वाचस्पत्यम्/प्रतिबुद्ध

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४४४८

प्रतिबुद्ध त्रि० प्रति + बुध--कर्त्तरि क्त । १ जागरिते ।

कर्मणि क्त । २ ज्ञाते च ।

प्रतिबोध पु० प्रति + बुध--भावे घञ् । १ जागरणे २ ज्ञाने च

कर्त्तरि अच् । ३ जानरिते ४ ज्ञायिनि च त्रि० । तस्याप-
त्यम् विदा० अञ् । प्रातिबोध तदपत्ये यूनि तु हरिता०
फक् । प्रातिबोधायन तदीये यून्यपत्ये पुंस्त्री० ।

प्रतिबोधिन् त्रि० प्रति + बुध--भविष्यति गम्या० णिनि ।

भाविप्रातबोधयुते गम्याद० द्वितीयात० । शास्त्रप्रतिबोधी

प्रतिभट पु० प्रतिकूलो भटः प्रा० स० । प्रतियोधे येन सह

युध्यते तस्मिन् ।

प्रतिभय त्रि० प्रतिगतं भयमस्मात् निरा० स० । १ भयहेतौ

भयङ्करे अमरः । प्रतिगतं भयम प्रा० स० । २ भये न० ।

प्रतिभा स्त्री प्रति + भा--भावे अङ् । १ बुद्धौ २ प्रत्युत्पन्नबुद्धौ च

हेम० “प्रज्ञा नवनवीन्मेषशालिनी प्रतिभा मता” रुद्रः
३ दीप्तौ च ।

प्रतिभात त्रि० प्रति + भा--कर्त्तरि क्त । १ ज्ञानेमासमाने पदार्थे २ प्रदीप्तियुते च ।

प्रतिभान्वित त्रि० ३ त० । प्रतिभायुक्ते प्रगल्भे अमरः ।

प्रतिभामुख त्रि० प्रतिभान्वितं मुखं मुख्यव्यापारोऽस्य ।

प्रतिभान्विते हेसच० ।

प्रतिभास पु० प्रति + भास--भावे घञ् । १ प्रकाशे कर्त्तरि अच् । २ प्रकाशमाने च ।

प्रतिभू पु० प्रतिरूपो भवति प्रति + भू--क्विप् । (जामिन)

ख्याते पदार्थे स्त्री । दर्शनप्रतिभूशब्दे ३४७५ पृष्ठादौ
दृश्यम् ।

प्रतिभेदन न० प्रति + भिद--भावे ल्युट् । १ नेत्रादेरुत्पाटने २ भेदने च ।

प्रतिमण्डल त्रि० प्रतिरूपं मण्डलं प्रा० स० । सूर्य्यादिम-

ण्डलस्य १ परिधौ परिवेशे हरिवं० २०६ अ० । अव्ययी० ।
२ प्रत्येकमण्डले अव्य० ।

प्रतिमल्ल पु० प्रतिकूलो मल्लः प्रा० त० । प्रतिथोधे

प्रतिमा स्त्री प्रति + मा--भावे अङ् । १ सादृश्ये । करणे

अङ् । २ मृदादिनिर्मितदेवतादिमूर्त्तौ तन्मानादि देवता”
प्रतिमाशब्दे ३६८५ पृष्ठादौ दृश्यम् । ३ अनुकृतौ
४ गजदन्तबन्धे हेमच० उत्तरपदस्थः । ५ सदृशार्थे त्रि०
हेमच० । यथा देवपतिमः ।

प्रतिमान न० प्रतिमीयतेऽनेन प्रति + मि--मा--बा ल्युट् ।

१ प्रतिबिम्बे २ प्रतिमायां ३ गजकुम्भस्याधीभागे ४ तद्दन्त०
योर्मध्यस्थाने च अमरः ।

प्रतिमार्गक पु० सौभपुरे व्योमचारिपुरे त्रिका० ।

प्रतिमित्र पु० १ नृषभेदे भा० द्रो० १०२ अ० । अव्ययी० । २

प्रत्येकमित्रे अव्य० ।

प्रतिमुक्त त्रि० प्रति + मुच--क्त । १ परिहिते २ परित्यक्ते च अमरः ।

प्रतिमुख न० सा० द० उक्ते नाटकाङ्गसन्धिभेदे यथा

“यथासङ्ख्यमवस्थाभिरभियोगात्तु पञ्चभिः । पञ्चधैवेति-
वृत्तस्य भागाः स्युः पञ्च सन्धयः” इत्यु पक्रमे तल्लक्षण-
माह “अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति” ।
एकेन प्रयोजनेनान्वितानां कथाङ्गानामवान्तरैकप्रयो-
जनसम्बन्धः सन्धिः । तद्भेदानाह “मुखं प्रतिमुखं गर्भो
विमर्ष उपसंहृतिः । इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षण
मुच्यते” । तत्र प्रतिमुखाङ्गलक्षणं भेदोदाहरणादि यथा
“विलासः परिसर्पश्च विधृतं तापनं तथा । नर्म नर्मद्युति-
श्चैव तथा प्रगमनं पुनः । विरोधश्च प्रतिमुखे तथा
स्यात् पर्युपासनम् । पुष्पं वज्रमुपन्यासा वर्णसंहार
इत्यपि” । तत्र “समीहा रतिभीगार्था विलास इति
कथ्यते” । रतिलक्षणस्य भावस्य यो हेतुभूतो भोयोऽस्य
विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः यथा
शाकुन्तले “काम प्रिया न सुलभा मनस्तु तद्भावदर्श-
नाश्वासि । अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना
कुरुते” । “दृष्टनष्टानुसरणं परिसर्पश्च कथ्यते” यथा
शाकुन्तले राजा । भवितव्यमत्र तया । तथा हि
“अत्युन्नता पुरस्तादवगाढा जचनगौरबात्पश्चात् । द्वारे-
ऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा” । “कृत-
स्यानुनयस्यादौ विधृतं त्वपरिग्रहः” यथा तत्रैव “अलं
बो अन्तौरविरहपज्जुस्मुएण राएसिणा उबरुद्धेण” ।
केचित्तु “विधृतं स्यादरतिरिति” वदन्ति । उपाया-
दर्शनं यत्तु तापनं नाम तद्भवेत् यथा रत्नबल्यां
सागरिका “दुल्लहजनानुराओ लज्जा गुरुई परबसो अप्पा ।
णियसहि! विसमं पेम्म मरणं सरणं बरै एक्कं” ।
अपरिहासवचो नर्म--यथा रत्नवल्याम सुसङ्गता । “सहि
जस्म किदे तुमं आअदा सो अय दे पुरदो चिट्ठदि ।
सागरिका साभ्यसूयम् । कस्मकिदे अहं आअदा । सुसं ।
ऐ अण्णसंकिदे णं चित्तफलख{??}” । --धृतिस्तु परिहा-
सजा” । “नर्दद्युतिः--यथा तत्रेव । ससङ्गता “सांह
अदक्खिणा दाणिं सि तुमं जा एवं भट्टिणा हत्थावल-
म्बिदावि कोर्बं ण मुञ्चसि” । साग । सभ्रूभङ्गमीषद्वि-
हस्य “सुसङ्गदे दाणिं बि कीलिदुं ण विरमसि” । केचित्तु
“दोषस्याच्छादन हास्यं नर्मद्युतिरिति” वदन्ति ।--प्रग
पृष्ठ ४४४९
ममं वाक्यं स्यादुत्तरोत्तरम्” । यथा विक्रमोर्वश्याम्
उर्वशी “जअदु जअदु महाराओ । राजा । मया
नाम जितं यस्य त्वया जय उदीर्य्यते इत्यादि” ।
“विरोधो व्यसनप्राप्तिः--यथा चण्डकीशिके राजा
“नूनमसमीक्ष्यकारिणा मयान्धेनेव स्फुरच्छिखाकलापी
ज्वलनः पद्भ्यां समाक्रान्तः”--कृतस्यानुनयः पुनः” “स्या-
त्पर्युषासनं--रत्नावल्याम् विदू “भो मा कुप्प एसा
हि कदलीघरन्तरं गदेत्यादि”--पुष्प विशेषवचनं
सतम्” । यथा तत्रैव राजा “हस्ते गृहीत्वा स्पर्शं
ताटयति” विदू “भो बअस्म एसा अबरेब्ब सिरी तए
लामासादिदा” राजा । वयस्य सत्यम् “श्रीरेषा
पाणिरप्यस्याः पातिजातस्य पल्लवः । कुतोऽन्यथा पतत्येष
खेदच्छद्मामृतद्रवः” । “प्रत्यक्षनिष्ठुरं वज्रं--यथा
तत्रैव राजा “कथमिह सोऽहं त्वया ज्ञातः” ससं ।
न केवलं तमं चित्तफलएण ता जाव गदुअ देवीए
णिथेदैण्ण ।--उपन्यासः प्रसादनम्” । यथा तत्रैव
सुसं । भट्टा अलं सङ्काए मएबि भट्टिनीए पसादेण
कीलिद ज्जेब एदिहिं ता किं कण्णाभरणेण । अदोबि मे
गरुअरो पसादो एमो जं तए अहं एत्थ आलिहिदात्ति
कुबिदा मे पिअसही सागरिका एसा ज्जेव पसादी
दुअ” । केचित्तु “उपपत्तिकृतो योऽर्थ उपन्यासः स
कीर्त्तितः” इति वदन्ति उदाहरन्ति च । तत्रैव “अदिमु-
हरा कखु सा गव्भदासीति । “चातुर्बर्ण्येपगमनं बर्ण-
संहार इष्यते” यथा वीरचिते तृतीयेऽङ्के “षरिषदिय-
मृषीणामेष वीरो युधाजित् सममृषिभिरमात्यैर्लोम-
पादश्च वृद्धः । अयमविरतयज्ञो ब्रह्मवादी पुराणः
प्रभुरपि जनकानामद्रुहो याजकास्ते” ।

प्रतिमूर्त्ति स्त्री प्रतिरूपा मूर्त्तिः प्रा० स० । देवादिमूर्त्तिसदृशिप्रतिमायाम् ।

प्रतियत्न पु० प्रति+यत--नञ् । १ वाञ्छायाम् २ उपग्रहे

३ निग्रहादौ ४ वन्द्याम अमरटीकायां भरतमुकुटादयः ।
सतो गुणान्तराधानरूपे ५ संस्कारे मेदि० ६ ग्रहणे
७ प्रतिग्रहे च त्रिका० । प्रतिरूपो यत्नो यस्य घाब० ।
८ प्रतियत्नयुक्ते त्रि० । ९ रचनायां जटाधरः ।

प्रतियातना स्त्री प्रति + यात्यतेऽनया चु० यत--युच् । १

प्रतिमायाम् प्रा० स० । २ तुल्यरूपयातनायाम् अमरः ।

प्रतियायिन् त्रि० प्रति + या--भविष्यति गम्या० णिनि । भावि-

यानयुते भा० उ० ५७७१ श्लो० ।

प्रतियोग पु० प्रति + युज--भावे घञ् । १ विरोधे २ विरुद्धसम्वन्धे च ।

प्रतियोगिन् त्रि० प्रतिरूपं युज्यते प्रति + यूज--थनुण् ।

१ प्रातकूलमम्बन्धाति । यथा अभावस्य प्रतिकूलसम्बन्धव-
त्त्वात् घटादिस्तस्य प्रतियोगी । २ विरुद्धपक्षे विशिष्ट-
बुद्धिनियामकसंसर्गस्य ३ सम्बन्धिभेदे यथा संयोगेन घटवद्
भूतलमित्यादौ संयोगस्य घटः प्रतियोगी भूतलमनुयोगि ।
चन्द्रतुल्यमुखमित्यादौ सादृश्यस्य चन्द्रः प्रतियोगी
मुखमनुयोगि । तत्र विशिष्टबुद्धौ प्रकारतया भासमानं संसर्गस्य
प्रतियोगि विशेष्यतया भासमानं संसर्गस्यानुयोगीति भेदः ।
तस्य भावः त्व प्रतियोगित्व न० तल् प्रतियोगिता स्त्री
तद्भावे । सा च “अभावविरहात्मत्वं वस्तुनः प्रतियोगिता”
इत्याचार्योक्ता । स्वरूपसम्बन्धविशेषरूपा दीधितिकारः ।
यथा घटो नास्तीत्यादौ घटेऽभावप्रतियोगिता । यथा
वा घटवद्भूतलमित्यादौ घटे भूतलानुयोगिकसंयोगस-
म्बन्धप्रतियोगिता । अखण्डोपाधिर्धर्मविशेष इति सम्प्र-
दायः । वित्तिवेद्यत्वसित्यन्ये यथा चन्द्रवन्मुखमित्यादौ
चन्द्रस्य सादृश्यप्रतियोगित्वम् । अन्वयित्वमित्यपरे । यथा
चैत्रस्य पुत्र इत्यादौ षष्ट्यन्तार्थस्य चैत्रे प्रतियोगिंत्वम् ।
घटाभावादिबुद्धेर्वैशिष्टवैशिष्ठ्यावगाहिबुद्धितया
अभावबुद्धिः विशेष्यविशेषणसंसर्गावगाहिनी विशिष्टबुद्धि-
त्वात् संयोगेन घटवद्भूतलमित्यादिबुद्धिवत् इत्यनुमानेन
अभावे घटादिविशिष्टबुद्धौ सम्बन्धतया अतिरिक्तप्रतियो-
मितासिद्धिरिति नव्यनैयायकाः । श्रीहर्ष खण्डनादौ
तस्य स्वरूपसम्बन्धविशेषरूपत्वेन प्रतियोगिस्वरूपत्व-
मनुयोगिस्वरूपत्वं वा स्वीकार्य्यं तेनैवोपपत्तौ नाति-
रिक्तपदार्थकल्पनेति स्थितम् विस्तरभयान्नोक्तम् ।

प्रतियोगितावच्छेदक त्रि० ६ त० । येन रूपेण यस्या

भावादौ प्रतियोगिता १ तादृशे धर्मे यथा घटाभावे घटस्य
घटत्वरूपेण प्रतियोगिता अतस्तत्र घटत्वं प्रतियोगिता-
वच्छेदकं तच्च क्वचित् एकं क्वचिदनेकं तत्र वह्निर्नास्ती-
त्यत्र वह्नित्वमेकं महानसीयवह्निर्नास्तीत्यादौ महान-
सीयत्वं वह्नित्वञ्चेत्यादिकमनेकमित्याकरे दृश्यम् ।
येन सम्बन्धेन प्रतियोगितायाः अभावांशे भानं २ तादृश-
सम्बन्धे च यथा संयोगेन घटो नास्तीत्यादौ संयोगेन
घटस्याभावांशे प्रतियोगिताभानं तत्र संयोगसम्बन्धः
प्रतियोगितावच्छेदकसम्बन्ध एवमन्यत्राप्यूह्यम् ।

प्रतिर जठरे चिरकालावस्थाने ऋ० ८ । ४८ । १० ।

प्रतिरथ पु० प्रतिकूलो रथो यस्य प्रा० ब० । १ प्रतियोधे

अनाधृष्यवंश्ये तंसुभ्रातरि नृपभेदे हरिवं० ३२ अ० । यदु-
वंश्ये ३ वज्राश्वपुत्रे हरिवं० १६२ अ० । अव्ययी० । ३ प्रत्ये
करथे अव्य० ।
पृष्ठ ४४५०

प्रतिरम्भ पु० प्रतिलम्भ + लस्य रः । प्रतिलम्भे द्विरूषकोषः ।

प्रतिरव पु० प्रतिरुवन्ति प्रति + रु--कर्त्तरि अच् । १ प्राणेषु यजु०

३८ । १५ “प्राणा वै प्रतिरवाः” शत० ब्रा० १४ । २ । २ । ३४ भावे
अप् प्रतिकूली रवः प्रा० स० । २ प्रतिकूलशब्दे मदीयं
धनं न मोक्तव्यमनेन मदीयं धनं बलाद्भुज्यते इत्यादि
लोकेषु उद्ध्वोषणं प्रतिरवः ।

प्रतिरूप न० प्रतिकृतं रूपम् प्रा० स० । १ तुल्यरूपे प्रतिमायाम्

त्रिका० । २ दानवभेदे पु० भा० शा० २८७ अ० । ३ मेरुसाव-
र्णेर्दुहितृभेदे स्त्री भाग० ५ । २ । २३ प्रतिकृतं रूपं येन
प्रा० व० । ४ तुल्यरूपयुते त्रि० “रूपं रूपं प्रतिरूपो बभूव”
श्रुतिः

प्रतिरूपक न० प्रतिकृतं रूपं विम्बस्य येन प्रा० ब० कप् । प्रतिबिम्बे जटा० ।

प्रतिरोध पु० प्रति + रुध--भावे घञ् । १ निरोधे । स्वार्थे क ।

२ प्रतिबन्धे ३ तिरस्कारे भरतः । कर्त्तरि अच् । ४ प्रकृत
साध्यानुमितिनिरोधके सत्पक्षदोषदुष्टे हेतौ “पक्ष-
साध्यसाधनाप्रसिद्धिस्वरूपासिद्धिबाधप्रतिरोधानां निरासः”
दीधिति० । भावे घञ् । ५ हठचौर्य्ये ।

प्रतिरोधक पु० प्रति + रुध--ण्वुल् । १ प्रतिबन्धके (डाकायित)

२ हठचौरे हेमच० । तस्य रोधनेन स्तेयकर्तृत्वात् तथात्वम् ।

प्रतिरोधिन् त्रि० प्रति + रुध--णिनि । १ प्रतिबन्धके २ प्रतिरु-

ध्य हठहारिणि चौरे अमरः ।

प्रतिलम्भ पु० प्रति + लभ--अप् मुस् । लाभे “कथमदः प्रति--लम्भ” नैष० ।

प्रतिलोम त्रि० प्रतिगतं लोम आनुकूल्यमस्मात् प्रा० ब०

अच् समा० । वामे विपरीते हेमच० ।

प्रतिलोमज पुंस्त्री० प्रतिलोमात् जातः जन--ड । उत्तम-

वर्णस्त्रियाम् अधमवर्णात् जाते सङ्कीर्णवर्णे ते च
मनुनोक्ता १० । २५ षट् । तथा याज्ञ० “ब्राह्मण्यां क्षत्त्रि-
यात् सूतो १ वैश्याद्वैदेहक २ स्तथा । शूद्राज्जातस्तु
चण्डालः २ सर्वधर्मबहिष्कृतः । क्षत्त्रिया मागधं ४ वैश्या-
च्छूद्रात् क्षत्तार ५ गेव तु । शूद्रादायोगवं ६ वैश्या जनया-
मास वै सुतम्” । विष्णुना नामान्तरं वृत्तिश्चैषामुक्ता यथा
“तत्र वैश्यापुत्रः शूद्रेणायोगवः १ । पुक्वसमागधौ २ । ३
क्षत्रियापुत्रौ वैश्यशूद्राभ्याम् । चाण्डालवैदेहकसूताश्च
४ । ५ । ६ व्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः सङ्करसङ्कराश्चा-
संख्येयाः । रङ्गावतरणमायोगवानाम् । व्याधता पुक्व-
सानाम् । स्तुतिक्रिया मागधानाम् । बध्यथातित्वं
चाण्डालानाम् । स्त्रीरक्षा तज्जीवनञ्च वैदेहकानाम्
अश्वसारय्यं सूतानाम् । चाण्डालानां बहिर्ग्रामनिवसनं
मृतचेलधारणमिति विशेषः” । कर्त्तरि क्त । प्रतिलोम-
जातोऽप्यत्र ।

प्रतिवचन न० प्रतिरूपं वचनम् प्रा० स० । १ प्रतिवाक्ये २ उत्तरे

३ विरुद्धवाक्ये च त्रिका० । प्रतिकथादयोऽप्यत्र स्त्री ।

प्रतिवसथ पु० प्रति + बस--आधारे अथ । ग्रामे संवसथे

हेमच० ।

प्रतिवस्तु न० प्रतिरूपम् वस्तु प्रा० स० । तुल्यरूपे वस्तुनि ।

प्रतिवस्तूपमा स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०० दृश्यम्

प्रतिवात त्रि० प्रतिगतो वातो यतः प्रा० ब० । यस्मात् प्रदेशात्

वायुः आगच्छति तस्मिन् देशे “प्रतिबातेऽनुवाते च”
मनुः । अव्ययी० । २ वाताभिमुख्ये अव्य० ।

प्रतिवाद पु० प्रति + वद--भावे घञ् । वादिप्रयुक्तन्यायवि-

रुद्धन्यायवाक्याप्रयोगे प्रतिवादिन्शब्दे दृश्यम् ।

प्रतिवादिन् त्रि० प्रतिकूलं वदति वद--णिनि । १ वादिप्र-

युक्तन्यायवाक्यविरुद्धवाक्यवादिनि यथा पर्बतो वह्नि-
मान् भूमादित्यादौ साध्यसिद्धये वादिना प्रयुक्ते येन
पर्वतो न वह्निमान् पाषाणमयत्वात् इत्यादि वाक्यं
प्रयुज्यते तस्मिन् । व्यवहारे २ प्रत्यर्थिनि(आसामी)
“कारणे प्रतिवादिनि” याज्ञ० ।

प्रतिवारण त्रि० प्रति + वारि--कर्त्तरि ल्यु । १ निवारके

२ दैत्यभेदे पु० भाग० ५ । १८ । ३९ भावे ल्युठ् । ३ निवारणे न

प्रतिवार्त्ता स्त्री प्रा० स० । प्रत्युत्तरस्थानीये वृत्तान्तभेदे

प्रतिवासिन् त्रि० प्रत्यासन्नं वसति प्रति + वस--णिनि ।

(पड़सि) गृहासन्नवासिनि स्त्रियां ङीप् ।

प्रतिवाह पु० शफल्कपुत्रभेदे अक्रूरानुजे हरिवं० ३२ अ० ।

प्रतिविधान न० प्रति + वि + धा--ल्युट् । १ प्रतिकारे २ प्रकृतस्यो-

पपादनाद्यर्थमुपायावलम्बने च ।

प्रतिविन्ध्य पु० १ युधिष्ठिरस्य पुत्रे २ क्षत्रियभेदे च भा० आ० ६३ अ० ।

प्रतिविम्ब प्रति + आचारे क्विप् नामधातुः पर० अक० सेट् ।

प्रतिविम्बति अप्रतिविम्बीत् । प्रत्यविन्मीत् इत्यपरे ।

प्रतिविम्ब पु० न० वी + गतौ उल्वा० नि० बन् नुट्न विम्बं प्रति-

रूपं विम्बम् प्रा० स० । विम्बानुरूपे प्रातच्छायायुक्ते प
दार्थे । तस्य विम्बः द्भेदोऽभेदो वेतिसंशये विवरणप्रमेयसं०
निरणायि यथा
“ननु जीवस्याहङ्कारस्थप्रातविम्बत्वे विम्बाद्धेदः स्यात्
दर्पणगतमुखप्रतिबिम्मवत् तत्र हि ग्रीवास्वदर्णस्थयो
पृष्ठ ४४५१
र्मुखयोरन्योन्याभिमुखत्वे न भेदोऽनुभूयते, मैवं मदीयमिदं
मु खमित्यैक्यप्रत्यभिज्ञया भेदानुभवस्य बाधात् । न च
प्रत्यभिज्ञैवेतरेण बाध्येति वाच्यं सति भेदे प्रतिबिम्बा-
सम्भवात् किं प्रतिबिम्बीनाम मुखलाञ्छितमुद्रा? उत
दर्पणावयवा एव विम्बस्य सन्निधिवशात्तथा परिणमन्ते?
नाद्यः दर्पणस्थमुखस्येतरस्मादल्पत्वात् यत्र तु प्रौढदर्पणे
प्रोढं मुखसुपलभ्यते तत्रापि तस्य न मुद्रात्वम् दर्पण-
मुखयोः संयोगाभावात् । न द्वितीयः निमित्तकारणस्य
विम्बस्यापायेऽपि तस्यावस्थानप्रसङ्गात् न हि तथाऽव-
तिष्ठते । तेनैव पुरुषेण दर्पणे तिर्य्यङ्निरीक्षिते पुरुषा-
न्तरेण सम्यगवलोकिते वा तन्मुखानुपलम्भात् । न चैवं
मन्तव्यं क्वचिन्निमित्तापाये कार्य्यामप्यपैति हस्तसंयीग-
जन्यस्य कटप्रसारणस्य हस्तसंयोगापायेऽपायदर्शनात् ।
न तत्र निमित्तापायात् कार्य्यापायः चिरकालसंवेष्टना-
हितेन संस्कारेण संवेष्टनलक्षणविरुद्धकार्य्योत्पादात्
अन्यथा चिरकालप्रसारणेन संबेष्टनसंस्कारे विना-
शितेऽपि हस्तापाये प्रसारणमपेयात् न चैवमपैति ।
इह तु चिरकालबिम्बसन्निधावप्युत्पन्ने विम्बापाये
प्रतिबिम्बोऽपि गच्छत्येवेति न विम्बः परिणामस्य
निमित्तम् । अथ मन्यसे चिरकालस्थितोऽपि कम
लविकाशः सवितृकिरणस्य निमित्तस्यापायेऽप्यपगच्छ
तीति । तन्न तत्रापि प्राथमिकमुकुलत्वहेतुभिः पार्थिवै-
राप्यैश्च कमलावयवैः पुनरपि रात्रौ मुकुलत्वे विरु-
द्धकार्य्ये जनिते विकाशापायात् अन्यथा तादृशावयव-
रहिते म्लाने कमलेऽपि रात्रौ विकाशोऽपगच्छत् ।
आदर्शे तु मुखाकारपरिणते पुनः केन हेतुना
समतलाकारपरिणामः स्यात् तदवयवानां कारुकर्मव्यतिरेके-
णाकिञ्चित्करत्वात् । अतएव विम्बसन्निधिमात्रेण
मादर्शावयवा मुखाकारेण परिणमेरन् अन्यथा दर्पणद्रव्ये
प्रतिमामुखे कर्त्तव्ये सति लौकिका विम्बमेव सन्निधाप-
येयुः न तु कांस्यकारमंपेक्षरन् । दर्पणद्रव्यस्यान्याकारपरि-
णामे कारुकर्मापेक्षायामपि प्रतिबिम्बपरिणामे पुनःस्वरू-
पपरिणामे वा न तदपेक्षेति चेत् एवमपि न मुखप्रति-
विम्बाकारपरिणामो युक्तिसहः चक्षुर्नासिकादिनिम्नो-
न्नतभागस्य स्पर्शेनानुपलम्भात् समातलमेव हि पाणिना-
स्पृश्यते । समतलेन व्यवहितं मुखमिति चेत् तर्हि
चाक्षुषमपि न स्यात् । तत एतत् सिद्धं विमतः आदर्शो-
मुखव्यक्त्यन्तररहितस्तज्जन्मकारणशूम्यत्वात् यथा विषाण
जन्मकारणशून्यं विषाणरहितं शशभस्तकमिति । ननु
तर्हि शुक्तिरजतवन्मिथ्यात्वापत्तेर्न बिम्बैकत्वसिद्धिः प्रत्य-
भिज्ञा तु व्यभिचारिणी मिथ्यारजतेऽपि मदीयमिदं
रजतमिति तद्दर्शनादिति चेत् विषमो दृष्टान्तः नेदं
रजतमिति हि तत्र रजतस्वरूपबाधया रजताभिज्ञाया
भ्रमत्वे तत्प्रत्यभिज्ञाया अपि भ्रमत्वमुचितम् अत्र न
तथा नेदं मुखमिति स्वरूपबाधः किन्तु नात्र मुखमिति
देशसम्बन्धमात्रबाधे सति उत्पन्ना मदीयमेव मुखमिति
प्रत्यभिज्ञा कथं भ्रमः स्यात् । न च मुखावयवानामचा-
क्षुषत्वात् कथं प्रत्यभिज्ञानमिति वाच्यं नासाग्रादिकति-
पयावयवदर्शनादपि घटादिवदयवविनश्चाक्षुषत्वोपपत्तेः ।
यः पुनर्दर्पणापगमे प्रतिबिम्बापगमः नासौ स्वरूपबाधः
दर्पणेऽपि तत्प्रसङ्गात् । ननु तत्त्वमसिवाक्येन जीवरूपः
प्रतिबिम्बो बाध्यते यथा स्थाणुरसौ न पुरुष इति
वद्वाधायां सामानाधिकरण्यदर्शनात् संसार्य्यविनाशे च
मोक्षानुपपत्तेः सोऽयं देवदत्त इति वदैक्यपरत्वेनापि
सामानाधिकरण्यसम्भवात् विरुद्धांशबाधमात्रेण मोक्षोप-
पत्तेः कृत्स्नस्य जीवस्य बाधे मोक्षस्यापुरुषार्थत्वात् । यस्तु
मन्यते प्रतिबिम्ब एव नास्ति दर्पणप्रतिफलिता नेत्र-
रश्मयः परावृत्य बिम्बमेव दर्पणादविविक्तं गृह्णतीति
स्पष्टं प्रत्यङ्मुखत्वाद्यनुभवेनासौ निराकरणीयः । कथं
तर्हि मूर्त्तद्रव्यस्य मुखस्यैकस्य भिन्नदेशद्वये युगपत्
कात्स्न्येन वृत्तिः, दर्पणदेशवृत्तेर्मायाकृतत्वादिति ब्रूमः ।
न हि मायायामसम्भावनीयं नाम स्वशिरश्छेदादिकमपि
स्वप्ने माया दर्शयति । नन्वेवमपि जलमध्येऽधीमुखस्य
वृक्षप्रतिविम्बस्य तीरवृक्षेणैक्ये सति तीरस्थवृक्षोऽधिष्ठानं
तत्र च मायया जलगतत्वमधोमुखत्वञ्चाध्यस्तमिति वक्तव्यं
न चात्राध्यासहेतुरस्ति अधिष्ठानस्य साकल्येन प्रतीतेः
तत्कयमसावध्यासः, उच्यते किमत्र वृक्षावरणाभावादध्या-
साभावः? किं वा दोषाभावात्? उतोपदानामावात्?
आहो स्विदध्यासविरोधिनोऽधिष्ठानतत्त्वज्ञानस्य सद्भा-
वात्? नाद्यः चैतन्यावरणस्यैवाध्यासोपादानतया जड़े
पृथगावरणामुपयोगात् । एतेन तृतीयोऽपि निरस्तः । न
द्वितीयः सोपाधिकभ्रमेषूपाधेरेव दोषत्वात् । न चतुर्थः
निरुपाधिकभ्रमस्यैवाधिष्ठानतत्त्वज्ञानविरीधित्वात् । तर्हि
सोपाधिकभ्रमस्य कर्तृत्वादेः नात्मतत्त्वज्ञानान्निवृत्तिः
किन्तु अहङ्कारोपाध्यपगमादिति चेत् वाढं पारमार्थिक-
दर्पणाद्युपाध्रेस्तत्कृतभ्रसस्य च ज्ञानादनिवृत्तावप्यज्ञानज-
पृष्ठ ४४५२
न्योपाधेरहङ्कारस्य निरुपाधिकभ्रमरूपस्यात्मतत्त्वज्ञनान्नि
वृत्तौ कर्तृत्वादेर्द्धानान्निवृत्तिरर्थात् सिध्यति । ननु कथं
तत्त्वज्ञानं जीवोनाऽनात्मतादात्म्यं जानाति न विरुद्धात्म-
तामात्मनोऽवगन्तुमलं प्रतिबिम्बत्वात् दर्पणगतप्रति-
बिम्बवदिति चेत् न अचेतनत्वस्योपाधित्वात् । यस्तु
लोकायतः शरीरस्यैव चैतन्यं मन्यते तं प्रति दर्पणगत
जाड्येन प्रतिरुद्धत्वात् प्रतिविम्बस्याचेतनत्वं सुसम्पादं
चेतनत्वे तु विम्बचेष्टया विनापि स्वयं चेष्टेत
जीवस्य तु प्रतिबिम्बत्वेऽपि नोपाधिजाड्येन प्रति-
बन्ध इत्यनुभवसिद्धं, यद्यपि लोके बिम्बभूतस्यैव देवदत्तस्य
भ्रमनिवर्त्त कतत्त्वज्ञानाश्रयत्वम् दृष्टम् । तथापि न तत्र
विम्बत्वं प्रयोजकं किन्तु भ्रमाश्रयत्वं जीवश्च भ्रमाश्रयः
अविद्यायाश्चिन्मात्राश्रयत्वेऽपि जीवपक्षपातित्वेन भ्रमो-
त्पादनात् । ननु ब्रह्म स्वस्य जीवैक्यं न जानाति चेत्
असर्वज्ञं स्यात् जानाति चेत् जीवगतभ्रमं स्वगतत्वेन
पश्येदिति चेत् न स्वमुखतत्प्रतिबिम्बयोरैक्यं
जानतापि देवदत्तेन स्वमुखे प्रतिबिम्बगताल्पत्वमलिनत्वाद्य
दर्शनात् । न च जीवस्य प्रतिविम्बत्वे मानाभावः श्रुतिस्मृ-
तिसूत्रेभ्यस्तत्सिद्धेः “रूपं रूपं प्रतिरूपो बभूवेति” श्रुतिः
“एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” इति स्मृतिः ।
“अतएव चोपमा जलसूर्य्यकादिवदितिसूत्रम् । न
चामूर्त्तस्य ब्रह्मणः प्रतिविम्बासम्भवः अमूर्त्तस्याप्याकाशस्य
स्वाश्रिताभ्रनक्षत्रादिविशिष्टस्य जले प्रतिबिम्बभावदर्श-
नात् । जलान्तराकाश एवाभ्रादिप्रतिविम्बाधार इति चेत्
न जानुमात्रेऽपि जले दूरविशालाकाशदर्शनात् । जीवो
घटाकाशवदुपाध्यवच्छिन्ना न प्रतिविम्ब इति चत् न तथा
सति जीवोपाधिमध्ये ब्रह्मणोऽपि सत्त्वे चैतन्यं तत्र
द्विगुणं स्यात् न चैवमाकाशस्य घटे द्वैगुण्यं दृष्टं
ब्रह्मणस्तत्रासत्त्वे च सर्वगतत्वनियन्तृत्वादिहानिः ।
उभयानुगतचिद्रूपाकारस्यैव सर्वगतत्वनियन्तृत्वादि न ब्रह्वण
इति चेत् न “य आत्मानमन्तरो यभतीति” श्रुतौ प्रकरण-
लभ्यस्य व्रह्मण एव जीवमध्ये नियन्तृत्वेनावस्थानश्रव-
णात अतः शास्त्रे बर्वत्र घटाकाशदृष्टान्तोऽसङ्गत्वसा-
धको न जीवत्वसाधकः । प्रतिबिम्बपक्षे तु द्विगुणीकृत्य
वृत्तिर्न दाषाय जलमध्ये स्मामाविकजानुमात्राकाशिस्य
प्रतिविम्यिताविशाणाकाशस्य च वृत्तेः । तस्यादहङ्कारो-
पाधिकृतो ब्रह्मप्रतिविन्वो जोवः”

