सामग्री पर जाएँ

वाचस्पत्यम्/पश्वयन

विकिस्रोतः तः
पृष्ठ ४२८२

पश्वयन न० यागभेदे शत० ब्रा० ४ ६ ६ १

पश्वयन्त्र त्रि० पशोरिदं बा० ड्व कर्म० । पशुनिर्गमनार्थयन्त्रभेदे ऋ० ४ । १ । १६ भा० ।

पश्ववदान न० पशोरङ्गविशेषस्यापदानं छेदनम् ।

पशोरङ्गविशेषच्छेदने पशुशब्दे कर्मप्र० वाक्यं द्वश्यम् ।

पश्वाचार पु० पशूनामधिकारिविशेषाणामाचारः । तन्त्रोक्ते

आचारभेदे पशुभावे “वेदोक्तेन यजेद्देर्वीं कामसंकल्प
पूर्वकम् । स एव वैदिकाचारः पश्वाचारः स उच्यते” ।
कुब्जिकातन्त्रे ७ प० “भावश्च ऐविधो देवि! दिव्य-
वीरपशुक्रमात् । विश्वञ्च देवतारूपं भावयेत् सुरसु-
न्दरि! । स्त्रीमयञ्च जगत्सर्वं पुरुषं शिवरूपिणम् ।
अभेदे चिन्तयेत् यस्तु स एव देवतात्मकः । नित्यस्नानं
नित्यदानं त्रिसन्ध्यञ्च जपार्चनम् । निर्मलं वसनं देवि!
परिधानं समाचरेत् । वेदशास्त्रे दृढज्ञानं गुरौ देवे
तथैव च । मन्त्रे चैव दृढज्ञानं पितृदेवार्चनं तथा ।
बलिवैश्वं तथा श्राद्धं नित्यकार्यं शुचिस्मिते! । शत्रु
मित्रसमं देवि! चिन्तयेत्तु महेश्वरि! । अन्नञ्चैव
महेशानि! सर्वेषां परिवर्जयेत् । गुरोरन्नं महेशानि!
भोक्तव्यं सर्वसिद्धये । कदर्य्यञ्च महेशानि! निष्ठुरं
परिवर्जयेत् । देवतानिन्दकं दृष्ट्वा नालापञ्च समाचरेत् ।
सत्यञ्च कथयेद्देवि! न मिय्या च कदाचन” महानिर्वा-
णतन्त्रे “दिव्यवीरमयो भावः कलौ नास्ति कदाचन ।
केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम्” ।

पश्विज्या स्त्री पशुना इज्या । पशुयागभेदे तत्कर्त्तव्यका-

लादिः कात्या० श्रौ० ६ ४ १ मूत्रादौ दृश्यः ।

पश्विष्टका स्त्री अग्निचयनार्थे इष्टकाभेदे पशुयागे हि पञ्च

इष्टका भवन्ति यथोक्तं शत० ब्रा० ६ । २ । १ । २० “कथम-
स्यैषोऽग्निः पञ्चेष्टकः सर्वः पशुष्वारब्धो भवतीति
पुवोडाशः कपालेषु न्वेवाप्यत इय प्रथमा मृण्मयीष्ट-
काथ यत् पशुमालभते तेन पश्विष्टकाप्यतेऽथ यद्वपामभि-
तो हिरण्यशकलौ भवतस्तेन हिरण्येष्टकाप्यतेऽथ
यदिध्मो यूपः परिधयस्तेन वानस्पत्येष्टकाप्यतेऽथ यदाज्यं
प्रोक्षण्यः पुरोडाशस्तेनान्नं पञ्चमीष्टकाप्यत एवमुयहा-
स्यैषोऽग्निः षञ्चेष्टकः सर्वः पशुष्वारब्धी भवति” ।

पश्विष्टि स्त्री ६ त० । पशुयागङ्गे इष्टिभेदे सा च इष्टिः

“इष्टिरुभयतोऽन्यतरतो वा” आश्व० श्रौ० ३ १ २ सूत्रादौ
बिहिता ।

पश्वेकादशिनी स्त्री एकादश परिमाणमस्य डिनि ङीप्

पशुना एकादशिनी । शत० ब्रा० ३ । ९ । ३ उक्ते एकादश
देवताकैकादशपशुसाध्ये यज्ञभेदे ते च पशवः “आग्नेयं
प्रथमपशुमालभेत् इत्युपक्रमे १ आग्नेयः २ सारस्वतः
३ सौम्यः ४ पौष्णः ५ बार्हस्पत्यः ६ वैश्वदेवः ७ ऐन्द्रः ८
मारुतः ऐन्द्राग्नः १० सावित्रः ११ वारुण इत्येते अग्नाद्ये-
कादशदेवताकाः उक्ताः ।

पष्ठवाह् पु० पृष्ठेन वहति पष्ठं मारं वा वहति वह--ण्वि

पृषो० । पञ्चवर्षीये भारमहे बृषे तथावस्कायां स्त्रियां
गवि ङीप् वाह ऊठ् षष्ठोही यजु० १४ । ९ “द्वादश
पष्ठौह्यो गर्भिण्यो ब्रह्मणः” आश्वा० श्रौ० ९ । ४ । १४ । सुग्ध-
बोधे पृष्ठौ हीत्युक्तिः लोकाभिप्रायेण वेदे तु पष्ठयाट्
षष्ठौही इत्येव प्रयोगात् ।

पस नाशने चु० उभ० सक० सेट् इदित् । पंसयति ते अपपंसत् त

पसस् न० पस--असुन् । राष्ट्रे “गर्भोराष्ट्रं पसोराष्ट्रमेव”

शत० ब्रा० १ ३ । २ । ९ । ६

पस्त्य न० पस--भावे क्तिन् तत्र साधु यत् । गृहे निघण्टुः

अस्त्यमिति पाठान्तरम् अस्तये स्थितये साधु यत् । तत्र
हेमच० निधण्टौ तु पस्त्यमित्येव गृहनामसु पठितम् ।
पस्त्यमस्त्यस्येति मतुप् मस्य वः दीर्घः । पस्त्यावत्
सदःप्राचीनबंशादिगृहवति ऋ० ११५ १२ भा० ।

पस्पश पु० शास्त्रारम्भसमर्यके उपेद्घाते सन्दभेग्रन्थभेदे स च

महाभाष्यस्त्र पथसमाह्निकात्मकः शब्दविद्येवनी भाति
राजनीतिरपम्पशा” माघः ।

पह्नव पु० श्मवुधारिम्लेच्छजातिभेदे काम्बोजशब्दे १९०७ पृ०

दृश्यम् । स्त्रियां जातित्वात् ङीष् ।

पह्निका स्त्री अप + ह्नु + वा० ड संज्ञायां कन् कापि अतद्व-

त्त्वम् अपेरल्लोपः । वारिपृश्न्यां शब्दरत्ना० ।

पा पाने भ्वा० पर० सक० अनिट् । शिति पिवादेशः पिवति

अपात् पपौ पेयात् पीयते पीत्वा पीतः पायः पेयं
प्रपा । णिच् पाययति णौचङि अपीप्यत् । पिपा-
सति पेपीयते ।

पा रक्षणे अदा० पर० सक० सेट् । पाति अपासीत् पपौ ।

पायात् णिच् पालयति अपीपलत् । पालनम् पालकः

पांश(स)न त्रि० पसि--ल्यु बा० दीर्घः पृषो वा । दूपके त्रिक

पांश(स)व पु० पां (सोः) शोर्विकारः अण् । (पाङ्गा)

लवणभेदे पां(सु)शुजादयोऽप्यत्र राजनि० ।
पृष्ठ ४२८३

पांशु(सु) पु० पसि--नाशने अर्जिदशिकम्यमपसिवाधामृजि

पसिवाधामृजिपशितुक्धुग्दीर्थहाश्च” उणा० उ दीर्घश्च ।
१ धूलौ २ शस्यार्थचिरसञ्चितगोमये च विश्वः उणादिसूत्रे
दन्त्यान्त्य पसिधातोरेव उप्रत्ययदोर्घयोर्विधानात् विश्वप्रकाशे
तालव्यान्ते कीर्त्तनाच्च पृषो दन्त्यस्य शः इति बोध्यम् ।
अतएव “तालव्या अपि दन्त्याः स्युः शंवशूकरपांशवः”
शकारभेदे उक्तम् । ३ लबणभेदे न० “औद्भिदं पांशु-
(सु)लयणं यज्जातं भूमितः स्वयम् । क्षारं गुरु
कटुस्निग्धं स्वेदनं वातनाशनम्” भावप्र० । ४ पर्पटे ५ कर्पू-
रभेदे पु० राजनि० । पांशु(सु)तो भबः यत् । पां(श)-
सव्य तत्र भवे त्रि० । रुद्रभेदे पु० यजु० १६ । २५

पांशु(सु)कासीस न० कासीसे राजनि० ।

पां(शु)सुकुली पांशून् कोलति कुल--संहतौ क गौरा०

ङीष् । राजभार्गे हारा० ।

पांशुकूल न० ६ त० । निरूपपदशासनभदे “शासनं धर्म्म-

कीलः स्यात् मुकुतिः शूदशासनम् । पट्टोलिका कॢप्त-
कीला पांशुकूलं न कस्यचित्” त्रिका० ।

पांशु(सु)क्षार न० पांशु(सु)रिव क्षारम् । क्षारलवणे

(पाङ्गालोन) पार० निघण्टुः ।

पांशु(सु)चत्वर पु० पाशुभिश्चत्वर इव । घनोपले शब्दमा० ।

पांशु(सु)चन्दन पु० पांशुधूलिश्चन्दनमिवास्य । विभूतिभूषिते

शिवे त्रिका० ।

पांशु(सु)चामर पु० पांशुश्चामर इवास्य । १ पटवासे (ताँवु)

जटा० । २ दूर्वाङ्कितकटीतटे ३ बर्द्धापके ४ प्रशंसायाम्
५ पुरोटो ६ धूलिगुच्छके च मेदि० ।

पांशु(सु)ज न० पांशु(सु)तो जायते जन--ड । (पाङ्गा)

