वाचस्पत्यम्/बुध

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४५८६

बुध पु० बुध--क । १ पण्डिते, बृहस्पतिभार्य्यायां तारायां

चन्द्रेण जनिते २ पुत्रे तस्य रोहिण्या प्रतिपालनात्
रौहिणेयत्वम् । ३ ग्रहभेदे । तस्योत्पत्तिकथा शिववरेण
तस्य ग्रहरूपत्वप्राप्तिकथा च काशीख० १५ अ० । “बृहस्पतेः
सवै भार्य्यामैश्वर्य्यमदमोहितः । पुरोहितस्यापि गुरोर्भ्रातु-
राङ्गिरसस्य वै । जहार तरसा ताराम्” इत्युपक्रमे ।
“ददावाङ्गिरसे तारां स्वयमेव पितामहः । अथान्त-
र्गर्भमालोक्य तारां प्राह बृहस्पतिः । मदीयायां न ते
योनौ गर्भो धार्य्यः कथञ्चन । ईषिकास्तम्भमासाद्य सा गर्भं
चोत्ससर्ज ह । जातमात्रः स भगवान् देवानामाक्षि-
पद्वपुः । ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ।
सत्यं व्रहि सुतः कस्य सोमस्याथ बृहस्पतेः । पृच्छ्य-
माना यदा देवैर्नाह ताराऽतिसत्रपा । तदा तां शप्तु-
मारब्धः कुमारः सोऽतितेजसा । तन्निवार्य्य तदा ब्रह्मा
तारां पप्रच्छ संशयम् । प्रोवाच प्राञ्जलिः सा त सोमस्येति
पितामहम् । तदा स मूर्द्ध्यूपाध्राय तारागर्भं प्रजा-
पतिः । बुध इत्यकरोन्नाम तस्य बालस्य धीमतः । ततः
स सर्वदेवेभ्यस्तेजोरूपबलाधिकः । बुधः सोमं
समापृच्छ्य तपसे कृतनिश्चयः । जगाम काशीं निर्वाणराशिं
विश्वेशपालिताम् । तत्र लिङ्ग प्रतिष्ठाप्य स्वनाम्ना तु
बुधचूरम् । तपश्चचार चात्य ग्रमुग्र संशीलयन् हृदि” ।
इति तत्तप उक्तं तत्तपसा च तुष्टेन शिवेनोक्तं यथा
“रौहिणेय! महाभाग! सौम्य! सौम्यवचोनिधे! ।
नक्षत्रलोकादुपरि तव लोको भविष्यति । मध्ये सर्वं
ग्रहाणाञ्च सपर्य्यां लप्स्यसे पराम्” । बुधग्रहस्य
कक्षाभगणादिकं खगोलशब्दे दृश्यम् ।

बुधचक्र न० बुधस्य राश्यन्तरसञ्चारकाले स्वनक्षत्रस्य मुखादि-

स्थानस्थितिभेदेन शुभाशुभमूचके चक्रभेदे “भोगोमुखैकमथ
मूर्ध्नि चतुर्षु रोगः षट पाणिभेऽमुखहतं सुखदं श्रुते-
ऽत्र । दुःख पदाब्धि सुयशो हृदि सप्त राज्यं नाभी-
न्दुभे द्विभ गले निधनं बुधस्य” इति समयामृतम् ।

बुधचार पु० ६ त० । वृ० स० ७ अ० उक्ते बुधग्रहस्य शुभाशुभ-

मूचके सवारे यथा
“नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् ।
जलदहनपवनभयकृद्धान्यार्थेक्षयविवृद्ध्यै वा । विचरन्
श्रवणधनिष्ठाप्राजापत्येन्दु ४ । ५ विश्वर्दवानि २१ । मृद्नन् हिमक-
रतनयः करोत्यवृष्टिं सरोगभयाम् । रौद्रा ६ दीनि
मघान्तन्थ पात्रिते यन्द्रजें प्रजार्पाष्टा । शखनिपातक्षुद्भय-
रोगानावृष्टिसन्तापैः । हस्तादीनि विचरन् षडृक्षाण्युप-
पीडयन् गवामशुभः । स्नेहरसार्घविवृद्धिं करोति चोर्वीं
प्रभूतान्नाम् । आर्यम्णं १२ हौतभुजं ३ भद्रपदामुत्तरां
यमेशं २ च । चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसङ्क्षय-
कृत् । आश्विनवारुण २४ मूलान्यु पमृद्नन् रेवतीं च चन्द्र-
सुतः । पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः ।
पूर्वाद्यृक्ष ११ । २० । २६ त्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात्
क्षुच्छस्त्रतस्करामयभयप्रदायी चरन जगतः” । इतःपरं तस्य
गतिबिशेषास्तत्राभिहितास्तात्फलञ्च तत्र दर्शितं तच्च
गतिशब्दे २५१५ पृ० दर्शितम् । अध्यायशेषे च ।
“पौषाषाढ़ंश्रावणवैशाखेष्विन्दुजः समाघेषु । दृष्टो भयाय
जगतः शुभफलकृत् प्रोषितस्तेषु । कार्त्तिकेऽश्वयुजि वा
यदि मासे दृश्यते तनुभवः शिशिरांशोः । शस्त्रचौर-
हुतभुगगदतोयक्षुद्भयानि च तदा विदधाति । रुद्धानि
सौम्येऽस्तमिते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम् ।
अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवतीति
तज्ज्ञाः । हेमकान्तिरथ वा शुकवर्णः सस्यकेन मणिना
सदृशो वा । स्निग्धमुर्तिरलघुश्च हिताय व्यत्यये न
शुभकृच्छशिपुत्रः” ।

बुधतनय पु० ६ त० । पुरूरवसि इलाशब्दे दृश्यम् बुधसुतादयोऽप्यत्र ।

बुधतात पु० ६ त० । चन्द्रे शब्दचः ।

बुधरत्न न० बुधप्रियं रत्नं शाक० त० । मरकतमणौ गारुत्मते

राजनि० । ग्रहयज्ञे २७६३ पृ० दृश्यम् ।

बुधवार पु० ६ त० । बुधपतिकदिवसे दिनपशब्दे ३५ ६२ पृ० दृम्यम्

बुधसानु पु० बुध--आनुक् सुक् च । यज्ञपुरुषे पर्णे च संक्षिप्तसा०

बुधा स्त्री बोधयति ज्ञापयति रोगिणं सेवनात् बुध--ज्ञा-

पने क । जटामांस्याम् शब्दच० ।

बुधादित्य पु० बुधसहित आदित्यः । जन्मकाले एकस्मिन्

राशौ बुधादित्ययोर्योगे स च तयोरन्यतरगृह एव
भवतीति सम्प्रदायः ।

बुधान पु० वुध--आनच् किच्च । १ आचार्य्ये पुरौ २ विज्ञे

मेदि० । ३ कवौ जटा० । ४ ब्रह्मवादिनि ५ प्रियवादिनि त्रि०
उणादिकोषः ।

बुधाष्टमी स्त्री० बुधवारयुताष्टमी शाक० त० । चैत्रपौमहरि-

शयभादोतरत्र शुद्धकाले चुधवारयुतार्या १ शुक्लपक्षाष्टम्यां,
२ तत्कर्त्तव्ये व्रते च । तस्याः पूर्व्वत्वहतुः हेमा० व्र०
भविष्योत्तरे उक्तो यथा
“पुरा कृतयुगस्यादौ इलो राजा बभूव ह । बहुभृत्य-
पृष्ठ ४५८७
युतो मित्रमन्त्रिभिः परिवारितः । जगाम हिमवत्-
पार्श्वे महादेवाभिशापतः । योऽसौ प्रविशते भूमौ
स स्त्री मवति निश्चितम् । स राजा मृगसङ्गेन प्रावि-
शतदुमावने । एकाकी तुरगोपेतः क्षणात् स्त्रीत्वं
जगाम ह । सा बभ्राम वने शून्ये पीनोन्नतपयोधरा ।
का त्वं कस्य कुतः प्राप्ता अनुरोधोऽस्ति कश्चन । तां
ददर्श बुधस्तन्वीं रूपौदार्य्यगुणान्विताम् । अष्टम्यां
बुधतारेण तस्यां तुष्टो बुधो ग्रहः । ददौ गृहाश्रमन्तस्या-
मानीयत प्रतीषिताम् । पुत्रमुत्पादयामास योऽसौ ख्यातः
पुरूरवाः । चन्द्रवंशकरो राजा आद्यः सर्वमही-
क्षिताम् । ततः प्रभृति पूज्ये थमष्टमी बुधसंयुता” ।
सा च सम्पूर्णा ग्राह्या न भिन्ना यथोक्तं तत्रैव “बुधाष्टमी
शुभा पूर्णा यथोक्तफलदायिनी” तच्च व्रतषष्टवर्षं कार्य्यं
तत्र भक्ष्यभेदादिकं च तत्रैवोक्तं यथा
“अष्टम्यष्टविधानेन विचित्रान्नैः पृथक् पृथक् ।
षथमा मोदकैर्भक्ष्यैः द्वितीया धानकैस्तथा । तृतीया
घृतपूरैश्च चतुर्थी वटकैर्नृप! । पञ्चमी शुम्रका-
सारैः षष्ठी सोहालकैः शुभैः । अशोकवर्त्तिभिः शुम्रैः
सप्रवीं चातिवाहयेत् । अष्टमी फाणितैः पूर्णेः खण्ड-
वेष्टैर्युधिष्ठिर! ।” तत्र विहितनिषेधकालादि
राजमार्त्तण्डे उक्तं यथा “पतङ्गे मकरे जाते देवे जाग्रति
माधवे । बुधाष्टमीं प्रकुर्वी । वर्जयित्वा तु चैत्रकम् ।
प्रमुप्ते च जगन्नामे सन्ध्याकाले मधौ तथा । बुधाष्टमीं
न कुर्वीत कृता हन्ति पुराकृतमिति” । एतद्व्रतमारब्ध-
ग्रपि चैत्रादौ न कर्त्तव्यं यथाह स्मृतिः “मीने
धनुषि देवेशे सुप्तेऽशुद्धेदिने तथा । बुधाष्टमीं न कुर्वीत
पूर्वविद्धामपि क्वचित्” अशुद्धदिने समयाशुद्धियुक्तदिने ।

बुधित त्रि० भ्वा० बुध--क्त इट् । ज्ञाते अमरः ।

बुधिल त्रि० बुध--किलच् । विदुपि उणादि० ।

बुध्न पु० बन्ध--नक् बुधादेशः । १ मूले अमरः २ शिवे गरतः

३ अन्तरीक्षे ऋ० ४ । १९ । ४ भाष्यम् । “पृथुबुध्नोदरा-
कृतिः” वेदान्तप० । “अर्वाग्बिधश्चमस ऊर्द्ध्व बुधः” शा० भा०
धृता श्रुतिः । निरुक्ते तु बुद्धा अस्मिन् धृता आप इति
अन्तरिक्षं बुध्नम्” तस्य निरुक्तिरुक्ता ।

बुध्न्य पु० बुध्ने मूले भवः तत् । १ गार्हपत्ये अग्नौ “अहिरमि

बुध्न्यः” ताण्डपा० १ । ४ । ११ “अहिरसि हन्ता रक्षःप्रभृतीनां
बुध्न्यः बुध्ने मूले आदौ आधानकाले प्रथमं थातोऽसि”
२ अधरिणभवे ३ रुद्रभेदे च । बुध्ने निवश्चति बुध्न्यः
योऽहिः सः अग्नि बुध्न्यः बुध्नमन्तरीक्षं अन्तरिक्षे च तन्नि-
वासाद्वा” निरु० । “मानोऽहिर्बुध्न्योरिषे” तद्धृता श्रुतिः ।

बुन्द निशामने--भ्वा० उभ० सक० सेट् । बुन्दति ते इरित्

अबुदत् अबुन्दीत् । अबुन्दिष्ट । उदित् क्त्वा वेट् ।
निशामनमालोचनम् प्रणिधानमिति यावत् ।

बुन्ध निशामने भ्व० उभ० सक० सेट् । बुन्धति ते इरित्

अबुधत्--अबुन्धीत् अबुन्धिष्ट । निशामनमालोचनम् ।
उदित् क्त्वा वेट् ।

बुन्ध बन्धे चु० उभ० सक० सेट् । बुन्धयति ते अबुवुन्धत् त ।

बुबुर न० उदके निघण्टो बर्पुरनित्यत्र पाठान्तरम् ।

बुभुक्षा स्त्री० भुज--सन्--भावे अ । भोजनेच्छायां क्षुधायाम्

सा च प्राणधर्मः यथोक्तं शा० ति० “बुभुक्षा च पिपाषा च
प्राणस्य” ऊर्मिशब्दे दृश्यम् । अश्चेऽजीर्णे च सा न
भवति अथ मवति चेत् अनिष्टदा यथोक्तं सुश्रुते “उद्गा-
रशुद्धावपि भक्तकाङ्क्षा न जावते हृद्गुरुता च
नस्य” “सल्पं यदा दोषविवृद्धमामं लीनं न तेजः
पथग्रावृणोति । भवत्यजीर्णेऽपि तदा पुमुक्षा षा मन्दबुद्धिं
विषवन्निहन्ति” । छवादि० शीलार्थे अण् । बौभुक्षतच्छीले त्रि०

बुभुक्षित त्रि० बुभुक्षा + तार० इतच् । क्षुधायुक्ते “बुभुक्षितः

किं द्विकरेण भुङ्क्ते” इत्युद्भटः ।

बुल मज्जने चु० उभ० अक० सेट् । बोकयति ते अबुबुसत् ।

बोलयति प्लवः पयसि मज्जतीत्यर्थः ।

बुलि स्त्री तदा० बुड--इन् किच्च डश्य सः । भवे हेमच० ।

बुल्व त्रि० बुल्--न उला० नि० । तिरश्चिने शत० ब्रा० ।

११ । ५ । ४ । १४ ।

बुष(स) न० बुस्यते उत्सृज्यते बुस--उत्सर्गे च पृषो० वा

षत्वम् । (आगडा) १ तुच्छवान्ये फलरहितधान्ये
अमरः । अयं बोपधः २ उदके वेदनिघण्टुः ततः तृणा-
चतुरर्थ्यां स । बुसस तत्समीपादौ त्रि०। पृषो०
दीर्थः बूसमप्यत्र ।

बुस उत्सर्गे दि० पर० सक० सेत् । बुस्यति । इरित् अबुसत् अबोसीत् बुबीस

बुस्त आदरे अतादरे च चु० उभ० सक० सेट् । बुस्तयति ते

अबुबुस्तत् त ।

बुस्त न० बुस्त्यते नाद्रियते आद्रियते वा बुस्त--घञ् । १

पतसादिफलस्य त्याज्ये अंशे (बुथि) २ मांसपिष्टकभेदे च
अमरभरतौ ।

बूक्क न० बुक्क + पृषो० दीर्घः । बुक्कशब्दार्थे रमानाथः ।

बुवदुक्थ ब० पदे विष्ण्टुः ।

पृष्ठ ४५८८

बुषी स्त्री ब्रुवन्तोऽस्यां सीदन्ति पृषो० ब्रुवी बृ सद--ड गौरा०

ङीषत्रञ्च । ऋषीणामासने अमरः ।

बृ(वृ)ह वृद्धौ भ्वादि० पर० अक० सेट् ब(व)र्हति अब(व)-

रीत् । इरित् इत्येके तेन अबृ(वृ)हदित्यपि ।
कविकल्पद्रुमे बृहधातुमात्रस्य अन्त्यस्थादित्वमुक्तम्” मेदि०
“प्रोक्षितं निहते सिक्ते बृहती वसनान्तरे । छन्दोभित्-
क्षुद्रवार्त्ताकीवारिधानीषु वाचि च । काण्टकारिभह-
त्योश्च” “ब्रह्मतत्त्वतपोवेदे न द्वयोः पुंसी बेधसि” ।
ऋत्विग्योगभिदोर्विप्रे बन्धनं बधबन्धयोः” । वृहप्रकृति-
वृहती ब्रह्मशब्दयोः ओष्ठ्यादितयोक्तत्वादस्य उभया-
दित्वम् ।

बृ(वृ)हक पु० बृ(वृ)ह--क्वुन् । देवगन्धर्वभेदे भ० आ० १२३ अ०

बृ(वृ)हच्चञ्चु पु० ६ ब० । महाचञ्चुशाके राजनि० ।

बृ(वृ)हच्चित्र पु० ७ ब० । फलपूरे वीजपूरे शब्दच० ।

बृ(वृ)हच्छल्क पु० ६ ब० । चिङ्गटमत्स्ये जटा०।

बृ(वृ)हच्छ्रवस् त्रि० ६ ब० । महायशस्के भाग० १ । ४ । १ ।

बृ(वृ)हज्जातक न० कर्म० । वराहमिहिरकृते जातकग्रन्थभेदे ।

बृ(वृ)हज्जाबाल पु० कर्म० । उपनिषद्भेदे उपनिषच्छब्दे

दृश्यम् ।

बृ(वृ)हज्जीवन्ती स्त्री कर्म० । महाजीवन्त्याम् राजनि० ।

बृ(वृ)हड्ढक्का स्त्री कर्म० । १ भेरीवाद्ये जता० ।

बृ(वृ)हत् त्रि० बृह--अति शतृवत् कार्य्यम् । १ महति स्रियां

ङीष् । सा च २ उत्तरीयभेदे नवाक्सरपदके ३ छन्दोभेदे
४ क्षुद्रवार्त्ताक्यां ५ बारिधान्यां ६ वाचि ७ कण्टकार्य्याञ्च स्त्री
मेदि० । ८ विष्णौ पु० । “अणुर्बृ(वृ)हन् कृशः स्थूलः”
विष्णुस० । आच्छादनपरत्वे कन् । वृहतिका उत्तरीवस्त्रे
अमरः । स्वार्थे क । वृहतीशब्दे च स्त्री ।

बृ(वृ)हतीपति पु० बृ(वृ)हत्या वाचः पतिः । पारस्करा०

“तद्बृहत्योः करपत्योश्चौरदेवयोः” वार्त्ति० देवतायामेव
सुट् तलोपश्च नान्यत्र वाक्पतौ हेमच० ।

बृ(वृ)हत्क त्रि० बृहत्प्रकारः कन् । बृहत्प्रकारे

बृ(वृ)हत्कथा स्त्री वररुचिप्रणीते कथाभेदे ।

बृ(वृ)हत्कन्द पु० ६ ब० । १ गृञ्जने रत्नमाला । २ विष्णुकन्दे

राजनि० ।

बृ(वृ)हत्कर्म्मन् त्रि० ६ त० । १ महाकर्मयुते २ बृहदश्वपुत्रभेदे पु० हरिवं० ३१ अ०

बृ(वृ)हत्काय पु० आजमीढवंश्ये नृपभेदे भाग० २१ । १७ ।

६ ब० । २ महादेहे त्रि० ।

बृ(वृ)हत्कालशाक पु० नित्यक० । वृहति (कालकासुन्धिया) शाकभेदे त्रिका० ।

बृ(वृ)हत्कास पु० नित्यक० । खड्गटे तृणभेदे हारा० ।

बृ(वृ)हत्कीर्त्ति त्रि० ६ ब० । १ महाकीर्त्तियुक्ते २ आङ्गिरसा-

ग्निपुत्रभेदे पु० भा० व० २१७ अ० । ३ असुरभेदे पु० हरिवं० ४२ अ०

बृ(वृ)हत्कुक्षि त्रि० ६ ब० । तुन्दिले अमरः ।

बृ(वृ)हत्केतु त्रि० ६ ब० । १ महाध्वजयुते । २ राजभेदे पु० भा० अ० ६ अ० ।

बृ(वृ)हत्क्षत्र पु० आजमीढ़वंश्ये नृपभेदे भाग० ९ । २६ ।

बृ(वृ)हत्ताल पु० नित्यक० । हिन्तालवृक्षे राजनि० ।

बृ(वृ)हत्तिक्ता स्त्री वृहन् तिक्तो रसोऽस्याः । पाठायाम्

राजनि० ।

बृ(वृ)हत्तृण पु० ६ ब० । वंशे शब्दच० ।

बृ(वृ)हत्त्वच् पु० ६ ब० । (छातिम) वृक्षभेदे रत्नमा० ।

बृ(वृ)हत्पत्र त्रि० ६ ब० । १ महापत्रयुक्ते वृक्षे २ हस्तिकन्दे

राजनि० । ३ त्रिपर्णिकायां स्त्री राजनि० ।

बृ(वृ)हत्पाटलि पु० नित्यक० । धूस्तूरे त्रिका० ।

बृ(वृ)हत्पाद त्रि० ६ ब० । १ महाचरणयुक्ते वृक्षे २ वटवृक्सेपु० शब्दच०

बृ(वृ)हत्पारेवत न० कर्म० । महापारेवते राजनि० ।

बृ(वृ)हत्पालिन् पु० बृ(वृ)हन्तं पालयति पालि--णिनि ।

वनजीरके राजनि० ।

बृ(वृ)हत्पीलु पु० नित्यकर्म० । महापीलौ राजनि० ।

बृ(वृ)हत्पुष्पी स्त्री ६ ब० ङीप् । १ घण्ठारववृके जटा० ।

२ महापुष्पयुतवृक्षमात्रे त्रि० स्त्रियां टाप् ।

बृ(वृ)हत्फल त्रि० ६ ब० । १ महाफलयुते । २ कटुतुम्ब्यां

३ माहेन्द्रवारुण्यां ४ कुष्माण्ड्यां ५ महाजम्बूवृक्षे च स्त्री
टाप् राजनि० ।

बृ(वृ)हत्संहिता स्त्री वराहमिहिरप्रणीते ज्योतिषग्रन्यभेदे ।

बृ(वृ)हत्समन् न० नित्यक० । सामभेदे तच्च साम “त्वा-

मिद्धि हवामहे” इत्यस्यामृचि गेयं तच्च तुलादानादि-
पद्धतावस्माभिः १९१ । ९२ पृ० दर्शितम् । “वामदेव्यं
बृ(वृ)हत्साम ज्येष्ठसाम रथन्तरम्” सामगद्वारपाल-
पाठ्यतया विधानपारि० उक्तम् । “बृ(वृ)हत्साम तथा
साम्नाम्” गीता । तच्च साम ब्रह्मप्रतिपादकमिति
तद्भाष्यकारेणोक्तं समर्थितञ्चानन्दगिरिणा “इन्द्रः सर्वे-
श्वरत्वेनानेन स्तूयते इति तस्य श्रैष्ठ्यमिति” ।

बृ(वृ)हत्सेन त्रि० ६ ब० । १ महासेनायुक्ते । २ बार्हद्रथ-

वंश्ये भाविनि नृपभेदे पु० भाग० ९ । २३ । ३ । ३ मागघ-
देशीये नृपभेदे भा० आ० ६७ अ० । कर्म० । ४ महत्यां
सेनायां स्त्री ।
पृष्ठ ४५८९

बृ(वृ)हदग्नि पु० ६ ब० । १ नानाविधाग्नियुते ततः गोत्रा

पत्ये गर्गा० घञ् । बार्हदग्न्य तदपत्ये तस्य छात्राः
कण्वा० अण् यलोपः । बार्हदग्न तस्य छात्रेषु ब० व०
सि० कौ० ।

बृ(वृ)हदङ्ग पुंस्त्री ६ ब० । १ जगे शब्दच० २ महाकाये त्रि० । स्त्रियां स्वाङ्गत्वात् ङीष् ।

बृ(वृ)हदम्बालिका स्त्री कुमारानुचरमातृभेदे भा० शा० ४७ अ०

बृ(वृ)हदम्ल पु० वृहन् अम्लो रसोऽस्त्य । (कामराङा)

कामरङ्गे शब्दच० ।

बृ(वृ)हदश्व पु० १ ऋषिभेदे भा० व० ५३ अ० । ३ श्रावस्त्यस्य पुत्रे नृपभेदे हरिवं० ११ अ० ।

बृहदारण्यक न० । उपनिषद्भेदे ।

बृहदिषु पु० आजमीढपुत्रे १ नृपभेदे हरिवं० २० अ० ।

हर्व्यश्चवंश्ये २ नृपभेदे च ६२ अ० ।

बृ(वृ)हदुक्थ न० कर्म० । १ महति उक्थे २ अग्निवंश्ये तपस्य

पुत्रे २ अग्निभेदे पु० भा० व० २१९ अ० । “बृ(वृ)ह-
दुक्थोह वै वामदेव्याः” शत० व्रा० ३ । २ । २ । १४ । तदुक्-
थ्येन साध्ये २ यज्ञे अश्वमेधे पु० ।

बृ(वृ)हदुक्ष पु० १ जगत्सृष्टिकारके २ प्रजापतौ च यस्मु० ८ । ८ । वेददीपे दृश्यम् ।

बृ(वृ)हदुत्तरतापनी स्त्री कर्म० । उपनिषद्भेदे ।

बृ(वृ)हदेला स्त्री कर्म० । स्थूलैलायां राजनि० ।

बृ(वृ)हद्गर्भ पु० शिविनृपपुत्रे यो हि ब्राह्मणभोजनार्थं प्रज्ञाप्य

संस्कृतः पुनरपि जीवितः तत्कथा भा० व० ११७ अ० ।

बृ(वृ)हद्गु पु० राजभेदे भा० आ० ६ अ० ।

बृ(वृ)हद्(गु)गृह पु० कारूषदेशे हेमच० स च देशः बिन्ध्य-

पर्वतस्य पश्चात्त्यमालवदेशसमीपे स्थितः (वृहद्गुह) इति
त्रिकाण्डशेषः ।

बृ(वृ)हद्गोल न० नित्यक० । (तरमुज) फलप्रधानवृक्षे शब्दच० ।

बृ(वृ)हद्दर्भ पु० कक्षेयुवंश्ये नृपभेदे हरिवं० ३२ अ० ।

बृ(वृ)हद्दल पु० ६ ब० । १ हिन्ताले २ पट्टिकालोष्ट्रे च राजनि०

बृ(वृ)हद्द्युम्र पु० नृपभेदे मा० व० १३८ अ०

बृ(वृ)हद्धनुस् पु० आजमीढवंश्ये नृपभेदे हरिवं० २० अ० । महाचापयुते त्रि०

बृ(वृ)हद्धर्म्मन् पु० आजमीढ़वंश्ये नृपभेदे । हरिवं० २० अ० ।

बृ(वृ)हद्धर्म्मपुराण न० उपपुराणभेदे ।

बृ(वृ)हद्धन त्रि० बृहत्धनमस्य । १ महाधने २ इक्ष्वाकुवंशे

नृपभेदे पु० हरिवं० १५ अ० ।

बृ(वृ)हद्धल न० कर्म्म० । महालाङ्गले त्रिका० ।

बृ(वृ)हद्ब्रह्मन् पु० आङ्गिरसे ऋषिभेदे । “ब्रह्मणो यस्तृती-

यश्चू पुत्रः कुरुकुलोद्वहः! । तस्यामवत् सुता भार्य्या प्रजा-
स्तस्यां च मे शृणु । वृहत्कीर्त्तिर्वृहज्ज्योतिर्वृहद्-
ब्रह्मा वृहन्मनाः । बृहन्मन्त्रो बृहद्भासस्तथा राजन्!
बृहस्पतिः” भा० व० २३७ अ० । वृहज्ज्योतिरादयस्तत्पुत्रे

बृ(वृ)हद्भट्टारिका स्त्री० कर्म० । दुर्गायां शब्दमाला ।

बृह(वृ)द्भय पु० सावर्णिमनोः पुत्रभेदे मार्कण्डेयपु० ९३ अ० ।

बृ(वृ)हद्भानु पु० ६ ब० । १ अग्नौ २ चित्रकवृके च अमरः ।

३ आङ्गिरसे वह्निभेदे भा० ब० २२० । इन्द्रसावर्णिमन्वन्तरे
४ हरेरवतारभेदे भाग० ८ । १३ अ०

बृ(वृ)हद्रण पु० इक्ष्वाकुवंश्ये भाविनि नृपभेदे भाग० ९ । १२ । ६ ।

बृ(वृ)हद्रथ पु० मौर्य्ये १ नृपभेदे भाग० १२ । १ । २ आङ्गिरसे

वह्नेः पुत्रभेदे भा० २१९ ३ मागधराजभेदे जरासन्धताते
हरिव० ३ अ० । ३ चिदिराजवसोःपुत्रभेदे हरिवं० ११७ अ० ।

बृ(वृ)हद्रथन्तर न० सामभेदे १ आङ्गिरसवंश्ये वह्निभेदे

भा० व० २१९ अ० ।

बृ(वृ)हद्राज पु० इक्ष्वाकुवंश्ये भाविनि नृपभेदे भाग० ९ । १ । २

बृ(वृ)हद्राविन् पु० बृहत् यथा तथा रौति रु--णिनि ।

क्षुद्रोलुके राजनि० ।

बृ(वृ)हद्रूप पु० मरुद्गखभेदे हरिवं० २०४ अ० ।

बृ(वृ)हद्वत् पु० बृहत् बृहत्साम तदस्यास्ति स्तोत्रतया

मतुप् मस्य वः । बृहत्सामस्तोत्रस्तुत्ये इन्द्रे मनु० ७ । २२
२ तत्साध्ये यज्ञे च ३ नदीभेदे स्त्री ङीप् भा० भी० ९ अ० ।

