सामग्री पर जाएँ

वाचस्पत्यम्/प्रयस्

विकिस्रोतः तः
पृष्ठ ४४८२

प्रयस् न० प्रयस्यतेऽत्र प्र + यस--आधारे क्विप् । अन्ने निघण्टुः

पय इत्यत्र प्रय इति पाठान्तरं ऋ० १ । ४५ । ८ उदा० ।

प्रयस्त त्रि० प्र + यस--आधारे क्त । १ प्रयासेन कृते घृतचतुर्जा-

तकादिना द्रव्येण प्रयत्नसंस्कृते २ व्यञ्जने न० अमरः ।

प्रयाग पु० प्रकृष्टो यागो यागफलं यस्य यस्मात् वा । गङ्गा-

यसुनयोः सङ्गमजाते १ तीर्थभेदे २ शतक्रतौ इन्द्रे च ।
३ अश्वे अश्वमेघाङ्गस्याश्वस्य यज्ञसाधनत्वात् तथात्वम् ।
कर्म० । ४ प्रकृष्टे यज्ञे अमरः । तत्र तीर्थभेदे पुं न० पुराणे
तथा प्रयोगात् । मन्माहात्म्यञ्च मत्स्यपु० १०२ अध्यायादिके
१०७ अध्यायान्ते उक्तम् एवमन्यान्यपुराणेऽप्यु क्तम् । ततो
दिग्मात्रं पुराणसमुच्चये दर्शितमत्र प्रदर्श्यते ।
“एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् । न शक्यं
कथितुं राजन्! फलं वर्षशतैरपि । संक्षेपेण तु वक्ष्या-
मि तस्य तीर्थस्य यत् फलम् । षष्टिर्वीरसहस्राणि तत्र
रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्त-
वाहनः । तं वटं रक्षति शिवः शूलपाणिर्महेश्वरः ।
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् । प्रयागं
स्मरमाणस्य यान्ति पापानि संक्षयम् । दर्शनात्तस्य
तीर्थस्य सर्वपापैः प्रमुच्यते । मृत्तिकालभनाद्वापि नरः
पापात् प्रमुच्यते । पञ्च कुण्डानि राजेन्द्र! येषां मध्ये
तु जाह्नवी । प्रयागस्य पवेशाद्वै पापं नश्यति
तत्क्षणात् । मनसा चिन्तितान् कामान् सर्वान् प्राप्नोति
पुष्कलान् । ततो गत्वा प्रयागन्तु सर्वदेवाभिरक्षितम् ।
ब्रह्मचारी शुचिर्भूत्वा पितॄन् देवांश्च तर्पयेत् । तपनस्य
सुता देवीं त्रिषु लोकेषु विश्रुता । समागता
महाभाग! यमुना यत्र निर्मला । तत्रोपस्पृश्य राजेन्द्र!
स्वर्गलौकमुपाश्नुते । व्याधितो यदि वा हीनः क्रुद्धो
वापि भवेन्नरः । गङ्गायमुनमासाद्य यस्तु प्राणान्
परित्यजेत् । दीप्तकाञ्चनसङ्काशैर्विमानैः सूर्य्यवर्चसैः ।
नन्धर्वाप्सरसां मध्ये स्वर्गे तिष्ठति मानवः” ।
“देशस्थो यदि वाऽरण्ये विदेशे यदि वा गृहे । प्रयागं
अरमाणोऽपि यस्तु प्राणान परित्यजेत् । ब्रह्मलोक-
मषाप्तोति वदन्ति मुनिपुङ्गवाः । सर्वकामफला वृक्षा
नहावेदिर्हिरण्मयी । स्त्रीमहस्राकले रम्णे मन्दाकि-
प्यान्तदे शुभे । मोदते ऋपिभिः सार्द्धं म्वर्गे तेनेह
कर्मणाः । सिद्धचारणगन्धर्वैः पूज्यते दिवि नैवतैः ।
तताः स्वर्गात् परिभ्रष्टो जम्बुद्वीगपतिर्भवेत् । ततः
पूभानि कर्माणि चिन्तयानः पुनःपुनः । गुणावान् वित्त-
सम्पन्नो भवतीह न संशयः । स्वर्णशृङ्गीं रूप्यखुरां
चेलकण्ठीं पयस्विनीम् । प्रयागे श्रोत्रियं साधुं ग्राह-
यित्वा यथाविधि । स्वर्गे च ततफलं भुङ्क्ते प्रदाता
पञ्चकोटिषु । पुत्रान् दारांस्तघ्ना भृत्यान् गौरेका प्रति-
तारयेत् । ऐश्वर्य्यलोभमोहाद्वा गच्छेद्यानेन यो
नरः । निष्फलं तस्य तत्तीर्थं तस्माद्यानन्तु वर्जयेत् ।
तत्र दानं प्रदातव्यं यथाविभवसम्भवम् । तेन तीर्थफल-
श्चैव वर्द्धते नात्र संशयः । स्वर्गे तिष्ठति राजेन्द्र!
यावदाहूतसंप्लवम् । वटमूलं समासाद्य यस्तु प्राणान्
परित्यजेत् । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ।
तत्र ते द्वादशादित्यास्तपन्ते रुद्रमाश्रिताः । निदहन्ति
जगत्सर्वं वटमूलं न दह्यते । नष्टचन्द्रार्कपवनं यदा
चैकार्णव जगत् । स्वपते तत्र वै विष्णुर्यतमानः पुनः-
पुनः । देवदानवगन्धवा ऋषयः सिद्धचारणाः । यदा
सेवन्ति तत्तीर्थं गङ्गायनुनसङ्गमम् । ततः पुण्यतमं
नास्ति त्रिषु लोकेषु भारत! । श्रवणात्तस्य तीर्थस्य
नामसङ्कीर्त्तनादपि । मृत्तिकालभनाद्वापि नरः पापात्
प्रमुच्यते । तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः । न
देववचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते
मयागमरणं प्रति । दश तीर्थसहस्राणि षष्ठिःकोट्यस्तथा
पराः । तेषां सान्निध्यमत्रैव माघे वै कुरुनन्दन! । या
गतिर्योगयुक्तस्य सत्यस्थस्य च धीमतः । सा गतिस्त्य-
जतः प्राणान् गङ्गायमुनसङ्गमे । कम्बलाश्वतरौ नागौ
विपुले यमुनातटे । तत्र स्नात्वा च पीत्वा च सर्वपापैः
प्रमुच्यते । तत्र गत्वा च संस्थानं महादेवस्य धीमतः ।
नरस्तारयते पूर्वान् पुरुषानेकविंशतिम् । कृत्वाभिषेकन्तु
नरो ह्यश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति
यावदाहूतसंप्लवम् । पूर्वपार्श्वे च गङ्गायास्त्रिषु लोकेषु
विश्रुतम् । कूपश्चैव तु साहस्रं प्रतिष्ठानञ्च नामतः ।
तत्र स्नात्वा विशुद्धात्मा अश्वमेधफलं लभेत् । उत्तरेण
प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः । हंसप्रपतनं नाम
तीर्थं त्रैलोक्यविश्रुतम् । अश्वमेधमवाप्नोति स्नान-
मत्रेण भारत! । यावच्चन्द्रश्च सूर्य्यश्च तावत्स्वर्गे
महीयते । उर्वशीपुलिने रम्ये विपुले हंसपाण्डरे ।
परित्यजति यः प्राणान् शृणु तस्यापि यत् फलम् ।
पष्टि वर्षसहस्राणि षष्टिं वर्षशतानि च । मोदते
पितृभिः सार्द्धं स्वर्गलोके नरीत्तमः । ततः स्वर्गात्
परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । उर्वशीसद्वशीनान्त
पृष्ठ ४४८३
कन्यानां दिव्यतेजसाम् । मध्ये नारीसहस्राणां
वहूनाञ्च पतिर्भवेत् । दशग्रामसहस्राणां भर्त्ता भवति
भूमिपः । काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिवुध्यते ।
अथ सन्ध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः । उपासीत-
शुचिः सन्ध्यां ब्रह्मलोकमवाप्नुयात् । कोटितीर्थं
समासाद्य यस्तु प्राणान् परित्यजेत् । कोटिवर्षसहस्राणि
स्वर्गलोके महीयते । ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा-
दिवश्च्युतः । सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान् ।
ततो भागीरथीं गत्वा वासुकेरुत्तरेण तु । दशाश्व-
मेधिकं नाम तत्र तीर्थं परं भवेत् । कृत्वाभिषेकन्तु
नरो ह्यश्वमेधं फलं लभेत् । धनाढ्यो रूपवान् दक्षो
दाता भवति धार्मिकः । चतुर्वेदिषु यत् पुण्यं सत्य-
वादिषु यत्फलम् । अर्हिसायाञ्च यो धर्मो गमनादेव
तत् फलम् । तथैव मानसं नाम गङ्गाया दक्षिणे तटे ।
त्रिरात्रमुषितः स्नात्वा सर्वान् कामानवाप्नुयात् । पृथिव्या
आसमुद्राया महाभानः पतिर्भवेत् । षष्टिस्तीर्थसह-
स्राणि षष्टिस्तीर्थशतानि च । माघे मासि गमिव्यन्ति
गङ्गायमुनसङ्गमम् । गवां शतसहस्रस्य सम्यग्दत्तस्य
यत् फलम् । प्रयागे माथमासे वै त्र्यहं स्नातस्य तत्
फलम् । गङ्गायमुनयोर्मध्ये योऽग्नौ स्वाङ्गं
परित्यजेत् । अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ।
यावन्ति रोमकूपाणि तस्याङ्गेषु च धीमतः । तावद्धर्ष-
सहस्राणि स्वर्गलोके महीयते । जलप्रवेशंयः कुर्य्यात्
सङ्गमे लोकविश्रुते । राहुमुक्तो यथा सोमो विमुक्तः
सर्वपातकैः । सीमलोकमर्वाप्नोति सोमेन सह मोदते ।
षष्टिं वर्षसहस्राणि षष्टिं वर्षशताथि च । स्वर्गलोक-
मवाप्नोति ऋषिगन्धर्वसेवितः । परिभ्रष्टश्च राजेन्द्र!
समृद्धे जायते कुले । अधःशिरास्तु यो ज्वालामूर्द्धपादः
पिबेन्नरः । शतं वर्षसहस्राणां स्वर्गलोके महीयते ।
परिभ्रष्टश्च राजेन्द्र! अग्निहोत्री भवेन्नरः । यस्तु
खदेहं कर्त्तित्वा शकुनिभ्यः प्रयच्छति । विहगैरुपभुक्तस्य
शृणु तस्यापि यत फलम् । शतं वर्षसहस्राणि
सोमलोके महीयते । तस्मादपि परिभ्रष्टो राजा भवति
धार्मिकः । यामुने चोत्तरे कूले प्रयागस्य च दक्षिणे ।
ऋणमोचनकं नाम तत्तीर्थं परमं स्मृतम् । एकरात्रो-
षितः स्नात्वा ऋणैः सर्वैर्विसुच्यते । अश्वमेधफलं तस्माद्ग-
च्छतस्तु पदे पदे । पुरुषांस्तारयेद्राजन्! दश पूर्वान्
दशापरान् । व्यतीतान् पुरुषान् सप्त भविष्यांश्च चतुर्दश ।
नरस्तारयते सर्बान् यस्त् प्राणान् परित्यजेत् । अश्रद्ध
धानाः पुरुषा पापापहृतचेतसः । न प्राप्नुवन्ति तत्
स्थानं प्रयागं देवरक्षितम् । अज्ञानेन तु यस्येह तीर्थ-
यात्रादिकं भवेत् । मर्बकामसमृद्धन्तु स्वर्गलोके
महीयते । अग्नितीर्थमतिख्यातं यमुनादक्षिणे तटे । उत्त-
रेण तु वक्ष्यामि आदित्यस्य महात्मनः । तीर्थं निरु-
र्दकं नाम यत्र देवाः सवासवाः । उपासते सदा सन्ध्यां
नित्यकालं युधिष्ठिर! । गङ्गा च यमुना चैव उभे तुल्य-
फले स्मृते । केबलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते ।
नैमिषं पुष्करञ्चैव गोमती सिन्थुसागरम् । गया च
धेनुकञ्चैव गङ्गासागरएव च । एते चान्ये च वहवो
ये च पुण्याः शिलोच्चयाः । दश कोटिसहस्राणि षष्टि-
कोट्यस्तथा पराः । प्रयागे संस्थिता नित्यमेवमाहु-
र्मनीषिणः । कुरुक्षत्रसमा गङ्गाः यत्र तत्रावगाहिता ।
तस्माद्दशगुणा प्रोक्ता यत्र विन्ध्येन सङ्गता । तस्माच्छत-
गुणा प्रोक्ता काश्यामुत्तरवाहिनी । काश्याः शतगुणा
प्रोक्ता गङ्गायमुनसङ्गमे । सहस्नगुणिता चापि भवेत्
पश्चिमवाहिनी । सा राजन्! दर्शनादेव ब्रह्महत्याप-
हारिणी । पश्चिमाभिमुखी गङ्गा कालिन्द्या सह
सङ्गता । हन्ति कल्पकृतं पापं सा माघे नृप! दुर्लभा ।
अमृतं कथ्यते राजन्! सा वेणी परिकीर्त्तिता । तस्यां
माघे मुहूर्त्तन्तु देवानामपि दुर्लभम् । षष्टिस्तीर्थसहस्राणि
षष्टिस्तीर्थशतानि च । माघे मासि गमिष्यन्ति गङ्गायमुन-
सङ्गमम् । ब्रह्मविष्णुमहादेवरुद्रादित्यमरुद्गणाः । गन्धर्वा
लोकपालाश्च यक्षकिन्नरगुह्यकाः । अणिमादिगुणैः सिद्धा
ये चान्ये तत्त्वदर्शिनः । ब्रह्माणी पार्वती लक्ष्मीः शची
मेधावती रतिः । सर्वास्ता देवपत्न्यश्च तथा नागाङ्गना
नृप । घृताची मेनका रम्भा उर्वशी च तिलोत्तमा ।
गणाश्चाप्मरसां तद्वत् पितॄणाञ्च गणाश्च ये । स्नातुमा-
घन्ति ते सर्वे माघे वेण्यां नराधिप! । कृते युगे स्वरू-
पेण कलौ प्रच्छन्नरूपिणः । सर्वतीर्थानि कृष्णानि पापिनां
सङ्गदोषतः । भवन्ति शुक्लवर्णानि प्रयागे माधमज्जनात् ।
स्वर्णभारसहस्रेण कुरुक्षेत्रे रविग्रहे । यत् फलं लभते
माथे वेण्यां तच्च दिने दिने । यज्ञतीर्थतपोमिश्च न
तत् प्राप्नाति मानवः । यत् फलं समवाप्नोति वेण्यां
स्नानान्न संशयः । प्रयागे माधमासे तु यस्त्र्यहं स्नाति
मानवः । पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवो-
रगः । प्रयागे माघमासे तु त्र्यहं स्नातस्य द्भवेत् ।
पृष्ठ ४४८४
नाश्वमेधसहस्रेण तत् फलं लभते भुवि । त्र्यहस्नान-
फलं माघे पुरा काञ्चनमालिने । राक्षसाय ददौ भूप!
तेन मुक्तः स पातकात् । योगाभ्यासेन यत् पुण्यं संवत्सर
शतेन च । गवां कोटिप्रदानस्य सम्यग्दत्तस्य यत् फलम् ।
प्रयागे माघमासे तु त्र्यह स्नातस्य तत् फलम् । किं
गयापिण्डदानेन काश्यां वा मरणेन किम् । किं
कुरुक्षेत्रदानेन प्रयागे वपनं यदि । प्रयागे वपनं कृर्य्यात्
गयायां पिण्डपातनम् । दानं दद्यात् कुरुक्षेत्रे वारा-
णस्यां तनुं त्यजेत् । सितासितेषु ये स्नान्ति माघे मासि
युधिष्ठिर! । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
स्वल्पं स्वल्पतरं पापं यद्वा यस्य नराधिष! । प्रयागं
स्मरमाणस्य सर्वमायाति संक्षयम् । दर्शनात्तस्य तीर्थस्य
नामसंकीर्त्तनादपि । मृत्तिकालभनाद्वापि नरः पापात्
प्रमुच्यते । पयागस्य प्रवेशात्तु पापं नश्यति तत्क्षणात् ।
कीर्त्तनान्मुच्यते पापाद्दृष्ट्या भद्राणि पश्यति । अवगाह्य
च पीत्वा च पुनात्यासप्तमं कुलम् । गङ्गायमुनयोर्मध्ये
स्वातो मुच्येत किल्विषात् । मनसा चिन्तितान् कामां-
स्तांस्तान् प्राप्नोति पुष्कलान् । प्रयागन्तु ततो गत्वा सर्व-
देवाभिरक्षितम् । ब्रह्मचारी भवेन्मासं पितॄन् देवांश्च तर्प-
येत् । ईप्सितान् लभते काभान् यत्र कुत्रापि जायते ।
तत्राभिवेकं यः कुर्य्यात् सङ्गमे संशितव्रतः । स प्राप्नोति
फलं तुल्यं राजसूयाश्वमेधयोः । पञ्चयोजनविस्तीर्णं
प्रयागस्य च मण्डलम् । प्रवेशाद्यस्य भूमौ तु अश्वमेधः
पदे पदे । प्रयागमनुगच्छेद्वा बसते वापि यो नरः । सर्व-
पापविशुद्धात्मा विष्णुलोके महीयते । मकरस्थे रवौ माघे
गोविन्दाच्युत! माधव! । स्नानेनानेन मे देव! यथोक्त
फलदो भव । तत्र दानं प्रदातव्यं यथाविभवविस्तरम् ।
तेन तीर्थफलञ्चैव वर्द्धते नात्र संशयः । स्वर्गे तिष्ठति
राजेन्द्र! यावदाहूतसंप्लवम् । योजनानां सहस्रेषु गङ्गां
यः स्मरते नरः । अपि दुष्कृतकर्माऽपि लभते परमां
नतिम् । स्नातास्तु ये माकारभास्करोदये तीर्थे प्रयागे
सुरसिन्धुसङ्गमे । तेषां गृहद्वारमलङ्करोति भृङ्गाबली
कुञ्जरकर्णताड़िता” मत्स्यपु० ।
तत्र मुण्डनविधिर्यथा “गङ्गायां भास्करक्षेत्रे मातापि-
त्रोर्गुरौ मृते । आधाने सोमपाने च वपनं सप्तस स्मृ-
तम्” इति स्तृतिसमुच्चयतिलितवचनं प्रयागावच्छिन्नग-
ङ्गाया विधायकम् । भास्करक्षेत्रं प्रयागः अपि च
प्रयागमधिकृत्य “केसानां यावती सङ्ख्या छिन्नानां जा-
ह्नवीजले । तावद्वर्षसहस्राणि स्वर्गलोके महीयते” ।
प्रयागे स्त्रीणामपि मुण्डन न तु केशानां द्व्यङ्गलच्छेदन
मात्रं यथा “केशमूलमुपाश्रित्य सर्वपापानि देहिनाम् ।
तिष्ठन्ति तीर्थस्नानेन तणात्तान्यत्र वापयेत् । प्रयागे
मुण्डनाकरणे दोषोऽपि “गङ्गायां मास्करक्षेत्रे मुण्डनं
यो न कारयेत् । स काटिकुलसंयुक्त आतल्यं रौरवे
वसेत्” इति प्रा० त० ।

प्रयागभय पु० प्रयागात् प्रकृष्टयागकर्तृक्षनात् पिभेति स्वप-

द्रच्युतिशङ्कया भी--अच् । इन्द्रे शब्दसाला ।

प्रयागसेतु पु० त्रिस्थलीसेतुग्रन्थांशे प्रयागमाहात्स्यादिप्रति-

पादके ग्रन्थे ।

प्रयाज पु० प्र + यज--धञ् यज्ञाङ्गत्वात् न कुत्वम् । दर्शपौर्णमा-

साद्यङ्गे यागभेदे । प्रयाजाश्च पञ्च “समिघो यजति
तनूनपातं यजति इडा यजति वर्हिर्यजति खाहाकारं
यजतीत्येवं रूपाः श्रुत्युक्ताः । “पञ्च प्रयाजान्” कात्या०
श्रौ० ३ । २ । १ । १७ । आपस्तम्बोऽपि “पञ्च प्रयाजान् प्राचः
प्रतिदिशं वा, समिधः पुरस्तात्, तनूनपातं दक्षिणतः, इडः
पश्चात्, बर्हिरुत्तरतः, खाहाकारं मध्ये” ततकर्मस्थान-
साह । कर्मभेदे तेषां मध्ये कस्यविदावृत्त्या षट्सप्तनवै-
कादशसंख्याऽपि कात्या० श्नौ० उक्ता दृश्या । विस्तरभयात्
नोक्ता । प्रयाजादयश्चारादुपकारका यथोक्तं लौकाक्षि०
“द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म त्वारादुपकारकम्
यथा पृयाजादि । आरादुपकारकञ्च परमापूर्वोत्पत्तावेवो
पयुज्यते । सन्निपत्योपकारकन्तु द्रव्यदेवतासंस्कारद्वारा
यागस्वरूपेऽप्युपयुज्यते । इदमेव चाश्रयिकर्मेत्युच्यत” ।

प्रयाजवत पु० प्रयाज + अस्त्यर्थे मतुप् मस्य वः । प्रयाजरूप

कर्मभेदपञ्चकयुते प्रधानयागे दर्शादौ ।

प्रयाण न० पृ + या--भावे ल्युट् । प्रस्थाने पुरादितो

वहिर्गसने हेमच० । राज्ञां प्रयाणे वर्णनीयपदार्थाः कविकल्प
लतायामुक्ता यथा “भेरीशब्दः भूमिकम्पः सैन्यधूलिप्रस-
रणं करभः वृषः (द्रव्यवाहनार्थं) ध्वजः छत्रं वणिक्
शकटमित्यादयः । स्वार्थे क । तत्रार्थे हमच० ।

प्रयात त्रि० प्र + या--कर्त्तरि क्त । १ प्रकर्षेण गन्तरि कर्मणि

क्त । २ प्रयासेनप्राप्ते ३ भृगौ उच्चदेशे ३ सौप्तिके च पु० हेम०

प्रयाम पु० प्र + यम--घञ् । महार्घ्यतावशात् धान्यादौ १

जनानामादरातिशये अमरः । २ क्रयदेये इत्यन्ये ३ मूल्याधि-
क्यपरिष्वेदने भरतः ।

प्रयाम पु० प्र + यस--भावे घञ् । १ प्रयते २ परिश्रमे ३ क्लेशे

हेमच० । प्रयस्यतेऽनेन करणे घञ् । ४ अविद्यादिषु पञ्चसु
क्लेशदायकेषु ।
पृष्ठ ४४८५

प्रयियु त्रि० प्र + या--बा० कु द्वित्वे अभ्यासस्यात इत्त्वम् । प्रयाण युते ऋ० ८ । १९ । ३७

प्रयुक्त त्रि० प्र + युज--क्त । १ प्रकर्षेण संयोगयुते २ प्रेरिते ३

प्रयोज्ये परम्परया कार्ये च । तस्य भावः प्रयुक्तत्व
तद्भावे न० । स च स्वरूपसम्बन्धभेदः कारणाभावेन
कार्य्याभाव इत्यादिप्रतीतिसिद्धः गौ० सू० ।
तदुक्तं गौ० सू० १ । १ । २ । वृत्तौ प्रयोज्यत्वं प्रयोजकत्वं
वा पञ्चम्यर्थः दण्डाभावात् घटाभाव इतिवत् स्वरूपस-
म्बन्धविशेष एव तत्” ।

प्रयुक्ति स्त्री प्र + युज--भावे क्तिन् । १ प्रयोगे २ शब्दोच्चारणभेदे

“ऋद्धस्य राजमातङ्गा इति न स्युः प्रयुक्तयः” व्या०
कारिका ३ प्रेरणे प्रा० स० । ४ प्रकृष्टायां युक्तौ च ।

प्रयुत न० १ दशलक्षसंख्यायां २ तत्संख्याते च “लक्षप्रयुत-

कोटयः” क्रमशः इति लीला० । ३ प्रकर्षेणयुते त्रि० ।

प्रयुति स्त्री प्र + यु--भावे क्तिन् । १ प्रकर्षेण योगे २ प्रयोगे

ऋ० १० । ३७ । १२

प्रयुतेश्वर पु० तीर्थभेदे स्कन्दपु० ।

प्रयोक्तृ त्रि० प्र + युज--तृच् । १ प्रयोगकर्त्तरि २ ऋणदानादौ

धनप्रयोगकर्त्तरि उत्तमर्णे ३ प्रयोजकमात्रे च अमरः ।

प्रयोग पु० प्र + युज--भावकर्मकरणेषु यथायथं घञ् कुत्वम् ।

१ अनुष्ठाने २ शब्दादीनामुच्चारणभेदे ३ वशीकरणाद्युषाये
कामेणे कर्मणि । ४ घोटके च मेदि० । प्रयोगैर्निर्वृत्तः
ठञ् । अनुशति० द्विपदवृद्धिः । प्रायौगिक प्रयोगसाध्ये
त्रि० स्त्रियां ङीप् । तत्र वाक्योच्चारणं च अनुमाना-
ङ्गपञ्चावयववाक्योच्चारणं यथा “अत्रायं प्रयोगः प्रर्वतो
वह्निमान् धूमादित्यादि” यथायोगं समभिव्याहृतत्वेनो-
च्चारणं प्रयोग इति शाब्दिकाः । यज्ञादिक्रियाकलापेति-
कर्त्तव्यताबोधकानां समुच्चयप्रतिपादके पद्धत्यपरपर्य्याये
ग्रन्धे इति याज्ञिकाः । भूतप्रेताद्युच्चाटनादिसाधने
मन्त्रोच्चारणभेदे तान्त्रिकाः । ५ शस्त्रादिमोचने
योद्धारः । ६ नायकयोर्मेलने क्रियाभेदे इत्यालङ्कारिकाः ।

प्रयोगविधि पु० प्रयोगज्ञापकोविधिः शा० त० । प्रयोगस्यावि

लम्बज्ञापके विधिभेदे तल्लक्षणादि लौगाक्षि० उक्तं यथा
“प्रयोगप्राशुभावबोधको विधिः गयोगविधिः । स चाङ्ग
वाक्यैकवाक्यतापन्नः प्रधानविधिरेव । स हि साङ्गवधा-
नमनुष्ठापयन् विलम्बे प्रमाणाभावादविलम्यापरपर्य्यायं
प्रयोगप्राशुभावं विधत्ते । न च तदविलव्येऽपि प्रमा-
णाभाव इति वाच्यं विलम्बे ह्यङ्गप्रधानविध्येकवाक्यता-
वगततत्साहित्यानुपपत्तिः विलग्वेन क्रियमाणयोः
पदार्थयोः इदमनेन सह कृतमिति साहित्यव्यवहाराभा-
वात् । स चाविलग्नो नियते क्रमे आश्रियमाणे भवति ।
अन्यथा हि किमेतदनन्तरमेतत् कर्त्तव्यमेतदनन्तरं वेति
प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरेव स्वविधेय
प्रयोगप्राशुभविध्यर्थं नियतं क्रभमपि पदार्थविशेषण
तया विधत्ते । अतएवाङ्गानां क्रमबोधको विधिः
प्रयोगविधिरित्यपि लक्षणम् । तत्र क्रमोनाम विततिवि-
शेषः पौर्वापर्य्यरूपो वा । तत्र षट् प्रमाणानि । श्रुत्यर्थ-
पठनस्थानमुख्यप्रवृत्त्याख्यानि । क्रमज्ञापकहेतवश्च क्रम-
शब्दे २२९० पृष्ठादावुक्ताः ।

प्रयोगातिशय पु० सा० द० नाटकाङ्गप्रस्तावनाभेदे “यदि

प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रपवेश-
श्चेत् प्रयोगातिशयस्तदा” । यथा कुन्दमालायाम् “नेपथ्ये
इतोऽवतरत्वार्य्या । सूत्रधारः । कोऽयं खलु आर्य्याह्वानेन
साहायकं मे सम्पादयति । विलोक्य । कष्टमतिकरुणं
वर्त्तते । लङ्केश्वास्य भवने सुचिरं स्थितेति रामेण
लोकप्ररिवादभयाकुलेन । निर्वासितां जनपदादपि गर्भगुर्वीं
सीतां वनाय परिकर्षति लक्ष्मणोऽयम्” । अत्र नृत्यप्रयो-
गार्थं स्वभार्य्याह्वानमिच्छता सूत्रधारेण सीतां वनाय
परिकर्षति लक्ष्मणोऽयमिति सीतालक्ष्मणयोः प्रवेशं
सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः
प्रयोजितः” ।

प्रयोगार्थ पु० प्रयोगस्यायम् “अर्थेनसह नित्यसमासोविभक्त्य

लोपश्च” वार्त्ति० स० प्रयोगोऽर्थः प्रयोजगमस्य वा । प्रधा-
नप्रयोगानुष्ठानानुकूले व्यापारभेदे प्रत्युत्क्रमे अमरः ।

प्रयोगिन् त्रि० प्र + युज--थिनुण् । प्रयोगकर्त्तरि ।

प्रयोग्य त्रि० प्रयुज्यते प्रयुज--कर्मणि ण्यत् । १ प्रयोज्ये २ अश्वे

च “यथा प्रयोग्य आचरणे (रथे) नियुक्तः” छा० उ० भाष्यम् ।

प्रयोजक त्रि० कार्य्यादौ भृत्यादीन् प्रयुनक्ति प्र + युज--ण्वुल् ।

निकृष्टस्य भृत्यादेः १ प्रेरके व्याकरणोक्ते हेतुसंज्ञे २ कर्त्तरि
च । “तत्प्रयोजकोहेतुश्च” पा० तस्य स्वतन्त्रसंज्ञा
विहिता । प्रयोजकस्य हन्तृत्वं प्रा० वि० निर्णीतं यथा
“नरान्तरव्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता,यः
कर्त्तारं कारयति स प्रयोजकः । सोऽपि द्विविधः एकः
स्वतोऽप्रवृत्तं पदातिं वेतनादिना वधार्थं प्रवर्त्तयति अपरः
स्तृतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहयति” ।
पृष्ठ ४४८६
तस्य मूलञ्च आपस्तम्बवाक्यं यथा “प्रयोजयिता
अनुमन्ता कर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूय
आरभते तस्मिन् फले विशेषः” । तस्य भावः त्व प्रयोज
कत्व न० तद्भावे तच्च स्वरूपसम्बन्धभेदः तन्निष्ठान्त्यथासि-
द्धिभिन्नान्यथासिद्धिशून्यत्वे सति कार्य्याव्यवहित पूर्वव-
र्त्तित्वम्” ।