लवणभेदे रत्नमा० । पांशु(सु)भवादणऽप्यत्र ।

पांशु(सु)पत्र न० पांशु(सु)भिः सञ्चितगीमयैः पत्त्रमस्य ।

वास्तूकशाके शब्दमा० ।

पांशु(मु)मर्दन पु० षांशुः(सुः) मृद्यतेऽत्र मृद--आधारे ल्युट् ।

केदारे क्षेत्रभेदे त्रिका० ।

पांशु(सु)र पु० पांशुं(सुं) राति--क । १ खञ्जे २ दंशके च (डांश) हारा० ।

पांशु(सु)रागिणी स्त्री रन्ज--घिनुण् ङीप् । पांशु(सु)भिः

रामिणी ३ त० । महामेदायां राजनि० ।

पांशु(सु)राष्ट्र न० पांशु(सु)प्रधानं राष्ट्रम् । देशभेदे भा० स० ५१ अ० ।

पांशु(सु)ल त्रि० पां(सु)शुरस्त्यस्य सिध्मा० लच् । १ घूलियुक्ते

तत्तुल्यपापयुक्ते २ पुंश्चले च स्त्रियां टाप् ।

पाक पु० पच--भावे घञ् । १ तण्डुलादिविक्लेदनव्यापारभेदे

स च स्थूलीमार्जनाधःसन्तापनाद्योदनपरीक्षान्तोव्या-
पारसमूहः । पिबति स्तनम् पा--कन् वयसि अर्भका-
नि० वा । २ स्तनपायिनि शिशौ ३ परिणते जरसा ४
केशादेः शोक्ल्ये अमरः । ५ पेचके ६ राष्ट्रभङ्गे ७ भीतौ
शब्दरत्ना० ८ दैत्यभेदे हेमच० पाकशासनः । द्रव्यादेः
पाकप्रकारभेदादिकं वाकराजेश्वरे उक्तं यथा
“भर्जनं तलनं स्वेदः पचनं क्वथनं तथा । तान्दूरं
पुटपाकश्च पाकः सप्तविधो मतः” । भजनं केवलपात्रे ।
तलनं स्नेहद्रव्ये, स्वेदनम् अग्न्युत्तापे । पचनं जले ।
क्वथनं सिद्धद्रव्यरसग्रहणे । तान्दूरं द्वारवद्धतप्तयन्त्रे,
पुंटपाक ऊर्द्ध्वाधोऽग्नितापे ज्ञेयः” ।
श्राङ्के पाकप्रकारादिः नि० सि० उक्तो यथा
देवलः “तथैव यन्त्रितो दाता प्रातःस्नात्वा सहाम्बरः ।
आरभेत नवैः पात्रैरन्नारम्भं च बान्धवैः” अत्रात्मने-
पदात् स्वयमेव पाकः कार्यः अशक्तो पत्र्या तदभावे
बान्धवैः “ततस्तानि पपाचाशु सीता जनकनन्दिनी”
इति पाद्मलिङ्गादिति हेमाद्रिः । श्राद्धदीपकलिकायामा-
श्वलायनः “समानप्रवरैर्मित्रैः सपिण्डैश्च गुणान्वितैः ।
कृतोपकारिभिश्चैव पाककार्यं प्रशस्यते” । व्यासः
“गृहिणी चैव सुस्नाता पाकं कुर्य्यात् प्रयत्नतः । निष्पन्नेषु
च पाकेषु पुनः स्नानं समाचरेत्” । पृथीचन्द्रोदये ब्राह्मे
“रजस्वलां च पाषण्डं पुंश्चलीं पतितां तथा । ज्यजे-
च्छूद्रां तथा वन्ध्यां विधवां चान्यगोत्रजाम् । व्यङ्गकर्णीं
चतुर्थाहःस्नातामपि रजस्वलाम् । वर्जयेच्छ्रान्नपाकार्थ-
ममातृपितृवंशजाम” मातृपितृवंशजभिन्नां त्यजोदत्यर्थः ।
ऋतिसारे “न पाकं कारयेत् पत्नीमन्यां (अन्यामन्यवर्णाम्)
वाप्यन्यगोत्रजाम् । मृतवत्सां च गर्भघ्नीं गर्भिणीं चैव
दुर्सुखीम्” । पाकभाण्डानि तु हेमाद्रौ नागरणण्डे
“पौवर्ण्णान्यथ रौप्याणि कांस्यताम्रोद्भवानि च । मार्त्तिकान्यपि
भव्यानि नूतनानि दृढ़ानि च” तथैवादित्यपुराणे
“पचदन्नानि सुस्नातः पात्रेषु शुचिषु स्वयम् । स्वर्णादिधातुजा-
तेषु मृण्मयेष्वपि वा ट्विजः । सचिद्रेष्वविलिप्तेषु
तथाचोपहतेषु च । मायसेषु न भिन्नेषु दूषितेष्वपि कर्हिचित्
पूर्वं कृतोषयोगेषु मृण्मयेषु न तु क्वचित्” । वायुपुराणे
“न कदाचित्पचेदन्नमयःस्थालीषु पैतृकम्। अयसो दर्श-
नादेव पितरोऽपद्रवन्ति हि । कालायसं विशेषेण
निन्दन्ति पितृकर्मणि । फलानां चैव शाकानां
छदनार्थानि यानि तु । महानसेऽपि शस्त्राणि तेषामेव
हि सन्निधिः । इड्यते नेतरस्यात्र शस्यमात्रस्य दर्श-
पृष्ठ ४२८४
नम् । श्राद्धदेशे तु विदुषा पितॄणां तृप्तिमिच्छता ।
महानसेऽतियुक्तानामपि कार्यं न दर्शनम्” । तत्रैव
“पचमानस्तु माण्डेषु भक्त्या ताम्रमयेषु च । समुद्धरति वै
घोरात् पितॄन् दुःखमहार्णवात् । तैजसानामभावे तु
पिठरे मृण्मयेऽपि च । नवे शुचौ प्रकुर्वीत पाकं
पित्रर्थमादरात्” । तत्रैबादित्यपुराणे “पक्वान्नस्थापनार्थे तु
शस्यन्ते दारुजान्यपि । दर्व्यादीन्यपि कार्य्याणि यज्ञि-
यैरपि दारुभिः” । यमः “विवाहे प्रेतकाय्ये च माता
पित्रोः क्षयेऽहनि । नवभाण्डानि कुर्वीत यज्ञकाले
विशेषतः” । अत्र पाकाग्निमाह हेमाद्रौ प्रजापतिः “ओपा-
सनेनान्नसिद्धिरग्नौकरणमेव च” । पृथ्वीचन्द्रोदयेऽङ्गिराः
“शालाग्नौ तु पचेदन्नं लौकिके वापि नित्यशः । यस्मि-
न्नग्नौ पचेदन्नं तस्मात् हीमो विधीयते” । मनुः “वैवा-
हिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि । पञ्चयज्ञ-
विधानञ्च पक्तिं चान्वाहिकीं द्विजः” । श्राद्धस्य गृह्यत्वं
चोक्तमपरार्केण, अत्र विशेषः कर्मप्रदीपे “प्रातर्होमं तु
निर्बर्त्त्य समुद्धृत्य हुताशनात् । शेषं महानसे कृत्वा
तत्र पाकं समाचरेत् । पाकान्तेऽग्निं तमाहुत्य
गृह्याग्नौ तु पुनः क्षिपेत् । ततोऽस्मिन् वैश्वादेवादिकर्म
कुर्प्यादतन्द्रितः” । तदभावे लौकिके “ततः पचेयुरन्नानि
निर्वापानन्तरं शनैः । वैवाहिमेऽग्नावन्यत्र लौकिके
वापिसंयतः” इति दीपकलिकायां संग्रहोक्तेः” ।
पाकभाण्डस्य त्याज्यत्वं यथा “नित्यं नूतनभाण्डेन
कर्त्तव्यः पाक एव च । अथ वा पक्षपर्य्यन्तं ततस्त्याज्यं
मनीषिभिः” इति ब्रह्मवैवर्त्तपु० । पाककाले शूद्रायाग्नि-
दाननिषेधो यथा “शूद्रायाग्निञ्च यो दद्यात् पाककाले
विशेषतः । शूद्रपक्वं भवेदन्नं ब्राह्मणः शूद्रतामियात्”
कर्मलोचनम् । एकोद्दिष्टश्राद्धे तस्य नित्यत्वं यथा
“एकोद्दिष्टन्तु कर्स्तव्यं पाकेनैब सदा स्वयम् । अभावे
पाकपात्राणां तदहः समुपोषणम्” श्राद्भत० । शूद्रेण
तत्रापि आमान्नेनैव कार्यम् “आमं शूद्रस्य पक्वा-
न्नमित्युक्तेः आमान्नेनैव शूद्रेणेत्युक्तेश्च पाकविधिर्यथा
“पूर्वाशाभिमुखो भूत्वा उत्तराशामुखोऽथ वा ।
पचेदन्नञ्च मध्याह्ने सायाह्ने च विवर्जयेत् । अग्न्याशा-
भिमुखे पक्वममृतान्नं विजानता । पूर्वमुखो धर्मकामः
शोकहानिश्च दक्षिणे । श्रीकामश्चोत्तरमुखः पतिकामश्च
पश्चिमे । ऐशान्थाभिमुखे पक्त्वा दरिद्रो जायते नरः ।
यदा तु आयसे पात्र पक्वमश्नाति वै द्विजः । स पापि-
ष्ठोऽपि मुङ्क्तेऽन्नं रौरवे परिपच्यते । ताम्रे पक्त्वा
त्त्रक्षुर्हार्मानो वै लभते क्षयम् । पितृभ्यां पक्वमन्नञ्च
पितृव्येण यशखिनि! । पुण्डरीकस्य यज्ञस्य लभते
फलमीय्सितम् । वातुलेन तु यत्पक्वं भगिन्या च
कनिष्ठया । असगोत्रेण यत्पक्वं शोणितं तदपि स्मृतम् ।
अभक्तेन च यत्पक्वं स्त्रिया पक्वन्तथैव च । पक्वपात्रे
च यत्पक्वं तत्सर्वं निष्फलं भवेत् । उडुम्बरेण काष्ठेन
कदम्बस्य दलेन च । शालेन करमर्द्देन उदरावर्त्तकेन
च । पक्वान्नं नैब भुञ्जीत भुक्त्वा रात्रिमुपावसेत् । गर्हि-
तान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत् । अप्रजा या
तु वनिता नाश्नीयादेव तद्गृहे । शालकाष्ठस्य पक्वाम्नं
शिरीषकस्य चैव हि । कलिचण्डातकस्यैव वज्रवारुणकस्य
च । एरण्डशाल्मलेर्वापि पक्वान्नं गर्हितं स्मृतम् ।
यदा मृण्मयपात्रे तु पक्वं वै सर्वकालिकम् । मासे पक्षे
तथाष्टाहे तत्पात्रं विसृजेत् गृही । धनुःपात्रे तथा
सिंहे मिथुने वा वरानने! । यः कुर्य्याद्भोजनं देवि!
कृच्छ्रेणैव विशुध्यति । एकदा तु जलं दद्याद्द्विवारं न
प्रदापयेत् । त्रिभागं पूरयेत् पात्रं पश्चात्तोयं न दापयेत्”
मत्स्यसूक्ते ४ २ प्र० । जाठराग्निना पाकप्रकारस्तु
असृछरशब्दे ५५ ८ पृ० उक्तः
औषधपाकप्रकारस्तु चक्रपाणिदत्तादिग्रन्थे दृश्यः ।
पच्यते फलं यत्र काले आधारे घञ् । ९ फलपाकाधि
करणे कालभेदे शुमाशुभसूचकग्रहोत्पातादीनां
पाककालश्च वृ० सं० ९७ अ० उक्तो यथा
“पक्षाद्भानोः सोमस्य मासिकोऽङ्गारकस्य वक्रस्य ।
आ दर्शनाच्च पाको बुधस्य जीवस्य वर्षेण । षड्भिः
सितस्य मासैर्वदेन शनेः सुरद्विषोऽव्दार्धात् । वर्षात्सूर्य्य-
ग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः । त्रिभिरेव धूमके
तोमांसैः श्चेतस्य सप्तरात्रान्ते । सप्ताहात परिवैषैन्द्र-
चापसन्ध्याभ्रसृचीनाम् । शीतोष्णविपर्य्याय फलपुय्य-
मकालजं दिशां दाहः । स्थिरधरयोरन्यत्व प्रसूतिवि
कृतिश्च षणमासात् । अक्रियभाणककरणं मकभ्योऽनु-
त्सवो दुरिष्टं च । शोषणञ्चाशोष्याणां स्रोतोऽन्यत्वं च
वर्षार्द्गात् । स्तम्भकुद्यकाचर्नां जत्वितरुदिनप्तकस्ति-
स्येदाः । मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च ।
कीटाखमक्षिकोरगबाहुल्यं मृगविहङ्गमरुतं च ।
लोष्टस्य चापस् तरणं त्रिभिरेव विपच्यते म्बतैः । पसवः
शुनामरण्ये यन्यनां ग्रामसम्प्रवेशश्च । मधनिबयतोरणे
पृष्ठ ४२८५
न्द्रध्वजाश्च वर्षात् समधिकाद्वा । गोमायुगृध्रसङ्घा
दशाहिकाः सद्य एव तूर्य्यरवः । आक्रुष्टं पक्षफलं वल्
मीकविदारणं च भूपाहे । अहुताशप्रज्वलनं घृततैलव-
सादिवर्षणं चापि । सद्यः परिपच्यन्ते मासेऽध्यर्द्धे च
जनवादः । छत्रचितियूपहुतवहवीजानां सप्तभिर्भवति
पक्षैः । छत्रस्य तोरणस्य च केचिन्मासात् फलं प्राहुः ।
अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम् ।
मार्जारनकुलयोर्मूषकेण सङ्गश्च मासेन । गन्धर्वपुरं
मासाद् रसवैकृत्यं हिरण्यविकृतिश्च । ध्वजवेश्मपांशुधू-
माकुला दिशश्चापि मासफलाः । नवकैकाष्टदशकैकषट्त्रि-
कत्रिकसंख्यमासपाकानि । नक्षत्राण्यश्विपूर्वकाणि सद्यः-
पाकाऽश्लेषा । पित्र्यान्मासः षट् षट् त्रयोऽर्द्गमष्टौ
च त्रिषड़ेकैकाः । मासचतुष्काषाढ़े सद्यःपाकाभिजित्
तारा । सप्ताष्टावध्यर्द्धं त्रयस्त्रयः पञ्च चैव मासाः स्युः ।
श्रवणादीनां पाको नक्षत्राणां यथासंख्यम् । निगदित-
समये न दृश्यते चेद् अधिकतरं द्विगुणे प्रपच्यते तत् ।
यदि न कनकरत्नगोप्रदानैरुपशमितं विधिवद्द्विजैश्च
शान्त्या” । दशाशब्देऽन्तर्दशाशब्दे च ग्रहसूचितफलपा-
कभेदो दृश्यः । कर्मणि घञ् । १० परिपक्वे ऋ० ७१०४९
११ परिणतबुद्धौ च त्रि० पाकसुत्वन्शब्देदृश्यम् । १२ अल्पे
१ ३ प्रशस्ये च पाकयज्ञशब्दे दृश्यम् । पाकस्य अल्पस्य
प्रशस्य वा भावः पृथ्वा० इमनिच् । पाकिम् तद्भावे
पु० । पाकस्यादूरदेशादिः पक्षा० फक् । पाकायन पाकस्या
दूरदेशादौ त्रि० ।

पाककृष्ण पु० पाके फलपाके कृष्णः । (पानीआमला) वृक्षभेदे शब्दमाला ।

पाकज न० पाकाज्जायते जन--ड । १ काचलवणे । २

पाकजातमात्रे त्रि० । “अनुष्णाशीत्पाकजः” भाषा । ३
परिणामशूलरोगे ।

पाकत्रा अव्य० पाकः विपक्वप्रज्ञः स्वार्थे त्रा । विपक्वप्रज्ञे ऋ० ८ १८ १५ ।

पाकदूर्वा स्त्री पाकयुक्ता दूर्वा शा० त० । परिपक्वदूर्वायाम्

ऋ० १० । १६ । १ ३ भा० ।

पाकद्विष् पु० पाकाय दैत्वाय द्वेष्टि द्विष्--क्विप् ४ त० ।

पाकशासने इन्द्रे हेमच० । पाकारिप्रभृतयोऽप्यत्र ।

पाकपात्र न० पाकसाधनं पात्रम् शाक० त० । पचनसाधने

पात्रे स्थाल्यादौ । तद्भेदाः पाकशब्दे दृश्याः । पाकभा-
जनपाकमाण्डदयोऽप्यत्र ।

पाकपुटी स्त्री पाकसाधनं पुटी शा० त० । (पोयान) कुम्भ-

पाकार्थशालायाम् हेमच०

पाकफल न० पाकयुक्तं फलमस्य शा० त० । (पानीयामला)

फलपाके शब्दच० ।

पाकमत्स्य पु० पाकः पक्वः मत्स्यः । १ पक्वमत्स्ये व्यञ्जनभेदे

शब्दच० । २ कीटभेदे सुश्रुतः कीटशब्दे २०५८ पृष्ठे
दृश्यम् । सामुद्रे ३ मत्स्यभेदे सुश्रुतः निरालकशब्दे
४०८६ पृ० दृश्यम् ।

पाकयज्ञ पु० पाकसाध्यो यज्ञः शा० त० । चरुपाकेन कर्त्तव्ये

यज्ञभेदे स च यज्ञः वृषोत्सर्गादिहोमः । “पाकयज्ञे तु
साहसम्” ति० त० उक्तेस्तत्राग्निः साहसः । पाकः
अल्पः बालकसाम्यात् प्रशस्तो वा यज्ञः । २ अल्पयज्ञे
३ प्रशस्ययज्ञे च यथाह “त्रयः पाकयज्ञः” आश्व० गृ० १ । १२ ।
सूत्रे नारायणः ।
“पाकयज्ञास्त्रयस्त्रिविधा इत्यर्थः । कुतः हुताः प्रहुताः
ब्रह्मणि हुताः” इत्येकैकस्मिन् बहुवचननिर्देशात् । यदि
हि त्रिविधत्वं न स्यात् एकवचनेन निर्देशं कुर्य्यात् ।
तस्मात् त्रिविधत्वमिति । पाकयज्ञाः अल्पयज्ञाः प्रशस्त-
यज्ञा वा । दृष्टश्चोभयत्र पाकशब्दः । योऽस्मात्
पाकतरः इत्यत्राल्पत्वे पाकशब्दः । तं पाकेन मनसाऽपश्यम्
इति यो मा पाकेन मनसा इति च प्रशंशायाम् । तेन
आज्यहोमेष्वपि पाकयज्ञतन्त्रं सिद्धं भवति । यदि
हि पाकशब्दः पक्तौ वर्तेत आज्यहोमेषु तन्त्रं न
स्यात् । इष्यते च तस्मान्न तत्र वर्त्तेत । प्रशस्तयज्ञा
इत्युक्तम् । कथं प्रशस्तत्वम् उच्यते यस्मादेतेषु संस्कारा
उच्यन्ते । तैश्च ब्राह्मण्यमवाप्यते । के पुनस्ते संस्काराः ।
गर्भाधानादयः । तस्मात् सर्वेषां पाकयज्ञत्वमिति यदुक्तं
तत् सम्यक् । कथं त्रिविधत्वमित्यत आह “हुता अग्नौ
हूयमाना अनग्नौ प्रहुता ब्रह्मणि (ब्राह्मणभोजने)
हुताः” ३ सू० ।