प्रतिविम्बन न० प्रतिविम्ब + नामधातुः भावे ल्युट् । अनु-

करणे “दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिविम्बनम्” सा० द०

प्रतिविम्बवाद पु० ६ । जीवस्य ईश्वरप्रतिविम्यतास्थाप-

नार्थे वादे । द्विधा हि वेदान्तिमते जीवश्वरयोर्विभाग-
कल्पना प्रतिविम्बभावेन तत्तदवच्छिन्नमावेन च । तत्राद्यः
पक्षः विवरणानुसारिभिर्मन्यते द्वितीयः पक्षीऽन्यैर्मन्यते
तदेतत् सिद्धान्तलेशे प्रदर्शितं यथा
विवरणानुसारिणस्त्वाहुः । “विभेदजनकेऽज्ञाने नाशमा-
त्यन्तिकं गते । आत्मनो ब्रह्मणोभेदमसन्तं कः करिष्य-
तीति” स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोषाधित्व-
प्रतिपादनाद्विम्बप्रतिविम्बभावेन जीवेश्वरयोर्विभागः ।
नीभयीरपि प्रतिविम्बभाबेन उपाधिद्वयमन्तरेणोभयोः प्रति-
विम्बत्वायोगात् । तत्रापि प्रतिविम्बो जीवः विम्बस्थानीय
ईश्वरः । तथा सत्येव लौकिकविम्बप्रतिविम्बदृष्टान्तेन
स्वातन्त्यमीश्वरस्य तत्पारतन्त्र्यं जीवस्य च गुज्यते । “प्र-
तिविम्बगताः पश्यन्नृजुवक्रादिविक्रियाः । पुमान् क्रीडेत्
यथा ब्रह्म तथा जीवस्थविक्रियाः” इति कल्पतरूक्तरीत्या
“लोकवत्तुलीलाकैवल्यमिति” सूत्रमपि संगच्छते ।
अज्ञानप्रतिविम्बे तस्य जीवस्यान्तःकरणरूपोऽज्ञानपरिणा
मभेदोविशेषाभिव्यक्तिस्थानम् सर्वतः प्रसृतस्य सवितृप्रका-
शस्य दर्पण इव । अतस्तस्य तदुपाधिकत्वव्यवहारोऽपि
न तावताऽज्ञानोपाधिपरित्यागः । अन्तःकरणोपाधि-
परिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहा-
धिष्ठानानुपपत्तेः । न च योगप्रभावाद्योगिनोऽन्तः-
करणं कायव्यूहाभिव्यक्तियोम्यं वैपुल्यं प्राप्रोतीति
तदवच्छिन्नस्य कायव्यूहाधिष्टानत्वं युज्यत इति वाच्यम् ।
“प्रदीपवदावेशस्तषा हि दर्शयतीति” शास्त्रोपान्त्याधिक-
रणभाष्यादिषु कायव्यूहे प्रतिदेहमन्तःकरणस्य चक्षुरादि-
वद्भिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात् । प्रतिविम्बे
विम्बाभेदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् न
प्रतिविम्बरूपजीवस्य मुक्त्यन्वयासम्भव इति न तदतिरे-
बेण सुक्त्यन्वयावच्छिन्नरूपं जीवान्तरं वा प्रतिविम्ब-
जीवातिरिक्तं जीवेश्वंरबिलक्षणं कूटस्थशब्दितं चैतन्या-
न्तरं कल्पनीयम् “अविनाशी वाऽरे अयमात्मेति” श्रव-
णाज्जीवस्य तदुषाधिनिवृत्तौ प्रतिविम्बभावाषगमेऽपि
स्वरूपं न विनश्यतीत्येतत्परं, न तदतिरिक्तकूटस्थना
मकचैतन्यान्तरपरम् । जीवोपाधिनाऽन्तःकरणादिनाव-
च्छिन्नं चैतन्यं विम्बभूत ईश्वर एव “यो विज्ञाने तिष्ठकि
त्यादि” श्रूत्वा ईश्ररस्यैव जीवसन्निधानेन तदन्तर्यामिभावेन
पृष्ठ ४४५३
विकारान्तरस्थानश्रवणादिति” । अता परमवच्छिन्नवाद-
स्तत्र दशितः प्रसङ्गात् पूर्वमनुक्तत्वाच्चात्रोच्यते “अन्ये
तु रूपानुपहितप्रतिविम्बो न युक्तः सुतरां नीरूपे गगन
प्रतिविम्बोदाहरणमप्ययुक्तं गगनाभोगव्यापिनि सवितृ-
करमण्डले सलिले प्रतिविम्बिते गगनप्रतिविम्बत्वव्यवहा-
रस्य भ्रममात्रमूलत्वात् । ध्वनौ वर्णप्रतिविम्बत्ववादो-
ऽप्ययुक्तः व्यञ्जकतया सन्निधानमात्रेण ध्वनिधर्माणा-
मुदात्तादिस्वराणां वर्णेष्वारोपोपपत्तेर्ध्वनेर्वर्णप्रतिविम्ब-
त्वग्राहित्वकल्पनायानिःप्रमाणकत्वात् । प्रतिध्वनिरपि
न पूर्वशब्दप्रतिविम्बः पञ्चीकरणप्रक्रियया पटहपयो-
निधिप्रभृतिशब्दानां क्षितिसलिलादिशब्दत्वेन प्रतिध्वने-
रेवाकाशशब्दत्वेन तस्यान्यशब्दप्रतिविम्बत्वायोगात् । वर्ण
रूपप्रतिशब्दोऽपि न पूर्ववर्णप्रतिविम्बः वर्णाभिव्यञ्जक-
ध्वनिनिमित्तकप्रतिध्वनेर्मूलध्वनिवदेव वर्णाभिव्यञ्जकत्वेनो-
पपत्तेस्तस्माद्घटाकाशवदन्तः करणावच्छिन्नं चैतन्यं जीवः
तदनवच्छिन्नमीश्वरः । न चैवसण्डान्तवर्त्तिनश्चैतन्यस्य
तत्तदन्तः करणोपाधिभिः सर्वात्मना जीवभावेनावच्छेदा-
त्तदवच्छेदरहितचैतन्यरूपस्येश्वरस्याण्डाद्बहिरेव सत्त्वं
स्यादिति “यो विज्ञाने विरुज्ञाने तिष्ठन्नत्यादावन्तर्यामिभावेन
विकारान्तरवस्थानश्रवणं विरुध्यते । प्रतिविम्बपक्षे तु
जलगतस्वाभाविकाकाशे सत्येव प्रतिविम्बाकाशदर्शनादेकत्र
द्विगुणीकृत्य वृत्तिरुपपद्यत इति वाच्यम् । यतः प्रतिविम्ब-
पक्षेऽपि उपाधावनन्तर्गतस्यैव चैतन्यस्य तत्र प्रतिविम्बो
वाच्यः । न तु जलचन्द्रन्यायेन कृत्स्नप्रतिविम्ब
तदन्तर्गतभागस्य तत्र प्रतिविम्बासम्भवात् । न हि मेघा-
वच्छिन्नस्याकाशस्यालोकस्य वा जले प्रतिविम्बवज्जलान्त-
र्गतस्वापि तत्र प्रतिविम्बो दृश्यते । न वा मुखादीनां
वहिःस्थितिसमय इव जलान्तर्निमज्जनेऽपि प्रतिवि-
म्बोऽस्ति । अतो जलप्रतिविम्बं प्रति मेघाकाशादेरि-
बान्तःकरणाद्युपाघिपतिविम्बं प्रति तदनन्तर्गतस्यैव
विम्बत्वं स्यादिति विंम्बभूतस्य विकारान्तरवस्थानायोगात्
ईश्वरेऽन्तर्यामिव्राह्मणाञ्जस्याभावस्तुल्यः । एतेनावच्छि-
न्नस्य जीवत्वे कर्तृभोक्तृसमययोस्तत्र तत्रान्तःकरणाब-
च्छेद्यचेतन्यप्रदेशस्य भिन्नत्वात् कृतहानाकृताभ्यागम-
प्रसङ्ग इति मिरस्तम् । प्रतिविम्बपक्षेऽपि स्वानन्तर्गतस्य
स्वसन्निहितसू चेतभ्यप्रदेशस्यान्तःकरणे प्रतिविम्यस्य
बक्तव्यतया तत्र तत्रान्तःकरणस्य गमने विम्बभेदात्
तत्प्रतिविम्बस्यापि भदावज्ञ्यम्भावेन दोषतौल्यात् । न
चान्तःकरणप्रतिबिम्बो जीव इतिपक्षे दोषतौत्यल्ये-
ऽप्यविद्याप्रतिविम्बो जीवस्तस्य च तत्र गतिद्वारम-
न्तःकरणं जलाशयव्यापिनो महामेघमण्डलप्रतिविम्बस्य
तदुपरि विसृत्वरस्फीतालोक इव तत्र विशेषाभिव्यक्ति-
हेतुरिति पक्षे नायं दोषः । अन्तःकरणवदविद्यायागत्य-
भावेन प्रतिविम्बभेदानापत्तेरिति वाच्यम् । तथैवावच्छेद
पक्षेऽप्यविद्यावच्छिन्नो जीव इत्युपगमसम्भवात् तत्रा-
प्येकस्य जीवस्य क्वचित्प्रदेशे कर्तृत्वं प्रदेशान्तरे भोक्तृ-
त्वमित्येवंकृतहानाकृताभ्यागमदोषापनुत्तये वस्तुती
जीवैक्यस्य शरणीकरणोयत्वेन तन्न्यायादन्तःकरणोपाधि-
पक्षेऽपि वस्तुतश्चैतन्यैक्यस्य तदवच्छेदकोपाध्यैक्यस्य
च तत्राभ्युपगमेन दोषनिराकरणसम्भवात् । नं
चावच्छोदपक्षे “यथाह्ययं ज्योतिरात्मा विवस्वानपो भिन्न
बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः
क्षेत्रेष्वेवमजोऽयमात्मा” । “अतएवोपमाजलसूर्यकादिव-
दिति” श्रुतिसूत्राभ्यां विरोधः । “अम्बुवदग्रहणान्न तथा
त्वम्” इत्युदाहृत सूत्रानन्तरसूत्रेण यथा सूर्य्यस्य रूपवतः
प्रतिविम्बोदययोग्यता ततो विप्रकृष्टदेशं रूपवज्जलं
गृह्यते नैवं सर्वगतस्यात्मनः प्रतिविम्बोदययोग्यं किञ्चि-
दस्ति ततो विप्रकृष्टमिति प्रतिविम्बासम्भवसक्त्वा “वृद्धिह्रास
भाक्त्वम अन्तर्भावादुभयसामञ्जस्यादेवमिति” तदनन्तरसूत्रेण
यथा जलप्रतिविम्बितः सूर्य्यो जलवृद्धौ वर्द्धत इव
जलह्रासे ह्रसतीव जलचलने चलतीवेति तस्याध्यासकतद-
नुरोधिवृद्धिह्रासादिभाक्त्वमित्येवं दृष्टान्तदार्ष्टान्तिकयोः
सामञ्जस्यादविरोध इति स्वयंसूत्रकृतैवावच्छेदपक्षे
तयोस्तात्पर्य्यकथनात् । “घटसंवृतमाकाशं नीयमाने यथा
घटे । घटो नीयेत नाकाशं तद्वज्जीवो नभीपमः” ।
“अंशो नाना व्यपदेशादिति” श्रुतिसूत्राभ्यामवच्छेदपक्ष-
स्यैव परिग्रहाच्च । तस्मात् सर्वगतस्य चैतन्यस्यान्तःकरणा-
दिनावच्छेदोऽवश्यं भावीत्यावश्यकत्वादवच्छेदो जीव
इति पक्षं रोचयन्ते” ।

प्रतिविम्बित त्रि० प्रतिविम्ब + तार० इतच् । जातप्रतिविम्बे

दर्पणादौ--प्रतिफलिते प्रतिच्छायापन्ने मुखादौ ।

प्रतिविषा स्त्री प्रतिषिद्धं विषं यया प्रा० बा० । अतिविषायाम्

(आतैच्) अमरः ।

प्रतिविष्णुक पु० प्रतिकूलो विष्णुर्यस्य प्रतिविष्णुः सुचुकु-

न्दनृपस्तन्नाम्मा कायति शब्दायते कै--शब्दे क ।
मुचकुन्दवृक्षे राजनि० ।
पृष्ठ ४४५४

प्रतिवेश पु० प्रत्यामन्नो वेशः प्रा० स० । प्रव्यासन्ने प्रतिवासि-

गृहे शब्दरत्ना० । प्रति + विश--आधारे घञ् वा दीर्घः ।
तत्रार्थे ।

प्रतिवेशिन् त्रि० प्रत्यासन्नं विशति प्रति + विश--णिनि ।

प्रत्यासन्नगृहवासिनि स्त्रियां ङीप् “दृष्टिं हि प्रति
वेशिनि! क्षणमिहाप्यस्यद्गृहे दास्यसि” सा० द० ।

प्रतिव्यूह पु० प्रतिरूपः व्यूहः प्रा० स० । बलविन्यासस्य ग्रति-

रूपे व्यूहे भा० भी० ५० अ० ।

प्रतिशब्द पु० प्रतिरूपः शब्दः प्रा० स० । प्रतिध्वनौ शब्दानु-

रूपे शब्दजन्ये शब्दभेदे । प्रतिबिम्बवादशब्दे दृश्यम् ।

प्रतिशयन न० प्रति + शी--भावे ल्युट् । प्रतिस्वापे अभीष्ट-

लाभाय प्रत्यादेशाशया देवोद्देशेन स्नानभोजनादिवर्जन-
पूर्वकस्वापे (हत्यादेओया) दशकु० ५ उ० ।

प्रतिशयित त्रि० प्रति + शी + क्त । प्रतिशयनकारिणि

प्रतिशासन न० प्रति + शास--भाये ल्युट् । भृत्यादेर्निकृष्टस्य

नियोगे अमरः ।

प्रतिशिष्ट त्रि० प्रति + शास--कर्मणि क्त । १ प्रेषिते २ प्रत्याख्याते च त्रिका० ।

प्रतिश्या स्त्री प्रति + श्यै--बा० करणे अङ् । प्रतिश्याये

पीनसे रोगभेदे शब्दच० ।

प्रतिश्याय पु० प्रति + श्यै--करणे घञ् । पीनसे रोगभेदे

तल्लक्षणादि सुश्रुतोक्तं यथा
“अथातः प्रतिश्यायप्रतिषेधे व्याख्यास्यामः । नारी-
प्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः ।
सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम् ।
चयङ्गता मूर्द्ध्वनि मारुतादयः पृथक्समस्ताश्च तथैव
शोणितम् । प्रकोप्यमाना विविधैः प्रकोपणैर्नृणां प्रतिश्या-
यकरा भवन्ति हि । शिरोगुरुत्वं क्षवथोः प्रवर्त्तनं
तथाङ्गमर्दः परिहृष्टरोमता । उपद्रवाश्चाप्यपरे पृथग्-
विधा नृणां प्रतिश्यायपुरःसराः स्मृताः । आनद्धा
पिहिता नासा तनुस्रावप्रवर्त्तिनी । गलताल्वोष्ठशोषश्च
निस्तोदः शङ्खयोस्तथा । स्वरोपधातश्च भवेत्प्रतिश्या-
येऽनिलात्मके । उष्णः सपीतकः स्नावो घ्राणात् स्रवति
पैत्तिके । कृशोऽतिपाण्डुः सन्तप्तो भवेत्तृष्णाभिपीड़ितः ।
सधूमं सहसा वह्निं वमतीव च मानवः । कफः
कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः । शुक्लावभासः
शूनाक्षो भवेद्वुरुशिरोमुखः । शिरोगलौष्ठतालूनां कण्डूय-
नमतीव च । भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनि-
वर्त्तते । सम्पक्वो वाप्यपक्वो वा स सर्वप्रभवः स्मृतः ।
लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे । रक्तजे तु
प्रतिश्याये रक्तास्रावः प्रवर्त्तते । ताम्राक्षश्च भवेज्जन्तु
रुरोघात प्रतीड़ितः । दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न
वेत्ति च । मूर्च्छन्ति चात्र कृमयः श्वेताः कृष्णास्तथा-
ऽणवः । कृमिमूर्द्धविकारेण समानं चास्य लक्षणम् ।
प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति । मुहुरानह्यते
चापि मुहुर्विव्रियते तथा । निश्वासोच्छ्वासदौर्गन्ध्यं तथा
गन्धान्नवेत्ति च । एवं दुष्टं प्रतिश्यायं जानीयात्कृच्छ्र-
साधनम् । सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः ।
कालेन रोगजनना जायन्ते दुष्टपीनसाः । बाधिर्य्यमा-
न्ध्यमघ्राणं घोरांश्च नयनामयान् । कामाग्निसादशोफांश्च
वृद्धाः कुर्वन्ति पीनसाः” ।

प्रतिश्रय पु० प्रतिश्रीयते प्रति + श्रि--आधारे अच् । १ यज्ञगृहे

जटा० २ सभायां ३ आशये च मेदि० ४ गृहे हेमच० ।

प्रतिश्रव पु० प्रति + श्रु--भावे अप् । स्वीकारे अमरः ।

प्रतिश्रवण न० प्रति + श्रु--भावे ल्युट् । १ अङ्गीकारे । प्रति-

गतः श्रवणं कर्णम् अत्या० स० । २ श्रवणानुगते त्रि०
अस्य तत्पुरुषे अंश्वा० अन्तोदात्तता प्रतिगतं श्रवणं येन
प्रा० व० । तु न ।

प्रतिश्रवस् पु० १ गोत्रप्रवरर्षिभैदे । २ परिक्षित्पुत्रभीमसेनात्मजे नृपभेदे भा० आ० ९५ अ० ।

प्रतिश्रुत् स्त्री प्रतिरूपं श्रूयते श्रु--सम्प० बा० कर्मणि क्विप् ।

प्रतिशब्दे प्रतिध्वनौ अमरः ।

प्रतिश्रुत्का स्त्री देवताभेदे यजु० २४ । ३२ । ३ । १९

प्रतिश्रुति स्त्री प्रति + श्रु--भावे क्तिन् । १ अङ्गीकारे २ प्रतिध्वनौ च ।

प्रतिषिद्ध त्रि० प्रति + सिध--कर्मणि क्त । निषिद्धे

प्रतिषेध पु० प्रति + सिध--भावे घञ् । १ निषेधे “मा कुरु इत्या-

दिना निवारणे” प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्रधानता”
मीमांसकका० । २ अर्थालङ्कारभेदे अर्थालङ्कारशब्दे ४००
दृश्यम् । ३ दूषणाभिधाने च । ल्युट् । प्रतिषेधन तत्रैव न०

प्रतिषेधोपमा स्त्री “न जातु शक्तिरिन्दोस्ते मुखेन

प्रतिगर्जितुम् । कलङ्किनो जड़स्येति प्रतिषेधोपमैव सा ।
काव्याद० । उक्ते अर्थालङ्कारभेदे सादृश्यप्रतिषेधेन
अधिकवैचित्र्य प्रकटनात तथात्वमस्याः ।

प्रतिष्क पु० प्रति + स्कन्द--बा० ड षत्वम् । दूते शब्दर० ।

प्रतिष्कष पु० प्रति + कष--अच् वा० सुट् षत्वम् । चर्मरज्ज्वो जटा० ।

प्रतिष्कस पु० प्रति + कस--अच् बा० सुट् षत्वम् । चरे शब्दर०

प्रतिष्टम्भ पु० प्रति + स्तन्भ--भावे घञ् षत्वम् । १ प्रतिबन्धे अमरः

२ क्रियाराहित्यापादने “बाहुप्रतिष्टम्भविवृद्धमन्युः” रघुः
पृष्ठ ४४५५

प्रतिष्टुति स्त्री प्रति + स्तु--क्तिन् । प्रतिलक्ष्यीकृत्य स्तुतौ अ०

८ । १३ । ३

प्रतिष्ठ त्रि० प्रतिष्ठा अस्त्यस्य अच् प्रति + स्था--क वा । १ ख्या-

तियुक्ते २ जैनमेदे पु० हेमच० ३ कुमारानुचमातृभेदे स्त्री
भा० श० ४७ अ० । ४ चतुरक्षरपादके वर्णवृत्तभेदे स्त्री वृ० र० ।

प्रतिष्ठा स्त्री प्रति + स्था--भावाधारादौ अङ् । १ क्षितौ २ स्थाने

३ गौरवे ४ यागादिसमाप्तौ कर्त्तव्ये कर्मभेदे मेदि० । देवादीनां
पूज्यतादिप्रयोजके ५ संस्कारभेदे देवताप्रतिष्ठाशब्दे तद्वि
वरणं दृश्यम् । ६ स्थैर्य्ये ७ ह्रस्वे स्त्री निघण्टुः पात०
सू० स्यैर्य्यभेदे फलभेद उक्तो यथा
“अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः” सू० ।
“सर्वप्राणिनां भवति” भा० “सत्यप्रतिष्ठायां क्रियाफला-
श्रयत्वम्” सू० “धार्मिकोभव इति भवति धार्मिकः, स्वर्गं
प्राप्नु हीति स्वर्गं प्राप्नोति अमोघास्य वाग्भवति” भा०
“अस्तयप्रतिष्ठायां सर्वरत्नोपस्थानम्” सू० “सर्वदिक्-
स्थान्यस्योपतिष्ठन्ते रत्नानि” भा० “ब्रह्मचर्य्यप्रतिष्ठायां
वीर्य्यलामः” सू० “यस्य लाभादप्रतिधान् गुणनुत्कर्ष-
यति सिद्धश्च विनेवेषु ज्ञानमाधातुं समर्थो भवति इति”
भा० । ८ आश्रये “ब्रह्म पुच्छं प्रतिष्ठा” श्रुतिः ।

प्रतिष्ठान न० प्रति + स्था--भावे ल्युट् । १ व्रतादेः समाप्तौ

कर्त्तव्ये कर्मभेदे देवादीनां पूज्यताप्रयोजके २ संस्कारभेदे
३ विख्यातौ च । आधारे ल्युट् । (विठीर) ख्याते
४ नगरभेदे “गङ्गायमुनयोर्मध्ये प्रयागं जघनं स्मृतम् ।
प्रयागं जघनस्थानमुपस्थमृषयो विदुः । प्रयागं सप्रति
ष्ठानं कम्बलाश्वतरौ तथा । तीर्थं भोगवती चैव वेदि-
रेषा प्रजापतेः” भा० व० ८५ अ० । “प्रतिष्ठाने नरपति-
र्ययातिः प्रत्युपस्थितः” भा० उ० ११३० अ० ।
“एवंघ्रभावो राजासीदैलस्तु पुरुषोत्तम! । देशे पुण्य-
वमे चैव महर्षिभिरमिष्टुते । राज्यं स कारयामास
घ्रयागे पृथिषीपतिः । उत्तरे जाह्नवीतीरे प्रतिष्ठाने
महायशाः” हरिवं० २६ अ० । ५ स्थाने च

प्रतिष्ठित त्रि० प्रतिष्ठा जाताऽस्य तारका० इतच् । १

जातप्रतिष्ठे देवादौ २ विख्यातियुक्ते च । ३ विष्णौ पु० “अप्र
मत्तः प्रतिष्ठितः” विष्णुस० ।

प्रतिष्णिका स्त्री प्रति + ला--क स्वार्थे क कापि अत इत्त्वम्

मुषामा० षत्वम् । प्रतिस्नानकत्त्र्यां स्त्रियाम् ।

प्रतिसङ्क्रम पु० प्रतिरूपः संक्रमः प्रा० स० । १ प्रतिच्छायायाम्

प्रा० व० । २ प्रतिसंक्रान्ते प्रतिच्छायापन्ने त्रि० । ३ सञ्चारे
च “चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया
शुद्धाऽनन्ता चेति” पात० भा० । “प्रविसंक्रमः संञ्चारः”
विवरणम् ।

प्रतिसंख्या स्त्री प्रति + सम् + ख्या--भावे अङ् । १ प्रसख्याने

२ सांख्यादिसिद्धे ज्ञानभेदे च तस्य पञ्चविंशतिसंख्यान्वितत-
त्त्वनिरूपणात् तदीयज्ञानस्य संख्यानियतत्वेन तथात्वम् ।

प्रतिसंख्यानिरोध पु० प्रतिसङ्ख्यापूर्वकोनिरोधः शा० त० ।

बुद्धिपूर्वके भावानां नाशे बौद्धमतसिद्धे पदार्थभेदे अप्रति-
संख्यानिरोधशब्दे ५६१ पृ० दृश्यम् ।

प्रतिसञ्चर पु० प्रतिसञ्चरन्ति क्रियाशून्यतया विलीयन्तेऽस्यां

प्रति + सम् + चर--आधारे अप् । १ प्रलयभेदे “यदा तु
व्रकृतौ याति लयं विश्वमिदं जगत् । तदोच्यते प्राकृतोऽयं
विद्वद्भिः प्रतिसञ्चरः” मार्क० पु० । ६ अ० । २ सञ्चारमात्रे च ।

प्रतिसन्देश पु० प्रतिरूपः सन्देशः प्रा० स० । सन्देशानुरूपे

प्रत्युत्तररूपतया वाचिकवृचान्तभेदे ।

प्रतिसन्धान न० प्रति + सम् + धा--भावे ल्युट् । १ अनुसन्धाने

अगुचिन्तने ज्ञानभेदे नष्टस्य द्रव्यस्योपलब्धिहेतुव्यापारे
२ अन्वेषणे च ।

प्रतिसन्धि प्र० प्रतीपः सन्धिः प्रा० स० । १ वियोगे २ उपरमे

“अदृष्टतोऽनुपायाच्च प्रतिसन्धिश्च कर्मणः” भा० शा० २०६
अ० टी० नील० प्रति + सम् + धा--कि । ३ प्रतिसन्धाने च
वीप्सायाम् अव्ययी० । ४ सन्धौ सन्धौ इत्यर्थे ।

प्रतिसन्धेय त्रि० प्रति + सम्--धा--कर्मणि यत् । प्रतीकार्य्ये

भा० उ० ९५ अ० ।

प्रतिसम त्रि० प्रतिकूलः समः । विसदृशे

प्रतिसमन्त त्रि० प्रतिगतं समन्तात् येन प्रा० व० पृषो० । व्रा-

प्तसमन्ताद्भावे शत० ब्रा० ३ । ७ । १ । १३ भा० ।

प्रतिसमासन न० प्रति + सम् + चा + अस--क्षेपे भावे ल्युट् ।

निरसने निवारणे भा० व० १९३१ श्लो० ।

प्रतिसर पु० प्रति + सृ--अच् । १ सैन्यपश्चाद्भागे २ हस्तसूत्रे

च त्रिका० । ३ मन्त्रभेदे ४ भाल्ये व्रणशुद्धौ च मेदि० ।
६ भूषणे ७ रक्षाबन्धनसूत्रे पु० न० अमरः । ८ नियोज्ये
त्रि० मेदि० स्त्रोत्वमपि । “प्रतिसरया तुरगाणां भल्ला-
तकशालिकुष्ठसिद्धार्थं कण्ठेषु निबन्धीवात्” वृ० सं० ४३ अ० ।

प्रतिसर्म पु० प्रतिरूपः प्रतिकूली वा सर्गः । १ ब्रह्मणः सृष्टि-

तुल्यायां मरीच्यादिसृष्टौ २ प्रलये च “आदिसर्गस्तु यः
सूत! कथितो विस्तरैण च । प्रतिसर्गश्च ये येषामधिपा-
स्तान् वदस्व नः” इति प्रश्ने प्रतिसर्ग उक्तः कालिकापु० ।
पृष्ठ ४४५६
“प्रतिसर्गे तु मृत्पिण्डं हेमपिण्डं वा धटकुण्डलमुकु-
टादयो विशन्तोऽव्यक्तीभवन्ति तत्कारणरूपमेवाभि-
व्यक्तं कार्य्यमपेक्ष्याव्यक्तम् भवति । एवं पृथिव्यादयस्त-
न्मात्राणि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति एवं
तन्मात्राण्यहङ्कारं विशन्ति अहङ्कारमव्यक्तयन्ति
एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति महान्
प्रकृतिं स्वकारणं विशन् प्रकृतिमव्यक्तयति प्रकृतेस्तु न
क्वचिन्निवेश इति सा सर्वकार्य्याणामव्यक्तमेव” सा० त० कौ०

प्रतिसर्य्य पु० प्रतिसरे भवः यत् । रुद्रभेदे यजु० १६ । ३३

प्रतिसव्य न० पतिगतं सव्यं वामं येन प्रा० ब० । १ प्रतिकूले

२ विरुद्धाचारिणि जटा० ।

प्रतिसान्धानिक पु० सन्धानं प्रयोजनमस्य ठक् प्रतिरूपः

सान्धानिकः प्रा० स० । मागधे स्तुतिपाठके शब्दरत्ना० ।

प्रतिसाम वीप्सायाम् अव्ययी० अच् समा० । प्रत्ये कसामनि

प्रतिसारण त्रि० प्रतिसारयति प्रति + सृ--णिच् ल्यु । १

अपसारके २ दूरीकारके । भावे ल्युट् । २ दूरीकरणे । करणे
ल्युट् । सुश्रुतोक्ते ३ अग्निकार्यभेदे । बलयविन्दुविलेखा
प्रतिसारणानीति दहनविशेषाः । व्रणचिकित्साङ्गे ३
उपक्रमभेदे “मासादूर्द्ध्वं ततस्तेन कृष्णमालेपयेद्व्रणम् ।
कुक्कुटाण्डकपालानि कतकं मधुकं समम् । तथा
समुद्रमण्डूकीं मणिचूर्णञ्च दापयेत् । गुटिकामूत्रपि-
ष्टास्ता व्रणानां प्रतिसारणम्” सुश्रुतः । प्रतिसारणं
व्रणस्य स्वस्थानात् स्थानान्तरनयनम् इत्यर्थः “दन्तजि-
ह्वामुखानां यच्चूर्णकल्कावलेहकैः । शनैर्धर्षणमङ्गुल्या
तदुक्तं प्रतिसारणम् । वैरस्यं मुखदौर्गन्ध्यं मुखशोषं
तथा तृषाम् । अरुचिं दन्तपीडाञ्च निहन्ति प्रतिसार-
णम् । हीने जाड्यकफोत्क्लेशावरसंज्ञानमेव च ।
अतियोगान् मुखे पाकः शोषस्तृष्णा वमिः क्लमः” भावप्र०
उक्ते ४ दन्तघर्षणभेदे ।

प्रतिसारणीय त्रि० प्रति + सृ--णिच्--कर्मणि अनीयर् ।

स्थानान्तरनयनीये सुश्रुतोक्ते क्षारपाकविधिभेदे
“स द्विविधः प्रतिसारणीयः पानीयश्च । तत्र प्रतिसार-
णीयः कुष्ठकिटिभदद्रुकिलासमण्डलभगन्दरार्बुददुष्टव्रण-
नाडीचर्मकीलतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृमि-
विषार्शः सूपदिश्यते” ।