बृ(वृ)हद्वल्क पु० ६ ब० । पट्टिकालोध्रे राजनि० ।

बृ(वृ)हद्वात पु० ७ ब० । अश्मरीहरे धान्यभेदे (देवान) रत्नमा०

बृ(वृ)हद्वारुणी स्त्री कर्म० । महेन्द्रवारुण्याम् राजनि० ।

बृ(वृ)हद्वीज ६ ब० । महाष्टियुते आम्रातवृक्षे शब्दच० ।

बृ(वृ)हन्नल पु० बृहन्नलेति आख्यात्वेन् अस्त्यस्य अच् ।

अर्जुने हेमच० “आदाय प्रययौ वीरः स वृहन्नलसारथिः”
भा० वि० ३७ अ० । “अर्जुन उवाच । प्रतिज्ञा षण्डको-
ऽस्मीति करिष्यामि महीषते! । ज्याघातौ हि महान्तौ
मे संवर्त्तुं नृप! दुष्करौअ । बलयैश्छादयिष्यामि बाहू
किणकृताविमौ । कर्णयोः प्रतिमुच्याहं कुण्डले ज्वल-
नप्रभे । पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः ।
वेणीकृतशिरा राजन्! नाम्ना चैव वृहन्नल” इति तस्य
च अज्ञातवासकाले तथाख्यत्वम् भा० वि० १३ अ० उक्तम् ।

बृहन्नारदीय न० उपपुराणभेदे ।

बृहन्नारायणोपनिषद् स्त्री० उपनिषद्भेदे ।

बृहन्नौका स्त्री० चतुरङ्गशब्दोक्ते क्रीड़नभेदे । चतुरङ्गशब्दे दृश्यम् ।

बृहस्पति पु० बृहत्या वाचः पतिः पारस्करा० गुडादिवृहती-

पतिशब्दे दृश्यम् । आङ्गिरसे १ मुनिमेदे बृहद्ब्रह्मनुशब्दे
दृश्यम् । २ देवपुरोहिते ३ ग्रहभेदे च । तस्य गतिभग-
पृष्ठ ४५९०
णादिकं खगोलशब्दे दर्शितम् । तच्चारश्च गुरुवर्षशब्दे
२६२१ पृ० तस्य ग्रहत्वप्राप्तिकथा गुरुशब्दे दृश्या ।

बृहस्पतिचक्र न० वृहस्पतेः सञ्चारकाले नराकारचक्रस्य

मूर्द्धादिषु स्वनक्षत्रस्य पातेन शुभाशुभसूचके चक्रभेदे तच्च
ज्यो० त० उक्तं यथा “शीर्षे चत्वारि रान्त्यं जलधिरपि
करे दक्षिणे चापि सोख्यं चैकं कण्ठे विभूतिं
मदनशरमितं वक्षसि प्रीतिसिद्धिम् । पादस्याः षट् च पीड़ां
पुनरपि जलधिर्वामहस्ते च मृत्युं नेत्रे त्रीणि प्रदद्युः
सुखमथ निजभे बाक्पतेः संक्रमर्ध्यात्” ।

बृहस्पतिपुरोहित पु० ६ ब० १ इन्द्रे २ देवमात्रे च यजुः २ । ११

बृहस्पतिवार पु० ६ ब० । जीवाभिपत्ययुक्ते दिने तदानय-

नादिकं दिनपशब्दे दृश्यम् ।

बृहस्पतिसव पु० यज्ञभेदे “वाजपेयेनेष्ट्वा राज्ञा राजसूयेन

यजेत ब्राह्मणो बृहस्पतिसयेन” आश्व० श्री० ९ । ९ ।

बृ(वृ)हस्पतिस्तोम पु० यज्ञभेदे ताण्ड्य० २५ । १ । १ ।

बॄ वृत्यां भृतौ च क्य्रा० प्वा० पर० सक० सेट् । बृ(वॄ)णाति

अवारीत् बबार बरि(री)ता बिबरी(रि)षति बुबूर्षति बूर्णः ।

बेकनाट पु० बे इत्यपभ्रंशः द्वित्वबोधकः एकं गुणं द्रव्यमृणिकाय

दत्त्वा द्विगुणं मह्यं देयमिति समथैन नाटयति व्यावहरिति
नाटि--अच् वे एकशब्दयोः पृषो० षेकमावः । कुषीदिनि
ऋ० ८ । ६६ । १० भाष्ये दृश्यम् ।

बेकुरा स्त्री वाचि निघण्टु ।

बे(वे)ह प्रयत्ने भ्वा० आत्म० सक० सेट् । बे(वे)हते

अश्ववे(वे)हिष्ट बे (वे)हे । ऋदित् चङि न ह्रस्यः ।

बोकड़ी स्त्री वस्तान्त्र्यां राजनि० ।

बोध पु० बुध--भावे घञ् । १ ज्ञाने त्रिका० । २ ज्ञागरे च

३ देशभेदे भा० भी० ९ अ० ।

बोधक त्रि० बुध--णिच् ण्वुल् । १ ज्ञानजनके बोधकरे सूचके वैतालिके शब्दमा० ।

बोधकर त्रि० बोधं ज्ञानं जागरणं वा करोति कृ--ट ।

१ ज्ञानकारके निशान्ते जागरणकारके २ वैतालिके च अमरः

बोधन ब० बुध--णिच्--ल्युट् । १ विज्ञापने कालवशात् गन्धा-

देर्न्यूनतायां २ तद्गद्दीपने ३ जागरणे च । “शयनं बोधनं
हरेः” इति पुराणम् । “सावाह्ने बोधनं कुर्य्यात्”
इति स्मृतिः । देवीबोधनकालादिः ति० त० प्रदर्शितो यथा
लिङ्गपुराणम् “कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे
दिवा । भवम्यां बोधयेद्देवीं महाविभवविस्तरैः” “इषे
मास्यसिते पक्षे नवम्यामार्द्रयोगतः । श्रीवृक्षे
दोषयामि त्वां यातव पूजां करोत्यहम् । ऐं राबणस्य
बधार्थाय रामस्यानुग्रहाय च । अकाले ब्रह्मणा बोधौ
देव्यास्त्वयि कृतः पुरा” इति मन्त्रलिङ्गञ्च । अकाल
इति तु रात्रित्वेन दक्षिणायनस्य तथा च श्रुतिः
“तपस्तपस्यौ शिशिरावृतुः । मधुश्च माघवश्च
वासन्तिकावृतुः । शुक्रश्च शुचिश्च ग्रैष्मावृतुः । अथैतदुत्त-
रायणं देवानां दिनं, नमाश्च नमस्यश्च वार्षिकावृतुः
इषश्च ऊर्जश्च शारदावृतुः । सहाश्च सहस्यश्च हैमन्तिका-
वृतुः । अथैतद्दक्षिणायनं दैवानां रात्रिः” इति एवञ्च
“रात्रावेव महामाया ब्रह्मणा बोधिता पुरा । तथैव च
नराः कुर्य्युः प्रतिसंवत्सरं नृप!” इति अस्याप्येतद्वि-
षयत्वम् । अतएव लिङ्गपुराणे दिवेत्युक्तम् । एवञ्च कालि-
कापुराणेऽपि बोधने रात्राविति पदं देवतारात्रिपरम् ।
ततश्च पूर्वाह्णे नवम्यामार्द्रानक्षत्रयुक्तायां बोधनं पूर्वा-
ह्णेतरकाले आर्द्रालाभे नवम्यामार्द्रभे दिवेत्यत्र दिवा-
पदात् तत्रापि बोधनम्, अन्यया दिवापदं व्यर्थं
स्यादिति । ज्योतिपार्णये व्यक्तमुक्तं वराहेण “कन्या-
दिमीनपर्थ्यन्तं यत्र संप्राप्यते शिवः । तत्र बोधः प्रक-
र्त्तिव्यो देव्या राज्ञा शुभप्रदः” । शिव आर्द्रा । एवच्चोम्भ्य
दिने पूर्वाह्णे नवमिलामे परत्रार्द्रालाभे परत्र बोधनं
न युग्मात् पूर्वत्र, युम्मबाधकपूर्वाह्णस्य बाधकबशत्रा-
नुरोधात् दिवानक्षत्रालाभे तु पूर्वाहु एव नवम्याम्
उभयत्र पूर्वाह्णलाभे तु पूर्वदिन एव युस्मात् । अत्र
केवलनवम्यां बोधनविधेर्नक्षत्रस्यापि गुणफलत्वाच्च ।
“माघे वा फाल्गुने वापि भवेद् वै माथसप्तमी ।
माकरीति च यत् प्रोक्तं तत् प्रायो वृत्तिदर्शनात्” इति
सौरागमान्माकरीतिवत् आर्द्रायोगतः इत्यस्य प्रायिक-
त्वेनाभिधानं प्रतीयते । ततश्चार्द्रारहितबोधने मन्त्रा-
न्तरानुपदेशात् तद्युक्तमन्त्रः प्रणवयुक्तत्वेन प्रयुज्यते ।
“यन्न्यूनञ्चातिरिक्तञ्च यच्छ्रिद्रं यदयज्ञियम् ।
यदमेध्यमशुद्धञ्च यातयामञ्च यद् भवेत् । तदोङ्कारप्रयुक्तेन
सर्वञ्चाविकलं भवेत्” इति योगियाश्यवचनात् । षर्ष्ठ
कोधनेऽप्येवं नवभ्यां बोधनासामर्थ्ये तु षष्ठ्यां साय
बोधनं यथाह भविष्ये “षष्ठ्यां बिल्वतरौ बोधं सायं
सन्ध्यासु कारयेत्” । सन्ध्योक्ता वराहमिहिरेण
“अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत्” ।
षष्ठ्यां बोधने तु प्रागुक्तः “ॐ रावणस्य बवार्थाय”
इति “अहमप्याश्विने षष्ठ्यां सायाह्ने बोधयाम्यतः”
इति च पठेत् । अव बोधनामन्त्रणयोः पृथक्म्बं तत्-
पृष्ठ ४५९१
प्रकाशकमन्त्रभेदात् अत्र बोघनमन्त्राबुक्तावेव
आमन्त्रणमन्त्रौ तु “मेरुमन्दरकैलासहिमवच्छिखरे गिरौ” ।
इत्यादी प्रागुक्तदेवीपुराणे नवमीषष्ठ्योर्बोधनामन्त्रणयोः
पृथक्त्वाभिधानाच्च । ततश्च षष्ठ्यामुभयकरणेऽपि पत्री-
प्रवेशपूर्वदिने सायंषष्ठीलाभे एकदैवोभयकरणम् ।
यदा तु पूर्वदिने सायंषष्ठीलाभः न परदिने सायंषष्ठी-
लाभः तदा पूर्वेद्युर्बोधनं परदिने सायमामन्त्रणम् ।
यदा तूभयदिने सायंषष्ठ्यलाभस्तदा परदिने पूर्वाह्णे
षष्ठ्यां बोधनं “बोधयेद् बिल्वशाखायां षष्ठ्यां देवीं
फलेषु च । सप्तम्यां बिल्वशास्वां तामाहृत्य प्रतिपूज्ययेत्” ।

बोधनी स्त्री बोध्यतेऽनया अत्र वा बुध--णिच्--करणे आधारे

वा ल्युट् । १ पिप्पल्यां तया हि मूर्च्छ्रितो बोध्यते । २
कार्त्तिकशुक्लैकादश्यां तत्र हि हरेर्बोधनम् । “शयनीबोधनी-
मध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या
कृष्णा कदाचन” इति तिथ्यादित० । “तावद्गर्जन्ति
तीर्थानि वाजिमेधादयो मखाः । मथुरायां प्रिया विष्णो-
र्यावन् नायाति बोधनी” हरिभक्तिविलासे पद्मपु० वचनम् ।

बोधवासर पु० ६ त० । १ हरिबोधनदिने कार्त्तिकशुक्लैका-

दश्याम् २ तत्कर्त्तव्ये व्रते च । “जन्मप्रभृति यत् पुण्यं
नरेणोपार्जितं भुवि । वृथा भवति तत् सर्वं न कृत्वा
बोधबासरम्” हरिभक्तिविरसधृतस्कन्दपु० ।

बोधान त्रि० बुध--आनच् । १ विज्ञे २ गीष्पतौ शब्दर० ।

बोधि पु० बुध--इन् । १ समाधिभेदे २ पिप्पलवृक्षे ३ बुद्धभेदे

मेदि० ४ बोधे त्रिका० । ५ ज्ञातरि त्रि० ।

बोधितरु पु० कर्म० । अश्वत्थवृक्षे हेमच० । बोधिद्रुमादयोऽप्यत्र पु०

बोधिसत्त्व न० बोधि बोधयुतं सत्त्वम् । बुद्धभेदे हेमच० ।

बौद्ध न० बुद्धेन प्रोक्तमण् । १ बुद्धशास्त्रभेदे तच्च शास्त्रं प्रथमं

वृहस्पतिना प्रयुक्तं तच्च बुद्धावतारे प्रपञ्चितम् । यथोक्तं
मत्स्यपु० २४ अ० ।
“आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च । रजिर्दम्भो
विपाप्मा च वीराः पञ्च महारथाः । रजेः पुत्रशतं
जज्ञे राजेयमिति विश्रुतम्” इत्युपक्रमे “रजिपुत्रैस्तदा-
छिन्नं षलादिन्द्रस्य वैभवम् । यज्ञभागश्च राज्यञ्च तपोबल
गुणान्यितैः । राज्याद् भ्रष्टस्तदा शक्रो रजिपुत्रैर्निपी-
ड़ितः । प्राह वाचस्पतिंदीनः पीड़ितोऽस्मि रजेः सुतैः ।
न यज्ँअभागो राज्यं मे निर्जितश्च बृहस्पते! । राज्य-
लाभाय मे यत्नं बिधत्स्व धिषणाधिप! । ततो बृहस्पतिः
शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टि-
केन च कर्मणा । गत्वाथ मोहयामास रजिपुत्रान् बृह०
स्पतिः । जिनधर्मं समास्थाय वेदबाह्यं स वेदवित् ।
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान्
परिज्ञाय हेतुवादसमन्वितान् । जघान शक्रो वज्रेण सर्वान्
धर्मबहिष्कृतान्” । तदधीते वेत्ति वा पुनः अण् । २ तच्छ-
त्राध्यायिनि ३ तद्वे त्तरि च त्रि० । बुद्धशब्दे तन्मतं दर्शितम् ।

बौध पु० बुधस्यायम् शैषिकोऽण् । बुधात्मजे पुरूरवसि हेम० ।

बौधायन पु० बोधस्य गोत्रापत्यम् आङ्गिरसभिन्नम् इञ् ।

ततो यूति इञन्तत्वात् फक् । यूनि बोधगोत्रापत्ये
ऋषिभेदे तेन च कल्पसूत्रसुपस्मृतिश्च कृता ।

बौधि पु० बोधस्य गोत्रापत्यमाङ्गिरसभिन्नम् इञ् । बोधस्यगो-

त्रापत्ये आङ्गिरसभिन्ने आङ्गिसे तु यञ् । बौध्य इत्येव

बौध्य पु० वोधस्य गोत्रापत्यमाङ्गिरसः यञ् । आङ्गिरसे

बोधगोत्रापत्ये तद्गीता च भा० शा० १७८ अ० दर्शिता यथा
“बौध्य उवाच । “उपदेशेन वर्त्तामि नानुशास्मीह कञ्चन ।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृश्यताम् ।
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने । इषुकारः
कुमारी च षड़ेते गुरवो मम” । भीष्म उवांच “आशा-
बलवती राजन्नैराश्यं परमं सुखम् । आशां निराशां
कृत्वा तु सुखं स्वपिति पिङ्गला १ । सामिषं कुररं दृष्ट्वा
बध्यमानं निरामिषैः । आमिषस्य परित्यागात् कुररः २
सुखमेधते । गृहारम्भो हि दुःखाय न सुखाय
कदाचन । सर्पः ३ परकृतं वेश्म प्रविश्य सुखमेधते । सुखं
जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः । अद्रोहेणैव
भूतानां सारङ्गा ४ इव पक्षिणः । इषुकारो ५ नरः कश्चि-
दिषावासक्तमानसः । समीपेनापि गच्छन्तं राजानं
नावबुद्धवान् । बहूनां कलहो नित्यं द्वयोः सङ्कथनं
ध्रुवम् । एकाकी विचरिष्यामि कुमारीशङ्खको ६ यथा” ।
बोधो देशभेदोऽभिजनोऽस्य शण्डिक्या० ञ्य । पित्रादि-
क्रमेण २ तद्देशवासिनि त्रि० ।

ब्य(व्य)ध ताड़ने दिवा० पर० सक० अनिट् बि(वि)व्यति

अभ्या(व्या)त्सीत् बि(वि)व्या(व्या)ध वर्ग्यादित्वे सनि
बिभ्यत्सति ।

ब्युष उत्सर्गे विभागे च चु० उभ० सक० सेट् । व्याषयति--ते अबुव्युषत् त ।

ब्र(व्र)ण शब्दे भ्वा० पर० अक० सेट् । (ब्र)व्रणति । अब्र(ब्र)-

णित्--अ(ब्र)ब्राणीत् । कविकल्पद्रुमेऽयमन्त्यस्थादि ।
पृष्ठ ४५९२

ब्रध्न पु० बन्ध--नक् ब्रधादेशः । १ सूर्य्ये २ अर्कवृक्षे अमरः ।

३ शिवे हेमच० । ४ दिने ५ अश्वे निघण्टुः ६ ऋषिभेदे
तस्य गोत्रापत्यम् कुञ्जा० च्कञ् । ब्रान्धायन तद्गोत्रा-
पत्ये पुंस्त्री० । ७ भौत्यमनोः पुत्रभेदे मार्कपु० १०० अ० ।
८ रीगभेदे “अभ्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः ।
करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु । ज्वर-
शूलाङ्गसादाद्यं तं व्रध्नमिति निर्दिशेत्” माधवनि०

ब्रध्नश्व पु० नृपभेदे भा० व० ९८ अ० ।

ब्रह्मकन्यका स्त्री ६ त० । १ सरस्वत्यां त्रिका० (वामनहाटी)

२ ब्राह्न्यां राजनि० ।

ब्रह्मकर्मन् न० ब्रह्मविहितं कर्म० ।

१ वेदविहिते कर्मणि भा० उ० ३९ अ० । २ ईश्वरार्पितकर्मफलेत्रि०

ब्र(व्र)ह्मकर्मसमाधि पु० व्रह्मणि समाधिः “ब्रह्मार्पणं

ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्त-
घ्यम् ब्रह्मकर्मसमाधिना” गीतोक्ते सर्वकर्मणां कर्त्त्राद्यङ्क
जातस्य ब्रह्मरूपेण चिन्तने ।

ब्र(व्र)ह्मकुण्ड न० ब्रह्मनिर्मितं कुण्डम् शा० त० । सरोवरभेदे

तदाविर्भवकथा ।
“पाण्डुनाथस्योत्तरस्यां व्रह्मकुण्डाह्वयं सरः । ब्रह्मणा
निर्मिनं पूर्वं स्नानाय स्वर्गवासिनाम् । आयामेन
शतघ्यामं विस्तीर्णेन तदर्द्धकम् । सर्वपापहरं पुण्यं
देवलोकात् समागतम्” तत्र स्नानमन्त्रः । “कमण्डलु
समुड्भूतः ब्रह्मकुण्डामृतस्रव! । हर मे सर्वपापानि पुण्य
स्वर्गञ्च साधय । इत्यनेन तु मन्त्रेण स्नायात् तस्मिन्
सरोजले । पाण्डुनाथञ्च संपूज्य विष्णुसायुज्यमाप्नुयात् ।
ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् । ब्रह्मकूटं
समारुह्य मुक्तिमेवाप्नुयान्नरः” कालिकापु० ८१ अ० ।

ब्र(व्र)ह्मकूट पु० पर्वतभेदे ब्रह्मकुण्डशब्दे दृश्यम् ।

ब्र(व्र)ह्मकूर्च न० “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशे-

षतः । पञ्चगव्यं पिषेत् प्रातः ब्र(व्र)ह्मकूर्चमिति स्मृतम्”
इत्युक्ते १ पञ्चगव्यपानरूपे व्रतभेदे । २ कुशोदकसहित
पञ्चगव्ये च नारसिंहपु० “पञ्चगव्येन देवेशं यः स्नाप-
यति भक्तितः । ब्रह्मकूर्चविधानेन विष्णुलोके महीयते”
“ब्र(व्र)ह्मकूर्चविधानेन कुशोदकयुक्तेन” देव० प्र० त० रघु०
प्रायश्चित्ताङ्ग ब्र(व्र)ह्मकूर्चप्रमाणादि तुलादानादि-
पद्धतौ २२६१ पृ० अस्माभिर्दर्शिम् ।

ब्र(व्र)ह्मकृत् त्रि० ब्र(व्र)ह्म तपः करोति कृप् । १ तपःकर्त्तरि

२ विष्णौ पु० “ब्र(व्र)ह्मण्यो ब्र(व्र)ह्मकृत् ब्रह्मा” विष्णुस०

ब्र(व्र)ह्मकृत त्रि० ३ त० । ब्रह्मणा कृते । ततः शुभ्रा० अपत्ये

ढक् । ब्राह्मकृतेय तदपत्ये पुं स्त्री० ।

ब्र(व्र)ह्मकोशी पु० ब्र(व्र)ह्मणः कोशीव । अलमोदायाम् राजनि० ।

ब्र(व्र)ह्मगर्भ स्त्री ब्र(व्र)ह्मव गर्भोऽस्य । आदित्यभक्ताया

राजनि० ।

ब्र(व्र)ह्मगार्ग्य पु० ऋषिभेदे हरिवं० १५९ अ० ।

ब्र(व्र)ह्मगिरि पु० कामाख्यानिलयपूर्वस्यां स्थिते गिरिभेदे

“ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् ।
तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः” कालिकापु० ८१ अ०

ब्र(व्र)ह्मगीता स्त्री ६ त० । भा० आनु० ३५ अ० दर्शितायां

ब्रह्मणा कथितायां अनुशामनरूपगाथायाम् ।
“अत्र गाथाः पुरा गीताः कीर्त्तयन्ति पुराविदः । सृष्ट्वा
द्विजातीन् धाता हि यथापूर्बं समादधत् । न चान्य
दिह कर्त्तव्यं किञ्चिदूर्द्धं यथाविधि । गुप्तो गोपायते
ब्रह्म श्रेयो वस्तेन शोभनम् । स्वमेव कुर्वतां कर्म श्रीर्वो
व्राह्मी भविष्यति । प्रमाणं सर्वभूतानां प्रग्रहाश्च
भविष्यथ । न शौद्रं कर्म कर्त्तव्यं ब्राह्मणेन विपश्चिता ।
शीद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते । श्रीश्च
बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी । ख्याध्यायं चैव
माहात्म्यं विपुलं प्रतिपत्स्यथ । हूत्वा चाहवनीयस्थं
महाभाग्ये प्रतिष्ठिताः । अग्रमोज्या प्रसूतानां श्रिया
ब्राह्म्याऽनुकल्पिताः । श्रद्धया परया युक्ता ह्यनमि-
द्रोहलब्धया । दमस्वाध्यायनिरताः सर्वान् कामा-
नवाप्स्यथ । यच्चैव मानुषे लोके यच्च देवेषु किञ्चन ।
सर्वं तु तपसा साध्यं ज्ञानेन नियमेन च । इत्येवं ब्रह्म-
गीतास्ते समाख्याता मयाऽनघ” ।

ब्र(व्र)ह्मग्रन्थि पु० यज्ञोपबीतस्य ग्रन्विभेदे

ब्र(व्र)ह्मघातक पु० ब्रह्माणं विप्रं हन्ति हन--ण्वुल् । १

ब्रह्महत्याकारके “पङ्क्रिभेदी वृथा पाकी नित्यं ब्राह्मण-
निन्दकः । आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः” ।
ध्यासोक्ते पारिभाषिके २ पापभेदयुक्ते त्रि० । ब्रह्म-
धातोऽस्त्यस्यां “भक्षणेन ठन् । द्वादश्या भक्षणे ब्रह्महत्या-
पापयुतायां पूतिकायां “पूतिका ब्रह्मघातिका” ति० त० ।

ब्र(व्र)ह्मघोष पु० ६ त० । वेदध्वनौ ।

ब्र(व्र)ह्मघ्न त्रि० ब्रह्माणं ब्राह्मणं हन्ति हन--क । ब्रह्महत्या-

कारके “ब्रह्मन्धमपि चण्डालं कं पतन्तं पुनीमहे” म०
त० । स्त्रियां ङीप् ।

ब्र(व्र)ह्मचक्र न० ब्रह्मनिर्मितं चक्रम् । १ कार्य्यकरणानाके

संसाररूपे चक्रे । “सर्वाजीवे सर्वसंस्थे वृहन्ते अणिन्
हंसो भ्राम्यते ब्रह्मचक्रे” श्वेताश्वतरोप० । रुद्रजामलोक्ते
२ दीक्षोपयोगिचक्रभेदे च ।
पृष्ठ ४५९३

ब्र(व्र)ह्मचर्य्य न० ब्रह्मणे वेदग्रहणार्थं चर्य्यम् । द्विजानां

वेदग्रहणार्थव्रतभेदे । “प्रतिवेदं ब्रह्मचय्य द्वादशावदानि
पञ्च वा । ग्रहणान्तिकमित्येके” गरुड़पु० ९४ अ० ।
तत्प्रकारो मनुनोक्तो यथा
“कृतोपनयनस्यास्य व्रतादेशनमिष्यते । ब्रह्मणो ग्रहण-
श्चैव क्रमेण विधिपूर्वकम् । यद् यस्य विहितञ्चर्म यत्
सूत्रं या च मेखला । यो दण्डो यच्च वसनन्तत्तदस्य
व्रतेष्वपि । सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामन्तपोवृद्ध्यर्थमात्मनः । नित्यं स्नात्वा
शुचिः कुर्य्याद्देवर्षिपितृतर्पणम् । देवताभ्यर्चनञ्चैव
समिदाधानमेव च । वर्जयेन्मधुमांसञ्च गन्धं माल्यं रसान्
स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनाञ्चैव हिंस-
नम् । अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणम् । कामं
क्रोधञ्च लोभञ्च नर्त्तनं गीतवदनम् । द्यूतञ्च
जनवादञ्च परिवादन्तथाऽनृतम् । स्त्रीणाञ्च प्रेक्षणालम्भ-
सुपघातम्परस्य च । एकः शयीत सर्वत्र न रेतः स्कन्द-
येत् क्वचित् । कामाद्धि स्कन्दयन् रेतो हिनस्ति
व्रतमात्मनः । स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमका-
मतः । स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ।
उदकुम्भं सुमनसो गोशकृनमृत्तिकाकुशान् । आहरेद्-
यावदर्थानि भैक्षञ्चाहरहश्चरेत् । वेदयज्ञैरहीनानां
प्रशस्तानां स्वकर्मसु । ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः
प्रयतोऽन्वहम् । गुरोः कुले न भिक्षत न ज्ञातिकुल
बन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ।
सर्वं वापि चरेद् ग्रामं पूर्वोक्तानामसम्भवे । नियम्य
प्रयतो वाचमभिशस्तंस्तु वर्जयेत् । दूरादाहृत्य समिधः
संनिष्टध्याद्विहायसि । सायम्प्रातश्च जुहुयात्ताभिरग्निम-
तन्द्रितः । अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् । भैक्षेण वर्त्तये-
न्नित्यं नैकान्नादी भवेद् व्रती । भैक्षेण व्रतिनो वृत्ति-
रूपवाससमा स्मृता । व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथ-
र्षिवत् । काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते ।
ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः । राजन्यवैश्य-
योस्त्वेवं नैतत् कर्म विधीयते” । ततः गुरुवृत्तिरुक्ता
सा च गुरुवृत्तिशब्दे २६२३ पृ० दर्शिता । २ योगाङ्गयमभेदे
च “अहिंसासत्याऽस्तेय ब्र(व्र)ह्मचर्य्याऽपरिग्रहा षमाः”
वात० । तत्र व्र(व्र)ह्मचर्य्यं व्याकृतं भाषकविवरणाभ्यां
यथा “व्र(व्र)ह्मचर्य्यं “गुप्तेन्द्रियस्योमस्थस्य संयमः”
भा० । “संयतोपस्थोऽपि हि स्त्रीप्रेक्षणतदालापकन्द-
र्पायतनतदङ्गस्पशंनसक्तो न ब्र(व्र)ह्मचर्य्यवान् तन्निरा-
सायोक्तं गुप्तेन्द्रियस्येति इन्द्रियान्तराण्यपि तत्र लोलु-
पानि रक्षणीयानि” विव० । तत्र अष्टाङ्गमैथुनशब्दे ५२४
पृ० दर्शितवाक्येन मैथुनस्य स्मरणाद्यष्टाङ्गतया तदुपयो-
गीन्द्रियाणि संयम्यानीत्यर्थः । तत्फलञ्च तत्रोक्तं यथा
“ब्र(व्र)ह्मचर्य्यप्रतिष्ठायां वीर्य्यलाभः” पात० । “यस्य
लाभादप्रतिघान् गुणानुत्कर्षयति सिद्धश्च विनेयेषु ज्ञानमा
धतुं समर्थो भवति” भा० । “वीर्य्यं सामर्थ्यं यस्य
लाभादप्रतिघान् गुणानणिमादीन् विनेयेषु शिष्येषु ज्ञानं
योगतदङ्गविषयमाधातुं मसर्थो भवति” विव० । तथाच
अष्टाङ्गमैथुनवर्जनमेव ब्र(व्र)चर्य्यं तच्च स्त्रीपुं सयोः
साधारणं पुंसः स्त्रीस्मरणाद्यष्टाङ्गराहित्यस्येव स्त्रीणां
पुंस्मरणादिशून्यत्वेस्यापि तथात्वम् “अतएव ब्र(व्र)ह्मचर्य्यं
तदन्वायरोहणं वा” विष्णु सू० । विधवानामपि ब्र(व्र)ह्म-
चर्य्यं विहितम् “मृते भर्त्तरि साध्वी स्त्री ब्र(व्र)चर्य्य-
व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्र(व्र)ह्म-
चारिणः” मनुव्याख्यायां ब्र(व्र)चर्य्ये व्यवस्थिता
अकृतपुरुषान्तरमैथुना” कुल्लू० उक्तम् । भावे क्यम् ब्रह्मचर्य्या
तत्रार्थे स्त्री ।

