वाचस्पत्यम्/पुष

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४३८२

पुष पुष्टौ दिवा० पर० अक० अनिट् । पुष्यति ऌदित् अपुषत्

पुपोष । “स्वे पुषः” पा० खमुल् कसादिषु यथाविध्य-
सुपयोगात् खपोषं पुष्यति आत्मानं पुष्यतीत्यर्थ ।

पुष पुष्टौ अक० पोषणे सक० क्य्रा० प० सेट् । पुष्णाति अपोषीत्

पुष पुष्टौ भ्वा० पर० अक० सेट् । पोषति अपोषीत् ।

पुष धृतौ चु० उभ० सक० सेट् । पोषयति ते अपूपुषत् त ।

पुषा स्त्री पुष्णाति पुष--क टाप् । लाङ्गलीवृक्षे शब्दच० ।

पुष्क न० पुष--बा० भावे क किच्च आद्य कस्य नेत्त्वम् । १ पुष्टौ

ततः सिध्मा० मत्वर्थे लच् । पुष्कल तद्युते त्रि० ।

पुष्कर न० पुष्कं पुष्टिं राति रा--क । १ हस्तिशुण्डाग्रे

२ वाद्यभाण्डमुखे ३ जले ४ आकाशे ५ असिफले ६ पद्मे
७ तीर्थभेदे ८ कुष्ठौषधौ अमरः । ९ काण्डे १० द्वीपभेदे च
मेदि० । ११ रोगभेदे १२ नागभेदे १३ सारसखगे नलराज
भ्रातरि १४ नृपभेदे १५ वरुणपुत्रे पुष्करद्वीवस्य १६ राजभेदे च
पु० मेदि० । १७ मेघाधिपभेदे १८ त्रिपुष्करघटकयोगे त्रिपुष्क-
शब्दे ३३३१ पृ० दृश्यम् । १९ असुरभेदे हरिवं०
२० विष्णौ मा० शा० ४३ अ० । तीर्थभेदश्च त्रिपुष्करशब्दे
दृश्यः । १९ ब्रह्मकृतसरोवरभेदे न० । “पितामहसरः
पुण्यं पुष्करं नाम नामतः” भा० व० ८५ अ० ।
२ । पुष्करद्बीपस्थे पर्वतभेदे पु० “पुष्करे पुष्करो नाम
पर्वतो मणिसानुमान्” भा० भी० १२ अ० । १६ पुष्कर-
द्वीपाधिपनृपे “द्वीपे शुभे पुण्यजनैरुपेते उवास राजा
स तु पुष्कराख्यः । तेनैव नाम्नास तु पुष्करोऽपि सदोच्यते
देवगणैः ससिद्धैः” अग्निपु० । तस्य पुष्कर (पद्म)
तुल्ययानत्वात् वा तथात्वम् “तेनैव यानेन तथाम्बुजेन
बभूव नाम्ना तमथाह्वयन्ति” अग्निपु० ।
१७ मेधाधिपभेदानयनञ्च ज्यो० त० उक्तं यथा
“त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् । आवर्त्तं
विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम्” तस्य फलम् “पुष्करे
दुष्करं वारि शस्यहीना वसुन्धरा । विग्रहोपहगा
लोकाः पुष्करे जलदाधिपे” । १० द्वीपभेदश्च “यत एव कृताः
सप्त भुवोद्वीपाः जम्बुप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कर-
संज्ञाः” भाग० ५ । १ । ३३ । विष्णुपु० तस्य प्रमाखाद्युक्तं
यथा “शाकद्वीपप्रमाणेन वणयेनेव वेष्टितः । क्षीराब्धिः
सर्वती ब्रह्मन्! पुष्कराख्येन वेष्टितः । द्वीपेन शाकद्वीपात्तु
द्बिगुणेन समन्ततः । तद्द्वीपाधिपतेश्चैव महावीतोऽ-
भवत् सुतः । धातकिश्च तयोस्तत्र द्वे वर्षे नाम चिह्निते ।
महावीतं तथैवान्यत् धातकीपण्डमण्डितम् । एकश्चात्र
नहामाग! प्रख्यातो वर्मपर्वतः । मानतोत्तरसंज्ञो वै
मध्यतो वलयाकृतिः । योजनानां सहस्माणि ऊर्द्ध्वं
षञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः
परिमण्डलः । पुष्करद्वीपवलयं मध्ये च विभजन्निव ।
स्थितोऽसौ पर्वतस्तेन जातं तद्वर्षकद्वयम् । बलयाकार-
मेकैकं तयोर्वर्षं तथा गिरिः । दशवर्मसहस्नाणि यत्र
जीवन्ति मानषाः । निरामया विशोकाश्च रागद्वेष
विवर्जिताः । अधमौत्तमौ न तेष्वास्तां न वध्यबधकौ
द्विज! । नेर्प्यासूयाभयं रोषो दोषो लोभादिको ग च ।
महावीतं महावर्षं धातकिसंज्ञकन्ततः । मानसोत्तर
शैलस्य देवदैत्यादिसेवितम् । सत्यानृते न तत्र स्तो द्वीपे
पुष्करसंज्ञिते । न तन शैलनद्यो वा द्वीपे वर्षद्वयान्विते ।
तुल्यवेशास्तु मनुजा देवैस्तत्रैकरूपिणः । वर्णाश्रमाचार-
हीर्नं धर्माचरणवर्जितम् । त्रयीवार्त्तादण्डनीति-
शुश्रूपारहितञ्च तत् । वर्षद्वयञ्च मैत्रेय! भौमः स्वर्गोऽय-
मुत्तमः । सर्वश्च सुखदः कालो जरारोगादिवर्जितः ।
पुष्करे धातकीषण्डे महावीते च वै मुने! ।
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् । तस्मिन्निव
सति ब्रह्मा पूज्यमानः सुरासुरैः । स्वादूदकेनोदधिना
पुष्करः परिवेष्ठितः । समेन पुष्करस्यैव विस्तारान् मण्ड-
लातथा” । १४ नलनृपभ्रातरि “पुष्कर! त्वं हि मे भ्राता
सञ्जीव शरदः शतम् । एवं नलः सान्त्वयित्वा भ्रातरं
सत्यविक्रमः । स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः ।
स्वान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम्” भा० व० ७८
अ० । भगवतः २३ पद्मरूपेण प्रादुर्भावे हरिवं० २०३ अ० ।

पुष्करकर्णिका स्त्री पुष्करं पद्मभिव कर्खः पुष्पं यस्याः

कप् कापि अत इत्त्वम् । ख्यलपद्मिन्यां राजनि० ।

पुष्करचूड़ पु० लोकालोकपर्वतोपरिस्थे दिग्गजभेदे भाग०

२० । ३० ।

पुष्करनाड़ी स्त्री पुष्करं वाडयति नाडि + अण् उप० त० गौरा० ङीप् । स्थलपद्मिन्यां राजनि० ।

पुष्करनाभ पु० पुष्करं पद्मं नाभौ यस्य अच्समा० । पद्मनाभे

विष्णौ पु० ।

पुष्करप्रादुर्भावः पु० पुष्कराकारः प्रादुर्भावः । भगवतः पद्मा

कारेण प्रादुर्भावे तद्बिवरखम् ।
“अथ योगविदां श्रेष्ठं सर्वभूतमनोमयम् । स्वष्टारं
सर्वभूतानां ब्रह्माणं सर्वतोमुखम् । तस्मिन् हिरण्-
मये पद्मे बहुयोजनविस्तृते । सर्वतेजोगुणामये
पार्थिवैर्लक्षणैर्युते । तच्च पद्मं पुराणज्ञाः पृथिवीरुह-
मुत्तमम् । नारायणात् समुत्पश्नं प्रवदन्ति महर्षयः ।
पृष्ठ ४३८३
य तु पद्मासना देवी तां पृ सरिचक्षते । ये तु
गर्भाङ्कुराः सारास्तान् दिव्यान् पर्वतान् विदः ।
हिमवन्तञ्च मेरुञ्च नीलं निषधमेव च । कैलासं क्रौञ्चवन्तञ्च
तथाऽद्रि गन्धमादनम् । पुण्यं त्रिशिखरं चैव कान्तं
मन्दरमेव च । उदयञ्च गिरिश्रेष्ठं विन्ध्यमस्तञ्च पर्व-
तम् । एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम् ।
आश्रयाः सर्वभूतानां पुण्या १ कामयुजोऽद्रयः । एतेषा-
मन्तरो देशो जम्बूद्वीप इति स्मृतः । जम्बुद्वीपस्य
संख्यानं याज्ञिका यत्र कुर्वते । गर्भाद्यतः स्नवेत् तोयं
देवामृतरसोपमम् । दिव्यतीर्थशतापाङ्ग्यस्ता दिव्याः
सरितः स्मृताः । यान्येतानि तु पद्मस्य केसराणि
समन्ततः । असंख्याता पृथिव्यान्तु सर्वे ते धातुपर्वताः ।
यानि पद्मस्य पत्राणि भूरीण्यूर्द्ध्वं नराधिप! । ते
दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः । यान्यधः
पद्मपत्राणि निवासार्थं विभागशः । दैत्यानासुरगा-
ष्णाञ्च पातालं तन्महात्मनाम् । तेषामथोगतं यत्तदुद-
केत्यभिसंज्ञितम् । महापातककर्माणो मज्जन्ते यत्र
माभवाः । पद्मस्यान्ते कुशं यत्तदेकार्णवजलं महत् ।
प्रोक्तास्ते दिक्षु सङ्घाताश्चत्वारो जलसागराः । एष
नारायणस्याद्यो महापुष्करसम्भवः । प्रादुर्भावोऽव्यय-
स्तणान्नाम्ना पुष्करसंज्ञितः । एतस्मात् कारणात् तज्ज्ञैः
पुराणैः परमर्षिभिः भाज्ञिकैर्पेददृष्टार्थैर्यज्ञे पद्मविधिः
स्थृतः । एवं मगवता पद्मविधया परया विधिः ।
पर्वतानां नदीनाश्च देशानाञ्च विनिर्मितः । विमुस्तथा
चाप्रतिमप्रभावः प्रभाकरो योगिवरोऽमितद्युतिः । स्वयं
स्वयम्भूः शयनेऽसृजत्तदा जगन्मयं पद्मनिधिं महार्णवे”
हरिवं० २०२ अ० ।

पुष्करमालिन् त्रि० पुष्करमाला + अस्त्यस्य इनि । १ पद्ममाला-

युक्ते स्त्रियां ङीप् । २ हिमवत्कन्याभेदभर्त्तरि पु०
मार्कपु० २१ अ० ।

पुष्करमूल न० पुष्करनिव मूलमस्य । १ कुष्ठौषधे राजनि० ।

६ त० । २ पद्ममूले च स्वार्थे क० । तत्रार्थे त्रिका० ।

पुष्करवी(बी)ज न० ६ त० । पद्मवीजे ।

पुष्करशायिका स्त्री सङ्घचारिखगभेदै प्लवे सुश्रुतः ।

पुष्करशिफा पुष्करस्य शिफा जटेव । पुष्करमूले राजनि० ।

पुष्करजटाप्यत्र ।

पुष्करसद त्रि० पुष्करे सीदति सद--क्विप् । १ पद्मवासिनि ।

२ गोत्रप्रवर्त्तकर्षिभेदे पु० तस्य गोत्रापत्यम् बाह्वा० इञ्
अनुशतिखा० द्विपदवृद्धिः पौष्करसादि तदपस्थे पुंस्त्री ।
ततो यूनि फञ् पौष्करसादायग यदीपे यूनिन्यपत्ये बहुत्वे
तु यजो यस्का० लुक् ।

पुष्करसागर पु० पुष्करं सागर इव । १ कुष्ठौषधे नैघण्टुप्र० ।

पुष्करसाद पु० पुष्करं पद्मं सीदति भक्षयति धातूना-

मनेकार्थत्वात् सद--भक्षणे अण् उप० स० । कमलभक्षे
पक्षिभेदे यजु० २४३ ।

पुष्करस्थपति पु० महादेये भा० आनु० १७ क० ।

पुष्करस्रज् स्त्री ६ त० । १ पद्ममालायाम् । पुष्करमयी अक्

यस्य । २ पुष्करमालायुक्ते त्रि० ३ अश्विनीकुमारयोः पु०
द्वि० व० । यजु० २ ३३ ।

पुष्कराक्ष पु० पुष्करमिवाक्षि यस्य षच्समा० । १ पद्मतुल्य-

नेत्रे स्त्रियां ङीष् । २ विष्णौ पु० “पुष्कराक्षो महास्वनः”
“पुष्कराक्षो महामनाः” इति च विष्णुस० । “पुष्कर”
हृदयपुण्डरीकमक्ष्णोति व्याप्नोति अक्ष--उप० स० अण् ।
हृदयपुण्डरीकव्यापितथा तस्य तथात्वम् व्युत्पत्तिभेदाच्च
नामद्वयम् ।

पुष्कराख्य पु० पुष्करस्य पद्मस्याख्या आख्या यस्य । पद्म-

तुल्यनामके १ सारसे अमरः । पुष्कराह्वये २ कुष्ठौषधे
राजनि० ।

पुष्कराङ्घ्रिज न० पुष्कराङ्घ्रिरिव जायते जन--ड । पुष्करमूले कुष्ठौषधे नैधण्टुप्र० ।

पुष्करादि पु० “पुष्करादिभ्यो देशे” पा० देशे गम्ये मावर्थे

इनिपत्ययनिमित्ते शब्दगणे स च गणः पा० ग०
उक्तो यथा “पुष्कर पद्म उत्पत्त तमाल कुमुद नड़
कपित्थ विस मृणाल कर्दम शालूक विगर्ह करीव
शिरीष यवास प्रवाह हिरण्य कैरव कल्लाल तट
तरङ्ग पङ्कज सरोज राजीव नालीक सरोरूह पुटक
अरविन्द अम्भोज अब्ज कमल पयस”

पुष्करारुणि पु० पुरुपंश्ये गर्मपौत्रे नृपभेदे भाग० ९ । २१ । १५

पुष्करावती स्त्री पुष्कराणि सन्त्यत्र मतुप् मस्य वः दीर्घः ।

नदीभेदे ।

पुष्करावर्त्तक पु० पुष्करं जलमावर्त्तयति आ + वृत--णिच्-

अण् उपस० । मेघाधिपभेदे “पुष्करावर्त्तका नाम ये
मेघाः पक्षम्भवाः । संयोगाद्वायुनोच्छिन्नाः पर्वतानां
महौजसाम् । कामगानां प्रवृद्धानां लोकानां शिवमिच्छ
ताम् । पुष्करा नाम ते मेघा वृहतस्तोयमत्सराः । पुष्क-
रावर्त्तकास्तेन कारणेनेह शब्दिताः” विष्णुपु० । भीमो
भीमसेनवत् उत्तरपदलोपे पुष्करोऽप्यत्र ३०६३ पृष्ठे दृश्यम् ।
पृष्ठ ४३८४

पुष्कराह्व पु० पुष्करस्वाह्वा आह्वा यस्य । सारसखगे

अमरः पुष्कराह्वयमप्यत्र । तच्च पुष्करमूले कुष्ठौषधे न०
राजनि० ।

पुष्करिका स्त्री पुष्करं तदाकारोऽस्त्यस्य ठन् । शूकदोष-

निमित्ते रोगभेदे “पित्तशोणितसम्भूता पिडका
पिडकातिता । या पुष्करसमानाभा ज्ञेया पुष्करिकेति सा”
सुश्रुतः

पुष्करिन् पु० पुष्करं शुण्डाग्रमस्त्यस्य इनि । १ गजे हारा०

स्त्रियां ङीप् । पुष्करादि० देशे गम्ये इनि ङीप् ।
२ स्थलकमले ३ पुष्करमूले कुष्ठौषधे राजनि० । ४ पद्मिन्यां
५ जलाशयभेदे मेदि० । जलाशयशब्दे ३०७५ पृ० तल्लक्ष-
णादि दृश्यम् । ६ चाक्षुषमनोःपत्नीभेदे हरिवं० २ अ० ।
७ ऋचीकमातरि भूमन्युपत्नीभेदे भा० आ० ९४ अ० ।
जम्हार्थे इनि । ८ पद्मसमूहे हेम० ।

पुष्कल त्रि० पुष--कलच् किच्च आद्यकस्य नेत्त्वम् पुष्क + सिध्मा

लच् वा । १ श्रेष्ठे अमरः २ उपचिते जटा० ३ बहुत्वयुक्ते
च । “अष्टमुष्टिर्भषेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम्”
इत्युक्ते ४ परिमाणे न० ५ भिक्षार्थदेवे अन्नमानभेदे
न० । “भिक्षामाहुर्ग्रासमात्रमन्नं तस्माच्चतुर्गुणम् ।
पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते” कूर्मपु० । ६ असुरभेदे
पु० । हरिवं० ४२ अ० । ७ भरतपुत्रे पु० भाग० ९११७ ।

पुष्क(ष्य)लक पु० गन्धमृगे त्रिका० रघुः १५८ “सीम्नि-

पुष्क(व्य)कोहतः” सि० कौ० । यमध्यपाठस्तत्रैव

पुष्कलावत पु० १ उत्तरस्थे देशभेदे वृ० स० १४ अ० । २ भरत

पुत्रपुष्कलस्य राजधान्याम् स्त्री ।

पुष्ट त्रि० पुष--क्त । यस्य पोषणं कृतं तस्मिन् १ कृतपोषणे

अमरः । भावे क्त । २ पुष्टौ न० । तत् कार्य्यतया अस्त्यस्य
अच् । ३ विष्णौ पु० “तुष्टः पुष्टः पुष्टिकरः” विष्णुस० ।

पुष्टावत् त्रि० पुष्टं पोषणं कार्य्यत्वेनाऽस्त्यस्य मतुप् मस्य वः

वेदे दीर्थः । पोषणकर्त्तरि सम्भृतघासे ऋ० ८ । ४५ । १६

पुष्टि स्त्री पुष--भावे क्तिन् । १ पोषणे अन्नादि नोपचयकरणे

२ वृद्धौ च मेदि० । कर्त्तरि क्तिच् । ३ अश्वगन्धायां
राजनि० शच्यादिषु ४ मातृकाभेदे ५ योगिनीभेदे ६ धर्मस्य
पत्नीभेदे भा० ६६ अ० ।