प्रयोजन न० प्रयुज्यतेऽनेन प्र + युज--करणे ल्युट् । यमधि-

कृत्य प्रवर्त्तते १ तस्मिन् प्रवृत्त्यङ्गेच्छाविषये यमर्थमाप्तव्यं
हातव्यं वा अवसाय तदाप्तिप्रहाणोपायमनुतिष्ठति
प्रयोजनं तद्वेदितव्यम् । प्रवृत्तिहेतुत्वाद् इममर्थमाप्स्या-
मि हास्यामि वेति व्यवसायोऽर्थस्याधिकारः । एवं व्यव-
सीयमानोऽर्थोऽधिक्रियते इति” वात्स्या० १ । १ । २४ । करणे
ल्युट् । २ हेतौ । कर्मणि ल्युट् । ३ कार्य्ये च मेदि० ।
प्रयोजनञ्च द्विविधं सुख्यं गौणं च । अत्र अन्येच्छान-
धीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् अन्येच्छाधीनेच्छा-
विषयत्वं गौणप्रयोजनत्वम् । तत्राद्यम् दुःखा-
भावः सुखञ्च द्वितीयं तदुपकारिशयनभोजनादि । तस्य
मुख्यप्रयोजनेच्छयैव जन्याया इच्छायाविषयत्वात्
तथात्वम् । “येन प्रयुक्तः प्रवर्त्तते तत्प्रयोजनम् ।
यमर्थमभीप्सन् जिहासन वा कर्मारभते तेनानेन सर्वे
प्राणिनः सर्वाणि कर्माणि सर्वाश्च विद्याव्याप्ताः ।
तदाश्रयश्च न्यायः प्रवर्त्तते” वात्स्या० १ । १ । १

प्रयोज्य त्रि० प्र + युज--ण्यत् । प्रयोक्तुंशक्ये १ भृत्यादौ २ मूल

धने न० “प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता”
हर्यक्ते ३ णिजन्तधातुप्रकृत्यर्थकर्त्तरि च । तस्य भावः
त्व प्रयोज्यत्व स्वरूपसम्बन्धभेदे न० प्रयुक्तशब्दे दृश्यम् ।

प्ररथ अव्य० प्रगती रथी यत्र तिष्ठद्गु० अव्ययी० । प्रगतरथ-

युक्ते देशे ।

प्ररिच्वन् त्रि० प्र + रिच--ङ्वनिप् । प्रकर्षेण विरेचनकर्त्तरि ऋ० १ । १० । १५ ।

प्ररुज त्रि० प्र + रुज--क । १ प्रकृष्टरोगकारके २ दैवसैन्याधिप-

भेदे पु० भा० आ० ३२ अ० ३ राक्षसभेदे पु० भा० व० २८४ अ० ।

प्ररुह त्रि० प्र + रुह--क । प्ररोहणकर्त्तरि अङ्कुरादौ

प्ररूढ त्रि० प + रुह--क्त । १ प्ररोहणकर्त्तरि २ सजाते वृक्षादौ

३ बद्धमूले च ४ जटरे न० मेदि० । ५ जाते ६ प्रबुद्धे त्रि०
शब्दमा० ।

प्ररोचन न० प्र + रुच--णिच्--भावे ल्युट् । १ रुचिसम्पादने

यथाऽर्थवादादीनां विध्यर्थानष्ठाने प्ररोघनार्था प्रवृत्तिः ।
युच् प्ररोचना तत्रार्थे स्त्री । सा च २ पस्तावनाङ्गभेदे ।
“तस्याः प्ररोचना वीथी तथा प्रहसना मुखे । अङ्गा-
थत्रोन्मुखीकारः प्रशंसातः प्ररोचना” सा० द० यथा
“श्रीहर्षोनिपुणः कविरित्यादि रत्न्याबल्याम् । ३
नाटकाङ्गविमर्षाङ्गभेदे स्त्री “परोचना विमर्षे स्यात्” विमर्षा-
ङ्गोपक्रमे “प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी”
इति तत्र लक्षिता यथा वेण्यां पाञ्चालकः अहं देवेन
चक्रपाणिना सहित इत्युपक्रमे कृतं सन्देहेन पूर्य्यन्तां
सलिलेनेत्यादि ।

प्ररोह पु० प्र + रुह--अच १ अङ्कुरे “प्लक्षप्ररोह इव

सौधतलं विभेद” इति रघुः । २ आरोह च हेमच० । भावे
घञ । ३ उत्पत्तौ पु० । भावे ल्युट् । प्ररीहण ष्टत्पत्तौ न०

प्रलपन न० प्र + लप--भावे ल्युट् । १ प्रलापे २ अनथकवाक्ये

सा० द० १८८ कारिकायां दृश्यम् । भावे क्त । प्रल-
पित तत्रार्थे न० । “प्रलपितमिदं केनापि” मिता० काथते

प्रलम्ब त्रि० प्रलम्बते प्र + लम्ब--अच् । १ प्रलम्वमाने २ दनुपुत्रे

असुरभेदे पु० अग्निपु० । ३ त्रपुषे (शशा) ४ पयोधरे ५ लताङ्क रे
६ गाथायां ७ हारभेदे मेदि० । भावे घञ् । ८ प्रसम्बने

प्रलम्बघ्न पु० प्रलम्बमसुरं हन्ति हन--क । १ वणरामे अमरः

तेन तस्य हननकथा हरिवं० ७१ अ० दृश्या । प्रलम्बभि-
दादयोऽप्यत्र ।

प्रलम्बाण्ड पु० प्रलम्बः अण्डीऽस्य । दीर्थाण्डकोषयुते हेम० ।

प्रलम्भ पु० प्र + लभ--घञ् मुम् । प्रकर्षेण लाभे । भावे ल्युट् ।

प्रलम्भन तत्रार्थे भाग० ५ । २५ । ११ ।

प्रलय पु० प्रलीथतेऽस्मिन् प्र + ली--आधारे अच् । भूतादि

लयाधारे कालभेदे स च चतुर्विधः नित्यनैमित्तिकप्राकृ-
तात्यन्तिकभेदात् यथोक्तं कूर्मपु० ४२ । ४३ अ०
कूर्म उवाच नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा ।
चतुर्धायं पुराणेऽस्मिन् प्राच्यते प्रतिसञ्चरः” । नित्यो
यथा “योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह ।
नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः” नेमि-
त्तिको यथा “ब्राह्यो नैमित्तिको नाम कल्पान्त
योभविष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीः
षिभिः” प्राकृतो यथा “महदाद्यं विशषान्तं यदा
संयाति संक्षयम् । प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचि
न्तकैः” आत्यन्तिका यथा “ज्ञानादात्यन्तिका षोक्तो यो
गिनः परमात्मनि । प्रलयः प्रतिसर्गोऽय कालचिन्त
परैर्द्विजैः । आत्यन्तिकश्च कथितः प्रल्लवा कयसाधनः”
नैमित्तिकप्रलयविस्तारो यथा तत्रैव “नैमित्तिकनिदानीं
पृष्ठ ४४८७
कीर्तयिष्ये समासतः । चतुर्युगसहस्रान्त” संप्राप्ते
प्रतिसञ्चरे । आत्मसस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजा-
पतिः । ततोभवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।
भूतक्षयकरी घारा मवभूतभयङ्करी । ततो यान्यल्पसाराणि
शस्यानि पृथिवीतले । तानि चाग्रे प्रलीयन्ते भूमित्व-
सुपयान्ति च । सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवा-
करः । असह्यरश्मिर्भवति पिबन्नम्भोगभस्तिभिः ।
ततस्तं रश्मयः सप्त पिबन्त्यम्बु महार्णवे । तेनाहारेण
ते सूर्य्या दीप्ताः सप्त भवन्ति हि । तस्य ते रश्मयः
सप्त सूर्य्या भूत्वा चतुर्दिशम् । चतुर्लोकमिदं कृत्स्नं
दहन्ति शिखिनो यथा । व्याप्नुवन्तश्च ते विप्रास्तू-
र्ध्वञ्चाधश्च रश्मिभिः । दीप्यन्ते भास्कराः सप्त
दहन्तोऽग्निप्रतापिमः । ते सूर्य्या वह्निवत् दीप्ता
बहुसांहह्ररश्मयः । स्वं समावृत्य तिष्ठन्ति निर्दहन्तो
वसुन्धराम् । ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा ।
साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यम । दीप्ताभिः
सन्तताभिश्च ज्वालाभिश्च समावृतः । अधश्चोर्द्धञ्च तिर्य्यक्
च समावृत्य सहस्रशः । सूर्य्यग्निना प्रसृष्टानां संसृ-
ष्टानां परस्परम् । एकत्वसुपजातानामेकज्वालो भवेत्
प्रभुः । सर्वलोकप्रणाशश्च सोऽग्निर्भूतान्तकृद्बली ।
चतुर्लोकमिदं कृत्स्नं निर्दहत्यात्मतेजसा । ततः प्रलीने
सर्वस्मिन् जङ्गमे स्थावरे तथा । निर्वृक्षा निस्तृणा भूमिः
कूर्मपृष्ठे प्रकाशते । अम्बरीपमिवाभाति सर्वमापूरितं
जगत् । सर्वमेव तदार्चिर्भिः पूर्णं जाज्वल्यते नभः ।
पाताले यानि तीर्थानि महोदधिगतानि तु । तत्र
नानि प्रलीयन्ते भूमित्वमुपयान्ति वै । द्वीपांश्च पर्वतां-
श्चैव वर्षाण्यथ महोदधीन् । तान् सर्वान् भस्मसात्-
कृत्वा सप्तात्मा पावकः प्रभुः । समुद्रेभ्यो नदीभ्यश्च
पातालेभ्यश्च सर्वशः । पिवन्नपः समिद्धोऽग्निः पृथिवी-
माश्रितोऽज्वलत् । ततः संवर्त्तकः शैलानतिक्रम्य महां
स्तथा । सोकान् दहति दीप्तात्मा रुद्रतेजोविजृम्भितः ।
स दग्ध्या पृथिवीं देवो रसातलमशोषयत् । अधस्तात्
पृथिवीं दग्ध्वा दिवमूर्द्धं दहिष्यति । योजनानां
शतानीह सहस्राण्ययुतानि च । उत्तिष्ठन्ति शिखास्तस्य
बायुः संवर्त्तकस्य च । गन्धर्वांश्च पिशाचांश्च सयक्षो-
रगराक्षसान् । तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ।
भूर्लोकञ्च १ भूवर्लोकं २ स्वर्लोकञ्च ३ तथा महः ४ । दहेद-
शेषं कासाग्विः कालो विश्वतनुः स्वयम् । व्युष्टषु तेषु
लोकेषु तिर्य्यगूर्ध्वमथाग्निना । तत् तेजः समनुप्राप्य
कृत्स्वं जगदिदं शनैः । अयोगृहनिभं सर्वं
तदेवैकं प्रकाशते । ततो गजकुलोन्नादाः स्तनितैः
समखङ्कृताः । उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः ।
केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः । धूम्र-
वर्णास्तथा केचित्तथा पीताः पयीधराः । केचिद्रक्ता-
भवर्णाश्च स्थूलाः क्षारनिभास्तथा । शङ्खकुन्दनिभा-
श्चान्ये जात्यञ्जननिमाः परे । मनःशिलानिभास्त्वन्ये
कपोतसदृशाः परे । केचित् रुद्राक्षवर्णाभास्तथान्ये
क्षीरसन्निभाः । तथा कर्वूरवर्णाभा भिन्नाञ्जननिभा-
स्तथा । इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।
काकाण्डकनिभाः केचिदुत्तिष्टन्ति घना दिवि । केचित्
पर्वतसङ्काशाः केचिद्गजकुलोपमाः । कूटागारनिभा-
श्चान्ये केचिन्मीनकुलोद्वहाः । बहुरूपा घोररूपा
घोरस्ररनिनादिनः । तदा जलधराः सर्वे पूरयन्ति
नभस्तलम् । ततस्ते जलदा घोरा वारिणा भास्करात्मजाः ।
सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत । ततस्ते
जलदा वर्षं वर्षन्तीह हिमौघवत् । सुघोरमशिवं सर्यं
नाशयन्ति च पावकम् । प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यते
किल । अद्भिस्तेजोऽभिभूतत्वात्तदाग्निः प्रविशत्यपः ।
नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः । प्लावयन्तो
ऽथ भुवनं महाजलपरिस्रवैः । घाराभिः पूरयन्तीदं
चोद्यमानाः स्वयम्भुवा । उद्यन्तः सलिलौथैश्च वेला इव
महोदधेः । साद्रिद्वीपा तथा पृथ्वी जलैः संछाद्यते
शनैः । आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति
पुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः । तनः
ससुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः । पर्वताश्च
विलीयन्ते मही चाप्सु निमज्जति । तस्विन्नेकार्णवे
घोरे नष्टे स्थावरजङ्गमे । योगनिद्रां समास्थाय शे
देवः प्रजापतिः । चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ।
वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ।
असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः । कथिता
हि पुराणेषु मुनिभिः कालचिन्तकैः । सात्त्विकेष्यथ-
कल्पेषु माहात्म्यमखिलं हरेः । तामसेषु शिवस्योक्तं
राजसेषु प्रजापतेः । सोऽयं प्रवर्त्तते कल्पो वाराहः
सात्त्विको मतः । अन्ये च सात्त्विकाः कल्पा मम तेषु
परिग्रहः । ध्यानन्तपस्तथा ज्ञानं लब्ध्वा तेष्वेव
योगिनः । आराध्य गिरिशं यत्नात् याति तत् परमं
पृष्ठ ४४८८
पदम । सोऽहं सत्त्वं समाधाय मायी मायामयं स्वयम् ।
एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु । मां पश्यन्ति
महात्मानः सुप्तं काले महर्षयः । जनलोके वर्त्तमाना-
स्तपसा योगचक्षुषा । अहं पुराणपुरुषो भूर्भुवःप्रभवो
विदुः । सहस्रचरणः श्रीमान् सहस्राक्षः सहस्रपात् ।
मन्त्रोऽग्निर्ब्राह्मणा गावः कुशाश्च समिधो ह्यहम् ।
प्रोक्षणी च स्रुवश्चैव सोमो घृतभयोऽस्यहम् । संवर्तको
महानात्मा पवित्रं परमं यशः । वेदवेद्यः प्रभुर्गोप्ता
गोपतिर्ब्रह्मणोमुखम् । अनन्तस्तारको योगी
गतिर्मतिमतांवरः । हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः
सनातनः । क्षेत्रज्ञः प्रकृतिः कालो जगद्वीजमथामृतम् ।
माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते । आदित्य-
वर्णो भुवनस्य गोप्ता नारायणः पुरुषो योगमूर्त्तिः ।
मां पश्यन्तो यतयो योगनिष्ठा ज्ञात्वात्मानममृतत्वं व्र
जन्ति” । प्राकृतप्रलयविस्तारो यथा तत्रैव “कूर्म उवाच
अतःपरं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् । प्राकृतं च
समासेन शृणुध्वं गदतो मम । गते परार्द्धद्वितये काले
लोकप्रकालकः । कालाग्निर्भस्मसात् कर्तुं करोति निखिलं
मतिम् । आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् । तमाविश्य
महादेवो भगवान्नीललोहितः । करोति लोकसंहारं
भीषणं लोकमाश्रितः । प्राविश्य मण्डलं सौरं कृत्वा-
ऽसौ बहुधा पुनः । निर्दहत्यस्विलं लोकं सप्तसप्तिस्वरूप
धृक् । स दग्ध्वा सकलं सत्त्वं मन्त्रं ब्रह्म शिरो महत् ।
देवतानां शरीरेषु क्षिपत्यखिलदाहकः । दग्धेष्वशेष-
देहेषु देवी गिरिवरात्मजा । एका सा साक्षिणः शम्भो
स्तिष्ठते वैदिकी श्रुतिः । शिरःकपालैर्देवानां कृत
तग्धरभूषणः । आदित्यचन्द्रादिगणैः पूरयन् व्योम-
मण्डलम् । सहस्रहस्तचरणः सहस्रार्चर्महाभुजः ।
दष्ट्राकरालवदनः प्रदीप्तानललोचनः । त्रिशृली कृत्ति-
वसनो योगमैश्वरमास्थितः । पीत्वा तत् परमानन्दं
प्रभूतममृतं स्वकम् । करोति ताण्डवं देवीमालोक्य
परमेश्वरः । पीत्वा नृत्यामृतं देवी भर्तुः परममङ्गला ।
योगमास्थाय देवस्य देहमायाति शूलिनः । स त्यक्त्वा
ताण्डवरसं स्येच्छयैव पिनाकधृक् । याति स्वभावं
भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् । संस्थितेष्वथ देवेषु
ब्रह्मविष्णुपिनाकिषु । गुणैरनेकैः पृथिवी विलयं याति
वारिषु । स बारितत्त्वं सगुणं ग्रसते हव्यपाहनः ।
तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् । आकाशे
सगुणो वायुः प्रलयं याति सत्तमाः! । भूतादौ च
तथाऽऽकाशं लीयते गुणसंयुतम् । इन्द्रियाणि च सर्वाणि
तैजसे यान्ति संक्षयम् । वैकारिके देवगणाः प्रलयं
यान्ति सत्तमाः! । वैकारिकस्तैजसश्च भूतादिश्चेति
सत्तमाः! । त्रिविधोऽयमहङ्कारो महति प्रलयं व्रजेत् ।
महान्तमेभिः सहितं ब्रह्माणममितौजसम् । अव्यक्तं
जगतो योनिः संहरेदेकमव्ययम् । एवं संहृत्य भूतानि
तत्त्वानि च महेश्वरः । नियोजयत्यथान्योन्यं प्रधानं
पुरुषं परम् । प्रधानपुंसोरजयोरेष सहार ईरितः ।
महेश्वरेच्छाजनितो न खयं विद्यते लयः । गुणसाम्यं
तदव्यक्तं प्रकृतिः परिगीयते । प्रधानं जगतो योनि-
र्नावातत्त्वगचेतनम् । कूटस्थश्चिन्मयो ह्यात्मा केबलः
पञ्चविंशतः । गीयते मुनिभिः साक्षी महानेकः पिता-
महः । एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ।
प्रधानाद्यं विशेषान्तं दहेद्रुद्र इति श्रुतिः । योगिना-
मथ सर्वेषां ज्ञानविन्यस्तचेतसाम् । आत्यन्तिकञ्चैव लयं
विदधातीह शङ्करः” । आत्यन्तिकप्रलयविस्तारो यथा
विष्णु पु० पराशर उवाच “आध्यात्मिकादि मैत्रेय ज्ञात्वा
तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं
लयम् । आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः । शिरोरोग-
प्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्या-
दिभिरनेकधा । तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि । कामक्रोध-
भयद्वेषलोभमोहविषादजः । शोकासूयाबमानेर्ष्यामात्-
सर्य्यादिभवस्तथा । मानसोऽपि द्विजश्रेष्ठ! तापो भवति
नैकधा । इत्येवमादिभिर्भेदैस्ताणो ह्याध्यात्मिकः स्मृतः ।
मृगपक्षिमनुष्याद्यैः पिशाचोरमराक्षसैः । सरीसृपा-
द्यैश्च नृणां जन्यते चाधिभौतिकः । शीतोष्णवातवर्षाम्बु
वैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठ! कथ्यते चाधि-
दैविकः । तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ।
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः । निरस्ताति-
शयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेका-
न्तात्यन्तिकी मता । तस्मात् तत्प्राप्तये यत्नः कर्त्तव्यः
पण्डितैर्नरैः । तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं
नहामुने! । आगमीत्थं विवेकाच्च द्विधा ज्ञानं तथोत्यते ।
शब्दव्रह्मागममयं परं ब्रह्म विवेकभ्रम् । अन्यन्तम इवा-
पृष्ठ ४४८९
ज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं
यद्विप्रर्षे! विवेकजम् । मनुरप्याह वेदार्थं स्मृत्वा यन्मुनि-
कत्तस! । तदेतच्छ्रूयतामत्र साधु ते गदतो मम । द्वे
ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् । शब्दब्रह्मणि
निष्णातः परं ब्रह्माधिगच्छति । द्वे विद्ये वेदितव्ये वै
इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादि-
भवाऽपरा । यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ।
अनिर्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् । विभुं सर्व-
गतं नित्यं भूतयोनिभकारणम् । व्याप्यऽवाप्यं यतः
सर्वं तं वै पश्यन्ति सूरयः । तद्ब्रह्म तत्परं धाम
तद्ध्येयं मोक्षकाङ्क्षिणाम् । श्रुतिवाक्योदितं सूक्ष्मं
तद्विज्ञोः परमं पदम् । तदेव भगवद्वाच्यं स्वरूपं
परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः ।
शवं मिगदितार्थस्य सतत्त्वं तस्य तत्त्वतः । ज्ञायते
येन तज्ज्ञानं परमत्यत्तयीमयम् । अशब्दगोचरस्यापि
तस्यैव ब्रह्मणो द्विज! । पूजायां भगवच्छब्दः क्रियते
हौपचारिकः । शुद्धे महाविभूत्याख्ये परे ब्रह्मणि
वर्त्तते । मैत्रेय! भगवच्छब्दः सर्वकारणकारणे । सर्वाणि
तत्र भूतावि वसन्ति परमात्मनि । भूतेषु च स सर्वात्मा
वासुदेवस्ततः स्मृतः । स्वाण्डिक्यः जनकायाह पृष्टः
केशिध्वजः पुरा । नामव्याख्यामनन्तस्य वासुदेवस्य
तत्त्वतः । भूतेषु वसते सोऽन्तर्वसन्त्यत्र च तानि यत् ।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः । स सर्व-
भूतप्रकृतिर्विकारगुणांश्च दाषांश्च मुने! व्यतीतः ।
अतीतसर्वावरणाखिलात्मातेनास्तृतं यद्भुवनान्तरालम् ।
समस्तकल्याणगुणात्मको हि स्वशक्तिलेशावृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ।
तेजोवलैश्वर्य्यसमन्वितश्च स्ववीर्य्यशक्त्यादिगुणैकराशिः ।
परः षराणां सकला न यत्र क्लेशादयः सन्ति पराव-
रेत्ते । स ईत्तरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः प्रकट-
त्त्ररूपः । सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमे-
श्वराख्यः । स ज्ञायते येन तदस्तदीषं शुद्धं परं निर्मल-
मेकरूपम् । संदृश्यते चाप्यवगम्यते वा तज्ज्ञानम-
ज्ञानमतोऽन्यदुक्तम्” विष्णु पु० । “नारद उवाच । कृतं
त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् । दिनमेकं
युग ज्ञयं तस्य या चैकसप्ततिः । मन्वन्तरन्तु तज्ज्ञेयं
ते तु गत्र चतुर्दश । स कल्पो नाम वै कांलस्तदन्ते
प्रसुयस्य वः । सा ब्रह्म्रात्री राजेन्द्र! यत्र तेतेऽव्यु-
जासनः । त्रयोलोकास्तदा राजन्! लीयन्ते तन्निमि-
त्ततः । नैमित्तिको लयो नाम दैनन्दिन इतीर्य्यते ।
एवं दिनप्रमाणेन ब्रह्मणः शतवार्षिकम । आयुः
पूर्वपरार्द्धे तु परार्द्धे द्वे प्रकीर्त्तिते । द्विपरार्द्धे व्यतीते
तु व्रह्मणो जगदात्मनः । तदा प्रकृतयः सप्त प्रलयं यान्ति
भूमिप! लयः प्राकृतिको ह्येष लीने ब्रह्मणि भूपते! ।
अण्डकोषोऽपि सकलः प्रलयं याति सर्वशः । पूर्वरू-
पन्तु वक्ष्यामि प्रलयस्यास्य भूपते! । शतवर्षाणि
भूमौ हि पर्जन्यो नैव वर्षति । दुर्भिक्षे निर्जले लोके
प्रजाः सर्वाः क्षुधार्दिताः । परस्परं भक्ष्यमाणाः क्षयं
यास्यन्ति भूमिप! । समुद्रे च धरण्याञ्च वृक्षेषु च सतासु
च । देहे च यो रसस्तं हि रविर्हरति रश्मिभिः ।
ततः संवर्त्तको नाम ज्वालामाली हुताशनः । सङ्कर्ष-
णमुखोत्पन्नो दहत्यऽनिलसारथिः । सर्वं ब्रह्माण्ड-
भाण्डं वैतत्कालक्षोभगर्जितः । एवं दग्धं महाराज ।
वह्न्यर्काभ्यां समन्ततः । दग्ध्वा गोमयपिण्डाभं
ब्रह्माण्डं सारवर्जितम् । प्रचण्डः पवगी राजंस्ततोवर्ष-
शतं पुनः । संवर्त्तको नाम महान् ब्रह्माण्डं
चालयिष्यति । ततो मेषा महाघारा नानावर्णा
अनेकशः । शतं वर्षाणि वर्षन्ति गर्जन्ति च महास्वनाः ।
एकोदकं ततो विश्वं निर्गुणं निर्विकारकम् । भूमेर्गन्घ-
गुणं राजन्! ग्रसन्त्यापः समन्ततः । गुणनाशात् स्वयं
पृथ्वी प्रलयं प्रापस्यते तदा । तेजस्त्वपां रसगुणं सगन्धं
पिवते बलात् । ततः प्रलयमायान्ति राजन्नापोऽपि
तत्क्षणात् । तेजसस्तु ततो रूपं रसगन्धसमन्वितम् ।
वायुर्हरति चण्डात्मा, तेजः प्रलयमृच्छति । आकाशस्तु
ततो वायेः स्पर्शं परगुणैः सह । समादत्ते
महाराज! अम्बरेऽथ प्रलीयते । आकाशस्य गुणं शब्दं
गणैरन्यैः समन्वितम् । अहङ्कारः समादत्ते नभस्तस्मिन्
प्रलीयते । तैजसेष्विन्द्रियाण्यङ्ग देवा वैकारिका
स्तथा । अहङ्कारे प्रलीयन्ते जगदेतच्चराचरम् ।
अहङ्कारं भक्षयन्ति ततः सत्त्वादयो गुणाः । ग्रसते तान्
महाराज! आद्या प्रकृतिरुच्यते । न तस्याः
कालदोषेण परिणामो नरर्षभ! । आद्यन्तरहिता सा हि
नित्यं कारणमव्ययम् । शक्तिर्भगवतः सा हि तदेक-
परमा च सा । इत्युक्तः प्रलयो राजन्! विश्वस्यास्य
महामते! । यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा”
स च प्रलयो न्यायादिमते द्विविधः खण्डप्रलयो महा-
पृष्ठ ४४९०
प्रलयश्च तत्र जन्यद्रव्यानधिकरणकाणत्वं खण्डप्रलयत्वं
जन्यभावानधिकरणकालत्वं महाप्रलयत्वं महाप्रलयश्च
न प्रमाणसिद्ध इति नष्वनैयाविकाः । तत्र नैमित्तिकप्रल-
यकालश्च कल्पतुल्यः “यदा स देवो जागर्त्ति तदेदं चेष्टते
जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते” इति
मनुना हिरण्यगर्भस्य निदासमये तत्प्रलयस्योक्तेः “शर्वरी
तस्य तारती” इति तत्कासस्य च कल्पतुल्यकालत्वमुक्तम् ।
एतदभिप्रायेण अमरे “प्रलयो नष्टचेष्टता” इत्युक्तम्
नैमित्तिकप्रलयकाले सर्वभूतानां चेष्ठाशून्यत्वात् । “प्रलयः
सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः” सा० द० उक्ते २
सात्त्विकभावभेदे ।

प्रलव पु० प्र + लू--भावे अध् । १ प्रकर्षेण छेदने याथा० अन्तो-

दात्तताऽस्य । प्रलूयते । कर्मणि अप् । ३ खण्डभेदे २ लेशे
च कात्या० श्रौ० २६ । १ । १० (मुञ्जप्रलवान्) मुञ्जलेशान् ।

प्रलवित्र न० प्रलूयतेऽनेन प्र + लू + करणे इत्र । छेदनसाधने

अस्त्रादौ थाथा० अन्तोदात्तताऽस्य ।

प्रलाप पु० प्र + लप--भावे घञ् । १ अनर्थकवाक्ये २ निष्प्रयोजने

उन्मत्तादिवाक्ये च अमरः । ३ रोगाणामुपसर्गभेदे “मूर्च्छा
मांसक्षयोमोहः प्रलापो मरणमिति क्षुये” सुश्रुते धायो-
पसर्गोक्तौ ।

प्रलापहन् पु० प्रलापं हन्ति हन--क्विप् । कुलत्थजातेऽञ्जने राजनि० ।

प्रलापिन् त्रि० प्र + लप--ताच्छील्ये घिनुण् । प्रलपनशीले

प्रलीन त्रि० प्र + ली--कर्त्तरि क्त । १ प्रलयं प्राप्ते २ चेष्टा-

शून्ये च । तस्य भावः तल् । ष्रलीनता चेष्टानाशे इन्द्रि-
यस्वापे च ।

प्रलेप पु० प्र + लिप--भावे घञ् । व्रणादिशोधनार्थे द्रव्यविशे-

षेण लेपनविशेषे । सुश्रुते आलेपोपक्रमे “स त्रिविधः
प्रलेपः प्रदेह आलेपश्चेति । तेषामन्तरं, प्रलेपः
शीतस्तनुरविशोषी विशोषी च । प्रदेहस्तूष्णः शीतो वा
बहुलोऽबहुरविशोषी च । रक्तपित्तप्रसादनकृदालेपः” इति
आलेपनभेदलक्षणान्युक्तानि तत्र द्रव्यभेदास्तत्रोक्ता दृश्याः

प्रलेपक त्रि० प्र + लिप--ण्वुल् । १ प्रलेपकर्त्तरि स्त्रियां टाप्

कापि अत इत्त्वम् प्रलेपिका तस्या धर्म्यम् महिष्या०
अन् । २ प्रलेपिकाधर्मे त्रि० । सुश्रुतोक्ते ३ ज्वरभेदे पु०
“तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः । दुश्चाकत्-
दनमो मन्दः सुकष्टो धातुशोषकृत्” प्रलेपकं वातवलास
कक्ष कफाधिकत्पेन वदन्ति तज्ज्ञाः” नुश्रुते तक्तणा-
द्युक्तम्।

प्रलेह पु० प्रलिह्यतेऽसौ प्र + लिह--कर्मणि घञ् । व्यञ्जन-

भेदे (कोरमा) पाकराजेश्वरः ।

प्रलोलुप त्रि० प्रा० स० । १ अत्यन्तलोलुपे गरुडवंश्ये कुन्ति-

पुत्रे २ पक्षिभेदे पु० मार्क० पु० ७ अ० ।

प्रवक त्रि० प्रु + गतौ साधुकारैत्वे द्योत्ये वुन् । भूयोगतियुते

तत्र साधुकारिणि तत्त्ववोधिनी ।

प्रवक्तृ त्रि० प्रवक्ति प्र + वच--तृच् । प्रकर्षेण वक्तरि १ अर्थानु-

सन्धानपूर्वकवेदादिवाचके २ तदर्थोपदेशके च मनुः ६ । १
८६ याज्ञ० २ । ३५२

प्रवग पुं स्त्री० प्लवग + लस्य रः । खगे अमरठीका । एवं प्रवङ्गं

प्रवङ्गमावपि रस्यु लत्वे तत्रार्थे । सर्वत्र जातित्वात्
स्त्रियां ङीष् ।

प्रवचन न० प्रीच्यते प्र + वच--कर्मणि ल्युट् । १ वेदादौ शास्त्रे

भावे ल्युट् । २ अर्थानुसन्धानपूर्वककथने च “नायमात्मा-
प्रवचनेन लभ्य” कठोप० । अस्य तिङः परम्य गोत्रा०
कुत्त्सायाम् उदात्तता ।