प्रतिसारिन् त्रि० प्रतीपं सरति सृ--णिच्--णिनि । १ प्रतीप-

गामिनि २ नीचगामिनि स्त्रियां ङीप् । भा० व० ५१ अ० ।

प्रतिसीरा स्त्री प्रतिसिनोति सीयते वा प्रति + सि--रक्

दीर्घश्च । जवनिकायाम् (परदा) अमरकोषः ।

प्रतिसूर्य्य पुंस्त्री० प्रतिरूपः सूर्य्यः प्रा० स० । १ कृकलासे त्रिका० ।

२ द्वितीयसूर्यप्रादुर्भावरूपे आन्तरीक्षीत्पातभेदे च ।
स्वार्थे क । तत्रार्थे तच्छुभाशुभलक्षणं वृ० स० ३७ अ० यथा
“प्रतिसूर्य्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः ।
वैदूर्य्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः । पीतो व्यार्धिं
जनयत्यशोकरूपश्च शस्त्रकोपाय । प्रतिसूर्य्याणां माला-
दस्युभयातङ्कनृपहन्त्री । दिवसकृतः प्रतिसूर्य्यो जलकृ-
दुदग्दक्षिणे स्थितोऽनिलकृत् । उभयस्थः सलिलभयं
नृपमुपरि निहन्त्यधो जनहा” ।

प्रतिसृष्ट त्रि० प्रति + सृज--कर्मणि क्त । १ प्रेरिते २ प्रत्याख्याते

च मेदि० । ३ मत्ते धरणिः ।

प्रतिसोमा स्त्री प्रतिरूपा सोमः सोमवल्ली यस्याः प्रा० व० । महिषवल्ल्याम् राजनि० ।

प्रतिस्कन्ध पु० १ कुमारानुचरभेदे भा० श० ४६ अ० । २ नियम-

सन्ध्यङ्गभेदे पु० “परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन
दीयते । स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविदो जनाः”
कामन्द० ।

प्रतिस्त्री स्त्री प्रतिरूपा स्त्री प्रा० स० । १ परनार्य्याम्

आभिमुख्ये अव्य० । २ स्त्रिया आभिमुख्ये अव्य० । “उपमन्त्रयते
स हिङ्गारोज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः
प्रतिस्त्रि सह शेते स प्रतिहारः कालं गच्छति तन्निधनं
पारं गच्छति तन्निधनमेतत् वामदेव्यं मिथुने प्रोतम्”
छा० उ० । “प्रतिस्त्रशयनम् स्त्रियोऽभिमुखाभावेन
शयनम् । सहशयनमेकपर्य्यङ्के शयनम्” भा० ।

प्रतिस्पर्द्धा स्त्री प्रति + स्पर्द्ध--भावे अङ् । प्रतिरूपस्मर्द्धायां

प्रतिकक्षायाम् शब्दरत्ना० ।

प्रतिस्पश पु० प्रतिरूपः स्पशः । प्रतिदूते

प्रतिस्रोतस् न० प्रतीपं स्त्रीतः प्रा० स० । स्रोतसोगमनप्रतिकूले

प्रतिस्वर पु० प्रति + स्तॄ--शब्दोपतापयोः भावे आधारे वा

अ प् । १ प्रतिशब्दे २ उपतापाधारे आदित्यात् अग्निस
म्पाद नसाधने शुष्कगोमयादौ च । तत्प्रकारः निरुक्ते
उक्तः यथा “उदीचि प्रथमसमावृत्त आदित्थे कंसं
वा मणिं वा परिमृज्य प्रतिस्वरे यत्र शुष्कगोमयं
संस्पर्शयन्धारयति तत्पदीप्यते सोऽयमेव संपद्यते” ।
प्रतिस्वरे उपतापाधारे सूर्यकिरणसम्पर्कस्थाने इत्यर्थः ।

प्रतिहत त्रि० प्रति + हन--क्त । १ द्विष्टे २ रुद्धे ३ निरस्ते

४ प्रतिस्खलिते च मेदि० । भावे क्त । ५ निरासे न० अमरः ।

प्रतिहति स्त्री प्रति + हन--भावे क्तिन् । १ प्रतिधाते आहत्य-

परावृत्तौ २ रोषे च । तस्य कामप्रतिहत्या जायमानत्वात्
तथात्वम् ।
पृष्ठ ४४५७

प्रतिहर्त्तृ त्रि० प्रति + हृ--तृन् । १ पुनराहरणकर्त्तरि

२ ऋत्विग्भेदे पु० अच्छावाकशब्दे ८५ पृ० दृश्यम् । स च प्रति-
रूपसामभेदगाता प्रतिहारशब्दे दृश्यम् ।

प्रतिहर्षण न० प्रतिरूपं हर्षणम् प्रा० स० । १ हर्षणानुरूपे हर्षे

णिच्--ल्युट् । २ प्रतिरूपसन्तोपसम्पादने च ।

प्रतिहस्तक पु० प्रतिरूपः हस्तो यस्य प्रा० ब० कप् । हस्त-

साध्यक्रियाप्रतिरूपक्रियाकारिणि प्रतिनिधौ हितो० ।

प्रति(ती)हार पु० प्रत्येकं हरति स्वामिपार्श्वमानयति अण्

वादीर्घः । १ द्वारपाले अमरः । स्त्रियां ङीप् गौरा० ङीष्
या । आधारे घञ् । तदधिष्ठानस्थाने २ द्वारे च शब्दर० ।
प्रतिरूपं हरति हृ--अण् उपस० । ३ मायाकारे भरतः ।
साम्रस्तृतीयभागे उद्गात्रा गेये ४ सामावयवभेदे उद्गीथशब्दे
११७० पृ० दृश्यम् । तस्य देवता च अन्नं यथोक्तं छा० उ०
“अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहा-
रमन्वायत्ता ताञ्चेदबिद्वान् प्रतिहरिष्यसि मूर्द्ध्वा ते विप
तिव्यतीति मा भगवानवोचत्कतमा सा देवतेति । अन्न-
मिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव
प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता
ताञ्चदविद्वान् प्रत्यहरिष्यो मूर्द्ध्वा ते व्यपतिष्यत्तथोक्तस्य
मयेति” ।

प्रतिहारक पु० प्रति + हृ--ण्वुल् । १ मायाकारे भरतः २ स्था-

नान्तरप्रापके त्रि० ३ प्रतिहाररूपसामावयवगातरि पु० ।

प्रति(ती)हास पु० प्रतिरूपः हासः प्रा० स० वा दीर्घः । १ येन

हासः कृतः तं प्रति हासे प्रा० ब० । २ तत्कारके त्रि० ।
३ करवीरवृक्षे पु० अमरः ।

प्रतिहर पु० प्रति + हृ--आधारे अप् । समीपे ऋ० ७ । ६६ । १४

प्रतीक पु० प्रति + कन् नि० दीर्घः । १ अवयवे अमरः । २ प्रति-

रूपे ३ विलोमे च मेदि० प्रतीकोपासनं च व्रह्मप्रती
कानामादित्यादीनां व्रह्मदृष्ट्युपासनं तच्च शा० सू० भा०
दर्शितं यथा
“न प्रतीके न हि सः” सू० “मनो ब्रह्मेत्युपासीतेत्य-
ध्यात्ममथादिदैवतमाकाशी व्रह्म” (छा० ३ । १८) इति,
तथा “आदित्यो ब्रह्मेत्यादेशः, (छा० । ३ १९) स यो नाम
व्रह्मेत्युपास्ते” (छा० । ७ । ५) इत्येवभादिषु प्रतीकोपा-
सनेषु सशयः, किमेष्वप्यात्मग्रहः कर्त्तव्यो न वेति ।
किं तावत् प्राप्तमेतेष्यप्यात्मग्रह इव युक्तः, कस्मात्,
व्रह्मणः श्रुतिष्व त्मत्वेन प्रसिद्धत्वात् । प्रतीकानामपि
ब्रह्मविकारत्वात् व्रह्मत्वे सत्यात्मत्वोपपत्तेरित्येवं प्राप्ते
ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात्, न हि स
उपासकः प्रतीकानि व्यस्तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्रह्म-
विकारत्वात् प्रतीकानां ब्रह्मत्व ततश्चात्मत्वमिति । तदसत्
प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि
नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति, स्वरूपोपमर्दे च
नामादीनां कुतः प्रतीकत्वमात्मग्रहो वा । न च ब्रह्मण
आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या, कर्तृत्वा-
द्यनिराकरणात्, कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन
हि ब्रह्मण आत्मत्वोपदेशस्तदनिराकरणेन चोपासनवि-
धानम्, अतश्चोपासकस्य प्रतीकैः समत्वादात्मग्रहो
नोपपद्यते, न हि रुचकस्वस्तिकयोरितरेतरात्मत्वमस्ति,
सुवर्णात्मनैव तु ब्रह्मात्मत्वेनैकत्वे प्रतीकाभावप्रसङ्गमवो-
चाम । अतो न प्रतीकेष्वात्मदृष्टिः क्रियते” भा० “ब्रह्म-
दृष्टिरुत्कर्षात्” सू० “तेष्वेवोदाहरणेषु अन्यः संशयः,
किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः किंवा ब्रह्म-
दृष्टिरादित्यादिष्विति । कुतः संशयः, सामानाधिकरण्ये
कारणानवधारणात् । अत्र हि ब्रह्मशब्दस्यादित्यादि-
शब्दैः सामानाधिकरण्यमुपलभ्यते, “आदित्यो ब्रह्म
प्राणो ब्रह्म विद्युद्ब्रह्म” इत्यादिसमानविभक्तिनिर्दे-
शात् । न चात्राञ्जसं सामानाधिकरण्यमवकल्पते अर्था-
न्तरवचनत्वात् ब्रह्मादित्यादिशब्दानां, न हि भवति
गौरश्व इति सामानाधिकरण्यम् । ननु प्रकृतिविकार-
भावात् ब्रह्मादित्यादीनां मृच्छरावादिवत् सामानाधि-
करण्यं स्यात्, नेत्युच्यते, विकारप्रविलयोह्येवं प्रकृति-
सामानाधिकरण्यात् स्यात्, ततश्च प्रतीकाभावप्रसङ्गम-
वोचाम, परमात्मवाक्यञ्चेदन्तदानीं स्यात्, ततश्चोपासना-
धिकारो बाध्येत, परिमितविकारोपासनञ्च व्यर्थम् ।
तस्मात् ब्राह्मणोऽग्निर्वैश्वानर इत्यादिवदन्यतरत्रान्यतर-
दृष्ट्यध्यासे सति क्क किंदृष्टिरध्यस्यतामिति संशयः
तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्रा-
प्तम् । अथ वाऽऽदित्यादिदृष्टय एव ब्रह्मणि कर्त्तव्या
इत्येवं प्राप्तम् । एवं हि आदित्यादिदृष्टिभिर्व्रह्मोपा-
सनञ्च फलवदिति शास्त्रमर्य्यादा । तस्मात् न ब्रह्मदृष्टि-
रादित्यादिष्वित्येवं प्राप्ते ब्रूमः । ब्रह्मदृष्टिरेवादित्या-
दिषु स्यादिति । कस्मात् उत्कर्षात्, एवमुत्कर्षेणादित्या-
दयो दृष्टा भवन्त्युत्कृष्टदृष्टेस्तेष्वध्यासात् । तथा च
पृष्ठ ४४५८
लौकिको न्यायोऽनुगतो भवति, उत्कृष्टदृष्टिर्हि निकृ-
ष्टेऽध्यसितव्येति लौकिको न्यायः । यथा राजदृष्टिः
क्षत्तरि, स चानुगन्तव्यो विपर्य्यये प्रत्यवायप्रसङ्गात् ।
न हि क्षत्तृदृष्टिपरिगृहीती राजा निकर्षं नीयमानः
श्रेयसे स्यात् । ननु शास्त्रप्रासाण्यादनाशङ्कनीयीऽत्र
प्रत्यवायप्रसङ्गः, न च लौकिकेन न्यायेन शास्त्रीया
दृष्टिर्नियन्तुं युक्तेति । अत्रोच्यते, निर्द्धारिते शास्त्रार्थे
एतदेवं स्यात्, सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति
लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते, तेन चोत्-
कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्य्यमाणे निकृष्टदृष्टिमध्यस्य
प्रत्यवेयादिति श्लिष्यते । प्राथम्याच्चादित्यादिशब्दानां
मुख्यार्थत्वमविरोधात् ग्रहीतव्यम् । तैः खार्थवृत्तिभि-
रवरुद्धायां बुद्धौ पश्चादवतरतो ब्रह्मशब्दस्य मुख्यवृत्त्या
सामानाधिकरण्यासम्भवात् ब्रह्मदृष्टिविधानार्थतैवावति-
ष्ठते । इतिपरत्वादपि ब्रह्मशब्दस्यैष एवार्थो न्याय्यः ।
तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत ब्रह्मेत्युपास्त इति
च सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति शुद्धांस्त्वादित्थादि-
शब्दान् । ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र
शुक्तिवचन एव शुक्तिकाशब्दः रजतशब्दस्तु रजतप्रतीति
लक्षणार्थः प्रतीत्यैव हि केवलं रजतमिति न तु तत्र
रजतमस्ति, एवमत्राप्यादित्यादीन् ब्रह्मेति प्रतीयादिति
गम्यते । बाक्यशेषोऽपि च द्वितीयानिर्देशेनादित्यादी-
नेवोपास्तिक्रियया व्याप्यमानान् दर्शयति “स य एतदेषं
विद्वानादित्यं ब्रह्मेत्युपास्ते” (छा० । ३ । १९) “यो वाचं
ब्रह्मेत्युपास्ते” (छा० ७ । ५ । २ ) “यः सङ्कल्पं ब्रह्मेत्युपास्ते”
(छा० ७ । ५ । २) इति । यत्तूक्तं ब्रह्मोपासनमेवात्रादरणीयं
फसवत्त्वायेति, तदयुक्तं उक्तेन न्यायेनादित्थादीनामे-
वोपास्यत्वावगमात् । फलन्त्वतिथ्याद्युपासन इवादित्या-
द्युपासनेऽपि “ब्रह्मैव दास्यति सर्वाध्यक्षत्वात् । वर्णितञ्चै-
तत्, “फलम् अत उपपत्तेः” इत्यत्र (वे० सू० । ३ । २ । ३८) ।
ईदृशञ्चात्र ब्रह्मण उपास्यत्वं यत्प्रतीकेषु तदृष्ट्यध्यारो-
पणं प्रतिमादिष्विव विष्ण्वादीनाम्” ।
तत्फलविशेषोऽपि तत्र निर्णीतो यथा
“अप्रतीकालम्बनान्नयतीति वादरायण उभयथाऽदोषात्
तत्क्रतुश्च” सू० “स्थितमेतत् कार्यविपया गतिर्न
परविषयेति । इदमिदानीं सन्दिह्यते, किं सर्वान् विका-
राकम्बनानविशेषेणैवामानवः पुरुवः प्रापयति ब्रह्मलोक
मुत कांश्चिदेवेति । किं तावत् प्राप्तं सर्वसामेवैषां विदु-
षामन्यत्र परस्मात् ब्रह्मणो गतिः स्यात् । तथा हि
“अनियमः सर्वासाम्” इत्यत्राविशेषेणेवैषा विद्यान्तरेष्व-
वतारितेत्येवं प्राप्ते प्रत्याह अप्रतीकालम्बनानिति ।
प्रतीकालम्वनान् वर्जयित्वा सर्वानन्यान् विकारालम्ब०
नान्नयति ब्रह्मलोकमिति वादरायण आचार्य्यो मन्यते ।
न ह्येवमुभयथाभावाभ्युपगमे कश्चित् दोषोऽस्ति ।
अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेः ।
तत्क्रतुश्चास्योभयथाभावस्य समर्थकी हेतुर्द्रष्टव्यः । यो
हि व्रह्मक्रतुः स ब्राह्ममैश्वर्य्यमासीदेदिति श्लिष्यते “तं
यथा यथीपासते तदेव भवन्ति” इति श्रुतिः । न तु
प्रतीकेषु व्रह्मक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य ।
नन्वब्रह्मक्रतुमानपि ब्रह्म गच्छतीति श्रूयते” यथा पञ्चा-
ग्निविद्यायाम् “स एतान् ब्रह्म गमयति” इति । भवतु
यत्रैवमपवाद उपलभ्यते, तदभावे त्वौत्सर्गिकेनं तत्क्रतु-
न्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिर्नेतरेषामिति मन्यते” भा०
“विशेषञ्च दर्शयति” सू० “नामादिष्र प्रतीकोपासनेषु पूर्व-
स्मात् पूर्वस्मात् फलविशेषमुत्तरस्मि नुत्तरस्मिन्नुपासने दर्श-
यति “यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवति”
“वाग्वाव नाम्नो भूयसी यावद्वाचो गतं तत्रास्य यथा
कामचारो भवति” “मनो वाव वाचो भूयः” इत्यादिना ।
स चायं फलविशेषः प्रतीकतन्त्रत्वादुपासनानामुपपद्यते,
ब्रह्मतन्त्रे तु व्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात् ।
तस्मान्न प्रतीकालम्बनानामितरैस्तु ल्यफलत्वमिति” भा० ।
वसुनृपस्य ४ पुत्रभेदे भाग० ९ । २ । १३

प्रती(ति)कार पु० प्रति + कृ घञ् दीर्धः । १ कृतापकारस्य प्रत्यपकारे

वैरनिर्यातने अमरः २ रोगनिवारणोपाये चिकित्सायाम्
शब्दमा० ।

प्रती(ति)काश पु० प्रति + काश--घञ् बा दीर्घः ।

उपमायाम् अमरः । अस्य नित्यसमासः । मेघप्रतीकाशः ।

प्रतीकाश्व पु० भानुमन्नृपस्य पुत्रभेदे भाग० ९ । १२ । ६

प्रतीक्षा स्त्री प्रति + ईक्ष--भावे अङ् । अपेक्षायाम् । भावे

ल्युट् । प्रतीक्षण तत्रार्थे न० ।

प्रतीक्ष्य त्रि० प्रति + ईक्ष--कर्मणि ण्यत् । १ पूज्ये २ अपेक्ष-

णीये च “प्रतीक्ष्यं तत् प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम्”
इति माघः ।

प्रती(ति)घात पु० प्रति + हन--भावे घञ् वा दीर्घः । प्रतिघाते

प्रतीची स्त्री प्रत्यच् + स्त्रियां ङीप् अल्लोपे दीर्घः । पश्चिमायां

दिशि यदपेक्षया सूर्य्यास्ताचलसन्निहिता या दिक् सा
तदपेक्षया तस्य प्रतीची कणा० उप० वृत्तिः ।
पृष्ठ ४४५९

प्रतीचीन त्रि० प्रतीचि भवः प्रत्यच् + ख अल्लोपे दीर्घः ।

१ प्रत्यग्भवे २ पश्चिमदिग्भवे च । स्वार्थे ख । ३ पतीचि
पदार्थे हेमच० । शत० ब्रा० ५ । २ । ४ । २० प्रतीचीनफलम् ।

प्रतीच्य त्रि० प्रतीचि भवः प्रत्यच्--भवार्थे यत् । १ प्रत्यग्भवे

२ पुलस्त्यमातरि स्त्री भा० उ० ११६ अ० । ३ अन्तर्हिते त्रि०
निधण्ठुः ।

प्रतीच्छक त्रि० प्रतिगता इच्छा यस्य प्रा० ब० कप् । ग्राहके मनुः ४ । १९ । ४ श्लो० ।

प्रतीत त्रि० प्रति + इण--क्त । १ ख्याते २ ज्ञाते अमरः । ३ हृष्टे

४ सादरे च राजनि० । ५ विश्वदेवगणमेदे पु० भा० अनु० ९१ अ०

प्रतीति स्त्री प्रति--इण--भावे क्तिन् । १ ज्ञाने २ ख्यातौ

३ आदरे ४ हर्षे च ।

प्रतीतोद पु० “ऊर्द्ध्वं शाक्वरमष्टाक्षरमभ्यासवत् तस्य ह्यक्ष-

रान् पदादीन् प्रतीतोदा इत्याचक्षते” इत्युक्तेऽर्थे ।

प्रतीन्धक पु० विदेहदेशे रामा० अयो० ७१ । ९ श्लो० ।

प्रतीप त्रि० प्रतिगता आपोऽत्र अच्समा० नि० प्रतिप + पृषो०

वा । १ प्रतिकूले चन्द्रवंश्ये २ नृपभेदे पु० हेमच० । प्रतिप-
शब्दे दृश्यम् । ३ अलङ्कारभेदे अलङ्कारशब्दे ३८८ पृ०
दृश्यम् । क्तान्ते परेऽन्तोदात्ततास्य बा परनिपातः
प्रतीकृतः कृतप्रतीप इति वा । स्वार्थे क । ४ तत्रार्थे ।
हर्य्यश्वनृपपुत्रयदीः पुत्रे भाग० ९ । १३ । १२ तत्र प्रति
पक इति पाठान्तरम् तत्रार्थे । ततः सुखा० अस्त्यर्थे
इनि । प्रतीपकिन् तद्युते त्रि० स्त्रियां ङीप् । सुखादि-
पाठात् ततः ठन्मतुपौ न स्तः ।

प्रतीपदर्शिन् त्रि० प्रतीपं वामं पश्यति दृश--णिनि । १ प्रति-

कूलदर्शके स्त्रियां ङीप् । सा च २ स्त्रियाम् अमरः ।

प्रतीपाश्व पु० राजभेदे विष्णुपु० ।

प्रतीर न० प्रतीर्य्यते प्र + तीर--क । १ तटे तीरे अमरः ।

२ भौत्यमनुपुत्रभेदे मार्क० पु० १०० अ० ।

प्रतीवाप पु० प्रति + वप--घञ् दीर्घः । १ गलितस्वर्णादेरवचू-

र्णने अमरः । २ पेयोषधिभेदे औषधविशेषसंयोगभेदे च
“तत्र वीरतर्वादिसिद्धं जलमूषकादि प्रतीवापं पाययेत्”
सुश्रुतः ।

प्रतीह पु० भरतवंश्ये सुवर्चलायां जाते परमेष्ठिनः पुत्रभेदे भाग० ५ । १५ । ३

प्रतुद पु० प्र + तुदःक । खगभेदे “हारीतो धवलः पाण्डु-

श्चित्रपक्षो वृहच्छुकः । पारावतः खञ्जरीटः पिकाद्याः
प्रतुदाः स्मृताः” । “प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतु
दास्ततः” “प्रतुदा मधुराः पित्तकफव्नास्तुवरा हिमाः ।
लघवो बद्धवर्चस्का किञ्चिद्वातकराः स्मृताः” भावप्र० ।

प्रतूर्त्त त्रि० प्र + तूर--वेगे क्त । १ प्रकृष्टवेगान्विते भावे क्त । २ प्रकृष्ट-

वेगे न० । ततो गोषदादि० मत्वर्थे वुन् । प्रतूर्त्तक तद्युते त्रि

प्रतूलिका स्त्री प्रकृष्टं तूलमत्र कप् कापि अतैत्त्वम् (तोषक)

शय्याभेदे काशी० ७ अ० ।

प्रतोद पु० प्रतुद्यतेऽने न प्र + तुद--करणे घञ् । अश्वादिताड़नदण्डे (चावुक्) अमरः ।

प्रतोली स्त्री प्र + तुल--अच् गौरा० ङीष् । १ रथ्यायाम् २ पुरा-

भ्यन्तरवर्त्मनि अमरः हट्टादौ निर्मिते ३ पथि च भरतः ।

प्रतोष पु० प्र + तुष--भावे घञ् । १ सन्तोषे प्रकृष्टस्तोषोऽस्य प्रा० ब०

२ सन्तोषयुते त्रि० । ३ स्वायम्भवमनोः पुत्रभेदे पु० भाग०
४ । १ । ७ श्लो० ।

प्रत्न त्रि० पुराणार्थे प्र + भवार्थे त्न । १ पुरातने अमरः । पुराणनामसु निघण्टुः ।

प्रत्यंशु त्रि० प्रतिगतोऽंशुम् अत्या० स० । १ प्रप्तांशुके । तत्पुरुषे

अश्वा० अन्तोदात्ततास्य । प्रतिगतोऽंशुर्येन प्रा० व० ।
२ प्रतिगतांशुके त्रि० तत्पुरुषे इत्युक्तेः बहुब्रीहौ
नान्तीदात्तता ।

प्रत्यकचेतन पु० प्रतीपं विपरीतमञ्चति जानाति प्रति + अन्च०

क्विप् कर्म० । १ सांख्यमतसिद्धे पुरुषे । “ततः प्रत्यक्-
चेतनाधिगमः अन्तरायाभावश्च” योगसू० भाष्यम् ।
प्रत्येकम् अञ्चति अश्नुते कर्म० । सर्वज्ञे २ अन्तरात्मनि
परमेश्वरे तदभिन्ने ३ जीवे च प्रत्यच्शब्दे दृश्यम् ।

प्रत्यकपर्णी स्त्री प्रत्यञ्चि पर्णान्यस्याः ङीप् । १ अपामार्गे अमरः

प्रत्यक्पुषपी स्त्री प्रत्यक् पुष्पमस्याः ङीप् । अपामार्गे अमरः

प्रत्यक्श्रेणी स्त्री प्रतीची श्रेणीव अस्याः समासान्तविधेर-

नित्यत्वात् न कप् । १ दन्तीवृक्षे ३ मूषिकपण्याञ्च अमरः ।

प्रत्यक्ष अव्य० अक्ष्णः लक्षणम् “लक्षणेनाभिप्रती” पा० लक्ष-

णार्थे प्रतिनाऽव्ययी० शरदा० अच्समा० अक्षिशब्देन
इन्द्रियमात्रम लक्ष्यते । १ इन्द्रियलक्षणे ततोऽस्त्यर्थे अच् ।
२ इन्द्रियसन्निकर्षजन्ये ज्ञाने न० । इन्द्रियाणाञ्च ज्ञान-
मात्रं प्रत्येव सन्निकर्षद्वारा हेतुत्वात् तथार्थत्वम् । ततः
अस्त्यर्थे पुनः अर्श आद्यच् । ३ प्रत्यक्षविषये त्रि० । प्रत्यक्षत्वं
च ज्ञानत्वव्याप्यजातिविशेषः तल्लक्षणन्तु इन्दियार्थसन्निक-
र्षोत्पन्नज्ञानत्वमिति नैयायिकाः । अधिकभपरोक्षशब्दे
२३५ पृ० दृष्टशब्दे च ३६७२ पृ० दृश्यम् । बेदान्तमते
तल्लक्षणन्तु “तत्तदिन्द्रिययोग्यवर्त्तमानविषयावच्छिन्नचैत-
न्यामिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्य-
क्षत्वम् । स्वाकारवृत्त्युं पहितप्रमातृचैतन्यसत्तातिरिक्तस-
त्ताकत्वशून्यत्वे सति वर्त्तमानयोगत्वं विषयस्य प्रत्यक्ष-
त्वम्” वेदा० प० । तच्च लौकिकालौकिकभेदात् द्विधा ।
पृष्ठ ४४६०

प्रत्यक्षदर्शन त्रि० प्रत्यक्षेण पश्यति दृश--ल्यु । साक्षिणि

साक्षाद्दर्शिनि शब्दमाला । णिनि । प्रत्यक्षदर्शिन् तत्रार्थे
त्रि० स्त्रियां ङीप् ।

प्रत्यक्षलवण न० प्रत्यक्षं पृथक्तयोपलभ्यमानं लवणम् ।

पाकनिष्पत्त्युत्तरं व्यञ्जनादौ दीयमानलवणे । तस्य
श्राद्धे अदेयतोक्ता यथा श्रा० त० ब्रह्मपु० “सिद्धाः कृताश्च
ये भक्ताः प्रत्यक्षलवणीकृताः” श्राद्धे तस्य वर्ज्यतयोक्ते
“सिद्धाः कृताः सिद्ध्युत्तरकालं प्रत्यक्षलवणप्रक्षेपकृता”
श्रा० त० रघु० । तत्रैव बिष्णुना श्राद्धवर्ज्येषु “आरक्ता-
स्यैव निर्यासाः प्रत्यक्षलवणानि च” इत्युक्तम् । शु० त०
ब्रह्मपु० “सैन्धवं लवणं चैव यच्च सामुद्रकं भवेत् । पवित्रे
परमे ह्येते प्रत्यक्षेऽपि च नित्यशः” । “पृथक्तयोप-
लभ्यमानं लवणं प्रत्यक्षलवणं न तु व्यञ्जनादिसंस्कारकं
संस्कारप्रत्यक्षयोर्भेदात्” शु० त० रघु० । वस्तुतः सैन्धवादे-
रपि प्रत्यक्षलवणत्वेऽभक्ष्यता आर्द्रकादियोगे प्रतिप्रसवः न
तु सिद्ध्युत्तरकालप्रक्षेपेऽपि प्रतिप्रसवः । अतः सिद्ध्यु
त्तरकालं लवणमात्रस्यैव प्रक्षेपे सर्वत्र भक्षणे दाने च
निषेधः इति बोध्यम् ।

प्रत्यक्षवादिन् पु० प्रत्यक्षमेव प्रमाणतया वदति वद--णिनि ।

चार्वाके चार्वाकशब्दे २९२१ पृ० दृश्यम् ।

प्रत्यक्षिन् त्रि० प्रत्यक्षमस्त्यस्य इनि । १ साक्षाद्द्रष्टरि व्यक्तं

दृष्टार्थे त्रिका० स्त्रियां ङीप् ।

प्रत्यक्स्रोतस् पु० प्रत्यक् प्रतीचीगामि स्रोतो यस्य । १ पश्चि-

मदिग्वाहिनि नदे “प्राक्स्रोतसो नद्यः प्रत्यक्स्रोतसो
नदा नर्मदां विना” माध ४ । ६६ श्लो० व्याख्यायां मल्लि-
नाथधृतवाक्यम् । २ नर्म्मदायां स्त्री भा० व० ८९ अ० ।
प्रतीचि प्रत्यगात्मनि स्रोतश्चित्तप्रवाहोऽस्य । प्रत्यगा-
त्मैकप्रवणचित्तवृत्तियुते ३ यतिभेदे पु० ।

प्रत्यगात्मन् प्रतीचो जीवस्यात्मा स्वरूपम् । १ प्ररमेश्वरे

ब्रह्मचैतन्ये मागव० ३ । २४ । ४५ श्रीधरः । “कश्चिद्धीरः
प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठो० भाष्ये तु
अन्यथोक्तं यथा “प्रत्यक् चासावात्मा चेति प्रत्यगात्मा
प्रतीच्येवात्मशब्दो रूढो लोके नान्यस्मिन् व्युत्पत्तिपक्षे-
ऽपि तत्रैवात्मशब्दो वर्त्तते । “यच्चाप्नोति यदादत्ते यच्चा-
त्ति विषयानिह । यच्चास्य सन्तती भावस्तस्मादात्मेति
कीर्त्त्यते” इत्यात्मशब्दव्युत्पत्तिस्मरणात् । तं प्रत्यगात्मानं
स्वस्वभावमैक्षत्पश्यतीत्यर्थः” “स्वस्वभावं स्वस्वरूपमि-
त्यर्थः” आनन्दगिरिः ।

प्रत्यगाशापति पु० ६ त० । पश्चिमदिक्पाले वरुणे हलायुधः

प्रत्यगुदच् स्त्री प्रतीच्या उदीच्याश्च अन्तराला दिक् ब० व० ।

पत्तिमीत्तरदिशोरन्तरालायां विदिशि वायुकोणे आश्व०
श्रौ० २ ६ । ४ ।

प्रत्यग्र त्रि० प्रतिगतमग्रमग्रत्वम् अत्या० स० । १ नूतने २ शोधिते

च अमरः । उपचरिचरनृपवंश्ये ३ वृहद्रयपुत्रे नृपभेदे
पु० भाग० ९ । २२ । ४

प्रत्यग्रथ पु० अहिच्छबदेशे हेमच० । तत्र भवः तस्य राजा

वा “साल्वावयवप्रत्यग्रथकालकूटाश्मकादिञ्” पा० इञ ।
प्रात्यग्रथि तत्र भवे तन्नृपे च ।

प्रत्यग्रह पु० चेदिदेशराजे नृपभेदे भा० आ० ६३ अ० ।

प्रत्यङ्ग न० प्रतिगतमङ्गम् अत्या० स० । अङ्गानुगताङ्गभेदे अङ्ग-

स्याङ्गभेदे कर्णादौ “तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि
तदवयवाः प्रत्यङ्गानि” सुश्रुतः । अङ्गशब्दे ७२ पृ०
दृश्यम् ।