ब्र(व्र)ह्मचारिन् पु० ब्र(व्र)ह्म वेदस्तद्ग्रहणार्थं चरति व्रत-

भेदम् चर + णिनि । १ उपनयनानन्तरमाद्याश्रमयुते
द्विजातौ उपचारात् २ तदाश्रमे च । तस्य कर्त्तव्यादिकं
मनूक्तं ब्र(व्र)चर्य्यशब्दे दर्शितम् ।

ब्र(व्र)ह्मचारिणी स्त्री “वेदेषु चरते यस्मात् तेन सा ब्रह्म-

चारिणी” देवीपु० ४५ अ० निरुक्तियुक्तायां वेदमात्रगर्म्यायां
चिच्छक्तिरूपायां १ दुर्गायां २ ब्रह्मचर्य्ययुतायां स्त्रियाञ्च
“आसीतामरणात् क्षान्ता नियतं ब्र(व्र)ह्मचारिणी”
मनुः । ३ वारुणीवृक्षे राजनि० । ४ ब्राह्मीशाके रत्नमाला ।

ब्र(व्र)ह्मज पु० ब्रह्मणो जायते जन--ड । १ हिरण्यगर्भे “यो

वै ब्र(व्र)ह्माणं विदधाति पूर्वं गश्चास्मै प्रहिणोति
वेदम्” श्रुतेः “सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्बहुधा
प्रजाः” इत्युपक्रमे “तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
तस्मिन् जज्ञे स्वयंब्रह्मा सर्वलोकपितामहः” इति
भनूक्तेश्च तस्य तथात्वम् । २ ब्रह्मजातमात्रे पञ्चभूतादौ च
“यतो वा इमानि भूतानि जायन्ते” इत्युपक्रमे “तत्
विजिज्ञासस्व ब्रह्मेति श्रुतौ ब्रह्मतः सर्वभूतोत्पत्ति-
श्रवणात् ।
पृष्ठ ४५९४

ब्र(व्र)ह्मज्ञ त्रि० ब्रह्म जानाति ज्ञा--क । १ ब्रह्मवेत्तरि

२ विष्णौ पु० “ब्रह्मज्ञो ब्राह्मणप्रियः” विष्णु स० ।

ब्र(व्र)ह्मजटा स्त्री ब्रह्मणो जटेव संहतत्वात् । दमनकवृक्षे राजनि०

ब्र(व्र)ह्मजा(या)मल न० जामलभेदे तन्त्रे ।

ब्र(व्र)ह्मजिज्ञासा स्त्री ६ त० । ब्रह्मावगतिफलके विचारे ।

शारीरकतभाष्ये १ सूत्रे तत्राधिकार्य्यादिकं दृश्यम् ।

ब्र(व्र)ह्मजीविन् पु० ब्रह्म वेदस्तद्विहितेन श्रौतकर्मणां

जीवति जीव--णिनि । वृत्त्यर्थं परकीतश्रौतादिकर्मकारके

ब्र(व्र)ह्मज्ञान न० ब्रह्मणो ज्ञानं तेन सह आत्माभेदज्ञानम् ।

ब्रह्मविद्यायां तच्च अहं ब्रह्मास्मीत्येवंरूपम् “आत्मानं
चेत् विजानीयादयमस्मीति पुरुषः । किमिच्छन् कस्य
कामाय किमर्थमनुसंज्वरेत्” श्रुत्या तदभेदज्ञानस्यैव मोक्ष-
हेतुत्वमुकं “वेदान्तसाङ्ख्यसिद्धाब्रह्मज्ञानं वदाम्यहम् ।
अहंब्रह्म परं ज्योतिः विष्णुरित्येव चिन्तयेत् । सूर्य्ये
हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम् । यथा
सर्पिः शरीरस्थं गवां न कुरुतेबलम् । निर्गतं कर्मसंयुक्तं
दत्ते तासां महाबलम् । तथा विष्णुः शररीरस्थो न
करोति हितं नृणाम् । विनाऽऽराधनया देवः सर्वपः
परमेश्वरः । आरुरुक्षुयतीनाञ्च कर्मज्ञानमुदाहृतम् ।
आरूड़योगवृक्षाणां ज्ञानं योगः परं मतम्” गरुड़्पु०
२४० अ० । न्यायादिमते तच्चारोपज्ञानं वेदान्तिमते
प्रमारूपम् । तत्त्वमसि अहंब्रह्मास्मीत्यादोवाक्यजन्यमपि
तज्ज्ञानं मनननिदिध्यासनादिना पश्चात् प्रत्यक्षसुत्पद्यते ।
तज्ज्ञानाभिलापादिकं विवेकचू० दर्शितं यथा
“अव्यक्तादिस्थूलपर्य्यन्तमेतदुमेतदुविश्वं यत्राभाममात्रं प्रती-
तम् । व्योमप्रख्यं सूक्षममाद्यन्तहीनं ब्रहावैतं यत्तदेवाह-
मस्नि । सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं
सर्वम्शून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं
यत् तदेवाहसस्मि । यस्मिन्नस्ताशेषमायाविशेषं प्रत्यग्-
रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्दमानन्दरूपं
ब्रह्माद्वैतं यत् तदेवाहमस्मि । निष्क्रियोऽस्म्यविकारो-
ऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विकल्पोऽस्मि
नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः । सर्वात्मकोऽहं
सर्वोऽह सर्यातीतोऽहमद्वयः । केवलाखण्डवोधोऽहमा-
नन्दोऽहं निरन्तरम्” ।

ब्र(व्र)ह्मणस्पति पु० ६ त० अकुकस० निघण्टौ तस्य

पदणपत्पौक्तेः एतपदत्वमं । १ ब्राह्मणजातिखामिनि यजु०
१४-२८ (२)मन्त्रस्वामिनि च "पवित्रं ब्रह्मणस्पते"
ताण्ड्य० १ । २ । ८ । “हे ब्रह्मणस्पते! मन्त्रस्वामिन्” भा०

ब्र(व्र)ह्मण्य पु० ब्रह्मणे हितः । १ विष्णौ “ब्रह्मण्यो देवकी

पुत्रः” विष्णु सं० । २ ब्राह्मणहितमात्रे त्रि० ३ ब्रह्मदारु-
वृक्षे पु० अमरः । ४ सुञ्जतृणे ५ तालवृक्षे राजनि० ।
६ शनैश्चरे ७ ब्रह्मणि तपसि साधौ त्रि० मेदि० ।

ब्र(व्र)ह्मतीर्थ ६ अत० । १ पुष्करमूले राजनि० २ पुष्करतीर्थे च ।

३ तीर्थभेदे यत्र स्नाने “तत्र वर्णावरः स्नात्वा ब्राह्मण्य
लभते नरः । ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां
गतिम्” भा० व० ८३ अ० । फलमुक्तम् ।

ब्र(व्र)ह्मत्व न० ब्रह्मणो भावः त्व । १ ऋत्विगविशेषस्य ब्रह्म-

णो धर्मे २ शुद्धतुरीयब्रह्मभावे च ।

ब्र(व्र)ह्मतुङ्ग पु० कालपर्वतभेदे । “स्निग्धाञ्जनचयाकारं संप्राप्तः

कालपर्वतम् । ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि”
भा० द्रो० ८ अ० ।

ब्र(व्र)ह्मद पु० ब्रह्म वेदं ददाति । उपनीय वेददातरि

आचार्य्ये “उत्पादब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता” मनुः
दा--तृच् ब्रह्मदातृ तत्रार्थे पु० ।

ब्र(व्र)ह्मदण्ड पु० ब्रह्मणो दण्डः । १ ब्रह्मणदण्डे २

अभिशापरूपे दण्डे “ब्रह्मदण्डहता ये च विद्युदग्निहताश्च
ये” ति० त० षोड़शीश्राद्धमन्त्रः । ३ वसिष्ठसिद्धयष्टिरूपे
दण्डे च । “धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं परम् ।
एकेन ब्रह्मदण्डेन बहवो नाशिता मम” रामा० अयो०
विश्वामित्रवाक्यम् । ४ ब्राह्मणयष्टिवृक्षे शब्दच० । ५ विप्रल
यष्टौ च । ६ केतुभेदे वृ० स० ११ अ० । केतुशब्दे दृश्यम् ।

ब्र(व्र)ह्मदण्डी स्त्री क्षुद्रो दण्डः ङीप् ब्रह्मोपसनाङ्गं दण्डी ।

क्षद्रुक्षुपभेदे कण्टकपत्रफलायामजगण्ड्यां राजनि० ।

ब्र(व्र)ह्मदत्त इक्षाकुवंश्ये नृपभेदे २ त० । २ हिरण्यगर्भेण

दत्ते त्रि० ४ त० । ३ विप्राय दत्ते त्रि० । ४ शुकदेवस्य कन्यायां
कृत्वीसमाख्यायां अणुहस्य पुत्रभेदे पु० तत्कथा हरिवं०
११ अ० दृश्या ।

ब्र(व्र)ह्मदर्भा स्त्री ब्रह्मणो दर्भो ग्रन्थतमस्याः । यमानिकायाम् अमरः ।

ब्र(व्र)ह्मदाय पु० ब्र(व्र)ह्म ण(णे) वा वेदाध्यवनसमाप्तौ-

विप्राय वा राज्ञा दीयते दा--कर्मणि थञ् । समावृत्त-
विप्राय देये धने “ब्र(व्र)ह्मदायाततां भूमिं गरेयुर्ब्राह्म
पीसुताः” दायभागधृतस्मृतिः ।

ब्र(व्र)ह्मदारु पु० ब्रह्मपोइ विउप्रस्य हितः दारुः । अश्वत्थाकारे वृक्षभेदे अमरः ।

ब्र(व्र)ह्मद्विष् त्रि० ब्रह्मणे वेदाय विप्राय द्वेष्टि द्विप--क्विप् ।

१ वेदविप्रयोद्वे परि २ वेदनिन्दद्वे च मनुः २ । १५ ।
पृष्ठ ४५९५

ब्र(व्र)ह्मन् न० वृं ह--मनिन् “वृंहेर्नोऽच्चेति” उणा० नकारस्या-

कारे ऋतो रत्वम् । १ देवे “तस्मादेत्दु ब्रह्म नाम रूपमन्नञ्च
जायते श्रुतिः” । “तेन ब्रह्म हृदा” भाग० १ । १ । १ ।
२ तषसि, ३ सत्ये ४ तत्त्वे यथार्थे अमरः । सर्वगुणा-
तीते विशुद्धे तुरीये ५ चित्स्वरूपे च । ६
हिरण्यगर्भे ७ विप्रे ८ ऋत्विग्विशेषे च पु० अमरः । विष्कम्भा-
दिषु पञ्चविंशे ९ योगे मेदि० । लज्जवलदत्तेन दन्तोष्ठ्यादि
त्वेन साधितम् मेदिनीकरेण ओष्ठ्यादित्वेन कीर्त्तनात्तथा-
मपि । ब्रह्म च सच्चिदानन्दात्मकम् । तच्च तस्य स्वरू-
पलक्षणम् । विवरणानुसारिणस्तु “आनन्दो विषयानु-
भवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवाव-
भासन्ते” इति तत्रोक्तौ मिथ्याभावः सत्यत्वम् अज्ञानभाव-
श्चित्त्वम् । दुःखाभाव आनन्द इत्याहुः । तेषामभावानाञ्च
ब्रह्मरूपाधिकरणे स्थितत्वात् अभावस्याधिकरणस्वरूपतया
ब्रह्मरूपत्वमिति । तस्य तटस्थलक्षणञ्च जगज्जन्मस्थिति
प्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वं तेन
नवलक्षणवत्त्वम्” वेदान्तप० । अतएवोक्तं श्रीधरेण “विश्वसर्ग-
विसर्गादिनवलक्षणलक्षितमिति” । तच्च ब्रह्म द्विविधं
निर्गुणं सगुणञ्च । सच्चिदानन्दात्मकस्यै व निर्गुणत्वं
जगज्जन्मादिकर्तुश्च सगुणत्वम् । जाग्रदाद्यवस्थात्रयसाक्षिणश्च
सगुणत्वं अवस्थात्रयातीतस्य चतुरीयसंज्ञा “शिवमद्वैतं
चतुर्थं मन्यन्ते” इति श्रुतेस्तथात्वम् । तत्र तस्य तटस्थलक्ष-
णाभिप्रायेण “जन्माद्यस्य यतः” शा० स० “यतो वा इमानि
भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभि
संविशन्ति तज्जिज्ञासस्व ब्रह्मेति” श्रुतिश्च प्रववृते तस्य
स्वरूपलक्षणाभिप्रायेण “निर्गुणं निष्कलं शान्तं निरवद्यं
निरञ्जनम्” इत्याद्याः श्रुतयः प्रवृत्ताः । आत्मबोधे तु तस्य
ब्रह्मणोऽखिलवस्त्वपेक्षया श्रेष्ठत्वाद्ब्रह्मत्वमुक्तं यथा
“यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ।
यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् । यद्
दृष्ट्वा नापरं दृश्यं यद्भुत्वा न पुनर्भवः । यज्ज्ञात्वा
नापरं ज्ञेयं तद्ब्रह्मेत्यबधारयेत् । तिर्य्यगूर्द्धमधः
पूर्णं सचिदानन्दमद्वयम् । अनन्तं नित्यमेकं यत्तदिब्रह्मे-
त्यबधारयेत् । अतद्व्यावृत्तिरूपेण वैदान्तैर्लक्ष्यतेऽद्वयम् ।
अखण्डानन्दमेकं यत् तद्ब्रह्मेन्यवधारयेत् । दृश्यते श्रूयते
यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चि-
दानन्दमद्वयम् । सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते ।
अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत्” । तच्च निर्गुण-
मपि गुणभेदेन नानारूपं यथोक्तम् “ब्रह्मैकं मूर्त्तिभेदस्तु
गुणभेदेन सन्ततम् । तद्ब्रह्म द्विविधं बस्तु सगुणं
निर्गुणं शिव! । मायाश्रितो यः सगुणो माया-
तीतञ्च निर्गुणः । स्वेच्छामयश्च भगवानिच्छया
विकरोति च । इच्छाशक्तिश्च प्रकृतिः सर्वशक्ति-
प्रसूः सदा । केचिदेकं वदन्त्येवं ब्रह्म ज्योतिः
सनातनम् । केचिद्वदन्ति द्विविधं ब्रह्मप्रकृतिपू-
र्वकम् । शृणु ये च वदन्त्येकं प्रकृतिपुरुषयोः परम् ।
तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम्” । अथवैकं
परं ब्रह्म द्विविधं भवतीच्छया । इच्छाशक्तिश्च प्रकृतिः
सर्वशक्तिप्रसूः सदा” ब्रह्मवैवर्त्ते जन्मख० ४३ अ० ।
तस्य नवधा रूपं यथा “योगिनो यं वदन्त्येवं
ज्योतीरूपं सनातनम् १ । जयोतिरभ्यन्तरे नित्य
रूपं २ भक्ता वदन्ति यम् । वेदा वदन्ति सत्यं ३ यं
नित्यमाद्यं ४ विचक्षणाः । यं वदन्ति सुराः सर्वे परं
स्वेच्छामयं प्रभुम् ५ । सिद्धेन्द्रास्य्नयः सर्वे सर्वरूपं ६ वदन्ति
यम् । यमनिर्वचनीयञ्च योगीन्द्रः शङ्करोवदेत् ७ ।
स्वयं धाता च प्रवदेत् कारणानाञ्च कारणम् ८ । शेषो
वदेदनन्तं ९ यं नवधारूपमीश्वरम् । तर्काणामेव षण्णां
यं षड्विधं रूपमीश्वरम् । वैष्णानामेकरूपं वेदा-
नामेकमेव च । पुराणानामेकरूपं तस्मान्नवविधं स्मृ-
तम् । न्यायोनिर्वर्णनीयज्ञ यन्मतं शङ्करोऽव्रवीत् । नित्यं
वैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः । सांख्यो वदति
तं देवं ज्योतोरूपं सनातनम् । मीमांसा सर्वरूपञ्च
वेदान्तः सर्वकारणम् । पातञ्चलोऽप्यनन्तञ्च वेदाः सत्य-
स्वरूपकम् । स्वेच्छामयं पुराणञ्च भक्ताश्च नित्यविग्रहम्”
इति तत्रैव १२८ अ० । अन्यथाऽपि सत्त्वादिगुणभेदेन
तस्य चतुर्धारूपं यथा “चतुर्विभागः संसृष्टौ चतुर्धा
संस्थितः स्थितौ । प्रलयञ्च करोत्यन्ते चतुर्भेदो
जनार्दनः । एकेनांशेन ब्रह्माऽसौ भवत्यव्यक्तमूर्त्तिमान् ।
मरीचिमिश्राः पतयः प्रजानामन्यभागतः । कालस्तृतीय-
स्तस्यांश सर्वभूतानि चापरः । इत्यं चतुर्धा संसृष्टौ
वर्त्ततेऽसौ रजोगुणः । एकांशेन स्थितो विष्णुः करोति
परिपालनम् । मन्वादिरूपी चान्येन कालरूपी परेण च ।
सर्वभूतेषु चान्येन संस्थितिं कुरुते स्थितः । सत्त्वं
गुणमुपाश्रित्य जगतः पुरुषोत्तमः । आश्रित्य तमसो वृत्ति
मन्तकाले तथा प्रभुः । रुद्रस्वरूपो भगवानेकांशेन
भवत्यजः । अग्न्यन्तकादिरूपेण भागेनान्तेन वर्त्तते ।
पृष्ठ ४५९६
कालस्वरूपो भागोऽन्यः सर्वभूत्यानि चापरः । विनाशं
कुर्वतस्तस्य चतुर्द्धैवं महात्मनः” विणुपु० १ अंशे २१ अ० ।
येधाश्च रजोगुणप्रधानोपाधिकः कार्य्य ब्रह्मा । ऋत्विग्-
भेदश्च अच्छावाकशब्दे ८५ पृ० दर्शितेषु प्रधानेषु
चतुर्षु ऋत्विक्षु मध्ये एकतमः । “त्रयाणामपराधे तु व्रह्मा
परिहरेत् सदा” सामा० भाष्यधृतकारिका । “त्रया-
णामध्वर्य्यूद्गातृहीतॄणां वेदत्रयविदां मध्ये ऋत्वि-
गेको ब्रह्मनामको वेदत्रयन्मन्त्रतद्विहितकर्मविषये
अपराधो न्यूनभावो यदि जायते तस्यापराधस्य प्ररिहारं
प्रतीकारं कुर्य्यात्” इति तदर्थः । “यज्ञस्य हैष भिषक्
ब्रह्मेति” भाष्यधृतश्रुत्यन्तरम् । अतएवास्य कृताकृता-
वेक्षणार्थं वरणमन्यत्रोक्तम् । १० वृहस्पतौ च ब्रह्मपुरो-
हितशब्दे दृश्यम् ।

ब्र(व्र)ह्मनाल न० ब्रह्मणो नालमिव । काश्यां मणिकर्णिका

समीपस्थे तीर्थभेदे । “पितामहेश्वरं लिङ्गं ब्रह्मनालो-
परि स्थितम् । पूजयित्वा नरो भक्त्या ब्रह्मलोक-
मवाप्नुयात् । ब्रह्मम्रोतःसमीपे तु कृतं करम शुभा-
शुमम् । परामक्षयतामेति शुभमेव ततश्चरेत् । अनल्प-
मपि यत् कर्म कृतमत्र शुभाशुभम् । प्रलयेऽपि न
तस्यास्ति प्रलयो मुनिसत्तम! । नाभीतीर्थमिदं प्रोक्तं
नाभीभूतं यतः क्षितेः । अपि ब्रह्माण्डगोलस्य नाभि
रेषा शुभोदया । सा माणिकर्णिकेयीयं नाभिगाम्भीर्य्य-
भूमिका । ब्रह्माण्डगोलकं सर्वं यस्यामेति लये लयम् ।
ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्सङ्गमे
नरः स्नातः कोटिजन्ममलं हरेत् । ब्रह्मनाले पतेदुयेषा-
मपि कीकसमात्रकम् । ब्रह्माण्डमण्डपान्तस्ते न विशन्ति-
कदाचन” काशीख० ६१ अ० ।

ब्र(व्र)ह्मनिर्वाण न० ब्र(व्र)णि निर्वाणं निर्वृतिः । ब्र(व्र)ह्म-

मावलाभे सकलानर्थनिवृत्तिरूपे परमाननन्दे “एषा
ब्रह्मी स्थितिः पार्थ! नैनां प्राप्य विमुह्यति । स्थित्वा-
स्यामन्तकालेऽपि व्रह्मनिर्वाणमृच्छति” गीता ।

ब्र(व्र)ह्मपत्र न० ब्रह्मणः तन्नामकवृक्षस्य पत्रम् । पलाशपत्रे ।

“भोजनं ब्रह्मपत्रेषु कथया लोचनं हरेः । दर्शनं
वैष्णवानाञ्च महापातकनाशनम्” पाद्मोत्तरख० ११८ अ० ।

ब्र(व्र)ह्मपर्णी स्त्री ब्र(व्र)ह्मेव विस्तीर्णानि मूलादारभ्य

स्थितानि पर्णान्यस्याः ङीप् । पृश्निपर्ण्याम् राजनि० ।

ब्र(व्र)ह्मपवित्र पु० ब्र(व्र)ह्मेव वेदोक्तकर्मणि वा पवित्रः । कुशे

राजनि० ।

ब्र(व्र)ह्मपादप पु० ब्र(व्र)ह्मणः प्रियः वैदिककर्मयोग्यत्वात्

विप्रब्र(व्र)ह्मचारिधार्य्यदण्डार्थत्वाद्वा ब्रह्मनामकत्वात्
वा पादपः । पलाशवृक्षे हेमच० । “पलाशो वै ब्रह्म”
शत० ब्रा० पलाशवृक्षशब्दे दृश्यम् ।

ब्र(व्र)ह्मपुत्र पु० ब्र(व्र)ह्मणः पुत्र इव कपिलवर्णत्वात् ।

१ विषभेदे अमरः । तद्विषस्य लक्षणं भावप्र० उक्तं
यथा “वर्णतः कपिलो यः स्यात्तथा भवति सारकः ।
ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले” । २ उत्तर-
देशप्रसिद्धे ३ नदभेदे ४ क्षेत्रभेदे च । ५ सरस्वत्यां नद्यां
स्त्री । तस्याः पितामहजातत्वं ब्रह्माणीशब्दे दृश्यम् ।
तस्य नदस्योत्पत्तिकथा “हरिवर्षे महावर्षे शान्तनु-
र्नाम नामतः । मुनिरासीनमहाभागो ज्ञानवान्
सुतपोधनः । तस्य भार्य्या भहाभागा अमोघाख्या
महासती । हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा ।
तया सार्द्धं स कैलासमर्य्यादापर्वतेऽवसत् । लौहिता-
ख्यस्य सरसस्तीरे वै गन्धमादने । एकदा स तपोनिष्ठो
निजपुष्पादिगोचरे । जगाभ वनमध्यन्तु चिन्वन्
बहुफलानि च । तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः ।
तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया । तां दृष्ट्वा
देवगर्भाभां युवत्रीमतिसुन्दरीम् । मोहितो मदनेनाशु तथा
ऽभूत् तृधितेन्द्रियः । उदीरितेन्द्रियो भुत्वा जिघृक्षुस्तां
महासतीम् । अथाधावत्तदा ब्रह्मा सम्मुणो मदनार्दितः ।
धावमानं विधातारं दृष्ट्वाऽमोघा महासती । मैवं
मैवमिति प्रोच्य पर्णशालां व्यलीयत । इदञ्चोवाच
धातारममोघा कुपिता तदा । पर्णशालान्तरगता द्वार-
मावृत्य तत्क्षणात् । अकार्य्यं न मया कार्य्यं मुनि-
पत्न्त्या विगर्हितम् । बलात् प्रमथ्या चाहं चेत्त्वया त्वाञ्च
शपाम्यहम् । अमोघया चैवमुक्ते विधातुश्च तदा
नृप! । १ रेतश्चक्रन्द च तदैवाश्रमे शान्तनोर्मुनेः । च्युते
रेतसि धातापि हंसयानं समास्थितः । लज्जयाति-
परीतात्मा द्रुतं वै स्वाश्रमं ययौ । गते वेधसि शान्तनु-
र्निजमात्रममागतः । आगत्य दृष्ट्वा हंसानां पदक्षोभं
तथा भुवि । तेजश्च पतितं भूमौ विधातुर्ज्वलनोप-
मम् । अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ।
किमेतदत्र शुभगे! प्रवृत्तं दृश्यते तु यत् । पक्षिणाञ्च
पदक्षोभस्तेजश्चेदम् कीदृशम् । सा तस्य वचनं श्रुत्वा
शान्तनुं मुनिसत्तमम् । अमर्षितेव न्यगददाकुला
विकलानना । हंसयुक्तस्यन्दनेन कोऽम्भ्यागत्य चतुर्मुख।
पृष्ठ ४५९७
कमण्डलुकरो भीरू रतिं मां समयाचत । ततो मया
भर्त्सितः स कुटजान्तरलीनया । प्रच्याव्य तेजः स गतो
मम शापभयार्दितः । कुरु तत्र प्रतीकारं यदि शक्नोषि
शान्न्तनो! । न हि तां धर्षणां सोढुं कश्चित्
शक्नोति जीवभृत् । स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा
समागतः । इति निश्चित्य मनसा तत्र ध्याबपरोऽभवत् ।
दिव्यज्ञानेन स ज्ञात्वा देवकार्य्यमुपस्थितम् । तीर्था-
वतारणञ्चापि हितायं जगतां मुनिः । ज्ञात्वोदर्कं
चिन्तयित्वा स्वभार्य्यामिदमब्रवीत् । इदं तेजो ब्रह्मणस्त्वं
पिबामोथे! ममाज्ञया । हिताय सर्वजगतां देवकार्य्यार्थ-
सिद्धये । भवत्या निकटे ब्रह्मा स्वयमेव समागतः ।
त्वामप्राप्य स महात्मा आवयोः स समर्प्य च । गतो
निजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः । तत् श्रुत्वा
शान्तनोर्वाक्यममोघातीव लज्जिता । सान्त्वयन्तीव तं प्राह
पतिं नत्वा महासती । नान्यस्य तेजो धास्यामि न
चेत्ते विमनस्कता । अवश्यं यदि कर्त्तव्यं पीत्वा त्वं
मयि चोत्सृज । ततस्तस्या वश्यः श्रुत्वा युक्तं तथ्यञ्च
शान्तनुः । स्वयं पीत्वा च तत्तेजस्तस्या गर्भऽभ्यषेचयत् ।
संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती । गर्भं
दधारामोघाख्या हिताय जगतां ततः । तस्यां काले तु संप्राप्ते
संजातोजलसञ्चयः । तन्मध्ये तनयश्चापि नीलवासाः
किरीटधृक् । रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् ।
चतुर्भुजः पद्मविद्यावरशक्तिधरस्तथा । शिशुमारशिरस्थश्च
तुल्यकायो जलोत्करैः । तं जातञ्च तथाभूतं शान्तनु-
र्लोकशान्तनुः । चतुर्णां पर्वतानाञ्च मध्यदेशे न्यवेशयत् ।
कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः । जारुधिः
पश्चिमे शैलः पूर्वे संवर्त्तकाह्वयः । तेषां मध्ये स्वयं
कुण्डं पर्वतानां विधेः सुतः । कृत्वाऽतिववृधे नित्यं
शरदीव निशाकरः । तं तोयमध्यगं पुत्रमासाद्य
द्रुहिणः स्वयम् । क्रमतस्तस्य संस्कारानकरोद्देह-
शुद्धये । अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः ।
तोयराशिस्यरूपेण ववृधे पञ्च योजनान् । तस्मिन्
देवाः पपुः सस्नुर्द्वितीय इव सागरे । शीतामलजले
हृद्ये देव्यश्चाप्सरसां गणैः । तस्मिन्नवसरे रामो
जामदग्न्यः प्रतापवान् । चक्रे मातृबधं घोरमत्युग्रं
पितुराज्ञया । तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः ।
स जगाम महाकुण्डं ब्राह्माख्यं स्नातुमिच्छया । तत्र
स्नात्वा च प्रीत्वा च मातृहत्यां व्यप्रानयत् । वीथिं
परशुना कृत्वा तञ्च क्ष्मामवातारयत्” तदुत्तरत्र “ब्रह्मकु-
ण्डात् सृतः सोऽथ कासारे लोहिताह्वये । कैलासो-
पत्यकायान्तु न्यपतद् ब्रह्मणः सुतः । तस्यापि सरसन्तीरं
समुत्पाट्य महाबलः । कुठारेण दिशं पूर्वामनयद्-
ब्रह्मणः सुतम् । ततोऽपरत्रापि गिरिं हेमशृङ्गं
विभिद्य च । कामरूपान्तरं पीठमवाहयदसुं हरिः ।
तस्य नाम विधिश्चक्रे स्वयंलोहितगङ्गकम् । लौहि-
त्यात् सरसो जातो लौहित्याख्यस्ततोऽभवत् । स
कामरूपमखिलं पीठमाप्लाव्य वारिणा । गोपयन् सर्वतीर्थानि
दक्षिणं याति सागरम् । प्रागेव दिव्ययमुनां संत्यज्य
ब्रह्मणः सुतः । पुनः पतति लौहित्ये गत्वा द्वादश-
योजनम् । चैत्रे मासि सिताष्टम्यां यो नरो नियते-
न्द्रियः । स्लाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् ।
चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः । लौहित्यतोये
यः स्लाति स कैवल्यमवाप्तुयात्” कालिकापु० ८४, ८५
अ० “मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम् ।
पिवेदशोककलिकाः स्नायाल्लौहित्यवारिणि । पुनर्वसौ
वृषे लग्ने चैत्रे मासि सिताष्टमीम् । लौहित्ये विरजे
स्नायात् सर्वपापैः प्रसुच्यते” ति० त० ।