प्रवचनीय त्रि० प्र + वच--कर्मणि अनीयस् । प्रकर्षेण अर्था-

नुसन्धानेन १ वाच्ये । “भव्य गेयेत्यादि” वा० कर्त्तरि
अनीयर् । प्रवक्तरि कर्मप्रवचनीयाः तच्छब्दे दृश्यम् ।

प्र(प्रा)वट पु० प्रु + बा० अट--स्वार्थे अण् वा । यवे जटाधरः ।

प्र(ब)वण पु० प्र + व (ब)ण--अच् । १ चतुष्यथे अनरः २ निम्न-

स्थाने ३ उदरे ४ नम्रे मेटिनिः । ५ आयते ६ प्रगुणे
७ क्षण शब्दर० । ८ प्लुते ९ स्विग्धे त्रि० विश्वः १० क्षीणे च
त्रि० धरणिः । ११ आसूक्ते त्रि० हेमच० ।

प्रवत् त्रि० प्रवणे वाति वा--बा० डति । १ प्रबणदेशे निम्व-

स्थाने गन्तरि ऋ० ७ । ५० । ४ अतोऽस्त्यर्षे यतूप् मस्य वः
तान्तत्वात् न पदत्यम् । प्रवत्त्वत् तद्युते त्रि० । ऋ० १ । १
८१ । ३ भाष्यम् । स्त्रियां ङीप् । सोपसृष्टे धात्रर्थे वर्त्त-
मानात् प्रोपसर्गात् वति । २ प्रकृष्टनमनादौ च ।

प्रवत्स्यत्पतिका स्त्री प्रवत्स्यन्पतिर्यस्याः । यस्याः पतिः

परदेशं गमिष्यति तादृश्यां स्त्रियां रसमञ्जरी । तत्र तल्ल-
क्षणभेदादिकमुक्तं यथा “यस्याः पतिरग्रिमक्षणे देशा-
न्तरं यास्यत्येव सा प्रवत्स्यत्पतिका । अस्याश्चेष्टा काकु-
वचनकातरप्रेक्षणगमनविघ्नोपदर्शननिर्वेदसन्तापसम्मोह-
निश्वासबाष्पादयः । सा च सृग्धामध्याप्रोढापरकीया
धारणीभेदात् धञ्जविधा तदुदाहरणानि तत्र दृश्यानि ।
पृष्ठ ४४९१

प्रवद्याम त्रि० भा--भावे या० मनिन् प्रवत् प्रकृष्टबतियुक्तः

थाभा वतिर्यरम् । प्रकृष्टगमनेव शीघ्रयायिनि ऋ० १ । १
१८ । ३ भाष्ये दृश्यम् । तत्र टास्थाने “सुपांसुलोपः”
इत्यादिना पा० आत् । अतो नोपधालोप इति बोध्यम् ।

प्रवयन न० प्र + वय--गतौ भावे ल्युट् । १ प्रकर्षेण २ गमने

करणे ल्युट् । २ प्रतोदे हेमच० ।

प्रवयस् त्रि० प्रकृष्टं वयोऽस्य । १ वृद्धे स्थविरे हेमच० । २ पुराणे निघण्टुः

प्रवय्या स्त्री प्र + वि--यत् “भय्यप्रवय्ये छन्दसि” पा० न० । प्रक-

र्षेण गतियुतायां स्त्रियां स्त्रियामेवास्य निपातः पुंसि
कर्मणि तु यत् प्रवेय इति सि० कौ० ।

प्रवर पु० प्र + वृ--अप् । १ सन्ततौ २ गोत्रे गोत्रप्रवर्तकमुनिव्या-

वर्त्तके ३ मुनिभेदे च । ४ श्रेष्ठे त्रि० ५ अगुरुचन्दने न० ।
मेदि० । गोत्रभेदे गोत्रप्रवर्तकमुनिगणाश्च आर्षशब्दे
८१४ अ० दृश्याः । तदधिकं प्रवराध्यायादौ दृश्यम् ।

प्रवरललित न० “यमौनः सो रोगः प्रवरललितं नाम

वोध्यम्” वृ० र० टीकोक्ते षोडशाक्षरपाद्रके छन्दोभेदे ।

प्रवरवाहन पु० द्वि० व० । प्रवरं वाहनं ययोः । अश्विनी-

कुमारयोः हेमच० ।

प्रवर्ग पु० प्रवृज्यतेऽसौ प्र + वृज--घञ् । १ विष्णौ हरिवं० ४२

अ० । २ प्रवर्म्ये महावीरे हेमच० । तत्र प्रवर्ग्य इत्येव
पाठो न्याय्यः ।

प्रवर्ग्य पु० प्र + वृज--कर्मणि ण्यत् कुत्वम् । १ महायीरे

तत्प्रकारः कात्या० श्रौ० २६ अ० प्रवर्ग्याध्याये दृश्यम् ।
अस्त्यर्थे मतुप् । प्रवर्ग्यवत् । २ तद्युते २ यज्ञभेदे पु०
शत० ब्रा० ३४४१

प्रवर्त्तक त्रि० प्रवर्तयति प्र + वृत--णिच्--ण्वुल् । प्रवृत्तिजनके

“बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यतावि-
षयकं ज्ञानम् इष्टसाधनताविषयकं कृतिसाध्यताज्ञानं
वा प्रवर्तकमिति जरन्नैयायिकाः । यथा वा स्वविशेष-
णवत्ताप्रतिसन्धानजन्यं कार्य्यताज्ञानं प्रवर्तकमिति
गुरवः । “चोदनेति क्रियायाः प्रवर्तकं वचनम्”
चोदनासूत्रे शवरभाष्यम् “क्रियाया नियोगस्य ज्ञान-
द्वारा प्रवर्तकं वाक्यं चोदनेत्यर्थः ।

प्रवर्त्तना स्त्री घ्र + वृत--णिच्--युच् । प्रवृत्तिजनकव्यापारे

विध्यादौ “अस्ति प्रवर्तनारूपमनुरूपं चतुर्ष्वपि” इति
भर्तृहरिः । भावे ल्युट् तत्रार्थे आरम्भे च न० ।

प्रवलाकिन् पु० १ भुजङ्गे २ चित्रमेखलके च विश्वः ।

प्रवसु पु० इलिनृपपुत्रे दुष्मलभ्रातरि नृपभेदे भा० आ० ९४ अ० ।

प्रवह पु० प्र + वह--अच् । “यस्मात् ज्योतीषि वहति प्रवहस्तेन

कीर्तितः” उक्ते १ वायुभेदे । भावे अप् । २ नगराद्वहिर्गमने

प्रवहण न० प्र + वह--करणे ल्युट् । १ मनुष्यवाह्ये २ वस्त्रा-

च्छादिते स्त्रीवाहने कर्णीरथे (महापाल) अमरः ।

प्रवह्लि स्त्री प्रबल्हि--पृषो० अन्तस्थादि० वर्णव्यत्यासश्च । प्रहेलि-

कायां भरतः वा ङीप् तत्रार्थे स्वार्थे क । तत्रार्थे अम०

प्रवा पु० प्रकर्षेण वाति गच्छति वा--क्विप् । अन्ने यजु० १५ । ६

वेददी० ।

प्रवाच् त्रि० प्रकृष्टा वाक् यस्य । युक्तियुक्तवाक्यवक्तरि जटा० ।

प्रवाणी स्त्री प्र + वे--ल्युट् ङीप् । १ तन्तुवायशलाकायाम्

(माकु) निष्क्रान्ता प्रवाण्याः निरा० स० गौणत्वे प्रवा-
णिशब्दस्य ह्रस्वे सम्भवति भरतेन यत् वाणिशब्दस्यापि
ह्रस्वान्तत्वं कल्पितं तच्चिन्त्यम् ।

प्रवात त्रि० प्रकृष्टो वातो यत्र । १ सुखसेव्यवातयुक्तदेशादौ

प्र + वा--क्त । २ निम्ने प्रवणे च प्रवातैजस्शब्दे दृश्यम् ।

प्रवातृ त्रि० प्रकर्षेण वाति प्र + वा--शतृ । १ प्रकृष्टगतियुते

२ प्राणे पु० “प्राणो वै प्रवान्” शत० ब्रा० १४३३

प्रवातैजस् त्रि० प्रवातं प्रवणं तेज ओजो यस्य । प्रवाततेजसि

निरु० ९ । ८

प्रवाद पु० प्र + वद--घञ् । १ परम्परागतवाक्ये लोकेषु २ प्रसिद्धे लोकवादे ३ परस्परकथोपकथने च ।

प्रवादिन् त्रि० प्र + वद--ताच्छील्ये णिनि । परस्परकथनका

रके स्त्रियां ङीप् ।

प्रवार पु० प्र + वृ--आच्छादने करणे घञ् । आच्छादने वस्त्रे

विभाषेत्यनुवर्तमानात् अपि प्रवर तत्रार्थे सि० कौ० ।

प्रवारण न० प्र + वृ--णिच्--ल्युट् । १ काम्ये दाने २ काम्यस्य उत्त-

मवस्तुनो दाने च अमरः । ३ प्रकर्षेण वारणे मेदि० ।
४ महादाने त्रिका० तस्य उत्तमवस्तुनो दानरूपत्वात्तथात्वम्

प्रवास पु० प्रस्थितस्य वासः । गृहात् प्रस्थितस्य भिन्नदेशे

वासे चिरप्रवासगतस्य पुनर्नागतस्य वार्त्ताद्यश्रवणे
कालविशेषे तस्य प्रेतत्वावधारणमुक्तं त्रि० त० “सन्देहे त्वाह
यमः “गतस्य न भवेत् वार्त्ता यावत् द्वादशवार्षिकी ।
प्रेतावधारणन्तस्य कर्त्तव्यं सुतबान्धवैः । यन्मासि
यदहर्यातस्तन्मासि तदहःक्रिया । दिनाज्ञाने कुहूस्तम्य
आषाढस्याथ वा कुहूः” । नि० सि० वृद्धमनुः “प्रोषितस्य
तथा कालो गतश्चेद्द्वादशाव्दिकः । प्राप्ते त्रयोदशे
वर्षे प्रेतकार्य्याणि कारयेत्” । वृहस्पतिः “यस्य न
न श्रूयते वार्त्ता यावद्द्वादश वत्सरान् । कुशपुत्रक-
दाहेन तस्य स्यादवधारणा” । भविष्ये “पितरि पोषिते
यस्य न वार्त्ता नैव चागमः । ऊर्द्धं पञ्चदशाद्वर्षात् कृत्वा
तत्प्रतिरूपकम् । कुर्य्यात्तस्य तु संस्कारं यथोक्तविविना
पृष्ठ ४४९२
ततः । तदादीन्येव सर्वाणि प्रेतकर्माणि कारयेत्” । द्वाद-
शाव्दप्रतीक्षा पितृभिन्नविषयेति मदनरत्ने उक्तम् ।
गृह्यकारिकायान्तु “तस्य पूर्ववयस्कस्य विंशत्यव्दीर्ध्वतः
क्रिया । ऊर्द्ध्वं पञ्चदशव्दात् तु मध्यमे वयसि स्मृता ।
द्वादशाद्वत्सरादूर्ध्वमुत्तरे वयसि स्मृता । चान्द्रायण-
त्रयं कृत्वा त्रिशत् कृच्छ्राणि वा सुतैः । कुशैः प्रति-
कृतिं दग्ध्वा कार्य्याः शोचादिकाः क्रियाः” इत्युक्तम्
पराशरः “देशान्तरगतो नष्टस्तिथिर्न ज्ञायते यदि ।
कृष्णाष्टमी ह्यमावास्या कृष्णा चैकादशी च या । उदकं
पिण्डदानं च तत्र श्राद्धं तु कारयेत्” । इदं मासज्ञाने”
प्रवासादागतेन गुर्वादेः पादयोर्ग्रहणपूर्वकम् प्रणामो
विहितः यथा “विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् । मातृस्वसा मातु-
लानी श्वश्रूश्चाथ पितुः स्वसा । प्रपूज्या गुरुपत्नीव
समास्ता गुरुभार्य्यया । भ्रातृभार्य्योपसंग्राह्या सवर्णाऽ-
हन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्घि
योषितः । पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि ।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी” कौर्मपु० १३ अ०

प्रवासन न० प्र + वस--णिच्--भावे ल्युट् । १ विदेशवासने

“सीताप्रवासनपटोः करुणां कुतस्ते” उत्तरचरितम् ।
२ वधे अमरः । ३ निर्वासने पुरात् बहिर्यापने ।

प्रवासिन् त्रि० प्र + वस--णिनि । १ विदेशे वासिनि हेमच० ।

“प्रवासी सुखमायाति” षट्पञ्चाशिका । स्त्रियां ङीप्

प्रवास्य त्रि० प्र + वस--णिच्--कर्मणि यत् । पुरान्निर्वास्ये मनुः

८ । २८४

प्रवाह पु० प्र + वह--घञ् । १ प्रवृत्तौ २ जलादिस्रोतसि मेदि०

२ व्यवहारे विश्वः ४ उत्तमाश्वे नानार्थरत्ना० ।
५ सन्ततौ कालेन देशेन वा विच्छेदाभावे “प्रवाहरूपेणानादि”

प्रवाहक त्रि० प्र + वह--ण्वुल् । १ प्रकर्षेण बोढरि २ राक्षसे

पुंस्त्री० शब्दमाला ।

प्रवाहण पु० १ जैबले ऋषिभेदे शत० ब्रा० १४ । ९१ । १ तस्यापत्यं

शुभ्रा० ढक् पूर्वपदस्य वा वृद्धिः । प्रावाहणेय प्रवाहणेय
तदपत्ये पुंस्त्री० ततोऽपत्ये इञ् प्रावहणेयि प्रवा-
हणेयि प्रवाहाणेयस्यापत्ये पुंस्त्री० । प्रवाहयति
प्र + वह--णिच्-ल्यु । २ प्रवाहयितरि “विभुरसि प्रवा-
हणः” यजु० ५ । ३१

प्रवाहिका स्त्री प्र + वह--रोगाख्यायाम् ण्वुल् । ग्रहणी-

रीगे अमरः ग्रहणीशब्दे २७५२ पृ० दृश्यम् । ततः अप-
नयने तसि । प्रवाहिकातः कुरु प्रवाहिकायाः प्रती-
कारं कुर्वित्यर्थः सि० कौ० ।

प्रवाहिन् त्रि० प्र + वह--णिनि । १ प्रवाहयुते त्रि० । प्रवाह +

पुष्करा० देशे इति ङीप् । २ प्रवाहिणी प्रवाहयुतदेशे स्त्री

प्रवाही स्त्री प्र + वह--णिच्--अच् गौरा० ङीष् । बालुकायां

राजनि० ।

प्रवाह्य पु० प्रवाहे भवः यत् । १ रुद्रभेदे यजु० १६ । ४३ । प्र +

वह--कर्मणि ण्यत् । २ प्रकर्षेण वाह्ये च ।

प्रविख्याति स्त्री प्र + वि + ख्या--भावे क्तिन् । अतिप्रसिद्धौ अमरः

प्रविदारण न० प्रविदारयत्यत्र प्र + वि + दॄ--णिच्--आधारे ल्युट् ।

१ युद्धे अमरः । भावे ल्युट् । २ अवदारणे मेदि० ।
कर्मणि ल्युट् । ३ आकीर्णे त्रि० शब्दर० । कर्त्तरि ल्यु
४ प्रविदारणकारके त्रि० ।

प्रविवर न० प्रकृष्टं विवरं छिद्रमस्य । १ पीतकाष्ठे शब्दच० ।

२ प्रकृष्टच्छिद्रयुते त्रि० ।

प्रविश्लेष त्रि० प्रकर्षेण विश्लेषो यस्य । १ विधुरे २ परमविश्लेषयुते च अमरः ।

प्रविषा स्त्री प्रहतं विषं यया । अतिविषायास् (आतैच्)

असरः ।

प्रविष्ट त्रि० प्र + विश--कर्त्तरि क्त । १ कृतप्रवेशे २ पैप्पलादिकौ-

शिकयोर्मातरि स्त्री हरिवं० १९१ अ० ।

प्रवीण त्रि० वीणया प्रगायति प्र + वीणा + णिच्--अच् ।

१ निपुणे वीणया गायकस्य नैपुण्यप्रसिद्धेः तत्तुल्यनैपुण्य-
वत्त्वात्तथात्वम् । भौत्यस्य मनोः २ पुत्रभेदे पु० हरिवं ७ अ० ।

प्रवीर पु० प्रा० स० । १ प्रकृष्टवीरे २ सुभटे ३ उत्तमे त्रि० धरणिः

४ हर्य्यश्वनृपपुत्रभेदे पु० बिष्णु पु० । ५ पूरोः पौष्ट्यां भार्य्यायां
जाते पुत्रभेदे पु० भा० आ० ९४ अ० । ऐलस्य उपदानव्यां
जाते ६ पुत्रभेदे पु० हरिवं० ३२ अ० । ७ पुरुवंश्ये प्रचिन्वतः
पुत्रे नृपभेदे पु० हरिवं० ३१ अ० ।

प्रवीरबाहु पु० राक्षमुभेदे रामा० ३ । ३५ स० ।

प्रवृञ्जनीय पु० प्र + वृन्ज--कर्मणि अनीयर् । १ प्रवर्ग्ये

२ महावीरे कात्या० २६ । ७ । १४

प्रवृत् न० प्रवृणोति भूतानि प्र + वृ--क्विप् । अन्ने थजु० १५ । ९ वेददीपः ।

प्रवृतहोम पु० होमभेदे कात्या० श्रौ० ९ । ८ । १६८

प्रवृत्त त्रि० प्र + वृत--कर्त्तरि क्त । १ कृतप्रवृत्तिके प्रवृत्तियुते

२ आरब्धे च “प्रवृत्तमन्यथा कुर्य्यात् यदि मोहात्
कथञ्चन” छन्दोगप० । ३ प्रवृत्तिलक्षणे थर्मभेदे । भावे
क्त । ४ प्रवृत्तौ न० ।

प्रवृत्तक न० “यदा समावोलयुग्मकौ पूर्य्ययोर्भवति ततववृत्त-

कम्” वृ० र० उक्ते वैतालीयप्रवरणीये मात्रावृत्तभेदे ।
पृष्ठ ४४९३

प्रवृत्तचक्र पु० प्रवृत्तं स्वाज्ञानुसारेण चक्र राष्ट्रादि यस्य ।

राष्ट्रादिष्वप्रतिहताज्ञे “प्रवृत्तचक्रतां चैव बाणिज्यं
प्रभुतां तथा” याज्ञ० व्या० मिताक्षरा ।

प्रवृत्ति स्त्री प्र + वृत--क्तिन् । १ प्रवाहे २ वार्त्तायाम् ३

अबन्त्यादिदेशे मेदि० ४ हस्तिमदे हेमच० । ५ न्यायोक्ते
चिकीर्षाकृतिसाध्यताज्ञानाधीने ६ प्रयत्नभेदे च प्रयत्नशब्दे
दृश्यम् । “चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा ।
उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं मतम्” भाषा० ।
“दुःस्वजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये
तदनन्तरापायादपवर्गः” गौ त० सू० “एतस्मान्मिथ्याज्ञाना-
दनुकूलेषु रागः प्रतिकूलेषु द्वेषः रागद्वेषाधिकाराच्चा-
सूयेर्ष्यमायालोभादयो दोषा भवन्ति । दोषैः प्रुयुक्तः
शरीरेण प्रवर्तमानी हिंसास्तेयप्रतिषिद्धमैथुनान्याच-
रति वाचाऽनृतपरुपसूचनासम्बद्धानि, मनसा परद्रीहं
परद्रव्याभीप्सां नास्तिक्यञ्चेति सेयं पापात्मिकाऽधर्माय
अथ शुभा शरीरेण दानं परित्राणं परित्वरणञ्च । वाचा
सत्यं हितं प्रियं स्वाध्यायञ्चेति मनसा दयामस्पृहा
श्रद्धाञ्चेति सेयं धर्माय । अत्र प्रवृत्तिसाधनौ धर्माधर्म्मौ
प्रवृत्तिशब्देनोक्तौ । यथा अन्नसाधनाः प्राणाः । अन्नं
घै प्राणिनः प्राणा इति । सेयं कुत्सितस्याभिपूजितस्य च
जन्मनः कारणम्” भाष्यम् । “प्रवृत्तिर्वागबुद्धिशरीरारम्भः”
गौ० सू० “प्रवृत्तिदोषजनितोऽर्थः फलम्” गौ० सू०
“प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम्”
कणा० । “प्रत्यगात्मनीति स्वात्मनीत्यर्थः इच्छद्वेषज-
निते प्रवृत्तिनिवृत्ती प्रयत्नविशेषौ ताभ्याञ्च हिताहि-
तप्राप्तिपरिहारफलके शरीरकर्म्मणी चेष्टालक्षणे
जन्येते तथा च परशरीरे चेष्टां दृष्ट्वा इयं चेष्टाप्रयत्न-
जन्या चेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न आत्मजन्य
आत्मनिष्ठो वा प्रयत्नत्वात् मदोयप्रयत्नवदिति परात्मनोऽ-
नुमानम्” उप० वृ० । “इच्छाद्वेषपूर्बिका धर्माधर्मप्रघृत्ति”
गौ० सू० “विहितकर्मणिरागगिवन्धना निषिद्धे कर्मणि
हिंसादौ द्वेषनिबन्धना प्रवृत्तिः । तत्र रागनिबन्धना
यागादौ प्रवृत्तिर्धर्मं प्रसूते द्वेषनिवन्घना हिंसादौ प्रवृत्तिर-
धर्मम् । तावेतौ रागद्वेषौ संसारमनुवर्त्तयतः” वात्स्या० ।
प्रवृत्तिस्तु द्वयी । कारणरूपा कार्य्यरूपा च । तत्राद्या
यत्रत्वजातिमती प्रत्यक्षसिद्धा । द्वितीया तु धर्माधर्म-
रूपा यागादेरगम्यागसनादेश्च चिरध्वस्तस्य व्यापारतया
कर्मनाशास्तलस्पर्शादेः प्रायश्चित्तादेश्च नाश्यतया सिध्य-
तीति । (गौ० वृ० ४ । १) भट्टमते प्रवृत्तिर्द्वेधा । स्वेच्छा
धीना परप्रेरणाजन्या । तत्राद्यायां प्रवर्त्तनाया
अनुपयोगोऽपि द्वितीयपवृत्तौ सा प्रयोजिका । यथा
आचार्य्यप्रेरणयेदं करोमोति” दि० क० ।
७ शब्दानामर्थबीधनशक्तिभेदे “प्रवृत्तिरासीच्छब्दानां
चरितार्था चतुष्टयी” कुमा० । ८ स्वस्वविषये इन्द्रियादीनां
सञ्चारे च ।

प्रवृत्तिज्ञ त्रि० प्रवृत्तिं वृत्तान्तं जानाति ज्ञा--क ।

१ वृत्तान्ताभिज्ञे २ चरभेदे पु० त्रिका० ।

प्रवृत्तिनिमित्त म० ६ त० । १ शब्दानां बोधनाशक्तेर्निमित्ते

शक्यतावच्छेदके । यथा घटशब्दस्य प्रवृत्तिबिमित्तं
घटत्वमेवं शुक्लादिशब्दस्य शुक्लत्वं पाचकादेः पाकः देवद-
त्तादेः तत्तत्तत्पिण्डादि । “सङ्केतो गृह्यते जातौ
गुणद्रव्यक्रियासु च” काव्यप्र० ।

प्रवृद्ध त्रि० प्र + वृध--क्त । १ वृद्धियुक्ते २ प्रौढे च हेमच० ।

प्रवृद्धादि न० उत्तरपदस्यान्तोदात्ततानिमित्ते शब्दगणे स च

गणः पा० ग० उक्तो यथा “प्रवृद्ध प्रयुत अवहित
अनवहित खट्वारूढ़ कविशस्तः आकृतिगणः” ।

प्रवेक त्रि० प्र + विच--कर्मणि घञ् । प्रधाने अमरः ।

प्रवेट पु० प्र + वी--ट । यवे त्रिका० ।

प्रवेणि(णी) स्त्री प्र + वेण--इन् वा ङीप् । १ गजस्कन्धस्थे

कूथेचित्रकम्बले २ वेण्यां जलादिप्रवाहे च मेदि० ।

प्रवेल पु० प्र + वेल--अच् । पीतमुद्गे (सोनामुग) हेमच० ।

प्रवेश पु० प्र + विश--घञ् । अन्तर्गमने हेमच० ।

प्रवेशक त्रि० प्रविशति प्र + विश--ण्वुल् । १ मध्ये गन्तरि

सा० द० उक्तं अर्थाक्षेपके २ मुखाङ्कभेदे “अर्थोपक्षेपकाः
पञ्च विष्कम्भकप्रवेशकौ” इत्युपक्रमे “प्रवेशकोऽनुदा-
त्तोक्त्या नीचपात्रावयाजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं
विष्कम्यके यथा” । अङ्कद्वयान्तरित्युक्तेः प्रथमाङ्के
चरमाङ्के ष्वांस्य प्रतिषेधः । यथा वेण्यामश्वत्थामाङ्के राक्षे-
समिथुनप्रयोजितः” एवमन्यत्रापि ।

प्रवेशन न० प्रविश्यतेऽनेन प्र + विश--करणे ल्युट् । १ प्रधान-

द्वारे २ सिंहद्वारे च । भावे ल्युट् । ३ प्रवेशे हेमच० ।
प्र + विश + णिच्--ल्युट् । ४ प्रवेशसम्पादने । प्रवेशनं प्रयी-
जनमस्य छ । प्रयेशनीय प्रवंशनसाधने त्रि० ।

प्रवेष्ट पु० प्र + वेष्ट--अच् । १ बाहौ अमरः २ बाहुनीचभागे

शब्दच० ३ हस्तिदन्तमांसे हारा० । ४ गजपृष्ठस्थाने
त्रिका० स्वार्थे प्राशस्त्येक । प्रवेष्टक दक्षिणबाहौ “प्रविश्य
पृष्ठ ४४९४
प्रवेष्टकेन निमित्तं सूचयित्वा” श० कु० “प्रवेष्टकेन दक्षिण-
बाहुना तत्स्पन्देन निमित्तं स्त्रीलाभरूपशुभसूचकं
शकुनं सूचयित्वा “वामेतरभुजस्पन्दोवरस्त्रीसूचकः”
शाकुनोक्तेः तत्कम्पस्य स्त्रीलाभसूचकत्वम् ।

प्रव्यक्त त्रि० प्रकर्षेण व्यक्तः । स्फुटे अमरः ।

प्रव्याध पु० प्रकृष्टो व्याधो यत्र । बलाधिक्येन क्षिंप्तशरस्य पतनं

यत्र तादृशे स्थाने शत० व्रा० ५ । १ । ५ । १३ । कात्या० १४ । ३ । १६

प्रव्रजन न० प्रास्य गृहादि व्रजनम् । गूहस्थाश्रमं पुत्रादीन्

च परित्यज्य व्रजने सन्न्यासे ।

प्रव्रजित पु० प्र + घ्रज--क्त । १ सन्न्यासिनि त्रिका० २ मांस्यां

३ मुण्डीर्य्यां ४ तापस्याञ्च स्वी ५ वृद्धभिक्षुकीभेदे मेदि० ।
परनिपाते प्रव्रजिताशब्दस्य पाठात् कुमारप्रव्रजिता
पुंसि तु न प्रव्रजितकुमार इत्येव ।

प्रव्रज्या स्त्री प्रास्य पुत्रादीन् व्रज्या व्रज--भावे क्यप् ।

पुत्रादीन् प्ररित्यज्य गमने सन्न्यासाश्रमे ।

प्रव्रज्यावसित पु० प्रव्रज्यातोऽवसितः । सन्न्यासच्युते “प्रव्र-

ज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः । निर्वासं
कारयेद्विप्रं दासत्वं क्षत्रवैश्ययोः” कात्यायनवचनम् । तत्
प्रायश्चित्तमुक्तम् शा० सू० भाष्यधृतस्मृतौ “वानप्रस्थो
दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्द्धयेत्
भिक्षुर्वानप्रस्थवत् सोमवृद्धिवर्जम्” । कृतप्रायश्चित्तानामपि
तेषामव्यवहार्य्याता यथोक्तम्
“बहिस्तूभयथापि स्पृतराचाराच्च” शा० सू० । यद्यूर्ध्व-
रेतसां स्वाश्रमेभ्यः प्रच्यवनं महाषातकं यदि वोपपातक-
मुभयथापि शिष्टैस्ते बहिः कर्त्तव्याः “आरूढ़पतितं विप्र
मण्डलाच्च विनिःसृतम् । उद्बद्ध कृमिदष्टञ्च स्पृष्ट्वा
चान्द्रायणं चरेत्” इति चैवमादिनिन्दातिशयस्मृतिभ्यः
शिष्टाचाराच्च । न हिं यज्ञाध्ययनविवाहादीनि तैः
सहाचरन्ति शिष्टाः” भाष्यम् ।

प्रव्राज पु० प्र + व्रज--आघार घञ् । १ अत्यन्तनेम्ने देशे ऋ०

७ । ६०७ भा० । भावे घञ् । २ सन्न्यासे च ।

प्रशंसन न० प्र + शन्स--भावे ल्युट् । गुणकीर्तनेन स्तुतौ ।

युच । प्रशंसनाऽप्यत्र स्त्री ।

प्रशंसा स्त्री प्र + शन्स--भावे अ । गुणाविव्कारेण स्तुतौ हेम०

प्रशंसोपमा स्त्री काव्यादर्शोक्ते अर्थालङ्कारभेदे यथा

“ब्रह्मणोऽप्युद्भवः पद्मश्चन्दः शम्भुशिरोधृतः । तौ
तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते” । तौ पद्मचन्द्रौ
त्वन्मुखेन तुल्यौ इति पद्मचन्द्रयोः प्रशंसितयोरपि त्वन्मु-
खसाश्येन प्रर्शसातिशयात् मुखस्य च सभधिकोत् कर्ष-
व्यञ्जनात् प्रशंसोपमा उच्यते ।

प्रशत्वन् पु० प्र + शद--क्वनिप् तुट् च । १ समुद्रे उज्ज्वल० स्त्रियां

ङीप् वनोर च । प्रशत्वरी २ नद्यां उजज्वल० ।

प्रशम पु० प्र + शम--घञ् न वृद्धिः । १ शान्तौ २ निवृत्तौ च ।

प्रशाम्यति प्र + शम--अच् गौरा० ङीष् । ३ अप्सरोभेदे स्त्री
मा० अनु० १९ अ० । ४ रन्तिदेबस्य पुत्रेपु० भान० ९ । २४ । २५

