वाचस्पत्यम्/पृषभाषा

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४४१७

पृषभाषा स्त्री पृष--सेके क तादृशी भाषा यस्याः । अमरा-

वत्यामिन्द्रनगर्य्याम् शब्दमाला० ।

पृषाकरा स्त्री पृषदिवाकृष्यते आ + कॄ--कर्मणि अच् पृषो० ।

क्षुद्रशिलायाम् (वाट्खारा) शब्दच० ।

पृषातक न० पृषन्तं पृषदाज्यं तकते हसति तक--अच् ।

पृषो० । दधियुक्तघृते हेमच० ।

पृषोदर त्रि० पृषःदिवोदरं यस्य पृषो० तलोपः । १ स्वल्पोदरे

पृषन्ति उदरे यस्य । २ वायौ पु० ।

पृषोदरादि “पृषोदरादीनि यथोपदिष्टम्” पा० विहित

लोपादिनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो
यथा “पृषोदर पृषोत्थान वलाहक जीमूत श्मशान
उलूखल पिशाच वृषी मयूर” । “वर्णागमो वर्णविपर्य्ययश्च द्वौ
चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्त-
दुच्यते पञ्चविधं निरुक्तम्” । एतच्च समासविषयकमेवेति
नियमो न प्राचीनकारिकायां हंससिंहादिशब्दाना-
मपि पृषोदरादित्वात् सिद्धत्वोक्तेः । अस्यार्थः सि० कौ०
मनोरमादौ यथा
“पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि
स्युः । पृषत् उदरम् पृषोदरम् । तलोपः । वारि-
वाहको वलाहकः । पूर्वपदस्य वः उत्तरपदादेश्च लत्वम् ।
“भवेद्वर्णागमात् हंसः सिंहो वर्णविपर्य्ययात् । गूढोत्मा
बर्णविकृतेर्वर्णनाशात्पृषोदरम्” दिक्शब्देभ्यस्तीरस्य
तारभावो वा । दक्षिणतारम् दक्षिणतीरम् । उत्तरतारम्
उत्तरतीरम् । दुरो दाशनाशदभध्येषूत्त्वमुत्तरपदादेष्टुत्वञ्च ।
दुःखेन दाश्यते दूडाशः । एवं दुःखेन नाश्यते दुणाशः
दुःखेन दभ्यते दूडाभः । खल् त्रिभ्यः । दम्भेर्नलोपो
निपात्यते । दुष्टं ध्यायतीति दूट्यः । आतश्चेति कः ।
ब्रुवन्तोऽस्यां सीदन्तीति वृषी । ब्रुवच्छब्दस्य वृ आदेशः ।
सदेरधिकरणे डट् । आकृतिगणोऽयम्” । हन्तेः
पचाद्यचि सुमागमे हंस इति हिंसेस्तु पचाद्यचि
हकारसकारयोः स्थानव्यत्ययात् सिंह इति गूढोत्मेत्यत्र
आकारविकृत्या उकारादेशः पृषोदरमित्यत्र तकारवर्ण-
लोपः इत्येवं रीत्या सर्वत्र बोध्यम् । एतन्मूलकमेव
“लुम्पेदवश्यमः कृत्ये तुम् काममनसोरपि । समो वा
हितततयोर्मांसस्य पचियुज्घञोरिति” । अन्तमिति शेषः
कृत्यप्रत्ययान्ते उत्तरपदे अवश्यम्शब्दस्यान्त्यमकारं लु
स्पेत् । अवश्यसेव्यः । तथा कामशब्दमनः शब्दयोः
परतः तुम्शब्दस्यान्तम् । हन्तुकामः गन्तुमनाः । तुमिति
षष्ठ्यर्थे प्रथमा । हितततशब्दयोः परतः समोऽन्त्यं
मकारम् वा लुम्पेत् । सहितः संहितः सततः सन्ततः ।
युज्घञ्परपंचिधातौ परे मांसशब्दान्त्याकारं लुम्पेत् ।
मांस्पचनः मांसपचनः मांस्पाकः मांसपाक इत्यादि ।”

पृष्ट त्रि० पृषु सेके प्रच्छ--वा क्त । १ सिक्ते--यजु० ३३ । ९ ।

२ जिज्ञासिते “नापृष्टः कस्यचित् ब्रूयात्” मनुः ।

पृष्टहायन पु० नित्यक० । १ धान्यभेदे २ गजे पुंस्त्री मेदि० ।

स्त्रियां जातित्वात् ङीष् ।

पृष्टि स्त्री पृष + सेके भावे क्तिन् । सेके शत० ब्रा० ७ । ५१ । १३ ।

२ । १ । १५ । प्रच्छ--क्तिन् । २ जिज्ञासायाञ्च । पृष--कर्त्तरि
क्तिच् दीर्घः । ३ पार्श्वस्थे स्त्री ऋ० १० । ८ । १० पृष्टीः पार्श्व-
स्थान् भा० । ४ पृष्ठदेशे यजु० २ । ८ । “पृष्टीः पृष्ठ-
देशः” वेददीप० । पृष्टिवह पृष्ट्यावहः । पृष्ठवहे
अथ० १८ । ४ । १०

पृष्ठ न० पृष--स्पृ श--वा थक् नि० । तनीः पश्चाद्भागे अमरः ।

निरुक्ते ४ । ३ “पृष्टं संस्पृष्टमङ्गैः” इत्युक्तं युक्तश्चैतत् पृषधा-
तोस्तु तद्रूपसिद्धेः निपातनानुपपत्तेः अतः स्पृशधातोरेव
निपा० । २ स्तोत्रविशेषे स च सा० सं० भाष्ये उक्तो यथा
“एकस्मिन् सूक्ते विद्यमानानां तिसृणामृचां ब्राह्म-
णोक्तविधानेन सप्तदशधाम्यासः सप्तदशस्तोमः तादृशेषु
स्तोत्रेषु पृष्ठशब्दः श्रूयते “सप्तदशानि पृष्ठानि इति” तानि
पृष्ठानि विश्वजिति चोदकप्रप्तत्वात् सर्वपृष्ठशब्देनानू-
द्यन्ते इत्येकः पक्षः । रथन्तर पृष्ठ वृहत्पृष्ठयोर्ज्योति-
ष्टोमे विकल्पितयोरिहापि चोदकेन विकल्पप्राप्तौ सर्व-
शब्देन समुच्चयो विधीयते । तथा सत्यनुवादकृतं वैयर्थ्यं
न भविष्यति इति द्वितीयः । सर्वत्वं बहुषु मुख्यं न
तु द्वयोः । तस्मादनेन सर्वपृष्ठशब्देन षट्संख्यकानि
पृष्ठान्यतिदिश्यन्ते षड़हे प्रतिदिनमेकैकं पृष्ठं विहि-
तम् । तानि च पृष्ठानि षट् रथन्तरवृहद्वैरूप-
वैराजशाक्वररैवतसामभिः निष्पाद्यानि” ।

पृष्ठगीप पु० पृष्ठं गोपायति गुप--वा अयाभावे ण्वुल् ।

पृष्ठदेशरक्षके योधभेदे भा० आ० २०१ अ० ।

पृष्ठग्रन्थि त्रि० पृष्ठे ग्रन्थिर्यस्य । (कुजो) कुब्जे हेमच० ।

पृष्ठचक्षुस् पु० पृष्ठे पश्चाद्भागे चक्षुः दृष्टिः तद्व्यापारोऽस्य ।

पश्चाद्दृष्टियुक्ते भल्लूके शब्दार्थक० ।

पृष्ठज त्रि० पृष्ठे पश्चात् जायते जन--ड । पश्चाद् जात

भा० आ० ६३ अ० ।
पृष्ठ ४४१८

पृष्ठजाह त्रि० पृष्ठस्य मूलं कर्णा० मूले जाहच् । पृष्ठमूले ।

पृष्ठतल्पन न० तल्पमिवाचरति तल्प + क्विप्न मधातुः भावे

ल्युट् । पृष्ठस्य तल्पनं तल्पवदाचरणम् । (पिठे शोओया)
प्रवेष्टे त्रिका० ।

पृष्ठतस् अव्य० पृष्ठ + तसिल् । पश्चाद्भागे इत्यर्थे ।

पृष्ठदृष्टि पु० पृष्ठे दृष्टिस्तद्व्यापारोऽस्य । भल्लूक राजनि० ।

पृष्ठमर्म्मन् न० ७ त० । सुश्रुतोक्ते पृष्ठस्थमर्मभेदे स च तत्रोक्तो

यथा
“अत ऊर्द्धपृष्ठमर्माण्यनुव्याख्यास्यामः । तत्र पृष्ठवंश-
मुभयतः प्रतिश्रोणीकाण्डमस्थिनी कटीकतरुणे नाम
मर्मणी तत्र शीणितक्षयात् पाण्डुर्बिवर्णो
हीनरूपश्च म्रियते । पार्श्वजघनबहिर्भागे पृष्ठवंशमुभयतो
नातिनिम्ने कुकुन्दरे नाम मर्मणी तत्र स्पर्शाज्ञान-
मधःकाये चेष्टोपघातश्च । श्रोणीकाण्डयोरुपर्य्याशया-
च्छादनौ पार्श्वान्तरप्रातबद्धौ नितम्बौ नाम तत्राधः
कायशोषो दौर्बल्यात्तु मरणम् । अधःपार्श्वान्तरप्रतिवद्धौ
जघनपार्श्वमध्ययोस्तिर्य्यगूर्द्धञ्च जघनात् पार्श्वसन्धी
नाम तत्र लोहितपूर्णकोष्ठतया म्रियते । स्तनमूलादुभ्र-
यतः पृष्ठवंशस्य वृहती नाम तत्र शोणितातिप्रवृत्ति
निमित्तैरुपद्रवैर्म्रियते । पृष्ठोपरि पृष्ठघंशमुभयतस्त्रिक-
सम्बद्धे अंसफलके नाम तत्र बाह्वोः स्वापः शोषो वा ।
बाहुमूर्द्ध्वग्रीवामध्येऽंसपीठस्कन्धनिबन्धनावंसौ नाम तत्र
स्तब्धवाहुता । एवमेतानि चतुर्दश पृष्ठमर्माणि व्या-
ख्यातानि” ।

पृष्ठमांस न० पृष्ठस्य मांसम् । पश्वादीनां पृष्ठस्थे मांसे ।

तस्याभक्ष्यता मार्कपु० उक्ता यथा “पृष्ठमांसं वृथामांसं
गर्ह्यमांसं च पुत्रक! । न भक्षयीत सततं प्रत्यक्षलव-
णानि च” ।

पृष्ठमांसाद त्रि० पृष्ठे परोक्षे मांसाद इव । १ परोक्षे

शःठ्येन वाक्याभिधायिनि पुरुषे दाषोद्घोषके त्रिका० ।
“कुसृत्या विभवान्वेषीत्यतः कुसृव्येति समाकर्षात् बाक्या-
भिधानेऽन्वये तथार्थत्वम् । पृष्ठमांसादनशब्दे दृश्यम् ।
पत्वादेः २ पृष्ठमांसभक्षके त्रि० ।

पृष्ठमांसादन न० पृष्ठे पराक्षे मांसादनमिव । “पृष्ठमांसादनं

तत् यत् परोक्षे दोषकीर्त्तनम्” हेमच० उक्तेऽर्थे
२ पश्वादीनां पृष्ठमांमस्य भक्षणे च ।

पृष्ठयज्वन् पु० पृष्ठैः रथन्तरादिभिरिष्टवान् यज--वनिप् ।

रथन्तरादिभिः षडभिःस्तोत्रसमूहैरिष्टवति ऋ० ५ ५४१

पृष्ठयान न० पृष्ठेन यानं गमनम् । (पिठे याओया) पृष्ठेन

गमने । तच्च अर्शोरोगे निदानं सुश्रुते उक्तं अर्शश्शब्दे
दृश्यम् ।

पृष्ठवंश पु० ६ त० । (पिटेर दाँङा) पृष्ठास्थ्नि हेमच० ।

“चतुर्विंशतिः पृष्ठ वंशे” सुश्रुतोक्तेः तत्र चतुर्विंशति
रस्थीनि । पृष्ठमर्मन्शब्दे दृश्यम् ।

पृष्ठवास्तु न० ७ त० । बलिदातुः पृष्ठभागस्थे वाखुनि “पृष्ठ-

वास्तुनि कुर्वीत बलिं सर्वात्मभूतये” मनुः । मृहो
परिगृहं पृष्ठवास्तु” २ कुल्लूकभट्टोक्तेऽर्थे च ।

पृष्ठवाह् त्रि० पृष्ठं पश्चाद्भागं वहति वह--ण्वि । पश्चा-

द्भागवाहके हरिवं १६६ श्लो० । भत्वे वाहघठ् ।
पृष्ठौहः । स्त्रियां ङीप् । पृष्ठं युगपार्श्व वहति
वह--ण्वि । २ युगपार्श्वबाहकवृषे

पृष्ठवाह्य पु० पृष्ठेन वाह्यं वहनं यस्व । पृष्ठेन भारवाहकवृषे हेमच० ।

पृष्ठशय त्रि० पृष्ठे शेते पृष्ठरूपाधिकरीणोपपदे कर्त्तरि

अच् । पृष्ठे शायिनि उत्तानशये ।

पृष्ठशृङ्ग पुं स्त्री पृष्ठे शृङ्गमस्य । वनच्छागे हेमच० । स्वियां

जातित्वात् ङीष् ।

पृष्ठशृङ्गिन् पु० ७ त० । १ महिषे २ नपुंसके ३ भीमसेने च भेदि० ।

पृष्ठेमुख पु० पृष्ठे सुखमस्य अलुक्स० । कुमारानुचरभेदे

भा० श० ४६ अ० ।

पृष्ठोदय पु० पृष्ठेनोदयो यस्य । ज्योतिषोक्ते पृष्ठेनोदययुक्ते

राशिभेदे “अजो गोपतियुग्मञ्च कर्किधन्विमृगास्तथा ।
निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः । निशा
संज्ञा विमिथुनाः स्मृताः पृष्ठोदबास्तथा । शेषाः शीर्षो
दया ह्येते मीनश्चोभयसंज्ञकः” ।

पृष्ठ्य न० पृष्ठानां स्तीत्रभेदानां समूहः “पृष्ठेस्योपसंख्यानम्”

वार्त्ति० समूहे यत् । १ स्तोत्रसमूहे । पृष्ठे भवः यत् ।
२ पृष्ठभवे त्रि० । “सोमयागेषु छन्दोगैः क्रियमाणः पृष्ठ्याति
सज्ञिका स्तुतिः स्तोषः” मि० कौ० । पृष्ठेन वहति यत् ।
३ पृष्ठेन भारवाहके अश्वे (वेटोघोड़ा) अमरः ।

पृष्ठ्यस्तोम पु० पृष्ठ्यस्तोमः साधनतयाऽस्त्यस्य अच् ।

सामवेदप्रसिद्धेषु षट् सु क्रतुभेदेषु “पृष्ठ्यस्तोमास्त्रिवृत्पञ्चदश-
सप्तदशैकविंशत्रिनवत्रयस्त्रिंशाः” कात्या० औ० २२, ६ २६
“पृष्ठस्तोमसंज्ञकाः षट् क्रतवो भवन्ति त्रिवृदादयः” कर्कः ।

पृष्णि पु० पृश्नि + पृषो० । नानावर्णयुक्ते मततः २ पार्ष्णिभागे

स्त्री उणादि० ।

पॄ पालने पूर्त्तौ च क्य्रा० भ्वा० पर० सक० सेट् श्नाप्रत्यये परे

ह्रस्वः । पृणाति अपारीत् । पपार पपरतुः पप्रतुः ।
पृष्ठ ४४१९

पृ पूर्त्तौ च्र० उम० सक० सेट् । पारयति-ते अपीपरत् त ।

पेचक पु० स्त्री पद--वुनृ अतपच्च । (पेँचा) १ उलूके स्त्रियां

जातित्वात् ङीष् । २ गऊपुख्वमृलोपाले २ पुदाच्छादक-
मांसपिण्डमेदे पु० अमरः । ४ पय्य ङ्के ५ यूके पु० विश्वः ।
६ मेघे शब्दर० ।

पेचकिम् पु० पेचकः पुच्छमूलोपान्तोऽस्त्यस्य इनि । गजे शब्दरत्ना० स्त्रियां ङीप् ।

पेचिल पुंस्त्री० पच + बा० इलच् अतएच्च । गजे त्रिका० ।

स्त्रियां जातित्वात् ङीष् ।

पेचु न० पचि--उन् अत एत्त्वम् । पेचुल्यां त्रिका० ।

पेचुली स्त्री पच--उलच् अतएत् गौरा० ङीष् । शाकभेदे । त्रिका० ।

पेट पु० पिट--अच् । १ प्रहस्ते राजनि० । २ संहतिकारके त्रि०

पेटक पु० न० पिट--ण्वुल् । पुस्तकादीनां स्थापनार्थे वेत्रादि-

निर्सिते १ पदार्थे २ कदम्बके ३ समूहे च मेदि० । ४ वंशादि-
निर्मिते समुद्गकाकारे (पेटारा) पदार्थे पु० अमरः ।

पेटाक पु० पेटक + पृषो० । पेटके द्विरूपकोषः ।

पेटिका स्त्री पिट--ण्वुल् कापि अत इत्त्वम् । (टेपारि)

क्षुपभेदे रत्नमाला ।

पेटी स्त्री पिट--अच् स्वल्पार्थे ङीप् । क्षुद्रपेटके अमरः ।

पेडा स्त्री पेट + पृषो० । वृहत्पेटिकायां भरतः ।

पेढान पु० अवसर्पिण्यां जिनोत्तमभेदे हेमच० ।

पेण गतौ पेषे च सक० श्लेषे अक० भ्वा० पर० सेट् । पेणति

अपेणीत् । ऋदित् चङि न ह्रस्वः अपिपेणत् त ।

पेत्व न० पा--पाने कर्मण्णि इत्वन् । १ अमृते २ घृते च उज्ज्वल०

पेदु पु० राजभेदे ऋ० १ । ११९ । १० भा० ।

पेय त्रि० पा--पाने कर्मणि यत् । १ पातव्ये २ जले नेदि० । ३ दुग्धे

शब्दच० । ४ अष्टविधान्नान्तर्गते तरलयवाग्वादौ अन्नभेदे
“भोज्यं षेयंतथा चूष्यं लेह्यं खाद्यञ्च चर्वणम् । निष्पेय
ञ्चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम्” राजनि० । ५ सिक्थ
युक्तपेयद्रव्ये स्त्री । “पेया स्वेदाग्निजननी वातपर्चो-
ऽनुलोमनी । क्षुत्तृष्णाग्लानिदौर्वल्यकृक्षिरोगविनाशिनी”
राजव० । ६ श्राणायां मेदि० ।

पेयूष पु० न० पीय--सौ० ऊषन् बाहुलकात् पक्षे गुणः ।

१ अमृते २ नवघृते । “सप्तरात्रप्रसूतायाः क्षीरं पेयूष-
मुच्यते” हारा० उक्ते आसप्तरात्राभ्यन्तरकालीने
३ दुग्धे च ।

पेरज न० उपमणिभेदे राजनि० । पिरोजशब्दे दृश्यम् ।

पेरा स्त्री पि--बा० रे । वाद्यभेदे भट्टिः १७ । ७ ।

पेरु पु० पोयते रसान् पी--रु । १ आदित्ये २ वह्नौ च उज्ज्वल० ।

पुर--उ मृगय्वादेराकृतिगणत्वात् नि० । ३ समुद्रे त्रिका०

पेरुक पु० राजभेदे ऋ० ६ । ६३ । ९

पेरोज न० उपमणिभेदे (पीरोजा) राजनि० । तच्च द्विविधं

पीताभं हरिताभञ्च । तस्य गुणाः “पेरजं सुकषायं स्यान्-
मधुरं दीपनं परम् । स्थावरं जङ्गमञ्चैव संयोगाच्च
यथाविधम् । तत्सर्वं नाशयेत् शीघ्रं शूलं भूतादिदोषजम् ।
पाठान्तरं यथा “पेरजं सुकषायं स्यान्मधुरं दीपनं
द्वयोः । स्थावरादिविषव्नं स्याद्धरितञ्चापरं शृणु ।
पीताभं नाशयेच्छीघ्रं शूलं तिमिरभूतजम्” राजनि० ।

पेल कम्पे अक० गतौ सक० भ्वा० पर० सेट् । पेलति अपेलीत् ।

ऋदित् चङि न ह्रस्वः अपिपेलत् त । निघण्टौ
अयं गतिकर्मतया चुरादित्वेन पठितः । तेन पेलयति ते

पेल न० पेल--अच् । पुंश्चिह्ने अङ्गभेदे (अण्डकोष) हेमच० ।

पेलव त्रि० पेल--घञ् पेलं वाति वा--कं । १ कोमले त्रिका०

२ कृशे हेमच० । ३ विरले अमरः ।

पेलि पु० पेल--इन् । गन्तरि ६ त० । तत्परं शालायाः न

क्लीवत्वम् । आद्युदात्तता चास्य ।

पेव सेवने भ्वा० सक० आत्म० सेट् । पेवते अषेविष्ट । ऋदित्

चङि न ह्रस्वः । अपिपेवत् त । ओष्ठान्त्यतयाऽयं
धातुपाठे पठितस्तेनोभयरूपता ।

पेश पु० पिश--अच् । रूपे निघण्टुः पेशलशब्दे दृश्यम् ।

पेश(ष)(स)ल त्रि० पिश(ष)(स)--अलच् । १ सुन्दरे २ दक्षे

३ कोमले च अमरः । मूर्द्धन्यदन्त्यमध्योऽप्युक्तार्थेषु
भरतः । ४ धूर्त्ते शब्दर० । पेशोरूपमस्त्यस्य सिध्मा० लच् ।
५ विष्णौ पु० । “अक्रूरः पेशलो दक्षः” विष्णुस०

पेशस् न० पिश--असुन् । १ रूपे २ हिरण्ये च निधण्टुः ।

३ कोषे च ।

पेशस्कार त्रि० पेशोरूपान्तरं करोति स्वगृहीतकीटस्य कृ--अण्

उप० स० । खरूपकरे कीष्टभेदे स्त्रियां ङीप् । यजु० ३० । ९ ।

पेशस्कृत् त्रि० पेशो रूपान्तरं स्वगृहीतकीटस्य करोति

कृ--क्विप् । कीटभेदे (काँचपोका) “कीटः पेशस्कृतं
ध्यायन् कुड्यां तेन प्रवेशितः । याति तत्सात्मतां
राजन्! पूर्बरूपमसंत्यजन्” भाग० ११ । ९ । २४

पेशि(शी) स्त्री पिश--इन् वा ङीप् । १ वज्रे २ माषविदले च

उणादि० । दीर्घाग्वः ३ अण्डे अमरः । ४ सुपक्वकलिकायां
५ मांस्यां ६ खड्गपिधाने (खाप) ७ मांसपिण्ड्यां च मेदि० ।
५ नदीभेदे ६ पिशाचीगेदे ७ राक्षसीमेदे शब्दरत्ना० । ८ गभा-
पृष्ठ ४४२०
वेष्टनचर्ममये कोषे च “बिन्दुमांसादयोऽवस्थाः शुक्रशो-
णितसम्भावाः । यासामेव निपातेन कललं नाम जायते ।
कललात् बुद्बुदोत्पत्तिः र्पशी च बुद्बुदात् स्मृता । षेश्या-
स्त्वक्प्रतिनिर्वृत्तिः” भा० शा० ३३२ अ० । ९ वाद्यभेदे “तथा
भेर्य्यश्च पेश्यश्च क्रकचा गोविषाणिकाः” भा० भी० ४३ अ० ।

पेशीकोष पु० ६ त० । अण्डकोषे हेमच० ।

पेष सेवने निश्चये च भ्वा० आ० सक० सेट् । पेषते अषेषिष्ट

पिषेषे ऋदित् चङि न ह्रस्वः । अपिपेषत् त ।

पेषण न० पिप--भावे ल्युट् । १ अवयवविभागेन चूर्णने ।

आधारे ल्युट् । २ खले औषधादेर्मदनपात्रभेदे (तेकाटा-
सिज) ३ वृक्षभेदे पु० शब्दच० ।

पेषणि(णी) स्त्री पिष--करणे अनि । (शिल)ख्याते

हरिद्रादेश्चूर्णनसाधने शिलामये द्रव्यभेदे वा ङीप् ।

पेषाक पु० पिष--आकन् । पेषण्याम् उणा० ।

पेषि पु० पिष--इन् । वज्रे उज्ज्वलदत्तः ।

पेस गतौ भ्वा० पर० सक० सेट् । पेसति अषेसीत् पिषेसे ।

ऋदित् चङि न ह्रस्वः । अपिपेशत् त ।

पेसुक त्रि० पिस--बा० उक । अभिवर्द्धनशीले शत० ब्रा० १ । ७ । ३१८ । भा०

पेस्वर त्रि० पिस--शीलार्थे वरच् । गतिशीले ।

पै शोषे भ्वा० पर० सक० अनिट् । पायति अपासीत् पपौ ।

पैङ्ग पु० ऋषिभेदे भा० स० ४ अ० ।

पैङ्गराज पु० पक्षिभेदे यजु० २४ । ३४ मा० ।

पैङ्गल पु० ब० व० । पिङ्गलस्यापत्यं गर्गा० यञ् । पैङ्गल्य

तस्य छात्राः कण्वा० अण् यलोपः । पिङ्गललापत्यस्य
छात्रेषु ।

पैङ्गरा(ला)यन पुं स्त्री० पिङ्गर (ल) स्यर्षे गोत्रापत्यम् नडा० फक् । तन्नामकर्षेरपत्ये ।

पैङ्गलोदायनि पुं स्त्र० पैङ्गलोदायनस्यापत्यम् इञ् । प्राच्य-

भवे तन्नामकर्षिगोत्रापत्ये ततः यूनि फक् तस्य पैला०
लुक् । तदीये यून्यपत्ये ।

पैङ्गल्य पुंस्त्री० पिङ्गलस्य गोत्रापत्यं गर्गा० यञ् । पिङ्गलर्षेर्गोत्रापत्ये ।

पैङ्गि पुंस्त्री० पिङ्गस्यापत्यमिञ् । पिङ्गस्यर्षेः पुत्रे स्त्रियां

ङीप् । “पैङ्गीपुत्रात् पैङ्गीपुत्रः” शत० ब्रा० १४ । ९ । ४ । ३० ।

पैङ्गिन् पु० पिङ्गेनर्षिणा प्रोक्तः कल्पः इनि । पिङ्गर्षिप्रोक्ते

कल्पशास्त्रे ।

पैङ्ग्य पु० पिङ्ग बा० अपत्ये यञ् । पैङ्गर्षिपुत्रे स च गोत्रप्रवरर्षिभेदः ।

पैयवन पु० पीयवनस्यापत्यमण् । षैयवने नृपे सनुः ८ । ११०

प्रैयवन इति पाठान्तरम् ।

पैञ्जूष पु० पिञ्च--ऊष स्वार्थे अण् । कर्णे श्रीत्रे हेमच० ।

पैठर त्रि० पिठरे संस्कतं पक्वम् । स्थालीपक्वमां सादौ अमर ।

पैठिक पु० असुरभेदे हरिवं० १६१ अ० ।

पैठिनसि पु० १ उपस्मृतिकारके २ ऋषिभेदे ३ गोत्रर्षिमेदे च प्रवरा० ।

पैण्डायन पुंस्त्री पिण्डर्षेर्गोत्रापत्यम् नड़ा० फक् । पिण्डर्षि-

गोत्रापत्ये ।

पैण्डिक्य(न्य) पिण्डं परपिण्डं भक्ष्यतयाऽस्त्यस्य ष्ठन् इनि

बा पिण्डिक पिण्डिन् वा तस्य भावः पुरोहिता० यक्
ष्यञ् वा । परपिण्डोपजीवित्वे भिक्षोपजीवने त्रिका० ।

पैण्ड्य त्रि० पिण्ड्यां भवः कुर्वा० ण्य । पिण्डीभवे ।

पैतरावण पु० गोत्रप्रवरर्षिभेदे प्रवरा० ।

पैतृक त्रि० पितृत आगतं पितुरिटं वा ठञ् । १ पितृत ।

प्राप्ते २ षितृसम्बन्धिनि च । पैतृकभूमिमाहात्म्यं ब्रह्मवै ।
जन्मख० १०३ अ० दर्शितं मथा
“वासुदेव! न यास्यामि भूमिं तां, पैतृकी पुनः । सर्व-
त्रीर्थपरा शुद्धा दैवे कर्मणि षैतृके । पारक्ये भूमिदेशे
च पितॄणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः
श्राद्धकर्म निहन्थते । पितॄणां निष्फलं श्राद्धं देवानामपि
पूजनम् । किञ्चित्फलप्रदञ्चैव सम्पूर्णं पैतृके स्थले ।
पुत्रपौत्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा । दुर्लभा
पैतृकी भूमिः तितुर्मातुर्गरीयसी । तच्छस्यञ्च पवित्रञ्च
दैवे कर्मणि पैतृके । क्रीतञ्च तदृते दानं परदत्तमशुद्ध-
कम् । म्रियते पैतृकभूम्यां तीर्थतुल्यफलं लभेत् । गङ्गा-
जलसमं पूतं पितृखातोदकं हरे! । पितॄणां तर्पणं
तत्र पवित्रं देवपूजनम् । पैतृकी जन्मभूमिश्चेत् फलं
तद्द्विगुणं लभेत् । पैवृकभूमितुल्या न दानभूमि ।
सतामपि” ।

पैतृमत्य त्रि० पितृमत्यां अनूढ़ायां कन्यायां भवः कुर्वा०

ण्य । कन्यायां भवे कानीने ।

पैतृष्वसेय पुं स्त्री पितुः स्वसुरपत्यम् टक् अन्त्यलोपः षत्वम् । पितृस्वसुरपत्ये ।

