुदिता सात्त्वती च ततः परम् ।
पुराणसंङ्ख्याकथनमाश्रये द्वादशो ह्ययम् । इत्येवं
कथितं वत्स! श्रीमद्भागवतं तव” । तत्कलश्रुतिः
“वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च । साहाय्यकर्त्तु-
र्गदितं भक्तिभुक्तिविमुक्तिदम् । प्रौष्ठपद्यां पूर्णिमायां
हेमसिंहसमाचितम् । देयं भागवतायेदं द्विजाय
पृष्ठ ४६५०
प्रीतिपूर्वकम् । संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता ।
योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा । स पुराण
श्रवणजं प्राप्नोति फलमुत्तमम्” । विस्तरस्तु भाग० १२
उपसंहाराध्याये दृश्या ।
भगवद्भक्तरूपभागवतलक्षणं यथा भाग० ११ स्क० ।
“सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि
भगयत्यात्मन्येष भागवतोत्तमः । न यस्य स्तपर इति
वित्तेष्वात्मनि वा भिदा । सर्वभूतसमः शान्तः स वै
भागवतोत्तमः” । हरियोगेश्वरोत्तरे “गृहीत्वापीन्द्रियै-
रर्थान् यो न द्वेष्टि न काङ्क्षति । विष्णोर्मायामिदं
पश्यन् स वै भागवतोत्तमः” । वृहन्नारदीये “शिवे च
परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते
ते वै भागवतोत्तमाः” । स्कान्दे “येषां भागवतं शास्त्रं
सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर्भा-
गवता नरा । येषां भागवतं शास्त्रं जीवितादधिकं
भवेत् । महामागवताः श्रेष्ठा विष्णुना कथिता नराः” ।
लैङ्गे “भोजनाच्छादनं सर्वं यथा शक्त्या ददाति यः ।
विष्णु भक्तस्य सततं स वै भागवतः स्मृतः” । गारुड़े
“येन सर्वात्मना विष्णुमक्त्या भावो निवेशितः । वैष्ण-
वेषु कृतात्मत्वान् महाभागवती हि सः” । वृहन्नार-
दीये “तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः ।
तत्काष्ठाङ्कितकर्णाये ते वै भागबतोत्तमाः । तुलसीगन्ध-
माघ्राय सन्तोषं कुर्वते तु ये । तन्मूलमृद्धृता यैश्च
ते वै मागवतीत्तमाः” । स्कान्दे “मत्कथां कुरुते यस्तु
मत्कथासु शृणोति च । हृष्यते मत्कथायाञ्च स वै
मागवतोत्तमः” । वृहन्नारदीये “मन्मानसाश्च सद्भक्ता
मद्भक्तजनलीलुपाः । तन्नामश्रवणासक्तास्ते वै भागवतो-
त्तमाः । येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति
हर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतीत्तमाः ।
अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरिनाम
परा ये च ते वै भागवतोत्तमाः” । स्कान्दे “येऽर्चयन्ति
सदा विष्णुं यज्ञेश वरदं हरिम् । देहिनः पुण्य-
कर्माणः सदा भागवता हि ते” । लैङ्गे “विष्णुक्षेत्रे
शुभान्येव करोति स्नेहसंयुतः । प्रतिमाञ्च हरेर्नित्यं
पूजयेत् प्रत्यतात्मवान् । विष्णुभक्तः स विज्ञेयः कर्मणा
मनसा गिरा । नारायणपरा नित्यं भूप! भागवतो
हि सः” पद्मोत्तरखण्डे “तापादिपञ्चसंस्कारी नवेज्या
कर्मकारकः । अर्थपञ्चकयिद्विप्र! महाभागवती हि सः ।
एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः । तस्मा-
देकान्तिनः प्रोक्तास्तद्भागवतचेतसः” भाग० ११ स्कान्दे
“ज्ञात्वा ज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः ।
भजन्त्यनन्यभावेन ते वै भागवता मताः । न कामकर्म-
वीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स
वै भागवतोत्तमः” । स्कान्दे “यस्य कृच्छ्रगतस्यापि केशवे
रमते मनः । न विच्युता च भक्तिर्वै स वै भागवतो
नरः । आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी ।
नान्यत्र रमते चित्तं स वै भागवतो नरः” । हरियो-
गेश्वरे “विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहि
तोऽप्यथौघनाशः । प्रणयरसनयाधृताङ्घिपद्मः स भवति
भागवतप्रधान उक्तः” हरिभक्तिविलासे १० वि० ।

भागवित्ति पु० चूड़नामके ऋषिभेदे “एतसु हैव चूड़ो

भागवित्तिः” शत० ब्रा० १४ । ९ । ३ । १८ ततः कुत्सायां
यून्यपत्ये वा ठक् । भागवित्तिक तदीये कुत्सिते
यून्यपत्ये पक्षे फक् । भागवित्तेय तत्रार्थे

भागवृत्ति स्त्री उणादिवृत्तिभेदे ।

भागहार पु० भागस्य हारो हरणम् । लीलावत्युक्ते

अङ्कपरिकर्माष्टकमध्ये भागहरणरूपे व्यापारभेदे
“भागहारे करणसूत्रं वृत्तम् । भाज्याद्धरः शुध्यति
यद्गुणः स्यादन्त्यात् फलं तत् खलु भागहारे । समेन
केनाप्यपवर्त्त्य हारभाज्यौ भजेद्वा सति सम्भवे तु” । अत्र
पूर्वोदाहरणे गुणिताङ्कानां स्वगुणच्छेदानां भागहारार्थं
न्यासः भाज्यः । १६२० । भाजकः १२ । भजनाल्लब्धो
गुण्यः १३५ । अथवा भाज्यहारौ त्रिभिरपवर्त्तितौ
५४० चतुर्भिर्वा ४०५ स्वस्वहारेण हृते कलं तदेव १३५ ।

भागासिद्धि स्त्री हेत्वाभासभेदे “पक्षतावच्छेदकसामानाधि-

करण्येन साध्याभावः । यथा पृथिवी गन्धवती घटत्वा-
दित्यादौ पृथिवीत्वसामानाधिकरण्येन पटादौ
घटस्वाद्यभाव । वाघे गदा० । यथा वा पृथिव्यादयश्चत्वारः
परमाणबो नित्या गन्धवत्त्वादित्यत्र जलादौ गन्धाभावः ।

भागिन् त्रि० भज--घिनुण् । अंगविशिष्टे । रिवयां ङीप् ।

भागिनेय पुंस्त्री० भगिन्या अपत्यम् ठक् । स्वसृपुत्रे ।

तत्कन्यायां खी ङीप् ।

भागीयस् त्रि० अतिशयेन भागी रिशतन् इनोपोपः ।

अतिशयभागयुते हरिवं० १३१ अ० अ० ।

भागीरथी स्त्री भागीरथेन सानीता तेन भागीरथी स्मृतां

ब्रह्मव० प्र० रव० उक्ते गङ्गारूपे नदीभेदे ।
पृष्ठ ४६५१

भागुरि पु० स्मृतिव्याकरणादिकर्त्तरि मुनिभेदे । वष्टि भागु-

रिरल्लोपमवाप्योरुपसर्गयोः” सि० कौ० ।

भाग्य न० भज--ण्यत् कुत्वम् । १ शुभाशुभसूचके कर्मजन्ये-

ऽदृष्टे अमरः । भागः प्रयोजनमस्य यत् । २ भागार्थे
त्रि० । भागमर्हति यत् । ३ भागार्हे त्रि० ।

भाङ्गीन न० भङ्गायाः विजयायाः भवनं क्षेत्रं खञ् ।

(भाङ) भङ्गाभवनयोग्ये क्षेत्रे । खञ् । भाङ्ग्यमप्यत्र ।
हेमच ।

भाज पृथक्करणे, अद० चु० उभ० सक० सेट् । भाजयति ते अवभाजत् त ।

भाजक त्रि० भज--ण्वुल् । भागकारके अङ्कभेदे विभाजके

भाजन न० भज्यतेऽनेन भाज--ल्युट् । १ पात्रे अमरः ।

२ आथारे ३ योग्ये च मेदि० । ४ आढ़कपरिमाणभेदे वैद्यकम् ।

भाजिन् त्रि० भज--सेवायां णिनि । सेवके कामन्दकीय० ।

भाजित त्रि० भाजि--कर्मणि क्त । १ पृथक्कृते । २ भक्ते च ।

भाजी स्त्री० भाज--कर्मणि घञ् नि० ङीप् । भृष्टव्यञ्जन-

भेदे । अन्यत्र भाजा । सि० कौ० ।

भाज्य त्रि० भज्यते विभज्यते भज--कर्मणि ण्यत् ।

विभजनीये “भाज्यो हरः शुध्यति यद्गुणः स्यादि” ति
लीलावती ।

भाटक पु० न० भट--पोषणे ण्वुल् । परगृहयानादेरुपभोगार्थं

तत्स्वामिने दीयमाने घने । (भाडा) हला० ।
“परभूमौ गृहं कृत्वा भाटयित्वा वसेत् तु यः । स तद्
गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् । स्तोमं विना
वसित्वा तु परभूमावनिच्छतः । निर्गच्छंस्तृणकाष्ठानि
न गृह्णीयात् कथञ्चन” कात्यायनः । “गृहवाप्यापणा-
दीनि गृहीत्वा भाटकेन यः । स्वामिनोनार्पयेद्यावत्ता-
वद्दाप्यः स भाटकम् । वापी परकृता अप्रतिष्ठितेति
विवक्षितम् । “हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन
यः । स्वामिनोनार्पयेद्यावत्तावद्दाप्यः स भाटकम्” ।
वृद्धमनुः “यो भाटयित्वा शकटं नीत्या नान्यत्र गच्छति ।
भाटं न दद्याद्दाप्योऽसावनूढस्यापि भाटकम्” । शकटं
वृषनौकादेरप्युपलक्षणम् । अनूढ़स्यावाहितस्यापि
शकदादेः” इति विषादचिन्तामणिः ।

भाण पु० सा० द० उक्तलक्षणे दशरूपकान्तर्गते दृश्यकाव्यभेदे

तल्लक्षणं यथा
“भाणः स्याद्धूर्त्तचरितो नानावस्थान्तरात्मकः । एकाङ्क
एक एवात्र निपुणः पण्डितो विटः । रङ्गे प्रकाशयेत्
स्वेनानूभूतमितरेण वा । सम्बोधनोक्तिप्रत्युक्ती कुर्य्या-
दाकाशभाषितैः । सूचयेद्वीरशृङ्गारौ शौर्य्यसौभाग्य
वर्णनैः । तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती ।
मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च” । अत्रा-
काशभाषितरूपं परवचनमपि स्वयमेवानुवदन्नुत्तर-
प्रत्युत्तरे कुर्य्यात् । शृङ्गारवीररसौ च सौभाग्यशौर्य्य-
वर्णनेन सूचयेत् । प्रायग्रहणात् कौशिक्यपि वृत्ति-
र्भवति । उदाहरणं लीलामधुकरः” सा० द० ।

भाण्ड न० भाण्ड--अच् भण--ड--स्वार्थे अण् वा । पात्रे

१ तैलाद्याधारे २ भाजने (भाँड) “अराजदैविकं नष्टं
भाण्डं दाप्यस्तु वाहकः” नारदः । ३ गृहभेदे (भाँड़ार)
“ब्रह्माण्डभाण्डोदरेत्यादि” वीरचरितम् । ४ बणिजां
मूलधने ५ अश्वभूषायां मेदि० । ६ नदीकुलद्वयमध्ये पात्रे च
हेमच० । ७ गर्दभाण्डे वृक्षे पु० शब्दच० । भण्डस्य भावः
अण् । ८ भण्डचरित्रे न० (भाड़ामि) अजयः ।

भाण्डपुट पु० नापिते जटाधरः ।

भाण्डपुष्प पु० सर्पभेदे त्रिका० ।

भाण्डल त्रि० भाण्डं लाति ला--क । माण्डग्राहके स्त्रियां

गौरा० ङीष् ।

भाण्डव त्रि० भण्डोरदूरादि सुवास्त्वा० अण् । भण्डुसमीपादौ ।

भाण्डागार कर्म० । (भाँड़ार) गृहभेदे हेमच० । तत्र

नियुक्तः ठन् । भाण्डगारिक तत्र नियुक्ते त्रि० ।

भाण्डार न० भाण्डं तदाकारमृच्छति ऋ--अण् उप० स० ।

गृहभेदे (भाँड़ार) ।

भाण्डारिन् पु० भाण्डमृच्छति ऋ--णिनि । अन्नादिद्रव्य-

गृहेषु कृताधिकारे । “क्षुधितस्तृषितः कामी विद्याथी
कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान्
प्रबोधयेत्” इति व्यवहारप्रदीपः ।

भाण्डि स्त्री भण्डस्येदम् । नापितस्य खुराद्याधारपात्रभेदे (भाँड़ि)

भाण्डिवाह पु० भाण्डिं क्षुराद्याधारं (भाडि) वहति

वहअण् उप० स० नापिते भाण्डि + अस्त्यर्थे लच् । भाण्डिल
तत्रार्थे शब्दमा० ।

भाण्डीर पु० भण्ड--ईरच् पृषो० । १ वटवृक्षे २ वृन्दावनस्थे

३ वटवनभेदे च जटा० । “प्रलम्बो नाम भूत्वाथो वटं
भाण्डीरमाश्रितः” हरिवं० ५५ अ० ।

भाति स्त्री भा--क्तिन् । शोभायाम् राजनि० ।

भातु पु० भा--तुन् । १ सूर्य्ये त्रिका० । २ दीप्ते त्रि० संक्षिप्त० ।

पृष्ठ ४६५२

भाद्र पु० भद्राभिर्युक्ता पौर्णमासी भाद्री सा यस्मिन् भासे

अण् । चैत्रादितः मष्ठे चान्द्रे १ मासे अमरः । २ तन्मा-
सीयपौर्णमास्यां स्त्री ङीप् । भद्रेव स्वार्थे अण् ।
३ पूर्वोत्तरभाद्रपदाख्यनक्षत्रे न० । “भाद्रद्वये सागरे”
ज्योतिषम् । ४ भाद्र्या पौर्णमास्यायुक्ते पक्षे तथाविधे
५ गुरुवर्षे च कार्त्तिकशब्दे दृश्यम् ।

भाद्रपदा स्त्री ब० व० । भद्रस्येदं अण् भाद्रमिव पदमा-

साम् । अश्विन्यवधिके पञ्चविंशषड्विंशयोर्नक्षत्रयोः ।
१ तद्युक्ता पौर्णमासी अण् ङीप् । २ भाद्रमासस्य पौर्ण-
मास्याम् साऽत्र मासे अण् । ३ चान्द्रे भाद्रे मासि पु० ।
तादृशे ४ पक्षे ५ गुरुवर्षभेदे च कार्त्तिकशब्दे दृश्यम् ।

भाद्रमातुर पु० भद्रायाः सत्याः मातुः अपत्यम् अण् मातु-

रुत् । सतीपुत्रे हेमच० ।

भान न० भा--भावे ल्युट् । १ प्रकाशे २ दीप्तौ ३ ज्ञाने प्रकाशे च ।

भानु पु० भा--नु । १ सूर्य्ये २ अर्कवृक्षे ३ किरणे ४ राजनि

च अमरः ५ प्रभो धरणिः । ६ भूतजैनभेदे हेमच० ।
उत्तममुन्वन्तरे ७ देवे ब० व० हरिवं० ९ अ० । ९ धर्मपत्नीभेदे
स्त्री हरिवं० ३ अ० । १० गन्धर्वभेदे पु० भा० आ० ६५ अ० ।
११ यदुवंश्यक्षत्रियभेदे भानुमत्याः पितरि पु० हरिवं०
१४९ अ० । १२ विष्णौ पु० “अनृतांशूद्भवो भानुः” विष्णुस०
“तमेव भान्तमनुभाति सर्वम्” श्रुतेस्तस्य तथात्वम् ।

भानुफला स्त्री भानुरिव दीप्तिमत् फलं प्रसवो यस्याः ।

कदल्याम् जटाधरः । तस्याः मोचकस्य सूर्य्यतुल्यवर्ण-
त्वात्तथात्वम् ।

भानुमती स्त्री भानोर्यादवनृपभदस्य कन्यायां हरिवं० १४९ अ० ।

भानुमत् स्त्री भानुः किरणोऽस्त्यस्य मतुप् । १ सूर्य्ये शब्दरत्ना०

२ अर्कवृक्षे च । भानुमालीत्यप्यत्र । ३ नृपभेदे पु० भा० भी०
५४ अ० । अहंजातिनृपस्य भार्य्यायां जाते कृतवीर्य्यस्य
४ दुहितृभेदे स्त्री भा० आ० ९५ अ० ।

भानुसेन पु० कर्णपुत्रभेदे भा० क० ४८ अ० ।

भानेमि पु० भानोः नेमिरिव । १ सूर्य्ये २ अर्कवृक्षे च त्रिका० ।

भान्त पु० भायाः दीप्तेः पञ्चदशाहमध्ये अन्तो यस्य । शुक्ल-

कृष्णपक्षयोः पञ्चदशाहमध्ये कान्तेरुपचयापचययुक्ते
चन्द्रे “भान्तः पञ्चदशी” यजु० १४ । २३ वेददी० ६ त० ।
२ नक्षत्रराश्योरते च ।

भाम क्रोधे भ्वा० आत्म० अक० सेट् । भामते अभामिष्ट बभामे ।

भाम पु० भाम--घञ् । १ क्रोधे निघण्टुः । भा--भावे म । २ दीप्तौ

च । कर्त्तरि स । ३ सूर्य्ये मेदि० । ४ अर्कवृक्षे च ।
५ भगिनीपतौ पु० शब्दरत्ना ६ कोपनायां स्त्रियां स्त्री मेदि० ।

भामनी पु० भामं नयति नी--क्विप् । परमेश्वरे “एष उ एव

भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति
य एवं वेद” छा० उ० । “एष उ भामनीरेष हि यस्मात्
सर्वेषु लोकेष्वादित्यचन्द्राग्न्यादिरूपैर्भाति दीप्यते । “तस्य
भासा सर्वमिदं विभातीति” श्रुतेरतो भामानि नयतीति
भामनीः” भा० ।

भामिन् त्रि० भाम--णिनि । क्रोधयुक्ते स्त्रियां ङीप् । कोपनायां स्त्रियाम् स्त्री ङीप् अमरः ।