पाकयज्ञिक पु० पाकयज्ञस्य तत्प्रतिपादकग्रन्थस्य व्याख्यानो

ग्रन्थः पाकयज्ञे मवो व्रा ठञ् । १ पाकयज्ञग्रन्थव्याख्याने
ग्रन्थे २ पाकयज्ञभवे च ।

पाकयज्ञिय ब्रि० पाकयज्ञमर्हति घ । पाकयज्ञार्हे शत० ब्रा० १ । ७ । ४ । १९

पाकरञ्जन न० पाकं पच्यमान रञ्जयति रन्ज--णिच्--ल्यु ।

तेजपत्रे शब्दच० ।

पाकल न० पाकं लाति ला--क । १ कुष्टौषधौ (कुड़) अमरः

२ वह्नौ ३ वायौ च पु० विश्वः । ४ कर्कोट्यां स्त्री गौरा०
ङीष् । शब्दमा० ५ कुञ्जरज्वरे ६ वोधनद्रव्ये च पु० मेदि० ।

पाकलि स्त्री पा--पाने सम्पदा० भावे--क्विप् तां पाकं कलयति

कल--कर्त्तरि इन् । रोहिणीति ख्याते वृक्षभेदे रत्नमा० ।
पृष्ठ ४२८६

पाकशाला स्त्री ६ त० । पाकस्थाने पाकगृहपाकस्थानादयो-

ऽप्यत्र “प्राच्यां दिशि स्नानगृहमाग्नेय्यां पचनालयम्”
पी० धा० धृतवाक्यम् गृहशब्दे दृश्यम् ।

पाकशासन पु० पाकं तन्नामदैत्यं शास्ति शास--ल्यु । इन्द्रे

तस्य तन्नामकता यथा “पाकं जघान तीक्ष्णाग्रैर्मार्गणैः
कङ्कवाससैः । तत्र नाम विभुर्लेभे शासनत्वाच्छरैर्दृढ़ै ।
पाकशासनतां शक्रः सर्वामरपतिर्विभुः” वामनपु० ।

पाकशासनि पु० पाकशानस्यापत्यम् इञ् । इन्द्रपुत्रे १

वैजयन्ते अमरः २ अर्जुने ३ वालिवानरे च ।

पाकशुक्ला स्त्री पाके परिणामे शुक्ला । (खड़ि)ख्याते पदार्थे शब्दच० ।

पाकसंस्थ त्रि० पाकः संस्था यस्य । पाकसाध्ये यज्ञभेदे ।

स च गोतमेन दर्शितः “अष्टका पार्वणश्राद्धं श्रावण्या-
ग्रहायणीचैत्राश्वयुजी चेति सप्त पाकसंस्थाः” । हारीतः
“पाकयज्ञान्यजेन्नित्यं हविर्यज्ञांश्च नित्यशः । सोमांश्च
विधिपूर्वेण य इच्छेद्धर्ममव्ययम्” ।

पाकसुत्वत् पु० पाकेन परिपक्वेन मनसा सुनोति सोमा-

भिषवं करोति सु--क्वनिप् तुक् च परिपक्वमनसा
सोमाभिषव कर्त्तरि यजमाने ऋ० १० ८६ १९ ।

पाकारि पु० पाकमृच्छति ऋ--इन् । १ श्वेतकाञ्चने रत्न-

माला । ६ त० । २ पाकशासने इन्द्रे च ।

पाकरु त्रि० पाकेन मुखपाकेन अरुर्व्रणम् पाकस्य अन्नादि-

पाकस्य वा अरुः क्षतम् शक० । १ मुखपाकेन क्षते २ अन्न-
पाकनाशके अग्निमान्द्ये च यजु० १२९५ । वेददी० ।

पाकिन् त्रि० पच--बा० घिनुण् कुत्वम् । १ पाककर्त्तरि २

पाकयुते च लघुपाकी इत्यादि सुश्व० ।

पाकिम त्रि० पाकेन निर्वृत्तः भावान्बत्वात् पाक + इमन् ।

पाकेन निर्वृत्ते सि० कौ० ।

पाकु त्रि० पच--लण् न्यङ्क्वा० कृत्वम् । पाचके

पाकुक त्रि० पच--उकञ् चस्य कश्च । सूषकारे पाचके उणा० । उणादि०

पाक्य त्रि० पच--कर्मणि ण्यत् ण्यति चस्य कश्च । १ षक्तव्ये

पाकेम साध्यम् पाकस्य हितं वा ना० यत् । २ विङ्लवणे
म० अमरः ३ पांशुलवणे रत्नमा० ४ यवक्षारे पु० अमरः ।

पाक्षिक त्रि० पक्षे पञ्चदशतिथ्यात्मके काले पक्षान्तरे

मंशयकीटिभेदे वा भवः ठञ् । १ पक्षकालभबे २ पक्षान्त-
रभवे ३ संशयैककोटीभवे च “नियमापाक्षिके सति”
मोमांसा ।

पाखण्ड त्रि० “पालनाच्च त्रयीधर्मः पाशब्देम निगद्यतं”

इत्युक्तेः पात्रीति पा--क्विप् पाः त्रयीधर्मः तं खण्डयति
खण्डि--अण् उप० स० । पाषण्डे सर्वलिङ्गिनि अमरटा-
कायां भानुदीक्षितः । मूर्द्धन्यषसध्यः सर्वसमम्मतः ।

पागल त्रि० पिबति सुरां सा + कर्त्तरि क्विप् पाः सुरा-

पायीव गलति स्खलति गल--अच् । उन्मत्ते “पागला-
याङ्गहीनाय चान्धाय वधिराय च । जड़ाय चैव
मूर्खाय क्लीवतुल्याय पापिने । व्रह्महत्यां लभेत् सोऽपि
यः स्वकन्यां ददाति च” ब्रह्मवै० प्रकृ० १ ४ अ० ।

पाङ्क्त त्रि० षङ्क्तौ भवादि वा उत्सा० अञ् । १ पङ्क्तिभवे

२ दशाक्षरपादकछन्दोभेदयुते च । पङ्क्तिसंख्याऽस्त्यस्य
अण् । ३ तत्संख्यायुतावयवयुते पशौ ४ पुरुषे च
“पाङ्क्तः पुरुषः पाङ्क्ताः पशवः” ताण्ड्यव्रा० २४२ ।
“पाङ्क्त्याख्ये छन्दसि पञ्चसंख्या विद्यते तस्य पञ्चभिः
पदैरुपेतत्वात् पुरुषेऽपि द्वौ हस्तौ द्वौ पादौ शिरश्चेति
पञ्चसङ्ख्या विद्यते पशुष्वपि चत्वारः पादाः पुच्छञ्चेति
पञ्चसंख्यास्ति” भा० पङ्क्तिच्छन्दसः दशाक्षरपादकत्वात्
चतुर्षु चरणेषु चत्वारिंशदक्षराणि सन्ति तेन
अनुष्टुपा गणनया पञ्चपादत्वमिति बोध्यम् ।

पाचक त्रि० पच--ण्वुल् । १ पाककर्त्तरि तद्वृत्तियुक्ते २

सूपकारे च । ३ अग्नौ हलायु० तस्य जठराग्निरूपेण वाह्या-
न्नादेश्च पाचकत्वात्तथात्वम् ३ पित्ताख्ये धातौ भावप्र०
“पाश्चकं रञ्जकं चापि साधकालोचके तथा । भ्राजक-
ञ्चेति पित्तस्य नामानि स्थानभेदतः” भावप्र० । तत्कार्य-
भेदश्च पित्तशब्दे दृश्यः । अन्नादौ विषदानादिपरि-
जिहीर्षया गृपादिभिर्यथा पाचकः वैद्याद्यधिष्ठितः
करणीयस्तथा सुश्रुते कल्पस्थाने दर्शितं यथा
“विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः । स्त्रियो वा
विविधान् योगान् कदाचित्सुभगेच्छया । विषकन्योपयो-
गाद्वा क्षणाज्जह्यादसून्नरः । तस्माद्वैद्येन सततं विषा-
द्रक्ष्यो नराधिपः । यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं
नृणाम् । न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् ।
कुलीनं धार्मिकं स्निग्धं सुभृतं सततोत्थितम् । अलुब्धम-
शठं भक्तं कृतज्ञं प्रियदर्शनम् । क्रोघपारुष्यमात्सर्य्यम-
दालस्यविवर्जतम् । जितेन्द्रियं क्षमावन्तं शुचिं
शीलदयान्वितम् । मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम् ।
पटुंपगल्भं निपुणं दक्षं मायाविवर्जितम् । पूर्वोक्तैश्च
गुणैर्युक्तं नित्यं सन्निहितागदम् । महानमे पयुञ्जात
वैद्यं तद्विद्यपूजितम् । प्रशस्तदिग्देशकृत शुचिभाण्डं
पृष्ठ ४२८७
महच्छचि । सजालकं गवाक्षाढ्यमात्मवर्गनिषेवितम् ।
विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम् । परीक्षितस्त्री-
पुरुषं भवेच्चापि महानसम । तत्राध्यक्षं नियुञ्जीत प्रायो
वैद्यगुणान्वितम् । शुचयो दक्षिणा दक्षा विनीताः प्रिय
दर्शनाः । संविभक्ताः सुमनसी नीचकेशनखाः स्थिराः ।
स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः । तस्य
चाज्ञाविज्ञेयाः स्युर्विविधाः परिकर्मिणः । आहारस्थि-
तयश्चापि भवन्ति प्राणिनो यतः । तस्मान्महानसे वैद्यः
प्रमादरहितो भवेत् । माहानसिकवोढारः सौपौदनिक-
पौपिकाः । भवेयुवैद्यवशगा ये चाप्यन्ये तु केचन ।
इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः । विद्याद्विषस्य
दातारमेभिर्लिङ्गैश्च बुद्धिमान् । न ददात्युत्तरं पृष्टो
विवक्षन् मोहमेति च । अपार्थं बहुसङ्कीर्णं भाषते
चापि मूढवत् । स्फोटयत्यङ्कुलीर्भूमिमकस्माद्विलिखेद्व-
सेत् । वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते । क्षामो
विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि । आलभेतासकृ-
द्दीनः करेण च शिरोरुहान् । निर्यियासुरपद्वारैर्वीक्षते
च पुनः पुनः । वर्त्तते विपरीतस्तु विषदाता विचेतनः ।
केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया । असता-
मषि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः । तस्मात् परीक्षणं
कार्यं भृत्यानामादितो नृपैः । अन्ने षाने दन्वकाष्ठे
तथाभ्यङ्गेऽवलेखने । उत्सादने कषाये च परिषेकेऽनु-
लेपदे । स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च । पादु-
कापादपीठेषु पृष्टेषु गजवाजिनाम् । विषजुष्टेषु
चान्येषु नस्यधूमाञ्जनादिषु । लक्षणानि प्रवक्ष्यामि चिकि-
त्सामप्यनन्तरम्” । ४ भुक्तान्नपाचकौषधादौ त्रि० ।

पाचन न० पाचयति कर्त्तरि ल्युपाच्यतेऽनेन करणे ल्युट् वा ।

१ पापक्षयकारके प्रायश्चित्ते मेदि० तस्य फलानुत्पादनेन
पापस्य नाशनात् तयात्वम् । २ दोषपाचनसाधनद्रव्यभेदे
तानि च चक्रपाणिदत्तेन रोगभेदे नानाविधान्युक्तानि
तत्र दृश्यानि तत्प्रदानकालश्च “ज्वरितं षडहेऽतीते
लष्वन्नमतिभोजनम् । सप्ताहात् पच्यतेऽस्तब्धे सामे
ख्यात् पाचनं हितम्” । सर्वपाचनद्रव्यप्रमाणं वैद्यके
उक्तं यथा “दशरत्तिकमाषेण गृहीत्वा तोलकद्वयम् ।
दत्त्वाम्भः षोड़शगुणं ग्राह्यं पादावशेषितम्” ३ अग्नौ पु०
मेदि० । ४ अम्लरसे हेमच० । ५ रक्तैरण्डे पु० राजनि० ६ ह ।
रितक्यां स्त्री ङीप् मेदि० । स्वार्थे क । पाचनक तत्रार्थेषु
पाचन + सं ज्ञायां कन् । टङ्कने (सोहागा) हेमच० ।

पाचल न० पाचयति पच--णिच् बा० कलन् । १ पाचने हेमच०

२ पाचके ३ अग्नौ ४ रन्धनद्रव्ये ५ वायौ च पु० शब्दर० ।

पाची स्त्री पाचयति पाचि--इन् गौरा० ङीष् । मरकत-

पत्र्यां हरितलतायां (पाच्ये) ख्याते लताभेदे राजनि०

पाच्य त्रि० पच--आवश्यके ण्यत् आवश्यकार्थत्वात् न कुत्वम ।

अवश्यपचनीये ।

पाजप्स् न० पाति रक्षत्यनेन पा--असुन् जुट् च । १ बले

निघण्टुः पृषो० पस्य बः । बाजस् अन्ने निघण्टुः पाजसे
हितम् यत् । पाजस्य बलकरे त्रि० यजु० २५ ८ ।

पाञ्चकपाल त्रि० समाहारद्विगुः तस्येदम् अण् । पञ्च-

कपालसम्बन्धिनि । द्विगुनिमित्तत्वाभावात् “द्विगोर्लुग-
नपत्ये” पा० न लुक् सि० कौ० ।

पाञ्चजन्य पु० पञ्चजनस्य दैत्यभेदस्येदम् बा० ण्य । पञ्च-

जनदैत्यास्थिनिमित्ते १ विष्णोः शङ्खे तत्कथा “समुद्रः
प्रत्युवाचेदं दैत्यः पञ्चजनो महान् । तिमिरूपेण तं
बालं ग्रस्तवानिति भारत! । स पञ्चजन्यमासाद्य जधान
पुरुषोत्तमः । न चाससाद तं वालं गुरुपुत्रं तदाऽच्युतः ।
स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः । स च देवम-
नुष्येषु पाञ्चजन्य इति श्रुतः” हरिवं० ९० अ० ।
पञ्चभिर्जनैर्निर्वृत्तः ष्यञ् । पञ्चजननिष्पाद्ये पञ्च-
वर्णे काश्यषवासिष्ठप्राणाङ्गिरसच्यवनरूपाग्निपञ्चकसाध्ये
२ वह्निभेदे यथोक्तं भा० व० २१९ अ० । “काश्यपो
ह्यथ वाशिष्ठः प्राणश्च प्राणपुत्रकः । अग्निराङ्गिरसश्चैव
च्यवनस्त्रिसुवर्चकः । अचरत् स तपस्तीव्रं पुत्रार्थे
बहुवार्षिकम् । पुत्रं लभेयं धर्सिष्ठं यशसा
ब्रह्मणा समम् । महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा
त्वथ । जज्ञे तेजोमहार्चिष्मान् पञ्चवर्णः प्रभाबतः ।
समिद्वोऽग्निः शिरस्तस्य बाहू सूर्यनिर्भौ तथा । त्वङ्-
नेत्रे च सुवर्णाभे कृष्णे जङ्घे च मारत । पञ्चवर्णः
स तपबा कृतस्तैः पञ्चभिर्जनैः । पाञ्चजन्यः श्रुतोदेवः
पञ्चवंशकरस्तु सः” । पाञ्चजन्यस्यादूरदेशादि चतुरर्थ्यां०
कर्णा० फिञ् । पाञ्चजन्यायनि तत्सन्निकृष्टदेशादौ त्रि० ।