पैतृस्वस्रीय पुंस्त्री० पितुः स्वसुरपत्यम् छण् । पितुस्वसरपत्ये

पैत्त त्रि० षित्तात् आगतः अण् । धातुविशेषपित्तकृते ज्वरादौ

पैत्तिक त्रि० पित्तेन निर्वृत्तः ठञ् । धातुविशेषपित्तकृते

व्याधौ ।

पैत्र त्रि० वितुरिदम् अण् । १ पितृसम्बन्धिनि श्राद्धादौ । अङ्गु-

ष्ठतर्जन्योर्मध्यस्थाने २ पितृतीर्थे न० । ३ पितृसम्बन्धिदिने
च तन्मानं च अहन्शब्दे ५७६ पृ० उक्तं दृश्यम् ।

पैद्व पुंस्त्री स्मश्वे निघण्ठु । ऋ० ९ । ८८ । ४ । स्वियां खाति-

त्वात् ङीष् ।
पृष्ठ ४४२१

पैनद्धक त्रि० पिनद्ध + चतुरर्थ्यां वराहा० कक् । पिनद्धसमीपादौ ।

पैप्पलाद पु० ब० व० । पिप्पलादेन ऋषिणा प्रोक्तमधीयते अण् ।

१ पिष्पलर्धिप्रोक्ताध्यायिषु तदर्शस्य २ वेत्तृषु च कार्त्तकौज०
सौभेन सह द्वन्द्वे पूर्बं प्रकृतिस्वरः ।

पैप्पलादि पुंस्त्री पिप्पलादस्यर्षेरपत्यम् इञ् । पिप्पलादर्षे-

रपत्ये स च गोत्रप्रवरर्षिभेदः प्रवराध्यायः स्त्रियां ङीष् ।

पैल(लेय) पुंस्त्री० पीलाया अपत्यं “पीलाया वा” पा० अण्

पक्षे ढक् । पीलाया अपत्ये स्त्रियां ङीष् । यून्यपत्ये
तु “अनोद्व्यचः” पा० फिञ् तस्य पैलादि० लुक् । तस्य
यन्यपत्येऽपि । तथा च पैलः पिता पुत्रश्च ।

पैलगर्ग पु० कर्म० । ऋषिभेदे तदाश्रमस्य च तीर्थत्वम् भा०

उ० १८७ अ० ।

पैलव त्रि० पीलौ दीयते कार्य्यं वा व्युष्टा० अण् । पीलौ

१ दीयमाने २ कार्य्ये च । व्युष्टा० गणे पीलुमूलेति
व्यस्तमित्येके समस्तसित्यन्य । इदमर्थेअण् । पीलुसम्ब-
न्धिनि त्रि० मनुः २ । ४० ।

पैलवहक त्रि० पीलुवहे भवः वहान्तत्वात् वुण् । पीलुवहजलादिभवे ।

पैलादि “पैलाद्रिभ्यश्च” पा० युवप्रत्ययलुग्निमित्ते शब्दगणे

स च गणः “पैल शालङ्कि सात्यकि सात्यङ्कामि राहवि
रावणि औदञ्ची औदव्रजी औदमेढि औदमज्जि
औदभृज्जि दैवस्थानि पैङ्गलोदायनि राहक्षति भौलिङ्गि
राणि औदन्यि औद्गाहमानि औज्जिहानि औदशुद्धि
(तद्राजा चाणः) (आकृतिगणोऽयम्) । तद्राजसंज्ञकात्
परस्य युवप्रत्ययस्य लुगित्यर्थः ।

पैशाच पु० पिशाचेन निर्वृत्तः अण् । “सुप्तां मत्तां प्रमत्तां वा

रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचः”
मनूक्ते १ विवाहभेदे २ पिशाचकृते ३ तत्सम्बन्धिनि च त्रि० ।
स्त्रियां ङीप् “पैशाचीं योनिमापन्नाः” पुरा० । “यच्चाक्रुश्य
ददाति दत्त्वा वा क्रोशति असत्कृतं पैशाचमिति”
हारीतोक्ते ४ दानभेदे स्वार्थे अण् । ५ षिशाचशब्दार्थे पु०
पर्श्वा० अण् । ६ आयुधजीविसङ्घभेदे । बहुषु तस्य लुक् ।

पैशुन (न्य) न० पिशुनस्य भावः युवा० अण् ब्राह्मणा

ष्यञ् वा । पिशुनत्वे

पैष्ट त्रि० पिष्टस्येदम् । अण् १ पिष्टसम्वन्धिनि स्त्रियां ङीप् सा च

२ सुराभेदे । “पैष्टी कट्वम्लतीक्ष्णा स्यादीषद्गौड़ीसमा परा ।
वातहृत् कफकृत्त्वीषत्पित्तकृन्मोहनी च सा” राजनि० ।

पैसुकायन पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः ।

पो त्रि० पवते पुनाति वा पु--पू--वा विच् १ शुद्धे २ शोधके च ।

पोगण्ड पु० पौः शुद्धो गण्ड एकदेशो यस्य । १ विकलाङ्गे

२ न्यूनाधिकाङ्गे । स्वार्थे अण् । “पौगण्डः पञ्चमादवदा-
दर्वाक् च दशमाब्दतः” इत्युक्तवयस्के बालके पु० हला० ।

पोट पु० पुट--श्लेषे घञ् । १ संश्लेषे--आधारे घञ् । २ वेश्म-

भूमौ जटा० ।

पोटमंल पु० पोटेन संश्लेषमात्रेण गलति गल--अच् । १ नले

२ काशे च अमरः । ३ मत्स्यभेदे पुंस्त्री मेदि० स्त्रियां
ङीष् ।

पोटलक न० पोटेन लीयते ली--ड स्वार्थे क । (पुँटलि)

ख्याते संश्लिष्टवस्त्रादौ कात्या० श्रौ० ७ । ९ । ४ । कर्कः ।
तत्रार्थे स्त्री कापि अत इत्त्वम् पोटलिका ।

पोटा स्त्री चु० पुट--अच् । पुरुषलक्षणयुक्तायां स्त्रियाम् । अमरः ।

पोट्टलिका स्त्री पोटलिका + पृषो० (पुँटलि) ख्याते पदार्थे

पोट्टलीत्यपि तत्रार्थे “शुद्ध्यर्थं त्रिफलाक्वाथे गुडूव्याः
क्वाथ एव वा । दोलायन्त्रे पुरः पाच्यः पोट्टल्या वस्त्र-
वद्धया” वैद्यक० ।

पोट्टिल पु० अवसर्पिण्यां जिनीत्तमभेदे हेमच० ।

पोडु पु० पुड--उन् । कपालास्थितले राजनि० ।

पोत पुंस्त्री पू--तन् । १ बालके २ वहित्रे च अमरः । ३

गृहस्थानभेदे (प्ॐता) ४ वस्त्रे च मेदि० । ५ दशवर्षीयगजे
हेमच० । ६ समुद्रयाने नौकाभेदे (जाहाज) ततः
समूहे पाशा० य । पोत्या पोतसमूहे स्त्री ।

पोतक पु० पोत इव कायति कै--क स्वार्थे क वा । १ पोतपदार्थे

२ नागभेदे भा० उ० १०२ अ० । गौरा० ङीष् । ३ पूतिकाशाके
स्त्री ४ श्योनाके च स्त्री राजनि० ।

पोतज पु० पोतः सन् जायते जन--ड । शिशुभूततया

जायमाने गजाश्वादौ हेमच० ।

पोतन त्रि० पू--तन । १ पवित्रे २ पवित्रताकारके च स्त्रियां गौरा० ङीष् ।

पोतप्लव पु० पोतेव प्लवते प्लु--अच् । नौकया तारके

वृ० सं० १० । १० ।

पोतबणिज् पु० पोते बणिक् । नौकया बाणिज्यकारके अमरः ।

पोतरक्ष पु० पोतं रक्षति अण् उप० स० । (हालि) ख्याते

पदार्थे केनिपातके शब्दमा० ।

पोतनकप्रिय त्रि० बुद्धगेदे त्रिका० ।

पोतवाह पु० पोतं नावं वहति वह--अण् उप० स० । नौका-

वाहके (दाँडि) अमरः ।

पोताच्छादन न० पोतस्येवाच्छादनम् । वस्त्रकुटीरे हारा० ।

पृष्ठ ४४२२

पोताधान पु० पोतानां शिशूनामण्डजातमत्स्यानामाधानम् ।

क्षुद्रमत्स्यसङ्घे (पोनारझाँक) अमरः ।

पोतास पु० पोत इवासति अस--दीप्तौ अच् । कर्पूरभेदे राजनि० ।

पो(पौ)तिमत्स्यक पु० नृपभेदे भा० उ० ३ अ० ।

पोतिका स्त्री पूतिका + पृषो० । पूतिकायां १ शाकभेदे भरतः

२ शतपुष्पायां ३ सूलपीत्यां च राजनि० ।

पोतु पु० पु--तुन् । मानभाण्डशोधके हेमच० ।

पोतृ पु० पुनाति पु--तृन् । ऋत्विग्मेदे अच्छावाकशब्दे

८५ पृ० दृश्यम् । होत्रादिशब्देन द्वन्द्वे ऋत आत् ।
पोताहोतारौ ।

पोत्र न० पू--त्र । १ वज्रे २ शूकरमुखाग्र ३ लाङ्गलसुखाग्रे,

४ वहित्रे च मेदि० ।

पोत्रायुध पुं स्त्री पोत्रमायुधमिवास्य । शूकरे राजनि० । स्त्रियां जातित्वात् ङीष् ।

पोत्रिन् पु० पोत्रमस्त्यस्य इनि । शूकरे अमरः । पोत्रयुक्ते

त्रि० । स्त्रियां ङीप् ।

पोत्रिरथा स्त्री पोत्री रथ इव गतिसाधनमस्याः । जिनशक्तिभेदे त्रिका० ।

पोत्रीय त्रि० पोतुः कर्म छ । पोतृकर्त्तव्ये कर्मणि ।

कात्या० श्रौ० २४ । ४ । ४२ ।

पोथकी स्त्री “कण्डूस्रावान्विता गुर्व्यो रक्तसषणसन्निभाः ।

पिड़काश्च रुजावत्यः पोथक्य इति संज्ञिताः” सुश्रुतोक्ते
पिड़काभेदे ।

पोल त्रि० पुल--ज्वला० ण । १ महत्त्वयुक्ते । २ पिष्टकमेदे स्त्री गौरा० ङीन ।

पोलिका स्त्री पूरिकाभेदे कृतान्नशब्दे २१८१ पृ० दृश्यम् ।

पोलिन्द पु० पोतस्यालिन्द इव पृषो० । नौकांशभेदे त्रिका० ।

पोषयित्रु त्रि० पुष--णिच्--इत्नु । १ पोषके २ काकपोष्ये

पिके च उज्ज्वल० ।

पोषुक त्रि० पुष--बा० उक । पोषणकरणशीले “तमनुपोषं

षोषुको भवति” षड्विंशब्रा० ।

पोष्टृ पु० पुष--तृच् । (काँटा करमजा) १ करञ्जभेदे । २ पोषके त्रि० शब्दच० ।

पोष्य त्रि० पुष--कर्मणि ण्यत् । १ पोषणीये । आवश्यके ण्यत् ।

२ अबश्यपोष्ये । अवश्यपोष्यश्च दर्शितो यथां
“भरणं पोव्यवर्गस्य दृष्टादृष्टफपोदयम् । प्रत्यवायोऽप्य-
भरणे कर्त्तव्यन्तत् प्रयत्नतः । माता पिता गुरुः पत्नी
त्वपत्यानि समाश्रिताः । अभ्यागतोऽतिथिश्चाग्निः पोष्य-
पर्गा अमी नव” काशी० ख० ४५ अ० । “ज्ञातिर्बन्धु-
जनः क्षीणस्तथाऽनाथः समाश्रितः । अन्येऽप्यधनयुक्ताश्च
पीष्यवर्ग उदाहृतः” दक्षसं० ।

पोष्यपुत्र पु० कर्म० । पालनादिना पुत्रत्वगाप्ते “अधुना

कृत्तिकादीनां षण्णां यः पोष्यपुत्रकः । तन्नाम चक्रु स्ता
प्रेम्णा कार्त्तिकश्चेति कौतुकात्” ब्रह्म० वै० गण० ख० १४ अ० ।
अधुना दत्तकपुत्रस्य पोष्यपुत्रत्वं व्यवह्रियते तद्विधानं ।
दत्तकशब्दे ३४३८ पृ० दृश्यम् ।

पौंश्चलेय पुं स्त्री पुंश्चली + अपत्ये ढक् । पुंश्चल्या अपत्ये

पौंश्चल्य न० पुं श्चल + भावे ष्यञ् । १ असतीत्वे परपुरुष-

गामित्वे २ पुंस्त्रियोर्मिथोव्यभिचारे च मनुः ९ । १५ ।

पौंसायन पु० सौत्रामण्यां याजके दुष्टरीतौ राजभेदे

शत० व्रा० १२ । ९ । ३ । २

पौंस्न न० पुंसो भावः स्नञ् । पुंस्त्वे ।

पौंस्य न० पुंस व्यमिमर्दने ण्यत् तत्र साधु बा० ण्य । १ वले

निरु० । ३ संग्रामे च निघण्टुः ऋ० १ । १८० । १० ।

पौगण्ड न० पौगण्डस्य भावः । १ पञ्चमात्रधिदशमवर्षान्ता-

वस्थाभेदे पोमण्डशब्दे दृश्यम । स्वार्थे अण् । २
बदवस्थायुते त्रि० ।

पौञ्जिष्ठ पुंस्त्री अन्त्यजातिमेदे यजु० ३०१ । ८ । वेददी० ।

पौटायन पुंस्त्री पुटायानर्षेरपत्यम् अण् । पूटायनर्षेः

गोत्रापत्ये ।

पौणिक्या स्त्री पुणगोत्रस्य स्त्री अण् स्त्रियां ष्यङ् । पुणगोत्रस्त्रियास ।

पौण्डरीक न० पुण्डरीकमिव शर्करा० अण् । पुण्डरीक-

तस्थे प्रपौण्डरीके राजनि० ।

पौण्डर्य्य न० पुण्ड़र्य्यमेव अण् । पुण्डर्य्ये भरतः ।

पौण्ड्र पु० २ वेशमेदे स च वृ० स० १४० पूर्वस्यासुक्तः मा० भी० ९ अ०

सोऽस्य अमिखनः तस्य राजा वा अण् । २ तद्देशनृप्रे २
पित्रादिक्रमेण तद्देशवासिनि च । “पौण्ड्रश्च वलिनां वरः”
हरि०वं० ९१ अ० । स च कृष्णेन निहतः “पाण्ड्यं पौण्ड्रं
कलिङ्गश्च मात्स्यञ्चैव जनार्दनः । जथान सहितान्
सर्वान्” हरिवं० १६१ अ० । “वसुदेवस्य सुतनूपत्नीजाते
४ पुत्रभेदे । “सुतनूश्च नराची च शौरेरास्तां परिग्रहः ।
पौण्ड्रश्च कपिलश्चैव वसुदेवस्य तौ सुतौ । नराच्वां क०
पिलो जज्ञे पौण्ड्रश्च सुतनूसुतः । तयोर्नृपोऽभवत्
पौण्ड्रः कपिलश्च वनं ययौ” हरिवं० १६२ अ० । ५ भ्रीम-
सेनशङ्खे ६ इक्षुभेदे पु० शब्दमा० । ७ क्रियालोपेन वृष०
लत्वप्राप्ते क्षत्रियभेदे मनुः १० । ४४ स्वार्थे क । तत्रार्थे
इजुभेदे (पुड़ि) ।

पौण्ड्रनागर पु० पौण्ड्रनगरे भवः अण् तस्य प्राच्यदशत्वे-

ऽपि नगसन्तत्वेन उत्तरपदवृद्धिः । षौण्ड्रनगरभवे ।

पौण्ड्रमात्स्यक पु० राजभेदे भा० आ० ३७ अ० ।

पृष्ठ ४४२३

पौण्ड्रवर्द्धन पु० (वेहार) ख्याते देशभेदे शब्दर० तत्र पौण्ड्रेक्षु

प्राचुर्य्यात् तथात्वम् ।

पौण्ड्रिक पु० पुण्ड्र + स्वार्थे ठञ् ।

१ इक्षुभेदे शब्दमा० । २ गोत्रप्रवरर्षिभेदे प्रवराध्यायः ।

पौण्य त्रि० पुण्येषु श्रौतस्मातकर्मसु साधु अण् । पूर्णकर्म-

कारके कात्या० २३ । २ । ५ ।

पौतव न० यौतव--पृषो० । परिमाणे हेमच० ।

पौतिक त्रि० पूतिकेन दुर्गन्धिना निर्वृत्तम् सङ्कला० अण् ।

पूतिकद्रव्यनिर्वृत्ते ।

पौतिमाष पु० ब० व० । पूतिमाषस्यर्षेः गोत्रापत्यं गर्गा० घञ् ।

तस्य छात्राः कण्वा० अण् यलोपः । पौतिमाष्यच्छात्रेषु ।

पौतृक न० पोतृरिदं ठञ् । ऋत्विग्भेदपोतृसम्वन्धिनि ।

पौत्तिक न० पुत्तिकाभिर्मधुमक्षिकाभेदैर्निर्वृत्तम् ठञ् ।

मधुनि रत्नमा० ।

पौत्त्र पुंस्त्री पुत्रस्यापत्यं शिवा० अण् । पुत्रस्य पुत्रे नप्तरि

“पौत्रेणानन्त्यमश्नुते” इति स्मृतिः । स्त्रियां ङीप् ।

पौदन्य पु० अश्मकनृपनगरे भा० आ० १७७ अ० ।

पौनःपुनिक त्रि० पुनः पुनर्भवः ठञ् टिलोपः । पुनःपुनर्भवे ।

पौनःपुन्य न० पुनः पुनरेव स्वार्थे चतुर्वर्णा ष्यञ् टिलोपश्च ।

१ पुनःपुनरित्यर्थे भावे ष्यञ् । २ आभीक्ष्ण्ये

पौनरुक्त न० पुनरुक्तस्य भाव ऋगयना० अण् । पुनर्वारोक्तौ

पौनरुक्तिक न० पुनरुक्तमर्थं वेत्ति तत्पदं वाऽधीते उक्था०

ठक् । १ पुनरुक्तार्थाभिज्ञे २ पुनरुक्तपदाध्येतरि च ।

पौनर्भव पुंस्त्री पुनर्भू + विदा० अपत्ये अञ् । पुनर्म्ब पत्ये

१ द्वादशपुत्रमध्ये पुत्रभेदे “पत्या या च परित्यक्ता विधवा-
वा स्वयेच्छया । उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते”
मनुः । २ तथाविधकन्यायां स्त्री स्वार्थे अण् । तत्रार्थे
“सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः । वाचा-
दत्ता मनोदत्ता कृतकौतुकमङ्गला । उदकस्पर्गिता या
च या च पाणिगृहीतिका । अग्निं परिगता या च
पुनर्भूप्रभवा च । इत्येताः काश्यपेनोक्ता दहन्ति कुल०
मग्निवत्” काश्यपोक्ते सप्तविधे ३ कन्याभेदे च । आर्ष-
त्वात् ङीबभावः । अजादेराकृतिगणत्वात् वा टाप्
इत्येके । पुनर्भुवं विन्दति अण । ४ गुनर्भूवेदके
भर्त्तरि । “सा चेदक्षतयोनिः स्यात् गतप्रत्यागताऽपि
वा” । पौनर्भवेन भर्त्रा सा पुनःसंस्कारगर्हति” मनुः ।

पौर त्रि० पुरे वसति शैषिकोऽण् । १ पुरवासिनि २ रोहिषतृणे

न० (रामकर्पूर) अगरः । पूरः पूरक एव स्वार्थे अण् ।
३ उदरपूरके त्रि० ऋ० २ । ११ । ११ भा० । पुरोभवः पुरस् + अण्
टिलोपः । ३ पूर्वदिग्देशकालभवे “पौरा बुधगुरुर०
विजा नित्यम्” वृ० सं० १७ अ० ।

पौरक न० पौर इव कायति कै--क । गृहबाह्योद्याने हेम० ।

पौरकुत्सी स्त्री पुरकुत्स्यापत्यं स्त्री इञ् ङीप् । गाधि-

राजमातरि हरिवं० २७ अ० ।

पौरगीय त्रि० पुरग + कृशाश्वा० चतुरर्थ्यां छण् । पुरगतसमीपादौ ।

पौरण पु० “पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरणेति

आश्व० श्रौ० १२ । १४ । ५ उक्ते गोत्रप्रवरर्षिभेदे । पूरण +
स्वार्थे अण् । ३ पूरणे स्त्रियां ङीप् । “पौरणीं
भूषणक्रियाम्” हरिवं० ९८ अ० ।

पौरन्दर त्रि० पुरन्दरस्येदम् पुरन्दरोदेवताऽस्य वा अण् ।

१ शक्रसम्बन्धिनि २ ज्येष्ठानक्षत्रे च वृ० सं १५ अ० ।

पौरव पुंस्त्री० पु (पू) रोर्गोत्रापत्यमण् । १ ययातिपुत्रभेदस्य

पु(पू) रोरपत्ये २ तत्सम्बन्धिनि च । ३ उतीच्यदेशभेदे वृ०
सं० १४ अ० । मार्क० पु० ५८ अ० तस्य पूर्वोत्तरदिक्स्थत्वमुक्तं
यथा “त्रिनेत्राः पौरवाश्चैव गन्धर्वाश्च द्विजोत्तम! ।
पूर्वोत्तरन्तु कूर्मस्य पादमेते व्यवस्थिताः” सोऽभिजनोऽस्य
तस्य राजा वा अण् । पित्रादिकमेण ४ तद्देशवासिनि
५ तन्नृपेच ।

पौरवीय त्रि० पौरवो राजा भक्तिरस्य छ । पौरवनृपभक्तियुक्ते सि० कौ० ।

पौरश्चरणिक त्रि० पुरश्चरणस्य, व्याख्यानस्तत्र भवो वा ठञ् ।

१ पुरश्चरणप्रतिपादकग्रन्थव्याख्यानग्रन्थे २ तत्र भवे च ।

पौरस्त्य त्रि० पुरस् + भवार्थे त्यक् । १ पुरीभवे २ प्रथमे च अमरः

पौरागीव त्रि० पुराग + कृशाश्वा० चतुरर्थ्यां छण् । पूर्वकाल-

गतस्यादूरदेशादौ ।

पौराण त्रि० पुराणे पठितः अण् । पुराणपठिते भा० आ० १ अ० ।

पौराणिक त्रि० पुराणं वेत्त्यधीते वा “आख्यानाख्यायि-

केतिहासपुराणेभ्यश्च” वार्त्ति० ठक् । १ पुराणार्थाभिज्ञे
२ तदध्येतरि च । पुराणे पठिता ठक् । ३ तत्र पठिते त्रि०
स्त्रियां ङीप् ।

पौरिक पु० दाक्षिणात्ये देशभेदे मार्कपु० ५७ अ० ।

पौरुकुत्स पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः ।

पौरुष न० पुरुषस्य भावः कर्म वा युवा० अण् । १ पुरुषत्वे

२ विक्रमे ३ उद्यमे च । पुरुषस्येदम् अण् । ४ ऊर्द्ध्वविस्तृ-
तवाहुपाणिकमनुष्यपरिमाणे अमरः । “जवेऽपि माने-
ऽपि च पौरुषाधिकम्” नैष० । स्वार्थे अण् । ४ पुरु-
षशब्दार्थे शत० ब्रा० १४ । ७ । १ । १२ ।

पौरुषांशकिन् पु० ब० व० । पुरुषांशकेन ऋषिणा प्रोक्त-

मधीयते शौनका० णिनि । पुरुषांशकर्षिणा प्रोक्ता-
ध्येतृषु ।
पृष्ठ ४४२४

पौरुषेय पु० पुरुषस्य बधादि “पुरुषाद्बधविकारसमूहतेन

कृतेषु” पा० ठञ् । पुरुषस्य १ बधे २ विकारे ३ समूहे
४ तेन कृते च ।

पौरेय त्रि० पुरस्यादूरदेशादि सख्या० ढञ् । नगरसमीपादौ

पौरोगव पु० पुरोऽग्रे पाच्यवस्तुषु गौर्नेत्रं यस्य पुरोगुः

ततः स्वार्थे प्रज्ञा० अण् । पाकशालाध्यक्षे अमरः ।

पौरोहित त्रि० पुरोहितस्य धर्म्यम् महिष्या० अण् ।

पुरोहितस्य धर्म्ये ।

पौर्णदर्व न० पूर्णया दर्व्या निष्पाद्यं कर्म अण् । वैदिके कर्मभेदे आश्व० श्रौ० २ । १८ । ९ ।

पौर्णमास पु० पौर्णमास्यां भवः सन्धिवेला० अण् । १ पौर्ण-

मासीविहिते यागे “दर्शपौर्णमासाभ्यां यजेत” श्रुतिः
स च द्विविधः यावज्जीवकालिकः पञ्चदशीप्रतिपत्स-
न्धिकाल कर्त्तव्यश्च । तत्कालादिविधानं कात्या० श्रौ०
२ । १ कण्डिकादौ दृश्यम् । पूर्णोमाश्चन्द्रमास्तस्येयम्
अण् पूर्णो मासो यस्यां वर्त्तते “पूर्णमासादण् वक्तव्यः”
वा० अण् वा । २ शुक्लपक्षीयपञ्चदशकलाक्रियायां
तदुपलक्षितकालरूपायां वा ३ तिथौ स्त्री ३ तदुत्तरप्रति-
पदि च “द्वे ह वै पौर्णमास्यौ पूर्वा उत्तरा च तत्र
पञ्चदशी पूर्वा प्रतिपदुत्तरा” इति श्रुतेः तत्र पञ्चदशी
मुख्या प्रतिपद्गौणी इत्यर्थः ।

पौर्णमासिक त्रि० पूर्णमास्यां भवः कालाट् ठञ् । पौर्ण-

मासभवे यागादौ वा० यत् । पौर्णमास्य तत्रार्थे ।

पौर्णमी स्त्री पूर्णतया चन्द्रो--मीयतेऽत्र मा--आधारे घञर्थे

क स्वार्थे अण् ङीप् । पूर्णिमातिथौ त्रिका० ।

पौर्त्तिक त्रि० पूर्त्ताय साधु ठक् । पूर्त्तसाधने कर्मणि मनु० ३ । १७८

पौर्य्य पुं स्त्री० पुरस्यापत्यं कुर्वा० ण्य । पुरनामकस्य नृपस्यापत्ये

पौर्वनगरेय त्रि० पूर्बनगर्य्यां भवः नद्या० ढक् । पूर्वनगरीभवे

पौर्वपदिक त्रि० पूर्वपदं गृह्णाति ठञ् । पूर्वपदग्राहके ।

पौर्वातिथ पु० गोत्रप्रवरर्षिभेदे आश्व० श्रौ० १२ । १४ । १ ।

पौर्वापर्य्य न० पूर्वापरयोर्भावः ष्यञ् । पूर्वापरत्वे ।

पौर्वार्द्ध(र्द्धिक)र्द्ध्य त्रि० पूर्वार्द्धे भवः यत् अञ् ठञ् वा

पूर्वार्द्धभवे ।

पौर्वाह्णिक त्रि० पूर्वाह्णे भवः ठञ् । पूर्वाह्णभवे पक्षे ट्यु तुट् च ।

पूर्वाह्णेतन तत्रार्थे त्रि० ।

पौर्विक त्रि० पूर्वस्मिन् काले भवः ठञ् । पूर्वकालभवे स्त्रियां

ङीप् । “जातिं स्मरति पौर्विकीम्” मनुः ४ । १४८ ।

पौलस्त्य पुंस्त्री० पुलस्तस्यापत्यं गर्गा० यञ् । पुलस्तस्यापत्ये

१ कुवेरे २ रावणादौ च मेदि० । स्त्रियां ङीप् यलोपः ।
पौलस्ती शूर्पनखायाम् ।

पौलाक त्रि० पुलाकस्य विकारः पलाशा० अञ् । पुलाकविकारे ।

पौलि पु० पुल--इन् बा० वृद्धिश्च । १ ईषद्दग्धे आरब्धपक्वावस्थे

कलायादौ अमरः । स्वार्थे क । तत्रार्थे हेमच० ।

पौलुषि पु० पुलुषवंश्ये सत्ययज्ञे ऋषिभेदे शत० ब्रा० १० । ६ । १ । १

पौलोमी स्त्री पुलोम्नोऽपत्यम् अण् अनोलोपः । पुलोमजायां

शच्यां हेमच० ।

पौष पु० पुष्येण युक्ता पौर्णमासी पुष्य--अण् यलोपः

ङीप् पौषी सा यत्र मासे अर्द्धमासे वर्षे वा पुनरण् ।
१ पुष्यनक्षत्रयुक्तपौर्णमासीयुक्ते १ मासे २ पक्षे ३ जैवे
वर्षभेदे कार्त्तिकशब्दे १९४९ पृ० दृश्यम् । “मीनादिस्थो
रविर्येषामारम्भः प्रथमक्षणे” इत्यादिरीत्या धनुःस्थर-
व्यारब्धः शुक्लपतिपदादिदर्शान्तात्मको मुख्यचान्द्रपौषः
कृष्णपक्षादिपौर्णमास्यन्तः गौणः पौषः, धनूराशिस्थर-
विकः सौरः पौष इति भेदः तेनान्यत्र भक्तिः ।

पौष्कर न० पुष्करस्याकारोऽस्त्यस्य सूले प्रज्ञा० अण् । १ पुष्कर-

मूले राजनि० पुष्करस्येदम् अण् । २ पुष्करसम्बन्धिनि
त्रि० विष्णोः पद्मतया प्रादुर्भावयुते ३ पाद्मे कल्पे पु० ।

पौष्करमूल न० स्वार्थे अण् । पुष्करमूले सुगन्धिद्रव्यभेदे भरतः

पौष्करिणी स्त्री पुष्कराणां समूहः अण् स्वार्थे अण् वा

ततोऽस्त्यर्थे इनि ङीप् । पुष्करिण्यां शब्दच० ।

पौष्करेयक न० पुष्करे जातादि कत्त्य्रा० ढकञ् । पुष्करे

जातादौ स्त्रियां ङीप् ।

पौष्कल त्रि० पुष्कलेन निर्वृत्तम् सङ्कला० अण् । १ पुष्कलनि-

र्वृत्ते २ सामभेदे न० “उष्णिहि शफं ककुभि पौष्कलम्”
सामसं० भा० धृता श्रुतिः “तच्च गीतं पवस्व मधुमत्तम” इति
प्रगाथे (उत्तरा० १ प्र० १६) तस्मिन् पूर्वा ककुप् उत्तरा
पङ्क्तिः । तत्र (ककुभि) पौष्कलं साम । (तच्च)
ऊहगा० १ प्र--१६ दर्शितम् ।