भार पु० भृ--घञ् । १ गुरुत्वपरिमाणे २ तद्वति द्रव्ये ३ विंशति-

तुलापरिमाणे (अष्टसहस्रतोलकपरिमाणे) च पु० । ३ वीबधे
४ विष्णौ च मेदि० ।

भारङ्गी स्त्री भृ--बा० अङ्गच् । पोषणकर्त्त्य्रां स्त्रियां ततः

काश्या० ठञ् । भारङ्गिक तत्र भवे त्रि० ।

भारण्ड पु० उत्तरदेशजे स्वगभेदे “एकोदराः पृथग्ग्रीवा

अन्योऽन्यफलभक्षिणः । असंहता विनश्यन्ति भारण्डा
इव पक्षिणः” पञ्चत० ।

भारत न० भरतान् भरतवंश्यानधिकृत्य कृतोग्रन्थः अण् ।

भारं वेदादिशास्त्रेभ्योऽपि सारांशं तनोति तन--ड वा ।
१ वेदव्यासप्रणीते लक्षश्लोकात्मके ग्रन्थभेदे । भरतेन
चिह्नितं तस्येदं वा अण् । “हिमाह्वं दक्षिणं वर्षं भरताय
ददौ पिता । तस्माच्च भारतं वर्षम्” इत्युक्ते जम्बुद्वीपा-
न्तर्गते २ वर्षभेदे । भरतस्य गोत्रापत्यम् अण् । भरतनृपस्य
३ वंश्ये । भरतेन मुनिना प्रोक्तमण् । ४ भरतमुनिकृते नाटक-
शास्त्रादौ न० । तदधीयते पुनरण् । ५ नटे ब० व० ६ अग्निभेदे च
ग्रन्थरूपभारतशब्दस्य निरुक्तिः भा० आ०१ अ० दर्शिता यथा
“एकतश्चतुरो वेदान् भारतञ्चैतदेकतः । पुरा किल सुरैः
सर्वैः समेत्य तुलया धृतम् । चतुर्भ्यः सरहस्येभ्यो
वेदेभ्यो ह्यधिकं यदा । तदाप्रभृति लोकेऽस्मिन्
महाभारतमुच्यते । महत्त्वे च गुरुत्वे च ध्रियमाणं
यतोऽधिकम् । महत्त्वाद्भारतत्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते” ।
तच्च वेदव्यासेन कृतं तदादिष्टः तच्छिष्यः वैशम्पायनः
जनमेजयं श्रावयामास यथोक्तं भा० आ० १ अ० ।
“जनमेजयेन पृष्टः सन् व्राह्मणैश्च सहस्रशः । शशास
शिष्यमासीनं वैशम्पायनमन्तिके । स सदस्यैः सहासीनः
श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः
पुनःपुनः । विस्तरं कुरुवंशस्य गान्धार्य्या धर्मशीलताम् ।
क्षत्तुः प्रज्ञां, धृतिं कुन्त्याः सम्यग्द्वैपायनोऽव्रवीत् । वासु-
देवस्य माहात्म्यं पाण्डवानाञ्च सत्यताम् । दुर्वृत्तं
धार्त्तराष्ट्राणामुक्तवान् भगवानृषिः” ।
पृष्ठ ४६५३
तच्च नानाविधं नानासंख्यान्वितं च कृतं लोके तु शतसा-
हस्रसंख्यातं यथोक्तं तत्रैवाध्याये
“चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः । ततोऽध्यर्ङ्गशतं
भूयः संक्षेपं कृतवानृषिः । अनुक्रमणिकाध्यायं वृत्ता-
न्तानां सपर्वणाम् । इदं द्वैपायनः पूर्बं पुत्रमध्यापय-
च्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ
विभुः । षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।
त्रिंशच्छतसहस्रञ्च देवलोके प्रतिष्ठितम् । पित्र्ये पञ्च-
दश प्रोक्तं गन्धर्वेषु चतुर्दश । एकं शतसहस्रन्तु मानु-
षेषु प्रतिष्ठितम् । नारदोऽश्रावयद्देवानसितो देवलः
पितृन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ।
अस्तिंस्तु मानुषे लोके वैशम्पायन उक्तवान् । शिष्यो
व्यासस्य धर्मात्मा सर्ववेदविदांवरः । एकं शतसहस्रन्तु
मयोक्तं वै निबोध तत्” । तच्चाष्टादशमहापर्वयुतं तदवा-
न्तरपर्बशतकं तद्विभागस्तत्र वर्णनीयपदार्थानां संग्रहश्च
भा० आ० २ अ० दर्शितो यथा
“भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः । आदिपर्वणि
“१ पर्वानुक्रमणी पूर्वं द्वितीयः २ पर्वसंग्रहः । ३ पौष्यं ४
पौलोममास्तीक ५ मादिरं (वं) शावतारणम् ६ । ततः सम्भव
७ पर्वोक्तमद्भुतं रोमहर्षणम् । ८ दाहो जतुगृहस्यात्र
हैडिग्बं ९ पर्व चोच्यते । तती वकबधः १० पर्व पर्व चैत्र-
रथं ११ ततः । ततः स्वयम्बरी १२ देव्याः पाञ्चाल्याः
पर्व चोच्यते । क्षात्रधर्मेण निर्जित्य तती वैवाहिकं १३
स्मृतम् । विदुरागमनं पर्व राज्यलाभस्तथैव १४ च ।
अर्जुनस्य वने वासः १५ सुभद्राहरणं १६ ततः । सुभद्रा-
हरणादूर्द्ध्वं ज्ञेयं हरणकारिका १७ । ततः खाण्डय-
दाहाख्यं १८ तत्रैव मयदर्शनम् । (२) सभापर्व तत १९ प्रोक्तं
मन्त्रपर्व २० ततः परम् । जरासन्धबधः २१ पर्व पर्व
दिग्विजय २२ स्तथा । पर्व दिग्विजयादूर्द्ध्वं राजसूयिक
२३मुच्यते । ततश्चार्घाभिहरणं २४ शिशुपालबध २५ स्ततः ।
द्यूतपर्व २६ ततः प्रोक्तमनुद्यूत २७ मतः परम् । तत
(३) आरण्यकं पर्व किर्मीरबधः २८ एव च । अर्जुनस्या-
भिगमन २९ पर्व ज्ञेयमतः परम् । ईश्वरार्जुनयोर्युद्धं
पर्व कैरात ३० संज्ञितम् । इन्द्रलीकाभिगमनं ३१ पर्व
प्रेयमतः परम् । नलीपाख्यान ३२ मपि च धर्मिष्ठं
करुणोदयम् । तीर्थयात्रा ३३ ततः पर्व कुरुराजस्य
धीमतः । जटासुरबधः ३४ पर्व यस्तयुद्ध ३५ मतः परम् ।
निवातकवचैर्युर्द्ध ३६ पर्व चाजगर ३७ स्ततः । मार्क-
ण्डेसमास्या ३८ च पर्वानन्तरमुच्यते । संवादश्च ततः पर्वं
द्रौपदीसत्यभांमयोः ३९ । घोषयात्रा ४० ततः पर्व
मृगस्वर्योद्भव ४१ स्ततः । व्रीहिद्रौणिक ४२ माख्यानमैन्द्रद्युम्नं
(समास्यान्तर्गतं) तथैव च । द्रौपदीहरणं ४३ पर्व
जयद्रथविमोक्षणम ४४ । पतिव्रताया महात्म्यं सावि-
त्र्याश्चैवमद्भुतम् ४५ । रामोपाख्यान ४६ मत्रैव पर्व ज्ञेय-
मतः परम् । कुण्डलाहरणं ४७ पर्व ततः परमिहोच्यते ।
आरणेय ४८ न्ततः पर्व (४) वैराटन्तदनन्तरम् । पाण्ड-
वानां प्रवेशश्च ४९ समयस्य च पालनम् । कीचकानां
बधः ५० पर्व पर्व गोग्रहण ५१ न्ततः । अभिमन्योश्च
वैराट्या पर्व वैवाहिकं ५२ स्मृतम् । (५) उद्योगपर्व
विज्ञेयमत ऊर्द्ध्वं महाद्भुतम् । ततः सञ्जयया-
नाख्य ५३ पर्व ज्ञेयमतः परम् । प्रजागरस्ततः ५४ पर्व
धृतराष्ट्रस्य चिन्तया । पर्व सनत्शुजातं ५५ वै गुह्य-
मध्यात्मदर्शनम् । यानसन्धि ५६ स्ततः पर्व भगवद्-
यान ५७ मेवच । मातुलीयमुपाख्यानं चरितं गालवस्य
च । सभाप्रवेशः कृष्णस्य विदुरापुत्रशासनम् । ज्ञेयं
विवादपर्वा ५८ त्र कर्णस्यापि महात्मनः । निर्याणञ्च ५९
ततः पर्व कुरुपाण्डवसेनयोः । रथातिरथसंख्या ६०
न पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं ६१ पर्वा-
मर्षविवर्द्धनम् । अन्वोपाख्यान ६२ मत्रैव पर्व ज्ञेय-
मतः परम् । भीष्माभिषेषचनं (६) पर्ब ततश्चाद्भुत
मुच्यते । जम्बूखण्डविनिर्माणं ६३ पर्वोक्तं तदनन्त-
रम् । भूमिपर्व ६४ ततः प्रोक्तं द्वीपविस्तारकीर्त्तनम् ।
पर्वोक्तं भगवद्सीता ६५ पर्व भीष्मवध ६६ स्ततः । द्रो-
णाभिषे (७) चनं पर्व संशप्तकबधः ६७ स्ततः । अभिमन्यु-
बभः ६८ पर्व प्रतिज्ञा ६९ पर्व चोच्यते । जयद्रथ-
बधः ७० पर्व धठोत्कचबध ७१ स्ततः । ततो द्रोणबधः ७२
पर्व विज्ञेयं लोमहर्षणम् । मोक्षो ७३ नारायणास्त्रस्य
पर्वानन्तरमुच्यते । कर्णपर्व (८) ततो ज्ञेयं शल्यपर्व (९)
ततः परम् । ह्रदप्रनेशनं ७४ पर्व पदायुद्धमतः ७५
परम् । सारस्वतं ७६ ततः पर्व तीर्थवंशानुकीर्त्तनम् ।
अत ऊर्द्ध्वं सुबीभत्सं पर्व सौप्तिक (१०) सुच्यते ।
ऐषीकं ७७ पर्व चोद्दिष्टमत ऊर्द्ध्वं सुदारुणम् । जलप्रदा-
निकं ७८ पर्व स्त्रीविलाप (११) स्ततः परम् । श्राद्धपर्व ७९
ततो ज्ञेयं कुरूणाभौर्द्ध्वदेहिकम् । चार्वाकस्य
बधः ८० पर्व रक्षसो ब्रह्मरूपिणः । आभिषेचकनिकं ८१
पृष्ठ ४६५४
पर्व धर्मराजस्य धीभतः । प्रतिभागो ८२ गृहाणाञ्च
पर्वोक्तं तदनन्तरम् । शान्तिपर्व (१२) ततो यत्र
राजधर्मानुशासनम ८३ । आपद्धर्मश्च ८४ पर्वोक्तं मोक्षधर्म-
८५ स्ततः परम् । शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशास-
नम् । प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया ।
ततः पर्व परिज्ञेयमानुशासनिकम् (१३) परम् । स्वर्गा-
पोहणिकञ्चैव ततो भीष्मस्य धीमतः । ततीऽश्व-
मेधिकं (१४) पर्व सर्वपापप्रणाशनम् । अनुगीता ८६
ततः पर्व ज्ञेयमध्यात्मवाचकम् । पर्व चाश्रमवासा (१५) ख्यं
पुत्रदर्शनमेव च । नारदागमनं ८७ पर्व ततः
परिमिहोच्यते । मौसलं (१६) पर्व चोद्दिष्टं ततो घोरं
सुदारुणम् । महाप्रस्थानिकं (१७) पर्व स्वर्गारोहणिकं (१८)
तत । हरिवंशस्ततः पर्व ८८ पुराणं खिलमज्ञितम् ।
विष्णुपर्व ८९ शिशोश्चर्य्या विष्णोः कंसबधस्तथा । भविष्यं
पर्व ९० चाप्युक्तं खिलेष्वेवाद्भुतं महत् । एतत् पर्व शतं
पूर्णं व्यासेनोक्तं महात्मना । (महापर्वसहितं किञ्चिदधि-
कशतपर्वाण्यत्रेति बोध्यम्) । यथावत् सूतपुत्रेण
लौमहर्षणिना ततः । उक्तानि नैमिषारण्ये पर्वाण्य
ष्टादशैव तु । समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः ।
पौष्यं पोलीममास्तीकमादिरं(वं)शावतारणम् । सम्भवी
जतुवेश्गाख्यं हिड़िम्बवकयोर्वधः । तथा चैत्ररथं देव्याः
पाञ्चाल्याश्च स्वयंवरः । क्षात्रधर्मेण निर्जित्य ततो
वैवाहिक स्मृतम् । विदुरागमनञ्चैव राज्यलम्भस्तथैव
च । वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः । हरणा-
हरणञ्चैव दहनं खाण्डवस्य च । मयस्य दर्शनञ्चैव
आदिपर्वणि कथ्यते । पौष्ये पर्वणि महात्म्यमुतङ्क-
स्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकी
र्त्तितः । आस्तीके सर्वनागानां गरुड़स्य च सम्भवः ।
क्षीरोदमथनञ्चैव जन्मोच्चैःश्रवसस्तथा । यजतः सर्प-
सत्रेण राज्ञः पारीक्षितस्य च । कथेयमभिनिर्वृत्ता
भारतानां महात्मनाम् । विविधाः सम्भवा राज्ञामुक्ताः
सम्भवपर्वणि । अन्येषाञ्चैव शूराणामृषेर्द्वैपाथनस्य
च । अंशावतारणञ्चात्र देवानां परिकीर्त्तितम् ।
दैत्यानां दानवानाञ्च । यक्षाणाञ्च महौजसाम् । नागा-
नामथ सर्पाणां गन्धर्वाणां प्रतत्रिणाम् । अन्येषाञ्चैव
भूतानां विविधानां समुद्भवः । महर्षेराश्रमपदे कण्ठस्य
च तपस्विनः । शकुन्तलायां दुष्मन्ताद्भरतश्चापि जज्ञि-
वान् । यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम् ।
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शान्तं-
नोर्वेश्मनि पुनस्तेषाञ्चारोहणं दिवि । तेजोऽंशानाञ्च
सम्पातो भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्त्तनं तस्य
ब्रह्मचर्य्यव्रते स्थितिः । प्रतिज्ञापालनञ्चैव रक्षा चित्रा-
ङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ।
विचित्रवीर्य्यस्य तथा राज्ये सम्प्रतिपालनम् । धर्मस्य
नृषु सम्भूतिरणीमाण्डव्यशापजा । कृष्णद्वैपायनाच्चैव
पसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानाञ्च
सम्भवः । वारणाबतयात्रार्या मन्त्रो दुर्य्योधनस्य च ।
कूटस्य धार्त्त राष्ट्रेण प्रेषणं पाण्डवान् प्रति ।
हितोपदेशश्च पथि धर्मराजस्थ धीमतः । विदुरेण
कृतो यत्र हितार्थं म्लेच्छभाषया । विदुरस्य च
वाक्येन सुरङ्गीपक्रमक्रिया । निषाद्याः पञ्चपुत्रायाः
सुप्ताया जतुवेश्मनि । पुरोचनस्य चात्रैव दहनं
सम्प्रकीर्त्तितम् । पाण्डवानां बने घोरे हिड़िम्बायाश्च
दर्शनम् । तत्रैव च हिड़िम्बस्य बधो भीमान्महाबलात् ।
धटोत्कचस्य चोत्पत्ति रत्रैव परिकीर्त्तिता । महर्षे-
र्दर्शनञ्चैव व्यासस्यामिततेजसः । तदाज्ञयैकचक्रायां
ब्राह्मणस्य निवेशने । अज्ञातचर्य्यया वासो यत्र तेषां
प्रकीर्त्तितः । वकस्य निधने चैव नागराणाञ्च विस्मयः ।
सम्भवश्चैव कृष्णाया धृष्टद्यम्नस्य चैव हि । ब्राह्म-
णात् समुपश्रुत्य व्यासवाक्यप्रचोदिताः । द्रौपटीं
प्रार्थयन्तस्ते स्वयंवरदिदृक्षया । पाञ्चालानमितोज-
ग्मुर्यत्र कौतूहलान्विताः । अङ्गारपर्णं निर्जित्य
गङ्गाकूलेऽर्जुनस्तदा । सख्यं कृत्वा ततस्तेन तस्मादेव
च सुश्रुवे । तापत्यमथ वाशिष्ठभौर्वञ्चाख्यानमुत्तमम् ।
भ्रातृभिः सहितः सर्वैः पाञ्चालानभिती ययौ ।
पाञ्चालनगरे चापि लक्ष्य भित्त्वा धनञ्जयः । द्रौपर्दी
लब्धवानत्र मध्ये सर्वमहीक्षिताम् । भीमसेनार्जुनौ
यत्र संरब्घान् पृथिवीपतीन् । शल्यकर्णौ च तरसा
जितवन्तौ महामृधे । दृष्ट्वा तयोश्च तद्वीर्य्यमप्रमेयममा-
नुषम् । शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती ।
जन्मतुस्तैः समागन्तुं शालाम्भार्गववेश्मनि । पञ्चानामे-
कपत्नीत्वे विमर्षो द्रुपदस्य च । पञ्चेन्द्राणासुपाख्या-
नमषैवाद्भुतमुच्यते । द्रौपद्या देवविहितो विवाहश्चाप्य-
मानुषः । क्षत्तुश्च धृतराष्ट्रेण प्रेषणं पाण्डवान् प्रति ।
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डव-
प्रस्थवासश्च तथा राज्यार्द्धशासनम् । नारदस्याज्ञया
पृष्ठ ४६५५
चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तद्वदाख्यानं
परिकीर्त्तितम् । अनन्तरञ्च द्रौपद्या सहासीनं युधि-
ष्ठिरम् । अनुप्रविश्य विप्रार्थं फाल्गुनो गृह्य चायु-
धम् । मीक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः ।
समयं पालयन् वीरो वनं यत्र जगाम ह । पार्थस्य
वनवासे च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं
बभ्रुवाहनजन्म च । तत्रैव मोक्षयामास पञ्च सोऽपू-
सरसः शुभाः । शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य
तपस्विनः । प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः ।
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेव-
स्यानुमते प्राप्ता चैव किरीटिना । गृहीत्वा हरणं
प्राप्ते कृष्णे देवकिनन्दने । अभिमन्थोः सुभद्रायां
जन्म श्चोत्तमतेजसः । द्रौपद्यास्तनयानाञ्च सम्भवोऽनु-
प्रकीर्त्तितः । बिहारार्थञ्च गतयोः कृष्णयोर्यमुनामनु ।
सम्प्राप्तिवकधनुधोः खाण्डवस्य च दाहनम् । मयस्य
मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् । महर्षेर्मन्द-
पालस्य शार्ङ्ग्यां तनयसम्भवः । इत्येतदादिपर्वोक्तं
प्रथमं बहुविस्तरम् । अध्यायानां शते द्वेतु संख्याते
परमर्षिणा । सप्तविंशतिरध्याया व्यासेनोत्तमतेज सा ।
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । श्लोका०
श्चतुरशीतिश्च मुनिनोक्ता महात्मना (१) ।
द्वियतीन्तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्ड-
वानां किङ्कराणाञ्च दर्शनम् । लोकपालसभाख्यानं नारदा-
द्देवदर्शिनः । राजसूयस्य चारम्भो जरासन्धबधस्तथा ।
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन गोक्षणम् । तथा
दिग्विजयोऽत्रैव पाण्डबानां प्रकीर्त्तितः । राज्ञामा-
गमनञ्चैव सार्हणानां महाक्रतौ । राजसूयेऽर्घ्यसंवादे
शिशुपालबधस्तथाः यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षा-
न्वितस्य च । दुर्य्योधनस्याबहासो भीमेन च सम्भातले ।
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र षर्म-
सुतं द्यूते शकुनिः कितवोऽजयत् । यत्र द्यूतार्णवे
मग्नां द्रौपदीं नावमर्णवात् । धृतराष्ट्री महाताज्ञः
स्नुसां परमदुखिताम् । तारयामास तां तीर्णां ज्ञात्वा
दुर्य्योधनो नृपः । पुनरेब ततो द्यूते समाह्वयत पाण्ड-
वान् । जित्वा स वनवासाय प्रेषयामास तांस्ततः ।
एतत् सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः
सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया । श्लोकानां द्वे
सहस्त्रे तु पञ्च श्लोकशंतानि च । श्लोकाश्चैकादश ज्ञेयाः
पर्वण्यस्मिन् द्विजोत्तमाः” (२) । (द्वितीयसभापर्व)
“अतःपरं तृतीयन्तु ज्ञेयमारण्यकं महत् ।
वनवासं प्रयातेषु पाण्डवेषु महात्मसु । पौरानु-
गमनञ्चैव धर्मपुत्रस्य धीमतः । अन्नौषधीनाञ्च कृते
पाण्डवेन महात्मना । द्विजानां भरणार्थञ्च
कृतमाराधनं रवेः । धौम्योपदेशात्तिग्मांशुप्रसादादन्न-
सम्भवः । हितन्तु ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासु-
तात् । त्यक्तस्य पाण्डुपुत्राणां समीपगमनन्तथा ।
पुनरागमनञ्चैव धृतराष्ट्रस्य शासनात् । कर्णप्रोत्साहना-
च्चैव धार्त्तराष्ट्रस्य दुर्मतेः । वनस्थान् पाण्डवान् हन्तुं
मन्त्रो दुर्य्योधनस्य च । तं दुष्टभावं विज्ञाय व्यासस्या-
गमनं द्रुतम् । निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव
च । मैत्रेयागमनञ्चात्रं राज्ञश्चैवानुशासनम् । शापोत्-
सर्गश्च तेनैव राज्ञो दुर्य्योधनस्य च । किर्मीरस्य वधश्चात्र
भीमसेनेन संयुगे । घृष्णीनामागमश्चात्र पाञ्चालानाञ्च
सर्वशः । श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च
तान् । क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना ।
परिदेवनञ्च पाञ्चाल्या वासुदेवस्य सन्निधौ । आश्वासनञ्च
कृष्णेन दुःखार्त्तायाः प्रकीर्त्तितम् । तथा सौभबधा-
ख्यानमत्रैवोक्तं महर्षिणा । सुभद्रायाः सपुत्रायाः
कृष्णेन द्वारकां पुरीम् । नयनं द्रौपदेयानां धृष्टद्युम्नेन
चैव हि । प्रवेशः पाण्डवेयानां रम्ये द्वैतबने ततः ।
धर्मराजस्य चात्रैव संवादः कृष्णया सह । संवादश्च तथा
राज्ञा भीमस्यापि प्रकीर्त्तितः । समीपं पाण्डुपुत्राणां
व्यासस्यागमनं तथा । प्रतिस्मृत्याश्च विद्याया दानं
राज्ञो महर्षिणा । गमनं काम्यके चापि व्यासे प्रतिगते
ततः । अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ।
भहादेवेन युद्धञ्च किरातवपुषा सह । दर्शनं लोकपाला-
नामस्त्रप्राप्तिस्तथैब च । महेन्द्रलोकगमनमस्त्रार्थे च
किरीटिनः । यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी ।
दर्शनं वृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य
चार्त्तस्य व्यसने परिवेदनम् । नलोपाख्यानमत्रैव
धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य
चरितं यथा । तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः ।
लोमशस्यागमस्तत्र स्वर्गात् पाण्डुसुतान् प्रति ।
वनवासगतानाञ्च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्ति-
राख्याता लोमशेनार्जुनस्य वै । सन्देशादर्जुनस्यात्र
तीर्थाभिगमनक्रिया । तीर्थानाञ्च फलप्राप्तिः पुण्यत्य-
पृष्ठ ४६५६
ञ्चापि कीर्त्तितम् । पुलस्त्यतीर्थयात्रा च नारदेन
महर्षिणा । तीर्थयात्रा च तत्रैव पाण्डवानां
महात्मनाम् । कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्द-
रात् । तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्त्तितः ।
आगस्त्यमपि चाख्यानं यत्र बातापिभक्षणम् । लोपा-
मुद्राभिगमनमपत्यार्थमृषेस्तथा । ऋष्यशृङ्गस्य चरितं
कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं
भूरितेजसः । कार्त्तवीर्य्यबधो यत्र हैहयानाञ्च
वर्ण्यते । प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः ।
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः । शर्य्या
तियज्ञे नासत्यौ कृतवान् सोमपीतिनौ । ताभ्याञ्च यत्र
स मुनिर्यौवनं प्रतिपादितः । मान्धातुश्चाप्युपाख्यानं
राज्ञोऽत्रैव प्रकीर्त्तितम् । जन्तूपाख्यानमत्रैव यत्र
पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतञ्च
सः । ततः श्येनकपीतीयमुपाख्यानमनुत्तमम् । इन्द्वाग्नी
पत्र धर्मश्चाभ्यजिज्ञासञ्छिविं नृपम् । अष्टावक्रीयमत्रैव
विवादो यत्र वन्दिना । अष्टावक्रस्य विग्रर्षेर्जनकस्या-
ध्वरेऽभवत् । नैयाभिकातां मुख्येन वरुणस्यात्मजेन च ।
पराजितो यत्र वन्दी विवादेन महात्मना । विजित्य
सागरं प्राप्तं पितरं लब्धवामृषिः । यवक्रीतस्य
चाख्यानं रैभ्यस्य च महात्मनः । गन्धमादनयात्रा च
वासो नारायणाश्रमे । नियुक्तो भीमसेनश्च द्रौपद्या
गन्धमादने । व्रजन् पथि महाबाहुर्दृष्टवान् पवना-
त्मजम् । कदलीषण्डमध्यस्थं हनूमन्तं महाबलम् ।
यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत् । यत्रास्य
युद्धमभवत् सुमहद्राक्षसैः सह । यक्षैश्चैव महावीर्य्यै-
र्मणिमत्प्रमुखैस्तथा । जटासुरस्य च बधो राक्षसस्य
वृकोदरात् । वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम् ।
आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च । प्रीत्साह
नञ्च पाञ्चाल्या भीमस्यात्र महात्मनः । कैलासारो-
हणं प्रोक्तं यत्र यक्षैर्वलोत्कटैः । युद्धमासीन्महा-
घोरं मणिमत्प्रमुखैः सह । समागमश्च पाण्डूनां यत्र
वैपवणेन च । समागमश्चार्जुनस्य तत्रैव भ्रातृभिः
सह । अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना ।
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः । निवातकव
चैर्घोरैर्दानवैः सरशत्रुभिः । पौलोमैः कालकेयैश्च यत्र
युदुं किरीटिनः । बवश्चैषां समाख्याती राज्ञस्तेनैव
वीमता । अस्त्रसन्दर्शनारम्भौ धर्मराजस्य सन्निधौ ।
पार्थस्य प्रतिषेधश्च नारदेन सुरर्षिणा । अवरोहः
पुनश्चैव पाण्डूनां गन्धमादनात् । भीमस्य ग्रहण-
ञ्चात्र पर्वताभोगवर्ष्मणा । भुजगेन्द्रेण बलिना
तस्मिन् सुगहने वने । अमोक्षयद्यत्र चैनं प्रश्नामुक्त्वा
युधिष्ठिरः । काम्यकागमनञ्चैव पुनस्तेषां महात्मनाम् ।
तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान् पुरुषर्षभान् । वासुदेव-
स्यागमनमत्रैव परिकीर्त्तितम् । मार्कण्डेयस्य च तथा
देवर्षेर्नारदस्य च । मार्कण्डेयसमास्यायामुपाख्यानानि
सर्वशः । पृथोर्वैण्यस्य यत्रोक्तमाख्यानं परमर्षिणा ।
संवादश्च सरस्वत्या तार्क्ष्यर्षेः सुमहात्मनः । मत्स्यो-
पाख्यानमत्रैव प्रोच्यते तदनन्तरम् । मार्कण्डेयसमास्या
च पुराणं परिकीर्त्तितम् । ऐन्द्रद्युम्नमुपाख्यानं धौन्धु-
मारं तथैव च । पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं
स्मृतम् । द्रौपद्याः कीर्त्तितश्चात्र संवादः सत्यभामया ।
पुनर्द्वैतवनञ्चैव पाण्डवाः समुपागताः । घोषयात्रा च
गन्धर्वेर्यत्र बद्धः सुषोधनः । ह्रियमानस्तु मन्दात्मा
मोक्षितोऽसौ किरीटिना । धर्मराजस्य चात्रैव
मृगस्वप्नागिदर्शनम् । काम्यके काननश्रेष्ठे पुनर्गमनमुच्यन ।
व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम् । दुर्वास
सोऽप्युपाख्यानमत्रैव परिकीर्त्तितम् । जयद्रथेवाप-
हारो द्रौपद्याश्चाश्रमान्तरात् । यत्रैनमन्वयाद्भीमो
वायुवेगसमो जवे । चक्रे चेनं पञ्चशिखं यत्र भीमो
महाबलः । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ।
यत्र रामेण विक्रमम्य निहिती रावणो युधि । सा०
वित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्त्तितम् । कर्णस्य
परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात् । यत्रास्य शक्तिं
तुष्टोऽदादेकवीरबधाय च । आरणेयमुपाख्यानं यत्र-
धर्मोऽन्वशात् सुतम् । जग्मुर्लब्धवरा यत्र पाण्डवाः
पश्चिमां दिशम् । एतदारण्यकं पर्व तृतीयं
परिकीर्त्तितम् । अत्राध्यायशते द्वे तु संख्यया परिकीर्त्तिते ।
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्त्तिताः । एकादश
सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा
श्लोकाः पर्वण्यस्मिन् प्रकीर्त्तिताः ३ । (वनपर्व)
“अतःपरं निबोधेदं वैराटं पर्व विस्तरम् । विराटनगरं
गत्वा श्मशाने विपुलां शमीम् । दृष्ट्वा सन्निदधुस्तत्र
पाण्डवा ह्यायुधान्युत । यत्र प्रविश्य नगरं छद्मना न्यवसं
स्तु ते । पाञ्चालीं प्रार्थयानम् कामोपहतचेतसः । दुष्टा-
त्ननो वधो यत्र कीचकस्य वृकोदरात् । पाण्डवान्येषणा-
पृष्ठ ४६५७
र्थञ्च राज्ञो दुर्य्योधनस्य च । चराः प्रस्थापिताश्चात्र
निपुणाः सर्वतो दिशम् । न च प्रवृत्तिस्तैर्लब्धा पाण्ड-
वानां महात्मनाम् । गोग्रहश्च विराटस्य त्रिगर्त्तैः
प्रथमं कृतः । यत्रास्य युद्धं सुमहत् तैरासील्लोमहर्ष-
णम् । ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः ।
गोधनञ्च विराटस्य मोक्षितं यत्र पाण्डवैः । अनन्त-
रञ्च कुरुभिस्तस्य गोग्रहणं कृतम । समस्ता यत्र
पार्थेन निर्जिताः कुरवो युधि । प्रत्याहृतं गोधनञ्च
विक्रमेण किरीटिना । विराटेनोत्तरा दत्ता स्नुषा यत्र
किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघाति-
नम् । चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि
परिसंख्याता अध्यायाः परमर्षिणा । सप्तषष्टिरथो
पूर्णा श्लोकानामपि मे शृणु । श्लोकानां द्वे सहस्रे तु
श्लोकाः पञ्चाशदेव तु । उक्तानि वेदविदुषा पर्वण्यस्मिन्
महर्षिणा ४ । (विराटपर्व)
“उद्योगपर्वः विज्ञेयं पञ्चमं शृण्वतः परम् ।
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया । दुर्य्यो-
धनोऽर्जुनश्चैव वासुदेवमुपस्थितौ । साहाय्यमस्मिन्
समरे भवान्नौ कर्त्तुमर्हति । इत्युक्ते वचने कृष्णो
यत्रोवाच महामतिः । अयुध्यमानमात्मानं मन्त्रिणं
पुरुषर्षभौ । अक्षौक्षिणीं वा सैन्यस्य कस्य किंवा
ददाम्यहम् । वव्रे दुर्य्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः ।
अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः । मद्रराजञ्च
राजानमायान्तं पाण्डवान् प्रति । उपहारैर्वञ्चयित्वा
वर्त्मन्येव सुयोधनः । वरदं तं वरं वव्रे साहाय्यं
क्रियतां मम । शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य
पाण्डवान् । शान्तिपूर्वञ्चाकथयद्यत्रेन्द्रविजयं नृपः । पुरो-
हितप्रेषणञ्च पाण्डवैः कौरवान् प्रति । वैचित्रवीर्य्यस्य
वचः समादाय पुरोधमः । तथेन्द्रविजयञ्चापि यानञ्चैव
पुरोधसः । सञ्जयं प्रेषयामास शमार्थी पाण्डवान्
प्रति । यत्र दूतं महाराजो घृतराष्ट्रः प्रतापवान् ।
श्रुत्वा च पाण्डवान् यत्र वासुदेवपुरोगमान् । प्रजागरः
संप्रजज्ञे धृतराष्ट्रस्य चिनया । विदुरो यत्र वाक्यानि
विचित्राणि हितानि च । श्रावयामास राजानं
धृतराष्ट्रं मनीषिणम् । तथा सनत्सुजातेन यत्राध्यात्म
मनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शीकला
लसः । प्रमाते राजसमितौ सञ्जयो यत्र वा विभोः ।
रेक्यात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च । तत्र कृष्णो
दयापन्नः सन्धिमिच्छन्महामतिः । स्वयमागाच्छमं कर्त्तं
नगरं नागसाह्वयम् । प्रत्याख्यानञ्च कृष्णस्य राज्ञा
दुर्य्योधनेन वै । शमार्थे याचमानस्य पक्षयोरुभयोर्हि-
तम् । दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्त्तितम् ।
वरान्वेषणमत्रैव मातलेश्च महात्मनः । महर्षेश्चापि
चरितं कथितं गालवस्य वै । विदुलायाश्च पुत्रस्य प्रोक्त-
ञ्चात्यनुशासनम् । कर्णदुर्य्योधनादीनां दुष्टं विज्ञाय
मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम् ।
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपाय-
पूर्वं शौटीर्य्यात् प्रत्याख्यातश्च तेन सः । आगम्य
हास्तिनपुरादुपप्लव्यमरिन्दम! । पाण्डवानां यथावृत्तं
सर्वमाख्यातवान् हरिः । ते तस्य वचनं श्रुत्वा मन्त्र-
यित्वा च यद्धितम् । सांग्रामिकं ततः सर्वं सज्यञ्चक्रुः
परन्तपाः । ततो युद्धाय निर्याता नराश्वरथदन्तिनः ।
नगराद्धास्तिनपुराद्बलसंख्यानमेव च । यत्र राज्ञा ह्यू-
लूकस्य प्रेषणं पाण्डवान् प्रति । श्वो भाविनि
महायुद्धे दौत्येन कृतवान् प्रभुः । रथातिरथसंख्यानमम्बो-
पाख्यानमेव च । एतत्सुबहुवृत्तान्तं पञ्चमं पर्व
भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम् ।
अध्यायानां शतं प्रोक्तं षड़शीतिर्महर्षिणा । श्लोकानां
षट् सहस्राणि ताबन्त्येव शतानि च । श्लोकाश्च नवतिः
प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्व-
ण्यस्मिंस्तपोधनाः! (५) । (उद्योगपर्व)
“अतःपरं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बू-
खण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह । यत्र यौधि-
ष्ठिरं सैन्यं विषादमगमत् परम् । यत्र युद्धमभूघोरं
दशाहानि सुदारुणम् । कश्मल यत्र पार्थस्य
वासुदेवो महामतिः । मोहजं नाशयामास हेतुभि-
र्मोक्षदर्शिभिः । समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहि-
तेरतः । रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः ।
प्रतोदपाणिराधावद्भीष्म हन्तुं व्यपेतभीः । वाक्यप्रतोदा-
भिहितो यत्र कृष्णेन पाण्डवः । गाण्डीवधन्वा समरे
सर्वशस्त्रभृताम्बरः । शिखण्डिनं पुरस्कृत्य यत्र पार्थो
महाधनुः । विनिघ्नन्निशितैर्बाणैरथाद्भीष्ममपातयत ।
शरतल्पगतश्चैव भीष्मी यत्र बभूव ह । षष्ठमेतत्
समाख्यातं भारते पर्व विस्तृतम् । अध्यायानां शतं प्रोक्तं
तथा सप्तदशापरे । पञ्च श्लोकसक्षस्राणि संख्ययाष्टौ
शतानि च । तीकात चतुरशीतिरस्मिन् पर्यणि की-
पृष्ठ ४६५८
र्त्तिताः । व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि (६) ।
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । सैनापत्येऽभि
षिक्तोऽथ यत्राचार्य्यः प्रतापवान् । दुर्य्योधनस्य प्रीत्यर्थं
प्रतिजज्ञे महास्त्रवित् । ग्रहणं धर्मराजस्य पाण्डु-
पुत्रस्य धीमतः । यत्र संशप्तकाः पार्थमपनिन्यूरणा-
जिरात् । भगदत्ती महाराजो यत्र शक्रसमो युधि ।
सुप्रतीवेन नागेन स हि शान्तः किरीटिना । यत्राभि-
मन्युं बहवो जघ्नुरेकं महारथाः । जयद्रथसुखा बालं
शूरमप्राप्तयौवनम् । हतेऽभिमन्यौ क्रुद्धेन्न यत्र पार्थेन
संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ।
यत्र भीमो महाबाहुः सात्यकिश्च मयारथः । अन्वे-
षणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया । प्रविष्टो भारतीं
सेनामप्रघृष्यां सुरैरपि । संशप्तकावशेषञ्च कृतं निःशेष-
माहवे । अलम्बूषः श्रुतायुश्च जलसन्धश्च वीर्य्यवान् ।
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः । घटोत्कचा-
दयश्चान्ये निहिता द्रोणपर्वणि । अश्वत्थामापि
चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं
नारायणममर्षितः । आग्नेयं कीर्त्त्यते यत्र रुद्रमा-
हात्म्यमुत्तमम् । व्यासस्य चाप्यागमनं माहात्म्यं कृष्ण-
पार्थयोः । सप्तमं भारते पर्व महदेतदुदाहृतम् । यत्र
ते पृथिवीपालाः प्रायशो निधनं गताः । द्रोणपर्वणि
ये शूरा निर्दिष्टाः पुरुषर्षभाः । अत्राध्यायशतं प्रोक्तं
तथाध्यायाश्च सप्ततिः । अष्टौ श्लोकसहस्राणि तथा नव
शतानि च । श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना ।
पाराशर्य्येण मुनिना संचिन्त्य द्रोणपर्वणि (७) ।
अतःपरं कर्णपर्व प्रोच्यते परमाद्भुतम् । मारथ्ये
विनियोगश्च मद्रराजस्य धीमतः । आख्यातं यत्र पौराणं
त्रिपुरस्य निपातनम् । प्रयाणे परुषश्चात्र संवादः कर्णश-
ल्ययोः । हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम् । बधः
पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना । दण्डसेनस्य
च ततो दण्डस्य च यधस्तथा । द्वैरथे यत्र कर्णेब धर्म-
राजो युधिष्ठिरः । संशयं गमितो युद्धे मिषतां सर्व-
षन्विनाम् । अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरी-
टिनीः । यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि ।
प्रतिज्ञापूर्वकञ्चापि वक्षो दुःशासनस्य च । भित्त्वा वृको-
टरो रक्तं पीतवान् यत्र संयुगे । द्वैरथे यत्र पार्थेन
हतः कर्णो महारथः । अष्टमं पर्व निर्दिष्टमेतद्भारत-
चिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ।
चत्वार्य्येव सहस्राणि नव श्लोकशतानि च । चतुःषष्टिस्तथा
श्लोकाः पर्वण्यस्मित् प्रकीर्त्तिताः (८) । (कर्णपर्व)
“अतःपरं विचित्रार्थं शल्यपर्व प्रकीर्त्तितम् ।
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् । यत्र कौमारका-
ख्यानमभिषेचनकर्म च । वृत्तानि रथयुद्धानि कीर्त्त्यन्त्ये
यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि
कीर्त्त्यते । शल्यस्य निघनञ्चात्र धर्मराजान्महात्मनः ।
शकुनेश्च बधोऽत्रैव सहदेवेन संयुगे । सैन्ये च हतभूयिष्ठे
किञ्चिच्छिष्टे सुयोधनः । ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो
व्यवस्थितः । प्रवृत्तिस्तत्र वाख्याता यत्र भीमस्य लुब्धकैः ।
क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः । ह्रदात्
समुत्यितो यत्र धार्त्तराष्ट्रोऽत्यमर्षणः । भीमेन गदया
युद्धं यत्रासौ वृतवात् सह । समवाये च युद्धस्य
रामस्यागमनं स्मृतम् । सरस्वत्याश्च तीर्थानां पुण्यता
परिकीर्त्तिता । गदायुद्धञ्च तुमुलमत्रैव परिकीर्त्तितम् ।
दुर्य्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे । ऊरू भग्नौ
प्रसह्याजौ गदया भीमवेगया । नवमं पर्व निर्दिष्टमेत-
दद्भुतमर्थवत् । एकोनषष्टिरध्यायाः पर्वण्यत्र प्रकी-
र्त्तिताः । संख्याता बहुवृत्तान्ताः श्लोकसंख्यात्र कथ्यते ।
त्रीणि शोकसहस्राणि द्वे शते बिंशतिस्तथा । मुनिना
मम्प्रणीतानि कौरवाणां यशीभृता (९) । (शल्यपर्व)
“अतःपरं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र
राजानं दुर्य्योधनममर्षणम् । अपयातेषु पार्थेषु त्रयस्ते-
ऽभ्याययूरथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधि-
रोक्षितम् । समेत्य ददृशुर्भूमौ पतितं रणमूर्द्धनि । प्रति-
जज्ञे दृढ़क्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्व-
पाञ्चालान् धृष्टद्युम्नपुरोगमान् । पाण्डवांश्च सहामा-
त्यान्न विमोक्ष्यामि दंशनम् । यत्रैवमुक्त्वा राजानमप-
क्रम्य त्रयो रथाः । सूर्य्यास्तमनवेलायामासेदुस्ते महद्-
वनम् । न्यग्रोघस्यात्र महतो यत्राधस्ताद्व्यबस्थिताः ।
ततः काकान बहून रात्रौ दृष्ट्वौलूकेनः हिंसितान् ।
द्रौणिः क्रोधसमाविष्टः पितुर्बधमनुस्मरन् । पाञ्चालानां
प्रसुप्तानां बधं प्रति मनोदघे । गत्वा च शिविरद्वारि
दुर्दर्शन्तत्र राक्षसम् । घोररूपमपश्यत् स दिवमावृत्य
धिष्ठितम् । तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च ।
द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः । प्रसुप्तान्निशि
विश्वस्तान् धृष्टद्युम्नपुरोगमान् । पाञ्चालान् सपरीवारान्
द्रौपदेयांश्च सर्वशः । कृतवर्मणा च सहितः कृपेण च
पृष्ठ ४६५९
निजघ्निवान् । यत्रामुच्यन्त ते पाथाः पञ्च कृष्णबला-
श्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ।
पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः । धृष्टद्युम्नस्य
सूतेन पाण्डवेषु निवेदितः । द्रीपदी पुत्रशोकार्त्ता
पितृभ्रातृबधार्दिता । कृतागशनसंकल्पा यत्र भर्त्तॄनुपा-
विशत् । द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः ।
प्रियं तस्याश्चिकीर्षन् वै गदामादाय बीर्य्यमान् । अन्व-
धावत् सुसंक्रुद्धो मारतद्वाजं गुरोः सुतम् ।
भीमसेनभयाद्यत्र देवेनाभिप्रचीदितः । अपाण्डवायेति
रुषा द्रोणिरस्त्रमवासृजत् । मैवमित्यब्रवीत् कृष्णः
शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास
फालगुनः । द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मन-
स्तदा । द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः ।
मणिं तथा समादाय द्रोणपुत्रान्महारथात् । पाण्डवाः
प्रददर्हृष्टा द्रौपद्यै जितकाशिनः । एतद्वै दशमं पर्व
सौप्तिकं समुदाहृतम् । अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता
महात्मना । श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया ।
श्लोकाश्च सप्ततिः प्रोक्ता मुनिना व्रह्मवादिना । सौप्तिकै
षीकसम्बद्धे पर्वण्युत्तमतेजसा (१०) । (सौप्तिकपर्व)
“अत ऊर्द्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । पुत्रशोका-
भिसन्तप्तः प्रज्ञाचक्षुर्नराधिपः । कृष्णोपनीतां यत्रासा-
वायसीं प्रतिमां दृढ़ाम् । भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो
बभञ्ज ह । तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः ।
संसारगहन बुद्ध्या हेतुभिर्मोक्षदर्शनैः । विदुरेण च
यत्रास्य राज्ञश्चाश्वासनं कृतम् । धृतराष्ट्रस्य चात्रैव
कौरवायोधनन्तथा । सान्तःपुरस्य गमनं शोकार्त्तस्य
प्रकीर्त्तितम् । विलांपो वीरपत्नीनां यत्रातिकरुणः
स्मृतः । क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः ।
यत्र तान् क्षत्रियान् शूरान् संग्रामेष्वनिवर्त्तिनः ।
पुत्रान् भातन् पितॄंश्चैव ददृशुर्निहतान् रणे । पुत्र-
पौत्रबधार्त्तायास्तथात्रैव प्रकीर्त्तिता । गान्धार्य्याश्चापि
कृष्णेन क्रोधोपशमनक्रिया । यत्र राजा महाप्राज्ञः
सर्वधर्मभृतांवरः । राज्ञां तानि शरीराणि
दाहयामास शास्त्रतः । तोयकर्मणि चारब्धे राज्ञामुद-
कदानिके । गूढ़ोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः ।
सूतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा । एतदेकादशं
पर्व लोकवैक्लव्यकारकम् प्रणीतं सज्जनमनोवैक्लव्या-
श्रुप्रवर्त्तकम् सप्तविंशतिरध्याया पर्वण्यस्मिन् प्रकी-
र्त्तिताः । श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता । संख्यया
भारताख्यानमुक्तं व्यासेन धीमता (११) (स्त्रीपर्व)
“अतःपरं शान्तिपर्व द्वादश बुद्धिवर्द्धनम् । यत्र निर्वेद-
मापन्नो धर्मराजो युधिष्ठिरः । घातयित्वा पितृन् भ्रा-
तृन् पुत्रान् सग्वन्धिमातुलान् । शान्तिपर्वणि धर्माश्च
व्याख्याताः शारतल्पिकाः । राजभिर्वेदितव्यास्ते
सम्यग्ज्ञानबुभुत्मुभिः । आपद्धर्माश्च तत्रैव कालहेतु-
प्रदर्शिनः । यान् बुद्ध्वा पुरुषः सम्यक् सर्वज्ञत्वमवाप्नुयात् ।
मोक्षधर्माश्च कथिता विचित्रा बहुबिस्तराः । द्वादशं
पर्व निर्दिष्टमेतत् प्राज्ञजनप्रियम् । अत्र पर्वणि घिज्ञेय-
मध्यायानां शतत्रयम् । त्रिंशच्चैव तथाध्याया नव चैव
तपोधनाः । चतुर्दशसहस्राणि तथा सप्त शतानि च ।
सप्त श्लोकास्तथैवात्र पञ्चविंशतिसंख्यया (१२) । (शान्तिपर्वं)
“अत ऊर्द्ध्वञ्च विज्ञेयमनुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः
श्रुत्वा धर्भविनिश्चयम् । भीष्माद्भागीरथीपुत्रात् कुरुराजी
युधिष्ठिरः । व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयः प्रकी-
र्त्तितः । विविधानाञ्च दानानां फलयोगाः प्रकीर्त्तिताः ।
तथा पात्रविशेषाश्च दानानाञ्च परो विधिः । आचार-
विधियोगश्च सत्यस्य च परा गतिः । भाहाभाग्यं
गवाञ्चैव ब्राह्मणानां तथैव च । रहस्यञ्चैव धर्माणां
देशकालोपसंहितम् । एतत् सुबहुवृत्तान्तसुतमञ्चानुशास-
नम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्त्तिता ।
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं
त्वत्र षट्चत्वारिंशदेव तु । श्लोकानान्तु सहस्राणि प्रोक्ता-
न्यष्टौ प्रसंख्यया (१३) । (अनुशासनपर्व)
“ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम ।
तत्संवर्त्तमरुत्तीयं यत्राख्यानमनुत्तमम् । सुवर्णकोष-
सम्प्राप्तिर्जन्म चोक्तं परीक्षितः । दग्धस्यास्त्राग्निना
पूर्वं कृष्णात् सजीवनं पुनः । चर्य्यायां हयसुत्सृष्टं
पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि
राजपुत्रैरमर्षणैः । चित्राङ्गदायाः पुत्रेण पुत्रिकाया
धनञ्जयः । संग्रामे बन्धुवाहेण संशयञ्चात्र लम्भितः । अश्व-
मेधे महायज्ञे नकुलाख्यानमेव च । अनुगीता तथा
प्रोक्ता सम्यगभगवता पुनः । कथितः शाश्वतो धर्मः
कृष्णेनार्जुनसन्निधौ । तथा ब्राह्मणगीता च सवादो
गुरुशिष्ययो । इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् ।
अध्यायानां शतञ्चैव त्रयोऽध्यायाश्च कीर्त्तिताः । त्रीणि
श्लोकसहस्राणि तावन्त्येव शतानि च । विशतिस तथा
पृष्ठ ४६६०
श्लोकाः संख्यातास्तत्त्वदर्शिना” (१४ आश्वमेधिकपर्व) ।
“ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम् । यत्र
राज्यं समुत्सृज्य गान्धार्य्या सहितो नृपः ।
धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह । यं दृष्ट्वा प्रस्थितं
साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य
गुरुशुश्रूषणे रता । यत्र राजा हतान् पुत्रान्
पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान् वीरान-
पश्यत् पुनरागतान् । ऋषेः प्रसादात् कृष्णस्य दृष्ट्वा-
श्चर्य्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां
गतः । यत्र धर्मं समाश्रित्य विदुरः सुगतिं मतः ।
सृञ्जयश्च महामात्यो विद्वान् नावल्गणिर्वशी । ददर्श
नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव
वृष्णीनां कदनं महत् । एतदाश्रभवासाख्यं पर्वोक्तं
सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया ।
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षड़ेव च
तथा श्लोकाः संख्यातास्तत्त्वदर्शिना” (१५ आश्रमवासपर्व)
“अतः परं निबोधेदं भौपलं पर्व दारुणम् । यत्र ते पुरुष-
व्याघ्राः शस्त्रस्पर्शसहा युधि । ब्रह्मदण्डविनिष्पिष्टाः समीपे
लवणाम्भसः । आपाने पानकलिता दैवेनाभिप्रचोदिताः ।
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् । यत्र सर्वक्षयं कृत्वा
तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्व-
हरं महत् । यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् ।
दृष्ट्वा विषादमगमत् पराञ्चार्त्तिं नरर्षभः । स संस्कृत्य
नरश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामा-
पाने वैशसं महत् । शरीरं वासुदेवस्य रामस्य च
महात्मनः । संस्कार लम्भयामास वृष्णीनाञ्च प्रधानतः ।
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि
कष्टायां गाण्डीवस्य पराभवम् । सर्वेपाञ्चैव दिव्याना-
मस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावा-
णामनित्यताम् । दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यपची-
दितः । धर्मराजं समासाद्य सन्न्यासं समरोचयत् ।
इत्येतन्मौषलं पर्व षोड़शं परिकीर्त्तितम् । अध्या-
याष्टौ समाख्याताः श्लोकानाञ्च शतत्रयम् । श्लोकानां
विंशतिश्चैव संख्यातास्तत्त्वदर्शिना” (१६ मौषलपर्व) ।
“माहाप्रस्थानिकं तस्मादूर्द्ध्वं सप्तदशं स्मृतम् । यत्र
राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः । द्रौपद्या सहिता
देव्या महाप्रस्थानमास्थिताः । यत्र तेऽग्निं ददृशिरे
लौहित्यं प्राप्य सागरम् । यत्राग्निना चोदितश्च पार्थस्तस्मै
महात्मने । ददौ सम्पूज्य तद्दिव्यं माण्डीवं धनुरुत्तमम् ।
यत्र भ्रातॄन् निपतितान्द्रौपदीञ्च युधिष्ठिरः । दृष्ट्वा हित्वा
जगामैव सर्वाननवलोकयन् । एतत् सप्तदशं पर्व साहा-
प्रस्थानिकं स्मृतम् । तत्राध्यायास्त्रयः प्रोक्ताः श्लोका-
नाञ्च शतत्रयम् । विंशतिञ्च तथा श्लोकाः संख्या-
तास्तत्त्वदर्शिना” । (१७ माहाप्रस्थानिकपवं) ।
“स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । प्राप्त”
दैवरथं स्वर्गान्नेष्टवान् यत्र धर्मराट् । आरोढूं
सुमहाप्राज्ञ आनृशंस्याच्छुना विना । तामस्यावि-
चलां ज्ञात्वा स्थितिं धर्मे महात्मनः । श्वरूपं यत्र
तत्त्यक्त्वा धर्मेणासौ समन्त्रितः । स्वर्गं प्राप्तः स च
तथा यातनां विपुलां भृशम् । देवदूतेन भरको
यत्र व्याजन दर्शितः । शुश्राव यत्र धर्मात्मा भ्रातॄणां
करुणागिरः । निदेशे वर्त्तमानानां देशे तत्रैव वर्त्त-
ताम् । अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः ।
आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम् ।
स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट् । मुमुदे
पूजितः सर्वैः सेन्द्रैः सुरगणैः सह । कर्णस्य
नरकप्राप्तिः प्रमोक्षश्चात्र कीर्त्त्यते । समागमश्च वीराणां
स्वर्गलोके महात्मना । कीर्त्त्यते यत्र विधिवत् स्वर्ग-
सवाद एव च । स्वानि स्थानानि च प्राप्ता यत्र ते
पुरुषर्षभाः । एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता ।
अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना । श्लोकानां
द्वेशते चैव सुसंख्याते तपोधनाः । नव श्लोकास्तथैवान्ये
संख्याताः परमर्षिणा । (१८ स्वर्गारोहणिकपर्व) ।
अष्टादशेवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु
हरिवंशश्च भविष्यञ्च प्रकीर्त्तितम् । विष्णुपर्व शिशीश्चर्य्या
विष्णोः कंसबधस्तथा । भविष्यं पर्व चाप्युक्तं खिलेष्वे-
वाद्भुतं महत् । दश श्लोक सहस्राणि विंशत् श्लोकश-
तानि च लिलेषु हरिवंशे च संख्यातानि महर्षिणा” ।
“भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् । भारतं
भवने यस्य तस्य हस्तगतो जयः” भा० आ० १ अ० ।
भरतस्य अपत्यादि शुभ्रा० ढक् भारतेय तदपत्यादौ पुंस्त्री० ।