पाञ्चजन्यधर पु० पाञ्चजन्यं धारयति धारि--अच् ह्रस्व ।

विष्णौ हारा० ।

पाञ्चदश त्रि० पञ्चदश्यां भवः कालत्वेऽपि सन्धिवेला० अण् । प्रञ्चदश्यां भवे

पाञ्चदश्य पु० पञ्चदशभिः सामधेनीमन्त्रैः प्रकाश्यः ण्यः ।

पञ्चदशभिः सामधेनीमन्त्रैः प्रकाश्ये अलौकिके वह्नौ
भाग० ६ । १ । २३ ।
पृष्ठ ४२८८

पाञ्चभौतिक त्रि० पञ्चभ्यो भूतेभ्य आगतः ठक् द्विपद-

वृद्धिः । आकाशादिभूतपञ्चकारब्धे देहादौ “पाञ्चभौ-
तिको देह” “चातुर्मौतकमित्येके” “ऐकभौतिकमि-
त्यपरे” सा० सू० । “ऐकभौतिकमैकैकिकभौतिकमित्यर्थः
तत्र मनुष्यादिशरीरे पार्थिवाधिक्येन पार्थिवता एवं मूर्य्या-
दिलोकेषु तैजसाधिक्येन तैजसादिता शरीराणां सुवर्णा-
र्दानामिव” भा० । इत्यनेकेषां मतमुक्त्वा ५ अ० स्वयं
निर्णयस्तत्रोक्तो यथा “न पाञ्चभौतिकं शरीरं बहूना-
मुपादानायोमात्” सा० सू० “बहूनां भिन्नजातीयानां
चोपादानत्वं घटपटादिस्थले न दृष्टमिति सजातीयमेवो-
पादानम् । इतरच्च भूतचतुष्टयमुपष्टम्भकमित्याशयेन
पाञ्चभौतिकत्वव्यवहारः । एकोपादानकत्वेऽपि पृथिव्ये-
वोपादानं सर्वशरीरस्य शरीरस्यैकमात्रभूतोपादानकत्वं
पूर्वोक्तमनेनैव प्रसङ्गेन विशिष्याह” भा० “सर्वेषु पृथिव्यु-
पादानमसाधारण्यात् तद्व्यपदेशः पूर्ववत्” सां० सू०
सर्वेषु शरीरेषु पृथिव्ये वोपादानम् असाधारण्यात्
आधिक्यादिभिरुत्कर्षात् । अत्राप्रि शरीरे पाञ्चचतु-
रादिभौतिकत्वव्यपदेशः पूर्ववत् इन्द्रियाणां भौतिक-
त्वबदुपष्टम्भकत्वमात्रेणेत्यर्थः” भा० । अयञ्च सांख्य-
पक्षः । वेदान्तिमते तु त्र्यात्मकता कायस्य तच्च
कायशब्दे १९२४ पृष्ठादौ दर्शितं तत्र दृश्यम् ।

पाञ्चालिका स्त्री पञ्चाली स्वार्थ अण् ततः स्वार्थे क कापि

अतैत्त्वम् । वस्त्रादिनिर्मितपुत्तलिकाबाम् द्विरूप० ।

पाञ्चवर्षिक त्रि० पञ्च वर्षाः प्रमाणमस्य ठञ् तस्य वा न

लुक् । पञ्चवर्षवयस्के त्रिका० ।

पाञ्चशब्दिक त्रि० पञ्चभिः शब्दैर्निर्वृत्तं ठक् । पञ्चभिः

शब्दैर्निष्पादिते वाद्यभेदे । पञ्चशब्दाश्च वाद्यभेदाः वथा
“अङ्गजं कर्मजं चैव तन्त्रजं कांस्यजं तथा । फुत्कृतं
चेति मुनिभिः कथितं पाञ्चशब्दिकम्” स्कन्दे रेवाख० ।

पाञ्चार्थिक पु० षञ्च अर्था कृत्यानि पाशाःवा यत्र सन्वि ठन्

बा० वृद्धिः । १ पशुपतिशब्ददर्शितकृत्यपञ्चकान्विते २ तत्रो-
क्तवाशपञ्चकयुते च पाशुपतागमे त्रिका० ।

पाञ्चाल त्रि० पञ्चालदेशे भवः स्वार्थे वा अण् । १ पञ्चालदेश-

भवे स्त्रियां ङीप् । पाञ्चाली । २ पञ्चालदेशे च पञ्चानां
विषयाणामन्यतोऽनवगतानां प्रकाशनायालमिति पृषो० ।
३ शास्त्रे “प्रवृत्तं च निवृत्तं च शास्त्र” पाञ्चालसंज्ञकम्”
माग० ४ । २५ । व्याख्यायां श्रीधरधृतवाक्यम् ।

पाट् अव्य० पाट--णिच् क्विप् । सम्बोधने मेदि० ।

पाटक त्रि० पट--ल्युल् । १ छेदके २ महाकिष्कौ ३ कटकान्तरे

४ वाद्ये ५ अक्षादिचालने ६ मूलद्रव्यापचये ७ रोधे मेदि०
८ ग्नामैकदेशे हेमच० ।

पाटच्चर पु० पटच्चर एव स्वार्थे प्रज्ञादित्वादण् । चौरे अमरः

पाटन न० चु० पट--भावे ल्युट् । छेदने

पाटल पु० पाटयति पट--णिच्--कलच् । १ श्वेतरक्तवर्णे ।

२ तद्वति त्रि० (पारुल) ख्याते ३ वृक्षे स्त्री० अमरः ।
४ तत्पुष्पे ५ आशुधान्ये च न० “अत्युष्णं पाटलं बद्धनि-
ष्यन्दि च त्रिदोषकृत्” राजनि० । ६ रक्तलोध्रे स्त्री
शब्दच० । पाटलोत्पत्तिर्यथा । “प्रदह्यमानौ चरणौ
दृष्ट्वाऽसौ कुसुमायुधः । उत्ससर्ज धनुः श्रेष्ठं तज्ज-
मामाथ षञ्चधा । यदासीन्मुष्टिबन्धन्तु रुक्मपृष्ठं
महाप्रभम् । स चम्पकतरुर्जातः स्रग्गन्धाद्यो गुणाकृतिः ।
नाहस्थानं शुभाकारं यदासीद् वज्रभूषितम् । तत् जातं
केशराढ्यं च बकुलो नामतो नगः । या च कोटी
शुभाह्यासीदिन्द्रनीलविभूषिता । जाता सा पाटला रम्या
भृङ्गराजिविभूषिता” वामनपु० ६ अ० । पाटलवर्णत्वात्
७ दुर्गायाम् स्त्री तन्त्रसा० । पाटलावतोशब्दे दृश्यम् ।
पाटलानां समूह पाशा० य । पाटल्या तत्समूहे स्त्री ।

पाटलद्रुम पु० नित्यकर्म्म० । पुन्नागवृक्षे राजनि० ।

पाटलापुष्पसन्निभ न० पाटलापुष्पेण तुल्यम् नित्यम० ।

पद्मकाष्ठे राजनि० ।

पाटलावती स्त्री १ नदीभेदे भा० भी० ९ अ० । २ दुर्गायाञ्च ।

“अपर्णानेकपर्णा च पाटला पाटलावती” तन्त्रसा० ।

पाटलि स्त्री पट--णिच् अलि । (पारुल) ख्याते १ वृक्षे

“पाटलिसंसर्गसुरभिवनवाताः” इति शकुन्तला २ घण्टा-
पाटलौ च अमरः वा ङीप् । ङीप् । ङीवन्तः ३ कटभीवृक्षे
४ सुष्ककचवृक्षे च राजनि० ।

पाटलिक पु० पाटि--अलि संज्ञायां कन् । अन्यधर्म्मज्ञे हारा० ।

पाटलिपुत्र न० (पाटना) ख्याते नगरभेदे कुसुमपुरे हेमच०

पाटलोपल पु० नित्यक० । श्वेतरक्तवर्णयुक्ते मणिभेदे

पाटव न० पटोर्भावः पृथ्वा० इमनिचोऽभावपक्षे अण् । १ दक्षत्वे

२ आरोग्ये च राजनि० । पटोश्छात्राः अण् । पाटवाः
तच्छात्रे ब० व० ।

पाटविक त्रि० पाटवमस्त्यस्य ठन् । १ पटौ दक्षे २ धूर्त्तेच त्रिका० ।

पाटहिका स्त्री पटहस्येदम् पाटहं तदाकारमस्यास्ति

ठन् । १ गुञ्जायां हारा० पटहे तद्वाद्ये प्रसृतः ठक् ।
२ पटहवाद्यवादके त्रि० ।
पृष्ठ ४२८९

पाटा स्त्री पाठा + पृषो० । पाठायाम् अथ० २ । २७ । ४

पाटित त्रि० चुरा० पट--क्त । विदारिते हेमच० ।

पाटी स्त्री पट--इन् वा ङीप् । १ बालावृक्षे राजनि० २

परिपाट्याम् गुणनादीनां ३ स्पष्टक्रमे च “अस्ति त्रैराशिकं
बीजं पाटी च विमला मतिः” लीला० ।

पाटीगणित न० पाट्या परिपाट्या गणितम् । लीलाव-

त्याद्यङ्कशास्त्ररूपे गणितशास्त्रे । “पाटी नाम सङ्कलि-
तव्यवकलितगुणनभजनादीनां क्रमः तया युक्तं गणितं
पाटीगणितम्” लीलावती टीका ।

पाटीर पु० पटीर + स्वार्थे अण् । पटीरे चन्दने विश्वः ।

पाटुपट त्रि० “पाठेर्णिलुल् चोक् चाभ्यासस्य” वार्त्ति० पाटि--

अच् नि० णिलुक् द्वित्वममभ्यासस्य उक् च । पाटके ।
सि० कौ० । पक्षे पाठ तत्रार्थे ।

पाट्य त्रि० चु० पट--कर्मणि यत् । १ छेद्ये २ पट्टशाके न०

राजनि० । “पाट्यशाकन्तु मधुरं दुर्जरं गुरुषाकि च”
राजनि० ।

पाठ पु० पठ--भावे घञ् । १ शास्त्रादेरभ्यासे पौनःपुन्येन

उच्चारणे । णिच्--भावे अच् । २ अध्यापने शिष्येभ्यः
प्रतिपादने च पाठस्वाष्टादश दोषा यथा “शङ्कितं भीतमु-
द्घुष्टमव्यक्तमनुनासिकम् । विस्वरं विरसञ्चैव विश्लिष्टं
विसमाहतम् । काकस्वरं निरसितं तथा स्थानविव-
र्जितम् । व्याकुलं तालहीनञ्च पाठदोषाः चतुर्दश ।
संगीतं शिरसः कम्पमल्पकण्ठमनर्थकम्” मार्क० पु० । अध्य-
यनक्रमो यथा “आचस्य प्रयतो नित्यमधीयीत उदङ्-
मुखः । उपसगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम्”
अध्यापनक्रमो यथा “अधीष्व भो इति ब्रूयाद्विरामो-
ऽस्त्विति चाचमेत् । प्राक् कूलात् पर्यु पासीनः पवित्रैश्चैव
पावितः । प्राणायामैस्त्रिभिः पूतस्तत आँकारमर्हति ।
ब्राह्मणः प्रणवं कुर्य्यादन्ते च विधिवद्द्विजाः! । कुर्य्या-
दध्यापनं नित्यं स ब्रह्मादीनि पूर्वतः । सर्वेषामेव
भूतानां वेदश्चक्षुः सनातनः । अधीयीताध्ययन्नित्यं ब्राह्म-
ण्याद्वीयतेऽन्यथा” इति कौर्मे उपरिभागे १ ३ अ० ।

पाठक त्रि० पठ--ण्वुल् । १ षठनकर्त्तरि णिच्--ण्वुल् ।

पाठके २ अध्यापके ३ पुराणादिवाचके च । तल्लक्षणादि-
कमुक्तं ति० त० यथा
“भविष्यपुराणम् “इतिहासपुराणानि श्रुत्वा भक्त्या
विशांपते! । मुच्यते सक्यापेभ्यो ब्रह्महत्यादिभिर्विभी! ।
ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् । श्रुत्वान्यवर्ण-
जाद्राजन् ! वाचकान्नरकं व्रजेत्” तथा “देवार्चामग्रतः
कृत्वा व्राह्मणानां विशेषतः । ग्रन्थिञ्च शिथिलं कुर्य्या-
द्वाचकः कुरुनन्दन! । पुनर्वध्नीत तत्सूत्रं न मुक्त्वा
धारयेत् क्वचित् । हिरण्यं रजतं गाश्च तथा कांस्योपदो-
हनाः । दत्त्बा तु वाचकायेह श्रुतस्याप्नोति तत्फलम्” ।
कांस्योपदोहनाः कांस्यक्रोड़ाः । “वाचकः पूजितोयेन
प्रसन्नास्तस्य देवताः” । तथा “ज्ञात्वा पर्वसमाप्तिं च पूजयेत्
वाचकं बुधः । आत्मानमपि विक्रीय, य इच्छेत् सफलं
कृतम्” । तथा “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा ।
कलस्वरसमायुक्तं रसभावसमन्वितम् । बुध्यमानः स्वयं
शुद्धो ग्रन्थार्थं कृत्स्नशो नृप! । ब्राह्मणादिषु सर्वेषु
ग्रन्थार्थं चार्पयन्नृप! । य एवं वाचयेद्ब्रह्मन् स विप्रो
व्यास उच्यते” । “सप्तस्वरसमायुक्तं काले काले विशा-
म्पते! । प्रदर्शयन् रसान् सर्वान् वाचयेद्वाचको नृप!” ।

पाठच्छेद पु० ६ त० । १ पाठस्य विच्छेदे २ यतौ च त्रिका० ।

पाठन न० पाठ--णिच्--भावे ल्युट् । १ अध्यापने युच् पाठना

तत्रार्थे स्त्री । २ कर्त्तरि ल्यु । २ पाठके त्रि० स्त्रियां
गौरा० ङीष् ।

पाठभू स्त्री ६ त० । पाठस्थाने त्रिका० पाठशालादयीऽप्यत्र ।

पाठमञ्जरी स्त्री पाठस्याभ्यासस्य मञ्जरीव । शारिकायास्

शब्दमाला ।

पाठशालिनी स्त्री पाठेन शलते शल--णिनि ङीप् । १ शारिकायाम् शब्दमा० २ पाठयुक्ते त्रि० ।