पुष्टिका स्त्री पुष्ट्यै कं जलमस्याः । जलशुक्तिकायां राजनि० ।

पुष्टिकान्त पु० ६ त० । गणाधिपे गणेशे ।

पुष्टिद त्रि० पुष्टिं ददाति दा--क । १ पोषणकारके २ अश्व-

गन्धायां स्त्री राजनि० ।

पुष्टिपति पु० १ अग्निभेदे भा० व० २२० अ० । २ सरस्वत्यां

च शत० व्रा० ११४३१६ ।

पुष्प विकाशे दि० पर० अक० सेट् । पुष्प्यति अपुष्पीत् । पुपुष्प

“शरदि पुष्प्यन्ति सप्तच्छदाः” । कण्ड्वा० अपुष्प्यीत् ।

पुष्प न० पुष्प्यति पुष्प--विकाशे अच् । (फुल) ख्याते

१ कुसुमे २ स्त्रीरजसि । भावे घञ् । १ विकाशे पु० मेदि०
४ कुवेरविमाने न० नेत्ररोगभेदे हेमच० । “पुष्पञ्च पत्रं
च फलं तथैव यथोत्तरं ते लघवः प्रदिष्टाः तेषां तु
पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ च”
सुश्रुते सामान्यतस्तस्य गुणा उक्ताः । विशेषतः पुष्पवर्गे
अन्येषां गुणा तत्रोक्ताः । स्त्रीरजसि “शुक्रं दुष्टं शोणितं
चाङ्गनानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम् । पुष्पकाले
शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत्” इति सुश्रुतः ।
पुष्पशब्दनिरुक्तिस्तद्गतविशेषादिकं नानातन्त्रे उक्तं यथा
तत्र पुष्पशब्दव्युत्पत्तिः कुलार्णये “पुण्यसंबर्द्धनाच्चाषि
पापौघपरिहारतः । पुष्कलार्थप्रदानाच्छ पुष्पमित्य-
भिधीयते” । प्रपञ्चसारे “तुलस्यौ पङ्कजे जात्यौ केतक्यौ
करवीरके । शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि
च । उत्पलानि च नीलानि कह्नारकुमुदानि च” ।
विश्वसारतन्त्रे “बहूनि कुसुमानि च” इति पाठः ।
“मालतीं कुन्दमन्दारं नन्द्यावर्त्तादिकानि च ।
पलाशपाटलापद्मजयन्त्यावर्त्तकानि च । चम्पकानि
सनागानि रक्तमन्दारकाणि च । अशोकोद्भवविल्वाख्य
कर्णिकारोद्भवानि च” । विश्वसारतन्त्रे शक्तिविमये
विशेष उक्तो यथा “अथ देव्यर्चने वक्ष्ये पुष्पाणि शृणु
पार्वति! । इत्युपक्रमे तुलस्यादीन्युक्त्वा “एतान्यन्यानि
तन्त्रेऽस्मिन् पुष्पाणि सन्ति वै प्रिये! । मानादेशोद्भवानि
स्युः सर्वकालोद्भवानि च । फलानि चैव पुष्पाणि दद्या-
द्देव्यै विशेषतः । अथ पुष्पं प्रवक्ष्यामि कर्मयोगे
महेश्वरि! शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा ।
कमले करवीरे द्वे कुसुमे तुलसीद्वयम् । जातीसुमे
केतकीद्वे कुमारीचम्पकोत्पलम् । कुन्दमन्दारपुन्नाग-
पाटलानागचम्पकम् । आरग्बधं कर्णिकारं पावन्ती
नवमल्लिका । सौगन्धिकं सकोरण्डं पलाशाशोकसर्जकाः ।
अपामार्गः सिन्धुवारो वापुलीकञ्च कामजम् । व्याघ्र-
चेलं दमनकं मरुवकं ततःपरम् । लवङ्गं जलकर्चूरं
तगरञ्च जवा तथा । शिवपुष्पं द्रोणपुष्पं कामराजं
सुकेतकम् । अन्यानि वनपुष्पाणि जलजस्थलजानि च ।
पृष्ठ ४३८५
गिरिजानि देशजानि नानापुष्पाण्यतःपरम् ।”
सारदायाम् “कमले करवीरे द्वे कुमुदे तुलसीद्वयम् ।
जातीद्वयं केतके द्वे कह्लारं चम्पकोत्पले । कुन्दमन्दार-
पुन्नागपाटालानागचम्पकम् । आरग्बधं कर्णिकारं
जयन्ती नवमालिका । सौगन्धिकं सकोरण्टं पलाशा-
शोकमल्लिकाः । धुस्तूरं सर्जकं विल्वमर्जुनं मुनि-
पुष्पकम् । अन्यान्यपि सुगन्धीनि पत्रपुष्पाणि देशिकैः ।
उपदिष्टानि पूजायामाददीत विचक्षणः” । योगिनीतन्त्रे
७ पटले “शृणु देवि! प्रवक्ष्यामि पुष्पाध्यायं
समासतः । ऋतुकालोद्भवैः पुष्पैर्मल्लिकाजातिकु-
ङ्कुमैः । सितरक्तैस्तथापुष्पैर्नीलपद्मैश्च पाण्डुरैः ।
किंशुकैस्तगरैश्चैव जवाकनकचम्पकैः । बकुलैश्चैव मन्दारैः
कुन्दपुष्पैः कुरुण्डकैः । धुस्तूरकादियुक्तैश्च बन्धूकाग-
स्त्यसम्भवैः । मदनैः सिन्धुवारैश्च दर्वाङ्कुरसुकोमलैः ।
मञ्जरीभिः कुशानाञ्च बिल्वपत्रैः सुकोमलैः” तत्रैव
९ पटले “तुलसीद्वे मालतीद्वे तमालामलकी तथा ।
पुन्नागं मुनिपुष्पश्च मल्लिकाञ्च निवेदयेत् । करवीरस्य
कुसुमैर्येऽर्चयन्ति जनार्द्दनम् । दर्शनात्तस्य देवेशि!
नरकाग्निः प्रणस्यति” । करवीरादिमाहात्म्यं
पूरश्चरणरसोल्लासे १० पटले “करवीरं जवा देवि!
स्वयं काली न चान्यथा । तारा च अपरा चैव स्वयं
त्रिवुरसुन्दरी” । तथा “करवीरजवामूले तुलस्या
नगनन्दिनि । यदि प्राणांस्त्यजेद्देवि! माहात्म्यं तस्य
सुन्दरि! । वक्त्रकोटिशतेनापि जिह्वाकोटिशतेन च ।
वर्णितुं तस्य माहात्म्यं न शक्तोमि कदाचन” । “शुक्लं
कृष्णं तथा पीतं हरितंलोहितं तथा । करवीरं
महेशानि! जवापुष्पं तथैव च । स्वयं काली महामाया स्वयं
त्रिपुरसुन्दरी । अनादरं न कर्त्तव्यं कृत्वा च नरकं
व्रजेत्” । दशमपटले “कृष्णापराजिता साक्षाद्भद्रकाली
न संशयः । करवीरञ्च भुवना द्रोणं भुवनसुन्दरी ।
जवा साकाद्भगवती सर्वविद्यास्वरूपिणी । ये साधका
जगन्मातरर्च्चयत्ति शिवप्रियाम् । एतैश्च कुसुमैश्चण्डि!
स शिवो मात्र संशयः । येनार्चिता जगद्धात्री द्रोण-
कृष्णजवादिभिः । राजसूयाश्वमेधाद्यैर्वाजपेयाग्निहो-
त्रकैः । फलं यज्जायते चण्डि! तत् सर्वं कुसुभार्चनात् ।
जवाद्रोणं तथा कृष्णामार्लू करवीरकम् । साक्षाद्ब्रह्म
खरूपञ्च महादेव्यै निवेदयेत् । श्वेतचन्दनसंयुक्तं
रक्तचन्दबलेपितम् । यो दद्याद्भक्तिभावेन स विश्वेशो
न संशयः” । अथ कामनाभेदे पुष्पविशेषः तत्रैव “करवीरस्य
माघ्यस्य सहस्वाणि ददाति यः । स कामान् प्राप्य
चाभीष्टान् देवीलोके महीयते । तथैककरवीरेण
पद्मानां द्वे सहस्रके । महाघोरे महोत्पाते महापदि
च सङ्कटे । महादुःखे महारोगे महाशोके महाभये ।
पूजयेत् कालिकां तारां भुवनां षोड़शीम् शिवाम् । बालां
छिन्नाञ्च वगलां धूमां भीमां करालिनीम् । कमलाभन्न
पूर्णाञ्च दुर्गां दुःखविनाशिनीम् । सर्वविद्या जवाद्रोण
करवीरैर्मनोहरैः । मालूरपत्रैः कृष्णाभिः कृष्णां संपूज्य
मूतले । साधकेन्द्रो महेशानि! भवेन्मुक्तो न संशयः” ।
भुण्डमालायां दशमपटले “जवापुष्पैर्द्रोणपुष्पैः
करवीरैर्मनोहरैः । कृष्णापराजितापुष्पैरब्जैश्च मुनिपुष्पकैः ।
पूजयेत् परया भक्त्या चण्डिकां परमेश्वरीम्” । योगिनी-
तन्त्रमत्स्यसूक्तयोः “येऽर्चयन्ति जनाध्यक्षं करवीरैः
सितासितैः । चतुर्युगानि देवेशि! प्रीतो भवति माधवः ।
“वकपुष्पं च जातिस्तु तथा रुद्रजटस्य च । वाजप्रेयस्य
यज्ञस्य फलं प्राप्नोति नान्यथा । सर्वेषामेव पुष्पाणां प्रवरं
नीलमुत्पलम् । नीलोत्पलसहस्रेण यस्तु मालां प्रयच्छति ।
दुर्गायै विधिवद्देवि! तस्य पुण्यफलं शृणु । वर्ष-
कोटिसहस्राणि वर्षकोटिशतानि च । देव्या अनुचरो
भूत्वा रुद्रलोके महीयते” । मुण्डमालायाम् “लक्षाणां
महिषैमेषैरजैर्दानैर्मखैः शुभैः । पूजिता सा जगद्धात्री
यद्येषा कुसुमार्चिता । माहात्म्यञ्चैव कृष्णायाः कृष्णा
जानाति कृत्स्नशः । तदर्द्धञ्चाप्यहं देवि! तदर्द्धं श्री-
पतिः सदा । तदर्द्धमब्जजन्मा वै तदर्द्धं वेदसाधकः ।
अन्यपुष्पस्य माहात्म्यं संक्षेपाद्वच्मि शङ्करि! । पृथिव्या
मण्डले स्वर्गो वैकुण्ठे कालिकापुरे । जवादिकरवीरैश्च
दलैः किं किं फलं लभेत् । न जानाति जगद्धात्री
को वेद पार्वतीं विना । करवीरैः श्वेतरक्तैरक्तचन्दन-
मिश्रितैः । पूजयेत् क्ष्मातटे यस्तु स विश्वेशो भवेद्-
ध्रुवम् । कृष्णापराजितापुष्पैर्यस्तु देवीं प्रपूजयेत् ।
सोऽश्वमेधसहस्राणां फलं प्राप्य शिवां व्रजेत् । सहा०
विपत्तौ यो दद्याज्जवां कृष्णापराजिताम् । द्रोणं वा
करवीरं वा स गच्छेत् कालिकापुरम्” । तत्रैव
“किञ्च पाद्यैः किञ्च वाद्यैर्नैवेद्यैः किञ्च पूजनैः ।
मधुदानैर्मधुपर्कैः कुम्भकैः किञ्च रेचकैः । पूरकैः किञ्च
वा ध्यानैः पाणायामैश्च किञ्च वा । किं जपैः किं
तपोभिर्वा मत्स्यैर्मांसैश्च पञ्चमैः । किमन्वमन्त्रैः किं
पृष्ठ ४३८६
मन्त्रः किं यन्त्रैः किञ्च साधवः । लिं वेदैरासवैः किं वा
श्यशानैर्मन्थसाधनैः । किमध्वरैर्मन्त्रपूतैर्मन्त्रार्थैर्षन्त्रजी-
वनैः । किं योनिमुद्रया किं वा तीर्थैः किं ब्रह्मसा-
धनैः । किं मातृकान्यासगणैः किं कटैः किं घटैः
पटैः । किं काकचञ्चुभिः षोड़ान्यासैः किं धर्मसाधनैः ।
येनार्च्चिता महादेवी करवीरैर्जवादिभिः । कृष्णापुरा-
जितापुष्पैः करवीरैर्मनोहरैः । द्रोणैस्तु केतकीपुष्पै-
र्जवामालूरपत्रकैः । पूजिता यैर्भगवती तेषां किं कर्म
साधनैः” । नित्यातन्त्रे एकादशपटले “म तुलस्या
यजेत् कालीं नाक्षतैर्विष्णुसर्चयेत् । अपराजिताया-
दानेन साक्षात्तुष्टा भवेच्छिवा । कालिकायाश्च ताराया
करवीरमतिप्रियम् । जवापुष्पं महेशानि! दद्यान्न
धारयेत् कचित् । रक्तोत्पलेन देवेशि! कालिकां
पूजयेत् सकृत् । शतवर्षसहखाणां पूजायाः फलमा-
प्नुयात्” । तथा “दुर्वापि गर्भसंयुक्ता देवी तुष्टिकरी
भवेत्” । पुरसरणरसोल्लासे “मञ्जरीं सहकारस्य
केशवाय निवेदयेत् । रुद्रजटां शिरोषञ्च दाड़िमं काञ्चनं
तथा । नीलकण्ठं मयूरञ्च योन्याकारञ्च वर्जयेत् ।
पुष्पदाने काम्यफलं नित्यातन्त्रे ईश्वर उवाच ।
“ब्रह्महत्यादिपापानां प्रायसितं सुरेश्वरि । रक्तपुष्पै-
र्महादेवि! चक्रराजं प्रपूजयेत् । कुलाचारक्रमेणैव
कर्पूरक्षोदमण्डितम् । महापातककोटिस जन्मान्तर-
कृता अपि । मासमात्रेण हन्यन्ते सत्यं सत्यं न
संशयः । लक्ष्मीस्तस्य भवेद्गेहे सुस्थिरा पीरवन्दिते! ।
जवापुष्पैर्महेशानि! पूर्ववद् याद पूजयेत् । मासमात्रेण
नश्यन्ति सप्तजन्मकृताम्बपि । ब्रह्महत्यादिप्रापानि
धनवान् जायते कविः । पूर्ववत् केतकीपुष्पै पत्रैर्वा
यदि पूजयेत् । सासमात्रेण देवेशि । उपसातकको
टयः” । (नश्यन्तीति पूर्वोक्तेनान्वयः) । “लभते
राजसौभाग्यं साधको नात्र संशयः । शतपत्रैर्महेशानि ।
पूर्ववत् पूजवेच्छिवाम् । मासमात्रेण देवेशि! सर्वपापं
विनाशयेत् । चम्पकैः पूजयेद्देवीं पूर्ववम्मासमात्रकम् ।
निहत्य परमेशानि! पातकं शतजन्मजम् । सौभाग्यं
लभते भन्त्री त्रिषु लोकेषु पार्वति! । श्वेतपद्मैर्महे-
निहत्य परमेशानि! मासमात्रं पपूजयेत् । त्रिंशज्जन्मकृतं पापं
नाशयेन्नात्र संशयः । बन्धूकैः पूर्ववद्देवि! मासमात्रं प्रपू-
जयेत् । निहत्य सर्वपापानि राजानं वशमानयेत् ।
मालतीमञ्चिकाजातीकुन्दैः श्वेतोव्पलैः सह । सुसिश्रैः पूर्व-
वद्देवि! भागमात्रं प्रपूजयेत् । ब्रह्महत्यादिपाषानि
शतजन्मकृतान्यपि । गाक्षयेत् परमेशानि! मुक्तिस्तस्य
करे स्थिता । रक्तोत्पनजवावह्निबन्धूकागस्त्यकैः
शिवाम् । पूर्ववत् परमेशानि । मासमात्रं प्रपूजयेत् ।
पातकं नाशयित्वाऽसौ मम तुल्यो भवेन्नरः । नागकेशर-
कह्लारबकुलैः सिन्धुवारकैः । पाटलः पूजयेद्देवि!
श्रीपीठान्तर्निसासिनीम् । पूर्ववत् पूजयेद्देवि! मासमात्रं
प्रसन्नधीः । सहस्रजन्मजं पापं नाशयेज्ञात्र संशयः ।
सौभाग्यमतुलं तस्य भवेद्देवी प्रसादतः” । योगिनी-
तन्त्रे “नोत्सृज्य दद्यात् पुष्पाणि वनस्यानि कदाचन ।
न शक्नुवन्ति वै देवाः समाकर्षितुसुद्यताः । एकैकं कुसुमं
यक्षा रक्षन्ति दश वै यतः । तथा यक्षाङ्गनाः पञ्च
क्षर्वतः कुसुमावृताः । तस्मादाह्वच कुसुमं यजेद्देवान्
पितॄनपि” इति वृक्षस्थपुम्पदाननिषेधः । मत्स्यसूक्ते
“स्वात्वा मध्याह्नसमये न च्छिद्यात् कुसुम नरः ।
तत्पुष्पेरर्च्चने देवि! रौरवे परिपच्यते” मध्याह्न इत्युपा-
दानात् प्रातःस्नातस्य पुष्याहरणे न दोषः । अथ पुष्प
माला विश्वसारतन्त्रे “नीलोत्पलसहस्रेण यस्त मालां
प्रयच्छति । दुर्गायै विधिवद्देवि! तस्य पुण्यफलं शृणु ।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च । दव्या
अनुचरो भूत्वा रुद्रलोके महीयते” । योगिनीतन्त्रे
नवमपटले “मालतीमालया विष्णुरर्चितो येन कार्तिके ।
पापाक्षरकृता माला नाशिता तस्य विष्णुना” ।
तथा “करवीरकृतां मालां गाधवाय प्रयच्छति ।
देवेन्द्रोऽपि महेशानि! करोति करसंपुटम्” । तत्रैक
“न भेदयेद् यज्ञसूत्रं मालाञ्चैव न भेदयेत् ।
विशिष्य मालतीमालां व्याघ्रधर्म तथैव च” । वृहन्नलीतन्त्रे
द्वितीवपटले “कोकणदञ्च बन्धूकं कर्णिकाद्वयमेव च ।
वकमन्दाररक्ताणि करवीराणि शस्यते । मल्लिकात्रितयं
जाती क्षौमपुष्यं जयन्तिका । विल्वपत्रं कुरुवकं मुनि-
पुष्पञ्च केसरम् । वासन्ती चैव सौगन्धं कालपुष्पं
मनोहरम् । आमलकञ्च कादम्बं बकुलं यूथिका तथा ।
बिल्वैर्मरुवकाद्येश्च तुललोवर्जितैः शुभैः । ओड्रपुष्पै-
र्विशेषेण वज्रपुष्पेण शोभितम् । सवं पुष्पं प्रदद्याच्च-
भक्तियुक्तेन चेतसा । जवापुष्प महेशानि! दद्याद्वेव्यै
विशेषतः । पद्मं प्रियतरं देव्या शेफाली बकुलं तथा ।
रक्तोत्पलेन देवेशि! पूजयेत् परमां शिवाम । लक्षवर्ष-
सहस्राणां पूजायाः फमाद्गुयात् । शिरीषं वरम
पृष्ठ ४३८७
देव्याः पीतिद तगरं तथा । स्थलपद्मं सुतुतरं लक्ष-
संख्यक्रमेण तु । सदि दद्यात्महेक्षानि! कर्यसिद्धिः
सुरेश्वरि! । तदैव मन्त्रसिद्धिः स्यान्नात्र कार्य्या विचा-
रणा । द्विजार्गी तुलसीं रम्यां तस्याः प्रीतिकरीं पराम् ।
काञ्चनं रक्तवर्णञ्च अतिप्रियतरं महत् । भक्तियुक्तो
महशानि! सर्वपुष्पं निवेदयेत्” । वृहन्नीलतन्त्रे “चातु-
र्मास्ये तु लक्षैलमालत्या योऽर्च्चयेद्धरिम् । शतजन्मकृत
पापं तत्क्षणादेव नश्यति । करवीरस्य कुसुमैर्येऽर्च-
यन्ति हरेर्द्दिने । दर्शनात्तस्य देवेशि! नरकाग्निः
प्रणश्यति” । वर्ज्यपुष्पाणि “नार्च्चयेत् झिण्टि-
पुष्पेण पीतैश्च तगरैस्तथा । श्वेतेनोड्रेख कृष्णेन
विजयेन नचार्चयेत्” । प्रपञ्चसारे षष्ठपटले “अङ्गने पतितै
र्माल्यैः शीर्णैर्वा जन्तुदूमितैः । आघ्रातैरङ्गसंस्पृष्टै
रूषितैर्नापि र्च्चयेत्” । सारदायाम् “मलिनं भूमि-
संस्पृष्ट कृमिकेशादिदूषितम् । अङ्गस्पृष्टं समाघ्रातं
त्यजेत् पर्युषितं तथा” । मत्स्यसृक्ते चतुर्द्दशपटले
“शेफालिका तु कह्लारं शरतकाले प्रशस्यते । अन्यत्र
न स्पृशेद्देवि! प्रायश्चित्तन्तु पूजनात् । नार्चयेद्रक्तकृष्णेन
तथोग्रगन्धिकेन च । करवीरस्य माध्यस्य बन्धूजीवस्य
चैव हि । कशरस्य सवज्रस्य रक्तं देवि! प्रशस्यते” ।
योगिनीतन्त्रे “बिल्वप्त्रं शमीपत्रं तमालामलकीदलम् ।
अपाङ्गभृङ्गपत्रञ्च कुशं दूर्वास्तथैव च । पुष्पाणामप्यभावे तु
फलान्यपि निवेदयेत् । फलानामप्यभावे तु तत्पत्रै पूजये-
द्धरिम् ।” गुप्तपूजापुष्पञ्च तत्रैव “सिहास्यञ्चैव मालूरं धुस्तूरञ्च
चतुर्विधम् । तथा रुद्रजटे द्वे च गुह्यपुष्पञ्च शङ्करि ।
पद्मे नीलोत्पले देवि । वकमन्दारकाञ्चने । माधवीद्वे
तमालञ्च गुप्तमेतद्वरार्चने” । दिवारात्रिभेदेन पुष्पविशेषेण
पूजनमुक्तं तत्रैव “कनकानि सुगन्धीनि रात्रौ देयानि
शङ्करि! । दिवा चाग्यानि पुष्पाणि दिवा रात्रौ च
मल्लिका । देवालयस्य पुष्पेण यो देवं प्रतिपूजयेत ।
अन्धत्वं प्राप्नुयात् सोऽपि दश वर्षाणि पञ्च च” । देवता-
विशेपे पुष्पविशेषवर्जगमपि तत्रैव “शिवे विवर्जयेत् कुन्दं
माधे माध्यं प्रशस्यते । गणेशे वर्जयेन्माध्यमशोकं
तगरन्तथा । सूर्य्ये माघ्यञ्च मन्दारं कनकञ्च तथैव च ।
महालक्ष्म्यै च तुलसीं झिण्टिकां काञ्चनन्तथा । बन्धू-
जीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् । ग्रहाणां विल्वपत्रञ्च
शमीपत्रं तथैव च । ब्रह्मणे वर्जयेत् काशं कौसुम्भं
शमीपुष्पकम् । वात्रीपुष्पं कुरण्टञ्च जलपुष्पं तथैव च ।
दुर्गायै न प्रदद्याच्च सोमपुष्पं तथेव च । त्रिपुरायै
काञ्चनञ्च कनकं वासकं तथा । किंशुकं कृष्णकान्ताञ्च
इन्द्राक्ष्यै वर्जयेत्तथा । अकर्मण्यपुष्पदाने दोषो यथा
“वराह उवाच” अकर्मण्येन पुष्पेण यो मामर्चयते भुवि ।
पातकं तस वक्ष्यामि तच्छृणु त्व वसुन्धरे! । नाहं
तत् प्रतिगृह्णामि न च ते वै, मम प्रियाः । मूर्खैर्भाग-
वतैर्दत्तं मम विप्रयकारिणः । पतन्ति नरके घोरे रौरवे
तदनन्तरम् । अज्ञातस्य च दोपेण दुःखान्यनुभवन्ति च ।
वानरो दश वर्षाणि मार्जारश्च त्रयोदश । मूषकः पञ्च-
वर्षाणि बलीवर्दश्च द्वादश । छागश्चैवाष्ट वर्षाणि वर्षं वै
ग्रामकुक्कुटः । त्रीणि वर्षाणि सहिषो भवत्येव न
संशयः । एतत्ते कथितं भद्रे! पुष्पं यन्मेऽत्र रोचते ।
अकर्मण्यं विशालाक्षि! पुष्पं यो न ददाति वै”
वराहपु० । देवी प्रियपुष्पाणि यथा “पुष्पाणि देव्या
वैष्णव्याः प्रियाणि शृणु संप्रति । बकुलैश्चैव मन्दारैः
कुन्दपुष्पकुरण्टलैः । करवीरार्कपुष्पैश्च शालमलैश्चाप-
राजितैः । दमनैः सिन्धुवारैश्च वकैर्मरुवकैस्तथा ।
लताभिर्ब्रह्मवृक्षैश्च दूर्वाङ्कुरैश्च कोमलैः । मञ्जरीभिः
कुशानाञ्च विल्वपत्रैः सुशोभनैः । पूजयेद्वैष्णवीं देवीं
कामाख्यां त्रिपुरां तथा । अन्याश्च याः शिवाप्रीत्यै
जायन्ते पुस्पजातयः । ता इमाः शृणु कीर्त्यन्ते मया
वेताल! भैरव! । मालती मल्लिका जाती यूथिका
माधवीलता । पाटला करवीरञ्च जवा तर्कारिका तथा ।
कुब्जकं तगरश्चैव कर्णिकारोऽथ रोचनः । चम्पका-
म्रातकौ बाणवर्वरौ मल्लिका तथा । अशोका लोध्र-
तिलकावटरूषशिरीषके । शमीपुष्पञ्च द्रोणञ्च पद्मो-
त्पलवकारुणाः । श्वेतारुणे त्रिसन्ध्ये च पलाशः
खदिरस्तथा । वनमालाऽथ सेवन्ती कुमुदोऽथ कदम्बकः ।
चक्रं कोकणदञ्चैव भण्डिलो गिरिकर्णिका ।
नागकेशरपुन्नागौ केतक्यञ्जलिका तथा । दोहदा र्वाजपूरश्च
नमेरुः शालमेव च । त्रपुषी चण्डसिन्धुश्च झिण्टी
पञ्चविधा तथा । एवमाद्युक्तकुसुमैः पूजयेत् वरदां शिवाम्”
वर्जनीयपुष्पं यथा “पुष्पञ्च कृमिसम्भिन्नं विशीर्ण
भग्नमुद्गतम् । सकेशं मूषिकाधूतं यत्नेन परिवर्जयेत्
याचितं परकीयञ्च तथा पर्युषितञ्च यत् । अन्त्यस्पृष्ट
पदास्पृष्ट यत्नेन परिवर्जयेत्” कालिका पु० ६८ ५४ अ० ।
केशवपूजने प्रशस्तपुष्पाणि यथा “मालतीमल्लिका चव
यूथिका चातिसुक्तिका । पाटलाकरवीरञ्च जयासवतिरेव
पृष्ठ ४३८८
च । कुब्जकस्तगरश्चैव कर्णिकारः कुरुण्टकः । अम्पक-
स्तगरः कुन्दो बाणवर्वरमल्लिकाः । अशोकस्तिलक-
श्चम्पस्तथा चैवाटरूषकः । अमी पुष्पप्रकारास्तु शस्ताः
केशवपूजने । केतकीपत्रपुष्पञ्च पुष्पं भृङ्गारकस्य च ।
तुलस्यामलकी चैव सद्यस्तुष्टिकरं हरेः । पद्मान्यम्बुसमु-
त्थानि रक्तनीले तथोत्पले । सितोत्पलञ्च कृष्णस्य
दयितानि सदा नृप! । तानि पुष्पाणि देयानि विष्णवे
प्रभविष्णवे” अग्निपु० । किञ्च “जातो शताह्वा
सुमना कुन्दं बहुपुटं तथा । वाणञ्च पङ्कजाशोकं
करवीरञ्च यूथिका । पारिभद्रं पाटला च वकुलं गिरि-
शायिनी । तिलकं वनजञ्चैव पीतकं तगरन्त्वपि ।
एतानि हि प्रशस्तानि कुसुमान्यच्युतार्च्चन । सुरभीणि
तथान्यानि वर्जयित्वा तु केतकीम् । येषामपि हि
पुष्पाणि प्रशस्तान्यच्युतार्चने । पल्लवान्यपि तेषां स्युः
प्रशस्तानि महासुर! । वीरुघानां प्रधानेन वर्हिषाञ्चा-
र्चयेत्तथा । नानारूपैश्च्वाम्बुभवैः कमलेन्दीवरादिभिः ।
प्रबालैः शुचिभिः शुद्धैर्जलप्रक्षालितैर्वले! । वनस्पतीना-
मर्चेत तथा दूर्वादिपल्लवैः” वामनपु० ९१ । विष्णौ पुष्प-
विशेषदानस्य फलं यथा “आरामप्रभवैः पुष्पैरच्छिद्रैः
कीटवर्जितैः । तथाऽपर्य्युषितैस्तद्वत् कार्त्तके विष्णुमर्च-
येत् । वर्णानां हि यथा विप्रस्तीर्थानां जाह्नवी
यथा । देवानाञ्च यथा विष्णुः पुष्पाणां मालती तथा ।
मालतीमालया देवं योऽर्चयेद् गरुड़ध्वजम् । जन्मदुःख
जरारोगैः कर्मभिर्मुक्तिमाप्नुयात् । मालतीमालया
येन पूजितः कार्त्तिके हरिः । पापलक्षायुतं तस्य वत्स!
शौरिः प्रमार्जति । मालतीपुष्पमालाभिः कार्त्तिके
पुष्पमण्डपम् । विष्णोर्गृहे कृतं यैस्तु ते यान्ति परमां
गतिम् । जातिपुष्पैर्विरचितां मालां यः सम्प्रयच्छति ।
विष्णवे विधिवद्धक्त्या तस्य पुण्यफलं शृणु । कल्प-
कोटिसहस्राणि कल्पकोदिशतानि च । वसेद्विष्णुपुरे-
श्रीमान् विष्णुतुल्यपराक्रमः । यः स्वर्णकेतकैः पुष्पैः
पूचयेद् गरुड़ध्वजम् । अब्दकोटिशतं यावत्तुष्टः
स्यात्तस्य वै हरिः । दामोदरं पूजेवेद्यः कुसुमैः
केतकोद्भवैः । स वसेद्विष्णुनिलये देवेन सह मोदते । मल्लिका
कुसुमैर्देवं योऽर्चयेत् त्रिदेशश्वरम् । कार्त्तिके परया
भक्त्या दहेत् पापं त्रिघार्जितम् । सुगन्धैर्मल्लिकापुष्पै-
रच्युतं योऽर्चयेन्मुने! । स सर्वपापनिर्मुक्तो विष्णु-
लोके महीयते । वेदधर्मेण केनापि संप्राप्वे मधुमाघवे ।
योऽर्च्चयेत् स मुनिश्रेष्ठ! लभते वैष्णवं पदम् । यः पुनः
पाटलापुष्पैरर्च्चयेद् गरुड़ध्वजम् । सुपुण्यान्मा परं
स्थानं स प्रयाति हरेर्मुने! । अगस्त्यपुष्पैदैवेशं येऽर्च्च-
यन्ति जनार्द्दनम् । देवर्षे! दर्शनात्तेषां नरकाग्निः प्रण-
श्यति । न तत् करोति विप्रेन्द्र! तपसा तोषितो हरिः ।
यत् करोति हृषीकेशो मुनिपुष्पैरलङ्कृतः । विहाय
सर्वपुष्पाणि मुनिपुष्पेण केशवम् । कार्त्तिके योऽर्च्चयेद्-
भक्त्या वाजिमेधफलं लभेत् । मुनिपुष्पकृतां मालां
ये यच्छन्ति जनार्दने । शक्रोऽपि तैः समं वत्स!
कुरुते ह्यभिभाषणम् । ददात्यभीप्सितान् कामान् वृक्ष
चिन्तामणिर्यथा । कार्त्तिके मुनिपुष्पेण पूजितो गरुड़-
ध्वजः । गवामयुतदानेन यत् फलं कार्त्तिके मुने! ।
मुनिपुष्पेण चैकेन कार्त्तिक्यां तत् फलं स्मृतम् ।
येऽर्च्चयन्ति सुराध्यक्षं करवीरैः सितासितैः । तेषां वर्ष-
शतं यावत् प्रभुर्भवति केशवः । बकुलाशोककुसुमैर्येऽ-
र्च्चयन्ति जगत्पतिम् । निर्भीकास्ते भवन्तीह
यावच्चन्द्रदिवाकरी । अशोककुसुमैरम्यैर्जन्मशोकभयाषहम् ।
पूजयित्वा हरिं याति पदं विष्णोरनामयम् ।
शुभगन्धैः सितैर्वत्स! कुसुमैः पङ्कजोद्भवैः । अधोक्षजं
समभ्यर्च्य नरो याति हरेः पदम् । अभ्यर्च्य कौमुदैः
पुष्पैः केशवं त्रिदशैरपि । अटरूषकपुष्पैश्च पूजयेद्यो
जगत्पतिम् । स पुण्यवान्नरो याति तद्विष्णोः परमं
पदम् । कार्त्तिके योऽर्च्चयेद्विष्णुं तुलसीबिल्वपङ्कजैः ।
त्रिदर्शरपि पूज्यः स न शक्यो यमकिङ्करैः । माधवे-
योऽर्च्चयेद्विष्णुं तुलमीबिल्वपङ्कजैः । त्रिदशैरपि
पूज्यः स न शक्यो यमकिङ्करैः । माधवे योऽर्च्चये-
द्विष्णुं सुपुष्पैस्तिलकोद्भवैः । घूतपापो विरातङ्कः
सविष्णोर्याति तत् पदम् । समित्पुष्पकुशादीनि श्रो-
त्रियः स्वयमाहरेत् । शूद्रानीतैस्तैश्च हरेः पूजां कुर्वन्
व्रजत्यधः । तस्माद्विप्रो मुनिश्रेष्ठ! शिष्येख खयमेव वा ।
पुष्पादीनि समाहृत्य पूजेयत् परमेश्वरम् । विप्रो दूर्वा-
मयैः पुष्पेस्तथा काशकुशोद्भवैः । तुखलीबिल्वपत्रैश्च
पूजयेद्देवताः पितृन् । नार्च्चयेत्तगरैः सूर्य्यं धूर्त्तपुष्पेण
केशवम् । देवीं लकुचपुष्पैश्च शङ्करं नागकेशरैः” ।
कालविशेषे तस्य पर्य्युषितत्वं यथा “प्रहरं तिष्ठते
जाती प्रहरार्द्ध्वन्तु मल्लिका । त्रियामं मुनिपुष्पञ्च
करवीरमहर्निशम्” । आम्बमञ्जरीविल्वपत्रदानफलं यथा
“मञ्जुरीं सहकारस्य ये प्रयच्छन्ति वैष्णवाः । कार्त्तिके
पृष्ठ ४३८९
सफलास्ते स्युर्गोकोटीफलभागिनः । कार्त्तिके
योऽर्च्चयेद्भक्त्या विल्वपत्रेण केशवम् । दद्याद् यज्ञायुतफलं
केशवस्तस्य वै मुने! । बिल्वपत्रेण ये कृष्णं कार्त्तिके
कलिमर्दनम् । पूजयन्ति महाभक्त्या मुक्तिस्तेषां करे
स्थिता । नागकेशरपुष्पैर्यः पूजयेद् गरुड़ध्वजम् ।
स याति वैष्णवं स्थानं यत्र गत्वा न शोचते । कदम्ब-
कुसुमैर्यो वै पूजयेन्मधुसूदनम् । जन्मायुतार्जितं पापं
स्फोटितं तेन नारद! । न तथा केतकीपुष्पैर्मालती
कुसुमैस्तथा । तोषमायाति देवेशः कदम्बकुसुमैर्यथा ।
दृष्ट्वा कदम्बपुष्पाणि तोषमायाति माधवः । किं पुनः
पूजितो देवः सर्वकामप्रदो हरिः । हरिं किंशुक-
पुष्पैर्यः पूजयेत् त्रिदशाधिपम् । वैकुण्ठे रमते शश्वत्
विष्णुना सह वैष्णवः । वर्षाकाले च देवेशं कुमुदैश्चन्द
व्राचितैः । योऽर्च्चयेत् परमं विष्णुं संसारे न पुनर्विशेत् ।
कुन्दपुष्पैश्च विप्रर्षे! योऽर्चयेद् गरुड़ध्वजम् । कोटि
जन्मार्जितं पाप तत्क्षणादेव नश्यति । शमीपुष्पैश्च
देवेशं पूजयेदसुरद्विषम् । यमं न पश्येद्विप्रर्षे! न याति
दुर्गतिं नरः” पाद्मोत्तरख० १३१ अ० । लक्ष्मोतुल्य-
प्रियपुष्पाणि नारदीयसं० “मालती बकुलाशोक
शेफालीनवमालिकाः । अम्लानतगराङ्कोठमल्लिका
मधुपिण्डिकाः । यूथिकाष्टापदं कुन्दं कदम्बं
मधुपिष्पलम् । पाटलाचम्पकं कृष्णं लवङ्गमतिमुक्तकम् ।
केतकं च कुरुवकं विल्वं कह्लारकं द्विज! । पञ्च-
विंशतिपुष्पाणि लक्ष्मीतुल्यपियाखि मे” । केशवार्चने
निषिद्धपुष्पाणि विष्णुधर्मोत्तरे । “उग्रगन्धीन्यगन्धीनि
कुसुमानि न दापयेत् । अन्यायतनजातानि कण्टकीनि
तयैर्व च । वक्तानि यानि धर्मज्ञे! चैत्यवृक्षोद्भवानि च ।
श्मशानजाथान्यन्यानि यानि चाकालजानि च” । तथा
“कुटजं शाल्मलीपुष्धं शिरीषञ्च जनार्दने । निवेदितं
भयं रोगं निःस्वत्वश्च प्रयच्छति । बन्धुजीवकपुम्पाणि
रक्तान्यपि च दापयेत् । अन्यरक्तकपुष्पाणां दानात् दौर्भा-
व्यमाप्नुयात्” । परारोपितवृक्षस्य पुष्पग्रहणे दोछः ।
अगस्त्यः “परारोपितवृक्षेभ्यः पुष्पाण्यानीय योऽर्चयेत् ।
अविज्ञाप्य च तस्यैव निष्फलं तस्य पूजितम्” । एतद्
द्विजेतरपरम् “द्विजस्तृणैधः पुष्पाणि सर्वतः स्ववदा-
हरेत्” इति याज्ञवम्क्यात् । “देवाद्यर्थन्तु कुसुममस्तेयं
मनुरब्रवीत्” इति वचनात् । “गोऽग्न्यर्थे तृणमेधांसि
वीरुद्वनम्पतीनां पुष्पाणि खवदाददीत फलानि
चापरिवृंहितानि” इति गोतमवचनाच्च । द्विजेतरस्य
दण्डोऽपि “तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा
फलम् । अनापृच्छन् हि गृह्णानो हस्तच्छेदनमर्हति” इति
स्मृतेः । “देवोपरिधृर्त मस्तकोपरिधृतम् अधोवस्त्र-
धृतम् अन्तर्जलक्षालितञ्च पुष्पं दुष्टमिति” हरिभक्ति-
नामके ग्रन्थे । अभिवाद्याभिवादककरस्थपुष्पं प्रोक्ष-
णात् कर्मण्यम्” इति केचित् । याचितादिपुष्प-
दानस्य निष्फलत्वम् । “याचितं निष्फलं पुष्पं क्रय-
क्रीतञ्च निष्फलम्” इति वदन्ति । वामहस्तचितादि
पुष्पस्यादेयत्वं यथा “न पुष्पच्छदनं कार्य्यं देवार्थं
वामहस्ततः । न दद्यात्तानि देवेभ्यः संस्थाप्य वामहस्ततः ।
समित्पुष्पादीनां स्वयमाहरणीयत्वं हारीतशाता-
तपौ “समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः” । क्रये प्रति-
प्रमवमाह ब्रह्मपु० “पुष्पैर्धूपैश्च नैवेद्यैर्वीरक्रयक्रिया-
हृतैः” । वीरक्रयो वीरवत् याच्ञाशून्येन विक्रेतु-
रुसन्यस्तमूल्येन क्रयः । पुष्पदानप्रकारो ज्ञानमालायां
“पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम् । पुष्पा-
ञ्जलिविधिं हित्वा यथोत्पन्नं तथार्पणम्” । मध्याह्न-
स्नानानन्तरं पुष्पचयनस्य दोषो यथा “स्नानं कृत्वा तु ये
केचित् पुष्पं गृह्णन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति
भस्मीभवति दारुवत्” । एतत्तु द्वितीयस्नानाभिप्रायम् ।
इति रत्नाकरः । व्यक्तं मत्स्यसूक्ते “स्नात्वा मध्याह्न-
समये न छिन्द्यात् कुसुमं नरः । तत्तत्पुष्पार्चने देवि!
रौरवे परिपच्यते” । पुष्पाभावे देयानि विष्णु-
धर्मोत्तरे “पुष्पाभावेऽपि देयानि पत्राणि च जनार्दने ।
पत्राभावे जलं दद्यात्तेन पुण्यमवाप्यते” । पुष्पदान-
माहात्म्यं यथा “न रत्रैर्न सुवर्णेन न वित्तेन च
भूरिणा । तथा प्रसादमायाति यथा पुष्पैर्जनार्दनः” ।
देवताविशेषे वर्जनीयपुष्पं यथा शातातपः “शिवे
विवर्जयेत् कुन्दमुन्मत्तञ्च हरेस्तथा । देवीनामर्कमन्दारौ
सूर्य्यस्य तगरन्तथा” । पुष्पविशेषाणां कालभेदे पर्य्यु-
षितमुक्तं भविष्ये “पद्मानि सितरक्तानि कुमुदा-
न्युत्पलानि च । एषां पर्युषिताशङ्का कार्य्या पञ्च
दिनोत्तरम्” । पुष्विशेषस्यापर्युषितत्वं यथा
“तुलस्यगस्त्यविल्वानां न च पर्युषितात्मता” । योगिनी-
तन्त्रे “विल्वपत्रञ्च माघ्यञ्च तमालामलकोदलम् ।
कह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम् । एतत् पर्यु
पृष्ठ ४३९०
पित न स्यात् यच्चात्यत् ककिकात्मकम् ।” कलिकात्मकं
प्रस्फुटनयोग्यम् एका० त० । अन्यत् पर्युषितशब्दे दृश्यम् ।

पुष्पक न० पुष्पमिव पुष्पेण वा कायति कै--क स्वार्थे क वा ।

१ पुष्पशब्दार्थे २ रीतिपुष्पे ३ कुवेरविमाने ४ नेत्ररोगभेदे
५ रत्नकङ्कणे ६ रसाञ्जने ७ लौहकांस्यै ८ मृत्तिकाङ्गारवा-
हकशकट्याञ्च मेदि० । ९ कासीसे हेमच० ।

पुष्पकरण्डक न० अवन्तिस्थे शिवोद्यानभेदे “महाकाल-

स्योज्जविनी विशालाऽवन्तिका तथा । तस्योद्यानं तु
विज्ञेयं नाम्ना पुष्पकरण्डकम्” शब्दमा० । ततः अस्त्यर्थे
इनि ङीप् । पुष्पकरण्डिका उज्जयिन्यां स्त्री हेमच० ।
६ त० । (साजि) २ पुष्पचयनपात्रभेदे न० ।

पुष्पकाल पु० पुष्पस्य कालः । १ स्त्रीणामृतुसमये द्वादशवर्षादौ

क ले पुष्पप्रधानः कालः शा० त० २ कुसुमप्रधाने ३ वसन्तकाले ।

पुष्पकासीम न० पुष्पमिव कासीसम् । कासीसभेदे राजनि० ।

“कासीसं धातुकासीसं पांशुकासीसमित्यपि । तदेव किञ्चित्
पीतन्तु पुष्पकासीसमुच्यते” भावप्र० कासीसशब्दे दृश्यम्

पुष्पकीट पु० पुष्पप्रियः कीटः । १ भ्रमरे त्रिका० ७ त०

२ कुसुमस्थितकृमिमात्रे च ।

पुष्पकेतन पु० पुष्पं केतनं यस्य । कामदेवे हेमच० ।

पुष्पकेतु न० पुष्पनिर्मितः केतुरिव । १ कुसुमाञ्जने अमरः

६ ब० । २ कामदेवे च ।

पुष्पघातक पु० पुष्पं हन्ति हन--ण्वुल् । १ वंशे शब्दमा० । २ कुसुमनाशके त्रि० ।

पुष्पचाप पु० पुष्पमय चापमस्य । कामे पुष्पधन्वादयोऽप्यत्र ।

पुष्पचामर पु० पुष्पं चामर इव यस्य । १ मदनवृक्षे त्रिका० ।

२ वेत्रवृक्षे शब्दमाला० ।

पुष्पज न० पुष्पाज्जायते जन--ड ६ त० । १ पुष्परसे राजिनि० ।

२ पुष्पजातमात्रे त्रि० “अपारयन्तं किल पुष्पजं तेजः” सा० द०

पुष्पद पु० पुष्पं ददाति दा--क उप० स० । वृक्षे हेमच० ।

पुष्पदंष्ट्र पु० पुष्पमिव दंष्ट्राऽस्य । नागभेदे हरिवं० ३ अ० ।

पुष्पदन्त पु० पुष्पमिव दन्तो यस्य । १ वायुकोखस्थे दिग्गज-

भेदे अमरः । २ विद्याधरभेदे मेदि० । ३ जिनभेदे हेमच० ।
४ बागभेदे धरणिः । ५ वैष्णवानुचरभेदे भाग० ८ । २१ । १० ।
६ पुरद्वाराधिपभेदे “शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव
च” हरिवं० ११६ अ० ।

पुष्पदन्तक पु० महिम्न इत्यादिस्तवकर्त्तरि भन्धर्वभेदे ।

पुष्पदामन् न० पुष्पनिर्मितं दाम । १ पुष्पनिर्मितमाल्ये भूता

श्वाश्वान्त मतनसररगैः कीर्त्तितं पुष्पदाम वृ० र० टी० उक्ते
जनविंशत्यक्षरपादके १ छन्दोभेदे च ।

पुष्पद्रव पु० ६ त० । कुसुमरसे मकरब्दे राजनि० ।

पुष्पध पुंस्त्री “ब्रात्यात् तु जायते विप्रात् पापात्माभुर्ज-

कण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च”
मनूक्ते व्रात्यविप्रजाते जातिभेदे स्त्रियां जातिअत्वात्
ङीष् ।

पुष्पधनुस् पु० पुष्पं धनुरस्य “वा संज्ञायाम्” पा० पक्षे

संज्ञात्वे न अनङ् । कामदेवे माधः ९४ ।

पुष्पधन्वन् पु० पुष्पं धनुरस्य संज्ञात्वात् वा अनङ् । कामदेवे

अमरः । धन्वन्शब्देन समासेनेव प्रयोगोपपत्तौ अनङ्-
विधानम् असंज्ञायां धनुःशब्दप्रयोगनिवृत्त्यर्थम् ।

पुष्पधारण पु० पुष्पं धारयति धारि--ल्यु । विष्णौ शा० ७ अ० ।

पुष्पनिक्ष पुंस्त्री पुष्पं निक्षति निक्ष--चुम्बने अण् उप० स० ।

भ्रमरे पु० स्त्रियां जातित्वात् ङीष् ।

पुष्पनिर्यास पु० ६ त० । पुष्परसे मकरन्दे राजनि० । “पुष्प-

निर्यासकः शीतः कषायः स्थौल्यमारकः । दाहम्बमार्त्ति
बमिनुत् मोहवक्त्रामयप्रलुत् । तृष्णार्त्तिकफवित्तघ्न-
सिरारोचकनाशनः । तर्पणः सुरभिः सारो भिधमूभिः
परिकीर्त्तितः” राजनि० ।

पुष्पनेत्र न० पुष्पनिर्मितं नेत्रम् । पुष्पगिर्मिते वस्तिशस्वाका-

ऽवयवमेदे नेत्रशब्दे ४१४० पृ० दृश्यम् । “क्षारनक्षकषा-
यन्तु पुष्यनेत्रेण योजितम्” सुश्रुतः ।