प्रशमन न० प्र + शम--णिच्--ल्युट् । १ बधे २ शान्तताकरणे च

“लब्धप्रशमनखास्थ्यम्” रघु “सर्वाबाधाप्रशमनम्” चण्डी
शम--भावे ल्युट् । ३ शान्तौ हेमच० ।

प्रशस्त त्रि० प्र + शन्स--क्त । १ प्रशंसनीये २ श्रेष्ठे ३ क्षेमे च शब्दच० ।

प्रशस्ताद्रि पु० वृ० सं० १४ अ० उक्ते मध्यदेशस्थे गिरिभेदे ।

प्रशस्ति स्त्री प्र + शन्स--भावे क्तिन् । १ प्रशंसायाम् २ स्तुतौ

ऋ० १ । ७४ । ३

प्रशस्य स्त्री प्र + शन्स--कर्मणि क्यप् । १ प्रशंसनीये । तस्य

इष्ठेयसुनोः परता श्रादेश अतिशयेन प्रशस्यः श्रेष्ठः
श्रेयान् भावे क्यप् । २ प्रशंसने न० ।

प्रशाखा स्त्री प्रगता शाखाम् अत्या० स० । अग्रशाखायाम्

भा० कर्ण० १०६८ श्लोक० ।

प्रशान् अव्य० प्र + शो बा० अनि स्वरादि० । सामर्थ्ये

प्रशासन न० प्र + शास--भावे ल्युट् । शिष्यादीनामिष्टादि-

बोधनाय कर्तव्यतावोधकवाक्योच्चारणे “क्षात्रस्यैव प्रशा-
सनमभूत्” छा० उ० ।

प्रशास्तृ पु० प्र + शास--उणा० सू० तृन संज्ञायां अनिट

च । शस्त्ररूपशंसनकर्त्तरि ऋत्विग्भेदे असज्ञायान्तु तृचु-
इट् । प्रशासितृ । प्रशासनकर्त्तरि राजादौ ।

प्रशास्त्र त्रि० प्रशास्तुमिदम् अण् संज्ञापूर्वविधेरनित्यत्वात् न

वृद्धिः । शस्त्ररूपशंसनकर्तृसम्बन्धिनि ।

प्रशिव्य पु० प्रगतः शिष्यमध्यापकत्वेन अत्या० स० । शिष्यस्य

शिष्ये “शिष्यप्रशिष्यैरुपगीयमानमवे हि तन्मण्डनमि-
श्रधाम” शङ्करदिग्विजयः

प्रश्न पु० प्रच्छ--भावे नङ् । जिज्ञासायाम् ज्ञातुमिच्छया

१ कघनाय प्रेरणे अमरः । अविज्ञातार्थज्ञानार्घम इच्छाप्रयो-
ज्यवाक्ये “अविज्ञातप्रबचनं प्रश्व इत्यभिधीयते” ।
जिज्ञासाशब्देन तत्प्रथोज्यकथानुकूलव्यापारोलक्ष्यते को
भवान् ? किमेतस्य लक्षणम? इत्यादि । २ उपनिषद्भेदे
पु० दैवज्ञं प्रति भाविशुभाशुभज्ञानाय दैवज्ञस्य बचनानु-
कूल व्यापारे तदुत्तरज्ञापकशास्त्रञ्च प्रश्चमनोस्माटि ।
पृष्ठ ४४९५

प्रश्नदूती स्त्री प्रश्रस्य दूतीव । प्रहेलिकायाम् त्रिका० ।

प्रश्नविवाक पु० कृतान् प्रश्नान् विवक्ति उत्तरयति वि +

वचकर्त्तरि संज्ञायां घञ् । प्रश्रोत्तरदायके ज्योतिर्विद्भेदे
“मर्य्यादायै प्रश्नविवाकम्” यजु० ३० । १० वेददी० ।

प्रश्नव्याकरण पु० प्रश्नान् शिष्यकृतप्रश्नान् व्याकरोति उत्त-

रयति वि--आ कृं--ल्यु ६ त० । १ जैनभेदे हेमच० । भावे
ल्युट् । २ पृष्टार्थोत्तरज्ञापने न० ।

प्रश्नि पु० १ ऋषिभेदे भा० शा० २६ अ० । प्रच्छ--वा--नि वा ङीप् ।

२ कुम्भिपाकायां (षाना) त्रिका० ।

प्रश्नोपनिषद् प्रश्नाधिकारेण प्रवृत्ता उपनिषत् । आथर्वोष-

निषद्भेदे “भगवन्! कुतो वा हवा इमाः प्रजाः प्रजा-
यन्ते” इत्यादि पञ्चप्रश्नाधिकारेण तस्याः प्रवत्तेस्तथात्वम् ।

प्रश्रय पु० प्र + श्रि--करणे अच् । प्रणये अमरः ।

प्रश्रित त्रि० प्र + श्रि--क्त । १ विनीते अमरः शान्विदेवस्य

२ पुत्रभेदे पु० भाग० ९ २४ २५

प्रश्लय त्रि० प्रकृष्टः श्लथ प्रा० स० । प्रकृष्टे शिथिले त्रिका० ।

प्रश्लिष्ट त्रि० प्र + श्लिष्ट--क्त । सुसम्बद्धे युक्तियुक्ते आचिता०

नास्यान्तोदात्तता ।

प्रश्वास पु० प्र + श्वस--भावे घञ् । कोष्ठ्यस्य बायोर्बहिनिःसा-

रणे “श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” पा० त०
सू० भाष्यम् । कुम्भकशब्दे २११४ पृ० दृश्यम् ।

प्रष्टृ त्रि० प्रच्छ--तृच् । प्रश्नकारके स्त्रियां ङीष् ।

प्रष्टि पु० प्रच्छ--कर्त्तरि बा० ति । वाहनत्रयमध्यवर्त्तिनि

मृगभेदे ऋ० १३९ । ६

प्रष्ठ त्रि० प्र + स्था क “प्रष्ठाऽग्रगामिनि” पा० षत्वम् । १ अग्र

गामिनि । २ श्रेष्ठे च अमरः । तस्य पत्नी ङीष् । २
तत्पत्न्यां स्त्री । गौरा० ङीष् । ३ चण्डकौषधौ स्त्री राजनि० ।

प्रष्ठवाह् त्रि० प्रष्ठं वहति वह--ण्वि । १ युगषार्श्वगे पथमयो-

जिते दम्ये गवादौ अमरः युगपार्श्वे योजिते
गवाहिके शिक्षार्थः यं प्रथमं वाहयति तस्मिन् । भत्वे वाह
ऊट् प्रष्ठौहः प्रष्ठीहा इत्यादि । स्त्रियां ङीप् प्रष्ठौही
तथाविधस्त्रियाम् २ प्रथमगर्भिण्यां गवि धरणिः ।

प्रस प्रसवे ततौ च सक० दिबा० आ० सेट् । प्रस्यते अप्रसिष्ट ।

मित् घटादि णिच् प्रसयति ते ।

प्रसक्त त्रि० प्र + सन्ज--क्त । १ प्रसङ्गविषये “प्रसक्तं हि

प्रतिषिध्यते” मीमांस० । २ नित्ये नित्यतायुक्ते त्रि० जटा०

प्रसक्ति स्त्री प्र + सन्ज--मावे क्तिन् । १ प्रसङ्गे २ आपत्तौ

३ अनुमितौ दीधितिः । ४ व्याप्तौ च “अतिप्रसक्तिरन्यधर्मत्वे”
सा० सू० । अतिव्याप्तिस्तदर्थः ।

प्रसक्षिन् पु० प्र + सह--बा० सिनि । प्रसहनशीले ऋ० ८ । १३ । १० । भाष्ये दृश्यम् ।

प्रसंख्यान न० प्र + सम् + ख्या--भावे ल्युट् । १ सम्यग्ज्ञाने

“हरः प्रसंख्यानपरो बभूव” कुमा० । प्रा० ब० । २ प्रकर्षेण
संख्यायुते त्रि० भा० व० १२१ अ० ।

प्रसङ्ग पु० प्र + सन्ज--भावे घञ् । १ प्रकृष्टसङ्गे २ व्याप्तिरूपे

सम्बन्धे यथाऽतिप्रसङ्गः अप्रसङ्ग इत्यादौ ३ सङ्गतिभेदे
“सप्रसङ्ग उपोद्घाता हेतुतावसरस्तथा । निर्वाहकैक-
कार्य्यत्वे षोढ़ा सङ्गतिरिष्यते” । तत्र “प्रसङ्गत्वम् स्मृतत्वे
सत्युपेक्षानर्हत्वं तच्च स्मृतिविषयतापन्नत्वे सति द्वेषवि-
षयतानापन्नत्वम्” अनुमितौ गदाधर । ४ अनुरक्तत्वे
५ प्रस्तावे ६ मैथुनासक्तौ ७ प्राप्तौ च “कृताकृतप्सङ्गै
नित्यं तद्विपरीतमनित्यम्” व्या० परिभाषा । तत्र प्रसङ्गः
प्राप्तिरेव “शब्दान्तरम् प्राप्नुवन् विधिरनित्यो भवति
शब्दान्तरात् प्राप्नुवतः शब्दान्तरेऽप्राप्नुवतश्च लक्षणान्तरेण
प्राप्नुवन् विधिरनित्यः” नागेशः । क्वचित् कृताकृतप्रसङ्ग
मात्रेणापि नित्यता” व्या० परिभाषा । प्रसङ्गशब्देन प्राप्ते
रेव ग्राह्यता । अन्योद्देशेन प्रवृत्तौ अन्यस्यापि ८ सिद्धौ
तत्र यथान्थस्य सिद्धिस्तथा तदुदाहरणादिकञ्च प्रा० त०
उक्तं यथा “अन्योद्देशेन प्रवृत्तावन्थस्यापि सिद्धिः
पसङ्गः यथा पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्य-
पातिनः पुरोडासस्यापि उपकारः सिध्यति । यथा वा
“तप्ते पयसि दध्यानयति सावैश्वदेव्यामिक्षा भवति
वाजिभ्यो वाजिनम्” इत्यत्रामिक्षार्थं प्रवृत्तौ अनुद्देश्यवा-
जिनस्यापि सिद्धिः” । यथा वा काम्ययागनिष्पत्त्यर्थमनु-
ष्ठितैराग्नेयादिभिर्नित्यथागादिसिद्धिरिति मिताक्षरोक्तम्
यथा दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयका-
वगोरणप्रायश्चित्तम्पि सम्पद्यत इति प्रायश्चित्तविवेको-
क्तम् । तथा व्राह्मणबवोद्देशेन द्वादशवार्षिके कृते क्षा
त्रिषबधनिमित्तकत्रैवार्षिकप्रायश्चित्तस्य सिद्धिः । एवञ्च
तन्त्रप्रसङ्गयोरनावृत्तेनैव कर्मणा नानादृष्टफलसिद्धौ
नाघवमेव हेतुः । नन्ववगोरणक्षत्रियबधप्रायश्चित्तयोः
कथं प्रसङ्गेन सिद्धिः सङ्कल्पादेरभावात्, तयोः सङ्कः
ल्पादिः कुत इति चेत् प्रायश्चित्तत्वात् तथात्वऽपि कथं
सङ्कल्प इति चेत् काम्यत्वात्” । “एवञ्च काम्यस्य सर्वश-
क्त्यधिकरणे सर्वाङ्गोपेतस्यैव फलवत्त्वाभिधानात् तस्यापि-
प्रसङ्गविषयत्वे काम्ये हि काम्याभिलापसहितकुश-
तिलजलत्यागरूपः सङ्कल्पः शास्त्रार्थ इति प्रक्रसाघफ
पृष्ठ ४४९६
रणोक्तेन “प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् ।
प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत्” इति
लिखितवचने प्रत्येकं नियतं कालमिति तत्तद्व्रतकाल
संख्याम् आत्मनो व्रतम् आत्ममम्बन्धित्वेस आत्मकर्तृ
त्वेन इति यावत् । तेनामुकव्रतमहङ्करिष्ये इति
चादिशेदुल्लेखं कुर्य्यात् इत्यनेन प्राप्तस्य सङ्कल्पस्य बाधः”
इत्याशङ्क्य तत्र समाहितं यथा “प्रायश्चित्तस्य नित्य-
त्वेनाङ्गवैकल्येऽपि फलसिद्धिः” । अत्रेद बोध्यम् प्रस-
ङ्गशब्देन व्याप्तिरेवोच्यते तथा चोद्दिष्टकर्मणा व्याप्तस्य
यत्र सिद्धिस्तत्रैवास्य प्रवृत्तिः । उद्दिष्टकर्मणः व्याप्य-
त्वञ्च देशकालकर्त्रादीनां प्रयोगानुवन्धिनां वैधहेतुभूता-
नामेवैक्ये भवति अतस्तन्त्रवदत्रापि कालदेशाद्यन्तर्भावेनैव
व्याप्यता” ।

प्रसङ्गसम पु० स्थापनाहेतुप्रयोगे प्रतिषेधहेतुरूपजात्युत्तर-

भेदे “दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृ-
ष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमो” गौ० ५ । १ । ९ “साधनस्यापि
गाधनं वक्तव्यमिति प्रसङ्गे प्रत्यवस्थानं प्रसङ्गसमः प्रति-
षेधः क्रियाहेतुंगुणयोगी क्रियावाल्लोष्ट इति हेतुर्नो-
पदिश्यते । न च हेतुमन्तरेण सिद्धिरस्तीति । दृष्टान्तस्य
कारणं प्रमाणं तदनपदेशोऽनभिधानम् अभिधानं
चानतिप्रयोजनकं तथा च दृष्टान्तस्य साध्यवंत्त्वे प्रमाणाभा-
णाभावात् प्रत्यवस्थानमर्थः । यद्यपीदं सदुत्तरमेव तथापि
दृष्टान्ते प्रमाणं वाच्यं तत्रापि प्रमाणान्तरमित्यनवस्थया
प्रत्यवस्थाने तात्पर्य्यं तदुक्तमाचार्य्यैरनवस्थाभासप्रसङ्गः
प्रसङ्गसम इति एतन्मते हेतोर्हेत्वन्तरमित्यनवस्थाऽपि
प्रसङ्गसम एव पूर्वमते तु हेत्वनवस्थादिकं वक्ष्यमाणाकृ-
तिगणेष्वन्तर्भूतमिति विशेषः । अनवस्थादेशनाभासा चेयं
प्रतिदृष्टान्तसमः प्रत्येतव्यः” वृत्तिः । अस्योत्तरं तत्रोक्तम् ।
प्रदोपादावप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः” गौ० सू० “इदं
तावदयं पृष्टो वक्तुमर्हति अथ के प्रदीपमुपाददते
किमर्थं वेति दिदृक्षमाणाः दृश्यदर्शनार्थमिति । अथ प्रदीपं
दिदृक्षमाणाः प्रदीपान्तरं कस्मान्नोपाददते अन्तरेणापि
प्रदीपान्तरं दृश्यते प्रदीपः तत्र प्रदोपदर्शनार्थं प्रदोपो-
पादानं निरर्थकम् । अथ दृथान्तः स किमर्थसुच्यत इति ।
अपज्ञातस्य ज्ञापनार्थमिति अथ दृष्टान्ते कारणा-
पदेशः किमर्थं दृश्यते यदि प्रज्ञापनार्थम् प्रज्ञातो
दृष्टान्तः स खलु लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धि-
साम्यं त दृष्टान्त इति तत्प्रज्ञानार्वृः कारणापदेशो
निरर्थक इति प्रसङ्गसमस्योत्तरम्” । प्रसङ्गसमे प्रत्यु-
त्तरमाह । दृष्टान्तो हि निदर्शनस्थानत्वेनसाध्यनिश्च-
यार्थमपेक्ष्यते न तु दृष्टान्तदृष्टान्ताद्यनवस्थितपरम्परा
लोकसिद्धा युक्तिसिद्धा वा अन्यथा घटादिप्रत्यक्षार्य
प्रदीप इव प्रदीपप्रत्ययार्थमनवस्थितप्रदीपपरम्परा प्रस-
ज्येत तदीयसाधन्मपि व्याहन्येत” वात्स्या० ।

प्रसज्य पु० भीमो भीमसेनवत् प्रसज्यप्रतिषेधस्यान्त्यलोपः ।

प्रसज्यप्रतिषेधे अत्यन्ताभावे अत्र रोगीति निन्दाश्रय-
णात् प्रसज्यता” मल० त० रथु० ।

प्रसज्यप्रतिषेध पु० प्रसज्य प्रसक्तिं सम्पाद्यारोप्येति यावत्

प्रतिषेधः । अत्यन्ताभावे “प्रसक्तं हि प्रतिषिध्यते” इति
न्यायेन आरोपितप्रसङ्गस्यैव निषेधः तेन वायौ रूपं
नास्तीत्यादावपि वायौ रूपारोपं कृत्वैव निषेधो नञा
बोध्यते इति विवेकः । कलञ्जाधिकरणशब्दे १७७७ पृ०
नञ्शब्दे ३१४३ पृष्ठादौ मतभेदेन नञ पर्युदासप्रसज्य-
प्रतिषेधपरता दृश्या । “अप्राधान्यं विधेर्यत्र प्रतिषेधे
प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्”
शाब्दिकाः । न कलञ्जं भक्षयेदित्यत्र वलवदनिष्टासाधन-
त्वविशिष्टेष्टसाधनत्वरूपस्य विध्यर्थस्याभावो तंञा बोध्यते
तेन विधेरप्राधान्यं नजर्थाभावस्य च प्राधान्यं तेन तत्र
क्रियापदान्वयिनञ्प्रसज्यप्रतिषेधार्थकः । गुरुमते तु
कलञ्जभक्षणाभावविषयकं कार्यमिति बोधेन अभाववि-
शेष्यकबोधेऽपि प्रतिषेधस्य प्राधान्यात् तथात्वं तथा च
तन्मते क्वचित् विधेरप्राधान्येन क्वचिच्च प्रतिषेधस्य प्रा-
धान्येन इति व्यस्तमेव प्रसह्यप्रबिषेधप्रबोधकप्रयोजक-
मिति बोध्यम् ।

प्रसत्ति स्त्री प्र + सद--क्तिन् । १ नैर्मल्ये २ प्रसन्नतायाम् जटा०

प्रसत्वन् पु० प्र + सद--वनिप् । १ धर्मे २ प्रजापतौ च सं० उणा० ।

३ प्रतिपत्तौ स्त्री ङीप् वनोर च ।

प्रसन्धि पु० १ मनुपुत्रभेदे भा० आश्व० ४ अ० । प्रा० त० । २ प्रकृष्टसन्धौ च ।

प्रसन्न त्रि० प्र + सद--कर्मरि क्त । १ निर्मले २ सन्तुष्टे ३ कृतानु-

ग्रहभेदे अमरः । ४ सुरायां स्त्री मेदि० “प्रसन्ना गुल्-
मवातार्शोविबन्धानाहनाशिनी । शूलप्रवाहिकाटीपक-
फवातार्शसां हिता” राजवल्लभः । तस्य भावः तल्
प्रसन्नता स्त्री त्व प्रसन्नत्व म० तद्धावे प्रसादे नैर्मल्ये च ।

प्रसन्नात्मन् त्रि० प्रसन्नी निर्म्मल आत्मा यस्य । १ प्रसन्नान्तः-

करणे २ विष्णौ पु० “सुप्रसादः प्रसन्नात्मा” विष्णुस० ।
तत्स्वरूपस्य विर्दोषत्वात्तथात्वम् ।
पृष्ठ ४४९७

प्रसन्नेरा स्त्री कर्म्म० । मदिराभेदे भरतः ।

प्रसभ त्रि० घ्रगता सभा सभाधिकारोऽस्मात् प्रा० व० । बलात्कारे

अमरः “प्रसभोद्धृतारिः” रघुः ।

प्रसयन न० प्र + सि--बन्धने करणे ल्युट । बन्धनसाधने १ तन्तौ

२ जाले च “प्रसितिः प्रसयनात् तन्तुर्वा जालं वा”
निरु० ६ । १२ ।

प्रसर पु० प्र + सृ--भावाधारादौ यथायथम् अप् कर्त्तरि अच्

वा । तन्तुविटपादेः प्रकर्षेण १ सर्पणे प्रकर्षेण २ सरणे
अमरः ३ वेगे ४ प्रलये च मेदि० । ५ समूहे शब्दर०
६ युद्धे विश्वः । ७ नाराचास्त्रे ८ विसर्पणकर्त्तरि त्रि० ।

प्रसरण न० प्र + सृ--भावे ल्युट् । १ सैन्यादेः सर्वतो गमने

तृणाद्याहरणार्थं सैन्यानामितस्ततो गतौ ३ आसारे
अमरः । अनि प्रसरणि तथार्थे स्त्री रामाश्रमः वा ङीप्

प्रसर्पण न० प्र + सृप--ल्युट् । सैन्यानां सर्वतोव्याप्तौ अस्य

स्त्रीत्वञ्च तत्र ङीष् ।

प्र(श)सल पु० प्र + शल--अच् पृषो० शस्य (सोवा) हेमन्तकाले हेमच० ।

प्रसलवि अव्य० प्रदक्षिणे शत० ब्रा० २ । ६ । ११ । १५ भाष्यम् ।

प्रसव पु० प्र + सू--भावादौ अप् । १ गर्भमोचने २ उत्पत्तौ ३ कार्ये

४ फले ५ कुसुमे ६ अपत्ये च मेदि० नारीणां गर्घमुक्ति
कालश्च भावप्र० उक्तो यथा
“नवमे दशमे मासि नारी नर्भं प्रसूयते । एकादशे
द्वादशे वा ततोऽन्यत्र विकारतः” । वैकृतं यथा “गर्ग
उवाच “अकालप्रसवा नार्य्यः कालातीताः प्रजास्तथा ।
विकृतप्रसवाश्चैव युग्मप्रसवनास्तथा । अमानुषा अवण्डाश्च
नजातव्यञ्जनास्तथा । हीनाङ्गा अधिकाङ्गाश्च जायन्ते
यदि वा स्त्रियः । पशवः पक्षिणश्चैव तथैव च
सरीसृपाः । विनाशं तम्य देशस्य नृपस्य च विनिर्दिशेत् ।
निर्वासयेत्तां नृपतिः स्वराष्ट्रात् स्त्रियञ्च, पूज्याश्च ततो
द्विजेन्द्राः । किमिच्छिकैर्ब्राह्मणतर्पणञ्च लोके ततः
शान्तिमुपैति पापम्” मात्स्ये २०९ अ० । “भानौ सिंहगते
चैव यस्य गौः सप्रसूयते । मरणं तस्य निर्दिष्टं
षड्भिर्मासैर्न संशयः । अत्र शान्तिं प्रवक्ष्यामि येन सम्प-
द्यते शुभम् । प्रसुतां तत्क्षणादेव तां गां विप्राय
दापयेत् । ततो होमं प्रकुर्वीत घृताक्तैराजसर्षपैः ।
आहुतीनां घृताक्तानामयुतं जुहुयात्ततः” नारदः ।
“प्रसबविकारे स्त्रीणां द्वित्रिचतुःप्रभृति सम्प्रसूतौ वा ।
हीनातिरिक्तकाले च देशकुलसङ्क्षयो भवति । बडवोष्ट्र
महिमगोहस्तिनीषु यमलोड्भवे मरणमेमाम् । षण्मा-
सात् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ “नार्य्यः
परस्य विषये त्यक्तव्यास्ता हितार्थिना । तर्पयेच्च द्विजान
कामैः शान्तिं चैवात्र कारयेत् । चतुष्पदाः स्वयूथेभ्य-
स्त्यक्तव्याः परमूमिषु । नगरं स्वामिनं यूथमन्यथा हि
विनाशयेत्” वृ० सं० ४६ अ० । सुखव्रसवप्रकारः ज्यो०
त० उक्तो यथा “अस्ति गोदावरीतीरे जम्भला नाम
राक्षसीं । तस्याः स्मरणमात्रेण विशल्या गर्भिणी
भवेत्” । “पञ्च रेखाः समुल्लिख्य तिर्य्यगूर्द्ध्वक्रमेण हि ।
पदानि १६ षड्दशापाद्य त्वेकमाद्ये मुनौ ७ त्रयम् ।
नबमे सप्त दद्यात्तु वाणं ५ पञ्चदशे तथा । द्वितीयेऽष्टाव-
ष्टमे षट् दिशि १० द्वौ षोड़शे श्रुति ४ म् । एकादिना समं
देयमिच्छार्द्धाङ्कं त्रिकोणके । तदा द्वात्रिं शदादिः स्यात्
चतुः कोष्ठेषु सर्वतः । दर्शनाद्धारणात्तासां शुभं स्यादेषु
कर्मसु । द्वात्रिंशत् प्रसबे नार्य्याश्चतूस्त्रिंशद्गमे नृणाम् ।
भूतारिष्टेषु पञ्चाशद् मृतापत्यासु वै शतम् । द्वासप्रतिस्तु
सन्ध्यायां चतुः षष्टीरणाध्वनि । विषे विंशो धान्यकीटे-
ष्वष्टाविंशतिरेव च । चतुरष्टौ ३२ च बालानां रोदने
परि कीर्त्तिता” । स्थानविशेषादिस्थग्रहभेदानां विकृत-
प्रसवसूचकताभेदः वृ० जा० उक्तो यथा
“उदयस्थेऽपि वा मन्दे कुजे वास्तं ७ समागते । स्थिते
वाऽन्तःक्षपानाथे शशाङ्कसुतशुक्रयोः । शशाङ्के
पापलग्ने वा वृश्चिकेश (कुज) त्रिभागगे । शुभैःस्वाय २ । ११ ।
स्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा । चतुष्पदे गते भानौ
शेषैर्वीर्य्यसमन्वितैः । द्वितनुस्थैश्च यमलौ भवतः
कोशवेष्टितौ । छागसिंहवृषैर्लग्ने तत्स्थे सौरेऽथ वा
कुजे । राश्यं शसदृशे गात्रे जायते नालवेष्टितः” ।
स्थानभेदे प्रसवसूचकयोगः वृ० जा० उक्ती यथा
“पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे ।
लग्नः जलजेऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते ।
आप्योदयमाप्यगः शशीसम्पूर्णः समवेक्षतेऽथ वा । मेषूरण
बन्धुलग्नः ग स्यात् सूतिः सलिले न संशयः । उदयोडुप-
योर्व्यय १२ स्थिते गुप्त्यां पापनिरीक्षिते यमे । अलिकर्कि-
युते विलग्नगे सौरे शीतकरेक्षितेऽवटे । मन्देऽब्जगते
विलग्नगे बुधसूर्य्येन्दू निरीक्षिते क्रमात् । क्रीड़ाभवने
सुरालये शेखरभूमिषु च प्रसूयते । नृलग्नगं प्रेक्ष्य कुजः
श्मशाने रम्ये सितेन्दूगुरुरग्निहीत्रे । रविर्नरेन्द्रामरगो-
कुलेषु शिल्पालये ज्ञः प्रसवं करोति । राश्यंशसमानगो-
चरे मार्गे जन्म चरे न्यिरे गृहे । स्वर्क्षांशिगते स्वमन्दिरे
पृष्ठ ४४९८
बलयोगात् फलमंशकर्क्षयोः । आरार्कजयोस्त्रिकोणगे
चन्द्रेऽस्ते च विसृज्यतेऽम्बया । दृष्टेऽमरराजमन्त्रिणा
दीर्घायुः सुखभाक् च स स्मृतः । पापेक्षिते तुहिनगा
वुदये कुजेऽस्ते ११ त्यक्तो विनश्यति कुजार्कजयोस्तथाये ।
सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्येतरेषु
परहस्तगतोऽप्यनायुः । पितृमातृगृहेषु तद्बलात्तरुशाला-
दिषु नीचगैः शुभैः । यदि नैकगतौ तु वीक्षितौ
लग्नेन्दू विजने प्रसूयते । मन्दर्क्षांशे शशिनि हिवुके
भन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयने नीचसंस्थैश्च
भूमौ । यद्वद्राशिर्व्रजति हरिजं गर्भमीक्षस्तु तद्वा पापै-
श्चन्द्रात् स्मर ७ सुख ४ गतैः क्लेशमाहुर्जनन्याः” । अथ
सूतिकागृहमानम् “अष्टहस्तायतञ्चारु चतुर्हस्तविशा-
लकम् । प्राचीद्वारमुद्ग्द्वारं विदध्यात् सूतिकागृहम्” ।
आसन्नपसवायालक्षणमाह “याते हि शिथिले कुक्षी
मुक्ते हृदयबन्धने । सशूले जघने नारी विज्ञेया प्रसवो
तसुका । आसन्नप्रसवायास्तु कटीपृष्ठन्तु सव्यथम् ।
भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च” । अथासन्नप्रस-
वाया उपचारः “तैलेनाभ्यक्तगात्राणां संस्नातामुष्णा-
रिणा । यबागूम्पाययेत् कोष्णां मात्रया घृतसयु
ताम् । कृतोपधाने मृदुभिर्विस्तीर्णे शयने शनैः ।
आभुग्नसक्थि चोत्ताना नारी तिष्ठेद्व्ययान्विता” ।
(अभुग्नसक्थि असङ्कोचितोरुः) अथ धात्री “चतस्रो-
ऽशङ्कनीयाश्च स्रावणे कुशला हिताः । वृद्धः परिचरे
युस्ताः सम्यक् छिन्ननखाः स्त्रियः” । अथ तत्कृत्यम्
“अपत्यमार्गं तैलेन समभ्यज्य समन्ततः । एका तु
तासु सुभगे! प्रवाहस्वेति तां वदेत् । अव्यथा मा
प्रवाहिष्ठाः प्रवाहेथा व्यथा यदि । प्रवाहेथाः शनै
पूर्वं प्रगाढ़ञ्च ततःपरम् । ततो ग ढ़नरं गर्भे योनि-
द्दारमुपागते । अपरासहितो गर्भो यावत् पतति
भूतले” । व्यथारहितायाः प्रवाहणाद्वैगुण्यमाह “मूकं
वा बधिरं कुब्जं श्वासकामक्षयान्वितम् । सूते स्रस्ततनुं
वालमकाले च प्रवाहणात्” भावप्र० । नवममाठादिप्रस-
वकालश्च नारीणामन्यजन्तूनां मासाभेदाअन्यत्रा दृयाः

प्रसवक पु० प्रसवेन पुप्यादिना कायति कै--क । पियालवृक्षे

शब्दमाला ।

प्रसवबन्धन न० बन्ध--करणे ल्युट् प्रसवस्य पुष्पादेः बन्धनम् । वृन्ते ({??}ंर्ट) अमरः ।