पाठा स्त्री पठ--कर्मणि घञ् टाप् । विद्धकर्ण्याम् (आकनादि)

अमरः । “पाठोष्णा कटुका तीक्ष्णा वात्रश्लेष्महरी
लघुः । हन्ति शूलज्वरच्छर्दि कुष्ठातीसारहृद्रुजः । दाह
कण्डूविषश्वासकृमिगुल्मगलव्रणान्” भावप्र० । स्वार्थे क
काबि अतैत्त्वम् । पाठिका तत्रार्थे भावप्र० । पाठक-
र्त्त्र्यां स्त्रियां च ।

पाठाड्यचूर्ण न० “पाटा विल्वानलव्योषजम्बूदाड़िमधातकी ।

कटुकातिविषामुस्तदार्वीभूनिम्बवत्सकैः । सर्वैरेतैः सभं
चूर्णं कौटजतण्डुलाम्बुना । सक्षौद्रञ्च पिबेच्छर्द्दि
ज्वरातीसारशूलवान् । तृड्दाहग्रहणीदोषारोचका-
नलसादजित्” चक्र० उक्ते चूर्णभेदे ।

पाठि पु० पाठ--इन् । पृष्ठे पाठीनशब्दे दृश्यम् ।

पाठिन् त्रि० पठ--णिनि । १ पाठके स्त्रियां ङीप् । पाठेषा-

कारेऽस्त्यस्य इनि । २ चित्रकवृक्षे अमरः ।

पाठीकुट पु० पाटेव कुटति कुट--क पृषो० । चित्रकवृक्षे राजनि० ।

पृष्ठ ४२९०

पाठीन पुंस्त्री० पाठिं पृष्ठं नमयति नम--ड दीर्घः । १ मत्स्य-

भेदे (वोयाल) अमरः स्त्रियां ङीष् । “पाठीनरोहिता-
वाद्यौ” मनुः । “पाठीनः श्लेष्मलः स्निग्धो मधुरश्च
कषायकः । बल्यो वृष्यः कटुः पाके रोचनो वातपित्तनुत्”
राजव० पठ--ईनन् । २ गुग्गुलुवृक्षे ३ पाठके त्रि० मेदि० ।

पाठेय त्रि० पाठायां भवः नद्या० ढक् । पाठाभवे

पाण पु० पण--भावे घञ् । १ व्यवहारे २ पणने ३ समये च भा०

व० ६० ४८ श्लो० । ४ पाणौ शब्दच० ।

पाणि पु० पण--इण् आयाभावः । १ करे २ कुलिके वृक्षे च

(कुलेखाड़ा) अमरः ३ पण्यवीथ्यां ४ हट्टे च स्त्री०
उणा० । करश्च मणिबन्धावध्यङ्गुलिपर्य्यन्तः ।

पाणिक त्रि० पणेन क्रीतं निष्का० ठक् । १ पणेन क्रीते

२ कुमारानुचरमातृभेदे भा० व० ५५ अ० ।

पाणिकच्छपिका स्त्री पाणिभ्यां कृता कच्छपिका कच्छ-

पस्तदाकारोऽस्त्यस्याः ठन् । कूर्ममुद्रायाम् “पाणिकच्छ-
पिकां कुर्य्यात् कूर्ममन्त्रेण साधकः” काकिकापु० ५६ अ०

पाणिकर्म्मन् पु० पाणिभ्यां वादनरूपं कर्म्मास्य । १ महादेवे

भा० शा० २८६ । २ पाणिभ्यां वादके त्रि० ।

पाणिकूर्च्चा स्त्री कुमारानुचरमातृभेदे भा० श० ४६ अ० ।

पाणिखात न० तीर्थभेदे भा० व० ८ ३ अ० ।

पाणिगृहीती स्त्री पाणिर्गृहीतो यस्याः ङीप् । पाणि

ग्रहणेन कृतसंस्कारायां सवर्णायां स्त्रियाम् अमरः ।
“पाणिग्रहणसंस्काराः सवर्णासूपदिश्यते” मनुना
सवर्णायामेव पाणिग्रहणविधानात् तथात्वम् ।

पाणिग्रह पु० पाणिर्गृह्यतेऽत्र ग्रह--आधारे अप् ।

विवाहे “हस्तास्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणि-
ग्रहः” वृ० स० १०० अ० ।

पाणिग्रहण न० पाणिर्गृह्यते अत्र ग्रह--आधारे ल्युट् ।

विवाहे हेमच० । पाणिग्रहणप्रकारः आश्व० गृ० सू०
१ ७ ३ यथा “पश्चादग्मेर्दृषदमश्मानं प्रतिष्ठाप्योत्तर-
पुरस्तादुदकुम्भं समन्वारवब्धायां हुत्वा तिष्ठन् प्रत्यङ्सुखः
प्राङ्मुख्या आसीनाया गृह्णामि ते सौभगत्वाय हस्त-
मित्यङ्गुष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा
जायेरन्निति” सू० । “दक्षिणतः पत्न्युपविशेत् उत्तरतः
पतिरिति शास्त्रान्तरे दृष्टम् । “उत्तानेनोत्तानं पाणिं
गृह्णीयात्” नारा० ।
“अङ्गुलीष्वेव स्त्रीकामः” सू० “एवकारोऽङ्गुष्ठनिवृ-
त्त्यर्थः । स्त्रीकामो धितृकाभ इत्यर्थः” नारा० “हस्त
साङ्गुष्ठनुभयकामः” सू० । “उभयकामः पुत्रदुहितृकामः
अङ्गुष्ठमङ्गुलीभिः” सह गृह्णीयादित्यनुषङ्गः नारा० ।

पाणिग्रहणिक त्रि० पाणिग्रहणं प्रयोजनमस्य ठक् । विवा-

हाङ्गे मन्त्रे “पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रति-
ष्ठिताः” “पाणिग्रहणिका मन्त्रा नियतं दारलक्ष-
णम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे” सनुः
ते च मन्त्राः “अर्य्यम्णं तु देवं कन्या अग्निमयक्षतेत्या-
दयः” आश्व० गृ० १ । ७ १ ७ सूत्रादौ १९ सूत्रान्ते
पठिता बोध्याः ।

पाणिग्रहीतृ पु० पाणिं गृह्णाति ग्रह--वृच् ६ त० । वेढ़रि पत्यौ भा० अनु० २ ४० ३ श्लोकः ।