प्रत्यङ्गिरस् पु० चाक्षुषमन्वन्तरे आङ्गिरसे ऋक्स्वरूपे ऋषिभेदे हरिवं० ३ अ० ।

प्रत्यङ्गिरा स्त्री देवीभेदे “अथ प्रत्यङ्गिरां वक्ष्ये परकृत्या-

निबर्हिणीम्” इत्यादिना मन्त्रमहौषधौ ८ तरङ्गे
तत्प्रयोग उक्तः ।

प्रत्यङ्मुख त्रि० प्रत्यङ्मुखं यस्य । पश्चिमाभिमुखे “श्रियं

प्रत्यङ्मुखो भुङ्क्ते” मनुना तन्मु खभोजने श्रीलाभः
फलमुक्तम् । कर्मविशेषे सायंसन्ध्यावन्दने च तन्मुखता
विहिता स्मृतौ दृश्या ।

प्रत्यच्(ञ्चू) पु० प्रत्यञ्चति अन्च--क्विप् विच् वा । १ खात्मनि

प्रत्यागात्मन्शब्दे दृश्यम् । २ पश्चिमे देशे ३ काले च ४ पश्चि-
मायां दिशि स्त्री ङीप् भत्वे अल्लोपे दीर्घः प्रतीची ।
एवं शसाद्यचि प्रतीचः प्रतीचेत्यादि । विचि तु
नलोपाभावात् न तथा प्रत्यञ्चः प्रत्यञ्चा” इति । ततः सप्तम्यर्थे
असि तस्य लोपः । प्रत्यच् ५ सप्तम्यर्थवृत्तौ पश्चिमदिग्-
देशकालादौ अव्य० ।

प्रत्यञ्जन न० प्रतिरूपमनुरूमञ्जनं प्रा० स० । अनुरूपाञ्जने सुश्रुतः ।

प्रत्यनन्तर त्रि० प्रतिप्राप्तमनन्तरम् अत्या० स० । प्रत्यासन्ने

सन्निकृष्टे भनुः १० । ८० ।

प्रत्यनीक पु० प्रतिकूलमनीकं यस्य प्रा० व० । १ रिपौ २ विघ्ने

हेम० उपचारात् ३ प्रतिवादिनि ४ अलङ्कारभेदे न०
अलङ्कारशब्दे ४०१ पृ० दृश्यम् ।

प्रत्यनुमान न० प्रतिरूपमनुमानं प्रा० त० । प्रतीपातुमाने यथा

पर्वतो वह्निमान् धूमादिति वादिनोक्ते पर्वतो वङ्ग्यभा-
ववान् पाषाणमयत्वादिति” प्रतिवादिनः प्रतिपक्षानुमानम् ।
पृष्ठ ४४६१

प्रत्यन्त पु० प्रतिगतोऽन्तम् अत्या० स० । १ म्लेच्छदेशे ३ सन्नि-

कृष्टे त्रि० अमरः ।

प्रत्यन्तपर्वत पु० प्रत्यन्तः सन्निकृष्टः पर्वतः । वृहत्पर्वतसमीपस्थे पर्वते हेमच० ।

प्रत्यभिज्ञा स्त्री प्रतिगता अभिज्ञाम् अत्या० स० । १ अभिज्ञा-

नुरूपे तज्जन्यसंस्कारसहकारेण जनिते प्रत्यक्षभेदे यथा
सोऽयं देवदत्त इत्यादि । तत्स्वरूपादिकं विवरणप्रमेय
संग्रहे निर्णीतं यथा
“ननु केयं प्रत्यभिज्ञा नाम न तावदेकस्यातीतवर्त्तमानका-
लद्वयसम्बन्धविषयं प्रत्यक्षज्ञानं प्रत्यभिज्ञा, प्रत्यक्षज्ञानस्य
वर्त्तमानमात्रार्थग्राहित्वात् । पूर्वानुभवसंस्कारसहि-
तादिदानीन्तनवस्तुप्रमितिकारणाज्जातस्य तस्य तथात्व-
मिति चेत् एवमप्यात्मनि सोऽहमिति प्रत्यभिज्ञा न
सिद्धेत् नित्ये स्वयप्रकाशे तस्मिन् संस्कारसय जन्य-
ज्ञानस्य वाऽसम्भवात् । नाषि स्वरूपज्ञानमेव प्रत्यभिज्ञा-
तस्य प्रदीपप्रभावत् वर्त्तेमानार्थप्रकाशिनः पूर्वापरपरामर्शा-
त्मकत्वायोगात्, अस्मन्मते तु सोऽहमित्याकारद्वयोपप्लुतं
ज्ञानद्वयमेतन्न प्रत्यभिज्ञा । तस्मादनया दुनिरूपया प्रत्यभि-
ज्ञया कथमैक्यसिद्धिः । उच्यते । केवले चिदात्मनि जन्य-
ज्ञानतत्संस्कारयोरसम्भवेऽत्यन्तः करणविशिष्टे तत्सम्भ-
वादुक्ता प्रत्यभिज्ञा किं न स्यात् । न च विशिष्टस्य प्रत्यभि-
ज्ञाविषयत्वे तस्यैव प्रत्यभिज्ञातृत्वमपीति कर्मकर्त्तृविरोधः
शङ्कनीयः, सर्ववादिनां देहव्यतिरिक्ताद्यनुमानविषयत-
यात्मनि कर्मकर्तृभावस्य संप्रतिपन्नत्वात् । अथ मतं नानु-
मानादौ विषयस्य कर्मकारकत्वम् अतीतादेस्त्वनुमाने
विषयस्याविद्यमानस्य ज्ञानजनकत्वायोगात् विषयत्वन्त्व-
विद्यमानस्यापि कथञ्चित् सम्भविष्यति ज्ञानस्य तदाकार-
त्वात् अतोऽनुमानादौ कर्तृत्वमेवात्मनः, प्रत्यक्षे तु
विषयस्य ज्ञानजनकतया कर्मकारकत्वम् अतो विरोधस्तदवस्थ
इति मैवम् अन्तःकरणविशिष्टतयैवात्मनः प्रत्यभिज्ञातृत्वं
पूर्वापरकालविशिष्टतया च प्रत्यभिज्ञेयत्वमित्युषाधिभेदेना-
विरोधात् । किमेतावता प्रयासेन प्रत्यभिज्ञैव मा भूदिति
चेत् न, सोऽहमिति प्रत्यभिज्ञायाः स्वानुभवसिद्धत्वात्
अविसंवादित्वेन च भ्रान्तित्वायोगात् । यदुक्तं सोऽह-
मित्याकारद्वयोपप्लुतं ज्ञानद्वयमिति तदसत् तथ सति
विज्ञानं क्षणिकमित्यत्रापि ज्ञानद्वयप्रसङ्गेन विज्ञानस्य
घणिकत्वासिद्धिप्रसङ्गात् । विज्ञानमात्रवादिनां क्षणिक-
खादिधर्मा अवास्तवाएवेति चेत् तर्हि स्यायित्पादिधर्माएव
वास्तवा उपादीयन्तां सोऽहमित्याद्यानुभवानुसारित्वात् ।
यच्च प्राभाकरा मन्यन्ते सोऽहमितिप्रत्यमिज्ञायां विषय-
त्वेनाश्रयोनात्मा सिद्ध्यति किं तर्हि सोऽयं घट इत्यादि
प्रत्यभिज्ञाश्रयत्वेनेति, तदयुक्तं पूर्वापरकालविशिष्टस्य
क्षणमात्रवृत्तिप्रत्यभिज्ञाश्रयत्वासम्भवेन प्रत्यभिज्ञया स्था-
यित्वासिद्धिप्रसङ्गात् । अथ मतं मम संवेदनं जातमिति
इदानीमनुस्मर्य्यमाणा पूर्वकालीना घटादिसंवित् खाश्रयं
तदानीन्तनमात्मानं साधयति स्मृतिश्च स्वाश्रयमिदानी-
न्तनमात्मानं साधयति ततश्च स्थाय्यात्मसिद्धिः न पुनरप्र-
माणिकं सोऽहमित्यात्मविषयकं प्रत्यभिज्ञानं किञ्चित्
कल्पनीयमिति चेत् नैतत् सारम् स्मृतिपूर्वानुभवौ ह्यभिज्ञा
द्वयवत्ततकालीनमात्मानं यद्यपि साधयतः तथाप्येकस्या-
त्मनः कालद्वयसम्बन्धो न केनापि सिध्यति । संविद्-
द्वयमेव सम्बन्धस्यापि साधकमिति चेत् तर्हि तथैव
घटादिष्वपि स्थायित्वसिद्धौ तत्सिद्धये प्रत्यभिज्ञा नापेक्ष्येत ।
दार्ढ्याय प्रत्यभिज्ञेति चेत् एवमपि प्रकृते संविद्द्वयं किं
साक्षात्सम्बन्धस्य साधकसुत प्रत्यभिज्ञामुत्पाद्य, आद्य
न तावदेकैकं तत्साधकम् एकैकस्य कालद्वयविशिष्टात्म-
न्यनाश्रितत्वात् नापि संभूय तत्साधकम्, अतीतानु-
भवस्य वर्त्तमानस्मृतेश्च यौगपद्यायोगात् । द्वितीये स्था-
य्यात्मविषयं सोऽहमिति प्रत्यभिज्ञानं त्वयैवाङ्कीकृतं
स्यात् । न च वाच्यं क्वचिदपि न ज्ञानविषयत्वमात्मन-
स्तत्कथं प्रत्यभिज्ञाविषयत्वमिति । मम संवेदनं
जातमिति स्मृतिज्ञानविषयत्वात् यद्यप्यनेन स्मृतिज्ञानेन
स्वोत्पत्तिकालीन आत्मा स्वाश्रयत्वेनैव प्रकाश्यते न
विषयत्वेन तथापि स्मर्य्यमाणसंवेदनाश्रयभूतस्ततसंवेदन-
कालीन आत्मा विषयीक्रियत एव । अथोच्यते स्मृत्या
संवेदनमेव विषयीक्रियते तच्च संवेदनं स्मृतं सत् स्वा-
श्रयमात्मानमाश्रतयैव प्रत्यायिष्यतीति तदसत् स्मृति-
काले संवेदनस्याविद्यमानस्य स्वाश्रयसाधकत्वायोगात् ।
स्वयंप्रकाशमानं हि संवेदनमाश्रयं साधयति न तु
स्मृतिविषयतया परप्रकाश्यम् अन्यथा धर्भादीनामपि
परतः सिद्धानां स्वाश्रयात्मसाधकत्वप्रसङ्गात् । तस्मा-
दतीतकालीन आत्मा स्मृतिविषय एवेत्यभ्युपेयम् । तथाच
सोऽहमिति प्रत्यभिज्ञाप्यात्मानं विषयीकरिष्यतीति प्रा-
भाकरैरप्यात्मविषयप्रत्यभिज्ञयैव संविदात्मना क्षणिकत्वं
निराकरणीयम्” ।
पृष्ठ ४४६२

प्रत्यभिज्ञादर्शन न० प्रत्यभिज्ञायाः दर्शनम् शास्त्रम् । माहे-

श्वरशास्त्रभेदे तन्मतं च सर्वदर्शनसंग्रहे दर्शितं यथा
“अत्रापेक्षाविहीनानां जडानां कारणत्वं दुष्यतीत्य-
परितुष्यन्तो मतान्तरमन्विष्यन्तः परमेश्वरेच्छावशादेव
जगन्निर्माणं परिघुष्यन्तः स्वसंवेदनोपपत्त्यागमसिद्धप्रत्य-
गात्मतादात्म्यो, नानाविधमानमेयादिभेदाभेदशाली
परमेश्वरोऽनन्यमुस्वप्रेक्षित्वलक्षणस्वातन्त्र्यभाक् स्वात्मदर्पणे
भावान् प्रतिविम्बवदभासयेदिति भणन्तो बाह्याभ्यन्तर-
चर्य्याप्राणायामादिक्लेशप्रयासकलावैधुर्य्येण सर्वसुलभ-
मभिनवं प्रत्यभिज्ञामात्रं परापरसिद्ध्युपायमभ्युपगच्छन्तः
परे माहेश्वराः प्रत्यभिज्ञाशास्त्रमभ्यस्यन्ति । तस्येयत्तापि
न्यरूपि परीक्षकैः “सूत्रं वृत्तिविवृतिर्लघ्वी वृहतीत्युभे
विमर्शिन्यौ । पकरणविवरणपञ्चकमिति शास्त्रं प्रत्यभि-
ज्ञायाः” तत्रेदं प्रथमं सूत्रम् । “कथञ्चिदासाद्य महे
महेश्वरः स्याद्दास्यं जतस्याप्युपकारमिच्छन् । समस्त
सम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि” इति ।
कथञ्चिदिति परमेश्वराभिन्नगुरुचरणारविन्दयुगलसमा-
राधनेन परमेश्चरघटितेनैवेत्यर्थः आसाद्येति आ
समन्तात् परिपूर्णतया सादयित्वा स्वात्मोपभोग्यतां निरर्गलां
गमयित्वा तदनेन पिदितवेद्यत्वेन परार्थशास्त्रकरणेऽधि-
कारो दर्शितः अन्यथा प्रतारणमेव प्रसजेत् । मायोत्तीणां
अपिमहामायाधिकृता विष्णुविरिञ्च्याद्या यदीयैश्वर्य्य-
लेशेनेश्वरीभूताः स भगवाननवच्छिन्नप्रकाशानन्दस्वातन्त्र्य-
परमार्थो महेश्वरः तस्य दास्यं दीयतेऽस्मै स्वामिना सर्वं
यथाभिलषितमिति दासः परमेश्वरस्वरूपस्वातन्त्रयपात्रमि-
त्यर्थः । जनशब्देनाधिकारिविषयनियमाभावः प्रादर्शि ।
यस्य यस्य हीदं स्वरूपकथनं तस्य तस्य महाफलं भवति
प्रधानस्यैव परमार्थफलत्वात् । तधोपदिष्टं शिवदृष्टौ
परमगुरुभिर्भगवत्सोमानन्दनाथपादैः “एकवारं प्रमाणेन
शास्त्राद्वा गुरुवाक्यतः । ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या
दृढ़ात्मना । करणेन नास्ति कृत्यं क्वापि भावनया
सकृत् । ज्ञाते सुवर्णे करणं भावनां वा परित्यजेत्” इति ।
अपिशब्देन स्वात्मनस्तदभिन्नतामाविष्कुर्वता पूर्णत्वेन
स्वात्मनि परार्थसम्पत्त्यतिरिक्तप्रयोजनान्तरावकाशश्च
पराकृतः । परार्थश्च प्रयोजनं भवत्येव तल्लक्षणयोगात् न
ह्ययं देवशापः, स्वार्थ एव प्रयोजनं न परार्थ इति ।
अत एवोक्तमक्षपादेन “यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयो-
जनम्” इति । उपशब्दः सामीप्यार्थः तेन जनम्य
परमेश्वरसमीपताकरणमात्रं फलम् अत एवाह समस्तेति
परमेश्वरतालाभे हि सर्वाः सम्पदस्तन्निष्यन्दमय्यः
सम्पन्ना एव रोहणाचललाभे रत्नसम्पद इव । एवं
परमेश्वरतालाभे किमन्यत् प्रार्थनीयम् । तदुक्तमुत्पला-
चार्य्यैः “भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।
एनया वा दरिद्राणां किमन्यदपयाचितम्” इति । इत्थं
षष्ठीसमासपक्षे प्रयोजनं निर्दिष्टम् । बहुब्रीहिपक्षे-
तूपायः समस्तस्य बाह्याभ्यन्तरस्य नित्यसुखादेर्या सम्पत्-
सिद्धिः तथात्वप्रकाशः तस्याः सम्यगवाप्तिर्यस्याः प्रत्यभि-
ज्ञायाः हेतीः सा तथोक्ता तस्य महेश्वरस्य प्रत्यभिज्ञा प्रति-
सन्धानाभिमुख्येन ज्ञानम् । लोके हि स एवायं चैत्र इति
प्रतिसन्धानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यव-
ह्रियते इहापि प्रसिद्धपुराणसिद्धागमानुमानादिज्ञात-
परिपूर्णशक्तिके परमेश्वरे सति खात्मन्यभिमुखीभूते
तच्छक्तिप्रतिसन्धानेन ज्ञानमुदेति नूनं सं एवेश्वरोऽह-
मिति । तामेतां प्रत्यभिज्ञामुपपादयामि उप्रपन्नः
सम्भवतीति तत्समर्थाचरणेन प्रयोजनव्यापारेण सम्पा-
दायामीत्यर्थः । यदीश्वरस्वभाव एवात्मा प्रकाशते तर्हि
किमनेन प्रत्यभिज्ञाप्रदर्शनप्रयासेनेति चेत् तत्रायं समाधिः
स्वप्रकाशतया सततमवभासमानेऽप्यात्मनि मायावशात्
भागेन न पूकाशते पूर्णतावभाससिद्धये दृकक्रियात्मकशक्त्या-
विष्करणेन प्रत्यभिज्ञा प्रदर्श्यते । तथा च प्रयोगः
अयमात्मा परमेश्वरो भवितुमर्हति ज्ञानक्रियाशक्तिमत्त्वात्
यो यावति ज्ञाता कर्त्ता च स ताबतीश्वरः प्रसिद्धेश्वर-
वत् राजवद्वा आत्मा च विश्वज्ञाता कर्त्ता च तस्मादी-
श्वरीऽयमिति अवयवपञ्चकस्याश्रयणं मायावादेन नैया-
यिकमतस्य कक्षीकारात् । तदुक्तमुदयकरसूनुना “कर्त्तरि
ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे । अजड़ात्मा निषेधं
वा सिद्धिं वा विदधीत कः । किन्तु मोहवशादस्मिन्
दृष्टेऽप्यनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोप-
दर्श्यते” । तथा हि “सर्वेषामिह भूतानां प्रतिष्ठा
जीवदाश्रया । ज्ञानं क्रिया च भूतानां जीवतां जीवनं
मतम् । तत्र ज्ञानं स्वतः सिद्धं क्रिया काऽस्याश्रिता
सती । परैरप्युपलक्ष्येत तयाऽन्यज्ज्ञानमुच्यते” इति ।
“या चैषां पृतिभा तत्तत्पदार्थक्रमरूपिता । अक्रमानन्द-
चिद्रूपः प्रमाता स महेश्वरा” इति च । सोमानन्द-
नाथपादैरपि “सदा शिवात्मना वेत्ति सदा वेत्ति
मदात्मना” इत्यादि । ज्ञानाधिकारपरिसमाप्तावपि “तदैक्येन
विना नास्ति संविदां लोकपद्धतिः । प्रकाशैक्यात्तदेकत्वं
पृष्ठ ४४६३
मातैकः स इति स्थितः । स एवार्थभृशत्वेन नियतेन
महेश्वरः । विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः” इति ।
विवृतं चाभिनवगुप्ताचार्य्यैः “तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभातीति” श्रुत्या प्रकाशचिद्रूप-
महिम्ना सर्वस्य भावजातस्य भासकत्वमभ्युपेयते ततश्च
विषयप्रकाशस्य नीलप्रकाशः पीतप्रकाश इति विषयोप-
रागभेदाद्भेदः । वस्तुतस्तु देशकालाकारसङ्कोचवैकल्या
दभेद एव स एव चैतन्यरूपः प्रकाशः प्रमातेत्युच्यते ।
तथा च पठितं शिवसूत्रेषु “चैतन्यमात्मेति” । तस्य
चिद्रूपत्वमनवच्छिन्नविमर्शत्वमनन्योन्मुस्वमानन्दैकघनत्वं
माहेश्वर्य्य मिति पर्य्यायः स एव ह्ययं भावात्मा विमर्शः शुद्धे
पारमार्थिक्यौ ज्ञानक्रिये तत्र प्रकाशरूपता ज्ञानं, स्वतो
जगन्निर्मावृत्वं क्रिया । तच्च निरूपितं क्रियाधिकारे
“एष चानन्दशक्तित्वादेवमाभासयत्यमून् । भावानिच्छा-
वशादेषा क्रिया निर्मातृताऽस्य तु” । उपसंहारेऽपि “इत्थं
तथा घटपटाद्याकारजगदात्मना । तिष्ठासारेवमिच्छैव
हेतुकर्तृकृता क्रियेति । तस्मिन् सतीदमस्तीति कार्य्य-
कारणतापि या । साप्यपेक्षाविहीनानां जडानां
नोपषद्यते” इति न्यायेन यतो जड़स्य न कारणता न वा
अनीश्वरस्य चेतनस्यापि तस्मात्तेन तेन जगद्गतजन्मस्थि-
त्यादिभावविकारत्तद्भेदक्रिथासहस्ररूपेण स्थातुमिच्छाः
स्वतन्त्रस्य भगवती महेश्वरस्येच्छैवोत्तरोत्तरमच्छस्वभावा
क्रिया विश्वकर्तृत्वं वोच्यते इति । इच्छामात्रेण जगन्नि
र्माणमित्यत्र दृष्टान्तोऽपि स्पष्टं निर्दिष्टः “योगिनामपि
मृद्वीजं विनैवेच्छावशेन यत् । घटादि जायते तत्तत्
स्थिरस्वार्थक्रियाकरम्” इति । यदि घटादिकं प्रति
मृदाद्येव परमार्थतः कारणं स्यात्तर्हि कथं योगीच्छामा-
त्रेण घटादिजन्म स्यात् । अथोच्येत अन्य एव मृद्-
बोजादिजन्या घटाङ्कुरादयो योगीच्छाजन्यास्त्वन्या एवेति
तत्रापि बोध्यसे सामग्रीभेदात्तावत् कार्य्यभेद इति सर्व-
जनप्रसिद्धम् । ये तु वर्णयन्ति नोपादानं विना घटाद्यु
त्पत्तिरिति योगी त्विच्छया परमाणून् व्यापारयन् सङ्घ-
टयतीति तेऽपि बोधनीयाः । यदि परिदृष्टकार्य्यका-
रणभावविपर्य्ययो न लभ्येत तर्हि घटे मृद्दण्डचक्रादि-
देहे स्त्रीपुरुषसंयोगादिःसर्वमपेक्ष्येत तथा च योगीच्छास-
मनन्तरसञ्जातघटदेहादिसम्भवो दुःसमर्थ एव स्यात् । चेतन
एव तु तथा भाति भगवान् भूरिभगो महादेवो
नियतनुवर्त्तवोल्लङ्घनघनंतरस्वातन्त्य इति पक्षे न काचि-
दनुपपत्तिः । अत एवोक्तं वसुगुप्ताचार्य्यैः “निरुपा-
दानसम्भारमभित्तावेव तन्वते । जगज्जित्रं नमस्तस्मै
कलाश्ल घ्याय शूलिने” इति । ननु प्रत्यगात्मनः परमे-
श्वराभिन्नत्वे संसारसम्बन्धः कथं भवेदिति चेत्तत्रोक्त-
मागमाधिकारे “एष प्रमाता मायान्घः संसारी कर्म-
बन्धनः । विद्यादिज्ञापितैश्वर्य्यश्चिद्घनो मुक्त उच्यते”
इति । ननु प्रमेयस्य प्रमात्रभिन्नत्वे बद्धमुक्तयीः प्रमेयं
प्रति को विशेषः? अत्राप्युत्तरमुक्तं तत्त्वार्थसंग्रहाधिकारे
“मेयं साधारणं सुक्तः स्वात्माभेदेन भन्यते । महेश्वरो
यथा बद्धः पुनरत्यन्तभेदवदिति” नन्वात्मनः परमेश्वरत्वं
स्वाभाविकं चेन्नार्थः प्रत्यभिज्ञाप्रार्थनया न हि वीजमप्र-
त्यभिज्ञातं सति सहकारिसाकल्ये अङ्कुरं नोत्पादयति ।
तस्मात् कस्माद्वात्मप्रत्यभिज्ञाने निबंन्ध इति चेदुच्यते ।
शृणु तावदिदं रहस्यं द्विविधा ह्यर्थक्रिया बाह्याङ्कुरा-
दिका प्रमातृविश्रान्तिचमत्कारसारा प्रीत्यादिरूपा च
तत्राद्या प्रत्यभिज्ञानं नापेक्षते द्वितीया तु तदषेक्षत
एव । इहाप्यहमीश्वर इत्येवम्भूतचमत्कारसारा
परापरसिद्धिलक्षणजीवात्मैकत्वशक्तिविभूतिरूपाऽर्थक्रियेति
स्वरूपप्रत्यभिज्ञानमपेक्षणीयम् । ननु प्रमातृविश्रान्ति-
सारार्थक्रिया प्रत्यभिज्ञानेन विना दृष्टा सती तस्मित्
दृष्टेति क्व दृष्टम् । अत्रोच्यते नायकगुणगणसंश्रवण-
प्रवृद्धानुरागा का चन कामिनी मदनविह्वला विरहक्ले-
शमसहमाना मदनलेखावलम्वेन स्वावस्थानिवेदनानि
विधत्ते तथा येगात्तन्निकटमटत्यपि तस्मिन्नवलोकितेऽपि
तदवंलोकनं तदीयगुणपरामर्शाभावे जनसाधारणत्वं
प्राप्ते हृदयङ्गमभावं न लभते । यदा तु मूर्त्तिवचना-
चदीयगुणपरामर्शं करोति तदा तत्क्षणमेव पूर्वभाव-
मत्येति । एवं स्वात्मनि विषश्वरात्मना भासमानेऽपि-
तन्निर्भासनं तदीयगुणपरामशेविरहसमयं पूर्णं भाव न
सम्पादयति यदा तु गुरुवचनादिना सर्वज्ञत्वसर्वकर्तृत्वा-
दिलक्षणपमश्वरीत्कषपरामर्शो जायते तदा तत्क्षणमेव
पूर्णात्मतालाभः । तदुक्तं चतुर्थे विमर्शे “तैस्तैरप्युप-
याचितैरुपनतस्तस्याः स्थितोऽप्यन्तिके कान्तो
लोकसमान एवमपरिज्ञाता न रन्तं यथा । लोकस्यैष
तथानपेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवायं निजवैभवाय
तदियं तत्प्रत्यभिज्ञोदिता” इति । अभिनवगुप्तादिभि-
राचार्य्यौर्विहितप्रतानोऽपि अयमर्थः संग्रहमुपक्रममाणै-
रस्माभिर्बिस्तरभिया न प्रतानित इति सर्वं शिवम्” ।
पृष्ठ ४४६४

प्रत्यभियोग पु० प्रतिरूपोऽभियोगः प्रा० स० । अभियुक्तेन

प्रतिवादिना स्वाभियोगिनं प्रति अभियोगान्तरकरणे ।

प्रत्यभिवाद पु० प्रति + अभि + वद--णिच्--घञ् । अभिवादकस्य

तत्प्रतिरूपे आशीर्वचनादौ । भावे ल्युट् । प्रत्यभिवादन
तत्रार्थे न० । तत्प्रकारः मनुना कुल्लूकभट्टेन च दर्शितो
यथा “आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्योऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । यो न
वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स
विदुषा यथा शूद्रस्तथैव सः” “अभिवादने कृते प्रत्य-
भिवादयित्रा अभिवादको विपादिः आयुष्मान् भव
सौम्येति वाच्यः । अस्य चाभिवादकस्य यश्चाम
तस्यान्ते योऽकारादिः स्वरो नाम्नामकारान्तत्वनियमाभा-
वात् स प्लुतः कार्य्यः स्वरापेक्षञ्चेदकारान्तत्वं व्यञ्जना-
न्तेऽपि नाम्नि सम्भवति स्वरान्तरस्य च व्यञ्जनान्ते
नाम्नोऽसम्भवात् आह पूर्वाक्षर इति । पूर्वनामगतम-
क्षरं संश्लिष्टं यस्य स पूर्वाक्षरः तन नामाक्षरं पकृव्य
चाकारादिः स्वरः प्लुतः कार्यः । एतच्च वाक्यस्य टेः प्लुत
उदात्तः इत्यस्यानुवृत्तौ “प्रत्यभिवादेऽशूद्रे” इति प्लुतं
स्मरन् पाणिनिः स्फुटमुक्तवान् । व्याख्यातञ्च वृत्तिकृता
वामनेन टेरिति किं व्यञ्जनान्तस्यैव टेः प्लुतो यथा
स्यादिति । तस्मादीदृशं प्रत्यभिवादनवाक्यम् आयुष्मान् भव
सौम्य! शुभशर्म ३ न्! एवं क्षत्रियस्य वलवर्म ३ न् एवं
वैश्यस्य वसुभूते ३” “प्लुतो राजन्यविशां वेति कात्यायनव-
चनात् क्षत्रियवैश्ययोः पक्षे प्लुतो न भवति । शूद्रस्य
प्लुतो न कार्यः अशूद्र इति पाणिनिवचनात् । “स्त्रिया-
मपि निषेध” इति कात्यायनवचनात् स्त्रियामपि प्रत्य-
भिवादनवाक्ये न प्लुतः” ।

प्रत्यभिस्कन्दन न० प्रति + अभि + स्कन्द--भावे ल्युट् । प्रत्यभियोगे त्रिका० ।

प्रत्यय पु० प्रति + इण--भावकरणादौ अच् । १ अधीने

२ शपथे ३ ज्ञाने ४ विश्वासे प्रामाण्येन निश्चये ५ हेतौ ६ छिद्रे
७ शब्दभेदे अमरः । ८ आचारे ९ ख्यातौ मेदि० । १०
निश्चये ११ स्वादुनि हेमच० १२ सहकारिकारणे त्रिका० ।
शब्दभेदप्रत्ययलक्षणन्तु शब्दश० प्रका० उक्तं यथा “लाघ-
वादन्यथा निर्वक्ति “इतरार्थानवच्छिन्ने स्वार्थे यो
बोधनाक्षमः । तिङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते” ।
यः शब्दः शब्दान्तरार्थाविशेषिते यादृशस्वार्थे धर्मिणि
तिङर्थ स्यान्वयवोधने स्वरूपायोगृ स वा निभादिशब्देभ्यो
मिन्नस्तादृशार्थे प्रत्यय इत्यर्थः । चैत्रोऽस्तीत्यादावर्थान्त-
रानवच्छिन्ने स्वार्थे नाम्नां तिङर्थान्वयबोधकत्वम् । एवं
यजेत स्थीयेतेत्यादौ यजादिधातूनाम् । पचतीत्यादौ तिङां
पाचकोऽस्तीत्यादौ कृतां काश्यपिरित्यादौ च तद्धिता-
नाम् प्रकृत्यर्थावच्छिन्ने एव स्वार्थे कृत्यादौ तिङर्थस्य
वर्त्तमानत्वादेर्बोधकत्वं न तु तदनवच्छिन्न इति न तेष्वप्र-
सङ्गः । निभनिपातादिकस्तु शब्दान्तरार्थानवच्छिन्ने
सदृशसमुच्चयादिखार्थे तिङर्थास्यान्वयं प्रति स्वरूपायी-
ग्योऽपि निभादिरेवेति न तत्र प्रसङ्गः” ।
वैयाकरणमते तु अस्माभिस्तल्लक्षणं शब्दार्थरत्नेउक्तं यथा
“प्रत्ययस्तु प्रकृतिमवधीकृत्य विधीयमानः स्वार्थवोधकः
शब्दविशेषः प्रकृतिशब्ददर्शितभाष्योक्तेः । “स्वीयमर्थं प्रत्या-
यतीति” प्रत्ययलक्षणे भाष्योक्तेश्च तथैवावगम्यते ।
अवधिश्च पूर्वापररूपो ग्राह्यः तेन बहुचि नाप्रसङ्गः तस्यापि
प्रकृत्यवधिकत्वेन विधीयमानत्वात् । सिद्धान्ते तु वृत्तिश-
ब्दानां समुदायशक्तिस्वीकारेण बहुजादेर्निरर्थकतया
मुख्यप्रत्ययत्वाभावादेव पूर्बत्वरूपावधित्वप्रवेशेऽपि न क्षतिः ।
अतएव प्रकृतिशब्दोक्तहरिकारिकायां “प्रत्ययः पर” इत्यनेन
परत्वेन विधीयमानत्वं प्रत्ययत्वमुक्तं तस्य च मुख्यत्वद्यो-
तनार्थं स्वार्थकत्वसाकाङ्क्षत्वकथनाय च इतरत् द्विशेषणम्
तथा च तदर्थान्वितस्वार्थबोधने तदपेक्षत्वे सति
तदवधिकत्वेन विधीयमानत्वं तत्प्रत्ययत्वमिति फलितोऽर्थः ।
अन्वितत्वञ्च विशेष्यतया विशेषणतया वा ग्राह्यं तेन
तिङा धात्वर्थविशेष्यकान्वयस्य बोधकत्वेऽपि न क्षतिः ।
यदि चावयवशक्तिस्वीकारस्तदा परपदेनावधिमात्रं लक्ष-
णीयम् अवधिश्च पूर्वापरान्यतरएव निबेशनीयः । एवञ्च
प्रत्ययनिमित्तकप्रकृत्यङ्गकार्यविशेषे विकरणागमादीनां
प्रत्ययत्वस्वीकारेण परत्वमात्रं प्रत्ययत्वमिति बोध्यम् ।
अथवा प्रत्यय इत्यधिकृत्या पञ्चमाध्यायसमाप्तेर्विधीय-
मानत्वं प्रारिभाषिकप्रत्ययत्वं तत्रैव अर्थबोधकत्वे
सतीति विशेषणे मुख्यप्रत्ययत्वसामान्यलक्षण पर्व्यवस्यति
तत्तत्प्रत्ययत्वन्तूक्तमेव । स्वार्थिकप्रत्ययानामपि प्रकृत्य-
र्थानुवादितया स्वार्थबोधकत्वमतएवाभिहितं वाक्यपदीये
“स्वार्थिकाः प्रत्ययाः केचित् प्रकृत्यर्थानुबादिनः” इति ।
एतदनुरोधेनैव शेस्वरादौ स्वस्वप्रकृत्यर्थान्यतरप्रत्यायकत्वं
प्रत्ययानामुक्तम् । विकरणादयः पुनः सर्वथा निरर्थका
तेषां द्योतकत्वाद्यनङ्गीकारात् तद्व्यतिरेकेणापि कृदादौ
धातुमात्रादेवार्थप्रतीतेर्दर्शनात् । उक्तञ्च बाक्यपदीये “यत्र
वाऽव्यभिचारेण तयोः शक्तिप्रकल्पनम् । निश्चमस्तत्र
पृष्ठ ४४६५
नियमो न त्वेवं श्यन्शबादिष्विति” । यत्र ययोरव्य
भिचारेणान्वयव्यतिरेकाभ्यां, नियमः अर्थप्रतीतिनिय-
मस्तयोः प्रकृतिप्रत्यययोः शक्तिकल्पनम् । यत्र चैवं न
नियमस्तत्र श्यन्शवादिषु नेत्यस्यावृत्त्या शक्तिकल्पनं
नेत्यर्थः” । १३ विष्णौ पु० “प्रत्ययः सर्वदर्शनः” विष्णुसं ।
तस्य ज्ञानरूपत्वात् तथात्वम् भाष्ये दृश्यम् । प्रत्ययश्च
बुद्धिरात्मगुण इति नैयायिकाः । महत्तत्त्वधर्म इति
सांख्याः । “एष प्रत्ययसर्गो विपर्य्ययाशक्तितुष्टीनाम्”
सा० का० । “प्रतीयतेऽनेनेति प्रत्ययो बुद्धिस्तस्य सर्गः तत्र
विपर्य्ययोऽज्ञानमविद्या च बुद्धिधर्मः अशक्तिरपि करणवै-
कल्यहेतुका बुद्धिधर्म एव तुष्टिसिद्धो अपि वक्ष्यमाणे
बुद्धिधर्मावेव, तत्र विपर्य्ययाशक्तितुष्टिषु कथायोगं
सप्तानां धर्मादीनां ज्ञानवर्जमन्तर्भावः सिद्धौ च ज्ञान-
स्येति” त० कौ० । कृदभिहितो भावो द्रव्यवत् प्रकाशते”
इति न्यायात् सर्गपदं सृज्यमानपरं तथा चाविद्या-
देर्बुद्धिधर्मत्वात् तत्सृष्टत्वम् ।