ब्र(व्र)ह्मपुर न० ६ त० । १ ब्रह्मण उपासनार्थे हृदयस्थाने

“अथ यदिदं ब्रह्मपुरे दहरं पुण्डरीकम्” छा० उ० ।
दहरशब्दे ३५१० पृ० दृश्यम् । “यः सर्वज्ञः सर्वविद्-
यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा
प्रतिष्ठ्तः” मुण्डकोप० । “ब्रह्मणोऽत्र चैतन्यस्वरूपेण
नित्याभिव्यक्तत्वाद्ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्”
भा । २ विधातृनगर्य्यां ३ काश्याञ्च वा स्त्री ङीप् तत्रार्थे ।
वृ० स० १४ अ० उक्ते ईशानदिक्स्थे ४ देशभेदे पु० (वरमा) देशे
स्वार्थे क । तत्रार्थे मार्कपु० पूर्वोत्तरकूर्मभागस्थदेशोक्तौ ।

ब्र(व्र)ह्मपुराण न० वेदव्यासप्रणीते महापुराणभेदे तत्प्रति-

पाद्यविषयाश्च वृहन्नारदीये ४ पा० ९२ अ० उक्ता यथा
“ब्राह्मं पुराणं तत्रादौ सर्वलोकहिताय वै । व्यासेन
वेदविदुषा समाख्यातं महात्मना । तद्वै सर्वपुराणाग्र्यं
धर्मकामार्थमोक्षदम् । नानाख्यानेतिहासाढ्यं दशसाहस्र-
मुच्यते” तत्पूर्वभागे “देवानामसुराणाञ्च यत्रोत्पत्तिः
प्रकीर्त्तिता । प्रजापतीनाञ्च तथा दक्षादीनां सुनीश्वर! ।
ततो लोकेश्वरस्यात्र सूर्य्यस्य परमात्मनः । वंशानुकी-
र्त्तनं पुण्यं महापातकनाशनम् । तत्रावतारः कथितः
परमानन्दरूपिणः । श्रीमतो रामचन्द्रस्य चतुर्ध्यूहाव-
पृष्ठ ४५९८
तारिणः । ततश्च सोमवंशस्य कीर्त्तनं यत्र वर्णितम् ।
कृष्णस्य जगदीशस्य चरितं कल्मषापहम् । द्वीपानाञ्चैव
सिन्धूनां वर्षाणां चाप्यशेषतः । वर्णं यत्र पाताल
स्वर्गाणाञ्च प्रदृश्यते । नरकाणां समाख्यानं सूर्य्यस्तुति
कथानकम् । पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते ।
दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् । पूर्वभागो-
ऽयसुदितः पुराणस्यास्य मानद!” । तदित्त्रभागे । “अस्यो-
त्तरे विभागे तु पुरुषोत्तमवर्णनम् । विस्तरेण
समाख्यातं तीर्थयात्राविधानतः । अत्रैव कृष्णचरितं
विस्तरात् समुदीरितम् । वर्णनं मम लोकस्य पितृश्राद्ध-
विधिस्तथा । वर्णाश्रमाणां धर्माश्च कीर्त्तिता यत्र
विस्तरात् । विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम् ।
योगानाञ्च समाख्यानं साङ्ख्यानां चापि वर्णनम् । ब्रह्म
वादसमुद्देशः पुराणस्य च शंसनम् । एतद्ब्रह्मपुरा-
णन्तु भागद्वयसमाचितम् । वर्णितं सर्वपापन्धं सर्वसौख्य-
प्रदायकम्” तत्फलश्रुतिः । “सूतसौनकसंवादं भुक्तिमुक्ति-
प्रदायकम् । लिखित्वैतत् पुराणं यो वैशाख्यां हेमसं-
युतम् । जलधेनुयुतञ्चापि भक्त्या दद्याद्द्विजातये ।
पौराणिकाय सम्पुज्य वस्त्रभोज्यविभूषणैः । स वसेद्
ब्रह्मणो लोके यावच्चन्द्रार्कतारकम् । यः पटेच्छृणुया-
द्वापि ब्रह्मानुक्रमणीं द्विज! । सोऽपि सर्वपुराणस्य
श्रोतुर्वक्तुः फल लभेत् । शृणोति यः पुराणन्तु ब्राह्मं
सर्वं जितेन्द्रियः । हविष्याशी च नियमात् स लभेद्
ब्रह्मणः पदम् । किमत्र बहुनोक्तेन यद्यदिच्छति-
मानवः । तत् सर्वं लभते वत्स! पुराणस्यास्य कीर्त्तनात्”

ब्र(व्र)ह्मपुरुष पु० ब्रह्मणः पुरुष इव । ब्रहप्रापकेषु द्वारपाल-

रूपेषुचक्षुः वाङ्मनःप्राणेषु । चक्षुरादीन् प्रकृत्य “ते वा एते
पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपालाः” छा० उ० ।
देवशुषिरशब्दे ३७४५ । ३७४६ पृ० एतद्भाष्यञ्च दृश्यम् ।

ब्र(व्र)ह्मपुरोहित पु० ब्रह्म वृहस्पतिः पुरोहितो यस्य

देवे । त्रयस्त्रिंशद्धि देवाः ब्रह्म पुरोहिता इति ब्रह्म वै
वृहस्पतिर्ब्रह्मपुरोहिताः” शत० ब्रा० १२ । ८ । ३ । २९ ।

ब्र(व्र)ह्मप्रसूत त्रि० ३ त० । १ ब्रह्मजाते जहति २ ब्राह्मणारब्धे

कर्मणि न० । “यत् क्षत्रियोऽब्राह्मणो भवति स यद्ध किं
च कर्म कुरुतेऽप्रसूतं ब्रह्मणा मत्रेण न हैवास्मै तत्
सगृध्यते तस्माद् क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य
एव ब्राह्मणः सं हैवास्मै तद्ब्रह्मप्रसूतं कर्मार्ध्यते”
शत० ब्रा० ४ । १ । ४ । ६ ।

ब्र(व्र)ह्मबन्धु पु० ब्रह्मा विप्रो बन्धुरुत्पादको यस्य ब्रह्मणो

विप्रस्य बन्धरिव वा । १ विप्राचाररहिते निन्द्यकर्मकारिणि
जात्या विप्रे २ विप्रतुल्ये भट्टादौ च । “अस्मत्कुलीनो-
ऽननूच्य ब्रह्मबन्धुरिव भवति” छा० उ० । “हे सौम्या-
ऽननूच्यानधीत्य ब्रह्मवन्धिर्व भवतीति ब्राह्मणान् बन्धून्
व्यपदिशति न स्वयं ब्राह्मणवृत्तः” इति भा० । विप्र-
वंश्यापकृष्टब्राह्मणस्यापि दैहिकदण्डनिषेधो यथा
“वपनं द्रविणादानं स्थानान्निर्वासनन्तथा । एष
हि ब्रह्मबन्धूनां बधो नान्योऽस्ति दैहिकः” भाग० १ स्क०

ब्र(व्र)ह्मबिन्दु पु० ब्रह्मणि वेदाध्ययनकाले विन्दुः । वेदा-

ध्यनकाले मुखनिःसरल्लालालेशे ।

ब्र(व्र)ह्मबध्या स्त्री बध--भावे क्यप् ६ त० । ब्रह्महत्यायाम् ।

ब्र(व्र)ह्मब्रुवाण पु० आत्मानं ब्रह्माणं ब्रूते ब्रू--शानच् । विप्रतया

आत्मनः कथके । यथा कर्णः आत्मानं विप्रं कथयित्वा
परशुरामादस्त्रशास्त्रमधीतवान्” भा० उद्योग० ६१ अ० ।
ब्राह्मणब्रुवि २ अपकृष्टब्राह्मणे च ।

ब्र(व्र)ह्मभद्रा स्त्री ७ ब० । विप्रहितायां त्रायमाणोषधौ नैघण्टुप्र० ।

ब्र(व्र)ह्मभाग पु० ६ त० । ब्रह्मरूपर्त्विजे हरणीये यज्ञ-

द्रव्यस्य भागभेदे “अथास्मै ब्रह्मभागं पर्याहरन्ति ।
ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता स एतं भागं
प्रतिविदान आस्ते यत् प्राशित्रं तदस्मै पर्याहार्षुस्तत्-
प्राशीदथ यमस्य ब्रह्मभागं पर्याहरन्ति तेन भागी
समदत ऊर्द्ध्वसमं स्थितं यज्ञस्य तदभिगोपायति तस्माद्धाऽस्मै
ब्रह्मभागं पर्याहरन्ति” शत० ब्रा० १ । ७ । ४ । १८ ।

ब्र(व्र)ह्मभूति स्त्री ब्रह्मणो भूतिरस्याः । १ सन्ध्यायां शब्दच० ।

२ ब्रह्मजातमात्रे त्रि० ।

ब्र(व्र)ह्मभूमिजा स्त्री ब्रह्मभूमितो जायते जन--ड । सिंहल्यां राजनि० ।

ब्र(व्र)ह्मभूय न० भू--भावे ख्यप् ६ त० । ब्रह्मभावे शुद्धचैतन्य-

स्वरूपप्राप्तौ अमरः ।

ब्र(व्र)ह्ममण्डूकी स्त्री अध्यण्डाय्ये ओषधीभेदे कात्या० श्री० २५ । ७ । १७ सग्रहव्याख्या ।

ब्र(व्र)ह्ममय त्रि० ब्रह्मात्मकं ब्रह्मन् + मयट् । ब्रह्मात्मके “दर्शनं

तस्य लाभः स्यात् त्वं हि ब्रह्मयो निधिः” भा० शा० ४६ अ० ।
स्त्रियां ङिप् । काली ब्रह्ममयीत्यादि । २ ब्रह्मास्त्रे च
भा० उ० ६१ अ० ।

ब्र(व्र)ह्ममह पु० ६ त० । विप्रानुद्दिश्य उत्सवे । भा० आ० ६४ अ०

ब्र(व्र)ह्ममित्र पु० ब्रह्म मित्रमस्य । मुनिभेदे मार्क पु० ६३ अ० ।

पृष्ठ ४५९९

ब्र(व्र)ह्ममीमांसा स्त्री ६ त० ब्रह्मज्ञानार्थं वेदान्तवाक्य-

विचारात्मके व्यासप्रणीते ग्रन्धभेदे तत्प्रतिपाद्यविषयादि
वैयासिकन्थायमालायामुक्तं यथा “शास्त्रं ब्रह्मविचा-
राख्यमध्यायाः स्युश्चतुर्विधाः । समनयाविरोधौ २ द्वौ
साधन ३ ञ्च फलं ४ तथा । समन्वये स्पष्टलिङ्ग १ मस्पष्टत्वे
२ऽप्युपास्यगम् ३ । ज्ञेयगं ४ पदमात्रञ्च चिन्त्यं पादेष्वनुक्र-
मात् । द्वितीये स्मृतितर्काभ्यामविरोधो १ ऽ न्यष्टता २ ।
भूतभोक्तृश्रुते ३ र्लिङ्गश्रुते ४ रप्यविरुद्धता । तृतीये विरति १ स्तत्त्व-
म्पदार्थपरिशोधनम् २ । गुणोपसंहृति ३ र्ज्ञाने वहिरङ्गादि-
साधनम् ४ । चतुर्थे जीवतोमुक्ति १ रुत्क्रान्ति २ र्गतिरुत्तरा ३ ।
ब्रह्मप्राम्प्तिब्रह्मलोकाविति ४ पादार्थसंग्रहः । तेन तत्र
प्रत्येकं चतुष्टयपादयुताः चत्वारोऽध्यायाः । तच्च शास्त्रं
बहुभिः स्वस्वमतानुसारेण व्याख्यातम् तत्र गौड़पादा-
चार्य्यशङ्कराचार्य्यादिभिर्द्वैतपरतया व्याख्यातं रामा-
नुजादिभिश्च विशिष्टाद्वैतपरतया, वल्लबाचार्य्यादिभिश्च
विशुद्वाद्वैतपरतया माध्वाचार्य्यादिश्च द्वैतपरतया व्या-
ख्यातं तत्तन्मतञ्च प्रायेण तत्तच्छन्दे दृश्यम् ।

ब्र(व्र)ह्मयज्ञ पु० ब्रह्मनिमित्तकस्तदध्ययनतदध्यापनानिमित्तको

यज्ञः । वेदाध्ययनाध्यापनादौ अमरः । “अध्यापनं
ब्रह्मयज्ञः” मनुः । “स्वाध्यायोब्रह्मयज्ञः” विष्णु सू० ।
तेन वेदाध्ययनाध्यापनयोब्रह्मयज्ञता ।

ब्र(व्र)ह्मयष्टि स्त्री ब्रह्मणो यष्टिरिवालम्बमत्वात् । (वामन-

हाटि) वृक्षे शब्दरत्ना० ।

ब्र(व्र)ह्मयुग न० ब्रह्मा विप्रस्तदुपलक्षितं युगम् । हिरण्य-

गर्भस्य विप्रष्टिप्रधाने कालभेदे । तच्च हरिवं० २०८ । २०९
अध्याये ततः क्षत्रादिसृषृष्ट्युपलक्षितं तद्युगं २१० अ० उक्तम्

ब्र(व्र)ह्मयोग पु० ब्रह्मणस्तत्साक्षात्कारस्य योमः समाधिः । ब्रह्म

साक्षात्कारसाधने १ समाधिभेदे हरिवं० २१० अ० “एष
ब्रह्ममयो यज्ञो योगः सांख्यश्च तत्त्वतः । विज्ञानञ्च
स्वभावश्च क्षेत्रं क्षेत्रज्ञ एव च । एकत्वञ्च पृथक्त्वञ्च
सम्भवं निधनं तथा । कालः कालक्षयश्चैव ज्ञेयो
विज्ञानमेव” च विष्कम्भादिषु पञ्चबिंशे २ योगे च ।

ब्र(व्र)ह्मयोनि पु० ब्रह्मणो योनिरुतपत्तिरत्र । १ ब्रह्मगिरौ

शब्दर० । २ ब्रह्मप्राप्त्युपायज्ञाननिष्ठायाञ्च “ब्राह्मणा ब्रह्म
योनिस्थाः” मनुः ३ ब्रह्मोत्पन्ने त्रि० । ४ सरस्वत्यां
स्त्री ङिप् । “सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तनुम् ।
पृथूदकं जप्यपरो नैनं श्रोमरणं लभेत् । तत्रैव ब्रह्म
योन्यस्ति ब्रह्मणा यत्र निर्मिता । पृथूदकं समाश्रित्य सर
स्यत्यास्तटे स्थितः । चतुर्वणस्य सृष्ट्यर्थमात्मज्ञानपरो-
ऽभवत् । तस्याभिधा यतः स्तुष्ठिर्ब्रह्मणोऽव्यक्र्तजन्मनः ।
सुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा ।
ऊरुभ्यां वैश्यजातीयाः पद्भ्यां शूद्रास्ततोऽभवन् । चातु-
र्वर्ण्यं ततो दृष्ट्वा आश्रमस्थान् सुतांस्ततः । एवं प्रति-
ष्ठितं तीर्थं ब्रह्मवोनीति संज्ञितम् । तत्र स्नात्वा मुक्ति-
कामः पुनर्योनिं न पश्यति” वामनपु० ३८ अ० उक्ते
तीर्थभेदे स्त्री वा ङीप् ।

ब्र(व्र)ह्मरन्ध्र न० उत्तमाङ्गस्य रन्ध्रभेदे । “तयोर्द्धमायन्नमृत-

तमेति” श्रुत्या तद्रब्ध्रेण प्राणोत्क्रमणे ब्रह्मलोकप्राप्ते-
रुक्तत्वात् तथात्वम् ।

ब्रह्मराक्षस पु० ब्र(व्र)ह्मा विप्रोऽपि कुकर्मभिः राक्षसः ।

कुकर्मणा विप्रयोनितो राक्षसरूपतां प्राप्ते भूतभेदे
“संयोगं पतितैर्गत्वा परस्य योषितं तथा । अपहृत्य
च विप्रस्वं भवति ब्रह्मराक्षसः” इति मनुः । पतितप्रति-
ग्रहेऽपि तद्योनिप्राप्तिः भा० आनु० ११ अ० दर्शिता ।
तच्च वाक्यं अधर्मशब्दे १२१ पृ० दर्शितं तच्च न
हरिवंशवाक्यं किन्तु अनुशासनपर्वीयमिति बोध्यम् ।
पारिभाषिकब्रह्मराक्षसा यथा “मूर्खः स्त्री कच्छपश्चैव
वाजी बधिर एव च । गृहीतार्थं न सुञ्चन्ति पञ्चैते
ब्रह्मराक्षसाः” व्यवहारप्रदीपः । २ सिवानुचरभेदे भाग०
१० । ६३ अ० ।

ब्र(व्र)ह्मरात न० ब्रह्म तज्ज्ञानं रातं यस्मै । १ शुकदेवे “ब्रह्म-

रातो मृशं प्रीतो विष्णुरातेन संसदि” भाग० १ । ८ । २७ ।
२ याज्ञवल्क्ये मुनौ हेमच० ब्रह्मरातिरिति वापाठः । तेन
हि जनकाय ब्रह्मविद्यायादानात् तथात्वम् वृहदा-
हरणकोपनिषदि तत्कथा दृश्या ।

ब्र(व्र)ह्मरात्र पु० रात्रेरयम् अण् ६ त० ब्रह्मस्वामिके रात्रि

शेषमाशे मुहूर्त्ते “उपावृत्ते ब्रह्मरात्रे” भा० १० । ३३ । ३९ ।
व्याख्यायां श्रीधरः ।

ब्र(व्र)ह्मरीति ब्रह्मवर्णा रीतिः । पित्तलभेदे हेमच० ।

ब्र(व्र)ह्मर्षि पु० ब्र(व्र)ह्मा विप्रः वतुर्मुखतुक्ल्यो वा ऋषिः

वेदस्य वा ऋषिः स्मर्त्ता । ब्रह्मतुल्येषु वशिष्ठादिषु १ वेदस्म-
र्तृषु २ ऋषिषु हेमच० ।

ब्र(व्र)ह्मर्षिदेश ६ त० । “कुरुक्षेत्रञ्च मत्स्यश्च पाञ्चालाः

शूरसेनकाः । एष व्रह्मर्षिदेशो वै ब्रह्मार्त्तादनन्तरम्” मनूक्ते
कुरुक्षेत्रादिदेशचतुष्टये ।

ब्र(व्र)ह्मलक्षण न० ६ त० । ब्रह्मणः स्वरूपतटस्थलक्षणे ब्रह्मन्शब्दे दृश्यम् ।

पृष्ठ ४६००

ब्र(व्र)ह्मलीकं पु० ६ त० । १ ब्रह्माधिष्ठाने भुवने सत्य-

लोके “सत्यस्त सप्तमो लोको ह्यपुनर्भवासिनाम् ।
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः” देवीपु० ।
“षड्गुणेन तपोलोकात् सत्यलोको विराजते । अपुनर्मा-
रका यत्र ब्रह्मलोको हि स स्मृतः” । ब्रह्मेव लोकः ।
२ तुरीयब्रह्मस्वरूपे च ब्रह्मानन्दशब्दे दृश्यम् ।

ब्र(व्र)ह्मवर्चस न० ब्रह्मणा वेदाध्ययनेन वर्चः अच् समा० ।

वेदाध्ययनजनिते तेजसि “तपःस्वाध्यायजं यच्च तेजस्तु
ब्रह्मचर्वसम्” जटा० । “ब्रह्मवर्चसकामः स्तुवीत” ताण्ड्य०
व्रा० २ । ५ । २ “ब्रह्मवर्चसकामस्य कुर्य्यात् विप्रस्य पञ्चमे” मनुः
तदस्यास्ति इनि । ब्रह्मवर्चसिन् तदयुते त्रि० “ब्रह्मबर्चस्य-
न्नादो भवति” छा० उ० । “वृत्तस्वाध्यायजं तेजः ब्रह्म-
वर्चसम्” शाङ्गरभाष्यम् ।

ब्र(व्र)ह्मवर्चस्विन् पु० ६ त० । ब्रह्मणवोर्चः समासान्तविधेरनित्य

त्वात् न अच्समा० ततोऽस्त्यर्थे विनि । ब्रह्मवर्चसिनि ।
“ब्रह्मबर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः” मनुः ।

ब्र(व्र)ह्मवर्त्त पु० ब्रह्मणो वर्त्तो वर्त्तनं यत्र । ब्रह्मावर्त्ते देशे

शब्दर० ।

ब्र(व्र)ह्मवर्द्धन न० ब्रह्मा वेधो रूपमिव वर्द्धते वृध--ल्यु । ताम्रे हेमच० ।

ब्र(व्र)ह्मवाटीय पु० सिनिभेदे हरिवं १४१ ।

ब्र(व्र)ह्मवाद पु० ६ त० । १ वेदपाठे हारा० । २ ब्रह्माधिकारेण

तत्त्वनिर्णयार्थे वादे कथाभेदे च ।

ब्र(व्र)ह्मवादिन् पु० ब्रह्म वेदं वदति पठति वद--णिनि ।

१ वेदपाठले । ब्रह्म शुद्धं चैतन्यं सर्वात्मकतया वदति
वद--णिनि । ३ वेदान्तप्रतिपाद्यसर्वात्मकब्रह्मनिर्णयार्थकथा-
भेदरूपवादयुते । “ब्रह्मवादिनो वदन्ति” छा० ल० । शुद्धचै-
तन्यं वदति बोधयति । ४ ब्रह्मबोधके शास्त्रे जटा० ।
५ हायत्र्यां स्त्री ङीप् । सा च निर्गुणब्रह्मप्रतिपादिकेति
तस्यस्तथात्वम् । “आयाहि वरदे! देवि! त्र्यक्षरे!
ब्रह्मवादिनि!” गायत्र्यावाहनमन्त्रः ।

ब्र(व्र)ह्मवालुक न० तीर्थभेदे भा० व० ८२ अ० ।

ब्रह्मवास पु० ६ त० । ब्रह्मलोके हरिवं० २१३ अ० ।

ब्रह्मवाहस् त्रि० ब्रह्मणा मन्तरूपवेदे ऊह्यते वह--कर्मणि

वा० असिच् णिच्च । मन्त्रेण प्राप्यमाणे ऋ० १ । १०१ । ९ ।

ब्र(व्र)ह्मविद् ब्रह्मस्वरूपतया वेत्ति आत्मानम् विद--क्विप् ।

ब्राह्मात्मैक्यवेत्तरि “ब्रह्मविद् ब्रह्म भवति” श्रुतिः ।
२ विष्णौ पु० “ब्रह्मविद् ब्राह्मणो ब्रह्मी” विष्णु स० । वेदं
वेदार्थं यथावत् बेत्तीति ब्रह्मविद्” भा० ३ वेदार्थज्ञातरि
त्रि० ।

ब्र(व्र)ह्मविद्या स्त्री ६ त० । शुद्धचैतन्यात्मकस्य ब्रह्मण आत्माऽभेदेन ज्ञाने ।

ब्र(व्र)ह्मविवर्द्धन पु० ६ त० । १ तपोवर्द्धके विष्णौ “सत्यं

ब्रह्मविवर्द्धनम्” विष्णुस० । वृध--णिच् भावे ल्युट् । २ तप
आदीनां विशेषेण वर्द्धने न० ।

ब्र(व्र)ह्मवृक्ष पु० । पलाशवृक्षे हलायुघः । “ब्रह्म वै

पलाशः” शत० व्रा० १३, ८ । ४ । १ तपःसाधने २ उडुम्बरवृक्षे
रत्नमाला ।

ब्र(व्र)ह्मवृत्ति स्त्री ६ त० । १ ब्राह्मणस्य जीवनोपाये “स्वदत्तां

परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । षष्टिवर्षसहस्राणि
विष्ठायां जायते कृमिः” भाग० । २ ब्रह्माकारान्तःकरण-
वृत्तौ च ।

ब्र(व्र)ह्मवेद पु० ६ त० । १ ब्रह्मज्ञाने २ ब्रह्मप्रतिपादके वेदभागे वेदान्ते च ।

ब्र(व्र)ह्मवेदि स्त्री ब्रह्मणो वेदिरिव । “ब्रह्मवेदिः कुरुक्षेत्रे

पञ्चरामह्रदान्तरम्” इत्युक्ते देशे हेमच० ।

ब्र(व्र)ह्मवेदिन् त्रि० ब्रह्मवेत्ति आत्माभेदेन विद--णिनि ।

ब्रह्मात्मैक्याभिज्ञे “ब्राह्मणेषु तु विद्वांसो विद्वत्सु
कृतबुद्धयः । कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रहवेदिनः” मनुः ।

ब्रह्मवैवर्त्त न० अष्टादशसहापुराणमध्ये अष्टादशसहस्रसंख्यके

१ महापुराणभेदे तत्प्रतिवाद्यविषयादिकं वृहन्नारदीये
४ पादे १०१ अ० उक्तं यथा
“ब्रह्मा उवाच । शृणु वत्स! प्रवक्ष्यामि पुराणं
दशमं तव । ब्रह्मवैवर्त्तकं नाम वेदमार्गानुदर्शकम् ।
सावर्णिर्यत्र भगवान् साक्षाद्देवर्षयेऽर्थितः । नारदाय
पुराणार्थं प्राह सर्वमलौकिकम् । धर्मार्थकाममोक्षाणां
सारः प्रीतिर्हरौ हरे । तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्त्त-
मुत्तमम् । रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम् ।
शतकोटिपुराणं तत् संक्षिप्य प्राह वेदवित् । व्यासश्चतुर्द्धा
संव्यस्य ब्रह्मवैवर्त्तसज्ञितम् । अष्टादशसहस्रन्तत् पुराणं
परिकोर्त्तितम् । ब्रह्म १ प्रकृति २ विघ्नेश ३ कृष्णखण्ड ४
समाचितम् । तत्र सुतर्षिसंवादः पुराणोपक्तमो मतः” । तत्र
प्रथमे ब्रह्मखण्डे । “सृष्टिप्रकरणं त्वाद्यं ततो नारद-
बेधसो । विवादः सुमहान् यत्र द्वयोरासीत् पराभवः ।
शिवलोकगतिः पश्चाज्ज्ञानसाभः शिवान्मुनेः ।
शिववाक्येन तत् पश्चात् मरीचेर्नारदस्य । तु मननञ्चैव
सावर्णिर्ज्ञानार्थं सिद्धसेविते । आश्रमे सुमहापुण्ये
त्रैलोक्याश्चर्य्यकार्तिणि । एतद्धि ब्रह्मखण्डं हि श्रुतं
पापविनाशनम्” । द्वितीये प्रकृतिखण्डे “ततः सावर्णि-
सवादा नारदस्य समीरितः । कृष्णमाहात्म्यसंयुक्तो
नानाख्यानकथोत्तरः । प्रकृतरशभूतानां कलानाञ्चा पि
पृष्ठ ४६०१
वर्णितम् । माहात्म्यं, पूजनाद्यञ्च विस्तरेण यथास्थि-
तम् । एतत् प्रकृतिखण्डं हि श्रुतं भूतिविधायकम् ।
तृतीये गणेशखण्डे । “गणेशजन्मसंप्रश्नः सपुण्यक-
महाव्रतम् । पार्वत्याः कार्त्तिकेयेन सह विघ्नेशसम्भवः ।
चरितं कार्त्तवीर्य्यस्य जामदग्नस्य चाद्भुतम् । विवादः
सुमहान् पश्चाज्जामदग्न्यगणेशयोः । एतद्विघ्नेशखण्डं
हि सर्वविघ्नविनाशनम्” चतुर्थे श्रीकृष्णजन्मखण्डे
“श्रीकृष्णजन्मसम्प्रश्नो जन्माख्यानं ततोऽद्भुतम् । गोकुले
गमनं पश्चात् पूतनादिबधोऽद्भुतः । बाल्यकौमारजा
लीला विविधास्तत्र वर्णिताः । रासक्रीड़ा च गोपीभिः
शारदी समुदाहृता । रहस्ये राधया क्रीड़ा वर्णिता
बहुविस्तरा । सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः ।
कसादीनां बधे वृत्ते सदस्यद्विजसंस्कृतिः । काश्य
सान्दीपनेः पश्चाव्विद्योपादानमद्भुतम् । यवनस्य बधः
पश्चाद्द्वारकागमनं हरेः । नरकादिबधस्तत्र कृष्णेन
विहितोऽद्भुतः । कृष्णखण्डमिदं विप्र! नृणां संसार-
श्चण्डनम्” तत्फलश्रुतिः “पठितञ्च श्रुतं ध्यातं पूजितं
चाभिवर्णितम् । इत्येतद्व्रह्मवैवर्त्तं पुराणं चात्य-
लौकिकम् । व्यासोक्तं चादिसम्भूतं पठन् शृण्वन्
विमुच्यते । विज्ञानज्ञानशमनात् घोरात् संसारसाग
रात् । लिस्वित्वेदञ्च यो दद्यान्माघ्यां धेनुसमा-
चितम् । व्रह्मलोकमवाप्नोति स मुक्तोऽज्ञानबन्धनात् ।
यश्चानुक्रमणीं वापि पठेद् वा शृणुयादपि । सोऽपि
कृष्णप्रसादेन लभते वाञ्छितं फलम्” । विवर्त्त उपादान
विषमसत्ताकं कार्य्यं स्वार्थे अण् ६ त० । २ व्रह्मणोऽतुल्य-
सत्ताके कार्य्ये च ।