पौष्कलावत पु० दिवोदासधन्वन्तरिं प्रति आयुर्वेदज्ञानार्थं

प्रश्नकारके सुश्रुतसहाध्यायिभेदे सुश्रुते १ । १ अ० दृश्यम् ।

पौष्कलेयक त्रि० पुष्कले जातादि कत्त्य्रा० ढकञ् । पुष्कले-

जातादौ स्त्रियां ङीप् ।

पौष्टिक त्रि० पुष्ट्यै हितम् ठक् । पुष्टिसाधने कर्मभेदे “पुष्टि-

र्धनजनादीनां वृद्धिरित्यभिधीयते । तद्वेतृभूतं यत् कर्म
पौष्टिकं तदिहोच्यते” स्मृतिदुर्गभञ्जनः ।

पौष्टी स्त्री पुरोर्नृपस्य स्त्रीभेदे भा० आ० ९४ अ० ।

पृष्ठ ४४२५

पौष्ण त्रि० पुषा देवताऽस्य तस्येदं वा अण् षणन्तत्वात्

उपधालोपः । १ पूषदेवताके चर्वादौ २ रेवतीनक्षत्रे न० ३
पूषसम्बन्धिनि त्रि० स्त्रियां ङीप् ।

पौष्प न० पुष्पेण निर्वृत्तः तस्येदं वा अण् । १ पुष्पसाध्ये

२ मद्यभेदे स्त्री । ३ कुसुमसम्बन्धिमात्रे त्रि० स्त्रियां ङीप् ।
४ पाटलिपुत्रनगर्य्यां स्त्री ङीप् शब्दरत्ना० ।

पौष्य पु० करवीरपुराधिपे पूष्णः पुत्रे १ नृपभेदे तत्कथा “पुष्णः

पुत्रोऽभवत् पौष्यः सर्वशास्त्रार्थपारगः” कालिकापु० ।
उतङ्केनर्षिणा गुरुदक्षिणार्थं याचिते तस्मै कुण्डलदातरि
२ नृपभेदे भा० आ० ६ अ० । तदधिकृत्य कृतो ग्रन्थः अण् ।
भा० आ० पर्वान्तर्गते ३ पर्वभेदे न० ।

प्याट् अव्य० प्याय--बा० डाटि । सम्बोधने अमरः ।

प्याय वृद्धौ भ्वा० आ० अक० सेट् । प्यायते, अप्यायि--अप्यायिष्ट

इदित् ओदिच्च पीनः ।

प्यायस्थूण पु० गोत्रप्रवरर्षिभेदे ।

प्युक्ष्ण न० अपि--उक्ष--बा० नक अपेरल्लोपः । १ स्नायुनि

२ अजगरसर्पे कर्मणि च कात्या० श्रौ० १५ । ३ । ३१ कर्कः ।

प्युष उत्सर्गे चु० उभ० सक० सेट् । प्योषयति ते । अपुप्युषत् त-

प्युष विभागे दाहे च दि० पर० सक० सेट् । प्युष्यते इरित्

अप्युषत् अप्यौषीत् पुष्योष ।

प्युस विभागे दिवा० पर० सक० सेट् । प्युस्यते इरित् अप्युसत् अप्योसीत् पुष्योस ।

प्यै वृद्धौ भ्वा० आ० अक० अनिट् । प्यायते अप्यास्त ।

प्र अव्य० प्रथ--ड । १ आरम्भे २ गतौ ३ उत्कर्षे ४ प्राथम्ये ५ सर्व-

तोभावे ६ उत्पत्तौ, ७ ख्यातौ ८ व्यवहारे च पुरुषोत्तमः ।
अस्य क्रियायोगे उपसर्गत्वम् । गतित्वञ्च । अस्यार्थभेदो
दाहरणानि गणरत्नटी० उक्तानि यथा
“प्र आदिकर्मदीर्धेशभृशसम्भवतृप्तिवियोगशुद्धिशक्तीच्छा-
शान्तिपूजाग्रदर्शनेषु” प्रयातः । प्रवालमूषिकः प्रभुर्देशस्य ।
प्रवदन्ति दायादाः । हिमवतो गङा प्रभवति । प्रभुक्त-
मन्नम् । प्रोषितः । प्रसन्नं जलम् । प्रशक्तः । प्रार्थयते ।
प्रशान्तोऽग्निः । प्राञ्जलि । प्रबालम् । प्रलोकयति” ।

प्रउग न० प्राग्युगम् पृषो० । १ प्राग्वर्त्तिनि युगे ईषान्तरे

कात्या० ७ । ९ । ५ । कर्कः । तत्र चीयमानस्याग्नेः प्रउग-
चित्संज्ञा कात्या० १६ । ५ । ९ । २ शस्त्रविशेषे प्रउगमुक्थ्य-
मव्यथायै” यजु० १५ । ११ । “प्रउगं शंसति निष्केबल्यं शंसति”
सा० स० भाष्यधृता श्रुतिः” प्रउगनिष्केबल्यशब्दौ शस्त्रविशेष
नामनी” इत्युक्त्वा “अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रमिति
भाष्ये शस्त्रशब्दार्थमाह भाष्यकृत् ।

प्रकङ्कत पु० १ प्रकृष्टविषे २ प्रकृष्टगमने सर्पभेदे ऋ० १ । १९१ । ७ ।

प्रकट त्रि० प्र + कट--अच् । स्पष्टे ।

प्रकटित त्रि० प्र + कट--क्त । प्रकाशिते हेमच० ।

प्रकण्व पु० प्रकृष्टाः कण्वा यत्र । ऋषिभिन्नत्वात् न सुट् ।

देशभेदे सि० कौ० । ऋषौतु सुट् प्रस्कण्व इत्येव ।

प्रकम्पन पु० प्र + कपि--णिच्--युच् । १ वायौ “प्रकम्पनेनानु

चक्रम्पिरे सुराः” माघः । २ नरकभेदे च शब्दरत्ना० ।
३ प्रकम्पनकारके त्रि० ।

प्रकर पु० प्र + कृ--भावे अप् । १ समूहे २ अतिक्षेपे च । कर्मणि

अप् । ३ प्रकीर्णे पुष्पादौ त्रि० । ४ अगुरुचन्दने न० मेदि०

प्रकरण न० प्र + कृ--ल्युट् । १ प्रस्तावे २ अभिनेयनायकादिके

दृश्यकाव्यभेदे हेमच० । ३ ग्रन्थसन्धौ ४ एकार्थप्रतिपादक-
ग्रन्थांशे च त्रिका० । नाटकादिनी दश दृश्यकाव्य-
रूपकाणि विभज्य सा० द० तल्लक्षणमुक्तं यथा
“भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारो-
ऽङ्गी नायकस्तु विप्रोऽमात्योऽथ वा बणिक् । सापाय
धर्मकामार्थपरो धीरप्रशान्तकः” । विप्रनायकं यथा
मृच्छकटिकम् । अमात्यनायकं मालतीमाधवम् । बणिङ्-
नायकं पुष्पभूषितम् । “नायिका कुलजा क्वापि वेश्या
क्वापि द्वयं क्वचित् । तेन भेदास्त्रयस्तस्य तत्र भेदस्तृती-
यकः । कितवद्यूतकारादिविटचेटकसङ्कुलः” । कुलस्त्री
पुष्यभूषिते । वेश्या तुरङ्गदत्ते द्वे अपि मृच्छकटि-
के । अस्य नाटकप्रकृतित्वात् शेषं नाटकवत्” ।
कर्त्तव्यस्य इतिकर्त्तव्यताकाङ्क्षस्य वचनं प्रकरणम् इति
शवरभाष्योक्ते ५ ऽर्थे च “श्रुतिलिङ्गवाक्यप्रकरणस्थानस-
माख्यानां पारदौर्बल्यमर्थविप्रकर्षात्” जै० ३ । ३ । १४५ ।
तत्र विनियीगसाधने तस्य श्रुतिलिङ्गताक्यबाध्यत्वं स्थान
समाख्यायोर्बाधकत्वञ्च स्थितम्” । “श्रुतिर्द्वितीया
क्षमता च लिङ्गं वाक्यं पदान्येव तु संहतानि । सा
प्रक्रिया या कथमित्यपक्षा स्थानं क्रमो योगबलं
समाख्या” पार्थसारथिमिश्रः । शास्त्रसिद्धान्तप्रतिपादके
६ ग्रन्थभेदे “अस्य च च वेदान्तप्रकरणत्वात्” वेदान्तसा० ।

प्रकरणसम पु० गौतमोक्ते सत्पक्षापरपर्य्याये १ हेत्वाभासभेदे

“यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरण-
समः” गौ० सू० । “क्रमप्राप्तं प्रकरसमं लक्षयति । स हेतुः
स्वसाध्यस्य परसाध्याभावस्य वा निर्णयार्थ मपदिष्टः
प्रयुक्तः प्रकरणसम उच्यते स क इत्याकाङ्क्षायामाह
यस्मात् प्रकरणचिन्तेति करणं “पक्षप्रतिपक्षाविति” भाष्यं
पृष्ठ ४४२६
साध्यतदभावन्ताविति तदर्थस्तथा च निर्ण्णयार्थं
हेतुर्यत्र निर्णयं जनयितुमशक्तस्तुल्यबलेन परेण प्रति-
बन्धात् किन्तु घर्मिणः साध्यवत्त्वं तदभावत्त्वं वेति
चिन्तां जिज्ञासां प्रवर्त्तयति स प्रकरणसमः । यद्वा प्रकृष्टं
करणं लिङ्गं परामर्शो वा को हेतुरनयोः साधकः
एतयोः कः परामर्शः प्रमेति वा यत्र जिज्ञासा भवती-
त्यर्थः । यस्मादित्यादि वस्तुस्थितिमात्रं लक्षणन्तु तुल्य-
बलबिरोधिपरामर्शकालीनपरामर्शविषयत्वं स्वसाध्य
परामर्शकालीनतुल्यबलविरोधिपरामर्शो वा । विरोधि-
गरासर्शस्य च हेतुनिष्ठत्वमेकज्ञानविषयत्वसम्बन्धेन
अन्यथा हेतोर्दुष्टत्वं न स्यात् । अयञ्च दशाविशेषे दोषः
इत्यतः सद्धेतोरपि विरोधिपरामर्शकाले दुष्टत्वमिष्ट-
मेवेत्यवधेयम्” वृत्तिः ।
२ जातिरूपासदुत्तरभेदे गौ० ५ । १ । १६ । ८८ सू० ।
“उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः” सू०
“उभयसाधर्म्यात् अन्वयसहचाराद्व्यतिरेकसहचाराद्वा
प्रक्रिया प्रकर्षेण क्रिया साधनं विपरीतसाधनमिति
फलितार्थः तत्सिद्धेस्तस्य पूर्वमेव सिद्धेः तथाचाधि-
बलत्वेनारोपितप्रमाणान्तरेण बाधेन प्रत्यवस्थानं
प्रकरणसमः यथा शब्दोऽनित्यं कृतकत्वादित्युक्तेनैतदेवं
श्रावणत्वेन नित्यत्वसाधकेन बाधात् बाथादेशनाभासा
चेयम् । वृ० । “प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुप-
पत्तिः प्रतिपक्षोपपत्तेः” सू० । अत्रोत्तरमाह प्रति-
पक्षाद्विपरीतसाध्यसाधकत्वे नाभिमताच्छ्रावणत्वादितः
प्रकरणसिद्धिद्वारा मदीयसाध्यस्य यः प्रतिषेधः त्वया क्रि-
यते तस्यानुपपत्तिः कुतः प्रतिपक्षोपपत्तेः त्वत्पक्षा-
पेक्षया प्रतिपक्षस्य मदीयपक्षस्योपपत्तेः साधनात् ।
अयमाशयः श्रावणत्वेन पूर्वं नित्वत्वस्य साधनाद्यो बाध
उच्यते स नोपपद्यते पूर्वं साधितस्य बलवत्त्वाभावात्
कदाचित् कृतकत्वेनानित्यत्वस्यापि पूर्वं साधनादिति
त्वत्पक्षप्रतिषेधोऽपि स्यात्” वृत्तिः ।

प्रकरणी न० नाटिकाभेदे “नाटिकैव प्रकरणी सार्थवाहादि-

नायका । समानवंशजा नेतुर्भवेद् यत्र च नायिका” सा० द०

प्रकरौ स्त्री १ नाट्याङ्गभेदे २ चत्वरभूमौ च शब्दरत्ना० ।

प्रकर्ष पु० प्र + कृष--घञ् । १ उत्कर्षे २ प्रकृष्टतया कर्षणे च ।

प्रकर्षण न० प्र + कृष--ल्युट् १ उत्कर्षे २ आकर्षणे च ।

प्रकलविद पु० प्रकृष्टां कलां वेत्ति विद--क्विप् पृषो० ह्रस्वः ।

१ वणिगजने निरु० ६ । ६ । ३ अज्ञातरि त्रि० ऋ० ७ । १८ । १५ भा०

प्रकाण्ड पु० प्रकृष्टः काण्डः प्रा० त० । वृक्षस्य मूलादारभ्य

शाखान्ते भागे । २ प्रशस्ते न० । ३ विटपे पु० मेदि० ।

प्रकाण्डर पु० प्रकाण्ड + अस्त्यर्थे बा० र । वृक्षे शब्दच० ।

प्रकाम त्रि० प्रगतः कामम् प्रा० स० । १ यथेष्टे अमरः । प्रा० व० ।

२ प्रकृष्टकामके त्रि० । ३ देवभेदे पु० यजु० ३० । १२ ।

प्रकामम् अव्य० प्र + कम--णमुल् । अत्यर्थे अनुमतौ च अमरः ।

प्रकामोद्य पु० देवभेदे यजु० ३० ९

प्रकार पु० प्र + कृ + घञ् । १ भेदे २ सादृश्ये च अमरः । ३

विशिष्टज्ञाने विशेषणतया भासमाने पदार्थे “स्वव्यधिकरण-
प्रकारावच्छिन्ना या या विषयता तदनिरूपकत्वस सर्वांशे
भ्रमभिन्नत्वमिति” गदाधरः ।

प्रकारता स्त्री प्रकारस्य भावः तल् । १ विषयताभेदे ज्ञाय-

मानविशेषणप्रतियोगिकसंसर्गावच्छिन्नविषयत्वे ।

प्रकालन त्रि० प्रकालयति प्र + कालि ल्यु । १ हिंसके २ सर्प-

भेदे पु० भा० आ० ७५ अ० । भावे ल्युट् । ३ मारणे न० ।

प्रकाश पु० प्र + काश--घञ् । १ आतपे २ विकाशे च । कर्त्तसि

अच् । ३ विकाशयुक्ते त्रि० अमरः । प्रकाशश्च सत्वज्ञानतेजः
साधारणः यथोक्तम् “जड़पकाशायोगात् प्रकाशः” सां० सू०
“वैशेषिका आहुः । प्रागप्रकाशरूपस्य जड़स्यात्मनो
मनःसंयोगाज्ज्ञानाख्यप्रकाशो जायत इति तन्न । लोके
जड़स्याप्रकाशस्य लोष्टादेः प्रकाशोत्पत्त्यदर्शनेन
तदयोगात् । अतः सूर्य्यादिवत् प्रकाशस्वरूप एव पुरुषः
इत्यर्थः । तथा च स्मृतिः “यथा प्रकाशतमसोः समन्धो
नोपपद्यते । तद्वदैक्यं न शंसध्वं प्रपञ्चपरमात्मनोः” ।
इति । “यथा दीपः प्रकाशात्माह्रस्वो वा यदि वा महान् ।
ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु” इति च ।
प्रकाशत्वं च तेजःसत्त्वचैतन्येष्वनुगतमखण्डोप्राधिरनु-
गतव्यवहादिति । ननु प्रकाशस्वपरूत्वेऽपि तेजोबद्धर्म-
धर्मिभावोऽस्ति न वा तत्राह सां० प्र० भा० “निर्गुणत्वान्ना
चिद्धर्मा” सू० “पुरुषस्य प्रकाशरूपत्वे सिद्धे तत्सम्बन्ध-
मात्रेणान्यव्यवहारोपपत्तौ प्रकाशात्मकधर्मकल्पनागौरव-
मित्यपि बोध्यम् । तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपि
स्तर्शपुरस्कारेण ग्रहात् प्रकाशतेजसोर्भेदः मिद्ध्यति ।
आत्मनस्तु ज्ञानाख्यपकाशाग्रहकाले ग्रहणं नास्तीत्यतो
लाववाद्धर्मधर्मिभावशूत्यं प्रकाशरूपमेवात्मद्रव्यं
कल्प्यते । तस्य च न गुणत्वन् संयोगादिमत्त्वात्
अनाश्रितत्वाच्चेति । तथा च स्मर्य्यते “ज्ञानं नैवात्मानो
धर्मो न गुणो वा कथञ्चन । ज्ञानस्वरूप एवात्मा नित्या
पूर्णः सदा शिवः” सां० प्र० भा० । वैवस्वतमनोः २ पुत्रभेदे
हरिवं० ७ अ० ।
पृष्ठ ४४२७

प्रकाशक त्रि० प्रकाशयति प्र + काश--णिच् ण्वुल् । १ प्रकाश-

कारके सूर्य्यादौ सांख्यमतसिद्धे २ सत्त्वगुणे च “तत्र
सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्” गीता ।

प्रकाशकज्ञातृ पु० प्रकाशकस्य पूर्वं ज्ञाता । कुक्कुटे शब्दच० ।

तस्य प्रथमं प्रकाशकसूर्य्यज्ञातृत्वात्तथात्वम् ।

प्रकाशन त्रि० प्रकाशयति प्र + काश--णिच्--ल्यु । १ प्रकाश-

कारके २ विष्णौ पु० । “नैकरूपो वृहद्रूपः शिपिविष्टः
प्रकाशनः” विष्णुस० ।

प्रकाशात्मन् पु० प्रकाश आत्मा स्वरूपमस्य । १ विष्णौ “प्रका-

शात्मा प्रतापनः” विष्णुस० । २ व्यक्तस्वभावे त्रि० ।

प्रकाशित त्रि० प्र + काश + णिच्--कर्मणि क्त । १ प्रकटिने हेम०

प्र + काश--कर्त्तरि क्त । २ प्रकाशयुते त्रि० । भावे क्त ।
३ प्रकाशे न० ।

प्रकाश्य त्रि० प्र + काशि--कर्मणि यत् । १ प्रकाशनीये २ प्रायो-

ग्यर्णशुद्ध्यादौ नवके न० काशी० १० अ० । नबनवकशब्दे
३९८८ पृ० दृश्यम् ।

प्रकीर्ण न० प्र + कॄ--कर्मणि क्त । १ चामरे जटा० । २ ग्रन्थ-

विच्छेदे त्रिका० । ३ विक्षिप्ते ४ मिश्रिते विभिन्न-
जातीये त्रि० । ५ पूतिकरञ्जे पु० राजनि० । माघे क्त ।
भिन्नजातीयानां ६ मिश्रणे ७ विक्षेप्रे ८ विस्तारे च न० ।
स्वार्थे क । तत्रार्थे । अनुक्तप्रायश्चिक्षविशेषे पातकविशेषे
षातकशब्दे ४२९९ पृ० विष्णुवाक्यम् दृश्यम् । “अनुक्तं
तत्प्रकीर्णकम्” अनुक्तमनुक्तनिष्कृतिकं पापं प्रकीर्णकमि-
त्यर्थः । “अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । शक्ति-
ञ्चावेक्ष्य पापञ्च प्रायश्चित्तं प्रकल्पयेत्” विश्वामित्रः “प्रकी-
र्णपातके ज्ञात्वा गुरुत्वममथ लाघवम् । प्रायश्चित्तं बुधः
कुर्य्यात् ब्राह्मणानुमतः सदा” विष्णुः । “क्रयविक्रय-
दुष्टभोजनप्रतिग्रहेषुं अनादिष्टप्रायश्चित्तेषु चान्द्रायणं
प्रजापत्यं वा” शङ्खलिखितौ । भट्टिकाव्ये नानाजाती-
यप्रत्ययोदाहरणबोधककाण्डं प्रकीर्णकाण्डम् । संज्ञायां
कन् । तुरङ्गमे पुंस्त्री० स्त्रियां जातित्वात् ङीष् ।

प्रकीर्य्य पु० प्रकीर्य्यतेऽसौ प्र + कृ--क्यप् । (लाटाकरमचा)

१ करञ्जभेदे अमरः । २ घृतकरञ्जे (रीठाकरमचा)
राजनि० । ३ विक्षेप्ये ४ व्याप्ये च त्रि० ।

प्रकुञ्च पु० “प्रकुञ्चः षोड़शी विश्वं पलमेवात्र कीर्त्त्यते” भावप्र०

उक्ते पलरूपे मानभेदे । “चूर्णप्रकुञ्चम्” इत्यादि सुश्रुतः

प्रकुल न० प्र + कुल--कर्त्तरि क । प्रशस्तदेहे त्रिकाण्डशेषः ।

प्रकूष्माण्डी स्त्री दुर्गायां हेमच० ।

प्रकृत त्रि० प्र + कृ--क्त । १ अधिकृते २ आरब्धे ३ प्रकरणप्राप्ते

च । ४ ऋषिभेदे पु० । प्रकृतस्यर्षेर्गोत्रापत्यम् अश्वा० फञ् ।
प्राकृतायन तद्गोत्रापत्ये पुंस्त्री० ।