प्रसवस्थली स्त्री ६ त० । प्रसवस्य स्थलीव वा । १ उत्पत्तिस्थाने

३ मातरि च ।

प्रसवितृ पु० प्रसूते उत्पादयति प्र + सू--सूतेः उत्पादनानु

कूलव्यापारार्थत्वात् तृच् । १ पितरि शब्दरत्ना० निरु०
६ । ३१ । प्रसूतौ २ मातरि स्त्री ङीप् ।

प्रसविन् त्रि० प्र + सू--शीलार्थे इनि । प्रसवशीले ।

प्रसव्य त्रि० प्रगतं सव्यं वामत्वम् । १ प्रतिकूले अमरः ।

कर्मणि यत् । २ प्रसवनीये त्रि० ।

प्रसह त्रि० सहति प्र + सह--अच् । १ प्रकर्षेण सोढरि प्रसह्य

वलात्कारेण भक्षयतीति प्रसहः । बलात्का-
रेण भक्षके २ खगभेदे “काको गृध्र उलूकश्च चिल्लश्च
शगघातकः । चाषो भासश्च कुरवः इत्याद्याः प्रसहाः
स्मृताः” शशघातकः (वाज) इति लोके “प्रमहाः
कीर्त्तिता एत प्रसह्याछिद्य भक्षणात् । प्रसहाः
खलुवीर्य्योष्णान्तन्मांसं भक्षयन्ति ये । ते शोषभस्मकोन्म देः
शुक्रक्षीणा भवन्ति हि” भावप्र० ।

प्रसहन त्रि० प्रगतं सहनं यस्य । १ क्षमारहिते २ हिंस्रपशु-

भेदे पुंस्त्री० “शार्दूलसिंहशरभर्क्षतरक्षुनुख्यायेऽन्यान्
प्रसह्य विनिहत्य निवर्त्तयन्ते । ते कीर्त्तिताः प्रसहनाः
पललं तदीयमर्शःप्रमेहजठरामयजाड्यहारि” राजनि० ।
भावे ल्युट् । ३ आलिङ्गने प्रकर्षेण ४ क्षमायां च ।

प्रसह्य अव्य० प्र + सह--ल्यप् । १ हठादित्यर्थे अमरः “प्रसह्य-

तेजोभिरसंख्यतां गतैः” माघः । प्र + सह--कर्मणि शक्यार्थे
यत् । प्रकर्षेण २ सोढुंशक्ये त्रि० ।

प्रसह्यचौर पु० प्रसह्य बलात्कारेण चौरः । (डाकाइत) प्रकाशचौरे त्रिका० ।

प्रसह्यहरण न० प्रसह्य बलात्कारेण हरणम् । १ क्षत्रियेण

कन्यायाः बलाद्धरणे भा० आ० २१९ आ० । २ हठेन हरणे
(डाकाइति) प्रसह्यहरणं च साहसभेदः ।

प्रसह्वन् त्रि० प्र + सह--बनिप् । प्रसहनकर्त्तरि क्षमे कात्या० २३४२१ ।

प्रसातिका स्त्री सो--क्तिन् प्रगता सातिरस्याः कप् प्रा० ब० ।

अणुधान्ये सूक्ष्मधान्ये रत्नमाला ।

प्रसाद पु० प्र + सद--भावे घञ् । १ नैर्मल्ये २ अनुग्रहे ३ काव्यगु-

णमेदे ४ स्वास्थ्ये ५ प्रसक्ते ६ देवनैदेद्ये ७ गुरुजनभुक्ताव
शिष्टे च अमरः । काव्यगुणभेदश्च रसस्यैव धर्मभेदः
शब्दानां तथात्वमुपचारात् यथोक्तं सा० द० “रसस्याङ्गित्व-
साप्तस्य धर्माः शोर्य्यादयो यथा” । गुणाः यथा खत्वङ्गि-
त्वमाप्तस्यात्मन उत्कर्षहेतुत्वात् शौर्य्यादयो गुणशब्द
वाच्याः तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धर्मा । स्वरूप-
विशेषाः माधुर्य्यादयोऽपि खसम्पकिंपदसन्दर्भस्य काव्य
व्यपदेशस्यौपायिकानुगुण्यभाज इत्यर्थः” । यथा चैर्षा
पृष्ठ ४४९९
रसमात्रस्य धर्मत्वं तथा दर्शितम् । “एवं माधुर्य्यमो-
जोऽथ प्रसाद इति ते त्रिधा” इत्युपक्रमे “चित्तं व्या-
व्नेति थः क्षिप्रं शुष्केन्थनमिवानलः । स प्रसादः
समस्तेषु रसेषु रचनासु च” । व्याप्नोति आविष्करोति ।
“शब्दास्तद्व्यञ्जका ह्यर्थबोधकाः श्रुतिमात्रतः” यथा
“सूचीमुणेन सकृदेव कृतव्रण! त्वं सुक्ताकलाप । लुठसि
स्तनयोः प्रियायाः । बाणैः स्मरस्य शतशो विनिकृत्तमर्मा
स्वप्नेऽपि तां कथमहं न विलोकयामि” सा० द० “प्रसादवत्
प्रसद्वार्थमिन्दोरिन्दीवरद्युति । लक्ष्मलक्षीं तनोतीति
प्रतीतिं सुभगं वचः” काव्यादर्शः । धर्मस्य पत्न्यां मूर्त्तौ
जाते ८ पुत्रभेदे भाग० ४ । १ । ३९ ।

प्रसादना स्त्री प्र + सद--णिच्--युच् । १ मेवायां हेमच० ।

भावे ल्युट् । २ प्रसादन तत्रार्थे न० “मैत्रीकरुणामुदितो-
पेक्षाणां सुखिदुः खिपुण्यपापविषयाणां भावनाश्चित्तप्रसा-
दनम्” पा० सू० । चितप्रसादनशब्दे २९१४ पृ० दृश्यम् ।

प्रसादपट्ट पु० प्रसादसूचकः पट्टः शा० त० । अनुग्रहसूचके

वृ० सं० ५० अ० उक्ते पट्टभेदे पट्टशब्दे ४२०१ पृ० दृश्यम् ।

प्रसाधक त्रि० प्रसाधयति प्र + साधि--ण्युल् । १ भूषके स्त्रियां

कापि अत इत्त्वम् । २ अलङ्गर्त्त्र्यां ३ नीवारधान्ये स्त्री
भावप्र० । राज्ञां प्रसाधनार्थे ४ सेवकभेदे पु० “सूदव्यञ्जन-
कर्त्तारस्तल्पका व्ययकास्तधा । प्रसाधका भोजकाश्च गात्र-
संवाहका अपि । जलताम्बूलकुसुमगन्धभूषणदायकाः”
कामन्द० ।

प्रसाधन न० प्र + सिध--णिच्--साधादेशः ल्युट् । १ कृत्रिमभू-

षणे वेशे । करणे ल्युट् । २ कङ्कतिकायाम् स्त्री ङीप्
अमरः । ३ निष्पादने ४ सिद्धौ च मेदि० ।

प्रसाधित त्रि० प्र + साधि--क्त । १ अलङ्कृते २ निष्पादिते च ।

प्रसारण न० प्र + सृ--णिच्--ल्युट् । १ विस्तारकरणे २ क्रिया-

भेदे च भाषा० कर्मन्शब्दे १७३० पृ० दृश्यम् । विप्रकृष्टदेश-
संयोगहेतुक्रिया प्रसारणम् । करणे ल्युट् ङीप् । (गन्ध
भादाल) ३ सताभेदे स्त्री० राजवल्लभः ।

प्रसारिन् त्रि० प्र + सृ--णिनि । १ विस्तारयुते स्त्रियां ङीप् ।

सा च २ लज्जालुलतायां स्त्री राजनि० ।

प्रसित त्रि० प्र + सो--क्त । १ आसक्ते अमरः तद्योगे

विषयाधारे उत्सुकसाहचर्य्यात् आसक्तार्थपरत्वे तृती
बासप्तम्बौ हरिणा हरौ वा प्रसित इति तत्त्ववो० ।
प्रा० स० । २ प्रकृष्टशुभ्रे त्रि० ४ पूये न० शब्दच० । तस्य
प्रकृष्टशुभ्रत्वात् तषा त्वम् ।

प्रसिति स्त्री प्र + सि--बन्धने करणे क्तिन् । बन्धनसाधने

१ निगड़ादौ अमरः । २ तन्तौ ३ जाले च प्रसयनशब्दे
निरु० ।

प्रसिद्ध त्रि० प्र + सिध--क्त । १ भषिते २ ख्याते च मेदि० ।

प्रसिद्धि स्त्री प्र + सिध--भावे--क्तिन् । १ ख्यातौ २ दङ्कारे

त्रिका० ३ भूषणे च ।

प्रसुह्म पु० १ सुह्मदेशसमीपस्थे देशे २ तन्नृपे च भा० स० २९ अ० ।

प्रसूं स्त्री प्र + सू--क्विप् । १ मातरि अमरः २ घोटक्यां च

३ कदल्यां ४ बीरुधि च मेदि० । स्वार्थे क । प्रसूका
वाजिन्यां राजनि० ।

प्रसूत त्रि० प्र + सू--कर्मणि क्त । १ कृतप्रस वे कर्त्तरि क्त ।

२ संजाते ३ प्रकृष्टसूते त्रि० । ४ कुसुमे न० मेदि० । ५ जाता-
पत्यायां स्त्रियां स्त्री अमरः । चाक्षुषमन्वन्तरे देवगण-
भेदे पु० मार्क० पु० ७६ अ० ।

प्रसूति स्त्री + सू--क्तिन् क्तिच् वा । १ प्रसवे अमरः २ उद्भवे

३ तनये ४ दुहितरि च मेदि० ५ सातरि । स्वार्थे क ।
प्रसूतिका जातप्रसवायां स्त्रियाम् अमरः ।

प्रसूतिज न० प्रसूतेः उद्भवादारभ्य जायते जन--ड । १ दुःस्वे

अमरः । २ प्रसवजातमात्रे त्रि० ।

प्रसून न० प्र + सू--क्त ओदित्त्वात् तस्य नः । १ कुसुमे २ फले

च अमरः । ३ जाते त्रि० मेदि० ।

प्रसूनेषु पु० प्रसूनमिषुर्यस्य । पुष्पशरे कामे त्रिका० प्रसूनशरादयोऽप्यत्र ।

प्रसृत न० प्र + सृ--क्त । १ पलद्वये शब्दमा० २ अर्द्धाञ्जलौ न० ।

कर्त्तरि क्त । ३ प्रसरणयुते त्रि० अमरः । ४ विहिते
५ वेगिते त्रि० मेदि० । ६ गते त्रि० त्रिका० ७ नियुक्ते त्रि०
हला० । ८ जङ्घायां स्त्री मेदि० ।

प्रसृतज पु० १ कुण्डगोलकरूपे पुत्रभेदे “आत्मा पुत्रश्च विज्ञे-

यस्तस्यानन्तरजश्च सः । निरूक्तजश्च विज्ञेयः सुतः
प्रसृतजस्तथा” भा० अनु० ४९ अ० । “निरुक्तजः स्वक्षेत्रे
ऽन्योरेतःसेकार्थमुक्तस्तज्जः (क्षेत्रजः) प्रसूतोऽनिरुक्षो
यो लोल्यात् परक्षेत्रे रेतः सिञ्चति तज्जः प्रसृतजः”
(कुण्डगोलकरूपः) नीलक० ।

प्रसृति स्त्री प्र + सृ--क्तिन् । प्रसृते अर्द्धाञ्जसिमाने रायमु० ।

प्रसृष्ट त्रि० प्र + मृज--क्त । १ प्रकर्षेण सृष्टे “तखैर्वज्रनिपा-

तैश्च प्रसृष्टाभिस्तथैव च” भा० वि० १३ अ० व्याख्याने
“अङ्गुल्यः प्रसृता यास्तु ताः प्रसृष्टा सदीरिताः”
नीलकण्ठोक्तायां २ प्रमृतायामङ्गुलौ स्त्री ।

प्रसेक पु० प्र + सिच--भावे घञ् । १ आसिद्धने २ च्युतौ च मेरि०

पृष्ठ ४५००

प्रसेकिन् पु० प्र + सिक--बा० घिनुण् । १ प्रसेचनशीले प्रसेक-

युक्ते २ व्रणभेदे असाध्ये रोगभेदे पु० सुश्रुतः “मांस-
पिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वाऽपानव-
दुद्धृतौष्ठाः” (व्रणभेदाः) ।

प्रसेदिका स्त्री क्षुद्रारामे हेमच० ।

प्रसेन पु० १ अनमित्रपौत्रे सत्राजिन्नृपभ्रातरि क्षत्त्रियभेदे

हरिवं० ३९ अ० “सिंहः प्रसेनमबधीत् सिंहो जाम्बवता
हतः” स्यमन्तकोपाख्यानम् ।

प्रसेनजित् पु० नृपभेदे भा० स० ८ अ० । हरिवं० १२ अ० तदुपत्तिर्दृंश्या ।

प्रसेव पु० प्र + सिव--कर्मणि घञ् । १ वीणाङ्गे २ स्यूते

३ ग्रथिते च मेदि० । प्र + सेव--भावे घञ् । ३ प्रकृष्टसेवने पु० ।

प्रसेवक पु० प्र + सिव--ण्वुल् । वीणाप्रान्तबद्धे १ काष्ठे वीणा-

दण्डाधः शब्दगाम्भीर्य्यार्थम् अलायुमयं भाण्डं यच्च-
र्मादिना आच्छाद्य दीयते तस्मिन् पदार्थे अभरः ।
२ सूत्ररचितपात्रे (धोकड़ा) ३ प्रकृष्टस्यूतिकारके त्रि० ।

प्रस्कण्व पु० प्रगतः कण्वं कारणत्वेन नि० ऋसौ सुट् ।

कण्वपुत्रे ऋषिभेदे स च बहूनां वेदमन्त्राणां द्रष्टृत्वात्
ऋषिः ।

प्रस्कन्दन न० प्र + स्कन्द--भावे ल्युट् । १ आस्कन्दने “अग्नि-

प्रस्कन्दनपरः” भा० आ० ८४ अ० । अपादाने ल्युट् ।
आस्कन्दनाग्रादाने यत आस्कन्दनं क्रियते २ तस्मिन् ।
भावे ल्युट् । ३ विरेके रत्नमा० तत्रार्थे प्रस्यन्दनमित्येव
न्याय्यः पाठः स्यन्दतेर्धातोरर्थानुगमात् तत्रार्थे प्रस्क-
न्दनमिति पाठस्तु लिपिकरप्रमादात् । कर्त्तेरि ल्यु ।
४ महादेवे भा० अ० १७ अ० ।

प्रस्कुन्द पु० प्रगतः कुन्दम् चक्रम् अत्या० स० धारस्करा० सुट् ।

कुन्दाख्यचक्राकारवेदिकायाम् “प्रस्कुन्देन प्रतिष्टव्यः”
भा० उ० ७२ अ० । “प्रस्कन्देनेति पाठे मध्यमशिफयेत्यर्थः” ।
नीलकण्ठः ।

प्रस्तर पु० प्र + स्तॄ--अच् । १ पाषाणे (पातर) २ पल्लवाद्यैरचिते

शयनीये शब्दर० ३ मणौ मेदि० ४ दर्भमुष्टौ “अध्यर्युः
प्रस्तरं प्रहरति” ताण्ड्य० ब्र० ६७१६ “प्रस्तरो दर्भ-
मुष्टिः” भाष्यम् । तं प्रशंसति “यजमानो वै प्रस्तरः”
१७ । “प्रस्तरस्य हबिरासादनादिद्वारा यागसाधन-
त्वात् यजमानोऽपि यज्ञसाधनमिति यागसाधनत्वसाम्यात्
प्रस्तरो यजनानत्वेन स्तूयते” भा० ।

प्रस्तरिणी स्त्री प्रस्तरस्तदाकारोऽख्यस्य इनि ङीप् ।

गोलोनिकायां राजनि० ।

प्रस्तरेष्ठा पु० प्रस्तरे तिष्ठन्ति स्था--क्विप् अम्बष्ठा० षत्वम् अलुक्-

स० । विश्वदेवभेदे यजु० ३ । १७ ।

प्रस्तार पु० प्र + स्तॄ--घञ् । १ तृणप्रधानवने हेभच० । २ पल्ल-

वादिरचितशयनीये शब्दर० । ३ शय्यामात्रे हारा० ।
प्रस्तार्य्यन्ते विस्तार्य्यन्ते गुरुलघुरूपतया वर्णा मात्रा
वा अनेन प्र + स्तॄ--णिच् करणे अच् । ४ लथुगुरुवर्णज्ञा-
पनक्रियाभेदे तत्प्रकारश्च वृ० र० उक्तो यथा
“पादे सर्वगुरावाद्याल्लघुं न्थस्य गुरोरधः । यथोपरि
तथा शेषं भूयः कुर्य्यादसुं विधिम् । ऊने दद्याद्गुरू-
नेव यावत् सर्वलधुर्भवेत् । प्रस्तारोऽयं समाख्यातच्छन्दो-
विचितिवेदिभिः” । “प्रस्तारणीयवृत्तादीनां सर्वगुरुके
पादे पाद इत्युपलक्षणं वर्णानामपि । प्रथमपङ्क्तौ
लिखिते आद्यात् प्रथमगुरोस्तमारभ्येत्यर्थः । द्वितीयप-
ङ्क्तौ अधः तस्यैव अधस्तात्पङ्क्तौ ब्रथमं लथुं न्थस्य
यथा उपरि ऊर्द्धस्थपङ्क्तौ अपरे अवशिष्टाः सन्निवि-
ष्टास्तथा तस्य दक्षिणपार्श्वेषु गुर्वादयो लेख्याः । तृतीय-
पङ्क्तौ तु प्रथमाया गुरुव्यक्तेरधस्तात् लक्षुं न्थस्य शेषान्
उपरिस्थद्वितीयपङ्क्तिस्थान् गुर्वादीन् त्थपेत् एवश्च
तृतीयपङ्क्तौ आद्यस्थानस्य न्यूनता तत्र किं देयमि-
त्थाकाङ्क्षायामाह, ऊने प्रस्तार्य्यसंख्यातो न्थूने सति
वामभागे गुरून् दद्यात् एवं भूयो मुहुः कुर्य्यात् यावच्च
सर्वलघुकः पादो भवेत्, तावदेवं कुर्य्यादित्यर्थः । त्र्यक्ष-
रप्रस्तारे लघुगुर्वोः ऋजुवक्रतया तदाकारेणोदाहरणम्
प्रथमः भेदः ऽऽऽ मगणः द्वितीयो भदः । ऽऽऽ यगणः
तृतीयो भेदः ऽ।ऽ रगणः चतुर्थो भेदः ॥ऽ सगणः
पञ्चमो भेदः ऽऽ। तगणः षष्ठो भेदः ।ऽ। जगणः
सप्तमो भेदः ऽ॥ भगणः अष्टमो भेदः ॥ऽनगण
मात्राप्रस्तारे विशेषस्तु पिङ्गलादौ द्रष्टव्यः ।
मात्रावृत्तप्रस्तारेऽयं विशेषः जने गुर्वादिक्रमेण वर्णा
देयाः । मात्राद्वये अवशेषे एको गुरुः त्रिमात्राबशेषे एको
गुरुः तद्वामे एको लघुरेवं रोत्या वृत्तमात्रसंख्यया न्यून
मात्राद्वारा संख्यापूरणार्थं गुरुलधुदानमिति वोध्यम् ।

प्रस्तारपङ्क्ति स्त्री छन्दोभेदे छन्दसशब्दे २९७८ पृ० दृश्यम् ।

प्रस्तार्य्यर्म्म न० “समन्ताद्विस्तृतः श्यावो रक्ता वा

माससञ्चयः । सन्निपातेन दोषाणां प्रस्तार्य्यर्म्म तदुच्यते”
वैद्यकोक्ते नेत्ररोगभेदे ।
पृष्ठ ४५०१

प्रस्ताव पु० प्र + स्त--“प्रे द्रुस्तुस्मुवः” पा० भावकरणादौ

घञ् । १ प्रकरषेण स्तवे २ अवसरे अमरः । ३ प्रकरणे भानु-
दीक्षित ४ प्रकरणे काव्यप्र० । ५ सामावयवभेदे स च
पस्तोतृनामकेन ऋत्विजा गेयः साम्नः प्रथमो भागः ।
प्रस्तोतर्य्या देवता प्रस्तावमन्यायत्ता” छा० उ० । तस्य देवता
च ब्रह्मरूपः प्राणस्तत्रैबोक्तः ।

प्रस्तावना स्त्री प्र + स्तु--णिच्--ल्युट् । १ आरम्भे जटा०

“आर्य्यवालचरितप्रस्तावनाडिण्डिमः” वीरच० । प्रस्ताव-
वयति प्र + स्तु--णिच्--ल्यु । नाटकाङ्गे आरम्भार्थके
आमुखे स्त्री तल्लक्षणभेदादिकं सा० द० उक्तं तच्च आमुख
शब्दे ७६६ पृष्ठादौ दृश्यम् ।

प्रस्तिर न० प्र + स्तॄ बा० क ऋत इत्त्वं रपरत्वं च । पल्लवा-

दिरचिते शयनीये शब्दर० ।

प्रस्तीत(म) त्रि० प्र + स्त्यै--क्त तस्य मोवा सम्प्रसारणञ्च । १ संहते २ ध्वनिते च ।

प्रस्तुत त्रि० प्र + स्तु--कर्मणि क्त । १ प्रकरणप्राप्ते २ प्रासङ्गिके

३ उपस्थिते ४ उद्यते ५ प्रतिपन्ने ६ प्रकर्षेण स्तुते च ।

प्रस्तृत त्रि० प्र + स्तृ--क्त । १ अन्तरिते त्रिका० । २ प्रकर्षेण

विस्तारिते त्रि० ।

प्रस्तोतृ त्रि० प्रकृष्टं स्तौति प्र + स्तु--तृच् । १ प्रकर्षेण स्तोतरि

२ साम्रः प्रथमभागगायके ऋत्विग्भेदे पु० अच्छावाकशब्दे
८५ पृ० दृश्यम् । प्रस्तोतुर्हितं तस्वेदं वा ध । प्रस्तोत्रिय
तत्पाठ्ये सामप्रथमभागे तत्सम्बन्धिनि च त्रि० ।

प्रस्थ त्रि० प्र + स्था--क । १ प्रकर्षेण स्थितियुते २ गन्तरि च प्रपूर्व-

कतिष्ठतेर्गत्यर्थत्वात् । ३ आढ़कचतुर्थांशरूपे परिमाणभेदे
पु० आढ़कशब्दे ६५५ पृ० दृश्यम् । ४ द्विशरावपरिमाणे
वैद्यकम् । आधारे धञर्थे क । ५ पर्वतसमभूभागे
स्थितियोग्यस्थाने सानौ पु० न० । ६ उन्मितवस्तुनि मेदिनिः
७ विस्तारे च “दीर्घप्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः”
ब्रह्मवै० पु० ज० ख० १०३ अ० । प्रस्थं पचति पच--ख सुम् ।
प्रस्थम्पच प्रस्थमितपाचके त्रि० ।

प्रस्थपुष्प पु० प्रस्थमिव पुष्पमस्य । १ मरुवके अमरः २ स्यल्पपत्र

तुलस्यां ३ जम्बीरभेदे त्रिका० ।

प्रस्थल सुशर्मराजसम्बन्धिनि देशभेदे भा० भी० ७५ अ० ।

प्रस्थान प्र + स्था--भावे ल्युट् । १ जिगीषोर्युद्धार्थगमने २

ममनमात्रे च प्रस्थानं वर्ण्य तयाऽस्त्यत्र ठन् । प्रस्थान-
प्रतिपादके ग्रन्थे यथा युधिष्ठिरादीनां महाप्रस्थान-
प्रतिवादकः भारतान्तर्गतपर्वभेदः ।
कार्य्यवशात् यात्रादिने स्वयंगमनासम्भवे द्रव्यभेदानां
विप्रादिभेदे प्रस्थापनमाह मु० चि० पी० यथा
वसिष्ठः “तस्मिन् मुहूर्त्ते स्वयमप्रयाणे प्रयोजनापेक्षि-
तया च दैवात् । तत्रैव तन्निर्गमन च कार्य्यं स्वीया-
सानाच्चापि तदुच्यमानम् राजमार्त्तण्डः । “प्रस्थाने
व्राह्मणादीनां यज्ञसूत्रमथाऽऽयुधम् । मध्यामलफलं चैव
प्रशस्तं वृद्धिकारणम्” वसिष्ठः “श्वेतातपत्रध्वजचाम-
राश्वविभूषणोष्णीषगजाम्पराणि । आन्दोलिका रत्नर-
थाश्ववारान् शय्यासनाद्यं मनसस्त्वभीष्टम्” इति
नारदोऽपि “अप्रयाणे स्वयं कार्य्यमपेक्ष्य भूपतिस्तधा ।
कुर्य्यान्निर्गमनं छत्रध्वजवाहनसंयुतमिति” “गेहाद्गे-
हान्तरमपि गमस्तर्हि यात्रेति गर्गः सीम्नः सीमा-
न्तरमपि भृगुर्वाणविक्षेपमात्रम् । प्रस्थानं स्यादिति
कधयतेऽथो भरद्वाज एवं यात्रा कार्य्या बहिरिह पुरात्
स्याद्वसिष्ठो व्रवीति” । “प्रस्थानमत्र धनुषां हि शतानि
पञ्च केचिच्छतद्वयमुशन्ति दशैव चान्ये । संप्रस्थितो यं
इह मन्दिरतः प्रयातो गन्तव्यदिक्षु तदपि प्रयतेन
कार्य्यम्” । “प्रस्थाने भूमिपालो दशदिवसमभिव्याप्य
नैकत्र तिष्ठेत् सामन्तः सप्तरात्रं तदितरमनुजः पञ्चरात्रं
तथैव । ऊर्द्धं गच्छेच्छुभाहेऽप्यथ गमनदिनात् सप्तरा-
त्राणि पूर्वं चाशक्तौ तद्दिनेऽसौ रिपुविजयमनामैथुनं नैव
कुर्य्यात् मु० चि० । श्रीपतिरपि “वसेन्नचैकत्र दश क्षितीशो
दिनान्यथो सप्त च मण्डलीकः । यः प्राकृतः सोऽपि
न पञ्चरात्रं भद्रेण यात्रा परतः प्रयोज्या” । राजमा-
र्त्तण्डः “प्राच्यामहानि मुनयः प्रवदन्ति सप्त याम्याम-
तीव शुभदानि दिनानि पञ्च । त्रीण्येव पश्चिमदिशि
क्षितिनायकानां प्रस्थानकेषु दिवसद्वयमुत्तरस्याम्” प्रस्था-
वप्रकारमाह गुरुः “पूर्वं दक्षिणमुद्धृत्य पादं यायान्नरा-
धिपः । द्वात्रिंशतं पदं गत्वा यानमारुह्य संव्रजेत्” ।
करणे ल्युट् । ३ मार्गे ४ उपदेशोपाये च यथा श्रुति-
स्मृतिन्यायप्रदर्शकम् उपनिषद्गीताशारीरकसूत्ररूपत्र-
यभाष्यरूपं प्रस्थानत्रयम् । यथा वा भाष्यटीकायां पञ्च-
पादिकाभामतीप्रभृतिप्रस्थानत्रयम् ।

प्रस्थापित त्रि० प्र + स्था--णिच्--पुक् कर्मणि क्त । १ प्रेरिते

हेमच० । २ प्रकर्षेण स्थापिते त्रि० ।

प्रस्थायिन् त्रि० प्र + स्था--गम्या० भविष्यति णिनि । १ भावि

गमनकत्तरि । “प्रे स्थः” उणा० इनि णिच्च । ३ गन्तु-
मनसि उज्ज्वलदत्तः ।

प्रस्थिका स्त्री प्रस्थस्तदाकारोऽस्त्यस्याः ठन् । अन्यष्ठालतायां भावप्र० ।

प्रस्नुषा स्त्री स्नुषायाः स्नुषा पृषो० । गप्तृवध्वाम् ।

“स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्बलाः” भा० श०
६० अ० । नीलकण्टः ।
पृष्ठ ४५०२

प्रस्नेय त्रि० प्रस्नातुमर्हति प्र + स्ना--अर्हार्थे यत् ।

स्नानार्ह जलादौ कात्या० श्रौ० २० । २ । १३ ।

प्रस्पन्दन न० प्र + स्पन्द--भावे ल्युट् । प्रकर्षेण स्पन्दने

चलनक्रियाभेदे तच्च सुश्रुते देहे वायुलक्षणतया उक्तम्
“तत्र प्रस्पन्दनोद्वहनपूरणविरेकधारणलक्षणो वायुः
पञ्चधा प्रविभक्तः शरीरं धारयति” ।

प्रस्फुट त्रि० प्र + स्फुट--क । १ प्रफुल्ले विकसिते पुष्पादौ

शब्दरत्ना० । २ सुस्पष्टे सुव्यक्ते च ।

प्रस्फोटन न० प्रस्फुट्यते अनेन प्र + स्फुट--करणे ल्युट् ।

१ शूर्पे (कुला) ख्याते अमरः । भावे ल्युट् । २ ताड़ने
३ प्रकाशे च मेदि० ।

प्रस्यन्द पु० प्र + स्यन्द--भावे घञ् । १ प्रकर्षेण क्षरणे “कृदभि-

हितो भावो द्रव्यवत् प्रकाशते” उक्तेः २ स्यन्दमाने
धृतादौ कर्त्तरि अच् । ३ प्रक्षरणकर्त्तरि त्रि० “प्रस्यन्दमा-
ध्वीकभूः” कुसुमा० ।

प्रस्रवण न० प्र + स्रु--भावे ल्युट् । १ अविच्छेदेन जलादिस्रवणे

२ स्वेदे च । आधारे ल्युट् । यत्र स्थाने स्रवज्जलं निपत्य
बहुलीभवति तादृशे ३ स्थाने उत्से क्षीरस्वामी । अप् ।
प्रस्रव तत्रार्थे हेमच० । माल्यवति पर्वते पु० हेमच० ।

प्रस्राव पु० प्र + स्रु--भावे घञ् । १ प्रकर्षेण क्षरणे कृदभिहित-

भावस्यद्रव्यपरत्वेन २ मूत्रे अमरः ।

प्र(स्वा)स्वन पु० प्र + स्वन--भावे अप् पक्षे घञ् । उच्चैःशब्दे

प्रस्वादस् त्रि० प्र + स्वद--णिच्--असुन् । प्रकर्षेण स्वादयि-

तरि ऋ० १० । १३ । ६६

प्रस्वाप पु० प्रस्याप्यते शत्रुरनेन प्र + स्वप--णिच्--करणे अच् ।

शत्रोः प्रस्वापनसाधने अस्त्रभेदे भा० उद्यो० १८४ अ० ।
करणे ल्युट् । प्रस्वापन तथाविधार्थे भा० व० ४१ अ० ।