भारतवर्ष पुंन० जम्बुद्वीपान्तर्गते वर्षभेदे जम्बुद्वीपशब्दो

३०४६ पृ० दृश्यम् ।

भारती स्त्री भृ--अतच् । स्वार्थे प्रज्ञाद्यण् । १ वाक्ये तदधि-

देवतायां २ सरस्वत्यां ३ पक्षिभेदे “भारती संस्कृतप्रायो
वाग्व्यापारो नराश्रय” इति सा० ६ पु० अलङ्कारोक्ते
४ वृत्तिभेदे च ५ सन्न्यासिनामुपाधिभेदे च स्त्री ।
पृष्ठ ४६६१

भारद्वाज पु० भरद्वाजस्य गोत्रापत्यम् अण् । गोत्रप्रवर्त्तके

१ मुनिभेदे २ द्रोणाचार्य्ये मेदि० ३ अगस्त्यमुनौ शब्दर०
४ व्याघ्राटविहगे ५ बृहस्पतिपुत्रे च हेमच० ६ वनकार्पास्यां
स्त्री ङीप् । पृषो० । भार्द्वाजीत्यप्यत्र । विदा० अञ्
ततः अश्वा० फक् । भारजायन तद्गोत्रापत्ये पुंस्त्री० ।
स्त्रियां ङीप् । भारद्वाजी ६ त० । भारद्वाजीपुत्र तत्पुत्रे
स च यजुर्वेदस्य वंशस्थः ऋषिभेदः शत० ब्रा० १४ । ९ । ४ । ३ ।

भारभृत् त्रि० भारं बिभर्त्ति भृ--क्विप् । १ भारधारके ।

२ विष्णौ पु० “भारभृत् कथितो योगी” विष्णुस० ।

भारमेय त्रि० भारमस्येदम् शुभ्रा० ढक् । भरमसम्बन्धिनि

स्त्रियां ङीप् ।

भारय पु० भासा रयो वेगो यस्य । (भारुइ) खगभेदे शब्दच० ।

भारयष्टि स्त्री भारस्य वहनार्था यष्टिः शाक० त० । भारवहन-

दण्डे (वाँक) अमरः ।

भारव न० भार वाति वा--क । धनुर्गुणे त्रिका० ।

भारवाह(ह्) त्रि० भारं वहति अण् ण्वि वा ।

भारवाहिनि ण्वुल् । भारवाहकोऽप्यत्र । अमरः स्त्रियां
ङीप् ण्विप्रत्ययान्तस्य शसादावजादौ ङीपि च ऊठ् ।
भारौहः भारौही ।

भारवि पु० किरातार्जुनीयकाव्यकारके १ कविभेदे । “तावद्भा

भारवेर्भाति यावन्माघस्य नोदयः । उदिते च पुनर्माघे
भारवेर्भा रवेरिव” उद्भटः । तत्कृते २ काव्ये च “उपमा
कालिदासस्य भारवेरर्थगौरवम्” उद्भटः ।

भारवृक्ष पु० भारीभूतो वृक्षः । काक्षीनामगन्धद्रव्ये शब्दच०

भार(ह)हार त्रि० भारं हरति हृ--अच् अण् वा ।

भारवाहके तत्रानद्यमने अच् । उद्यमने तु अण् इतिभेदः ।

भाराक्रान्त त्रि० ३ त० । १ भारेणाक्रान्ते “भाराक्रान्ता

भभनरमना गुरुः श्रुतिरसहयैः” छन्दाम० उक्ते २ सप्तदशाक्षर-
पादके वर्णवृत्तभेदे स्त्री ।

भारि पु० इभस्यारिः पृषो० । सिंहे हेमच० ।

भारिक त्रि० भारं वहति भार + ठक् । भारवाहके अमरः

भारिट पु० भासा रेटति रिट--क । श्यामणटके खगभेदे

राजनि० ।

भारिन् त्रि० भारीऽस्त्यस्य वाह्यत्वेन इनि । भारवाहके

एतत्परस्य मासाशब्दस्य ह्रस्वः । मालभारी । “मल्लिका-
मालमारिण्यः” काव्याद० ।

भारुण्ड पु० १उत्तरकुरुवर्षस्थे २ खगभेदे तदुपक्रमे “भारुण्डा-

नाम शकुनास्तीक्ष्णतुण्डा भयानकाः । तान्निर्हरन्तीह
मृतान् दरीषु प्रक्षिपन्ति च” भा० भी० ७ अ० । २ सामभेदे
तत्र भारुड़ेति पाठभेदः । तत्सामद्रष्टरि ३ ऋषिभेदे
“भारुण्डसामगीताभिरथर्वशिरसोद्गतैः” भा० आ० ६७ अ० ।
तच्च सामार्चिके १ । २ । २ “इमं स्तोमर्हते” इत्यादिमन्त्रे
गेयं साम, मत्कृत तुलादानादिपद्धतौ १०३ पृ० दृश्यम् ।
“आज्यदोहानि सामानि शान्तिकं भारुडानि च ।
पश्चिमे द्वारपालौ तु पठेताम् सामगौ तथा” विधानपा० ।

भारूप न० भारूपमस्य । चिदात्मके १ ब्रह्मणि २ आत्मनि पु० ।

भार्ग पु० भर्गस्य देशभेदस्य राजा अण् । १ भर्गदेशनृपे तत्र

तद्राजस्य भार्गा० स्त्रियां न लुक् । भार्गी । २ प्रतर्दनस्य
पुत्रभेदे पु० हरिवं० २९ अ० ।

भार्गभूमि पु० आङ्गिरसे भागेवपुत्रभेदे हरिवं० ३ अ० ।

भार्गव पुंस्त्री० भृगोरपत्यम् तद्गोत्रापत्यं वा अण् । १ भृपु-

वंश्ये बहुत्वे तु अत्रिभृम्वित्यादिना अणी लुक् ।
भृगवः तद्गोत्रापत्येषु । २ शुक्राचार्य्ये ३ धन्विनि ४ गजे
च पु० मेदि० । तेन प्राक्ता तेनाधीता ज्ञाता वा अण् ।
५ वेदपसिद्धे विद्याभेदे ६ षार्वत्यां ७ लक्ष्म्यां ८ दूर्वायां
च स्त्री मेदि० ङीप् । प्राच्ये ९ देशभेदे पु० । “ब्रह्मा-
त्तराः प्रविजया भार्गवाज्ञेयमल्लकाः” मार्कपु० । १० द्रुपद-
नगरस्थे कुम्भकारभेदे पु० भा० आ० १९० अ० । ११ महादेवे
पु० भा० द्रो० २०३ अ० ।

भार्गवन न० द्वारकास्थे वनभेदे हरिवं० १५७ अ० ।

भार्गवप्रिय पु० ६ त० । हीरके तस्य शुक्रग्रहप्रियत्वात्

तथात्वम् ।

भार्गायण पुंस्त्री० भर्गस्य गोत्रापत्यं त्रैगर्त्तः फञ् । त्रैगत्ते” भर्गगोत्रापत्ये ।

भार्गी स्त्री भार्गस्येयमण् । (वामनहाटि) वृक्षभेदे राजनि० ।

भार्म्य पु० भर्गस्य नोत्रापत्यं गर्गा० यञ् । मुद्गलगोत्रे नृपभेदे

भाग० ९ । २१ । २४ ।

भार्य्या स्त्री भृ--ण्यत् । १ विधिनोढ़ायां स्त्रियाम् २ स्त्रीमात्रे

३ भरणीयमात्रे त्रि० । भार्य्याशब्दश्च यूपाहवनीयादिवत्
अलौकिकसंस्कारसहितस्त्रीबोधकः । तस्याः गुणदोषा यथा
“सा भार्य्या या गृहे दक्षा सा भार्य्या या प्रियंवदा ।
सा भार्य्यां या प्रतिप्राणा सा भार्य्या या पतिव्रता ।
नित्यस्वाता सुगन्धा च नित्यञ्च प्रियवादिनी । अल्पभुक्
खल्पभाषी च सततं मङ्गलैर्युता । सततं धर्मबहुला
सततञ्च पतिप्रिया । सततं प्रियवक्त्री च सततं भर्तृ-
कामिनी । पितृदेवक्रियायुक्ता सर्वसौभाग्यवर्द्धिनी ।
पृष्ठ ४६६२
यस्येदृशी भवेद्भार्य्या देवेन्द्रो न स मानुषः” ।
“यस्य भार्य्या विरूपाक्षी कश्मला कलहप्रिया ।
उत्तरोत्तरवादा स्यात् सा जरा न जरा जरा । यस्य
भार्य्या श्रितान्यत्र परवेश्माभिकाङ्क्षिणी । कुक्रिया
त्यक्तलज्जा च सा जरा न जरा जरा । यस्य भार्य्या
गुणज्ञा च भर्त्तारमनुगामिनी । अल्पाल्पेन तु सन्तुष्टा
सा प्रिया न प्रिया प्रिया । दुष्टा भार्य्या शठो मित्रं
भृंत्याश्चोत्तरदायकाः । ससर्पे च गृहे वासो मृत्युरेव न
संशयः । आपत्सु मित्रं जानीयात् युद्धे शूरं वने
शुचिम् । भार्य्याञ्च विभवे क्षीणे दुर्भिक्षे च प्रिया-
तिथिम्” । गारुड़े १०८ । १०९ अ० । “वृहस्पतिरु-
वाच “यस्य नास्ति सती भार्य्या गृहेषु प्रिय-
बादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा
गृहम् । शुशीला सुन्दरी शान्ता गता यस्य गृहोद-
रात् । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ।
भावानुरक्ता वनिता हृता यस्य च शत्रुणा । अरण्यं
तेन गन्तर्व्यृ यथारण्यं तथा गृहम् । दैवेनापहृता
यस्य पतिसाध्या पतिव्रता । अरण्यं तेन गन्तव्यं
यथारण्यं तथा गृहम् । यस्य माता गृहे नास्ति
भार्य्या चाप्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं
तथा गृहम् । प्रियाशून्यं गृहं यस्य पूर्णं श्रीधन
बन्धुभिः । अरण्यं तेन गन्तव्यं यथारण्यं तथा
गृहम् । भार्य्याशून्या वनसमाः सभार्य्याश्च गृहा गृहाः ।
गृहिणी च गृहं प्रोक्तं न गृहं गृहसुच्यते । अशुचिः
स्त्रीविहीनञ्च दैवे पैत्रे च कर्मणि । यदह्ना कुरुते कर्म
न तस्य फलभाग्भवेत् । दाहकशक्तिहीनश्च यथा
मन्दो हुताशनः । प्रभाहीनो यथा सूर्य्यः शोभाहीनो
यथा शशी । शक्तिहीनो यथा जीवो यथात्मा च तनुं
विना । विनाधारं यथाधेयो यथेशः प्रकृतिं विना ।
न च शक्तो यथा यज्ञः फलदां दक्षिणां विना । कर्मिणे
च फलं दातुं सामग्रीमूलमेव च । विना स्वर्णं
स्वर्णकारी यथाऽशक्तः स्वकर्मणि । यथाऽशक्तः कुला-
लश्च मृत्तिकाञ्च विना द्विजाः! । तथा गृही न शक्तश्च
सन्ततं सर्वकर्मणि! भार्य्यामूलाश्च पुत्राश्च भार्य्यामूला
गृहास्तथा । भार्य्यामूलं सुखं शश्वद् गृहस्थानां गृहे
सदा । भार्य्यामूलो सदा हर्षः भार्य्यामूलञ्च मङ्गलम् ।
भार्य्यामूलश्च संसारो भार्य्यामूलञ्च सौरतम् । यथा रथश्च
रुथिनां गृहिणाञ्च तथा गृहम् । सारथिस्तु यथा तेषां
गृहस्थानां तथा प्रिया । सवरत्नप्रधाना च स्त्रीरत्नं
दुष्कुलादपि । सा गृहीता गृहस्थेनैवेत्याह कमलो-
द्भवः । यथा जलं विना पद्मं पद्मं शोभां विना यथा ।
तथैव च गृहं शश्वद् गृहिणां गृहिणीं विना” ।
ब्रह्मवै० पु० प्र० ख० ५६ अ० । “तोषयेत् सततं
भार्य्या विधिवत् पाणिपीड़िताः । तासां तुष्ट्या तु
कल्याणमकल्याणमतोऽन्यथा । सन्तुष्टो भार्य्यया भर्त्ता
भर्त्रा भार्य्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं
तत्र वै ध्रुवम् । यथा विरुद्ध्यते स्वामी सौभाग्यमद-
दृप्तया । असतीसङ्गमं कर्त्तुं सा स्याद्वेश्या भवान्तरे ।
इहापि लोकेऽवाच्यत्वमधर्मञ्चापि विन्दति । न च पितृ-
कुलं स्वामिकुलं तस्याः प्रमोदते । विरुध्यमाने पत्यौ यत्
सपत्न्या वा प्रवर्त्तते । अतीव दुःखं भवति तदकल्याणा
कृत्तयोः” कालिकापु० २० अ० ।

भार्य्याट पु० भार्य्यां तद्दानमटति अट् अण् उप० स० ।

अन्यस्मै स्वभार्य्यादानार्थं गन्तरि त्रिका० ।

भार्य्याटिक पु० भार्य्यया आटो गतिः प्रयोजनमस्य ठक् ।

१ स्त्रीजिते २ हरिणभेदे च मेदि० ।

भार्य्यारु पु० भार्य्यं घार्य्यमृच्छति ऋ उण् । १ शैलभेदे

२ हरिणभेदे । भार्य्यां परभार्य्यामृच्छति ऋ--उण् ।
३ अनियोगेन परभार्य्यागामिनि च मेदि० ।

भार्य्यावृक्ष पु० भार्य्येव प्रियत्वात् वृक्षो यस्य । पतङ्गे

राजनि० ।

भार्य्योढ़ पु० ऊढा भार्य्या येन आहिता० वा परनिवातः । ऊढ़भार्य्यके

भाल न० भा--लच् । १ ललाटे भ्रुवोरूर्ध्वभागे २ तमसि मेदि० ।

भालकृत् पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः ।

भालचन्द्र पु० भाले चन्द्रोऽस्य । १ शिवे २ गणेशे ३ दुर्गायां स्त्री०

भालदर्शन न० भाले दृश्यते कर्मणि ल्युट् । १ सिन्दूरे शब्दच०

भाले दर्शनं नेत्रमस्य । २ कपाललोचने महादेवे ।

भालदृश् पु० भाले दृगस्य । त्रिनयने महादेवे हेमच० ।

भालनेत्र पु० भाले नेत्रमस्य । १ शिवे । भाललोचनादयोऽप्यत्र ।

२ त्रिनयनायां दुर्गाया स्त्री ।

भालाङ्क पु० भालस्येवाङ्को यस्य भाले अङ्को यस्य वा । १

शाकभेदे २ करपत्रेऽस्त्रे (करात्) ३ रोहितमत्स्ये महालक्षण-
विशेष ललाटचिह्नयुक्ते ४ पुरुषभेदे ५ शिवे ६ कच्छपे च
मेदि० ।

भालु पु० भृणाति रोगान् भृ उदसने ञुण् रस्य लः । आदित्ये उज्ज्वल० ।

भालु(लू)क पुंस्त्री० चु० भल--अवरोधे उक ऊक वा । स्वना-

मख्याते पशुभेदे अमरः पाठान्तरम् । स्त्रियां जाति-
त्वात् ङीष् ।
पृष्ठ ४६६३

भाल्लवि पु० १ सामशाखाभेदे २ तदध्येतरि च । “तामेतां भाल्ल-

वय उवासते” ताण्ड्य ब्रा० २ । २ । ४ “तामेतां परिवर्त्तिनीं
विष्टुतिम् भाल्लविशाखाध्यायिन उपासते” भा० ।