पाणिग्राह पु० पाणिं गृह्णाति ग्रह--अण् उप० स० ।

वोढ़रि मनुः ५ । १ ४८ ।

पाणिघ त्रि० पाणिं पाणिना वा हन्ति “पाणिघताड़घौ

शिल्पिनि” पा० हन--ट नि० । १ पाणिताड़के पाणिना
२ मृदङ्गादिपादके च शिल्पिभेदे ।

पाणिघात पु० पाणिं हन्ति--अशिल्पित्वात् अण् उप० स० ।

१ पाणिताड़कमात्रे सि० कौ० । हन--मावे घञ् । २ पाणि-
हनने पु० ।

पाणिघ्न त्रि० पाणो हन्ति हन--टक् वेदे शिल्पिनि नि० । हस्ततालवादके यजु० ३५ । २० ।

पाणिज पु० पाणौ जायते जन--ड ७ त० । नखे हेमच० ।

पाणितल न० ६ त० । १ करस्याधोभागे पाणिरेव तलम् ।

करतले । तन्मितद्रव्ये २ तोलके कर्षशब्दे दृश्यम् ।

पाणिधर्म्म पु० पाणिग्रहणाख्यो धर्म्मः शा० त० । षाणि-

ग्रहणरूपे धर्म्मे “पाणिधर्मो नाहुषायं नपुंभिः
सेवितः षुरा” भा० अ० ८१ आ० ।

पाणिन पु० पणिनो मुनेरपत्यम् अण् गाथीत्यादिना

पकृत्या न टिलोपः । पाणिनौ मुनौ त्रिका० ।

पाणिनि पु० पणिनो यून्यपत्यम् अण् ततः यूनि इञ् न

टिलोपः । पाणिनिनामके मुनौ “येनाक्षरसंमास्ना-
यमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं चक्रे तस्मै
पाणिनये नमः” शेखरः । स च अष्टाध्यायीरूपसूत्रपाठं
गणपाठं घातुपाठं लिङ्गानुशासनं शिक्षारूपं च ग्रन्थप-
ञ्चकं चकार । पाणिनिमतञ्च सर्वदर्शनसंग्रहे दर्शितं
ततो दिङ्मात्रं प्रदर्श्यते ते ।
“भवति च च्याकरणशास्त्रस्य शब्दानुशासनं प्रयोजनं (तस्य
तदुद्देशेन प्रवृत्तेः तत्प्रयोजनत्वम्) यथा स्वर्गोद्देशेन प्रवृ-
त्तस्य यागस्य स्वर्गः प्रयोजनं तस्मात् शब्दानुशिष्टिः
संस्कारपदवदनीया शब्दानुशासनस्य प्रयोजनम् । नन्वेवम-
प्याभमतं प्रयोजनं न लभ्यते तदपायाभावात् । अथ प्रति-
पृष्ठ ४२९१
पदपाठ एवाभ्युपाय इति मन्येथाः तर्हि स ह्यनभ्यु-
पायः शब्दानां प्रतिपत्तौ प्रतिपदपाठो भवेत् शब्दाप-
शब्दभेदेनानन्त्याच्छब्दानाम् एवं हि समाम्नायते “वृह-
स्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदपाठविहितानां
शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम” वृहस्प-
तिश्च प्रवक्ता इन्द्रोऽध्येता दिव्यं वर्षसहस्रमध्ययनकालः
न च पारावाप्तिरभूत् किमुताद्य यश्चिरं न जीवति
अधीतबोधाचरणप्रचारणैश्चतुर्भिरुपायैर्विद्योपयुक्ता
भवति । तत्राध्ययनकालेनैव सर्वमायुरुपयुक्तं स्यात्तस्मादन-
भ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठ इति प्रयोजनं
न सिद्ध्येदिति चेन्मैवं शब्दप्रतिपत्तेः प्रतिपदपाठ-
साध्यत्वानङ्गीकारात् प्रकृत्यादिविभागकल्पनावत्सु
लक्ष्येषु सामान्यविशेषरूपाणां लक्षणानां पर्जन्यवत् सकृदेय
प्रवृत्तौ बहूनां शब्दानामनुशासनोपलम्भाच्च तथाहि
कर्मण्यण्, इत्येकेन सामान्यरूपेण लक्षणेन कर्मोपपदाद्धा-
तुमात्रादण्प्रत्यये कृते कुम्भकारः काण्डलाव इत्यादीनां
बहूनां शब्दानामनुशासनमुपलभ्यते एवमातोऽनुपसर्गेक
इति । प्रतिपदपाठस्याशक्यत्वप्रतिपादनपरोऽर्थवादः । नन्व-
न्येष्वप्यङ्गेषु सत्सु किमित्येतदेवाद्रियते । उच्यते प्रधा-
नञ्च षट्स्वङ्गेषु व्याकरणम् । प्रधाने च कृतो यत्नः
फलवान् भवति । तदुक्तम् “आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं
तपः । प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः” इति ।
तस्मात् व्याकरणशास्त्रस्य शब्दानुशासनं भवति साक्षात्
प्रयोजनं पारम्पर्य्येण तु वेदरक्षादीनि । अतएवोक्तं
भगवता भाष्यकारेण “रक्षोहागमलघ्वसन्देहाः प्रयोज-
नमिति” साधुशब्दप्रयोगवशादभ्युदयोऽपि भवति तथाच
कथितं कात्यायनेन “शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं
वेदशब्देनेति” । अन्यैरप्युक्तम् “एकः शब्दः सम्यग्ज्ञातः
सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति” । तथा
“नाकमिष्टसुखं यान्ति सुयुक्तैर्बद्धवाग्रथैः । अथ
पत्काषिणो यान्ति ये चोत्क्रमणाभाषिणः” । “नन्वचेतनस्य
शब्दस्य कथमीदृशं सामर्थ्यमुपपद्यत इति चेन्मैवं
मम्येथाः महता देवेन साम्यश्रवणात् तदाह श्रुतिः
“चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो
अस्य । त्रिधा बद्धो वृषभो सोरवीति महो देवो मत्याँ
आविवेश” । व्याचकार च भाष्यकारः “चत्वारि
शृङ्गाणि चत्वारि पदलातानि नामाख्यातोपसर्गनिपाताः,
त्रयो अस्य पादाः लड़ादिविषयाः त्रिधा भूतभविष्य-
द्वर्त्तमानकालाः । द्वे शोर्षे द्वौ नित्यानित्यात्मानौ नित्यः
कार्यश्च व्यङ्ग्यव्यञ्जकभेदात्, सप्तहस्तासो अस्य तिडा सह
सप्त सुब्विभक्तयः, त्रिधा बद्धः त्रिषु स्थानेषु उरसि
कण्ठे शिरसि च वद्ध, वृषभ इति प्रसिद्धवृषभत्वेन रूपणं
क्रियते वर्षणाद्वर्षणञ्च ज्ञानपूर्वकानुष्ठानेन फलप्रदत्वं,
रोरवीति शब्दं करोति रौतिः शब्दकर्म्मा । इह शब्द-
शब्देन प्रपञ्चो विवक्षितः । महौ देवो मर्त्याँ आविवेश
महादेवः शब्दः मर्त्या मरणधर्म्माणो मनुष्यास्तानाविवे-
शेति महता देवेन परेण ब्रह्मणा साम्यमुक्तं स्यादिति”
जगन्निदानं स्फोटाख्यो निरवयवो नित्यः शब्दो ब्रह्मै-
वेति हरिणाभाणि ब्रह्मकाण्डे “अनादिनिधनं ब्रह्म
शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो
यतः” इति । ननु नामाख्यातभेदेन पदद्वैविध्यप्रतीतेः
कथं चातर्विध्यमुक्तमिति चेन्मैवं प्रकारान्तरस्य प्रसिद्ध-
त्वात् । तदुक्तं प्रकीर्णके “द्विधा कैश्चित् पदं भिन्नं
चतुर्द्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृति-
पत्ययादिवदिति” । “कर्भप्रवचनीयेन वै पञ्चमेन सह
पदस्य पञ्चविधत्वमिति” हेलाराजो व्याख्यातवान् । कर्म-
प्रवचनोयास्तु क्रियाविशेषीपजनितसम्बन्धावच्छेदहेतव
इति सम्बन्धविशेषद्योतनद्वारेण क्रियाविशेषद्योतनादुप-
सर्गेष्वेवान्तर्भवतीत्यभिसन्धाय षढचातुर्विव्यं भाष्यकारे-
णोक्तं युक्तमिति विवेक्तव्यम् । ननु भवता स्फोटात्मा
नित्यः शब्द इति निजागद्यते तन्न मृष्यामहे तत्र प्रमा-
णाभावादिति केचित् अत्रोच्यते प्रत्यक्षमेवात्र प्रमाणं
गोरित्येकं पदमिति नानावर्णातिरिक्तैकपदावगतेः सर्व-
जनीनत्वान्न ह्यसति बाधके पदानुभवः शक्यो मिथ्येति
वक्तुं पदार्थप्रतीतेरन्यथानुपपत्त्यापि स्फाटोऽभ्युपग-
न्तव्यः । न च वर्णेभ्य एव तत्प्रत्ययः प्रादुर्भवतोति
परीक्षाक्षमं विकल्पासहत्वात् किं समस्ता व्यस्ता वा अर्थ-
प्रत्ययं जनयन्ति? नाद्यः वर्णानां क्षणिकानां समूहा-
सम्भवात् नान्त्यः व्यस्तवर्णभ्योऽर्थप्रत्ययासम्भवात् । न च
व्याससमासाभ्यामन्यः प्रकारः समस्तीति तस्माद्वर्णानां
वाचकत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोट इति
वर्णातिरिक्तो वर्णाभिव्यङ्गोऽर्थप्रत्यायकी नित्यः शब्दः
स्फोट इति तद्विदो वदन्ति । अतएव स्फुट्यते व्यज्यते
वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः स्फुटीमनत्यस्मादर्थ
इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थसुभयथा
निराहुः । तथाचोक्तं भगवता पतञ्जलिना महाभाष्ये
पृष्ठ ४२९२
“अथ गौरित्यत्र कः शब्दो? येनोच्चरितेन सास्नालाङ्गू-
लककुदखुरविषाणानां सम्प्रत्ययो भवति स शब्दद इत्यु-
च्यते” इति । विवृतञ्च कैयटेन “वैयाकरणा वर्णव्यति-
रिक्तस्य पदस्य वाचकत्वमिच्छन्ति वर्णानां वाचकत्वे
द्वितीयादिवर्णोच्चारणानर्थक्यपसङ्गादित्यादिना तद्व्यति-
रिक्तः स्फोटो नादाभिव्यङ्ग्यो वाचको विस्तरेण वाक्य-
पटीये व्यवस्थापित” इत्यन्तेन प्रबन्धेन । ननु स्फोटस्या-
प्यर्थप्रत्यायकत्वं न घटते विकल्पासहत्वात् किमभिव्यक्तः
स्फोटोऽर्थं प्रत्याययति अनभिव्यक्तो वा न चरमः सर्वदा
अर्थप्रत्ययलक्षणकार्य्योत्पादप्रसङ्गात् स्फोटस्य नित्यत्वाभ्युप-
गमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्य्यस्य विलम्बा-
योगात् । अथैतद्दोषपरिजिहीर्षया अभिव्यक्तः स्फोटोऽर्थं
पत्यायतीति कक्षीक्रियते तथाभिव्यञ्जयन्तो वर्णाः किं
प्रत्येकमभिव्यञ्जयन्ति सुम्भूय वा पक्षद्वयेऽपि वर्णानां
वाचकत्वपक्षे भवता ये दोषा भाषितास्त एव स्फोटाभिव्यञ्जक-
त्वपक्षे आवर्त्तनीयाः । तदुक्तं भट्टाचार्य्यैर्मीमांसाश्लोकवा-
र्त्तिके “यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः ।
सोऽपि पर्य्यनुयोगेन नैकेनापि विमुच्यते” इति । “विभक्त्यन्वं
पदम्” विभक्त्यन्तेष्वेव वर्णेषु पाणिनिना “ते
विभक्त्यन्ताः पदमिति” गौतमेव च पदसंज्ञायाविहितत्वात्
सङ्केतग्रहणेनानुग्रहबशाद्वर्णेष्वेव पदबुद्धिर्भविष्यति ।
तर्हि सर इत्येतस्मिन् पदे यावन्तो वर्णास्तावन्त एव रस
इत्यत्रापि वनं नवं नदी दीनी रामो मारो राजा जारे-
त्यादिष्यर्थभेदप्रतीतिर्न स्यादिति चेन्न क्रमभेदेन भेदसम्भ-
वात् तदुक्तं तौतातिकैः “यावन्तो यादृशा ये च यदर्थ-
प्रतिपादने । वर्णाः प्रज्ञातसामर्थ्यास्त्रे तथैवावबोधकाः”
इति । तस्माद्यश्चोभयोः समो दोषो न तेनैकश्चोद्यो
भवतीति न्यायात् वर्णानामेव वाचकत्वोपपत्तौ नाति-
रिक्तस्फोटकल्पनाऽवकल्पते इति चेत् तदेतत् काशकुशाव-
लम्बनकल्पं विकल्पानुपपत्तेः किंवर्णमात्रे पदप्रत्ययाव-
लम्बनं वर्णसमूहे वा? नाद्यः परस्परविलक्षणवर्णाना-
मभिन्नं निमित्तं पूष्पेषु विना सूत्रं मालाप्रत्ययवदित्येकं
पदमिति प्रतिपत्तेरनुपपत्तेः नापि द्वितीयः उच्चरित-
प्रध्वस्तानां वर्णानां समूहभावासम्भवात् । तत्र हि
समूहव्यपदेशः ये पदार्था एकस्मिन् प्रदेशे सहावस्थिततया
वहवोऽनुभूयन्ते यथा एकस्विन् प्रदेशे सहावस्थिततयानु-
भूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशः यथा वा
गजगरतुरगादिषु, न च ते वर्णास्तथानुभूयन्ते उत्-
पन्नप्रध्वस्तत्वात् । अभिव्यक्तिपक्षेऽपि क्रमेणैवाभिव्यक्तौ
समूहासम्भवात् नापि वर्णेषु काल्पनिकः समूहः कल्प-
नीयः परस्पराश्रयप्रसङ्गात् । एकार्थप्रत्यायकत्वसिद्धौ
तदुपाधिना वर्णेषु पदत्वप्रतीतिः तत्सिद्धावेकार्थप्रत्या-
यकत्वसिद्धिरिति । तस्माद्वर्णानां वाचकत्वासम्भवात्
स्फोटोऽभ्युपगन्तव्यः । ननु स्फोटवाचकतापक्षेऽपि प्रा-
गुक्तविकल्प प्रसरेण घट्टकुटीप्रभातायितमिति चेत् तदेत-
न्मनोराज्यविजृम्भणं वैषम्यसम्भवात् । तथाहि
अभिव्यञ्जकोऽपि प्रथमो ध्वनिः स्थोटमस्फोटमभिव्यनक्ति
उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुटं स्फुटतरं स्फुटतमं,
यथा स्वाध्यायः सकृत् पठ्यमानो नावधाय्यते अभ्यासेन
तु स्फुटाध्यवसायः यथा वा रत्नतत्त्वं प्रथमप्रतीतौ स्फुटं
न चकास्ति चरमे चेतसि यथावदभिव्यज्यते “नादैराहि-
तवीजायामन्त्येन ध्वनिना सह । आवृत्तिपरिपाकायां
बुद्धौ शब्दोऽवधार्यतं” इति प्रामाणिकोक्तेः । तस्मादस्मा-
च्छब्दादर्थं प्रतिपद्यामहे इति व्यवहारवशाद्वर्णानाम्
अर्थवाचकत्वानुपपत्तेः प्रथमे काण्डे तत्रभवद्भिर्भर्तृहरि-
भिरभिहितत्वात् निरवयवमर्थप्रत्यायकं शब्दतत्त्वं स्फो-
टाह्वयवमभ्युपगन्तव्यमित्येतत् सर्वम् “परमार्थसंविल्लक्षण-
सत्ता जातिरेव सर्वेषां शब्दानामर्थ इति प्रतिपादनपरे
जातिसमुद्देशे प्रतिषादितम् । यदि सत्तैवार्थः सर्वेषां
शब्दानां पर्य्यायता स्यात् तथा च क्वचिदपि युगपत्त्रि-
चतुरपदप्रयोगायोग इति महच्चातुर्य्यमायुष्मतः । तदुक्तम्
“पर्य्यायाणां प्रयोगो हि यौगपद्येन नेष्यते । पर्य्याये-
णैवः ते यस्माद्वदन्त्यर्थं न संहताः” इति । तस्मादयं पक्षो
न क्षोदक्षम इति चेत् तदेतद्गगनरोमन्थकल्पं नीललो-
हितपीताद्युपरञ्जकद्रव्यभेदेन स्फटिकमणेरिव सम्बन्धि-
भेदात् सत्तायास्तदात्मना भेदेन प्रतिपतिसिद्धौ गोसत्तादि-
रूपगोत्वादिभेदनिबन्धनव्यवहारवैलक्षण्योपपत्तेः
तथाचाप्तवाक्यम् “स्फटिकं विमलं द्रव्यं यथा युक्तं पृथक्
पृथक् । नीललोहितपीताद्यैस्तद्वर्णमुपलभ्यते” इति ।
तथा हरिणाप्युक्तम् “सम्वन्धिभेदात् सत्तैव भिद्यमाना
गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यव-
स्थिताः । तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते । सा
सत्ता सा महानात्मा तामाहुस्त्वतलादयः” इति ।
आश्रयभूतैः सम्बन्धिभिर्भिद्यमाना कल्पितभेदा गवाश्वादिषु
सत्तैव महासामान्यमेव जातिः गोत्वादिकमपटं
सामान्य परभार्थतस्ततो भिन्नं न भवति गोसत्तैव गोत्वं
पृष्ठ ४२९३
नापरमन्वयि प्रतिभासते एवमश्वसत्ता अश्वत्वमित्यादि
वाच्यम् । एवञ्च तस्यामेव गवादिभिन्नायां सत्तायां
जातौ गोशब्दादयो वाचकत्वेन व्यवम्थिताः प्रातिपदि-
कार्थञ्च सत्तामाहुः । भाववचनो धातुरिति पक्षे
भावः सत्तैवेति धात्वर्थः सत्ता भवत्येव क्रियावचनो धातु
रिति पक्षेऽपि “जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्ति-
नीमिति” जातिपदार्थनयानुसारेणानेकव्यक्तिक्रियासमुद्देशे
क्रियाया जातिरूपत्वप्रतिपादनात् धात्वर्थः सत्ता भवत्येव
तस्य भावस्त्वतलाविति भावार्थे त्वतलादीनां विधानात्
सत्तावाचित्वं युक्तं सा च सत्ता उदयव्ययवैधुर्य्यान्नित्या
सर्वस्य प्रपञ्चस्य तद्विवर्त्ततया देशतः कालतो वस्तुतश्च
परिच्छेदराहित्यात् सा सत्ता महानात्मेति व्यपदिश्यत
इति कारिकाद्वयार्थः । द्रव्यपदार्थसंविल्लक्षणं तत्त्वमेव
सर्वशब्दार्थ इति सम्बन्धसमुद्देशे समर्थितम् “सत्यं वस्तु
तदाकारैरसत्यैरवधार्य्यते । असत्योपाधिभिः शब्दैः सत्य-
मेवाभिधीयते । अध्रुवेण निमित्तेन देवदत्तगृहं यथा ।
गृहीतगृहशब्देन शुद्धमेवाभिधीयते” इति । भाष्य-
कारेणापि “सिद्धे शब्दार्थसम्बन्धे” इत्येतद्वार्त्तिकव्याख्या-
नावसरे द्रव्यं हि नित्यमित्यनेन ग्रन्थेन अश्वत्थोपाध्य-
वच्छिन्नं ब्रह्मतत्त्रं द्रव्यशब्दवाच्यं सर्वशब्दार्थः” इति
निरूपितम् । जातिशब्दार्थवाचिनो वाजप्यायनस्य मते
गवादवः शब्ढाः भिन्नद्रव्यसमवेतां जातिमभिदवति तस्यामव-
गाह्यमानायां तत्सम्बन्धात् द्रव्यमवगम्यते, शुक्लादयः
शब्दा गुणसमवेतां जातिमाचक्षते गुणे तत्सम्बन्धात्
प्रत्ययः द्रव्यसम्बन्धिसम्बन्धात् संज्ञाशब्दानामुत्पत्तिप्रभृत्या-
विनाशात् शैशवकौमारयौवनाद्यवस्थादिभेदेऽपि
स एवायमित्यभिप्रत्ययबलात् सिद्धा देवदत्तत्वादिजातिरभ्युप-
गन्तव्या । क्रियास्वपि जातिरालक्ष्यते सैव धातुवाच्या
पचतीत्यादावनुवृत्तप्रत्ययस्य प्रादुर्भावात् । द्रव्यपदार्थ-
वादिव्याडिनये शब्दस्य व्यक्तिरेवाभिधेयतया प्रतिभासते
जातिस्तूपलक्षणतयेति नानन्त्यादिदोषावकाशः । पाणि-
न्याचार्य्यस्योभयं सम्मतं यती जातिपदार्थमभ्युपगम्य
“जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्” इत्यादि-
व्यवहारः, द्रव्यपदार्थमङ्गीकृत्य “सरूपाणामेकशेष एकवि-
भक्तौ” इत्यादिः । व्याकरणस्य सर्वपार्षदत्वान्मतद्वयाभ्युपगमे
न कश्चिद् विरोधः । तस्मात् अद्वयं सत्यं परं ब्रह्मतत्त्वं
सर्वशब्दार्थ इति स्थितम् । तदुक्तम् “तस्माच्छक्तिवि-
भागेन सत्यः सर्वः सदात्मकः । १ कोऽर्थः शब्दवाच्यत्वे
बहुरूपः प्रकाशते” इति । सत्यस्वरूपमपि हरिणोक्तं
सम्बन्धसमुद्देशे “यत्र द्रष्टा च दृश्यञ्च दर्शनञ्चाविकल्पि-
तम् । तस्यैवार्थस्य सत्यत्वमाहुस्त्रय्यन्तवेदिनः” इति ।
द्रव्यसमुद्देशेऽपि “विकारोपगमे सत्यं सुवर्णं कुण्डले
यथा । विकारापगमो यत्र तामाहुः प्रकृतिं पराम्”
इति । अभ्युपगताद्वितीयत्वनिर्वाहाय वाच्यवाचकयो-
रविभागः प्रदर्शितः “वाच्या सा सर्वशब्दानां शब्दाच्च न
पृथक् ततः । अपृथक्त्वेऽपि सम्बन्धस्तयोर्नानात्मनोरिव”
इति तत्तदुपाधिपरिकल्पितभेदबहुलतया व्यवहारस्या-
विद्यामात्रकल्पितत्वेन प्रतिनियताकारोपधीयमानरूपभेदं
ब्रह्मतत्त्वं सर्वशब्दविषयः अभेदे च पारमार्थिके संवृति-
वशाद्व्यवहारदशायां स्वप्नावस्थावदुच्चावचः प्रपञ्ची
विवर्त्तत इति कारिकार्थः । तदाहुर्वेदान्तवादनिपुणाः ।
“यथा स्वप्नप्रपञ्चोऽयं मयि मायाविजृम्भितः । एवं
जाग्रत्प्रपञ्चोऽपि मयि मायाविजृम्भितः” इति । तदित्थं
कूटस्थे परस्मिन् ब्रह्मणि सच्चिदानन्दरूपे प्रत्यगभिन्ने-
ऽवगते अनाद्यविद्यानिवृत्तौ तादृग्ब्रह्मात्मनावस्थानलक्षणं
निःश्रेयसं सेत्स्यति । “शब्दब्रह्मणि निष्णातः परं ब्रह्मा-
धिगच्छति” इत्यभियुक्तोक्तेः । तथाच शब्दानुशासनशा-
स्त्रस्य निःश्रेयससाधनत्वं सिद्धम् । तदुक्तम् “तद्द्वारमप-
वर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्या-
नामधिविद्यं प्रचक्षते” इति । तथा “इदमाद्यं
पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमार्गाणा
गजिह्मा राजपद्धतिरिति” । तस्पाद्व्याकरणाशास्त्रं
परमपुरुषार्थसाधनतयाध्येतव्यमिति” ।
पाणिनिप्रोक्ताष्टाध्यायीरूपस्य व्याकरणत्वम् । तत्तात्पर्यञ्च
वाक्यपदीये हरिणा ब्रह्मकाण्डे विस्तरत उक्तं दृश्यम् ।