ब्र(व्र)ह्मव्रत न० सहस्रवर्षसाध्ये ब्रह्मलोकदर्शनफलके व्रत भेदे भा० स० ११ अ० ।

ब्र(व्र)ह्मशल्य पु० ब्रह्मेव सूक्ष्मं शल्यं कण्टकाग्रं यस्य ।

(बावला) वृक्षभेदे रत्नमाला ।

ब्र(व्र)ह्मशाला स्त्री १ तीर्थभेदे भा० व० ८७ अ० । २ वेदपाठार्थं शालायाञ्च ।

ब्र(व्र)ह्मशासन न० ६ त० । तत्तत्कार्य्येषु ब्रह्मकर्त्तृके १ नियो-

जने । तेन च यथा यस्य शासनं कृतं यथा पृथिव्या
धारणाय वायोर्वहनाय सूर्य्यादीनां प्रकाशनाय इत्यादि तत्तथैव
तैः शासनमनुपाल्यते एवं वर्णाश्रमादिकर्मानुशासनमपि तेनैव
अनुशिष्टम् “श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य बर्त्तते ।
णाज्ञाच्येदी मम द्वेषी नरकं प्रतिपद्यते” भगवदुक्तेः ।
ब्रह्मणो वेदस्यानुशासने २ कर्त्तव्यतोपदेशे च ।
अधिकरणे ल्युट् । ३ ब्रह्मविचारगृहे शब्दरत्ना० ।

ब्र(व्र)ह्मशिरस् न० अस्त्रभेदे तच्चास्त्रं द्रोणेन स्वसुताय अश्वत्थाम्ने

अर्जुनाय चाध्यापितं तदस्त्रप्रयोगसंहारादिकथा
भा० सौ० १२ अ० ।

ब्र(व्र)ह्मसंशित त्रि० ३ त० । ब्राह्मणा मन्त्रेण संशिते तीक्ष्णीकृते ऋ० ६ । ७५ । १६

ब्र(व्र)ह्मसंहिता स्त्री वैष्णवाचारसिद्धान्ते अध्यायशतात्मके

ग्रन्थभेदे ।

ब्र(व्र)ह्मसती स्त्री ब्रह्मरूपा ब्रह्मणो वा जाती सतो । सरस्वत्यां निघण्टुः ।

ब्र(व्र)ह्मसत्ता स्त्री० ६ त० । ब्रह्मरूपजगदधिष्ठातृसत्तायाम् ।

शुक्तिसत्तया रजतसत्तावत् तत्सत्तयैव जगतःसत्त
वेदान्तमतम् ।

ब्र(व्र)ह्मसत्र न० ब्रह्म वेदस्तत्पाठरूपं सत्रम् । ब्रह्मयज्ञ-

शब्दार्थे “नैत्यिके नास्त्यनध्याया ब्रह्मसत्रं हि तत्स्मृ-
तम्” मनुः ।

ब्र(व्र)ह्मसदन न० सोदत्यस्मिन् सद--आधारे ल्युट् ६ त० ।

ब्रह्मण ऋत्विग्भेदस्य वारुणीवृक्षादिजाते कुशास्तृते
प्रागग्रे १ आसने कात्या० श्रौ० २ । १ । २ सूत्रादौ दृश्यम् ।
२ हिरण्यगर्भसदने च ।

ब्र(व्र)ह्मसरस् न० तीर्थभेदे तत्कथा भा० व० ८१ अ० दृश्या ।

ब्र(व्र)ह्मसर्प पु० ब्रह्मेव वृहन् सर्पः । सर्पभेदे त्रिका० ।

ब्र(व्र)ह्मसात् अष्य० ब्रह्माधीनं करोति साति । ब्रह्माधीने

कृञादिष्वेवास्य प्रयोगः ब्रह्मसात्--करोति भवति सम्पद्यते वा

ब्र(व्र)ह्मसामन् न० सामभेदे तच्च साम ताण्ड्यब्रा०४ । ३ । १

दर्शितं यथा “अथास्मिन्नेवाहनि मध्यन्दिनसवने ब्राह्म-
णाच्छंसिनः पृष्ठस्तोत्रनिवर्त्तकमेकं साम विधत्ते भा०
“अभीवर्त्तो ब्रह्म साम भवति” ताण्ड्यब्रा० “तञ्चोदञ्च
मृतीसहमित्यस्यां योनावुत्पन्नं साम अभीवर्त्ताख्यम् एतत्
साम ब्राह्मणाच्छंसी पृष्ठस्तोत्रमनुशंसति, तच्च वक्ष्य-
माणासु ऋक्षु कर्त्तव्यम्” अथैतन्नामनिर्वचनेन प्रशं-
सति भा० । “अभीवर्त्तेन वै देवाः खर्गं लोकमभ्यवर्त्तन्त
यदभीवर्त्तो ब्रह्म साम भवति स्वर्गस्य लोकस्याभिवृत्त्यै”
ब्रा० । “अभीवर्त्ताख्येन सान्या देवाः स्वर्गं लोकमभ्य-
वर्त्तन्त अगच्छन् अतएवास्याभिवृत्तिसाधनत्वादस्य साम्नो-
ऽभीवर्त्त इति संज्ञा निष्पन्ना । अतएव शाट्यायनकं
“यदभ्यवर्त्तन्त तदभीवर्त्तस्याभीवर्त्तत्वमिति” । अभिपूर्वाद्-
वृत वर्त्तने इत्यस्मात् करणे धञ् । उपसर्गस्य घञ्यमनुष्ये
बहुलमिति पूर्वपदस्य दीर्घः । एवं सति अस्मिन्नहनि
अभीवर्त्तो ब्रह्मणः पृष्ठ्यसाम भवतीति यत् तत् स्वर्गस्य
लोकस्याभिवृत्यै अभिवर्त्तनायाभिगमनाय सत्रिणां
मवति” भा० । तच्च साम ऊहगाने । ६ प्र० १४ क० दर्शितम् ।
पृष्ठ ४६०२

ब्र(व्र)ह्मसायुज्य न० सह युनक्ति युज--क्विप् तस्य भावः

सायुज्यं ६ त० । ब्र(व्र)ह्मभावे ।

ब्र(व्र)ह्मसार्ष्टिता स्त्री ६ त० । ब्रह्मतुल्यगतित्वे मनुः ४ । २३२ ।

ब्र(व्र)ह्मसावर्णि पु० दशमे मनुभेदे “दशमी ब्रह्मसावर्णि

रुपश्लोकसुतो महान् । तत्सुता भूरिसेनाद्या हविष्मत्-
प्रमुखा द्विजाः । हविष्मान् सुकृतः सत्यो जयो मूर्त्ति-
स्तदा द्विजाः । सुवासनविरुद्धाद्या देवाः शम्भुः सुरे-
श्वरः । विष्वक्मेनो विषुच्यान्तु शम्भोः सख्यं करिष्यति ।
जातः स्वांशेन भगवान् गृहे विश्वसृजां प्रभुः” भाग०
८ । १३ । १०

ब्र(व्र)ह्मसम्भव पु० ६ त० । १ जैनभेदे हेम० २ ब्रह्मणो जाते वसिष्ठादौ च ।

ब्र(व्र)ह्मसिद्धान्त ६ त० । पैतामहे ज्योतिषसिद्धान्तभेदे

“पौलिशरोम(सोम)क वासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धा-
न्तेषु” वृ० स० १ अ० ।

ब्र(व्र)ह्मसुत पु० ६ त० । १ केतुभेदे वृ० स० ११ अ० केतुशब्दे दृश्यम् । २ मरीच्यादौ च

ब्र(व्र)ह्मसुवर्चला स्त्री ओषधिभेदे तत्स्थानलक्षणादिकमुक्तं

सुश्रुते “देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे । दृश्यते
च जलान्तेषु मध्ये ब्रह्मसुवर्चला” । “कनकाभा जलान्तेषु
सर्वतः परिसर्पति । सक्षीरा पद्मिनीप्रख्या देवी ब्रह्म
सुवर्चला” । तत्क्वथिते २ जले च “पिबेत् ब्रह्मसुव-
र्चलाम्” मनुः ।

ब्र(व्र)ह्मसू पु० ब्रह्माणं सूतवान् सू--क्विप् । चतुर्व्यूहात्म-

कस्य विष्णोर्मूर्त्तिभेदे अनिरुद्धे तस्यावतारभेदे २ उषापतौ
च अमरः । “अनिरुद्धात्ततो ब्रह्मा तन्नाभिकमलोद्भवः”
ब्रह्मपु० । ब्रह्मणि तपसि सुवति प्रेरयति सू--प्रेरणे क्विप् ।
तपःप्रवर्त्तके ३ कामे च कामेनैव सर्वतपस्मु प्रेरणात्तस्य
तथात्वम् । तदभिमानिदेवे ४ कन्दर्पे च अमरः ।

ब्र(व्र)ह्मसूत्र न० ब्रह्मणि वेदग्रहणकाले उचितं सूत्रम् ।

१ यज्ञोपवीते त्रिका० । २ ब्रह्मप्रतिपादके शारीरकसूत्रे च ।
“ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम्” गीता ।

ब्र(व्र)ह्मसूनु पु० ६ त० । इक्ष्वाकुवंशोद्भवे १ राजभेदे ब्रह्म-

दत्ते हेमच० २ वसिष्ठादौ च ।

ब्र(व्र)ह्मस्तेय ६ त० । स्वार्थमधीयानात् ततोऽनुज्ञामप्राप्य तद्वा-

क्यश्रवणेन वेदाध्येतरि । “ब्रह्म यस्यननुज्ञातमधीयाना-
दवाप्नुयात् । स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते” मनुः

ब्र(व्र)ह्मस्थान न० ६ त० । तीर्थभेदे भा० व० ८१ अ० ।

ब्र(व्र)ह्मस्व ६ त० । ब्रह्मस्वामिके धने । “ब्रह्मस्यं वा गुरुस्यं

वा देवस्वं वापि यो हरेत् । स कृतघ्न इति ज्ञैयो
महापापी च भारत! । अवटोदे वसेत् सोऽपि यावदिन्द्रा शतं
शतम् । ततो भवेत् सुरापीति ततः शूद्रस्ततः शुचिः” ।
ब्रह्मवै० प्रकृ० ४९ अ० ।

ब्र(व्र)ह्महत्या स्त्री० हन--क्यप् ६ त० । विप्रहनने । तस्य

महापातकत्वमुक्तं मनुना “ब्रह्महत्या सुरापानं स्तेयं गुर्व-
ङ्गनागमः । महान्ति पातकान्येव संसर्गश्चापि तैः सह”
तदधिष्ठातृस्वरूपमुक्तं ब्रह्मवै० पु० जन्म० ४७ अ० यथा
“रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी । सप्तताल-
प्रमाणा सा शुष्ककण्ठौष्ठतालुका । ईशाप्रमाणदशना
महाभीतञ्च कातरम् । धावन्तं परिधावन्ती बलिष्ठाहत-
चेतनम् । खङ्गहस्ता हतास्त्रं तं दयाहीना च मूर्च्छि-
तम् । इन्द्रो दृष्ट्वा च तां घोरां स्मारं स्मारं गुरोः
पदम् । विवेश मानससरो मृणालसूक्ष्मसूत्रतः । तत्र
गन्तुं न शक्ता सा ब्रह्मणः शापकारणात्” । वृत्रा
सुरवधनिमित्तकब्रह्महत्यापनोदनार्थं शक्रेणाश्वमेधे-
कृते तस्या विभज्य स्थानविशेषे संक्रामणकथा भा० उ०
उ० १२ अ० यथा “तत्राश्वमेधः सुमहान् महेन्द्रस्य
महात्मनः । ववृते पावनार्थं वै ब्रह्महत्यापहो नृप! ।
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च । पर्वतेषु
पृथिव्याञ्च स्त्रीषु चैव युधिष्ठिरः!” आतिदेशिकब्रह्महत्याः
कतिचित् ब्रह्मवै० प्रकृ० २७ अ० उक्ता यथा
“श्रीकृष्णे च तदर्च्चायां तन्मय्यां प्रकृतौ तथा । शिवे
च शिवलिङ्गे वा सूर्य्ये सूर्य्यतनौ तथा । गणेशे वा
तदर्च्चायामेवं सर्वत्र सुन्दरि! । यः करोति भेदबुद्धिं
ब्रह्महत्यां लभेत् तु सः । स्वगुरौ स्वेष्टदेवेषु जन्मदा-
तरि मातरि । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत् तु
सः । वैष्णवेष्वन्यभक्तेषु, ब्राह्मणेष्वितरेषु च । करोति
समतां यो हि ब्रह्महत्यां लभेत् तु सः । हरेः पादो-
देकेष्वन्यदेवपादोदके तथा । करोति समतां यो हि
ब्रह्महत्यां लभेत् तु सः । विमूढ़ो विष्णुनैवेद्ये चान्य-
नैवेद्यके तथा । करोति समतां यो हि ब्रह्महत्यां
लभेत् तु सः । सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।
सर्वाद्ये सर्वदेवानां सेव्ये सर्वात्मनात्मनि । मायया
मेकरूपे वाप्येकत्रैव हि निर्गुणे । करोत्यनेन समतां
ब्रह्महत्यां लभेत् तु सः । पितृदेवार्च्चनं पौर्वापरं
वेदविनिर्मितम् । यः करोति तन्निषेधं ब्रह्महत्यां स
विन्दति । ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा ।
पृष्ठ ४६०३
पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते । ये निन्दन्ति
विष्णुमायां विष्णुभक्तिप्रदां सतीम् । सर्वशक्तिस्वरूपाञ्च
प्रकृतिं सर्वमातरम् । सर्वदेवस्वरूपाञ्च सर्वाद्यां सर्व-
वन्दिताम् । सर्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते ।
कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् ।
शिवरात्रिं तथा चैकादशीं वारं रवेस्तथा । पञ्च पर्वाणि
पुण्यानि ये न कुर्वन्ति मानवाः । लभन्ते ब्रह्महत्यां
ते चाण्डालाधिकपापिनः । अम्बुवाच्यां भूखननं
जले शौचादिकञ्च ये । कुर्वन्ति भारते वर्षे ब्रह्महत्यां
लभन्ति ते । गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतं
सुताम् । अनाथां यो न पुष्णाति ब्रह्महत्यां लभेत् तु
सः । विवाहो यस्य न भवेत् न पश्यति सुतन्तु यः ।
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत् तु सः । हरेर-
नैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिव-
लिङ्गं वा ब्रह्महत्यां लभेत् तु सः” । आतिदेशिक्या-
स्तस्या विनाशनं हरिस्मरणगङ्गास्नानादि ।

ब्र(व्र)ह्महत्यासम न० “अनृतञ्च समुत्कर्षे राजगामि च

पैशुनम् । गुरोरलीकनिर्बन्धः समानि ब्रह्महत्यया” मनूक्ते
अनुपातकभेदरूपे मिथ्याभेदकथनादौ ।

ब्र(व्र)ह्महन् त्रि० ब्र(व्र)ह्माणं हतवान् हन--क्विप् । १ विप्र-

हत्याकारिणि । “ब्र(व्र)ह्महा न भवत्यन्यो ब्र(व्र)ह्महा
वृषलीपतिः । यस्तस्यामाहितोगर्भः स तेन ब्रा(व्रा)ह्मणो
हतः” इत्युक्ते २ वृषलीतौ च । “क्षुतोत्पतनजिह्मासु जीवो-
त्तिष्ठाङ्गुलिध्वनिः । गुरोरपि च कर्त्तव्यमन्यथा ब्रह्महा
भवेत्” ३ इत्यादिस्मृत्युक्तातिदेशिकब्र(ब्र)ह्महत्यापापयुक्ते
च । तत्प्रायश्चित्तं मनुनोक्तं यथा
“ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् ।
भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् १ । लक्ष्यं
शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः २ । प्रास्ये-
दात्मानमग्नौ वा समिद्धे त्रिरावाक्शिराः ३ । यजेत
वाश्वमेधेन ४ स्वर्जिता ५ गोसवेन वा ६ । अभिजिद्विश्वजिद्भ्यां ७ ।
८ वा त्रिवृताग्निष्टुतापि ९ वा । जपन् वान्यतमं १० । वेदं
योजनानां शतं व्रजेत् ११ । ब्रह्महत्यापनोदाय मितभुङ्
नियतेन्द्रियः । सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् १२ । धनं
षा जीवनायालं गृहं वा सपरिच्छदम् १३ । हविष्यभुग्
वाऽनुसरेत् प्रतिस्रोतः सरस्वतीम् १४ । जपेद्वा नियताहार-
रिवर्वै वेदस्य संहिताम् १५ । कृतवापनो निवसेद् ग्रामान्ते
गोव्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते
रतः । ब्रह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्य-
जन् १६ । मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ।
त्र्यवरं प्रतियोद्धा वा१ ७ सर्वस्वमवजित्य वा । विप्रस्य
तन्निमित्ते वा प्राणालाभे विमुच्यते” ।

ब्र(व्र)ह्माङ्गभू पु० ब्रह्मणोऽङ्गात् भवति भू--क्विप् । घोटके

हारा० । ब्रह्मात्मभूशब्दे दृश्यम् ।

ब्र(व्र)ह्माञ्जलि पु० ब्र(व्र)ह्मण वेदपाठाय अञ्जलिः गुरौ

कृतोविनयाञ्जलिः, स्वरविशेषज्ञापनार्थं वा कृतीञ्जलिः
संकुचितपाणिः । वेदपाठार्थं गुरुनिकटे कार्य्ये १ विनयाञ्जलौ
स्वरविशेषार्थज्ञापनाय कृतसङ्कोचे २ पाणिद्वये च अमरः ।

ब्र(व्र)ह्माणी पु० ब्र(व्र)ह्माणम् आनयति जीवयति

अनणिच्--अण् पूर्व० णत्वम् । ब्रह्मशक्तौ “हंसयुक्ते विमा-
नस्था साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिः
ब्रह्माणी साऽभिधीयते” इति देवीमा० । “ब्रह्माणी ब्रह्म-
जननाद्” देवीपु० । ब्रह्मशब्दात् ङीष् आनङ्
चेति त्वपाणिनीयम् । २ रेणुकानामगन्धद्रव्ये रत्नमा० ।
२ राजरीतौ राजनि० । ३ ब्रह्मणोऽर्द्धशरीरादुत्पन्नायां
शतरूपायाम् । “ततः संजपतस्तस्य भित्त्वा देहमकल्म-
षम् । स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् । शतरूपा च
सा ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्री
ब्रह्माणीत्युच्यते च सा” मत्स्यपु० ३ अ० ।