प्रस्वापिनी स्त्री सत्यभामायाः भगिन्यां कृष्णभार्य्याभेदे

हरिवं० ३८ अ० ।

प्रस्वेद् पु० प्र + स्विद--भावे घञ् । अत्यन्तस्वेदे तस्यौषर्ध गरुड़ पु० १९८ अ० उक्तम् ।

प्रहत त्रि० प्र + हन--क्त्व । १ वितते २ क्षुण्णे च शब्दरत्ना० ।

प्रहनेमि पु० प्रहन्ति प्र + हन--ड तादृशो नेमिरिबाग्रं शृङ्गं

मस्य । चन्द्रे त्रिका० ।

प्रहर पु० पह्रिवते यामिकढक्कादिरस्मिन् प्र + हृ आधारे अप् । दिवसस्याष्टमे भागे अमरः ।

प्रहरकुटुम्बी स्त्री कुटुम्बिनीक्षुपे राजनि० ।

प्रहरण न० प्रह्रियतेऽनेन हृ--करणे ल्युट् । १ अस्त्रे

२ कर्णीरथे च अमरः । आधारे ल्युट् । २ युद्वे । भावे
ल्युट् । ३ प्रहारे ४ दमे च ।

प्रहरणकलिका स्त्री मनभनलघुगैः प्रहरणकलिका”

वृ० र० उक्ते चतुर्दशाक्षरपादके दन्दोभेदे ।

प्रहरिन् पु० प्रहरोऽधिकारकालत्वेनास्त्यस्य इति । १ या

मिके २ प्रहरकालाधिकृते ३ सैन्यभेदे ।

प्रहर्षण त्रि० प्रहर्षयति प्र + हृष--णिच्--ल्यु । १ प्रकर्षेण

हर्षकारके २ बुधग्रहे पु० त्रिका० करणे ल्युट् ।
३ प्रहर्षसाधने त्रि० । स्त्रियां ङीप् । सा च ४ हरिद्रायां
हारा० “म्नौ ज्रौ गस्त्रिदश ३ । १० यतिः प्रहर्षणीयम्”
वृ० र० उक्ते त्रयदशाक्षरपादके छन्दोभेदे च ।

प्रहस पु० राक्षसभेदे रामा० ल० ३९ अ० ।

प्रहसन न० प्र + हस--भावे आधारे वा ल्युट् । १ प्रकर्षेण हासे

परिहासे २ दृश्यकाव्यरूपकभेदे मेदि० । ३ आक्षेपे हेमच०
रूपकभेदस्य लक्षणमुक्तं सा० द० यथा
“भाणवत् सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् । भवेत्
प्रसहनं वृत्तं निन्द्यानां कविकल्पितम् । अत्र नाऽऽरभटी
नापि विष्कम्भकप्रबेशकौ । अङ्गी हास्यरसस्तत्र वीथ्य-
ङ्गानां स्थितिर्न वा” । तत्र “तपस्विभगवद्विप्रप्रभृति
स्तत्र नायकः । एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुः
च्यते” यथा कन्दर्पकेलिः ।

प्रहसन्ती स्त्री प्र + हस--शतृ ङीप् । १ यूथ्यां त्रिका० २

वासन्तीलतायां राजनि० । प्रा० स० । २ प्रकृष्टाङ्गारधान्याम् ।

प्रहस्त पु० प्रततो हस्तो यत्र । १ विस्तृताङ्गुलिपाणौ

चपेटे अमरः । रावणसैन्याधिपे २ राक्षसभेदे भा० व०
२७४ अ० ।

प्रहाणि प्र + हा--नि णत्वम् । अपचये ।

प्रहार पु० पू + हृ--भावे घञ् । आथाते ।

प्रहारण न० प्र + हृ--णिच्ल्यु । काम्यदाने सारसुन्द्ररी ।

प्रहारबल्ली स्त्री प्रहारस्य वेदनोपशमनाथां वल्ली शाक० त० ।

मांसरोहिण्याम् मावप्र० ।

प्रहारिन् त्रि० प्र + हृ--णिनि । १ प्रहारकर्त्तरि पु० २ राक्षसभेदे रामा० आर० ३१ । १९

प्रहास पु० प्रकृष्टो हासोऽस्थ । १ शिवे त्रिका० २ नटे धरणिः

३ सोमतीर्थे जटा० । प्रा० स० । ४ अट्टहासे पु० शब्दर० । ५
वागभेदे पु० भा० आ० ५७ अ० ।

प्रहासिन् त्रि० प्रकृष्टं हासयति हसति वा हासि--हस-

वा णिनि । १ परस्य हासक कारके (भाँड) २ स्वयं
हासके ३ विदूषके पु० हेमच० ।

प्रहि पु० प्रह्रियते अत्र प्र + हृ--आधारे इन् डिच्च । कूपे अमरः

प्रहित त्रि० प्र + हि० क्त । १ प्रेरिते २ क्षिप्ते ३ सूपे न० हेमच०

पृष्ठ ४५०३

प्रहुत न० प्र + हु--भावे क्त । भूतयज्ञे जटा० । “अहुतञ्च

हुतञ्चैव तथा प्रहुतमेव च । ब्राह्म्यं हुतं प्राशितञ्च
पञ्च यज्ञान् प्रचक्षते” इत्युपक्रम्य “प्रहुतो भौतिको
बलिः” मनुनाऽस्य पारिभाषिकत्वमुक्तम् आर्ष पुंस्त्वम्
“देवानभाजयत् हुतञ्च प्रहुतञ्च यद्देवेभ्यो जुह्वति प्रजु-
ह्वति” वृ० उ०
“ये द्वे अन्ने सृष्ट्वा देवानभाजयत् के ते द्वे इत्युच्यते
हुतञ्च प्रहुतञ्च । हुतमित्यग्नौ हवनम् । प्रहुत हुत्वा
बलिहरणम् । यस्माद्द्वे एते अन्ने हुतप्रहुते देवानभा-
जुयत् । तस्मादेतर्ह्यपि गृहिणः काले देवेभ्यो जुह्वति
देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वानाः एव जुह्वति
प्रजुह्वति च हुत्वा बलिहर्खञ्च कुर्वते इत्यर्थः” भा० ।

प्रहृत न० प्र + हृ--भावे क्व । १ प्रहारे २ आघाते । कर्मणि

क्त । ३ कृतप्रहारे त्रि० ४ ऋषिभेदे पु० । तस्यापत्यम्
अश्वा० फञ् । प्राहृतायन तदपत्ये पुंस्त्री० ।

प्रहेण(ल)क न० पिष्टकभेदे हारा० ।

प्रहेलिका स्त्री प्र + हेल--इन् संज्ञायां कन् । दुर्विज्ञानार्थप्रश्ने

(हेँयालि) अमरः । तद्भेदलक्षणादि विदग्धमु० उक्तं यथा
“व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्या-
न्तरावर्थौ कथ्येते सा प्रहेलिका । सा द्विधार्थी च
शाव्दी च विख्याता प्रश्नशासने । आथीं स्यादर्थविज्ञानात्
शाब्दी शब्दस्य भङ्गतः” आर्थी यथा “तरुण्यालिङ्गितः
कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि कः
कूजति सुहुर्मुहुः” (ईषदूनजलपूर्णकुम्भः उत्तरम्) शाब्दी
यथा “सदारिमध्यापि न वैरियुक्ता नितान्तरक्ताप्यसितैव
नित्यम् । यथोक्तवादिग्यपि नैव द्वती का नाम कान्तेति
निवेदयन्ती” (सारिका उत्तरम्) काव्यादर्शे तु “प्रहेलिका
प्रकाराणां पुनरुद्दिश्यते गतिः । क्रीडागोष्ठीविनोदेषु
तज्ज्ञैराकीर्णमन्त्रणे । परव्यामोहने चापि सोपयोगाः
प्रहेलिकाः । आहुः समासतां १ नाम गूढ़ार्थां
पदसन्धिना । वञ्चिता २ ऽन्यत्र रूढ़ेन यत्र शब्देन वञ्चना ।
व्युत्क्रान्ता ३ ऽतिव्यवहितप्रयोगान्मोहकारिणी । सा स्यात्
प्रमुषिता ४ यस्यां दुर्बोधार्था पदावली । समानरूपा ५
गौणार्थारोपितैर्ग्रथिता पदैः । परुषा ६ लक्षणास्तित्वमा-
त्रव्युत्पादितश्रुतिः । संख्याता ७ नाम संख्यानं यत्र
व्यामोहकारणम् । अन्यथा भासते यत्र वाक्यार्थः सा
प्रकल्पिता ८ । वा नामान्तरिता ९ नाम यस्यं नानार्थ-
कल्पना । निभृता १० निभृतान्यार्था तुल्यधर्मस्पृशा
गिरा । समानशब्दो ११ पन्यस्तशब्दपर्य्यायसाधिता । संमू-
ढ़ा १२ नाम या साक्षान्निर्दिष्टार्थापि मूढ़ये । योगमाला-
त्मिका नाम या स्यात् सा परिहारिका १३ ।
एकच्छन्ना १४ ऽऽश्रितं व्यक्तं यस्यामाश्रयगोपनम् । सा
भवेदुभयच्छन्ना १५ यस्यामुभयगोपनम् । सङ्कीर्णा १६ नाम
सा यस्यां नानालक्षणसङ्करः । एताः षोड़श
निर्दुष्टाः पूर्वाचार्य्यैः प्रहेलिकाः । दुष्टप्रहेलिकाश्चान्या-
स्तैरधीताश्चतुर्दश” । एताः समागताप्रभृतयः षोड़श
प्रहेलिकाः पूर्वाचार्य्यैः निर्दुष्टाः अदुष्टत्वेन कथिताः
इत्यर्थः, तैः पूर्वाचार्य्यैरेव अन्याः चतुर्दश दुष्टाः प्रहे-
लिकाः च्युताक्षरादिकाः अधीता पठिताः सदोषत्वेन
कीर्त्तिता इत्यर्थः” । एतासामुदाहरणानि तत्र दृश्यानि ।
ताश्चतुर्दश सरस्वतीकण्ठा० दृश्याः । “काम्यान्तर्गडु-
भूतत्वात् नालङ्कारः प्रहेलिका” सा० द० ।

प्रहोषिन् त्रि० प्र + हु--बा० इनि सुगागमश्च । प्रकर्षेण

हवनकर्त्तरि ऋ० ८९२ । ४

प्रह्रा(ह्ला)द पु० १ हिरण्यशिपोः पुत्रभेदे भा० आ० ६५ अ० ।

तच्चरितं भाग० ७५ अध्यायादौ दृश्यम् । तस्य पूर्वज-
न्मकथा पाद्मे भूमि० ५ अ० । २ नागभेदे भा० स० ९ अ० । ह्लद-
भावे घञ् । ३ प्रमोदे विश्वः ह्रद--भावे घञ् । ४ शब्दे
धरणिः ।

प्रह्व त्रि० प्र + हा त्यागे वन् नि० आलोपः । १ नम्रे उजज्वल० ३ आसक्ते हेमच० ।

प्रह्वलीका त्रि० प्रवह्लिका + पृषो० । प्रहेलिकायां हला० ।

प्रा पूर्त्तौ अदा० प० सक० अनिट् । प्राति अप्रालीत् पप्रौ

कविकल्पद्रुमे प्राया इति पाठः तत्रार्थे ।

प्रांशु त्रि० प्रकृष्टा अशषोऽस्य । १ उच्चे उन्नते अमरः ।

वैवस्वतमनोः २ पुत्रभेदे पु० हरिवं० १० अ० । वत्सप्रीनृपस्य-
सुदक्षिणायां जाते ३ पुत्रभेदे पु० मार्क० पु० ११८ अ० ।

प्राकर पु० द्युतिमन्नृपस्य पुत्रभेदे मार्क० पु० ५३ अ० ।

प्राकरणिक त्रि० प्रकरेण प्राप्त ठक् । प्रकरणप्राप्ते ।

प्राकर्षिक त्रि० प्रकर्षं नित्यमर्हति छैदा० ठञ् । नित्यप्रकर्षार्हे

प्राकषिक पु० प्र + आ + कष--किकन् । १ स्त्रीणां नर्त्तके २

परदारोपजीविनि च उजज्ज्वलद० ।

प्राकाम्य न० प्रकामस्य भावः ष्यञ् । १ अष्टविघैश्वर्य्यमध्ये

इच्छानभिधातरूपे १ ऐश्वर्य्ये २ स्वाच्छन्द्यानुमतौ च हेमच०
“प्राकाम्यं ते विभूतिषु” कुमारः । अणिमन्शब्दे ९६
पृ० ऐश्वर्य्यशब्दे १५४९ पृ० दृश्यम् ।
पृष्ठ ४५०४

प्राकार पु० प्रकीर्य्यते प्र + कॄ--आधारे घञ् दीर्घः । इष्टकादि-

रचिते वेष्टनाकारे प्राचीरादौ “ऊर्द्ध्वं विंशतिहस्तेभ्यः
प्राकारं न शुभावहम् । प्रस्थे हस्तद्वयात् पूर्वं दीर्घे
हस्तत्रयं तथा । गृहिणां शुभद्रं द्वारं प्राकारस्य
गृहस्य च । न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके
शुभम्” ब्रह्मवै० पु० ११३ अ० तन्मानाद्युक्तम् । अस्य
क्लीवत्वमार्षम् । भावे घञ् । २ सर्वतो विस्तारे पु० ।

प्राकारमर्दिन् त्रि० प्राकारं मृद्रति मृद--णिति ६ त० ।

प्राकारभेदके । ततः बाह्वा० अपत्ये इञ् संयोगो-
पधेनन्तत्वात् न टिलोपः । प्राकारमर्दिनि तदपत्ये
पुंस्त्री० ।

प्राकारीय त्रि० प्राकारायायम् छ । १ प्राकारप्रकृतौ इष्ट-

कादौ । प्राकार आसामिष्टकानां स्यात् प्राकारोऽस्मिन्
वा स्यात् छ । २ सम्भबत्प्राकारायासिष्टकायाम् ३ सम्भ-
वत्प्राकारे देशे च ।

प्राकृत त्रि० प्रकृष्टमकृतमपकार्य्यं यस्य । १ नीचे । प्रकृतेरयम्

अण् । २ प्रकृतिसम्बन्धिनि । प्रकृत्या स्वभावेन निर्वृत्तः
अण् । ३ स्वभावसिद्धे “बभूव प्राकृतः शिशुः” भाग०
१० । प्रकृतेः संस्कृतशब्दात् आगतः अण् । ४
नाटकादौ प्रसिद्धे अपभ्रंशशब्दभेदे अमरः । प्राकृतभा-
धायाः संस्कृतशब्दप्रकृतिकत्वात् तथात्वं प्राकृतकङ्केश्व-
स्वादौ वररुच्यादिप्रणीते ग्रन्वेऽस्य विस्तरो दृश्यः ।
स्वभावतः सिद्धयोः ५ मित्रामित्रयोः । स्वदेशानन्तरदेश-
वर्त्ती नृपः प्राकृतः शत्रुः सन्निकृष्टविषयग्राहित्वस-
म्भवात्तस्य तथात्वम् तत्रानन्तरविषयस्थो नृपः प्राकृतं
मित्रं मध्यवर्त्तिनृपविषयस्य उभयोः जिघृक्षासम्भवात्
तथात्वम् । “स्याताममित्रौ मित्रे च सहजप्राकृतावपि”
माघ २ यसर्गश्लोकव्याख्याने मल्लिनाथः ।

प्राकृतज्वर पु० “वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्”

ज्वराधिकारे माधवोक्ते ज्वरभेदे ।

प्राकृतप्रलय कर्म० । प्रलयभेदे प्रलयशब्दे दृश्यम् ।

प्राकृतमित्र न० कर्म० । स्वभावसिद्धे मित्रे विषयानन्तरस्थ

नृपरूपात् प्राकृतशत्रोः अव्यवहितोत्तरविषयस्थे नृपे ।

प्राकृतशत्रु पु० कर्भ० । विषयानन्तरवर्त्तिनि नृपे ।

प्राकृतिक त्रि० प्रकृत्या निर्वृत्तः ठञ् । प्रकृतिसाध्ये स्वभावसिद्धे

प्राक्छाय त्रि० प्राक् पूर्ववर्त्तिनी छाया यत्र दिने । हस्तिनः

हस्तनक्षत्रस्य पूर्ववर्त्तिछायायुते दिने “प्राक्छाये कुञ्ज-
रस्य च” मनुः । कुञ्जरच्छायशब्दे २०६८ पृ० दृश्यम् ।

प्राक्तन त्रि० प्राचि काले देशे प्राच्यां दिशि वा भवः व्यु

तुट् च । प्राग्भवे “प्रपेदिरे प्राक्तनजन्मविद्याः” कुमा० ।
स्त्रियां ङीप् । २ पूर्ववर्त्तिनि कारण च ।

प्राक्तनकर्म न० प्राक्तनं कारणं कर्म यस्य । कर्मरूपकारण-

हेतुके अदृष्टे १ पापे २ पुण्ये च जटा० ।

प्राक्पद पु० कर्म० । पूर्ववर्त्तिनि पदे ।

प्राक्पुष्पा स्त्री प्राक् पुष्पं यस्यां अजा० टाप् । प्रान्वर्त्ति

पुष्पान्वितलतायाम् ।

प्राक्फल पु० प्राक्फलमस्य । पुष्पं विना फलयुते षनसे (काँटाल) जटाधरः ।

प्राक्फल्गुनी स्त्री कर्म० । पूर्वफल्गुनीनक्षत्रे तत्र भवः

ठञ् । प्राक्फल्गुनिक वृहस्पतौ ।

प्राक्फल्गुनीभव पु० प्राक्फल्गुन्यां भवति भू--अच् । वृद्धस्पतौ हारा० ।

प्राक्फाल्गुन पु० प्राक्फाल्गुन्यां भवः अण् । वृहस्पतौ शब्दच०

प्राक्शङ्कवत् पु० ऋषिभेदे भ० श० ५३ अ० ।

प्राक्सन्ध्या स्त्री कर्म० । पूर्वसंख्यायां सूर्य्योदयासन्नायां सन्ध्यायाम् ।

प्राक्सवन न० प्राक्कालिकं सवनम् । यज्ञिये प्रथमसवने ।

प्राक्सौमिक त्रि० सोमात् सोमयागात् प्राक् अप्ययी० प्राक्-

सोमं तत्र भवः ठञ् उत्तरपदवृद्धिः । सामयागात् प्राक्क-
र्त्तव्ये अग्निहोत्रदर्शपौर्णमासपशुयागचातुर्भास्ययाग-
रूपे १ क्रियाकलापे २ इष्टौ स्त्री ङीप् । “प्राक्सौमिकीः
क्रियाः कुर्य्यात् यस्यान्नं वार्षिकं भवेत्” ताज्ञ० वाक्य-
व्याख्यायां मिता० दृश्यम् ।

प्राक्स्रोतस् स्त्री प्राग्वाहि स्रोतोऽस्याः । १ नद्यां “प्राक्-

स्रोतसो नद्यः प्रत्यक्स्रोतसो नदा नर्मदां विनेत्याहुः”
मल्लि० धृतवाक्यम् ।

प्रागग्र त्रि० प्राक् अग्रं यस्य । पूर्वाभिमुखे ।

प्रागद्य त्रि० प्रगदिनोऽदूरदेशादि प्रगद्या० चतुरर्थ्या० ञ्य ।

प्रगदिनोऽदूरदेशादौ ।

प्रागभाव पु० प्राग्वर्ती अभावः । इह कपाले घटो भविष्य-

तीत्यादिप्रतीतिसिद्धे संसर्गाभावभेदे “प्रागभावस्तथा ध्वं-
सोऽप्यत्यन्ताभाव एव च । एवं त्रैविध्यसापन्नः संसर्गाभाव
इष्यते” भाषा० । तल्लक्षणन्तु ध्वंसप्रतियोगित्वे सत्यभा-
वत्वम् । स च उपादानदेशः एव वर्त्तते नान्यत्र । तस्य च
सामान्यधर्मानच्छिन्नप्रतियोगिताकत्वं नास्ति किन्तु तत्त-
द्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वम् । स च प्रतियोगि-
जनकः इति न्यायमते । साख्यादिमते भावस्यानागता-
वस्थैव प्रागभावपदवाच्येति भेदः ।
पृष्ठ ४५०५

प्रागल्भ्य न० प्रगल्भस्य भावः ष्यञ् । १ प्रगल्भतायां “प्रा-

गल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते”
ज्यो० त० । “निःसाध्वसत्वं प्रागलभ्यम्” सा० उक्ते
३ भयशून्यत्वरूपे स्त्रीणां सात्त्विकभावभेदे च ।

प्रागुदीची स्त्री प्राच्या उदीच्या अरन्तराला दिक् ब० स० ।

पूर्वोत्तरदिशोरन्तरालायां दिशि विदिशि ईशानकोणे ।

प्राग्ज्योतिष पु० कामरूपदेशे हमच० । तत्र पूर्वं नरकासुरस्य

पुरी आसीत् यथा कालिका० ३७ अ० “करतोया सत्य
गङ्गा पूर्वभागावधिश्रिता । यावल्ललितकान्तास्ति
तावद्देशं पुपं तव । तत्र देवी महामाया योगनिद्रा जगत्-
प्रसृः । कामाख्यारूपमास्थाय सदा तिष्ठति शोभना ।
तत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः । तत्रैव
दश दिक्पालाः स्वे स्वे पीठे व्यवस्थिताः । तत्र खयं
महादेवो ब्रह्मा वाऽहञ्च (हरिश्च) सर्वदा । चन्द्रः सूर्यश्च
सततं वसेत् तत्रैव पुत्रक! । सर्वे क्रीड़ार्थमायाता
रहस्यदेशमुत्तमम् । तत्र श्रीः सर्वतो भद्रा भोग्यमत्र सदा
बहु । अत्रैव हि स्थितो ब्रह्मा प्राङ् नक्षत्रं समर्ज ह ।
ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा । अत्र त्वं
वस भद्रन्ते ह्यभिषिक्तो मया स्वयम्” । नरकं प्रति
भगवदुक्तिः । द्वापरे तत्र भगदत्तो नृप आसीत् यज्ञोक्तम्
“तैरेव सहितः सर्वैः प्राग्ज्योतिषिसुपाद्रवत् । यत्र
राजा महनासीद्भगदत्तो विशाव्यतेः!” भा० स० २५ अ० ।

प्राग्भक्त न० सुश्रुतोक्ते भक्तभक्षणात् प्राक्कासरूपे

औषधसेवनकासभेदे “अत ऊर्द्धं दशौषधकालान्वक्ष्यामः । तत्र
निर्भक्तं १ प्राग्भक्त २ मधोभक्तं ३ मध्येभक्त ४ भन्तराभक्तं ५
सभक्तं ६ सामुद्गं ७ मुहुर्मुहुर्ग्रासं (सभक्तमभक्तं वा)
८ । ९ ग्रासान्तर १० चेति दशौषधकालाः” इत्युपक्रमे
“प्राग्भक्तं नाम यत्तु प्राग्भक्तस्योपयुज्यते । शीघ्रं
विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहु-
र्बदनान्निरेति । प्राग्भक्तसेवितमथो बलमादधाति
दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः” ।

प्राग्भार पु० प्रकृष्टो भारः प्रा० स० । १ उत्कर्षे २ परभागे “मां-

समस्तिष्कपङ्क प्राग्भारः” प्रबोधचन्द्रोदयः । ३ पर्वताग्र-
भागे त्रिका० । प्राग्भाव तत्रार्थे त्रिका० पाठान्तरम् ।
स च प्राग्मर्त्तित्वे च ।

प्राग्रहर त्रि० प्राग्रे प्रकृष्टाग्रे ह्रियतेऽसौ हृ--अप् । श्रेष्ठे अमरः ।

प्राग्राट न० प्राग्रे अटति अट--अच् । अधनदध्रि (पात-

लादै) त्रिका० ।

प्राग्र्य त्रि० प्रकर्षेणाग्रे भवः यत् । श्रेष्ठे अमरः ।

प्राग्वंश पु० प्राक् वंशः सपत्रीकयजमनादिसमुदायोऽत्र ।

हविर्मृहात् पूर्वभागस्थे यजमानादिस्थित्यर्थे गृहे
अमरः । २ विष्णौ च “प्राग्वंशो वंशवर्द्धनः” विष्णुसं० ।
“अन्थस्य वंशः पाश्चात्त्यः अस्य तु वंशः प्रपञ्चः प्रागेव न
पाश्चात्त्यः” भा० ।

प्राग्वचन न० प्रागुक्तं वचनम् । मन्वादिभिः पूर्वमुक्ते वचने ।

“यथोक्तमेतद्वचनं प्रागेव मनुना पुरा । प्रागिदं वचनं
प्रोक्तमतः प्राग्वचनं विदुः” भा० शा० १२१ अ० ।

प्राग्वत् अव्य० प्रागिव वति । पूर्वदेशकालतुल्ये ।

प्राघात पु० प्राहन्यतेऽत्र प्र + आ + हन--आधारे घञ् । युद्धे हेमच० ।

प्राघार पु० प्र + घृ--क्षरणे भावे घञ् दीर्थः । यज्ञादौ वह्नेरु-

परि घृतादेःक्षरणे अमरः ।

प्राघुण पु० प्र + आ--घुण--क । अतिथौ त्रिका० ।

प्राघुणिक पु० प्रघुण + स्वार्थे ठक् । अतिथौ

प्राघूर्णिक पु० प्र + आ + घुण--भावे घञ् तत्र साधु ठञ् । तिथौ हिमच०

प्राङ्ग न० प्रहतं प्रकृष्टं बाङ्गमस्य प्रा० ब० । ३ पणववाद्ये शब्दर०

२ प्रकृष्टदेहयुते त्रि० स्त्रियां स्याङ्गत्वात् ङीष् ।

प्राङ्गण भ० प्रकृष्टमङ्गनं पूर्वं णत्वम् । १ गृहभूमौ शब्दर०

(उठान) २ अजिरे ३ पणववाद्ये च हेमच० “अभद्रदं
सूर्यवेधं प्राङ्गणञ्च तथैव च” ब्रह्म० वै० ज० १०३ अ० उक्तेः
तस्य सूर्यविद्धत्वमशुभम् । पूर्वपश्चिमायतत्वे हि तस्य
सूर्यविद्धत्वं दक्षिणोत्तरायतत्वे च चन्द्रविद्धत्वमिति भेदः ।

प्राङ्न्याय पु० “आचारेणावसन्नोऽपि पुनर्सेखयते यदि ।

सोऽभिधेयो जितः पूर्वं प्राङ्न्यायश्च स उच्यते” इत्युक्ते
व्यवहारविषये उत्तरभेदे १०९० पृ० दृश्यम् ।

प्राङ्मुख त्रि० प्राक् पूर्वदिक्स्तं सुखमस्य । पूर्वदिङ्मुखे

स्त्रियां ङीप् । यत्र विशेषो नोक्तः तत्र प्राङ्सुखत्वं
आश्वलायनगृह्यसूत्रादौ दृश्यम् ।

प्राच् अव्य० प्राचि सप्तम्यर्थे असि तस्य लुक् । प्राचीत्यर्थे ।

प्राच् त्रि० प्र + अन्च--क्विप् । पूर्वे १ देशे २ काले च ३ दिशि स्त्री

ङीप् । ४ पूज्यपूजयोरन्तरालदिशि स्त्री “यत्रैव भानुस्तु
वियत्युदेति प्राचीति तां वेदविदो वदन्ति । तथा पुरः
पूजकपूज्ययोश्च सदागमज्ञा प्रवदन्ति तन्त्रे” ति० त०
धृतवाक्यम् । एतच्च “शिवपूजव्यतिरिक्तविषयम्” बाचस्पति-
मिश्राः । हलन्तत्वात् वा टाप् । “प्राचाजिह्वम्” ऋ०
१ । १४० । ३ । “प्राचामन्युः” ऋ० ८ । ६१ । ९ “प्राची वै दैवी
दिक् पुरस्ताद्वै देवाः, प्रत्यञ्चो मनुष्यास्तानुपावृत्ताः तस्मा-
त्तेभ्यः प्राङ्तिष्ठन् जुहोति” शत० ३ । १ । १ । ६
पृष्ठ ४५०६

प्राच पु० प्र + आ + चल--भृतौ बा० ड । १ प्रकर्षेण रक्षके “प्राचो-

ऽस्यह्ने” ताण्ड्य० ब्रा० १ । ९२ सू० । प्र + अन्च--घञार्थे
भावे घञ् । २ प्रकृष्टगमने प्राचैःशब्दे ऋ० भाष्ये दृश्यम् ।

प्राचिका स्त्री प्राचिनोति मधु प्र + आ + चि--ड स्वार्थे कापि

अत इत्त्वम् । बनमक्षिकायाम् अमरः ।

प्राचिन्वत् पु० राजभेदे “जनमेजयः खल्वनन्तां नामोपयेमे

माधवीं तस्यामस्य जज्ञे प्राचिन्वान्नाम । यः प्राचीं
दिशं जिगाय यावत् सूर्य्योदयात् ततस्तस्य प्राचिन्वत्त्वस्”
भा० आ० ९५ अ० ।

प्राचीन त्रि० प्राक् + भवर्थे ख । १ पूर्वदिग्देशादौ भवे ।

२ वनतिक्तायाम् (आक्नादि) अमरः ३ रास्नायाञ्च स्त्री
शब्दच० टाप् ।

प्राचीनगर्भ पु० ऋषिभेदे भा० शा० ३५१ अ० ।

प्राचीनपनस पु० नित्यकर्म० । बिल्वे त्रिका० ।

प्राचीनबर्हिस् पु० । १ इन्द्रे २ नृपभेदे च हेमच० । “अत्रि-

बंशे समुत्पन्नो ब्रह्मवोनिः सनातनः । प्राचीनबर्हिर्भगवां
स्तस्मात् प्रचेतसो दश” भा० शा० २०८ अ० । “प्राचीनबर्हि-
र्भगवान् महानासीत् प्रजापतिः । हविर्धानात् द्विज-
श्रेष्ठ! येन संवर्द्धिताः प्रजाः । प्राचीनाग्राः कुशास्तस्य
पृथिव्यां विश्रुता मुने! । प्राचीनबर्हिर्भगवान् ख्यातो
भुवि महाबलः” अग्निपु० उक्ते ३ हविर्धम्नः पुत्रे भा०
अनु० १४७ अ० ।

प्राचीनयोग पु० प्राचीनो योगोऽस्य । ऋषिभेदे तस्य

गोत्रापत्यं गर्गा० यञ् । प्राचीनयोग्य तद्गोत्रापत्ये पुंस्त्री०

प्राचीनयोगिनीपुत्र यजुर्वेदवंश्यस्थे ऋषिभेदे शत० ब्रा०

१४ । ९ । ४ । ३२ ।

प्राचीनामलक न० नित्यकर्म० । पानीयामलके अमरः ।

प्राचीनावीत न० “सव्यं बाहुं समुद्धृत्य दक्षिणे तु द्वि-

जातयः! । प्राचीनावीतमित्युक्तं पौत्र्ये कमणि
योजयेत्” इत्युक्ते श्राद्धादौ कर्त्तव्ये वामकरे बहिष्कृते सति
दक्षिणस्कन्धार्पिते यज्ञसूत्रादौ ।