पुष्पन्धय पुंस्त्री० पुष्यंधयति धे--खश् मुम् । १ अमरे राजनि०

स्त्रियां जागित्वात् ङीष् । २ कुसुमरसपागिनि त्रि०
स्त्रियां घेटः टित्त्वात् ङीप् ।

पुष्पपत्त्र न० ६ त० । (फुलेर पापड़ि) मवदल चला० ।

पुष्पपत्त्रिन् पु० पुष्पं तन्मयः पत्री गाणोऽस्य । कुलुमशरे

लामे ।

पुष्पपथ पु० ६ त० । स्त्रीणामृतुरजोनिर्गद्वारे योनौ त्रिका० ।

पुष्पपाण्डु पु० मण्डलिसर्पभेदे सुश्रुतः अहिशब्दे दृश्यम् ।

पुष्पपुर न० पाटलिपुत्रनगरे कुसुमपुर (घाटना) ।

पुष्पप्रच(चा)य पु० प्र + चि--“हस्तादाने चेरस्तेये” पा० घञ्

“हस्तादान इत्यनेन प्रत्थासत्तिरादेयस्य गम्यते” सि० कौ०
प्रशबेग तादृशी प्रत्यासत्तिर्द्योत्यते । हस्तेग कुसुमानां
चयने । चौर्य्ये तु अच् । चौर्य्येण कुसुमहरणे ।
हस्तादान इत्युक्तेः यष्ट्यादिगा चयने तु अजेय ।

पुष्पप्रचायिका स्त्री पष्यायेण पुष्पणां चयनम् प्र +

चिपर्य्याये ण्वुच् तदन्तस्य स्त्रीत्वम् क्रीड़ात्वात् नित्य० ल० ।
आद्युदात्तता च परिपान्ना कुसुमाना चवने ।
पृष्ठ ४३९१

पुष्पफल पु० पुष्पयुक्तं फलमस्य । १ कपित्थे अमरः २ कुष्माण्डे

शब्दमाला ।

पुष्पभूषित त्रि० ३ त० । १ कुसुमेनालङ्कृते । २ बणिग्नायके

रूपकप्रकरणभेदे सा० द० प्रकरणोदाहरणम् ।

पुष्पमास पु० पुष्पप्रधानो मासः शाक० त० । चैत्रे मासि

२ वसन्तसमये राजनि० ।

पुष्परक्त पु० पुष्पं रक्तं यस्य । सूर्य्यमणिवृक्षे राजनि० ।

पुष्परजस् न० ६ त० । कुसुमपरागे हेमच० ।

पुष्परथ पु० पुष्पनिर्मितो रथः । पुष्पनिर्मिते रथभेदे हेमच०

पुष्परस पु० ६ त० । मकरन्दे कुसुमनिर्यासे अमरः ।

पुष्परसाह्वय न० पुष्पस्य रस आह्वयो यस्य । मधुनि राजनि०

पुष्पराग पु० पुष्पस्येव रागो वर्णो यस्य । १ मणिभेदे (पोक-

राज) तस्य लक्षणादि युक्तिकल्पतरावुक्तं यथा
“सुच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धञ्च निर्मलमतीव
सुवृत्तशीतम् । यः पुष्परागशकलं कलयेदमुष्य पुष्णाति
कीर्त्तिमतिर्शार्य्यसुखायुरर्थान्” तस्य दोषलक्षणं यथा
“कृष्णविन्द्वङ्कितं रूक्षं घवलं मलिनं लघु । विच्छायं
शर्कराकारं पुष्परागं सदोषकम्” । तस्य परीक्षालक्षणे
यथा “घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम् । न
खलु पुष्परागो जात्यतया परीक्षकैरुक्तः” राजनि० ।
तस्योत्पत्त्यादि यथा “सूत उवाच । पतिता या हिमाद्रौ
हि त्वचस्तन्वाः सुरद्विषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्प-
रागा महागुणाः । आपीतपाण्डुरुचिरः पाषाणः
पुष्परागसंज्ञस्तु । कौरुण्टकनामा स्यात् स एव यदि
लोहितापीतः । आलोहितस्तु पीतः स्वच्छः काषा-
यकः स एवोक्तः । आनीलशुक्लवर्णः स्निग्धः सोमा
लकः स्वगुणैः । अत्यन्तलोहितो यः स एव खलु पद्म-
रागः स्यात् सुनीलः सन् । मूल्यं वैदूर्य्यमणेरिव
गदितं ह्यस्य रत्नशास्त्रविदा । धारणफलञ्च तद्वत् किन्तु
स्त्रीणां शुमप्रदो भवति” गारुडे ७५ अ० । प्रकारान्तरम्
शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः । पुत्रदो
घनदः पुण्डः पुष्परागो मणिर्धृतः । दैत्यधातुसमुद्भूतः
पुष्परागमणिर्द्विधा । पद्मरागाकरे कश्चित् कश्चित्ता-
र्क्ष्योपलाकरे । ईषत्पीतच्छविच्छायं स्वच्छं कान्त्या
मनोहरम् । पुष्परागमिति प्राक्तं रङ्गसोममहीभुजा ।
ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम् । छाया चतुर्विधा
तस्य सिता पीता सितासिता” । क्लीवत्वमपि ।

पुष्पराज पु० पुष्पमिव राजते राज--अच् । पुष्परागमणौ ।

पुष्परेणु पु० ६ त० । परागे कुसुमरजसि शब्दर० ।

पुष्परोचन पु० पुष्पं रोचनेव यस्य । नागकेशरे । त्रिका०

पुष्पलाव त्रि० पुष्पं लुनाति मालारचनायै लू--अण् उप्र० स० ।

मालाकारे त्रिका० । णिनि । पुष्पलाविन् तत्रार्थे जटा० ।

पुष्पलिह् पु० पुष्पं लेढ़ि लिह--क्विप् ६ त० । मधुकरे । क ।

पुष्पलिहोऽप्यत्र अमरः ।

पुष्पवन्त(त्) पु० द्वि० व० । पुष्प + मत्वर्थे मतुप् मस्य वः ।

१ रविशशिनोः । पृषो० अदन्तोऽप्ययं तयोरर्थयोः । अत्र
“रवित्वचन्द्रत्वाभ्यामेकशक्तिमदेव नियतद्विवचनाकाङ्क्षम्”
शब्द० प्र० द्वन्द्वप्रक० । विस्तरस्तु गदाधर शक्तिवादे दृश्यः ।
२ कुसुमयुक्ते त्रि० ।

पुष्पवती स्त्री पुष्पं स्त्रीरजः अस्त्यस्य मतुप मस्य वः । ऋतुमत्यां स्त्रियाम् अमरः ।

पुष्पवर्ग पु० ६ त० । सुश्रुतोक्ते कुसुमविशेषसमुदाये तेषां

विशेषगुणाश्च तत्रोक्ता यथा
“कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुरविपा-
कानि रक्तपित्तहराणि च । वृषागस्त्ययोः पुष्पाणि
तिक्तानि कटविपाकानि क्षयकासापहानि । मधुशिग्रु-
करीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्र-
पुरीषाणि च । “आगस्त्यं नातिशीतोष्णं नक्तान्धार्ना
प्रशस्यते । रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च ।
कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च । सुतिक्तं मधुरं
शीतं पद्मं पित्तकफापहम् । मधुरं पिच्छिलं स्निग्धं
कुमुदं ह्लादि शीतलम् । तस्मादल्पान्तरगुणे विद्यात्
कुवलयोत्पले । सिन्धुवारं विजानीयाद्धितं पित्तवि-
नाशनम् । मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने ।
सगन्धिविशदं हृद्यं बकुलं प्राटलानि च । श्लेष्मपित्त-
विषघ्नन्तु नागं तद्वच्च कुङ्कुमम् । चम्पकं रक्तपित्तघ्नं
शीतोष्णं कफनाशनम् । किंशुकं कफपित्तघ्नं तद्वदेव
कुरण्टकम् । यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं
तथा । मधुशिग्रुकरीराणि कटुश्लेष्महराणि च” ।
अन्येषां गुणा भावप्र० विशेषत उक्तास्तत्र दृश्याः ।

पुष्पवाटी स्त्री० ६ त० । पुष्पोद्याने । स्वार्थे क । तत्रार्थे

अमरः । “दक्षिणेन पुष्पवाटिकामालाप इव श्रूयते”
शकुन्तला ।

पुष्पवा(बा)ण पु० पुष्पं बाणोऽस्य । १ कन्दर्पे २ कुशद्वीपस्थ-

पर्वतभेदे भा० व० १२ अ० । ३ दैत्यभेदे भा० शा० २२७ अ० ।
४ नायकभेदे पुष्पबाणचरिते दृश्यम् ।

पुष्पवाहन पु० राजभेदे अग्निपु० ।

पृष्ठ ४३९२

पुष्पवाहिनी स्त्री नदीभेदे हरिवं० २६६ अ० ।

पुष्पशकटी स्त्री दैववाण्याम् हारा० ।

पुष्पशकलिन् पु० निर्विषसर्पभेदे सुश्रुतः । अहिशब्दे दृश्यम् ।

पुष्पशर पु० पुष्पं शरोऽस्य । कुसुमेषौ कामदेवे ।

पुष्पशरासन पु० पुष्पमयं शरासनं धनुर्यस्य । कामे

पुष्पशून्य पु० ३ त० । १ उडुम्बरे राजनि० । २ पुष्परहितमात्रे त्रि०

पुष्पसमय पु० ६ त० । वसन्ते ऋतौ अमरः ।

पुष्पसार पु० ६ त० । १ कुसुमरसे राजनि० । ७ त० । २ तुलस्यां

ब्रह्मवै० पु० ।

पुष्पसौरभा स्त्री पुष्पे सौरभमस्याः । कुसुमे सौरभान्विते कलिकारावृक्षे राजनि० ।

पुष्पस्वेद पु० ६ त० । कुसुमरसे मकरन्दे राजनि० ।

पुष्पहासा स्त्री पुष्पं हास इव यस्याः । १ रजस्वलायां स्त्रियां

शब्दच० । मुकुलात्मना स्थितानां पुष्पाणां हास इव
प्रपञ्चरूपेण प्रकाशोऽस्य । २ विष्णौ पु० । “पुष्पहासः
प्रजागरः” विष्णुस० । ६ त० । ३ कुसुमविकाशे पु० ।

पुष्पहीन पु० ३ त० १ कुसुमरहिते द्रुमे । २ उदुन्दरवृक्षे स्त्री

३ रजःशून्यायां स्त्रियां स्त्री हेम० ।

पुष्पा स्त्री चम्पापुर्य्या (भागलपुर) त्रिका० ।

पुष्पागम पु० पुष्पाण्यागच्छन्त्यत्र आ + गम आधारे अप् ।

वसन्ते पुष्पातरादयोऽप्यत्र ।

पुष्पाजीव पु० पुष्पमाजीवति आ + जीव--अण् उप० स० । मालाकारे हमच०

पुष्पाञ्जन न० ६ त० । कुसुमाञ्जने (कोमकाजल) । राजनि०

पुष्पानन पु० पुष्पमिव विकसितमाननमस्मात् । मद्यभेदे

भा० स० १० अ० ।

पुष्पाम्बुज न० पुष्पस्याम्बुनो जायते जन--ड ५ त० ।

मकरन्दे राजनि० ।

पुष्पायुध पु० पुष्पमायुधमस्य । कुसुमायुधे कामदेवे पुष्पास्त्रादयोऽप्यत्र ।

पुष्पार्ण पु० राजभेदे भाग० ४१३११ ।

पुष्पावचायिन् पु० पुष्पमवचिनोति मालार्थम् अव +

चिणिनि ६ त० । मालाकारे हेमच०

पुष्पासव न० ६ त० । मधुनि राजनि० तस्य पुष्पोद्भवत्वात् मादकत्वाच्च तथात्वम् ।

पुष्पास्त्र पु० पुष्पमस्त्रमस्य । कुसुमायुधे कामे हेमच० ।

पुष्पाह्वा स्त्री पुष्पमित्याह्वा यस्याः । शतपुष्पायाम् राजनि०

पुष्पिका स्त्री पुष्प + ण्वुल् । १ दन्तमले हारा० । २ लिङ्गमले

हेम० । ग्रन्थाध्यायसमाप्तौ तत्प्रतिपाद्यकथने ग्रन्थांशभेदे
यथा “इति महाभारते शतसाहस्र्यां संहितायामि-
त्यादि” ।

पुष्पित त्रि० पुष्प + तार० इतच् । १ संजातकुसुमे । पुष्प--कर्तरि क्त । २ विकसिते च ।

पुष्पिताग्रा स्त्री “अयुजि नयुगरेफतो यकारो युजि च

नजौ जरगाश्च पुष्पिताग्रा” वृ० र० उक्ते अर्द्धसमवृत्तभेदे ।

पुष्पिन् त्रि० पुष्प + मत्वर्थे इनि । १ कुसुमयुक्ते वृक्षे स्त्रियां

ङीप् । सा च २ रजस्वलायां स्त्रियां स्त्री ।

पुष्पेषु पु० पुष्पमिषुर्यस्य । कुसुमबाणे कामे हेम० ।

पुष्पोत्कटा स्त्री राक्षसीभेदे सा च रावणकुम्भर्णयोर्माता

“पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ । कुम्भ-
कर्णदशग्रीवौ” भा० व० २७४ अ० ।

पुष्प्य पुष्प विकशने कण्ड्वा० पाठान्तरम् सक० सेट् । पुष्प्यति अपुष्प्यीत् ।

पुष्य पुंस्त्री कार्य्यं पुष्यति पुष--कर्त्तरि यत् नि० । अश्विन्यादि

२७ नक्षत्रमध्ये १ अष्टमे नक्षत्रे, स्त्रीत्वे टाप् ।
तस्याधिपतिः जीवः । तद्योगतारादिकम् अश्लेषाशब्दे
दृश्यम् । २ पौषमासे ३ कलियुगे च पु० मेदि० ।

पुष्यनेत्रा स्त्री पुष्यः नक्षत्रं नेता प्रथमावधिशेषपर्य्यन्त

समापको यस्याः अच्समा० । यस्यां रात्रौ प्रथमावधि-
शेषपर्य्यन्तं पुष्यनक्षत्रस्य दर्शनं तादृश्यां रात्रौ ।

पुष्यरथ पु० यात्रार्थे रथे अमरः । पुष्परथेति तत्र पाठान्तरं तत्रार्थे

पुष्यलक पुंस्त्री पुष--कि पुषिः पुष्टिस्तस्यै अलति पर्य्याप्नोति

अल--अच् स्वार्थे क । गन्धप्रधाने मृगभेदे । “सीम्नि
पुष्यलकोहतः” सि० कौ० । स्त्रियां जातित्वात् ङीष् ।
२ क्षपणके ३ कीले च पु० मेदि० ।

पुष्यस्नान न० पुष्यनक्षत्रकाले स्नानम् । शास्त्रोक्तविधानेन

पुष्यनक्षत्रयुक्तकाले नृपस्याभिषेकभेदे तद्विधानं वृ० सं० ४८
अ० दृश्यम् । तत्कालश्च तत्रोक्तो यथा “शुभे मुहूर्त्ते
संप्राप्ते पुष्ययुक्ते निशाकरे” पुष्याभिषेकोऽप्यत्र ।

पुस मर्द्दे व्यूसे हानौ च चुरा० उभ० सक० सेट् । पोसयति

ते अपूपुसत् त ।

पुस्त बन्धे अनादरे च चु० उभ० सक० सेट् । पुस्तयति ते अपुपुस्तत् त ।

पुस्त न० पुस्त--अच् । “मृदा वा दारुणा वापि वस्त्रेणाप्यथ

चर्मणा । लौहरत्नैः कृतं वापि पुस्तमित्यभिधीयते”
इत्युक्ते १ लिप्यादिशिल्पकर्मणि । स्वार्थे क । २ लिप्या-
धारे ग्रन्थे पुंस्त्री० स्त्रीत्वे गौरा० ङीष् ।
पुस्तकमानलेखनप्रकारादिकं योगिनीतन्त्रे उक्तं यथा
“मानं वक्ष्ये पुस्तकस्य शृणु देवि! समासतः । माने-
नास्य फलं विन्द्यादमाने श्रीर्हता भवेत् । हस्तमात्रं
मुष्टिमात्रमाबाहु द्वादशाङ्गुलम् । दशाङ्गुलं तथाष्टौ
च ततो हीनं न कारयेत्” । तस्य वेधो यथा “वेधद्वयं
मुष्टिहस्ते बाहुमात्रे त्रिरन्ध्रकम् । समभागे महेशानि
पृष्ठ ४३९३
हस्तादो रूप(१)रन्ध्रकम् । अष्टाङ्गुलं परित्यज्य मध्ये
वेधं तु कारयेत् । प्रादेशादौ मवेद्रन्ध्रं द्व्यङ्गुले वा
समाचरेत् । पुस्तकस्य च आद्यन्ते यन्त्रवेधं विकल्पयेत् ।
भार्य्याहानिर्भवेदाशु धनानां वा क्षयो भवेत् । दग्धरन्ध्रे
भवेत् पीड़ा वर्तुलं शुभदं भवेत् । चतुष्कोणे विप्ल-
वस्तु त्रिकोणे मरण भवेत्” । पुस्तकलेखनपत्रं यथा
“भूर्जे वा तेजपत्रे वा ताले वा ताड़िपत्रके । अगत्व-
चापि देवेशि! पुस्तकं कारयेत् प्रिये! । सम्भवे स्वर्ण-
पत्रे च ताम्रपात्रे च शङ्करि! । अन्यवृक्षत्वचि
देवि! तथा केतकीपत्रके । मार्त्तण्डपत्रे रौप्ये बा
वटपत्रे वरानने! । अन्यपत्रे वसुदले लिखित्वा यः
समभ्यसेत् । स दुर्गतिमवाप्नोति धनहानिर्भवेद्ध्रुवम् ।
पुस्तके पाठ्यवेदलिखननिषेधो यथा “वेदस्य लिखनं कृत्वा
यः पठेद् ब्रह्महा भवेत् । पुस्तकं वा गृहे स्थाप्यं
वज्रपातो भवेद् ध्रुवम्” । युगभेदे पुस्तकाक्षरस्थ देवा
यथा “सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः ।
पजापतिर्द्वापरे च त्रेतायां सूर्य्य एव च । कृते युगे
पिनाकी च कलौ लिप्यक्षरे हरिः” । तल्लेखकपूजा-
फलं यथा “आरम्भे च समाप्तौ च लेखकं प्रतिपूजयेत् ।
हरिञ्च गन्धपुष्पाद्यैर्वस्त्रैश्च सुमनोहरैः । यावदक्षर-
संख्यानं प्रतिपत्रं च सुन्दरि! । तावद्युगसहस्राणि
ब्रह्मलोके वसेच्चिरम्” । लेखकस्य वेतनग्रहणे दोषो
यथा “वेतनं यस्तु गृह्णीयात् लिखित्वा पुस्तकं स तु ।
यावदक्षरसंख्यानं तावच्च नरकं वसेत्” । भूमौ पुस्तक-
लेखनस्थापननिषेधो यथा “न भूमौ विलिखेद्वर्णं यन्त्रं
न पुस्तकम् लिखेत् । न भूमौ पुस्तकम् स्थाप्यं न मुक्त-
माहरेत्तु तत् । भूपृष्ठग्रहणे चैव अक्षरं वाऽथ
पुस्तकम् । भूमौ तिष्ठति देवेशि! जन्मजन्मसु मूर्खता ।
तदा भवति देवेशि! तस्मात्तत् परिवर्जयेत्” । तस्य
दानफलं यथा “विप्राय पुस्तकं दत्त्वा धर्मशास्त्रस्य च
द्विज । पुराणस्य च यो दद्यात् स देवत्वमवाप्नुयात् ।
शास्त्रदृष्ट्या जगत्सर्वं सुश्रुतञ्च शुभाशुभम् । तस्मात्
शास्त्रं प्रयत्नेन दद्याद्विप्राय कार्त्तिके । वेदविद्याञ्च यो
दद्यात् स्वर्गे कल्पत्रयं वसेत् । आत्मविद्याञ्च यो दद्या-
त्तस्य खंख्या न विद्यते । त्रीणि तुल्यप्रदानानि त्रीणि
तुल्यफलानि च । शास्त्रं कामदुघा धेनुः पृथिवी
चैव शाश्वती” इति पाद्मोत्तरखण्डे ११७ अ० ।
वेदशास्त्रादिदानफलं यथा “वेदार्थयज्ञशास्त्राणि धर्म-
शास्त्राणि चैव हि । मूल्येन लेखयित्वा यो दद्याद्
याति स वैदिकम् । इतिहासपुराणानि लिखित्वा
यः प्रयच्छति । ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणी-
कृतम्” इति गारुड़े २१५ अ० । पुराणादिपुस्तकदान-
विधिः हेमा० दा० चण्डीशब्देऽधिकं दृश्यम् ।

पुस्तकमुद्रा स्त्री “वाममुष्टिं स्वाभिसुखीं कृत्वा पुस्तकमुद्रिका”

तन्त्रसारोक्ते मुदाभेदे ।

पुस्तकर्म्मन् त्रि० पुस्तं ग्रन्थलेखनं कर्माऽस्य । लेख्यादिकर्मकर्त्तरि हला० ।

पू शोधे दि० आत्म० सक० सेट् । पूयते अपविष्ट । पुपुवे पूत ।

पू शोधे भ्वा० आ० सक० सेट् । पवते अपविष्ट । पुपुवे पूत०

पवित्रः ।

पू शोधे क्य्रादि० प्वा० उभ० सक० सेट् । पुनाति पुनीते अपावीत्

अपविष्ट पुपाव पुपुवे । आर्षे क्वचित् श्नाप्रत्ययस्य ह्रस्वः ।
“स्मरणात् पुनते पापं धारणात् पूर्वसञ्चितम्” ।

पूग पु० पू--गन् किच्च । (सुपारि) १ वृक्षे २ समूहे अमरः

३ छन्दसि ४ भावे ५ कण्टकिवृक्षे च शब्दरत्ना० । ६
पूगफले न० । समूहार्थात् तस्मात् पूरणे डट् तिथुक् च ।
पूगति ख पूगपूरणे त्रि० स्त्रियां ङीप् । पूगे भवः दिगा०
यत् । पूग्य तद्भवे त्रि० । समासे आद्युदात्तताऽस्य ।

पूगपात्र न० पूगस्य दन्तचर्वित तद्रसस्य आधारभूत

पात्रम् । (पिकदानी) पतद्ग्रहे हारा० ।

पूगपीठ पु० न० ६ त० । पतद्ग्रहे त्रिका० ।

पूगपुष्पिका स्त्री पूगसहितं पुष्पमत्र कप् कापि अत

इत्त्वम् । विवाहोत्सवे दीयमाने गुवाकयुक्तताम्बूलदान-
कर्मणि त्रिका० ।

पूगरोट पु० पूगः पूगवृक्ष इव रोटयति द्योतते रुट--द्युतौ

अच् । हिन्तालवृक्षे त्रिका० ।

पूज पूजने चु० उभ० सक० सेट् । पूजयति ते अपूपुजत् त ।

पूजक त्रि० पूज--ण्वुल् । पूजाकारके । अकान्तत्वेऽपि

याजकादि० षष्ठीसवासः देवपूजकः इत्यादि ।

पूजन न० पूज--भावे ल्युट् । १ अर्चने । पूज्यतेऽसौ कर्मणि

ल्युट् ङीप् । २ शकुनिविहगस्त्रीभेदे भा० शा० १३९ अ०
तदुपाख्यानं दृश्यम् ।

पूजनीय त्रि० पूज + कर्मणि अनीयर् । १ पूजार्हे । २ पूजन्यां

पतगयोषिद्भेदे स्त्री हरिवं० २० अ० दृश्यम् ।
पृष्ठ ४३९४

पूजा स्त्री पूज--भावे अ । अर्चने । ल्युट् । पूजनमप्यत्र न० ।

उपचारशब्दे तङ्गभेदा उक्ताः
देवीपूजायां मुखभेदनिरूपणं यथा
“दिग्विभागे तु कौवेरी दिक् शिवापीतिकारिणी ।
तस्मात्तन्मुखमासीनः पूजयेच्चण्डिकां सदा” पूजास्था-
नानि यथा “लिङ्गस्थां पूजयेद्देवीं पुस्तकस्थां तथैव च ।
स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च । चित्रे
च त्रिशिखे खड्गे जलस्थां वापि पूजयेत् । पञ्चाश-
दङ्गुलं खड्गं त्रिशिखञ्चं त्रिशूलकम् । शिलायां
पर्वतस्याग्रे गङ्गायामपि तत्समम् । आर्य्यावर्त्ते मध्य-
देशे तथा पर्वतगह्वरे । देवीं संपूयेन्नित्यं भक्त्विश्रद्धासम
न्वितः । वराणास्यां सदा पूजा सम्पूर्णफलदायिनी ।
ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ । ततोऽपि
द्विगुणा प्रोक्ता द्वारवत्यां विशेषता । सर्वक्षेत्रेषु तीर्थेष
पूजा द्वारवतीसमा । बिन्ध्ये शतगुणा प्रोक्ता गङ्गाया-
मपि तत्समा । आर्य्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैव
च । बिन्ध्यवत्फलदा पूजा प्रयागे पुष्करे तथा ।
ततश्चतुर्गुणं प्रोक्तं करतोयानदीजले । तस्माच्चतुर्गुणफला-
नन्दिकुण्डे च भैरव! । ततश्चतुर्गुणा प्रोक्ता जल्पी-
शेश्वरसन्निधौ । तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा
स्मृता । ततश्चतुर्गुणा प्रोक्ता लोहित्यनदपाथसि ।
तत्समा कामरूपे तु सर्वत्रैव जले स्थले । सर्वश्रेष्ठो यथा
विष्णुर्लक्ष्मी सर्वोत्तमा यथा । देवीपूजा तथा शस्ता
कामरूपे स्मरालये । देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्न
तत्समम् । अन्यत्र विरला देवी कामरूपे गृहे गृहे ।
ततः शतगुणं प्रोक्तं नीलकूटस्य मस्तके । ततोऽपि
द्विगुणं प्रोक्तं हीरके शिवलिङ्गके । ततोऽपि द्विगुणा
प्रोक्ता शैलपुत्रादियोनिषु । ततः शतगुणा प्रोक्ता
कामाख्या योनिमण्डले” कालिकापु० ५४५७ अ० ।
पूजासनानि तत्फलानि च यथा “उपविश्यासने रम्ये
कृष्णाजिनकुशोत्तरे । राङ्कवे कम्बले वापि काशादौ
व्याघ्रचर्मणि । न कुर्य्यादर्च्चनं विष्णोः शिवे! काष्ठा-
सनादिषु । काष्ठासने वृथा पूजा पाषाणे रोगसम्भवः ।
भूम्यासने गतिर्नास्ति वस्त्रासने दरिद्रता । कुशासने
ज्ञानवृद्धिः कम्बले सिद्धिरुतमा । कृष्णाजिने धनी पुत्री
मोक्षः स्याद्व्याघ्रचर्मणि । मन्त्रयोगं प्रकुर्वीत भोगार्थं
सुखमासने” इति पाद्मोत्तरखण्डे ७४ अ० । पूजाधि-
कारिताप्रयोजकदेवषट्कपूजाऽऽदौ कार्य्या “गणेशञ्च दिने
शञ्च वह्निं विष्णुं शिवं शिवाम् । संपूज्य देवषट्कञ्च
सोऽधिकारी च पूजने । गणेशं विघ्ननाशाय निष्पापाय
दिवाकरम् । वह्निं शुद्धाय विष्णुञ्च मुक्तये पूजयेन्नरः ।
शिवं ज्ञानाय ज्ञानेशं शिवाञ्च वुद्धिवृद्धये । संपूज्य तान्
लभेत् प्राज्ञो विपरीतमतोन्यथा” इति ब्रह्मवै० प्रकृति-
खण्डे ८ अ० । सामान्यतस्तन्त्रोक्तपूजाप्रकारस्तुं
“आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम् । अङ्गुलि-
व्यापकन्यासौ हृदादिन्यास एव च । ध्यानं पूजा
जपश्चेति सर्वतन्त्रेष्वयं विधिः” तन्त्रसारः ।

पूजाधार पु० ६ त० देवतानां पूजनाधारे जलादौ यथोक्त

तन्त्रसारे नारदीये “आपोऽग्निर्हृदयं चक्रं विष्णोः
क्षेत्रसमुद्भवम् । यन्त्रञ्च प्रतिमास्थानं अर्चने सर्वदा
हरेः” गौतमीये “शालग्रामे मनौ यन्त्रे प्रतिमा-
मण्डलेषु वा । नित्यं पूजा हरेः कार्य्या न तु केवल-
भूतले । शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम् ।
किं पुनश्चार्चनं तत्र हरिसान्निध्यकारणम् । बहुभि-
र्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् । गोष्पदेनैव
चिह्नेन तेन जन्म समाप्यते” । एतेन विष्णुपूजायां
शिलाया अतिप्राधान्यम् मण्डलादीनान्तु सर्वसाधा-
रणत्वात्” योगिनी तन्त्रे “लिङ्गस्थां पूजयेन्देवीं पुस्त-
कस्थां तथैव च । मण्डलस्थां महामायां यन्त्रस्थां प्रति-
मासु च । जलस्थां वा शिलास्थां वा पूजयेत् परमे-
श्वरीम्” । कौलावलीये “यत्रापराजितापुष्पं जवापुष्पञ्च
विद्यते । करवीरे शुक्लरक्ते द्रोणं वा यत्र तिष्ठतिः । तत्र
देवी वसेन्नित्यं यद्यन्त्रे चण्डिकार्चनम्” । एतत् सर्वं
यन्त्राभावे तथा च “यन्त्रं मन्त्रमयं प्रोक्तं मन्त्राणां
देवतैव हि । देवात्मनोर्यथाऽभेदो यन्त्रदेवतयोस्तथा ।
तथा । आदौ लिखेद्यन्त्रराजं देवतायाश्च विग्रहम् ।
कामक्रोधादिदोषोत्थ सर्वदुःखनियन्त्रणात् । यन्त्रमित्याहुरे
तस्मिन् देवः प्रीणाति पूजितः । विना यन्त्रेण पूजायां
देवता न प्रसीदति । दुःखनिर्यन्त्रणात् यन्त्रमिताहुस्तन्त्र-
वेदिन” ।

पूजार्ह त्रि० पूजामर्हति अर्ह--अण् उप० स० । १ पूजायोग्ये २ मान्ये च शब्दर० ।

पूजित त्रि० पूज--कर्मणि क्त । यस्य पूजा कृता तस्मिन्

अर्चिते अमरः ।

पूजिल पु० पूज--कर्मणि इलच् किच्च । १ पूज्ये त्रि० । २ देवे उणा० ।

पूज्य पु० पूज--यत् । १ श्वशुरे । २ पूजनीयमात्रे त्रि० ।

“य एव विद्वांस्तपसा च वृद्धः स एव पूज्यो भवति
द्विजानाम्” मत्स्यपु० ९ अ० ।

पूण राशीकरणे चु० उभ० सक० सेट् । पूणयति ते अपूपुणत् त

पृष्ठ ४३९५

पूत न० पू--क्त । अपनीतबुषे (आगड़ारहित) १ वहुलीकृते

घान्ये अमरः । २ व्रतादिना शुद्धे त्रि० जटाध० । ३ सत्ये ।
४ शङ्खे ५ श्वेतकुशे ६ विकङ्कतवृक्षे च पु० । ७ दूर्वायां स्त्री
टाप् राजनि० ८ पवित्रे त्रि० ।

पूतक्रतु पु० पूतः शुद्धः क्रतुरस्य । इन्द्रे जटा० । तस्य षत्नी

ङीष् ऐङ् । पूतक्रतायी तत्पत्न्यां शच्याम् स्त्री ।

पूतगन्ध पु० पूतः पवित्रो गन्धो यस्य । वर्वरे (वावुइतुलसी)

राजनि० ।

पूततृण न० नित्यक० । श्वेतकुशे राजनि० ।

पूतद्रु पु० नित्यक० । पनसवृक्षे राजनि० ।

पूतधान्य न० नित्यक० । तिले राजनि० ।

पूतना स्त्री पूतयति पूत + णिच्--ल्यु । १ हरीतकीभेदे सा च

सिन्धुदेशजादल्पत्वक वृहती च लेपने प्रशस्ता राजनि० ।
२ गन्धमांस्यां राजनि० । ३ कंसस्य धात्रीभेदे सा च शकुनी
रूपं कृत्वा कृष्णस्य विषाक्तं स्तनं ददौ । कृष्णेन च तस्याः
प्राणेन सह स्तनं पपाविति कथा हरिवं० ६३ अ० ।
भाग० १० । ६ । कंसेन प्रहिता सा राक्षसीरूपा
बालघातिनी सौम्यरूपं कृत्वा कृष्णाय विषाक्तं स्तनं
पातुं ददौ कृष्णेन च तस्याः स्तनपानमिषेण प्राणा
कर्षणेन सा निहतेति स्थितम् । ४ बालग्रहभेदे सुश्रुतः
तल्लक्षणादिकं ग्रहशब्दे ३७६४ पृ० उक्तम् । ५ बालानां
क्षुद्रेरोगभेदे अहिपूतनशब्दे ५८४ पृ० तल्लक्षणादि ।
६ वालमातृकाभेदे “तृतीये दिवसे मासे वर्षे वा गृह्नाति
पूतना नाम मातृका । तया गृहीतमात्रेण प्रथर्म भवति
ज्वरः । गात्रमुद्वेजयति स्तन्यं न गृह्णाति दृष्टिं बध्नाति
क्रन्दति ऊर्द्ध्वं निरीक्षते” चक्रपाणिदत्तः ।