प्रकृति स्त्री प्र + कृ--कर्त्तरि क्तिच् भावादौ क्तिन् वा । १

स्वभावे २ योनौ ३ लिङ्गे ४ स्वाम्यमात्यादौ राज्याङ्गे अमरः ।
५ शिल्पिनि हेम० । ६ शक्तौ ७ योषिति शब्दर० । ८ परमा-
त्मनि धरणिः । १० आकाशादिभूतपञ्चके ११ करणे १२ गुह्ये
१३ जन्तौ च १४ एकविंशत्यक्षरपादके छन्दोभेदे । १५
मातरि १६ प्रत्ययनिमित्ते शब्दभेदे तल्लक्षणं शब्द० प्र० उक्तं
यथा “स्वोपस्थाप्ययदर्थस्य बोघने यस्य निश्चयः । तत्त्वेन
हेतुरथवा प्रकृतिः सा तदर्थिका । तत्त्वेन यन्निश्चयत्वेन
स्वोपस्थाप्ययादृशार्थस्यान्वयबोधं प्रति स्वाव्यवहितो-
त्तरत्वसंसर्गेण यादृशशब्दवत्तानिश्चयत्वेन हेतुत्वं
तादृश एव शब्दस्तथाविधार्थे प्रकृतिरिति तु फलितार्थः ।
बहुगुड़ो द्राक्षेत्यादौ बहुजाद्यर्थस्यान्वयबोधं प्रति गुड़ा-
दिपदधर्मिकवहुजादिनिश्चयत्वेन न हेतुत्वमपि तु सुबा-
दिधर्मिकबहुगुड़ादिपदनिश्चयत्वेन अन्यथा केवलाद्रपि
वहुगुड़ादिशब्दात् द्राक्षादौ बहुजाद्यर्थस्यान्वयबोधा-
पत्तेरिति न तत्र प्रसङ्गः” । “निरुक्ता प्रकृतिर्द्वेधा
नामधातुप्रभेदतः । यत् प्रातिपदिकं प्रोक्तं तन्नाम्नो नाति-
रिच्यते । निरुक्ता न तु सांख्यानामिव जगदुपादान-
भूता । यच्च पाणिनिप्रभृतिभिः प्रातिपादिकं प्रकृतिरि-
त्युक्तं तदपि नाम्नो नातिरिच्यते नातो विभागन्यूनता” ।
वैयाकर्णमते तल्लक्षणन्तु शब्दार्थरत्नेऽस्माभिरुक्तं यथा
“एवं प्रकृतिप्रत्ययादिसमुदायरूपपदस्वरूपे तद्विभागे च
दर्शिते इदानीं तदवयवरूपप्रकृतिप्रत्ययस्वरूपविभागौ
प्रदर्श्येते । तत्र प्रकृतिर्नाम अर्थावबोधहेतुः प्रत्यय-
विधानावधिभूतः शब्दविशेषः सर्वेषामेव च प्रत्ययानां
प्रकृतिं निमित्तीकृत्यैव विधानात् । प्रत्ययानाञ्च प्रत्याय-
कत्वरूपेणैव निवेशः न तु वक्ष्यमाणप्रत्ययत्वेन
तेन नान्योन्याश्रयः । अवधित्वञ्च पूर्वापरत्वरूपं ग्राह्यं
तेन बहुजादेर्निमित्तप्रकृतौ नाप्रसङ्गः । वस्ततस्तु
सिद्धान्ते वृत्तिशब्दानां समुदायशक्तिस्वीकारात् तद्धि-
तादीमां निरर्थकत्वान्न तत्र प्रकृतिप्रत्ययादिविभागः ।
अत एव भाय्ये “तावेव सुप्तिङौ यौ ततः परौ भैव प्रकृ-
तिराद्येति” सुप्तिङ्मात्रयोरेव प्रत्ययत्वमित्युक्तम् ।
पृष्ठ ४४२८
ततोविधानाबधेः यौ परौ तावेव सुप्तिङौ या च
तयोराद्या विधानाबधिभूता सैव प्रकृतिरिति तदर्थः ।
एतदभिप्रायेणैव हरिणा “यः शब्दः स्वेतरस्यार्थे स्वार्थ-
स्यान्वयबोधने । यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः”
इति प्रकृत्यादिलक्षणमुक्तम् । अत्र च पूर्वत्वं बोधक-
शब्दविधानावधित्वमेव बोध्यं भाष्यैकवाक्यत्वात् नत्वे-
तत्कारिकीपात्तपूर्वापरत्वं तथासति पचतीत्यादौ तिङां-
देरेव धात्वर्थे स्वार्थप्रकारकान्वयबोधजनकत्वस्वीका-
रात् तत्रातिव्याप्तिः । एवञ्च निरुक्तपूर्वत्वरूपलक्षणे-
नैव प्रसङ्गातिप्रसङ्गादिवारणसम्भवे प्रकृतिप्रत्यययोरर्थ-
बोधकत्वसाकाङ्क्षत्वद्योतनायैव यः शब्द इत्यादिकथनं
बोध्यमेवञ्च यस्यार्थे इत्यत्र विशेष्यतया विशेषणतया
वान्वयबोधने इत्यर्थः तेन सिद्धान्ते तिङर्थप्रकारकान्वय-
बोधेऽपि न क्षतिः । तथा च तदर्थान्वितस्वार्थबोधने
तदपेक्षत्वे सति तद्विधानावधिभूतत्वं तत्प्रकृतित्वमिति
फलितम् । एवञ्चावयशक्तिस्वीकारेऽपि बहुजादावति-
प्रसंङ्गादिशङ्कापि नोदेति बहुजादेः प्रकृतिविधाना-
वधित्वाभावात् अवधित्वस्य पूर्वापरत्वरूपस्य निवेशाच्च । अत
एतत्पक्षे भाष्ये सुप्तिङ्शब्दौ प्रत्ययान्तरस्याप्युलक्षका-
विति द्रष्टव्यम् तथा शेखरकारेणापि प्रत्ययविधा-
वुद्देश्यतावच्छेदकाक्रान्तत्वमेव प्रकृतित्वमित्यभिदधे पूर्व-
सिद्धवस्तुन एव उद्देश्यत्वसम्भवात् पूर्वत्वमर्थायातं
बहुजादेरपि सुप उद्देश्यत्वान्न किञ्चिद्दूषणमावहतीति ।
एवञ्च प्रकरोति प्रत्ययं बोधञ्चेतिव्युत्पत्तिमत्त्वात्
प्रकृतिशब्दो योगरूढ़ इति बोध्यम्” । १७ उपादान-
कारणे “प्रकृतश्च दृष्टान्तानुपरोधात्” शा० सू० “सती
वाऽविद्यमाना वा प्रकृतिः परिणामिनी” हरिका० । १८
उपदिष्टसर्वाङ्गके कर्मभेदे । तदेतत् ताण्ड्य० भा० निर्णीतं यथा
“ननु का प्रकृतिः का विकृतिरिति चेत् उच्यते यत्र कर्त्तव्यं
सर्वं प्रकर्षेण कर्मान्तरनैरपेक्ष्येणोपदिश्यते सा प्रकृतिः
यत्र विशेषरूपमेव कर्त्तव्यं श्रुत्योपदिश्यते इतरत् सर्वं
कर्मान्तरादतिदिशते सा विकृतिः । सचातिदेशः प्रत्यक्ष-
वचनाद्वा साम्याद्वा लिङ्गाद्वाऽवगन्तव्यः । तत् सर्वं
सप्तमाष्टमाध्यायाभ्यां वहुधा विचारितम् । प्रकृतिश्च
द्विविधा मूलप्रकृतिरवान्तरप्रकृतिश्चेति । सर्वात्मना कर्मा-
न्तरामरपेक्षा मूसप्रकृतिः कतिपयेप्वङ्गेषु कर्मान्तरं चापे-
क्षते स्वयञ्च कैसित् कर्ममिरपेक्षणीया मषति सयमवा-
न्तरप्रकृतिः । तत्र तिहोमूसप्रकृतयः ताश्चाष्टमाध्या-
यस्य प्रथमपादे तृतीयाधिकरणस्य द्वितीयवर्णके विचा-
रिताः । “इष्ट्यग्निहीत्रसोमानां मूलप्रकृतिता न हि ।
अस्ति वा नालौकिकत्वादियत्तानवधारणात् । लोकवत्
सन्निपात्यारादुपकारिद्वयश्रुतेः । इयत्तायानिश्चितत्वान्मू-
लप्रकृतिता त्रिषु । अलौकिकत्वेनैतावद्भिरङ्गैः सम्पूर्ण
उपकार इति निश्चेतुमशक्यत्वात् इष्ट्यादीनां नास्ति
मूलप्रकृतित्वमिति चेत् मैवं लौकिकसदृशत्वात् ।
यथालोके भुजिक्रियायामोदनः करणं तस्य सन्निपत्योप-
कारिणः शाकसूपादयः, आरादुपकारिणः पीठप्रदी-
पादयः । तथा भावनायां यागः करणम् अवधातादयः
सन्निपातिनः, प्रयाजादयः आरादुपकारिणः । अतो
नात्यन्तिकमलौकित्वम् । इयत्ता लौकिके यथा प्रत्य-
क्षेण निश्चीयते तथा श्रौते श्रुत्या निश्चीयतां तस्मा-
दिष्ट्यग्निहोत्रसोमानां मूलप्रकृतित्वमस्ति” ।
१९ सत्त्वरजस्तमसां साम्यावस्थायां साम्यावस्थोपलक्षिते
सत्त्वादिगुणे । “सत्त्वं रजस्तमश्चैव गुणत्रयमुदाहृतम् ।
साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्त्तिता । केचित्
प्रधानमित्याहुरव्यक्तमपरे जगुः । एतदेव प्रजासृष्टिं
करीति विकरीति च” मात्स्ये ४ अ० ।
“सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः” सा सू० । “तेषां
सत्त्वादिद्रव्याणां या साम्यावस्थाऽन्यूनानतिरिक्तावस्था-
न्यूनाधिकभावेनासंहतावस्थेति यावत् अकार्य्या-
वस्थेति निष्कर्षः । अकार्थ्यावस्थोपलक्षितं गुणसाम्यान्यं
प्रकृतिरित्यर्थः । यथाश्रुते वैषम्यावस्थायां प्रकृतिनाश-
प्रसङ्गात् “सत्त्वं रजस्तम इति एषैव प्रकृतिः सदा ।
एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्” इत्यादि
स्मृतिभिर्गु णमात्रस्यैव प्रकृतित्ववचनाच्च । सत्त्वादीनामनु-
गमाय सामान्येति । पुरुषव्यवर्त्तनाय गुणेति ।
महदादिव्यावर्तनाय चोपलक्षितान्तमिति । महदादयोऽपि
हि कार्य्यसत्त्वादिरूपाः पुरुषोपकरणतया गुणाश्च
भवन्तीति । तदत्र प्रकृतेः स्वरूपमेवोक्तम् । अस्या
विशेषस्तु पश्चाद्वक्ष्यते” प्र० भा० । “मूलप्रकृतिरविकृति-
र्महदाद्याः प्रकृतिविकृतयः सप्त । षोड़शकस्तु विकारो
न प्रकृति र्न विकृतिः पुरुषः” सां० का० । “संक्षेपतो
हि शास्त्रार्थस्य चतस्त्रो विधाः । कश्चिदर्थः प्रकृतिरेव,
कश्चित् विकृतिरेव, कश्चित् प्रकृतिविश्चतिः कश्चिदनुभयरूप
इति । तत्र का प्रकृतिरेवेत्यत सत्त्वम् नूलप्रकृति-
रविक्ततिरिति तृकरोतीति प्रषतिः प्रभानं सत्त्वरस्य-
पृष्ठ ४४२९
स्तमसां साम्यावस्था सा अविकृतिः । प्रकृतिरेवेत्यर्थः
कस्मादित्यत उक्तम् मूलेति मूलञ्चासौ प्रकृतिश्चेति
मूलप्रकृतिः विश्वस्य कार्य्यसंघातस्य सा मूलं नत्वस्या मूला-
न्तरमस्तीति भावः । कतमाः पुनः प्रकृतिविकृतयः
कियत्यतश्चेत्यत उक्तम् महदाद्याः प्रकृतिविकृतयः सप्तेति
प्रकृतयश्च ता विकृतयश्च ता इति । तथा हि महत्तत्त्व-
महङ्कारस्य घ्रकृतिर्विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं
तन्मात्राणामिन्द्रियाणाञ्च प्रकृतिर्वकृतयश्च महतः । एवं
पञ्चतन्मात्राणि भूतानामाकाशादीनां प्रकृतयो विकृतय
श्चाहङ्कारस्य । अत्र विकृतिरेव कियती चेत्यत उक्तं
षोड़शकस्तु विकार इति । षोडशसंख्यापरिमिती गणः
षोडशकः तुशब्दोऽवधारणे भिन्नक्रमश्च पञ्चमहाभूतान्ये-
कादशेन्द्रियाणि चेति षोड़शको गणो विकार एव “न
प्रकृतिरिति । यद्यपि च पृथिव्यादीनामपि गोघटवृक्षा-
दयो विकाराः एवं तद्विकारभेदानां दध्यङ्कु रादयस्त-
थापि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वा-
न्तरं तत्त्वान्तरोपादानत्वञ्च प्रकृतित्वमिहाभिप्रेतमिति न
दोषः सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यता
च समेति न तत्त्वान्तरत्वम् । अनुभयरूपमुक्तं तदाह न
प्रकृतिर्न विकृतिः पुरुषः” इति त० कौ० । शब्दस्पर्शवि-
हीनं तद्रूपादिमिरसंयुतम् । त्रिगुणं तत् जगद्योनिः”
स्मृतिः । तदनुमापकाः कार्य्यभेदाः तद्धर्माश्च सा० सू०
भाष्याद्युक्ता यथा “ततः प्रकृतेः” सा० सू० “ततो
महत्तत्त्वात् कार्य्यात् कारणतया प्रकृतेरनुमानेन बोध
इत्यर्थः । अन्तःकरणसामान्यस्यापि कार्य्यत्वं तावदे-
कदा पञ्चेन्द्रियज्ञानानुत्पत्त्या मध्यमपरिमाणतया-देहा-
दिवदेव सिद्धं श्रुतिस्मृतिप्रमाण्याच्च । तस्य च प्रकृति-
कार्यत्वेऽयं प्रयोगः । सुखदुःखमोहधर्मिणी बुद्धिः सुख
दुःखमोहधर्मकद्रव्यजन्या कार्यत्वे सति सुखदुःखमोहा-
त्मकत्वात् कान्तादिवदिति कारणगुणानुसारेणैव कार्य्य-
गुणौचित्यं चात्रानुकूलस्तर्कः श्रुतिस्मृतयोऽपीतिमन्तव्यम्
भा० “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्”
सू० कारणानुमापकत्वाल्लयगमनाद्वाऽत्र लिङ्गं कार्य्य-
जातम् न तु महत्तत्त्वमात्रमत्र विवक्षितं हेतुमत्त्वादीना
मखिलकार्थ्यसाधारण्यात् । “हेतुमदनित्यमव्यापि सक्ति-
यमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं
विपरीतमव्यक्तम्” इति कारिकायामप्यत एव व्यक्ताख्यं सर्वं
कार्यमेव लिङ्गमित्य क्तम् । तथा च तल्लिङ्गं हेतुमत्त्वा-
दिधर्मकमिति वाक्यार्थः । तत्र हेतुमत्त्वं कारणवत्त्वम्
अनित्यत्वं विनाशिता प्रधानस्य या व्यापिता पूर्वोक्ता
तद्वैप्ररीत्यमव्यापित्वम् । सक्रियत्वमध्यवसायादिरूपनि-
यतकार्य्यकारित्वम् । प्रथानस्य तु सर्वक्रियासाधार-
ण्येन कारणत्वान्न कार्य्यैकदेशमात्रकारित्वम् । न च
क्रिया कर्मैव वक्तुं शक्यते प्रकृतिक्षोभात् सृष्टिश्रव-
णेन प्रकृतेरपि कर्मवत्तया सक्रियत्त्वापत्तेरिति ।
अनेकत्वं सर्गभेदेन भिन्नत्वम् । सर्गद्वयासाधारण्यमिति
यावत् । न पुनः सजातीयानेकव्यक्तिकत्वम् प्रकृतावति
व्याप्तेः प्रकृतेरपि सत्त्वाद्यनेकरूपत्वात् “सत्त्वादीनामत-
द्धर्मत्वं तद्रूपत्वात्” इत्यागामिसूत्रादिति । आश्रितत्वं
चावयवेष्विति” सा० प्र० भा० । एतद्विपरीतत्वमेव तद्धर्मत्वम् ।
२० प्रकृत्यंशदेवीपञ्चकरूपशक्तिभेदे “गणेशजननी दुर्गा १
राधा २ लक्ष्मीः ३ सरस्वती ४ । सावित्री ५ च सृष्टिविधौ
प्रकृतिः पञ्चमी स्मृता” । पकृतिशब्दनिरुक्तिर्यथा
“प्रकृष्टवाचकः प्रश्च भृतिश्च सृष्टिवाचकः । सृष्टौ
प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्त्तिता । गुणे प्रकृथे
सत्त्वे च प्रशब्दो वर्त्तते श्रुतौ । मध्यमे रजसि कृश्च
तिशब्दस्तामसः स्मृतः । त्रिगुणात्मस्वरूपा या सर्वशक्ति
समन्विता । प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ।
प्रथमे वर्त्तते प्रश्च कृतिश्च सृष्टिवाचकः । सृष्टेराद्या च
या देवी प्रकृतिः सा प्रकीर्त्तिता” । तस्या आविर्भूतिः
स्वरूपञ्च यथा “योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव
सः । पुमांश्च दक्षिणार्द्धाङ्गात् वामाङ्गात् प्रकृतिः स्मृता ।
सा च ब्रह्मस्वरूपा च यथा नित्या सनातनी । यथात्मा
च यथाशक्तिर्यथाग्नौ दाहिका स्मृता । अत एव हि
योगीन्द्रः स्त्रीपुंभेदं न मन्यते । सर्वं व्रह्ममयं व्रह्मन् ।
शश्वत् पश्यति नारद! । स्वेच्छामयं स्वेच्छय च
श्रीकृष्णस्य सिसृक्षया । साविर्बभूव सहसा मूलप्रकृति-
रीश्वरी । तथा ज्ञेया पञ्चविधा सृष्टिकर्मणि भेदतः ।
सर्वाः प्रकृतिसम्भूता उत्तमाधाममध्यमाः । सत्त्वांशा-
श्चोत्तमा ज्ञेयाः सुशीलाश्च प्रतिव्रताः । मध्यमा राजसा-
श्चांशास्ताश्च भोग्याः प्रकीर्त्तिताः । सुखसम्भोगवश्याश्च
स्वकार्य्ये तत्पराः सदा । अधमास्ताससाश्चांशा अजात
कुलसम्भवाः । दुर्मुखाः कुलटा धूर्त्ताः स्वतन्त्राः
कलहप्रियाः । पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ।
प्रकृतेस्तामसांशास्ताः पुंश्चल्यः परिकीर्त्तिताः । एवं
निगदितं सर्वं प्रकृतेः परिकीर्त्ततम्” ।
पृष्ठ ४४३०
इति स्त्रीमात्रस्य प्रकृत्यंशतया प्रकृतिवाचकशब्दस्यैव प्रा-
गुत्कीर्त्त्यत्वं निर्णीतं यथा
“आदौ राधां समुच्चार्य्य पश्चात् कृष्णं विदुर्बुधाः । निमित्त-
मस्य मां भक्तं वद भक्तजनप्रिय!” श्रीनारायण उवाच
“निमित्तमस्य त्रिविधं कथयामि निशामम । जगन्मा-
ता च प्रकृतिः पुरुषश्च जगत्पिता । गरीयसीति जगतां
माता शतगुणैः पितुः । राधकृष्णेति गौरीशेभ्येवं
शब्दः श्रुतौ श्रुतः । कृष्णराधेशगौरीति लोके न च कदा
श्रुतः । प्रसीद रोहिणीचन्द्र! गृहाणार्घ्यमिदं मम ।
गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर! । प्रसीद
कमलाकान्त! गृहाण मम पूजनम् । इति दृष्टं
सामवेदे कौथुमे मुनिसत्तम! । राशब्दोच्चारणादेव स्फीतो
भवति माधवः । धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः ।
आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत् । स भवेन्मातृ-
गामी च वेदातिक्रमणे मुने!” व्रह्मवैपु० जन्म० ख० ५० अ० ।

प्रकृतिज त्रि० प्रकृत्या जायते जन--ड । १ स्वभावजे । प्रकृति-

रूपेण जायते जन--ड । प्रकृतिस्वभावरूपे सांख्यमत-
सिद्धे सत्त्वादिगुणे “गुणाः प्रकृतिजामताः” गीता ।

प्रकृतिधर्म पु० ६ त० । सांख्यमतसिद्धे प्रकृतिधर्मभेदे स च

प्रकृतिशब्दे हेतुमदनित्यादिविपरीतधर्मरूपेण दर्शितः ।
सुश्रुते तु “अत ऊर्द्धं प्रकृतिपुरुषयोः साधर्म्य-
वधर्ध्ये व्याख्यास्यामः । तद्यथा “उभावप्यनादी
उभावप्यनन्तौ उभावप्यलिङ्गौ उभावपि नित्यौ उभावप्यपरौ
उभौ च सर्वगताविति । एका तु प्रकृतिरचेतना त्रि-
गुणा वीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति ।
वहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अवीजधर्मिण्णोऽप्रसव-
धर्मिणो भध्यस्थधर्मिणश्चेति” ।

प्रकृतिमण्डल न० ६ त० । १ राज्याङ्गेषु स्वाम्यमात्यादिषु

२ प्रजासमुदाये च रघुः ८ । २ श्लोकव्या० मल्लिनाथः ।

प्रकृतिवत् अव्य० प्रकृत्या तुल्यम् प्रकृति + वति । व्याकरण-

प्रसिद्धे आदिश्यमानस्य प्रकृतिभूतस्थानितुल्यकार्य्ये ।

प्रकृत्यादि पु० प्रकृतिशब्द आदिर्यस्य । सर्वविभक्त्यपवाद

तृतीयानिमित्ते शब्दगणे स च गणः “प्रकृति प्राय गोत्र
सम विषम द्विद्रोण पञ्चक साहस्र” । प्रकृत्या प्रावेण
याज्ञिकः इत्यादि । आकृतिगणीऽयम् । तेन नाम्ना-
सुतीक्ष्णश्चरितेन दान्तः” भट्टिः इत्थादि ।

प्रकृष्ट त्रि० प्र + कृष--क्त । उत्कर्षयुक्ते हेमच० ।

प्रकृष्य त्रि० प्र + कृप्र--कर्मणि क्यप् । मूमिसंलग्नतया कर्षणीये

“उलूखलबुध्नो यूपः प्रकृष्यः” कात्या० श्रौ० २४ । ५ । २७ ।
प्रकृष्य देशान्तरनयनेन प्रकर्षणीयः भूमिसंलग्नतया
प्रेरणीयो न तु उत्पाठेनेति तदर्थः ।

प्रकॢप्ति स्त्री प्र + कृप--भावे क्तिन् । उपकॢप्तौ विद्यमान-

तायां कात्या० १ । ८ । २२

प्रकेत त्रि० प्र + कित--णिच्--अच् । १ प्रकर्षेण ज्ञापके ऋ० १ ।

११३ । १ भा० । प्रकर्षेण कं सुखमीयतेऽनेन प्र--ई--बा० करणे
क्त । २ प्रकृष्टसुखसाधने यजु० १५ । ६० वेददीपः ।

प्रकोथ पु० प्र + कुथ--पतितत्वे भावे घञ् । १ प्रकृष्टपतने

२ संशोषे च “शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं
प्रकोथमुपयात्यवदीर्य्यते च” सुश्रुतः ।

प्रकोष्ठ पु० प्रगतः कोष्ठं प्रा० स० । कूर्परस्याधोभागस्थे

मणिवन्धपर्यन्ते १ हस्तावयवे २ गृहद्वारपिण्डे च अमरः ।
गृहाभ्यन्तरप्रदेशभेदे मुकुटः ।

प्रक्ख(क्ष)र पु० प्रखर + पृषो० प्र + क्षर अच् वा । १ अश्वसन्नाहे

शब्दमाला तत्र द्विधा पाठा । २ कुक्कुरे ३ अश्वतरे च
४ अत्यन्ततीव्रे त्रि० येदि० ।

प्रक्रम पु० प्र + क्रम--भावे घञ् । १ उपक्रमे अमरः २ प्रथमा

रम्भे ३ अवसरे मेदि० भग्नप्रक्रमः काव्यदोषभेदः । भावे
ल्युट् । प्रक्रमण--तत्रार्थे प्रकर्षेण क्रमणे न० ।

प्रक्रान्त त्रि० प्र + क्रम--क्त । १ आरब्धे २ प्रकरणप्राप्ते

प्रक्रिया स्त्री प्र + कृ--भावे श । १ प्रकरणे “सा प्रक्रिया या

कममित्यपेक्षा” पार्थ सारथिमिश्रः । २ अधिकारे नृपादीनां
चामरव्यजनच्छत्रधारणादिव्यापारे च ३ शव्दपयोगसाध-
नावस्थायाम् ४ पक्षप्रतिपक्षयो० प्रवृत्तौ गौतमसू०
५ । १ । १६ शवरमा० ।

प्रक्लिन्न त्रि० प्र + क्लिद--कर्त्तरि क्त । १ तृप्ते जटा० २ बहुक्लेदथुक्ते त्रि० ।

प्रक्व(क्वा)ण पु० प्र + क्वण--भावे घञ् अप् वा । वीणादेः

क्वणिते शब्दे अमरः ।

प्रक्षाल त्रि० प्रक्षालयति क्षालि--अच् । शोधके प्रायश्चित्ते

न० “परिपृष्टिका वैथसिकास्त्वप्रक्षालास्तथैव च” (यतयः)
भा० आश्व० ९२ अ० । “अप्रक्षालाः (निष्पापतथा)
शीपकहीनाः नीलकण्टः । अत्र मुद्रितपुस्तके “परिघृ०
ष्टिका वैद्यसिकास्त्वप्रख्यालास्तथैव च” इत्यपपाठः

प्रक्षेप पु० प्र + क्षिप--भावे घञ् । १ अर्पणे २ बहुद्रव्यमध्ये

अपराल्पांशनिवेशने च ।

प्रक्ष्वेड़न पु० प्र + क्ष्वे ड--ल्यु । नाराचास्त्रे हेमच० ।

प्रख्या स्त्री प्र + ख्या--भावे अङ् । १ यिख्यातौ २ उपमायां च

उत्तरपदस्थः वहु० । उपमायुक्ते यथा वज्रप्रख्यः इत्यादि
पृष्ठ ४४३१

प्रख्यात त्रि० प्र + ख्या--क्त । विख्याते सुप्रसिद्धे ।

प्रख्यातवप्तृक पु० प्रख्यातो वप्ता जनयिता यस्य कप् ।

विख्यातपितृके अमुष्यपुत्रे हेमच० ।

प्रख्यास् पु० प्र + चक्ष--असि “बहुलं शिच्च” इत्युक्तेर्न शित्

तेन ख्यादेशः । प्रजापतौ उज्ज्वल० ।

प्रगण्ड पु० गडि--वदनैकदेशे अच् प्रकृष्टो गण्डः अवयवः

प्रा० स० । १ कूर्परोपरिकक्षपर्य्यन्तभागे अमरः । दुर्गप्रा-
कारभित्तौ २ शूराणां निवेशनस्थाने च स्त्री गौरा०
ङीष् । “सञ्चारो यत्र लोकानां दूरादेववबुध्यते ।
प्रगण्डी सा च विज्ञेया बहिःप्राकारसंज्ञिता । प्रणिधि-
स्तत्र यत्नेन कर्त्तव्यो भूतिमिच्छता । स एवाकाशरक्षीति
ह्युच्यते शस्त्रकोविदैः” भा० टी० धृतवाक्यम् । “प्रगण्डीः
कारयेत् सम्यगाकाशजननीस्तथा” भा० शा० ६९ अ० ।
“प्रगण्डीर्दुर्गप्राकारभित्तौ शूराणासुपवेशनस्थानानि ।
आकाशजननीस्तत्रैवैककक्षायां भित्तौ तत्रत्यानां रक्षण-
भूतायां बाह्यार्थदर्शनार्थानि क्षुद्रछिद्राणि यद्द्वारा
आग्नेयास्त्रगुलिकाः प्रक्षिप्यन्ते” नीलकण्ठः ।

प्रगतजानु(क) त्रि० प्रगते परस्परमसंशिष्टे जानुनी यस्य

वा कप् । असंहतजानुके प्रज्ञौ यस्य जानुनोर्मध्ये
महदन्तरालं तस्मिन् अमरः ।

प्रगन्ध पु० प्रकृष्टो गन्धोऽस्य । १ पर्पटे राजनि० । २ प्रकृष्टगन्धयुक्ते त्रि० ।

प्रगल्भ त्रि० प्र + गल्भ--अच् । १ प्रत्युत्पन्नमतौ २ प्रतिभान्विते

च अमरः । २ नायिकाभेदे स्त्री तल्लक्षणादि नायिका-
शब्दे ४०४३ पृ० दृश्यम् ।

प्रगल्भता स्त्री प्रगल्भस्य भावः तल् । १ औद्धत्ये २ उत्साहे

च हेमच० । “निःशङ्कता प्रयोगेषु बुधैरुक्ता प्रगल्भता”
उज्ज्वलमण्युक्ते प्रयोगेषु ३ निःशङ्कत्वे च ४ प्रतिभा-
न्वितत्वे च ।

प्रगाढ़ त्रि० प्रकर्षेण गाढ़म् गाह--क्त । १ अत्यन्तभृशे २ कृच्छ्रे

च अमरः । ३ दृढ़े भरतः ।

प्रगातृ त्रि० प्र + गै तृच् । उत्तमगायके शब्दरत्ना० ।

प्रगाथ पु० प्र + ग्रन्थ--बा० आधारे घञ् “छन्दसः प्रगाथेषु”

निर्देशात् नि० नरयोर्लोपे उपधावृद्धिः । वेदे द्वे ऋचौ यत्र
तिस्रः क्रियन्ते १ तत्रार्थे विस्तरस्तु सामसंहिताभाष्ये
दृश्यः । दिङ्मात्रं ततः समाहृत्येहोच्यते । “काकुभः
प्रगाथः” इत्यत्र प्रगाथशब्दार्थपर्य्यालोचनेनापि ग्रथनं
गम्यते प्रकर्षेण ग्रथनं यत्र स प्रगाथः प्रकर्षो नाम आ-
म्नातादृकपाठादाधिक्यम्, तच्च पूर्वोक्तरीत्या पादाभ्यासपु-
रःसरमृगन्तरसम्पादनेनोपजायते । तस्मान्नोत्पत्तिककुभौ
ग्रहीतव्ये किन्तर्हि प्रग्रथेन द्वे उत्तर ककुभौ सम्पाद्य
तासु तिसृषु रथन्तरं गातव्यम् । रौधसनामकं किञ्चित्
साम तथा यौधाजयनामकमपरम् तयोः साम्नोर्वृहती-
च्छन्दस्कस्तृच आश्रय इति उत्तराग्रन्थे तु तस्य
सासद्बयस्याश्रय एकः प्रगाथः आम्नातः तस्यिंश्च प्र०
भाथे पुनानः सोमेत्यसावृक प्रथमा सा च वृहती “दुहान
उधदिव्यमिति” द्वितीया सा तु विष्टारपङ्क्तिः तामेतां
विष्टारपङ्क्तिमपनीय तस्याः स्थाने उत्पत्तिवृहत्यौ द्वे
ऋचौ आनेतव्ये इति पूर्वपक्षः । वृहतीविष्टारपङ्क्त्याः
प्रग्रथनविशेषेण द्वे वृहत्यावुत्तरे सम्पादनीये इति
राद्धान्तः । प्रगाथत्वेन ध्येये २ मन्त्रे च यजु० १९ । २४ वेददी०

प्रगुण त्रि० प्रस्तती गुणो यत्र प्रकृष्टो गुणो यस्य वा प्रा० ब०

१ ऋजतावति २ दक्षे च अमरः । प्रकृष्टगुणोऽप्यत्र ।

प्रगृह्य न० प्र + ग्रह--क्यप् । व्याकरणीक्ते खरसन्धिराहित्य-

योग्ये १ पदभेदे २ स्मृतौ ३ वाक्ये च अमरः ।

प्रगे अव्य० प्रगीयतेऽत्र प्र + गै--के । अतिप्रातःकाले अमरः ।

तत्र भवः ट्यु तुट् च । प्रगेतन प्रातर्भवे त्रि० राजनि०

प्रगेनिशा त्रि० प्रगे प्रातः कालो निशेव स्वापहेतुर्यस्य । प्रातः-

कालशायिनि । “उत्सूर्य्यशायिनश्चासन् सर्वे चासन्
प्रगेनिशाः” भा० शा० २२८ अ० ।

प्रग्रथन न० प्रकर्षेण ग्रथने । प्रगाथशब्दे दृश्यम् ।

प्रग्रह पु० प्र + ग्रह कर्मकरणादौ पक्षे अप् । १ तुलासूत्रे

२ हयादिसंयमनरज्ज्वौ ३ वन्द्यां च अमरः । ४ नियमने ५ भुजे
६ सुवर्णालवृक्षे मेदि० । ७ कर्णिकारवृक्षे राजनि० । प्र +
ग्रह--कर्त्तरि अच् । ८ विष्णौ “प्रग्रहो निग्रहो व्यग्रः”
विष्णुस० “भक्तैरुपाहुतं पत्रपुष्पादिकं प्रगृह्णातीति
प्रग्रहः” भा० ।

प्रग्राह पु० प्र + ग्रह--कर्मकरणादौ वा घञ् । १ तुलासूत्रे २ हयादिसंयमनदामनि च अमरः ।

प्रग्रीव पु० न० प्रकृष्टा ग्रीवा यस्य । १ गृहादौ प्रान्तधार्य्यादारु-

पङ्क्तौ २ वातायने सुभतिः ३ वृक्षशीर्य्यके गोवर्द्धनः ।
४ प्रकृष्टग्रीवान्विते त्रि० ।

प्रघटाविद् पु० प्रकृष्टा घटा आड़म्बरः तां वेत्ति विद--क्विप् ।

शास्त्रगण्डे शास्त्राभिज्ञे त्रिका० ।

प्रघट्टक पु० प्र + घट्ट--ण्वुल् । एकार्थप्रतिपादनार्थग्रन्थाव-

यवभेदे सां० प्र० भाष्ये दृश्यम् ।
पृष्ठ ४४३२

प्रघ(घा)ण(न) पु० प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते

हन--कर्मणि घञ् अप् वा णत्वम् । १ अलिन्दै अमरः ।
२ प्रकोष्ठे सि० कौ० । अबन्तः ३ ताम्रकुम्भे ४ लोहमुद्गरे
च मेदि० । मुकुटमतेऽयमणत्वमध्यः ।

प्रघस पु० प्र + अद--अप् घसादेशः । १ प्रकृष्टभक्षणे २ राक्ष-

सभेदे पु० भा० व० २८४ अ० ३ असुरे ४ दैत्ये च त्रिका०
कुमारानुचरमातृभेदे स्त्री भा० श० ४७ अ० ।

प्रघात न० प्रहन्यतेऽत्र हन--आधारे घञ् । १ युद्धे हेमच०

भावे घञ् । २ प्रहनने पु० ।

प्रघास पु० प्र + घस--कर्मणि घञ् । प्रकर्षेण भक्षणीये

हविरादौ वरुणप्रघासश्चातुर्मास्ययागभेदः । प्रघासोऽस्यास्ति
भूम्ना इनि । प्रघासिन् मरुत्सु “प्रघासिनोहवामहे
मरुतश्च” यजु० ३ । ४४ वेददीषे दृश्यम् ।

प्र(प्रा)घुण पु० प्र ( + आ + वा) घुण--क । अतिथौ हेमच० ।

प्रघूर्ण पु० प्र + घूर्ण--अच् । अतिथौ हेमच० ।

प्रघोष पु० प्र + घुष--भावे घञ् । १ प्रकृष्टघोषणे अल्पार्थे

कन् । २ अव्यक्तशब्दे ध्वनौ जटा० ।

प्रचक्र न० प्रगतश्चक्रं प्रा० स० । स्वचक्रात् परचक्रं प्रति

चलिते सैन्ये असरः ।

प्रचक्षस् पु० प्र + चक्ष--असि न ख्यादेशः । वृहस्पतौ उणादि०

प्रचण्ड त्रि० प्रकर्षेण चण्डः प्रा० स० । १ दुर्द्ध्वर्षे २ दुर्वहे ३

दुरन्ते ४ प्रतापान्विते च ५ श्वेतकरबीरे पु० मेदि० ६ दुर्गाया
नायिकाभेदे स्त्री “उग्रचण्डा प्रचण्डा च चण्डोग्रा
चण्डनायिका” कालिकापु० । ७ श्वेतदुर्वायां स्त्री राजनि० ।

प्रचण्डमूर्त्ति पु० प्रचण्डा मूर्त्तिरस्य । १ वरुणवृक्षे २

भयानकदेहे त्रि० शब्दच० ।

प्रच(चा)य पु० प्र + चि- “हस्तादाने चेरस्तेये” पा० हस्तादाने

अस्तेये घञ् अन्यत्र “एरच” पा० अच् । तत्र अजन्तः
यष्ट्यादिना वृक्षाग्रस्थानां पुष्पाणां १ चयने २ ससूहे
शब्दच० ३ उपचये ४ शिथिलसंयोगभेदे परिमाणशब्दे
७२५० पृ० दृश्यम् “संख्यातः परिमाणाच्च प्रचयादपि
जायते । प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।
परिमाणन्तूलकादौ नाशस्त्वाश्रयनाशतः” भाषा० हस्ता-
दाने तु घञ् । हस्तेन पुष्यप्रचाय इत्येव चौर्य्ये तु अच् ।
प्रचय इत्येव चौर्येण हस्तेन पुष्पादेश्चयने ।