भाल्लू(ल्लु)क पुंस्त्री० भल्लूक + स्वार्थे अण् वा पृषो० ह्रस्वः ।

जन्तुभेदे भल्लूके स्त्रियां ङीष् ।

भाव पु० भावयति चिन्तयति पदार्थान् चु० मू--अच् ।

नाट्योक्तौ नानापदार्थचिन्तके १ पण्डिते । भावयति ज्ञाप-
यति हृदयगतम् भू--णिच्--अच् । २ हृद्गतावस्थावेदके
मानसविकारे स्वेदकम्पादौ व्यभिचारिभावे । ३ रत्या-
दिभावे मेदि० भू--भावे घञ् । साध्यरूपे सिद्धरूपे वा
४ क्रियारूपे धातोरर्थे । ४ रागे ५ आशये च ६ सत्तायां
७ चेष्टायाम् ८ जन्मनि च अमरः ९ विभूतौ । कर्तरि ण ।
१० आत्मनि ११ बुधे १२ जन्तौ करणे घञ् । १४ गौरविते
१५ अभिनयभेदे त्रिका० । १६ योनौ १७ उपदेशे धरणिः ।
संसारे भवशब्दार्थे च । ज्यो० उक्ते १९ लग्नादितः तन्वादि
द्वादशभावे तच्छब्दे ३८०२ पृ० तदानयनञ्च दृश्यम् ।
२० स्त्रीणां यौवनकाले सत्त्वभवाष्टाविंशत्यलङ्कारान्तर्गतेऽ-
ङ्गजे प्रथमालङ्कारे । यथा “यौवने सत्त्वजास्तासामष्टा-
विंशतिसंख्यकाः । अलङ्कारास्तत्र भावहावहेलास्त्रयो-
ऽङ्गजाः । तत्र भावः “निर्विकारात्मके चित्ते भावः
प्रथमविक्रिया” । जन्मतः प्रभृतिनिर्विकारे मनसि
उद्बुद्धमात्रो विकारो भावः । यथा “स एव सुरभिः कालः
स एव मलयानिलः! सैवेयमवला किन्तु मनोऽन्यदिव
दृश्यते” सा० द० । भावस्य लक्षणान्तरं यथा “शरीरे-
न्द्रियवर्गस्य विकाराणां विधायकाः । मावा विभाव-
जनिताश्चित्तवृत्तय ईरिताः पुराणे नाट्यशास्त्रे च
द्वयोस्तु रतिभावयोः । समानार्थतया चात्र द्वयमैक्येन
लक्ष्यते” । २१ ग्रहाणां द्वादशविधचेष्टाभेदे तदानयनं फलं
च ज्यो० त० उक्तं यथा
“शयनञ्चोपवेशञ्च नेत्रपाणिः प्रकाशनम् । गमनं
गमनेच्छा च सभायां वसतिस्तथा । आगमनं भोजनञ्च
नृत्यलिपसा च कौतुकम् । निदा ग्रहाणां भावाश्च
द्वादशैते प्रकीर्त्तिताः” । भावानयनक्रमो यथा “यद्राशौ
विद्यते स्वेटस्तेन तं परिपूरयेत् । पुनरंशेन संपूर्य्य स्वर्क्षं
तत्र नियोजयेत् । जातदण्डं तथा लग्नमेकीकृत्य सदा
बुधैः । रविणा मागहारेण शेषं कार्य्ये नियोजयेत्” ।
अंशेन लवसंख्यया । स्वर्क्षं ग्रहाणां जन्मनक्षत्रम् ।
तद्यथा । “विशाखानलतोयानि वैष्णवं भगदैवतं पुष्या
पौष्णोयमः सर्पो जन्मभान्यर्कतः क्रमात् । ऋक्षोराशिः ।
यदा मेषे ग्रहस्तदा १ एकपूरितग्रहसंख्याङ्कः । यदा वृषे
ग्रहस्तदा २ द्विपूरितो ग्रहसंख्याङ्कः कार्य्यः । जाया-
सुतमृत्युतुङ्गस्वगृहत्रिकोणस्थानस्थितपापग्रहाणां
निद्राशयनभावयोः फलम् “निद्रायाञ्च यदा पोपो
जायास्थाने शुभं वदेत् । यदि पापः शुभैर्दृष्टो नाशुभैश्च
कदाचर्न । यदि वा शत्रुगेही स्याच्छयने यदि वेक्षितः ।
तदा नारीसमं तस्य नाशो भवति निश्चितम् । शुभा-
शुभैर्यदा दृष्टः शुभग्रहसमन्विंतः । नारी च म्रि-
यते तस्य प्रथमा च विशेषतः । सुतस्थाने स्थितः पापी
निद्रायां शयनेऽपि वा । तदां शुभं भवेत्तस्य नात्र कार्य्या
विचारणा । तुङ्गस्थाने स्वगृहे बा त्रिकोणे वा यदा
भवेत् । अपत्यस्य तदा नाशो जायते नात्र संशयः ।
शुभग्रहो यदा तत्र क्रूरो वा यदि वेक्षितः । तदा
प्रथमापत्यस्य नाशो भवति निश्चितम् । मृत्युस्थाने
स्थितः पापो निद्रायां शयनेऽपि वा । तदात्मनोऽपमृत्युः
स्याद्राजतीऽपरतीऽपि वा । शुभग्रहो यदा तत्र
मृत्युस्थानेऽपि संस्थितः । तदा च मरणं तस्य मृत्यु-
स्थाने विशेषतः । पापग्रहैर्यदा दृष्टः शुभो वा शत्रु-
वीक्षितः । तदा तस्य शिरश्छेदो मुनिना परिकीर्त्तितः ।
एवं क्रमेण बोद्धव्यं ग्रहभावे सुबुद्धिना । बलाबल-
विचारेण जायते च शुभाशुभम् । ज्योतिर्वित्सु
च सर्वेषु परिहारः कृतो मया । शयनादिकभावेषु ज्ञातव्य-
श्चोपदेशतः । एकादशे वा दशमालये वा धनालये वा
यदि वा विलग्ने । पापेन युक्तो न शुमग्रहश्चेत्तथापि
सिद्धिं महतीं वटन्ति” । ग्रहभेदेन दशाभेदे फलं यथा
“मन्दाग्निः पित्तशूली च जायते शयने नरः १ ।
उपवेशे भवेच्छिल्पी श्यामवर्णस्तथा नरः २ । नेत्रपाणौ
भवेत् क्रूरो जलदोषो भवेन्नरः ३ । पुण्यवान् धार्मि-
कश्चैव धनवांश्च प्रकाशने ४ । गमने च रवेर्जातः
कृपणो धनसंयुतः । बहुभाषी क्षमी क्रोधी लुब्ध-
चित्तः सदा भवेत् ५ । अल्पभोक्ता शीघ्रगामी दीर्घायु-
र्नृपवल्लभः । शूरः श्रीमान् सुशीलश्च गमनेच्छाभवो
नरः ६ । सभायाश्च रवेर्जातः खलो दाता क्षमी
भवेत् । दयालुः पण्डिते धीमान् गुणवान् पण्डित
प्रियः ७ । आगमने भवेन्मूर्खः कुरूपो धनवान् भ-
पृष्ठ ४६६४
वेत् ८ । भोजने भक्षको मांसलुब्धो महावपुर्वली ९ ।
नृत्यकिपसो सुन्दरो वान्मी पण्डितगृहाधिपः १० ।
उत्साही च महाभोगी कौतुके च दिवाकरे ११ । दाता
भोक्ता प्रियः पुत्रकलत्राणां न संशयः । लिङ्गे देहे
करे चैव शुदे रोगी तथैव च । निद्रायाञ्च भवेद्भानोः
क्रोधनो रक्तनेत्रकः” १२ । इति रवेः ।
“शयने च विधौ क्रोधी दरिद्रो बहुलम्पटः १ ।
उपवेशे महारोगी धनवांश्च भवेन्नरः २ । नेत्रपाणौ
नेत्ररोगी श्लीपदी बहुभाषकः । क्रूरः खलोऽतिशूरञ्च
जायत च विधौ तदा ३ । प्रकाशने निशानाधे
धनवाश्च भवेन्नरः । दक्षो बुद्धिमान् दाता च परदारेषु
लम्पटः ४ । अरोगी वित्तहा चैव क्रूरकर्मा
धनान्वितः । शिरोरोगी दन्तशूली जायते गमने
विधौ ५ । नानामतिर्महाक्रोधी सम्पद्युक्तो भवेन्नरः ।
गमनेच्छुविधौ जातो धनहीनो भवेत् तदा ६ । दाता
च धार्मिकश्चैव राजपात्री भवेत् सदा । सभायाञ्च विधी
नित्य जायते पुरुषोत्तमः ७ । नित्यक्रोधी महादुःखी
भवेदागमने विधौ ८ । भोजने च भवेल्लुब्धो भक्षकश्च
महासुरः ९ । यो जातो नृत्यलिप्सायां गुणवान्
धार्मिको भवेत् । बहुपुत्रो धनी दाता जायते नात्र
संशयः १० । कौतुके च भवेद्रोगी नानाविद्यासु
तत्परः । उत्साही च महाक्रोधी जायते च सुनि-
सितम् ११ । निद्रायां दद्रुरोगी स्यात् क्लेशपापरुजा-
न्वितः । पुत्रशोकमहादुःखी नित्यं भ्रमति मेदि-
नीम्” १२ । इति चन्द्रस्य ।
“मयने च कुजे जातो लक्ष्मीवद्बहिरङ्गकः ।
क्षणक्रोधी महादञ्चः कृपणो जायते नरः १ ।
उपवेशे यदा भौमे जायते च नराधमः । धनवान्
क्रूरकर्मा च निष्ठुरो कातिवर्जितः २ । भेत्रपाणौ
च यो जातोह्यक्षिरोगी भवेन्नरः । पुत्रदारधनै-
र्युक्तो दारिद्र्येचैव दह्यते ३ । प्रकाशने कुले जातो
धनवान् पण्डितः सुधीः । नारी च प्रियते तस्य प्रथमा
च विशेषतः ४ । गमने च यदा जातः प्रवासी नित्य
दुःखितः । शरीरे च भवेद्रोगी कण्डादिकुष्ठदद्रुकः ५ ।
प्रवासी गमनेच्छायां गुदरोगी भवेच्च सः । धनहीनः
कुकर्म च जायते क्षितिजस्य च ६ । सभायाञ्च यदा
जातो धार्मिको बहुसम्पदा । गुणवाञ्च महादाता शिरी-
रोगी भवेद् ध्रुवम्” ७ । कुजस्यागमने नित्यं खञ्चो
मवति नान्यथा । कर्णरोगी पित्तशूली जायते
च नराधमः ८ । भोजने भूमिजस्यापि यो जातो मांस-
लुब्धकः । वृहत्खायो महाक्रोधी मिथ्योत्साही
धनान्वितः ९ । कुजस्य नृत्यलिप्सायां यो जातो धनवान्
भवेत् । दाता भोक्ता सदा मानी राजमात्रो भवेच्च
सः १० । कौतुके क्षितिजस्यापि जातो भवति पण्डितः ।
नानाधनेन संयुक्तो बहुपुत्रो द्विभार्य्यकः ११ । निद्रायां
भूमिपुत्रस्य यो जातो मूर्ख एवः सः । कलहो बान्धवैः
सार्द्धं शीकक्लेशरुजान्वितः १२” इति मङ्गलस्य ।
“बुधस्य शयने जातो धनवान् क्षुधितः सदा । अङ्गच्छेदा
भवेद्वापि खङ्गो भवति मान्यथा १ । उपवेशे च यो
जातः प्रवासी जायते ध्रुवम् । कवितागुणधीयुक्तो
मौरवर्णो महाशयः २ । नेत्रपाणौ च यो जातः
श्लीपदादिरुजान्वितः । चक्षूरोगी विशेषः स्यात् पुत्र-
याशी भवेद्ध्रुवम् ३ । प्रकाशने भवेत्जातो राजपात्री
थनान्वितः । नानाधनेव संयुक्तो जायते वेदपारगः ४ ।
गमये यो नरो जातः प्रवाकी नित्यदुःखितः । शरीरे क्षत-
माप्नोति नित्यमृणो भवेच्च सः ५ । यो जातो गमनेच्छायां
सम्पटो दुष्टचित्तकः । स्त्रीवशो दुष्टभार्य्यश्च स नरो
बहुभाषकः ६ । समायाश्च बुधे जातो मूर्खो भवति पण्डितः ।
धनवान् धार्मिकञ्चैव चिररोगी भवेत्तु सः ७ । क्रूरः खलो
हतो मूर्खः पापशीमो भवेन्नरः । बुधस्यानकने नित्यं
जायते च नराधमः ८ । भोजने च भवेत् सौख्यं धनहीनो
भवेन्नरः । परद्वेषी प्रवासी च शोथमात्रव्यथान्वितः ९ ।
यो जातो नृत्यलिप्सायां धनवान् पण्डितः कविः ।
उदसाहो च महाहृष्टो भुनक्ति सुखमद्भुतम् १० । लौतुके
च यदा जातो भवेत् सर्वजनप्रियः । अर्शोरोगी दद्रु-
युक्तो धनवानख्यसस्यकः ११ । निद्राव्यञ्च यदा जातः
सर्वदास्यैकपात्रताम् । नानाक्लेशभवाप्नोति रोगशीक
जमक्षयम्” १२ । इति बुधस्य ।
“धनवान् लम्पटः श्यामः स्थूलव्रकरुत्यान्वितः । जीवस्य
शयने जातो मानवो नात्र सशयः १ । उपवेशे सुरोजातो
बहुभाधौ च रोगवान् । पशुधाती महाशिल्पी श्लीप-
टीरोगलयुतः २ । नेत्रपाणौ सुरोर्जातः सासरोगी धनी
भवेत् । क्षतादिश्चरणे नित्यं जायते मात्र संशयः ३ ।
गुरोः प्रकाशे धनवान् लिङ्गगुह्ये रुजान्वितः । दक्षो लम्पट-
पापी च श्यामवर्णो रुजान्वितः५। सर्पभीतो गूढकर्मा
साहसी गमनोन्मुखे। परवित्तेन धनवान् पुमान् भवति
पृष्ठ ४६६५
वाकपतौ ५ । गुरोश्च गमनेच्छायां जातो भवति
मानवः । शूली धनी प्रवासी च सवाकर्मणि तत्वरः ६ ।
वक्त्रा दाता च धनवान् राजसेवान्वितो नरः । शूलरोगी
भवेन्नित्यं सभायां वाक्पतो स्थिते ७ । धार्मिकस्तीर्थकृ-
श्यानी धनी चागमने गुरोः । परदारेषु संलुब्धो जायत
नात्र संशयः । भोजने बहुसौख्याद्यो मांसलुब्धो
महासुरः । कामुकः प्रियवाक्यश्च जायते नात्र संशयः ९ ।
नृत्यलिप्सोः शठो वाग्यो धनवान् सात्त्विकस्तथा ।
महदैश्वर्य्यसंयुक्तो जीवस्य च भवेन्नरः १० । कौतुके च गुरो-
र्जातो धनवान् धार्मिकः सदा । नृत्योत्साही महत्-
सङ्गी भुनक्ति सुखमद्भुतम् ११ निद्रायाञ्चैव यो जातश्चक्षू
रोगी भवेच्च सः । कृपणो बहुभाषी च दुःखितो
भ्रमते महीम्” १२ । इति गुरोः ।
शुक्रस्य शयने जातो सम्पटो बहुभाषकः । दन्तरोगी
महाक्रोधी नीचो भवति नित्यशः १ । उपवेशे तथा
जातो बलवान् दाम्भिकः सदा । नित्यप्रवासी रोगी च
जायते नीचसंस्थिते २ । नेत्रपाणौ भृगोर्दुःखी
रोगशोकसमन्वितः । धनहीनो महारोगी मानवः स्यान्न-
संशयः ३ । मृगोः प्रकाशने जातो विद्याधनसमन्वितः ।
दाता च धार्मिकश्चैव कीर्त्तिमान् जायते नरः ४ । शुक्रस्य
गमने जातः पादमूले रुजान्वितः । नित्योत्साही
महाशिल्पी भवेत्तीर्थगतौ रतः ५ । गमनेच्छौ यदा जातो
व्यातृनाशो भवेद्ध्रुवम् । माता च म्रियते तस्य शैशवे
व्याधिसंयुतः ६ । सभायाञ्च भृगोर्जातो राजपात्री
महाधनी । कुलशीलो महादक्षः केवलं शूलरोगवान् ७ ।
भृगोरागपने जातो दुःखितो बहुलम्पटः । दद्रुरोगी
पुत्रशोकी जायते च नराधमः । शुक्रस्य भोजने जातो
बलवान् दाम्भिकः सदा । महाधनी भवेन्नित्यं वाणि-
ज्येन विशेसतः ९ । यो जातो नृत्यलिप्सायां स वाम्भी
जायते ध्रुवम् । पाण्डित्यं कविता चैव वर्द्धते च दिने
दिने । सदि चैव भवेन्नोचे मूर्खो भवति निश्चयः ।
तुङ्गस्थाने विशेषेण राजपात्रो महाधनी । कामुको
बहुकान्तश्च परयोषित्प्रियः सदा । महाहृष्टो
महाबन्धुः कौतुकी च भवेत् सदा । बहुपुत्रकमुत्रश्च नाना-
सुखसमन्वितः । नीचे तद्विपरीतः स्यात् दुःखशोकसम-
न्वितः ११ । निद्रायाञ्च भृगोर्जातो भवेद्रोगी च निश्चि-
यम् । नित्यल्केशी महादुःखी जायते नात्र संशयः ।
जायायाञ्च सुतस्थाने यदि निद्रा भृतोर्भवेत् । तदा
सर्वविनाशः स्याद्धिष्णुना परिकीर्त्तितम्” १२ । शुक्रस्य ।
“शयने च शनेर्जातो लम्पटो बहुभाषकः । गुह्य-
स्थाने भवेद्रोगी कोषवृद्धिश्च जायते । लम्बात् सप्ता-
ष्टमे चैव शयनस्यः शनैश्चरः । तदा नित्यप्रवासी स्या-
च्छत्रुक्षयी भवेच्च सः । उपवेशे यदा जातः श्लीपटी-
दद्रुसंयुतः । धनहीनो भवेत् तस्य पीड़ा भवति
नित्यशः २ । नेत्रपाणौ यदा जातो मूर्खो भवति पण्डितः ।
धनवान् धार्मिकश्चैव द्विभार्य्यो बहुभाधकः ३ । प्रकाशने
च यो जाती राजपात्री भवेच्च सः । नानागुणेन
गुणवान् धार्मिकः पण्डितः शुचिः” “मतान्तरे “जायास्थाने
च लग्ने च प्रकाशने यदा शनिः । तदा सर्वविनाशः
स्याज्जातिध्वंसो भवेद् ध्रुवम् ४ । गमने च यदा जातः
पादमूले रुजान्वितः । तीर्थे च गतिमान्नित्यं पुत्रदारै-
विवर्जितः ५ । यो जातो गमनेच्छायां श्लोपदीरोगसं-
युतः । दन्ताघाती महाक्रोधी कृपणः परनिन्दकः ६ ।
समायाञ्च शनौ जातः पुत्रदारधनैर्युतः । भवेत्र लभते
वित्तं नानारत्नसमन्वितम्” ७ । आगमने यदा जातो
महाक्रोधी रुजान्वितः । सर्पादिभिश्च सदष्टो भ्रातृनाशी
भवेद् ध्रुवम् ८ । भोजने चैव यो जाती मन्दाग्निश्च
महानपि । अर्शोरोगी तथा शूसी चक्षूरोगी भवेच्च सः ।
यो जातो नृत्यलिप्सायां नर्त्तको बहुभाषशः जीवने
दुःखितश्चैव प्रवासी परिदेवकः १० । कौतुके च शनेर्जातो
राजपात्रो महाशयः । दाता भोक्ता महादक्षो धार्मिकः
पण्डितः शुचिः ११ । निद्रायास्र शनेर्जातो धनवान्
पण्डितः शुचिः । चक्षुरोगी पित्तशूली द्विभार्य्यो बहुपु-
त्रकः । विशेषतश्च धर्मस्ये कर्मस्ये च कदाचन । यदि
दैवाद्भवेन्निद्रा नाशी भवति निखितम् । कर्मनाशो धर्मनाशः
क्षुधार्त्तः दुःखितः सदा । नित्यप्रवासी रोगी च कार्य्य-
नाशः पदे पदे । स्यमित्रनेहे षष्ठे वा केन्द्रे वा स्वगृहे
पुनः । तदा सर्वं विचार्य्यञ्च वैपरीत्येन चिन्तनम् ।
जायायाञ्च सुतस्थाने यदि निद्रा भवेत् पुनः । तदा
सर्वं शुभं विद्याद्विष्णुना परिकीर्त्तितम्” १२ । शनेः ।
“शयने च यदा राहीर्जन्म यस्य षवेत् पुनः ।
तस्य क्लेशो महादुःखं जायते च न संशयः १ । उपवेशे
च यो जातः श्लीपदीरोगसंयुतः । बहुहानिर्नरेन्द्रस्य
पीडा भवति नित्यशः २ । नेत्रपाणौ यदा जातलक्षू-
रोगी भवेद् ध्रुवम् । सर्पाधातो महागीतिर्द्धितार्य्यो
बहुभाषकः ३ । प्रकाशने च यो जातो धनवान् धा-
पृष्ठ ४६६६
र्मिकः पुनः । नित्यप्रवासी चोत्साही सात्त्विको
धार्मिकः शुचिः ४ । गमने चैव यो जातो नानारोगै-
र्धनक्षयः । दन्ताघाती महाक्रोधी पिशुनः परनिन्दकः ५ ।
यो जातो गमनेच्छायां बहुपुत्रो महाधनः । पण्डितो
गुणवान् दाता जायते ञ्च नरोत्तमः ६ । सभायाञ्च यदा
जातः कृपणो धनसंयुतः । नानागुणेन गुणवान्
धार्मिकः पण्डितः शुचिः ७ । आगमने च यो जातो लम्पटो
बहुभाषकः । सुहृद्बन्धुविनाशः स्यान्नानाक्लेशश्च
जायते ८ । भोजने च महादुष्टो मन्दाग्निश्च रुजान्वितः ।
कृपणः कटुवाक्यश्च दुःखितो नित्यसेवकः ९ । यो जातो
नृत्यलिप्सायां खञ्जो भवति नान्यथा । पुत्रनाशो
भवेत् तस्य जायानाशो भवेद् ध्रुवम् १० । कौतुके च
यदा जातो गुणैः सर्वैः समन्वितः । नानाधनेन धनवान्
राजसेवासु तत्परः । यदि दैवाद् भवेत् तुङ्गी स्वगृही
वा कदाचन । तदा सर्वं वैपरीत्यं जायते च न
संशयः ११ । यो जातो राहुनिद्रायां दुःखितः सर्वत-
स्तथा । नानास्थाने गतो वापि धनपुत्रविवर्जितः । जाया-
याञ्च सुतस्थाने यातो निद्रां विधुन्तुदः । तदा सर्वं
वैपरीत्यं शतजायासमन्वितः १२ । राहोः एवं केतूनाम् ।
२२ वैशेविकोक्तेषु द्रव्यगुणकर्मसामान्यविशेषसमवायात्मकेषु
षट्सु पदार्थेषु “द्रव्यादयः पञ्च भावा अनेके समवायिनः”
भाषा० “तथा हि पदार्थोद्विविधः भावोऽभावश्च । तत्र भावाः
षट् सप्तमस्याभावत्वकीर्तनात्” सि० सु० । अभाव एक इति
पदार्थाः सप्त । तत्र द्रव्यादिपञ्चकस्य अनेकत्वविशिष्टं भावत्वं
लक्षणं समवायस्य भावत्वेऽपि एकत्वात् न तत्र प्रसङ्गः ।
तत्र च द्रव्यादिषट्कान्यतमत्वम् भावत्वमिति सि० मु० ।
सत्तासम्बन्धित्वमिति दिनकरप्रकृतयः । सम्बन्धित्वं समवाय
सम्बन्धेन तादात्म्येन एकार्धसमवायेन वा बोध्यम् । तेन
द्रव्यादित्रिके समवायेन, सत्तायां तादात्म्येन विशेषेषु
एकार्थसमवायेन, समवाये स्यात्मकसमवायेन स्वरूपसम्बन्ध
विशेषेण सत्तासम्बन्धसत्त्वानाप्रसङ्गः” । “भावो यथा
तथाऽभावः कार्य्यवत्कारण सतः” कुसुमा० ।
भू--चिन्तायाम् करणे अच् । २३ अन्तःकरणे “भावदुष्टो न
शुध्यति” आ० त० । २४ तन्त्रोक्ते पश्वाचारादित्रये “भावस्तु
त्रिविधा देवि! दिव्यवीरपशुक्रमात् । दिव्यवीरौ
महामावौ अधमः पशुभावकः । वैष्णवः पशुमावेन
पूजयेत् परमेश्वरम् । शक्तिमन्त्रे वरारोहे! पशुभावो
भयानकः । दिव्ये वीरे महेशानि! जायते सिद्धिरुत्तमा” ।
यास्केन साध्यरूपायाः क्रियाया भावत्वमुक्तं यथा
“तद् यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्याते
नाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्य्यन्तं, मूर्त्तं
सत्त्वभूतं सत्त्वनामभिर्व्रज्या पङ्क्तिरित्यादिभिः सत्त्वाना-
मुपदेशो गौरश्वः पुरुषो हस्तीति भवतीति भावस्य, आस्ते
शेते व्रजति तिष्ठतीति” । आलङ्कारिकोक्तभावस्य द्विविधता
सञ्चारिव्यभिचारिभेदात् तत्तच्छब्दे दृश्यम् । २५ सङ्गीत-
सङ्गतपदार्थद्योतकहस्तादिचेष्टाभेदे च । “यस्य च क्रियया
क्रियान्तरं लक्ष्यते स भावः” इति व्याकरणपरिभाषिते
२५ पदार्थे च तत्र च सप्तमीत्याकरे स्थितम् । भवतीति
भू--कर्त्तरि ण । २७ उत्पत्तियुते षड्विकारयुते च
पदार्थे भावविकारशब्दे दृश्यम् । २८ सांख्यमतसिद्धेषु
धर्माधर्मादिषु बुद्धिधर्मेषु “संसरति निरुपभोगं भावैरधि-
वासितं लिङ्गम्” सा० का० । “भावैरधिवासितं धर्माधर्मज्ञाना-
ज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्प्याणि भावास्तदन्विता बुद्धिः
तदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवा-
सितं यथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामोदवासितं
भवति तस्माद्भावैरेवाधिवासितत्वात् संसरति” तत्त्वकौ० ।
तेषां करणाश्रितत्वं कार्य्याश्रितत्वञ्च दर्शितं यथा
“सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्य्याश्रयिणश्च कललाद्याः”
साका० “वैकृतिकानैमित्तिकाः प्राकृतिकाः, स्याभाविकाः
सांसिद्धिकाः भावाः यथा सर्गादावादिविद्वान् भयवान्
कपिलो महामुनिर्धर्मज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रादुर्बभूवेति
स्मरन्ति । वैकृतिकाश्च भावाः असांसिद्धिकाः उपायानु
ष्ठानोत्पन्नाः यथा प्राचेतसप्रभृतीनां महर्षीणाम् ।
एवमधर्माज्ञानावैराग्यानैश्वर्य्याण्यपि । कार्य्यं शरीरं
तदाश्रयिणस्तस्यावस्याः कललबुद्बुदमांसपेशीकरण्डाङ्गप्रत्यङ्ग-
व्यूहाः गर्भस्थस्य, ततो निर्गतस्य बालस्य बाल्यकौमारयौ-
वनयार्द्धकातीति” त० कौ० । २९ तत्तत्पदार्थासाधारणे
धर्म च “भावे त्वतलौ” पा० । भावशब्देनासाधारधर्म
उच्यते । स च तदितरावृत्तित्वे यावत्तद्वृत्तिधर्मः
यथा गोत्वमित्यादौ भावार्थकत्वप्रत्ययेन गवेतरावृत्तित्वे
सति सकलगोव्यक्तिवृत्तिधर्मो बोध्यते ।

भावक पु० भाव + स्वार्थे क । १ भावशब्दार्थे मनोविकारे हला० ।

भू--भावि--वा ण्वुल् । २ सत्ताश्रये ३ उत्पादके च त्रि० ।

भावत त्रि० भू--शतृ भवन् तस्येदम् अण् । उत्पाद्यमान-

सम्बन्धिनि स्त्रियां ङीप् ।
पृष्ठ ४६६७

भावत्क त्रि० युष्मदर्थकात् भवच्छब्दात् इदमर्थे पक्षे ठक् ।

भवत्सम्बन्धिनि पक्षे छस् । सित्त्वात् पदत्वम् । मवदीय
तत्रार्थे ति० ।

भावन न० भू--णिच्--ल्यु । (चालता) १ फलभेदे २ विष्णौ पु० ।

भावे ल्युट् । ३ अधिवासने ४ चिन्तायाम् ५ ध्याने ६ पर्य्या-
लोचनायां वैद्यकोक्ते ७ औषधसंस्कारभेदे । भावि--युच् ।
“व्यापारो भावना सैवोत्पादना सैव च क्रिया” उक्ते
८भवितुर्भवनानुकूलव्यापारभेदे स्त्री भट्टशब्दे दृश्यम् ।
अनुभवजन्ये स्मृतिहेतौ ९ संस्कारभेदे स्त्री । “संस्कार-
भेदो वेगोऽथ स्थितिस्थापकभावने” “अतीन्द्रियोऽसौ
विज्ञेयः क्वचित् स्पन्देऽपि कारणम् । भावनाख्यस्तु
संस्कारो जीववृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य निश्चयः
कारणं भवेत् । स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते”
भाषाप० । “भावनाख्य इति । तस्य संस्कारस्य, उपेक्षा-
त्मकज्ञानात् संस्कारानुत्पत्तेरुपेक्षानात्मकनिश्चय इत्युक्तम् ।
तेनोपेक्षान्यनिसयत्वेन संस्कारं प्रति हेतुतेति भावः ।
ननु स्मरणं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वं तेनोपेक्षादि-
स्थले न स्मरणम् इत्थञ्च संस्कारं प्रति ज्ञानत्वेनैव हेतुता-
स्त्विति चेन्न विनिगमनाविरहेणापि संस्कारं प्रति
उपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात् । किञ्च
उपेक्षास्थले संस्कारकल्पनाया गुरुत्वात् संस्कारं प्रति चोपे-
क्षान्यत्वेन हेतुतायाः सिद्धत्वात् । तत्र प्रमाणं दर्शयति ।
स्मरणे इति । असौ संस्कारः स्मरणं प्रत्यभिज्ञानञ्च
जनयति । अतः संस्कारः कल्प्यते । विना व्यापारं
पूर्वानुभवस्य स्वरणादिजननासामर्थ्यं स्वस्वव्या-
पारान्यतराभावे कारणत्वासम्भवात् । न च प्रत्यभिज्ञां
प्रति तत्तत्संस्कारस्य हेतुत्वेन प्रव्यभिज्ञायाः संस्कार-
जन्यत्वेन स्मृतित्वापत्तिरिति वाच्यम् । अप्रयोजकत्वात् ।
परे तु अनुद्बुद्धसंस्कारात् प्रत्यभिज्ञानुदयादुद्बुद्ध-
संस्कारस्य हेतुत्वापेक्षया तत्तत्स्मरणस्यैव प्रत्यभिज्ञां
पति हेतुत्वं कल्प्यत इत्याहुः” सि० सु० ।
भ--चिन्तायां युच् । १० चिन्तायां स्त्री । चिन्ता च मानस-
वृत्तिभेदः सा च त्रिविधा यथोक्तं विष्णुपु० ६ अं ७ अ० ।
“त्रिविधा भावना विप्र! विश्वमेतन्निबोधत ।
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका । ब्रह्मभा-
वात्मिका ह्येका कर्मभावात्मिका परा । उभयात्मिका
तथैवान्या त्रिविथा भावभावना । सनन्दनादयो व्रह्म
भावभावनया युताः । कर्मभापनया चान्ये देवाद्याः
स्थावराश्चराः । हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका
द्विधा । बाधाधिकारयुक्तेषु विद्यते भावभावना” ।
बुद्धशब्ददर्शितं बौद्धमतसिद्धभावनाचतुष्टयञ्च दृश्यम् ।
चु० भू--मिश्रणे भावे युच् । २ निर्यासादिना चूर्णद्रव्यस्य
मिश्रीकरणे चूर्णद्रव्यस्य निर्यासादिना संस्कारभेदो
भावना तत्प्रमाणमुक्तं भावप्र० यथा
“द्रवेण यावन्मानेन चूर्णं सर्वं प्लुतं भवेत् ।
भावनायाः प्रमाणस्तु चूर्णे प्रोक्तं भिषग्वरैः” ।

भावबोधक पु० भावस्य रत्यादेर्वोधकः अनुमापकः । रत्याद्यनु-

मापके १ भ्रुभङ्गादिदेहचेष्टाविशेषे २ मुखरागादौ च अमरः

भावयू त्रि० भावमिच्छति क्यच् उन् वेदे नि० । भावेच्छौ ।

ऋ० १० । ८६ । १५ ।

भाववत् त्रि० भाव + रसा० मतुप् मस्य वः । भावयुते स्त्रियां ङीप् ।

भावविकार पु० ६ त० । यास्कोक्तेषु उत्पत्तियुतपदार्थस्य

जन्मादिषु षट्सु घर्मेषु “षड्भावविकारा भवन्तीति
वार्ष्यायणिः, जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते
विनश्यतीति, जायत इति पूर्बभावस्यादिमाचष्टे नापरभाव-
माचष्टे न प्रतिषेधति अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं,
विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं, वर्धत इति
स्वाङ्गाभ्युच्चयं, सांयौगिकानां वार्थानां, वर्धते विजयेनेति
वा वर्धते शरीरेणेति वा, अपक्षीयत इत्येतेनैव व्याख्यातः
प्रतिलोमं, विनश्यतीत्यपरभावस्यादिभाचष्टे न पूर्वभाव-
माचष्टे न प्रतिषेधति” ।