पूतनारि पु० ६ त० । वासुदेवे श्रीकृष्णे शब्दर० पूतनारा-

त्यादयोऽप्यत्र । पूतनाशब्दे दृश्यम् ।

पूतफल पु० पूतानि फलान्यस्य । पनसे (कांटाल) । राजनि०

पूतभृत् पु० पूतं शुद्धं सोमरसं बिभर्त्ति भृ--क्विप् ६ त० ।

सोमरसाधारे पात्रभेदे यजु० १८ । २३ वेददी० ।

पूतयव अव्य० पूता निस्तूषीकृता यवा अत्र तिष्ठद्गु० अव्ययी० ।

पूतयवाधारे खलादौ ।

पूतात्मन् त्रि० पूत आत्मा यस्य । १ शुद्धान्तःकरणे २ शुद्धदेहे

च । ३ विष्णौ पु० “पूतात्मा परमात्मा च” विष्णुस० ।

पूति न० पू--कर्त्तरि क्तिच् । १ रोहिषतृणे । भावे क्तिन् ।

२ पवित्रतायाम् राजनि० । पूय विशरणे दुर्गन्धे च
क्तिच् । ३ दुर्गन्धे ४ दुर्गन्धवति त्रि० रायमुकुटः ।

पूतिक न० पूत्या दुर्गन्धेन कायति कै--क । १ विष्ठायाम्

२ पूतिकरञ्जे पु० । ३ शाकभेदे स्त्री (पुँइ) “पूतिका ब्रह्म-
धातिका” इति स्मृतिः । ४ मार्जाल्याञ्च राजनि० । पूतिका
च सोमांशुतो जातेति सोमस्यालाभे प्रतिनिधित्वेन ग्राह्वा
तदेतत् ताण्ड्यब्रा० ८ । ४ । ५ । ३ उक्तं यथा “तस्य ये ह्रिय-
माणस्यांशवः परापतंस्ते पूतीका अभवन्” छान्दसो दीर्घः ।
“ह्रियमाणस्य सोमस्य पतिताः अंशवः पूतिका अमवन्”
तस्मात् सोमाभावे पूतीकादीनां प्रतिनिघित्वेन स्वीकर्त्त-
व्यतामभिधातुं प्रासङ्गिकानामेषाम् उपन्यासः” भा० ।

पूतिकरज(ञ्ज) पु० पूतियुक्तः करजः (ञ्जः) । (नाटाकरमजा)

करञ्जभेदे अमरः । करञ्जशब्दे १६८८ पृ० दृश्यम् ।

पूतिकर्णक पु० पूतिः कर्णो यत्र कप् । कर्णरोगभेदे “कर्णवि-

द्रधिपाकाद्वा जायते चाम्बुपूरणात् । पूयं स्रवति वा पूति
स ज्ञेयः पूतिकर्णकः” इति माधवकरः ।

पूतिकामुख पु० पूतिका तत्फलमिव मुखमस्य । शम्बूके शब्दरत्ना० ।

पूतिकाष्ठ न० पूतेः पावनार्थं काष्ठम् चतुर्थ्यर्थे अश्वघासवत्

६ त० । देवदारुणि शब्दच० । संज्ञायां कन् । पूतिकाष्ठक
सरलवृक्षे पु० अमरः ।

पूतिकीट पु० कर्म० । (गँधोपोका) कीटभेदे सुश्रुतः ।

पूतिकेश्वरतीर्थ तीर्थभेदे शिवपु० ।

पूतिगन्ध पु० पूतिर्दुष्टो गन्धो यस्य। १ गन्धके तमरः ।

२ इङ्गुदीवृक्षे राजनि० । ३ रङ्गे न० । कर्म० । ४ दुर्गन्धे पु०
वा इत्समा० । पूतिगन्धि दुष्टगन्धयुक्ते त्रि० । स्वार्थे क ।
पूतिगन्धि कदुष्टगन्धान्विते । पूतिशाके वाकुच्यां स्त्री राजनि०

पूतिघास पु० “मद्गुमूषिकवृक्षशायिकाऽवकुशपूतिघासवानर-

प्रभृतयः मृगाः” सुश्रुतोक्ते जन्तुभेदे ।

पूतितैल स्त्री पूति दुर्गन्धं तैलं यस्याः । ज्योतिष्मत्याम्

(लताकट्की) रत्नमा० ।

पूतिनस्य न० नसि भवः यत् कर्म० । “दोषैर्विदग्धैर्गलतालुमूले

संवासितो यस्य समीरणस्तु । निरेति पूतिर्मुखनासिका-
भ्यान्तं पूतिनस्यं प्रवदन्ति रोगम्” सुश्रुतोक्ते नासारोगभेदे

पूतिनासिक त्रि० पूतिर्नासिकाऽस्य । दुर्गन्धनासायुक्ते

“पिशुनः पूतिनासिकः” याज्ञ० पिशुनताकर्मविपाक-
तया पौतनासिक्यमुक्तम् ।

पूतिपत्त्र पु० पूतीनि पत्त्राण्यस्य । श्योनाकभेदे राजनि० ।

पूतिपुष्पिका स्त्री पूतीनि पुष्पाण्यस्याः कप् कापि अत

इत्त्वम् । मातुलुङ्गायाम् रत्नमा० ।

पूतिफला(ली) स्त्री पूतीनि फलान्यस्याः वा ङीप् ।

सोमराज्याम् अमरः । ङीवन्तः जटाध० ।
पृष्ठ ४३९६

पूतिमयूरिका स्त्री पूतिर्मयूरीव ततः स्वार्थे क । अज

मोदायाम् राजनि० ।

पूतिमाष पु० गोत्रप्रवरर्षिभेदे “संकृतिपूतिमाषतण्डिशम्बुशैव

गवानामाङ्गिरसगौरिवीतसाङ्कृत्येति” आश्वश्रौ० १२ । १२५
ततः गर्ग० अपत्ये यञ् । पौतिमाष्य तदपत्ये पुंस्त्री० ।

पूतिमृत्तिक न० ७ ब० । नरकभेदे याज्ञ० ३२२ श्लो० ।

पूतिमेद पु० पूतिर्मेदोऽस्य । अरिमेदे विट्खदिरे । राजनि०

पूतिवक्त्र पु० पूति वक्त्रमस्य । दुर्गन्धमुखयुक्ते “पूतिवक्त्रस्तु

सूवकः” याज्ञ० ३२११ श्लो० तन्निदानकर्मभेदे उक्तः ।

पूतिवात पु० पूत्यै पवित्रतायै वातोऽस्य । १ विल्ववृक्षे रत्नमा०

कर्म० । २ दुष्टगन्धयुक्तवाया पु० ।

पूतिवृक्ष पु० कर्म० । श्योनाकवृक्षे रत्नमा० ।

पूतिशारिजा स्त्री पूतिः शारीव जायते जन--ड ।

खट्टाशे (खटाश) वनजन्तुभेदे त्रिका० ।

पूतीक पु० पूतिक + पृषो० । पूतिकरञ्जे अमरः ।

पूतीकरञ्ज पु० पूतिकरञ्ज + पृषो० । करञ्जभेदे रत्नमाला ।

पूतीका स्त्री पूतिका + पृषो० । (पुँइ) ख्याते लताभेदे पूतिक-

शब्दे ताण्ड्य० ब्रा० वाक्ये दृश्यम् ।

पूत्यण्ड पु० पूति दुर्गन्धमण्डमस्य । (गँधोपोका) १ गन्धकीटे

२ मृगनाभियोमिमृगभेदे च पुंस्त्री० मेदि० । भा० शा० ३२४ अ०

पूथिका स्त्री पूतिका + पृषो० । पूतिकायां शाकभेदे सुश्रुतः ।

चुच्युशब्दे २९५६ पृ० दृश्यम् ।

पून त्रि० पू--क्त “पूञो विनाशे” पा० क्तस्य नः । विनष्टे ।

पूप पु० पू--पक् । १ पिष्टके अमरः । पूपाय हितम् अपूपा० छ

पक्षे यत् । पूपीय पूप्य तदर्थे तण्डुलादौ त्रि० ।

पूपला स्त्री पूपं तदाकारं लाति ला--क । पोलिकायां हेमच०

स्वार्थे क । पूपलिका तत्रार्थे हारा० ।

पूपाली स्त्री पूपाय अलति अल--अच् गौरा० ङीष् । पोलिकायां त्रिका० ।

पूपाष्टका स्त्री अष्ट परिमाणं यस्याः कन् अष्टका अष्टमी

उपचारात् तवकर्त्तव्यं श्राद्धम् पूपद्रव्यसाधनाष्टका
कर्म० । आग्रहायण्याः परतः कृष्टाष्टमीविहिते श्राद्धे ।
“आद्याः पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा । शाकैः
कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः” ति० त० ।

पूपिका स्त्री पूपस्तदाकारोऽस्त्यस्याः ठन् । पोलिकायां हेम०

पूय दुर्गन्धे अक० भेदने विशरणे च सक० दिवा० आत्म० सेट् ।

पूय्यते अपूयिष्ट । अपूयिढ्रं (ध्वम्) पुपूये ।

पूय न० पूय--अच् । व्रणादिनिःसृते रक्तविकारभेदे (पूँज) ।

हेमच० । भावे ल्युट् । पूयन तत्रार्थे न० शब्दच० ।

पूयमानयव अव्य० पूयमाना निस्तुषीक्रियमाणा यवा

यत्र । तिष्ठद्गुप्र० अव्ययी० । परिष्क्रियमाणयवाधारे
खलादौ ।

पूयरक्त पु० पूययुक्तं रक्तमत्र । “दोषैर्विदग्धैरथ वापि

जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु । नासा स्रवेत्
पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम्” सुश्रुतोक्ते
नासारोगभेदे पूयशोणितादयोऽप्यत्र ।

पूयवर्द्धन पु० पूयं वर्द्धयति वृध--णिच्--ल्यु । सुश्रुतोक्ते

नवधान्यादौ द्रव्यवर्गभेदे ।
“नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ल-
लवणकटुकंगुड़पिष्टविकृतिवल्लूरशुष्कशाकाजाविकानूपौद-
कमांसवशाशीतोदककृशरपायसदधिदुग्धतक्रप्रभृतीन्
परिहरेत् । तक्रान्तोनवधान्यादिर्योऽयं वर्ग उदाहृतः ।
दोषसञ्जननो ह्येष विज्ञेयः पूयवर्द्धनः” ।

पूयारि पु० ६ त० । निम्बवृक्षे राजनि० । पूयनाशकादयोऽप्यत्र ।

पूयालस पु० “पक्वः शोफः सन्धिजः संस्रवेद्यः सास्रं

पूयं पूति पूयालसः सः” सुश्रुतोक्ते सन्धिगतरोगभेदे ।

पूयोद न० पूयमे वोदकमत्र उदादेशः । नरकभेदे भाग० ५२७ ।

पूर पूर्त्तौ प्रीणने च दिवा० आत्म० सक० सेट् । पूर्य्यते अपूरि-

अपूरिष्ट । पुपूरे ईदित् । पूर्णः ।

पूर पूर्त्तौ प्रीणने चु० उभ० सक० सेट् । पूरयति अपूपुरत् त । पूरितः ।

पूर पु० पूर--क । १ जलसमूहे २ खाद्यभेदे ३ व्रणशुद्धौ च मेदि०

४ दाहागुरुणि न० राजनि० ।

पूरक त्रि० पूरयति पूरि--ण्वुल् । १ पूरणकर्त्तरि २ गुणके अङ्खे

च । ३ वीजपूरे राजनि० । ४ बहिर्वृत्तिकस्य प्राणस्य वायोः
नासयाकृष्य देहान्तःप्रवेशनरूपव्यापारभेदे । प्राणायाम-
शब्दे दृश्यम् । स्वाशौचकालमध्ये देये प्रेतस्यातिवाहिक-
देहनाशनेन प्रेतदेहपूरके ५ पिण्डे तत्कर्त्तव्यतादिशु० त० यथा
“अत्रेदं वीजं पूर्वक्रियाया आतिवाहिकदेहत्यागोत्तर
देहान्तरजननं, मध्यक्रियाया अपि प्रेतत्वपरिहारो०
त्तरं देहान्तरजननं ततश्चैकयैव तत्सिद्धौ पुनस्तत्
करणं वचनाभावेऽनर्थकम् । तथा च विष्णुधर्मोत्तरे
“तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् । उर्द्ध्वं
व्रजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात्” । त्रीणि
भूतानि तेजोवाय्वाकाशानि पृथिवीजले तु अधो
गच्छतः । तत्क्षणात् मृत्युक्षणात् । तथा “आतिवाहिक
संज्ञोऽसौ देहो भवति भार्गव! । केवलं तन्मनुष्याणां
नान्येषां प्राणिनां क्वचित्” । तथा “प्रेतपिण्डैस्तथा दत्तै-
पृष्ठ ४३९७
र्देहमाप्नोति भार्गव! । भोगदेहमिति प्रोक्तं क्रमादेव न
संशयः । प्रेतपिण्डा न दोयन्ते यस्य तस्य विमोक्षणम् ।
माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते । तत्रास्य
यातना घोराः शतवातातपोद्भवाः । ततः सपिण्डीकरणे
बान्धवैः स कृते नरः । पूर्णे संवत्सरे देहमतोऽन्यं
प्रतिपद्यते । ततः स नरके याति स्वर्गे वा स्वेन कर्मणा” ।
तथा च वायुपुराणम् “पूरकेण तु पिण्डेन देहो निष्पाद्यते
यतः । कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम्” ।
अत एवातिवाहिकदेहपरित्यागाय तत्कालीनकर्माऽ
समर्थपुत्रसत्त्वेऽप्यन्येन दाहादि क्रियते “पितृज
सपिण्डैस्तु समानसलिलैर्नरैः । संघान्तर्गतैर्वापि राजा वा
धनहारिणा । पूर्वाः क्रियास्तु कर्त्तव्याः पुत्राद्येरेव
चोत्तराः” शुद्धित० ।
तेन दाहादिपूरकपिण्डदानान्तमाद्यक्रिया तथा
आतिवाहिकदेहनिवृत्तिपूर्वकं प्रेतदेहप्राप्तिः आद्यश्राद्धादि
मपिण्डान्ता मध्यक्रिया तया प्रेतदेहवमुक्तिपूर्वकं
मोगदेहप्राप्तिः तदुत्तरवार्षिकादिश्राद्धादि उत्तरक्रिया तया
र्भागमात्रमिति भेदः । पूरकपिण्डदानकालादिश्च
शुद्धित० निर्णीतो यथा
“प्रथमेऽहनि यो दद्यात् प्रेतायान्नं समाहितः । यत्नान्न
वसु चान्येषु स एव प्रददात्यपि । मृण्मयं भाण्डमादाय
नवं स्नातः सुसंयतः । लगुड़ं सर्वदोषघ्नं गृहीत्वा
तोयमानयेत् । ततश्चोत्तरपूर्वस्यामग्निम् प्रज्ज्वालये-
द्दिशि । तण्डुलप्रसृतिं तत्र प्रक्षाल्याद्भिः पचेत् स्वयम् ।
सपवित्रैस्तिलौर्मश्रां केशकीटविवर्जिताम् । द्वारोपान्ते
ततः क्षिप्ता शुद्वां वा गौरमृत्तिकात् । तत्पृष्ठे प्रस्तरे-
दर्भान् याम्याग्रान् देशसम्भवान् । ततोऽवनेजनं
दद्यात् संस्मरन् गोत्रनामनी । तिलसर्पिर्मधुक्षीरैः सञ्चितं
तप्तमेव हि । दद्यात् प्रेताय पिण्डन्तु दक्षिणाभिमुख
स्थितः । फलमूलगुड़क्षीरतिलमिश्रन्तु कुत्रचित् ।
अर्व्यैः पुष्पेस्तथा धूपैर्दीपैस्तोयैः सुशीतलैः । ऊर्णातन्तु-
मयैः शुद्धैर्वासोभिः पिण्डमर्चयेत् । प्रयाति यावदाकाशं
पिण्डाद्बाष्पमयी शिखा । तावत्तत्सम्मुखस्तिष्ठेत् सर्वं
तीये ततः क्षिपेत् । दिवसे दिवसे देयः पिण्ड एवं
क्रमेण तु । सद्यःशौचेऽपि दातव्याः सर्वेऽपि युगप-
त्तथा । त्र्यहाशोचे प्रदातव्याः प्रथमे त्वेक एव हि ।
द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि” । दैवात्
अग्निदात्रा पूरकपिण्डस्यादाने आद्यश्राद्धाधिछारिणा
अन्तिमदिने आद्यश्राद्धदिने वा तत् करणीयमिति
व्यवस्था शुद्धित० स्थिता ।

पूरण न० पूर--भावे ल्यट् । अङ्कशास्त्रप्रसिद्धे १ गुणने

२ वृष्टौ ३ कुटन्नटे शब्दमा० । करणे ल्युट् । ४ वापतन्तुषु
हेम० । ५ सेतौ ६ समुद्रे च पु० ७ सङ्ख्यापूरणे मेदिनिः ।
यथा द्वयोः परणः द्वितीयः । कर्त्तरि ल्य । ८ पूरयि-
तरि त्रि० ९ विष्णुतैले धरणिः । करणे ल्युट् ङीप् यया
संख्या पूर्य्यते १० तस्यां संख्यायां स्त्री त्रयाणां पूरणी
तृतीयेत्यादि । कर्मणि ल्युट् । १२ शाल्मलिवृक्षे पु० अमरः

पूरयितृ त्रि० पूर--तृच् । १ पूरणकर्त्तरि त्रि० स्त्रियां ङीप् ।

२ विष्णौ पु० । “पूर्णः पूरयिता पुण्यः” विष्णुस० ।

पूराम्ल पु० पूरमम्लं यत्र । वृक्षाम्ले राजनि० ।

पूरिका स्त्री पिष्टकभेदे कृतान्नशब्दे २१८२ पृ० दृश्यम् ।

पूरित त्रि० पूर--क्त । १ पूर्णे २ गुणिते च अमरः ।

पूरु पु० व० ब० । पॄ--बा० कु । १ मनुष्ये निघण्टुः ऋ० ६३०१

वैराजस्य मनोः नड्बलायां जाते २ पुत्रभेदे हरिवं० २ अ० ।
३ जह्नुपुत्रभेदे भाग० ९।१५।३ । ४ राक्षसभेदे यजु० १२ । ३४
वेददी० । ५ ययातिपुत्रभेदे भा० आ० ७५ अ० । तस्यापत्यं
अण् । पौरव तदपत्ये पुंस्त्री० स्त्रियां ङीप् ।

पूरुष पु० पूर--उषन् । १ पुरुषे २ नरे च अमरः तस्य शुभा-

शुभलक्षणं पुरुषशब्दे उक्तं किञ्चिदधिकमत्रोच्यते
“कटिर्विवशाला बहुपुत्रभागी विशालहस्तो नरपुङ्कवः
स्यात् । उरो विशालं धनधान्यभागी शिरोविशालं
नरपूजितः स्यःत् । न श्रीस्त्यजति रक्ताक्षं नार्थ
कनकपिङ्गलम् । दीर्थबाहुं न चैश्वर्य्यं न मांसोपचितां
सकम् । कदाचिद्दन्तुरो मूर्खः कदाचल्लोमशः मुखी ।
कदाचित् तुन्दिलो दुःखी कदाचिच्चञ्चला सती । नेत्र-
स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् । हस्तस्नेहेन
चैश्वर्य्यं पादस्नेहेन वाहनम् । अकर्मकठिनौ हस्तौ
पादावध्वनि कोमलौ । यस्य पाणितले रक्ते तस्य
राज्यं विनिर्दिशेत् । दीर्घलिङ्गन दारिद्र्यं स्थूल-
लिङ्गेन निर्धनः । कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन
भूपतिः । रेखाभिर्बहुभिर्दुःखं स्वल्पामिर्धनहीनता ।
रक्ताभिः श्रियमाप्नोति कृष्णाभिर्लोकपूजितः । अङ्गुष्ठो-
दरमध्ये तु यवो यस्य विराजितः । उन्नतं भोजनं
तस्य शतं जीवति मानयः । अङ्कुशं कुलिशं छत्रं यस्य
पाणितले भवेत् । ऐश्वर्य्यञ्च विनिर्दिष्टमशीत्यायुर्भवेद्र-
ध्रुवम् । धनुर्यस्य भयेत् पाणौ पङ्कजं वाथ तोरणम् ।
पृष्ठ ४३९८
तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद् ध्रुवम् । कनिष्ठा
तर्जनीं यावत् रेखा भवति चाक्षता । विंशत्यव्दाधिक-
शतं नरा जीवन्त्यनामयाः । कनिष्ठामध्यमां यावत्
रेखा भवति चाक्षता । शताब्दं वाथ वाशीतिर्नरो
जीवेन्न संशयः । कनिष्ठानामिकायाञ्चेत् रेखा भवति
चाक्षता । विंशत्यब्दाधिकं शतं नरा जीवन्त्यनामय्नाः ।
कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता । षष्ठिपञ्चा-
शदव्दं वा नरा जीवन्त्यसंशयम् । रेखया भिद्यते रेखा
स्वल्पायुश्च भवेन्नरः । कनिष्ठायां स्थिता रेखा संख्या
यावतिका स्मृता । तावती पुरुषाणान्तु नारी भवति
निश्चित्म् । करमध्यगता रेखा ध्रुवा ऊर्द्ध्वं भवेद् यदि ।
नृपो वा नृपतुल्यो वा चिरं ख्यातोऽर्थवान् भवेत् ।
मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः । पितामहस्य
वा” किञ्चित् धनञ्च लभते ध्रुवम् । मध्यमायां यदि यवा
दृश्यन्तेऽत्यन्तशोभनाः । तदान्यसञ्चितं वित्तं प्राप्नो-
त्यङ्गुष्ठके यवे । यस्याऽथ चक्रमङ्गुष्ठे यवादूर्द्ध्वञ्च
दृश्यते । तदा वै पामरादीनामर्ज्जितं धनमाप्नुयात् ।
गर्जन्यामथ चक्रञ्च मित्रद्वारा धनं मवेत् । तेनैव
विपरीतन्तु व्ययो भवति निश्चितम् । अनामायां भवेत् चक्रं
सर्वद्वारा भवेद्धनम् । तेवैव विपरीतन्तु व्ययो भवति
निश्चितम् । कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् । ललाटे
दृश्यते यस्य चक्ररेखाचतुष्टयम् । अशीत्यायुः
समाप्नोति पञ्च रेखाः शतं समाः । यस्योन्नतं ललाटञ्च
ताम्रवर्णञ्च दृश्यते । रेखाहीनश्च कक्षश्च स चोन्मत्तो
महीं भ्रमेत् । यस्य जिह्वा भवेद्दीर्घा नासाग्रं लेढ़ि
सर्वदा । भोगी भवति निर्विण्ण पृथ्वीं भ्रमति सर्वदा ।
दन्ताश्च विरला यस्य नीचवन्नीचकर्मकृत् । प्रगल्भो
दन्तुरः सत्यं वेदान्तपारगो भवेत्” । प्राकारान्तरम् ।
“दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते । परस्त्री
रमणो नित्यं परवित्तेन वित्तवान् । दीर्घलिङ्गे च
सौमाग्यं सूक्ष्मलिङ्गे नृपो भवेत् । वक्रस्य कठिनै-
र्लिङ्गैः प्रमाणान्निर्गतः सदा । रमते च सदा दास्यां
निर्धनो भवति ध्रुवम् । कृशलिङ्गेन सूक्ष्मेणारक्तवर्णेन
मूपतिः । बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत् ।
कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् । राज्यं
सुखञ्च दिव्याङ्ग्याः कन्ययायाः पतिर्भवेत् । यस्य
पादतले पश्नं चक्रं वाप्यथ तोरणम् । अङ्कुशं कुलिशं
वापि स राजा भवति ध्रुवम् । कृशनिर्लोमशा ये स्युः
केकराक्षाः कुचेलकाः । कातरा व्यालजिह्वाश्च ते
दरिद्रा न संशयः । कपिला मलिनाङ्गाश्च ह्रस्वाश्चैव
वृहन्नस्वाः । कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः ।
चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये । ते धूर्त्ता
नैव सन्देहः समुद्रवचनं यथा । सूचीमुखाः भग्नपृष्ठाः
कृष्णदन्ताः कुचेलकाः । वक्रनासा वज्रनासास्ते नरा
दुष्टमानसाः । दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः ।
परोपकारिणैश्चैव तेऽपूर्वा मानवाः स्मृताः” ।

पूर्ण त्रि० पूर--क्त नि० । १ पूरिते २ सकले ३ समग्रे च ज्योति-

षोक्ताषु उभयपक्षयो ४ पञ्चमीदशमीषञ्चदशीतिथिसु व
स्त्री मेदि० । ५ आप्तकामे पु० स्वेच्छावद्भिन्ने (अपक्षाशून्ये)
गदाधरः । वृ० सं० ८८ अ० उक्त पक्षिभेदाना ६ स्वरभेदे पु०
तत्र दृश्यम् ७ नागभेदे पु० भा० आ० ५७ अ० । ८ प्राधेये
देवगन्धर्वभेदे पु० ६५ अ० । ९ उदके न० निघण्टुः ।

पूर्णक पुंस्त्री० पूर्ण + संज्ञायां कन् । स्वर्णच्ड़खगे मेदि० ।

स्त्रियां जातित्वात् ङीष् । स्वार्थे क । पूर्णशब्दार्थे
स्त्रियां टाप् अत इत्त्वम् ।

पूर्णककुद् पु० पूर्णं ककुदमस्य अवस्थायाम् अन्त्यलोपः

समा० । तारुण्यावस्थे वृषे । अनवस्थायां तु नान्त्यलोपः ।

पूर्णकाकद त्रि० पूर्णं काकुदं तालु अस्य न अन्त्यलोपः

समा० । पूर्णतालुकभात्रे ।

पूर्णकाम पु० पूर्णः कामोऽस्य । आप्तेच्छौ परमेश्वरे मार्क० ३३ अ०

पूर्णकू(कु)ट पुंस्त्री पक्षिभेदे “मषकूटपूरिकरवकचरायिकाः

पूर्णकूटसंज्ञाः स्युः” वृ० सं० ८८ अ० । तत्रैव २५ श्लोके
ह्रस्वमध्यतया पठितः तत्रार्थे ।

पूर्णकुम्भः पु० जलादिभिः पूर्णः कुम्भः । १ जलादिभिः

पूरिते घटे अमरः । २ दानवभेदे पु० हरिवं० २४२ अ० ।

पूर्णकोशा ओमधिभेदे वृ० स० ४८४० ।

पूर्णकोष्ठा स्त्री पूर्णं कोष्ठं यस्याः । सागरमुस्ताथाम् राजनि०

पूर्णपर्वेन्दु स्त्री पूर्णः पर्वणि इन्दुः पर्वेन्दुः यत्र । पौर्णमास्यां “द्वे

द्वे चित्रादिताराणां पूर्णपर्वेन्दुसङ्गते” सङ्कर्षणकाण्डम् ।
“पूर्णपर्देन्दुसङ्गते पौर्णमासीयुते” मल० त० रघुनन्दनः ।

पूर्णपात्र न० नित्यक० । वद्धापके वस्तुपूर्णे १ पात्रे मेदि० ।

“हर्षादुत्सवकाले यदलङ्कारांशुकादिकम् । आकृव्य गृह्यते
पूर्णपात्रं पूर्णकञ्च तत्” जटाधसोक्ते २ पुत्रजन्मोत्सवादिषु
दासै खामिनोऽङ्गात् वख्यादेर्ग्रहणे । होमान्ये ब्रह्मणे
देये दक्षिणारूपे ३ द्रव्यभेदे “होमान्ते पूर्णपात्रं दक्षिणां
पृष्ठ ४३९९
ब्रह्मणे दद्यात्” गोभिलः । तन्मानह्व गृह्यसंग्रहे
“अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम् । पुष्क-
लानि च चत्वारि पूर्णपात्रं विधीयते” । तेन २५६
मुष्टिभिः पूर्णपात्रम् । तत्रत्यद्रव्यञ्चोक्तं “पूर्णपात्रो
दक्षिणा” कात्या० श्रौ० ६ । १० । ३७ । कर्केण । “पाकयज्ञेषु
तण्डुलमुद्गगोधूमादियज्ञियधान्यपूर्णः पूर्णपात्रो दक्षिणा
धान्यस्य मानपात्रम्” कर्कः । तेनास्य पुंस्त्यमपि ।
छन्दोगपरिशिष्टे (कर्मप्रदीपे) २ । ५ । २ कात्यायनस्तु
प्रकारान्तरमाह “यावता बहुभोक्तुस्तु तृप्तिः पूर्णेन
विद्यते । नावरार्ध्यमतः कुर्य्यात् पूर्णपात्रमिति स्थिति-
रिति” । ४ जलपूर्णपात्रे च कात्या० श्रौ० ३ । ८ । ८ ।