प्रत्ययकारिन् त्रि० प्रत्ययं करोति कृ--णिनि । १ विश्वासका-

रके स्वमतत्वसूचके २ मुद्राभेदे(मोहर)त्रिका० ।

प्रत्ययित त्रि० प्रति + अय --क्त । १ आप्ते २ विश्वस्ते ३ प्रतिगते च अमरः

प्रत्यरा स्त्री प्रतिनिहिताः अराः प्रा० स० । अरादार्ढ्याय

उपनिहिते कीलके “शतार्द्धारं विशतिप्रत्यराभिः”
श्वेताश्व० उ० “पूर्वोक्तानामराणां दार्ढ्याय ये प्रतिविधीयन्ते
कीलकास्ते प्रत्यरा इत्युच्यन्ते” भाष्ये उक्तम् ।

प्रत्यरि पु० प्रति + ऋ--इन् । १ शत्रौ २ जन्मतारातः पञ्चमचतु-

र्दशत्रयोविंशतितारके “जन्म सम्पद्विपत् क्षेमं प्रत्यरिः
माधकोबधः । मित्रं परममित्रं च जन्मर्क्षात्तुत्रिधा पुनः”
ज्यो० त० । “तारा पुनः पापाख्या त्रिविधा पञ्चचतुर्दश-
विंशतिस्त्रियुता । सिद्धिफला वृद्धिकरी विनाशसंज्ञा
क्रमात् कथिता” ज्यो० त० । तेन तृतीयस्यैव विशेषत
आवश्यककार्य्यादौ निषेधात् त्याज्यता आद्ययोर्द्वयोस्तु
प्रतिप्रसवः इति द्रष्टव्यम् “प्रत्यरौ लवणं दद्यादिति”
दानमपि तृतीयप्रत्यरावेवेति विवेचनीयम् ।

प्रत्यर्थिन् त्रि० प्रत्यर्थयते प्रति + अर्थ--पीडने णिनि । १ शत्रौ

अमरः । प्रतिकूलमर्थयते णिनि, प्रतिपक्षः अर्थिनः प्रा०
स० वा । व्यवहारे २ प्रतिवादिनि शब्दर० । “प्रत्यर्थिनो-
ऽग्रतो लेख्यं प्रतिज्ञातार्थसाधनम्” याज्ञ० ।

प्रत्यर्पण न० प्रति + ऋ--णिच्--पुक्--ल्युट् । प्रतिदाने गृही-

तस्य धनादेः पुनदाने प्रतिसमर्पणे ।

प्रत्यवनेजन न० प्रतिरूपमवनेजनम् प्रा० स० । श्राद्धाङ्गे

प्रथमजलादिदानरूपानुरूपे पिण्डोपरि क्रियमाणे पुनर-
वनेजने तच्च छन्दोगेतरपरं यथोक्तम् “छन्दोगानान्तु
पिण्डपात्रप्रक्षालनेन पूर्वदवनेजनम् । यथा छन्दो-
गपरिशिष्टं “तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत्” अत्राप्य
बनेजयेदिति श्रुतेर्द्वितीयावनेजनेऽपि अवनेनिक्ष्वेति
वक्तव्यं न तु प्रत्यनेनिक्ष्वेति” श्रा० त० रघु० ।

प्रत्यवमर्श पु० प्रति + अव--मृश--भावे घञ् । अनुसन्धाने

“स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत्” हरिवं० २१ अ०

प्रत्यवमर्ष पु० प्रति + अव + मृष--क्षान्तौ भावे घञ् । सहने

“स्वल्पसङ्करः सपरिहारः सप्रत्यवमर्षः” पञ्चशिखाचार्यः ।
“स्वल्पसङ्करः ज्यीतिष्टोमादिजन्मनः प्रधानापूर्वख
स्वल्पेन पशुहिंसादिजन्मनाऽनर्थहेतुना अपूर्वेण सङ्करः,
सपरिहारः कियतापि प्रायश्चित्तेन परिहर्त्तुंशक्यः ।
अथ प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाक-
समये च पच्यते तथापि यावदसावनर्व्यं सूते तावत् स
प्रत्यवमर्षः प्रत्यवमर्षेण सहिष्णुतया सह वर्त्तत् इति
मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाह्रदाव-
गाहिनः कुशलाः पापमात्रोपपादितां दुःस्ववह्नि-
कणिकाम्” त० कौ० । भावे ल्युट् । प्रत्यवमर्षण तत्रार्थे न० ।

प्रत्यवर त्रि० प्रतिरूपोऽवरः प्रा० स० । अतिनिकृष्टे “प्रतिग्र-

हाद्याजनाद्वा तथैवाध्यापनादपि । प्रतिग्रहः प्रत्यवरः
प्रेत्य विप्रस्य गर्हितः” मनुः ।

प्रत्यवरीह पु० प्रति + अव + रुह--घञ् । (नामा) अवरोहे

ल्युट् । प्रत्यवरोहण तत्रार्थे न० ।

प्रत्यवसान न० प्रति + अव + सो--क्त । भोजने हेमच० ।

प्रत्यवसित त्रि० प्रति + अव + सो--कर्मणि क्त । भुक्ते अमरः ।

प्रत्यवस्कन्द पु० प्रति + अव + स्कन्द--करण घञ् । व्यवहारे

उत्तरभेदे उत्तरशब्दे १०९० पृ० दृश्यम् । करणे ल्युट् ।
प्रत्यवस्कन्दन तत्रार्थे न० ।

प्रत्यवस्था स्त्री प्रति + अव + स्था--भावे अङ् । १ प्रतिपक्षतया

अवस्थाने । भावे ल्युट् । प्रत्यवस्थान तत्रार्थे न० ।
“साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम्” गौ० त०

प्रत्यवस्थातृ त्रि० प्रति + अव + स्था--तृच् । १ प्रतिषक्षतया

अवस्थातरि प्रतिवादिनि । २ शत्रौ हेम० ।

प्रत्यवहार पु० प्रति + अव--हृ--भावे घञ् । १ संहारे रघुः ४ । ४४

२ युद्धार्यमुद्युक्तानां सैन्यानां युद्धात् निवारणे भा० व०
२८३ अ० ।
पृष्ठ ४४६६

प्रत्यवाय पु० प्रति + अव--इण--करणे अच् । १ पापे “अनुत्-

पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते” जावालिः ।
भावे अच् । २ वैमत्याचरणे मनुः ४ । २४५ ।

प्रत्यवेक्षण त० प्रति + अव + ईक्ष--भावे ल्युट् । पूर्वापरालो-

चने २ एतावत्कृतमेतावत् न कृतमित्यर्थानुसन्धाने च ।
प्रति + अव + ईक्ष--भावे अ । प्रत्यवेक्षा तत्रार्थे स्त्री रघुः
१७ । ५३ ।

प्रत्यश्मन् पु० प्रतिरूपः अश्मा प्रा० स० । गैरिके हेम० ।

प्रत्यष्ठीला स्त्री सुश्रुतोक्ते अष्ठीलातुल्ये रोगभेदे “अष्ठीला-

वद्घनं ग्रन्थिमूर्द्ध्वमायतमुन्नतम् । वाताष्ठीलां विजानी-
याद्बहिर्मार्गावरोधिनीम् । एतामेव रुजायुक्तां
वातविण्मूत्ररोधिनीम् । प्रत्यष्ठीलामिति वदेज्जठरे तिर्य्यगु-
त्थिताम्” ।

प्रत्याकार प्रतिकृत आकारः खड्गाकारो येन प्रा० व० ।

खड्गकोषे त्रिका० ।

प्रत्याख्यात त्रि० प्रति + आ + ख्या--कर्मणि क्त । १ निराकृते २ दूरीकृते अमरः ।

प्रत्याख्यान न० प्रति + आ + ख्या--मावे ल्युट् । निराकरणे

अमरः ।

प्रत्यागति स्त्री प्रति + आ + गम--भावे क्तिन् । प्रत्यागमने(फिरे आशा)हरिवं० ३२५ अ० ।

प्रत्यागम पु० प्रति + आ + गम--भावे अप् । (फिरे आशा)

यस्मात् गतस्तस्मिन् पुनरागमने “तीर्थात् प्रत्यागमेऽपि च
प्रा० त० । भावे ल्युट् । प्रथागमन तत्रार्थे न० ।

प्रत्यादिष्ट त्रि० प्रति + आ + दिश--कर्मणि क्त । निरस्ते अमरः

प्रत्यादेश पु० प्रति + आ + दिश--भावे घञ् । १ निराकरणे अमरः

भक्तान् प्रति आदेशः । २ भक्तान् प्रति अभीष्टसिद्ध्यर्थं
देवानादेशे च ।

प्रत्याधान न० प्रतिपत्त्या धीयते प्रति + आ + धा--कर्मणि

ल्युट् । १ मस्तके “यो ह वै शिशुं साधानं प्रत्याधानम्”
शत० ब्रा० १४ । ५ । २ । १ भाष्यम् । “मस्तकस्य सर्वदेहेष्वव-
यवेषु आधीयमानत्वात् तथात्वम् । भावे ल्युट् प्रा० स० ।
२ द्वितीयाधाने न० ।

प्रत्याध्यान पु० वातव्याधिमेदे । तस्य लक्षणमाह

“विसुक्तपाश्व हृटयं तदवामाशयोत्थिनम् । प्रत्याध्म नं विं
जानीयात् कफव्याकुलितानिलम्” । विमुक्तपाश्चहृदयं
पार्श्वे हृदयं च विहाय जातं तदेवाध्मानम् । कफव्याकु
लितानिलं कफेनावकणवातम” भावप्र० ।

प्रत्यापत्ति खी प्रति + आ + पद--भाके क्तिन् । विराग्ये

भा० शा० २९३ अ० शीलकण्ठः । २ पुनरागमने च

प्रत्याम्नान त्रि० प्रतिरूपतया आम्नायते प्रति + आ + म्ना-

कर्मणि ल्युट् । प्रतिनिधौ “यजमानकर्त्तृत्वेन विधी-
यन्ते प्रत्याम्नानाश्च ऋत्विजी निवर्त्तन्ते” कात्या० श्रौ०
१ । ६ । १३ पद्धतौ ।

प्रत्याम्नाय पु० प्रतिरूपतया आम्नायते प्रति + आ + म्ना-

कर्मणि घञ् । प्रतिनिधित्वेन विधीयमाने ।

प्रत्यायक त्रि० प्रति + इ--ण्वुल् । १ विश्वासकारके २ बोधके च ।

प्रत्यायन न० प्रति + आ + इ--णिच् “णौ गमिरबोधने” पा०

उक्तेः न गमादेशः भावे ल्युट् । १ बोधने २ विश्वासज-
नने भा० अनु० २४४८ श्लो० ।

प्रत्यारम्भ पु० प्रतिरूप आरम्भः प्रा० स० । आरम्भात् पश्चत्

आरम्भे गलग्रहशब्दे २५६२ पृ० दृश्यम् ।

प्रत्यालीढ़ न० धन्विनां युद्धार्थमवस्थितिभेदे आलीढविपरी-

तरूपतया स्थितौ आलीढ़शब्द ८२४ पु० दृश्यम् ।

प्रत्यावर्त्तन न० प्रति + आ + वृत--णिच्--वा भावे ल्युट् ।

१ प्रतिनिवृत्तौ २ प्रतिनिवारणे च ।

प्रत्याशा स्त्री किञ्चित् वस्तु प्रति + आशा प्रा० स० । किञ्चि-

द्वस्तु प्रति वाञ्छायाम् ।

प्रत्याश्राव पु० प्रति + आ + श्रु--णिच्--अच् । १ उद्दिश्य श्रावणे

कर्मणि अच् । २ अस्तुश्रौषड़िति शब्दे यजु० १९ । २४ वेददी०

प्रत्याश्रावण न० प्रति + आ + श्रु--णिच् भावे ल्युट् । अग्नीध्र-

कर्त्तृके अध्वर्युं प्रति मन्त्रविशेषस्य आश्रवणे शत० ब्रा०
१२ । २ । ९ भाष्ये दृश्यम् ।

प्रत्याश्वासन न० प्रति + आ + श्वस--णिच्--भावे ल्युट् । सान्त्वनार्थमाश्वासने ।

प्रत्यासत्ति स्त्री प्रति + आ--सद--भावे क्तिन् । १ नैकट्ये न्या-

यमते २ अलौकिकप्रत्यक्षजनके सम्बन्धमात्रे “आसत्तिरा-
श्रयाणान्तु” भाषा० “आसत्तिः प्रत्यासत्तिः” सि० मु० ।

प्रत्यासन्न त्रि० प्रति + आ + द--क्त । १ अतिनिकटस्थे जटा०

२ सम्बद्धे च ।

प्रत्यास(सा)र पु० प्रति + आ + सृ--आधारे घञ् अप् वा ।

अबन्तः १ सैन्यपश्चाद्भागे घञन्तः तत्रार्थे अमरः । यत्र
व्यूहस्य पश्चाद्व्यूहान्तरं क्रियते २ तत्रार्थे भरतः ।

प्रत्यास्वर पु० प्रत्यास्वरति प्रति + आ + स्वॄ--अच् । १ प्रत्यागते

अस्तभावात् पुनः २ प्रत्यागते आदित्ये च “स्वर इतीमं
(प्राणम्) आचक्षते स्वर इति प्रत्यास्वर इति आसुम्”
(आदित्यम्) छा० उ० । “किञ्च स्वर इतीमं प्राणमाचक्षते
कअयन्ति तथा स्वर इति प्रत्यास्वर इति चामुं सविता-
रम् । यस्मात् प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति ।
पृष्ठ ४४६७
सविता त्वस्तमित्वा पुनरप्यहन्यहनि प्रत्यायच्छति । अतः
प्रत्यास्वरोऽस्माद्गुणतो नामतश्च समानमितरेतरं प्राणा-
दित्यौ” भा० ।

प्रत्याहरण न० प्रति + आ + हृ--भावे ल्युट् । १ चित्तेन्द्रियादेः विषयेभ्यो निवारणे ।

प्रत्याहार पु० प्रति + आ + हृ--भावे घञ् । चित्तेन्द्रियादेः

विषयेभ्यो निवारणे योगाङ्गभेदे तल्लक्षणं च अष्टाङ्गयोग
शब्द ५२४ पृ० उक्तं तत्कालमानञ्च “प्राणायामाद्वषट् केन
प्रत्याहार उदाहृतः” काशीख० ४१ अ० उक्तम् । “स्वविष-
याऽसम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्या-
हारः” पात० सू० “स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार
इवेति चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरे-
न्द्रियजयवदुपायान्तरमपेक्षन्ते । यथा मधुकरराज
मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुविशन्ते तथे
न्द्रियाणि चित्तनिरोधे निरुद्धानीत्थेष प्रत्याहारः” भा० ।
“ततः परमा वश्यतेन्द्रियाणाम्” पात० सू० शब्दादिष्व
व्यसनमिन्द्रिवजय इति केचित् शक्तिर्व्यसनं व्यस्यत्येनं
श्रेयस इति अविरुद्धा प्रतिपत्तिर्न्याय्या शब्दादिसम्प्रयोगः
स्वेच्छयेत्यन्ये रागद्वेषाभावे सुखदुःखशून्यं शब्दादि-
ज्ञानमिन्द्रियजय इति केचित् चित्तैकाग्र्यादप्रवृत्ति-
रेवेति जैगीषव्यः । ततश्च परमा त्वियं वश्यता यच्चित्त-
निरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रत्यत्नकृत-
मुपायान्तरमपेक्षन्ते योगिनः इति” भा० ।
अत्र चित्तस्यैव प्रत्थाहारेऽन्येन्द्रियस्य प्रत्याहारोऽर्थसिद्ध
इति बोध्यम् तत्फलञ्च । मनुना उक्तम् “प्रत्याहारेण
संसर्गान् ध्यानेनानीश्वराम् गुणान्” । प्रत्याह्रियन्ते
संक्षिप्य गृह्यन्ते वर्णां अनेन प्रति + आ + हृ--करणे घञ् ।
“आदिरन्त्येन सहता” पा० सूत्रेण २ कृतसंज्ञायां च
यथा “अण इति अ इ उ इति वर्णानां ग्रहणम् एवं
सुप् तिङप्रभृतिष्वपि स्वादीनां तिबादीनाञ्च ग्रहण-
मिति । “प्रत्याहारेष्वितां न ग्रहणमिति” तेन् अच् प्रत्या-
हारे णकङचां न ग्रहणम् बोध्यम् । भावे घञ् ।
३ उपादाने पु० अमरः ।

प्रत्युक्त त्रि० प्रति + वच--कर्मणि क्त । १ उत्तरिते प्रतिवावाक्येन २ निराकृते च ।

प्रत्युक्ति स्त्री प्रति + वच--भावे क्तिन् । प्रतिवाक्यकथने शब्दर०

प्रत्युज्जीवन न० प्रति + उद् + जीव--भावे ल्युट् । पुनर्जीवने

मरणोत्तरं पुनर्जीवने । “रसविच्छेदहेतुत्वात् मरणं नैव
वर्ण्यते । वर्ण्यतेऽपि यदि प्रत्युज्जीवनं स्याददूरतः”
सा० द० । यथा कादम्बरीग्रन्थे तद्वर्णनम् ।

प्रत्युत अव्य० प्रति--उत द्व० । १ स्वपक्षस्थापनाय परपक्षनिरा-

करणाय वा उक्तस्य तद्वैपरीत्यभावे २ वैपरीत्यमात्रे च
“न दोषः पुनरुक्ताऽपि प्रत्युतेयमलङ्क्रिया” काव्याद० ।

प्रत्युत्क्रम पु० प्रति + उद् + क्रम--घञ् न वृद्धिः । १ युद्धार्थोद्योगे

२ प्रधानप्रयोजनोद्देशेनाप्रधानारम्भे च अमरः । क्तिन् ।
पत्युत्क्रान्ति तत्रार्थे स्त्री क्षीरस्वामी ।

प्रत्युत्तर न० प्रतिरूपमुत्तरस्य प्रा० स० । उत्तरस्योत्तरवाक्ये

वादिनोपन्यस्तपक्षस्य तद्विरुद्धपक्षप्रतिपादके वाक्ये ।

प्रत्युत्थान न० प्रति + उद् + स्था--ल्युट् । अभ्युत्थाने आगतस्य

सम्माननार्थमासनादुत्थितौ “प्रयुत्थानाभिवादभ्यां
पुनस्तत्प्रतिपद्यते” अनुः ।

प्रत्युत्पन्नमति त्रि० प्रत्युत्पन्ना तत्कालाचिता मतिर्यस्य ।

१ तत्कालोचितबुद्धौ हेमच० । २ प्रतिभान्विते जटा० ।
अनागतविधातृशब्दे १५४ पृ० दृश्यम् ।

प्रत्युदाहरण न० प्रतिकूलमुदाहरणं प्रा० स० । उदाहरणस्य

वैपरीत्येन उदाहरणे । “अन्तर्वत्पतितोर्नुक्” पा०
सू० वृत्तौ अन्तर्वत्नी पतिवत्नीत्युदाहृत्य “प्रत्युंदाहर-
णन्तु अन्तरस्त्यस्यां शालायां घटः । पतिसती पृथिवी”
सि० कौ० ।

प्रत्युद्गम पु० प्रति + उद् + गम--घञ् न वृद्धिः । १ प्रत्युत्थाने

(आवाडायाओया) प्रतिगमने २ च भावे ल्युट् । प्रत्युद्गमन
तत्रार्थे न० ।

प्रत्युद्गमनीय न० प्रति + उद् + गम--अनीयर् । १ धौतयस्त्रयग्मो

अमरः “गृहीतप्रत्युद्गमनीयवस्त्रा” इति कुमारे पाठान्तरं
प्रह्रे वेति न गुरुत्वम् । २ सुमुपस्यानयोग्ये पूजनिये च त्रि०

प्रत्युन्नमन न० प्रतिकूतमुन्नमन प्रा० स० । उन्नमनप्रतिकूले

अवनमने । “अङ्गुल्याऽवपीड़िते प्रत्युन्नभनम्” सुश्रुत-
व्रणचिकित्साङ्गक्रियोक्तौ ।

प्रत्युपकार पु० प्रतिरूपः उपकारः पा० स० । १ कृतापकारेण

कृते उपकारकस्य उपकारातुरूपे हिताचरणे ।

प्रत्युपदेश पु० प्रतिरूपः उपदेशः प्रा० स० । १ उपदेशकस्य

प्राप्तोपदेशेन कृते शिक्षाभेदे कुमा० १ । ३४

प्रत्युपहार पु० प्रतिरूप उपहारः प्रा० स० । अनुरूपे

उपहारे उपढोकनोये द्रव्ये ।

प्रत्युरस अव्य० उरसि विभक्त्यर्थेऽव्ययी० । “प्रतेरुरसः

सप्तमीस्थात्” पा० अच् समा० । उरसीत्यर्थे । सप्तमीस्था-
दित्युक्तेः लक्षणाद्यर्थ प्रतेर्न अच् । प्रत्युरस् इत्येब ।
पृष्ठ ४४६८

प्रत्युलूक पु० प्रतिकूल उलूकस्य प्रा० स० । १ काके भाग० १ ।

१४ । १४ । “प्रत्युलूकः काकः” श्रीधरः । प्रतिरूपः
उलूको यस्य कप् । प्रत्युलूकक उलूकानुरूपे पक्षिभेदे
“उलूका प्रत्युलूककान्” हरिवं० ३ अ० ।

प्रत्युष पु० प्रति + उष--दाहे आधारस्य कर्तृत्वविवक्षायां क ।

प्रातः काले मथुरेशः ।

प्रत्युषस् न० प्रति + उष--आधारे कसुत् । प्रातःकाले अमरः ।

“याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युषः पारिजातः”
सूर्य्यशतकम् ।

प्रत्यूष पु० प्रत्यूषति रुजति कामुकान् प्र + ऊष--रुजायां क ।

१ प्रभाते अमरः “प्रत्यूषपवनासारै हरिवं० ८३ अ० ।
अष्टवसुमध्ये २ वसुभेदे च जटा० । धरशब्दे ३८४७ पृ०
दृश्यम् । ३ सूर्य्ये शब्दर० ।

प्रत्यूषस् न० प्रति + ऊष--रुजायाम् असुन् असि वा । प्रभाते

अमरः “स्नानमत्यधिकं कार्य्यं प्रत्यूषस्यात्मनी जले”
हरिवं० १४ अ० ।

प्रत्यूह पु० प्रति + ऊह--घञ् । विघ्ने अमरः तस्य ऊहां प्रति प्रतिबन्धकत्वात्तथात्वम् ।

प्रत्यृच अव्य० ऋचमृचं प्रति वीप्सायाम् अव्ययी० अच् समा० ।

एकैकस्यामृचौ आश्व० ६ । ४

प्रत्येक अव्य० एकमेकं प्रति वीप्सायामव्ययी० । एकैकस्मिन्

वीप्सायुते एकशब्दार्थे ।

प्रत्योकबुद्ध पु० बुद्धभेदे त्रिका० ।

प्रत्वक्षस त्रि० प्र + त्वक्षू--तनूकरणे असुन् । प्रकर्षेण तनूका-

रके शत्रुधातिनि ऋ० १ । ८१ । १ भा० ।

प्रथ ख्यातौ भ्वा० आ० अक० सेट् । प्रथते अप्रयिष्ट घाटा० णिच्

प्रथयति । भावे अङ् प्रथा ।

प्रथ ख्यातौ अक० विक्षेएपे सक० चुरा० उभ० सेट् घटा० । प्रथयतिते अपप्रशत् त ।

प्रथम त्रि० पथ--अमच् । १ प्रधाने २ आद्ये च अमरः । जसि

वा सर्वनामतास्य प्रथमे प्रथमाः । तस्य भावः ष्यञ् ।
प्राथम्य आद्यत्वे प्राधान्ये च न० ।

प्रथमज त्रि० प्रथमं जायते जन--ड । १ पूर्वजाते २ प्रथमगर्भजाते

पुं स्त्री० यजु० १६ । २५ जन--क्त । प्रथमजात त्रत्रार्थे त्रि०

प्रथमवयसिन् त्रि० प्रथमवयोऽस्त्यस्य या० इति सान्तत्वात्

न पदात्वम् । प्रथमवयोयुक्ते शत० ब्रा० १३ । १ । ७ । ८ स्त्रियां
ङीप ।

प्रथमवित्ता स्त्री प्रथमं वित्ता विन्ना लब्धा । प्रथमपरिणी-

तायां स्त्रियां महिष्यां कात्या० १६ । ३ । २१ । ५

प्रथमसाहस पु० “पणानां द्वे शते सार्द्धे प्रथमः साहसः

स्मृतः” विष्णु० उक्ते सार्द्धशतपणद्वयरूपे दण्डभेदे

प्रथमाङ्गुलि पुंस्त्री० कर्म० । वृद्धाङ्गुष्ठे “शब्दमयं महा०

प्राणं प्रथमाङ्गलियोगतः” प्रथमाङ्गुलिर्वृद्धाङ्गुलिः तन्त्रसारः

प्रथमाश्रम पु० न० कर्म० । ब्रह्महर्य्याश्रमे “शरीरवन्धः । प्रथमा-

अमो यथा” कुमा० ।

प्रथा स्त्री प्रथ--घटा० भावे अङ् । ख्याती अमरः ।

प्रथित त्रि० प्रथ--क्त । १ ख्याते अमरः । २ खारोचिषमनोः

पुत्रभेदे पु० हरिवं० ७ अ० । ३ विष्णौ पु० “अच्युतः ष्र०
थितः प्राणः” विष्णुस० ।

प्रथिमन् पु० पृथोर्भावः पृथु + इभनिच् प्रथादेशः । पृथुत्वे

स्थूलत्वे । अतिशयेन पृथुः इमनिच् । अतिशयेन पृथुत्वयुते

प्रथिमिनो स्त्री प्रथिमाऽस्त्यस्याः “संज्ञायां मन्माभ्याम्” पा०

इनि टिलोपः । पृथुत्वयुतस्त्रीभेदे । असंज्ञायां तु मतुप्
मस्य वः । प्रथिमवत् इत्येव स्त्रियां ङीप् ।

प्रथिवी स्त्री पृथिवी + पृषो० । पृथिव्यां भा० वि० ४४ अ० ।

प्रथिष्ठ त्रि० अतिशयेन पृथु--इष्ठन् प्रथादेशः । पृथुतरे ।

तत्रार्थे ईयसुन् प्रथीयस् पृथुतमे स्त्रियां ङीप् ।

प्रथु पु० प्रथते प्रथ--उन् । विष्णौ “प्राणदः प्रणवः पथः”

विष्णुस० ।

प्रथुक पु० प्रथ--बा० उक । वृथुके चिपिटके रायमुकुटः ।

प्रदक्षिण न० प्रगतो दक्षिणाम् अत्या० स० । दक्षिणपार्श्वानु-

गते देवेभ्यः स्वदक्षिणदर्शनेनं प्रणामभेदे तल्लक्षेणफला-
दिकं यथा “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः
पुनः । दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः ।
सकृत्त्रिर्वा वेष्टयेत्तु देव्याः प्रीतिः प्रजायते । स च प्रद-
क्षिणी ज्ञेयः सर्वदेवौघतुष्ठिदः । अष्टोत्तरशतं यस्तु
देव्याः कुर्य्यात् प्रदक्षिणम् । सवान् कामान् समासाद्य
पश्चान्मोक्षमवाप्नुयात् । मनसापि च यो दद्याद्देव्यै भक्त्या
प्रदक्षिणम् । प्रदक्षिणाद्यमगृहे नरकाणि न पश्यति”
कालिकापु० ७० अ० । “एकं देव्यां रवौ सप्त त्रीणि कुर्व्या-
द्विनायके । चत्वारि केशवे कुर्य्यात् शिवे चार्द्ध प्रदक्षि-
णम्” कर्मलोचनम् । “दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च
शाम्मवीम् । तनश्च दक्षिणां गत्वा नमस्कारस्त्रिकोण-
वत् । अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समीरितम् । शिवप्रद-
क्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु । सव्यासव्यक्रमेणैव
सोमसूत्रं न लङ्घयेत्” । सोमसूत्रं जलनिःसरणस्थानम् ।
“प्रसार्य्य दक्षिंणं हस्तं स्वयं नग्नशिराः पुनः । दर्शये-
द्दक्षिणं पार्श्वं मनसापि च दक्षिणः । त्रिया च वेद्ध-
येत् सम्यक् देवतायाः प्रदत्तिणम्” तन्त्रसारः ।
पृष्ठ ४४६९

प्रदक्षिणित् न० प्रदक्षिण + पृषो० । प्रदक्षिशब्दार्थे ऋ० २ । ४३ ।

१ । भाष्ये दृश्यम् ।

प्रदत्त त्रि० प्र + दा--कर्मणि क्त वा तादेशाभावे दद्भावः । प्रदत्ते प्रकर्षेण दत्ते ।

प्रदर पु० प्र + दॄ--भावादौ अप् । १ भङ्ग दारणसाधने २ बाणे

अमरः । ३ विदारे ४ स्त्रीणां योनिरोगभेदे मेदि० तन्नि-
दानकर्म च भृगुभारतोक्तं कर्मविंपाकशब्दे १७६९ पृ०
दर्शितम् । स च असृग्दराख्यः स्त्रीणां योनिरोगभेदः ।
तल्लक्षणादि माधवनिदाने उक्तं यथा
“विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च ।
व्यानाध्वशोकादतिकर्षणाच्च भाराभिधाताच्छयनाद्दिवा च ।
असृग्दरं भवेत् सर्वं साङ्गमर्द्दं सवेदनम् । तस्याति-
वृद्धौ दौर्बल्यं श्रमो मूर्च्छा मदस्तृषा । दाहः प्रलापः
याण्डुत्वं तन्द्रा रोगाश्च वातजाः” । स च चतुर्विधो
यथा “तं श्लोष्मपित्तानिलसन्निपातैश्चतुःप्रकारं प्रवदन्ति
वैद्याः । आमं सपिच्छापतिमं सपाण्डु पुलाकतोयप्रतिमं
कफात्तु । सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तं
भृशवेगि पित्तात् । रूक्षारुणं फेनिलमल्पमल्पं वाता-
र्त्ति वातात् षिशितोदकाभम् । सक्षौद्रसर्पिर्हरिताल-
वर्णं लाजप्रकाशं कुणपं त्रिदोवात् । तच्चाप्यसाध्यं प्रव-
दन्ति तज्ज्ञा न तत्र कुर्वीत भिषक् चिकित्साभ्” ।