ब्र(व्र)ह्माण्ड न० ६ त० । “तदण्डमभवद्धैमं सहस्रांशुसम-

प्रमम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः”
इति मनूक्ते ब्रह्मण उत्पादके अण्डाकारे १ भुवनकोषे
“ब्रह्माण्डभाण्डीदरभ्राम्यत्पिण्डितचण्डिमेति” वीरचरितम् ।
ब्रह्माण्डसंस्था सू० सि० दर्शिता यथा
“वासुदेवः परं ब्रह्म तन्मूर्त्तिः पुरुषः परः । अव्यक्तो
निर्गुणः शान्तः पञ्चविंशात् परोऽव्ययः । प्रकृत्यन्तर्गतो
देवो बहिरन्तश्च सर्वगः । सङ्कर्षणोऽपः सृष्ट्वादौ तास
वीजमवासृजत् । तदण्डमभवद्धैमं सर्वत्र तमसा-
वृतम् । तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः ।
हिरण्यगर्भो भगवानेष छन्दसि पठ्यते । आदित्यो
ह्यादिभूतत्वात् प्रसूत्या सूर्य उच्यते । परं ज्योतिस्तमः-
पारे सूर्योऽयं सवितेति च । पर्येति भुवनान्येष
भावयन् भूतभावनः” इत्युपक्रमे “गुणकर्मविभागेन सृष्ट्वा
प्राग्वदनुक्रमात् । विभागं कल्पयामास यथास्वं वेददर्श-
नात् । ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः । देवा-
पृष्ठ ४६०४
सुरमनुष्याणां सिद्धानां च यथाक्रमम् । ब्रह्माण्डमेतत्
सुषिरं तत्रेदं भूर्भुवादिकम् । कटाहद्वितयस्यैव सम्पुटं
गोलकाकृति (१) । ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाऽभिधी-
यते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तपा ।
मन्दामरेज्यभ्रपुत्रसूर्यशुक्रेन्दुजेन्दवः । परिभ्रमन्त्यधो-
ऽधस्था । सिद्धविद्याधरा घनाः । उपरिष्टात् स्थितास्तस्य
सेन्द्रा देवा महर्षयः । अधस्तादसुरास्तद्वत्द्विषन्तोऽन्यो-
न्यमाश्रिताः । ततः समन्तात् परिधिः क्रमेणायं
महाणवः । मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ।
समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः । द्वीपेषु
दिक्षु पूर्वादिनगर्य्यो देवनिर्मिताः । भूवृत्तपादे पूर्वस्यां
यमकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकार-
तोरणा । याम्यायां भारते वर्षे लङ्का तद्वतन्महापुरी ।
पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्त्तिता । उदक्
सिद्धपुरी नाम कुरुवर्षे प्रकीर्त्तिता । तस्यां सिद्धा
महात्मानो निवसन्ति गतव्यथाः” सू० सि० ।
(१) “एतत् प्रागुक्तं ब्रह्मणाघिष्ठितं सुवर्णाण्डं सुषिरमवका-
शात्मकं तत्रावकाशे इदं जगत् भूर्भुवादिकं भूर्भुवःस्व-
र्गात्मकमवस्थितं न बहिः । नन्वण्डस्य गोलाकारत्वेना-
न्तरवकाशात्मकत्वमसम्भवर्तात्यत आह कटाहद्वितय-
स्येति । कटाहोऽर्द्धगोलाकारं सावकाशं पात्रं तस्य
द्वितयं द्वयं समं तस्य । एवकारो न्यूनाधिकव्यवच्छेद-
कार्थः । सम्पुटमाभिमुख्येन मिलितं गोलकाकृतिर्मोला-
कारः स्यात् । तथाच न क्षतिः” रङ्गना० ।
“भूभूधरत्रिदशदानवमानवाद्या येऽयाश्च धिष्ण्यगगने-
चरचक्रकक्षाः । लोकव्यवस्थितिरुपर्युपरि प्रदिष्टा
ब्रह्माण्डभाण्डजठरे तदिदं समस्तम्” सि० शि० । इदानी-
मन्योदितं ब्रह्माण्डमानं पूर्वं कथितमपि प्रसङ्गादनुव-
दति स्म” प्रमिता० । “कोटिघ्नैर्नखनन्दषट्कनखभूभूमृद्भु-
जङ्गेन्दुभि १८७१२०६९२०००००००० र्ज्योतिः शास्त्रविदो
वदन्ति नभसः कक्षामिमां योजनैः । तद्ब्रह्माण्डकटाहसंपु-
टतटे केचिज्जगुर्वेष्ठनं केचित् प्रोचुरदृश्यदृश्यकगिरिं पौरा-
णिकाः सूरयः । करतलकलितामलकवदमलं सकलं
विदन्ति ये गोलम् दिनकरकरनिकरनिहततमसो नभसः स
परिधिरुदितस्तैः । ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे
ग्रहः क्रामति योजनानि । यावन्ति पूर्वैरिह तत्प्रमाणं
प्रोक्तं खकक्षाख्यमिदम् मतं नः” । प्रमाणशून्यत्वात् प्रयो-
जनाभावाच्चास्माभिर्ब्रह्माण्डमानं न कथितमित्यर्थः” प्रमि० ।
दानार्थकल्पिते महादानान्तर्गते ब्रह्माण्डात्मकस्वर्णादि-
घटिते २ पदार्थे तत्स्वरूपादि हेमा० दा० ख० मत्स्यपु० उक्तं
यथा “अथातः संप्रबक्ष्यामि ब्रह्माण्डं विधिपूर्वकम् ।
यच्छ्रेष्टं सर्वभूतानां महापातकनाशनम् । पुण्यं
दिनमथासाद्य तुलापुरुषदानवत् । ऋत्विग्मण्ड-
पसम्भारभूषणाच्छादनादिकम् । लोकेशावाहनं तद्वदधि-
वासनकं तथा” तुलापुरुदानवदिति, कालदेशवृद्धि-
श्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वरणमधुपर्कदा-
नकुण्डमण्डपवेदिकासम्भारलोकेशावहनाधिवासनादि सर्व
मत्स्यपुराणोक्ततुलापुरुषदानविहितं वेदितव्यमित्यर्थः ।
“कुर्य्याद्विंशत्पलादूर्द्ध्वनासहस्राच्च शक्तितः ।
शकलद्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः” । शकलद्वयं, खण्डद्व-
यम् । तल्लक्षणन्तु ब्रह्माण्डपुराणे “कुम्भच्छाया भवेद्-
यादृक् प्रतीच्यां दिशि चन्द्रमाः । उदितः शुक्लपक्षादौ
वपुरण्डस्य तादृशमिति” कुम्भच्छाया इति, कुम्भच्छाया
ग्रीवाहीनकुम्भादिजेत्यवधेयम् । “दिग्गजाष्टकसंयुक्तं
षड्वेदाङ्गसमन्वितम् । लोकपालाष्टकोपेतं मध्यस्थितचतु-
र्मुखम् । शिवाच्युतार्कशिखरमुमालक्ष्मीसमन्वितम् ।
वस्वादित्यमरुद्गर्भं महारत्नसमन्यितम्” । अथैतेषां दिग्-
गजप्रभृतीनां क्रमेण लक्षणाण्युच्यन्ते आदित्यपुराणे
“शुभ्राभश्च चतुर्दंष्ट्रः श्रीमानैरावती गजः । पुष्पदन्तो
वृहत्सास्नः षड्दन्तः पुष्पदन्तवान् । सामान्यपजरूपेण
शेषा दिक्वरिणः स्मृताः” । तन्नामानि शास्त्रान्तरे
“ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः
सार्वभौमः सुप्रतीकश्च दिग्गजाः” । वेदाङ्गानि स्कन्द-
पुराणे “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषा-
ञ्चिति । छन्दश्चेति षड़ेतानि वेदाङ्गानि प्रचक्षते ।
मूर्त्तानि ब्रह्मणो लोके साक्षसूत्राणि तानि तु ।
द्विजालिभिः शुभास्यानि वामे दधति कुण्डिकाम्” ।
तानि च पश्चिमदिशि वेदसन्निधौ निवेशनीयानि दिग्वि-
शेषानाम्नानात् प्रधानं नीयमानं हि तत्राङ्गान्यपकर्ष-
तीतिन्यायात्, वक्ष्यते च, “पश्चिमे चतुरोवेदानिति” ।
लोकपालरूपाण्याह विश्वकर्मा “चतुर्दन्तो गजारूढ़ो
वज्रपाणिः पुरन्द्ररुः । प्राचीपतिः प्रकर्त्तव्यो नाना-
भरणभूषितः । पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरो-
ऽरुणः । छागस्थः साक्षसूत्रश्च सप्तार्चिः शक्तिधारकः ।
ईषत्पीनो यमः कार्य्यो दण्डहस्तो विजानता । रक्त-
दृक् पाशधृक् क्रुद्धो निरृतिर्विकृताननः । पुंस्थिता
पृष्ठ ४६०५
घड्गहस्तश्च भूतवान् राक्षसावृतः । वरुणः पाशभृत्
सौम्यः प्रतीच्यां मकराश्रयः । धावद्धरिणपृष्टस्थो
ध्वजधारी समीरणः । दशाश्वरथगः सोमो गदापा-
णिर्वरप्रदः” । “शशकवाहनः” इत्यागमान्तरम् । “पूर्वोत्तरे
त्रिनेत्रश्च वृषभस्थस्त्रिशूलभृत् । कपालपाणिश्चन्द्रार्द्ध-
भूषणः परमेश्वरः” । चतुर्मुखरूपन्तु विष्णुधर्मोत्तरात्
“पद्मपत्रासनस्थश्च ब्रह्मा कार्य्यश्चतुर्मुखः । अक्षमाला-
स्रजं बिभ्रत् पुस्तकञ्च कमण्डलुम् । वासः कृष्णाजिनं
तस्य पार्श्वे हंसस्तथैव च” । शिवलक्षणमुक्तं वायुपुराणे
“पञ्चवक्त्रो वृषारूढ़ः प्रतिवक्त्रं त्रिलोचनः । कपाल-
शूलखट्वाङ्गी चन्द्रमौलिः सदाशिवः” । विष्णुलक्षण-
मुक्तं तुलापुरुषदाने । सूर्य्यलक्षणमुक्तं विष्णुधर्मोत्तरे
“रविः कार्य्यः शुभश्मश्रुः सिन्दूरारुणसुप्रभः । पद्मा-
सनः पद्मकरो भूषितो रशनाधरः” । उमालक्ष्मीसमन्वित-
मित्यत्र, शिवाच्युतयोः सन्निहिते उमालक्ष्म्यौ विधेयौ ।
उमालक्षणमुक्तं देवीपुराणे “गौरीं शङ्खेन्दुवर्णाभां सर्व-
रीशनिषेविताम् । वृत्तपद्मासनासीनां साक्षमूत्रकमण्ड-
लुम् । वरदोद्यतरूपाद्यां सर्वमाल्यफलप्रियाम्” ।
वरदोद्यतरूपाद्यां, वरदाभयपाणिकामित्यर्थः । लक्ष्मी-
लक्षणमुक्तं पञ्चरात्रे “पद्मासनस्थां कुर्वीत श्रियं त्रै-
लोक्यमातरम् । गौरवर्णां सुरूपाञ्च सर्वालङ्कारभूषि-
ताम् । रौक्मपद्मकरव्यग्रां वरदां दक्षिणेन तु” । वस्वा-
दित्यरूपाणि, नारदीये, “प्रसन्नवदनाः सौम्या वरदाः
शक्तिपाणयः । पद्मासनस्था द्विभुजाः कर्त्तव्या वसवः
सदा । पद्मासनस्था द्विभुजाः पद्मगर्भान्तकान्तयः ।
करादिस्कन्धपर्य्यन्तनालपङ्कजधारिणः । अधःसंस्थित-
मेषादिराशयः प्रावृताङ्घ्रिकाः । इन्द्राद्या द्वादशादि-
त्यास्तेजोमण्डलमध्यगाः” तथा । वायुतुल्येन रूपेण
मरुतो नाम देवताः” । कर्त्तव्या इति शेषः, वस्वादि-
नामानि, तुलापुरुषोक्तानि वेदितव्यानि । महारत्न-
समन्वितमिति, महारत्नानि परिभाषायामुक्तानि,
अनन्तमिथुनान्वितमिति क्वचित्पाठः । “फणासप्तान्वितो-
ऽनन्तः पृथ्वी स्त्रीरूपधारिणीत्यनन्तमिथुनम् । अथ
प्रकृतमुच्यते” वितस्तेरङ्गुलशतं यावदायामविस्तरम् । कौशे-
यवस्त्रसंवीतं तिलद्रीणोपरि न्यसेत् । तथाष्टादश
धान्यानि समन्तात्परिकल्पयेत्” । वितस्तेरङ्गुलशतमिति,
द्वादशाङ्गुलमारभ्याङ्गुलशतंयावच्छक्त्यनुसारेण कार्य्य-
मित्यर्थः । द्रोणमानमष्टादश धान्यानि च परिभाषायां
द्रष्टव्यानि । स च तिलद्रोणो वेदिकायां लिखितचक्र-
स्योषरि स्थापनीयः । “पूर्वेणानन्तशयनं प्रद्युम्नं पूर्व-
दक्षिणे । प्रकृतिर्दक्षिणे देशे संकर्षणमतः परम् । पश्चिमे
चतुरोवेदाननिरुद्धमतः परम् । अग्निमुत्तरतो हैमं
वासुदेवमतः परम् । समन्ताद्गुणपीठस्थानर्चगेत् काञ्च-
नान् बुधः । स्थापयेद्वस्त्रसंवीतान् पूर्णकुम्भान् दशैव
तु” । पूर्वेणेत्यादि, ब्रह्माण्डात् पूर्वदेशे अनन्तशयनं
शेषशायिनं गुण (सत्त्वादि) पीठे स्थापयेत्, तन्मूर्त्तिलक्षणं
विष्णुधर्मोत्तरात् “देवदेवश्च कर्त्तव्यः शेषसुप्तश्चतुर्भुजः ।
एकपादोऽस्य कर्त्तव्यो लक्ष्म्युत्सङ्गगतः प्रभोः । तथाऽपरश्च
कर्त्तव्यः शेषभोगाङ्कसंस्थितः । एकोभुजोऽस्य कर्त्त-
व्यस्तत्र जानौ प्रसारितः । कर्त्तव्यो नाभिदेशस्थ-
स्तथा तस्यापरः करः । तथैवान्यः करः कार्य्यो देवस्य
तु शिरोधरः । सन्तानमञ्जरीधारो तथाचास्य करः परः ।
नाभिसम्भूतकमले सुखासीनः पितामहः । नाललग्नौ
तु कर्त्तव्यौ पद्मस्थौ मधुकैटभौ । शङ्खचक्रगदादीनि
मूर्त्तानि परितो न्यमेदिति” । प्रद्युम्नलक्षणं पञ्चरात्रा-
दिषु “दक्षिणोर्द्धकरे पद्मं दद्याच्छङ्खमधः करे ।
चक्रमूर्द्धे ततो वामे गदां दद्यात् तथा द्विज! । चापेषु-
धृम्वा प्रद्युम्नो रूपवान् विश्वमीहनः” इति । अत्र
यद्यपि प्रकृतेरव्यक्तरूपतया विधानमशक्यं तथापि
लक्ष्म्यादिशब्दव्यपदेश्यं सुकरमस्ति तद्रूपमित्यतस्तदन्यतम-
रूपनिर्माणमेव न्याय्यम् । तदुक्तं मार्कण्डेयपुराणे
“सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । मातु-
लङ्गं गदां खेटं पानपात्रञ्च बिभ्रती । नागं योनिञ्च
लिङ्गञ्च विभ्रती नृप! मूर्द्धनीति” । संकर्षणरूपम्
विष्णुधर्मोत्तरे “वासुदेवस्य रूपेण कार्य्यः संकर्षणः प्रभुः ।
स तु शुक्लवपुः कार्य्यो नीलवासा यदूत्तम! । गदास्थाने
च सुसलञ्चक्रस्थाने च लाङ्गलमिति” । वेदमूर्त्तयो
भूतघटे वक्ष्यन्ते । अनिरुद्धरूपं नारदीये । “कृष्णं
चतुर्भुजं दक्षे शरं खड़्गं तदुत्तरे । धनुःखेटधरं
वीरमनिरुद्धं प्रचक्षते” । अग्निलक्षणमुक्तम् । वासुदेवरूपमपि
नारदीये “वासुदेवः शिवः शान्तः सिताभश्च चतुर्भुजः ।
योगमूर्द्धोर्द्धशङ्खश्च हृद्देशार्पितहस्तकः । धारयेदुत्तरे
चक्रं करे वै दक्षिणे गदामिति” । एते च देवताविशेषा,
ब्रह्माण्डनिर्माणकॢप्तसुवर्णात् पृथक् सुवर्णेणैव
घटनीयाः ब्रह्माण्डस्य किल विंशतिपलात्पभृति पलमह-
स्राववधिरिह नियमः, पुराणेषु दृश्यते ततोऽवकृष्य-
पृष्ठ ४६०६
माणकाञ्चने तस्मिन् न्यूनसंख्यत्वादयथावद्विहितत्वमा-
पद्यते । न च दिग्गजाष्टकसंयुक्तं लोकपालोपेतमित्या-
दिना एक एव तावद्भिरङ्गैरङ्गी निष्पाद्यत इति
ब्रब्राण्डवत्कॢप्तसुवर्णेनैव दिग्गजादिप्रतिमानिर्मितौ
न कश्चिद्बाध इति वाच्यं, “कृञ्चिनान् कारयेदिति” पुनः
काञ्चनोपदेशानार्थक्यापत्तेः । अश्रूयमाणपरिमाणानां
प्रतिमानामङ्गुष्ठपर्वप्रभृतिवितस्तिपर्य्यन्तं यथाशक्ति परिमाणं
कल्पनीयम् । “पूर्णकुम्भान् स्थापयेदित्यत्र समन्तादिति
योज्यम् । “दर्शव घेनवो देया सहेमाम्बरदोहनाः ।
पादुकीपानहच्छत्रचामरासनदर्पणैः । भक्ष्यभोज्यान्नदीपेक्षु-
फलमाल्यानुलेपनैः । होमाधिवासनान्ते च स्थाविती
वेदपुङ्गवैः । इत्थमुच्चारयेन्मन्त्रं त्रिःकृत्वाथ प्रदक्षिणम्” ।
सहेमाम्बरदोहना इति, हेमशृङ्ग्यः ताम्रदोहनाः
सवस्त्राः पार्श्वतो दक्षिणार्थमुपकल्पनीयाः । तत्राचार्य्याय
द्वे, ऋत्विग्भ्योऽष्टौ संप्रदेया, जापकादीनां अन्यैव
यथाशक्ति दक्षिणेति, । भविष्योत्तरे तु “ज्ञेयं निष्कशतं
पार्थेत्यादिना सुवर्णमेव दक्षिणार्थमुपकल्पनीयमित्युक्तं,
श्राद्धाधिवासनदिनादन्येद्युरग्निकुण्डेषु ऋत्विगुपवेशना-
दिकर्मशेषसमाप्तौ तुलापुरुषदानवद्विहितायां, पूर्ववदेव
स्रापितः शुक्लमाल्याम्बरधरो गृहीतकुसुमाञ्जलिर्यजमानो
ब्रह्माण्डं त्रिःप्रदक्षिणीकृत्य मन्त्रमुच्चारयेत् । मन्त्रः । “नभो-
ऽस्तु विश्वेश्वर! विश्वधामन्! जगत्सवित्रे भगवन्नमस्ते ।
सप्ताधिलोकामरभूतलेन गर्भेण सार्द्धं वितराभिरक्षाम् ।
ये दुःखितास्ते सुखिनो भवन्तु प्रयान्तु पापानि
चराचराणाम् । त्वद्दानशस्त्राहतपातकानां ब्रह्माण्डदोषाः
प्रलय व्रजन्तु । एवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्यो
दशधा विभज्य । भागद्वयं तत्र गुरोः प्रकल्प्य समम्भजे-
च्छेषमतः क्रमेण” । दानवाक्यं तुलापुरुषवद्बेदितव्यं
तच्च दशधा विभज्य गुरोर्भागद्वयं प्रकल्प्य अवशिष्टाष्ट-
भागानामेकैकं भागं त्रिधा विभज्य चतुर्विंशतिसंख्येभ्य
ऋत्विगादिभ्यः समं दद्यात्, तदनुज्ञयान्येभ्योऽपि ब्राह्म
णेभ्यो दद्यात् । “स्वल्पं होमं गुरुरेक एव कुर्य्यादथैकाग्नि-
विधानयुक्त्या । स एव संपूज्यतमोऽल्पवित्तैर्यथोक्तवस्त्रा-
भरणादिकेन” । विंशतिपलादारभ्य पलसहस्रावधिद्रव्ये
ब्रह्माण्डे सहस्रतदर्द्धादित्युत्तममध्यमादित्रैविध्यकल्प-
नायां कनीयोभागस्याल्पत्वमवधेयं, विंशतिपलनिर्मित-
स्यैवालपत्वमित्येके उक्तविंशतिपलादर्वाक् यथाशक्ति-
विधान खल्पत्वमवगन्तव्यमिति केचित् । एकाग्निविधानम्
एकस्मिन्नेव कुण्डे होमकरणम् कुण्डमपि वरुणदिग्-
भागस्थितं वृत्ताकारञ्च कार्य्यं तदेतत्परिभाषायामुपपा-
दितम् । अथ पुण्याहवाचने कृते देवतावेदीसमीपं गत्वा
पूर्ववद्यजमानेन देवतापूजायां विहितायामाचार्य्यो
विसर्जनं विदध्यात् । “इत्थं य एतदखिलं पुरुषोऽत्र कुर्य्या-
दब्रह्माण्डदानमधिगम्य महद्विमानम् । निर्धूतकल्मष-
विशुद्धतनुर्मुरारेरानन्दकृत् पदमुपैति सहाप्सरोभिः ।
सन्तारयेत् पितृपितामहपुत्रपौत्रबन्धुप्रियातिथिकलत्र-
शताष्टकं सः । ब्रह्माण्डदानशकलीकृतपातकौघमानन्द-
येच्च जननीकुलमप्यशेषम् । इति पठति शृणोति वा य
एतत् सुरभवनेषु गृहेषु धार्मिकाणाम् । मतिमपि च
ददाति मोदते सोऽमरपतिभवने सहाप्सरोभिः” ।
“राजोवाच विधिं ब्रह्माण्डदानस्य कृत्वा यं मोक्ष-
भाग्भवेत् । कालं देशं द्विजं तीर्थं सर्वमेत-
द्वदस्व मे । कृतेन येन सर्वस्य फलभागी
भवाम्यहम् । कुत्सितस्यास्य भावस्य मोक्षः स्यादचिराच्च मे ।
वशिष्ठ उवाच “एवं श्रुत्वा ततो राजन्! पुरोधास्तस्य
तं द्विजः । ब्रह्माण्डं कारयामास सौवर्णं सर्वधातुभिः ।
पीठं निष्कसहस्रेण पद्मं तत्र प्रकल्पयेत् । तत्र ब्रह्मा
तस्य मध्ये पद्मरागैरलङ्कृतः । सावित्र्या चैव गायत्र्या
ऋषिभिर्मुनिभिः सह । नारदाद्यैः सुतैः सर्वैरिन्द्राद्यैश्च
सुरैस्तथा । सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः ।
वाराहरूपो भगवान् लक्ष्म्या सह सनातनः । नीला-
न्मरकतांश्चैव भूषायान्तस्य कारयेत् । रजतस्य विशुद्धस्य
देहं रुद्रस्य कारयेत् । गोमेदकैस्तस्य शोभाङ्कारयेदत्र
बुद्धिमान् । मौक्तिकैश्चापि सोमस्य शोभां वल्कैर्दिवा-
करैः” । सावित्रीगायत्र्यौ तु, व्रह्मणः पार्श्वभागे स्थाप-
नीयौ । तदाह नारदः “सावित्री दक्षिणे पार्श्वे गायत्री
नाम वामतः । विलोकयन्त्यौ ब्रह्माणं साक्षसूत्रकमण्ड-
लुम्” । ऋषयः सप्त गोतमाद्याः तदुक्तमादित्यपुराणे
“गोतमश्च भरद्वाजो विश्वामित्रश्च काश्यपः । जमदग्नि-
र्वशिष्ठोऽत्रिः सप्त वैवस्वतेऽन्तरे” । सप्तर्षिलक्षणमाह
यमः “पप्तर्षयस्तु जटिलाः कमण्डल्वक्षसूत्रिणः । ध्यान-
निष्ठा वशिष्ठस्तु कार्य्यो भार्य्यासमत्वितः” । मुनयो
वानप्रस्थाः, नारदाद्यैरिति तेषां विशेषणम्” । तानाह
मनुः “अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सदुस्तरम् ।
पतीन् प्रजानामसृजं महर्षीनादितो दश । मरीचि-
मत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वशिष्ठञ्च
पृष्ठ ४६०७
भृगुन्नारदमेव च” । तल्लक्षणमाह विश्वकर्मा “जटिलाः
श्मश्रुलाः शान्ता दशाऽऽधमनिसन्तताः । कुसुम्भाक्षधराः
कार्य्या मुनयो द्विभुजाः सदा । तेषु सव्यभुजामूलश्लिष्ट-
चीरस्तु नारदः । कर्पूरगौरदेहश्च साक्षसूत्रकमण्डलुः” ।
इत्यादिरूपाण्यपि प्रागभिहितानि । वाराहरूपं विष्णु-
धर्मोत्तरे “वाराहरूपः कार्यस्तु शेषोपरिगतः प्रभुः ।
शेषश्चतुर्भुजः कार्य्यश्चारुरत्नफणान्वितः । कर्त्तव्यौ
सीरमुसलौ करयोस्तस्य यादव! । सर्परूपश्च कर्त्तय्यस्तथैव
रचिताञ्जलिः । आलीटस्थानसंस्थानस्तत्पृष्ठे भगवान्
भवेत् । वामारत्निगता तस्य योषिद्रूपा वसुन्धरा ।
नमस्कारपरा तस्य कर्त्तव्या द्विभुजा शुभा ।
यस्मिन् भुजे धरा देवी तत्र शङ्खः करे भवेत् । अन्ये
तस्य कराः कार्य्याः पद्मचक्रगदाधराः । पद्मासनस्थां
कुर्वीत श्रियं त्रैलोक्यमातरम् । गौरवर्णां सुरूपाञ्च
सर्वालङ्कारभूषिताम् । रौक्मपद्मकरव्यग्रां वरदां दक्षिणेन
तु” । रुद्ररूपं प्रागभितं ग्रहलक्षणानि तद्वर्णाश्च नवग्रह-
दाने वक्ष्यन्ते । सर्ववर्णानि ग्रहसमानवर्णानि, रत्नानि
भूषणार्थं दापयेदित्यर्थः । सर्वधातुभिः ब्रह्माण्डं कर्त्त-
व्यमित्युक्तं, तत्र सुवर्णस्य पीठनिर्माणादिविनियोगमभि-
धायेदानीं धात्वन्तरैः कर्त्तव्यं तदुच्यते “पीठात् सप्तगुणं
रौप्यं रौप्यात्ताम्रं तथाविधम् । ताम्रात् सप्त
गुणं कार्य्यं कांस्यमत्र नराधिव! । त्रपुणः परतः सीसं
तावल्लोहं च कारयेत् । सप्तद्वीपाः समुद्राश्च सप्तैव
कुलपर्वताः । अनया संख्यया ज्ञात्वा निपुणैः शिल्पिभिः
कृताः” । तथाविधं सप्तगुणमित्यर्थः सप्तद्वीपा इत्यादि
एतेषामेकैकधातुना एकैकं द्वीपं समुद्रं कुलाचलञ्च रचये-
दित्यर्थः । “यादसानि च भूतानि राजतान्येव
कारयेत् । आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत् ।
वृक्षान् वनस्पतींश्चात्र तृणवल्लीः सवीरुधः” ।
यादसानि, जलसम्भवानि, पुष्पफलवन्तो वृक्षाः अपुष्पाः
फलिनोवनस्पतयः, वीरुधोगुच्छगुल्मादयः । “सर्वं
प्रकल्प्य विधिवत्तीर्थे देयं विचक्षणैः । कुरुक्षेत्रे गयायां
च प्रयागेऽमरकण्ठके । द्वारवत्यां प्रभासे च गङ्गाद्वारे
च पुष्करे । तीर्थेष्वेतेषु वै देयं ग्रहणे सोमसूर्य्ययोः ।
दिमच्छेदेषु सर्वेषु अयने दक्षिणोत्तरे । व्यतीपाते
बहुगुणं विषुवे च विशेषतः । दातव्यमेतद्राजेन्द्र!
विचारं नैव कारयेत् । कालाग्निहीत्रिणं विप्रं सुरू-
पञ्च गुणान्वितम् । सपत्नीकं च संपूज्य भूषयित्वा वि-
भूषणैः । पुरोहितं मुख्यतमं कृत्वान्यांश्च तथर्त्विजः ।
चतुर्विंशद् गुणोपेतान् सपत्नीकान्निमन्त्रितान् । अहता-
म्बरसुच्छन्नान् स्रग्विणः सुविभूषितान् । अङ्गुलीयकर-
त्नानि कर्णवेष्टांश्च दापयेत् । एवंविधांश्च संपूज्य तेषामग्रे
स्वयं स्थितः । अष्टाङ्गप्रणिपातेन प्रणन्य च पुनः पुनः ।
पुरोहिताय पुरतः कृत्वा वैकरसंपुटम् । यूयं वै ब्रह्मणा
धात्रा, मैत्रत्वेनानुगृह्यताम् । सौमुख्येनेह भवताम्भवेत्
पूतोनरः स्वयम् । भवतां प्रोतियोगेन स्वयं प्रीतः पिता-
महः । ब्रह्माण्डेन तु दत्तेन तेषां प्रीतो जनार्दनः । पिना-
कपाणिर्भगवान् शक्रश्च त्रिदशेश्वरः । एते वै तोषमायान्ति
अनुध्याता द्विजोत्तमैः । एव स्तुत्वा ततो राजा
ब्राह्मणान् वेदवारमान् । ब्रह्माण्डं गुरवे प्रादात्
सविधानं पुनः पुनः । सर्वकामैस्ततस्तप्तो ययौ स्वर्गं
नराधिपः । तेनापि गुरुणा तच्च विभक्तं ब्राह्मणैः
सह । दत्तस्तैरपि चान्येभ्यो ब्रह्माण्डांशो नराधिप! ।
ब्रह्माण्डं भूमिदानं च ग्राह्यं नैकेन तद्भवेत् । गृह्ण-
न्दीषमवाप्नोति ब्रह्महत्यां न संशयः । सर्वेषाञ्चैव
प्रत्यक्षं दातव्यं तन्नराधिप! । दीयमानञ्च पश्यन्ति
तेऽपि पूता भवन्ति हि । दर्शनादेव ते पूता भवेयुर्नात्र
संशयः” । पद्मपुराणोक्तस्तद्विधिर्यथा
“शृणु वत्स! प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् ।
तच्च द्वादशसाहस्रं भाविकल्पकथायुतम् । प्रक्रियाख्यो १
ऽनषङ्गाख्य २ उपोद्घात ३ स्तृतीयकः । चतुर्थ उपसंहारः ४
पादाश्चत्वार एव हि । पूर्वपादद्वयं पूर्वो भागोऽत्र
समुदाहृतः । तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ।
तत्र पूर्वभागे प्रक्रियापादे “आदौ कृत्यसमुद्देशो नैमिषा-
ख्यानकं ततः । हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ।
एष वै प्रथमः पादो द्वितीयं शृणु मानद” । पूर्वभागे
अनुषङ्गपादे “कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ।
मानससृष्टिकथनं रुद्रप्रसववर्णनम् । महादेवविभूतिश्च
ऋषिसर्गस्ततःपरम् । अग्नीनां विचयश्चाथ कालस-
द्भाववर्णनम् । प्रियव्रताचयोद्देशः पृथिव्यायामवि-
स्तरः । वर्णनं भारतस्यास्य ततीऽन्येषां निरूपणम् ।
जम्ब्वादिसप्तद्वीपाख्या ततोऽधीलोकवर्णनम् । ऊर्द्ध्वलोका-
नुकथनं ग्रहचारस्ततःपरम् । आदित्यव्यूहकथनं
देवग्रहानुकीर्त्तनम् । नीलकण्ठाह्वयाख्यानं महादेवस्य
वैमवम् । अमावास्यानुकथनं युगतत्त्वनिरूपणम् । यज्ञप्रवर्त्तनं
चाथ युगयोरन्त्ययोः कृतिः । यगप्रजालक्षणञ्च ऋषि-
पृष्ठ ४६०८
प्रवरवर्णनम् । वेदानां व्यसनाख्यानं स्यायम्भुवनिरूपणम् ।
शेषमन्वन्तराख्यानं पृथिवीदोहनन्ततः । चाक्षुषेऽद्यतने
सर्गो द्वितीयोऽङ्घ्रिः पुरोदले” । मध्यभागे उपोद्घातिपादे
“अथोपोद्घातपादे तु सप्तर्षिपरिकीर्त्तनम् । प्राजा-
पत्यचयस्तस्माद्देवादीनां समुद्भवः । ततो जयाभिव्या-
हारौ मरुदुत्पत्तिकीर्त्तनम् । काश्यपेयानुकथनम्
ऋषिवंशनिरूपणम् । पितृकल्पानुकथनं श्राद्धकल्पस्ततः-
परम् । वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् ।
मनुपुत्राचयश्चातो गान्धर्वस्य निरूपणम् । इक्ष्वाकुवंशकथनं
वंशोऽत्रेः सुमहात्मनः । अमावसोराचयश्च रजेश्चरित-
मद्भुतम् । ययातिचरितञ्चाथ यदुवंशनिरूपणम् । कार्त्त-
वीर्य्यस्य चरितं जामदग्न्यं ततः परम् । कृष्णिवंशानु-
कथनं सगरस्याथ सम्भवः । भार्गवस्यानुचरितं
तथार्य्यकबधाश्रयम् । सगरस्याथ चरितं भार्गवस्य कथा
पुनः । देवासुराहवकथा कृष्णाविर्भाववर्णनम् । इनस्य
च स्तवः पुण्यः शुक्रेण परिकीर्त्तितः । विष्णुमाहात्म्य-
कथनं बलिवंशनिरूपणम् । भविष्यराजचरितं संप्राप्तेऽथ
कलौ युगे । एवमुद्द्वातपादाऽयं तृतोयो मध्यमे दले” ।
उत्तरभागे उपसंहारपादे “चतुर्थमुपसंहारं वक्ष्ये खण्डे
तथोत्तरे । वैवस्वतान्तराख्यानं विस्तरेण यथातथम् ।
पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते । भविष्याणां
मनूनाञ्च चरितं हि ततः परम् । कल्पप्रलयनिर्देशः
कालमानं ततः परम् । लोकाश्चतुर्दश ततः कथिता
मानलक्षणैः । वर्णनं नरकाणाञ्च विकर्माचरणैस्ततः ।
मनीमयपुराख्यानं लयः प्राकृतिकस्ततः । शैवस्याथ
पुरस्यापि वर्णनञ्च ततः परम् । त्रिविधाद्गुणसम्बन्धा-
ज्जन्तूनां कीर्त्तिता गतिः । अनिर्देश्याप्रतर्कस्य ब्रह्मणः
परमात्मनः । अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ।
इत्येष उपसंहारः पादो वृत्तः स चोत्तरः । चतुष्पादं
पुराणं ते ब्रह्माण्डं समुदाहृतम् । अष्टादशमनौपम्यं
सारात् सारतरं द्विज! । ब्रह्माण्डञ्च चतुर्लक्षं पुराण-
त्वेन पठ्यते । तदेव व्यस्य गदितमत्राष्टादशधा पृथक् ।
पाराशर्य्येण मुनिना सर्वेषामपि मानद! । वस्तुद्रष्ट्राथ
तेनैव मुनीनां भावितात्मनाम् । मत्तः श्रुत्वा पुराणानि
लोकेभ्यः प्रचकाशिरे । मुनयो धर्मशीलास्ते दीनानुग्रह-
कारिणः । मया चेदं पुराणन्तु वशिष्ठाय पुरोदितम् ।
तेन शक्तिसुतायोक्तं जातूकर्णाय तेन च । व्यासो लब्ध्वा
ततश्चैतत् प्रमञ्चनमुखोद्गतम् । प्रमाणीमत्य लोके-
ऽस्मिन् प्रावर्त्तयदनुत्तमम्” । तत्फलश्रुतिः “य इदं
कीर्त्तयेद्वत्स! शृणोति च समाहितः । स विधूयेह
पापानि याति लोकमनामयम् । लिखित्वैतत्
पुराणन्तु स्वर्णसिंहासनस्थितम् । पात्रेणाच्छादितं यस्तु
ब्रह्मणाय प्रयच्छति । स याति ब्रह्मणा लोकं नात्र
कार्य्या विचारणा । मरीचे! ऽष्टादशैतानि मया प्रोक्तानि
यानि ते । पुराणानि तु सक्षेपाच्छ्रोतव्यानि च विस्त-
रात् । अष्टादश पुराणानि यः शृणोति नरोत्तमः ।
कथयेद्वा विधानेन नेह भूयः स जायते । सूत्रमेतत्
पुराणानां यन्मयोक्तं तवाधुना । तन्नित्यं शीलनीयं
हि पुराणफलमिच्छता । न दाम्भिकाय पापाय
देवगुर्वनुसूयवे । देयं कदापि साधूनां द्वेषिणे न शठाय च ।
शान्ताय रागिचित्ताय श्रूश्रुषाभिरताय च । निर्सत्सराय
शुचये देय सद्वैष्णवाय च” नारदीयपु० ४ पा० १०९ अ० ।