प्रचर पु० प्र + चर + गोचरप्रचरौ नि० आधारेअप् । मार्गे धरणिः ।

प्रचल त्रि० प्र + चल--अच् । प्रकृष्टचलनयुक्ते चञ्चले ।

प्रचलक पु० प्र + चल + बा वुन् । कीटभेदे सुश्रुतः कीटशब्दे

२०५८ पृ० दृश्यम् ।

प्रचलाक पु० प्र + चल--बा० आकन् । १ शराघाते २ मयूर-

शिस्वण्डे ३ भुजङ्गमे पुंस्त्री० मेदि० स्त्रियां ङीप् ।

प्रचलाकिन् पु० प्रचलाक + मत्वर्थे इनि । मयूरे त्रिका० ।

प्रचलाय नामघातुः प्रचल + भृशा० अभूततद्भावे क्यङ् आ०

अक० सेट् । प्रचलायते अप्रचलायिष्ट प्राचलायिष्ट इत्यन्ये

प्रचलाषित त्रि० प्रचलाय + नामधातुः कर्त्तरि क्त । निद्रा-

दिना घूर्णिते अमरः ।

प्रचायिका स्त्री प्र + चि + भावे ण्वुच् । १ परिपाट्या

पुष्पादेश्चयने । प्र + चि--ण्वुल् टाप् कापि अत इत्त्वम् ।
प्रचयनकर्त्त्यां २ स्त्रियां स्त्री ।

प्रचार पु० प्र + चर--भावे घञ् । १ प्रसरणे २ गतौ ३ प्रकाशे

च । ततः तारका० इतच् । प्रचारित सञ्जातप्रचारे
त्रि० । प्रकाशिते च ।

प्रचाल पु० प्रकृष्टचालः । यूपस्य कटकभेदे । भा० द्रो० ६१ अ० ।

प्रचिकीर्षु त्रि० प्र + कृ--सन् + उ । प्रतीकारेच्छौ भाग० ४ । १० । १४

प्रचित त्रि० प्र + कर्मणि क्त । १ कृतप्रचयने पुष्पादौ स्वार्थे क

तत्रार्थे । २ प्रचयस्वरयुक्ते त्रि० । संज्ञायां कन् । दण्ड-
कभेदे “प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डकी
नद्वयादुर्त्तरैः” वृ० र० ।

प्रचीबल न० प्रचेयं बलं यत्र पृषो० । वीरणे (वेणार मूल) सुश्लतः ।

प्रचीर पु० वत्सप्रीनृपस्य १ सुनन्दागर्भजाते २ पुत्रे नृपभेदे

मार्कपु० ११८ अ० ।

प्रचुर त्रि० प्र + चुर--क प्रगतश्चुराया वा प्रा० त० । १ चौरे २ बहुले अमरः ।

प्रचुरपुरुष पु० प्र + चुर--क नित्यक० । चौरे त्रिका० ।

प्रचेतसी स्त्री प्रकर्षेण चेतयति सूर्च्छितं चित--णिच्--असच्

गौरा० ङीष् । कट्फले राजनि० तच्चूर्णस्य हि मूर्च्छा-
नाशकता वैद्यकप्रसिद्धेति तस्यास्तथात्वम् ।

प्रचेतस् पु० प्र + चित--असुन् । १ वरुणे कमरः । २ सुनिभेदे

३ प्रकृष्टहृदये त्रि० मेदि० । ४ अनुवंश्ये नृपभेदे हरिवं०
३२ अ० । ५ प्राचीनबर्हिषः सामुद्रीभार्य्यायां जातेषु
पुत्रेषु राजभेदेषु ब० व० । हरिवं० २ अ० । ६ प्रकृष्टज्ञान-
युक्ते ऋ० २ । २३ । २ भा० ।

प्रचेतृ त्रि० प्र + चि--तृच् । १ प्रचयनकर्त्तरि २ सारथौ पु० हेमच०

प्रचेतुन त्रि० प्र + चित--उन । प्रकृष्टज्ञानयुक्ते ऋ० १ । २१ । ६

प्रचेल न० प्र + चिल--चेल--वा अच् । पीतकाष्ठे शब्दच० ।

प्रचेलक पुंस्त्री० प्र + चेल--गतौ ण्वुल् । १ घोटके शब्दमा० ।

स्त्रियां जातित्वात् ङीष् । २ प्रकृष्टगतियुक्ते त्रि० स्त्रियां
टाप् ।
पृष्ठ ४४३३

प्रचोदक त्रि० प्र + चुद--प्रेरणे ण्वुल् । १ प्रेरके स्त्रियं टापि

अत इत्त्वम् । प्रचोदिका । सा च दुःसहस्त नियो-
जिताख्यायां कन्यायां जाते २ कन्याभेदे मार्कपु० ५१ अ० ।

प्रचोदनी स्त्री प्रचीद्यते अपसार्य्यते रोगोऽनया चुद--णिच्

ल्युट् ङीप् । १ कण्टकारिकायाम् अमरः । भावे ल्युट् ।
२ प्रेरणे न० ।

प्रच्छ जिज्ञासायां तु० पर० द्विक० अनिट् । पृच्छति अप्राक्षीत् ।

पप्रच्छ । द्विकर्मकत्वेन दुहादि० गोणे कर्मणि लकारादि ।
पृच्छ्यते शिष्येण गुरुः धर्मं, जिज्ञासाविषयकज्ञानानु-
कूलव्यापारः कथं धर्म आचरितव्य इमित्यभिलापादिः
पृच्छेरर्थः, ज्ञानविषयत्वेन धर्मस्य, तज्ज्ञानाश्रयत्वाच्च
गुरोः कर्मत्वम् ।

प्रच्छद् न० प्रच्छादयति प्र + छादि--क्विप् ह्रस्वः । अन्ने

“अन्नं वा प्रच्छच्छन्दोऽन्नं प्रच्छद् इति श्रुतेः” यजु० १
५ । ५ वेददीपे दृश्यम् ।

प्रच्छद पु० प्रच्छाद्यतेऽनेन प्र + छद--णिच्--करणेघ ह्रस्वः । आच्छादने वस्त्रादौ ।

प्रच्छदपट पु० प्रच्छाद्यतेऽनेन प्र + छद--णिच्--घ ह्रस्वः कर्म० ।

(पाचुडि) प्रावरणवस्त्रे अमरः ।

प्रच्छना स्त्री प्रच्छ + वा० ल्यु । आमन्त्रणे जटा० ।

प्रच्छन्न न० प्र + छद्र--क्त । १ गुप्तद्वारे २ अन्तर्द्वारे । ३ आच्छन्ने

त्रि० अमरः ।

प्रच्छर्दन न० प्र + छर्द--भावे ल्युट् । १ वमने २ कोष्ठ्यस्य वायो-

र्नासिकापुटाभ्यां निःसारणप्रयत्नभेदे रेचने “प्रच्छर्दनवि-
धारणाभ्यां वा प्राणस्य” पात० सूत्रे भाष्यं दृश्यम् ।
कुम्भकशब्दे २११४ पृ० दृश्यम् ।

प्रच्छर्दिका स्त्री प्र + छर्द--रोगाख्यायां ण्वुल्” पा० ण्वुल्

तदन्तः स्त्री । १ वमनरोगे अमरः । कर्त्तरि ण्वुल् । २ प्र
च्छर्दके वमनकारके त्रि० स्त्रियां टाप् कापि अत इत्त्वम् ।

प्रच्छाद्रन न० प्रच्छाद्यतेऽनेन छद--णिच्--ल्युट् । १ उत्तरीय-

वस्त्रे हेमच० भावे ल्युट् । २ आच्छादने “नवोदके
नवान्ने च गृहप्रच्छादने तथा” स्मृतिः ।

प्रच्छान न० प्र + च्छो--भावे ल्युट् । १ प्रकृष्टच्छेदने २ सुश्रुतोक्ते

शस्त्रविस्रावणभेदे “तच्च द्विविधं शस्त्रविस्रावणं सिरा-
व्यधनञ्च” सुश्रुतः ।

प्रच्छिल त्रि० प्रच्छ वा० इलच् । निर्जले जलशून्ये हेमच०

प्रच्यय पु० प्र + च्यु--अच् । १ प्रच्युतियुते । भावे अप् ।

२ प्रक्षरणे स्यभावक्षरणे “प्रकृतेः स्यभावप्रच्यव” इति सां०
प्र० भाष्वम् । मावे ल्युट् । प्रच्यवन क्षरचे न० ।

प्रज पु० प्रविश्य जायायां जायते जन--ड । पत्यौ भरतः

प्रजङ्घ पु० प्रकृष्टा जङाऽस्य । राक्षसभेदे रामा० ल० १८ श्लो० ।

प्रजग्मि त्रि० प्र + गम--ज्ञाने कि द्वित्वम् उपधालोपः । प्रज्ञा-

शीले शत० ब्रा० ५ । १ । १ । १५

प्रजन पु० प्र + जन--घञ् न वृद्धिः । १ प्रजनने । प्रजायतेऽनेन

करणे घञ् । स्त्रीनव्यादिषु २ पुङ्गवादीनामभिगमने गर्भ-
ग्रहणार्थमैथुने २ उपसरे (पालदेओया) अमरः ।

प्रजनन न० प्रजायतेऽत्र प्र + जन--आधारे ल्युट् । १ योनौ

भावे ल्युट् । २ जन्मनि मेदि० । करणे ल्युट् । ३ उपसरे
विश्वः । जनयति जनि--ल्यु । ४ जनके त्रि० यजु० १९ । ४८

प्रजनिका स्त्री प्रजनयति प्र + जनि--ण्वुल् । मातरि जटा० ।

प्रजनिष्णु त्रि० प्र + जन--इष्णुच् । जनने शत० ब्रा० ६ । ४ । १७

प्रजनुक त्रि० प्र + जन बा० उक । प्रजननशीले हेमच० ।

प्रजनू स्त्री प्र + जन--बा० ऊ । प्रजनने तैत्ति० ३ । ११ । ४२

प्रजय पु० प्र + जि--अच् । प्रकृष्टजये थाथादि० अन्तोदात्ततास्य ।

प्रजल्प पु० प्र + जल्प--भावे घञ् । “असूयेर्ष्यामदयुजा योऽवधी-

रणमुद्रया । प्रियस्य कौशलोद्गारः प्रजल्पः स तु कथ्यते”
उज्ज्वलमणिलक्षिते १ वाक्यभेदे २ प्रकृष्टकथाभेदे च ।

प्रजविन् त्रि० प्र + जू--इनि । प्रकृष्टवेगयुक्ते अमरः ।

प्रजहित पु० १ पुराणे २ गार्हपत्ये वह्नौ ताण्ड्य० ब्रा०

१ । ४ । १० भाष्यधृतवाक्यं दृश्यम् ।

प्रजा स्त्री प्र + जन--ड । १ सन्ततौ २ जने च अमरः “नञ्दुःसुभ्यः

परस्य बहु० असिच्समा० । अप्रजाः दुः प्रजाः । ३ जनने च

प्रजागर पु० प्र + जागृ--अप् । प्रकर्षेण जागरणे १ निद्रा-

क्षये हला० । कर्त्तरि अच् । २ विष्णौ “पुष्पहासः प्रजा-
गरः” विष्णुस० “नित्यं प्रबुद्धत्वात् प्रजागर्त्तीति प्रजा-
गरः” भा० प्रजागरयति णिच्--अच् । ३ अप्सरोभेदे स्त्री
भा० व० ४३ अ० ।

प्रजाता स्त्री प्रजातं प्रजननं गर्भमोचनमस्त्यस्याः अर्श

आद्यच् । १ प्रसूतायां स्त्रियाम् हला० । प्र + जन--क्त ।
प्रकर्षोण ३ जाते त्रि० । ३ अश्वभेदे पु० “बडवायां
कृतरेतस्कन्दनः प्रजात इत्युच्यते” कात्या० श्रौ० २०३ । २० भाष्यम्

प्रजातन्तु पु० प्रजायाः प्रजननस्य तन्तुरिव । सन्ताने

तैत्तिरोष० ।

प्रजाति स्त्री प्र + जन--क्तिन् । १ प्रजायां २ प्रजनने च

३ पौत्रोत्पत्तौ “प्रजा च स्वाध्यायवचने च प्रजनश्च स्वा-
ध्यायवचने च प्रजातिश्च स्वाध्यायवचने च” तैत्ति
रोप“तत्र प्रजा खवहुत्पाद्या प्रजनश्च प्रजननमृतौ भार्य्या-
पृष्ठ ४४३४
गमनं प्रजातिः पौत्रोत्पत्तिः” भा० । ४ पुत्रादिवृद्धौ शत०
ब्रा० ७३१ ४६ । ५ प्रांशुनृपपुत्रभेदे पु० मार्क० पु० ११८ अ०

प्रजादा स्त्री प्रजां तद्धेतुगर्भं ददाति सेवनात् दा--क ।

गर्भधात्रीवृक्षे राजनि० ।

प्रजादान न० ६ त० । १ प्रजाया दाने २ आदाने च । प्रजातः

जन्मतः दानं शुद्धिरस्य । ३ रजते न० शब्दच० ।

प्रजानाथ पु० ६ त० । लोकनाथे नृपे प्रजाप्रालादयोऽप्यत्र ।

प्रजाप पु० प्रजां पाति पा--क । नृपे हेमच० ।

प्रजापति पु० ६ त० । १ चतुर्मुखे ब्रह्मणि अमरः । २ दक्षादौ

३ नृपे च मेदि० । ४ जामातरि ५ सूर्य्ये ६ वह्नौ ७ त्वष्टरि
हेमच० । प्रजापतयश्च बहुविधाः यथीक्तम् “आत्मार्थे
चासृजत् पुत्रान् लोककर्तॄन् पितापहः । विश्वे प्रजानां
पतयो येभ्यो लोका विनिःसृताः । विश्वेशं प्रथमं नाम
महातपसमात्मजम् । सर्वाश्रमपदं पुण्यं नाम्ना धर्मं स
सृष्टवान् । दक्षं, मरीचिमत्रिञ्च पुलस्त्यं पुलहं क्रतुम् ।
बशिष्ठं गौतमञ्चैव भृगुमङ्गिरसं मनुम् । अथर्वभूता
इत्येते ख्याताश्चैव महर्षयः । त्रयोदश सुता येषां वंशास्तु
संप्रतिंष्ठिताः” हरिवं० २०४ अ० “ससर्ज सृष्टिं तद्रूपं
स्रष्टुमिच्छन् प्रजापतीन् । मरीचिमत्र्यङ्गिरसं पुलस्त्यं
पुलहं क्रतुम् । वसिष्ठञ्च महातेजाः सोऽसृजत् सप्त-
मानसान् । सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः”
हरिवं १ अ० । एकविंशतिः प्रजापतयो यथा “ब्रह्मा
स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तथा यमः । मरीचिरङ्गिरात्रिश्च
पुलस्त्यि पुलहः क्रतुः । वशिष्ठः परमेष्ठी च
विवस्वान् सोम एव च । कर्दमश्चापि यः प्रोक्तः क्रोधोऽ-
र्वाक् क्रीत एव च । एकविंशतिरुत्पन्ना ते प्रजापतयः
स्मृताः” महाभारते मोक्षधर्मः । अन्येऽपि प्रजापतयः
पुराणादौ प्रसिद्धा यथा “शंयुः प्रजापतिः” श्रुतिः ।
८ विष्णौ पु० “पद्मनाभः प्रजापतिः” विष्णुस० । ९ यज्ञे
निघण्टुः । १० स्वनामख्याते कीटभेदे ।

प्रजापतिहृदय न० सामभेदे “प्रजापतेर्हृदयं गायति”

शत० ब्रा० ९ । १ । २ । ४० “प्रजासु च प्रजापतौ च गायति
प्रजापतेर्हृदयमिति किञ्चित् साम तदप्यत्र गायेत् ।
प्रजापतेर्ह्वदयं गायत्रादि सामवत् कस्यांचिदृचि न
गीयते अपि तु केवलं प्रजाशब्दे प्रजापतिशब्दे च
गीयते” भा० ।

प्रजावत् पुं स्त्री० प्रजाऽस्त्यस्य मतुप् मस्य वः । १ सन्तानयुक्ते

स्त्रियां ङीप् । ङीबन्तः । २ भ्रावृजायायाभ् स्त्री अपरः ।
३ प्रकृतियुक्ते नृपे पु०

प्रजासनि त्रि० प्रजां सनीति ददाति सन--इन् । सन्तानदायके यजु० १९ । ४८ ।

प्रजाहित त्रि० प्रजायै हितम् । सन्तानजनयोर्हितकारके

जले न० शब्दमाला ।

प्रजिन पु० प्र + ज्या--बा० नक् सम्प्र० । वायौ शब्दमा० ।

प्रजेश पु० ६ त० । नृपे प्रजेश्वरादयोऽप्यत्र त्रिका० ।

प्रज्ञ त्रि० प्रजानाति प्र + ज्ञा कर्त्तरि क । १ प्रज्ञायुते प्रज्ञ

एव प्रज्ञादि० स्वार्थे अण् । प्राज्ञ तत्रार्थे त्रि० भाये
अङ् । २ बुद्धौ स्त्री । प्रज्ञा अस्त्यस्य प्रज्ञा० ण । प्राज्ञ
प्रज्ञायुते त्रि० ।

प्रज्ञप्ति स्त्री प्र + ज्ञपि--भावे क्तिन् । १ बुद्धौ हेमच०

“ऋतम्भरा तत्र प्रज्ञा” पात० सू० “तत्र सप्तधा प्रान्तभूमिः
प्रज्ञा” पात० सू० । २ सङ्केते ३ देवीभेदे च त्रिका० ।

प्रज्ञाकाय पु० प्रज्ञा काय इव यस्य । मञ्जुघोषे त्रिका० ।

प्रज्ञाचक्षुस् पु० प्रज्ञैव चक्षुरिवास्य । धृतराष्ट्रे शब्दर० ।

प्रज्ञादि पु० स्वार्थऽण्प्रत्ययनिमित्ते १ शब्दगणे स च गणः

“प्रज्ञ वणिज् उशिज् उष्णिज् प्रत्यक्ष विद्वस् विदन् षोङन्
विद्या मनस् (श्रोत्र शरीरे) (जुह्वत् कृष्णमृगे) चिकीर्षत्
चोर शत्रु योध चक्षुस् वसु एनस् मरुत् क्रुञ्च
सत्वत् दशार्ह वयस् व्याकृत असुर रक्षस् पिशाच
अशनि कर्षापण देवता बन्धु! । अस्त्यर्थे णप्रत्ययनि-
मित्ते २ शब्दगणे च । स च गणः प्रज्ञा श्रद्धा (ऋचः
आर्च्चः) (वृत्तेश्च वार्त्तः)” वार्त्ति० ।

प्रज्ञान न० प्र + ज्ञा--भावे ल्युट् । १ बुद्धौ । करणे ल्युट् ।

२ चिह्ने अमरः । प्रज्ञानमस्त्यस्य अच् । ३ पण्डिते द्विरूपकोषः

प्रज्ञाल त्रि० प्रज्ञाऽस्त्यस्य सिध्मा० लच् । बुद्धियुते त्रि० ।

प्रज्ञिन् त्रि० प्रज्ञाऽस्त्यस्य इनि । पण्डिते द्विरूपको० पक्षे मतुप्

मस्य वः । प्रज्ञावत् तत्रार्थे उभयतः स्त्रियां ङीप् ।

प्रज्ञिल त्रि० प्रज्ञा + स्त्यर्थे पिच्छा० इल । बुद्धियुते

प्रज्ञु त्रि० प्रगते विरले जानुनी यस्य जानुनोज्ञुः । विरल-

जानुके जने अमरः ।

प्रडीन न० प्र + डी--क्त । खगगतिभेदे खगगतिशब्दे दृश्यम् ।

प्रण त्रि० पुराभवः प्र + “नश्च पुराणात् प्रात्” ५ । ४ । ३०

वार्त्ति० न । पुराणे प्राचीने चकारात् पक्षे त्न प्रत्न + ख
प्रीण तत्रार्थे त्रि० ।

प्रणख पु० प्रकृष्टः नखः पूर्वपदात् णत्वम् । नखाग्रे “आप्र-

णखात् सर्व एव सुवर्णः” छान्दो० ।
पृष्ठ ४४३५

प्रणत त्रि० प्र + नम--कर्त्तरि क्त । कृतप्रणामे त्रिका० । प्रह्वे २ विनययुते च ।

प्रणति स्त्री प्र + नम--भावे क्तिन् । प्रणामे करशिरःसंयो-

गादिरूपे स्वापकर्षबाधकव्यापारे ।

प्रणदन पु० प्र + नद--भावे ल्युट् । प्रणादे अमरः ।

प्रणपात् त्रि० प्रकर्षेण नपात् नभ्राडित्यादिना नस्य प्रकृति

भावः पूर्वपदात् णत्वम् । प्रकर्षेण न पातयितरि ऋ०
८ । १७ । १३

प्रणय पु० प्र + नी--अच् । १ प्रेम्णि अमरः ३ प्रार्थनायां ३ विश्वासे ४ निर्वाणे च मेदि० ।

प्रणयन न० प्र + नी--भावे ल्युट् । १ प्रकर्षेण नयने २ करणे च

३ अग्नेः संस्कारभेदकरणे कात्या० श्रौ० ६ । १०१४ ।

प्रणयनीय त्रि० प्र + नी कर्मणि अनीयर् । १ प्रकर्षेण नेतव्ये

२ संस्कार्य्ये वह्नौ च प्रणयनस्य वह्निसंस्कारस्येदम् छ ।
३ वह्निसंस्कारसम्बन्धिनि इध्मकाष्ठादौ कात्या० १ । ३ । २१

प्रणयिन् त्रि० प्रणयोऽस्त्यस्य सुखा० गणे पाठात् “नैका-

क्षरात् कृतोजातेरिति” निषेधस्याप्रवृत्तेः इनि । १ प्रण-
ययुते २ स्वामिनि पु० हेमच० । ३ भार्य्यायां स्त्री ङीप् ।

प्रणव पु० प्रकर्षेण नूयतेऽबेन प्र नु अप् । १ ओङ्कारे वेदादौ

षाट्ये शब्दभेदे अमरः । १५५८ पृष्ठादौ दृश्यम् । उद्गा-
त्रादीनां गानारम्भात् प्राक् यजमानेन ओमित्युक्त्वा गेये
२ सामावयवभेदे च । प्रणूयते प्र + णू--कर्मणि अष्,
प्रणवबाच्यत्वाद्वा । ३ परमेश्वरे पु० “प्राणदः प्रणवः पृभृः”
“प्राणदः प्रणवः पण” विष्णु स० । द्विधा व्युत्पत्तियोगात्
द्वेनामनी ।

प्रणस त्रि० प्रगता नासिका अस्य नसादेशः अच्समा० णत्वम् । प्रततनासिके

प्रणाङी स्त्री प्रणाली + लस्य डः । १ प्रणालीशब्दार्थे २ द्वार-

मात्रे च “तस्यां स्थितौ व्य प्रिवमाणं धनं प्रणाड्या
प्रतिग्रहं निष्प दयति” दायभागः ।

प्रणाद पु० प्र + नद-वञ् । असुरागजे शोत्कृतादौ १ शब्दे

अमरः । “अनुरागकृते शब्दे प्रणादः शीत्कृतो नृणा-
मिति शब्दार्णवः । २ तारशब्दे ३ श्रवणामये च मेदि० ।
श्रवणामयश्च कर्णनादः “कंर्णस्रोतः स्थित वाते
शृणोति विविधान् स्वरान् । भेरोमृदङ्गशब्दानां कर्ण-
नादः स उच्यते” सुश्रुवः ।

प्रणाम पु० प्र + आम--भावे घञ् । प्रणबौ १ स्वापकर्षबोधकव्यापारे

करशिरःसंयोगादौ “पद्ग्यां कराभ्यां जासुभ्यामुरसा
शिरदा दृशा । वचसा मनसा चैव प्रणामोऽष्टाङ्ग उच्यते”
इत्युक्ते २ अष्टाङ्गव्याषारभेदे च प्रणामश्च चतुर्द्धा
भिवादनम् अष्टाङ्ग पच्चाङ्गः करशिरसंयोनश्च । तत्रा-
भिवादनशब्दे अभिवादनलक्षणं दृश्यम् । अष्टाङ्गलक्षणम-
त्रोक्तं तृतीयो यथा “घाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा
दृशा । पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवरः स्मृतः” ।
नतिविशेषस्तु जामले “त्रिकोणाकारा सर्वत्र नतिः शक्तेः
समीरिता । दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च
शाम्भवीम् । ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत्”
एकहस्तबणामनिषेधो यथा “एकहस्तप्रणामश्च एक”
वापि प्रदक्षिणम् । अकाले दर्शनं विष्णोर्हन्ति पुण्यं
पुराकृतम्” इति तन्त्रसारः । स च कायिकवाचिकमान-
सभेदेन प्रत्येकं त्रिविधः यथा “कायिको वाग्भवश्चैव
मानसस्त्रिविधः स्मृतः । नमस्कारस्तु तत्त्वज्ञैरुत्तमाधमम-
ध्यमः । प्रसार्य्य पादौ हस्तौ च पतित्वा दण्डवत्
क्षितौ । जानुभ्यामवनीं गत्वा शिरसाऽऽस्पृश्य मेदि-
नीम् । क्रियते यो नमस्कार उत्तमः कायिकस्तु सः ।
जानुभ्यां क्षितिमस्पृष्ट्वा शिरसाऽऽस्पृश्य मेदिनीम् ।
कियते यो नमस्कारो मध्यमः कायिकस्वु सः । पुटीकृव
करौ शीर्षे दीयेते यद्यथा तथा । अस्पृष्ट्वा जानुशी-
र्षाभ्यां क्षितिं सोऽधन उच्यते । यः स्वयं गद्यपद्याभ्यां
घटिताभ्यां नमस्कृतिः । क्रियते भक्तियुक्तैर्वा वाचिक-
स्तूत्तनः स्मृतः । पौराणिकैर्वेदिकैर्वा मन्त्रैर्या क्रियते
नतिः । मध्यनोऽसौ नमस्कारो भवेद्वाचनिकः सदा ।
स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्रकौ! । इष्टम-
ध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः । मननं मानसं प्रोक्तमु-
त्तमाधममव्यमम् । त्रिविधे च नमस्कारे कायिकश्चोत्तमः
स्मृवः । कायिकैस्तु नमस्कारैर्देवास्तुयन्ति नित्यशः ।
अवमेव नमस्कारो दण्डादिप्रतिपत्तिभिः । प्रणाम इति
विज्ञेयः सपूर्वं प्रतिपादितः” कालिकापु० ७० अ० ।
शूदसस्कृतपूजितदवताप्रणामनिषेधो यथा “यः शूद्रोणार्च्चितं
लिङ्गं विष्णुं वा प्रणमेद्यदि । निष्कृतिस्तस्य
नास्त्येव प्रायश्चित्तायुतैरपि” इति कर्मलोचनम् । “नमेत्
यः शूद्रसंस्कृतम्” इत्यादि च ।

प्रणाय्य त्रि० प्र + नी--यथा “प्रणाय्योऽसम्मतो” पा० नि० ।

१ चौरे २ प्रोंत्यर्हे ३ विरक्ते च सि० कौ० ४ अभिलाषवर्जिते-
मेदि० । ५ साधौ त्रिका० ६ प्रिये च । असम्मतिभिन्नेषु
प्रणेय इत्येव ।

प्रणाली स्त्री प्र + नल--घञ् गो रा० ङीष् णत्वम् । १ जलवहनमार्गे

(पयनाला) अमरः २ परम्पयाञ्च । प्रणालोऽप्यत्र पु० ।
पृष्ठ ४४३६

प्रणिधान न० प्रणिधीयते प्र + नि + धा--ल्युट् । १ प्रयत्ने २ अ-

भिनिवेशे ३ योगशास्त्रोक्ते चिन्तनविशेषरूपे समाधिभेदे
४ भक्तिविशेषे च “ईश्वरप्रणिधानाद्वा” पात० “प्रणिधा-
नात् भक्तिविशेषात्” भाष्यम् । ५ अर्पणे ६ कर्मणां फलत्यागे
च “तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” पात०
“इत्वरप्रणिधानं सर्वक्रियाणां तस्मिन् परमगुरावर्पणं
फलसन्न्यासो वा” भा० ७ मनसो विषयान्तरसञ्चारा-
भावरूपे ऐकाग्र्ये च गौत० ३ । २ । ३६ सूत्रवृत्तिः ।

प्रणिधि पु० प्रणिधीयते प्र + नि + धा-कि । १ गुप्तचरे अमरः ।

२ अनुचरे च । भावे कि । ३ याचने ४ अवधाने च मेदि० ।
काश्यपस्य वृहद्रथस्य ५ पुत्रभेदे भा० व० २१९ अ० ।

प्रणिपात पु० प्र + नि + पत--घञ् । प्रणामे हेमच० “तद्विद्धि

प्रणिपातेनेति” गीता ।

प्रणिहित त्रि० प्र + नि + धा--क्त । १ प्राप्ते २ स्थापिते ३ समाहिते च मेदि० ।

प्रणी त्रि० प्रणयति प्र + नी० क्विप् । १ कारके २ ईश्वरे च

“सायन्तभीं तिथिप्रण्यः” भट्टिः ।

प्रणीन त्रि० प्र + नी--कर्मणि क्त । पाकेन रूपरसान्यथाभावापा-

वैठे १ पदार्थे २ क्षिप्ते ३ निवेशिते ४ विहिते च हेमच० ।
५ यज्ञे संस्कृताग्नौ पु० अमरः । ६ यज्ञपात्रभेदे स्त्री मेदि०
अग्निपदसान्निध्ये ७ मन्त्रसंस्कृतमात्रे “यथाध्वरे वह्निर-
भिप्रणीतः” भट्टिः । ८ मन्त्रसंस्कृतासु अप्सु स्त्री ब० व० ।
तदाधारपात्री तु उपचारात् प्रणीताशब्दवाच्या ।
“प्रणीतानाम आपो मन्त्रसंस्कृता आहवनीयस्योत्तरतो
निहिताः” आश्व० श्रौ० १ । १ । ५ नारा० । “तदापः प्राण-
यंस्तस्मादापः प्रणीतास्तत्प्रणीतानां प्रणीतात्वम्” शत०
ब्रा० १२ । ९ । ३ । ८ ।

प्रणीय त्रि० प्र + नी--कर्मणि वेदे क्यप् । यस्य मन्त्रेण

संस्कारः कृतस्तस्मिन् । लोके तु प्रणेय इत्येव ।

प्रणूत त्रि० प्र + णू--स्तुतौ कर्मणि क्त । स्तुते अमरः ।

प्रणेय त्रि० प्र + नी--यत् । १ वश्ये अधीने २ कृतलौकिकसं-

स्कारे च हेमच० ३ प्रापणीये ।

प्रतक्वन् पु० प्र + तक--गतौ वनिप् । प्रकर्षेण गतियुक्ते

“नभीऽस्ति प्रतक्का” ता० ब्रा० १ । ४ । ३२ “प्रकर्षेण प्रतक्वा
स्वावयवैः पांशुभिः सर्वान् धिष्ण्यान् प्रति गन्ता
तकतिर्गतिकर्म्मा” भा० ।