प्रदल पु० प्रकर्षेण दलति प्र + दल--अच् । बाणे जटा०

प्रदव पु० दुनीति दु--अच् “दुन्तोरनुपसर्गे” पा० अनुसर्गे

इत्युक्तुः न ण । १ प्रकृष्टतापके । भावे अप् । २ प्रकृततापे पु०

प्रदव्य पु० प्रदवाय हितं बा० यत् । १ दावाग्नौ कात्या० श्रौ०

२५ । ४ । ३२ कर्कः ।

प्रदा स्त्री प्र + दा--भावे अङ् । प्रकृष्टदाने । कर्त्तरि क । २ प्रकृष्टदायके त्रि० ।

प्रदान न० प्र + दा--भावे ल्युट् । प्रकृष्टदाने “प्रदानं स्वाम्य-

कारणम्” मनुः ।

प्रदि लि० प्र + दा--“उपसर्गे घोः कि” पा० कि । प्रदानकर्त्तरि

प्रदिग्ध स्त्रि० प्र + दिह--कर्मणि क्त । १ लिप्ते २ भर्जनविशेषयुते

मांसे न० “मासं वहवृतैर्भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः ।
जीरताद्यैः समायुक्तं परिरास्कं तदुच्यत । तदेव घृत
तक्राढ्यं प्रदिग्धं सत्वियातकस्” शब्दव० ।

प्रदिव् त्रि० प्रकर्पेण दीव्यनि प्र + दिप--किण् । १ प्रकर्षेण द्योत-

माने क० २ । २८२ म० । २ प्रकृष्टदिने स्त्री ३ पूर्वदिने
२ । ४७ । १ । ४ पुरातने निघण्टुः बहुव

प्रदिश् स्त्री० दिशोरन्तरालं प्रगता दिक पा० स० । विदियि दि

परणरालदिशि णटा०

प्रदीप पु० प्र + दीप--अच् । दीपे अमरः । दीपशब्दे ३६०५

पृ० दृश्यम् । तत्र हितः अपूपा० छ । प्रदीपीय तद्धिते
त्रि० पक्षे यत् । प्रदीप्य तत्रार्थे

प्रदीपन पु० प्रदीप्यते प्र + दीप--ल्यु । १ स्थावरे २ विषभेदे

तल्लक्षणं राजनि० उक्तं यथा “वर्णतो लोहितो यः
स्यात् दीप्तिमान् दहनप्रभः । महादाहकरः पूर्वैः कथितः
स प्रदीपनः” । णिच--ल्यु । ३ प्रकाशके त्रि० ।

प्रदुह् त्रि० प्र + दुह--सत्सूद्विषेत्यादिना क्विप् पा० प्रकर्षेण

दोग्धरि पदत्वेऽस्य हस्य षत्वे दस्य धः । प्रधुक् प्रधुग्-
भ्यामित्यादि ।

प्रदेश पु० प्रा० स० । १ एकदेशमात्रे राजनि०

२ स्थाने तर्ज्जन्यकूष्ठमिते देशे ३ भित्तौ च मेदि० ।

प्रदेशन न० प्र + दिश--भावादौ ल्युट् । १ उपदेशे कर्मणि

ल्यट् । २ राजादेरुपढौकने उपहारे (भेटि) द्रव्ये अमरः

प्रदेश(शि)नी स्त्री प्रदिश्यतेऽनया प्र + दिश--करणे ल्युट्

ङीप् । तर्जन्थां तया हि वस्तु निर्दिश्यते । प्रदेशः अङ्गु-
ष्ठादिमध्यस्थाबमस्त्यस्य इनि ङीप् । अत्रैव अमरः ।

प्रदेह पु० प्र + दिह--भावे घञ् । १ प्रलेपे ब्रणाद्युंपशमार्थं

द्रव्यविशेषस्य व्रणादौ २ लेपन सुश्रुतः ।

प्रदोष पु० प्रक्रान्ता दोषारात्रिरत्र काले प्रा० स० । रात्रेः ।

प्रथमभागभेदे तिथिभेदस्य प्रदोषेऽनध्यायः ति० त० उक्तो यथा
“सारस्वतादिप्रदोषमाह स्मृतिः “त्रियोदश्याश्चतुर्थ्याश्च
सप्तम्या द्वादशीतिथेः । प्रदोषेऽध्ययनं धीमान् न कुर्वीत
यथाक्रमम् । सारस्वतो माणपतः सौरश्च वैष्णवस्तथा”
प्रदोषशब्दोऽत्र प्रथमप्रहर इति हेमाद्रिः । रात्रिपर
इति निर्णयामृतकृद् । तथा व्रतभेदे रात्रिप्रथमयाम
परता हेमाद्रौ व्रत० उक्ता “त्रयोदश्यां तथा रात्रौ
सोपहारं त्रिलोचनम् । इष्ट्वेशं प्रथमे यामे मुच्यते सर्व-
पातकैः” । इदं प्रदोषव्रतमिति हेमाद्रिः । शिवरात्रिव्रते
तु “ष्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्दशी” हेमाद्रि०
स्मृतिः । तत्रैव वताः “प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वय-
मिष्यते” । घटिकादण्डद्वयम् “त्रयोदश्यस्तगे सूर्य्ये
चतसृष्वपि नाडिषु । भूतविद्धा तु सा तत्र शिवरात्रिव्रतं
चरेत्” ति० त० बायुपु० वाक्यैकवाक्यत्वात् । तथा च
प्रदीषशबद्स्य रात्रिमात्रं रात्रेः प्रथमयामः प्रथमदण्ड-
चतुष्टयं चार्थः कर्मभेदे तस्य ग्राह्यता । तत्रानध्यागे
शर्वरीमात्रपरता प्रदोषव्रते प्रथमयामपरता शिवरात्रिव्र-
तादी दण्डचतुष्टयपरतेति विवेकः । “पृदोषोरजनी-
मुखम् इव्यमरोक्तिः रात्रेः प्रथमप्रहरप्रथमदण्डचतुष्ट-
यपरत्वाभिप्रायेण रात्रिमात्रे भक्त्येति बोध्यम् ।
पृष्ठ ४४७०

प्रदोषक त्रि० प्रदोषे भवः कालात् ढञं बाधित्वा पूर्वाह्णे

त्यादिना बुन् । प्रदोषकालभवे ।

प्रद्युम्न पु० प्रकृष्टं द्युम्णं बलं यस्य । १ कन्दर्पे अमरः । स च

वासुदेवस्य रुक्मिण्यां जातः हरिवं० ११८ अ० । सनत्-
कुमारंशजातश्च भा० आ० ६७ अ० । २ वैष्णवागमोक्ते
चतुर्व्यूहात्मकविष्णोरंशभेदे च अनिरुद्धशब्दे १६२ पृ०
चतुर्व्यूहशब्दे २८७९ पृ० च दृश्यम् । मनोर्नङ्ब-
लायां जाते ३ पुत्रभेदे पु० भाग० ४ । १३ । १४

प्रद्यो त्रि० प्रकृष्टा द्यौर्दिन यत्र । प्रकृष्टदिने क्लीवत्वे ह्रस्वः

प्रद्युतस्य क्लीव एव ह्रस्वत्वेने गन्तत्वेऽपि भाषितपुं स्कत्वा
भावात् टाद्यचि न पुंवत् प्रद्युना इत्यादि सि० कौ० मुग्ध०
प्रद्यकाप्रद्युनेत्युदाहृतं तच्चिन्त्यम् ।

प्रद्योत पु० प्र + द्यु त--अच् । १ रश्मौ हला० । २ यक्षभेदे पु० भा० स० १९ अ० ।

प्रद्योतन पु० प्र + द्युत--“अनुदात्तेतश्च हलादेः” पा० युच् ।

१ सूर्य्य हला० । २ द्योतनशीले त्रि० । भावे ल्युट् ।
३ दीप्तौ न० ।

प्रद्रव पु० प्रकृष्टो द्रवः प्रा० स० । पलायने अमरः ।

प्रद्राणक त्रि० प्र + द्रा--कुत्सितायां गतौ क्त स्वार्थे क ।

कुत्सितां गतिं प्राप्त अन्त्यावस्थां प्राप्ते “उषस्तिर्ह
चाक्रायण इभ्यग्रामे प्रदूणकौवास” छा० उ० “प्रद्राणकः
कुत्सितां गतिं गतोऽन्त्यावस्थां प्राप्त इत्यर्थः” भा० ।

प्रद्राव पु० प्र + “प्रद्रुस्तुश्रुवः” पा० अपं बाधित्वा घञ् ।

पलायने अमरः । थाथादि० अन्तोदात्ततास्य ।

प्रद्राविन् त्रि० प्र + द्रु--ताच्छील्ये णिनि । पलायनशीले ।

प्रद्वार न० प्रगतं द्वारं प्रा० स० । द्वारप्रान्तभागे

प्रधन न० प्र + धा--क्यु । १ युद्धे अमरः । प्रकृष्टं धनमस्य ।

२ प्रकृष्टधनयुक्ते त्रि० । निधण्टौ संग्रामनामसु सङ्गमे
इत्यत्र प्रधने” पाठान्तरम् । एदन्तमव्ययं तत्रार्थे ।

प्रधमन न० प्र + सौ० धम--ध्वाने भावे ल्युट् । मुखमारुत-

व्यापारभेदे सुश्रुतः ।

प्रधा स्त्री प्र + धा--भावे अङ् । १ निधाने २ दक्षसुतायां कश्य

पपत्नीभेदे भा० आ० ६५ आ० । प्रधाया अपत्यं ढञ् । प्रा-
धेय तदपत्ये पुंस्त्री० । “प्राधेयास्तपसांगणाः” मार्क०
तत्कन्याश्च अलम्बुसादयोऽप्सरसः भा० आ० ६५ अ० ।

प्रधान न० प्र + धा--ल्युट् । सांख्यमतसिद्धायाम् सत्त्वरज-

स्तमोरूपगुणत्रयात्मिकायां १ प्रकृतौ प्रकृतिशब्दे दृश्यम् ।
वत्कार्य्ये २ कुद्धितत्त्वे ३ परमात्मनि ४ प्रशस्ते ५ सचिवे
च । ६ सेनापत्यध्यक्षे पु० ७ श्रेष्ठे त्रि० अमरः “सेना-
ध्यक्षः प्रधानः स्यात्” अस्य पुंस्त्वमिति वोपालितः ।

प्रधानधातु पु० कर्म० । चरमधातौ वीर्य्ये शुक्रे त्रिका० ।

शुक्रस्य चरमधातुत्वम् असृक्करशब्दे ५५८ पृ० उक्तं दृश्यम्

प्रधि पु० प्रधीयन्ते काष्ठान्यत्र प्र + धा--आधारे कि । चक्राव-

यवकाष्ठासञ्जनस्थाने रथनाभौ अमरः ।

प्रधी त्रि० प्रकृष्टा धीर्यस्य । १ प्रकृष्टबुद्धियुक्ते प्रा० स० । २ प्रकृ-

ष्टायां बुद्धौ स्त्री । प्रकृष्टं ध्यायति ध्यै--कर्त्तरि क्विप् ।
३ प्रकृष्टध्यानकर्त्तरि त्रि० । तत्र तृतीयार्थे गतिपूर्वकत्वात्
यण् प्रध्यः प्रध्या इत्यादि आद्ययोस्तु प्रशब्दस्य कृषधातु
प्रत्येवोपसर्गत्वस्त म यण् किन्तु इयङ् । प्रधिया इत्यादीत्यन्ये
सि० कौ० तु “वृत्तिकरादीनां मते लक्ष्मीवद्रूपम् पदान्तरां
विनाऽपि स्त्रियां वर्त्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात्
लिङ्गान्तरानभिधायकं तदिति कैमटमते--पुंवद्रूपम् प्रकृष्टा
धीरिति विग्रहे तु लक्ष्मीवत् अमि शशि च प्रध्यं प्रव्य
इति विशेषः” इत्युक्तम् ।

प्रधूपित त्रि० प्र + धूप--क्त । सन्तापिते “व्यसनप्रधूपिताम्”

इति कुमारः । ज्योतिषोक्तायां २ सूर्य्यगन्तव्यायां दिशि
स्त्री । तत्र प्रधूमिता इति पाठान्तरम् ।

प्रध्वंस पु० प्र + ध्वन्स--भावे घञ् । १ नाशे सांख्यमते २ अतीतावस्थायाञ्च ।

प्रध्वस्त त्रि० प्र + ध्वन्सक्त । १ नाशप्रतियोगिनि २ अतीते च

३ मन्त्रभेदे पु० “एकोनविंशत्यर्णो वा यो मन्त्रस्तारसंयुतः ।
हृल्लेखाङ्कुशवीजाढ्यं प्रध्वस्तं तं प्रचक्षते” तन्त्रसा० ।

प्रनप्तृ पु० प्रगतो नप्तार जनकतया अत्या० स० । पौत्रपुत्रे प्रपौत्रे

उज्ज्वलद० ।

प्रनर्द्दक त्रि० घ्र + नर्द--ण्वुल् णोपदेशत्वाभावात् न णत्वम् । प्रकर्षेण नर्द्दनकर्त्तरि ।

प्रनष्ट त्रि० प्र + नश--क्त शान्तत्वाभावात् न णत्वम् । नाशप्रति-

योगिनि “प्रनष्टस्वामिकं द्रव्यं राजा त्र्यव्दं निधाप-
येत्” मनुः ।

प्रना(णा)यक त्रि० प्रकृष्टो नायकोऽस्य प्रशब्दस्य नयतिं प्रति

उपसर्गत्वाभावात् न णत्वम् । प्रकृष्टनायकयुक्ते । प्र +
नी--ण्वुलि तु णत्वम् । प्रणयकारके इति भेदः ।

प्रपक्ष पु० प्रगतः पक्षम् अत्या० स० । पक्षाग्रे भा० द्रो० २० अ० ।

प्रपञ्च पु० प्र + पचि--आधारे घञ् । १ विस्तारे २ वैपरीत्ये

३ पतारणे । कर्त्तरि पचा० अच् । ४ स सारे च अमरः । तत्र
वैपरीत्यं भ्रमो भाया वेति स्वामी ।

प्रपञ्चित प्र + पन्च--णिच--कर्मणि क्त । १ विस्तारिते २ प्रतारिते

भ्रान्तिज्ञानविषयतया ३ सम्पादिते च भाग० १० । १४ अ०
पृष्ठ ४४७१

प्रपतन न० प्रपतत्यस्मात् प्र + पत--भीमा० अपादाने ल्युट् ।

१ पतनापादाने वृक्षादौ । भावे ल्युट् । प्रकर्षेण २ पाते
तत्प्रयोजनमस्य छ । प्रपतनीय प्रपातसाधने त्रि० ।

प्रपथ पु० प्रकृष्टः पन्था प्रकृष्टः पन्था यत्र वा अच्समा० ।

१ प्रकृष्टमार्गे २ तद्युक्ते त्रि० ऋ० १ । १६६ । ९

प्रपथ्य त्रि० प्रकृष्टं पथ्यं प्रा० स० । १ अत्यन्तहिते २ हरीतक्यां स्त्री राजनि० ।

प्रपद न० प्रारब्धं पदम् प्रा० स० । पादस्याग्रभागे अमरः ।

प्रपदं व्याप्नोति ख । प्रपदीन पादाग्रव्यापके त्रि० आप्र
पदीनशब्दे माघः ३ । १२ उदा० दृश्यम् ।

प्रपन्न त्रि० प्र + पद--क्त । शरणागते “प्रपन्नार्त्तिहरे! देवि!” इति चण्डी ।

प्रपन्नाड पु० प्रपन्नान् अलति भूषयति अल--अण् उप० स०

लस्य डः । १ चक्रमर्दे रत्नमा० । तस्य दद्रुरोगिभिः सेवने
तेषां रोगनिवारणेन भूषकत्वात्तथात्वम् ।

प्रपा स्त्री प्रपीयतेऽस्यां प्र + पा--घञ्र्थे क । पानीयशाला-

याम् । पानीयशालिकाशब्दे ४३०६ पृ० दृश्यम् ।

प्रपाठक पु० प्रकृष्टः पाठोऽत्र कप् । १ वेदस्याध्यायांशभेदे २ श्रौ-

तग्रन्थांशभेदे च ।

प्रपाणि पु० प्रकृष्टः पाणिः प्रा० स० । करस्याधोभागे पाणितले राजनि० ।

प्रपात पु० प्रपतत्यस्मात् पत--अपा० घञ् । १ तटरहिते २

निरवलम्बे ३ पर्वतस्थानभेदे अमरः । ४ निर्झरे ५ कूले च मेदि०
यस्मात् पतने अवस्थानाय क्रियाभेदो न भवति ६ तादृशे
स्थाने । भावे घञ् । ७ अवस्कन्दे हेमच० ।

प्रपानक न० प्रकृष्टं पानमस्य कप् । खण्डमरिचादिमिश्रिते

पानीयद्रव्यमेदे “प्रपानकरसन्यायाच्चर्व्यमाणो रसो भवेत्”
यथा खण्डमरिचादीनां सम्मेलनादपूर्व इव कश्चिदा-
खादः प्रपानकरसे सञ्जायते विभावादिसम्मेलनादिहापि
तथेत्यर्थः” सा० द० । कृतान्नशब्दे २०८४ पृ० दृश्यम् ।

प्रपापूरणीय त्रि० प्रपापूरणं प्रयोजनमस्य “छप्रकरणे विशि

पूरिपतिरुहिप्रकृतेरनात्” वार्त्ति० छ । प्रपापूरण-
प्रयोजनके ।

प्रपावन न० प्रपेव कामपूरकं वनम् । कामारण्ये वनभेदे शब्दमाला ।

प्रपितामह पु० प्रगतः पितामहं कार्यत्वेन अत्या० स० । १

पितामहपितरि अमरः । तस्य पत्नी ङीष् २ प्रपिता-
मही तत्पत्न्यां स्त्री “स्वेन भर्त्त्रा सह श्राद्धं माता
भुङ्क्ते स्वधामयम् । पितामही च स्वेनैव स्वेनैव
प्रपितामही” दायभागधृतवचनम् । पितामहस्य प्रजा-
पतिजनकस्य चतुर्मुखब्रह्मणः जनके ३ परब्रह्मणि
“भूर्भुवः स्वस्तरुस्तारः स पिता प्रपितामहः” विष्णुस० ।
“यो वै ब्रह्माणं विवदधाति पूर्वम्” श्रुतेस्तस्य पितामह-
ब्रह्मस्रष्टृत्वात्तथात्वम् । “सोऽभिध्याय शरारात्
स्वात् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ
तासु वीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशु-
समप्रभम् । तस्मिन् जज्ञे स्वयं व्रह्मा सर्वलोकपिता-
महः” मनुना सर्वपितामहस्यापि तेन सृष्टत्वात्तस्य
तथात्वम् ।

प्रपित्वे अव्य० उत्तरायणे निघण्टुः ।

प्रपुन्नाड़(ट) पु० पुमांसं नाटयति नडयति नड--भ्रंशे

नटअवस्यन्दने वा अण् प्रकृष्टः पुन्नाडः (पुन्नाटः) प्रा० स० ।
१ चक्रमर्दे (चाकुन्दा) वृक्षे । डस्य लत्वे प्रपुन्नालोऽप्यत्र ।
२ दद्रुमर्दने अमरः । पृषो० प्रपुनाड (पुपुन्नड) इत्येता
वपि तत्रार्थे अमरे पाठान्तरम् ।

प्रपूरिका स्त्री प्रकर्षेण पूर्य्यते कण्टकैः पूर--कर्मणि घञ

स्वार्थे क टाप् कापि अत इत्त्वम् । १ कण्टकार्य्याम्
हेमचन्द्रः २ प्रकर्षेण पूरके त्रि० ।

प्रपूर्वग पु० प्रकृष्टः पूर्वगः पूर्ववर्त्ती प्रा० स० । सृष्टेः प्राग्व-

र्त्तिनि १ परमेश्वरे “सदेव सौम्येदमग्र आसीदेकमेवा-
द्वितीयमिति श्रुतेः तस्य तथात्वम् । तद्रूपेण ध्येये २ अश्वि-
नीकुमारद्वये द्वि० व० । भा० आ० ३ अ० अश्विनीकुमारस्तुतिः ।

प्रपौण्डरीक पु० पुण्डरीक + स्वार्थेऽण् प्रकृष्टं तदिव पुष्पं

यस्य । गजमनुष्याणां चक्षुर्हितकारके शालपर्णीतुल्य-
पत्रके क्षुपभेदे अमरः ।

प्रपौण्डरीकाद्य न० “प्रपौण्डरीकमधुकपिप्यलीचन्दनीत्-

पलैः । सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन वा ।
सर्वानूर्द्ध्वगदान् हन्ति पलितानि च शीलितम्” चक्र-
पाणिदत्तोक्ते तैलभेदे ।

प्रपौत्र पुं स्त्री० पगतः कारणतया पौत्त्रम् अत्या० स० । पौत्त्रस्य

१ पुत्रे तत्कन्यायां स्त्री ङीप् ।

प्रफर्वी स्त्री प्रकृष्टं पर्व नितम्बस्थानं यस्याः स्त्रिया ङीप्

पृषो० । प्रशस्तनितम्बायां स्त्रियां ऋ० १० । ८५ । १२ भा० ।
फर्वति गतिकर्मा इति वेददीपः । २ प्रकृष्टगतियुक्ते त्रि०
यजु० १२ । ७६ वेददीपः ।

प्रफुल्त(ल्ल) त्रि० प्र + फल--क्त आदित्त्वात् इटोऽभावे अत

इत्त्वम् प्र + फुल्ल--विकाशे अच् वा (लद्वययुतः) । विकाश-
युते अमरः । “लौध्रद्रुमं सानुमतः प्रफुल्त(ल्ल)म्”
रघुटीकायां मल्लिनाथेन द्विधापाठः समर्थितः ।

प्रबन्ध पु० प्र + बन्ध--भावे घञ । १ सन्दर्भे ग्रन्थादेः २ रचने च त्रिका० ।

पृष्ठ ४४७२

प्रबन्धन न० प्र + वन्ध--भावे ल्युट् । प्रकर्षेण ग्रन्यने बन्धने

प्रबन्धकल्पना स्त्री ६ त० । “प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः

कथां विदुः” इत्युक्तलक्षणायामल्पसत्यायां बहुमिथ्याक-
थायाम् अमरः ।

प्रब(व)र्ह त्रि० प्र + बर्ह स्तुतौ (वृह) बद्धौ वा अच् । प्रधाने अमरः ।

प्रबल त्रि० प्रकृष्टं बलमस्य । १ प्रकृष्टबलयुते । प्रकृष्टं बलति

बल--धान्यावरोधे अच् । २ पल्लवे शब्दमाला ३ प्रसारिश्च्यां
लतायां स्त्री राजनि० ।

प्रबल्हिका स्त्री प्रबल्ह--आच्छादने ण्वुल् । प्रहेलिकायाम् अम०

अयमोष्ठ्यादिः इन् । प्रबल्हि वा ङीप् प्रबल्ही च तत्रार्थे ।

प्रबाल न० प्र + बल--धान्यावरोधे ज्वलादि० ण । १

किसलये नवपल्लवे २ वीणादण्डे च अमरः । ३ रत्नभेदे पु०
किं रत्नं कस्य ग्रहस्य पीतिकारित्वे न दोषहरं भवतीति
प्रश्ने तदुत्तरमाह ज्यो० रत्नमालायां “माणिक्यन्तरणेः
तुजातममलं, मुक्ताफलं शीतगोर्माहेयस्य तु विद्रुमो
निगदितः, सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्पराग
मसुराचार्य्यस्य वज्रं, शनेर्नीलं निर्भलमन्ययोर्निगदिते
गोमेदवैदूर्य्यके” । “पुंसि क्लीवे प्रबालः स्यात् पुमानेव तु
विद्रुमः” भावप्र० अत्रार्थेऽस्य पुंनपुंसकत्वमुक्तं रत्नानां
गुणास्तत्रोक्ता यथा “रत्नानि भक्षितानि स्युर्मधुराणि
सराणि च । चक्षुष्याणि च शीतानि विषघ्नानि
धृतानि च । मङ्गल्यानि मनोज्ञानि ग्रहदोषहराणि च” ।
युक्तिकल्पतरौ तस्योत्पत्त्यादिकं भेदादिकञ्चोक्तं यथा
“सूत उवाच आदाय शेषस्तस्यान्त्रं यमाशाकम्बला-
दिषु । चिक्षेप तत्र जायन्ते विद्रुमाः सुमहागुणाः ।
तत्र प्रधानं शशलोहिताभं गुञ्जाजवापुष्पनिभं प्रदि-
सरागम् । सनीसकं देवकरोमकञ्च स्थानानि तेषु प्रभवं
परागम् । अन्यत्र जातञ्च न तत् प्रधानं मूल्यं
भवेच्छिल्पिविशेषयोगात् । प्रसन्नं कोमलं स्निग्धं सुरागं
विद्रुमं हि तत् । धनधान्यकरं लोके विषार्त्तिभय-
नाशनम् । परीक्षा पुलहेनोक्ता रुधिराख्यस्य वैमणेः ।
स्फटिकस्म विद्रुमस्य रत्नज्ञानाय शौनक!” इति
गारुडे ८ अ० । “श्चेतसागरमध्ये तु जायते वल्लरी
तु या । विद्रुमा नाम रत्नाख्या दुर्लभा वज्ररू-
पिणी । पाषाणं प्रभजत्येषा प्रयत्नात् क्वथिता सती ।
विद्रुमं नाम यद्रत्नमामनन्ति मनीषिणः । ब्रह्मादिजाति
भेदेन तच्चतुर्विधमुच्यते । अरुणं शशरक्ताख्यं कोमगं
रिग्धमेव च । प्रवालं विप्रजातिः स्यात् सखवेध्यं
मनोरमम् । जवावन्दूकसिन्दूरदाडिमीकुसुमप्रभम् ।
कठिनं स्निग्धदुर्वेधं क्षत्रजातिः तदुच्यते । पलाशकु-
सुमाभासं तथा पाटलसन्निभम् । बैश्यजातिर्भवेत् स्निग्धं
वर्णाद्यं मन्दकान्तिभम् । विद्रुमं शूद्रजातिः स्याद्वायु
वेध्यं तथैव च । रक्तता स्निग्धता दार्ढ्यं चिरद्युति
सुवर्णता । प्रबालानां गुणाः प्रोक्ता धनधान्यकराः पराः ।
हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् । तत्र लिप्तो
भवेन्निम्बकल्कोऽतिमधुरः स्थितः । तस्य धारणमात्रेण
विषवेगः प्रशाम्यति । विवर्णता तु खरता प्रबाले दूषण-
द्वयम् । रेखा काकपदी विन्दुर्यथा वज्रेषु दोषकृत्” ।
तथा प्रबाले सर्वत्र वर्जनीयं विचक्षणैः । रेखा हन्याद्-
यशो, लक्ष्मीमावर्त्तः कुलनाशनः । पट्टलो रोगकृत् ख्यातो
विन्दुर्धनविनाशकृत् । त्रासः संजनयेत् ग्रासं नीलिका
मृत्युकारिणी । मूल्यं शुद्धप्रबालस्य रूप्यद्विगुणमु-
च्यते । धारणेऽस्यापि नियमो जातिभेदेन पूर्ववत्” ।
तथा हि “विरूपजातिं विषमं विबर्णं खरप्रबालं प्रव-
हन्ति ये ये । ते मृत्युमेवात्मनि वै वहन्ति सत्यं
वदत्येष कृती मुनीन्द्रः” । तस्य शुभाशुभलक्षणे राजनि०
उक्ते यथा “शुद्धं दृढ़ं घनं वृत्तं स्निग्धं पात्रसुरङ्ग-
कम् । समं गुरु सिराहीनं प्रवालं धारयेत् शुभम् ।
गौरं रङ्गजलाक्रान्तं रक्तसूक्ष्मं सकोटरम् । रूक्षकृष्णं
लधुश्वेतं प्रबालमशुभं त्यजेत्” ।

प्रबालक पु० यक्षभेदे भा० स० १० अ० ।

प्रबालफल न० प्रबाल इव रक्तं फलमस्य । रक्तचन्दने भावप्र०

तत्फलस्य प्रबालतुल्यरक्तत्वात् तथात्वम् ।

प्रबालाश्मन्तक पु० प्रबाल इवाश्मन्तकः रक्तत्वात् । रक्ता-

श्मन्तकवृक्षे सुश्रुतः ।

प्रबालिक पु० प्रबालो नवपल्लवोऽस्त्यस्य भूम्मा ठन् । जीबशाके राजनि० ।

प्रबाहु पु० प्रगतो बाहुम् अत्या० स० । बाहुमूले वृ० सं० ५८ अ० ।

प्रबाहुक अव्य० प्रकृष्टो बाहुरत्र कप् स्वरादि० । १ समकाले

२ ऊर्द्ध्वार्थे च मनोरमा । पृषो० प्रयाहुक् प्रबाहुम् पाठा-
न्तरम् तत्रार्थे अव्य० “प्रबाहुग् जुहोति” तैत्ति० २ । ६१ ।

प्रबुद्ध त्रि० प्र + बुध--कर्त्तरि क्त । १ प्रयोधयुते २ पशि त ३

प्रफुल्ले पुष्पादौ च हेमच० । ४ जागरिते स्वापरहिते
५ भागवतधर्मप्रधाने ऋषभदेवपुत्रभेदे पु० भाग० ५ । ४ । ११

प्रबोध पु० प्र + बुध--भावाधारादौ घञ् । १ निदूपगमे तसा

प्रकृष्टज्ञानाधारत्वात् तथात्वम् । २ यथार्थज्ञाने च ।
पृष्ठ ४४७३

प्रबोधन न० प्र + बुध--भावे ल्युट् । १ यथार्षज्ञाने २ निद्धा-

पगमे । प्र + बुध--णिच्--भावे ल्युट् । ३ प्रकृष्टवोधने
४ उद्दीपने ५ पूर्वगन्धस्य न्यूनतायां पुनः सौगन्ध्योत्पादनाय
व्यापारभेदे अमरः ।

प्रबोधनी स्त्री प्रबोध्यते हरिरत्र प्र + बुध--णिच् आधारे ल्युट्

ङीप् । कार्त्तिकशुक्लैकादश्याम् तत्र शयितस्य हरेरुत्था-
पनानुकूलव्यापारस्याचरणात्तस्यास्तथात्वम् । उत्थानैका-
दशीशब्दे तस्याः खण्डभेदस्य ग्राह्यता दर्शिता ।
तन्माहात्म्यं च पद्मपु० उ० ख० १२६ अ० उक्तं यथा
“ब्रह्मोवाच प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यबर्द्ध-
नम् । मुक्तिदं शुद्धबुद्धीनां शृणुष्व मुनिसत्तम! ।
तावद्गर्जन्ति तीर्थानि पुण्यान्यायतनानि च । यावत् प्रबो-
धनी विष्णोस्तिथिर्नायाति कार्त्तिके । अश्वमेधसहस्राणि
वाजपेयशतानि च । एकेनैवोपवासेन प्रबोधन्यां भवन्ति
हि । मेरुमन्दरतुल्यानि पापानि सुबहून्यपि । भस्म०
सात् कुरुते मर्त्यो हरिबोधन्युपासनात् । पूर्वजन्मसह-
स्रेषु यत्पापं समुपार्जितम् । जागरणं प्रबोधन्यां
दहते तूलराशिवत् । उपवासं प्रबोधन्यां यः करोति
समाहितः । विधिवच्च मुनिश्रेष्ठ! यथोक्तं लमते फ
लम् । यानि कानि च तीर्थानि त्रैलोक्ये संवसन्ति
वै । तानि तस्य गृहे सम्यक् कृता येन प्रवोधनी । किं
तस्य बहुभिः पुण्यैः सुरलोकसुखप्रदैः । ऊर्जे सन्तो-
षिता येन संपूणां हरिबोधनी । बोधनीं समुपोष्यैव
मुक्तिभागी भवेन्नरः । प्रबोधन्यां नरश्रेष्ठ! न पुनर्गर्भ-
मादिशेत् । स्नानं दानं जपो होमः समुद्दिश्य
जनार्दनम् । नरैर्यत् क्रियते ऊर्जे प्रबोधन्यां तदक्षयम् ।
येऽर्चयन्ति नरास्तस्यां भक्त्या विष्णुं जगत्पतिम् ।
उषित्वा वाधनीं ते तु प्रभवेयुर्द्दिवौकसः । महाव्रतमिदं
पुत्र! महापापौधनाशनम् । प्रबोधन्यां मुने! विष्णोर्वि-
धिवत् समुपोषणम् । स ज्ञानी च स यीगी च स तपस्वी
जितेन्द्रियः । स्वर्गमोक्षौ च तस्यास्तां य उपास्ते प्रवो-
धनीम् । यत्तु जन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
करोति भस्मसाद्विष्णुः प्रवोधन्यां प्रपूजितः । हरिपूजा
विधातव्या कार्त्तिके बोधवासरे । गीतशास्त्रविनोदेन
प्रबोधन्यान्तु जागरात् । चन्द्रसूर्य्योपरागे च यत् फलं
परिकीर्त्तितम् । तस्मात् सहस्रगुणितं प्रबोधन्यां हि
जागरात् । स्तानं दानं जपो होपः स्वाध्यायश्चार्चनं
हरेः । एतस्मात् कोटिगुणितं प्रबोधन्यां हि जागरात्” ।
स्कान्दे प्रभृति यत्पुण्यं नरेणोपार्जितं भुवि ।
वृथा भवति तत्सर्वं न कृत्वा बोधवासरम्” । “प्रबो-
धन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् । मुक्तिदं
कृतबुद्धीनां शृणु त्वं मुनिसत्तम! । तावद्गर्जति
विप्रेन्द्र! गङ्गाभागीरथी क्षितौ । यावन्नायाति पापघ्नी
कार्त्तिके हरिबोधनी । तावद्गर्जन्ति तीर्थनि
आसमुद्रसरांसि च । यावत् प्रबोधनी विष्णोस्तिथिर्ना-
याति कार्त्तिके । वाजपेयसहस्राणि अश्वमेधशतानि
च । एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः । दुर्लभञ्चैव
दुष्प्रापं त्रैलोक्ये सचराचरे । तदापि प्रार्थितं विप्र!
ददाति हरिबोधनी । ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्च
सुखसम्पदः । ददात्युपोषिता विप्र! हेलया
हरिबोधनी । मेरुमन्दरतुल्यानि पापान्यत्यूर्जितान्यपि ।
एकेनैवोपवासेन दहते हरिबोधनी । पृथिव्यां यानि
दानानि दत्त्वा यत् फलमाप्नुते । एकेनैवोपवासेन ददाति
हरिबोधनी” हरि० वि० ।