भाववृत्त पु० भावे वृत्तः प्रवृत्तः भावो वृत्तो जातो यस्माद्वा ।

सृष्टिकर्त्तरि बह्मणि “अनुष्टुप् च भवेच्छन्दो भाववृत्तस्तु
दैवतम्” स्मृतिः ।

भावाट पु० भावं भावेन वा अटति अट--अण् अच् वा ।

१ भावके २ साधौ ३ कामुके ४ नटे ५ निवेशे च मेदि० ।
भावे घञ् ६ त० । ६ भावप्राप्तौ ।

भावानुगा स्त्री भावं पदार्थमाशयं वानुगच्छति गम--ड ।

१ छायायाम् २ अभिप्रायानुगन्तरि त्रि० राजनि० ।

भावालीना स्त्री भावे पदार्थे आलीना । छायायां राजनि०

भाविक त्रि० भावेन निर्वृत्तम् ठक् । १ भावसाध्ये पदार्थे

२ अर्थालङ्कारभेदे ४०१ पृ० दृश्यम् ।

भावित त्रि० चु० भू--शुद्धौ चिन्तायां मिश्रणे वा कर्मणि क्त ।

१ वासिते २ प्राप्ते मेदि० । ३ शुपे ४ चिन्तिते ५ मिश्रिते
वैद्यकोक्तनिर्यासादिना मिश्रिते ६ चूर्णादौ च । वीजग०
उक्ते अव्यक्तानेकवर्गसमीकरणेन ७ व्यक्तीकरणे ।
पृष्ठ ४६६८

भावित्र त्रि० भू--सत्तायां णित्रन् । त्रैलोक्ये उज्ज्वल० ।

भाविन् त्रि० भू--गम्या० भविष्यति णिनि । १ भविष्यत्पदार्थे

“भाविनि भूतवदुपचारः” न्यायः । स्त्रियां ङीप् । भावो
रत्यादिभावः सात्त्विकभावो वाऽस्त्यस्य एकाक्षरकृदन्तत्वे-
ऽपि बाहुल्यार्थे इनि ङीप् । २ बहुभावाग्वितायां
स्त्रियाम् भरतः ३ स्त्रीमात्रे राजनि० । ४ गन्धर्वकन्याभेदे
स्त्री मार्कपु०१२८ तत्र भामिनीति पाठान्तरम् ।

भावुक न० भू--उकञ् । १ मङ्गले २ तद्वति त्रि० अमरः ।

३ भावनायुते त्रि० हेमच० । “मुहुरहो रसिका भुवि
भावुकाः” इति भाग० १ । १ । ३ ।

भाव्य न० भू--आवश्यके भावे ण्यत् । १ अवश्यभवितव्ये ।

भूकर्त्तरि यत् भव्य स्वार्थे अण् । २ भव्यशब्दार्थे “भावीत्य-
वश्यं यत् भाव्यं तत्र ब्रह्मा न बाधकः” कालि० पु० ३८ अ०

भाष वचन भ्वा० आत्म० द्विक० सेट् । भाषते अभाषिष्ट ।

ऋदित् चङि न ह्रस्वः । उपसर्गपूर्वकस्तु तत्तदुपसर्गद्यो-
तात्यार्थयुक्तकथने । परि + शास्त्रकारमङ्गेते ।

भाषण न० भाष--भावे ल्युट् । कथने अमरः । सा० द० उक्ते

निर्वहणाङ्गभेदे “सन्धिर्बिरोधो ग्रह्तनम्” इत्युपक्रमे “भाषणं
पूर्बवाक्यञ्च” इत्यादिनीद्दिश्य लक्षितं यथा “मामदानादि
भाषणम्” ।

भाषा स्त्री भाष--अ । १ वाक्ये २ संख्यतादिवाक्ये च “अष्टादश-

भाषावारविलासिनीभुजङ्गः” इति सा० द० । भाषाभेदाञ्च
प्राकृतशब्दे ४५४९ पृ० दर्शिताः । व्यवहारे ३ प्रतिज्ञा-
सूचकवाक्ये "यदावेदयते राज्ञे तद्भाषेत्यभिधीयते” इति
स्मृतिः । पूर्बपक्षशब्दे ४४०६ पृ० दृश्यम् । ४ रागिणी-
भेदे हला० ।

भाषासम न० शब्दालङ्कारभेदे यथोक्तं सा० द० १० परि० ।

“शब्दैरेकविधैरेव भाषासु विविधास्वपि । साम्यं यत्र
भवेत् सोऽयं भाषासम् इतीष्यते” यथा “मञ्जुलमणिम-
ञ्जीरे कलगम्भीरे विहारसरसीतीरे । विरसासि केलिकीरे
किमालि! धीरे च गन्धसारसमीरे” एष श्लोकः संस्कृ-
तप्राकृतसौरसेनीप्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव” ।

भाषापाद पु० कर्म० । चतुष्पादव्यवहारे प्रतिज्ञासूचके वाक्य-

रूपे प्रथमेऽंशे पूर्वपक्षशब्दे ४४०६ पृ० दृश्यम् ।

भाषिक त्रि० भाषया निर्वृत्तः ठञ् । वेदादिपरिभाषानिर्वृत्ते

निरु० २ । २ ।

भाषिकस्वर पु० कर्म । मन्त्रेतरवेदभागरूपब्राह्मणे

पठितस्यरेकात्या० श्रौ० १ । १ । १८ । १० । भाष्ये दृश्यम् ।

भाषित न० भाम--भावे--क्त । १ कमने कर्मणि--क्त । २ कथिते

त्रि० । “भाषितपुंस्कात्” पा० । भाषित उक्तः पुमान् येन कप्

भाष्य न० “सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।

स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो जनाः” इत्युक्त
लक्षणे १ सूत्रव्याख्याग्रन्थभेदे “फणिभाषितभाष्यफक्किका”
भैष० । २ कथनीये त्रि० ।

भाष्यकार पु० भाष्यं करोति कृ--अण् उप० स० । पाणि-

न्यादिसूत्रभाष्यकारके पतञ्जलिप्रभृतौ भाष्यकाराश्च
सूत्रभेदे विभिन्ना यथा पाणिनिसूत्रस्य पतञ्जलिः ब्रह्म-
सूत्रस्य शङ्कररासानुजादयः । योगसूत्रस्य वेदव्यासः,
सांख्यसूत्रस्य विज्ञानभिक्षुः, गौतमसूत्रस्य वात्स्यायनः,
कणादसूत्रस्य प्रशस्तपादः । मीमांसासूत्रस्य शवरस्यामी
इत्यादयः । “अहञ्च भाष्यकारश्च कुशाग्रीयधियावुभौ ।
नैव शब्दाम्बुधेः पारं किमन्ये जड़बुद्धयः” दुर्गसिंहः
नैव न ऐव गतवन्तावित्यर्थः । क्विप् ६ त० । भाष्यकृदप्यत्र ।

भास दीप्तौ भ्वा० आत्म० सेक० सेट् । भासते अभासिष्ट । चङि

वा ह्रस्वः । अबीभसत् त अनभासत् त । ज्ञानविषयत्वे च
“प्रकारीभूय भावते” ।

भास स्त्री भास--सम्प० भावे क्विप् । १ प्रभायाम् अमरः २ मयूखे मेदि० ३ इच्छायां धरणिः ।

भास पु० भास--भावे घञ् । १ दीप्तौ विश्वः आधारे घञ्

२ गोष्ठे । कर्त्तरि अच् । ३ कुक्कुरे ४ शुक्रे च ५ शकुन्ते
गृध्रखगे हेमच० “यज्ञार्थमददत् वस्तु भासः काकोऽथवा
भवेत्” स्मृतिः । ६ कविभेदे “भासो हामः कविकुलगुरुः
कालिदासो विलासः” प्रसन्नरा० ।

भासद न० भसदः कदिदेशस्येदम् अण् । सितम्बे ऋ० १० । १६३

भाष्यम् । यजु० २५ । ६ वेददीपे तु भासेते मास--बा० अदि ।
भासद् दान्तः तत्रार्थे इत्युक्तम् ।

भासन्त पु० भास--झच् । १ सूर्य्ये २ चन्द्रे उणा० ३ नक्षत्रे

हेमच०क । ४ सुन्दराकारे त्रि० ५ भासखगे पुं स्त्री० मेदि० ।
६ तारायां स्त्री गौरा० उणा० ।

भासस् न० भास--भावे असिच् । दीप्तौ द्विरूपकोषः ।

भासाकेतु पु० भास--भावे अ । भासा दीप्तिः ६ व० । दीप्ति-

कारके वह्नौ ऋ० १० । २० । ३ ।

भासापुर न० पुरभेदे वृ० स० १६ अ० ।

भासु पु० भास--उण् । सूर्य्ये त्रिका० ।

भासुर त्रि० भास--घुरच् । १ दीप्तिशीले २ स्फटिके च त्रिका० ३ वीरे

पु० धरणिः ४ कुष्ठौषधे न० जटा० ।

भासुरपुष्पी स्त्री० भासुराणि पुष्पाण्यस्याः । वृश्चिकालौ (विचाति) राजनि० ।

पृष्ठ ४६६९

भास्कर पु० भासं करोति भास् + कृ--टच् वरक० । १ सूर्य्ये

२ अग्नौ मेदि० ३ वीरे धरणिः । ४ अर्कवृक्षे ५ सिद्धान्तशिरो-
मणिग्रन्थकृत्पण्डिते । ६ स्वर्णे न० राजनि० । ७
महादेवे पु० भा० आनु० ८ अ० । ८ भास्करेण कृते पक्वलवण-
भेदे न० चक्रदत्तः । भास्करलवणशब्दे दृश्यम् ।

भास्करद्युति पु० भास्करे द्युतिरस्य । १ विष्णौ पु० “चन्द्रांशु-

र्भास्करद्युतिः” विष्णुस० । “यदादित्यगतं तेज” इत्युक्ते-
स्तस्य तथात्वम् । ६ त० । २ सूर्य्यस्य द्युतौ स्त्री ।

भास्करप्रिय पु० ६ त० । पद्मरागमुणौ (चुनि) ।

भास्करलवण न० भास्करनिर्मिते लवणभेदे

“पिप्पली पिप्पलीमूलं धन्याककृष्णजीरकम् । सैन्धवञ्च
विड़ञ्चैव पत्रं तालीशकेसरम् । एषां द्विपलिकान्
भागान् पञ्चसौर्चलस्य च । मरिचाजाजिशुण्ठीनामे-
कैकस्य पलं पलम् । त्वगेले चार्द्धभागे च सामुद्रात्
कुड़वद्वयम् । दाड़िमात् कुड़वञ्चैव द्वे पले चाम्लवेत-
सात् । एतच्चूर्णीकृतं श्लक्ष्णं गन्धाद्यममृतोपमम् ।
लवणं भास्करं नाम भास्करेण विनिर्मितम् । जगतस्तु
हितार्थाय वातश्लेष्मामयापहम् । वातगुल्मं निहन्त्येत-
द्वातशूलानि यानि च । तक्रमस्तुसुरासीधुशुक्तकाञ्जि-
कयोजितम् । जाङ्गलानान्तु मांसेन रसेषु विविधेषु च ।
मन्दाग्नेरश्नतः शक्तो भवेदाश्वेव पावकः । अर्शांसि
ग्रहणीदोषकुष्ठामयभगन्दरान् । हृद्रोगमामदोषांश्च
विविधानुदरस्थितान् । प्लीहानमश्मरीञ्चैव श्वासकासोदर-
क्रिमीन् । विशेषतः शर्करादीन् रोगान्नानाविधांस्तथा ।
पाण्डुरोगांश्च विविधान् शमयत्यशनिर्यथा” चक्रद० ।

भास्करावर्त्त पु० सुश्रुतोक्ते शिरीरोगभेदे “सूर्य्योदयं या

प्रतिमन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढ़म् ।
विवर्द्धते चांशुमता सहैव सूर्य्यापवृत्तौ विनिवर्त्तते च ।
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नु-
याच्च । तं भास्करावर्त्तमुदाहरन्ति सर्वात्मकं कष्टतमं
विकारम्” ।

भास्करि पु० भास्करस्यापत्यम्० इञ् । १ वैवस्वते मनौ २ कर्णे च । ३ सुनिभेदे भा० शा० ४७ अ० ।

भास्कारेष्टा स्त्री ६ त० । आदित्यभक्तालतायां राजनि० ।

भास्मन त्रि० भस्मनो विकारः अण् मनन्तत्वात् न टिलोपः ।

भस्मविकारे ।

भास्मायन पु० भणनो गोत्रापत्यम् चफञ् । भस्मर्षिगोत्रापत्ये

ततः स्यार्थे अण् स्त्रियां म्या भास्मायन्या तत्रार्थे स्त्री

भास्वत् पु० भास् + अस्त्यर्थे मतुप् मस्य वः । १ सूर्य्ये २ अर्क-

वक्षे २ वीरे मेदि० ४ दीप्ते त्रि० हेमच० । स्त्रियां ङीप्
सा च ५ नद्यां ब० व० ६ ऊषसि च स्त्री निघण्टुः । ७ ज्यो-
तिषनिबन्धभेदे स्त्री यत्र सूर्य्यग्रहणादिनिरूपणमस्ति ।

भास्वर त्रि० भास--वरच् । १ दीप्तियुक्ते २ सूर्य्ये ३ अग्नौ मेदि०

४ दिने ५ अर्कवृक्षे च पु० । ६ कुष्ठौषधे (कुड़) न०
राजनि० ७ स्कन्दानुचरभेदे पु० भा० श० ४६ अ० ।

भिक्ष लोभे लाभायोक्तौ सक० याचने द्विक० क्लेशे अक०

भ्वा० आत्म० सेट् । भिक्षते अभिक्षिष्ट विभिक्षे ।

भिक्षा स्त्री भिक्ष--अ । १ याच्ञायाम् अमरः । २ सेवायां

३ भृतौ च मेदि० । उपचारात् ४ भिक्षिते वस्तुनि ।
तत्र ब्रह्मचारिभिक्षाप्रकारः ब्रह्मचर्य्यशब्दे ४५९६ पृ०
उक्तः । तस्या दानावश्यकत्वम् प्रमाणं च आ० त०
मार्कपु० उक्तं यथा “भोजनं हन्तकारं वा अग्रं भिक्षामथापि
वा । अदत्त्वा नैव भोक्तव्यं यथाविभवमात्मनः । ग्रासप्रदा-
नाद्भिक्षा स्यात् अग्रं ग्रासचतुष्टयम् । अग्राच्चतुर्गुणं
प्राहुर्हन्तकारं द्विजोत्तमाः” । ग्रासं पलमात्रमिति नव्य
वर्द्धमानः” । भिक्षाया दानपात्राणि उक्तानि विष्णुपु०
“दद्याच्च भिक्षात्रितयं परिव्राट ब्रह्मचारिणाम् । स्वे-
च्छया तु नरो दद्यात् विभवे सत्यवारितम् । इत्येते-
ऽतिथयः प्रोक्ताः संप्राप्ता भिक्षुकाश्च ये । चतुरः पूजय-
न्नेतान् नृयज्ञर्णात् प्रमुच्यते” । चकारः पूर्वोक्तातिथि-
भोजनेन समुच्चयार्थः । सन्यासिभिक्षादाने तु “यति-
हस्ते जलं दद्यात् भैक्ष्यं दद्यात् पुनर्जलम् । तद्भैक्ष्यं
मेरुणा तुल्यं तज्जलं सागरोपमम्” । विष्णुधर्मोत्तरे
“चाण्डालो वाथ पापो वा शत्रुर्वा पितृघातकः ।
देशकालात्ययगतो मरणीयो मतो मम” विष्णुपु० । “व्या-
घितस्यान्नहीनस्य कुटुम्बात् प्रच्युतस्य च । अध्वानं वा
प्रपन्नस्य भिक्षाचर्य्यं विधीयते” । अत्र भिक्षाद्यदाने
भोजननिषेधात् मनुष्ययज्ञस्य नित्यत्वाच्च अतिथिप्राप्तेरनित्य-
त्वात् यज्ञसिद्धये ब्रह्मणमात्राय भिक्षादिदानमावश्यकम् ।
अतएव बौधायनः “अहरहर्ब्राह्मणेभ्योऽन्नं दद्यात्
आमूलफलशाकेभ्यः अथैवं मनुष्ययज्ञसमाप्नोति” । विष्णुः
भिक्षुकाभावे चाग्रं गोभ्यो दद्यात् अग्नौ वा
क्षिपेत्” ।

भिक्षाटन न० भिक्षार्थमटनम् । भिक्षार्थे गमने तस्य सायं

प्रातश्च निषेधो यथा “सायं प्रातर्गृहद्वारं भिक्षार्थं
नावघट्टयेत्” कूर्मपु० १५ अ० ।

भिक्षादि पु० “समूहार्थे भिक्षादिभ्योऽण्” पा० उक्ते

अण्प्रत्ययनिमित्ते शब्दगणे स च गणो यथा “भिक्षा गर्भिणी
क्षेत्र करीष अङ्गार चर्मन् सहस्र युवति पदादि पद्धति
अर्थर्वन् दक्षिणा भत विषय श्रोत्र” पा० ग० ।
पृष्ठ ४६७०

भिक्षापात्र न० भिक्षाहरणार्थं पात्रम् शा० त० । १ भिक्षाया

आहरणार्थे पात्रे भिक्षुशब्दे दृश्यम् । २ भिक्षादानसंप्र-
दाने ब्रह्मचार्य्यादौ भिक्षाशब्दे दृश्यम् ।

भिक्षाशित्व न० भिक्षाशिनो भावः त्व । १ भिक्षाशिनोभावे २ पैशुन्ये हारा० ।

भिक्षाशिन् त्रि० भिक्षालब्धमश्नाति अश--णिनि । भिक्षा-

लब्धीपजीविनि । “भिक्षाशी विचरेत् ग्रामम्” स्मृतिः ।

भिक्षु त्रि० भिक्ष--उन् । १ भिक्षाकारके २ चतुर्थाश्रमे पु० ३ तद्वति

च । तदाश्रमे अधिकारिणश्च आश्रमशब्दे उक्ताः ।
तद्धर्माः नि० सि० उक्ता यथा
“अथ यतिधर्माः प्रातरुत्थाय व्रह्मणस्पते इति जपित्वा
दण्डादीनि मृदञ्च निधाय मूत्रपुरीषयोर्गृहस्थचतुर्गुणं
शौचं कृत्वाचम्य पर्वद्वादशीवर्जं प्रणवेन दन्तधावनं
कृत्वा तेनैव मृदा बहिःकटिं प्रक्षाल्य जलतर्पणवर्जं
स्नात्वा पुनर्जङ्घे प्रक्षाल्य वस्त्रादीनि गृहीत्वा मार्ज-
नान्तं कृत्वा केशवादिनमोन्तनामभिस्तर्पयित्वा ॐ
भूस्तर्पयामीत्यादि व्यस्तसमस्तव्याहृतिभिर्महर्जनस्तर्पया-
मीति तर्पयेत् । “ॐ भूः स्वाहेति स्वाहाशब्दान्तैः स्वधा-
शब्दान्तैश्चैभिरेव पुनस्तर्पयेदिति केचित् । तत आत्तम्या-
ञ्जलिना प्रणवेन जलमादाय व्याहृतिभिरुद्धृत्य गायत्र्या
त्रिः क्षिप्त्वा गायत्रीं जपेत् । उदिते सूर्य्ये प्रणवेन व्या-
हतिभिर्वार्घ्यं त्रिर्दत्त्वा मित्रस्य चर्षणीत्याद्यैः पूर्वोक्त
सौरीभिरिदं विष्णुस्त्रिर्देवो ब्रह्मजज्ञानमिति चोपस्थाय
सर्वभूतेभ्यो नम इति प्रदक्षिणमावर्त्तते ततो नत्वा
“आदित्याय विद्महे सहस्राक्षाय धीमहि । तन्नः सूर्य्यः
प्रचोदयादिति” त्रिर्जपेत् । एवं त्रिकालं विष्णुपूजां ब्रह्म
यज्ञञ्च कुर्य्यात् । अथ भिक्षा । विधूमे सन्नमुसले व्यङ्गारे
भुक्तवज्जने । काले पराह्णभूयिष्ठे नित्यं भिक्षां
यतिश्वरेत्” इत्युक्ते काले उद्वयमिति चतसृभिरादित्यमुपस्थाय
तनैक्यं ध्यात्वा आकृष्णेनेति प्रदक्षिणं कृत्वा ये ते
पन्थान इति जप्त्वा “योऽसौ विष्ण्वाख्य आदित्ये पुरुषो-
ऽन्तर्हृदि स्थितः । सोऽहं नारायणोदेव इति ध्यात्वा
मणम्य तम्” । त्रितण्डं दक्षिणे त्वङ्गे ततः सन्धाय
बाहुना । पात्रं वामकरे क्षिप्त्वा श्लेषयद्दक्षिणेन त्विति”
बोधायनोक्तदिशा त्रीन् पञ्च सप्त वा गृहान् गत्वा भवत्-
पूर्वं भिक्षां याचित्वा “पूर्णमसि पूर्णं मे भूया” इत्यागन्त्य
शुचिरन्नं प्रोक्ष्य ॐ भूः स्वधा नम इत्यादिव्यस्तसमस्त
व्याहृदितिभिः सूर्य्यादिदेवेभ्यो भूतेभ्यश्च भूमौ क्षिप्त्वा
भुक्त्वा प्रणवेन षोडश प्राणायामान् कुर्य्यादिति संक्षेपः ।
गौतमव्याख्यायां भृगुः । “यतिहस्ते जलं दत्त्वा भैक्ष्यं
दद्यात् पुनर्जलम् । भैक्ष्यं पर्वतमात्रं स्यात् तज्जलं
सागरोपमम्” । अत्र सर्वत्र मूलं माधवापरार्कमदनरत्न-
स्मृत्यर्थसारादौ ज्ञेयम् । कण्वः “एकरात्रं वसेद्ग्रामे
नगरे पञ्चरात्रकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांस्तु
चतुरो वसेत्” । जावालश्रुतौ “शून्यागारे देवगृहतृण-
कुटीवल्मीकवृक्षमूलकुलालशालाग्निहोत्रगृहनदीपुलिन-
गिरिकुहरनिर्झरस्थण्डिलेष्वनिकेतनः” इति । मात्स्ये
“अष्टौ मासान् विहारः स्याद् यतीनां संयतात्मनाम् ।
एकत्र चतुरोमासान् वार्षिकान्निवसेत् पुनः ।
अविमुक्तपविष्टानां विहारस्तु न विद्यते” । अत्रिः “भिक्षा-
टनं जपं स्नानं ध्यानं शौचं सुरार्चनम् । कर्त्तव्यानि
षडेतानि सर्वथा नृपदण्डवत् । मञ्चकं शुक्लवस्त्रञ्च स्त्री-
कथां लौल्यमेव च । दिवास्वापञ्च यानञ्च यतीनां
पतनानि षट् । आसनं पात्रलोभश्च सञ्चयः शिष्यसंग्रहः ।
दिबास्वापो वृथाजल्पो यतेर्बन्धकराणि षट्” । दक्षः
“नाध्येतव्यं न वस्तव्यं न श्रोतव्यं कथञ्चन ।
यतिपात्राणि मृद्वेणुदार्वलाबूमयानि च” । मदमनरत्ने
अत्रिः “पित्रर्थं कल्पितं पूर्वमन्नं देवादिकारणात् । वर्ज-
येत् तादृशीं भिक्षां परबाधाकरीं तथा” । वृहस्पतिः
“न तीर्थवासी नित्यं स्वान्नोपवासपरो यतिः । न चाध्य-
यनशीलः स्यान्न व्याख्यानपरो भवेत्” । एतद्वेदार्थभिन्न-
परम् । अत्रिः “स्नानं सुरार्चनं ध्यानं प्राणायामो
बलिस्तुतिः भिक्षाटनं जपः सन्ध्या त्यागः कर्मफलस्य च” ।
एते धर्मा मिता० प्रायेणोक्तास्तद्वाक्यञ्चाश्रमशब्दे
दृश्यम् । ४ बुद्धभेदे जटा० ५ श्रावणीक्षुपे राजनि० ।
६ कोकिलाक्षे भावप्र० ७ उपनिषद्भेदे च ।

भिक्षुक पु० भिक्ष--उक । भिक्षोपजीविनि । “ब्रह्मचारी

यतिश्चैव विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते
भिक्षुकाः स्मृताः” अत्रिणा पारिभाषिकादर्शिताः । ततः
समूहे खण्डिका० ठञ् । भैक्षुक तत्समुदाये न० ।
कडारा० कर्म० वा परनिपातः । विप्राभक्षुकः भिक्षुकविप्र
इत्यादि ।

भिक्षुसंघाटी स्त्री भिक्षुं संघटते प्राप्नोति सम् + चट्--अणुप० स० । धीवरे हेमच० ।

भिक्षुसूत्र न० भिजोः तदाश्रमविधितधर्मस्य ज्ञापकं सूत्रम्

शा० त० । व्यासकते ब्रह्मसूत्रे शारीरकसूत्रे ।
पृष्ठ ४६७१

भिण्ड पुंस्त्री० भण--ड पृषो० । कराकृतिरक्तवर्णपर्णे वर्तुला-

कारवोज क्षुपभेदे । स्त्रीत्वे टाप् राजनि० गौरा० ङीष्
तत्रार्थे

भिण्डीतक पु० भिण्डी सती तकते तक--हासे अच् । भिण्डीक्षुपे राजनि० ।

भित्त न० भिद--क्त नि० तस्य न नः । खण्डे अमरः ।

भित्ति स्त्री भिद--क्तिन १ गृहादेः कुड्ये (देयास) २ प्रभेदे

शब्दरत्ना० । ३ अवकाशे ४ संविसागे विश्वः । स्वार्थे
क । तत्रार्थे सज्ञायां कन् । पल्ल्यां हेमच० ।

भित्तिचार पु० भित्त्या कुड्यादिभेदनेन चोरयति चुर--अच् ।

(सिँधेल) सन्धिभेदकचौरे ।

भित्तिपातन पुंस्त्री० भित्तिं कुद्ध्यं पातयति भेदनेन पाति-

ल्यु । महामूषिकभेदे राजनि० स्त्रियां जातित्वात् ङीष् ।

भिद द्विधाकरणे विशेषकरणे च रुधा० उभ० सक० अनिटू ।

भिनत्ति भिन्ते इरित् अभिदत् अभैत्सीत् अभित्त ।
विभेद विभिदे । मिन्नः । भेत्ता ।

भिद अंशकरणे भ्वा० पर० सक० सेट् इदित् । भिन्दति अभिन्दीत्

भिद् स्त्री भिद्--सम्प० भावे क्विप् । १ भेदे २ विशेषकरणे च ।

कर्त्तरि क्विप् । ३ भेत्तरि त्रि० ।

भिदक न० भिद--क्वुन् । वज्रे १ हीरके । २ खड़्गे उणा० को०

भिदा स्त्री भिद--भावे अङ् । १ विदारणे द्वैधीकरणे २ विशे-

षकरणे च ।

भिदादि स्त्री अङ्प्रत्ययनिर्वृत्ते शब्दनखे स च गणः पा०

ग० उक्तो यथा “भिदा छिदा विदा क्षिपा गुहा श्रद्धा
मेधा गोधा आरा हारा कारा (बन्धनस्थाने) क्षिपा
तारा (ज्योतिषि) धारा रे(ले)खा चूड़ा पीड़ा वपा वसा
मृजा कृपा । अत्र छिदा द्वैधीकरण एवान्यत्र छित्तिः ।
आरा शस्त्र्यामन्यत्र अर्त्तिः । धारा जलप्रवाहेऽन्यत्र
धृतिः । गुहा गिर्य्योषध्योः अन्यत्र गूढ़िरिति बोध्यम्” ।

भिदि पु० भिद--कि । वज्रे द्विरूपको० ।

भिदिर न० भिद--किरच् । वज्रे त्रिका० ।

भिदु न० भिद--कु । वज्रे त्रिका० ।

भिदुर न० भिद--कुरच् । १ स्वयंभेदनशीले अमरः । २ प्लक्षवृक्षे

राजनि० । तस्य सौधभेदकाङ्कुरवत्त्वात् तथात्वम् ।

भिदेलिम त्रि० भिद--कर्मकर्त्तरि केलिम् । स्वयं भिद्यमाने ।

भिद्य पु० भिद--कर्त्तरि क्यप् नदे नि० । नदे हेमच० ।

भिद्र न० भिद--रक् । वज्रे त्रिका० ।

भिन्दिपाल पु० मिदि विदारणे रन् भिन्दिं भेदनं

पालयति पालि--अण् । १ हस्तक्षेप्ये नातिकास्न्ने अमर-
टीकायां मरतः । हस्तप्रमाणे अस्त्रभेदे क्षीरस्वामी ।
हमा० प० तल्लक्षणमन्यथोक्तं यथा “भिन्दिपालस्य
लक्षणं प्रोच्यते तस्य य आयामी यत्प्रमाणं दण्डस्य च
यः परिणाहो यतसंस्थानं द्रव्यादिप्रमाणं ग्रहणमोक्षौ
दष्टादुष्टाश्च गतयस्तत्सर्वं यथोक्तं वक्ष्यामि वत्स!
निबोध । तत्र भिन्दिपालस्य दण्डः फलाचितः सप्तहस्तो
ज्येष्ठो भवति द्वादशाङ्गलहीनी मध्यमो वितस्तिहीनस्तु
कनिष्ठो मानतः स्याद्दण्डश्च सप्ताङ्गुलपरिणाहः श्रेष्ठो
भवति मृध्यमो द्व्यङ्गुलहीनस्त्र्यङ्गुलहीनश्च कनिष्ठो भवति
मूले परीणाहो ग्राह्यः स च गोपुच्छवत् वेदितव्यो दण्डार्थ
पुनः कूटजदृक्षजं वैणवं भद्रसिंहव्यं कदम्बकं वा दारु-
मयं वा कारयेत तन्मया हि दण्डा दृढ़ाः स्युः काला-
कुलोत्सादकारिणह् कल्मषा विवर्द्धयन्ति चतुस्त्रिंश-
दवका अवनोदकारकानमोन्नमनसहा पूर्बभारपरी-
क्षमाश्च भवन्ति ते नित्यं दण्ठेषु कुशलैः शुभलक्षणा
विज्ञेया दण्डस्योपरि पत्रं कर्णिकासंस्थानां प्रयोजयेत्
कर्णिका च द्व्यङ्गुलोत्सेधा षड़ङ्गुला च लेख्या स्यात् यथा
दण्डपरीणाहं बलित्थां कारयेत् सौवर्णं रजतमयं वा
कांस्यं वा ताम्रं वा लौहमयं शार्ङ्गजातमस्थिजं
योजयेत् तदालाभे तु वैक्षवं दृढ़ं वा विदध्यात् भिन्दि-
पालफलन्तु विंशत्यङ्गुलप्रमाणं भवति मिस्त्रिंशसदृशम् पीतं
सुनिशितधारमुत्तमं कुर्वीत अष्टादशाङ्गलप्रमाणं मध्यं
षोड़शाङ्गुलप्रमाणं नीचं निर्दिष्टं तत्र यावत्यः फलपत्र-
पुष्पाणां योनयो दृश्यन्ते तावत्यो भिन्दिपालफलकाः,
कर्तव्या तथा विस्तारे त्र्यङ्गुलमूले वोच्छकसहबद्धोर्द्धमष्टा-
ङ्गुलं दण्डसूत्रेणाववेष्टयेत् पूर्वभागे मध्यान्तादिपात्रै-
रित्युत्तमाधममध्यमानां भवेत् दण्डस्य प्रमाणद्विगुणं फलं
तस्य गौरवात् भवति तत्राष्टदशाङ्गुलं भिन्दिपालफलाग्रम्
ऋजु कार्य्यं पञ्चभिः पञ्चभिः पलैर्बर्द्धिततया वच्छत-
पलं श्रेष्ठं पलाग्रेण शतिकः उत्तमः कर्त्तव्यः अशीति-
पलोमध्यमः षष्टिपालो नीचः” ।