प्रतति स्त्री प्र + तन--भावे क्तिन् । १ विस्तारे । कर्त्तरि

क्तिच् वा ङीप् । २ बल्ल्याञ्च अमरः ।

प्रतद्वसु पु० प्रतत् प्राप्तं वसु धनं येन । १ पाप्तवसुके २

विस्तीर्णधने च ऋ० ९ । १३ । २७ ।

प्रतन त्रि० प्र + “नश्च पुराणात् प्रात्” वार्त्ति० चक्वारात्

ट्यु तुट् च । पुरातने अमरः ।

प्रतनु त्रि० प्रकृष्टस्तनुः प्रा० स० । १ अतिस्वल्पे २ अतिसूक्ष्मे च

प्रतमा(रा)म् अव्य० प्र + आमु तरप् तमप् वा । अत्यन्तप्रकर्षे

प्रतर पु० प्र + तॄ भावे अप् । प्रकर्षेण १ तरणे आधारे अप् ।

२ प्रवरणाधारे गोप्रतरशब्दे दृश्यम् ।

प्रतर्कण न० प्र + तर्क--भावे ल्युट् । वितर्के शब्दर० । घञ् । प्रतर्क तत्रार्थे ।

प्रतर्द्दन न० प्र + घृद--भावे ल्युट् । १ ताडने । कर्त्तरिल्यु ।

२ ताड़के त्रि० ३ दिवोदासपुत्रभेदे पु० हरिवं० २९ अ० ।
४ इन्द्रोपदेश्यभेदे प्रतर्दनं प्रति इन्द्रेण ब्रह्मविद्योपदि-
ष्टेति वेदान्ते प्रसिद्धम् ।

प्रतल न० न० प्रकृष्टं तलम् । १ पातालभेदे मेदि० । प्रकृष्टं

तलमस्य । २ विस्तृताङ्गुलिके पाणौ चपेटे पु० अमरः ।

प्रतान पु० प्र + तन--घञ् । १ विस्तारे २ ऋषिभेदे च तस्य

गीत्रापत्यम् इञ् । प्रातानि तद्गोत्रापत्ये बहुत्वे तु तस्य
उपका० लुक् । प्रताना इत्येव । ३ तन्तुयुक्ते अलाबू
त्रपुषादौ । “गुच्छगुल्मन्तु विविधं तथैव तृणजातयः ।
वीजकाण्डरुहाण्येव प्रताना वल्ल्य एव वा” मनुः ।
“प्रतानास्तन्तुयुक्तास्त्रपुषालावूप्रभृतयः” कुल्लू० ।

प्रतानिन् त्रि० प्र + तन--णिनि । १ विस्तीर्णे २ विस्तृतलता-

याम् स्त्री ङीप् अमरः ।

प्रताप पु० प्र + तप--घञ् । १ कोषदण्डजाते नृपादेः तेजसि

अमरः । २ तापे ३ अर्कवृक्षे च राजनि० ।

प्रतापन पु० प्रतापयति तप--णिच्--ल्यु । १ नरकविशेषे

२ तापके त्रि० शब्दरत्ना० । भावे ल्युट् । ३ पीडने शब्दर० ।
कर्त्तरि ल्यु । ४ विष्णौ पु० । “प्रकाशात्मा प्रतापनः”
विष्णु स० “सूर्य्यप्रभृतिभिर्विश्वं प्रतापयतीति प्रतापनः” भा०

प्रतापवत् त्रि० प्रताप्र + अस्त्यर्थे मतुप् मस्य वः । १ प्रताप-

युक्ते २ स्कन्दानुचरगणभेदे पु० भा० श० ४६ अ० ।

प्रतापस पु० तपसि साधु अण् प्रकृष्टस्तापसः प्रा० स० । १ प्रकृ-

ष्टतापसे २ शुक्लार्कवृक्षे च अमरः ।

प्रतास् अव्य० प्र + तम बा० ण्वि--स्वरादि । ग्लानौ मनोरमा ।

प्रतारक त्रि० प्र + तॄ--णिच्--ण्वुल् । १ वञ्चके २ धूर्त्ते च ।

प्रतारण न० प्र + तृ--णिच्--भावे ल्युट् । १ वञ्चने अन्थ

पदार्थस्य अन्यथारूपेण ज्ञापने । युच् । प्रतारणाऽपि
तत्रार्थे स्त्री । “प्रतारणासमर्थस्य विद्यया किं प्रयो-
जनम्” उद्भटः ।

प्रतारित त्रि० प्र + तृ--णीच्--क्त । १ वञ्चिते त्रिका० ।

पृष्ठ ४४३७

प्रति अव्य० प्रथ--डति । १ व्याप्तौ २ लक्षणे ३ कञ्चित्प्रकार-

मापन्नस्य कथने ४ भागे ५ प्रतिदाने ६ प्रतिनिधीकरणे
मेदि० ७ स्तोके ८ क्षेपे ९ निश्चये १० व्यावृत्तौ ११ आभिमुख्ये
१२ स्वभावे च शब्दर० । अस्य निपातत्वेऽपि क्रिया-
योगे उपसर्गत्वम् गतित्वञ्च । अस्यार्थभेदोदाहरणादि
गणरत्नमहोदधिटी० उक्तं यथा “प्रति सादृश्या-
दानहिंसाङ्गोकृतिप्रतिनिधिव्याध्याभिमुख्यव्याप्तिवारणेषु ।
प्रतिदेवता । प्रतिगृह्णाति । प्रतिहन्ति प्रतिज्ञानम् ।
अभिमन्युरर्जुनतः प्रति । प्रतिश्यायः । प्रतिसूर्य्यं
गतः । प्रतिकीर्णम् पांशुभिः । प्रतिषिद्धः” । तत्र लक्ष-
णेवम्भूताख्यानभागवीप्सायामस्य कर्मप्रवचनीयसंज्ञा
तद्योगे द्वितीया परिशब्दे उदा० दृश्यम् । प्रतिनिधि-
प्रतिदानयोः कर्मप्रवचनीयसंज्ञा तद्योगे पञ्चमी । प्रद्युम्नः
कृष्णात्प्रति प्रतिनिधिरित्यर्थः । तिलेभ्यः प्रतियच्छति
माषाय, माषान् गृहीत्वा प्रतिरूपतया तिलान् ददाती-
त्यर्थः । मात्रार्थेऽस्याव्ययीभावे परनिपातः । शाकप्रति-
शाकस्य लेश इत्यर्थः । कर्मप्रवनीयत्वे नोपसर्गसंज्ञा तेन
वृक्षं वृक्षं प्रतिसिञ्चतीत्यादौ न षत्वं तथा गतिसंज्ञापि
न, तेन गतिर्गतावितिनिधातो न । “प्रतेरंश्वादयस्तत्पुरुषे
पा० प्रतेः परस्यांश्वादेः अन्तोदात्तता अंश्वादिशब्दे ३७ पृ०
दृश्यम् ।

प्रतिक त्रि० कार्षापणेन क्रीतः टिठन् (इकार उच्चारार्थः)

प्रतिरा देशश्च । कार्षापणेन क्रीते स्त्रियां टित्त्वात् ङीप् ।
ततः पुरोहिता० भावे यक् । प्रातिक्य तद्भावे न०

प्रतिकण्ठ अव्य० वीपसार्थे समीप्ये वा अव्ययीभावः ।

१ कण्ठे कण्ठे इत्याद्यर्थे २ कण्ठसामीप्ये च । प्रतिकण्ठं
गृह्णाति ठक् । प्रातिकण्ठिक कण्ठसमीपग्राहिणि ।

प्रतिकर पु० प्रति + कॄ--विक्षेपे भावे अप् । १ विस्तीर्णतायां

२ विक्षेपे च ।

प्रतिकर्तृ त्रि० प्रति + कृ--तृच् । कृतस्यापकारस्य प्रत्यपकारके प्रतीकारकर्त्तरि ।

प्रतिकर्म्मन् न० प्रति + कृ--मनिन् । १ विद्यमानस्य गुणान्तरा-

धाने २ कृत्रिमभूषायां प्रसाधने अमरः ।

प्रतिकर्ष पु० प्रति + फष--भावे घञ् । १ समाकर्षणे अन्वयार्थं

पूर्य्योपात्तस्य पदादेर्ग्रहणे कात्या० १५ । ८ । १० कर्कः ।

प्रतिक(ष्क)श प्रति + कश--गतिशासनयोः अच् सुट् नि० ।

सुड्मघ्यः । १ सहाये २ पुरोगे च सि० कौ० । ३ वार्त्ता-
हरे मेदि० । प्रतिगतः कशाम् प्रा० स० । प्रतेः न कशिं
प्रत्युपसर्गत्वम् किन्तु गमेरेवोपसर्गत्वमतो न सुट् ।
४ कशाघातप्राप्तेऽश्वे सि० कौ० ।

प्रतिकष्ट न० प्रतिरूपं कष्टं प्रा० त० । १ कर्मानुरूपकष्टे २ तद्धेतौ च ।

प्रतिकाम अव्य० कामं कामं प्रति अव्ययी० । प्रत्येककामे

प्रतिकाय पु० प्रति + चि--घञ् क्यादेशः । १ प्रतिरूपके २ शरव्ये

लक्ष्ये च जटा० ।

प्रति(ती)कार पु० प्रति + कृ--धञ् वा दीर्घः । १ वैरनिर्यातने

कृतस्याषकारस्य तुल्यरूपापकारकरणेन २ शोधने ३ रोगा-
देश्चिकित्सायाश्च शब्रत्ना० ।

प्रति(ती)काश पु० प्रतिरूपः काशः प्र + काश--घञ् वा प्रा० स०

दीर्घः । तुल्यत्वे अस्य निभा० नित्थस० । अमरटीकायां
रमानाथेनायं दन्त्यान्ततया पठितः ।

प्रतिकितव पु० प्रतिकूलः कितवः प्रा० त० । द्यूनकारस्य प्रति-

कूले द्यूतकारे येन सह द्यूतप्रवृत्तिस्तस्मिन् ।

प्रतिकूप पु० प्रतिरूपः कूपः प्रा० त० । परिस्वायां हारा० ।

प्रतिकूल त्रि० प्रतिरूपं कूलं पक्षोऽस्य प्रा० व० । १ अननुकूले

विरुद्धपक्षावलम्बिनि प्रतीपे अमरः प्रा० त० । २
विपरीताचरणे न० ।

प्रतिकृति स्त्री प्र + कृ--कर्मादौ क्तिन् । १ प्रतिमायां २ सादृश्ये

३ प्रतिनिधौ अमरः । ४ प्रतिकाशे मेदि० ।

प्रतिकृष्ट त्रि० प्रति + कृष--क्त । १ गर्ह्ये २ द्विरावृत्त्या ३ कृष्ट-

क्षेत्रादौ च मेदि० ।

प्रतिकोप पु० प्रतिरूपः कोपः । १ रोगस्यानुरूपे कोपे २ विपक्षं प्रति कोपे च

प्रतिक्रिया स्त्री प्रति + कृ--भावे श । प्रति(ती)कारे

प्रतिक्षण अव्य० क्षणं क्षणं व्याप्य व्याप्तौ अव्ययी० । आभीक्ष्ण्ये

प्रतिक्षय पु० प्रति + क्षि--ऐश्वर्य्ये अच् । रक्षके शब्दर०

प्रतिक्षिप्त त्रि० प्रति + क्षिप--कमणि क्त । १ प्रेषिते २ वारिते

मेदि० । ३ बाधिते ४ तिरस्कृते च अमरः । “आहूय प्रेषितो
यस्तु प्रतिक्षिप्तः स उच्यते” इत्युक्ते ५ आहूयप्रेषिते
कृष्णदासः ।

प्रतिक्षेप पु० प्रति + क्षिप--भावे घञ् । १ निरासे मेदि० । २ तिरस्कारे च ।

प्रतिखुर पु० सुश्रुते एकीयमतोक्ते मूढगर्भभेदे “निःसृतहस्त-

प्रादशिरः कायमङ्गी प्रतिखुरः” इति तत्र लक्षितम् ।

प्रतिख्याति स्त्री प्रति + ख्या--भावे क्तिन् । १ विख्यातौ

२ अतिख्यातौ अमरः ।

प्रतिगत न० प्रति + गम--भावे क्त । “गतागतघ्रतिगतसम्या-

ताद्याश्च पक्षिणाम” जटाधरोक्ते १ खगगतिभेदे २
परावृत्यगमने च । कर्त्तरि क्त । ३ परावृत्ते त्रि० ।
पृष्ठ ४४३८

प्रतिगर पु० प्रतिगीर्य्यते प्रत्युच्चार्य्यते प्रति + गु--भावे अप् । वैदि-

कमन्त्रभेदस्य उच्चारणभेदे । तस्य प्रकार आश्व० श्रौ० ५ । ९ । ४
सूत्रादौ वृत्तौ च दर्शितो यथा “शस्त्रस्वरः प्रतिगर
ओथामो दैवेति” सू० “शस्त्रस्य स्वर इव स्वरो यस्य स
शस्त्रस्वरः । उत्तरपदलोपोऽत्र द्रष्टव्यः । शस्त्रतुल्य-
स्वर इत्यर्थः । सवनस्वरस्याविधेयत्वादन्योऽपि यो
विशिष्टः स्वरो विहितः शस्त्रस्य तस्य प्रापणार्थं
वचनम् । ओथामोदैव इत्ययं प्रतिगरसंज्ञो भवति
प्रतिगीर्यते प्रत्युच्चार्यते इति प्रतिगरः । वक्ष्यमाण-
विशेषविशिष्टतया सकृदेव विधातुं शक्येऽपि सामान्यस्य
पृथग्विधानं प्रतिगरशब्दव्यवहारेऽपि सामान्येनास्य
ग्रहणार्थम्” नारा० वृ० “शंसामो दैवेत्याहावे” सू०
“प्रतिगरो भवतीति शेषः । यः पुनरयं प्रतिगरोऽपरो
विधीयते तज्ज्ञापयति । प्रतिगरान्तरमध्यवर्त्तिन्घाहा-
वेऽयं निमज्जते । तेन शस्त्रमध्येऽयमेव स्यात् शस्त्रा-
दावयं व्राह्मणोक्तः शंसामोदैवामिति वा” ना० वृ० । “प्लु-
तादिः प्रणवेऽप्लुतादिरवसाने” सू० । “व्यवहितस्ये
मौ विशेषविधी । अनन्तरस्य प्रणवावसानरूपेण विषय-
भेदासम्भवात्” वृ० । “प्रणवे प्रणव आहावोत्तरे” सू० ।
“प्लुतादेरयमपवादः । आहावोत्तरे प्रणवे प्रणव एव
प्रतिगरो भवति” । “अवसाने च” सू० । प्रणवः प्रति-
गरो भवतीति शेषः । शस्त्रान्तरे शस्त्रमघ्ये चावसानेऽयं
विधिर्भवति” वृत्तिः । “प्रणवान्तो वा” सू० । विषयद्वये-
ऽयं विकल्पः यत्र थत्र चान्तःशस्त्रं प्रणवेनाव-
स्यति । प्रणवान्त एव तत्र प्रतिगरः” वृत्तिः । शस्त्रान्ते
तु प्रणवः” बृ० ।

प्रतिग्रह पु० प्रति + ग्रह--अप् । १ स्वीकारे २ अदृष्टार्थदत्त-

द्रव्यस्य ग्रहणे ३ सैत्यपृष्ठे ४ पतद्ग्रहे च मेदि० । प्रति-
ग्रहश्चादृष्टार्थत्यक्तद्रव्यस्वीकारः । तत्र दानस्यैव स्वस्वत्व
ध्वंसमित परस्वत्वोन्पत्तिं प्रति हेतुता प्रतिग्रहस्य तु
यथेष्टविनियोगार्हताप्रयोजकस्वत्वं प्रति कारणता
यथोक्तं दायभागे
“दृष्टञ्च लोकेऽपि दाने हि चेतनोद्देशविशिष्टत्यागादेव
दातृव्यापारात् सम्प्रदानस्य द्रव्ये स्वामित्वम् । न च
स्वोकरणात् स्वत्वं स्वकर्तुरेव दातृत्वापत्तेः परस्वत्वा
पत्तिफलेन हि दानरूपता तच्च फलं सम्प्रदानाधीनं यथा
देवतोद्देशेन द्रव्यत्यागं कुर्वन्नपि यजमानो न होता किन्तु
तस्यैव त्यागस्य होमाभिधाननिमित्तं प्रक्षेपं कुर्वन् ऋत्वे
गेव होतेत्युच्यते तद्वदत्रापि स्यात् । किञ्च मनसा पात्र
मुद्दिश्येत्यादिशास्त्रे स्वीकारात् प्रागेव दानपदा दृष्टम् ।
ननु ग्रहणं स्वीकारः अभूततद्भावे च्विप्रयोगात् अस्वं स्वं
कुर्वन् व्यापारः स्वीकारो भवति कथं तत् प्रागेव स्वत्वम् ।
उच्यत उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमिति
ज्ञानेन यथेष्टव्यवहारार्हं क्रियत इति स्वीकारशब्दार्थः ।
याजनाध्यापनसाहचर्व्याच्च प्रतिग्रहस्य स्वत्वमजनयती-
ऽपि अजेनरूपता न विरुद्धा याजनादौ दक्षिणादानादेव
स्वत्वात्” मूलम् । व्याख्यातमेतत् श्रोकृष्णेन यथा
“ननु त्यागात् केवलं स्वत्वनाशः सम्प्रदानस्वत्वं तु
ममेदमिति भाविस्वत्वावगाहितत्स्वीकारादेवेति मतं निरा-
करोति नचेति । स्वीकर्तुरेवेत्येवकारेण त्यक्तुर्व्यव-
च्छेद । इदमुपपादयति परस्वत्वापत्तिफलेन हीति ।
अत्रायमाशयः धात्वर्यतावच्छेदकफलानुकूलव्यापारवत
एव तृजन्ततद्धातुव्य्यदेश्यत्वं यथा धात्वर्यतावच्छेदकोत्तर-
देशसंयोगानुकूलव्योपारवति चैत्रे गन्तेति व्यवहारः ।
स्वीकारस्य स्वत्वहेतुत्वे धात्वर्थतावच्छेदकपरस्वत्वामुकूल-
स्वीकाररूपव्यापारवतः स्वीकर्त्तरेव दातृपदव्यपदेश्यत्वा-
पत्तिरिति पूर्वस्वत्वध्वंसरूपफलस्य न तद्व्यपदेशनिया-
मकता तथात्वे उपेक्षितुछपि दातृपदव्यपदेश्यत्वापत्ति-
रिति । केचित्तु स्वीकारस्य स्वत्वहेतुत्वे परस्वत्वफलोप-
हितत्यागात्मकदाने सर्वांशे एकस्यापि कर्तृत्वासन्धवात्
एकांशमादायैव दातृत्वव्यवहारे कर्त्तव्ये प्रधानीभूतफलां-
शानुकूलव्यः पारवत्येव दातृव्यवहारः स्यादिति व्याचक्रुः ।
दृष्टान्तेनेदं द्रढयति यथा होति । होमाभिधाननि-
मित्तर्मिति । विशिष्टदेशावच्छिन्नपक्षेपोपहितत्यानस्य
होमत्वात् प्रक्षेपस्य तदभिधाननिमित्तत्वमित्यर्थः । तेन
हुधात्वर्यतावच्छेदकप्रक्षेपानुकूलव्यापारवति ऋत्विजि-
होतेति व्यपदेशो यथा तथेत्यर्यः । व्यागस्य स्वत्वहतुत्व
स्फुटमेव शास्त्रं प्रमाणयति किञ्चेति । आदिना भूमौ
तोयं विनिःक्षिपेदित्युत्तरप्रतीकपरिग्रहः । शास्त्रे शास्त्र-
कोधितत्यगे । दानपदं दृष्टमिति । “विद्यते सागर-
स्वान्तो दानस्यान्तो न विद्यते” इति तद्वचनस्योत्तरार्द्धे
दानपदं प्रयुक्तमित्यर्थः । तथाच निरन्वरयोरेव स्वस्वत्ववंस-
परस्वत्वात्पत्तिफलयोर्ददातिघात्वर्थतावच्छेदकत्वात्
दानस्य परस्वत्वहेतुता शास्त्रसिद्धैवेति भावः । स्वीका-
रात् प्रागेव स्वत्वे ग्रहणस्य स्वीकारपदार्थत्वासम्भबमाश-
ङ्कते नन्विति । खीकारशब्दार्थ इति । तथाच स्वपदस्य
यथेष्टविनियोगार्हत्वविशिष्टे लक्षणेति भावः । ननु याज-
पृष्ठ ४४३९
नाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमार्जयेदित्यत्र राजसूयेन
यजेतेत्यादिवत् याजनाद्यात्मकैर्द्धनमर्जयेदित्यन्वयात् प्रति-
ग्रहस्यार्जनरूपता सिद्धा प्रतिग्रहस्य स्वत्वाहेतुत्व
च तद्विरुद्धं स्वत्वहेतुव्यापारस्येवार्जनत्वादत आह याजनेति ।
अर्जनरूपता अर्जनपदव्यपदेशः । अविरोधमुपपादयति
याजनादाविति तथा च याजनादीनां स्वत्वाहेतुत्वेन
तदन्वयानुरोधवत् अर्जयेदित्यत्रार्जनत्वं न स्वत्वजनकत्वं
किन्तु स्वत्वप्रयोजकत्वमेव तच्च प्रतिग्रहेऽप्यक्षतं दत्ते
सत्ययं प्रतीगृह्णातीत्यवधारण एव तदुद्देशेन दातुस्त्या-
नात् तत्स्वत्वोदयात् प्रतिग्रहवैमुख्यज्ञाने तद्व्यतिरेका-
च्चेति भावः” ।
“न च दानस्य स्वत्वहेतुत्वे प्रमाणाभावः “सप्तावित्तागमा
धर्म्यादायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च
सत्प्रतिग्रह एव च” इत्यादिमन्वादिवचनैस्तस्य स्वत्व
हेतुत्वाप्रतिपादनादिति वाच्यं ब्राह्मणाय त्यक्तायां गवि
गौरियं ब्राह्मणस्य न तु ममेत्यादिसार्वजनीनप्रतीतेरेव
तत्र प्रमाणत्वात् प्रदानं स्वाम्यकारणमितिवचनाच्च अत
एव विदेशस्थं पात्रमुद्दिश्य त्यक्तधने स्वीकारमन्वरेणैव
पात्रस्य मरणस्थले पिवृदायत्वेन तद्धनं पुत्रादिभिर्विभज्य
मृह्यते अन्यथा तैरिव उदासीनैरपि तद्धनस्यारण्य
कुशादेरिवोपादाने यथेष्टनियोगे च प्रत्यवायो न स्यात् ।
नन्वेवं दानादेव स्वत्वसिद्धेर्दत्तवस्तुनि स्वीकारो व्यर्थ
इति चेन्न “लब्ध्वा चाष्टगुणं फलमित्यादि” स्मृतेः प्रतिग्र
हीतरि द्रव्यदानस्य फलविशेषं प्रति हेतुत्वोन तादृशफल-
सम्पत्त्यर्थमेव प्रतिग्रहस्योपयोगात् याजनाध्यापनप्रति-
ग्रहैर्द्विजो धनमर्जयेदित्यादिश्रुन्या प्रामुक्तस्मृत्या च प्रति-
यहस्यापि स्वत्वहेतुत्वबोधनाच्च स्वत्वजनकव्यापारस्यैवा-
र्जनपदार्थत्वात्” शब्दशक्तिप्र० । अधिकं दानशब्दे दृश्यम् ।
द्रव्यभेदप्रतिग्रहे दोषस्तु अग्राह्यशब्दे उक्तस्तत्र
अयाचितस्य विषयभेदे प्रतिग्रहे न दोषः यथा
“अयाचितोपपम्ने तु नास्ति दोषः प्रतिग्रहे । अमृतं
तं विदर्देवास्तस्मात्तन्नैव निर्णुदेत् । मुरुभृत्यांश्चोज्जि-
हीर्षुरर्चिष्यत् देवतातिथीन् । सर्वतः प्रतिगृह्णीयात्
न तु तृप्येत् स्वयं ततः । साधुतः पतिगृह्णीयादथ
बाऽसाधुतो द्विजः । गुणवानल्पदोषश्च निर्गुणो हि
निमज्जकि । एवं तस्करवृत्त्या वा कृत्वाभरणमात्मनः ।
कुर्य्याद्विशुद्धि परतः प्रायश्चित्तं द्विजोत्तमः” । गारुडे
१५ अ० । अधिकम् अग्रे दर्शयिष्यमाणे शु० तत्त्वग्रन्थे
दृश्यम् । तीर्थप्रतिग्रहनिषेधो यथा “स्वकार्ये पितृकार्य्ये
वा देवताभ्यर्चनेऽपि वा । निष्फलं तस्य तत्तीर्थं यावत्
तद्धनमश्नुते । अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु
च” कौर्मे ३३ अ० । राजादितः प्रतिग्रहनिषेधो यथा
“न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादषि । न चान्य-
स्मादशक्तश्च निन्दितात् वर्जयेद्बुधः” कौर्मे १५ अ० ।
आपदि गर्हितप्रतिग्रहस्थादोषः वृहत्परा० “प्रोक्तप्र-
तिग्रहामावे प्राप्तायां वृहदापदि । विपोऽश्नन् प्रतिगृ-
ह्नन् वा यतस्ततोऽपि नाघमाक् । गुर्वादिपोष्यवर्गार्थं
देवाद्यर्थञ्च सर्वशः । प्रत्यादद्याद्द्विजो यस्तु भृत्यर्थमा-
त्मनोऽपि च । दधिक्षीराज्यमांसानि नन्घपुष्याम्बुमत्स्य-
कान् । शव्यामांसासनं शाकं प्रत्याख्येयं न कर्हिचित् ।
अपि दुष्कृतकर्मभ्यः समांदद्यादयाचितम् । पतितेभ्यस्त-
थाऽन्येभ्यः प्रतिग्राह्यमसंशयम्” । प्रतिग्रहीतुं शक्तस्य
तत्त्यागे तत्रैव स्थानान्तरे स्वर्ग उक्तो यथा “शक्तःप्रति-
ग्रहीतुं यो वेदवृत्तः सुसंयतः । लभ्यमानं न गृह्णाति
स्वगंस्तस्य सुनिश्चितम् । प्रतिग्रहमृणं वापि याचितं यो
न यच्छति । तत्कोटिगुणितिग्रस्तो मृतो दासत्वमृच्छति” ।
दाता च न स्मरेद्दानं प्रातिग्राही न याचते । तावुभौ
नरकं याठो दाता चैव प्रतिग्रही । वदन्ति कवयः
केचिद्दानप्रतिग्रहौ प्रति । प्रत्यक्षं लिङ्गमेवेह दातृ-
याचकयोर्बलम् । दातृहस्तो भवेदूर्द्ध्वमधस्तिष्ठेत् प्रति-
ग्रही । यद्दानं प्रतिगृह्णीयात् प्रतिग्राही व्रजत्यधः ।”
तस्य प्रकारमाह शु० त० विष्णुधर्मोत्तरे “भूमेः प्रतिग्रहं
कुर्य्याद्भूमेः कृत्वा प्रदक्षिणम्” । प्रदक्षिणं न सर्वस्याभूमेः
किन्तु तत्रस्थस्य प्रदक्षिणावर्त्तनमात्रं भूमेरसन्निधाने
तामुद्दिश्य प्रदक्षिणम् । “करे गृह्य तथा कन्यां
दासदास्यौ द्विजोत्तमाः! । करन्तु हृदि विन्यस्य धर्मो ज्ञेयः
प्रतिग्रहे” “आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः ।
तथाचैकशफानान्तु सर्वेषामविशेषतः । प्रतिगृह्णीत गां
पुच्छे पुच्छे कृष्णाजिनं तथा । आरण्याः पशवश्चान्ये
ग्राह्याः पुच्छे विचक्षणैः । प्रतिग्रहमथोष्ट्रस्य आरुह्य
च तथाऽऽचरेत् । वीजानां सुष्टिमादाय रत्नान्यादाय
सर्वशः । वस्त्र दशान्त आदद्यात् परिघाय तथा पुनः ।
आरुह्योपानहौ यानमारुह्यैव च पादुके । ईषायान्तु
रथं ग्राह्यं छत्रं दण्डे च धारयेत् । आयुधानि
समादाय तथाऽऽभूष्य विभूषणम् । वर्मध्वजौ तथा स्पृष्ट्वा
प्रविश्य च तथा गृहम् । अवतीर्य्य च सर्वाणि जल-
पृष्ठ ४४४०
स्थानानि वै द्विजाः । द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा
यो ब्राह्मणः पठेत् । प्रतिग्रहीता सावित्रीं सर्वत्रैव
प्रकीर्त्तयेत् । ततस्तु सार्द्धं द्रव्येण तस्य द्रव्यस्य
दैवतम्” भूमिर्विष्णुदेवताकेत्यादि कीर्त्तयेदित्यर्थः । “समा-
पयेत्ततः पश्चात् कामस्तुत्या प्रतिग्रहम् । विधिं धर्म-
मथो ज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम् । दात्रा सह
तरत्येव नानादुर्गाण्यसौ द्विजः” । ब्रह्मपुराणे “व्रा-
ह्मणः प्रतिगृह्णीयाद्वृत्त्यर्थं साधुतस्तथा । अव्यश्वमपि
मातङ्गतिललौहांश्च वर्जयेत् । कृष्णाजिनहयग्राही न
भूयः पुरुषो भवेत् । शय्यालङ्कारवस्त्रादि प्रतिगृह्य
मृतस्य च । नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा” ।
तथा “ब्रह्महत्या सुरापानमपि स्तेयं तरिष्यति ।
आतुराद् यद्गृहीतन्तु तत्कथं वै तरिष्यति” एतदादि-
दव्य दानं ग्रहीतुर्दोषजनकम् । अनिच्छवे विद्यारहित-
त्वेनासमर्थाय च दातुरपि दोषजनकमाह दक्षः “न
केवलं हि तद्याति शेषमस्य च नश्यति” । तत् द्रव्यं
शेषं द्रव्यस्य अतएव याज्ञवल्क्यः “विद्यातपोभ्यां
हीनेन न तु ग्राह्यः प्रतिग्रहः । गृह्णन् प्रदातारमधो-
नयत्यात्मानमेव च” । अधो नरकम् । एतद्दानप्रति-
ग्रहणोत्तरं तपोजपादिभिरात्मतारणक्षमाय स्वेच्छया
प्रतिग्रहीत्रे दानं न दोषायेत्याह विष्णुः “एतानि यदि
गृह्णाति स्वेच्छयाभ्यर्थितो न तु । तस्मै दाने न दोषो-
ऽस्ति यस्त्वात्मानन्तु तारयेत्” । तारणप्रकारमाह
हारीतः “मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं
जपेत् पञ्चमध्यमे दशोत्तमे द्वादशरात्रं पयोव्रतं
शतसहस्रं मसत्प्रतिग्रहेष्विति” अष्टसहस्रमष्टाधिकसहस्रम्
असत्प्रतिग्रहेषु उभयतोमुख्यादिप्रतिग्रहेषु तथाचादि-
पुराणे “किं करिष्यत्यसौ मूतो गृह्णात्युभयतोमुखीम् ।
सहस्रं वारुणाः पाशाः खुरधाराऽग्निसन्निभाः । पूर्णे
वर्षसहस्रे तु पाश एकः प्रमुच्यते” । अत एव देवलः
“प्रतिग्रहसमर्थो हि कृत्वा विप्रो यथाविधि ।
निस्तांरयति दातारमात्मानञ्च स्वतेजसा” । स्कान्दे
“वेदाङ्गपारगो विप्रो यदि कुर्य्यात् प्रतिग्रहम् । न स
पापेन लिप्येत पद्ममत्रमिव म्भसा” एवं “तीर्थे न प्रति-
गृह्णीयात् पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु न
प्रमत्तो भवेन्नरः” इति महाभारतवचनम् । प्रतिग्रहीतृ-
दोषजनके गङ्गातीरादिदेशग्रहणादिकाले दानेऽपि बोध्यम् ।
किन्त्विदानीन्तथाविधपात्राभावात् “मनसा पात्रमुद्दिश्य”
इत्यादि प्रागुक्तवचनात्तत्तद्देशकालयोरुत्सृज्य देशान्तरे
कालान्तरे च प्रतिपादनाचारः सर्वथा समीचीनः ।
गङ्गावाक्याबल्यप्येवम् । याज्ञवल्क्यः “प्रतिग्रहसमर्थो०
हि नादत्ते यः प्रतिग्रहम् । ये लोका दानशीलानां स
तानाप्नोति पुष्कलान्” । अपबादमाह स एव “कुशाः
शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । मांस-
शय्यासनं धानाः प्रताख्येयं न वारि च” । चकाराद्-
गृहादि “शय्यागृहान् कुशान् गन्धानपः पुष्पं मणीन्
दधि । मत्स्यान् धानाः पयोमांसं शाकस्वैव न निर्णु
देत्” इति वचतात् । मणीन् विषादिनिवारकान् । तथा
“एधोदकं फलं मूलमन्नमभ्युद्धृतञ्च यत् । सर्वतः प्रति-
गृह्णीयात् मध्वथाभयदक्षिणाम्” । अभयद्रक्षिणाम्
अभयदानं अभयप्रद इति वक्ष्यसाणवचनात् । अभ्युद्धृतम्
अभ्यर्थ्य दत्तम् । किमिति प्रत्याख्येयम् इत्याह । तथा स्य
मनुः “अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र
कुलटाषण्डपतितेभ्यस्तथा द्विषः” एतद्वचनं याज्ञवल्क्य-
स्येति मिताक्षराकुल्लू कभट्टमाधवाचार्य्याः । मनोरिति
शूलपाणिः । भरद्वाजः “अयाचितोपपन्ने तु नास्ति
दोषः प्रतिग्रहे । अमृतं तद्विदुर्देवास्तस्मात्तं नैव निर्णु-
देत्” । अपवादान्तरमाह स एव “देवातिर्थ्यर्च्च नकृते गुरु-
भृत्यार्थमेव च । सर्वतः प्रतिगृह्णोयादात्मवृत्त्यर्थमेव च”
भृत्या भरणीयाः भार्य्यापुत्रादयः । तथा च मनुः “वृद्धौ
च मातापितरौ साध्वी भार्य्या सुतः शिशुः । अप्यकार्य्य
शतं कृत्वा भर्त्तव्या मनुरब्रवीत्” । आत्मवृत्त्यर्थं जीवन-
मात्रम् । “न तु तृप्येत् स्वयं ततः” इति मनुस्मृतेः ।
प्रयोगसारे “प्रतिग्रहं न गृह्णीयादात्मभोगोपलिपूसया ।
देवतातिथिपूजार्थं धनं यत्नादुपार्जयेत्” । अङ्गिराः
“कुटुम्बार्थं द्विजः शूद्रात् प्रतिगृह्णीत याचितम् ।
क्रत्वर्थमात्मने चैव न हि याचेत कर्हिचित्” । अत एव
यज्ञार्थे याचकत्रे निन्दामाह याज्ञवल्क्यः “चाण्डालो
जायते यज्ञकरणाच्छूद्रभिक्षणात्” शूद्रस्यापि अयाचित-
दातृत्वमाह नृसिंहपुराणम् “अयाचितप्रदाता च कृषि
वृत्त्यर्थमाश्रयेत् । पुराणं शृणुयान्नित्यं नरसिंहस्य पूजनम्