पूर्णप्रज्ञ त्रि० पूर्णा प्रज्ञाऽस्य । सम्पूर्णबुद्धौ वायोस्तृतीया-

वतारे मध्यापरनामके आनन्दतीर्थे २ वैष्णवमतभेदप्रस्था-
पकाचार्यभेदे । तन्मतञ्च सर्च० सं० न्यरूपि यथा
“तदेतद्रामानुजमतं जीवाणुत्वदासत्ववेदापौरुषेयत्वसि-
द्धार्थबोधकत्वस्वतःप्रमाणत्वप्रमाणत्रित्वपाञ्चरात्रोपजीव्य-
त्वप्रपञ्चभेदसत्यत्वादिसाम्येऽपि परस्परविरुद्धभेदादिपक्ष-
त्रथकक्षीकारेणा क्षपणकपक्षनिक्षिप्तमित्युपेक्षमाणः
स आत्मा तत्त्वमसीत्यादेर्वेदान्तवाक्यजातस्य भङ्ग्यन्तरे-
णार्थान्तरपरत्वमुपपाद्य ब्रह्ममीमांसाविवरणव्याजेना०
नन्दतीर्थः पस्थानान्तरमास्थित । तन्मते हि द्विविधं
तत्त्वं स्वतन्त्रास्वतन्त्रभेदात् । तदुक्तं तत्त्वविवेके “स्व-
तन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान्
विष्णुर्निर्दोषोऽशेषसद्गुणः” इति । तनु सजातीयविजा-
तीयस्वगतनामात्वशून्यं ब्रह्म तत्त्वमिति प्रतिपादकेषु
वेदान्तेषु जागरूकेषु कयमशेषसद्गुणत्वं तस्य कथ्यत
इति चेन्मैवं भेदप्रमापकनहुप्रमाणविरोधेन तेषां तत्र
प्रामाण्यानुपपत्तेः तथा हि प्रत्यक्षं तावदिदमस्माद्भिन्न-
मिति नीलपीतादेर्भेदमध्यति । अथा मन्येथाः किं
प्रत्यक्षं भेदमेवावगाहते किं सा धर्मिप्रतियोगिघटितम् ।
न प्रथमः धर्मिप्रतियोगिप्रतिपत्तिमन्तरेण तत्सापेक्षस्य
भेदस्याशक्याध्यवसायत्वात् । द्वितीयोऽपि धर्मिप्रतियोगि-
महणपुरासरं भेदग्रहणमथ वा युगपत् तत्सर्वग्रहणम् ।
न पूर्वः बुद्धेर्विरम्य व्यापाराभावात् अन्योन्याश्रय-
प्रसङ्गाच्च । नापि चरमः कार्य्याकारणबुद्ध्या यौगपद्या-
भावात् धर्मिप्रतीतिहि भेदप्रत्ययस्य कारणं सन्नि-
हितेऽपि धर्मिणि व्यवहितप्रतियोगिज्ञानमन्तरेण मेदस्या-
ज्ञातत्वेनान्धयव्यतिरेकाभ्यां कार्य्यकारणमावावगगात् ।
तस्मान्न भेदप्रत्यक्षं सुप्रसरमिति चेत् किं वस्तुस्वरूप-
भेदवादिनं प्रति इमानि दूषणान्युद्घुष्यन्ते किं वा धर्मि-
भेदवादिनं प्रति । प्रथमे चोरापराधान्माण्डव्यनि-
ग्रहन्यायापातः भवदभिधीयमानदूषणानां तदविषय-
त्वात् । ननु वस्तुस्वरूपस्यैव भेदत्वे प्रतियोगिसापेक्षत्वं न
घटते घटादितत्तत्प्रतियोगिसापेक्ष एव सर्वत्र भेदः प्रयत
इति चेन्न प्रथमं सर्वतो विलक्षणतया वस्तुस्वरूपे ज्ञाय-
माने प्रतियोग्यपेक्षया विशिष्टव्यवहारोपपत्तेः तथा
हि परिमाणघटितं वस्तुस्वरूपं प्रथममवगम्यते पश्चात्
प्रतियोगिविशेषापेक्षथा ह्रस्वं दीर्घमिति तदेव विशिष्य
व्यवहारभाजनं भवति । तदुक्तं विष्णुतत्त्वनिर्णये “न
च विशेषणविशेष्यतया भेदसिद्धिः विशेषणविशेष्यभावश्च
भेदापेक्षः, धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः भेदापेक्षञ्च
धर्मिप्रतियोगित्वमित्यन्योन्याश्रथतया भेदस्यासिद्धेः पदार्थ-
स्वरूपत्वाद्भेदस्येत्यादिना” । अत एव गवार्थिनो गवयदर्श-
नान्न प्रवर्त्तन्ते गोशब्दञ्च न स्मरन्ति । न च नीरक्षीरादौ
स्वरूपे गृह्यमाणे भेदप्रतिभासोऽपि स्यादितिं भणनीयं
समानाभिहारादिप्रतिबन्धकबलाद्भेदभानभ्यवहाराभावोप-
पत्तेः तदुक्तम् “अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनव-
स्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात् समानाभि-
हाराच्चेति” अतिदूराद् गिरिशिखरवर्त्तितर्वादौ,
अतिसामीप्याल्लोचनाञ्जनादौ, इन्द्रियघाताद्विद्युदादौ,
मनोऽनवस्थानात् कामाद्यपप्लुतमनस्कस्य स्फीतालोक-
वर्त्तिनि घष्टादौ, सौक्ष्म्यात् परमाण्वादौ, व्यवधानात्
कुड्याद्यन्तर्हिते, अभिभवात् दिवाप्रदीपप्रभादौ, समाना-
भिहारात् नीरक्षीरादौ यथावद्ग्रहणं नास्तीत्यर्थः ।
भवतु वा धर्मभेदवादस्तथापि न कश्चिद्दोषः धर्मिप्रतियो-
गिग्रहणे सति धर्मभेदभानसम्भवात् । न च धर्मभेदवादे
तस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था दुरवस्था
स्यादित्यास्थेयं भेदान्तरप्रसक्तौ मूलाभावात् भेदभेदिनौ
भिन्नाविति व्यवहारदर्शनात् । न चैकभेदबलेनान्यभेदा-
नुमानं दृष्टान्तभेदाविघातेनोत्थानदोषाभावात् । सोऽयं
पिण्याकयाचनाय गतस्य स्वारिकातैलदातृत्वाभ्युपगम
इव दृष्टान्तभेदविमर्दे त्वनुत्थानमेव । न हि वरविघाताय
कन्योद्वाहः । तस्मान्मूलक्षयाभावादनवस्था न दोषाय । अ०
नुमानेनापि भेदोऽवसीयते । परमेश्वरो जीवाद्भिन्नः तं प्रति
सव्यत्वात् यो यं प्रति सेव्यः स तस्माद्भिन्नः यथा भृत्या-
द्राजा । न हि सुखं मे स्यात् दुःखं मे न मनागपि इति
पृष्ठ ४४००
पुरुषार्थमर्थयमानाः पुरुषाः स्वपतिपदं कामयमानाः
सत्कारभाजो भवेयुः । प्रत्युत सवानर्थभाजनं भवन्ति ।
यः स्वस्यात्मनो हीनत्वं परस्य गुणोत्कर्षञ्च कथयति
स स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति । तदाह
“घातयन्ति हि राजानो राजाहमिति वादिनम् ।
ददत्यखिलमिष्टञ्च स्वगणोत्कर्षवादिनामिति” । एवञ्च परमेश्व-
राभेदवृष्णया विष्णोर्गुणोत्कर्षस्य मृगवष्णिकासमत्वा-
भिधानं विपुलकदलफललिप्सया जिह्वाच्छेदमनु-
हरति एतादृशविष्णुविद्वेषणादन्धतमसप्रवेशप्रसङ्गात् ।
तदेतत् प्रतिपादितं मध्यमन्दिरेण महाभारततात्पर्य्य-
निर्णये “अनादिद्वेषिभिर्दैत्यैर्विष्णोर्द्वेषो विवर्द्धितः ।
तमस्यन्धे पातयति दैत्यानन्धे विनिश्चयादिति” । सा च
सेवा अङ्कननामकरणभजनभेदात्त्रिविधा । तत्राङ्कन
नारायणायुधादीनां, तद्रूपस्मरणार्थमपेक्षितार्थसिद्ध्यर्थञ्च ।
तथा च शाकल्यसंहितापरिशिष्टम् “चक्रं विभर्त्ति पुरु-
षोऽभितप्तं बलं दवानाममृतस्य विष्णोः । स याति
नाकं दुरितं विधूय विशन्ति यद्यतयो वीतरागाः ।
देवासो येन विधृतेन बाहुना सुदर्शनेन प्रयातास्तमायन् ।
येनाङ्किता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणास्तद्व-
हन्ति । तद्विष्णोः परमं पदं येन गच्छन्ति लाञ्छिताः ।
उरुक्रमस्य चिह्नैरङ्किता लोके सुभगा भवाम” इति
“अतप्ततनुर्न तदानो अश्नुते श्रितास इद्वहन्तस्तत् समास-
तेति” तैत्तिरीयकोपनिषच्च । स्थानविशेषश्चाग्नेयपुराणे
दर्शितः “दक्षिणे तु करे विप्रो बिभृयाद्वै सुदर्शनम् ।
मव्येन शङ्खं विभृयादिति ब्रह्मविदो विदुरिति” । अन्यत्र
चक्रधारणे मन्त्रविशेपश्च दर्शितः “सुदर्शन! महाज्वाल!
कोटिसूर्य्यसमप्रभ! । अज्ञानान्धस्य मे नित्यं विष्णोर्मार्ग
प्रदर्शय । त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
नमितः सर्वदेवैश्च पञ्चजन्य! नमोऽस्तु ते इति” नामकरणं
पुत्रादीनां केशवादिनाम्ना व्यवहारः सर्वदा तन्नामानु-
स्मरणार्थम् । भजनं दशविधं वाचा सत्यं हितं
प्रियं स्वाध्यायः, कायेन दानं परित्राणं परिरक्षणं,
मनसा दया स्पृहा श्रद्धा चेति । अत्रैकैकं निष्पाद्य
नारायणे समर्पणं मजनम् । तदुक्तम् “अङ्कनं
नामकरणं भजनं दशधा च तदिति” । एवं ज्ञेयत्वादिनापि
भेदोऽनुमातव्यः तथा श्रुत्यापि भेदोऽवगन्तव्यः सत्य-
मेतमनुविश्वे मदन्ति रातिं देवस्य गृणतोमघोमः सत्यासो
अस्य महिमा गृणे शवोयज्ञेष विप्रराज्ये सत्य आत्मा
सत्यो जीवः सत्यं भिदा सत्यं भिदा मयि वारुण्यो
मयि वारुण्यः” इति मोक्षानन्दभेदप्रतिपादकश्रुतिभ्यः ।
“इदं ज्ञानमुपाश्रित्य मम सामर्थ्यमागताः । सर्गेपि
नीपजायन्ते प्रलये न व्यथन्ति च” “जगद्व्यापारवर्जम्”
“प्रभुकरणासन्नितत्वाच्चेत्यादिभ्यश्च । न च “ब्रह्म वेद
ब्रह्मैव भवतीति” श्रुतिबलाज्जीवस्य पारमैश्वर्य्यं शक्य-
शङ्कं “सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो
भवेदितिवत् वृंहितो भवतीत्यर्थपरत्वात् । “ननु प्रपञ्चो
यदि वर्त्तेत निवर्त्तेत न संशयः । मायामात्रमिर्द
द्वैतमद्वैतं परमार्थतः” इति वचनात् द्वैतस्य कल्पितत्व-
मवगम्यत इति चेत् सत्यं भावमनभिसन्धायाभिधानात्
तथा हि यद्ययमुत्पद्येत तर्हि निवर्त्तेत न संशयः ।
तस्मादनादिरेवायं प्रकृष्टः पञ्चविधो भेदप्रपञ्चः । न
चायमविद्यमानः मायामात्रत्वान्मायेति भगवदिच्छोच्यते ।
“महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृति-
र्वासनेत्येव तवेच्छानन्त! कथ्यते । प्रकृष्टकृत्या प्रकृति-
र्वासना वासयेद्यतः । अ इत्यक्ते हरिस्तस्य माया-
ऽविद्येति संज्ञिता । मायेत्युक्ता प्रकृष्टत्वात् प्रकृष्टे हि
मयाभिधा । विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्य्यते ।
प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा” इत्यादि-
वचननिचयप्रामाण्यबलात् । सैव प्रज्ञा मानत्राणकर्त्री च
यस्य तन्मायामात्रं ततश्च परमेश्वरेण ज्ञातत्वाद्रक्षितत्वाच्च
न द्वैतं भ्रान्तिकल्पितं न हीश्वरे सर्वस्य भ्रान्तिः सम्भ-
वति विशेषादर्शननिवन्धनत्वाद्भ्रान्तेः । तर्हि तद्व्यप-
देशः कथमित्यत्रोत्तरम् अद्वैतं परमार्थत इति परमार्थत
इति परमार्थापेक्षया तेन सर्वस्मादुत्तमस्य विष्णुतत्त्वस्य
समाभ्यधिकशून्यत्वमुक्तं भवति । तथा च परमा श्रुतिः
“जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो
मिथश्चैव जडजीवभिदा तथा । मिथश्च जडभेदो यः प्रपञ्चो
भेदपञ्चकः । सोऽयं सत्योऽप्यनादिश्च सादिश्चेन्नाशमाप्नु-
यात् । न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः ।
कल्पितश्चेन्निवर्त्तेत न चासौ विनिवर्त्तते । द्वैतं न
विद्यत इति तस्मादज्ञानिनां मतम् । मतं हि ज्ञानिनामत
न्मितं त्रातं हि विष्णुना । तस्मान्मात्रमिति प्रोक्तं परमो
हरिरेव तु” इत्यादि । तखाद्विष्णोः सर्वोत्कर्ष एव तात्पर्य्यं
सर्वागमानाम् । एतदेवाभिसन्धायाभिहितं भगवता ।
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः
सर्वाणि भूतानि कूटस्थाऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः
पृष्ठ ४४०१
परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विभर्त्तव्यय
ईश्वरः । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । यो
मामेवमसंमूढो जानाति पुरुषोत्तमम् । सर्वविद्भजति
मां सर्वभावेन भारत! । इति गुह्यतमं शास्त्रमिद-
मुक्तं मयानघ! । एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च
भारत!” । महावाराहेऽपि “मुख्यञ्च सर्ववेदानां
तात्पर्य्यं श्रीपतौ परे । उत्कर्षे तु तदन्यत्र तात्पर्य्यं
स्यादवान्तरम्” इति । युक्तञ्च विष्णोः सर्वोत्कर्षे
महातात्पर्य्यम् । “मोक्षो हि सर्वपुरुषार्थोत्तमः धर्मार्थकामा-
स्त्वनित्याः मोक्ष एव नित्यः तस्मान्नित्यं तदर्थाय यतेत
मतिमान्नर” इति भाल्लवेयश्रुतेः । मोक्षश्च विष्णुप्रसाद-
मन्तरेण न लभ्यते । “यस्य प्रसादात् परमा यत्स्वरू-
प्रात् तस्मात् ससाराम्मुच्यते नावरे सुरानाराधयन्तोऽसौ
परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मादिति” नारा-
यणश्रुतिः । “तखिन् प्रसन्ने किमिहास्त्यलभ्यं सर्वार्थ-
कामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तात्
निःसंशयं मुक्तिफलं प्रयातः” इति विष्णुपुराणोक्तेश्च ।
“प्रसादश्च गुणोत्कर्षज्ञानादेव नाभेदज्ञानादित्युक्तम् ।
न च तत्त्वमस्यादितादात्म्यव्याकोपः श्रुतितात्पर्य्यापरि-
ज्ञानविजृम्भणात् । “आह नित्यपरक्षोक्षन्तु तच्छब्दी
ह्यविशेषतः । त्वंशब्दश्चापरोक्षार्थं तयोरैक्य कथं
भवेत् । आदित्योयूप इतिवत् सादृश्यार्था तु सा श्रुति-
रिति” । तथाच परमा श्रुतिः । जीवस्य परमैक्यञ्च
बुद्धिसारूप्यमेव वा । एकस्थाननिवासे वा व्यक्तिस्थान-
मपेक्ष्य वा । न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः ।
स्वातन्त्वपूर्णतेऽल्पत्वपारतन्त्र्ये विरूपता” इति । अथ वा
तत्त्वमसोत्यत्र स एवात्मा स्वातन्त्र्यादिगुणोपेत्वतात्
अतत्त्वमसि त्वं तन्न भवसि तद्रहितत्वादित्येकत्वमतिशयेन
निराकृतम् । तदाह “अतत्त्वमिति वा च्छेदस्तेनैक्यं
सुनिराकृतम्” इति । तस्मात् दृष्टान्तनवकेऽपि “स यथा
शकुनिः सूत्रेण बद्ध” इत्यादिना भेद एव दृष्टान्ताभिधा
नाय अयमभेदोपदेश इति तत्ववादरहस्यम् । तथाच
महोपनिषत् “यथा पक्षो च सूत्रञ्च नानावृक्षरसा यथा ।
यथा नद्यः समुद्राश्च शुद्धोदलवणे यथा । चारापहार्यौ
च यथा यथा पुंविषयावपि । तथा जीवेश्वरा भिन्नौ
सर्वदैव विलक्षणौ । तथापि सूक्ष्मरूपत्वान्न जीवात्
परसो हरिः । भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि
सन् । वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्ययेति ।
ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः । लक्ष्मी-
रक्षरदेहत्वादक्षरातः परो हरिः । स्वातन्त्र्यशक्ति-
विज्ञानसुखाद्यैरखिलैर्गुणैः । निसीमत्वेन ते सर्वे
तद्वशाः सर्वदेवता” इति । विष्णुं सर्वगुणैः पूर्णं ज्ञात्वा
संसारवर्जितः । निर्दुःखानन्दभुग्नित्यं तत्समीपे स
मोदते । मुक्तानाञ्चाश्रयो विष्णुरधिकाधिपतिस्तथा ।
तद्वशा एव ते सर्वे सर्वदैव स ईश्वर” इति च ।
एकविज्ञानेन सर्वविज्ञानञ्च प्रधानत्वकारणत्वादिना युज्यते
न तु सर्वमिथ्यात्वेन । न हि सत्यज्ञानेन मिथ्याज्ञानं
सम्भवति यथा प्रधानपुरुषाणां ज्ञानाज्ञानाभ्यां ग्रामो
ज्ञातः अज्ञात इत्येवमादिव्यपदेशो दृष्ट एव । यथा च
कारणे पितरि ज्ञाते जानात्यस्य पुत्रमिति । अन्यथा
“यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं
विज्ञातम्” इत्यत्र एकपिण्डशब्दौ वृथा प्रसज्येयातां मृदा
विज्ञातयेत्येतावतैव वाक्यस्य पूर्णत्वात् । न च वाचारम्भणं
विकारो नामधेयं मृत्तिकेत्येव सत्यसित्येतत् कार्यस्य
मिथ्यात्वमाचष्टे इत्येष्टव्यं वाचारम्भणं विकारो यस्य तत्
अविकृतं नित्यं नामधेयं मृत्तिकेत्यादिकमित्येतद्वचनं
सत्यमिति तथ्यस्य स्वीकारात् । अपरथा नामधेयमेवेति
शब्दयोर्वैयर्थ्यं प्रसज्येत । अतो न कुत्रापि जगतो
मिथ्यात्वसिद्धिः । किञ्च प्रपञ्चो मिथ्येत्यत्र मिथ्यात्वं
तथ्यमतथ्यं वा । प्रथमे सत्याद्वैतभङ्गप्रसङ्गः चरमे
प्रपञ्चसत्यत्वापातः । नन्वनित्यत्वं नित्यमनित्यं वा
उभयथाप्यनुपपत्तिरित्याक्षेपवदयमपि नित्यसमजातिभेदः
स्यात् । तदुक्तं न्यायनिर्वाणवेधसा “नित्यमनित्यभावा-
दनित्यनित्यत्वोपपत्तेर्नित्यसमः” इति । तार्किकरक्षायाञ्च
“धर्मस्य तदतदूपविकल्पानुपपत्तितः । धर्मिणस्तद्विशिष्टत्व-
भङ्गो नित्यसमो भवेत्” इति । अस्याः संज्ञायाः
उपलक्षणत्वमभिप्रेत्याभिहितं प्रबोधतिद्धौ “अन्वर्थित्वात्तूप-
रञ्जकधर्मसमेति” । तस्मादसदुत्तरमेतदिति चेत्
अशिक्षितत्रासनमेतत् दुष्टत्वमूलानिरूपणात् । तद्द्विविधं
साधारणमसाधारणञ्च तत्राद्य स्वव्याघातकं द्वितीयं
त्रिविधं युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्व-
ञ्चेति । तत्र साधारणमसम्मावितमेव उक्तस्याक्षेपस्य
स्वात्मव्यापनानुपलम्भात् । एवमसाधारणमपि घटस्य
नास्तितायां नास्तितोक्तावस्तित्ववत् प्रकृतेऽप्युपपत्तेः ।
ननु प्रपञ्चस्य मिथ्यात्वमभ्युपेयते नासत्त्वमिति वेत
पृष्ठ ४४०२
गदेतत् सोऽयं शिरश्छेदेऽपि शतं न ददाति विंशति-
शञ्चकन्तु प्रयच्छतीति शाकटिकदृत्तान्तमनुहरेत् मिथ्या-
त्वासत्त्वयोः पर्थ्यायत्वादित्यलमतिप्रपञ्चेन । तत्र “अथातो
ब्रह्म जिज्ञासेति” प्रथमसूत्रस्यायमर्थः तत्राथशब्दो मङ्ग-
लार्णोऽधिकारानन्तर्य्यार्थश्च स्वीक्रियते । अतःशब्दी
हेत्वर्थः तदुक्तं गारुडे “अथातःशब्दपूर्वाणि सूत्राणि
निखिलान्यपि । प्रारभेत नियत्यैव तत्किमत्रं निया-
मकम् । कश्चार्थस्तु तयोर्विद्वान् कथमुत्तमता तयोः ।
एतदाख्याहि मे व्रह्मन् । यथा ज्ञास्यामि तत्त्वतः ।
एवमुक्तो नारदेन व्रह्मा प्रोवाच सत्तमः । आनन्तर्य्याधि-
कारे च लङ्गलार्थे तथेव च । अथशब्दस्ततःशब्दो
हेत्वर्थे समुदीरितः” इति । यतो नारायणप्रसादमन्तरेण
न मोक्षो लभ्यते प्रसादश्च ज्ञानमन्तरेण अतो ब्रह्म
जिज्ञासा कर्त्तव्येति सिद्धम् । जिज्ञास्यब्रह्मणो लक्षण-
मुक्तं “जन्माद्यस्य यतः” इति । सृष्टिस्थित्यादि यतो
भवति तद्व्रह्मेति वाक्यार्थः । तथाच स्कान्दं वचः
“उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः । बन्धमोक्षौ
च पुरुषाद् यस्मात् स हरिरेकराड्” इति । “यतो वा
इमानीत्यादि” श्रुतिभ्यश्च । तत्र प्रमाणमप्युक्तं यथा
“शास्त्रयोनित्वादिति” । “नावेदविन्मनुते तं वृहन्तम्” “तन्त्वोप-
निषदम्” इत्यादिश्रुतिभ्यः तस्यानुमानिकत्वं निराक्रियते
न चानुमानस्व स्वातन्त्र्येण प्रामाण्यमस्ति । तदुक्तं
कौर्मे “श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् । निश्च-
यात् साधयेदर्थं प्रमाणान्तरमेव च । श्रुगिस्मृतिसहायं
यत् प्रमाणान्तरमुत्तमम् । प्रमाणपदवीं गच्छेन्नात्र
कार्य्या विचारणा” इति शास्रस्वरूपमुक्तं स्कान्दे “ऋग्-
यजुः सामाथर्वा च भारतं पाञ्चरात्रकम् । मूलरामा
यणञ्चैव शास्त्रमित्यमिधीयते । यच्चानुकूलमेतस्य तच्च
शास्त्रं प्रकीर्त्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव
शास्त्रं कुवर्त्मतः” इति । तदनेनानन्यलभ्यः शास्त्रार्थ
इति न्यायेन भेदस्य प्राप्तत्वेन तत्र न तात्पर्यं किन्त्वद्वैत
एव वेदवाक्यानां तात्पर्यमिति अद्वैतप्रत्याशा प्रतिक्षिप्ता
अनुमानादीश्वरस्य सिद्ध्यभावेन तद्भेदस्यापि ततः सिद्ध्य
भावात् । तस्मान्न भेदानुवादकत्वमिति तत्परत्वमवगभ्यते
अत एवोक्तम् “सदागमैकविज्ञेयं समतीतक्षराक्षरम् ।
नारायण सदा वन्दे निर्दोषाशेषसद्गुणम्” इति ।
शास्त्रस्य तत्र प्रामाण्यमुपपादितं “ततु समन्वयादिति”
उपन्तय उपक्रनादितिङ्गम् उक्तं घृहत्संहितायाम “उप-
क्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती-
च लिङ्गं तात्पर्यनिर्णये” इति । एवं वेदान्ततात्पर्य-
वशात्तदेव ब्रह्म शास्त्रगम्यमित्युक्तं भवति । दिड्मार्त्र-
मत्र प्रादर्शि शिष्टमानन्दतीर्थभाष्यव्याख्यानादौ द्रष्टव्यं
ग्रन्थवहुत्वभियोपरम्यत इति । एतच्च रहस्यं पूर्णप्रज्ञेन
मध्यमन्दिरेण वायोस्तृतीयावतार मन्येन निरूपित-
मिति । “प्रथमस्तु हनूमान् स्यात् द्वितीयो भीम एव
च । पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः” इति ।
एतदेवाभिप्रेत्य तत्र तत्र ग्रन्थसमाप्ताविदं पद्यं लिख्यते
“यस्य त्रीण्युदितानि वेदवचने दिव्यानि रूपाण्यलं ह्येत-
द्दर्शितमित्थमेतदखिलं वेदस्य गर्भे महः । वायो
रामवचोनतं प्रथमकं वृक्षो द्वितीयं वपुर्मध्यो यस्तु तृतीय-
मेतदमुना ग्रन्घः कृतः केशवे” । तस्मात् सर्वस्य शास्त्रस्य
विष्णुतत्त्वं सर्वोत्तममित्यत्र तात्पर्यमिति सर्वं निरवद्यम्”

पूर्णबीज पु० पूर्णं बीजं यस्य । बीजपूरे राजनि० ।

पूर्णभद्र पु० १ नागमदे भा० आ० ३५ अ० । २ यक्षभेदे हरिवं०

३१ अ० । स च रत्नभद्रसुतः तस्य पुत्रः हरिकेशः
तत्कथा काशीख० ३२ अ० ।

पूर्णमा स्त्री पूर्ण्णः कलापूर्ण्णश्चन्द्रो मीयतेऽस्यां मा--घञर्थे

क । पूर्णमास्यां तिथौ ।

पूर्णमास् स्त्री पूर्ण्णः कलाभिः पूर्णोमाश्चन्द्रमा यत्र । १ पूर्ण्णि-

मायाम् । पूर्णं मासंमिमीते मा--असन् । २ सूर्ये ३ चन्द्रे च
“एष वै पूर्णमाः । य एष तपत्यहरहर्ह्येवैष पूर्णोऽघैम एव
दर्शो यच्चन्द्रमा दृदृश इव ह्येष अथो इतरथाहुः एव एव
पूर्णमा यच्चन्द्रमा एतस्य ह्यनुपूरणं पौर्णमासीत्थाचक्षते”
शत० प्रा० । १ । २ । ४१ “एषा सूर्य्यस्तपति एष खलु पूर्णमाः
स पूर्य्यमाणः ददृश इव अमावास्यायामविद्यमानः
प्रतिपदि पञ्चाद्दृश्यमानो भवति । एतच्च पूरणमनुलक्ष्य
पौर्णमासीत्याचक्षते” भा० ।

पूर्णमास पु० पूर्णमासी विधानकालत्वेनास्त्यस्य अच् ।

१ पूर्णिमायां कर्त्तव्ये यागभेदे “दर्शपूणैमासाभ्यां यजेत”
“सर्वेभ्यो दर्शपूर्णभासौ” श्रुतिः । आदिव्यभेदस्य
घातुरनुमतभार्य्यायां जाते २ पुत्रभेदे । “धातुः कुहूः
सिनीवाली २ राका ३ चानुमति ४ स्तथा । सायं १ दर्शमथ-
प्रातः ३ पूर्णमास ४ मनुक्रमात्” भाग० ६ । १६ । ३ । असृते-
त्यनुषङ्गः । पूर्णमासयागविधानञ्च शत० ब्रा० ११ । २ । ४ । ८ ।
पूर्णोमासश्चाद्रमासो यत्र गौरा० ङीष । २ पूर्णिमातिथौ
स्त्री शब्दमाला ।
पृष्ठ ४४०३

पूर्णमुख पु० जनमेयसर्पसत्रे दग्धनागभेदे भा० आ० ५७ अ० ।

पूर्णयोग पु० बाहुयुद्धभेदे तत्प्रकारः भा० स० २२ अ० उक्तो यथा

“ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः । वीरौ
परमसहृष्टावन्योऽन्यजयकाङ्क्षिणौ । करग्रहणपूर्वं तु
कृत्वा पादाभिवन्दनम् । कक्षैः कक्षां विधुन्वानावास्फोटं
तत्र चक्रतुः । स्कन्घे दोर्भ्यां समाहत्य निहत्य च
मुहुर्मुहुः । अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं विभो! ।
चित्रहस्तादिकं कृत्वा कक्षाबन्धं च चक्रतुः ।
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् । बाहुपाशा-
दिकं कृत्वा पादाहतसिरावुभौ । उरोहस्तं ततश्चक्रौ
पूर्णकुम्भौ प्रयुज्य तु । करसंपीड़नं कृत्वा गर्जन्तौ
वारणाविव । नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ ।
तलेनाहन्यमानौ तु अन्योऽन्यं कृतवीक्षणौ । सिंहा-
विव सुसंक्रुद्धावाकृष्याकृष्यायुध्यतम् । अङ्गेनाङ्गं
समापीड्य बाहुभ्यामुभयोरपि । आवृत्य बाहुभिश्चापि
उदरं च प्रचक्रतुः । उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ
च शिक्षितौ । अधोहस्तं स्वकण्ठे तूरस्युरसि
चाक्षिपत् । सर्वातिक्रान्तमर्य्यादं पृष्ठभङ्गं च चक्रतुः । स
पूर्णमूर्द्धं बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः । तृणपीडं
यथाकामं पूर्णयोगं समुष्टिकम् । एवमादीनि युद्धानि
प्रकुर्वन्तौ परस्परम्” मू० “कक्षैर्दोर्मूलैः कक्षां प्रकोष्ठगतां
रज्जुं धुन्वानौ यत्र यत्र कक्षे आस्फोटं चक्रतुः बाहु-
मूलास्फालनेनाङ्गदबन्धरज्जुशेषं कम्पयन्तावित्यर्थः ।
चित्रहस्तादिकं हस्तस्यातिवेगेनाकुञ्चनप्रसारणोपर्य्यधश्चालन
मुष्टीकरणानि चित्रहस्ताः । आदिपदात् पादस्याप्या-
कुञ्चनादि । कक्षाबन्धं परस्परकक्षायां हस्तौ कृत्वा
बन्धनम् गले गण्डेन भालदेशेनाभिधातस्तेन पाषाण-
सदृशाङ्गत्वात्तयोरभिधातेन विस्फुलिङ्गोत्पत्त्याऽशनिं
वज्रमिव ससृजतुरित्यर्थः । बाहुपाशादिकं चरणपाश
आदिशब्दार्थः । पादाभ्यामाहताः सिराः स्नायवो याभ्या-
न्तौ दृढ़प्रहारेण नाड़ीपर्य्यन्तमपि वेदनावन्तावित्यर्थः ।
उरोहस्तमुरसि चपेटाप्रहारं पूर्णकुम्भौ ग्रथिताङ्गलि-
भ्यां हस्ताभ्यां परशिरसः पीड़नं पूर्णकुम्भः द्वित्वं
परस्परं द्वावपि चक्रतुरिति वक्तुम् । तलेन चपेटया,
आवृत्य जत्रुदेशे पृष्ठं कृत्वा बाहुभिर्बहुभ्यां द्वावपि मिथ
उदरमादाय प्रचक्रतुः प्रचिक्षिपतुः कॄ विक्षेपेऽस्य रूपम् ।
एवं कट्यां सुपार्श्वे च प्रचक्रतुः । तक्षवन्तौ तक्षस्तनू-
करणं गात्रसङ्कोच इत्यर्थः तद्वन्तौ । अधोहस्तमुदरस्या-
धस्ताद्धस्तं कृत्वा हस्ताभ्यामुदरमावेष्ट्य स्वकण्ठे खोरसि
च कण्ठोरःसमीपे आनीयाक्षिपदास्फालितवान् ।
पृष्ठस्य भूमम्बन्धेन जातं भङ्गं पराभवं बाहुभ्यामुदरा-
दीनि पीड़ने सम्पूर्णमूर्द्ध्वम्” नीलकण्टः ।

पूर्णवैनाशिक पु० सर्ववनाशिके सर्वशृन्यत्ववादिनि बौद्धभेदे

सर्ववैनाशिकोऽप्यत्र ।

पूर्णहोम १० पूर्णो होमः । पूर्णाहुतौ ।

पूर्णा स्त्री “नन्दा भद्रा जया रिक्ता पूर्णा प्रतिपदः क्रमात्”

ज्यो० त० उक्ते पक्षयोः पञ्चमीदशमीपञ्चदशीरूपे तिथिभेदे

पूर्णाङ्गद पु० नागभेदे भा० आ० ५७ अ० ।

पूर्णान(ल)क न० । वर्द्धापनायाप्ते पूर्णपात्रे मेदि० पूर्ण-

पात्रशब्दे दृश्यम् ।

पूर्णानन्द पु० पुर्ण आनन्दो यत्र । १ परमेश्वरे २ तन्त्रप्रकरणकारे विद्वद्भेदे च ।

पूर्णाभिषेक पु० कर्म० । तन्त्रोक्ते कौलाभिषेकभेदे ।

पूर्णायुस् पु० १ प्राधेये गन्धर्वभेदे भा० आ० ६५ अ० । पूर्णमायु-

रस्य । २ शतायुष्के कर्म० । ३ शतवर्षमिते जीवनकाले न० ।

पूर्णावबात पु० कर्म० । १ नृसिंहे २ रामे ३ श्रीकृष्णे च तेषां

भगवतः संपूर्णावतारत्वात् तथात्वं अन्येषान्तु कलावतार-
त्वम् । “पूर्णो नृसिंहो रामश्च श्वेतद्वीपविराड् विभुः ।
परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम् । वैकुण्ठे
कमलाकान्तो रूपभेदाच्चतुर्भुजः । गोलोके गोकुले
राधाकान्तोऽयं द्विभुजः स्वयम्” ब्रह्मवै० जन्मख० ३९ अ०
उक्तेस्तेषां तथात्वम् ।