पाणिनीय त्रि० पाणिनौ भक्तिरस्य छ । १ पाणिनिभक्तियुक्ते

तेन ज्ञातमुपज्ञातं वा छ । २ पाणिनिना ज्ञाते ३ तेनीप-
ज्ञाते च । पाणिनिना प्रोक्तम् अण् । ४ पाणिना प्रोक्ते
त्रि० “अकृतव्यूहाः पाणिनीयाः” व्या० परिभाषा ।

पाणिन्धम(य) पाणिं धमति ध्मा--धयति वा धे--वा खश् ।

१ पाणिबादके यान्तः २ पाणितापके सुग्धबो० तन्मूलं सृग्यम्

पाणिपाद न० पाणी च पादौ च समाहृतौ समा० द्व० ।

पाण्योः पादयोश्च समाहारे ततः अस्त्यर्थे प्राण्यङ्गत्वात्
मतुबेव न ठन् । पाणिपादवत् तद्युते सि० कौ० ।

पाणिपीडन न० पाणिः पीड्यते अत्र पीड--आधारे ल्युट् ।

१ विवाहे अमरः । ६ त० । २ अन्योन्यं पाण्योर्मर्दने च ।
पृष्ठ ४२९४

पाणिबन्ध पु० पाणिर्बध्यतेऽत्र बन्ध--आधारे घञ् । विवाहे

भा० शा० २६७ अ० ।

पाणिभुज् पु० पाणिरिव भुज्यते मोट्यते भुज--मोटने क्विप् ।

१ उदुम्बरवृक्षे । पाणिना भुङ्क्ते भुज--क्विप् । २ हस्तेन
भोजके त्रि० शब्दच० ।

पाणिमर्द्द पु० पाणिं मृद्नाति मृद--अण् उप० स० । १

करमर्द्दे राजनि० । २ करमर्दकमात्रे त्रि० ।

पाणिमुक्त न० पाणिम्यां मुक्तम् । हस्तक्षिप्यमाणे आयुधे अस्त्रे हला० ।

पाणिमुख पु० पाणिर्ठिप्रपाणिर्मुखमिय होमस्थानं यस्य ।

पितरि । “अग्निमुखा वै देवाः पाणिमुखाः पितरः हि
ब्राह्मणम्” आश्व० श्रौ० ४ । ८ । ६ “देवानामग्निमुखत्वादग्नौ
होमः पितॄणां पाणिमुखत्वात् पाणौ होमः” नारा० ।
होमश्चात्राग्नौकरणाङ्गहोमः पाणिहोमशब्दे दृश्यः ।

पाणिरुह पु० पाणौ रोहति रुह--क । नखे राजनि०

पाणिवाद पु० पाणिं पाणिना मृदङ्गादिकं वा वादयति

वद--णिच्--अच् । १ हस्तताड़के २ हस्तेन मृदङ्गादि-
वादके च अमरः ण्वुल् । पाणिवादक तत्रार्थे त्रि०
हेमच० ।

पाणिसर्ग्या स्त्री पाणिभ्यां सृज्यतेऽसौ सृज--कर्मणि ण्यत् कुत्वम् । रज्ज्वाम् सि० कौ० ।

पाणिस्वानक त्रि० पाणिस्वनः प्रयोजनमस्य ठक् । हस्त-

तालदायके पाणिवादके भा० द्रो० ८३ अ० ।

पाणीतक पु० कुमारानुचरमातृभेदे भा० श० ४६ अ० ।

पाणिहोम पु० ७ त० । पात्रव्रह्मणानां पाणौ कर्त्तव्येहोमे

“उद्धृत्य घृताक्तमन्नमनुज्ञाषयत्यग्नौ करिष्ये करवै
करवाणीति” इत्युपक्रमे “अभ्यनुज्ञायां पाणिष्वेव वा”
आश्व० गृ० ४ ८ ५ सू० “अभ्यनुज्ञायामिति यदि ब्राह्मणाः
पाणिषु होममभ्यनुजानन्ति अग्निकार्यकरणं यदि
पाणिषु स्वेषामभ्युपगच्छन्तीत्यर्थः । तथा सति पाणिषु
जुहोति । ताभ्यामेव मन्त्राभ्यां पाणिषु जुहुयात् । ब्रा-
ह्मणाः पित्रादित्रयार्थम् उपविष्टास्तेषां सर्वेषां पाणिषु
जुहोतीति वचनात्, मन्त्रौ च द्वौ तत्रार्थादेकैकाम्
आहुतिं विगृह्य विगृह्य सर्वेषां दक्षिणपाणिषु जुहोति”
नारा० । कुशब्राह्मणपक्षे जले एव स होमो विधेयः
“अग्न्यभावे तु विप्रस्य पाणावेव जलेऽपि वा” मत्स्यपु०
वाक्यात् एतयोः पक्षयोरपि अनूहेनैव अग्नौ करिष्ये”
करुष्व इत्येवानुज्ञापश्रौ श्रा० त० रघु० ।

पाणौकरण न० पाणौ क्रियतेऽनेन कृ--आधारे ल्युट्

अलुक्स० । विवाहे जटाध० ।

पाण्ड त्रि० पण्डएव स्वार्थे अण् । पण्डे स्त्रियां गौरा०

पाठात् ङीपं बाधित्वा ङीष् स्वरे भेदः ।

पाण्डर पु० पडि--अर दीर्घश्च । १ मरुवकवृक्षे २ श्वेतवर्णे च

३ तद्वति त्रि० अमरः । ४ कुन्दपुष्पे ५ गैरिके च न० शब्दच०

पाण्डरपुष्पिका स्त्री पाण्डरं पुष्पमस्याः कप् कापि

अतइत्त्वम् । शीतलावृक्षे शब्द० ।

पाण्डव पु० पाण्डोरपत्यम् ओरञ् । पाण्डुनृपस्य क्षेत्रजे

धर्मादिभ्योजाते युधिष्ठिरादौ “यः स कौरव्यदायादः
पाण्डुर्नाम नराधिपः । कामभोगान् परित्यज्य शतशृ-
ङ्गमितो गतः । ब्रह्मचर्य्यव्रतस्थस्य तस्य दिव्येन हेतुना ।
साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः । तथैवं बलिनां
श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं
भीमं नाम महाबलम् । पुरुहुतादयं जज्ञे कुन्त्यामेव
धनञ्जयः । यस्य कीर्त्तिर्महेष्वासान् सर्वानभिभवि-
ष्यति । यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ ।
चश्विभ्यां पुरुषव्याघ्राविमौ तावपि पश्यत” भा० आ०
१२६ अ० ।

पाण्डवाभील पु० अभीः अभयं ता लाति ला--क । पाण्डवः अभीलोयतः । श्रीकृष्णे त्रिका० ।

पाण्डवायन पु० पाण्डावानामयनं रक्षणादिकं यतः । श्री-

कृष्णे ६ त० । तत्रार्थे न० ।

पाण्डवीय त्रि० पाण्डवस्येदम् “वृद्धाच्छः” पा० छ । पाण्डव सम्बन्घिनि ।

पाण्डवेय पु० पाण्डोरियम् अञ् ङीप् पाण्डवी कुन्ती माद्री

च तयोरपत्यम् ढक् । पाण्डुपत्नीपुत्रेषु युधिष्ठिरादिषु
भा० आ० १ अ० । तेषां क्षेत्रजत्वात् मातृद्वारेण कीर्त्तनम् ।

पाण्डार पु० स्त्री० पण्डस्यापत्यम् आरक् । पण्डस्यापत्ये

सि० कौ० ।

पाण्डित्य न० पण्डितस्य भावः कर्म वा दृढादि० पक्षे ष्यञ् । १ पण्डितभावे २ तत्कर्मणि च न० ।

पाण्डु पु० पडि--कु नि० दीर्घः । “सितपीतसमायुक्तः

पाण्डुवर्वणः प्रकीर्त्तितः” १ सुभूत्युक्ते “पाण्डुस्तु
पीतभागार्द्धः केतकीधूलिसन्निभः” इत्युक्ते च २ वर्णमेदे
३ तद्वति त्रि० । स्त्रियामुदन्तगुणवचनत्वेऽपि न ङीप्
पाण्डुशब्दपर्युदासात् । ४ सितवर्णे शब्दरत्ना० ५ तद्वति
त्रि० सान्तनुपुत्रविचित्रवीर्य्यस्य क्षेत्रे व्यासेनोत्पादिते
६ नृपभेदे ७ नागभेदे ८ श्वेतगजे ९ रोगभेदे च शब्दर० ।
१० पाण्डुरफलीक्षुपे ११ पटोले च राजनि० । १२ देशभेदे
पु० पाण्डुनृपोत्पत्तिकथा भा० आ० १०६ अ० तन्नामता-
कारणञ्च उक्तं यथा ततस्तेनैव विधिना महर्षिस्ताम-
विन्दत । अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि
पृष्ठ ४२९५
तम् । विवर्णा पाण्डुसङ्काशा समपद्यत मारत!”
इत्युपक्रमे “यस्मात् पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य
मामिह । तणादेष सुतस्ते वै पाण्डुरेव भविष्यति ।
नाम तस्य तदेवेह भविष्यदि शुभानने” । तस्य दिग्वि-
जयादिकथा तदुत्तराध्यायेषु दृश्या । पाण्डुरोगभेदे
निदानादिकं भावप्र० उक्तं यथा
“पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः । चतुर्थः
सन्निपातेन पञ्चमो भक्षणान्मृदः” पञ्चमो भक्षणात्
मृद इति ननु मृत्तिकापि दूषितवातादिदोषद्वारेणैव
पाण्डुरोगं जनयतोति मृद्भक्षणजः पाण्डुरोगोदोषजा-
दभिन्न एव कथं पञ्चम इति उच्यते अपरकारणकुपिता
वातादयोऽन्यानपि रोगान् कर्वन्ति । मृत्तिकाभक्ष्णात्
कुपितास्तु वातादयो विशेषतः पाण्डुरोगमेव जनयन्त्ये-
वेति विशेषात् चिकित्साविशेषाच्च पञ्चमः चरकेणोक्तः ।
तच्चिकित्सापरकारणकुपितदोषजनितपाण्डुरोगचिकित्-
सा भवतीति सुश्रुतेन मृत्तिकाजः पृथक् न पठितः ।
अथ विप्रकृष्टनिदानपूर्विकां सम्प्राप्तिमाह “व्यवाय-
मम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम् ।
निषेवमाणस्य विदूष्य रक्तं दोषास्त्वचं पाण्डुरतां
नयन्ति” तीक्ष्णं राजिकादि । अथ पूर्वरूपमाह “त्वक्-
स्फोटनिष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथाः । विण्-
मूत्रषीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि”
प्रेक्षणकूटशोथः इति अक्षिगोलकशोथः । अथ वातिकस्य
पाण्डुरोगस्य लक्षणमाह “त्वङ्मूत्रनयनादीनां रूक्ष-
कृष्णारुणामता । वातपाण्ड्वामये कम्पस्तोदामाहभ्रमा-
दयः” । कृष्णारुणामता पाण्डुत्वं नातिक्रामति । अतएव
सुश्रुते “सर्वेषु चैतेष्वपि पाण्डुभावो यतोऽधिकोऽतः
खलु पाण्डुरोगः” इति । भ्रमादय इत्यादिशब्दात्
मेदशूलादयः । अथ षैत्तिकस्य लक्षणमाह “पीतत्वङ्-
नखविण्भूत्रदाहतृष्णाज्वरान्वितः । भिन्नविट्कोऽति-
पीताभः पित्तपाण्ड्वामये नरः” । भिन्नविट्कः सद्रव-
मलः । अथ श्लैष्मिकस्य लक्षणमाह “कफप्रसेकः
श्वयथुः तन्द्रालस्यातिगौरवैः । पाण्डुरोगी कफात् शुक्लै-
स्त्वङ्मूत्रनयनाननैः” । अत्रोपलक्षणे तृतीया । सान्नि-
पातिकस्य लक्षणमाह “सर्वान्नसेविनः सर्वे दुष्टा
दोषास्त्रिदोषजम् । त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं
सुदुःसहम्” । अथ मृज्जस्य सम्प्राप्तिमाह “मृत्तिकादन-
शीलस्य कुप्यत्यन्यतमो मलः । कमाया मारुतं, पित्त
मूषरा, मधुरा कफम् । कोपयेन्मृद्रसादींश्च रौक्ष्याद्-
भुक्तञ्च रूक्षयेत् । पूरयत्यविपक्वैश्च स्रोतांसि निरुण-
द्ध्यपि । इन्द्रियाणां बलं हत्वा तेजो वीर्य्यौजसी
तथा । पाण्डुरोगं करोत्याशु समवर्णाग्निनाशनम्” ।
स्रोतांसि शिरामुखानि । तेजो दीप्तिः ओजः सर्वधातु-
रसः । अथ मृज्जस्य लक्षणमाह “मृद्भक्षणाद्भवेत्पाण्डु
स्तन्द्रालस्यनिपीड़ितः । सकासश्वासशूलार्त्तः सदाऽरुचि
समन्वितः । शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः ।
कृमिकोष्ठोऽतिसार्य्येत मलं सासृक्कफान्वितम्” । क्रिमि-
कोष्ठः उदराभ्यन्तरस्थकृमिर्भवेदित्यनेन सम्बध्यते
अतिसार्य्येत मलमिति कर्मकर्तृ तत्कर्मवत् मन्तव्यम् । तस्मिन्
कर्मण्यर्थेऽत्र यक्प्रत्ययः । अथासाध्यस्य लक्षणमाह
“ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः । पाण्डुरोगी
त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः । पाण्डुरोगश्चि-
रोत्पन्नः खरीभूतो न सिध्यति । कालप्रकर्षात् शूनाङ्गो
यो वा पीतानि पश्यति” खरीभूतः अतिरूक्षितः सर्व-
धातुः “बद्धाल्पविट् सहरितं सकफं योऽतिसार्य्यते ।
पीतस्वेदातिदिग्धाङ्गः छर्दिमूर्छातृषान्वितः । पाण्डु-
दन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत् । पाण्डुसङ्घात-
दर्शी च पाण्डुरोगी विनश्यति” । पाण्डुसङ्घातदर्शीं
पीबवर्णस्य राशिं पश्यति । “अन्तेषु शूनं परिहीनमध्यं
म्लानं तथान्तेषु च मध्यशूनम् । गुदे मुखे शेफसि
मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम्” । “उरभ्रे निहते
चैव पाण्डुरोगः प्रजायते” शाता० मेषबधकर्मणोबिपाक
स्तद्रोग उक्तः । १ ३ माषपर्ण्याम् (माषाणी) स्त्री
राजनि० । पाण्डोरपत्यम् “ओरञ्” पा० अञ् । पाण्डव
पाण्डोरपत्ये युधिष्ठिरादौ । पाण्डोः जनपदभेदस्य राजा
“पाण्डोर्ड्यन्” वार्त्ति० ड्यन् । पाण्डुदेशनृपे
रघु४ । ९ २ । स्वार्थे क पाण्डुक तत्रार्थे ततः अस्त्यर्थे इनि
पाण्डुकिन् तद्रोगयुते त्रि० । संज्ञायां कन् । पाण्डुक
धानाभेदे सुश्रुतः । तत्र पृषो० दीर्घमध्यः पाण्डूक
तत्रार्थे पङ्गुकशब्दे २ ४९ २ पृ० सुश्रुतवाक्यं दृश्यम् ।
पाण्डुकस्य वृद्धिः क्षीरिकावृद्ध्या भवतोत्युक्तं वृं० स०
२९ अ० ।