प्राचीनावीतिन् पु० प्राचीनावीतमस्त्यस्य इनि । तद्युते

“उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः । सव्ये प्रा-
चीनावीतो निवीती कण्ठमञ्जने” मनुः । गोभिलः
“दक्षिणं बाहुमुद्धृत्य शिरोऽबधाय सव्येऽंसे प्रतिष्ठापयति
दक्षिणं कक्षमवलभ्रं मवति एवं यज्ञोपवीती भवति ।
सव्यं बाहुमुद्धृत्य शिरोऽबधाय दक्षिणेऽंसे प्रतिष्ठापयति
सव्यं कक्षमवलम्बनं भवत्येवं प्राचीनावीती भवति” ।

प्राचीपति पु० ६ त० । इन्द्रे त्रिका० ।

प्राचीर न० प्राचीयते प्र + आ--चि--क्रन् दीर्घश्च । सर्वतो

वेष्टनाकारे इष्टकादिनिर्मिते आवरणे (पाँचिर) अमरः
अस्य पुस्त्वं तन्मानादि च युक्तिकल्पतरावुक्तं यथा
“गजैरभेद्यामनुजैरलङ्घ्यः प्राचीरखण्डा नृपतेर्भवन्ति ।
राजदण्डोन्नताः सर्वे प्राचीराः पृथिवीभुजः । विंश-
तिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च । पश्चात् पञ्च
च विज्ञेयाः प्राचीराः पृथिवीभुजः । सर्वप्रान्ते त्वाव-
रणो नाम प्राचीर उच्यते । प्रतिप्राकारसंस्थानं द्वारं
नाभिमुखस्थितम्” । “राजच्छत्रान्तरे पञ्च राजद्वारे
महीपतेः । राजदण्डत्रये सार्द्धे जयद्वारे प्रति-
ष्ठिताः । अद्वारे राजदण्डार्द्धे प्रांचीराः पृथिवीपतेः ।
एवं व्यवस्थिते स्थाने मध्यमे तद्धि तिष्ठति । राजच्छत्र-
द्वयं सार्द्धमायामे जयवस्तुनि । परिणाहे पञ्च
राजदण्डास्तिष्ठन्ति मध्यतः । राजपट्टाभिधानेन स्थानमेत-
न्निगद्यते । अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते”

प्राचेतस पु० प्रचेतस् + अपत्यादौ अण् । १ बाल्मीकिमुनौ

२ प्राचीनबर्हिषो नृपस्य पुत्रे ३ वसणस्य पुत्रे च ।

प्राचैस् न० प्र + आ + चि--बा० डैसि । प्राचीने ऋ० १ । ८३ । २

भाष्यम् । तत्र च पक्षान्तरे प्राचैरित्यत्र प्राचशब्दस्तृती-
याबहुवचनान्त इत्युक्त्वा प्राचैः प्राञ्चनैरित्युक्तम् ।

प्राच्य त्रि० प्राचि भवः यत् । १ शरावत्या नद्याः प्राग्दक्षिणे

देशे अमरः । प्राच्यां दिशि प्राचि देशे काले वा २ भवे
त्रि० । “प्राच्यैर्होलका कर्त्तव्या” दायभा० ।

प्राच्यवाट न० प्राच्यो वाटो यस्य । प्राग्देशस्थे दशकुमा० ।

प्राच्यवृत्ति स्त्री “पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेह

युग्मयोः” वृ० र० उक्ते १ छन्दाभेदे कर्म० । २ प्राचोनायां
वृत्तौ स्त्री ब० स० । ३ तथावृत्तियुते त्रि० ।

प्राच्यसप्तसम त्रि० सप्त समाः प्रमाणमस्य मात्रच् तस्य द्विगु-

त्वात् लुक् कर्म० । प्राचीने सप्तसमे “द्विगौ समाणे”
पा० तस्य प्रकृतिस्वरः ।

प्राच्यायन पुंस्त्री० प्राच्यस्य गोत्रापत्यम् अश्वा० फञ् ।

प्राच्यस्य गोत्रापत्ये ।

प्राच्छ् त्रि० पृच्छति प्रच्छ--क्विप् निपा० दीर्घश्च । जिज्ञासके प्राड्विवेकः ।

प्राजक पु० प्र + अज--ण्वुल् वीभावाभावः । सारथौ “यत्राप

वर्त्तते युग्यं वैगुण्यात् प्राजकस्य च” मनुः ।

प्राजन न० प्र + अज--करणे ल्युट् व्यभावः । तोदने पश्वादेश्चास-

नदण्डे (पाचनी) अमरः ।

प्राजया अव्य० प्राजनक्रियाम् साक्षा० वा गतिसंज्ञा । प्राजयाकृत्य प्रजया कृत्वा वा ।

पृष्ठ ४५०७

प्राजरुहा अव्य० रुहिक्रियायाम् साक्षा० वा गतिसज्ञा ।

प्राजरुहाकृत्य प्राजरुहा कृत्वा वा ।

प्राजहित पु० गार्हपत्येऽग्नौ कात्या० श्रौ० ८ । ६ । १३

प्राजापत त्रि० प्रजापतेः धर्म्यं महिष्या० अण् । प्रजापतेर्धर्म्ये

प्राजापत्य पु० प्रजापतिर्देवताऽस्य यक् । १ अष्टविवाहमध्ये

विवाहभेदे “ब्राह्मोदैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः”
मनुना अष्ट विवाहानुद्दिश्य “सहोभौ चरतां धर्ममिति
वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः
स्मृतः” इति लक्षित “त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्या-
दयाचितम् । त्र्यहं परञ्च नाश्नीयात् प्राजापत्यमिति
स्मृतम्” इति स्मृत्युक्ते द्वादशाहसाध्ये २ व्रतभेदे न० ।
३ प्रजापत्यधिदेवताके चर्वादौ त्रि० । ४ प्रव्रज्याश्रमाङ्गे
सर्वस्वदक्षिणकेष्टिभेदे स्त्री “प्राजापत्यां निरुप्येष्टिं
सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य ब्राह्मणः
प्रव्रजेद्गृहात्” याज्ञ० । ५ रोहिणीनक्षत्रे न० ६ प्रयागतीर्थे
न० त्रिका० ७ जैनभेदे पु० हेमच० ।

प्राजावत त्रि० प्रजावत्या धर्म्यं महिष्या० अण् । भ्रातृजायाया धर्म्ये ।

प्राजिन् पु० प्र + अज--णिनि व्यभावः । वक्षिभेदे मेदि० अमरः

प्राजितृ पु० प्र + अज--तृच् वीभावाभावः । सारथौ ।

प्राजेश न० प्रजेशो देवताऽस्य अण् । १ रोहिणीनक्षत्रे २ प्रजा-

पतिदेवताके चर्वादौ त्रि० । प्राजेश्वरादयोऽप्युभयत्र ।

प्राज्ञ पु० प्रकर्षेण जानाति प्र--ज्ञा--क स्वार्थे अण् । १ पण्डिते

अमरः २ राजशुके राजनि० । प्रज्ञाऽस्त्यस्य अण् ।
३ बुद्धिमति ४ दक्षे च त्रि० । प्रज्ञा + स्वार्थे ण । ६ बुद्धौ
स्त्री टाप् प्राज्ञस्य पत्नी ङीप् । प्राज्ञी ७ प्राज्ञपत्न्यां
स्त्री । ७ कल्किनो ज्येष्ठभ्रातरि पु० कल्किपु० २ अ० ।
प्रकर्षेण अज्ञः । वेदान्तसारोक्ते ८ व्यष्ठ्यु पहितचैतन्ये
एकाज्ञानमात्रभासके जीवचैतन्ये पु० “एतदुपहितचैत-
न्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते ।
एकाज्ञानावभासकन्वादस्य प्राज्ञत्वम् अस्पष्टोपाधितयाऽनति-
प्रकाशकत्वम्” बेदान्तसारः । प्रज्ञ + स्वार्थे अण् स्त्रियां
ङीप् । प्राज्ञी ९ सूर्यपत्न्याम् स्त्री ।

प्राज्य न० प्रकृष्टमाज्यं प्र + अन्ज--क्यप् वा । १ प्रकृष्टघृते २ प्रचुरे त्रि० हेमच० ।

प्राञ्च् त्रि० प्र + अन्च् + विच् । पूर्वदेशकालवर्त्तिनि । अञ्चेर्न-

लोपाभावात् भत्वे प्राञ्च प्राञ्चा इत्येव ।

प्राञ्जल त्रि० प्र + चन्ज--अलच् । १ सरले २ सुबोधे च जटा० ।

प्राञ्जलि त्रि० प्रबद्धोऽञ्जलिर्येन प्रा० व० । १ बद्धाञ्जलिपुटे

प्रा० स० । २ बद्धाञ्जलौ पु० ।

प्राञ्जलिन् त्रि० प्राञ्जलिरस्त्यस्य ब्रीह्या० इनि । बद्धा-

ञ्जलियुक्ते स्त्रियां ङीप् ।

प्राडाहत पु० ६ त० । प्रश्नकारकेणाहते तस्यापत्यमिञ्

प्राडाहति तदपात्ये ततः यूनि फक् तौल्व० न लुक ।
प्राडाहतायन तदीये यून्यपत्ये पुंस्त्री० ।

प्राड्वि(वा)वेक पु० अर्थिप्रत्यर्थिनौ पृच्छति प्रच्छ--क्विप्

प्राट्, तयोर्वाक्यं विरुद्धाविरुद्धतया विवेचयति वक्ति
वा वि + विच--वि + वच--वा संज्ञायां घञ् कर्म० । व्यव-
हारदर्शनाय राजनियुक्ते १ विचारके स्वयं विचारक
२ नृपसहाये च तल्ल्क्षणादिकं वीरमि० उक्तं यथा
“विवादे पृच्छति पश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्वं
प्राग्वदति प्राड्विवाकस्ततः स्मृतः” वृहम्पतिः । व्यासो-
ऽपि “विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः ।
विचारयति येनासौ प्राड्विवेकस्ततः स्मृतः” गौतमेन
तु वृहस्पतिवद्योगार्थः प्राड्विवाकशब्दस्य दर्शितः ।
“प्राड्विवाको वादिप्रतिवादिनौ पृच्छतीति प्राट् ताभ्या-
मुक्तं सभ्यैः सह विविच्य वक्तीतिप्राड्विवाकः” इति
वृहस्पतिना । विचारयतीत्यभिधानाद्विविनक्ति इति विवे-
कशब्दस्य व्युत्पत्तिरुक्ता । विविच्य वक्तीति विवाक इति ।
इति गौतमेन । नारदहारीतौ “यथा शल्यं
भिषक्कायादुद्धरेद्यत्नयुक्तितः । प्राड्विवाकस्तथा शल्य-
मुद्धरेद्व्यवहारतः” इति । शल्यञ्च धर्मस्याधर्ममिश्र-
णम् । यथा च मनुः “बिद्धो धर्मो ह्यधर्मेण सभां
यत्रोपतिष्ठते । शल्यञ्चास्य निकृन्तन्ति विद्धास्तत्र
सभासद” इति । अयञ्च राज्ञा स्वयंव्यवहारदर्शने क्रियमा-
णेऽस्य सहयः “सप्राड्विवाकः” इति स्मरणात् । यदा
तु राजा कार्य्यान्तरव्यग्रतया स्वास्थ्याभावेन वा स्वयं
व्यवहारदर्शनासमर्थस्तदा तत्प्रतिनिधिः । “यदा स्वयं-
न कुर्य्यात् तु नृपतिः कार्य्यदर्शनम् । तदा मियुञ्ज्या-
द्विद्वासं ब्राह्मणं कार्य्यदर्शने । सोऽस्य कार्य्याणि सम्प-
श्येत्सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्याग्र्यामा-
सीनः स्थित एव सः” इति मनुवचनात् । सभ्यग्रहणा-
दमात्यादिनिवृत्तिः त्रिग्रहणात् संख्यान्तरनिवृत्तिः । अस
भ्यानामिति स्मृतिचन्द्रिकाकारः । तत्र दृष्टार्थत्वप्रसङ्गा
दयुक्तमित्युपलक्षणत्वमेव न्याप्यम् । “अपश्यता कार्यवशा
द्व्यवहारान्नृपेण तु । सभ्यैः स ह नियोक्तव्यो ब्रा
ह्मणः सर्व धर्मवित्” इति याज्ञवल्क्यवचनाच्च । “यद
न कुर्य्यान्नृपतिः स्वयं कार्यविनिर्णयम् । तथा तत्र
पृष्ठ ४५०८
नियुञ्जीत ब्राह्मणं शास्त्रपारगम् । दान्तं कुलीनं
मध्यस्थमनुद्वेगकरं स्थिरम् । परत्रभीरुं धर्मिष्ठ-
मुद्युक्तं क्रोधवर्जितम्” इति कात्यायनस्मरणाच्च ।
शास्त्रपारगं बहुशास्त्राभियोगशालिनम् । यथा ह
स एव “एकं शास्त्रमधीयानो न विद्यात् कार्यनिर्णयम् ।
तस्माद्बह्वागमः कार्य्यो विवादेषूत्तमो नृपैः” । एवंविध-
ब्राह्मणालाभे क्षत्रियं वैश्यं वा प्रतिनिदधीत न शूद्रम् ।
तथा च स एव “यत्र विप्रो न विद्वान् स्यात् क्षत्रिथं तत्र
थोजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत्”
मनुः “जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन । यस्य राज्ञस्तु
कुरुते शूद्रो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्रं
पङ्के गौरिव पश्यतः” । व्यासः “द्विजान् विहाय या
पश्येत् कार्य्याणि वृषलैः सह । तस्य प्रक्षुभ्यते राष्ट्रं
बलं कोशश्च नश्यति” । इदं वचनं स्मृतिचन्द्रिकायाममा-
त्यादिस्थानेऽपि शूद्रं वर्जयेत् किमुत धर्मनिर्णय
इत्येवंपरमुक्तम दोषातिशयकीर्त्तनात् । कल्पतर्वा-
दिषु तु प्रकरणाद्व्यवहारदर्शन एव शूद्रवर्जकत्वेन
लिखितम् । अयञ्च प्रतिषेधोऽदृष्टार्थ एव राष्ट्रक्षोभादे-
रदृष्टद्वारकफलस्यैव सङ्कीर्त्तनात् । चण्डेश्वरेण तु
शूद्रस्य धर्मज्ञानेऽपि वेदाविरोधप्रतिसन्धानविरहात्
तत्प्रतिसन्धानस्य च सम्यग्निर्णयोपायत्वात् त्याग इति
युक्तिरप्युक्ता । सा बणिगादिष्वतिप्रसक्तेत्यन्वाचयमात्रम् ।
एते च सर्वे व्यवहारसम्बद्धाः प्रतिषेधा अभिषिक्तक्ष-
त्रियाधिकारिकास्तत्स्थानापन्नान्याधिकारिकाश्च । प्राड्-
विवाकादयस्त्वर्थार्थितया ऋत्विक्स्थानीयाः । सप्राड्-
विवाक इत्यादिना तेषां गुणभावावगमान्नियोगोक्तेश्च ।
“राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः । धर्मासनगतः
पश्येद्व्यवहाराननुल्वणः” इति प्रजापतिवचनात् । अत्र
राजशब्दोऽवयुत्यधिकारणन्यायेन क्षत्रियजातिवचनः ।
अभिषेकसंयुक्त इति वचनात् मृत्यन्तरेऽप्यभिषिक्तक्षत्रियं
प्रक्रम्य तदभिधानाच्चानभिषिक्तक्षत्रियस्य नाधिकारः ।
अतश्च तत्प्रयुक्तशुभाशुभफलयोस्तद्गामितैव । प्राड्-
विवाकादीनान्तु प्राक्प्रदर्शितेभ्यो न्यायेनापि तं यान्त-
मित्यादि वाक्येभ्यो राज्ञोऽनिवारणे परं दृष्टादृष्टदोषभा-
गिता । अनियुक्तानान्तु न तत्रापीत्यादि मिताक्षरादौ
व्यक्तम् । ब्राह्मणो वेत्यनुकल्पत्वाभिप्रायको वाशब्दो न
तुल्यकक्षाधिकारपरः । अनुस्त्वणोऽनुद्धतः” ।