पूर्णाशा स्त्री नदीभेदे भा० भी० ९ अ० ।

पूर्णाहुति स्त्री पूर्णा आहुतिः । होमसमाप्तौ होम्याया-

माहुतौ शत० ब्रा० २२ । ११ ।

पूर्णि स्त्री पॄ--णिङ् । पूर्त्तौ पूर्णिमा ।

पूर्णिका स्त्री नासाच्छिन्नीनामकखगे त्रिका० ।

पूर्णिमा स्त्री पूर्णिं पूर्त्तिं मिमीते म--क । १ पौर्णमास्य

तिथौ मरीचेः कलायां पत्न्यां जाते २ कन्याभेदे “भार्य्या
मरीचेस्तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिकाञ्चैव
ययोरापूरितं जगत् । पूर्णिकाऽसूत विरजं विश्वगञ्च
परन्तप! । भाग० ४ । १ । १२ तत्तिविस्वरूपं द्वैधे खण्ड-
भेदस्य कर्मभेदे ग्राह्यतादिकं च कालमा० न्यरूपि यथा
“तत्र शुक्लायां पञ्चदश्यां चन्द्रमण्डलं स्वकलामिः सर्वा-
त्मना पूर्य्यते सेयं मण्डलपरिपूर्त्तिः पूर्णिमेत्यनेन नाम्ना
ज्ञायते । तदुक्तं ब्रह्माण्डमत्स्यपुराणयोः “कालक्षये
व्यतिक्रान्ते दिवापूर्णौ परस्परम् । चन्द्रादित्यौ प-
पृष्ठ ४४०४
राह्णे तु पूर्णत्वात् पूर्णिमा स्मृता” इति । अह्नः
परो भागः पराह्णः सूर्य्यास्तमयकाल इत्यर्थः । तत्र
यथादित्यः संपूर्णमण्डलः सन्नस्तमेति तथोत्तरक्षणे चन्द्रः
सम्पूर्णमण्डलः सन्नुदेतीति । दृष्टान्तदार्ष्टान्तिकभावस्य
विवक्षितत्वाद् द्वयोरादित्यचन्द्रयोरुपन्यासः । यथा
मण्डलपूर्णत्वविवक्षया पूर्णिमाशब्दः प्रयुज्यते तथा
मासपूर्णत्वविवक्षया पौर्णमासीशब्दः प्रयुज्यते । नदुर्क्तं
भविष्योत्तरे “पौर्णमासी महाराज । सोमस्य दयिता
तिथिः । पूर्णो मासो भवेद् यस्मात् पौर्णमासी ततः
स्मृता” इति । पूर्णिमामावास्ययोर्विकल्पेन मासा-
न्तत्वं मासप्रस्तावे दर्शितम् । अतएव पौर्णमास्या-
मत्यन्तविप्रकर्षे सत्यनभिभूतत्वाच्चन्द्रमण्डलः सम्पूर्णो
दृश्यते । तावेतौ सन्निकर्षविप्रकर्षौ गोभिल आह “यः
परो विप्रकर्षः सूर्य्याचन्द्रमसीः सा पौर्णमासी । यः
परः सन्निकर्षः सामावास्येति” । तदेवं पर्वाभिधायाः
पञ्चदश्याः पूर्णिमादिनामनिर्वचनेन स्वभावविशेषो ज्ञा-
प्रितो भवति । ते च पूर्णमास्यामावास्ये प्रत्येकं द्विविधे ।
तच्च पुराणे दर्शितम् “राका चानुमतिश्चैव पौर्णमासी
द्विधा स्मृता । सिनीबाली कुहूश्चैवममावास्या द्विधैव तु”
इति । एतासां चतसृणां स्वरूपं काठकशाखायां
विस्पष्टं श्रूयते “या पूर्वा पौर्ण्णमासी सानुमतिर्योत्तरा
सा राका । या पूर्वाऽमावास्या सा सिनीबाली योत्तरा
सा कुहूः” इति । वृहद्वशिष्ठोऽपि “राका आनुमति-
श्चैव पौर्णमासीद्वयं विदुः । राका संपूर्णचन्द्रा स्यात्
कलोनाऽनुमतिर्मता । पौर्णमासी दिवा दृष्टे
शशिन्यनुमतिः स्मृता । रात्रिदृष्टे पुनस्तस्मिन् सैव राकेति
कीर्त्तिता” । मत्स्यब्रह्माण्डपुराणयोः “यस्मात्तामनु-
मन्थन्ते पितरो दैवतैः सह । तस्मादनुमतिर्नाम पूर्णिमा
प्रथमा स्मृता । अत्थर्थं राजते यस्मात् पौर्णमास्यां निशा-
करः । रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः” इति ।
“अथ पञ्चदशी निर्णीयते । सा द्विविधा पौर्णसास्य-
मावास्या च । तत्र पौर्णमास्यां परस्परविरुद्धानि
वाक्यान्युपलभ्यन्ते । तत्र परविद्धाथा ग्राह्यत्वं विष्णु-
धर्मोत्तरे “एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी ।
अमावास्या तृतीया च उपोष्या स्युः परात्विताः” ।
परविद्धानिषैधः पूर्बविद्धाविधिश्च ब्रह्मपुराणपद्मपुराणयोः
“घष्ठ्येकादश्यमावास्या पूर्बविद्धा तथाऽष्टमी । पूर्ण्णिमा
परविद्धा च नोपोष्यं तिथिपञ्चकम् । पूर्वबिद्धा तु
कर्त्तव्या सप्तमी ब्रतिभिर्नरैः । पौर्णमासी, महीपाल-
पराया नियमाङ्गता” इति । पूर्बबिद्धाग्राह्यत्व च
युन्मवाक्ये । “चतुर्दश्या च पूर्ण्णिमति” । एवं परस्पर-
विरोधे सति या व्यवस्था सा ब्रह्मवैवर्त्ते दर्शिता
“पूर्वविद्धा न कर्त्तव्या अमावास्या च पूर्णिमा । वर्ज-
यित्वा मुनिश्नेष्ठ! सावित्रीव्रतमुत्तमम्” इति ।
सावित्री राजकन्या तया चीर्णं व्रतं सावित्रोव्रतम् । तच्च
मविष्योत्तरपुराणे दर्शितम् “कथयामि कुलस्त्रीणां
महिम्नो वर्द्धनं परम् । यथा चीर्ण्णं व्रतं पूर्बं
सावित्र्या राजकन्यया” इति । एतच्च पौर्ण्णमास्याममा-
वास्यायां च विहितम् । तस्मिन् व्रते पूर्बविद्धा ग्राह्या ।
व्रतान्तरे पूर्बबिद्धा न कर्त्तव्या किन्तु परविद्धैव कर्त्त-
व्येति परस्परविरुद्धस्य शास्त्रद्वयस्य व्यवस्था । यदा तु
चतुर्दश्यष्टादशनाडिका भवति तदा सावित्रीव्रतमपि
तत्र परित्याज्यस् । “भूतोऽष्टादशनाडोभिर्दूषयत्युत्तरां
तिथिमिति” स्मृतेः । योऽयं पौर्णमासीनिर्ण्णव स
एवामावास्यायासप्यवगन्तव्यः । तत्रापि सावित्रीव्रतं
पूर्वदिने कर्त्तव्यं व्रतान्तराण्युत्तरदिने । अस्यां
च व्यवस्थायां ब्रह्मवैवर्त्तवचनं पूर्बमुदाहृतम् । स्कन्द-
पुराणेऽपि “भूतविद्धा सिनीवाली न तु तत्र व्रतं
चरेत् । वर्जयित्वा तु सावित्रीव्रतं तु शिखिनाहन!”
इति । एवं च सति युग्मशास्त्रं सावित्रीव्रतव्यति-
रिक्तेषु व्रतेषु द्रष्टव्यम् । प्रचेता अपि “नागबिद्धा तु
या षष्ठी सप्तम्या च युताष्टमी । दशस्येकादशीविद्धा
त्रयोदश्या चतुर्दशी । भूतबिद्धाप्यमावास्या न ग्राह्या
मुनिपुङ्गवैः । उत्तरोत्तरविद्धास्ताः कर्त्तव्याः काठकी
श्रुतिः” इति । पद्मपुराणेऽपि “षष्ठ्यष्टमी तथा दर्शः कृष्ण-
पक्षे त्रयोदशी । एताः परयुताः कार्य्याः पराः पूर्बेण
संयुताः” इति । यत्तु नारदीयपुराणे “दर्शं च पौर्ण
मासं च षितुः सांवत्सरं दिनम् । पूर्बबिद्धमकुर्वाणो
नरकं प्रतिप्रद्यते” इति तत् सावित्रीव्रतविषयं श्रा-
विषयं वा । अमावास्यायामिव पौर्णमास्यामपि श्राद्ध
विहितम् तथाच पितामहः “अमावास्याव्यतीपातपौर्ण-
मास्यष्टकासु च । विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते हि
सः” इति । अमाबास्याश्राद्धस्य च पार्वणरूपत्वमपराह्णस्य
तत्कर्मकालत्वं कुतपस्य प्रारम्भकालत्वमित्येतत्त्रितयं प्रति-
पत्प्रकरणे प्रत्याव्दिकनिर्णये प्रपञ्चितम्” ।
“सा चतुर्दशीयुता ग्राह्या युम्मात् । यमः “पह्मान्ते स्रो-
पृष्ठ ४४०५
तसि स्नायात् तेन नायाति मत्पुरम्” विष्णुः “दृश्येते
सहितौ यस्यां दिवि चन्द्रवृहस्पती । पौर्ण्णमामी तु
महती ज्ञेया संवत्सरे तु सा । तस्यां स्नानोपवासा
भ्यामक्षयं परिकीर्त्तितम्” । सहितो मासमंज्ञानि-
मित्तकृत्तिकादिनक्षत्रगतौ महाकार्त्तिक्यादिदर्शनात् ।
नथा च राजमार्त्तण्डः “माससंज्ञे यदा ऋक्षे चन्द्रः
सम्पूर्णमण्डलः । गुरुणा याति संयोगं सा तिथि-
र्महती स्मृता” । स्कान्दमात्स्ययोः “पौर्ण्णमासीषु
चैताषु मासर्क्षसहितासु च । एतासु स्नानदानाभ्यां
फलं दशगुणं स्मृतम्” ति० त० स्थितम् ।

पूर्णेन्दु पु० कर्म० । पञ्चदशभिः कलाभिः पूर्णे चन्द्रे ।

पूर्णोत्कट पु० पु० प्राच्ये देशभेदे मार्क० ५८ अ० ।

पूर्णोपमा स्त्री उपमालङ्काराभेदे अलङ्कारशब्दे ३९६ पृ० दृश्यम् ।

पूर्त्त त्रि० पूर--क्त नि० । १ पूरिते २ छन्ने विश्वः । पॄ--पालने

कर्मणि क्त । ३ पालिते । भावे क्त । ४ पालने न० ५ शब्दर० ।
५ खातादिकर्मणि न० अभरः । जातुकर्ण्यः “वापी
कूपतड़ागादिदेवतायतनानि च । अन्नप्रदानमारामः पूर्त्त-
मित्यभिधीयते” । आरामः पुष्पफलोपायहेतुर्भूभागः ।
“अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम् ।
आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते । ग्रहोपरागे
यद्दानं पूर्त्तमित्यभिधीयते । इष्टापूर्त्तं द्विजातीनां
धर्मः सामान्थ उच्यते । अधिकारी भवेच्छूद्रः पूर्त्ते
धर्मे न वैदिके” । वैदिके वेदाध्यवनसाध्ये अग्निहोत्रा-
दाविति” रत्राकरः । एवं स्त्रीणामपि पूर्त्ताधिकारः ।
यथा नारीत्यनुवृत्तौ वृहस्पतिः “पितृव्यगुरुदौहित्रान्
भर्तुः स्वस्रीयमभ्तुलान् । पूजयेत् कव्यपूर्त्ताभ्यां
वृद्धानाथातिथीन् स्त्रियः” । एतेन “जलाशयोत्सर्गे
गोरवतरणानुमन्त्रणयोर्यजमानकर्तृकमन्त्रपाठः तत्रा-
मन्त्रकतया स्त्रीशूद्रयोरनधिकारेण तद्वति यागेऽप्य-
नधिकारः विशेषोपदेशविरहादिति” द्वैतनिर्णयोक्तं
निरस्तम् । अतएव तयोर्जलाशयोत्सर्गादिग्रहयज्ञवेदी
होमादिसमाचारः । अत्र होमो वह्रौ न साक्षात्
कल्पतरुरत्नाकरधृतापस्तम्बवचनात् । तद्यथा क्षार-
लवणाद्युपक्रम्य “तद्धुतमहुतञ्चाग्नौ न स्त्री जुहुयान्नानु-
पेतः इति” अनुपेतः अनुपनीतः, किन्तु ब्राह्मणद्वारा
करणीयः । “श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृत्विजः स्वयम्”
इति याज्ञवल्क्योक्तेः “ऋत्विग्वादे नियुक्तौ च समौ
प्रंपरिकीर्त्तितौ । यज्ञे स्वाम्याप्नुयात् पुण्यं हानिं
वादेऽथ वा जयम्” इति वृहस्पत्युक्तेः । वैदिकेतर
मन्त्रपाठे शूद्रादेरप्यधिकारः । “वेदमन्त्रवर्जं शूद्रस्येति”
छन्दीगाह्निकाचारचिन्तामणिधृतस्मृतौ वेदेतिविशेषणात् ।
“शूद्रोऽप्येवंविधः प्रोक्तो विना मन्त्रेण संस्कृतः ।
न केनचित् समसृजत् छन्दसा तं प्रजापतिः” इति
यमस्मृतौ छन्दसा वेदेन इत्युक्तेश्च । तं शूद्रम् । पञ्च-
यज्ञस्नानश्राद्धेषु वैदिकेतरमन्त्रीऽपि निषिद्धः । शूद्र-
मधिकृत्य “नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत्”
इति याज्ञवल्कीयेन “व्रह्मक्षत्रविशामेब मन्त्रवत्
स्नानमिष्यते । तूष्णीमेव हि शूद्रस्य सनमस्कारकं
मतम्” इति योगियाज्ञवल्कीयेन श्राद्धमधिकृत्य “अयमेव
विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अमन्त्रस्य तु
शूद्रस्य विप्रो मन्त्रेश्च गृह्यते” इति बराहपुराणीयेन च
नमस्कारेणेति तूष्णीमिति मन्त्रवर्जित इत्यभिधानात्” ।

पूर्त्ति स्त्री पॄ--भावे क्तिन् । १ पूरणे “हन्तिः पूर्तिश्च पूरणे”

ज्यो० त० उक्ते २ गुणने च ।

पूर्त्तिन् त्रि० पूर्त्तमनेन इष्टा० इनि । कृतपूरणे । स्त्रियां ङीप् ।

पूर्द्वार न० ६ त० । पुरस्य द्वारे गोपुरे अमरः ।

पूर्धि याच्ञायां भ्वा० प० सक० सेट् निघण्टुः । पूर्धयति अपूर्धायीत् ।

पूर्व निमन्त्रणे सक० निवासे अक० चु० उभ० सेट् । पूर्बयति

ते अपुपूर्बत् त । ओष्ठ्यान्तोऽयम् ।

पूर्य्य त्रि० पॄ--क्यप् पूर--ण्यत् वा । १ पूरणीये २ परिपाल्येच

पूर्व निवासे अक० निमन्त्रणे सक० भ्वा० प० सेट । अन्त्य-

स्थान्तोऽयम् । पूर्वति अपूर्वीत् ।

पूर्व(र्व) त्रि० पूर्ब (र्व)--अच् । १ प्रथमे आद्ये यस्यां दिशि येषां सूर्यस्य

प्रथमं दृष्टिः तेषां तस्यां २ दिशि स्त्री तदुपलक्षिते ३ देशे यस्य
यदपेक्षया प्रथमं जन्मादि तस्य ४ तादृशकाले ५ तदुपलक्षिते
च । तस्य दिग्देशकालव्यवस्थावाचित्वे सर्वनामकार्य्यं
पूर्वस्मै इत्यादि जसि ङिङस्योस्तु वा पूर्बे पूर्बाः पूर्ब-
स्मात् पूर्वात् पूर्ब पूर्बस्मिन् । स्त्रियां तु न विभाषा पूर्बस्यै
षूर्बस्याम् इत्यादि । सर्वनामत्वेन वृत्तिमात्रेऽस्य पुंवद्-
भावः । पूर्बस्यां स्थितं पूर्बस्थितम् । पूर्बस्या रूपं पूर्बरूपम्
इत्यादि ।

पूर्व(र्ब)कर्म्मन् न० कर्म० । प्रथमे कर्मणि “कर्म त्रिविधं

पूर्बकर्मप्रधानकर्म पश्चात्कर्मेति” सुश्रुतः । पूर्बभागे ।

पूर्व(र्व)काय पु० पूर्वं (र्वं) कायस्य एकदेशित० । कायस्य

पृष्ठ ४४०६

पूर्व(र्व)कालिक त्रि० पूर्वः(र्वः) कालः साधनतयाऽस्त्यस्य

ठन् । पूर्ब(र्व)कालसाध्ये “दर्शनं पूर्ब(र्व)कालिकम्”
मा० सौ० ८ अ० । पूर्ब(र्व)काले भवः ठञि वृद्धिः । पौर्व्य(र्ब)-
कालिक इत्येव तत्रार्थे त्रि० स्त्रियां ङीप् इति भेदः ।

पूर्व(र्व)कृत् पु० पूर्वां(र्बां) करोति कृ--क्विप् वृत्तौ पुंवत् ।

१ पूर्ब(र्व)दिगसूचके आदित्ये २ तदधिपे इन्द्रे च यजु०
१०३६ । ३ पूर्ब(र्व)कारकमात्रे त्रि० ।

पूर्व(र्ब)कोटि स्त्री विप्रतिपत्तौ पूर्बोपात्ते विषये पूर्वपक्षे

पूर्व(र्ब)गङ्गा स्त्री नित्यक० । नर्मदानद्यां हेम० ।

पूर्व(र्ब)चित्ति त्रि० चित--भावे क्तिन् पूर्वं(र्बं) चित्तिः स्मरणं

यस्य । १ पूर्बानुभवविषये यजु० १३ । ११ । १३ । ४३ । २ अप्
सरोभेदे स्त्री हरिवं० १२ अ० ।

पूर्व(र्ब)ज पु० पूर्वस्मिन् काले जायते जन--ड । १ ज्येष्ठभ्रातरि

रघुः १० । ३६ । २ ज्येष्ठभगिन्यां स्त्री अमरः । ३ पूर्बकाल-
जातमात्रे त्रि० । “ज्येष्ठाभूलीयमिच्छन्ति मासमाषाढ़
पूर्ब(र्व)जम्” । ४ चन्द्रलोकस्थे दिव्यपितृगणे “अथ
पूर्ब(र्व)जाः” पितरश्चन्द्रगोलस्था न्यस्तशस्त्राः स्वधाभुजः ।
कव्यबालादयस्ते च” त्रिका० । ५ पितामहादौ “स
पूर्ब(र्व)जानां कपिलेन रोषात्” रघुः ।

पूर्व(र्ब)जिन पु० कर्म० । प्राचीने जिनभेदे मञ्जु घोषप्रभृतौ त्रिका०

पूर्व(र्ब)दक्षिणा स्त्री पूर्व(र्ब)स्या दक्षिणस्याश्चान्तराला दिक्

“दिङ्नामान्यन्तराले” पा० स० । पूर्बदक्षिणयोर्दिशोरन्त-
रालायां दिशि १ अग्निकोणे २ तद्दिक्स्थे देशे च मार्क०
पु० ५८ अ० ।

पूर्व(र्ब)दिक्पति पु० कर्म० ६ त० । इन्द्रे हेम० । पूर्व(र्ब)दिगी

शादयोऽप्यत्र । २ मेषसिंहादिराशिषु । “प्रागादिककुभां
नाथा यथासंख्यं प्रदक्षिणम् । मेषाद्या राशयो ज्ञेया
स्त्रिरावृत्तिपरिभ्रमात्” ज्यो० त० ।

पूर्व(र्ब)दिग्बल न० दिग्बलशब्दे ३५७३ पृ० उक्ते सूर्य्या-

दिग्रहाणां कालभेदे पूर्बस्यां दिशिभवे बलभेदे

पूर्व(र्ब)दिग्वदन न० पूर्वदिशि वदनमस्य । दिग्वदनशब्दे

३५ ७५ पृ० उक्ते मेषसिंहधनूरूपराशित्रिके

पूर्व(र्ब)दिश् स्त्री कर्म० । प्राच्यां दिशि यस्यां दिशि येषां

सूर्य्यस्य प्रथमदृष्टिः तेषां सा दिक्प्राची । तज्ज्ञानो
पायश्च दिग्ज्ञानशब्दे ३५ ७४ पृ० दृश्यः ।

पूर्व(र्ब)दिष्ट त्रि० पूर्वं(र्वं)दिष्टं भाग्यं साधनत्वेनास्त्यस्य

“अच् । पूर्बभाग्यानुरूपेण जाते १ दुःखादौ “दैवैर्मर्त्यस्य
यत्प्रोक्तं पूर्ब(र्व)दिष्टं हि तत् स्मृतम्” भाग० ६ । १७
श्लो० । पूर्बं(र्वं)दिष्टम् । २ पूर्बविहिते त्रि० ।

पूर्व(र्ब)देव पु० पूर्बे(र्व)देवाः । १ असुरे अमरः । तेषां प्रथमं

देवत्वेन जायमानत्वेऽपि अन्यायाचरणात् ततो भ्रष्टानां
दैत्यभावं प्राप्तिरिति पौराणिकी कथानुसन्धेया । कर्म० ।
पूर्बतनयोः देवयोः २ नरनारायणयोः द्वि० व० ।
भा० उ० ४८ अ० ।

पूर्व(र्ब)देवता स्त्री कर्म० । अनादिदेवभावेषु पितृषु “अक्रो-

घनाः शौचपराः सततं ब्रह्मचारिणः । न्यस्तशस्त्रा
महाभागाः पितरः पूर्ब(र्व)देवताः” मनुः । तदधिकं
पितृशब्दे दृश्यम् ।

पूर्व(र्ब)देश पु० पूर्व(र्ब)वर्त्ती देशः । जम्बुद्वीपस्थे देशभेदे

स च देशः वृ० सं० १४ अ० कूर्मविभागे दर्शितः ।

पूर्व(र्ब)नदी स्त्री कर्म० । कूर्मविभागे उक्तायां पूर्वदिक्स्थायां

नद्याम् ततो नद्यन्तत्वात् ढक् उत्तरपदवृद्धिः पूर्वनादेय
तत्र--भवे त्रि० ।

पूर्व(र्ब)पक्ष पु० कर्म० । १ शुक्लपक्षे अमरः । शास्त्रीयसंशय-

निरासार्थप्रश्ने २ फकिकायाम् । ३ सिद्धान्तविरुद्धकोटौ
“विषयो विषयश्चैव पूर्वपक्षस्तथोत्तरम्” इत्युक्ताधिकरणा-
वयवभेदे व्यवहारे प्रतिज्ञापरपर्य्याये भाषापत्ररूपे
४ प्रथमावयवभेदे । तल्लक्षणादिकं वीरमि० उक्तं यथा
“पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरस्तथा । क्रिया-
पादस्तृतीयस्तु चतुर्थो निर्णयस्तथा” इति वृहस्पतिवच-
नस्थं निर्णयफलकपरामर्शरूपप्रत्याकलितपरमेव निर्णय-
पदमुपचारादित्याह “इतरथा पूर्वोदाहृततद्वचनविरोधः
स्यात् । तत्र प्रतिज्ञावादी कः स्यादित्यपेक्षिते नारदः
“राज्ञे कुर्य्यात् पूर्बमावेदनं यस्तस्य ज्ञेयः पूर्ववादो विधि-
ज्ञैः” इति पूर्बवादः प्रतिज्ञा । पूर्ववादकस्यैव प्रतिज्ञावादि-
तेत्यस्यापवादमाह स एव “यस्य वाभ्यधिका पीड़ा
कार्य्यं वाभ्यधिकसम्भवेत् । तस्यार्थिवादो दातव्यो न यः
पूर्बं निवेदयेत्” । अर्थिवादः प्रतिज्ञा । वृहस्पतिः
“अहंपूर्वि(र्व)कया यातावर्थिप्रत्यर्थिनौ यदा । वादो वर्णा-
नुपूर्वेण ग्राह्यः पीड़ामवेक्ष्य चेति” । मनुरपि “अर्था-
नर्थावुभौ बुद्धा धर्माधर्मौ च केवलौ । वर्णक्रमेण सर्वाणि
पश्येत् कार्य्याणि कार्य्यिणाम्” । ब्राह्मणादीनां
युगपद्धर्माधिकरणं प्राप्तानां वर्णानुक्रमेण ब्राह्मणस्यादौ
ततः क्षत्रियस्येत्येवमादिक्रमेण चतुष्पाद्व्यवहारः प्रव-
र्त्तनीयो राज्ञा पीडाधिक्यकार्य्यगौरवं चेदर्थिप्रत्यर्थिनो-
रन्यतरस्य तदा न पूर्वावेदनक्रमो नापि वर्णक्रमः । यदा
तु सर्वे सवर्णास्तदा आवेदनक्रमः । युगपदावेदने
समानवर्णत्वे समानपीडत्वे च ससभ्यसभापतीच्छयेति
पृष्ठ ४४०७
निर्गलितोऽर्थः । प्रतिज्ञालक्षणमाह याज्ञवल्क्यः “प्रत्य-
र्थिनोऽग्रतो लेख्यं यथावेदितभर्थिना । समामासतद-
र्द्धाहन्नोमजात्यादिचिह्नितम्” । अर्थ्यत इत्यथः साध्यः
सोऽस्यास्तीत्यर्थी तद्विपरीतः प्रत्यर्थी तस्याग्रतः
पुरतो लेख्यं लेखनीयं ससभ्येन सभापतिना
यथावेदितं पूर्बावेदनमनतिक्रम्य येन प्रकारेणावेदनसमये
स्ववचनं लेखितं तथैव प्रत्यर्थिसमक्षमपि न पुनरन्यथा ।
तथा सत्यन्यवादित्वेन भङ्गप्रसङ्गात् । अन्थवादीत्यादि
हानलक्षणे वक्ष्यते । प्रागेवार्थिना स्वप्रतिज्ञातार्थस्य
लिखितत्वादधुमा लेखनमनर्थकमित्याशङ्कानिरासायाह
समामासेति । संवत्सरमासपक्षतिथिवारार्थिप्रत्यर्थिनाम-
तदीयजातिभिरादिशब्दोपात्तैश्च द्रव्यसङ्ख्यातज्जाति
ऋणग्रहणादिस्थानवेलाक्षमालिङ्गादिभिर्यथीपयोगं
चिह्नितमिति कार्य्यमात्रमावेदनकाले लिखितमधुनोपयुक्त-
सहितं लिख्यत इति नानर्थक्यमिति भावः ।
आदिशब्दग्राह्याणि च कात्यायन आह “निवेश्य कालं वर्षं
च मासं पक्षं तिथिं तथा । बेलां प्रदेशं विषयं स्थानं
जात्याकृती वयः । साथ्यं प्रमाणं द्रव्यञ्च सङ्ख्या नाम
तथात्मनः । राज्ञां च क्रमशी नाम निवासं साध्यनाम
च । क्रमात् पितॄणां नामानि पीड़ामाहर्तृदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षं सङ्कल्प्य कीर्त्तयेत्” । कालो
धनप्रयोगादिकालः । वर्षं पत्रलिखनकालीमम् एवं मासपक्ष-
तिथयोऽपि सन्ध्यावन्दनादिक्रिथोपलक्षितः कालो बेला ।
प्रदेशः क्षेत्रादिस्थलविशेषः । विषयोऽन्तर्वेद्यादिविषयः
स्यानं विवादास्पदीभूतगृहादिग्रामादि आकृतिरवयव-
संस्थानविशेषः वयस्तारुण्यादि प्रमाणं निवर्त्तन-
प्रस्थादि । आत्मनो राज्ञां च क्षेत्रादिभोगकालोनानां
वहुवचनं तदीयपित्रादिप्राप्त्यर्थं निवासो निकटगृ-
हादिः । पितरोऽर्थिप्रत्यर्थिनोः । पीड़ा प्रतिभूप्रभृतीनां
धनिकादिकृता । आहर्त्ता प्रतिग्रहादिविषयवस्तूनि
आनेता दायको दातृविक्रेत्रादिः । क्षमालिङ्गान्यात्मीय-
धनादेः परोपभोगाद्यपराधसहनचिह्नानि । अन्यत्
सुबोधम् । सग्रहकारोऽपि “अर्थवद्धर्मसंयुक्तं परिपूर्णमना-
कुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ।
प्रसिद्धमविरुद्धञ्च निश्वितं साधनक्षमम् । संक्षिप्तन्निखि-
लार्थं च देशकालाविरोधि च । वर्षर्तुमासपक्षाह-
र्वेलादेक्षप्रदेशवत् । स्थानावसघसृध्याख्याजात्थाकारवयो-
युतम् । साध्यप्रमाणं ङ्ग्यावदात्मप्रत्यर्श्रिनाम च । परा-
त्मपूर्वजानेकराजनामभिरङ्कितम् । क्षमालिङ्गात्मपीड़ावत्
कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभि-
धीयते” इति । अर्थवत् प्रयोजनवत् । धर्मसंयुक्तम्
अल्पाक्षरप्रभूतार्थत्वादिगुणयुक्तम् । परिपूर्णमध्याहारा-
द्यनपेक्षम् । अनाकुलमसन्दिग्धाक्षरम् । साध्यवत्
साधनीयार्थयुतम् । वाचकपदम् गौणलाक्षणिकपदरहितम् ।
प्रकृवार्थाविरोधि पागावेदितार्थेन सह संवादि । प्रसिद्धं
लोकप्रसिद्ध्यनतिक्रान्तम् अबिरुद्धं पुरराष्ट्रप्राड्विवाकरा-
जाद्यविरुद्धम् । पूर्वापराविरुद्धं व्यवहारिकधर्माविरुद्धञ्च ।
निश्चितं संशयरहितम् । साधनक्षमम् साधनार्हम् ।
संक्षिप्तं शब्दाड़म्बरशून्यम् । निखिलार्थं निरवशेष-
वक्तव्यार्थप्रतिपादकम् । देशलोकाविरोधि मध्यदेशीयम-
मुकक्षत्रम् शरत्कालीनशस्याढ्यं मदोयमपहृतमित्या-
दिदेशकालविरोधविधुरम् । परात्मनोः प्रतिवादिवादि-
नोर्ये पूर्बजाः पित्रादयस्त्रयः अनेके राजानः क्षेत्रादि-
भुक्तिकालीनास्त्रेषान्नामभिरङ्गितं युक्तम् । अत्रार्थवत्त्वा-
दीनि देशकालविरोधिम्यमर्थिप्रत्यर्थिनामाशून्यत्वं चेति
सर्वत्र भाषायामवश्यम्भावीनि तैर्विना साध्यनिर्देशा-
सिद्धेः । वर्षादीनि तु यत्र यावन्त्युपयुज्यन्ते तत्र
तावन्त्येव निवेशनीयानि सर्वाणिन सर्वत्र अदृष्टार्थत्वपमङ्गात् ।
तत्र वर्षादीनां कालानां वृद्धिधनद्वैगुण्यादिघिवादेन
प्रतिग्रहक्रयादिपौर्वापर्य्यवादे वोपयोगः । देशप्रदेश-
स्थानानामाहर्तृदायकयोरात्मादिपूर्बजराजादिनाम्ना च
स्थावरक्षेत्रादिविवादेषु । साध्याख्याजात्याकारवयसां
चौर्य्यादिस्वाम्यविक्रयादिबिवादेषु । प्रमाणसंख्ययोर्मेय-
तुलितादिद्रव्यविवादे वौर्य्यादिविवादे च क्षनालिङ्गा-
नामुपेक्षितपरोक्षभुज्यमानभुम्यादिविबादे । आत्मपी-
ड़ाया ऋणिकप्रतिभ्वादिविवादे एवमन्यदप्युन्नेयम् ।
अतएवाशयादाह कात्यायनः “देशञ्चैव तथा स्थान
सन्निवेशस्तथैव च । जातिः संज्ञाधिवासश्च प्रमाणं क्षेत्र-
नाम च । पितृपैतामहञ्चैव पूर्बराजानुकीर्त्ततम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत्” इति । एतेषां
तत्रीपयोगित्वात् । हारीतोऽपि “आसनं शयनं
यानन्ताम्रं कांस्यमयोमयम् । धान्यमश्ममयं यच्च द्वि-
पदञ्च चतुष्पदम् । मणिमुक्ताप्रबालानि हीरका रूप्य
काञ्चनम् । यदि द्रव्यसमूहः स्यात् संख्या कार्य्या तदैक
तु । यस्मिन् देशे च यद्द्रव्यं येन मानेन मीयते ।
त्वेन तस्मिंस्तदा सङ्ख्या कर्त्तव्या व्यवहारिभिः” इति ।
पृष्ठ ४४०८
मानसंख्याशब्दावत्रान्योऽन्योपलक्षणम् । अत्रैतावद्विव-
क्षित यत्र यावदुपयुज्यत तत्र तावन्निवेश्यं भाषापत्रे ।
अन्यथा साध्यनिर्देशस्यापूर्णत्वात् पक्षाभासतापत्तेरधिक-
निवेशेऽदृष्टार्थतापत्तेरिति । कात्यायनोऽर्थत एवाह
“देशकालविहीनश्च द्रव्यसङ्ख्याविवर्जितः । क्रियामानवि
हीनश्च पक्षो नादेय इष्यते” । क्रिया प्रमाणम् । मान
साध्यपरिमाणम् ।” यद्यपि पूर्वोक्तपक्षलक्षणरहितानां
पक्षाभासत्वमर्थसिद्धं तथापि नारदादिभिः स्पष्टार्थं प्रप-
ञ्चितम् । तत्र नारदः “अन्यार्थमर्थहीनञ्च प्रमाणागम-
वर्जितम् । लेख्यहीनाधिकं भ्रष्टं भाषादीषा उदाहृताः” ।
एतान् स एव विवृतवान् । “अर्थे साधारणेऽप्येको
सम्बन्धोऽथानियुक्तकः । लेखयेद् यत्तु भाषार्थमन्यार्थं
तं विदुर्बुधाः” । गणकार्य्यमेकी वा यद्यसम्बन्धी
गदनियुक्तो वा लेखयेद् यस्यां भाषायामित्यर्थः । “ब्रह्म-
हायमिति द्वेषात् क्रोधाद्वापि वदेत्तु यः । साध्यं च
मोचयेत् पश्चादर्थहीनान्तु तां विदुः” । उक्तं साध्यं
वादिना यस्यान्त्यज्यते सा भाषाऽर्थहीनेत्यर्थः । “गणिते
लिखिते मेये तथा क्षेत्रगृहादिषु । यत्र सङ्ख्या
न निर्दिष्टा सा प्रमाणविवर्जिता” । सङ्ख्यानं सङ्ख्येति
व्युतपत्त्या सङ्ख्याशब्देन गणनतोलनमानानां
परिग्रहः । “विद्यया प्राप्तमर्थार्थं लब्धं क्रीतं क्रमागतम् ।
नत्वेवं लिख्यते यत्र सा भाषा स्यादनागमा ।
समामासस्तथा पक्षस्तिथिर्वारस्तथैव च । यत्रैतानि च
लिख्यन्ते लेख्यहीनान्तु तां विदुः” । अवश्यं यद् यत्र
पूर्वोक्तरीत्या लेख्यं तद्रहिता लेख्यहीनेत्यर्थः । “लेख-
यित्वा तु तां भाषामनिर्दिष्टे तथोत्तरे । निर्दिशेत्
साक्षिणः पूर्वमधिकां तां विनिर्दिशेत्” । साक्षिण इति
प्रमाणोपलक्षणम् । व्युत्क्रमादत्राधिक्यन्तेनाप्राप्तका-
लता फलिता । “यत्र स्यात्तु यथापूर्बं निर्दिष्टं पूर्बवा-
दिना । मन्दिग्धमेव लेख्येन भ्रष्टां भाषान्तु तां षिदुः”
उभयं पूर्बमिति पाठे पक्षद्वयमपि प्रतिज्ञावादिनैव निर्दिष्टं
स्यादित्यर्थः” । प्रसङ्गात् पक्षाभासोऽपि तत्र निर्णीतो-
ऽत्र प्रदर्श्यते । तत्र कात्यायनः “अप्रसिद्धं निराबाधं
निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षा-
भासं विवर्जयेत्” । अप्रसिद्धमाह वृहस्मतिः “न
केनचित् कृतो यस्तु सोऽप्रसिद्ध उदाहृतः । यथा
फलसहम्रकृष्टक्षेत्रमपहृतमिति मदीयं शशविषाणं गृहीत्वा
न प्रयच्छतीत्याद्यप्रसिद्धमित्याह विज्ञानेश्वरः । वृह-
स्पतिना त्विदमसाध्योदाहरणमुक्तं तच्च वक्ष्यते । निरा-
बाधन्निरुपद्रव मम मन्दिरे दीप्यमानदीपकप्रकाशेनायं
खमन्दिर व्यवहरतीतिप्रभृति निरर्थममिधेयहीनं
मदीयं कचटतपञ्जवगडदशं वा गृहीत्वा न ददातीत्यादि
विज्ञानयोगी । वृहस्पतिवचनात् त्वन्यथा निरर्थक-
पदार्थः प्रतीयते यथाह “खल्पापराधः स्वल्पार्षो
निरर्थक इति स्मृतः” इति । एतस्योदाहरणं स्मृति-
चन्द्रिकायाम् “अहमनेन सस्मितमीक्षितः । मामकी
शिक्षाऽनेनापहृतेत्यादि निष्प्रयोजनं यघायं
देवदत्तोऽस्मद्गृहमन्निधौ सुस्वरमधीते इत्यादि मिताक्षरा-
स्मृतिचन्द्रिकयोरुदाहृतम् । वृहस्पतिना तथैव लक्षितम् ।
“कार्य्यबाधाविहीनस्तु विज्ञेयो निष्प्रयोजनः” इति ।
स एव प्रकारान्तरेणापि निरर्थनिषप्रयोजनौ लक्षित-
वान् “कुसीदाद्यैः षदैर्हीनो व्यवहारो निरर्थकः ।
वाक्पारुष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः” । कुमीद-
मृणदानं तत्प्रभूतिभिश्चतुर्दशभिरर्थविषयव्यवहारै-
र्हीनो निरर्थकः । वाकपारुष्यादिभिहिंसात्मकैश्चतु-
र्भिर्हीनी निष्प्रयोजनः इत्यर्थः । अष्टादशपदाविषयः
पक्षो दुष्ट इत्याशयः । असाध्यविरुद्धावाह स एव
“ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः । असम्भाव्य-
मसाध्यन्तं पक्षमाहुर्मनीषिणः । यस्मिन्नावेदिते पक्षे
प्राड्विवाकेऽथ राजनि । पुरराष्ट्रे विरोधः स्याद्विरुद्धः
सोऽभिधीयते” इति । मिताक्षराथामसाध्यविरुद्धावन्य-
थोक्तौ “देवदत्तेनाहं सभ्रूभङ्गमुपहसित इत्याद्यसाभ्य-
साधनासम्भवात् अल्पकालत्वान्न साक्ष्यादिसम्भवी लिखितं
दूरतोऽल्पत्वान्न दिव्यमिति । भूकेनाहं शप्त इत्यादि विरुद्ध-
मिति” । पुरराष्ट्रादिविरुद्धमपि विरुद्धपदेन व्याख्याय राज्ञा
विवर्जित इत्यादिस्मृत्यन्तरञ्च तदर्थतयोदाहृतन्तच्च पूर्ब-
मस्माभिरनादेयव्यवहारनिरूपणे लिखितम् । अन्येऽपि
पक्षाभासाः स्मृतिचन्द्रिकोदाहृतवचनोक्ता ज्ञेयाः । यथा
“भिन्नक्रमो व्युत्क्रमार्थः प्रकीर्णार्थो निरर्थकः ।
अतीत्कालो विद्विष्टः पक्षो नादेय इष्यते । यथास्थाना-
निवेशेन नैव पक्षार्थकल्पना । शस्यते तेन पक्षः स भिन्न-
क्रम उदाहृतः” । व्यत्यस्ताक्षरसन्निवेशो भिन्नक्रम इति
यावत् । व्युत्क्रमार्थो व्यवहितास्ययेनार्थाबोधकः ।
प्रकीर्णार्थोऽसङ्कलितार्थः । “मूलमर्थं परित्यज्य तद्गुणो
यत्र लिख्यते । निरर्थकः स वै वक्षो भूतसाधनवर्जितः ।
भतकालमतिक्रान्तं द्रव्यं यत्र हि लिख्यते । अतीत-
पृष्ठ ४४०९
वालः पक्षोऽसौ प्रमाणे सत्यपि स्मृतः । यस्मिन् पक्षे
द्विधा साध्यं भिन्नकालविमर्शनम् । विमृष्यते क्रिया-
भेदः स पक्षोद्विष्ट उच्यते” । भूतसाधनं मूलभूतं साधनं
तेन वर्जितः । भूतकालः साध्यकालः । अन्यानपि
पक्षाभासानाह स एव “अन्याक्षरनिवेशेन अन्यार्थ
गमनेन च । आकुलन्तु भवेल्लेख्यं क्रिया चैवाकुला
भवेत् । साधनं सह साध्येन निर्दिष्टं यत्र लेखयेत् ।
उक्तक्रमविहीनत्वात् सोऽपि पक्षो न सिध्यतीति ।
विरुद्धश्चाविरुद्धश्च द्वावप्यर्थौ निवेशितौ । एकस्मिन् यत्र
दृश्येते तं पक्षं दूरतस्त्यजेत् । परस्परविरुद्धानि यः
पदानि निवेशयेत् । विरुद्धपदसङ्कीर्णा भाषा तस्य न
सिध्यतीति” । यत्तु “पुरराष्ट्रविरुद्धश्च यश्च राज्ञा
विवजितः । अनेकपदसङ्कीर्णः पूर्बपक्षो न सिद्ध्यतीति”
स्मरणात् तस्यायमर्थः । राज्ञा विवर्जितो राजत्यक्त-
शुल्कादिविषयकर्णादानादिपदमिश्रितस्तु क्रियाभेदेन
युगपन्न सिद्ध्यतीति मदीया रूपका इयन्तोऽनया वृट्या-
ऽनेन गृहीताः सुवर्णञ्च मया निक्षेपीकृतमयमिदं
मदीयक्षेत्रमपहरतीत्यनेकपदविषयस्यापि पक्षस्य क्रमे-
णाप्यनुपादेयत्वे तत्त्वनिर्णयाभावप्रसङ्गेन युक्तिविरोधात् ।
“बहुप्रतिज्ञं यत्कार्य्यं व्यवहारेषु निश्चितम् । कामं
तदपि गृह्णीयाद्राजा तत्त्वबुभूत्सयेति” कात्यायनवचन-
विरोधाच्च । तस्माद्युगपत् पक्षाभामतेत्येव रमणीयम् ।
अनेकवस्तुसङ्कीर्णस्यापक्षत्वन्त्वतत्पदसम्बद्धम् । हिरण्य-
रूपकवासांसि वानेन मत्तो वृद्ध्या गृहीतान्यस्य हस्ते
मया लिक्षिप्तान्यननापहृतानि वेत्येकस्मिन्नपि पदे
युगपदपीदृशपक्षोपन्यासस्यादुष्टत्वात् । साध्यञ्च विधिमुखेन
प्रतिषेधमुखेन वा पक्षनिपणीयमित्याह कात्यायनः
“न्यायं संयच्छते कर्तुमन्यायं वा करोत्ययम् । न
लेखयति यख्येवं तस्य पक्षो न सिद्ध्यति” । न्यायं
समित्यनेन ममैतावद्धनसादाय न ददातीत्यादि प्रतिबन्ध-
मुखताऽपि लक्षिता । अन्यायं वेत्यनेन ममेदमपहर-
तीत्यादि विधिमुखता प्रदर्शिता । वृहस्पतिरपि “प्र-
तिज्ञादोषनिमुंक्तं साध्यं सत्कारणान्वितम् । निश्चितं
लोकसिद्धञ्च पक्ष पक्षविदो विदुः” इति । प्रतिज्ञादोषैः
प्रतिज्ञासन्न्यासादिभिर्मुक्तं रहितम् । ते च दर्शिताः
प्राक । साध्यं साधनार्हम् । सत्कारणान्वितं स्फुट-
टोषरहितहेतुसहितम् । निश्चितं सन्देहाजनकवाक्य-
रश्चनायुशुं न तृ स्ववमेव० निश्चितं विप्रतिपत्तावर्थनि-
श्चयाभावात् । लोकसिद्धं व्यवहारिकधर्माविरुद्धम् ।
अतएव मनुः “सत्या न भाषा भवति यद्यपि स्यात् प्रति-
ष्ठिता । बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात्” ।
प्रतिष्ठिता प्रसिद्धत्वादिदोषनिर्मुक्त । भाषा प्रतिज्ञा व्याव-
हारिकधर्माद्विरुद्धा च सत्या ग्राह्या न भवति राजा-
दीनामित्यर्थः । मवदेवस्तु “यत्र श्रुतमात्र एव सति
लोकानां सम्प्रत्ययस्तल्लोकसिद्धं तेन निर्धनकृतो लक्षादि-
सङ्ख्यधनाक्षेपो न पक्ष इति व्याचक्षौ तद्बाधरूपप्रतिज्ञा-
दीषवत्त्वेनैव तादृशपक्षस्य निराकरणात् । प्रतिज्ञादोष-
निर्मुक्तमित्यनेनैव गतार्थम्” । ततः गहा० भावार्थे छ ।
पूर्बपक्षीय तद्भवे त्रि० ।