प्रभञ्जन न० प्रभञ्जात तृणादीन् प्र + भन्ज--युच् । वायौ

अमरः ।

प्रभद्र पु० प्रकृष्टं भद्रमस्मात् ५ ब० । १ निम्बवृक्षे २ प्रसारिण्यां लतायां स्त्री राजनि० ।

प्रभद्रक न० “भवति नजौ भजौ रसहितौ प्रभद्रकम्”

वृ० र० उक्ते पञ्चदशाक्षरपादके छन्दोभेदे ।

प्रभर्मन् पु० भृ--भावे कर्त्तरि वा मनिन् प्रकृष्टं भर्म भरणं

प्रकृष्टो भर्म्मा भर्त्ता ऋत्विक् वा यस्मिन् । १ यज्ञे ऋ० ८ ।
८२ । १ भाष्ये दृश्यम् । प्र + भृ--भावे मनिन् । २ प्रकर्षेण
भरणे सम्पादने न० ऋ० १ । ७९ । ७

प्रभव पु० प्रभवत्यस्मात् “भुवः प्रभवः” पा० भूकर्त्तुरपादने

वाच्ये अप् । १ प्रथमप्रकाशस्थाने २ अन्यतः सिद्धस्य
प्रथमोपलम्भस्थाने हेमच० ३ मूले ४ मुनिभेदे ५ जन्म०
हेतौ । भावे अप् । ६ जन्मनि । करणे अप् । ७
पराक्रमे मेदि० । ८ षष्टिवत्सरमध्ये वत्सरभेदे तत्फलमुक्तं
ज्यो० त० भविष्यपु० “बहुतोयास्तथा मेघा बहुशस्या च
मेदिनी । बहुक्षीरास्तथा गावी व्याधिरोग विवर्जिताः ।
प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिता” । ९ विष्णौ
पु० “संभवो भावनो भर्त्ता प्रभवः प्रभुरीश्वरः” विष्णुस०

प्रभवादि पु० प्रभव आदिर्येषाम् । प्रभवप्रभृतिषष्टिसंवत्सरेषु

स च गुरुमध्यभोगात् गणनीयः । “ज्योतिर्विद इज्य
सध्यात् प्रभवादेश सम्भवम् । उचुस्तद्वत् समाद्यादि
वर्षाणामपि सम्भवम्” ज्यो० त० । ते च ज्यो० त० फलस
हिताः दर्शिता तच्छब्दे तद्वाक्यमुक्तं वक्ष्यते च तदानयनञ्च
पृष्ठ ४४७४
ज्यो० त० “शकेन्द्रकालः पृथगाकृति २२ घ्नः शशाङ्कनन्दा-
श्वियुगैः ४२९१ समेतः । शराद्रिवस्विन्दु १८७५ हृतः स
लब्धः षष्ट्यावशिष्टाः प्रभवादयोऽव्दाः । वर्षवर्जन्तु यच्छेषं
सूर्य्यैः १२ संपूर्य्य खीर्मिभिः ६०” (भक्तम्) । प्रभवादिवर्षा-
ण्युपक्रम्य “आद्या तु विंशतिर्ब्राह्मी द्वितोया वैष्णवी
स्मृता । तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत्” ।
वृ० सं० ८ अ० अन्यथोक्तं गुरुवर्षशब्दे २६२२ पृष्ठादावुक्तम् ।

प्रभविष्णु त्रि० प्र + भू--शीलार्थे इष्णुच् । १ प्रभावशीले

२ विष्णौ पु० भा० अनु० ७१ अ० ।

प्रभा स्त्री प्र + भा--भावे अङ् । १ दीप्तौ राजनि० । प्र + भा--क ।

२ प्रदीप्तियुते त्रि० ३ कुवेरपूर्य्यां स्त्री हेमच० । ४ दुर्गायां स्त्री
“प्रभा प्रभानशीलत्वात् ज्योत्स्ना चन्द्रार्कमालिनी” देवीपु०
तन्नामनिरुक्तौ । ५ सूर्य्यपत्नीभेदे “विवस्वान् कश्यपात्
पूर्वमदित्यामभवत् पुरा । तस्य पत्नीत्रय तद्वत् संज्ञा
राज्ञी प्रभा तथा । रेवतस्य सुता राज्ञी रेवन्तं सुषुवे
सुतम् । प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम्”
मत्स्यपु० ११ अ० । ६ स्वर्भानोः कन्याभेदे नहुषमातरि
हरिवं० ३ अ० । ७ अप्सरोभेदे भा० अनु० १४२५ श्लो०
८ गोपीभेदे “दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ।
प्रभा देहं परित्यज्य जगाम सूर्य्यमण्डलम्” ब्रह्मबै० प्र०
ख० ९ अ० ।

प्रभाकर पु० प्रभां करोति कृ--ट । । १ सूर्य्ये २ वह्नौ ३ चन्द्रे

४ समुद्रे च शब्दर० । ५ अर्कवृक्षे अमरः । ६ मीमांसकभेदे
स च गुरुत्वेन प्रसिद्धः । अत्रिवंश्ये ७ मुनिभेदे हरिवं०
३१ अ० । ८ कुशद्वीपस्थे वर्षभेदे भा० भी० १२ अ० । अष्टम-
मन्वन्तरे ९ देवगणभेदे मार्क० पु० ८० अ० ।

प्रभाकीट पु० प्रभान्वितः कीटः शा० त० । खद्द्योते राजनि० ।

प्रभाञ्जन पु० शोमाञ्जने त्रिका० ।

प्रभात न० प्र + भा--भावे क्त प्रकृष्टं मातमत्र वा । १ प्रातःकाले

अमरः । प्र + भा कर्त्तरि० क्त । २ प्रभायुक्ते त्रि० ३ वसुभेदे
पु० । प्रभास इत्यत्र प्रभात इति मिता० पाठः । धरशब्दे
३८४७ पृ० दृश्यम् । प्रभातकाले दृश्या उक्ता राजवल्लभेन
“वैद्यः पुरोहितो मन्त्री दैवज्ञीऽथ चतुर्थकः । प्रभात-
काले द्रष्टव्यो नित्यं स्वश्रियमिच्छता” छन्दोगपरि० तत्र
दृश्यादृश्यानाह यथा “श्रोत्रियं सुभगामग्निं गाञ्चै-
वाग्निचितन्तथा । प्रातरुत्थाय यः पश्येदापद्भ्यः स
विमुच्यते । पापिष्ठं दुर्भगां मद्यं नग्नमुत्कृत्तनासिकम् ।
प्रातरुत्थाय यः पश्येत्तत् कलेरुपलक्षणम्” ।
प्रभातकाले स्मरणीयाः काशीखण्डे ३५ अ० दर्शिता यथा
“स्वहितं चिन्तयेत् प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा । नजास्यं
संस्मरेदादौ तत ईशं सहाम्बया । श्रीकान्तं श्रीसमेतं
तु ब्रह्माण्या कमलोद्भवम् । इन्द्रादीन् सकलान्देवान्
वशिष्ठादीन् मुनीनपि । गङ्गाद्या सरितः सर्वाः श्री-
शैलाद्याखिलान् गिरीन् । क्षीरोदादीन् समुद्रांश्च
मानसादिसरांसि च । वनानि नन्दनादीनि धेनूः
कामदुघादिकाः । कल्पवृक्षादिवृक्षांश्च धातून् काञ्चनमुख्यतः ।
दिव्यस्त्रीरुवंशीमुख्या गरुड़ादीन् पतत्त्रिणः । नागांश्च
शेषप्रमुखान् गजानैरावतादिकान् । अश्वानुच्चैःश्रवो
मुख्यान् कौस्तुभादीन् मणीन् शुभान् । स्मरेदरुन्धती
मुख्याः पतिव्रतवतीर्बधूः । नैमिषादीन्यरण्यानि पुरीः
काशीपुरीमुखाः । विश्वेशादीनि लिङ्गानि वेदानृक्-
प्रमुखानपि । गायत्रीपमुखान् मन्त्रान् योगिनः
सनकादिकान् । प्रणयादिमहाबीजं नारदादींश्च वैष्ण-
वान् । शिवभक्तांश्च वाणादीन् प्रह्लादादीन् दृढ़व्रतान् ।
वदान्यांश्च दधीच्यादीन् हरिश्चन्द्रादिभूपतीन् । जननी
चरणौ स्मृत्वा सर्वतीर्थात्तमोत्तमौ । पितरं च गुरु-
ञ्चापि हृदि ध्यत्वा प्रसन्नधीः । ततश्चावश्यकं कर्तुं नैरृतं
दिशमाश्रयेत्” । “प्रभातायां तु शर्वर्य्याम्” भार० नानास्थाने ।

प्रभातीर्थ तीर्थभेदे शिवपु० ।

प्रभातीर पु० नागभेदे भा० आ० ३५ अ० ।

प्रभाव पु० प्र + भू--घञ् । राज्ञां काषदण्डजाते १ तेजसि

अमरः २ तजसि ३ सामर्य्य हेमच० ४ विक्रमे ५ शान्तौ
६ उद्भवे च मेदि० । ७ स्वारोचिषमनोः पुत्रभेदे मार्क० पु०
६६ अ० । ८ वसुभेदे प्रभास इत्यत्र पाठान्तरम् ९ प्रभागर्भ-
जाते सूर्य्यपुत्रभेदे प्रभाशब्दे दृश्यम् ।

प्रभावज न० प्रभावात् जायते जन--ड । प्रमुशक्तिभेदे

कोषदण्डाभ्यां साध्ये तेजसि ।

प्रभावत् त्रि० प्रभा + अस्त्यर्थे मतुप मस्य वः । १ दीप्तियुक्ते स्त्रियां

ङीप् । सा च वज्रनाभासुरस्य २ कन्याभेदे । प्रद्युम्नेन
तस्याहरणकथा च हरिवं० १५२ अध्यायादौ दृश्या ।
३ तापसीभेद भा० व० २८४ अ० । ४ कुमारानुचरमातृभेदे भा०
श० ४७ अ० । ५ अङ्गेश्वरस्य चित्तरथस्य भार्य्यायाम् भा०
अनु० ४२ अ० । ६ मरुत्तनृपस्य पत्न्यां विदर्भराजदुहितरि
मार्क० १३२३ अ० । ७ मणिनामकोनविंशवृत्तार्हन्मातरि
८ गणानां वीणायाञ्च स्त्री हेमच० । ९ त्रयोदशाक्षरपादके
छन्दोभेदे “यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्य्यन्तथा गुरु-
पृष्ठ ४४७५
नवमं दशान्तिमम् । सान्त्यं मवेद्यतिरपि चेद्युगग्रहैः
सा लक्षितामृतरुचिरे! ब्रभावती” इति श्रुतबोधः ।

प्रभाष पु० प्र + भाष--अच् । १ अष्टवसुमध्ये वसुभेदे २ प्रकृष्टक-

थके त्रि० जटा० । घरशब्दे ३८१ ७ पृ० दृश्यम् । तत्र
षान्तत्वेन पाष्ठः जष्टाधरसम्मतः ।

प्रभास त्रि० प्रभासते प्र + भास--अच् । १ प्रकृष्टदीप्तियुते २

जैननणाधिपभेदे पु० हेमच० । ३ कुमारानुचरगणभेदे पु० भा०
श० ४६ अ० । ४ ऋषिभेदे पु० भा० शा० १६६ अ० । ५ वसुभेदे
पु० हरिवं० ३ अ० सान्ततंया पाष्ठः । अष्टममन्वन्तरे
६ देवगणभेदे पु० मार्क० पु० ८० अ० । ७ सोमतीर्थभेदे त्रिका०
“पुण्यं प्रभासं समुपाजगाम यत्रोडुराट् यक्ष्मणा क्लिश्य-
मानः” इत्युपक्रमे एवं तु तीर्थप्रवरं पृथिव्यां प्रभास-
नात्तस्य तु सः प्रभासः” इत्यादिना तत्तीर्थोत्पत्तिमाहा-
त्म्यादिकथा भा० श० ३६ अ० आदौ दृश्या ।

प्रभासन्त पु० प्र + भास--बा० झ । १ परमेश्वरे २ रुद्रे

च हरिवं० १३१ अ० ।

प्रभिन्न त्रि० प्र + भिद--क्त ।

१ प्रकृष्टभेदयुक्ते प्रभिन्नकटादिस्थलत्वात् क्षरन्मदे २ गजे पु० अमरः ।

प्रभु त्रि० प्र + भू--डु । १ स्वामिनि २ कार्य्यसम्पादशक्तियुते

“निग्रहानुग्रहे शक्तः प्रभुरित्यभिधीयते” इत्युक्ते ३ निग्रहा-
नुग्रहसमर्थे ४ विष्णौ पु० “प्रभवः प्रभुरीश्वरः” विष्णुसं०
“कामः कामप्रदः प्रभुः” तत्रैव नामान्तरं तत्र प्रक
र्षेण भवनात् प्रभुरितिति भाष्योक्तेः “सर्वासु क्रियासु
सामर्थ्यातिशयात् प्रभुः” भाष्योक्तेश्च व्युत्पत्तिभेदात्
नामद्वयम् । ५ अष्टमन्वन्तरे देवगणभेदे मार्क० पु० ८० अ० ।

प्रभुत्वाक्षेप पु० अर्थालङ्कारभेदे “धनञ्च बहु लभ्यं ते सुखं

क्षेमञ्च वर्त्मनि । न च मे प्राणसन्देहस्तथापि प्रिय! मा
स्म गाः । इत्याचक्षाणया हेतून् प्रिवयात्रानुबन्धिनः ।
प्रमुत्वेनैव रुद्धस्तत् प्रभुत्वाक्षेप उच्यते” । “हे प्रिय!
ते विदेशगमने इति अध्याहार्य्यं बहुधनं सुखञ्च तथा
बर्त्मनि पथि क्षेमं कुशलञ्च लभ्यम् । अत्र च मे प्राण-
सन्देहः न तव शीघ्रंप्रत्यागमनस्य बहुधनलाभस्य च
सम्भवादिति भावः । तथापि मास्म गाः मा गच्छ अत्र
“प्रिययात्रायाः प्रियस्य विदेशगमनस्य अनुबन्धिनः
पोषकान् हेतून् आचक्षणया कीर्त्तयन्त्या कयाचित् स्वाधीन
पतिकयेति शेषः प्रभुत्वेन स्वाधीनतया एव पतिः रुद्धः
विदेशगमनात् निवर्त्तितः तस्मात् एषः पुभुत्वाक्षेप
उच्यते” प्रेम० टीका ।

प्रभुभक्त त्रि० ७ त० । १ स्वाम्बनुरक्ते । “बह्राशी स्वल्पसन्तुष्टः

सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षड्गुणाः
शुनः” चाणक्यः । कुलीने उत्तमे २ धोटके पु० शब्द च० ।

प्रभूत त्रि० प्र + भू--क्त । १ प्रचुरे अमरः २ उद्गते मेदि० ३ भूते

४ उन्नते च शब्दर० । ततः गोषदा० अस्त्यर्थे वुन् । प्रभूतक
प्रचुरबलादियुक्ते त्रि० प्रभूतमाह “आहौ प्रभूतमादिभ्यः”
वार्त्ति० ठक् । घ्राभूतिक प्रचुरवक्तरि त्रि० । द्विती-
यान्तात् प्रभूतशब्दात् आहौ परे धातुनिर्देशे इक् ठक् ।
एवम् आदिपदात् पर्य्यप्तमाह पार्य्याप्तिक तद्वक्तरि त्रि० ।

प्रभूति स्त्री प्र + भू--भावे क्तिन् नित्तकारादिप्रत्यये परे पस्य

गतेः प्रकृतिस्वरः । प्रकर्षेण भवने ।

प्रभूवन् त्रि० प्र + भू--क्वनिप् । सामर्थ्ययुते स्त्रियां ङीप्

“वनीर च” पा० नस्य रः । प्रभूवरी यजु० २३ । ३३

प्रभूष्णु त्रि० प्र + भू--गस्नु । १ प्रभावशीले २ क्षमे समर्थे

प्रभृति अव्य० प्र + भृ--क्तिच् । तदारभ्येत्यर्थे । वहु० समासे

उत्तरपदस्थः । तदादिके त्रि० अमरः ।

प्रभृथ त्रि० प्र + भृ--बा० थक् । प्रकृष्टभरणे ऋ० १ । १५२ । १२

प्रभेद पु० प्रभिद्यतेऽनेन प्र + भिद--घञ् । १ प्रकारे विशेषे ।

भावे घञ् । २ भेदे अमरः ।

प्रभेश्वर पु० तीर्थभेदे शिवपु० ।

प्रभ्रंशथु पु० “प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो

लबणः कफस्तु । प्राक्सञ्चितो मूध्नि च पित्ततप्तं प्रभ्रं-
शथुं व्याधिमुदाहरन्ति” सुश्रुतोक्ते नासागतरोगभेदे ।

प्रभ्रष्ट त्रि० प्र + भ्रन्श--क्त । भ्रंशयुक्ते संज्ञायां कन् ।

शिखावलम्बिमाल्ये चूड़ातोलम्बमानमाल्ये अमरः ।

प्रमगन्द पु० द्वेगुण्यादिलक्षणवृद्धियुतोर्थो मामेव गमिष्य-

तीति बुद्ध्या परेषामर्थं ददातीति मगन्दो बार्द्धुषिकः
निरु० प्रगतो मगन्दं कारणतया अत्या० स० । बार्द्धु-
षिकपुत्रे ऋ० ३ । ५३ । १४ भा० ।

प्रमण(न)स् त्रि० प्रकृष्टं मनोऽस्य संज्ञात्वे णत्वम् अन्यत्रा-

णत्वम् । १ हर्षयुते अमाः० । २ सुमनर्स्क च ।

प्रमति पु० प्रतीचीश्वरसुनयनृपस्य पुरोहिंते कश्यपवंश्ये

१ ऋषिभेदे मार्क० पु० ११८ अ० । २ च्यबनर्षेः पुत्रभेदे भा० आ०
५ अ० । गृद्समदर्षिवंश्ये वागिन्द्रर्षेः ३ पुत्रे ऋषिभेदे
भा० अनु० ३० अ० । नृगस्य पुत्रे ४ नृपभेदे । तद्वंश्ये वत्सप्रीतेः
५ पुत्रे नृपभेदे भाग० ९ । २ । १६ । ६ प्रकृष्टमतियुक्ते त्रि० ।

प्रमत्त त्रि० प्र + मद--क्त । १ अनवधानतायुक्ते प्रमादयुक्ते

कर्त्तव्येऽकर्त्तव्यताज्ञानेन अकर्त्तव्ये वा कर्त्तव्यताधिया
तत्रावधानशून्ये “मत्तं प्रमत्तसुन्मत्तं सुप्तं बालं स्त्रिशं
पृष्ठ ४४७६
जड़म् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्”
भाग० १ । ७ अ० “मत्तं मद्यादिना, प्रमत्तमनवहितम्”
उन्मत्तं ग्रहवातादिना जड़म् अनुद्यमम् । प्रपन्नं
शरणागतम्, विरर्थ भानरथम्” श्रीधरस्वामी । “सुप्तां
मत्तां प्रमत्तां वा रही यत्रोपगच्छति” मनुः । “सन्ध्या
पूजाविहीनश्च प्रमत्तः परिकीर्त्तितः” ब्रह्मव० पु० ७ अ०
उक्ते २ सन्ध्यादिहीने च ।

प्रमत्तगीत न० प्रमत्तेन गीतम् तत्र “इत्थम्भूतेन कृतमिति

च” पा० क्तान्तमुत्तरपदमन्तोदात्तम् । प्रमत्तेनं गीते ।

प्रमथ पु० प्रमथ्नाति प्र + मथ--अच् । १ धृतराष्ट्रपुत्रभेदे भा०

आ० ११७ अ० । २ घोटके ३ शिवपारिषदभेदे च शब्दरत्ना०
तत्स्वरूपसंख्यादि यथा
“नानारूपधरा ये वै जटाचन्द्रार्द्धमण्डिताः । ते सर्वे-
सकलैश्वर्य्ययुक्ता ध्यानपरायणाः । योगिनो मदमात्सर्य्य
दम्भाहङ्कारवर्जिताः । क्षीणपापा महाभागाः शम्भोः
प्रीतिकराः पराः । न ते परिग्रहं रागं काङ्क्षन्ति स्म
कदाचन । संसारविमुखाः सर्बे यतयो यीगतत्पराः ।
ध्यानावस्थं महादेवं परिवार्य्य धृतव्रताः । कृत्वा परि
षदं रुच्या तिष्ठन्ति विगतक्लमाः । यदैव परमं ज्योतिः
चिन्तयत्यम्बिकावतिः । तदैव ते पारिषदाः सर्वे सवेष्ट-
यन्ति तम् । ते षोड़श समाख्याताः कोटयोवै धृतघ्रताः ।
सिंहव्याघ्रादिसारूव्या अणिमादिसमायुताः । अपरे
कामिनः शम्भोः सुनर्म्मसचिवाः स्मृताः । विचित्ररू-
पाभरणा जटाचन्द्रार्द्धमण्डिताः । हरस्य तुल्याः
रूपेण विशदा वृषभघ्वजाः । उमासदृशरूपाभिः प्रम-
दाभिः समागताः । विचित्रमाल्याभरणा दिव्यस्रग्गन्ध
भूषणाः । उमाहहायं क्रीड़न्तमनुगच्छन्ति भूतिताः ।
शृङारवेशाभरला अष्टौ ते कोटयो नणाः । अद्धैमारी-
श्वराश्चान्ये ह्यर्द्धनारोश्वरं हरम् । अनुयान्ति
महाभागास्तुल्यरूपा हरस्य ये । उमासहायो हि यदा
रनते स्म सुण हरः । अर्द्धनारीशरीरास्तु द्वारपाला
भवन्ति ते । आकाशमार्शे गच्छन्तमनुगच्छन्ति नित्यशः ।
ध्यानस्थं परिचर्य्यन्ति सलिलादिभिरीश्चरम । नाना-
शस्त्रधराः शम्भीर्गणास्तु प्रमथाः स्मृताः । प्रमथ्नन्ति च
युद्धेषु युध्यमानान्महाबलानः ते वे स हावलाः शूराः
संख्याता बसुलोटयः । श्वरे ब्रामनास्तालकदङ्गपण-
पावाभिः । मृस्यन्ति वाद्यं कुर्वन्तो मावन्ति सत्तुरस्यरम् ।
नानारूपधरास्ते वै संख्यया कोटयस्त्रिकाः। सततं चा-
नुनच्छन्ति विचरन्तं महेश्चरम् । सर्वे नायाविनः शूराः
सर्वे शास्तार्थपारगाः । सर्वे सर्बत्र सर्वज्ञाः सर्वे सर्वत्रगाः
सदा । मुहूर्त्तात् सर्वभुवनं मत्वाऽऽयान्ति पुनःपुनः ।
अणिमाद्यष्टकैश्वर्व्ययुक्तास्तेवै महावसाः । अपरे रुद्र-
नामानो जटाचन्द्रार्द्धमखिताः । देवेन्द्रस्व नियोगेन
वर्त्तन्ते त्रिदिवे सदा । तेषां संख्या चैककोटिस्ते सर्वे
बलवत्तमाः । कुर्वन्ति हि सदा सेवां हरस्य सततं गणाः ।
विध्वं सयन्ति पापिष्ठान् धर्मिष्ठान् पालयन्ति च ।
अनुगृह्णन्ति सततं धृतपाशुपतव्रतान् । बिघ्नांश्च सततं
हन्ति योगिन वयतात्मनाम् । षटत्रिंशत् कोटयश्चैते
हरस्य सकला गणाः” कालिका पु० २९ अ० । तेषामुत्पत्ति
कथा तत्रैवाध्याये दृश्या । ४ हरीतक्यां स्त्री मेदि० ।

प्रमथन न० प्र + मथ--भावे ल्युट् । १ यधे २ क्लेशने ३ पिलो-

डने च अमरः ।

प्रमथाधिप पु० ६ त० । शिवे अमरः प्रमथपत्यादयोऽप्यत्र ।

प्रमथित न० प्रकर्षेण मथितम् । १ निर्जलतक्रे राजनि० ।

२ प्रकर्षेण मधिते त्रि० ।

प्रमद पु० प्र + मद--अप् । १ हर्ष अमरः । प्रमाद्यत्यनेन करणे

अप् । २ धुस्तूरफले न० शब्दच० । कर्त्तरि अच् । ३ प्रमत्ते
त्रि० मेदि० । ४ दैत्यभेदे पु० हरिवं० ३ अ० । तृतीयम-
न्वन्तरे वासिष्ठे ५ सप्तर्षिभेदे पु० ।

प्रमदक पु० “प्रमदको योऽयमेव लोकोऽस्ति न परः” इति

प्रप्सुरिति निरु० ६ । ३२ उक्ते परलोकासत्त्ववादिनि
नास्तिकभेदे ।

प्रमदकानन न० प्रमद्यतेऽनेन प्र + मद--करणे घञ् । प्रा० स० ।

६ त० “ङ्यापोः संज्ञाच्छन्दमो” पा० ह्रुस्तो वा । प्रम-
दावने राज्ञामन्तःपुरोचिते उद्याने भरतः प्रमदावना-
दयोऽप्यत्र अमरः ।

प्रमदा स्त्री प्रमाद्यत्यनया प्र + मद--करणे अप् । १ उत्तमयो-

षिति अमरः । “नजसजला गुरुश्च भवति प्रमदा” वृ० र०
उक्ते एकादशाक्षरपादके २ वर्णवृत्तभेदे ।

प्रमदाकानन न० प्रमदोचित काननं वन शा० त० । १ राज्ञा-

मन्तःपुराचतवने भरत । २ प्रमदावन तत्रार्थे शब्दरत्ना०

प्रमद्वरा स्त्री शुमकर्षिमातरि रुरोर्मार्य्ययां भा० आ० ५ अ० ।

प्रमन्थु पु० प्रिथव्रतवंश्ये वीरव्रतस्य भोजायां भार्य्यायां जाते

पुत्रे नृपभेदे भाग० ५ । १५ । १५

प्रमय पु० प + मी--वधे--भावे अच् । वधे हेमच० ।

प्रमयु त्रि० प्र + मी--वये सर्त्तरि उन । हिंसके अष० ८ । १ । १६ ।

पृष्ठ ४४७७

प्रमर्दन त्रि० प्रमृद्गाति + प्र + मृद--ल्यु । १ प्रकर्षेस्व मर्दके

२ दैत्यभेदे पु० हरिवं० १६४ अ० । ३ विष्णौ पु० “लोहि-
ताङ्गः प्रवर्दनः” विष्णुसं० । तत्र प्रतर्दन इति पाठान्तरं
तत्रार्थे “प्रलये सर्वभूतानां नाशकत्वात्” भाष्योक्तेस्तस्य
तथात्वम् । “तुषित! महातुषित! प्रमर्दन” भा० शा०
३४ अ० विष्णुस्तुतौ ।