प्रतिग्रहीतृ त्रि० प्रति + ग्रह० तृच् । प्रतिग्रहकर्त्तरि प्रति-

ग्रहीतृधर्माश्च दानशब्दे १ पृ० उक्ता दृशाः ।

प्रतिग्राह त्रि प्रति + ग्रह--कर्त्तरि ण । १ प्रातग्रहकारके

२ पतद्ग्रहे (पिकदानी) पु० अमरः ।

प्रतिघ पु० प्रति + हन--ड़ न्यङ्क्वा० कुत्वम् । १ प्रतिचाते मेदि०

२ कोपे अमरः । कामप्रतिधातेन तस्य जातत्वात्तथात्वम् ।
३ मूर्च्छायां शब्दर० ।
पृष्ठ ४४४१

प्रतिघात पु० प्रति + हन--णिच् भावे अप् । १ मारणे २

कृतश्चित् विघाते च । ल्युट् प्रतिथातन तत्रार्थे न० अमरः ।

प्रतिघ्न न० प्रति + हन--घञर्थे क । अङ्गे शब्दच० ।

प्रतिचक्ष्य त्रि० प्रति + चक्ष--ण्यत् वा ख्यादेशाभावः । प्रक-

र्षेण दृश्ये ऋ० १ । ११३ । ११ भा० ।

प्रतिच्छन्दस् त्रि० छन्दोभिप्रायः प्रतिगतश्छन्दः अत्या० स० ।

१ अभिप्रायानुरूपे २ प्रतिरूपे ३ अनुरोधे च त्रिका० ।
वेदश्छन्दः साकल्ये अव्ययी० । ४ प्रतिवेदमित्यर्थे अव्य० ।

प्रतिच्छन्दक त्रि० प्रति + छन्द--ण्वुल् । प्रतिनिधौ ९ । १८०

श्लोके कुल्लूकभट्टः ।

प्रतिच्छाया स्त्री प्रतिरूपा छायायाः प्रा० स० । प्रतिरूपायां

१ प्रतिमायां २ सादृश्ये च अमरः ।

प्रतिजङ्घा स्त्री प्रतिगता जङ्गाम् अत्या० स० । अग्रजङ्घायाम् हेमंच० ।

प्रतिजन अव्य० वीप्सायाम् अव्ययी० । जनं जनं प्रतीत्यर्थे

तस्य अंश्वा० अन्तोदात्तता । तत्र साधु प्रतिजना० खञ् ।
प्रातिजनीन प्रत्येकजनसाधौ त्रि० ।

प्रतिजनादि “प्रतिजनादिभ्यः खञ्” पा० उक्ते खञ्प्रत्य-

यनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा
“प्रतिजन इदंयुग संयुग समयुन परयुग परकुल
परस्यकुल अमुष्यकुल सर्वजन विश्वजन महाजन पञ्चजन”

प्रतिजन्य न० प्रतिकूलं जन्यं युद्धं यस्य, प्रतिजने विपक्ष-

जनपदे भवः यत् वा । १ प्रतिबले २ प्रतिपक्षजनपदभवे
च ऋ० ४ । ५ । ७ । भा० ।

प्रतिजल्पक पु० । “दुस्त्यजद्वन्द्वभावेऽस्मिन् प्राप्तिर्नार्हत्यनुद्धतम् ।

दूतसम्म कनेनोक्तं यत्र स प्रतिजल्पकः” उज्ज्वलभण्युक्त-
लक्षणे द्वतवाक्यभेदे ।

प्रतिजागर पु० जागरस्य प्रतिनिधिः । १ प्रत्यवेक्षणाय

गृहसवेक्षस्वेति नियोने अमरटी० रायमुकुटः । ल्युट् ।
पतिजागरण तत्रार्थे न० मार्क० पु० ९९ अ० ।

प्रतिजिह्वा स्त्री प्रतिरूपा जिह्वा प्रा० स० । तालूमूलस्थे जिह्वा-

कारे मांसपिण्डे(आलजिव) स्वार्थे क । तत्रार्थे त्रिका० ।

प्रतिज्ञा स्त्री प्रति + ज्ञा--भावे “आतश्चोपसर्गे” पा० अङ् ।

१ कर्त्तघ्यत्वप्रकारकज्ञानानुछलव्यापारे स च करिष्यामी-
त्यादिवाक्यरूपः “साध्यनिर्देशः प्रतिज्ञा” गौ० सू० उक्ते
साध्यवत्त्वेन पक्षनिर्देशरूपे २ पञ्चाङ्गन्यायावयवभेदे “यथा
प्रर्वतो वह्निमान् इत्यादिवाक्यम् तत्र भाष्यम् “प्रज्ञाप-
नीयेन धर्मेण विशिष्टस्य परिग्रहवचनम् । साध्यनिर्देशः
प्रतिज्ञा यथा शब्दोऽनित्य इति” । अवयवग्रन्थे
अनुमानचिन्तामण्यादिदीधितौ विस्तारः । व्यवहारे पक्षा-
भिधायके ३ पूर्वपक्षभाषाद्यपरपर्य्याये वाक्ये यथा ममेदं
द्रव्यमनेन गृहीतं न ददातीत्यादि । पूर्वपक्षशब्दे
४४०६ पृ० दृश्यम् । ४ अङ्गीकारे अमरः भावे ल्युट् ।
प्रतिज्ञानं तत्रार्थे न० ।

प्रतिज्ञात त्रि० प्रति + ज्ञा--क्त । प्रागुक्तप्रतिज्ञाविषये “ततो-

ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” इति स्मृतिः ।

प्रतिज्ञान्तर न० अन्या प्रतिज्ञा मयू० स० । “प्रतिज्ञातार्थ

प्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम्” गौ० सू०
उक्ते निग्रहस्थानभेदे विवृतं चेदं वृत्तौ “प्रतिज्ञान्तरं
लक्षयति । प्रतिज्ञातस्यार्थस्य प्रतिषेधे कृते तद्दूषणोद्दि-
धीर्षया धर्मस्य धर्मान्तरस्य विशिष्टः कल्पोविकल्पः तस्माद्वि-
शेषणान्तरविशिष्टतया प्रतिज्ञातार्थस्य कथनमिति
फलितार्थः । प्रतिषेध इत्यनेन झटितिसंवरणे विलम्बेनापि
स्वयं दूषणं विभाव्य विशेषणे न दोष इत्युक्तं, प्रतिज्ञा-
तार्थस्येत्युपलक्ष्मणम् हेत्वतिरिक्तार्थस्येति तत्त्वं तेन
उदाहरणान्तरमुपनयान्तरञ्च प्रतिज्ञान्तरत्वेन संगृहीतं
भवति । इदञ्च पक्षसाध्यविशेषणभेदात् प्रत्येकं द्विविध
यथा शब्दोऽनित्य इत्युक्ते ध्वनौ बाधेन परेण प्रत्युक्ते
वर्णात्मकः शब्दः पक्ष इति प्रतिज्ञान्तरं, न चेदमर्थान्तर
प्रकृतोपयोगात् न चेयं प्रतिज्ञाहानिः पूर्वोक्तस्यापरि
त्यागात् एवं पर्वतो वह्निमान् सुरभिमलिनधूमवत्त्वादि-
त्युक्ते असमर्थ विशेषणत्वेन च परेण प्रत्युक्ते कृष्णा-
गुरुप्रभववह्निमानित्यत्र, एवं तादृशवह्नौ साध्ये यः सुरभि
मलिनघूमवान् स वह्निमानित्युदाहरणे न्थूनत्वेन
प्रत्युक्ते स तादृशवह्निमानित्यत्र, णवमन्यदप्यूह्यम् ।

प्रतिज्ञापत्र न० प्रतिज्ञासूचकं पत्रम् शा० त० । भाषापत्रभेदे ।

प्रतिज्ञाविरोध न० “प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोवः”

गौ० सू० उक्ते निग्रहस्थानभेदे विवृतञ्चेदं वृत्तौ
“प्रतिज्ञाविरोधं लक्षयति अत्र च प्रतिज्ञाहेतुपदे
कथाकालीनवाक्यपरे तथा च कथायां स्ववचनार्थविरोधः
प्रतिज्ञाविरोधः यद्यपि काञ्चनमयः पर्वतो विह्निमान्
पर्वतः काञ्चनमयवह्निमान् ह्रदो वह्निमान् ह्रदत्वात्
पर्वतो वह्निमान् काञ्चनमयधूमादित्यादौ हेत्वाभासान्तर-
साङ्कर्य्यं तथाप्युपाधेयसङ्करेऽप्यु पाधेरसाङ्कर्य्यान्न दोषः ।
न चासङ्कीर्णस्थलाभावः प्रर्वतो न वह्निमान् धूमात् यो
यो धूमवान् स निरग्निरित्युदाहरणे निरग्निश्चायमि-
त्युपनये तत्सत्त्वात एवं निगसनेऽपि बोध्यम् ।
पृष्ठ ४४४२

प्रतिज्ञासन्न्यास न० “पक्षपतिषेधे प्रतिज्ञातार्थापनयनं

प्रतिज्ञासन्न्यासः” गौ० सू० उक्ते निग्रहस्थानभेदे विवृत-
ञ्चेदं वृत्तौ “प्रतिज्ञासन्न्यासं लक्षयति । पक्षस्य स्वाभि-
हितस्य परेण प्रतिषेधे कृते सति तत्परिजिहीर्षया
प्रतिज्ञातार्थ स्यापनयनमपलाप इत्यर्थः यथा शब्दोऽनित्य
ऐन्द्रयकत्वादित्युक्ते सामान्ये व्यभिचारेण” परेण
प्रत्युक्ते क एवमाह शब्दोऽनित्य इति ।

प्रतिज्ञाहानि न० “प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रति-

ज्ञाहानिः” गौ० सू० उक्ते निग्रहस्थानभेदे विवृतञ्चेदं
वृत्तौ “प्रतिज्ञाहानिं लक्षयति प्रतिकूलो दृष्टान्तो यत्र स
पुतिदृष्टान्तः परपक्षः स्वः स्वीयः दृष्टान्तो यत्र स स्वदृ-
ष्टान्तः स्वपक्षः तथा च स्वपक्षे परपक्षधर्माभ्यनुज्ञा प्रति-
त्ताहानिः स्वयं विशिष्याभिहितपरित्याग इति
फलितार्थः अपसिद्धान्तस्तु स्वयं विशिष्य नाभिधीयते इति
नापमिद्धान्तसाङ्कर्य्यं सेयं पक्षहेतुदृष्टान्तसाध्यतदन्यहानि-
भेदात् पञ्चधा भवति यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते
प्रत्यभिज्ञया बाधितविषयोऽयमित्युत्तरिते अस्तु तर्हि
घट एव पक्ष इति, एवं तत्रैव ऐन्द्रिययत्वादिति हेतो-
रनैकान्तिकत्वमिति प्रत्युक्ते अस्तु कृतकत्वादिति हेतु
रिति, एवं पर्वतो वह्निमान् धूमादयोगोलकवदित्युक्ते
दृष्टान्तः साधनविकल इति प्रत्युक्ते अस्तु तर्हि
महावसवदिति, एवम् अत्रैव सिद्धसाधने च प्रत्युक्ते अस्तु
तर्हि इन्धनवानिति अन्यहानिस्तु विशेषणहान्यादिः
यथा तत्रैव नीलधूमादित्युक्तेऽसमर्थविशेषेणत्वेन प्रत्युक्ते
अस्तु तर्हि धूमादिति हेतुरित्यादि ।

प्रतितन्त्र न० प्रतिकूलं तन्त्रं शास्त्रम् प्रा० स० । स्वमतविरुद्धे

शास्त्रे तन्त्रञ्चेतरेतराभिमतसम्बद्धस्यार्थस्योपदेशः
शास्त्रमिति ।

प्रतितन्त्रसिद्धान्त पु० “समाननन्त्रसिद्धः परतन्त्रसिद्धः प्रति-

तन्त्रसिद्धान्तः” गौ० सू० उक्ते सिद्धान्तभेदे विवृतं चेदं वृत्तौ
“प्रतितन्त्रमिद्धान्तं लक्षयति । ममानशब्द एकार्थस्तेनै-
कतन्त्रसिद्ध इत्यर्थः स्वतन्त्रमिद्ध इति पर्य्यवसितोऽर्थः
तथा च वादिप्रतिवाद्येकतरमात्राभ्युपगतस्तदेकतरस्य
प्रतितन्त्रसिद्धान्त इति फलितार्यः । यथा मीमांसकानां
शब्दनित्यत्वम् । उदाहृतं च भाष्ये यथा नासत आत्म-
लाभः नसत आत्प्रहानं निरतिशया चेतनाः देहेन्द्रि-
यमनः सु विषयेषु तत्तत्कारणेषु च विशेष इति सांख्या
नाम् । पुरुषकर्मनिमित्तो भूतसर्गः कर्महेतवो दोषाः
प्रवृत्तिश्च स्वगुणविशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्न
निरुध्यते इति योगानाम्” ।

प्रतितर पु० प्रतितीर्यतेऽनेन प्रति + तॄ--करणे अष् ।

तरणसाधने नौकाचालनदण्डादौ सुश्रुतः ।

प्रतिताल पु० संगीतसा० उक्ते तालभेदे तल्लक्षणभेदादिकं

तत्रोक्तं यथा “कान्तारः समराख्यश्च वैकुण्ठो वाञ्छित-
स्तथा । कथिताः शङ्करेणैव चत्वारः प्रतितालकाः ।
कान्तारः प्रतितालस्तु चन्द्रक्रीड़े द्रुतद्वयम् । दशाक्षर-
पदेनायं शृङ्गारे वर्त्तते रसे । १ लघुद्रुतौ लघुश्चान्तो
नृपनाल उदाहृतः । रुद्रसंख्याक्षरपदः समरो वीर्के
रसे” । २ “रुद्रत्रयस्तु वैकुण्ठे प्रतिताले समीरिताः ।
अर्कसंख्याक्षरै पादो हास्ये त्रिपुटतालके” । ३ “वाञ्छि-
तस्तृतीय ताले लघुरेको द्रुतस्तथा । बयोदशाक्षरैर्युक्तो
रसेऽद्भुते प्रकीर्त्तिनः” ।

प्रतिताली स्त्री प्रतिगता तालं गौरा० ङीष् । (चावि)

तालकोद्ध्वाटके यन्त्रभेदे हेमच० ।

प्रतितूणी स्त्री सुश्रुतीक्ते वानरोगभेदे “आवृत्य वायुः

सकफा धमनीः शब्दवाहिनीः । नरान् करोत्यक्रिय-
कान् मूकमिन्मिणगद्गदान् । अधिका वेदना याति
वर्चोमूत्राशयोत्थिता । भिदन्तीव गुदोपस्थं सा तुणी-
त्युपदिश्यते । गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी ।
वेगैः पक्वाशयं याति प्रतितूणी तु सा स्मृता” । तूणी-
शब्दोऽति तंत्र लक्षितवातरोगभेदे स्त्री ।

प्रतिदान न० प्रतिरूपं तुल्यरूपं दानम् प्रा० स० । विनिमये

१ तुल्यरूपदाने न्यस्तस्य द्रव्यस्य २ प्रत्यर्पणे च अमरः ।

प्रतिदारण न० प्रति--दॄ + णच्--आधारे ल्युट् । युद्धो शब्द-

माला भावे ल्युट् । भेदने ।

प्रतिदिवन् पु० प्रतिदीव्यति दिव--कनिन् । प्रत्यहं १ दीप्ति-

शीले सूर्य्ये त्रिका० अस्य भत्वेऽल्लोपे दीर्घविधौ
परनिमित्तलोपरूपाजादेशस्य स्थानिवत्त्वाभावात् दीर्थः ।
प्रतिदीन्नः प्रतिदीव्नेत्यादि । शब्दरत्ना० प्रतिदीवन् इति
शब्दान्तरं कृतं तत्र पृषो० । तत्रार्थे ।

प्रतिदृष्टान्तसम पु० गौ० सू० उक्ते जात्युत्तरभेदे जातिशब्दे ३१०१ पृ० दृश्यम् ।

प्रतिद्वन्द्व न० प्रतिरूपं द्वन्द्वम् प्रा० स० । तुल्ययुद्धे मार्क० १९ अ० ।

प्रतिद्वन्द्विन् त्रि० प्रतिद्वन्द्वमस्त्यस्य इति । १ तुल्यरूषे येना सह

द्वन्द्वं युद्धं क्रियते २ तस्मिंश्च ।
पृष्ठ ४४४३

प्रतिधर्त्तृ त्रि० प्रति + धृ--तृच् । निराकारके यजु० १५ । १० येददी०

प्रतिधा स्त्री प्रति + धा--भावे क्विप् । प्नतिविधाने भावे ल्युट् ।

पतिधान निराकरणे न० ।

प्रतिधि पु० पु० प्रतिमुखं धीयते ष्रति--धा कर्मखि कि ।

प्रातःसवनान्ते वाट्ये १ स्तोत्रभेदे ताख्य० ब्रा० भा० ।
२ ईषातिर्य्यग्गतकाष्ठे ऋ० १९ ८५ ८ भा० । ३ अन्ने यजु०
६८ वेददी० ।

प्रतिध्वनि पु० प्रतिरूपोध्वनिः प्रा० स० । शब्दानुसारेण जायमाने शब्दे प्रतिशब्दे हेमच० ।

प्रतिध्वान पु० प्रति + ध्वन--घञ् । प्रतिशब्दे अमरः ।

प्रतिनन्दन न० प्रति + वन्द--भावे ल्युट् । आशीर्वादादिना

सम्भावने ।

प्रतिनप्तृ पु० प्रतिनिहितो नप्ता पओत्रः प्रा० स० । प्रपौत्रे हेम० ।

प्रतिनव त्रि० प्रतिनतो नवं नूतनत्वम् अत्या० स० । नूतने जटा०

प्रतिनाद पु० प्रतिरूपो नादः प्रा० स० । प्रतिध्वनौ

प्रतिनायक पु० प्रतिकूलो नायकः प्रा० स० । वीररसादौ

प्रतिकूले नायके नायकस्य यं प्रति कोपादि तस्मिन्
“धीरोद्धतः पापकरी व्यसनी प्रतिनायका” सा० द० ।
यथा रामस्य रावण इत्यादि ।