पूर्व(र्ब)पद न० कर्म० । पूर्ववर्त्तिनि विभक्त्यन्ते पदे “पूर्व-

पदात् संज्ञायामगः” पा० । २ पूर्बवर्त्तिस्थाने च ।
पूर्बपदमधीते “पूर्बोत्तरपदात्” वार्त्ति० इकन् । पूर्बपदिक
तद्वेत्तरि तदध्यायिनि च ।

पूर्व(र्ब)पर्वत पु० नित्यक० । उदयाचले अमरः ।

पूर्व(र्ब)पाञ्चालक त्रि० पूर्वस्मिन् पञ्चाले मवः बुञ् उत्तर-

पदवृद्धिः । पूर्बपञ्चालभवे । पूर्बं पञ्चालानाम् एकदेशिस०
तत्र भवः अणि तु नोत्तरपदवृद्धिः । पौर्बपञ्चाल इत्येव
सि० कौ० ।

पूर्व(र्ब)पाटलिपुत्रक त्रि० पूर्वपाटलिपुत्रे भवः वुञ् न

पूर्बपदवृद्धिः । पूर्बपाटलिपुत्रनगरभवे ।

पूर्व(र्ब)पाद पु० पूर्वं पादस्य एकदेशिस० । अग्रचरणे कात्या० श्रौ० ४ । ९ । ४

पूर्व(र्ब)पालिन् पु० पूर्वं देशं दिशं वा पालयति पालि--णिनि ।

१ पौरस्त्यदेशपतिनृपभेदे २ पूर्बदिगीशे इन्द्रे च ।

पूर्व(र्ब)पितामह पु० पूर्वः पितामहात् । प्रपितामहे भा० वि० १ अ० ।

पूर्व(र्ब)पीठिका स्त्री कर्म० । कथाग्रन्थावतरणिकाभेदे ।

पूर्व(र्ब)पुरुष पु० कर्म० । पित्रादित्रिके पुरुषे ।

पूर्व(र्ब)पूर्व(र्ब) त्रि० पूर्व + वीप्सायां द्वित्वम् । वीप्सार्थक

पूर्बशब्दार्थे ।

पूर्व(र्ब)फल्गुनी स्त्री अश्विन्यादिषु एकादशे नक्षत्रे । अश्लेषाशब्दे तदीशादि दृश्यम् ।

पूर्व(र्ब)फल्गुनीभव पु० पूर्व(र्ब)फलगुन्यां भवति भू--अच् ।

वृहस्पतौ शब्दमाला ।

पूर्व(र्ब)भ(भा)द्रपदा स्त्री भद्रस्य वृषस्येव पदं चरणमस्य

तस्येदमण् वा कर्म० । अश्विन्यादिषु पञ्चविंशतितमनक्षत्रे
तत्स्वरूपादिकं अश्लेषाशब्दे उक्तम् ।

पूर्व(र्ब)भाव पु० पूर्बो भावः । १ पूर्ववर्त्तित्वे कारणत्वे “येन

सह पूर्बभावः कारणमाद्राय वा यस्य” भाषा० कुर्म० ।
२ पूर्बवर्त्तिनि भावे पदार्थधर्मभेदे शृङ्गाररसंस्य पूर्ब-
रागापरपर्य्योय ३ भावभेदे ।
पृष्ठ ४४१०

पूर्व(र्ब)भाविन् त्रि० पूबं भवति भू--णिनि । १ कारणे

२ पूर्ववर्तिनि पदार्थमात्रे च सां० सू० १ ७५ ।

पूर्व(र्ब)यक्ष पु० नित्यक० । मणिभद्रादौ जिनोत्तमे त्रिका

पूर्व(र्ब)रङ्ग पु० पूर्वं रज्यतेऽस्मिन् रज--आधारे घञ । “यन्नाट्य

वस्तुनः पूर्बं रङ्गविघ्नोपशान्तये । कुशीलयाः प्रकवन्ति
पूर्व(र्ब)रङ्गः स उच्यते” दशरूपकोक्ते नान्दीपाठादौ ।

पूर्व(र्ब)राग पु० पूर्बो रागः । नायकयोर्मेलनात् पूर्वजाते

अनुरागभेदे “श्रवणाद्दर्शनाद् वापि मिथःसंरूढ़
रागयोः । दशाविशेषो योऽप्राप्तौ पूर्बरागः स उच्यते ।
श्रवणन्तु भवेत्तत्र दूतवन्दिसखीमुखात् । इन्द्रजाले
च चित्रे च साक्षात् स्वप्ने च दर्शनम् । अभिलाषश्चिन्ता
स्मृतिगुणकथनोद्वेगसंप्रलापाश्च । उन्मादोऽथ व्याधि-
र्जड़ता मृतिरिति दशात्र कामदशाः । अभिलाषः स्पृहा
चिन्ता प्राप्त्युपार्यादिचिन्तनम् । उन्मादश्चापरिच्छेद-
श्चेतनाचेतनेष्वपि । अलक्ष्यवाक् प्रलापः स्यात् चेतसो
भ्रमणाद्भृशम् । व्याधिस्तु दीर्घनिःश्वासः पाण्डुताकृश-
तादयः । जड़ता हीनचेष्टत्वमङ्गानां मनसस्तथा ।
रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते । जातप्रायन्तु तद्वाच्यं
चेतसा चापि काङ्क्षितम् । “वर्ण्यतेऽपि यदि प्रत्युज्जी-
वनं स्याददूरतः” । “आदौ वाच्यः स्त्रिया रागः पुंसः
पश्चात्तदिङ्गितैः । नीलीकुसुम्भमञ्चिष्ठाः पूर्बरागोऽपि च
त्रिधा । न चातिशोभते यन्नापैति प्रेम मनोगतम् ।
तन्नीलीरागमाख्यान्ति यथा श्रीरामसीतयोः । कुसुम्भ-
रागं तं प्राहुर्यदपैति च शोभते । मञ्जिष्ठारागमाहुस्तं
यन्नापैत्यतिशोभते” सा० द० ।

पूर्व(र्ब)रात्र पु० पूर्वं रात्रेः एकदेशिस० अच्समा० रात्रान्त

त्वात् पुंस्त्वम् । रात्रेः पूर्बभाग्ये ।

पूर्व(र्ब)रूप न० कर्म० । अर्थालङ्कारभेदे अलङ्कारशब्दे ४०० पृ०

दृश्यम् । भविष्यद्रोगस्य प्राग्जातरूपे तस्य लक्षणविशेषो
भाविरोगलणत्वं चोक्तं यथा
“प्राग्रूपं येन लक्ष्यते । उत्पित्सुरामयो दोषविशेषे-
णानधिष्ठितः । लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथा-
यथम् । द्विविधं हि पूर्बरूपं भवति सामान्यं विशिष्टञ्च
सामान्यं येन दोषदुष्यसंमूर्च्छनावस्थाजनितेत भावि-
सवराद व्याधिमत्रं प्रतीयते न तु वातादिजनित-
त्वादिविशेषा । यथा “श्रमोरतिर्विवर्णत्वमिति” । तथा
बालगुरुवाक्यप्रद्वेषादि । सामान्याभिप्रायेणैव तन्त्रा-
न्तर यथा “व्याधेर्जातिर्बुभूषा च पूर्वरूपेण लक्ष्यते ।
भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन तु” इति । तथाह
पराशरः “पूर्वरूपं नाम येन भाविव्याधिविशेषो लक्ष्यते
न तु दोषविशेषः” इति । विशिष्टं यथा उरःक्षता-
दौ लिङ्गान्येव वातादिजान्यव्यक्तानि । यदुक्तं तत्रैव
“अव्यक्तं लक्षणं तेषां पूर्बरूपमिति स्मृतिः” । तथाह
सुश्रुतः “सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् ।
पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनमिति” ।
हारीतेनाप्युक्तम् “इति पूर्बरूपमष्टानां ज्वाराणां सामान्यतो
विशेषात्तु जृम्भाङ्गमर्द्दभूयिष्ठं हृदयोद्वेगि वातजमिति” ।
प्राग्रूपं येन लक्ष्यते इत्यस्यार्थमाह रक्षितः “येन श्रमा-
दिना उत्पित्सुः सामग्रीसाकल्यादुत्पादेच्छुरामयो
रोगः दोषविशेषेण वातादिजन्यासाधारणवेपव्यादिना
अनधिष्ठितोऽसम्बद्धो लक्ष्यते ज्ञायते तत् प्राग्रूपमिति” ।
लिङ्गमव्यक्तमल्पत्वादित्यस्यार्थमाह स एव “प्राग्र्प-
मित्यनेन पूर्वोक्तेन सम्बन्धि लिङ्गं लक्षणम् अव्यक्तं नात्य-
भिव्यक्तं तत्र हेतुरल्पत्वात् नत्वावरणादियोगादव्यक्तत्व-
मित्यर्थः । अन्ये तु पूर्वरूपलक्षणमाहुः “स्थानसंश्रियणः
क्रुद्धा भाविव्याधिप्रबोधनम् । दोषाः कुर्वन्ति यल्लिङ्गं
पूर्वरूपं तदुच्यते” इति । संक्षेपतस्तु लक्षणं भाविव्याधि-
बोधकमेव लिङ्गं पूर्वरूपम्” इति माधवकरुविजय-
रक्षितौ ।

पूर्व(र्ब)वत् अव्य० पूर्वस्येव पूर्वेण तुल्यं वा क्रियावति । १

पूर्वेण तुल्यक्रियान्वितभेदे पूर्वस्य २ तुल्ये च । पूर्वं कारणं
विषयतयास्त्यस्य मतुप् मस्य वः । ३ कारणेन कार्य्या-
नुमाने न० । “अथ तत्पूर्वकं त्रिविधमनुमानं पूर्व-
च्छेषवत्सामान्यतोदृष्टञ्च” गौत० सू० । “पूर्वं कारणं
तद्वत् कारणलिङ्गकम् यथा मेघोन्नतिविशेषेण कार्य्यानु-
मानमिति” गौत० वृत्तिः । “तत्रैकं दृष्टस्वलक्षणसामान्य-
विषयं यत् तत् पूर्ववत्, पूर्वं प्रसिद्धं दृष्टस्वलक्षणसा-
मान्यमिति यावत् तदस्य विषयत्वेनास्त्यनुमानज्ञान-
स्येति पूर्ववत् यथा धूमाद्वह्नित्वसामान्यविशेष पर्वते-
ऽनुमीयते तस्य च वह्रिसामान्थविशेषस्य स्वलक्षणो
वह्निविशेषो दृष्टो रसवत्याम्” सां० त० कौ० ।

पूर्व(र्ब)वयस् त्रि० पूर्वं वयः कालावस्थाभेदोऽस्य । १ वाल्या-

वस्थान्विते । कर्म० । २ वाल्यावस्थायाम् न० । वेदे बा०
अच्समा० । पूर्ववयस वाल्यवयसि न० । शत० ब्रा० १२ । २ । ३ । ४
पृष्ठ ४४११

पूर्व(र्ब)वर्त्तिन् त्रि० पूर्वं वर्त्तते वृत--णिनि । अन्यथा-

सिद्धिशून्ये १ प्राग्वर्त्तिनि कारणे २ प्राग्वर्त्तिमात्रे च त्रि० ।

पूर्व(र्व)वाद पु० पूर्वो वादः । व्यवहारे प्रथमावेदने पक्षभाषा-

ऽपरपर्य्याये पूर्वपक्षवादे । “पूर्ववादं परित्यज्य योऽन्य-
मालम्बते पुनः । पदसंक्रमणात् ज्ञेयो हीनवादी स वै
नरः” मिताक्षरा ।

पूर्व(र्ब)वादिन् त्रि० पूर्वं वदति बद--णिनि । षूर्ववादकारके

व्यवहारे प्रथमावेदनकर्त्तरि अर्थिनि । “मिथ्योक्तौ पूर्व-
वादी तु प्रतिपत्तौ न सा भवेत्” । “मिथ्योत्तरे पूर्ववादी
कारणे प्रतिवादिनि च” मिता० ।

पूर्व(र्ब)वार्षिक त्रि० पूर्बं वर्षाणाम् एकदेशिस० ततः “कालात्

ठञ्” पा० ठञ् “अवयवादृतोः” पा० उत्तरपदवृद्धिः ।
वर्षाणां पूर्वभागभवे अवयवादित्युक्तेः षूर्बासु वर्षासु भवः
इत्यर्थे ठञि पूर्वपदवृद्धिः पौर्ववर्षिक इत्येव सि० कौ० ।

पूर्व(र्ब)वाह् पु० पूर्वे वयसि वहति वह--ण्वि ७ त० । पूर्व-

वयसि वाहके शत० ब्रा० २ । १ ।४ । १७ ।

पूर्व(र्ब)वृत्त न० पूर्वं वृत्तम् । कर्म० । प्राचीने वृत्ते इतिहामे ।

पूर्व(र्ब)शारद त्रि० पूर्बं शरदः एकदेशिस० । तत्र भवः ऋत्वण्

“अवयवादृतोः” पा० उत्तरषदवृद्धिः । शरदः पूर्वभवे ।

पूर्व(र्ब)शैल पु० कर्म० । उदयाचले जटा० । पूर्वाचलादयोऽप्यत्र ।

पूर्व(र्ब)शक्थ न० पूर्वं शक्थ्नः एकदेशिस० अच्समा० । शक्थ्नः

पूर्वभागे ।

पूर्व(र्ब)समुद्र पु० कर्म० । पूर्ववर्त्तिनि समुद्रे पूर्वसागरादयोऽप्यत्र ।

पूर्व(र्ब)सर त्रि० पूर्बः सन् सरति कर्तरि उप पदे एव

सृ + ट उप० स० । पूर्वाभूयगामिनि स्त्रियां ङीप् ।
अन्यत्र पूर्बं सरतीति वाक्ये अण् पूर्वसार अग्र-
गामिनि त्रि० ।

पूर्वा(र्बा)तिथि पु० गोत्रप्रवरर्षिभेदे ।

पूर्वा(र्बा)दि पु० पूर्वः आदिर्यस्य । व्यवस्थायामसंज्ञायां सर्व-

नामकर्मनिमित्ते १ शब्दगणे स च गणः “पूर्व पर अवर
दक्षिण उत्तर अपर स्व--अन्तर । “पूर्वादिभ्यो नवभ्यो वा” पा०
पूर्वे पूर्वा इत्यादि । पूर्वा आदिर्यख्याः । २ पूर्वादिककुमि स्त्री

पूर्वा(र्बा)निलः पु० कर्म० । पूर्वदिक्स्थवायौ तद्गुणाश्च

“पूर्वस्तु मधुरो वातः स्निग्धः कटरसान्वितः । गुरुर्बिदाह
शमनो वातदः पित्तनाशनः” राजनि० । “प्राग्वातो
मधुरः क्षारो वह्निमान्द्यकरो गुरुः । वैरस्यगौरवौ-
ष्ण्यानि करोत्यप्स्वोषधीषु च । भग्नोत्पिष्टक्षताद्येषु
रागश्वयथुदाहकृत् । सन्निपातज्वरश्वासत्वग्दोषार्शो
विषक्रिमीन् । कोपयेदामवातञ्च घनसंथातकारणम्”
राजवल्लभः ।

पूर्वा(र्बा)नुयोग पु० दृष्टिवादभेदे “प्रतिकर्मसूत्रपूर्वानुयोत

पूर्वगतचूलिकाः । पञ्च स्युर्दृष्टिःवादभेदाः” हेम० ।

पूर्वा(र्बा)पर त्रि० द्वन्द्व० । पूर्बस्मिन् अपरस्मिन् च देशे

तयोर्भावः ष्यञ् । पौर्वापर्व्य तद्भावे न० । क्वचिन्न पूर्वपद
वृद्धिः । पूर्वापर्य्य तत्रार्थे न० ।

पूर्वा(र्बा)पहाना स्त्री पूर्वमपहीयते अप--हा--कर्मणि ल्युट्

अजा० टाप् । पूर्वापहानकर्मणि अजादिगणः ।

पूर्वा(र्बा)र्द्ध्य त्रि० पूर्वार्द्धे भवः पक्षे यत् । पूर्वार्द्धभवे ।

पक्षे ठञ् । पौर्वा(र्बा)र्द्धिक तत्रार्थे त्रि० ।

पूर्वा(र्बा)षाढ़ा स्त्री कर्म० । अश्विन्यादिषु विंशे नक्षत्रे

तत्स्वरूपादिकमश्लेषाशब्दे उक्तम् ।

पूर्वा(र्बा)ह्ण पु० पूर्वमह्नः एकदेशिस० टच्समा० अह्नादेशः

“रात्राहाह्नान्ताः पुंसि” पा० पुंस्त्वम् । दिनस्य पूर्वभागे
पूर्वाह्णश्च त्रिधा विभक्तदिनस्य प्रथमभागः । “पूर्वाह्णो वै
देवानां मध्याह्नो मनुष्याणामिति” श्रुतिः । अह्नः प्रथम-
प्रहरद्वयकालश्च । “आवर्त्तनात्तु पूर्वाह्णो ह्यपराह्णस्ततः
परम्” स्कन्दपु० । “आवर्त्तनात् पश्चिमदिग्वर्त्तिच्छायायाः
परिवर्त्तनम्” । अतएव “अश्वत्थं वन्दयेन्नित्यं पूर्वाह्णे
प्रहरद्वेये” मल० त० ।

पूर्वा(र्बा)ह्ण(ह्णे)तन त्रि० पूर्वाह्ने काले भवः ट्यु तुट् च

“कालतनेति” सप्तघम्यानलुक् । १ पूर्वाह्णभवे स्त्रियां ङीप् ।
पूर्वाह्णः सोढोऽस्य इति विग्रहे तु पूर्वाह्णतन इत्येव ।
२ पूर्वाह्णसहनकर्त्तरि त्रि० ।

पूर्वा(र्बा)ह्णिक त्रि० पूर्वाह्णः साधनतयाऽस्तस्य टन् पूर्वाह्ण-

साध्ये कर्मणिं । “दैवं पूर्वाह्णिकं कुर्य्यादपराह्णे तु
पैतृकम्” भा० आ० २३ अ० ।

पूर्वि(र्बि)न् त्रि० पूर्वं कृतमनेन “पूर्वादिनिः” पा० इनि । १ पूर्बं

क्रियाकारके । वेदे तु “पूर्षैः कृतमिनयौ च” पा० इन ।
पूर्विण पूर्पैः कृते “आयान्तु नः पितरः सोम्यासो गम्भी-
रेभिः पथिभिः पूर्विणेभिः” पित्रावाहनमन्त्रः । छान्दसी
रूपसिद्धिः ।

पूर्वे(र्बे)द्युम् अव्य० पूर्वस्मिन् अहनि पूर्ब(र्व) + एद्युस् । पूर्वस्मिन् दिने इत्यर्थे ।

पूर्वे(र्बे)षुकामशमी स्त्री कर्म० । पूर्वदग्वर्त्तिनगरोभेदे

अन्तोदात्तताऽस्य । पूर्पेषुकामशम्यां भावः अण् उत्तरपद-
वृद्धिः पूर्वैषुकामशम तद्भवे त्रि० ।

पूर्वो(र्बो)त्तरा स्त्री पूर्वस्याः उत्तरस्याश्चान्तराला दिक ब० व० । ईशानकोणे विदिशि ।

पृष्ठ ४४१२

पूर्व्य(र्व्य) त्रि० पूर्वैः कृतम् “पूर्वैः कृतमिनयौ” पा० पक्षे

य । पूर्वैः कृते पुराणे निघण्टुः ।

पूल संहतौ (राशीकरणे) वा चु० उभ० पक्षे भ्वा० पर० सक०

सेट् । पूलयति ते पूलति । अपूपुलत् त अपूलीत् ।

पूलक पु० पूल--ण्वुल् । १ तृणादेस्तूपे २ धान्यतृणादिसुष्टौ

कात्या० श्रौ० २२ । ३ । ३० ।

पूलाक पु० पुलाक + पृषो० । तुच्छधान्ये । तस्य विकारः

अवयवो वा पलाशा० अञ् । पौलाक तदवयवे तस्य
विकारे च त्रि० ।

पूलास त्रि० पूल--राशीकरणे घञ् तमस्यति अस--क्षेपे अण् ।

तृणादिस्तूपविक्षेपके तेन निर्वृत्तम् सङ्कला० अण् ।
पौलास तन्निर्वृत्ते त्रि० ।

पूलासककुण्ड न० कुण्डस्य पूलासकः राजद० परनि० ।

कुण्डस्य तृणादेर्निरासके ।

पूलिका स्त्री पूरिका + रस्य लः । पूपभेदे हेमच० ।

पूष वृद्धौ अक० भ्वा० पर० सेट् । पूषति अपूषीत् । पुपूष ।

पूष पु० पूष--वृद्धौ क । ब्रह्मदारुवृक्षे (तुत) अमरः ।

पूषक पु० पूष--ण्वुल् । ब्रह्मदारुवृक्षे राजनि० ।

पूषणा स्त्री पूष--ल्यु । कुमारानुचरमातृभेदे भा० शा० ४७ अ० ।

पूष्णः पृथिव्याः इदम् अण् वेदे न वृद्धिः नोपधा
लोपः । पार्थिवे पदार्थे त्रि० ऋ० १० । ५ । ५ ।

पूषदन्तहर पु० पूष्णः सूर्य्यभेदस्य दन्तं हरति हृ--अच ।

दक्षयज्ञकाले पूष्णो दन्तोत्पाटके शिवांशे वीरभद्रे
अदन्तशब्दे ११३ पृ० दृश्यम् ।

पूषध्र पु० वैवश्वतमनोः पुत्रभेदे । मार्कपु० १११ अ० ।

पूषन् पु० पूष--कनिन् । १ सूर्य्ये आदित्यभेदे भा० आ० ६ श्लो०

ङौ तु पूष्णि पूषणि पूषि । २ पृथिव्यां स्त्री निघण्टुः ।
पूषणा शब्देदृश्यम् । अयमन्तोदात्तः । स्वार्थे क । तत्रार्थे ।
पूषा अस्त्यस्य मतुप् वेदे नुट् णत्वम् । पूषण्वत् सूर्य्य-
युक्ते पृथिवीयुक्ते च त्रि० । ऋ० १ । ८२ । ६ । भा०

पूषभासा स्त्री पूषेव भासते भास--अच् । इन्द्रनगर्य्यां जटाध० ।

पूषराति पु० पूषा तदाख्यो देवो रातिर्दाता यस्य । सूर्य्यदेये

वस्तुनि ऋ० १ । २३ । ८ ।

पूषात्मज पु० ६ त० । १ मेघे २ इन्द्रे देवे च । “आदित्या-

ज्जायते वृष्टिरित्युक्तेर्वृष्ट्यधिपमेधस्य आदित्याज्जाय-
मानत्वात् तथात्वम् । “वृष्टिम् पूषानुजो यथा” भा०
व० २० अ० । तत्र पूषात्मजेति पाठान्तरं वृष्ट्यधिपस्य
मेघस्य सूर्य्याज्जातत्वात् तथात्वम् ।

पूषासुहृत् पु० ६ त० । शिवे तस्म खांशवीरभद्रेण पूष

दन्तीत्पाटनात् तथात्वम् । अदन्तशब्दे दृश्यम् ।

पृ व्यापारे तु० आत्म० अक० अनिट् प्रायेणायम् व्याङ्पूर्वः ।

व्याप्रियते व्यापृत । व्यापप्रिये । व्याप्रियते । व्यापृतः
व्यापारः ।

पृ प्रीतौ अक० प्रीणने सक० स्वा० षर० अनिट् । पृणोति अपार्षीत् । पपार ।

पृ पालने पूरणे च जुहो० पर० सक० अनिट् वा दीर्धे सेट् ।

पिपर्त्ति पिपृतः पिपूर्त्तः । अषार्षीत्--अपारीत् । पपार
पप्रतुः पपरतुः । पूर्णः ।

पृ पर्त्तौ चु० उभ० सक० सेट् । पारयति ते--अपीपरत्--त ।

पृक्का स्त्री पृच--कन् न्यड्क्वा० कुत्वम् । (पिड़िङ्)