प्रमा स्त्री प्र + मा--भावे अङ् । १ यथार्थज्ञाने भ्रमभिन्ने

ज्ञाने तल्लक्षणं तदुत्पत्तौ गुणाश्च भाषा० उक्ता यथा
“दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ।
प्रत्यक्षे तु विशेष्येण विशेषणवता समम् । सन्निकर्षो
गुणस्तु स्यादथ ह्यनुमितौ पुनः । पक्षे साध्यविशिष्टे
च परामर्शो गुणो भवेत् । शाब्दबोधे योग्यतायास्तात्-
पर्य्यस्याथ वा प्रमा । गुणः स्याद्भ्रमभिन्नस्तु ज्ञानम-
त्रोच्यते प्रमा । अथ वा तत्प्रकारं यत् ज्ञानं तद्वद्विशे-
ष्यकम्” भाषा० । दोषशब्दे ३७६६ पृ० भ्रमकारणं दृश्यम्
तथा च तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वं प्रामाण्या-
परपर्य्यायम् तच्च मतभेदेन स्वतोग्राह्यं परतोग्राह्यञ्च
तच्च परतोग्राह्यशब्दे ४२३४ पृ० उक्तम् । तस्य विस्तर-
स्त्वत्रोच्यते । तत्र न्यायमते “प्रमात्वं न स्वतोग्राह्यं
संशयानुपपत्तितः” भाषा० व्याकृतञ्च सि० मु० यथा
“मीमांसका हि प्रमात्वं स्वतोग्राह्यमिति वदन्ति । तत्र
गुरूणां मते ज्ञानस्य स्वप्रकाशरूपत्वात् तज्ज्ञानप्रा-
माण्यं तेनैव गृह्यते इति । भट्टनां मते तु ज्ञानसती-
न्द्रियम् । ज्ञानजन्या ज्ञातता प्रत्यक्षा । तया च ज्ञान-
मनुमीयते । सुरारिमिश्राणां मतेऽनुव्यवसायेन ज्ञानं
नृह्यते । सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञा-
नप्रामाण्यं गृह्यते । विषयनिरूप्यं हिं ज्ञानम् । अतो
ज्ञानवित्तिवेद्यो विषयः । तन्मतं दूषयति । न स्वतो-
जाह्यमिति । संशयेति । यदि ज्ञानपामाण्यं स्वतोग्राह्यं
स्यात् तदाभ्यासदशोत्पन्नज्ञाने तत्संशयो न स्योत् । तत्र
हि यदि ज्ञानं ज्ञातं तदा प्रामाण्यं ज्ञातमेवेति कथं
संशयः । यदि तु ज्ञानं न ज्ञातं तदा धर्मिज्ञानाभावात्
कथं संशयः । तस्माजज्ञानप्रामाण्यमनुमेयम् । तथा हि
इद ज्ञान प्रमा संवादिप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं
यथाऽप्रमा । इदं पृथिवीत्वप्रकारकं ज्ञानः प्रमा गन्ध-
वति पृथिवीत्वप्रकारकज्ञानत्वात् । एवम् इदं जलज्ञानं
प्रमा स्नेहवति जलत्वप्रकारकज्ञानत्वात् । न च
हतुज्ञानं स्वषं जातमिति वाच्छम् । पृथियीत्वप्रकारकत्वस्व
स्वतोग्राह्यत्वात् तत्र गन्धवद्विशेष्यकत्वस्यापि सुग्रह-
त्वात् । तत्प्रकारकत्वावच्छिन्नतद्वद्विशेष्यकत्वं परं न
गृह्यते संशयानुरोधात् । न च प्रमात्वस्य साध्यस्य
प्रसिद्धिः कथमिति वाच्यम् इदंज्ञानप्रमात्वस्य स्वतो-
ग्राह्यत्वात् । न च प्रकारभेदेन प्रामाण्यभेदात् धटत्व-
वति घटत्वप्रकारादेः कथं प्रसिद्धिरिति वाच्यम् घटत्वप्र-
कारकत्वस्य स्वविशेष्यकत्वस्य च स्वतोग्राह्यत्वात् । घटस्य
च पूर्वमुपस्थितत्वाद् घटविशैष्यकं घटत्वप्रकारकमिति
ज्ञाने प्रामाण्यस्य बाधकाभावः । व्यवसायपरन्तु प्रा-
माण्यं न गृह्यते । तत्र संशयसामग्रीसत्त्वे संशयस्यै-
वोपपत्तेः । किञ्चाभ्यासदशायां तृतोयानुव्यवसायादिना
प्रामाण्यस्य स्वत एव ग्रहसम्भवात् प्रथमानुव्यवसायपरं
न तद्ग्राहकत्वमिति कल्प्यते संशयामुरोधात् । अथ
प्रामाण्यानुमितौ प्रामाण्यग्रहे न तस्य विषयनिश्चय-
रूपत्वार्थं तत्र प्रामाण्यग्रहो वाच्यः सोऽप्यनुमित्यन्तरे-
णेति फलमुखी कारणमुखी वा नानवस्थेति चेन्न
अगृहीतप्रामाण्यग्रहकस्यैव निश्चयरूपत्वात् । यत्र च
प्रामाण्यसंशयस्तत्रैव परं प्रामाण्यानुमितेरपेक्षया
यावदाशङ्कं प्रामाण्यानुमितिरिष्यत एव सर्वत्र तु न संशयः
क्वचित् कोट्यनुपस्थितेः क्वचिद्विशेषदर्शनादितः क्वचिद्वि-
षयान्तरसञ्चारादिति सङ्क्षेपः । ननु सर्बेषां ज्ञानानां
यथार्थत्वात् प्रमालक्षणे तद्विशेष्यकत्वं विशेषणं व्यर्थम् ।
न च रङ्गे रजतार्थिनः प्रवृत्तिर्भ्रमजन्था न स्वात् तव
मते भ्रमस्याभावादिति वाच्यम् । तत्र हि दोषाधी-
नस्य पुरोवर्त्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतु-
त्वात् । सत्यरजतस्थल तु विशिष्टज्ञानस्य सत्त्वात् तदेव
कारणम् । अस्तु वा तत्रापि भेदाग्रह एव कारणमिति ।
न चाऽन्यथाख्यातिः सम्भवति रजतप्रत्यक्षकारणस्य
रजतसन्निवर्षस्याभावात् रङ्गे रजतबुद्धेरनुपपत्तेरिति
चेन्न सत्यरजतस्थले प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतु-
तायाः कॢप्तत्वात् अन्यत्रपि तत्ककल्पनात् । न च
र्सवादिप्रवृत्तौ तु भेदाग्रहः कारणमिति वाच्यम् लाघबात्
प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात् । इत्थञ्च रङ्गे
रजतत्वविशिष्टबुद्ध्यनुरोधेन ज्ञानलक्षणाप्रत्यासत्तिकल्पनेऽपि न
क्षतिः । फलमुखर्गारवस्यादोषत्वात् । किञ्च यद् रङ्गर-
जतयोरिमे रजते इति ज्ञानं जातं न कारणबोधोऽपि ।
अपि च यत्र रङ्गरजतयोरिमे रजतरङ्गे इति ज्ञानं
तत्रोभयत्र सुगपत्प्रवृत्तिनिवृत्ती स्वाताम् । रङ्गे रङ्ग
पृष्ठ ४४७८
भेदग्रहे रजते रजतभेदग्रहेऽन्यथाख्यातिभयात् । त्वन्मते
रङ्गे रङ्गभेदाग्रहस्य रजते रजतभेदाग्रहस्य च सत्त्वात्
किञ्चानुमितिं प्रति भेदाग्रहस्य हेतुत्वे जलह्रदे वह्नि-
व्याप्यधूमवदभेदाग्रहाद् अनुमितिर्निर्बाधा । यदि च
विशिष्टज्ञानं कारणं तदाऽयोगोलके वह्निव्याप्यधूमज्ञान-
मनुमित्यनुरोधादापतितम । इत्थम् अन्यथाख्यातौ प्रत्य-
क्षमेव प्रमाणम् । रङ्गं रजततया जानामीत्यनुभवा-
दिति सङ्क्षेपः” ।
वेदान्तिमते तस्य स्वतोग्राह्यता वेदान्तपरिभाषायां व्यवस्था-
पिता यथा “एवसुक्तानां प्रमाणानां प्रामाण्यं स्वतएव
उत्पद्यते ज्ञायते च तथा हि स्मृत्यनुभवसाधारणं संवा-
दादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यं
तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षते
प्रमामात्रेऽनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां
भूयोऽवयवेन्द्रियसन्निकर्षः, रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च
तदभावात् सत्यपि तस्मिन् पीतः शङ्ख इति प्रत्यक्षस्य
भ्रमत्वाच्च । अतएव न सल्लिङपरमर्शादिकमपि अनुमि-
त्यादिप्रमायां गुणः असल्लिङ्गपरामर्शादिस्थलेऽपि विषया-
बाधेनानुमित्यादेः प्रमात्वात् । न चैवमप्रमापि प्रमा स्यात्
ज्ञानसामान्यसामग्र्यविशेषादितिवाच्यं दोषाभावस्यापि
हेतुत्वाङ्गीकारात् । न चैवं परतस्त्वम् “आगन्तुकभावका-
रणापेक्षायामेव परतस्त्वात्” ज्ञायते च प्रामाण्यं स्वतः,
स्वतोग्राह्यत्वञ्च दोषाभावे सति यावत्स्वाश्रयग्राहकसा-
मग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानं तद्ग्राहक
साक्षिज्ञानं तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्य-
मपि गृह्यते । न चैव प्रामाण्यसंशयानुपपत्तिः तत्र
सशयानुरोधेन दोषस्यापि सत्त्वेन दीषाभावघटितस्वा-
श्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् । यद्वा
यावत्स्वाश्रयग्राहकग्राह्ययोग्यत्वं स्वतस्त्वं संशयस्थले
प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न
संशयानुपपत्तिः । अप्रामाण्यन्तु न ज्ञानसामान्यसामग्री
प्रयोज्यं प्रमायामप्यप्रमाण्यापत्तेः किन्तु दोषप्रयोज्यं
नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् अप्रामाण्य-
घटकतदभाववत्त्वादेर्वृत्तिज्ञानानुपनातत्वेन साक्षिणा
ग्रहीतुमशक्यत्वात् किन्त विसंवादिप्रवृत्त्यादिलिङ्गकानु-
मित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते
चेति” । अधिकं प्रमाणशब्दे दृश्यम् ।

प्रमाण न० प्र + मा--भावे कैरणे वा ल्युट् । १ प्रमारूपज्ञाने

२ विष्णौ “प्रमाणं प्राणनिलयः” विष्णुस० । प्रमार्ण
“प्रज्ञानं ब्रह्मेति” श्रुतेस्तस्य ज्ञानरूपत्वात् तथात्वम् “प्र-
माणं बीजमव्ययम्” विष्णु स० प्रत्यक्षादिप्रमाणरूपत्त्वात्तस्य
तथात्वं व्यत्पत्तिद्वययोगात् नामद्वयम् । ३ सत्यवादनि
४ इयत्तायां परिच्छेदे ५ हेतौ ६ प्रमातरि च मेदि० ।
७ प्रमितिकरणे चक्षरादौ “यस्येप्साजिहासाप्रयुक्तस्य
प्रवृत्तिः स प्रमाता स येनार्थं प्रमिणोति तत्प्रमाणम्”
वात्स्या० “तच्च साधनाश्रयव्यतिरिक्तत्वे सति प्रमाव्याप्तं
प्रमाणमिति” सर्वद० अक्षपाददर्शने । “तद्वति तत्प्रकार-
कत्वरूपप्रकर्षविशिष्टज्ञानकरणत्वम्” गौ० वृ० । “अनुभव-
त्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्य्य तानिरूपितकारणता-
शालित्वे सति व्यापारवत्त्वम् तत्त्वम्” तर्कप्रकाशे शिति-
कण्ठः । प्रमाणत्वं च अनधिगतार्थकानुभवकारणत्वम् ।
तच्च गृहीतग्राहीतरानुभवकारणत्वम् । स्वसमानाधि-
करणस्वाव्यवहितपूर्ववर्त्तिस्वसमानाकारनिश्चयविषयविषय-
केतरतद्वद्विशेष्यकतत्प्रकारकानुभवकारणत्वमिति
यावत् न्यायकुसुमाञ्जलिटी० । “यज्जातीयविशिष्टज्ञानत्वा-
वच्छेदेन समानाकारनिश्चयोत्तरत्वं तज्जातीयान्ययथा-
र्थज्ञानस्यैवागृहीतग्राहित्वेन प्रमात्वात् अतएव धारा-
वाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्त्तित्वेऽपि
न तासां प्रमात्वहानिः हानिस्तु समानाकारानुभवसमु-
त्थानां स्मृतीनामिति” शब्द० प्र० । न्यायनय चत्वारि-
प्रमाणानि । प्रत्यक्षम् । अनुमानम् । उपमानम् । शब्दः
गौ० सू० प्रकारान्तरेण प्रमाणं द्विविधम् “शब्दोपजीवि
शब्दानुपजीवि” कुसुमाञ्जलिटी० । प्रत्यक्षमेकमेव प्रमा-
णमिति चार्वाकाः सङ्गिरन्ते । प्रत्यक्षमनुमानं चेति द्वे
प्रमाणे इति बैशेषिका बौद्धा आर्हताश्च । प्रत्यक्षं शब्दश्चेति
द्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्य्याः ।
प्रत्यक्षमनुभानमाप्तवचनमिति त्रीणि प्रमाणानीति सांख्या
वेदान्तिनश्च । प्रत्यक्षानुमानोपमानानि त्रीणीति नैया-
यिकैकदेशिनः । प्रत्यक्षानुमानीपमानशब्दा अर्थापत्तिश्चेति
पञ्च प्रमाणानीति प्राभाकराः । प्रत्यक्षानुमानोपमानशब्दा
अर्थापत्तिरनुपलब्धिश्चेति षट्प्रमाणानीत्यपरे भाट्टावेदा-
न्तिभेदाश्च । सम्भवैतिह्ये अप्यतिरिक्ते प्रमाणे इति
पौराणिकाः । चेष्टाप्यतिरिक्तं प्रमाणामित तान्त्रिकाः ।
तत्र सांख्यपातञ्जलवेदान्तिमते अन्तःकरणवृत्तीनां पौरु-
षेयचित्तवृत्तिप्रकाशरूपबोधे करणत्वम् अन्तःकरण-
वृत्तिषु च ज्ञानत्वारोपेण तत्करणत्वमिन्द्रियाणामिति
पृष्ठ ४४७९
भेदः । यथोक्तं सां० प्र० भा० “प्रमाता चेतनः शुद्धः प्रमाणं
वृत्तिरेव नः । प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ।
प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । साक्षाद्द-
र्शनरूपं च साक्षित्वं वक्ष्यति स्वयम् । अतः स्यात्
कारणाभावाद्वृत्तेः साक्ष्येव चेतनः । विष्ण्वादेः सर्वसाक्षित्वं
गौणं लिङ्गाद्यभावतः” । “प्रमाणविपर्य्ययविकल्पनिद्राः
स्मृतयः” पात० सू० “इन्द्रियप्रणालिकया चित्तस्य बाह्य-
वस्तूपरागात् तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषाव-
धारणं प्रधाना वृत्तिः प्रत्यक्षं प्रमाणं, फलमविशिष्टः
पौरुषेयश्चित्तवृत्तिबोधः” भाष्यम् “अनधिगततत्त्वबोधः
पौरुषेयो व्यवहारहेतुः प्रमा तत्करणं प्रमाणम् ।
ननु पुरुषवर्त्ती बोधः कथं चित्तगतायावृत्तेः फलं न हि
खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियते
इत्यत आह अविशिष्ट इति । न हि पुरुषगतो बोधो
जन्यते अपि तु चैतन्यमेव बुद्धिदर्पर्णप्रतिबिम्बितं बुद्धि-
वृत्त्या अर्थाकारया तदाकारतामापाद्यमानं फलम् ।
तच्च तथाभूतं बुद्धेरविशिष्टं बुद्ध्यात्मिका वृत्तिः वृत्तिश्च
बुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभाव
इत्यर्थः” विव० । प्रमाणस्य भावः ष्यञ् प्रामाण्य न० तल्
प्रमाणता स्त्री त्व प्रमाणत्व न० प्रमाणभावे प्रमितिकर-
णत्वे प्रमात्वे च । उद्देश्यविधेयभावेनान्वयस्थले प्रमाण-
शब्दस्य प्रमाकरणपरत्वे क्वचिदेकवचनता यथा “वेदाः प्रमाणं
स्मृतयः प्रमाणम्” इत्यादौ । क्वचित्तुबहुवचनता यथा
“प्रत्यक्षानुमानोपमानागमाः प्रमाणानि” गौ० सू० । तत्र
पूर्वत्र शाब्दत्वरूपप्रमात्वजातेरेकत्वात् एकवचनत्वम् । उत्तरत्र
प्रत्यक्षत्वादिजातिचतुष्टयकरणानां बहुत्वात् बहुवचनता
इति प्रथमाव्युत्पादे गदाधरेण प्रपञ्चितम् तत्र दृश्यम् ।
सामान्यत्वात् क्लीवतैवास्य । क्वचित्तु विशेषपरत्वे स्त्रीत्व-
परता यथा ष्रमाणी । स्त्री प्रमाणी यस्य ब० ब्री० “अप्
पूरणीप्रमाण्योः” पा० अप्समा० न कप् । श्रीप्रमाण इत्येव
सि० कौ० । ८ परिमाणभेदे च । “प्रमाणे मात्रजद्वयसज्-
दघ्नचः” षा० वृत्तौ दृश्यम् ।

प्रमाणबाधितार्थक पु० प्रमाणेन बाधितोऽर्थो यस्य कप् ।

तर्कभेदे तर्कशब्दे ३२५५ पृ० दृश्यम् ।

प्रमाणिक त्रि० प्रमाणं सिद्धिहेतुतयाऽस्त्यस्य टन् । प्रमाण-

सिद्धे “प्रमाणिका जरौ लगौ” वृ० र० उक्ते अष्टाक्ष-
रपादके २ छन्दोभेदे स्त्री । ३ परिमाणभेदयुते मध्यमा-
ङ्गुलकूर्परान्तरमितपरिमाणयुते हस्ते हेमच० ।

प्रमातामह पु० पुगतो मातामहं कार्यत्वेन अत्या० स० । १

मातामहस्य पितरि अभरः । तस्य पत्नी ङीष् । प्रमाता-
मही २ तत्पत्न्यां स्त्री ।

प्रमातृ त्रि० पुमिनोति प + मि--तृच् । प्रमाज्ञानकर्त्तरि ।

न्यायनये “यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स
प्रमाता” वात्स्या० । सांख्यमते शुद्धचेतनो वृत्तिसाक्षी स ।
प्रमाणशब्दे तद्वाक्यम दृश्यम् । वेदान्तिमते “मेहातीतो
विशुद्धो मुनिभिरभिहितो मौहसंक्रान्तमूर्त्तिः साक्षी
संवित् प्रमा तत्प्रतिफलितवपर्गीयतेऽसौ प्रमाता” इत्यु-
क्तदिशा अन्तःकरणवृत्तिप्रतिबिम्बितं तदवच्छिन्नं वा
चैतन्यमेव प्रमाता ।

प्रमाथ पु० प्र + मथ--भावे घञ् । १ बलाद् हरणे २ प्रपीडने च ।

बा० कर्त्तरिण । ३ कुमारानुचरभेदे भा० श० ४६ अ० ।
स्वार्थे अण् । ४ शिवपारिषदप्रमथगणे पु० हरिवं० १८१ अ०
५ धृतराष्ट्रपुत्रभेदे पु० भा० द्रो० १५७ अ० ।

प्रमाथिन् त्रि० प्रमथ्नाति प्र + मथ--णिनि । १ बलाद् हारके

२ पीड़के च । “इन्द्रियाणि प्रमाथीनि” गीतां । स्त्रियां
ङीप् । सा च ३ अप्सरोभेदे भा० आ० १२४ अ० । ४
राक्षसभेदे पु० भा० व० २८४ अ०

प्रमाद पु० प्र + मद--घञ् । १ कर्त्तव्ये अकर्त्तव्यत्वघिया ततो

निवृत्तौ अकर्त्तव्ये कर्त्तव्यत्वधिया तत्र प्रवृत्तौ बा
अनवधानतायाम् अमरः । अनवधानताशब्दे १५२ पृ० दृश्यम् ।
स च तमोगुणमार्य्यः तमस्शब्दे ३२३५ पृ० दृश्यम् ।
तस्य सम्मोहरूपत्वात्तत्कार्य्यत्वं बोध्यम् ।

प्रमादवत् पु० प्रमादोऽस्त्यस्य मतुप् मस्य वः । १ प्रमादयुते

२ असमीक्ष्यकारिणि जटा० ।

प्रमादिन् त्रि० प्रमादः नित्ययोगे इनि न तु अस्त्यर्थे

एकाक्षरकृदन्तात् तस्य निषेधात् । नित्यप्रमादयुक्ते “एकः
प्रमादी स कथं न हन्यते” श्रीधरधृतवाक्यम् ।

प्रमापण न० प्र + मीञ्--हिंसायां स्वार्थे णिच्--आत्वे पुक्

ल्युट् । मारणे अमरः ।

प्रमायुक त्रि० प्र + मी--ताच्छील्ये उकञ् । प्रमरणशीले “न

चास्य प्रियं प्रमायुकं भवति” वृ० उ० । “प्रमायुकं
मरणशीलम्” भा० ।

प्रमित त्रि० प्र + मि--मी वा क्त । १ ज्ञाते २ प्रथभावधारिते च जटा० । ३ परिमिते ।

प्रमिताक्षरा स्त्री प्रमितानि परिमितानि अक्षराणि

यस्याम् । सिद्धान्तशिरोमणिव्याख्यानरूपायां टीकायां
मुहूर्त्तचिन्तामणिटीकाभेदे “प्रमिताक्षरा सजसकै-
रुदिता” वृ० र० उक्ते द्वादशाक्षरपादके ३ वर्णवृत्तभेदे ।
पृष्ठ ४४८०

प्रमिति स्त्री प्र + मि--मा--वा क्त । प्रमाज्ञाने अमरः ।

प्रमीढ त्रि० प्र + मिह--क्त । १ मूत्रिते २ चने च मेदि० ।

प्रमीत त्रि० प्र + मीञ्--हिंसायां क्त । १ मृते “प्रमीतौ पितरौ

यस्य” इति स्मृतिः । २ यज्ञार्थे हतपशौ पु० अमरः ।

प्रमीला स्त्रौ प्र + मील--भावे अ । तन्द्र्याम अमरः ।

प्रमुख न० प्रकृष्टं मुखमारम्भः । १ तदादित्व त्रिका० प्रकृष्टं

मुस्वमस्य । २ प्रथमे ३ प्रधाने अमरः ४ मान्ये ५ श्रेष्ठे च
त्रि० मेदि० ६ पुन्नानवृक्षे पु० शब्दरत्ना० ७ समूहे पु०
शब्दच० । बहु० । उत्तरपदस्थः । तदादिके त्रि० ।

प्रमुच पु० १ ऋषिभेदे भा० शा० २०८ अ० । प्रमुञ्चति प्र +

मुचक । २ प्रकर्षेण मोक्तरि त्रि० ।

प्रमुचु ऋषिभेदे भा० अनु० १५० अ० ।

प्रमुद् त्रि० प्रकृष्टा मुद् यस्म । १ हृष्टे २ हर्षयुक्ते अमरः ।

३ देवभेदे पु० यजु० ३० । १० । प्रा० स० । ४ प्रकृष्टहर्षे स्त्री ।

प्रमुदित त्रि० प्र + मुद--कर्तरि क्त । १ हृष्टे २ हर्षयुक्ते अमरः ।

प्रमुदितवदना स्त्री “प्रमुदितवदना भवेन्नौ च रौ” वृ० र०

उक्ते द्वादशाक्षरपादके छन्दोभेदे ।

प्रमृग अव्य० प्रकृष्टा भृगा यत्र तिष्ठ० अव्ययी० । प्रकृष्टमृग युक्ते स्थाने

प्रमृत न० प्रकृष्टं मृतं ब्राणिहिंसितं यत्व । मनूक्ते

कषणरूपे जीवनोपायभेदे “मृतन्तु याचितं भैक्षं प्रमृतं
कर्षणं स्मृतम्” मनुः । “कर्षणञ्च भूमिगतप्रचुरप्राणिम-
रणनिमित्तत्वात् बहुदुःखफलकं प्रकर्षेण मृतमिव प्रमृ-
तम्” कुल्लू० ।

प्रमेय त्रि० प्र + मा--कर्मणि यत् । १ प्रमाज्ञानविषये पदार्थे

२ परिच्छेद्ये २ अवधार्य्य च । तत्र वेदान्ते शुद्धर्चतन्यं
प्रमेयम् अन्यस्याध्यासमूलकत्वेन व्यवहारिकप्रमाज्ञा-
नविधत्वेऽपि न परमार्थप्रमेयत्वम् । न्यायनये
“आत्मशरीरान्द्रयार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःस्वाप-
वर्गास्तु प्रमेयम्” गौ० सू० उक्ताः आत्मादयः । प्रमेयत्वं
च केवलान्वयि सर्वेषामीश्वरज्ञानरूपप्रमावियत्वात् ।

प्रमेह पु० प्र + मिह--आधारे करणे वा थञ् । रोगमेदे तल्ल-

क्षणभेदादिकं भावप्र० उक्तं यथा
“आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदनानूपरसः
पयांसि । नवान्नपानं गुड़वैकृतं च प्रमेहहेतुः कफकृच्च
सर्वम् । मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफोवस्तिगतं
प्रदव्य । करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं
परिदष्य चापि । क्षीणेषु दोषेष्ववकृष्य धातून् संदूष्य मेहान्
कुरुतेऽनिलश्च । साध्याः कफोत्था दश पित्तजाः षट् याप्या-
न साध्या पवनाच्चतुष्काः । समक्रियत्वाद्विषमक्रियत्वान्म-
हात्ययत्वाच्च यथाक्रमन्ते । कफश्च पित्तं पवनश्च दोषा-
मेदोऽस्रशुक्राम्बुबसाससीकाः । मज्जारसौजःपिशि-
तञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः । दन्तादीनां
मलाढ्यत्वं प्राग्रूपं पानिपादयोः । दाहचिक्वणता
देहे तृट्स्वाद्वास्यञ्च जायते । सामान्यं लक्षणं तेषां
प्रभूताबिलमूत्रता० । दोषदूष्याविशेषेऽपि तत्संयोगविशे-
षतः । मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते । अच्छं
बहुतरं शीतं निर्गन्धसुदकोपमम् । मेहत्युदकमेहेन
किञ्चिच्चाविलपिच्छिलम् । इक्षोरसमिवात्यर्थं मधुरञ्चे-
क्षुमेहतः । सान्द्री भवेत् पर्युसितं सान्द्रमेहेन मेहति ।
सुरामेहि सुरातुल्यमुपर्यच्छमधोघनम् । संहृष्टरोमा
पिष्टेन पिष्टवद्बहलं सितम् । शुक्राभं शुक्रमिश्रं
वा शुक्रमेही प्रमेहति । मूर्त्तासून् सिकठामेही
सिकतारूपिणी मलान् । शीतमेही सुवहुशो मधुरं
भृशशीतलम् । शनैःशनैः शनैर्मेही मन्दं मन्दं प्रमेहति ।
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् । गन्धव
र्णरसस्पर्शौ क्षारेण क्षारतीयवत् । वीलमेहेन नीलाभं
कालमेही मसीनिभम् । हारिद्रमेही कटुकं हरिद्रा-
सन्निभं दहत् । विश्रं माञ्जिष्ठमेहेन मञ्जिष्टाशालिको-
पमम् । विश्रमुस्तं सखबणं रक्ताभं रक्तमेहिनः ।
वशामेही वसामिश्वं वसाभं मूत्रयेन्मुहुः । मज्जामं
मज्जमिश्रं वा मज्जमेही सुहुर्मुहुः । कष्न्धं मधुरं
रूक्षं क्षौद्रमेहं वदेत् बुधः । हस्ती मत्त इवाजस्नं
मूत्रयेगविवर्जितम् । सासमीकं विवद्धश्च हस्तिमेही
प्रमेहति । अविपाकोऽरुचिश्छर्दिर्निद्राकासः सपीनसः ।
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् । वस्मिमेह-
नयोस्तोदो मुष्कावदारणं ज्वरः! दाहतृष्णाम्लिकामू-
र्च्छाविड्भेदः पित्तजन्मनाम् । पातजानासुदावर्त्तकम्पहृद्-
ग्रहलोलताः । शूलमुन्निद्रता शोषः श्वासः कासश्च
जायते । यथोक्तोपद्रवाविष्ठमतिप्रखुतमेव च । पिडका-
पीडितं गाढं प्रमेहो हन्ति मानवम् । मूर्च्छाच्छर्दिज्व-
रश्वासकासवीसर्पणौरवैः । उपद्रवैरुपेतो यः प्रमेही
दुःप्रतिक्रियः । रजः प्रवर्त्तते यस्मान् मासि मासि
विशोधयेत् । सार्वात् शरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः ।
जातः प्रमेहो मधुमेहिनो वा न साध्यरोगः सहि
बीजदोषात् । बे चापि केचित्कुकजा विकारा सवन्ति तां-
पृष्ठ ४४८१
क्ष्मापि वदन्त्यसाध्यान् । सर्वएव प्रमेहास्तु कामेनाप्रति-
कारिणः । मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति च ।
मधुमेहो मधुनिभो जायते स किल द्विधा । क्रुद्धे
घातुक्षयाद्वायौ दोषावृतपथेऽथ वा । आवृतो दोषलि
ङ्गानि सोऽनिनित्तं प्रदर्शयन् । क्षीणक्षीणात् क्षणात्
पूर्णो भजते कृच्छ्रसाध्यताम् । मधुरं यच्च सर्वेषु प्रायो
मध्विव मेहति । सर्वेऽपि मघुमेहाख्यं माधुर्य्याच्च
तनोरतः । शराविकाकच्छपिका जालिनी विनतालजी ।
मसूरिका सर्षपिका पुत्रिणी सविदारिकाः । विद्रधि-
श्चेति पिडकाः प्रमेहोपेक्षया दश” ।
तद्रोगनिमित्तकर्मभेद शा० त० उक्तः । कर्मविपाकशब्दे
१०७६ पृ० दृश्यम् । तत्र मधुमेहस्यैव महारोगभेद-
रूपता “मधुमेहभगन्दरौ” इत्युक्तेः ।

प्रमेहिन् पु० प्र + मिह--णिनि । प्रमेहरोगयुते ।

प्रमोचनी स्त्री प्रकर्षेण मुच्यते निस्त्वचीक्रियते भोजनार्थम्

मुच--कर्मणि ल्युट् ङीप् । १ गोडुम्बायाम् (गोमुक)
जटा० २ प्रमोचनसाधने त्रि० । भावे ल्युट् । ३ प्रकर्षेण-
मीचने न० ।

प्रमोद पु० प्र + सुद--हर्षे भावे घञ् । १ हर्षे प्रियलाभनिमित्ते

प्रकृष्टहर्षे आनन्दशब्दे ७१७ पृ० तैत्ति० उ० भाष्यवाक्यं
दृश्यम् । गकृष्टो मोदोयस्य प्रा० व० । २ प्रमोदयुते त्रि० ३
नागभेदे पु० भा० आ० ५७ अ० । ४ स्कन्दानुचरभेदे पु० भा० श०
४६ अ० । सा० त० कौ० उक्ते ५ मुख्यसिद्धिभेदे “तिस्रश्च
मुख्याः सिद्धयः प्रमोदसुदितमोदमानाः” । तत्राध्या-
त्यिकदुःश्चविथातस्य वृर्वोत्कर्षेण इष्टत्वात् प्रमोदत्वं
बोध्यम् । आभिमौतिकंदुःखविघातस्य मोदाधारत्वात्
मुदितत्वम आधिदैविकदुःस्वविघातस्य मोदमानत्वं मोदस्य
मानं भागं यत्रेति व्युत्पत्त्येति विबेकः ।

प्रमोदन त्रि० प्रमोदयति प्र + सुद--णिच्--ल्यु । १ हर्षकारके

२ विष्णौ पु० “जितामित्रः प्रमोदनः” विष्णुस० । भावे
ल्युट् । ३ हर्षसम्पादने न० ।

प्रमोदित त्रि० प्रमोदो जातोऽस्य तार० इतच । १ जातप्रमोदे २ कुवेरे पु० शब्दमाला ।

प्रमोदिन् त्रि० प्रमोदयति प्र + मुद--णिच्--णिनि । १ प्रहर्ष-

जनके । स्त्रियां ङीप् । सा च २ जिङ्किनीवृक्षे भावप्र० ।

प्रमोहन न० प्रसुह्यतेऽनेन प्र + मुह--करणे ल्युट्, प्रमोहयत

प्र + मुह + णिच्--ल्यु वा । १ प्रमोहसाधने प्रमोहकारके
२ अस्त्रभेदे च यदल्यप्रयोगे विपक्षस्य प्रमोहो जायते
तस्मिन्नास्त्रे । भा० भी० ७७ अ० । २ प्रमोकारसमात्रे त्रि० ।

प्रम्लोचन्ती स्त्री प्रम्लोचति नरं प्रति आत्मानं दर्शयति

प्र + म्लुच--शतृ--ङीप् । अप्सरोभेदे यजु० १५ । १७

प्रम्लोचास्त्री प्रम्लोचति नरं प्रत्यात्मानं दर्शयति प्र + म्लु

चअच् । अप्सरोभेदे गरुड़पु० ९० अ० ।

प्रयज्यु त्रि० प्र + यज “यजिमनिशुन्धिमसिदनिभ्यो युच्”

उणा० युच् निरनुनासिकत्वात् अनादेशो न । अध्वर्यौ
उज्ज्व० ऋ० १ । २९ । ९

प्रयत त्रि० प्र + यम--कर्त्तरि क्त । १ पवित्रे संयते अमरः । प्र +

यत--अच् । २ प्रयत्रविशिष्टे त्रि० । प्रपूर्वक यमेर्दानार्थ-
कात् कर्मणि क्त । ३ दत्ते च । “प्रयतदक्षिणम्” ऋ०
१३१ । १५

प्रयत्न पु० प्र + यत--भावे नङ् । प्रयासे । स च न्यायमते

त्रिविधः यथा “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकार-
णम । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ।
चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य
चाध्यण प्रवृत्तौ जनकं भवेत् । निवृत्तिस्तु भवेद्द्वेषात् द्विष्ट-
साधनताधियः । यत्रो जीवनयोनिस्तु सर्वदाऽतीन्त्रियी
भवेत् । शरीरे प्राणसञ्चारे कारणं तत्प्रकीर्त्तितम्” भाषा०
“प्रयत्रस्तु फलावाप्त्यै व्याषारोऽतित्यरान्वितः” सा० द०
उक्ते २ फलार्थिभिः प्रारब्धस्य कर्मणोऽवस्थापञ्चकान्तर्गते-
ऽवस्थाभेदे ततोऽस्त्यर्थे मतुप् मस्य वः । प्रयत्नवत्
तद्युक्ते त्रि० त्रिका० स्त्रियां ङीप् ।

प्रयत्नशैथिल्य ६ त० । स्वाभाविकप्रयत्नस्योपरमपूर्वकप्रयत्नभेदे-

तच्च योगाङ्गासनसिद्धिकारणं यथोक्तं “प्रयत्नशैथि-
ल्यानन्तसमापत्तिभ्याम्” पा० सू० “भवतीति शेषः प्रयत्नो
परमात् सिद्ध्यत्यासनं येन नाङ्गमेजयो भवति अनन्ते
वा समापन्नं चित्तमासन निर्वर्त्तयतीति” भा० “सां
सिद्धिकोहि प्रयत्नः शरीरधारको न यागाङ्गस्योपदेष्ट-
व्यासनस्य कारणं तस्य तत्कारणत्वे उपदेशवैयर्थ्यात्
स्वरसत एव तत्सिद्धेः तस्मादुपदेष्टव्यस्यासनस्यायमसा०
धकः विरोधी च स्वाभाविकः प्रयत्नः । तस्य च यादृ-
च्छिकासनहेतुतयासनवियमोपहर्तृत्वात् । तस्मादुपदिष्ट-
नियमासनमभ्यस्यता स्वाभाविकप्रयचशैथिल्यात्मा प्रयत्न
आस्थेयो नान्यथोपदिष्टमासनं सिध्यतीति स्वाभाविक
प्रयत्नशैथिल्यमासनसिद्धिहेतुः अनन्ते वा नागनायके स्थि-
रतरफणासहस्नविधृतविश्वम्भरामण्डले समापन्नं चित्त-
मासनं निर्वर्त्तयतीति” विव० ।

प्रयन्त त्रि० प्र + यम--तृच् प्रफर्षेण १ यन्तरि २ दातरि च ऋ० १ । ५१ । १५ भाष्यम् ।