प्रतिनिधि पु० प्रतिरूपं निधीयते तुल्यरूपतया स्वाप्यते

पति + नि + धा--कि । १ प्रतिरूपे तुल्यरूपे अमरः ।
बैदिककर्माङ्गद्रव्यादीनां सुख्यानामलाभे २ तुल्यरूपत-
यान्यस्मिन् निधीयमाने । कुत्र प्रतिनिधिर्भवति कुत्र वा
न मवति तत्सर्वं विशेषसहितं कात्या० श्रौ० १४ कण्डि-
कायां व्यवस्थापितं यस्य संक्षिप्तार्थस्यु कात्यायनशब्दे
१८६५ पृष्ठादो दर्शितः । तदनुसारेण स्मार्त्तादिसम्मत-
व्यवस्था प्रदर्श्यते तत्र एकादशीतत्त्वे उक्तं यथा
स्कन्दपुराणम् “पुत्रञ्च विनियोपेतं भनिनीं भ्रातर-
न्तथा । एपामभाव एवान्य ब्राह्मणं विनियोजयेत्” ।
नरुड़पुराणम् “भार्य्या भर्तृव्रतं कुर्य्याद्भार्य्यायाश्च
पतिस्तथा । असामर्थ्य द्वयोस्ताभ्यां व्रतभङ्गो न जायते” ।
वराहपुराणे “पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम् ।
अदृष्टार्थसुपोवित्वा स्वयश्च फलभाम् भवेत्” । अत्रैव
विषये कात्यायनः “दक्षिणा नात्र कर्त्तव्या शुश्रूषा
विहिता च सा” ननु प्रतिनिधौ ममेह शर्म इत्यादिमन्त्र-
स्थफलं कुत्रान्वेतु इति चेत् प्रधान एव । तथाच शारी-
रकभाष्ये श्रुतिः “यां वे काञ्चन यज्ञ आशिवमाशासते
यजमानायेव तामाशासते इति होवाच” इति । ब्राह्मण
सुर्वस्वे यजमानायेत्यत्र यजमानखेति पाथः । सरलायां
सूत्रं “यां वै काञ्चन ऋत्विगाशिषमाशास्ते सा यजमा-
नस्यैवेति” । अत्र ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरे
आकाङ्क्षितत्वात् । अतएव प्रतिनिधिपुत्रादिना “आयान्तु
नः पितरः” इत्यादिरनूह एव षठ्यते वाक्यस्य काल्पनिक-
त्वान्न तथेति । कालमाधवीये “काम्ये प्रतिनिधिर्नास्ति
नित्ये नैमित्तिके हि सः । काम्येषुपक्रमादूर्द्ध्वमन्ये प्रति-
निधिं विदुः” यथा नित्यं नैमित्तिकञ्च प्रतिनिधिना-
प्युपक्रम्य कारयेत् काम्ये तु स्वसामर्थ्यं परीक्ष्य स्वय-
मेवोपक्रम्य कुर्य्यात् । असामर्थ्ये उपक्रमादूर्द्ध्वं प्रति-
निधिनापि कारयेत् । एतच्च श्रौतकाम्यपरं स्मार्त्त-
काम्यन्तु अन्यद्वाराप्युपक्रम्य कार्य्यम् । तथा च पराशर-
भाष्ये शातातपः “श्रौतं कर्म स्वयं कुर्य्यादन्योऽपि स्मार्त्त-
माचरेत् । अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः” ।
अन्तत उपक्रमात् परतः । एतच्च काम्येऽपि प्रतिनिधि-
विधायक नैमित्तिकमात्रपरत्वे श्रौतस्मार्त्तभेदोपादान
व्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात् । अत
एव भारतपाठादौ तथा समाचारः । स्मृत्यर्थसारे
“नाभावस्य प्रतिनिधिरभावान्तरमिष्यते” । सजातीयत्वे-
ऽप्यभावान्तरमभावस्य प्रतिनिघिर्नेष्यते । भावस्तु
कदाचिद्यथोपवासादौ ब्राह्मणभोजनादीति । “नापि
प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् । श्रोत्रिया-
णामभोज्य यद्द्रव्यं हि तदशेषतः । ग्राह्यं प्रति-
निधित्वेन होमकार्य्ये न कुत्रचित् । द्रव्यं वैकल्पिकं
किञ्चिद् यत्र सङ्कल्पितं भवेत् । तदभावे सदृग् ग्राह्यं
न तु वैकल्पिकान्तरम् । उपात्ते तु प्रतिनिधौ सुख्या-
र्थो लभ्यत यदि । तत्र मुख्यमनादृत्य गौणेनैव
समापयेत् । संस्काराणामयोग्योऽपि मुख्य एव हि लभ्यते ।
न तु संस्कारयोम्योऽन्यो गृह्यते प्रतिरूपकः । मुख्ये
कार्य्यासमर्थे तु लब्धेऽप्येतस्य नादरः । प्रतिरूपक-
मादाय शक्तमेवोपजायते । कार्य्यैरूपैस्तथा पत्रैः क्षीरैः
पुष्पैस्तथा फलैः । गन्धै रसैः सदृग् ग्राह्यं पूर्वालाभे
षरं परम् । ग्राम्याणान्तु मवेद्ग्राम्यमारण्यानामर-
ण्यजम् । यवालाभे तु गोघूमास्तथा रेणुयवादयः ।
हविष्ये गोर्घृतं ग्राह्यं तदभावेऽपि माहिषम् । आजं
वा तदभावे तु साक्षात्तैलं प्रयुज्यते । तैलाभावे ग्रही-
तव्यं तैलजं तिलसम्भवम्” । तलजं तैलभृष्टं
तिलसम्भवम तिलपिष्टादि । “तदभावे तृ सस्नेहं
कौसुम्भं सर्षपोद्भवम् वृक्षस्नेहस्तथा ग्राह्यः पूर्वाभावे
पृष्ठ ४४४४
परः परः । तदभावे गवादीनां क्रमात् क्षीरं विधीयते ।
तदभावे दधि ग्राह्यमलाभे तिल इष्यते । यत्र मुख्यं
दधि क्षीरं तत्रापि तदलाभतः । अजादेः क्षीरदध्यादि
तदभावेऽपि गोघृतम् । मुख्यासन्नोऽथ वा ग्राह्यः कार्य्य-
कारणसन्ततौ” । अत एव धृताभावे पूर्वं दधि ततः
पयः । तथा “सर्वत्र गौणकालेषु कर्मचोदितमाचरेत् ।
प्रायश्चित्तं व्याहृतिभिर्हुत्वा कर्म समाचरेत्” । मत्स्य-
सूक्ते “घृतं न लभ्यते यत्र शुष्कक्षीरेण होमयेत् ।
क्षीरस्य च दधि ज्ञेयं मधुनश्च गुड़ी भवेत्” । आयुर्वेदे-
ऽपि “मधु यत्र न लभ्येत तत्र जीर्णो गुड़ो भवेत्” ।
काण्डमूलपर्णपुष्पफलप्ररोहरसगन्धादीनां सादृश्येन प्रति-
निधिं कुर्य्यात् । सर्वाभावे यवप्रतिनिधिर्भवतीति” काण्डं
नालं प्ररोहोऽङ्कुरः । सर्वालाभे यव इति कल्पतरुः
अवयव इति नारायणोपाध्यायः । शान्तिदीपिकायां
नारदीयपञ्चरात्रम् “अभावे चैव धातूनां हरितालं
विधीयते । वीजानामप्यभावे तु यव एकः प्रशस्यते ।
ओषधीनामभावे तु सहदेवी प्रशस्यते । रत्नानामप्य-
भावे तु मुक्तः फलमनुत्तमम् । लौहानामप्यभावे तु
हेमपात्रं प्रकल्पयेत्” । लौहानां तैजसपात्राणाम् । न्याय-
प्राप्तप्रतिनिधिमधिकृत्य जैमिनिः “न देवताग्निशब्द-
क्रियाणामिति” । अस्यार्थः देवताया अग्नेश्च
आहवनीयादेः शब्दस्य मन्त्रस्य क्रियाया प्रयाजाद्यदृष्टार्थ-
कर्मणश्चादृष्टमात्रार्थकत्वेनारादुपकारकत्वान्न प्रतिनिधिः,
व्रीह्यादीनान्तु सन्निपत्योपकारकाणां पुरोडाशसा-
धनं दृष्टमेव प्रयोजनमिति तत्र प्रतिनिधिरुचित
इत्युक्तम् । परिशिष्टम् “मुख्यकाले तु मुख्यञ्चेत् साधनं
नैव लभ्यते । तत्कालद्रव्ययोः कस्य गौणता मुख्यतापि
वा” । तत्र भरद्वाजः “मुख्यकालमुषाश्रित्य
गौणमप्यस्तु साधनम् । न मुख्यद्रव्यलाभेन गौणकालप्रती-
क्षणम् । गौणेषु तेषु कालेषु कर्म चोदितमारभेत् ।
प्रायश्चित्तप्रकरणप्रोक्तां निन्कृतिमाज्वरेत्” । उत्तरमतं
सिद्धान्तमिति केचित् । तदभिप्रायकं मीमांसाषष्ठाध्याय-
सूत्रम् । “पौर्वापर्य्येऽपि पूर्वदौर्बल्यं प्रकृतिवदिति” ।
ज्योतिष्टोमेऽन्योन्यं सम्बध्य यज्ञशालातो बहिर्निर्गच्छता
मृत्विजां विच्छेदबिमित्तं प्रायश्चित्तं श्रूयते यद्युद्गाता
विच्छिन्द्य द्दक्षिणेन यजेत यदि प्रतिहर्त्ता सर्वस्वदक्षिणे-
नेति” । तत्र उद्गातृप्रतिहोत्रोः क्रमेण विच्छेदे विरुद्ध-
प्रायचित्तयोः ससुच्चयासम्भवात् । किं पूर्वं कार्य्यम् उत
वा परमिति संशये हि अनुपजातबिरोधात् पूर्वमिति
पूर्वपक्षे राद्धान्तः पौर्वापर्य्ये सति निमित्तयोः पूर्व-
स्यैव निमित्तस्य दौर्बल्यम् । उत्तरस्य पूर्वनिरपेक्षस्य
तद्बाधकतया उदितत्वात् पूर्वोदयकाले उत्तरस्याग्राह्य-
त्वेन पूर्वेण बाध्यत्वायोगात् । उक्तं हि “पूर्वं
परमजातत्वादवाधित्वैव जायते । परस्यानन्यथोत्पादादुक्त-
बाधेन सम्भवः” इति प्रकृतिवदिति यथा हि प्रकृतौ
क्लप्तोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराका-
ङ्क्षिण्यां प्राप्ताः कल्प्योपकारतया चरमभाविभिरमि
शरैर्निरपेक्षैर्बाध्यन्ते तद्वदिति । अत एव शारीरकभाष्य-
टीकायां वाचस्पतिमिश्राः “ज्येष्ठत्वञ्चानापेक्षितस्य
बाध्यत्वे हेतुर्न बाधकत्वे रजतज्ञानस्य ज्यायसः शुक्ति-
ज्ञानेन कनीयसा बाधदर्शनात् तदनपबाधने तद्बाधात्म-
नस्तस्योत्पत्तेरनुत्पत्तेः तथाच “पूर्वापरबलीयस्त्वं तत्र
नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्मधियां
भवेत्” इति । यदि च पूर्ववचनस्य पूर्वपक्षत्वे वैयर्थ्यं
स्यात् अत उभयवचनार्थौ विवक्षणीयौ तदा विषयभेदेन
व्यवस्थापनीयौ । तथाहि यत्राष्टकाश्राद्धादौ काला
न्तराभावस्तत्र तत्कालानुरोघाद्विहितद्रव्यालाभेऽपि प्रति-
निहितद्रव्यमादाय मुख्यकाल एव तत्करणं न तु
वचनानुपात्तस्वेच्छाकल्प्यगौ णकालप्रतीक्षणम् । तथाच
छन्दोगपरिशिष्टम् “स्थालीपाकं पशुस्थाने कुर्य्याद्
यद्यानुकल्पिकम् । श्रपयेत्तं सवत्सायास्तरुण्यागोः
पयस्यनु” इत्यादि । यत्राव्दिकश्राद्धादौ कृष्णैकादश्या-
दिगौणकालोऽस्ति तत्र मृताहादावन्नाद्यभावे तदनुरो-
धेन उपवासादिरूपं प्रायश्चित्तं कृत्वा गौणकाले तत्
क्रर्त्तव्यम् । तथाच लघुहारीतः “एकोद्दिष्टन्तु कर्त्तव्यं
पाकेनैव सदा स्वयम् । अभावे पाकपात्राणां तदह
समुपोषणम्” । तथाच छन्दोगपरिशिष्टम् “संस्कारा
अतिपत्येरन् स्वकालाच्चेत् कथञ्चन । हुत्वैतदेव कुर्वीत
ये तूपनयनादधः” । यत्र तु विनिगमकवचनाभाबस्तत्र
यद्यपि क्रियायाः प्राधान्यात् कालो द्रव्यं द्वयमपि
गुणभूतमेव तथाप्युभयोपसंहारासामर्थ्ये द्रव्यादरः कालस्य
सूर्य्यादिक्रियाघटितस्य कर्त्रधीनत्वाभावाद्वर्जनीयत्वसिद्धिः
असन्निधिकत्वान्निमित्तत्वमात्रेण बहिरङ्गत्वात् । कालस्य
निमित्तत्वं व्यक्तं भविष्ये “अतः कालं प्रवक्ष्यामि निमित्तं
कर्मणामिह” । द्रव्यस्य तु यागस्वरूपनिर्वाहकत्वेना-
भ्यर्हितत्वात् कर्मणः कारकत्वेनान्तरङ्गत्वच्च । पुत्रादि-
पृष्ठ ४४४५
प्रतिनिध्यभावे तु ब्रह्मवैवर्त्तः “उपवासासमर्थश्चेदेकं
विघ्रन्तु भोजयेत् । तावद्धनानि वा दद्याद् यद्भक्ताद्-
द्विगुणं भवेत् । सहस्रसम्मितां देवीं जपेद्वा प्राणसंय-
मान् । कुर्य्याद्द्वादशसंख्याकान् यथाशक्ति व्रते नरः” ।
देवीं गायत्रीम् । अत्र चान्द्रायणादौ परिसंख्या ।
काश्यपपञ्चरात्रे “मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने ।
फलमूलजलाहारी हृदि शल्यं ममार्पयेत् । अत्र यो
दीक्षितः कश्चिद्वैष्णवो भक्तितत्परः । निर्निमित्तमदी-
क्षायां न च क्षद्व्याधिपीड़ितः । अन्नं वा यदि भुञ्जीत
सूलं फलसथापि वा । अषराधमहं तस्य न क्षमामि
तु कश्यप! । क्षिपामि नरके घोरे हृच्छल्यं मम जायते” ।
निमित्तं प्रारब्धचान्द्रायणादिव्रतविरोध इत्यादि, दीक्षायां
चरुशेषप्राशनस्य विहितत्वाददोक्षायामित्युक्तम् । क्षुद्-
व्याधिना पीड़ितः सर्वमेतत्प्रदर्शनमात्रं शक्तौ निर्वि-
रोध इत्यर्थः । अन्नादिकमप्युपलक्षणमिति जीमूत
वाहनः । अत्र निमित्तं प्रारब्धचान्द्रायणादीति यदुक्तं
तन्न चान्द्रायणादौ भोजनस्यावश्यकत्वाभावात् किन्तु
निमित्तं रविवाराद्युपवासपारणं जलपानरूपं दीक्षाया-
मपि चरुप्राशनं घ्राणरूपम् अन्यथा “पुरोडाशोऽपि
सोमो वा संप्राप्ते हरिवासरे । अभक्ष्येण समः प्रोक्तः
किं पुनश्चाशनक्रिया” इति नारदीयं विरुध्येत । तद्घ्रा-
णस्य भोजनरूपतामाह कालादर्शे श्रुतिः “पित्रमाघ्रेयं
तन्नैवं प्राशितं नबति” इति पित्र्यमुपलक्षणम्
आकाङ्क्षाया अवशिष्टत्वात् । तेनैकादश्यां तदुभयोर्जलपारणं
चरुशेषघ्राणञ्च कृत्वा उपबासः कार्य्यः” ।
आरब्धकार्त्तिकादिस्नाने तु व्याधादिनाऽसामार्थ्ये पुत्रा-
दिभिः प्रतिनिधिना कारयितव्यं नानुकल्पविधिना नित्य-
स्नान एव तद्विधिनादिति” इति मल० त० । स्वयं करणाऽ-
सामर्थ्ये अत्यद्वारा कारयितव्यं यथा दक्षः “स्वयं होमे
फलं यच्च तदन्येन न जायते । ऋत्विक् पुत्रो गुरुर्भ्राता
भागिनेयोऽथ विट्पतिः । एभिरेव हुतं यत्तु तद्धुतं
स्वयमेव हि” विट्पतिर्जामाना । एवञ्च ऋत्विगादीतरत्र
फवन्यूनता । अत्राशौचाशङ्कया बोधनदिनात् पूर्वं
शुचितत्कालजीवित्वरूपाधिकाराभावेऽपि यद्वरणादिकं
क्रियते तत्कर्मकाले तस्य नारदोक्तस्वयंप्रवर्त्तनवत् प्रव-
र्त्तनाय न तु तदानीं प्रतिनिधीयते अथ वा “निःक्षि-
प्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा । प्रवसेत् कार्य-
वात विप्रो वृथैव न चिरं वसेत्” इति छन्दोगपरिशिष्ट
वदन्यत्रापि प्रतिनिघीयते एवं वरणं विनापि क्वचिद्-
यदि ऋत्विक् प्रवर्त्तते तथापि तत्कर्मसिद्धिः । दक्षिणा
च तस्मै शुकिकाले दातव्येति तथा च नारदः “ऋत्विक्
च त्रिविधो दृष्टः पूर्वैर्जुष्टः स्वर्यंकृतः । यदृच्छया वा
यः कुर्य्यादार्त्विज्यं प्रीतिपूर्वकम्” यदृच्छया स्वेच्छया”
ति० त० । परार्थस्नाने स्वयमशक्तौ कुशमयवतिमूर्त्तिस्नानेऽपि
फलविशेषः प्रा० त० उक्तो यथा “प्रतिकृतिं कुशमयीं
कृत्वा तीर्थवारिषु मज्जयेत् । यमुद्दिश्य निमज्जेत
सोऽष्टभागं फलं लभेत् । मातरं पितरं वापि भातरं
सुहृदं गुरुम् । यमुद्दिश्य निमज्जेत द्वादशांशं फलं
लभेत्” । “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा ।
पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः” दत्तकमी० ।

प्रतिनियम पु० प्रत्येकं नियतः । १ एकमेकं प्रति नियमे

२ व्यवस्थायाम् “प्रतिनियमादयुगपत्ष्रवृत्तेश्च पुरुषव-
हुत्वं सिद्धम्” सा० का० ।

प्रतिनिर्देश्य त्रि० प्रति + निर्--दिश--कर्मणि ण्यत् । प्रथम-

निर्दिष्टस्य पुनर्मुणान्तरविधानार्थं बुभुत्सितार्थंप्रतिपा-
दनार्थं च निर्देशविषये यथा “उदेति सविता ताम्रस्ताम्र
एवास्तमेति च” अत्र ताम्रतयोदितस्य पुनस्ताम्रगुणवि-
शिष्टतयास्तत्वकीर्त्तनाय पुनर्निर्देशः । तत्र च कथित
पदता न काव्यदोषः तदुक्तं काव्यग्रकाशे
“उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकवदप्रयीग
निषेधस्य, द्रेद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो
वा प्रयोयं विना दोषः । तथा हि “उदेति सविता
ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ च
महतामेकरूपता” । अत्र रक्त एवास्तमेतीति यदि
क्रियते तदा पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तरतयेव
प्रतिभासमानः प्रतीतिं स्थगयति” । “तद्वतीति उद्देश्य
प्रतितिर्दश्यत्ववतीत्यर्थः दोष इति आपाततोऽर्थान्तरता-
वभासरूप इत्यर्थः । अयं भावः “न सोऽस्ति प्रत्ययो लोके
यत्र शब्दो न भासते” इति नियमाच्छब्देनोपस्थाप्यमानो
ऽर्थः शब्दविशिष्ट एव भासते अतः शब्दभेदेनोपादाने
तच्छब्दविशिष्टेऽर्थे भासमाने विभिन्नशब्दरूपविषेषण-
भेदाद्भेदावभास इति । सर्वनाम्नापि पूर्वीपात्तशब्दविशि-
ष्टभासनान्न भेदावभास इत्याह सर्वनाम्नोवेति” नागेशः ।

प्रतिनिवर्त्तन न० प्रति + निर्--वृत--भावे ल्युट् । १ अभीष्ट-

वस्तुतः निवृत्तौ णिच्--ल्युट् । २ निवारणे
पृष्ठ ४४४६

प्रतिन्याय अव्य० प्रति + नि + अय इ--वा घञ् । न्यायो

युक्तिभेदी वा अनक्रमे अनतिक्रमे वा अव्ययी० वा ।
१ यथागतं प्रत्यागमने “पुनः प्रतिन्यायं यथा योन्या
द्रवति” वृ० उ० “प्रतिन्यायम् यथागतम् नि + आयो
न्यायः । अयनमायो निगमनं पुनः पूर्वगमनवैपरीत्येन
यदागमनं स प्रतिन्यायः यथागतं पुनरागच्छतीत्यर्थः”
भाष्यम् । २ युक्तिमनतिक्रम्येत्यर्थे च ।

प्रति(ती)प पु० प्रति--पाति + पा--क वा दीर्घः । शान्तनुरांज

पितरि भा० आ० ९४ अ० । ह्रस्वभध्यः शब्दरत्ना० ।

प्रतिपक्ष पु० प्रतिकूलः पक्षः प्रा० स० । १ विरुद्धपक्षे “विमृश्य

पक्षप्रतिपक्षाभ्यामर्थाबधारणं निर्णयः” गौत० सू० । निर्ण-
यशब्दे ४५९३ पृ० अस्यार्थो दृश्यः । प्रतिकूलः पक्षो
यस्य प्रा० व० । २ शत्रौ ३ सदृशे च त्रि० । ४ व्यवहारे
प्रतिवादिनि विपक्षेच ।

प्रतिपक्षित पु० प्रतिपक्षो जातोऽस्य तारका० इतच । १

सत्प्रतिपक्षरूपदोषयुक्ते हेतौ हेत्वाभासभेदे “अनैकान्तो
विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययोपदिष्टश्च हेत्वा-
भासाश्च पञ्चधा” भाषा० । “सत्प्रतिपक्षे तु प्रतिहेतुः
साध्याभावसाधकः । अत्र तु हेतुरेवेति विशेषः । साध्या-
भावसाघक एव साध्यासाधकत्व न उषन्यस्त इत्यशक्ति-
विशेषोपस्थापकत्वाच्च विशेषः । सत्प्रतिपक्षः साध्याभा-
वव्याप्यवान् पक्षः । अगृहीताप्रामाण्यकतया साध्यव्या-
प्यवत्त्वेनोपस्थितिकालीनायाः साध्यामावव्याप्यवत्त्वेनो-
पस्थितेर्विषयस्तथा इत्यन्ये । अत्र च परस्पराभाव-
व्याप्यवत्ताज्ञानात् परस्परानुमितिप्रतिवन्धः फलम् ।
अत्र केचित् यथा घटाभावव्याप्यवत्ताज्ञाने विद्यमानेऽपि
घटचक्षुःसंयोगे सति थटवत्ताज्ञानं जायते । यथा च
सत्यपि पीतत्वाभावव्याप्यशङ्खत्ववत्ताज्ञाने पित्तादिदोषेण
पीतः शङ्ख इति धीर्जायते एवं कोटिद्वयव्याप्यवत्तादर्शने
कोटिद्वयप्रत्यक्षरूपः संशयो भवति तथा सत्प्रतिपक्षस्थले
संशयरूपानुमितिर्भवत्येव यत्र चैककोटिव्याप्यदर्शनं तत्रा-
धिकवलतया द्वितीयकोटिभानप्रतिबन्धान्न संशयः
फलयलेन चाधिकसमबलाभावः कल्प्यते इति वदन्ति । तन्न
तदभावव्याप्यवत्ताज्ञाने मति तदपनीतभावविशेषशाब्द-
योधादेरनुदयात् लौकिकसन्निसर्षाजन्यदोषविशेषाजन्य-
ज्ञानमात्रे तस्य प्रतिबन्धकता लाधवात् । न तूपनीत-
भावविशेषे शाब्दबोधे च पृथक् प्रतिबन्धकता
गौरवात् । तथा च प्रतिवन्धकसत्त्वात् कथमनुमितिः । न
हि लौकिकसन्निकर्षस्थसे प्रत्यक्षमिव सत्प्रतिपक्षस्थले
संशयानुमितिः प्रामाणिकी येनानुमितिभिन्नत्वेनापि
विशेषणीयम् यत्र कोटिद्वयव्याप्यवत्ताज्ञानं तत्रोभयत्रा
प्रामाण्यज्ञानात् संशयो नान्यथाऽगृहीताप्रामाणक-
स्यैव विरोधिज्ञानस्य प्रतिबन्धकत्वादिति” सि० मु० ।

प्रतिपण पु० प्रतिरूपः पणः प्रा० स० । १ तल्यरूपे पणे मूल्ये

अथ० ३ । १५ । ४ ।

प्रतिपत्ति स्त्री प्रति + पद--क्तिन् । १ प्रवृत्तौ २ प्रानल्भ्ये

३ गौरवे ४ प्राप्तौ ५ पदप्राप्तौ ६ कर्त्तव्यताज्ञाने च मेदि० ।
“विषादलुप्तप्रतिपत्तिविस्मितम्” इति रथुः । मीमांसकमते
७ फलशून्यकर्माङ्गभेदे यथा श्राद्धादौ दत्तदूव्यस्य कुशमय-
ब्राह्मणपक्षे जलादौ निक्षेपः । पूजितप्रतिमादेश्च जलादौ
निक्षेपः । ८ स्थापनमात्रे च कात्या० श्रौत०

प्रतिपत्तिपटह पु० वाद्यभेदे (नागरा) हारा० ।

प्रतिपत्तुर्य्य न० द्रगड़वाद्ये (दगडकाडा) त्रिका० ।

प्रतिपत्रफला स्त्री पतिषत्त्रं फलं यस्याः । क्षुद्रकारबेल्ले

(छीटौच्छे) राजनि० ।

प्रतिपद् स्त्री प्रतिपद्यते उपक्रम्यते पक्षोमासो वाऽनया प्रति +

पद--करणे क्विष । पक्षयोः प्रथमायां १ तिथौ तिथिशब्दे
तत्स्वरूपं ३२९१ पृ० दर्शित कर्मभेदे तत्कालव्यवस्था च
३२९२ पृ० दर्शिता । २ द्रनडवाद्ये त्रिका० । भावे सम्प०
क्विप् । ३ ज्ञानं ४ उपक्रमे कालमा० तच्छब्दस्योपक्रमा-
र्थत्वमुक्तं यथा
“तत्र प्रतिपच्छब्द उपक्रमे वर्त्तते । चान्द्रः पक्षो मासो
वा प्रतिपद्यते प्रारभ्यते यस्यां तिथौ सा तिथिः प्रति-
पत् । प्रारम्भवाचित्वं प्रतिपच्छब्दस्य बहुषु ब्राह्मा-
खानुवाक सूत्रेषु प्रयोनादवगम्यते ताथा च श्रुतिः
“आत्वारथं यथोतय इदं वसोमृतमन्ध इति मरुत्वतीयस्य
प्रतिपदनुचराविति” । अयमर्थः मरुत्वतीयं नाम किञ्चि-
च्छस्त्रम् । तस्यात्वारथमित्ययं मन्त्रः प्रतिपत् प्रथम
पाठ्यः । इदं वसोमृतमन्ध इत्ययं मन्त्रोनुचरः पश्चात्
पाठ्य इति । तथा तैत्तिरीया आश्वमेधब्राह्मणे
आमनन्ति । “पवस्व वाजसातय इत्यनुष्टुप् प्रतिपद्भवतीति”
तथा त एव दर्शपूर्णमासब्राह्मणे पठन्ति “सामिधेनीरनु-
वक्ष्यन्ते ताव्याहृतीः पुरस्वाहृध्यात् ब्रह्मेव प्रतिपदं
कुरुतः” इति ।
तत्तिथौ वह्नेर्जन्म यथोक्तं वराहपु०
“देवानामथ यक्षाणां नन्धर्वाणाञ्च सत्तम! क्षादौ प्रति-
पदो येन त्वमुत्पन्नोऽसि पावक । तत्पदात् प्रातिपादिकं
पृष्ठ ४४४७
सभविष्यन्ति देवताः । अतस्ते प्रतिपन्नाम तिथिरेषा
भविष्यति” । ४ बहिष्पवमानस्तोत्रस्य प्रथमस्तुतौ ताण्ड्य० ब्रा०
४ । २ । १५ यथा “कवन्ते वाजसातये सोमाः सहस्र
पाजस इति संहस्रवती प्रतिपत्कार्य्या” । “प्रतिपद्यते प्रक-
म्यते बहिष्पवमानस्तोत्रे एषा प्रतिपत् सा सहस्रवती
सहस्रशब्दोपेता एषा कार्य्यां” भा० । वा टाप् तत्रार्थे

प्रतिपन्न त्रि० प्रति + पद--क्त । १ अवगते अमरः २ स्वीकृते

मेदि० “प्रतिपन्नं हि विचेतनैरपि” कुमारः । ३ वि
क्रान्ते च हेमच० आचिता० अस्य गतिपूर्वकत्वेऽपि
नान्तोदात्तता ।

प्रतिपर्णशिफा स्त्री प्रतिपर्णं शिफाऽस्याः । द्रवन्तीवृक्षे राजनि० ।

प्रतिपाण पु० प्रति + पण--धञ् । प्रतिरूपदेवने

प्रतिपादक त्रि० प्रति + पद--णिच्--ण्वुल् । बोधके ।

प्रतिपादन न० प्रति + पद--णिच् भावे ल्युट् । १ दाने २

बोधने ३ प्रतिपत्तौ च मेदि० ।

प्रतिपाद्य त्रि० प्रति + पद--णिच् कर्मणि यत् । वोधनीये

प्रतिपूजन न० प्रतिरूपं पूजनं प्रा० स० । केनचित् पूजने कृते

तदनुरूपे तेन पूजकस्य १ पूजने २ आभिमुख्येन पूजने च ।

प्रतिप्रदान न० प्रति + आ + दा--भावे ल्युट् । १ प्रतिदाने

२ प्रत्यर्पणे च ।

प्रतिप्रसव पु० प्रति + प्र + सू--अप् । १ निषिद्धस्य पुनःप्राप्तिस-

म्भावनायाम् । साकल्येऽव्ययी० । २ प्रसवसाकल्ये प्रति-
जन्मनीत्यर्थे ।

प्रतिप्रस्थातृ पु० प्रति + प्र + स्था--तृच् ।

सोमयागीये ऋत्विग्भेदे अच्छावाकशब्दे ८५ पृ० दृश्यम् ।

प्रतिप्रस्थान न० प्रतिकूलं प्रस्थानम् प्रा० स० । १ विरुद्धपक्षाश्र-

यणे प्रतिकूलं प्रस्थानं यस्य प्रा० ब० । २ तद्वति त्रि०
३ निग्राह्ये यजु० १८ । १९ वेददी० ।

प्रतिप्रहार पु० प्रतिरूपः प्रहारः प्रा० स० । १ कृतप्रहारानु

रूपप्रहारे २ प्रतिघातभेदे च ।

प्रतिप्रैष पु० प्रतिरूपः प्रैषः प्रा० स० । नियोजितेन नियोक्तारं

प्रति पुनःप्रेषणे कात्या० २५ । १० । ३ कर्कः ।

प्रतिफल त्रि० प्रतिफलति प्रति + फल--अच् । १ प्रतिविम्बे

येन यत्कर्म कृतं २ तस्यानुरूपप्रतीकारे । साकल्य
अव्ययी० । ३ फलसाकल्ये अव्य० ।

प्रतिफलन न० प्रात + फल--भावे ल्युट् । प्रतिविम्बने सादृश्ये

प्रतिफुल्लक त्रि० प्रति + फुल्ल--विकाशे ण्वुल् । प्रफुल्ले शब्दच०

प्रतिबद्व त्रि० प्रति + बन्ध--कर्मणि क्त । १ प्रतिरुद्धे २ साकल्येन

सम्बद्धे व्यापके च प्रतिबन्धशब्दे दृश्यम् ।

प्रतिबन्ध पु० प्रति + बन्ध--भावे घञ् । १ पतिरोधे २ साकल्येन

सम्बन्धे व्याप्तौ च “प्रतिबन्धदृशः प्रतिबद्धज्ञानमनु-
मानम्” सा० सू० “प्रतिबन्धो व्याप्तिर्व्याप्तिदर्शनाद्-
व्यापकज्ञानमनुमानम्” प्र० भा० ।

प्रतिबन्धक त्रि० प्रतिबन्धाति प्रति + बन्ध + ण्वुल् । १ प्रतिरो-

धके । स्त्रियां टाप् कापि अत इत्त्वम् । “बलवद्द्विष्टहे-
तुत्वमतिः स्यात् प्रतिबन्धिका” भाषा० । २ विटपे शब्दच०
प्रतिबन्धकत्वञ्च कारणोभूताभावप्रतियोगित्वम् तच्च
मणाद्यभावत्वेन न तु प्रतिबन्धकाभावत्वेनेति नान्यो-
न्याश्रयः । एवं प्रतिबन्धकाभावकूट एव कारणं तेन
मणिसद्भावे मण्याद्यभावेऽपि न कार्य्यमिति” अनुमा०
चि० अतिरिक्तशक्तिनिरासे । तच्च पञ्चधा भवति यथा
तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयत्वेन प्रतिबन्धक-
त्वस् १ । तदभावव्याप्यवत्तानिश्चयत्वेन २ तदभावावच्छेदक-
तया गृहीतधर्मवत्तानिश्चयत्वेन ३ । तदसमानाधिकरण-
धर्मवत्तानिश्चयत्वन ४ । तद्व्यापकतावच्छेदकतया गृहीत
धर्मावच्छिन्नाभाववत्तानिश्चयत्वेन ५ चेति । तत्राद्य यथा
ह्रदो वह्निमानिति बुद्धिं प्रति ह्रदो न वह्निमानिति
निश्चयस्य प्रतिबन्धकत्वम् । द्वितीयं ह्रदो वह्न्यभावव्या-
प्यवानिति निश्चयस्य । तृतीयं जलवान्वह्न्यभाववानिति
निश्चयविशिष्टस्य जलवान् ह्वदः इति निश्चयस्य । चतुर्थं
वह्न्यसमानाधिकरणजलवान् ह्रद इति निश्चयस्य ।
पञ्चसं ह्रदो धूमवानिति बुद्धिं प्रति धूमव्यापकतावच्छेदक-
तया गृहीतं यद्वह्नित्वं तादृशवह्नित्वावच्छिन्नाभाववान्
ह्रद इति निश्चयस्येति । कार्य्यमात्रं प्रति तु कामिनी
जिज्ञासायाः स्वातन्त्र्येण प्रतिबन्धकत्वम् । क्वचित्
मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वम् यथा दाहं प्रति मणेः
प्रतिबन्धकत्वम् इति ।

प्रतिबन्धि(न्धी) प्रति + बन्ध--इन् वा ङीप् । प्रकृतैककल्पे

प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरापादने प्रतिवादिमते-
ऽनिष्टान्तरप्रसञ्जकवाक्ये तत्रार्थे प्रतिबन्दीशब्दोऽपि
तन्मूलं मृग्यम् ।

प्रतिबन्धु पु० प्रतिरूपो बन्धुः प्रा० स० । बन्धुतुल्ये दौहित्रादौ ना० उ० १२० अ० ।

प्रतिबल पु० प्रतिकूलं बलं यस्य । १ शत्रौ “प्रतिवलजधेरिति”

वेणी० । प्रतिरूपं बलं यस्य । २ तुल्यषले त्रि० “यो मे
प्रतिबलो लोके” इति चण्डी । प्रतिगतं बलम् प्रा० स० ।
२ सामर्थ्ये न० त्रिका० ।

प्रतिबाहु पु० प्रतिगतो बाहुम् अत्या० स० । बाहोरग्रे वृ० सं०

५८ । २५ श्वफल्कस्य २ पुत्रभेदे अक्र् रभ्रातरि भाग० ९ । २४ । ९
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/पृषभाषा&oldid=57817" इत्यस्माद् प्रतिप्राप्तम्