भिन्न त्रि० भिद--क्त । १ विदारिते अमरः २ सङ्गते ३ अन्यार्थे

४ प्रस्फुटिते च मेदि० । ५ रोगभेदे न० । “शक्तिकुन्तेषु-
खड़्गाग्रविषाणैराशयी हतः । यत्किञ्चित् प्रस्रवेत्तद्धि-
भिन्नमित्यभिधीयते” भावप्र० । आशयः कोष्ठः ।

भिन्नक पु० भिन्नं कं यस्य । बौद्धे त्रिका० । तन्मत विश्वस्य

क्षणभङ्गुरत्वेन स्थायिसुखराहित्यात्तस्य तथात्वम् ।
पृष्ठ ४६७२

भिन्नकूट न० कामन्द० उक्ते वलव्यसनभेदे । तत्र च बल-

व्यसनं नानाबिधमुक्तं यथा “उपरुद्धं परिक्षिप्तं विमानि-
तममानितम् । अमतं व्यधितं श्रान्तं दूरायातं नवाग-
तम् । परिक्षीणाग्ररहितं प्रहताग्रजवं तथा ।
आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च । कलत्रगर्भं विक्षिप्त-
मन्तःशल्यं तथैव च । भिन्नगर्भं ह्यपसृतमभियुक्तं
तथैव च । क्रुद्धमौलाविमिश्रञ्च विशिष्टञ्चापि
विद्विषा । दूथयुक्तं स्वविक्षिप्तं मित्रविक्षिप्तमेव च ।
विच्छिन्नविविधासारं शून्यमूलं तथैव च । अस्वामि-
सङ्गतञ्चापि भिन्नकूटं तथैव च । दुष्पार्ष्णिग्रहमन्धञ्च
बलव्यसनमुच्यते” । भिन्नगर्भमप्यत्र ।

भिन्नक्रम पु० भिन्नः क्रमो यत्र । वाक्यगते उपक्रमराहित्य-

रूपे भग्नप्रक्रमाख्ये काव्यदोषभेदे ।

भिन्नगात्रिका स्त्री भिन्नं विदारितं गात्रमवयवी यस्याः । कर्कट्याम् राजनि०

भिन्नगुणन न० लीला० उक्ते पूरणभेदे “अंशाहतिश्छेद-

बधेन भक्ता लब्धं बिभिन्ने गुणने फलं स्यात्” उदा० ।
तत्र दृश्यम् ।

भिन्नपरिकर्म्मन् न० लीला० उक्ते सच्छेदस्य सङ्कलनघ्यव-

कलनादिरूपाङ्गसंस्काराष्टके परिकर्मन्शब्दे दृश्यम् ।

भिन्नभिन्नात्मन् पु० भिन्नप्रकारः प्रकारे द्वित्वम् तादृश आत्मा

यस्य । चणके (चोला) शब्दच० ।

भिन्नयोजनी स्त्री भिन्नं युज्यतेऽनया युज--करणे ल्यटे

ङीप् । पाषाणभेदके वृक्षे राजनि० ।

भिन्नवर्चस्(स्क) त्रि० भिन्नं वर्चो यस्य वा कप् । द्रवीभूतमलके सुश्रुतः ।

भिन्नविट्का स्त्री० भिन्ना विट् मलं यया । १ अलाबू लतायां

सुश्रुतः । ६ ब० । २ द्रवीभूतमलके त्रि० ।

भिन्नार्थ त्रि० भिन्नोऽर्थो वाच्यो यस्य कप् । अन्यपदार्थे अमरः ।

भियस् न० भी--वा० कसुन् । भवे ऋ० १ । ५२ । ९ । उदा०

भिरिण्टिका स्त्री श्वेतगुञ्जायाम् राजनि० ।

भिल भेदने वा चु० उ० पक्षे तु० पर० सक० सेट् । भेलयति--ते

भिलति अबीभिलत् त अभेलीत् ।

भिल्ल पु० भिल--लक् । म्लेच्छजातिभेदे । (भिल) स च

ब्राह्मणकन्यायां तीवराज्जातः । “पुलिन्दमेदभिन्नाश्च”
इत्युपक्रमे “एते वै तीवराज्जाताः कन्यायां ब्रह्म-
णस्य च” पराशरपद्धतिः ।

भिल्लगवी स्त्री भिल्लानां गौरिव पच् समा० ङीष् । गवयजाति स्त्रियां राजनि० ।

भिल्लतरु पु० भिल्लतियः तदुपजीव्यत्वात् तरुः । लोध्रे राजनि०

भिल्लभूषण न० भिल्लं भूषयति भूमि--ल्यु । गुञ्जावृक्षे राजनि०

तत् फलस्य तेषां भूषतत्वात् तस्य तथात्वम् ।

भिल्लोट पु० भिल्लप्रियमुटम् पत्रं यस्य । लोध्रवृक्षे सुश्रुतः ।

भिल्ली स्त्री भिल--लक् गौ० ङीष् । लोध्रे राजनि० ।

भिष रोगप्रतीकारे सौ० पर० सक० सेट् । भेषति अभेषीत् ।

भिषक्प्रिया स्त्री ६ त० । गुडूच्याम् राजनि० ।

भिषग्जित न० ३ त० । औषधे त्रि० ।

भिषग्भद्रा स्त्री ७ त० । भद्रदन्तिकायाम् राजनि० ।

भिषग्मातृ स्त्री भिषजां मातेव । वासकवृक्षे राजनि० ।

भिषज् चिकित्सायां कण्ड्वा० ष० सक० सेट् । भिषज्यति

अभिषजी(ज्यी)त् ।

भिषज् पु० विभेत्यस्मात् रोगः “भियः सुक् ह्रस्वश्च” उणा० अजि

कण्ड्वा० भिषज्--क्विप् वा । १ चिकित्सके । २ विष्णौ पु० ।
तस्य संसाररोगहारित्वात् “भीषा स्यात् वातः पवते” इत्यादि
श्रुत्या सर्वेषां भीतिजनकत्वाद्वा तथात्वम् । ततः अपत्ये
गर्गा० यञ् भैषज्य वैद्यपुत्रे स्त्रियां ङीप् यलोपः
भैषजी । भिषजो भावः अण् “भेकजाश्च” पा०
निर्देशात् गुणः न वृद्धिः । भेषज चिकित्सायाम् न० ।
ततः स्वार्थेञ्य । भैषज्य न० तत्रार्थे ।

भिष्णज् उप० सेवायां कण्ड्वा० प० सक० सेट् । भिष्णज्यत

अभिष्णजी(ज्यी)त् ।

भिस्सटा स्त्री भिस्सामन्नं टीकुते टीक--ड पृषो० । अन्ने

अमरः । पृषो० । भिष्मटा भिस्मिटा भिष्मिकास्तत्र
पाठान्तराणि ।

भिस्स स्त्री भिद्--क्विप् सो--क पृषो० दस्य सः । अन्ने अमरः

भी भवे जु० पर० अक० अनिट् । विभेति अभैषीत् बिभयामब०

भूव आस चकार बिभाय । भीरुः भीतः । एतद्योगे “भीत्रा-
र्थानां भयहेतुः” पा० भयहेतोरपादानता । व्याघ्रात् भीत ।

भी भये अक० भरणे सक० क्य्रादि० वा वा० पर० अनिट

भीनाति मिनाति । अभैषीत् ।

भी स्त्री भी--सम्प० क्विप् । भये अमरः ।

भीणी स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ० ।

भीत न० भी--भावे कर्त्तरि वा क्त । १ भवे २ तद्युते त्रि० । ३ मन्त्रभेदे पु०

“शिवो वा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः” तन्त्रसारः

भीति स्त्री भी--क्तिन् । १ भये अमरः । २ कम्पे च त्रिका० ।

भीम त्रि० बिभेत्यस्मात् भी--अपादाने मक् । १ भयहेतौ

२ भयानकरसे अमरः । ३ महादेवे ४ भीमसेने ५ अम्ल-
वेतसे च पु० मेदि० । ६ परमेश्वरे पु० तस्य “भीषास्माद्वातः
परते” इत्यादिश्रुतेः सर्वेषां मयहेतुत्वात् तथात्वम् ।
महादेवस्याष्टमूर्त्तिभध्ये आकाशरूपे ७ मूर्त्तिभेदे
पृष्ठ ४६७३
८ देवगन्धर्वभेदे भा० आ० ६५ अ० । आङ्गिरसे वह्नि-
भेदे भा० व० २१९ अ० । १० दानवभेदे भा०
श० २२७ अ० । ११ अमावसुवंश्ये नृपभेदे हरिवं०
२७ अ० । सात्त्वतवंश्ये १२ नृपभेदे हरिवं० ९५ अ० ।
१३ विदर्भाधीशे नृपभेदे दमयन्तीपितरि तत्कथा भा०
व० ५१ अ० । १४ अष्टादशाक्षरमन्त्रभेदे “आदौ मध्ये तथा
चान्ते चतुरस्रयुतो मनुः । ज्ञातव्यो भीम इत्येष
यः स्यादष्टादशाक्षरः” तन्त्रसा० ।

भीमक पु० पार्वत्यारोषजाते गणभेदे हरिवं० १६८ अ० ।

भीमजानु पु० यमसभास्थे नृपभेदे भा० स० ८ अ० ।

भीमतिथि स्त्री भीमोपासिता तिथिः शा० त० । भीमैका-

दश्याम् माघशुक्लैकादश्याम् ।

भीमद्वादशी स्त्री भीमोपासिता द्वादशी १ माघशुक्लद्वादश्याम्

तत्र भीमसेनकृते २ व्रतभेदे च हेमा० व्र० पद्मपु० ।

भीमनाद पु० ६ ब० । १ सिंहे शब्दच० । कर्म० । २ भमानकशब्दे पु०

भीमपराक्रम त्रि० भीमः पराक्रमोऽस्य । १ भयानकपराक्रमे

२ विष्णौ पु० “भीमो भीमपराक्रमः” विष्णुस० ।

भीमपुर न० ६ त० । विदर्मराजस्य नगरे कुण्डिनपुरे

भीमनगरादयोऽप्यत्र ।

भीमबल त्रि० ६ ब० । १ भयानकवीर्य्ये २ धृतराष्ट्रपुत्रभेदे पु०

भा० आ० १७ अ० । ३ वह्निभेदे पु० भा० व० २१९ अ० ।

भीमयु स्त्री आत्मनो भीमं वृषमिच्छति क्यच् वेदे नि० उन् ।

आत्मनो वृषभेच्छौ स्त्रीगव्याम् ऋ० ५ । ५६ । ३ ।

भीमरथ पु० १ अमुरभेदे गरुड़पु० ८६ अ० । २ धृतराष्ट्रपुत्रभेदे

भा० आ० ६७ अ० । ३ धन्वन्तरिवंश्ये नृपभेदे हरिवं०
२९ अ० । ४ दशार्हवंश्ये नृपभेदे हरिवं ३७ अ० ।
सत्यभामायां जाते वासुदेवस्य ५ पुत्रभेदे हरिवं १६२ अ० ।

भीमरथी स्त्री “सप्तसप्ततिमे वर्षे सप्तमे मासि सप्तमी । रात्रि

र्भीमरथी नाम नराणामतिदुस्तरा” इत्युक्तायां १ रात्रौ ।
“तामतीत्य नरी योऽसौ दिनानि यानि जीवति । क्रतु
भिस्तानि तुल्यानि सुवर्णशतदक्षिणैः । गतिः प्रदक्षिणं
विष्णोर्जल्पनं मन्त्रभाषणम् । ध्यानं निद्रा सुधा चान्नं
भीमरथ्याः फलश्रुतिः” वैद्यके । २ नदीभेदे भा० व० ८८ अ० ।

भीमरिका स्त्री सत्यभामागर्भजातायां श्रीकृष्णस्य कन्यायां

हरिवं० १६२ अ० ।

भीमल त्रि० भियोमलः सम्बन्धो यतः । भयङ्करे यजु० ३० । ६ ।

भीमविक्रम पु० १ धृतराष्ट्रपुत्रभेदे भा० अ० २७ अ० । ६ ब० ।

२ भयानकविकमे त्रि० ।

भीमविक्रान्त पुंस्त्री ६ ब० । १ सिंहे त्रिका० स्त्रियां जाति-

त्वात् ङीष् । ६ ब० । २ भयानकविक्रमयुते त्रि० ।

भीमवेश त्रि० ६ ब० । १ भयानकवेशयुते २ धृतराष्ट्रपुत्रभेदे पु०

भा० अ० ५७ अ० । ३ दानवभेदे पु० हरिवं २४ अ० ।

भीमवेशवत् पु० धृतराष्ट्रपुत्रभेदे भा० आ० १८६ अ० ।

भीमशर पु० धृतराष्ट्रपुत्रभेदे भा० आ० ६७ अ० ।

भीमशासन पु० भीमं शासनमस्य । १ यमे शब्दार्णवः भयान-

कशासनकर्त्तरि २ नृपादौ च ।

भीमसेन पु० युधिष्ठिरानुजे १ मध्यमपाण्डवे २ कर्पूरभेदे च

शब्दरत्ना० । ३ जनमेजयस्य भ्रातृभेदे भा० आ० ३ अ० ।
४ पौरवप्राचीनजनमेजयस्य पुत्रभेदे भा० आ० ९४ अ० ।

भीमहास पु० इन्द्रतूले (वुड़िरसुता) शब्दरत्ना० ।

भीमा स्त्री १ भीमाख्यायाम दुर्गायाम् २ रोचनाख्यगन्धद्रव्ये

शब्दरत्ना० ३ कशायां शब्दमाला ४ नदीभेदे भा० व० २२३ अ०

भीमादेवी स्त्री भीमाख्या देवी । दुर्गामूर्त्तिभेदे “पुनश्चाहं यदा

भीमं रूपं कृत्वा हिमाचले । रक्षांसि क्षपयिष्यामि मुनीनां
त्राणकारणात् । तदा मां मुनयः सर्वेस्तोष्यन्त्यानम्रमू-
र्त्तयः । भीमादेवीतिविख्यातं तन्मे नाम भविष्यति” देवीमा०

भीमादि पु० “भीमादयोऽपादाने” पा० अपादाने निपातन-

साध्ये शब्दगणे स च गणः पा० ग० उक्तो यथा
“भीम भीष्म भयानक वाह चरु प्रस्कन्दन प्रपात समुद्र
स्रुव स्रुक् दृष्टि रक्षः शङ्कु सुक मूर्ख खलति” ।

भीमैकादशी स्त्री भीमेनोपास्या एकादशी शाक० त० ।

माघशुक्लैकादश्याम् । तत्कर्त्तव्यव्रतादिकं मत्स्यपु० ६५ अ०
उक्तम् ।

भीरु त्रि० भी--क्रु । १ मयशीले अमरः । २ शतावर्य्यां स्त्री

धरणिः । ३ कण्टकार्य्यां ४ शतपादिकायां शब्दर० । ५ छायायां
६ योषिति ७ अजायां स्त्री मेदि० । ८ शृगाले पु० शब्दमा० ।
९ व्याघ्रे राजनि० १० इक्षुभेदे रत्नमा० ।

भीरुक पु० भी--क्रुकन् । १ शृगाले २ व्याघ्रे ३ इक्षुभेदे च ।

“वातपित्तप्रशमनो मधुरो रसपाकयोः । सुशीतो वृंहणो
बल्यः पौण्ड्रकोभीरुकस्तथा” भावप्र० । ४ भययुक्ते त्रि० ।

भीरुकच्छ पु० देशभेदे मार्कपु० ५७ अ० ।

भीरुपत्री स्त्री भीरूणि पत्राणि यस्याः ङीप् । शतमूल्याम् अमरः

भीरुष्ठान न० ६ त० अम्बाम्बेति षत्वम् । भीरूणां स्थाने ।

भीरुहृदय पु० ६ ब० । १ मृगे त्रिका० २ भयशीलहृदये त्रि० ।

भीरू स्त्री भीरु + रिवयाभूङ् । भवशीलायां नार्य्यां भरतः ।

भीलु(क)(लूक) त्रि० भी क । भयशीले क्लु कन् । तत्र भल्लूकेपु०

शब्दरत्ना० पृषो० भीलूक तत्रार्थे भल्लूके शब्दमा० ।
पृष्ठ ४६७४

भीषक त्रि० भीषयते भी--णिच्--सुक् ण्वुल् । भयकारके

हेमच० ।

भीषण पु० भीषयते भी--णिच्--सुक् ल्यु १ भयानकरसे २ कुन्दु-

रुके ३ हिन्ताले राजनि० ४ शल्लक्यां ५ महादेवे शब्दरत्ना०
६ कपोते च पु० ७ गाढे ८ दारुणे च त्रि० मेदि० ।

भीषा स्त्री भी--णिच्--सुक् भावे अङ् । १ भयप्रदर्शने “क्षेत्रं

वा भीषया हरन्” मनुः । स्वार्थे णिच् । २ भये च
“भीषास्माद्वातः पवते” श्रुतिः । तृतीयास्थाने वेदे आध् ।

भीष्म न० भी--णिच्--सुक् अपादाने मक् । १ भयानकरसे

अमरः । २ भयानके त्रि० ३ रुद्रे ४ राक्षसे पु० हेमच०
५ गङ्गागर्भजाते शान्तनुपुत्रभेदे पु० गङ्गाजशब्दे दृश्यम् ।

भीष्मक पु० रुक्मिण्याः पितरि नृपभेदे हरिवं० ९१ अ० ।

भीष्मकेशव पु० काशीस्थे केशवमूर्त्तिभेदे काशी० ३३ अ० ।

भीष्मजननी स्त्री ६ त० । गङ्गायाम् राजनि० । गङ्गाजशब्दे

२४९१ पृ० दृश्यम् ।

भीष्मपञ्चक न० भीष्मेण प्राप्तमुपदिष्टं वा पञ्चकम् । कार्त्तिक-

शुक्लेकादश्यादिषु १ पञ्चसु तिथिषु तत्कर्त्तव्ये २ व्रतभेदे
च । तन्निरुक्तिर्यथा “भीष्मेणैतत् पुरा प्राप्तं व्रतं पञ्च
दिनात्मकम् । सकाशात् वासुदेवस्य तेनोक्तं भीष्मपञ्च-
कम्” हेमा० व्र० नारदपु० । पञ्चात् तेन च पाण्डवायोप
दिष्टं यथोक्तं तत्रैव “इदं भीष्मेण धर्म्यञ्च शरतल्पगतेन
च । तदेवात्र समाख्यातं दुष्करं भीष्मपञ्चकम्” । तत्का-
लश्च तथोक्तो यथा “कार्त्तिकस्य शुभे पक्षे स्यात्तु
सम्यगयतव्रतः । एकादश्यान्तु गृह्णीयात् व्रतं पञ्च
दिनात्मकम्” । तत्रैव तद्विधानं दृश्यम् ।

भीष्मरत्न हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषे ।

तस्योत्पत्त्यादि यथा “सूत उवाच । “हिमवत्यु-
त्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य । सम्प्राप्तमुत्त-
मानामाकरतां भीष्मरत्नानाम् । शुक्लाः शङ्खाब्जनिभाः
श्योनाकसन्निभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा
वज्रनिभा भीष्मपाषाणाः । हिमाद्रिप्रतिबद्धं शुद्धमपि
श्रद्धया विधत्ते यः । भीष्ममणिं ग्रीवादिषु स सम्पद
सर्वदा लभते । प्रणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव! ।
विधाणि तानि नश्यन्ति सर्वाण्येव महीतले । विषमा न
धाधन्ते ये तमरण्यनिवासिनः समीपेऽपि । द्वीपि
वृकशरभकुञ्जरसिंहधादयो हिंस्वाः । तस्योत्कबलित
कृतिनो पवन्ति भयं न चापि समुपस्थितम् । भीष्म-
मणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गलित्रितयः । पितृतर्पणे
पितृणां तृप्तिर्बहुर्वार्षिकी भवति । शाम्यन्त्युद्भूता-
न्यपि सर्पाण्डजाखुवृश्चिकविषाणि । सलिलाग्निवैरि
तस्करभयानि भीमानि नश्यन्ति । सैबलयलाहकाभं
परुषं पीतप्रमं प्रभाहीनम् । भलिनद्यतिं विवर्ण्णं
दूरात् परिवर्जयेत् पाज्ञः । मूल्यं प्रकल्प्यमेषां विबुध-
वरैर्देशकालविज्ञानात् । दूरे भूतानां बहु किञ्चिन्निकटप्र-
सूतानाम्” गारुड़े ७६ अ० । भीष्ममण्यादयोऽप्यत्र ।

भीष्मसू स्त्री भीष्मं सूते सू--क्विप् । गङ्गायाम् अमरः ।

भीष्माष्टमी स्त्री ६ त० । भीष्मस्य देहत्यागदिवसे माघस्य

शुक्लाष्टम्याम् । अतस्तस्मिन् दिने सर्ववर्णैस्तस्य तर्पणं
कार्य्यम् यथोक्तं ति० त० मविष्योत्तरे “शुक्लाष्ट-
म्यान्तु माघस्य दद्याद् भीष्माय यो जलम् ।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति” ।
घबलधृता स्मृतिः “अष्टम्यान्तु सिते पक्षे भीष्माय सतिलो-
दकम् । अन्नञ्च विधिवद्दद्युः सर्वे वर्णा द्विजातयः” ।
सर्वे इत्युपादानात् ब्राह्मणशूद्रयोरप्यधिकारः । द्वि-
जातय इति सम्बोधनम् “ब्राह्मणस्त्वन्यवर्णानां यः
करोत्यौर्द्धदेहिकम् । तद्वर्णत्वमसौ याति इह लोके
परत्र च” इति मरीचिवचनन्तु भीष्मकृत्येतरपरम् ।
तथा च स्मृतिः । “ब्राह्मणाद्यास्तु ये वर्णा दद्युर्भीष्माय
नो जलम् । संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम!” ।
असवर्णजलदाननिषेधस्तु प्रकरणादपि भ्रात्रादिविषय
इति श्रीदत्तः । “आभिरद्भिवराप्नोतु पुत्रपौत्रोचितां
क्रियाम्” इत्याशंसामन्त्रे पुत्रपौत्रीचितामित्यभिधानात्
पितृकर्मरीत्या तच्च कर्त्तव्यम् । ब्राह्मणः पितृतर्पणानन्तरं
क्षत्रियादिकस्तु तत् पूर्वं तर्पयेत् इति संवत्सरप्रदी-
पादयः । अत्र वीज वर्णज्यैष्ठ्यम्” रघु० ।

भुक्त त्रि० भुज--कर्मणि क्त । १ भक्षिते २ कृतभोगे च भुक्तं

भोग्यं रवेस्त्यजेत्” नील० ता० । भावे--क्त । ३ भक्षणे न०

भुक्तभोग त्रि० भुक्तः कृतो भोगो येन । कृतभोगे “जहा-

त्येनां भुक्तभोगामजोऽन्यः” श्वेता० उ० ।

भुक्तसमुज्झित त्रि० पूर्बं भुक्तं पश्चात् समुज्झितं त्यक्तम् ।

भोजनोत्तरं त्यक्ते अन्नादौ ।

भुक्ति स्त्री भुज--क्तिन् । १ भोजने २ रव्यादिग्रहाणां राश्यं-

शादिषु गमने ३ भोगे च “आगमो निष्कलस्तत्र भुक्तिः
स्तोकापि यत्र नी” इति स्मृतिः । भुक्तिप्रामाण्य-
निर्णयादिकम् आगमशब्दे ६५४ पृ० दृश्यम् । अत्र
पृष्ठ ४६७५
कश्चिद्विशेषो वीरमित्रोदयग्रन्थे दर्शितो यथा
नारदः “स्वागमेन विशुजेन भोगो याति प्रमाण-
ताम् । अविशुद्धागमो भोगः प्रामाण्यन्नैव गच्छति ।
आगमस्याविशुद्धत्वं विरोध्यास्कन्दनं भवेत्” । व्यासः
“सागमो दीर्घकालश्च विच्छेदापरवोज्झितः । प्रत्यर्थि-
सन्निधानश्च परिभोगोऽपि पञ्चधा” । विच्छेदोऽन्तरा
यः उपरव आक्रीशस्ताभ्यामुज्झितो रहितः । यद्वा-
च्छेदो व्यवधानन्तद्विगमवान् विच्छेदो निरन्तर इति
यावत् । अपरवो वर्जनविषयोरवः । मदीयं क्षेत्रादि
त्वया किमिति भुज्यते इति प्रतिषेधः अपशब्दस्य
वर्जनार्थत्वात् तेनोज्झितः । नारदः “सम्भोगं
केवलं यस्तु कीर्त्तयेन्नागमं क्वचित् । भोगच्छलाप-
देशेन विज्ञेयः स तु तस्करः । विदामानेऽपि लिखिते
जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यत्र
भुक्तन्न तत् स्थिरम्” । दानविक्रयादेरुपभोगसापेक्षस्यैव
स्वत्वोत्पादकत्वात् कियान् भोगलवोऽप्यवश्यं तत्रा-
पेक्ष्यते इत्याशङ्कायामुपपत्तिरुक्ता विज्ञानेश्वराचार्य्यैः ।
“दानादेः परस्वत्वापादने परकर्त्तृकस्वीकारापेक्षाऽवश्य-
म्भावनीया । स्वीकारश्च त्रिविघो मानसो वाचिकः
कायिकश्च । ममेदमित्यध्यबसायो मानसः । ममेदमित्या-
द्यभिलापो वाचिकः । उपादानाभिमर्शनादिरूपेणानेक
प्रकारकः कायिकः । तत्र मानसं विना स्वत्वासम्भवात्
स त्वावश्यक एव । दानविशेषपुरस्कारेण शब्दप्रयोग-
विशेषनियमहस्तादिर्शनादिचेष्टाविशेषनियमाच्चवाचिकक ।
यिकावप्यावश्यकावित्यवसीयते । तत्र हिरण्यव-
स्रादौ दातृकर्त्तृकजलत्यागादनस्तरमेव प्रतिग्रहीतु-
रुपादानादिसम्भवात् त्रिविधोऽपि व्यापारः सम्प-
द्यते । क्षेत्रादौ तु फलोपभोगं विना कायिकस्वीकारास-
म्भवादल्पेनाप्युपभोगेनावश्यम्भवितव्यमन्यथा दानविक्रयादेः
सम्पूर्णता न भवत्युत्तरकालीनाङ्गीकाराभावात् । तेन
तत्सहितादागमान्तराद्विकल आगमो दुर्बलो भवति ।
एतच्च द्वयोरागमयोः पूर्वापरभावानवगमे तदपगमे
तु स्वल्पभोगविकलोऽपि प्राक्तन एवागमो बलवान् ।
पूर्वण दानादिना स्वत्वागमे दानद्यन्तरासम्भवात् । न
चैवन्तस्य क्षेत्रादेर्मध्यस्थत्वापत्तिः पूर्वस्याम्यापगमादुत्तर-
स्वाम्यानुत्षत्तेश्चेति वाच्यम् । प्रतिश्रुतन्यायेनापेक्षणीय
खत्वस्य सत्त्वात् पूर्वखाम्यसत्त्वेऽपि राज्ञैव प्रतिगृही-
त्यादेंः कापिकरवेकारम्यनिःप्रतिपक्षस्य सम्पादनीयत्वात्”

भुक्तिप्रद पु० भुक्तिं भोगं भोजनं वा प्रददाति स्वल्पायास-

भक्ष्यत्वात् । मुद्गे राजनि० लघुपाकत्वात्त्वम् ।

भुक्तिसुहित त्रि० सुहितस्य भुक्तिः मयूर० परनि० । सुतृप्तभोगे

भुग्न त्रि० भुज--मोटने क्त । रोगादिना कुटिलीकृते ।

भुज भोटने तु० प० सक० अनिट । भुजति अभौक्षीत् । क्त

ओदित् भुग्नः ।

भुज भक्षणे भोगे च आ० पालने पर० सक० रुधा० अनिट् ।

भुङ्क्तेऽन्नम् । अभौक्षीत् । भूमिं भुनक्ति पालयति ।
“दिर्व सरुत्वानिव भोक्ष्यते महीम्” रघुः । भुक्तः ।
उपसर्गपूर्तस्तु तत्तदुपसर्गद्योत्ययुक्तभोगादौ । भोगश्च
सुखदुःखाद्यनुवः सुखं दुःखं वा भुङ्क्ते सुखादिकमनु-
भवतीत्यर्थः ।

भुज त्रि० भुज + क । १ भोगकर्त्तरि २ कुटिलीभूते च ।

भुज पुंस्त्री० भुज्यतेऽनेन भुज--घञर्थे करणे क । १ बाहौ

२ करे मेदि० । लीलावत्यादौ त्रिकोणचतुष्कोणादिक्षेत्र-
प्रसिद्धे क्षेत्रांशभेदे “तथायते तद्भुजकोटिघातः” इति
लीलावती । क्षेत्रशब्दे दृश्यम् ।

भुजकोटर पु० भुजस्य कोटर इव । कक्षदेशे (काँक) हेमच०

भुजग पुंस्त्री० भुज--वक्रणे क भुजः कुटिलीभवन् सन् गच्छति

गम--ड । १ सर्पे अमरः स्त्रियां ङीष् । २ अश्लेषानक्षत्रे
ज्यो० त० । तस्य तद्देवताकत्वात् तथात्वम् । अश्लेषाशबदे
दृश्यम् ।