प्राण् पु० प्राणिति प्र + अन--क्विप् पदान्तत्वेऽपि णत्वम् । प्राणे

प्राण पु० प्र + अण--करणे घञ् । १ ब्रह्मणि त्रिका० “अतएव

प्राणः” शा० सू० १ । २ । १२ अतएव तल्लिङ्गात् प्राणशब्देन
ब्रह्मैव तथा हि “सर्वाणि हवा इमानि भूतानि प्राण-
मेवाभिसंविशन्ति प्राणमभ्युज्जिहते” इति छन्दो० उ० ।
सर्वभूतोत्पत्तिप्रलयहेतुरूपलिङ्गात् ब्रह्मण एव प्राणशब्द
वाच्यता १ । १ । १२ सूत्रभाष्ये दृश्यम् । २ पञ्चवृत्तिके
देहस्थे वायौ ३ बोले काव्यजीवने ४ रस ५ अनिले
६ बले च ७ पूरिते त्रि० मेदि० । ८ सूक्ष्मदेहसमष्ट्युप-
हितचैतन्ये पु० वेदान्तसा० । ९ प्राणोपाधिके जीवे
“प्राणीह माता प्राणः पितेति” श्रुतिः । भावे घञ् ।
१० जीवने च नासाग्रवर्त्तिनि प्रागननवति १२ वायौ
“तस्य कर्म नासाग्रतो बहिर्गतिः” श्रीधरस्वामीः । देहस्थः
पञ्चवृत्तिकः वायुश्च प्राणापानसमानोदानव्यानरूपः तत्रार्थे
ब० व० । तेषां स्वरूपादि शा० ति० व्या० योगार्णवे उक्तं यथा
“इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्त्तितम् । आस्यना-
सिकयोर्मध्ये हृन्मध्ये नाभिमध्यगे । प्राणालय इति
प्राहुः पादाङ्गुष्ठेऽपि के चन । अपानयत्यपानोऽयमा-
हारं च मलार्पितम् । शुक्रं मूत्रं तथोत्सर्गमपानस्तेन
मारुतः । इन्द्रगोपप्रतीकाशः सन्ध्याजलदसन्निभः ।
स च मेढ्रे च पायौ च ऊरुवङ्क्षक्षणजानुषु । जङ्घोदरे
कृकाट्यां च नाभिमूले च तिष्ठति । व्यानोध्यानयते
चान्नं सर्वव्याधिप्रकोपनः । महारजनसप्रख्यो हानो-
पादानकारकः । स चाक्षिकर्णयोर्मध्ये कट्योर्वै गुल्फ-
योरपि । प्रोष्ठस्थाने स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् ।
स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः । उद्वेजयति
मर्माणि उदानो नाम मारुतः । विद्युतपाकसवर्णः स्यादु-
च्छूनाशनकारकः । प्यदयोर्हस्तयोश्चापि ततसन्धिषु च
वर्त्तते । पीतं भक्षितमाघ्रातं रक्तपित्तकफानिलात् ।
समं नयति गात्राणि समानो नाम मारुतः । गोक्षीरस
दृशाकारः सर्वदेहे व्यवस्थितः” । स च सांख्यमते
इन्द्रियाणां सामान्यकरणवृत्तिरूपः न तु वायुविकारः
यथोक्तं सां सू० प्र० भा०
“सामान्यकरणवत्तिः प्राणाद्या वायवः पञ्च” सू० ।
“प्राणादिरूपाः पञ्च वायुवत्सञ्चारात् वायवो ये प्रसिद्धास्ते
सामान्था साधारणी करणस्यान्वःकरणत्रयस्य वृत्तिः
परिणामभेदा इत्यर्थः । तदेतत् कारिकयोक्तम् । “स्वा-
लक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । सामान्थकर-
पृष्ठ ४५०९
ष्णवृत्तिः प्राणाद्या वायवः पञ्चः” । इति अत्र कश्चित् प्रा-
णाद्या वायुविशेषा एव ते चान्तःकरणवृत्त्या जीवनयोनि
प्रयत्नरूपया व्याप्रियन्त इति कृत्वा प्राणाद्याअन्तः-
करणवृत्तिरित्यभेदनिर्देश इत्याह । तन्न । “न वायुक्रिये
पृथगुपदेशादिति” वेदान्तसूत्रेणप्राणस्य वायुत्ववायुपरि-
णामत्वयोः स्फुटं प्रतिषेधादत्रापि तदेकवाक्यतौचि-
त्यात् मनोधर्मस्य कामादेः प्राणक्षोभकतया सामा-
नाधिकरण्येनैवौचित्याच्च । वायुप्राणयोः पृथगुपदेश
श्रुतयस्तु “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
स्वं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी” इत्याद्याः ।
अतएव लिङ्गशरीरमध्ये प्राणानामगणनैऽपि न
न्यूनता बुद्धेरेव क्रियाशक्त्या सुत्रात्मप्राणादिनामक-
त्वादिति । अन्तःकरणपरिणामेऽपि वायुतुल्यसञ्चारवि-
शेषाद्वायुदेवताधिष्ठितत्वाच्च वायुव्यवहारोपपत्तिरिति”
प्र० भा० । १२ इन्द्रियस्थाने “सप्त शिरसि प्राणाः प्राणाः
इन्द्रियाणि” ताण्ड्य० ब्रा० १ । १५ । २ “सप्त शीर्षण्याः
प्राणाः मुखं नासिके अक्षिणी इन्द्रियाधिष्टानत्वात्”
भा० । १३ घ्राणे ग्रहशब्दे २७४६ पृ० सू० । १४
देहस्थच्छिद्रे च
तत्र प्राणीत्पत्तिमभिधाय तस्य गौणमुख्यभावः संख्या-
विशेषावधारणम् इन्द्रियसामान्यवृत्तितो भेदादिकञ्च
शा० सू० भा० २ । ४ पादे समर्थितं यथा
“सप्त गतेर्विशेषितत्वाच्च” सू० “उत्पत्तिविषयः श्रुतिविप्र-
तिषेधः प्राणानां परिहृतः, संख्याविषय इदानीं
परिह्रियते । तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति । सम्प्रति तु
कतीतरे प्राणा इति सम्प्रधारयति । श्रुतिविप्रतिपत्ते-
श्चात्र विशयः । क्वचित् सप्त प्राणाः सङ्कीर्त्त्यन्ते “सप्त
प्राणाः प्रभवन्ति तस्मात्” इति । क्वचिदष्टौ प्राणा
ग्रहत्वेन गुणेन सङ्कीर्त्त्यन्ते “अष्टौ ग्रहा अष्टावतिग्रहाः”
इति, क्वचिन्नव “सप्त वै शीर्षण्याः प्राणा द्वाववाञ्ची”
इति । क्वचिद्दश “नव वै पुरुषे प्राणा नाभिर्दशमा”
इति । क्वचिदेकादश “दशेमे पुरुषे प्राणा आत्मैका-
दशः” इति । क्वचिद्द्वादश “सर्वेषां स्पर्शानां त्वगेकायं-
तनम्” इत्यत्र । क्वचित्त्रयोदश “चक्षुश्च द्रष्टव्यञ्च” इत्यत्र ।
एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । किं
तावत् प्राप्तं सप्तैव प्राणा इति । कतः गतेः,
यतस्तावन्तोऽवगम्यन्ते “सप्त प्राणाः प्रभवन्ति तस्मात्”
इत्येवंविधासु श्रुतिषु । विशेषिताश्चैते “सप्त वै शी-
र्षण्याः प्राणाः” इत्यत्रं । ननु “गुहाशया निहिताः
सप्त सप्त” इति वीप्सा श्रूयते, सा सप्तम्योऽतिरिक्तान्
प्राणान् गमयतीति । नैष दोषः, पुरुषभेदाभिप्रायेयं
वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति न तत्त्वभे-
दाभिप्राया सप्त सप्तान्येऽन्ये प्राणा इति । नन्वष्टत्वा-
दिकापि संख्या प्राणषूदाहृता कथं सप्तैव स्युः । सत्य-
मुदाहृता विरोधात्त्वन्यतमा संख्याध्यवसातव्या, तत्र
स्तोककल्पनोपरोधात् सप्तसंख्याध्यवसानं वृत्तिभेदापेक्षञ्च
सङ्ख्यान्तरश्रवणमिति गम्यते । अत्रोच्यते” भा०
“हस्तादयस्तु स्थितेऽतो नैवम्” सू० “हस्तादयस्त्वपरे सप्त-
भ्योऽतिरिक्ताः प्राणाः श्रूयन्ते, “हस्तो वै ग्रहः स
कर्मणातिग्र्हेण गृहीतः, हस्ताभ्यां हि कर्म करोति”
इत्येवमाद्यासु श्रुतिषु । एवं स्थिते च (अष्टादिसंख्यत्वे)
सप्तत्वमन्तर्भावाच्छक्यते सम्भावयितुम् । हीनाधिक-
सङ्ख्याविप्रतिपत्तौ ह्यधिका सङ्ख्या संग्राह्या भवति,
तस्यां हि हीनान्तर्भवति, न तु हीनायामधिका ।
अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात् सप्तैव प्राणाः
स्युरिति । उत्तरसङ्ख्यानुरोधात्त्वेकादशैव ते प्राणाः
स्युः । तथा चोदाहृता श्रुतिः “दशेमे पुरुषे प्राणा
आत्मैकादशः” इति । आत्मशब्देन चात्रान्तःकरणं
परिगृह्यते करणाधिकारात् । ननु एकादशत्वादप्य-
धिके द्वादशत्वयोदशत्वे उदाहृते, न त्वेकादशभ्यः
कार्यजातेभ्योऽधिकं कार्यजातमस्ति यदर्थम् अधिकं
करणं कल्प्येत । शब्दस्पर्शरूपरसगन्धविषयाः पञ्च
बुद्धिभेदास्तदर्थानि पञ्च बुद्धिन्द्रियाणि, वचनादान-
विहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च
कर्मेन्द्रियाणि, सर्वार्थविवयं त्रैकाल्यवृत्ति मन एकमनेक-
वृत्तिकं तदेव वृत्तिमेदात् क्वचिद्भिन्नवद्व्यपदिश्यते “मनो
बुद्धिरहङ्कारश्चित्तञ्च” इति । तथा च श्रुतिः कामाद्या
नानाविधा वृत्तीरनुक्रम्याह “एतत् सर्वं मन एव”
इति । अपि च सप्तिव शीर्षण्यान् प्राणानभिमन्यमा-
नस्य चत्वार एव प्राणा अभिमताः स्युः स्थानभेदा-
द्ध्येते चत्वारः सन्तः सप्त गण्यन्ते, “द्वे श्रोत्रे द्वे
चत्तुषी द्वे नासिके एका वाक्” इति । न च तावतामेव
वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं हस्तादि-
वृत्तीनामत्यन्तविजातीयत्वात् । तथा “नव वै पुरुषे
प्राणा नाभिर्दशभी” इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव
दश प्राणा उच्यन्ते, न प्राणतत्त्वभेदाभिप्रायेण “ना-
पृष्ठ ४५१०
भिर्दशमी” इति वचनात् । न हि नाभिर्नाम कश्चित्
प्राणः प्रसिद्धोऽस्ति, मुख्यस्य तु प्राणस्य भवति, नाभि-
रपि एकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते ।
क्वचिदुपासनार्थं कतिचित् प्राणा गण्यन्ते, क्वचित् प्रद-
र्शनार्थम् । तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व
किं परमाम्नानमिति विवेक्तव्यम् । कार्यजातवशात्त्वेका-
दशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् । इयमं-
परा सूत्रद्वययोजना । सप्तैव प्राणाः स्युः यतः सप्ता-
नामेव गतिः श्रूयते “तमुत्क्रामन्तं प्राणोऽनूत्क्रागति
प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यत्र ।
ननु सर्वशब्दोऽप्यत्र पठ्यते कथं सप्तानामेव गतिः प्रति-
ज्ञायत इति, विशेषितत्वादित्याह । सप्तैव हि प्राणा-
श्चक्षुरादयः त्वक्पर्य्यन्ताः विशेषिताः इह प्रकृताः, “स
यत्रैष चाक्षुषः पुरुषः पराङ् पर्य्यावर्त्तत्रे अथारूपज्ञो
भवति एकीभवति न पश्यतीत्याहुरित्येवमादिनानुक्रम-
णेन । प्रकृतगामी च सर्वशब्दो भवति । यथा सर्वे
त्राह्मणा भोजिता इति ये निमन्त्रिताः प्राकृता ब्राह्म-
णास्त एव सर्वशब्देनोच्यन्ते नान्ये, एवमिहापि ये
प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्ये इति ।
नन्वत्र विज्ञानमष्टममनुक्रान्तं कथं सप्तानामेवानुक्रमणं
नैष दोषः । मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदेऽपि सप्त-
त्वोपपत्तेः । तस्मात् सप्तैवप्राणा इत्येव प्राप्ते व्रूमः ।
हस्तादयस्त्वपरे यप्तभ्योऽतिरिक्ताः प्राणाः प्रतीयन्ते
हस्तो वै ग्रहः” इत्यादिश्रुतिषु । ग्रहत्बञ्च बन्धन-
भावो गृह्यते बध्यते क्षेत्रज्ञोऽनेन ग्रहसंज्ञकेन बन्धने-
नेति । स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते
शरीरान्तरेष्वपि तुल्यत्वाद्बन्धनस्य । तस्माच्छरीरान्तरसञ्चा-
रीदं ग्रहसंज्ञकं बन्धनमित्यर्थादुक्तं भवति । तथा च
स्मृतिः “पुर्य्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते ।
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च” इति ।
प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति ।
आथर्वणे च विषयेन्द्रियानुक्रमणे “चक्षुश्च द्रष्टव्यञ्च”
इत्यत्र तुल्यबद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति
“हस्तौ चादातव्यञ्च उपस्थश्चानन्दयितव्यञ्च पायुश्च
विसर्जयितव्यञ्च पादौ च गन्तव्यञ्च” इति । तथा “दशेमे
पुरुषे प्राणा आत्मैकादशः ते यदास्याच्छरीरान्मर्त्यादुत्-
क्रामन्त्यथ रोदयन्ति” इत्येकादशानां प्राणानामुत्क्रान्तिं
दर्शयति । सर्वशब्दोऽपि च प्राणशब्दे न सम्बध्यमानो-
ऽशेषान् प्राणानभिदधानी न प्रकरणवशेन सप्तस्वेव
व्यवस्थापयितुं शक्यते प्रकरणाच्छब्दस्य च बलीयस्त्वात् ।
सर्वे ब्राह्मणा भोजिता इत्यत्रापि सर्वेषामेव अवनि-
वर्त्तिनां ब्राह्मणानां ग्रहणं न्याय्यं सर्वशब्दसामर्थ्यात् ।
सर्वभोजनासम्भवात् तु तत्र निमन्त्रितमात्रविषया सर्व-
शब्दस्य वृत्तिराश्रिता, इह तु न किञ्चित् सर्वशब्दार्थ-
सङ्कोचकारणमस्ति, तस्मात् सर्वशब्देनात्राशेषाणां प्रा-
णानां परिग्रहप्रदर्शनार्थं सप्तानामनुक्रमणमित्यनवद्यम् ।
तस्मादेकादशैव प्राणाः शब्दतः कार्य्यतश्चेति सिद्धम्” भा०
“अणवश्च” सू० “अधुना प्राणानामेव स्वभावान्तरमभ्युच्चि-
नोति । अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः ।
अणुत्वञ्चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्न-
देहव्यापिकार्य्यानुपपत्तिप्रसङ्गात् । सूक्ष्मा एते प्राणाः
स्थूलाश्चेत् स्युः मरणकाले शरीरान्निर्गच्छन्तो बिलादहि-
रिवोपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः । परिच्छिन्ना-
श्चैते प्राणाः सर्वगताश्चेत् स्युः उत्क्रान्तिगत्यागतिश्रुति-
व्याकोपः स्यात्, तद्गुणसारत्वञ्च जीवस्य न सिध्येत् ।
सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत्, न,
वृत्तिमात्रस्य करणत्वोपपत्तेः । यदेव तूपलब्धिसाधनं
वृत्तिः अन्यद्वा तस्यैव नः करणत्वं तेन संज्ञामात्रे विवाद
इति करणानां व्यापित्वकल्पना निरर्थिका । तस्मात् तूक्ष्माः
परिच्छिन्नाश्चैते प्राणा इत्यध्यवस्यामः” भा० “श्रेष्ठश्च” सू०
“मुख्यश्च प्राणः इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति ।
नन्विशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम्
“एतस्माज्जायते प्राणो ममः सर्वेन्द्रियाणि च” इति,
मेन्द्रियमनोव्यतिरेकेणापि प्राणस्योत्पत्तिश्रवणात्, “स प्राण-
मसृजत” इत्यादिश्रबणेभ्यश्च । किमर्थः पुनरतिदेशः,
अधिकाशङ्काकारणार्थः । नासदासीये हि ब्रह्मप्रधाने
सूक्ते मन्त्रवर्णो भवति, “न मृत्युरासीदसृतं न ताह न
रात्र्या अह्न आसीत् प्रकेतः आनीदवातं स्वधया तदेकं
तस्माद्धान्यन्न परं किञ्च नाम” इति । आनीदिति प्राण-
कर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति ।
तस्मात् अजः प्राण इति जायते कस्यचिन्मतिः, तामति-
देशेनापनुदति । आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राण-
सद्भावं सूचयति । अवातमिति विशेषणात् “अप्राखो
ह्यमना शुभ्रः” इति च मूलप्रकृतेः प्राणादिसमस्तविशेष-
रहितत्वस्य दर्शितत्वात् । तस्मात् कारणसद्भावप्रदर्शनार्थ
एवायमानीच्छब्द इति । श्रेष्ठ इति च मुख्यं प्राणममि-
पृष्ठ ४५११
दधाति, “प्राणो वाव ज्येष्ठः श्रेष्ठश्च” इति श्रुतिनिर्दे-
शात् भा० “ज्येष्ठश्च प्राणः” सू० “शुक्रनिषेककालादारभ्य
तस्य वृत्तिलाभात्, न चेत् तस्य तदानीं वृत्तिलाभः स्यात्
योनौ निषिक्तं शुक्रं पूयेत न सम्भवेद्वा, श्रोत्रादीनान्तु
कर्णशष्कुल्यादिस्थानबिभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठ-
त्वम्” भा० “श्रेष्ठश्च प्राणः गुणाधिक्यात्” सू० “न वै
शक्ष्यामस्त्वदृते जीवितुम्” इति श्रुतेश्च भा० । “न वायुक्रिये
पृथगुपदेशात्” सू० “स पुनर्मुख्यः प्राणः किंस्वरूप
इतीदानीं जिज्ञास्यते । तत्र प्राप्तं तावत् श्रुतेर्वायुः प्राण
इति, एवं हि श्रूयते, “यः प्राणः स एष वायुः पञ्च-
विधः प्राणोऽपानो व्यान उदानः समानः” इति । अथ
वा तन्त्रान्तरीयाभिप्रायात् समस्तकरण वृत्तिः प्राण इति
प्राप्तं, एवं हि तन्त्रान्तरीया आचक्षते । “सामान्या
करणवृत्तिः प्राणाद्या वायवः पञ्च” इति । अत्रोच्यते ।
न वायुः प्राणः नापि करणव्यापारः कुतः पृथगुप-
देशात् । वायोस्तावत् प्राणस्य पृथगुपदेशो भवति,
“प्राण एव ब्रह्मणश्चतुर्थः पादः, स वाय्ना ज्योतिषा
भाति च तपति च” इति । न हि वायुरेय सन् वायोः
पृथगुपदिश्यते तथा करणवृत्तेरपि पृथगुपदेशो भवति,
यागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानु-
क्रमणात् । न हि करणव्यापार एव सन् करणेभ्यः
पृथगुपदिश्येत । तथा “एतस्माज्जायते प्राणो सनः सर्वे
न्द्रियाणि च । स्वं वायुः” इत्येवमाहयोऽपि वायोः
करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्त्तव्याः । न च
समस्तानां करणनामेका वृत्तिः सम्भवति, प्रत्येकमेकैक-
वृत्तित्वात्, समुदायस्य चाकारकत्वात् । ननु पञ्जरवा-
लनन्यायेन एतद्भविष्यति यथैकपञ्जरवर्त्तिना एकादश
पक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूयैकं
पञ्जरं चालयन्ति एवमेकशरीरवर्त्तिनः एकादश प्राणाः
प्रत्येकं नियतवृत्तयः सन्तः सम्भूयैका प्राणाख्यां वृत्तिं
प्रतिलप्स्यन्ते इति । नेत्युच्यते, युक्तम् तत्र प्रत्येक-
वर्त्तिभिरबान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः
पक्षिणः सम्भूयैकं पञ्जरं चालयेयुरिति तथा दृष्टत्वात् ।
इह तु श्रवणाद्यवान्तरव्यापारोषेताः प्राणा न सम्मूय
प्राण्युरिति युक्तं, प्रमाणाभावात् अत्यन्तविजातीयत्वाच्च
श्रवणादिभ्यः प्राणनस्य । तथा प्राणस्य श्रेष्ठत्वाद्युद्घो-
षणं गुणभावोपगमश्च तं प्रति वागादीनां न करणवृत्ति-
मात्रे प्राणेऽवकल्पते, तस्मादन्यो वायुक्रियाभ्यां प्राणाः”
कथं तर्हीयं श्रुतिः, “यः प्राणः स वायुः” इति
उच्यते । वायुरेवायमध्यात्ममपन्नः पञ्चव्यूहो विशेषा-
त्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापि
वायुमात्रं, अतश्चोमे अपि भेदाभेदश्रुती न विरुध्येते ।
स्यादेतत्, प्राणोऽपि तर्हि जीववदस्मिन् शरीरे स्वातन्त्र्यं
प्राप्नोति, श्रेष्ठत्वात् गुणभावोपगमाच्च तं प्रति वागादां-
नामिन्द्रियाणाम् । तथा हि अनेकविधा बिभूतिः प्रा-
णस्य श्राव्यते “सुप्तेषु वागादिषु प्राण एकैको
जाजर्त्ति प्राण एकैको मृत्युनाऽनाप्तः प्राणः संवर्गो वागा-
दीन् संवृङुक्ते प्राण इतरान् प्राणान् रक्षति मातेव
पुत्रान्” इति । तस्मात् प्राणस्यापि जीववत् स्वातन्त्र्य”
प्रसङ्गः, तं परिहरति” भा० “चक्षुरादिवत्तु तत्सह-
शिष्ट्यादिभ्यः” सू० “तुशब्दः प्राणस्य स्वातन्त्र्य व्याव-
र्त्तयति । यथा चक्षुरादीनि राजप्रकृतिवत् जीवस्य
कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि
तथा मुख्योऽपि प्राणो राजमन्त्रिवत् जीवस्य सर्वार्थत्वेन
उपकरणभूतो न स्वतन्त्रः । कुतः तत्सहशिष्ट्यःदिभ्यः
तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते, प्राणसंवादादिषु
समानधर्माणाञ्च सह शासनं युक्तं वृहद्रथन्तरादिवत् ।
आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वातन्त्र्यनि-
राकरणहेतून् दर्शयति । स्यादेतत् यदि चक्षुरादिवत्
प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत विषयान्तरं
रूपादिवत् तस्य प्रसज्येत रूपालोचनाद्याभिर्वृत्तिभिर्यथा
चक्षुरादीनां जीवं प्रति करणभावो भवति । अपि
चैकादशैव कार्यजातानि रूपालोचनादीनि परिगणि-
तानि यदर्थमेकादश प्राणाः संगृहीताः न तु द्वादशम-
षरं कार्यजातमवगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञा-
यत इति । अत उत्तरं पठति” भा० “अकरणत्वाच्च
न दोषस्तथा हि दर्शयति” सू० “न तावद्विषयान्तरप्र-
सङ्गो दोषः अकरणत्वात् प्राणस्य । न हि चक्षुरादि-
वत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते ।
न चास्यैतावता कार्य्याभाव एव । कस्मात्, तथा हि
श्रुतिः प्राणान्तरेष्वसम्भाव्यमानं सुख्यप्राणस्य वैशे-
षिक कायं दर्शयति । प्राणसंवादादिषु “अथ ह प्राणा
अहं श्रेयसि व्यूदिरे” इत्युपक्रम्य “यस्मिन् व उत्क्रान्ते
इदं शरीरं पापिष्ठतरमिव दृश्यते स वा श्रेष्ठः” इति
चोप्रन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं
यथापूर्वं जीवनं मुख्यप्राणस्य वैशेषिकं कार्य्यं दर्शयित्वा
पृष्ठ ४५१२
प्राणोच्चिक्रमिषायां वागादिशेथिल्यापत्तिं शरीरपात-
प्रसङ्गञ्च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रिय-
स्थितिं दर्शयति । “तान् वरिष्ठः प्राणः उवाच मा
मोहमापद्यथाहमेवैतत् पञ्चधात्मानं प्रविभज्यैतद्वाणमव-
ष्टभ्य विधारयामि” इति च । एतमेवार्थं श्रुतिराह ।
“प्राणेन रक्षन्नवरं कुलाये” इति च । सुप्तेषु चक्षुरादिषु
प्राणनिमित्तां शरीररक्षां दर्शयति । “यस्मात् कस्मा-
च्चाङ्गात् प्राण उत्क्रामति तदेव उच्छुष्यति तेन यदश्नाति
यत् पिवति तेनेतरान् प्राणानवति” इति च प्राणनि-
मित्तां शरीरेन्द्रियपुष्टिं दर्शयति । “कस्मिन्नहसुत्क्रान्ते
उत्क्रान्तो भविष्यामि? कस्मिन्? वा प्रतिष्ठितेऽहं
प्रतिष्ठास्यामीति स प्राणमसृजत” इति प्राणनिमित्ते
एव जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति” भा० । “पञ्चवृत्तिर्मनो
बद्व्यपदिश्यते” सू० । “इतश्चास्ति मुख्यप्राणस्य वैशेषिकं
कार्यं यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु “प्रा-
णोऽपानो व्यान उदानः समानः” इति । वृत्तिभेदश्चायं
कार्य्यभेदापेक्षः । प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा,
अपानोऽवाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः सन्धौ
वर्त्तमानो वीर्य्यवत्कर्महेतुः, उदानः ऊर्ध्ववृत्तिरुत्-
क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसा-
न्नयति इति । एवं पञ्चवृत्तिः प्राणः मनोवत् यथा
मनसः पञ्च वृत्तयः एवं प्राणस्यापीत्यर्थः । श्रोत्रादिनि-
मित्ताः शब्दादिविषयाः मनसः पञ्च वृत्तयः प्रसिद्धाः ।
न तु कामः सङ्कल्प इत्याद्याः परिपठिताः परिगृह्ये-
रन्, पञ्चसङ्ख्यातिरेकात् । नन्वत्रापि श्रोत्रादिनिर-
पेक्षा भूतभविष्यदादिविषयाऽपरा मनसो वृत्तिरस्तीति
समानः पञ्चसङ्ख्यातिरेकः । एवं तर्हि परमतमप्रति-
षिद्धमनुमतं भवतीति न्यायादिहापि योगशास्त्रप्रसिद्धा
मनसः पञ्च वृत्तयः परिगृह्यन्ते प्रमाणविपर्य्ययविकल्प-
निद्रास्मृतयो नाम । बहुवृत्तित्वमात्रेण वा मनः प्राणस्य
निदर्शनमिति द्रष्टव्यम् । जीवोपकरणत्वमपि प्राणस्य
पञ्चवृत्तित्वान्मनोवदिति योजयितव्यम्” भा० । “अणुश्च” सू० ।
“अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः इतरप्राणवत् ।
अणुत्वञ्चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, पञ्च-
भिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् । सूक्ष्मः, प्राण
उत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात्, परिच्छिन्न-
श्रोत्क्रान्तिनत्यागतिश्रुतिभ्यः । ननु विभुत्वमपि प्राणस्य
समाम्नायते, “समः प्लषिणा समो मशकेन समो नागेन
सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण” इत्येवमा दिषु
प्रदेशेषु । तदुच्यते, आधिदैविकेन समष्टिरूपेण
हैरण्यगर्भेण प्राणात्मना एतद्विभुत्वमाम्नायते नाध्या-
त्मिकेन । अपि च समः प्लुषिणेत्यादिना साम्यवचनेन
प्रतिप्राणिवर्त्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्मा-
ददोषः” भा० । “ज्योतिराद्यधिष्ठानन्तु तदामननात्” सू० ।
“ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै
कार्य्याय प्रभवन्ति आहोस्विद्देवताधिष्ठानाः प्रभवन्तीति
विचार्य्यते । तत्र प्राप्तं तावद्यथा, स्वकार्य्यशक्तियोगात्
स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति । अपि च देवता-
धिष्ठितानां प्राणानां प्रवृत्तावभ्यु पगम्यमानाया तासा-
मेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्य
भोक्तृत्वं प्रलीयेत, अतः स्वमहिम्नैवैषां प्रवृत्तिरिति,
एवं प्राप्ते इदमुच्यते । ज्योतिराद्यधिष्ठानन्त्विति ।
तुशब्देन पूर्वपक्षो व्यावर्त्त्यते । ज्योतिरादिभिरग्न्या-
द्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजात
स्वस्वकार्य्येषु प्रवर्तत इति प्रतिजानीते । हेतुञ्च व्याचष्टे
तदामननादिति । तथा ह्यामनन्ति “अग्निर्वाग्भूत्वा मुखं
प्राविशदित्यादि” । अग्नेश्चायं वाग्भावो मुखप्रवेशश्च
देवतात्मनोऽधिष्ठातृत्वमङ्गीकृत्योच्यते । नहि देवता-
सम्बन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषः
सम्बन्धो दृश्यते । तथा “वायुः प्राणो भूत्वा नासिके
प्राबिशत्” इत्येवमाद्यपि योजयितव्यम् । तथान्यात्रापि
“वानेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति
च तपति च” इत्येवमादिना वागादीनामग्न्यादिज्योति-
ष्ट्ववचनेनैतभेवार्थं द्रढ़यति । “स वै वाचमेव प्रथममत्य-
वहत् सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्” इति च ।
एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थ
द्योतयति । सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्य-
ग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति । स्मृतावपि
“वागध्यात्ममिति प्राहुः ब्राह्मणास्तत्त्वदर्शिनः । वक्तव्य-
मधिभूतन्तु वह्निस्तत्राधिदैवतम्” इत्यादिना वागादी-
नामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम् । यदुक्तं
स्वकार्य्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्त्ते-
रन्निति तदयुक्तम् अशक्तानामपि शकटादीनामानडुदा-
द्यधिष्ठितानां प्रवृत्तिदर्शनात् । उपयथोपपत्तौ
चागमाहेवताधिष्ठितत्वमेव निश्चीयते । यदप्युक्तं देवताना-
मेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्य जीवस्येति
पृष्ठ ४५१३
तत् परिहियते” भा० । “प्राणवता शब्दात्” सू० । “सतीष्वपि
प्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्यकरणसङ्घात-
स्यामिना शारीरेनैवैषां प्राणानां सम्बन्धः श्रुतेरवगम्यते ।
तथा हि श्रुतिः “अथ यत्रैतदाकाशमनुप्रविषण्णं चक्षुः
स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्रा-
णीति स आत्मा गन्धाय घ्राणम्” इत्येवंजातीयका
शारीरेणैव प्राणानां सम्बन्धं श्रावयति । अपि चानेक-
त्वात् प्रतिकरणमधिष्ठात्रीणो देवतानां न भोक्तृत्व-
मेकस्मिन् शरीरेऽवकल्पते । एको ह्ययमस्मिन् शरीरे
शारीरो भोक्ता प्रतिसन्धानादिसम्भवादवगम्यते” भा० । “तस्य
च नित्यत्वात्” सू० । “तस्य च शारीरस्यास्मिन् शरीरे
भोक्तृत्वेन नित्यत्वं पुण्यपापोपलेपसम्भवात् सुस्वदुः-
खोपभोगसम्भवाच्च न देवतानाम् । ता हि परस्मिन्नै-
श्वर्य्ये पदेऽवतिष्ठमाना न हीमेऽस्मिंच्छरीरे भोक्तृत्वं
प्रतिलब्धुमर्हन्ति । श्रुतिश्च भवति “पुण्यमेवामुं गच्छति
न ह वै देवान् पापं गच्छति इति शारीरेणैव च नित्यः
प्राणानां सम्बन्धः” भा० । “उतक्रान्त्यादिषु तदनुवृत्ति-
दर्शनात्” सू० । “तमुत्क्रामन्तं प्राणोऽनुत्क्रामति प्राणम-
मूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यादिश्रु-
तिभ्यः । तस्मात् सतीष्वपि करणानां नियन्त्रीषु
देवतासु न शारीरम्य भोक्तृत्वमपगच्छति, करणपक्षस्यैव
हि देवता न भोक्तृत्वपक्षस्येति” भा० । “त इन्द्रियाणि
तद्व्यपदेशादन्यत्र श्रेष्ठात्” सू० । “मुख्यश्चैकः इतरे
चैकादश प्राणा अनुक्रान्ताः, तत्रेदमपरं सन्दि-
ह्यते किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा
आहोस्वित् तत्त्वान्तराणीति । किन्तावत् प्राप्तं मुख्य-
स्यैवेतरे वृत्तिभेदा इति । कुतः श्रुतेः । तथाहि
श्रुतिर्मुख्यमितरांश्च प्राणान् सन्निधाप्य मुख्यात्मतामित-
रषां ख्यापयति “हन्तास्यैव सर्वे रूपमसामेति तत्र
तस्यैव सर्वे रूपमभवन्” इति । प्राणैकशब्दत्वाच्चैक-
त्वाध्यवसायः, इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य
प्रसज्येत एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वमा-
मद्येत । तस्माद् यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च
वृत्तयः एवं वागाद्या अप्येकादशेत्येवं प्राप्ते ब्रूमः ।
तत्त्वान्तराण्येव प्राणाद्वागादीनीति कुतः व्यपदेशभेदात् ।
कोऽयं व्यपदेशभेदः, ते प्रकृताः, प्राणाः श्रेष्ठं वर्ज-
यित्वाऽवशिष्टा एकादशेन्द्रियाणीव्युच्यन्ते श्वतावेवं
अपदेशभेददर्शनात् । “एतस्माज्जायते प्राणो मनः सर्वे-
न्द्रियाणि च” इत्यैवं जातीयकेषु श्रुतिप्रदेशैषु पृथक्
प्राणो व्यपदिश्यते पृथक् चेन्द्रियाणि । ननु मनसोऽप्येवं
वर्जनम् इन्द्रियत्वेन प्राणवत् स्यात् “मनः सर्वेन्द्रियाणि
च” इति पृथक् व्यपदेशभेददर्शनात् । सत्यमेतत् स्मृतौ
तु एकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत्
संगृह्यते, प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्ध-
मस्ति । व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते । तत्त्वै-
कत्वे तु स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते
न लभते च इति विप्रतिषिद्धं, तस्मात्तत्त्वान्तरभूता
मुख्यादितरे । कुतश्च तत्त्वान्तरमूता मुख्यादितरे” भा० ।
“भेदश्रुतेः” सू० । “भेदेन च वागादिभ्यः प्राणः सर्वत्र श्रूयते
“ते ह वाचमूचुः” इत्युपक्रम्य वागादीनसुरपाप्मविध्व-
स्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम्, “अथ हेममासन्यं
प्राणमूचुः” इत्यसुरविध्वंसिभ्यो मुख्यस्य प्राणस्य
पृथगुपक्रमात्, तथा “मनो वाचं प्राणं तान्यात्मनेऽकुरत”
इत्येवमाद्या अपि भेदश्रुतय उदाहर्त्तव्याः । तस्मादपि
तत्त्वान्तरभूता मुख्यादितरे । कुतश्च तत्त्वान्तरभूता
मुख्यादितरे” भा० । “वैलक्षण्याच्च” सू० । “वैलक्षण्यञ्च भवति
मुख्यप्राणस्येतरेषाञ्च सुप्तेषु वागादिषु मुख्य एको
जागर्त्ति “स एव चैको मृत्युनाऽनाप्तः । आप्तास्त्वितरे”
तस्यैव प्राणस्यावस्थित्युत्क्रान्तिभ्यां देहधारणपातनहे
तुत्व नेन्द्रियाणां विषयालोचनहेतुत्वञ्चेन्द्रियाणाम् । न
प्राणस्येत्येवंजातीयको भूयान् लक्षणभेदः प्राणेन्द्रिया-
णाम् । तस्मादप्येषां तत्त्वान्तरभावसिद्धिः । यदुक्तं “तत्र
तस्यैव सर्वे रूपमभवन्” इतिश्रुतेः प्राणएवेन्द्रियाणीति
तदयुक्तम् तत्रापि पौर्वपर्य्यालोचनाद्भेदप्रतीतेः । तथा
हि “वदिष्याम्येवाहमिति वाग्दध्रे” इति वागादीनी-
न्द्रियाण्यनुक्रम्य “तानि मृत्युः श्रमो भूत्वोपयेमे तस्मा-
च्छ्राम्यत्येव वाक्” इति च श्रमरूपेण मृत्युना ग्रस्तत्वं
वागादीनामभिधाय “अथेममेव नाप्नोत् योऽयं मध्यमः
प्राणः” इति पृथक्प्राणं मृत्युनानभिभूतमनुक्रामति ।
“अयं वैनः श्रेष्ठः” इति च श्रेष्ठतामस्यावधारयति ।
तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं
तद्रूपभ्रवनं वागादीनामिति मन्तव्यं न तु तादात्म्यम् ।
अत एव प्राणशब्दस्येन्द्रियेषु, लाक्षणिकत्वसिद्धिः । तथा
च श्रुतिः “तत्र तस्यैव सर्वे रूपमभवन तस्मादेते एते
नाख्यायन्ते प्राणाः” इति मुख्यप्राणविषयस्यैव प्राण-
शब्दस्य इन्द्रियेष् लाक्षणिकीं वृत्तिं दर्शयति । तस्मा-
पृष्ठ ४५१४
त्तत्त्वान्तराणि प्राणाद्वागादीन्द्रियाणीति” शाङ्करभा० ।
अतएव वेदान्तसारादौ आकाशादिपञ्चतन्मात्राणां
समस्तानां रजोऽंशेभ्यः पञ्चवृत्तिकप्राणस्योत्पत्तिमङ्गीचकार
तेनापि इन्द्रियेभ्यस्तस्य पृथक्त्वं गम्यते । १५ देहस्थे
दशवृत्तिके वायुभेदे प्राणकर्मन्शब्दे दृश्यम् । १६ धातुः
पुत्रभेदे पु० “भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुता
बुभौ । प्राणश्चैव मृकण्डुश्च” मार्क० ५२ अ० । वैवस्वतमन्वन्तरे
१७ सप्तर्षिभेदे पु० हरिवं० ३ अ० । धराख्यवसौः १८ पुत्रभेदे
पु० हरिवं० ६ अ० । १९ विष्णौ पु० “ईशानः प्राणदः प्राणः”
विष्णुस० । ‘प्राणस्य प्राणः’ इति श्रुतेस्तस्य तथात्वम् ।
प्राणयति प्राणः “अच्युतः प्राचितः प्राणः” विष्णुस० ।
“सूतात्मना प्राणयतिचेष्टयति प्रजाः प्राणः” भा० व्यु-
त्पत्तिद्वययोगात् नामद्वयम् ।
प्राणस्य जलेनैवोपचयस्य करणात् जलमयत्वम् यथोक्तं
छा० उ० “आपः पीतास्त्रेधा बिधीयन्ते तासां यःस्थ-
विष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं
योऽणिष्ठः सः प्राणः” इत्युक्त्वा “अन्नमयं हि सौम्य!
मन आपोमयः प्राणस्तेजोमयी वाक्” इति च संक्षि-
म्योक्त्वा तत्समर्थितं यथा “यथा दध्नः सौम्य! मथ्यमानस्य
योऽणि मा ऊर्द्ध्वः समुदीषति तत्सर्पिर्भवति”
इतिदृष्टान्तीकृत्य “एवमेव खलु अपां सौम्य! पीयमानानां
योऽणिमा स ऊर्द्ध्वः समुदीषति स प्राणो भवतीति”
छा० उ० । “यथायं दृष्टान्तः एवमेव खलु सौम्यान्नादेरसस्य
भुज्यमानस्यौदर्य्येणाग्निना वायुसहितेन खजेनेव मथ्य-
मानस्य योऽणिमा स ऊर्द्ध्वः समुदीषति तन्मनो भवति
मनोऽवयवैः सह सम्भूय उपत्तिनोति तद्वत् तथाऽपा
सौम्य! पीयमानानां योऽणिमा स प्राण इत्यादि”
भाष्यम् । २० मूलाधारस्थे वायौ च “मूलाधारोद्गतः
प्राणः” शा० ति० ।

प्राणक पु० प्राणेन कायति कै--क । १ जीवमात्रे २ जीवकवृक्षे । स्वार्थे क । ३ बोले च मेदि० ।

प्राणकर त्रि० प्राणं बलं करोति कृ--ट । बलकारके

“सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम् । घृतमु-
ष्णोदकं चैव सद्यः प्राणकराणि षट्” चाणक्यः ।

प्राणकर्मन् न० ६ त० । प्राणानां दशानां कर्मभेदे तानि च

कर्माणि “सर्वाणीन्द्रियकर्माणि, प्राणकर्माणि चापरे”
गीता भाष्य टी० आनन्दगिरिणोक्तानि यथा
“प्राणानाञ्च दशानां कर्माणि, प्राणस्य बहिर्गमनम्
अपानस्याधोगमनं व्यानस्य व्यायामाकुञ्चनप्रसरणादीनि
समानस्याशितपीतादीनां समुन्नयनं उदानस्योर्द्ध्वनयनम्
“उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः । कृकरः
क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे । न जहाति
मृतञ्चापि सर्वव्यापी धनञ्जयः” इत्येवं रूपाणि ।

प्राणग्रह पु० “प्राणो वै ग्रहः” तैत्ति० उक्ते घ्राणाख्ये

इन्द्रिये ग्रहशब्दे २७४६ पृ० दृश्यम् । तत्र प्राणशब्देन
ध्रासमुच्यते इति भाष्ये समर्थितम् ।

प्राणजीवन त्रि० प्राणं जीवयति जीवि--ल्यु । १ प्राणस्थापके

२ प्राणपोषके विष्णौ पु० “प्राणभृत्प्राणजीवनः” विष्णुस०
“प्राणयति प्राणिनो जीवान् जीवयति प्राणजीवनः
“न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवेत यस्मिन्नेतावुपाश्रितौ” मन्त्रवर्ण्णान्” भा० ।

प्राणतज पु० कल्पप्रभवे वैमानिकभेदे हेमच० । प्राणथज

इत्येव साधुःपाठः ।

प्राणथ पु० प्र + अन--अथ । १ प्राणशब्दार्थे २ बलवति च उज्ज्वल० ।

प्राणद न० प्राणं प्राणनं बलं वा ददाति पुष्णाति द्यति वा

दा दो--वा--क । १ जले तस्य यथा प्राणोपकारकत्वं तथा
प्राणशब्दे छा० उ० वाक्ये दर्शितम् । २ रक्ते च हेमच० ।
३ जीवकवृक्षे पु० राजनि० ४ हरीतक्याम् ५ ऋद्धिवृक्षे च
स्त्री राजनि० । ६ प्राणदातृमात्रे त्रि० “किमाश्चर्य्यं
क्षारदेशे प्राणदा यमदूतिका” तद्भटः । ७ विष्णौ पु० तस्य
प्रलये सर्वप्राणच्छेदकत्वात्तद्दातृत्वमिति नामद्वयम् प्राण-
शब्दे उदा० दृश्यम् ।

प्राणदा स्त्री चक्रदत्तोक्ते गुटिकाभेदे “सनागरारुष्करवृद्धि-

दारकं गुड़ेन या मोदकमत्युदारकम् । अशेषदुर्नामक-
रोगदारकं करोति वृद्धं सहसैव दारकम् । चूर्णे चूर्ण-
समो ज्ञेयो मोदके द्विगुणो गुड़ः । त्रिपलं शृङ्गवेरस्य
चतुष्कं मरिचस्य च । पिप्पल्याः कुड़र्बार्द्धञ्च चव्यायाः
पलमेव च । तालीशपत्रस्य पलं पलार्द्धं केसरस्य च ।
द्वे पले पिप्पलीमूलादर्द्धकर्षञ्च पत्रकात् । सूक्ष्मैला-
कर्षमेकन्तु कर्षं त्वचमृणासयोः । गुड़ात् पलानि तु
त्रिंशच्चूर्णमेकत्र कारयेत् । अक्षप्रामाखा गुड़िका प्राण-
देति च सा स्मृता” ।

प्राणन न० प्र + अन--भावे ल्युट् । १ जीवने जटा० । करणे ल्युट् । २ जले पु० शब्दच० ।

प्राणनाथ पु० ६ त० । पत्यौ शब्दरत्ना० । प्राणपत्यादयोऽप्यत्र

प्राणनिग्रह पु० प्राणो निगृह्यतेऽनेन नि + ग्रह--करणे अप् ।

प्राणायामे प्राणनिरोधादयोऽप्यत्र ।

प्राणन्त पु० प्र + अन--करणे झ । १ वायौ उज्ज्वल० २ रसा-

ञ्जने अञ्जनभेदे ३ क्षुधायां ४ हिक्कायाञ्च स्त्री उणादि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/प्रयस्&oldid=57820" इत्यस्माद् प्रतिप्राप्तम्