ब्र(व्र)ह्मात्मभू पु० ब्रह्मण आत्मनः देहात् भवति भू--क्विप् ।

अश्वे शब्दमाला तस्य ब्रह्मदेहजातत्वं वृ० उ० उक्तं यथा
“प्राणा वै यशोवीर्य्यं तत् प्राणेषूक्तान्तेषु शरीरं
श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ।
सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ।
ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्या-
श्वमेधत्वम्” मू० । “तदेवं यशोवीर्य्यभूतेषु प्राणेषूत्-
क्रान्तेषु शरीरान्निष्क्रान्तेषु तच्छरीरम्प्रजाषतेः श्वयि-
तुमुच्छूनभावङ्गन्तुमध्रियतामेध्यञ्चाभवत् । तस्य प्रजा-
पतेः शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन
आसीत् । यथा कस्यचित् प्रिये विषये दूरङ्गतस्यापि
मनो भवति तद्वत् । स तस्मिन्नेव शरीरे गतमनाः सन्
किमकरोदिति । उच्यते सोऽकामयत कथं मेध्यं भेधार्हं
यज्ञियं मे ममेदं शरीरं स्यात् । किञ्चात्मन्वी
आत्मवांश्चानेन शरीरेण शरीरवान् स्यामिति प्रविवेश ।
यस्मात्तच्छरीरं मद्वियोगात् गतयशोवीर्य्यमश्व-
दश्वयत् ततस्मस्मादश्वः समभवत् । ततोऽश्वनामा प्रजा-
पतिरेव साक्षादत्र स्तूयते । यस्माच्च पुनस्तत् प्रवेशाद्गत-
यशोवीर्य्यत्वादमेध्यं सन्मेध्यमभूत्तदेव तस्मादेवाश्वमेध-
स्याश्वमेधनाम्नः क्रतोरश्वमेधत्वमश्वमेधनामलाभः” शा० भा०

ब्र(व्र)ह्मादनी स्त्री ब्रह्मा ब्रह्मवाहनं हंस तस्येवादनं

पादरूपं यस्याः गौरा० ङीष् । हंसपद्यां राजनि० ।

ब्र(व्र)ह्माभिजाता स्त्री गोदावर्य्यां राजनि० ।

पृष्ठ ४६०९

ब्र(व्र)ह्मानन्द पु० ब्रह्मस्वरूपानन्दे तस्य मनुष्यादी-

नामानन्देभ्यः श्रेष्ठत्वम् शत० ब्रा० १४ । ७ । १ । ३१ वा
क्यादौ उक्तं यथा
“एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यै-
वानन्दस्यान्यानि भूतानिं मात्रामुपजीवन्ति । स यो
मनुष्यणां राद्धः समृद्धो भवति । अन्येषामधिपतिः
सर्वैर्मानुष्यकैः कामैः सम्पन्नतमः स मनुष्याणां परम
आनन्दः । अथ ये शतं मनुष्याणामानन्दाः । स एकः
पितॄणां जितलोकानामानन्दः । अथ ये शतं पितॄणां
जितलोकानामानन्दाः । स एकः कर्मदेवानामानन्दो
ये कर्मणा देवत्वमभिसम्पद्यन्ते । अथ ये शतं कर्म-
देवानामानन्दाः । स एक आजानदेवानामानन्दो यश्च
श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतमाजान-
देवानामानन्दाः । स एको देवलोक आनन्दो यश्च श्रो-
त्रियोऽवृजिनोऽकामहतः । अथ ये शतं लोक
आनन्दाः । स एको गन्धर्वलोक आनन्दो यश्च श्रोत्रि-
योऽवृजिनोऽकामहतः । अथ ये शतं गन्धर्वलोक
आनन्दाः । स एकः प्रजापतिलोक आनन्दः अथ ये शतं
प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक
आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः एष ब्रह्मलोकः
सम्राड़िति” मू० । “परमो मोक्षलक्षणो लोकः स्वयं-
ज्योतिःस्वभाबो लोकशब्दस्य मुख्यवृत्तिविषयः-
स्वाभाविकः । परमः स्वरूपानुभबलक्षणो मुख्यो
निरतिशय आनन्दः पूर्णानन्दः । किं च वस्तुतो नास्त्ये-
वात्ममुखातिरिक्तं वैषयिकमपि सुखमित्याह एतस्यैव
ब्रह्मानन्दस्य मात्रां कलाम् अन्यानि अविद्यया ब्रह्मणो-
ऽन्यत्वेन परिकल्पितानि ब्रह्यादिस्तम्बपर्य्यन्तानि भूता-
न्युपजीवन्ति उपभुञ्जते तावन्मात्रेणैवानन्दीनि
भवन्तीत्यर्थः । मानुषानन्दमारभ्य ब्रह्मानन्दपर्य्यन्तमुत्तरो-
त्तरशतगुणितातिशयशालिनां परब्रह्मानन्दावयववानां
प्रतिपादनद्वारेणावयविनं निवृत्तगणितभेदमनतिशयं
ब्रह्मानन्दं दर्शयितुमुत्तरा श्रुतिः प्रवर्त्तते” भा० ।

ब्र(व्र)ह्मापेत पु० सूर्य्यमण्डलस्थराक्षसभेदे “त्वष्टा च

यमदग्निश्च कम्बलोऽथ तिलोत्तमा । ब्रह्मापेतोऽथ
ऋतजिद्धतराष्ट्रश्च सप्तमः । माघमासे वसन्त्येते सप्त मैत्रेय
मास्करे” विष्णुपु० २ अंशे १० अ० ।

ब्र(व्र)ह्मारण्य न० ब्रह्मणोऽरण्यमिव । वेदपाठभूमौ त्रिका०

ब्र(व्र)ह्मार्पण न० १ सर्वकर्मकर्त्त्राद्यात्मकतया ब्रह्मचिन्तने

ब्रह्मणि परमात्मनि ईश्वरे २ सर्वकर्मफलानां सन्यासे च तत्-
प्रकारः कूर्मपु० ४ अ० उक्तो यथा “ब्रह्मणा दीयते देयं ब्रह्मणे
संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ।
नाहं कर्त्तासर्वमेतद्ब्रह्मैव कुरुते तथा । एतत् ब्रह्मार्पणं
प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः । प्रीणातु भगवानीशः कर्मणा-
ऽनेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ।
यद्वा फलानां सन्न्यासं प्रकुर्य्यात् परमेश्वरे । कर्मणामेत-
दप्याहुर्व्रह्मार्पणमनुत्तमम्” ।

ब्र(व्र)ह्मावर्त्त पु० “सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् । तं

देवनिर्मितं देशं ब्रह्मावर्त्तं प्रचक्षते” मनूक्ते १ देशभेदे
२ तत्रस्थे तीर्थभेदे च भा० ब० ८३ अ० ।

ब्र(व्र)ह्मासन न० ६ त० । ब्रह्मण ऋत्विग्भेदस्य १ आसने

ब्रह्मास्तरणादयोऽप्यत्र । ब्रह्मणस्तदुपासनाङ्गमासनम् ।
२ पद्मस्वस्तिकादौ आसने । “ब्रह्मासनं तदावक्ष्ये यत्
कृत्वा ब्राह्मणो भवेत् । एकपादमूरौ दत्त्वा तिष्ठेद्दण्डा-
कृतिर्भवेत्” रुद्रया० उक्ते देवपूजाङ्गे ३ आसनभेदे च ।

ब्र(व्र)ह्मास्त्र न० ६ त० । अस्त्रभेदे भा० आ० १६६ अ० ।

ब्र(व्र)ह्माहुति न० ब्रह्मैवाहुतिः । वेदाध्ययने “ब्रह्माहुतिहुत

पुण्यमनध्यायवषट्कृतम्” मनुः ।

ब्र(व्र)ह्मिन् पु० ब्रह्मवेदस्तपो वाऽस्त्यस्य शेषतया ब्रीह्या० इनि

टिलोपः । वेदतपसोः शेषीभूते १ परमेश्वरे । तदाराधनार्थमेव
तयोरनुष्ठानात् तस्य तच्छेषित्वम् । “ब्रह्मविद् ब्राह्मणो
ब्रह्मी” विष्णुस० । ब्रह्म वेदो वेद्यतयास्त्यस्य इनि ।
२ वेदतदर्थाधिज्ञे ।

ब्र(व्र)ह्मिष्ठ त्रि० अतिशयेन ब्रह्मी इष्ठन् टिलोपः । अतिशयन

ब्रह्मज्ञे । “ब्राह्मणा भगवन्तो यो ब्रह्मिष्ठः स एता (गाः)
उदजताम्” वृ० उ० “ब्राह्मणाः श्रुताध्यायाननिष्ठास्तदर्थ-
निष्ठाः सर्वे यूयं ब्रह्मणोऽतिशयेन अभिज्ञः” भा० ।
“ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम्”
रघुः । २ दुर्गायां स्त्री “ब्रह्मिष्ठा वेदमातृत्वात् गायत्री
चरणान्मता । वेदेषु चरते यस्मात्तेन सा ब्रह्मचारिणी”
देवीपु० ४५ अ० ।

ब्र(व्र)ह्मी स्त्री ब्रह्मणे हिता मेधाजनकतया अण् टिलोपः

बा० न वृद्धिः ङीप् । (वामनहाटि) स्वनामख्याते
लताभेदे त्रिका० ।

ब्र(व्र)ह्मीघृत न० खारस्वतघृतमिति स्वाते औषधविशेषे यथा

“समूलपत्रामुत्पाध्य ब्रह्मीं प्रक्षाल्य वारिणा ।
उदूखले खोदयित्वा रसं वस्त्रेण गालयेत् । रसे
चतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत् । हरिद्रा
पृष्ठ ४६१०
मालतीकुष्ठं वृहती च हरीतकी । एतेषां पालिकै-
र्भागैः शेषास्तु कार्षिकाः स्मृताः । पिप्पल्योऽथ विड़-
ङ्गानि सैन्धवं शर्करा वचा । सर्वमेतत् समालोड्य
शनैर्मृद्वग्निना पचेत् । एतत् प्राशितमात्रेण वाग्विशुद्धिः
प्रजायते । सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ।
अर्द्धरात्रप्रयोगेण स्वरो भवति कोकिलः । मासमेकं
प्रयोगेण भवेत् श्रुतिधरो नरः । पञ्च गुल्मान् प्रमेहाश्च
कासं पञ्चबिधं जयेत् । सन्ध्यानाञ्चैव नारीणां
नराणामल्परेतसाम् । घृतं स्वारस्वतं नाम बलवर्णवपुःप्रदम्”
चिकित्सारत्नसंग्रहः ।

ब्र(व्र)ह्मेशय ब्रह्मणि तपसि शेते शी--अच् पृषो० । १ कार्त्तिकेये

भा० व० २३१ अ० । २ विष्णौ च भा० शा० ३४० अ० ।

ब्र(व्र)ह्मोज्झ पु० ब्रह्म वेदमुज्झति उज्झ--त्यागे अण् उप०

स० । वेदत्यागिनि “ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं
स्तहृद्वधः । गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि
षट्” मनुना तत्त्यागस्यानुपातकत्वमुक्तम् ।

ब्र(व्र)ह्मोडु(दु)म्बर न० तीर्थभेदे भा० व० ८३ अ० ।

ब्र(व्र)ह्मोत्तर त्रि० ब्रह्मा ब्राह्मणः उत्तरोऽधिकारी यस्य ।

ब्रह्मास्वामिके भूम्यादौ । २ ब्रह्मप्रधाने च ।

ब्र(व्र)ह्मोद्य न० वद--भावे क्यप् ६ त० । ब्रह्मप्रतिपादकवाक्ये

कात्या० श्रौ० १२ । ४ । २० । २ ब्रह्मकथने च “ब्राह्मणा
भगवन्तो हन्ताहमिमं (याज्ञ्यम्) द्वौ प्रश्नौ प्रक्ष्यामि
तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चित्
ब्रह्मोद्यम् जेतेति” वृ० उ० ।

ब्र(व्र)ह्मोपनेतृ पु० ब्रह्माणं विप्रमुपनयते तद्धेतुदण्डहेतु-

त्वात् उप--नी--तृच् । पलाशवृक्षे “विप्रस्य पालाशो
दण्ड” स्मृतिः ।

ब्र(व्र)ह्मोपनिषद् स्त्री उपनिषद्भेदे उपनिषच्छब्दे दृश्यम् ।

ब्र(व्र)ह्मौदन पुंन० ब्रह्मार्थमोदनम् । यज्ञे ऋत्विग्भेदार्थे

अन्ने । “व्रह्मौदनं पचति चतुर्णां पात्राणामञ्जलि-
प्रश्रौतानाञ्च” कात्या० श्रौ० २० । १ । ४ । “चतुर्णां पात्राणां
चतुर्णामञ्जलीनां चतुर्णां प्रसृतानां च प्रसृतश्चैकाङ्गुणि
कोशः । “अक्त्वौनमाद्यत्विग्भ्यः प्रयच्छति” ५ सू० । “एनमो-
दनम्” कर्कः ।

ब्रा(व्रा)ह्म न० ब्रह्मण इदम्, तेन प्रोक्तम् वा अण् दिलोपः ।

१ अङ्गुष्ठमूले तीर्थे, तेन हि तीर्थेन द्विजाचमनं विहित-
मिति तस्य तत्सम्बन्धित्वम् “प्राग्वा ब्रा(व्रा)ह्मेन
तीर्थेन द्विजा नित्यमुपस्पृशेत्” इति मनुम् “अङ्गुष्ठोत्तरस्ततो
रेखा या पाणेर्दक्षिणस्य च । एतद्ब्राह्ममिति ख्यातं
तीर्थमाचमनाय वै” स्मृतिः । २ नारदे पु० जटा० । ब्र(व्र)ह्म-
णोक्ते अष्टादशपुराणान्तर्गते ३ महापुराणभेदे न० ।
४ विवाहभेदे ५ पारदे च पु० । ६ सरस्वत्यां तदधिष्ठातृकायां
७ वाचि ८ सोमलतायां ९ ब्रह्मोशाके (वामनहाटि)
शाकभेदे च स्त्री । “आवृत्तानां गुरुकुलात् विप्राणां पूजको
भवेत् । नृपाणामक्षयो ह्येष ब्राह्मो धर्मो विधीयते
इति मनूक्ते राज्ञां १० धर्मभेदे पु० । ११ मातृभेदे स्त्री
ङीप् । “ब्राह्मी नारायणी तथेति” कालकवचम् ।
“वृहदस्याः शरीरं यदप्रमेयं प्रमाणतः । वृहद्वि-
स्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता देवीपु० उक्त-
निर्वचनायां १२ देव्याञ्च स्त्री १३ ब्रह्मसम्बन्धिनिमात्रे त्रि०
स्त्रियां ङीप् “एषा ब्राह्मी स्थितिः पार्थ!” गीता ।
सरस्वत्या ब्रह्मजातत्वं च ब्रह्माणीशब्दे दर्शितं तत्र
दृश्यम् । “ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च
शीतला । कषाया मधुरा स्वादुपाकायुष्या रसायनी ।
स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहाश्रकासजित् ।
विषशोथज्वरहरी तद्वन्मण्डूकपण्यंपि” भावप्र० ब्राह्मी-
शाकस्य गुणा उक्ताः । १४ वाराहीकन्दे १५ हिलमोचि-
कायां स्त्री राजनि० । १६ रोहिण्यां स्त्री १७ नक्षत्रे न०
तयोर्ब्रह्माधिष्ठातृदेवताकत्वात् तथात्वं “रात्रेश्च पश्चिमे
भागे मुहूर्त्तो ब्राह्म उच्यते” पितामहोक्ते रात्रिशेषयामा-
र्द्धस्थिते अरुणोदयकालात् प्राग्दण्डद्वयात्मके १८ काले
पु० १९ ब्रह्मसम्बन्धिदिने २० तन्माने च अहन्शब्दे दृश्यम् ।