भुजगदारण पु० भुजगं दारयति दारि--ल्यु । गरुडे त्रिका०

भुजगनिसृता स्त्री “भुजगनिसृता नसौमः” वृ० र० उक्ते

नबाक्षरपादके छन्दोभेदे ।

भुजगान्तक पु० ६ त० । गरुडे । भुजगनाशनादयोऽप्यत्र । राजनि०

भुजगभोजिन् पु० भुजगं भुङक्ते भुज--णिनि । मयूरे राजनि०

स्त्रियां ङीप् ।

भुजगाशन पु० भुजगान् अश्नाति अश--ल्यु । गरुड़े त्रिका० भुजगभक्षकादयोऽप्यत्र ।

भुजङ्ग पुंस्त्री० भुजः सन् गच्छति गम--खच् मुम् डिच्च । १ सर्गे

स्त्रियां ङीष् २ जारे च पु० अमरः । ३ अश्लेषानक्षत्रे पु० ज्या० त०

भुजङ्गघातिनी स्त्री ६ त० । भुजङ्गं तद्विषं हन्ति--हन

णिनि ङीप् । सर्पाक्षीलतायाम् राजनि० ।

भुजङ्गजिह्वा स्त्री ६ त० । १ सर्पजिह्वायां ६ ब० २ तदाकार-

युतायां महासमङ्गायाम् राजनि० ।

भुजङ्गदमनी स्त्री भुजङ्गो दम्यतेऽनया दम--करणे ल्युट्

गौरा० ङीष् । नकुलेष्टावाम् नैघण्टुप्र०

भुजङ्गपर्णिनी भुजङ्गस्तदाकार इव पर्य्यानि अस्ति यस्याः

इनि ङीप् । नागदमन्यां नैघण्टुप्रकाशिकायाम् ।
पृष्ठ ४६७६

भुजङ्गपुष्प पु० भुजङ्ग इव पुष्पमस्य । क्षुपभेदे सुश्रुतः ।

भुजङ्गप्रयात न० “भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः” वृ० र०

उक्ते द्वादशाक्षरपादके छन्दोभेदे ।

भुजङ्गभुज् पु० भुजङ्गं भुङ्क्ते भुज--क्विप् ६ त० । १ गरुड़े

शब्दर० २ मयूरे अमरः ।

भुजङ्गभोजिन् पु० भुजङ्गं भुङ्क्ते भुज--णिनि ६ त० ।

राजसर्पे हेमच० । २ गरुड़े ३ मयूरे च ।

भुजङ्गम पुंस्त्री० भुजः कुटिलीभवन् सन् गच्छति गम--खच्

मुम् । १ सर्पे अमरः स्त्रियां जातित्वात् ङीष् । २ सीसके
न० राजनि० । ३ अश्लेषानक्षत्रे पु० ।

भुजङ्गलता स्त्री भुजङ्ग इव कुटिला तल्लोकस्था वा लता । ताम्बूल्यां राजनि० ।

भुजङ्गविजृम्भित न० “वस्वीशाश्वच्छेदोपेतं ममतनयुगनर-

सलगैर्भुजङ्गविजृम्भितम्” पृ० र० उक्ते षड्विंशत्यक्षर-
पादके १ छन्दोभेदे । ६ त० । २ सर्पचेष्टिते च ।

भुजङ्गहन् पु० भुजङ्गं हन्ति हन--क्विप् । गरुड़े त्रिका० ।

भुजङ्गाक्षी स्त्री भुजङ्गस्येवाक्षि पुष्पं यस्याः षच् समा०

ङीष् । रास्नायाम् अमरः ।

भुजङ्गाख्य पु० भुजङ्गतुल्या आख्या यस्य । नागकेसरे । शब्दमा०

भुजङ्गेश पु० ६ त० । १ वासुकौ २ शेषे तदवतारे ३ पिङ्गलमुनौ

४ पतञ्जलिमुनौ च भुजङ्गमेशादयोऽप्यत्र ।

भुजज्या स्त्री सू० सि० उक्तायाम् त्रिकोणक्षेत्रस्य भुज जीवायाम्

“ग्रहं संशोध्य भन्दोत् तथा शीघ्राद्विशोध्य च । शेषं
केन्द्रपदं तस्माद्भुजज्या फोटिरेव च” सू० सि० ।
“ग्रहं राश्यादिकं मन्दोच्चात् प्रागानीतस्वकीयराश्या-
दिकमन्दोच्चभोगात् संशोध्योनीकृत्य शीघ्रात् प्रागानीत
राश्यादिशीघ्रोच्चात् । चः समुच्चये । ऊनीकृत्य शेषं
राश्यादिकं तथोच्चसम्बन्धेन केन्द्रं मन्दोच्चाद्धीनो ग्रहो
मन्दकेन्द्रम् । शीघ्रोच्चाद्वीनो ग्रहः शीघ्रकेन्द्रं भवती-
त्यर्थः । तस्मात् केन्द्रात् पदं राशित्रयात्मकं विषमं समं च
पदं ज्ञेयम् । त्रिराश्यन्तर्गतं चेत् प्रथमं विषमं पदम् ।
ततः षड्राश्यन्तर्गतं चेत् त्र्यूनं केन्द्रं द्वितीयं समं
पदम् । ततो नवराश्यन्तर्गतं चेत् षड़ूनं तृतीयं विषमं
पदम् । ततो नवोनं चतुर्थं पदं सममित्यर्थ । तस्मात्
पदाद्भुजस्य ज्या कोटिः कोटेर्ज्या च” रङ्ग० । तदानयनं यथा
“गताद्भुजज्या विषमे गम्यात् कोटिः पदे मवेत् । युग्मे
तु गम्याद्बाहुज्य कोटिज्या तु गताद्भवेत्” सू० सि० ।
“विषमे परे यताद्ग्रहस्य पदादितो यद्गतं राशिवि-
भागात्मकं प्राग्ज्ञातं तस्मादित्यर्थः । मुजज्या स्यात् ।
गम्याद्गतोनं त्रिभं ग्रहात् पादान्तावधिकमेष्यम् ।
तस्मात् कोटिः कोटिज्या स्यात् । युग्मे समे तुकारात्
पदे एष्याद्भुजज्या गतात् कोटिज्या स्यात् । तुकारो
विशेषद्योतकः । एकस्मादेवोक्तरीत्या द्वयं साधितम्” रङ्ग० ।

भुजफल न० “स्वेनाहते परिधिना भुजकोटिजीवे भांशैः ३६०

र्हृते च भुजकोटिफलाह्वये स्तः” सि० शि० उक्ते भुजे-
नानीते फलभेदे

भुजमध्य न० ६ त० । भुजान्तरे क्रोड़े हला० ।

भुजशिखर पु० ६ त० । स्कन्धे हेम० ।

भुजशिरस् न० ६ त० । स्कन्धदेशे अमरः ।

भुजाग्र पु० ६ त० । करे हला० ।

भुजादल पु० भुजाया बाहोर्दल इव । करे हस्ते त्रिका० ।

भुजान्तर न० ६ त० । भ्रजयोरन्तरं मध्यम् । क्रीड़े अमरः

वृत्तक्षेत्रजबाह्वोर्विश्लेषरूपे गणितागते पदार्थे यथोक्तं
सि० शि० “भानोः फलं गणितमर्कयुतस्य राशेर्व्यक्षोदयेन
खस्वनागमही १८०० विभक्तम् । गत्या ग्रहस्य गुणितं
द्युनिशा विभक्तं स्वर्णं ग्रहेऽर्कवदिदं तु भुजान्तराख्यम्” ।

भुजि पु० भुज--धातुनिर्देशे इक् । १ भुजधातौ भुज--इन् किच्च ।

२ वह्नौ उणादि० तस्य सर्वभक्षकत्वात् तथात्वम् ।

भुजिङ्ग पु० देशभेदे भा० भी० ९ अ० ।

भुजिष्य पु० भुज--किष्यन् । १ दासे २ रोगे ३ स्वतन्त्रे ४ हस्त-

सूत्रे च । ५ दास्यां ६ वेश्यायाञ्च स्त्री मेदि० ।

भुज्यु पु० भुज--युच् न अनादेशः । १ भाजने उज्ज्वल० ।

२ भोजने उणा० । ३ अग्नौ संक्षिप्त० ४ यज्ञे यजु० १८४२
वेददी० “यज्ञो हि सर्वाणि मूतानि पालयतीति” श्रुतेः
सर्वलोकपालकत्वात्तस्य तथात्वम् ।

भुड भरणे करणे च भ्वा० आ० सक० सेट् इदित् । भुण्डते

अभुण्डिष्ट बुभुण्डे कर्मणि भुण्ड्यते ।

भुणिक पु० गोत्रावयवभेदे तस्यापत्यम् ततः इञ् । भौणिकि

तदपत्ये पुंस्त्री० स्त्रियां ष्यङ् । भौणिक्या तद्गोत्रावयवा
रिचयाम् सि० कौ० ।

भुण्यु पु० १ पौरवे भरतपुत्रे नृपभेदे मा० आ० १४ अ० । २ तद्वश्ये

प्राचीनधृतराष्ट्रपुत्रभेदे भा० आ० ९४ अ० ।

भुरज प्राप्तौ भ्वा० आ० सक० सेट् । भुरजते “मुरजन्त पद्धाः”

ऋ० ४ । ४३ । ५ । अयं धातुः धातुपाठादौ न दृश्यते ।

भुरण धारणपोषणयोः कण्ड्वा० यफ् आ० सक० सेट् ।

भुरण्यति अमरण्यी(णी)त् अयं गतौ निघण्टुः ।
पृष्ठ ४६७७

भुरण्यु न० भॄ--भृतौ कन्यु । १ भरणे यञु० १८ । ५३ । १३ । ४३

वेददीपे कण्ड्वा० भुरण--उन् इत्युक्तम् । २ क्षिप्रे निघण्टुः
३ तद्वति त्रि० ।

भुरिज् स्त्री “भृञ उच्च” उणा० भृ--इजि किच्च धातोरुका-

रादेशः । वसुन्धरायाम् उज्ज्वल० । २ बाह्वोः द्वि० व०
निघण्टुः ।

भुरुण्ड पु० १ प्रवरर्षिभेदे प्रवराध्यायः भारुण्डखगे भा० व० १७ अ० ।

भुर्व अदने भ्वा० सक० सेट् । भूर्वति अभूर्वीत् “भुर्वतिरत्तिकर्मा”

इति यास्कोक्तेः अयं तत्रार्थे धातुर्बोध्यः ।

भुर्वणि पु० भुर्व--अनि न दीर्घः । १ कर्त्तरि । ऋ० १ । ५६ । १ ।

भुव पु० भवन्तीति भू--क । अग्नौ यजु० १३ । ५४ । वेददी०

२ भुवोलोके च “तत्रेदं भूर्भुवादिकम्” सू० सि० ।

भुवद्वत् पु० भू--शतृ गणप्यत्यासे तुदा० । भुवन् धारयन्

अस्त्यस्य मतुप् मस्य वः तान्तत्वेऽपि “भुवद्वद्भे
धारयद्वद्भ्यः पदसंज्ञा वक्तव्या” वार्ति० उक्तेः पदत्वम् ।
धारकवति आदित्ये आ० श्रौ० ४ । २ । ५

भुवन न० भवत्यत्र भू--आधारादौ क्युन् । १ जगति २ जने

३ आकाशे ४ चतुर्दशसंख्यायाम् । ५ जले च मदि० । भुवनानि च
चतुर्दश यथा “चतुर्दशविधं ह्येतद्भूतवृन्दं प्रकीर्त्तितम् ।
भूर्भुवःखर्महश्चैव जनश्च तप एव च । सत्यलोकश्च
सप्तैते लोकास्तु परिकीर्त्तिताः” “अतलं सुतलञ्चैव
वितलञ्च गभस्तिमत् । महातलं रमातलं पातालं
सप्तमं स्मृतम् । रुक्मभौमं शिलाभौमं पातालं
नीलमृत्तिकम् । रक्तपीतश्वेतकृष्णभौभानि च भवन्त्यपि ।
पातालानाञ्च सप्तानां लीकानाञ्च यदन्तरम् । शुषिरं
तानि कथ्यन्ते भुवनानि चतुर्दश” वह्निपु०

भुवनकोष पु० भुवनस्य कोष इव । १ भूगोले २ ज्योतिषग्रन्य-

भेदे च । पुराणसर्वपो विष्णु पु० तद्वर्णन यथा
“रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । मनमुद्सरि-
च्छैला तावती पृथिवी स्मृता । यावत्प्रामाखा पृथिवी
विस्तारपरिमण्डला । नभस्तावत्प्रमाणं वै विस्तार-
प्ररिमण्डलम् । भूमेर्योजनत्रक्षे तु सौरं मैत्रेय! मण्ड-
लम् । लग्ने दिवाकरफापि मण्डलं शशिनः स्मृतम् ।
पूर्णे शतसहस्रे तु योजनानां निशाकरात् । नक्षत्र
मण्डलं कृत्स्नमुपरिष्टात् प्रकाशते । द्विमक्षे चोत्तरे
ब्रह्मन्! बुधो नक्षत्रमण्डलात् । तावत्प्रामाणभावे तु
बुधस्याप्युशना स्थितः । अङ्गारकोऽपि शुक्रस्य
तत्प्रमाणे व्यवस्थितः । तक्षद्वयेन भौमस्य स्थितो देव
पुरोहितः । सौरिर्वृहस्पतेश्चोर्द्धं द्विलक्षे समवस्थितः।
सप्तर्षिमण्डल तस्मल्लक्षमेकं द्विजोत्तम । ऋषिभ्यस्तु
सहस्राणां शताद्वर्द्धं व्यवस्थितः । मधीभूतसमस्तस्य
ज्योतिश्चक्रस्य वै ध्रुवः । त्रैलोक्यमेतत् कथितसत्स-
धेन महामुने! । इज्याफलस्य भूरेषा इज्या चात्र प्रति-
ष्ठिता । ध्रुवादूर्द्धं महर्लोको यत्र ते कल्पवासिनः ।
एका योजनकोटी तु महर्लोको विधीवते । द्वे
फोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्द-
नाद्याः कथिता मैत्रेनामलचेतसः । चतुगुर्णोत्तरे
चोर्द्धं जनलोकात्तपः स्मृतः । वैराजा यत्र ते देवाः
स्थिता दाहविवर्जिताः । षडुगुणेन तपोलोकात् सत्य-
लोको विराजते । अपुनर्मारकायत्र ब्रह्मलोको हि
स स्मृतः । पादगम्यन्तु यत किञ्चिद्वस्त्वखि पृथिवीम-
यम् । स भूर्लोकः समाख्यातो विस्तारोऽप्य मयोदित ।
भूमिसूर्य्यान्तरं यत्तु सिद्धादिसुनिसेवितम् । भुवर्लोकस्तु
सीऽप्युक्तो द्वितीयोमुनिसत्तम! । ध्रुवसूर्य्यान्तरं
यत् तु नियुतानि चतुर्दश । स्वर्लोकः सोऽपि कथिती
लोकसंस्थानचिन्तकैः । त्रैलोक्यमेतत् कृतकं मैत्रेय!
परिपठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ।
कृतकाकृतकोमध्ये महर्लोक इति श्रुतिः । शून्यो
भवति कल्पान्ते योऽत्यन्तं न विनश्यति । एते सप्त-
मया लोका मैत्रैय! कथितास्तव । पातालानि च सप्तैव
ब्रह्माण्डस्यैव विस्तरः । एतदण्डकटाहेन तिर्य्यक्
चोर्ध्वमधस्तथा । कपित्थस्य यथा वीजं सर्वतो वै
समावृतम् । दशीत्तरेण पयसा मैत्रेयाण्डञ्च तद्वृतम् ।
सर्वोऽम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः । वह्निश्च
वायुना, वार्युमैत्रेय! नभसावृतः । भूतादिना नभः
सोऽपि महता परिवारितः । दशोत्तराण्यशेषाणि मैत्रे-
यैतानि सप्त वै । महान्तञ्च समावृत्य प्रधानं
सभवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं वापि विद्यते” ।
भाग० ५ । १६ । १८ अ० विस्तरो दृश्यः ।

भुवनेश्वरी स्त्री ६ त० । महाविद्यामध्ये देवीमूर्त्तिभेदे

तन्मन्त्रध्यानादिकं तन्त्रसा० दृश्यम् ।

भुवन्ति पु० भुवं तनोति तन बा० डि खिच्च मुम् । रुद्रभेदे

यजु० १६ । १९ ।

भुवन्यु पु० भू--कन्युच् । १ स्वामिनि २ सूर्य्ये च उज्ज्वल० । ३ वह्नौ ४ चन्द्रे च मेदि० ।

भुवपति पु० ६ त० । भुवोलोकपतौ यजु० २ । २ । भुवभत्त्रां-

दयोऽप्यत्र ।
पृष्ठ ४६७८

भुवर् अव्य० मू--अरु--किच्च । आकाशात्मके १ द्वितीये लोके

भुवनकोषशब्दे विष्णुपु० वाक्यं दृश्यम् । २ व्याहृतिभेदे च

भुवर्लोक पु० कर्म० । द्विताये लोके ।

भुवम् अव्य० भू--असुन् किच्च । १ आकाशात्मके द्वितीये लोके

२ व्याहृतिभेदे भुवः स्वाहा ।

भुवस्पति पु० कर्म० । भुवो लोकस्वामिनि अर्थर्व० १०५

भुविष्ठ त्रि० भुवि तिष्ठति स्था--क अलुक्स० षत्वम् । भूमिस्थिते

भाग० १ । ५ । १७ ।

भुविस् पु० भू--इसिन् किच्च । समुद्रे उज्ज्वल० ।

भुशुण्डी स्त्री पाषाणक्षेपणार्थे चर्ममययन्त्ररूपे अस्त्रभेदे

“भुशुण्ड्युद्यतबाहवः” भा० आ० २२७ अ० नीलकण्ठः

भू प्राप्तौ चु० आ० सक० सेट् । भावयत अबीभवत ।

भू प्राप्तौ भ्वा० उ० सक० सेट् । भवति--ते अभूत् अभविष्ट ।

भू शुद्धौ अक० चिन्तने मिश्रणे च सक० चुरा० उभ० सेट् ।

भावयति--ते अबीभवत्--त ।

भू सत्तायां भ्वा० पर० अक० सेट् । भवति अभूत् बभूव । “भवते

दुरितक्षयं यथोक्तैः क्रतुभिर्भावयते च नागलोकम् । भवति
त्रिदशैश्च पूजितो यस्तृणवद्भावयति द्विषश्च सर्वान्” कविर०
  • अधि--आधिक्येन भवने ऐश्वर्य्ये ।
  • अनु--अनुभवे ज्ञानभेदे सक० अनुभवशब्दे दृश्यम् ।
  • अन्तर् + तिरोभावे अक० ।
  • अभि + तिरस्कारे सक० । अभिभवति शत्रून् ।
  • आविस् + प्रादुस् + प्रथमप्रकाशे ।
  • उद्--उत्पत्तौ अक० ।
  • तिरस् अन्तर्धाने स्थितस्य वस्तुनः कारणात्मनाऽवस्थाने अक०
  • परा + असहने पराभवः ।
  • परि + तिरस्कारे परिभवति अतिक्रम्य भवने ।
  • प्रत + तुल्यरूपभवने अक० प्रतिभूः ।
  • वि + व्याप्तौ विभुः ।
  • वि + अति--परस्परभवने आत्म० सक० व्यभिभवतेऽर्कमिन्दुः । बोपदेवः
  • सम् + योग्यत्वे अक० । सम्भाति सम् + भू--णिच् सम्भावना-
रूपज्ञानविषयत्वे सम्भाव्यते ।

भू स्त्री भू--आधारे कर्त्तरि अपादाने वा यथायथम् क्विप् ।

१ भूमौ अमरः २ स्थानमात्रे मेदि० ३ यज्ञाग्नौ पु० जटा०
४ उत्पद्यमान त्रि० ५ परमेश्वरे पु० “अनिर्विण्णः स्थविष्ठो
भूः” विष्णु स० ।

भूक न० भू--कक् । १ छिद्रे २ काले मेदि० ।

भूकदम्ब पु० भूवि कदम्ब इव । (कोकसिमा) १ अलम्बुषवृक्षे

रत्नमा० । २ गोरक्षतुण्ड्यां स्त्री नैथण्टुप्र० । संज्ञायां अन् ।
भूकदम्बक । यवान्यां राजनि० ।

भूकन्द पु० भुवः कन्द इव । (थुलकुड़ि) महाश्रावणिकावृक्षे राजनि० ।

भूकम्प पु० ६ त० । लोकानामनिष्टादिसूचके अद्भुतरूपे

पृथिव्याः स्वयंचलने । तस्य शुभाशुमसूचकता अद्भुत-
सागरे उक्ता यथा “मेषे वृश्चिकभे गजः
प्रचलति व्यासादिभिः कथ्यते चापे मीनकुलीरभ च
वृषभे सत्यं चलेत् कच्छपः । यूके कुम्भधरे मृगेन्द्रमिथुने
कन्यामृगे पन्नगस्तेषामेकतमो यदि प्रचलति क्षौणी
तदा कम्पते । कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगे ।
सर्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे । प्रथितनरेश्वर
मरणं व्यसनान्याग्नेयमारुतयोः । क्षुद्भयमतिवृष्टि-
भिरुपपीड्यन्ते जनाश्चापि । त्रिचतुर्थपञ्चदिने मासे
पक्षे त्रिपक्षके । भवति यदा भूकम्पः प्रधाननृपनाशनं
कुरुते” । स च भूमिजोत्पातविशेषः यथा
“चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् । जलाशयानां
वैकृत्यं भौमन्तदपि कीर्तयेत् । भौमं चाप्यं फलं ज्ञेय
चिरेण परिपच्यते” ज्यो० त० ।

भूकर्वुदारक पु० भूशेलौ राजनि० ।

भूकल पुंस्त्री० दुर्विनीताश्वे राजनि० ।

भूकश्यप पु० भूमिजातः कश्यप्रस्तदतार । वसुदेवे त्रिका०

कश्यपस्य वसुदेवरूपेणावतारकथा च हरिवं० ५६ अ० ।
“तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः । वमदेव इति
ख्यातो गोषु तिष्ठति भूतले” ।

भूकाक पु० भुवि ख्यातः काकः । १ क्षुद्रकाके २ क्रौञ्चे ३

नीलकपाते च राजनि० ।

भूकुम्भी स्त्री भुवि कुम्भीव । भूमिपारुलौ राजनि० ।

भूकुष्माण्डी स्त्री भुवि कुष्माण्डीव । वदर्य्याम् राजनि०

भूकेश पु० भुवः पृथिव्याः केश इव । १ वटेः २ शैवले च मेदि०

३ राक्षम्यां स्त्री शब्दरत्ना० ङीष् ।

भूक्षिद् पु० भुवं क्षिणोति क्षिद--क्विप् । भूचरे त्रिका० ।

भूखर्जूरी स्त्री भुवि लग्ना खर्जुरी शाक० त० । क्षुद्रस्वर्जूर्य्याम्

राजनि० । भूमिखर्जूर्य्यादयोऽप्यत्र ।

भूगर न० १ विषे राजनि० २ भवभूतिकवौपु० त्रिका० ।

भूगर्भ पु० भूर्गभेऽस्य । विष्णौ पु० “हिरण्यगर्भो भूगभः” विष्णुस०

भूगृह न० भूमध्यस्थ गृहम् । १ भूमध्यस्थे गृहे ४ परणी-

सदनादयोऽप्यत्र । २ तन्त्रीक्ते यन्त्रषहिःस्थे रेखात्र-
यविशेषात्मके पदार्थे “धरणीसदतत्रयञ्च” श्रीयन्त्रीद्धार ।
पृष्ठ ४६७९