शाकभेदे रत्नमाला ।

पृक्त त्रि० पृच--क्त । १ सम्बन्धे २ धने न० हेमच० ।

पृक्ति स्त्री पृच--भावे क्तिन् । १ सम्पर्के २ स्पर्शे च अमरः ।

पृक्षस् पु० पृच--वा० असि सुट् च । अन्ने निघण्टुः । ऋ०

३ । ७ । १० ।

पृक्षे अव्य० पृच--वा० क्मे । संग्रामे निघण्टुः ऋ० १ । ६३ । ३

पृक्षुध् स्त्री प्र + क्षुध्--क्विप् वेदे वा० प्रस्य सम्प्रधारणम् ।

प्रकृष्टक्षुधायाम् ऋ० १ । १४१ । ४ ।

पृच सम्पर्के अदा० आत्म० अक० सेट् । पृक्ते अपर्चिष्ट । पपुचे ईदित् । पृक्णः ।

पृच संयमने सक० सम्पर्के अक० चु० उभ० पक्षे भ्वा० पर० सेट् ।

पचंयति--ते पर्चति । अपीपृचत्--त अपपर्चत्--त
अपर्चीत् ।

पृच्छा स्त्री प्रच्छ--अङ् संप्रसारणम् । प्रश्ने १ ज्ञातुमिच्छया कथनाय प्रेरणे अमरः ।

पृच्छ्य त्रि० प्रच्छ--बा० कर्मणि क्यप् सम्प्र० । जिज्ञास्ये ।

पृज सम्पर्के, अदा० आ० अक० सेट् । पृक्ते अपर्जिष्ट ।

ईदित् पृग्णः ।

पृड हर्षे तु० पर० अक० सेट् । पृडति । अपर्डिष्ट पपृडे ।

पृण तर्पणे तु० पर० सक० सेट । पृणति अपर्णीत् । पपर्ण ।

पृत् स्त्री पृ--पालने क्विप् । सेनायाम् ऋ० २ । २७ । १५ ।

पृतना स्त्री पृ--तनन्--किच्च । १ सेनायाम् २ सङ्ख्याविशेषान्वित-

रथहस्त्यश्वादिसैन्यभेदे च (रथाः २४३ गजाः २४३
अश्वाः ७२९ पदातयः १३१५) । अमरः । अनीकिनी
शब्दे १६९ पृ० रथादिसंख्या दृश्या । ३ संग्रामे
४ मनुष्ये च भिघण्टुः ।

पृतनाज्य न० संग्रामे निषण्टुः । “पृतनानामजनाद्वा

पृतनाज्यं जयनाद्वा” निरु० ९ । २४ ।

पृतनासाह् पु० पृतनां सहते सह--ण्व । इन्द्रे त्रिका० ।

अस्य झलि पदान्ते च सस्य षत्वम् । पृतनाषाट् अन्यत्र
न षत्वम् पृतनासाहम् इत्यादि ।
पृष्ठ ४४१३

पृत्सुध पु० पृत्सु धीयते धा--कर्मणि धञर्थे क अलुक्स० ।

१ संग्रामे निघण्टौ पाठान्तरम् ।

पृथ प्रक्षेपे चुरा० उभ० सक० सेट् । पार्थयति--ते अपीपृथत् त

अपपर्थत्--त ।

पृथक् अव्य० पृथ--वा० ककि । १ भिन्ने २ नानारूपे ३ विनार्थे च । अमरः ।

पृथक्त्व न० पृथक् इत्यस्य भावः त्व । वैशेषिकोक्ते पृथक्त्व-

वुद्धिसम्पादके गुणभेदे । तत्परीक्षा च कणा० सू०
वृत्त्यार्दर्शिता यथा “तथा पृथक्त्वम्” सू० ।
“एकत्वतुल्यतयैकपृथकत्वमपि साधयितुमाह अपोद्धार
व्यवहारस्तावदस्ति इदमस्मात् पृथगन्यदर्थान्तरमित्याकारः
अपवृज्यावधिमपेक्ष्य य उद्धारो निर्द्धारणं सह्यपोद्धारः
तत्र च न रूपादि तन्त्रं व्यभिचारादवध्यनिरूप्यत्वाच्च ।
नन्वन्योन्याभाव एव पृथकत्वम् इदमस्मात् पृथगन्य-
दर्थान्तरमितिवद्भिन्नमिति प्रतीतेरन्योन्याभावावलम्बन-
त्वात्, न, पृथगादिशब्दानां पर्य्यायत्वेऽपि नान्योन्याभावा-
र्थत्वं तत्र पञ्चमीप्रयोगानुपपत्तेः इदमस्मात् पृथक्
इदमिदं न भवतीति प्रतीत्योर्भिन्नविषयत्वात्, न चान्योन्या-
भाबवानर्थः पृथक्त्वम् अथटः पट इत्यत्रापि पञ्चमी
प्रयोगापत्तेः । ननु पृथगिति विशिष्ट इति प्रतीत्यो-
ऐकाकारत्वाद्वैशिष्ट्यमेव पृथक्त्वमिति चेन्न मैत्रस्य दण्ड-
वैशिष्ट्यदशायां मैत्रात् पृथगयं मैत्र इत्यपि प्रतीत्या-
पत्तेः । एवं शब्दविशिष्टे व्योम्नि बुद्धिविशिष्टे चात्मनि
पृथक्त्वव्यवहारापत्तेः । अतएव वैधर्म्यमपि न पृथक्त्वं
पाकरक्ते घटे श्यामाद्घटात् पृथगयं घट इति व्यव-
हारापत्तेः तद्विरोधिधर्मवत्त्वमेव हि तद्वैधर्म्यं तच्च
श्यामानन्तरं रक्ततादशायामपि । न च सामान्यमेव
पृथक्त्वं सामान्यस्यावध्यनिरूप्यत्वात् जातिसङ्करप्रसङ्गाच्च ।
सन्मात्रवृत्तित्वे सत्तया, द्रव्यमात्रवृत्तित्वे द्रव्यत्वेनान्यूना-
नतिरिक्तवृत्तित्वापत्तेः” वृत्तिः । “एकत्वैकपृथक्त्वयोरेक
त्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः” क० सू० ।
“नन्वेकमेकत्वं रूपादिभ्यः पृथक्पृथकत्वमिति व्यव-
हारादेकत्वेऽप्येकत्वं पृथक्त्वेऽपि पृथकत्वमेवं तत्र तत्रा-
पीत्यत आह यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती
तद्व्यवहारस्तत्र भाक्तस्तथैकत्वैकपृथक्त्वे नैकत्वैकपृथक्-
त्ववती तद्व्यवहारस्तत्र भाक्त इत्यर्थः । कर्मभिः कर्माणि
गुणैगुणाः इत्यपि दृष्टान्तसूत्रद्वयं पूर्वदृष्टान्तसूत्रेणैक-
वाक्यतापन्नमेवात्र भासते यथा कर्माणि न कर्मवन्ति
गुणाश्च न गुणवन्तस्तथैकत्वैकपृथकत्वे न तद्वती
इत्यर्थः” वृत्तिः ।

पृथक्त्वचा स्त्री पृथक् त्वचा यस्याः । मूर्वायाम् । रत्रमा०

पृथक्पर्णी स्त्री पृथक् पर्णान्यस्याः ङीप् । (चाकुलिया)

क्षुपभेदे अमरः ।

पृथक्क्षेत्र पु० पृथक् भिन्नं क्षेत्रमुत्पत्तिस्थानमस्य । एकस्मात्

पितुर्विभिन्नमातृजाते पुत्रे मिता० ।

पृथगात्मता स्त्री पृथक् आत्मा स्वरूपं यस्य तस्य भावः तल् । १ भेदे २ विशेषे ।

पृथगात्मिका स्त्री पृथक् आत्मा स्वरूपं यस्याः कप् नलोपे

कापि अत इत्त्वम् । व्यक्तौ । वह्नित्वेनैकरूपाणामपि
वह्नीनां महानसीयत्वादिरूपेण तेषां स्वरूपभेदात् तथात्वम् ।

पृथग्जन पु० पृथक् भिन्नो जनो महाजनो यस्मात् । १ नीचे

२ मूर्खे ३ पामरे च अमरः ।

पृथग्विध त्रि० पृथक् भिन्ना विधा यस्य । नानारूपे अमरः ।

पृथग्बीज पु० पृथक् बीजान्यस्य । भल्लातकवृक्षे (भेला) राजनि०

पृथा स्त्री कुन्तिभोजकन्यायाम् कुन्त्याम् जटाधरः ।

पृथाज पु० पृथायां जायते जन--ड ७ त० । १ युधिष्ठिरादौ

कुन्तीपुत्रे २ अर्जुनवृक्षे राजनि० ।

पृथापति पु० ६ त० । पाण्डुराजे त्रिका० ।

पृथिका स्त्री पृप्रथघञर्थे--क स्वार्थे क शतपद्याम् अत इत्त्वम् ।

शतपद्याम् शब्दमाला ।

पृथिन् पु० प्रथ-वा० किनि संप्र० । वेनपुत्रे पृथुनामके नृपे

“पृथी ह वे वैन्यो मनुष्याणां प्रथमोऽभिषिषेचे” शत० व्रा० ५ । ३
५ । ४ “पृथी यद्वां वैन्यः” ऋ० ८ । ९ । १० “लोकेऽस्य पृथुसंज्ञा” ।

पृथ(थि)(वि)वी स्त्री प्रथते विस्वारमेति प्रथ-षिवन् (षवन्)

वा नि० संप्रसारणं षित्त्वात् ङीष् पृषो० वा ह्रस्वः ।
धरायाम् क्षितौ तद्गुणादिकं यथा
“रूपद्रवत्वप्रत्यक्षयोगि स्यात् प्रथमत्रिकम् । गुरुणी द्वे
रसवती द्वयोर्नैमित्तिकोद्रवः । स्पर्शादयोऽष्टौ वेगश्च
द्रव्यत्वञ्च गुरुत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते
चतुर्दश । स्नेहहीना गन्धयुता क्षितावेते चतुर्दश” ।
“तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता । षड्विधस्तु
रसस्तव गन्धोऽपि द्विविधो मतः । स्पर्शस्तु तस्या
विज्ञेयो ह्यनुष्णाशीतपाकजः । नित्या नित्या च सा द्वेधा
नित्या स्यादणुलक्षणा । अनित्या तु तदन्या स्यात् सैवा-
वयवयोगिनी । सा च त्रिधा भवेद्देह इन्द्रियं विषय-
स्तथा । योनिजादिर्भवेद्देहमिन्द्रियं घ्राणलक्षणम् ।
पृष्ठ ४४१४
विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः” भाषाप० ।
तस्या अध्यात्मादिभेदा यथा “पृथिवी पञ्चभं भूतं घ्राणञ्चा-
ध्यात्ममुच्यते । अधिभूतं तथा गन्घो वायुस्तत्राधिदैवतम्”
मा० आश्व० ४२ अ० । तस्या उत्पत्तिकारणं यथा “श्रूयतां
वसुधाजन्म सर्वमङ्गलकारणम् । विघ्नविघ्नकरं
पापनाशनं पुण्यवर्द्धनम् । अहो केचिद्वदन्तीति मधुकैटभ-
मेदसा । वभूब वसुधा जन्म तद्विरुद्धमतं शृणु ।
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां जहि
न यत्रोर्वी पाथसा संवृतेति च । तयोर्जीवनकाले च
प्रत्यक्षा साऽभवत् स्फुटम् । ततो बभूव मेदश्च मरणस्यान्त-
रन्तयोः । मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ।
जलौता कृशा पूर्वं वर्द्धिता मेदसा यतः । कथयामि
च तज्जन्म सार्थकं सर्वसम्मतम् । पुरा श्रुतं यत् श्रुत्युक्तं
धर्मवक्त्राच्च पुष्करे । महाविराट् शरीरस्य जलस्थस्य
चिरं स्फुटम् । मलो बभूव कालेन सर्वाङ्गव्यापको
ध्रुवम् । स च प्रविष्टः सर्वेषां तल्लोम्नां विवरेषु च ।
“कालेन महता तस्माद्बभूव वसुधा मुने! । प्रत्येकं”
प्रतिलोम्नाञ्च कूपेषु सा स्थिरा स्थिता । आविर्भूता
तिरोभूता सा जले च पुनःपुनः । आविर्भूता सृष्टि-
काले तज्जलोपर्य्यवस्थिता । प्रलये च तिरोभूता
जलाभ्यन्तरवस्थिता । प्रतिविश्वेषु वसुधा शैलकानन-
संयुता । सप्तसागरसंयुक्ता सप्तद्वीपयुता सती ।
हिमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता । ब्रह्मविष्णुशिवा-
द्यैश्च सुरैर्लोकैस्तदालये । पुण्यतीर्थसमायुक्ता पुण्यभा-
रतसंयुता । पातालसप्त तदधस्तदूर्द्ध्वे ब्रह्मलोककः ।
ब्रह्मलोकश्च तत्रैव सर्वविश्वञ्च तत्र वै । एवं सर्वाणि
विश्वानि पृथिव्यां निर्मितानि च । ऊर्द्ध्वौ गोलोक-
वैकुण्टौ नित्यौ विश्वपरौ च तौ । नश्वराणि च
विश्वानि सर्वाणि कृत्रिमाणि च । प्रलये प्राकृते ब्रह्मन्!
ब्रह्मणश्च निप्रातने । महाविराड़ादिसृष्टौ सृष्टेः
कृष्णेन चात्मना । नित्यैः स्थिता च प्रलये काष्ठाकाशे-
श्वरैः सह । क्षित्याधिष्ठाषदेवी सा वाराहे पूर्जिता
सुरैः । मुनिभिर्मुनिभिर्विप्रैपन्धर्वादिभिरेव च ।
विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता । तत्पुत्रो
मङ्गलो ज्ञेयो घण्टेशो मङ्गलात्मजः । भवनं यत्र
सर्वेषां भूर्भूमिस्तेन कीर्त्तिता । वसुरत्नं या दधाति
बसुधा सा वसुन्धरा । हरेरूरौ च या जाता सा चोर्वी
परिकीर्त्तिता । धरा धरित्री धरणी सर्वेपां धारणात्तु
या । इज्याथ यागाधाराच्च क्षौणी क्षीणा लये च या ।
महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता । काश्यपी
कश्यपस्येयमचला स्थिररूपतः । विश्वम्भरा तद्धरणा-
च्चानन्तानन्तरूपतः । पृथिवी पृधुकन्यात्वाद्विस्तृतत्वान्
महामुने!” ब्रह्मवै० प्र० स्व ७ अ० ।
तस्याः सर्वंसहत्वेऽपि केषाञ्चित् भारासहनकथा यथा
“कृष्णमक्तिविहीना ये ये च तद्भक्तनिन्दकाः । तेषां
महापातकिनामशक्ता भारवाहने । स्वधर्माचारहोना ये
नित्यकृत्यविवर्जिताः । श्रद्धाहीनाश्च वेदेषु तेषां भारेण
पीड़िता । पितृमातृगुरुस्त्रीणां पोषणं पुत्रपोष्ययोः ।
ये न कुर्वन्ति तेषाञ्च न शक्ता भारवाहने । ये मिथ्या-
वादिनस्तात! दयासत्यविहीनकाः । निन्दका गुरुदाराणां
तेषां भारेण पीड़िता । मित्रद्रोही कृतघ्नश्च मिथ्या-
साक्ष्यप्रदायकः । विश्वासघ्नः स्थाप्यहारी तेषां भारेण
पीड़िता । कल्याणयुक्तनामानि हरेर्नामैकमङ्गलम् ।
कुर्वन्ति विक्रयं ये वै तेषां भारेण पीडिता ।
जीवघाती गुरुद्रोही ग्रामयाजी च लुब्धकः । शवदाही
शूद्रभोजी तेषां भारेण पीड़िता । पूजायज्ञोपवासादि
व्रतानि नियमानि च । ये ये मूढ़ा विहन्तारस्तेषां
भारेण पीडिता । सदा द्विषन्ति ये पापा नोविप्र
सुरवैष्णवान् । हरिं हरिकथां भक्तिं तेषां भारेण
पीड़िता । शङ्खादीनाञ्च भारेण पीड़िताऽहं यथा विधे! ।
ततोऽधिकेन दैत्यानां तेषां भारेण पीड़िता” ब्रह्मवैपु०
जन्मख० ४ अ० ।

पृथिवीक्षित् पु० क्षि--ऐश्वर्य्ये क्विप् ६ त० । भूमीशे नृपे ।

पृथिवीञ्जय पु० पृथिवीं जयति जि--वा० खश् मुम् च

दानवभेदे हरिवं० २३२ अ० ।

पृथिवीतीर्थ न० तीर्थभेदे भा० वन० ८३ अ० ।

पृथिवीपति पु० ६ त० । १ भूमिपतौ राजनि २

ऋषभनामोषधौ च मेदि० । ३ यमे हेम० । पृथिवीनाथा-
दयोऽपि राजनि ।

पृथिवीपाल पु० पृथिवीं पालयति पालि--अण् उप० स० ।

भूमिपाले । ण्वुल् । पृथिवीपालक तत्रार्थे पु० ।

पृथिवीभुज् पु० पृथिवीं भुनक्ति अवति भुज अवने क्विप् ।

भूपाले क । पृथिवीभुजोऽपि तत्रार्थे ।

पृथिवीरुह पु० पृथिव्यां रोहति रुह--क । भूमिरुहे वृक्षे ।

पृथिवीशक्त पु० पृथिव्यां शक्र इव । राजनि हेमच० ।

पृथिवीन्द्रभूमीन्द्रादयोऽप्यत्र ।
पृष्ठ ४४१५

पृथु त्रि० प्रथ--कु सम्प्र० । १ विस्तीर्णे स्त्रियां गुणवचनोदन्त-

त्वात् ङीप् । २ आदिराजे वेनपुत्रे सूर्य्यवंश्ये नृपभेदे
पु० तदुत्पत्तिकथा भाग० ४ । १५ अ० ।
अथ तस्य (वेनस्य) पुनर्विप्रैरपुत्रस्य महीपतेः । बाहुभ्यां
मथ्यमानाभ्यां मिथुनं समपद्यत । तद्दृष्ट्वा मिथुनं
जातमृषयो ब्रह्मवादिनः । ऊचुः परमसन्तुष्टा विदित्वा भगवत्-
कलाम् । एष विष्णोर्भगवतः कला भुवनपालिनी । इयञ्च
लक्ष्मी संभूतिः पुरुषस्यानपायिनी । अत्र यः प्रथमो राज्ञां
पुमान् प्रथयिता यशः । पृथुर्नाम महाराजो
मविष्यति पृथुश्रवाः” । तेन च भगवदवतारेण पृथिवी
समीकृता नानोषधीश्च मथिता दुहितृत्वेन कल्पिता च ।
तत्कथा उत्तरत्राध्याये दृश्या ४ १८ अ० ।
“एवं पृथ्वादयः पृथ्वीं द्रदुहुः स्वन्नमात्मनः ।
दोहवतमादिभेदेन क्षीरभेदं कुरूद्वह! । ततो महीपतिः
प्रीतः सर्वकामदुघां पृथुः । दुहितृत्वे चकारेमां प्रेमणा
दुहितृवत्सलः । चूर्णयन् स्वधनःकोट्या गिरिकूटानि
राजराट् । भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः”
३ महादेवे भा० आश्व० ९ अ० । चतुर्थमन्वन्तरे काव्ये
४ सप्तर्षिभेदे हरिवं० ७ अ० । काकुतस्थे अनेनसः पुत्रे
५ नृपभेदे १७ अ० । अजमीढबंश्ये पारपुत्रस्य ६ पुत्रभेदे
हरिवं० २० अ० । क्रोष्टुवंश्ये चित्रसू पुत्रे ७ नृपभेदे
३५ अ० । ८ दानवभेदे २६ अ० । ९ अम्नौ मेदि० । १० कृष्ण-
जीरके पु० अमरः ११ त्वक्पर्ण्यां १२ हिङ्गुपत्र्याञ्च स्त्री
मेदि० १३ अहिफेने शब्दरत्ना० १४ महति त्रि० शब्दर०
१५ विष्णौ पु० । “प्राणदः प्रणवः पुथुः” विष्णुस० ।

पृथुक पु० पुथु कं जलं पेयत्वेनास्त्यस्व अच् । १ चिपिटके

अमरः । तस्य चर्वणे बहुजलशोपणात् तश्र तथात्वम् ।
अस्य क्लीवत्वमपि “द्विःखिन्नमन्नं पृथुकं शुद्धं देशविशेषके”
व्रह्मवै० ख० २१ अ० । पृथु कं शिरोऽस्य । २ बालके पुंस्त्री०
मेदि० । ३ हिङ्गुपत्र्यां स्त्री शब्दरत्ना० ।

पृथुकीय त्रि० पृथुकाय हितं अपूपा० छ । पृथुकहिते । पक्षे

यत् पृथुक्य तत्रार्थे त्रि० ।

पृथुकीर्त्ति स्त्री पृथानुजायाम् वसुदेवभगिनीभेदे “पृथु-

कीर्त्त्यां तु संजज्ञे घनयो वृद्धशर्मणः । करूपाधिपति-
र्वीरो दसवक्रो महावलः” । हरिवं० २७ अ० पृथः
कीर्त्तिरस्य । २ वृहश्चशस्के त्रि० ।

पृथुकोल पु० कर्म० । राजवदरे राजनि० ।

पृथुग्रीव पु० १ राक्षसभेदे रामा० आ० ९ स० । २ विस्त्रीर्गपीवे त्रि०

पृथुच्छद पु० पृथुछदोऽस्य । १ हरिदर्भे राजनि० । २ वृहत्-

पत्रयुक्ते त्रि० ।

पृथुपत्र पु० पृथूनि पत्राण्यस्य । रक्तलशुने राजनि० ।

पृथुपलाशिका स्त्री पृथूनि पलाशान्यस्याः कप् कापि अत

इत्त्वम् । शठ्याम् राजनि० ।

पृथुरुक्म पु० क्रोष्टुवंश्ये रुक्मकवचपुत्रभेदे हरिवं० ३७ अ० ।

पृथुरोमन् पु० पृथूनि रोमाणि रोमस्थानीयशल्कान्यस्य ।

१ मत्स्ये अमरः । २ वृहल्लोमयुक्ते त्रि० स्त्रियां वा डाप् ।

पृथुल त्रि० पृथु + स्वार्थे लच् पृथुः पथत्वमस्त्यस्य सिध्मा०

लच् वा । १ स्थूले अमरः । २ हिङ्गुपत्र्यां स्त्री जटाध० ।

पृथुलाक्ष त्रि० पुथुले अक्षिणी यस्य षच्समा० । १ वृहन्नेत्र-

युक्ते २ पुरुवंश्ये चतुरङ्गपुत्रभेदे पु० हरिवं० ३७ अ० ।

पृथुवक्त्र त्रि० पृथु वक्त्रमस्य । १ वृहन्मुखयुक्ते । २ कुमारानु-

चरमातृभेदे स्त्री भा० श० ४७ अ० ।

पृथुशिम्ब पु० पृथ्वी शिम्बा यस्य । श्योनाकभेदे राजनि० ।

पृथुशेखर पु० पृथु शेखरं यस्य । पर्वते त्रिका० ।

पृथुश्रव(स) त्रि० पृथु श्रवः कर्णोऽस्य । १ वृहत्कर्णे अदन्तः

२ कुमारानुचरभेदे भा० श० ४६ अ० । सान्वस्तु । २
शशविन्दुनृपपुत्रभेदे पु० हरिवं० ३६ अ० ।

पृथुसेन पु० अनुवंश्ये रुचिरनृपपुत्रनेदे हरिवं० २० अ० ।

पृथुस्कन्ध पुं स्त्री पृथुः स्कन्धोऽस्य । शूकरे राजनि० स्त्रियां

जातित्वात् ङीष् ।

पृथूदक न० तीर्थभेदे भा० ब० ६८ अ० ।

नच्च सरस्वत्यं शदेशस्थितम् यथोक्तम् “जातिस्मरारुष-
द्गुस्तु गङ्गाद्वारे तदास्थितः । अन्तकालं ततो दृष्ट्वा
पुत्रान् वचनमब्रवीत् । इह श्रेयो न पश्यामि नयस्व
मां पृथूदकम् । विज्ञाय तस्य तद्भावं रुषद्गोस्ते
तपोधनाः । तं वै तीर्थमुपानिन्युः सरस्वत्यास्वपोधनम् ।
स तैः पुत्रैः समानीतः सरस्वत्थां समीपतः । स्मृत्वा
तीर्थगुणान् सर्वान् प्राहेदमृषिसत्तमः । सरस्वत्यास्तु
तीरे यः संत्यजेदात्मनस्तमुम् । पृथूदके जन्म परो नैनं
श्वो मरणम् लभेत् । तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र
निर्भिता” वामनपु० ३८ अ० ।

पृथूदर पु० स्त्री० पृथु उदरं यस्य । १ मेषे स्त्रियां जातित्वात्

ङीष् । २ वृहत्कुक्षौ त्रि० हारा० । स्त्रियां स्वाङ्गत्वात्
वा ङीष् ।
पृष्ठ ४४१६

पृथ्वादि पु० “पथ्वादिभ्य इमनिच् वा” पा० भावे इमनिप्

प्रत्ययनिमित्ते शब्दनणे स च पा० ग० उक्तो यथा
“पृथु मृदु महत् णटु तनु लघु बहु साधु आशु ऊरु
गुरु बहुल खण्ड दण्ड चण्ड अकिञ्चन होड़ पाक वत्स
मन्द स्वादु ह्रस्व दीर्घ प्रिय वृष ऋजु क्षिप्र क्षुद्र अणु” ।

पृथ्वी स्त्री पृथत्वगुणयुक्ता स्त्री ङीष् । १ पृथुत्वयुक्तायां

स्त्रियां २ भूमौ ३ हिङ्गुपत्र्यां ४ कृष्णजीरके च । ५ स्थूलै-
लायाम् ६ पुनर्नवायाम् मेदि० । ७ वृत्तार्हन्मातृभेदे हेम०
स्वार्थे क । पृथ्वीका । वृहदेलायाम् हिङ्गुपत्र्यां
कृष्णजीरके च । तत्र पृथिव्याः पृथुराजेन दुहितृत्वस्य
कल्पनात् पुंयोगे ङीष् । “दुहितृत्वमनुप्राप्ता देवी पृथ्वी
तथोच्यते” अग्निपु० । “जसौ जसयलावसुग्रहयतिश्च पृथ्वी
गुरुः वृ० र० उक्ते ८ सप्तदशाक्षरपादके छन्दीभेदे ।

पृथ्वीकुरवक पु० पृथ्व्यां भूमौ कुरुवक इव शुभ्रत्वात् ।

श्वेतमन्दारके राजनि० ।

पृथ्वीगर्भ पु० पृथ्वीव लम्बमानो गर्भ उदरमस्य । १ लम्बोदरे २ गणेशे हेमच० ।

पृथ्वीज त्रि० पृथ्व्यां जायते जन--ड ७ त० । १ भूमिजाते

२ गडलबणे न० राजनि० ।

पृथ्वीधर पु० गृथ्वीं धरति धृ--अच् । महीध रे पर्वते ।

पृदाकु पु० स्पर्द--वा० आकु सम्प्रसारणे सलोपश्च । सर्गे

अमरः १ वृश्चिके २ व्याघ्रे ३ चित्रके मेदि० । ४ गजे
५ वृक्षे च । संक्षिप्तसारोणादिवृत्तिः ।

पृदाकुसानु पु० पृदाकुः गज इव सानुः समुन्नतः । इन्द्रे ऋ ८ । १७ । १५ ।

पृशन्य पु० स्पृश--भावे क्यु पृषो० सलोपः पृशनं स्पर्शः तत्र

साधु यत् । स्पर्शसाध्ये ऋ० १ । ७१ । ५ आत्मनः पृशन-
मिच्छति क्यच् उ । पृशनायु तदिच्छौ ऋ० १ । ८४ । ११ ।

पृश्नि त्रि० स्पृश--प्रच्छ--वा नि किच्च पृषो० सलोपः । १ स्वल्पे

२ दुर्बलास्थियुक्ते ३ खर्वे च अमरः । ४ रश्मौ श्रीकृष्णस्य
जन्मान्तरे मातृभूतायां देवकीरूपेण द्वापरे प्रादुर्भूतायां
५ वसुदेवपत्न्याञ्च स्त्री । “त्वमेव पूर्बसर्गे भूः पृश्निः स्वायम्भुवे
सति! । तदायं सुतपा नाम प्रजापतिरकल्मषः । अहं
सुतो वामभवं पृश्निगर्भ इति स्मृतः । तयोर्वा
पुनरेवाहमदित्याम्बस कश्यपात् । उपेन्द्र इति विख्यातो
वामनत्वाच्च वामनः । तृतीयेऽस्मिन् भवेऽहं वै तेनैव
वपुषा हि वाम् । जातो भूयस्तयोरेव” भाग० १० । ३ अ० ।
देवकीं प्रति वासुदेववाक्यम् । ५ साधरणे त्रि० निघण्टुः
६ सवितुःपत्नीभेदे स्त्री भाग० ६ । १८ । १ । ७ ऋषिभेदे पु० भा०
द्रो १९१ अ० । युधाजिन्नृपस्य माद्र्यां जाते ८ पुत्रभेदे
अग्निपु० ।

पृश्निका स्त्री पृश्नि स्वल्पं कं जलमत्र । कुम्भिकायां (पाना) शब्दमाला ।

पृश्निगर्भ पृश्नेः सुतपःप्रजापतिपत्न्याः गर्भः साधनत्वेना-

स्त्यस्य अच् । नारायणे पृश्निशब्दे दृश्यम् ।

पृश्निगु त्रि० पृश्नियोनानावर्णत्वात् साधरणा गावो रश्म-

योऽस्य । नानावर्णदीप्तिके ऋ० १ । ११३ । ७ । वेदे क्वचित्
“गोस्त्रियोरुपसर्जनस्येति न ह्रस्वः” ऋ० ७ । १८ । १० ।
उदा० दृश्यम् ।

पृश्निपर्णी स्त्री पृश्नि स्वल्पं पर्णमस्याः ङीप् । (चाकुलिया) विख्यातायां लतायाम् अमरः ।

पृश्निभद्र पु० ७ त० । पृश्निगर्भजाते नारायणांशभेदे ।

पृश्निमातृ पु० पृश्निः नानावर्णा भूमिर्मातेव जन्मभूमिर्यस्य

समासान्तविधेरनित्यत्वात् न कप । नानार्णभूमि-
जाते ऋ० १ । २३ । १७ ।

पृश्निशृङ्ग पु० पृश्नि शृङ्गमग्रमस्य । गणेशे त्रिका० । तस्य मुखे

गजमुखत्वेन शृङ्गाकारत्वात् तथात्वम् । पृश्निः शृङ्ग-
मिवास्य उत्पत्तिस्थानत्वेन । पृश्निगर्भजाते २ विष्णौ
शब्दमाला ।

पृश्नी स्त्री पृश्नि + कृदिकारान्तत्वात् वा ङीप् । कुम्भिकायां(पाना)शब्दमाला ।

पृष सेके भ्वा० आ० सक० सेट् । पर्षते अपर्षिष्ट । पपृषे ।

पृषत् न० पृष--अति कित् शतृवच्च कार्य्यं तेन पृषन्ति ।

१ विन्दौ अमरः । २ सेकयुक्ते त्रि० । अस्य विन्दौ बहुत्व-
मिच्छन्त्येके ।

पृषत पुंस्त्री० पृष--अतच् किच्च । १ शुभ्रविन्दुमति मृगभेदे

स्त्रियां जातित्वात् ङीष् । २ विन्दौ पु० अमरः ।
३ वायुवाहने मृगे पुंस्त्री निघण्टुः । “पृषत्यो मरुताम्”
इत्यत्र स्त्रीत्वमविवक्षितम् । भरद्वाजसुते ४ नृपभेदे पु०
भा० आ० १३ अ० ।

पृषतांपति पु० ६ त० अलुक्स० । वायौ जटा० ।

पृषताश्व पु० पृषतो मृगभेदोऽश्व इव गतिसाधनं यस्य ।

वायौ अमरः ।

पृषत्क पु० पृषन्ति विन्दव इव को वायुरत्र । वाणे अमरः ।

पृषदंश पु० पृषात विन्दौ अंशोऽस्य । वायौ ततः उत्सा०

भवादौ अञ् । पार्षदंश तद्भवादौ त्रि० ।

पृषदश्व पु० पृषन् मृगभेदोऽश्व इव वाहकत्वात् यस्य । वायौ अमरः

पृषदाज्य न० पृषद्युक्तं दधिविन्दुयुक्तं दधिसेकयुक्तं वा

आज्यम् शाक० त० । दधिसिक्ते वृते अमरः ।

पृषद्बल पु० पृषन्नेव बलमस्य । वायोरश्वे शब्दमाला ।

पृषद्ध्र पु० वैवस्वतमनोःपुत्रभेदे हरिवं० १० अ० ।

पृषद्ध्रु पु० द्वापरयुगीये युधिष्ठिरपक्षस्थे नृपभेदे भा० द्रो० १५६ अ०

पृषन्ति पु० पृष--बा झि । विन्दौ । “पयः पृषन्तिभिः स्पृष्ट्वा

यान्ति वाताः शनैः शनैः” जाम्बबतीविजयपद्यम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/पुष&oldid=57816" इत्यस्माद् प्रतिप्राप्तम्