ब्रा(व्र)ह्मक त्रि० ब्रह्मणा कृतं कुलादि० वुञ् । विप्रेण कृते ।

ब्रा(व्र)ह्मगुप्त पु० आयुधजातिवर्गभेदे त्रिमर्त्तषष्ठशब्दे दृश्यम्

स वर्गो येषां त्रिगर्त्ता० स्वार्थे छ । ब्राह्मगुप्तीय तत्रार्थे ।

ब्रा(व्रा)ह्मण पुंस्त्री० ब्रह्म वेदं शुद्धं चैतन्यं वा वेत्त्यधीते वा

अण् “ब्रह्मणो जाताविति” पा० न टिलोपः ब्रह्मणो
मुखजातत्वात् ब्रह्मणोऽपत्यम् वा अण् । १ विप्रे जाति-
भेदे स्त्रियां जातित्वात् ङीष् । २ पुक्कायां स्त्री ङीप् ।
“ब्रह्म जानाति ब्राह्मणः” इत्युक्ते ३ परब्रह्मज्ञे त्रि० ।
ब्राह्मणक्षेत्रे ब्राह्मणाज्जातदेहे तत्सङ्कल्पजातदेहे च
बाह्मणत्वजातिः स्वीक्रियते यथा गोमयवृश्चिको
भयजातदेहस्य वृश्चिकत्वं तद्वत् । तत्र सङ्कल्पजाते देहे
ब्राह्मणत्वं यथा नारदद्रोणादौ । इदानीञ्च ब्राह्मणस्य
सत्यसकल्पत्वाभावान्न तथात्वम् । किञ्च कलौ असवर्णा
विवाहनिषेधादपि न तथात्वम् ।
पृष्ठ ४६११
“ब्राह्मण्यां ब्राह्मणाज्जाती ब्राह्मणः स्यान्न संशयः ।
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि” भा० दानधर्म-
वाक्यस्यापि संकल्पभेदादेव तथात्वेन युगान्तरविषयत्वम् ।
तस्य लक्षणं यथा “क्षात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन
च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यर्ते”
वह्निपु० । “न क्रुध्येन्न प्रह्रष्टेच्च मानितोऽमानितश्च यः ।
सर्वभूतेष्वभयदस्तं--देवा ब्राह्मणं विदुः । अहेरिव
गणाद्भीतः सौहित्यान्नरकादिव । कुणपादिव च स्त्रीभ्यस्तं
देवा ब्राह्मणं विदुः । येन केनचिदाच्छन्नो येन केनचि-
दाशितः । यत्र क्व चन शायी च तं देवा ब्राह्मणं विदुः ।
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम् । अस्वमेक-
चरं शान्तं तं देवा ब्राह्मणं विदुः । जीवितं यस्य
धर्मार्थं धर्मो रत्यर्थमेव च । अहोरात्रश्च पुण्यार्थस्तं
देवा ब्राह्मणं विदुः । निराशिषमनारम्भं निर्नमस्कर-
मस्ततिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं
विदुः” भा० मोक्षध० । “विशाखयूप उवाच । विप्रस्य
लक्षणं ब्रूहि त्वद्भक्तिः का च तत्कृता । यतस्तवानु-
ग्रहेण वाग्बाणाः ब्राह्मणाः कृताः” । कल्किरुवाच
“वेदास्तमोश्वरं प्राहुरष्यक्तं व्यक्तिमत् परम् । ते वेदा ब्रा-
ह्मणमुखे नानाधर्माः प्रकाशिताः । यो धर्मो ब्राह्मणानां
हि सा भक्तिर्मम पुष्कला । तयाहं तोषितः श्रीशः
संभवामि युगे युगे । ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानि-
र्मितं शमैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः ।
त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् । शिरोधरा-
न्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् । यजुर्विदां नाभि-
मितं सामगानामयं विधिः । वामस्कन्धेन विधृतं यज्ञ-
सूत्रं बलप्रदम् । मृद्भस्मचन्दनाद्यैस्तु धारवेत्तिलकं
द्विजः । भाले त्रिपुण्ड्रं कर्माङ्गं केशपर्य्यन्तमुज्ज्वलम् ।
पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधा कृतम् । ब्रह्म-
विष्णुशिवावासं दर्शनात् पापनाशनम् । ब्राह्मणानां
मुखे स्वर्गा वाचि वेदाः करे हरिः । गात्रे तीर्थानि
यागाश्च नाडीषु प्रकृतिस्त्रिवृत् । सावित्री कण्ठकुहरा
हृदयं ब्रह्मसङ्गतम् । तेषां स्तनान्तरे धर्मः पृष्ठेऽधर्मः
प्रकीर्त्तितः । भूदेवा ब्राह्मणा राजन्! पूज्या वन्द्याः
सदुक्तिभिः । चातुराश्रम्यकुशला मम धर्मप्रवर्त्तकाः ।
व लाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः । तेषां
वचः पालयितुमवताराः कृता मया । माहाभाग्यं ब्रा-
ह्मणानां सर्वपापप्रणाशनम् । कलिदोषहरं श्रुत्वा
मुच्यते सर्वतोभयात्” कल्किपु० ४ अ० । “कर्मणा ब्रह्मणो
जातः करोति ब्रह्मभावनाम् । स्वधर्मनिरतः शुद्वस्तस्माद्-
ब्राह्मण उच्यते” ब्रह्मवे० गणेशख० ३५ अ० ।
“जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शचिः ।
वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः । शौचाचार-
परो नित्यं विघसाशी गुरुप्रियः । नित्यव्रती सत्यरतः
स वै ब्राह्मण उच्यते । सत्यं दानमथाऽद्रोह आनृशंस्य
कृपा घृणा । तपश्च दृश्यते यत्र स ब्रह्मण इति
स्मृतः” । तस्य धर्मो यथा “ब्राह्मस्य तु यो धर्मस्तं ते
वक्ष्यामि केवलम् । दममेव महाराज । धर्ममाहुः पुरा-
तनम् । स्वाध्यायाभ्यसनञ्चैव तत्र कर्म समाप्यते ।
तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्मणि । अकर्वाणं
विकर्माणि श्रान्तं प्रज्ञानतर्पितम् । कुर्वीतोपेत्य सन्तान-
मथ दद्याद्यजेत च । संविभज्यापि भोक्तव्यं धनं सद्भि-
रितीष्यते । परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः ।
कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते” पाद्मे
स्वर्गख० २६ अ० । तस्य माहात्म्यादि यथा । “सर्वेषा-
मेव वर्णानां ब्राह्मणः परमो गुरुः । तस्मै दानानि
देयानि भक्तिश्रद्धासमन्वितैः । सर्वदेवाग्रजो विप्रः
प्रत्यक्षत्रिदशो भुवि । स तारयति दातारं द्स्तरे
विश्वसागरे । हरिशर्मोवाच । सर्ववर्णगुरुर्विप्रस्त्वया
प्रोक्तः सुरोत्तम! । तेषां मध्ये च कः श्रेष्ठः कस्मै दानं
प्रदीयते । ब्रह्मोवाच । सर्वेऽपि ब्राह्मणाः श्रेष्ठाः
पूजनीयाः सदैव हि । अविद्या वा सविद्या वा नात्र
कार्य्या विचारणा । स्तेयादिदोषलिप्ता ये ब्राह्मणा
ब्राह्मणोत्तम! । आत्मभ्यो द्वेषिणस्तेऽपि परेम्यो न
कदाचन । अनाचारा द्विजाः पूज्या न च शूद्रा जिते-
न्द्रियाः । अभ्यक्ष्यमक्षंका गावः कोलाः सुमतयो न च ।
माहात्म्यं भूमिदेवानां विशेषादुच्यते मया । तव स्ने-
हाद्द्विजश्रेष्ठ! निशामय समाहितः । क्षत्रियाणाञ्च
वैश्यानां शूद्राणां गुरवो द्विजाः । अन्योऽन्यं गुरवो
ज्ञेयाः पूजनीयाश्च भूसुर! । ब्रह्मणं प्रणमेदयस्तु विष्णु-
बुद्ध्या नरोत्तमः । आयुः पुत्राश्च कीर्त्तिश्च सम्पत्ति-
स्तस्य वर्द्धते । न च नौति द्विजं यस्तु मूढ़धीर्मानवी
भुवि । सुदर्शनेन तच्छीर्षं हन्तुसिच्छति केशवः” ।
पुष्पादिहस्तस्य विप्रस्य प्रणामनिषेधो यथा । “पुष्प-
हस्तं पयोहस्तं देवहस्तञ्च भूसुर! । न नमेद ब्राह्मण
प्रातस्तैलाभ्यङ्गितविग्रहम् । जलस्थं देववेश्म स्थं ध्यान-
पृष्ठ ४६१२
माज्जतचेतसम् । देवपूजाञ्च कुर्वन्तं न नमेद् ब्राह्मणं
बुधः । बहिष्क्रिया । प्रकुर्वन्तं भुञ्जानञ्च द्विजोत्तम! ।
तथा सामानि गायन्तं न नमेद् ब्राह्मणं बुधः । ब्राह्मणा
यत्र तिष्ठन्ति बहवीं द्विजसत्तम । प्रत्येकन्तु वमस्कार-
स्तत्र कार्य्यो न धीमता । कृताभिवादनं विप्रं भक्त्या यो
नाभिवादयेत् । स चाण्डालसमो ज्ञेयो नाभिवाद्यः
कदापि च । कृतप्रणामं तनयं नमेतां पितरौ न च ।
कृनप्रणामाः सर्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः ।
कृतदोषान् द्विजान् गाश्च न द्विषन्ति विचक्षणाः । द्विषन्ति
घापि मोहेन तेषां रुष्टः सदा हरिः । याचकान् ब्राह्म-
णान् यस्तु कोपदृष्ट्या प्रपश्यति । सूचीप्रक्षेपणं तस्य
नेत्रयोः कुरुते यमः । विपनिर्भर्त्सनं मूढ़ा येन वक्त्रेण
कुर्वते । तस्मिन् वर्क्त्र यमस्तप्तं लौहपिण्डं ददाति वै ।
ब्राह्मणो यद्गृहे भुङक्त तद्गृहे केशवः स्वयम् ।
देवताः सकला एव पितरश्च सुरर्षयः । तस्य पादो
दकादिमाहात्म्य यथा “विप्रपादोदकं यस्तु कणमात्रं
बहेद्बुधः । देहस्थ पातकं तस्य सर्वमेवाशु नश्यति ।
कीटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि च । तानि
सर्वाणि तीर्थानि वसन्ति द्विजपादयोः । विप्रपादोदकैर्नित्यं
सिक्तं स्याद् यस्य मस्तकम् । स स्नातः सर्वतीर्थेषु सर्वय-
ज्ञेषु दीक्षितः । सर्वपापानि घोराणि विप्रहत्यादिकानि
च । सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात् । क्षयाद्या
व्याधयः सर्वे परमक्लेशदायकाः । गच्छन्ति विलय सद्यो
विप्रपादाम्ब भक्षणात् । पित्रर्थं यानि तोयानि दीयन्ते
विप्रपादयोः । तस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्र-
तारकम् । प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः ।
तेनाचितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः । विप्राणां
पादनिर्माल्यं यो मर्त्यः शिरसा वहेत् । सत्यं
सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती” । तस्य प्रद-
क्षिणफलम् “विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा” । तस्य पाद
सेवनफलम् “यो दद्यात् फलताम्बूलं विप्राणां
पादसेवने । इह लोके सुखं तस्य परलोके ततोऽधिकम् ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी
लभते मोक्षं विप्रपादस्व सेवनात् । रोगी रोगात् प्रमु-
च्येत पापी मुच्येत पातकात् । मुच्येत बन्धनाद्बद्धो
विप्राणां पादसेवनात । अनपत्याश्च या नार्य्यो मृताऽ-
पत्याश्च या स्त्रियः । बह्वपत्या जीववतसाः स्वुर्विप्रपाद-
सेवनात्” पाद्मे क्रियायोगसारे २ अ० । तस्य सन्ध्या-
वन्दनाकरणे दोषो यथा “नोपतिष्ठति यः पूर्वां
नोपास्ते यस्तु पश्चिमाम् । स शूद्रवद्वहिः कार्य्यः सर्व-
स्माद् द्विजकर्मणः” मनुः । अन्यत्र च “न गृह्णन्ति सुरा-
स्तेषां पितरः पिण्डतर्पणम् । स्वेच्छया च द्विजातेश्चा
त्रिसन्ध्यरहितस्य च । तस्य सन्ध्याबन्दनफलं यथा
“याजज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति हि । स च
सूर्य्यसमो बिप्रस्तेजसा तपसा सदा । तत्पादपद्मरजसा
सद्यः पूता वसुन्धरा । जीवन्मुक्तः स तेजस्वी सन्ध्या
पूतो हि यो द्विजः । तीर्थानि च पवित्राणि तस्य
संस्पर्शमात्रतः । ततः पापानि यान्त्येव वैनतेयादिवो-
रगाः । तस्य निन्द्यकर्माणि यथा “विष्णुमन्त्र
विहीनश्च त्रिसन्ध्यरहितो द्विजः । एकादशीविहीनश्च
विषहीनो यथोरगः । हरेर्नैवद्यभोगी न धारको
वृषवाहकः । शुद्रान्नभोजी विप्रश्च विषहीनो यथोरगा ।
शवदाही च शूद्राणां यो विप्रा वृषलीपतिः । शूद्राणां
सूपकारी च शूद्रयाजी च यो द्विजः । असिजीवी-
मसीजीवी विषहीनो यथोरगः । यो विप्रोऽवीरान्न
भोजी ऋतुस्नातान्नभोजकः । भगजीवी बार्द्धुषिको
विषहीनो यथोरगः । यः कन्याविक्रयी विप्रो यो
हरेर्नामविक्रयी । यो विद्याविक्रयी विप्रो विषहीनो
यथोरगः । सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो
द्विजः । शिवपूजादिरहितो विषहीनो यथोरगः” ।
ब्रह्मवै० प्र० २१ अ० । अन्यत्र च “यदि शूद्रां व्रजेद्विप्रो
वृषलीपतिरेव सः । स भ्रष्टो विप्रजातेश्च चाण्डालात्
सोऽधमः स्मृतः । विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च
तर्पणम् । तत्पितृणां सुराणाञ्च पूजने तत् समं सति! ।
काटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम् । द्विजस्य
वृषलीभोगान्नश्यत्येव न संशयः । ब्राह्मणश्च सुरापीतः
विड्भोजी वृषलीपतिः । हरिवासरभोजी च कुम्भी-
पाकं व्रजेद्ध्रुवम्” । “करोत्यशुद्धां सन्ध्याञ्च सन्ध्यां
वा न करोति यः । त्रिसन्ध्यं वर्जयेद् यो वा सन्ध्या-
हीनश्च स द्विजः” । नारायणक्षेत्रादितीर्थे तस्य प्रति-
ग्रहदोषो यथा “तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः
पदे । वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे । पुष्करे
भास्करक्षेत्रे प्रभासे रासमण्डले । हारिद्वारे च केदारे
सोमे वदरपाचने । सरस्वतीनदीतीरे पुण्ये वृन्दा-
वने वने । गोटावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमा-
पृष्ठ ४६१३
लये । एतेष्वन्धेषु यो दानं प्रतिगृह्णाति कामतः ।
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च” । पारि-
भाषिकमहापातकिब्राह्मणा यथा “सप्तोद्रिक्तशूद्रयाजी
ग्रामयाजीति कीर्त्तितः । देवोपजीवजीवी च देवलश्च
प्रकीर्त्तितः । शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः ।
सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः । एते
महापातकिनः कुम्भीपाकं प्रयान्ति ते” ब्रह्मवै० ज० ख० २७ अ० ।
“ब्राह्मणस्य स्वधर्मश्च त्रिसन्ध्यमर्चन हरेः । तत्पादोद
कनैवेद्यभक्षणञ्च सुधाधिकम् । अन्नं विष्ठा जलं मूत्रमनिवेद्य
हरेर्नृप । भवन्ति शूकराः सर्वे ब्राह्मणा यदि भुञ्जते ।
आजीवं भुञ्जते विपा एकादश्यां न भुञ्जते । कृष्णजन्म-
दिने चैव शिवरात्रौ सुनिश्चितम् । तथा रामनवम्याञ्च
यत्रतः पुण्यवासरे । ब्राह्मणानां स्वधर्मश्च कथितो
वेधसा नृप । ५९ अ० । गृहस्थब्राह्मणनियमा यथा
"वेदं वेदौ तथा वेदानधीत्य तु समाहितः । तदर्थमभि-
गम्याथ ततः स्नायाद् द्विजोत्तमः । गुरुवे तु धनं दत्त्वा
स्नायीत तदनुज्ञया । चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तः
स्नातुमर्हति । वैणवीन्धारयेद्यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम् । छत्रञ्चोष्णीष-
ममलं पादुके चाप्युपानहौ । रौक्मे च कुण्डले धार्य्ये
कृत्तकेशनखः शुचिः । स्वाध्याये नित्ययुक्तः स्याद्बहि
र्माल्यं न धारयेत् । अन्यत्र काञ्चनाद्विप्रो न रक्तां
बिभृयात स्रजम् । शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रिय-
ष्टर्शनः । नजीर्णमलवद्वासा भवेच्च विभवे सति । न रक्त
सुल्वणञ्चान्यधृतं वासो न कुण्डिकाम् । नोपानहौ स्रजं
प्राथ पादुके च प्रयोजयेत् । उपवीतमलङ्कारं कुम्भान्
कृष्णाजिनानि च । नापसव्यं परीदध्याद्वासा न विकृतं
वसेत् । आहरेद्विधिवद्धीमान् सदृशानात्मनः शुभान् ।
रूपलक्षणसंयुक्तां योनिदोषविवर्जिताम् । अमातृ-
गोत्रप्रभवामसमानार्षगोत्रजाम् । आहरेद्ब्राह्मणो
भार्य्यां शीलशौचसमन्विताम् । ऋतुकालाभिगामी
स्याद् यावत् पुत्रोऽभिजायते । वर्जयेत् प्रतिषिद्धानि प्रय-
त्रेन दिनानि तु । षष्ठ्यष्टमी पञ्चदशी द्वादशी च
चतुर्दशी । ब्रह्मचारी भवेक्षित्यं तद्वज्जन्मक्षयाहनि ।
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् । व्रतानि
स्नातको नित्यं पावनानि च पालयेत् । येदोदितं स्वकं
कर्म नित्यं कुर्य्यादतन्द्रियः । अकुर्वाणः पतत्याशु
नरकानतिभीषणान् । अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न-
हापयेत् । कुर्य्यात् गृह्याणि कर्माणि सन्ध्योपासनमेव
च । सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा । दैवता-
न्यपि गच्छेत् तु कुर्य्याद्भार्य्याभिपोषणम् । न धर्मं
ख्यापयेद्विद्वान् न पापं घयेदर्पि । कुर्वीतात्महितं
नित्यं सर्वभूतानुकम्पकः । वयसा कर्मणाऽर्थस्य श्रुत-
स्याभिजनस्य च । देशवागबद्धिसारूप्यमाचरन् विचरेत्
सदा । श्रुतिस्मृत्युदितं सम्यक साधुभिर्यश्च सेवितः ।
तमात्मवन्निषेवेतं नेहेतान्यत्र कर्हिचित् । येनास्य
पितरो याता येन याताः पितामहाः । तेन यायात्
सतां मार्गं तेन गच्छन्न रिष्यति । नित्यं स्वाध्याय
शीलः स्यान्नित्य यज्ञोपवीतवान् । सत्यवादी
जितक्रोधो ब्रह्मपूयाय कल्पते । सन्ध्यास्नानरतो नित्यं ब्रह्म-
यज्ञपरायणः । अनुसूयुर्मृदुर्दान्तो गृहस्थः प्रत्य-
यान्विता । वीतरागभयक्रोधो लोभमोहविवर्जितः ।
सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही । माता-
पित्रोर्हिते युक्तो गोब्राह्मणहिते रतः । दाता यज्वा
देवभक्तो ब्रह्मलोके महीयते । त्रिवर्गसेवी सततं
देवतानाञ्च पूजनम् । कुर्य्यादहरहर्नित्यं नमस्येत प्रयतः
सुरान् । विभागशीलः सततं क्षमायुक्तो दयात्मकः ।
गृहस्थस्तपसा युक्तो न गृहेऽपि गृही भवेत् । क्षमा
दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्म
नित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् । एतस्मान्न प्रमा-
द्येत विशेषेण द्विजोत्तमः । यथाशक्ति चरन् कर्म
निन्दितानि विवर्जयेत् । विधूय मोहकलिल लब्धा
योगमनुत्तमम् । गृहस्थो मुच्यते बन्धान्नात्र कार्य्या-
विचारणा । विगर्हातिक्रमक्षेपहिंसाबन्धबधात्मकान् ।
अन्यमन्युसमुत्थानां दोषाणां बर्जनं क्षमा । स्वदुः-
खेष्विव कारुण्यं परदु खेषु सौहृदात् । दया यां
मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् । चतुर्दशानां
विद्यानां धारणं हि यथार्थतः । विज्ञानमेतच्च विद्याद्
येन धर्मो विवर्द्धते । अधीत्य विधिवद्विद्यामर्थञ्चैवोप-
लभ्य तु । धर्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ।
सत्येन लोकं जयति सत्यन्तत् परमं पदम् । यथाभूत
प्रसादन्तु सत्यमाहुर्मनीषिणः । दमः शरीरावनतिः शमः
प्रज्ञाप्रसादजः । अध्यात्ममक्षरं विद्याद्यत्र गत्वा न
शोचति । यथा स देवो भगवान् विद्यया शिव! वेद्यते ।
साक्षादेव महादेव! तज्ज्ञानमिति कीर्त्तितम् । तन्निष्ठ-
स्तत्परो विद्धान्नित्यमक्रोधनह् शुचिः । महायज्ञपरो
पृष्ठ ४६१४
विप्रो लभते तदनुत्तमम् । धर्मस्यायतनं यत्नाच्छरीरं
परिपालयेत् । न हि देहं विना रुद्र! पुरुषैर्विद्यते परः ।
नित्यं धर्मार्थकामेषु युञ्जीत नियतो द्विजः । न धर्म
वर्जितं काममर्थं वा मनसा स्मरेत् । सीदन्नपि स्वधर्मेण
न त्वधर्मं समाचरेत् । धर्मो हि भगवान् देवो गतिः
सर्वेषु जन्तुषु । भूतानां प्रियकारी स्यान्न परद्रोहक-
र्मधीः । न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवदेत् ।
यस्त्विपं नियतो विप्रो धर्माध्यायं पठेत् शुचिः ।
अध्यापयेत्च्छ्रावयेद्वा ब्रह्मलोके महीयते” । कूर्मपु०
१४ अ० "सूत उवाच । आनृशंस्यं क्षमा सत्यमहिंसा
दममार्जवम् । ध्यानं प्रसादो माधुर्य्यं मार्दवं शौचमेव
च । इज्या दानं तपः सत्यं स्वाध्यायीह्यात्मनिग्रहः ।
व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम् । एभिर्युक्तो
मुनिश्रेष्ठा! यः सदा वर्त्तते द्विजः । हुत्वा तु पावकं
पूर्वं परं ब्रह्माधिगच्छति । अविद्यो वा सविद्यो वा
निरग्निः साग्निकोऽपि वा । यो विप्रस्तपसा युक्तः स
परं स्वर्गमाप्नुयात् । सर्वेषामुत्तमं श्रेष्ठं विमुक्तिफल-
दायकम् । ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु ।
सायं प्रातश्च यः सन्ध्यामुपास्तेऽखिन्नमानसः । जपन्
हि पावनीं देवीं गायत्रीं वेदमातरम् । तपसा भावितो
देव्या ब्राह्मणः पूतकिल्विषः । न सीदेत् प्रतिगृह्णन् स
त्वपि पृथ्वीं ससागराम् । द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रीं
प्रयतः शुचिः । यस्तस्य दुष्कृतं नास्ति पूर्वतः परतोऽपि
वा । यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः । गायत्री
ध्यानपूतस्य कलां नार्हति षोड़शीम् । एवं किल्विष-
युक्तस्तु विनिर्दहति पातकम् । उभे सन्ध्ये ह्युपासीत
तस्मान्नित्यं द्विजोत्तमः” । तस्य देहापवित्रताहेतुः यथा
“यथा देहापवित्रत्वं विग्रादीनां यतो भवेत् । देवर्षे!
शृणु तत् सर्वं नराणामानुपूर्विकम् । जातके मृतके-
ऽस्नाते जलौकाभिः क्षते तथा । अपवित्रो द्विजादीनां
देहः सन्ध्यादिकर्मसु । अपूततनूरुत्सर्गे नरो मूत्र
पूरीषयोः । अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु ।
रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते । विप्रादेरशुचिः
कायः शस्त्रास्त्रैः कण्टकादिभिः । भुक्तवस्त्राननोच्छि-
ष्टेऽपवित्रः कृतषेथुने । शयने ब्राह्मणादीनां शरीरं
क्षुरकर्मणि । ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम् ।
बपुरप्रयतं पूजादानहोमजपादिषु । धूमोद्गारे वमौ
आद्धपतितान्नादिभोजने । तथा च रेतस्खलने मत्या,
देहापवित्रता । अपवित्रं द्विजातीनां वपुः स्याद्राहु-
दर्शने । गर्हितदानग्रहणे पतिते पातकादिभिः ।
अशौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज! । सर्व-
वर्णाश्रमादोनां तनोः सन्ध्यादिकर्मसु” पाद्मोत्तरञ्चण्डे
१०९ अ० । २ मन्त्रेतरवेदभागे न० ऋ० भाष्योपोद्घाते आशङ्का-
पूर्वकं तल्लक्षणमुक्तं यथा “तत्र ब्राह्मणस्य लक्षणं नास्ति ।
कुतः? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्य-
भागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्य-
त्वात् । पूर्वोक्तमन्त्रभाग एकः । भागान्तराणि च
कानिचित् पूर्वैरुदाहर्तुं संगृहीतानि “हेतुर्निर्वचनं
निन्दा प्रशंसा संशयो विधिः । परक्रिया पुरुकिल्पो
व्यवर्धारणकल्पनेति” । “तेन ह्यन्नं क्रियत” इति हेतुः १ ।
“तद्दघ्नी दधित्वमिति” निर्वचनम् २ । “अमेध्या वै माषाः
इति निन्दा ३ । “वायुर्वे क्षेपिष्ठेति” प्रशंसा ४ । “तद्व्यचि-
कित्सा जुहवानी ३ मा हौषा ३ मिति” संशयः ५ ।
“यजमानेन सम्मितौदुम्भरी भवतीति” विधिः ६ । “माषानेव
मह्यं पचन्तीति” परकृतिः ७ । “पुरा ब्राह्मणा अभैषुः”
इति पुराकल्पः ८ । “यावतोऽश्वान् परिगृह्णीयात्ता-
वतो वारुणांश्चतुष्कपालान्निर्वपेदिति” विशेषावधारण-
कल्पना ९ । एवमन्यदप्युदाहार्य्यम् । न च हेत्वादीना-
मन्यतमं ब्राह्मणमिति लक्षणम् । मन्त्रोष्वपि हेत्वादि-
सद्भावात् । “इन्दवो वा मुशन्ति हीति” हेतुः । “उदा-
निषुर्महीरिति तस्मादुदकमुच्यत इति” निर्वचनम् ।
“मोघमन्नं विन्दते अप्रचेताः” इति निन्दा । “अग्निर्मूर्द्धा
दिवः ककुदिति” प्रशंसा । “अधः स्विदासी ३ दुपरि स्विदासी ३
दिति” संशयः । “वसन्ताय कपिञ्जलानालभेत” इति विधिः ।
“सहस्रमयुतं ददाविति” परकृतिः । “यज्ञेन यज्ञमयजन्त
देवाः” इति पुराकल्पः । इतिकरणबहुलं ब्राह्मणमिति
चेत् न “इत्यददा इत्ययजथा इत्यपच इति “ब्राह्मणो
गायेत्” इत्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः ।
इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेत् न
“राजा चिदां भगं भक्षीत्याह यो मायातुं यातुधाने-
त्याह यो वा रक्षः । “शुचिरस्मीत्याहे श्रनयोर्मन्त्रयो-
रतिव्याप्तेः । आख्यायिकारूपं ब्राह्मणमिति चेत् न
यमयमीसंवादसूक्तादावतिव्याप्तेः । तस्मान्नास्ति ब्राह्मण-
लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मणरूपौ द्वावेव
वेदभागावित्यङ्गीकारात् मन्त्रलक्षणस्य पूर्बमभिहितत्वादव-
शिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति” ।
पृष्ठ ४६१५

ब्रा(व्रा)ह्मणक पु० कुत्सितार्थे कन् । कुत्सितब्राह्मणे । ब्राह्मण-

कर्माण्युक्त्वा “एवमुक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत्”
भा० शा० २७१ अ० उक्तेः । ब्राह्मणेन जातिमात्रेण कायति
कै--क । २ ब्राह्मणकृत्यरहिते विप्रवंश्ये । संज्ञायाम्
कन् । आयुधजीविव्राह्मणप्रधाने ३ देशे सि० कौ० ततः
कोपधत्वात् छ । ब्राह्मणकीय तत्सम्बन्धिनि त्रि० ।

ब्रा(व्रा)ह्मणकाम्या स्त्री ६ त० । १ विप्रेच्छायाम् उपचारात्

२ तद्विषये च “अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं
पयः । हविर्व्राह्मणकाम्या च गुरोर्वचनमौषधम्” प्रा० त० ।

ब्रा(व्रा)ह्मणचक्षुम् न० ब्राह्मणस्य सर्वार्थप्रकाशकत्वात् चक्षु-

रिव । “श्रुतिस्मृती च विपाणां चक्षषी देवनिर्मिते ।
काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्त्तितः” हरीतोक्ते
सर्वार्थप्रकाशकत्वेन विप्रस्य चक्षस्तुल्ये वेदस्मृतिरूपे पदार्थे ।

ब्रा(व्रा)ह्मणचाण्डाल पु० ब्राह्मणश्चाण्डाल इव । शास्त्र-

निषिद्धकर्मकारिणि अपकृष्टब्राह्मणे मनुः ९ । ८७ ।

ब्रा(व्रा)ह्मणजातीय पु० ब्राह्मणजाति + स्वार्थे वन्धुनि

जात्यत्वात् छ प्रकृतिलिङ्गस्यातिक्रमः । ब्राह्मजातियुक्ते

ब्रा(व्रा)ह्मणजीविका स्त्री ६ त० । याजनाध्यापनप्रति-

ग्रहरूपायां ब्राह्मणवृत्तौ “ब्राह्मणा ब्रह्मयोनिस्था ये
स्वकर्मण्यवस्थिताः । ते सम्यगुपजीवेयुः षट् कर्माणि
यथाक्रमम् । अध्यापनमध्ययनं यजनं याजनन्तथा । दानं
प्रतिग्रहश्चैव षटकर्माण्यग्रजन्मनः । षण्णान्तु कर्मण मस्य-
त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशु-
द्धाच्च प्रतिग्रह” मनुः । ब्राह्मणवृत्तिरप्यत्र स्त्री ।

ब्राह्मणत्रा अव्य० ब्राह्मणाय देयम् त्राच् । विप्राय देयमित्यर्थे

ब्रा(व्रा)ह्मणप्रिय ६ त० । १ विष्णौ “ब्रह्मज्ञो ब्राह्मणप्रियः”

विष्णुस० । २ विप्रहिते त्रि० ।

ब्रा(व्रा)ह्मणब्रुव पु० ब्राह्मणं विप्रजातिमात्रतया आत्मानं ब्र

वीति ब्रू--क बा० न वच्यादेशः । वेदतत्कर्महीने जाति-
मात्रोजीविनि विप्रे “गर्भाधानादिमन्त्रैर्यो वेदोपनय-
नेन च । नाध्यापयति नाधीते स भवेद्ब्राह्मणब्रुवः”
व्यासस० । “जातिमात्रोपजीवी च कामं स्याद् ब्राह्मण-
ब्रुवः । धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन” मनुः
“सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे” मनुः ।

ब्रा(व्रा)ह्मणयज्ञ पु० ब्राह्मणमात्रकर्त्तृको यज्ञः शा० त० । विप्र-

मात्रकर्त्तव्ये सौत्रामणीयज्ञे “ब्राह्मणयज्ञः सौत्रामण्यृ-
द्धिकामस्य” कात्या० श्रौ० १९ ११ “ब्राह्मणग्रहणं क्षत्रि
यवैश्ययोर्निवृत्त्यर्थम् ऋद्धिकामस्य ब्राह्मणस्य नेतरयोर्वर्ण-
योरिति सौत्रामणीति कर्मनामधेयम्” कर्कः । “तस्मादेष
ब्राह्मणयज्ञो यत् सौत्रामणी” शत० ब्रा० १२ । ९ । १ । १ ।

ब्रा(व्रा)ह्मणयष्टि स्त्री ६ त० वा ङीप् । (वामनहाटी) १ वृक्ष-

भेदे २ विप्रदण्डे च स्वार्थे क । अत्रैव अमरः ।

ब्रा(व्रा)ह्मणलक्षण न० ६ त० । विप्रस्यासाधारणे धर्मभेदे तच्च

वसिष्ठेनोक्तं यथा “योगस्तपोदमोदानं सत्यं शौचं
दया श्रुतम् । विद्या विज्ञानमास्तिक्यमेतद्ब्राणलक्षणम् ।
सर्वत्र दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिबधे
निवृत्ताः । प्रतिग्रहे सङ्कुचिताग्रहस्तास्ते ब्राह्मणास्तार-
यितुं समर्थाः” ।

ब्रा(व्रा)ह्मणशस्त्र न० व्राह्मणस्य शस्त्रमिव तत्कार्य्यकारि-

त्वात् । अभिचारादिमन्त्रोच्चारणात्मके विप्रवाक्ये “वाक्
शस्त्रं वै व्राह्मणस्य तेन हन्यादरीन् द्विजः” मनुः ।
“यस्मादभिचारमन्त्रोच्चारणात्मिका ब्राह्मणस्य वागेव शस्त्रं
शस्त्रसाध्यकार्यकारि” कुल्लू० ।

ब्रा(व्रा)ह्मणसम पु० ६ त० । “ब्रह्मवीजसमुत्पन्नो मन्त्र-

संस्कारवर्जितः । जातिमात्रापजीवी च स भवेद्
ब्रह्मणः समः” व्यामोक्ते क्रियारहिते विप्रे

ब्रा(व्रा)ह्मणाच्छंसिन् पु० ब्राह्मणे मन्त्रेतरवेदभागे विहि-

तानि शस्त्राणि उपचारात् ब्रह्मणानि तानि शंसति
द्वितीयायार्थे पञ्चम्युपसंख्यानम् तस्याः “ब्राह्मणाच्छंसिन
उपसंख्यानम्” वार्त्ति० अलुक् । ब्रह्मरूपस्य ऋत्विजः
सहकारिणि ऋत्बिग्भेदे अच्छावाकशब्दे ८५ पृ० दृश्यम् ।
अत्र कश्चिद्विशेषोऽभिधीयते । षोड़र्त्विजां मध्ये प्रधान-
भूतान् चतुर उक्त्वा कात्या० श्रौ० ७१८९१० । उक्तं यथा
“तत्पुरुषा इतरे यथावेदम्” सू० “इतरे द्वादशर्त्विजो
तेषामाद्यानां ब्रह्मादीनां चतुर्णां पुरुषाः आदेशकारि-
णोऽनुचराः सेवकाः यथावेदमिति ये यद्वेदविहितस्य
कर्मणः कर्त्तारस्ते तत्पुरुषाः यथावेदमिति ये ब्रह्मपुरुषा
न ज्ञायन्त इति तान् स्वयमेवाह” कर्कः “ब्रह्मणाच्छं-
स्यग्नीत्पीतारो ब्रह्मणः” सू० । प्रधानपुरुषवरणेन
तद्वशवर्त्तित्वात्तेऽपि वृता एव भवन्ति प्रधानपुरुषे कार्य्या-
न्तरासक्तेऽन्यत्र गते वा तदीयं कर्म तत्पुरुषैरेव कर्त्तव्यम्
नान्यपुरुषैरिति पुरुषाणामपि पूर्वपूर्वेण करणसम्भवे
नोत्तरेण” । तस्य भावः कर्म वा “होत्राभ्यश्छः” पा० छ ।
ब्राह्मणाच्छंसीय तद्भावादा
पृष्ठ ४६१६

ब्रा(व्रा)ह्मणादि पु० भावे कर्मणि चार्थे ष्यञप्रत्ययनिमित्ते

शब्दगणे स च गणः “ब्राह्मण बाडव माणव (अर्हतोनुम्
च) चोर धूर्त्त आराधय विराधय अपराघय
उपराधय एकभाव द्विभाव त्रिभाव अन्यभाव अक्षेत्रज्ञ संवा-
दिन् संवेशिन् संभाषिन् बहुभाषिन् शीर्षघातिन् विघातिन्
समस्थ विषमस्थ परमस्थ मध्यमस्थ अनीश्वर कुशल चपल
निपुण पिशुन कुतूहल क्षेत्रज्ञ मिश्र वालिश अलस
दुःपुरुष कापुरुष राजन् गणपति अधिपति गडुल
दायाद विशस्ति विषम विपात निपात (सर्व्वेदादिभ्यः
स्वार्थे) (चतुर्वेदस्योभयपदवृद्धिश्च) शौटीर” पा० ग० सू० ।
ब्राह्मणादिराकृतिगणः । तेन औचित्यादि ।

ब्रा(व्रा)ह्मणायण पुंस्त्री० ब्राह्मणापत्यं नडा० फक् । विप्र-

गोत्रापत्ये शुद्धवंशजाते विप्रे त्रिका० ।

ब्रा(व्रा)ह्मणिक त्रि० ब्राह्मणस्य मन्त्रेतरवेदभागस्य व्या-

ख्यानो ग्रन्थः ठक् । मन्त्रेतरवेदभागव्याख्याने ग्रन्थे ।

ब्रा(व्रा)ह्मण्य न० ब्राह्मणानां समूहः भावो वा ष्यञ् ।

१ विप्रसमूहे । २ ब्राह्मणधर्मे ३ विप्रत्वे च ।
जात्यन्तरगतस्य कारणविशेषाभावे ब्राह्मण्यप्राप्तिर्नास्तीति
ब्राह्मण्यस्य दुष्प्रापत्वम् भा० २८ अ० मतङ्गोपाख्याने
विस्तरेण उक्तं यथा “तिर्य्यग्योनिगतः सर्वो मानुष्यं
यदि गच्छति । स जायते पुक्कशो वा चाण्डालो वाऽप्य
संशयम् । पुक्कशः पापयोनिर्वा यः कश्चिदिह लक्ष्यते ।
स तस्यामेव सुचिरं सतङ्ग । परिवर्त्तते । ततो दशशते
काले लभते शूद्रतामिति । शूद्रयोनावपि ततो बहुशः
परिवर्त्तते । ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि ।
वैश्यतायां चिरं कालं तत्रैव परिवर्त्तते । ततः षष्टि-
गुणे काले राजन्यो नाम जायते । ततः षष्टिगुणे काले
लभते ब्रह्मबन्धुताम् । ब्रह्मबन्धुश्चिरं कालं तत्रैव
परिवर्त्तते । ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ।
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्त्तते । ततस्तु त्रिशते
काले लभते विप्रतामपि । ताञ्च प्राप्य चिरं कालं तत्रैव
परिवर्त्तते । ततश्चतुःशते काले श्रोत्रियो नाम जायते
एतच्च जात्यभिप्रायं संस्कारादिना तु विशिष्टब्राह्मण्य-
लाभः यथोक्तमङ्गिरसा “चित्रं कर्म यथाऽनेकैरङ्गै-
रुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारै-
र्विधिपर्वकैः” । २ शनिग्रहे पु० शब्दमाला । तादृशब्राह्मण्य
हानिस्तु कर्मभेदात् यथा “शूद्रां शयनमारोप्य ब्राह्म-
ण्यादेव हीयते” इत्यादि ।

ब्रा(व्रा)ह्मणी स्त्री ब्राह्मणस्य पत्नी ङीष् । १ ब्राह्मणस्य पत्न्यां

ब्राह्मणस्येयम् अण् ङीप् । २ ब्रह्मसम्बन्धिन्यां स्त्रियाम् ।
३ बुद्धौ च । “मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि
ब्राह्मणीम्” । “अरणीं ब्राह्मणीं विद्धि पुरुषञ्च त्तिरार-
णिम् । तपःश्रुते त्राभिमथ्नीतो ज्ञानाग्निर्जायते ततः”
भा० आश्व०३४ अ० ।

ब्रा(व्रा)ह्मीकन्द पु० ब्राह्म्या इव कन्दोऽस्य । १ वाराही

कन्दे राजनि० । २ ब्रह्मयष्टिकायां विश्वः ।

ब्रा(व्रा)ह्म्य त्रि० ब्रह्मण इदं ष्यञ् । १ ब्रह्मसम्बन्धिनि

स्त्रियां ङीष् । २ विस्मये ३ दृश्ये च धरणिः ।

ब्रा(व्रा)ह्म्यमुहूर्त्त पु० ब्रह्मा देवतास्य ष्यञ् टिलोपः कर्म०

णरुणोदयात् प्राग्वर्त्तिनि “रात्रेश्च पश्चिमे यामे
मुहूर्त्ती ब्राह्म्य उच्यते” “रात्रेश्च पश्चिमे यामे मुहूर्त्तो
यस्तृतीयक । स ब्राह्म्य इति विख्यातो विहितः सप्रबो
धने” आ० त० सुमन्तुना उक्ते दण्डद्वयात्मके काले ।

ब्रू कथने अदा० उभ० द्विक० सेट् । ब्रवीति आह ब्रूते ।

अवाचत् अवोचत । उवाच ऊचतुः । अस्यार्द्धधातुके
वच्यादेशोऽनित्यः तेन “विव्रतिः कटके कृता” । ब्रह्मणब्रु ।
इत्यादि सिद्धम् । अनु + पश्चात् कथने अनुवादे ।
वि + विरुद्धतया कथने विवादे च ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य-
सङ्कलिते वाचस्पत्याभिधाने बकारादि
शब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/बुध&oldid=57826" इत्यस्माद् प्रतिप्राप्तम्