भूगोल पु० भूगोल इव । गोलाकारे मण्डले “मध्ये

समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । विभ्राणः
परमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू० सि० ।
तत्स्थानभेदस्तन्मानादिकं च सि० शि० उक्तं यथा
“मूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षा-
वृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजेमयोऽयम् ।
नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य
पृष्ठे निष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं
समन्तात् । सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः ।
कदम्बकुसुमग्रन्थिः केसरप्रसरैरिव । मूर्तो धर्त्ता चेद्धरि-
त्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्त्ये
कल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्च
मूर्त्तिः? । यथोष्णताऽर्कानलयोश्च, शीतता विधौ, द्रुतिः
के, काठिनत्वमश्मनि । मरुच्चलो भूरचला स्वभावतो
यतो विचित्रा वत वस्तुशक्तयः । आकृष्टिशक्तिश्च
महीतया यत् स्वस्थं गुरु स्वाभिमुखं स्वशक्त्या ।
आकृष्यत तत् पततीव भाति समे समन्तात् क्व पतत्वियं खे ।
भपञ्चरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः ।
खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति
वदन्ति बौद्धाः । द्वौ द्वौ रवीन्दू भगणौ च तद्वदेका-
न्तरौ तावदयं व्रजेताम् । यदब्रुवन्नेवमनम्बराद्या-
ब्रुवीम्यतस्तान् प्रति युक्तयुक्तिम् । भूः खेऽधः खलु
यातीति बुद्धिवौद्धीमुधा कथम् । यातायातं तु दृष्ट्वापि
खे यत् क्षिप्तं गुरु क्षितिम् । किं गण्यं तव वैगुण्यं
द्वैगुण्यं या वृथा कथा । भार्केन्दूनां विलोक्याह्ना
ध्रुवमत्स्यपरिभ्रमम् । यदि समा मुकुरोदरसन्निभा
भगवती धरणी तरणिः क्षितेः । उपरिदूरगतोऽपि
परिभ्रमन् किमु नरैरमरैरिव नेक्ष्यते । यदि
निशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यते ।
उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिण
भागके । ममो यतः स्यात् परिधेः शतांशः पृथ्वी च
पृथ्वी, नितरां तनीयान् । नरश्च, तत्पृष्ठगतस्य
कृत्स्वा समेव तस्य प्रतिभात्यतः सा । पुरान्तरं चेदि-
दमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किम् । चक्रां-
शकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् ।
निरक्षदेशात् क्षितिषोड़शांशे भवदबन्ती गणितेन
यस्मात् । तदन्तर षाड़शसगुणं स्याद् भूमानमस्माद् बहु
किं तदुक्तम् । शृङ्गीन्नतिग्रहयुतिग्रहणोदयास्तच्छा-
यादिकं परिधिना घटतेऽमुना हि । नान्येन तेन जगु
रुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण । लङ्का
कुमध्ये यमकोटिरस्याः प्राक्, पश्चिमे रोमकपत्तनं च ।
अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये बड़वानलश्च ।
कुवृत्तपादान्तरितानि तानि स्थानानि षड् गोलविदी
वदन्ति । वसन्ति मेरौ सुरसिद्धसङ्घा और्बे च सर्वे नरकाः
सदैत्याः । यो यत्र तिष्ठत्यवनीं तलस्था मात्मानमस्या
उपरिस्थित च । स मन्यतेऽतः कुचतुर्थसंस्थामिथश्च ते
तिर्थ्यगिवामनन्ति । अधःशिरस्काः कुदलान्तरस्थाश्छाया-
मनुष्या इव नीरतीरे । अनाकुलास्तिर्यगधः स्थिताश्च
तिष्ठन्ति ते तत्र वर्यं यथात्र । भूमेरर्धं क्षारसिन्धो
रुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्याः । अर्धेऽन्य-
स्मिन् द्वीपषट्कस्य याम्य क्षारक्षीराद्यम्बुधीनां
निवेशः । लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृत-
रश्मिः श्रीश्च यस्माद्बभूव । महितचरणपद्मः पद्म-
जन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र । दध्नो
घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः ।
स्वादूदकान्तर्बड़वानलोऽसौ पाताललोकाः पृथिवीपु-
टानि । चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषु
सासुरगणाः फणिनो वसन्ति । दिव्यानि व्यरमणी
रमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकावभासैः ।
शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेष्टकपु-
ष्करे च । द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वींपसुदाह-
रन्ति । लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽत तस्मात्
तस्माच्चान्यो निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः । एवं
सिद्धादुदगपि पुराच्छृङ्गङ्गवच्छुक्लनीला वर्षाण्येषां जयरिह
बुधा अन्तरे द्रोणिदेशान् । भारतवर्षमिदं ह्यदग-
स्मात् किन्नरवर्षमतो हरिवर्षम् । सिद्धपुराच्च तथा कुरु
तस्मात् विद्धि हिरणमयरम्यकवर्षे । माल्यवांश्च
यमकोष्टिपत्तनाद्रोमकाच्च किल गन्धमादनः । नीलशैलनि-
षधावधी च तावन्तारालमनयोरिलावृतम् । माल्यव-
ज्जलधिमध्यवर्त्ति यत् तत् तु भद्रतुरगं जगुर्बुधाः ।
गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः ।
निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमाव्रतमाबभौ ।
अमरकेद्भिकुषायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम् ।
इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रि-
दशालयः । द्रुहिणजन्मकुपद्मजकर्णिकेति च पुराण-
विदोऽभुमवर्णयन् । विष्कम्भशैलाः खलु मन्दरोऽस्य
पृष्ठ ४६८०
सुगन्धशैलो विपुलः सुपार्श्व । तेषु क्रमात् सन्ति च
केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः । जम्बूफलाम-
लगलद्रसतः प्रवृत्ता जम्बूनदीरसयुता मृदभूत् सुवर्णम् ।
जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत् पिबन्त्य-
मृतपानपराङ्मुखास्तम् । वनं तथा चैत्ररथं विचित्रं
तेष्वप्सरोनन्दननन्दनं च । धृत्याह्वयं यद्धृति-
कृत् सुराणां भ्राजिष्णु बैभ्राजमिति प्रसिद्धम् ।
सरांस्यथैतेष्वरुणं च मानसं महाह्रदं श्वेतजलं
यथाक्रमम् । सरःसु रामारमणश्रमालसाः सुरा रमन्ते
जलकेलिलालसाः । सद्रत्नकाञ्चनमयं शिखरत्नयं च मेरौ
मुरारिकपुरारिपुराणि तेषु । तेषामधः शतमखज्वल-
नान्तकानां रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ ।
विष्णुपदी विष्णुपदात् पतिता मेरौ चतुर्धाऽस्मात् ।
विष्कम्भाचलमस्तकशस्तसरःसङ्गता गता वियता ।
सीताख्या भद्राश्वं, सालकनन्दा च भारतं वर्षम् ।
बङ्क्षुश्च केतुमालं, भद्राख्या चोत्तरान् कुरून् याता ।
याऽऽकर्णिताभिलषिता दृष्टा स्पृष्टावगाहिता पीता ।
उक्ता स्मृता स्तुता वा पुनाति बहुधा पापिनः पुरुषान् ।
यां चलितो दलिताखिलबन्धो गच्छति बल्गति तत्
पितृसङ्गः । प्राप्ततटे विजितान्तकदूतो याति नरे
निरयात् सुरलोकम् । ऐन्द्रं कशेरुशकलं किल ताम्र-
पर्णमन्यद्गभस्तिमदतश्च कुमारिकाख्यम् । नागं च
सौम्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति भारतवर्ष-
मध्ये । वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यज-
जना निवसन्ति सर्वे । माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः
सह्यः मविन्ध्य इह सप्त कुलाचलाख्याः । भूर्लोकाख्यो
दक्षिणे व्यक्षदेशात् तस्मात् सौम्योऽय भुवः, स्वश्च मेरुः ।
लभ्यः पुण्येः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्वै-
स्तपः सत्यमन्त्यः । लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा
दिनार्धं यमकोटिपुर्य्याम् । अधस्तदा सिद्धपुरेऽस्त-
कासः खाद्रोमके रात्रिदल तदैव । यत्रोदितोऽर्कः किल
तत्र पूर्वा, ततापरा यत्र गतः प्रतिष्ठाम् । तन्मत्-
तोऽन्ये च ततोऽखिलानामुदक्स्थितो मेरुरिति
प्रसिद्धम् । यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि
स्याद्यमकोटिरेष । ततश्च पश्चान्न भवेदवन्ती लङ्कैव
तस्याः ककुभि प्रतीप्याम् । तथैव सर्वत्र यतो हि यत्
स्यात् प्राणां ततस्तन्न भवेत् प्रतीच्याम् । निरक्षदे-
शादितरत्न तस्मात् प्राचीप्रतीच्यौ च विचित्रसंस्थे ।
निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षि-
णोत्तरौ । तदाश्रितं खेजलयन्त्रवत् तथा भ्रमद्भचक्र
निजमस्तकोपरि । उदग्दिशं याति यथा यथा
नरस्तथा तथा स्यान्नतमृक्षमण्डलम् । उदग्ध्रुवं पश्यति
चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः । योजन-
संख्याभांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः । भूमौ
कक्षायां वार्वागेभ्यो योजनानि च व्यस्तम् । सौम्यं
ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकोर्द्धेः
सव्यापसब्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम् ।
प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय ४९६७
स्तद्व्यासः कुभुजङ्गसायकभुवः १५९१ सिद्धांशकेनाधिकः १०२४
पृष्ठे क्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५२०
३४ भूमेः कन्दुकजालवत् कुपरिधिव्यासाहतेः प्रस्फु-
टम् । दुष्टं कन्दुकपृष्ठजालवदिलागाले फलं जल्पितं
लल्लेनास्य शतांशकोऽपि न मवेद्यस्मात् फलं वास्तवम् ।
तत् प्रत्यक्षविरुद्धमुद्धतमिदं नैवास्तु वा ह्यस्तु वा हे
प्रौढ़ा! गणका विचारयत तन्मध्यस्थबुद्ध्या भृशम् । यत्
परिध्यर्धविष्कम्भं वृत्तं कृत्तं किलांशुकम् । तेनार्धश्छाद्यते
गोलः किञ्चिद्वस्त्रेऽवशिष्यते । गोलक्षेत्रफलात्
तस्माद्वस्त्रक्षेत्रफलं यतः । सार्धद्विगुणितासन्नं तावदेवा-
परे दले । एवं पञ्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु ।
नाधिकं जायते तेन परिधिघ्नं कुतः कृतम् । वृत्तक्षेत्र-
फलं यस्मात् परिधिध्नं न युक्तिमत् । दुष्टत्वाद्
गणितस्यास्य दुष्टं भूपृष्ठजं फलम् । गोलस्य परिधिः
कल्प्यो वेदघ्नज्यामितेर्मितः । मुखबुध्नगरेखाभिर्यद्वदाम-
लके स्थिताः । दृश्यन्ते वप्रकास्तद्वत् प्रागुक्तपरिधेर्मि-
तान् । ऊर्ध्वाधःकृतरेखाभिर्गोले वप्रान् प्रकल्पयेत् ।
तत्वैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते । सर्वज्यैक्यं
तिभज्यार्धहीनं त्रिज्यार्धभाजितम् । एवं वप्रफलं
तत् स्याद् गोलव्याससमं यतः । परिधिव्यासघाती-
ऽतो गोलपृष्ठफलं स्मृतम् । वृत्तक्षेत्रे परिधिगुणित
प्यासपादः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव
जालम् । गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनि-
म्नतम् षड्भिर्भक्तं भवति नियतं गोलगर्भे धनाख्यम्” ।
पुराणसर्वस्ये विष्णुपु० अन्यथोक्तं यथा
“जम्बुप्लक्ष ह्वयौ द्वीपौ शालमलिश्चापरी द्विज! । कुशः
क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः । एते द्वीपा
समुद्रैस्तु सप्त सप्तभिरावृताः । वणेक्षुसुरासर्पिर्दधि-
पृष्ठ ४६८१
दुग्धजलैः समः । जम्बूद्वीपः समस्तानामेतेर्पा मध्यमे
स्थितः । तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः ।
पतुरशीतिसाहस्रो योजनैरस्य चोच्छ्रयः । प्रविष्टः षोड़शा-
धस्तात् द्वात्रिंशन्मूर्ध्नि विस्तृतः । मूले षोड़शसाहस्रो
विस्तारस्तस्य भूभृतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकासं
स्थितिः स्थितः । हिमवान् हेमकूटश्च निषधस्तस्य
दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।
लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्रद्वि-
तयोच्छ्रायास्तावद्विस्तारिणश्च ते । भारतं प्रथमं वर्ष
ततः किंपुरषं स्मृतम् । हविवर्षं तथैवान्यं मेरो-
र्दक्षिणतो द्विजः । रम्यकञ्चोत्तरं वर्षं तथैवानु हिरण्-
मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ।
नवसाहस्रमेकैकमेतेषां द्विजसत्तम! । इलावृतञ्च तन्मध्ये
सौवर्णो मेरुच्छ्रितः । मेरोश्चतुर्दिशं तत्र नवसाहस्र-
विस्तृतम् । इलावृतं महाभाग! चत्वार उपपर्वताः ।
विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण
मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे भागे
सुपार्श्वश्चोत्तरे स्मृतः । कदम्बस्तेषु जम्बूश्च पिप्पलो
वट एव च । एकादश शतायामाः पादपा गिरिकेतवः ।
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने! ।
महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै । पतन्ति
भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः । रसेन तेषां
प्रख्याता तत्र जम्बूनदीति वै । सरित् प्रवर्त्तते सा च
पीयते तन्निवासिभिः । न स्वेदो न च दौर्गन्ध्यं न जरा
नेन्द्रियक्लमः । तत्पानसुस्थमनसां जनानां तत्र
जायते । तीरमृत्तत्र संप्राप्य सुखवायुविशोषिता । जाम्बू-
नदाख्यं भवति सुवर्णं सिद्धभूषणम् । भद्राश्वं पूर्वतो
मेरोः केतुमालञ्च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ!
तयोर्मध्यमिलावृतम् । वनं चैत्ररथं पूर्वं दक्षिणे गन्ध-
मादने । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ।
अरुणोदं महाभद्रं ससितोदं समानसम् । सरांस्ये-
तानि चत्वारि देवभोग्यानि सर्वदा । सीतान्तश्चैव
मुञ्जश्च कुवरो माल्यवांस्तथा । वैकङ्कप्रमुखामेरोः
पूर्बतः केसराचलाः । त्रिकूटः शिशिरश्चैव पतङ्गो
रुचकस्तथा । निषधादयो दक्षिणतस्तस्य केसरपर्वताः ।
शिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः । जारु-
धिप्रमुखास्तद्वत् पश्चिमे केसराचलाः । मेरोरनन्तरा-
ङ्गेषु जठरादिष्ववस्थिताः शङ्ककूटोऽथ ऋषभो हंसो
मानस्तथा परः । कालञ्जराद्याश्च तथा उत्तरे वेसरा-
चलाः । चतुर्दशसहस्राणि योजनानां महापुरी ।
मेरोरुपरि मैत्रेय । ब्रह्मणः प्रथिता पुरी । तस्यां
समन्ततश्चाष्टौ दिशासु विदितासु च । इन्द्रादिलोकपालानां
प्रख्याताः प्रवराः पुरः । विष्णुपादविनिष्क्रान्ता
पूरयित्वेन्दुमण्डलम् । समन्ताद् ब्रह्मणः पूर्य्या गङ्गा पतति
वै दिवः । सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत ।
मीता चालकनन्दा च वङ्क्षुर्भद्रा च वै क्रमात् । पूर्वेण
शैलात् सीता तु शैलं यात्यन्तरीक्षगा । ततश्च पूर्ववर्षेण
भद्राश्वेनैति पार्णवम् । भद्रा तथोत्तरगिरीनुत्तरांश्च
तथा कुरून् । अतीत्योत्तरमम्भोधिं समभ्येति महामुने! ।
वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः । पञ्चिमं केतु-
मालाख्यं वर्षमभ्येति सार्णवम् । तथा चालकानन्दापि
दक्षिणेनेत्य भारतम् । प्रयाति सागरं भूत्वा सप्तभेदा
महामुने! । आनीलनिषधायामौ माल्यवद्गन्धमादनौ ।
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः भारताः
केतुमालाश्च भद्राश्वाः कुरवस्तथा । पद्मानि लोकपद्मस्य
मर्य्यादाश्चैव बाह्यतः । जठरो देवकूटश्च मर्य्यादाप-
र्वताबुभौ । तौ दक्षिणोत्तरायामावानीलनिषधा-
यतौ । मेरोः पश्चिमदिग्भागे यथा पूर्वा तथा
स्थितौ । त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्षपर्वतौ ।
पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ । इत्येते मुनि-
वर्य्योक्तामर्य्यादापर्वतास्तव । जठराद्याः स्थितामेरो-
र्येषां वौ द्वौ चतुर्दिशम् । मेरोश्चतुर्दिशं ये तु प्रोक्ताः
केसरपर्वताः । शीतान्ताद्या मुने! तेषामतीव सुमनो-
रमाः । शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ।
सुरम्याणि तथा तेषु काननानि पुराणि च । लक्ष्मीवि-
ष्ण्वग्निसूर्य्यादिदेवानां सुनिसत्तम! । तान्यायतनव-
र्य्याणि जुष्टानि वराकन्नरैः । गन्धर्वयक्षरक्षांसि तथा
दैतेयदानवाः । क्रीड़न्ति तासु रम्यासु शैलद्रोणीष्वह-
र्निशम् । भौमाह्येते स्मृताः स्वर्गा धर्मिणामालया-
मुने! । नैतेषु पापकर्माणी यान्ति जन्मशतैरपि ।
भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज! । वराहः
केतुमाले तु भारते कूर्मरूपधृक् । मत्स्यरूपश्च
गोविन्दः कुरुष्वास्ते सनातनः । विश्वरूपेण सर्वत्र सर्वः
सर्वेश्वरो हरिः । सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखि-
लात्मकः । यानि किपुरुषाद्यानि वर्षाण्यष्टौ महामुने! ।
न तेषु शोको नायासी नोद्वेगः क्षुद्भयादिकम् । सुस्था
पृष्ठ ४६८२
प्रजा निरातङ्काः सर्वदुः स्वविवर्जिताः । दशद्वादशवर्षाणां
सहस्राणि स्थिरायुषः । न तेषु वर्षवर्य्येषु भौमान्यम्भांसि
तेषु वै । कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना ।
सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश्च
शतशस्तेभ्यः प्रसूता या द्विजोत्तम!” । “पराशर उवाच ।
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं
तद्भारतं नाम भारती यत्र सन्ततिः । नवयोजनसाहस्रो
विस्तारोऽस्य महामुने! । कर्ममूमिरियं स्वर्गमपवर्गञ्च
गच्छताम् । महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः ।
विन्ध्यश्च पारि(या) पात्रश्च सप्तात्र कुलपर्वताः । अतः
संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च । तिर्य्यक्त्वं
नरकत्वञ्च यान्त्यतः पुरुषामुने! । इतः स्वर्गश्च मोक्षश्च
मध्यञ्चान्तश्च गम्यते । न खत्वन्यत्र मर्त्यानां कर्म भूमौ
विधीयते । भारतस्यास्य वर्षस्य नवभेदान्निशामय ।
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् । नामद्वीप-
स्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । अयन्तु नवमस्तेषां
द्वीपः सागरसंवृतः । योजनानां सहस्रन्तु द्वीपोऽयं
दक्षिणोत्तरात् । पूर्वे किराता यस्यापि पश्चिमे जवनाः
स्थिताः । ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च
भागशः । इज्यायुद्धबलिज्याद्यैर्वर्त्तयन्तो व्यवस्थिताः ।
वेदस्मृतिमुखाश्चान्याः पारि(या)पात्रोद्भवा मुने! । नर्मदा
सुरसाद्याश्च नद्यो विन्ध्यविनिर्गताः । तापीपयोष्णीनिर्विन्ध्या
कावेरीपमुखा नदी । गोदावरीभीमरथीकृष्णवेण्वादिका-
स्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।
कृतामलाताम्रपर्णीप्रमुखामलयोद्भवाः । त्रिसामा
ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । ऋषिकुल्याकुमाराद्याः
शुक्तिमत्पादसम्भवाः । शतद्रूचन्द्रभागाद्या हिमवत्-
पादनिःसृताः । आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः ।
अत्रेमे कुरुपञ्चालमध्यदेशादयोजनाः । पूर्वदेशादिका-
श्चैव कामरूपनिवासिनः । ओड्राः कलिङ्गामनधा दाक्षि
णात्याश्च सर्वशः । तथापरान्ताः सौराष्ट्राः शुद्धाभीरास्तथा-
र्बुदाः । मारुकामालकाश्चैव पारि(या)पात्रनिवासिनः ।
तौवीराः सैन्धवाहूणा शाल्लाः शाकलवासिनः । मद्रा-
नामास्तथाम्बष्ठाः पारसीकादयस्तथा । चासां पिबन्तः
सलिलं वसन्ति सरितां सदा । चत्वारि भारते वर्षे युगा-
न्यत्र महामुने! । कृत त्रेता द्वापर कलिश्चान्यत्र
न क्वचित् । तपस्तप्यन्ति मुनयोजुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलोकाममादरात । पुरुवैर्यज्ञ-
पुरुषो जम्बूद्वीपे सदेज्यते । तत्रापि भारतं श्लेष्ठं
जम्बूद्वीपे महामुने! । यतो हि कर्मभूरेषा ततोऽन्या-
भोगभूमयः । अत्र जन्मसहस्राणां सहस्रैरपि सत्तम! ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयम् । गायन्ति
देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे ।
स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्यात् ।
कर्माण्यसंकल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूप ।
अवाप्य ता कममहीमनन्ते तस्मिँल्लयं ये त्वमलाः
प्रयान्ति । जानीम नैतवद्धवयं विलीने स्वर्गप्रदे कर्मणि
देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते
नेन्द्रियविप्रहीनाः । नववर्षन्तु मैत्रेय! जम्बूद्वीप-
मिदं मया । लक्षयोजनविस्तार संक्षेपात् कथितं
तव । जम्बूद्वीप समातुत्य लक्षयोजनविस्तृतः । मैत्रेय!
वलयाकारः स्थितः स्वीरोदधिर्बहिः । “पराशर उवाच ।
क्षीरोदेन यथाद्वीपो जस्बुसङ्गाऽभिवेष्टितः । संवेष्ट्य क्षार-
मुदधिं प्लक्षद्वीयस्तथा स्थितः । जम्बूद्वीपस्य विस्तारः
शतसाहस्रसम्मितः । स एव द्विगुणो ब्रह्मन्! प्लक्षद्वीपोऽप्युदा
हृतः । सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठः
शान्तभयो नाम शैशिरस्तदनन्तरः । सुखोदयस्तथानन्दः
शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा
इमे । पूर्वं शान्तभयं वर्षं शिशिरं मुखटं तथा ।
आनन्दञ्च शिवञ्चैव क्षेमकं घ्रुवमेव च । मर्य्याटाकार-
कास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि
शृणुष्व मुनिसत्तम! । गोमेदश्चैव चन्दश्च नारदोदुन्दुभि-
स्तथा । सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ।
वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः । वसन्ति देवगन्धर्व-
सहिताः सततं प्रजाः । तेषु पुण्या जनपदाश्चिराच्च
म्रियते जनः । नाधयोघ्याधयोवापि सर्वकालसुखं हि
तत् । तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि श्रुताः पाप हरन्ति याः ।
अमुतप्ता शिखा चैव विपापा दिदिवा क्रमुः । अमृता
सुकृता चैव सप्तौतास्तत्र निमृगाः । एते शैलास्तथा नद्यः
प्रधानाः कथितास्तव । क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति
सहस्रशः । ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।
अपसर्पिणी न तेषां वै नचैचोतसर्पिणी प्रजा । नात्र-
चास्त युगावस्या तेषु स्थानेषु सप्तषु । त्रेतायुगसमः
कालः मर्वदैव महासने! । प्लक्षद्वीपादिषु ब्रह्मन् ।
शाकद्वीपान्तियेषु ते । पञ्चवर्षसहस्राणि जना तीवन्त्यना-
पृष्ठ ४६८३
मयाः । धर्माः पञ्चस्यथैतेषु वर्णाश्रभविभागजाः ।
यर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते । आर्य्यकाः
कुरराश्चैव विविंशाभाविनश्च ते । विपक्षत्रियवैश्यास्ते
शूद्राश्च द्विजसत्तम! । जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहा-
तरुः । प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तम! ।
इज्यते भगवांस्तत्र तैर्वर्णैरार्य्यकादिभिः । सोमरूपी
जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः । प्लक्षद्वीपप्रमाणेन
प्लक्षद्वीपसमावृतः । तथैवेक्षुरसोदेन परिवेशानुकारिणा ।
इत्येतत्तव मैत्रेय! प्लक्षद्वीपमुदाहृतम् । संक्षे-
पेण मया भूयः शाल्मलं मे निशामय । शाल्मल-
स्येश्वरो वीरो वपुष्मांस्तत्सुतान् शृणु । तेषान्तु
नामसंज्ञानि सप्त वर्षाणि तानि वै । श्वेतोऽत्र हरितश्चैव
जीमूतो हरितस्तथा । वैद्युतो मानसश्चैव सुप्रभश्च
महामुने! । शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः ।
विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः । तत्रापि
पर्वताः सप्त विज्ञेयारत्नयोनयः । रसाभिव्यञ्जकास्ते
तु तथा सप्तैव निम्नगाः । कुमुदश्चोन्नतश्चैव तृतीयश्च
बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो
महीधरः । कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा ।
कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु । योनितोया
वितृष्णा च चन्द्रा शुक्ला विमोचनी । निवृत्तिः सप्तमी
तासां स्मृतास्ताः पापशान्तिदाः । श्वेतञ्च लोहितञ्चैव
जीमूतं हरितं तथा । वैद्युतं मानसञ्चैव सुप्रभं नाम
सप्तमम् । सप्तैतानि तु वर्षाणि चातुर्वर्णयुतानि वै ।
शाल्मलेऽपि च ये वर्णा वसन्त्येते महामुने! । कपिला-
श्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् । ब्राह्मणाः
क्षत्रिया वैश्याः शूद्राश्चैव यजन्तितम् । भगवन्तं
समस्तस्य विष्णुमात्मानमव्ययम् । वायुभूतं मुखश्रेष्ठै-
र्यज्वितोऽसङ्गसंस्थितिम् । देवानामत्र सान्निध्यमत्रैव
समनोरमे । शाल्मलिश्च महावृक्षो नाम निर्वृतिकार कः
एष द्वीपः समुद्रेण सुरीदेनं समावृतः । विस्तारः शाल्-
मलस्यैव समेन तु समन्वतः । सुरोदकः परिवृतः
कुशद्वीपेन सर्वतः । शाल्मलस्य तु विस्ताराद्द्विगुणेन
समन्ततः । ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्व तान् ।
उद्भिदो रेणुमांश्चैव सुरथो लम्बनो धृतिः । प्रभाकरोऽथ
कपिलस्तन्नाम्ना वर्ष उच्यते । तस्मिन् वसन्ति मनुजाः
सह दैतेयदानषैः । तथैव देवगन्धर्वयक्षकिंपुरुषा-
दिभिः । वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ।
दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने! । ब्रा-
ह्मणाः क्षत्रियाः वैश्याः शूद्राश्चानुक्रमोदिताः । यथोक्त-
कर्मकर्तृत्वात् स्वाधिकारक्षयाय ते । तत्र यत्तत् कुशद्वीपे
ब्रह्मरूपं जनार्दनम् । यजन्तः क्षपयन्नुग्रमधिकारफल-
प्रदम् । विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा १
कुशेशयो हरिश्चैव सप्तमो मन्दराचलः । वर्षाचलास्तु
सप्तैव तत्र द्वीपे महामुने! । नद्योऽपि सप्त तासाञ्च
शृणु नामान्यनुक्रमात् । धूतपापा शिवा चैव पवित्रा
सम्मतिस्तथा । विद्युदस्ता मही चैव सर्वपापहरा-
स्त्विमाः । अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाऽचलाः ।
कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम् । तत्प्रमा-
णेन स द्वीपो घृतोदेन समावृतः । धृतोदश्च समुद्रो वै
क्रौञ्चद्वीपेन संवृतः । क्रौञ्चद्वीपो महाभाग! श्रूयताञ्चा-
परो महान् । कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य
विस्तरः । क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्र महात्मनः । तन्ना-
मानि च वर्षाणि तेषाञ्चक्रे महीपतिः । कुशलो मन्दग-
श्चोष्णः पीवरीऽथान्धकारकः । मुनिश्च दुन्दुभिश्चैव सप्रेते
तत्सुता मुने! । तत्रापि देवगन्धर्वसेविताः सुमनोरमाः ।
वर्षाचला महाबुद्धे! तेषां नामानि मे शृणु । क्रौञ्चश्च
वामनश्चैव तृतीयश्चान्धकारकः । चतुर्थी हरशैलश्च
स्वभाभिर्भासयन्नभः । देवावृत् पञ्चमश्चैव तथा स्वःपुण्ड-
रीकवान् । दुन्दुभिश्च महाशैलो द्विगुणास्ते
परस्परम् । द्वीपद्वीपेषु ये शैला यथा द्वीपानि ते तथा ।
वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च । निवसन्ति निरा-
तङ्काः सहदेवगणैः प्रजाः । पुष्कराः पुष्कलाधन्यास्ति-
ष्याख्याश्च महामुने! । ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चा-
नुक्रमोदिताः । ते तत्र नद्यो मैत्रेय! या पिवन्ति
शृणुष्वताः । सप्त प्रधानाः परतस्तत्रान्याः क्षुद्रनिम्नगाः ।
सौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । ख्यातिश्च
पुण्डरीका च सप्तैता वर्षनिम्नगाः । तत्रापि वर्णैर्भग-
वान् पुष्कराद्यैर्जनार्दनः । योगिरुद्रस्वरूपस्तु इज्यते
यज्ञसन्निधौ । क्रौञ्चद्वीपः समुद्रेण दधिमण्डीदकेन
च । आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः ।
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य
विस्ताराद् द्विगुणेन महामते! । शाकद्वीपेश्वरस्यापि
भवस्य सुमहात्मनः । सप्तैव तनयास्तेषां ददौ वर्षाणि
सप्त च । जलदश्च कुमारश्च सुकुमारो मणीरकः । कुमु-
दोदः समौदाकिः सप्तमश्च महाद्रुमः तत्संज्ञान्यपि-
पृष्ठ ४६८४
तान्येव सप्त वर्षाण्यनुक्रमात् । तत्रापि पर्वताः सप्त वर्ष-
विच्छेदकारिणः । पूर्वस्तत्रोदयनिरिर्जलाधारस्तथा परः
तथा रेवतकः श्यामस्तथैवास्तगिरिर्द्विज! । आम्बिकेय-
स्तथा रम्यः केशरी पर्वतोत्तमः । शाकस्तत्र महावृक्षः
सिद्धगन्धर्वसेवितः । तत्पत्रवातसंसर्गादाह्लादो जायते
परः । तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्य-
श्चात्र महापुण्याः सर्वपापभयापहाः । सुकुमारी
कुमारी च नलिनी रेणुका तथा । इक्षुश्च धेनुका चैव
गभस्ती सप्तमी तथा अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो
महामुने! । महीधरास्तथा चात्र शतमोऽथ सहस्रशः ।
ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः । वर्षेष्वेते
जनपदाः स्वर्गादभ्येत्य मेदिनीम् । धर्महानिर्न
तेष्वस्ति न संहर्षः परस्परम् । मर्य्यादाव्युत्क्रमो नापि
तेषु देशेषु सप्तसु । मागाश्च मानधाश्चैव मानसा
मन्दगास्तथा । मागा व्राह्मणभूयिष्ठा मागधा क्षत्रिया-
स्तथा । वैश्यास्तु मानसास्तेषां शूद्रास्तेषां तु मन्दगाः ।
शाकद्वीपे तु तैर्वर्णैः सूर्य्यरूपधरो मुने! । यथोक्तैरिज्यते
सम्यक्कर्मभिर्नियतात्मभिः । शाकद्वीपस्तु मैत्रेय! क्षीरो-
देन समन्ततः । शाकद्वीपप्रमाणेन बलयेनेव वेष्टितः ।
क्षीराब्धिः सर्वतो ब्रह्मन्! पुष्कराख्येन येष्टितः । द्वीपेन
शाकद्वीपात्तु द्विगुणेन समन्ततः । पुष्कराख्य द्वीपपते-
र्महावीतोऽभवत् सुतः । धातकिश्च तयोस्तत्र द्वेवर्षे
नाम चिह्निते । महावीतं तथैवान्यत् धातकीषण्ड-
भण्डितम् । एकश्चात्र महाभाग! प्रख्यातो वर्ष-
पर्वतः । मानसोत्तरसंज्ञो वै मध्यतो बलयाकृतिः ।
योजनानां सहस्राणि ऊर्द्ध्वं पञ्चाशदुच्छ्रितः ।
तावदैव च विस्तीर्णः सर्वतः परिमण्डलः । पुष्करद्वीपबलयं
मध्ये संविभजन्निव । स्थितोऽसौ सुमहान् शैलो
व्याप्य तद्वर्षकद्वयम् । बलयाकारमेकैकं तयोर्वर्षं
तथा गिरिः । दशवर्षसहस्राणि यत्र जीवन्ति मानवाः ।
निरामया विशोकाश्च रानद्वेषविवर्जिताः । अधमोत्तमौ
न तेष्वास्तां न नध्यबधकौ द्विज! नेर्ष्यासूयाभयं
रोषो दोषो लोभादिको न च । महावीतं महावर्षं
धातकीसंङ्गमन्ततः । मानसोत्तरशैलश्च देवदैत्यादि
सेवितः । सत्यानृतं न तत्रास्ते द्वीपे पुष्करसंज्ञिते ।
न तत्र शैलनद्यो वा द्वीपे वर्षद्वयान्विते । तुल्यवेशास्तु
मनुजादेवैस्तत्रैकरूपिणः । वर्णाश्रमाचांरहीनं धर्मा-
हरणवर्जितम् । त्रयीवार्त्तादण्डनीतिशुश्र षारहितञ्च
तत् । वर्षद्वयञ्च मैत्रेय! भौमः स्वर्गोऽयमुत्तमः । सर्वश्च
सुखदः कालो जरारीगादिवर्जितः । पुष्करे धातकी-
षण्डं महावीते च वै मुने! । न्यग्रोधः पुष्करद्वीपे
व्रह्मणः स्थानमुत्तमम् । तस्मिन्निवसति ब्रह्म । पूज्य-
मानः सुरासुरैः । स्वादूदकेनोदधिना पुष्करः
परियेष्टितः । समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा ।
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । द्वीपश्चैव
समुद्रश्च समानौ द्विगुणौ परौ । पयांसि सर्वदा सर्व-
समुद्रेषु समानि वै । ऊनातिरिक्तता तेषां कदाचिन्नैव
जायते । स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा ।
तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तम! । अनूमाश्चाति-
रिक्ताश्च वर्द्धन्त्यापो ह्रसन्ति च । उदयास्तमनेष्विन्दोः
पक्षयोः शुक्लकृष्णयोः । दशोत्तराणि पञ्चैव अङ्गुलानां
शतानि वै । अपां धृद्विक्षयौ दृष्टौ सामुद्रीणां
महामुने! । भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् । यत्र
संभुञ्जते विप्र! प्रजाः सर्वाः सदैव हि । स्वादूदकस्य
पुरतो दृश्यते लोकसंस्थितिः । द्विगुणा काञ्चनी भूमिः
सर्वजन्तुविवर्जिता । लोकालोकस्ततः शैलो योजनायुत-
विस्तरः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो
हि सः । ततस्तमः समावृत्य तं शैह्यं सर्वतः स्थितम् ।
तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् । पञ्चाशत्-
कीटिविस्तीर्णा सेयमुवीं महामुने! । सहैवाण्डकटाहेन
सद्वीपाब्धिमहीधरा । सेयं धात्री विधात्री च सर्वभूत-
गुणाधिका । आधारभूता सर्वेषां मैत्रेय! जगतामिति” ।
भूगोलस्य स्थिरत्वे युक्तिः खगोलशब्दे उक्ता अधिक-
मत्र किञ्चिदुच्यते इलण्डीयज्योतिर्विदां मते भूगोलस्यैव
दक्षिणोत्तरगतिभ्यां सूर्य्यस्य उत्तरदक्षिणगतित्वं कल्प्यते
स्थिरस्य सूर्य्यस्य उत्तरदक्षिणायनयोरसम्भवादिति ।
तदेतन्मतमतीवासमञ्जसं भूगोलस्य दक्षिणोत्तरगतिस्वीकारे
सूर्य्यस्येव कृत्तिकारोहिणोशकटमृगव्याधादीनामपि
उत्तरदक्षिणयोर्गतिः प्रसज्येत न च तथा दृश्यते
तेषाञ्च यथा विक्षेपनामशरसंख्या सौरागमे पठिता
तादृशान्तर एव प्रत्यहं दर्शनं न मनागपि उत्तरदक्षिणा-
थनमिति विवेच्य भूगालस्य रिवात्वभनुसन्धातव्यम् ।

भूच्छाया स्त्री भुवश्छाया । सूर्य्यकिरणासम्पकात् भापनाने

राहुग्रहाभिधाने १ तमसि २ अन्धकारे च शब्दमाला ।

भूजन्तु पु० भूरिव जन्तुः । नागे हस्तिनि राजनि० ।

भूजम्बू स्त्री भुवो जम्बूरिव स्वादुत्वात् । १ गोधूमे २ विकङ्क-

तफले च (वैचि) मेदि० भूमिलीना जम्बूः शाक० त०
३ क्षुद्रजम्ब्वाम् । भूमिजम्ब्वादयोऽप्यत्र स्त्री
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/भाग&oldid=57831" इत्यस्माद् प्रतिप्राप्तम्