पाण्डुकण्टक पु० पाण्डुवर्णानि कण्टकानि यस्य ।

अपामार्गे राजनि० पाण्डुरोगस्य नाशकत्वाहा तस्य
तथात्वम् ।
पृष्ठ ४२९६

पाण्डुकम्बल पु० पाण्डुवर्णः कम्बलः नित्यक० ।

१ राजास्तरणे कम्बलभेदे (शाल) सि० कौ० । २ प्रस्त-
रभेदे मेदि० ततः “पाण्डुकम्बलादिनिः” पा० अस्त्यर्थे
इनि । पाण्डुकम्बलिन् तद्युक्ते । तत्र इनिग्रहणमणो-
निवृत्त्यर्थमिति सि० कौ० ।

पाण्डुकर्म्मन् न० ६ त० । शुक्लवर्णसम्पादने सुश्रुतोक्ते

व्रणस्य उपक्रमणे चिकित्साभेदे । पाण्डुकरणमप्यत्र कृष्ण-
कर्मशुक्लकर्मणी तु सप्रकारे तत्रोक्ते यथा “भल्लातकान्
वासयेत्तु क्षीरे प्राङ्मूत्रभावितान् । ततो द्विधा
छेदयित्वा लौहे कुम्भे निधापयेत् । कुम्भेऽन्यस्मिन्निखान्येत
तं कुम्भमथ योजयेत् । मुखं मुखेन सन्धाय गोमयै-
र्दाहयेत्ततः । यः स्नेहश्च्यवते तस्माद्ग्राहयेत्तं
शनैर्भिषक् । ग्राम्यानूपशफान्दग्धान् सूक्ष्मचूर्णानि
कारयेत् । तेलेनानेन ससृष्टं शुक्लमालेपयेद्व्रणम् । भल्ला-
तकविधानेन सारस्नेहांस्तु कारयेत् । ये च केचित्फल
स्नेहविधानं तेषु कीर्त्तितम् । दुरूढ़त्वात्तु कृष्णानां
पाण्डुकर्म हितं भवेत् । सप्तरात्रं स्थितं क्षिरे छागले
रोहिणीफलम् । तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं
हितम्” ।

पाण्डुतरु पु० कर्म० । धववृक्षे राजनि० ।

पाण्डुतीर्थ न० तीर्थभेदे शिवपुराणम् ।

पाण्डुनाग पु० नाग इव पाण्डुः राजद० । १ पुन्नागवृक्षे

२ श्वेतहस्तिनि ३ श्वेतसर्पे च शब्दरत्ना० ।

पाण्डुपत्री स्त्री पाण्डु पत्रं यस्याः जातित्वात् ङीप् ।

रेणुकानामद्रव्ये राजनिः ।

पाण्डुपृष्ठ त्रि० पाण्डुपृष्ठं यस्य । दुर्लक्षणरूपश्वेतपृष्ठयुक्ते त्रिका० ।

पाण्डुफल पु० पाण्डूनि फलान्यस्य । १ पटोले २ चिर्भट्यां

स्त्री राजनि० ।

पाण्डुभूम त्रि० पाण्डुः भूमिरत्र अच्समा० । १ पाण्डुवर्णभू-

भियुक्ते कर्मधारये अच्समा० नेष्यते । २ श्वेतमृक्षिकायां
३ खटिकायाम् च स्त्री हेमच० “पाण्डूदक्कृष्णतो भूतिः
पाण्डूदक्कृष्णमृत्तिकाः” हेमचन्द्रोक्तेः । अन्येतु तत्रापि
अचसमा० । सा च तत्रार्थे स्त्रीति भेदः ।

पाण्डुमृत्तिका स्त्री नित्यक० । खटिकायाम् हेमच० ।

पाण्डुमृदादयोऽप्यत्र स्त्री ।

पाण्डुर पु० पाण्डुर्वर्णोऽस्यास्ति र । १ श्वेतपीतमिश्रिते वर्णे

अमरः २ तद्वति त्रि० । पडि--उर पृषो० वृद्धिः । ३ श्वेत-
वर्णे ४ तद्वति च हला० । ५ कामलाख्ये रोगे ६ श्वित्र-
रोगे न० शब्दरत्ना० । ७ माषपर्ण्यां स्त्री टाप् राजनि० ।

पाण्डुरङ्ग पु० पाण्डुरमङ्गमस्य शक० । (पाटराङ्गा) शाके

“पाण्डुरङ्गः कृमिश्लेष्मपित्तजित् लघुतिक्तकः” राजवल्लभः

पाण्डुरद्रुम पु० नित्यक० । कुटजवृक्षे (कुडची) त्रिका० ।

पाण्डुरपृष्ठ त्रि० पाण्डुरं पृष्ठमस्य । दुर्लक्षणरूपपाण्डुर-

पृष्ठयुते हेमच० ।

पाण्डुरफली स्त्री पाण्डुरं फलमस्या रः ङीप् । क्षुद्रक्षुप

भेदे । “कृच्छ्रास्रदोषपित्तानां मूत्रघातस्य नाशिनी ।
बल्या वृष्या च पाण्डुरफली तु शिशिरा तथा” राजनि०

पाण्डुराग पु० पाण्डूरागोऽस्य । दमनकवृक्षे राजनि० ।

पाण्डुरेक्षु पु० नित्यकर्म्म० । श्वेतेक्षौ राजनि० ।

पाण्डुलेख पु० (मुसविदा) ख्याते पूर्वपक्षादिलेश्चनभेदे पाण्डु-

लेख्यादयोऽप्यत्र । तत्प्रकारादि वीरमि० उक्तो यथा
“अयञ्च पक्षः प्राक्पाण्डुलेख्यं भूमिफलकादौ कारयित्वा
शोधितः पश्चात्पत्रे लेखनीयः तथा च वृहस्पतिः
“अधिकाँञ्छातयेदर्थान् न्यूनांश्च परिपूरयेत् । भूमौ
निवेशयेत्तावद्यावदर्थो विनिश्चितः” शातयेदुद्वपेत् भूमा-
विति पाण्डुलेख्ययोग्याधारोपलक्षणम् । अतएवाह
स एव “पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम्” इति ।
स्वभावोक्तन्न भयाद्युपाधिनोक्तम् । व्यासोऽपि “पाण्डु-
लेखेन फलके भूमौ वा प्रथमं लिखेत् । ऊनाधिकन्तु
संशोध्य पश्चात्पत्रे निवेशयेत्” । शोधनञ्चोत्तरयोग्यावधि
विधेयम् न ततःपरमनवस्थापत्तेरदृष्टार्थतापाच्च । तथा
च नारदः “शोधयेत्पूर्ववादन्तु यावन्नोत्तरदर्शनम् ।
अवष्टब्धस्यीत्तरेण निवृत्तं शोधनम्भवेत्” अवष्टब्धस्योत्तर-
योग्यस्य । यस्त्वर्य्यप्रगलभत्वात् पक्षदोषगुणहानादानाभ्यां
शोधयितुमशक्तस्तस्य वक्तव्यार्थं निर्धार्य्य सभ्यैरेव संशो-
धनीयः । यथाह वृहस्पतिः “अभियोक्ताऽप्रगल्भ-
त्वाद्वक्तुन्नोत्सहते यदा । सभ्यैस्तु शोधनन्तस्य कार्य्यम-
र्थानुरूपतः” इति । यदि भाषामशोधयित्वैवोत्तरन्दाप-
यन्ति सभ्यास्तदा रागाल्लोभाद्भयाद्वापीत्याद्युक्तदण्डेन
सभ्यान् दण्डयित्वा पुनः पतिज्ञालेखनपूर्वकं व्यवहारः
प्रबर्त्तनीयो राज्ञेति तात्पर्य्यम् । यदा त्वर्थिप्रत्यर्थिनो-
र्लोखनापाटवाद्राजकीयलेखकद्वारा तौ भाषोत्तरे
लेखयतः । स चान्यतरपक्षपातेनान्यथा लिखत्यन्यत् त राज्ञा
चौरवद्दण्ड्य इत्याह कात्यायनः “अन्यदुक्तं लिखेदन्य-
द्योऽर्थिप्रत्यर्थिना वचः । चौरवत्त्रासयेत्तन्तु धार्मिणः
पृथिवीपतिः” इति ।
पृष्ठ ४२९७

पाण्डुलोमशा स्त्री पाण्डूनि लोमानीवाङ्गानि सन्ति यस्याः

श । १ माषपर्ण्याम् । २ श्वेतलोमवति त्रि० रत्नमा० ।
पाण्डुलोमाऽप्यत्र जटा० ।

पाण्डुशर्करा स्त्री पाण्डुवर्णा शर्करा । सितानामकप्रमेहरोगे गरुड़पु० १८२ अ० ।

पाण्डुशर्म्मिला स्त्री द्रौपद्यां त्रिका० ।

पाण्डुसोपाक पु० संकीर्णजातिभेदे “चाण्डालात्पाण्डुसो-

पाकस्त्वक्सारव्यवहारवान् । आहिण्डको निषादेन
वैदेह्यामेव जायते” मनुः । त्वक्सारः वेणुः ।

पाण्ड्य पु० पाण्डुः देशोऽभिजनोऽस्य तस्य राजा वा ड्यन् ।

१ तद्देशवासिनि २ पाण्डुदेशनृपे च । स च देशः वृ० स०
१ ४ अ० मध्यमे भागे उक्तः । दक्षिणदिक्स्थश्च । “दिशि
मन्दायतेतेजः दक्षिणस्यां रवेरपि । तस्यामेव रघोः
पाण्ड्याः पतापं न विषेहिरे” रघुः ।

पाण्ड्यवाट पु० पाण्डुदेशस्थे मुक्तानामाकरभेदे वृ० स० ८१

अ० । मुक्ताशब्दे दृश्यम् ।

पात पु० पातयति ग्रहमुत्तरा दक्षिणा वा पाति--अच् ।

रविभिन्नग्रहाणां दक्षिणोत्तराकर्षके अदृश्यरूपे
कालमूर्त्तिरूपे सू० सि० उक्ते भचक्रस्थिते १ जीवभेदे तदधिष्ठा-
तृदेवे २ राहौ च । पातस्य तथात्वमुच्चशब्दे सू० सि०
वाक्ये दर्शितम् । तस्य ग्रहाणां दक्षिणोत्तराकर्षकत्वं
च तत्रोक्तं यथा “दक्षिणोत्तरतोऽप्येवं पातो राहुः
स्वरंहसा । विक्षिपत्येष विक्षेषं चन्द्रादीनामपक्रमात्”
सू० सि० “चन्द्रादीनां विरविग्रहाणामपक्रमात् क्रान्ति-
वृत्तस्थस्पष्टग्रहभोगस्थानाद्दक्षिणोत्तरतो दक्षिणस्यामु-
त्तरस्यां वा दिशि । अपिशब्दः पूर्वापराभ्यां समुच्चया-
र्थकः । एष गणितागतः पातः पातराश्यादिभोग-
स्थानम् । अत्राप्यपिशब्द उच्चेन समुच्चयार्थकोऽन्वेति ।
यथोच्चेन पूर्वापरयोः फलान्तरं भवति तथेत्यर्थः ।
विक्षेपं विक्षेपणं स्वरंहसात्मवेगेन विक्षिपति करोति ।
विशिष्टवाचकानां पदानां विशेषणवाचकपदसमवधाने
विशेष्यमात्रार्थत्वात् चन्द्रादीन् विक्षिपति तात्प
र्य्यार्थः । ननूच्चेन स्वाधिष्ठितजीवद्वारा ग्रहाकर्षणं
क्रियते तथा पातेनाचेतनत्वाद्वेगाभावेन ग्रहविक्षेपणं
कर्तुमशक्यमित्यत आह राहुरिति । पातस्थानाधि-
ष्ठात्री देवता राहुर्जीवविशेषश्चन्द्रपातस्तु दैत्यविशेषो
राहुः । रहतित्यजति ग्रहमिति राहुरिति व्यु-
त्पत्तेः । अथैतद्विशदयति” रङ० “उत्तराभिसुखं पातो
विक्षिपत्यपरार्द्धगः । ग्रहं प्रागभगणार्धस्यो ग्राम्याया-
मपकर्षति” सू० सि० “अपरार्द्धगो ग्रहस्थानात् पश्चिम-
विभागस्थितभगणार्द्धात्मकराशिषट्कस्थिती राहुर्ग्र हविम्बं
स्वराश्यादिभोगस्थानीयप्रदेशादुत्तरदिगभिमुखं विक्षि-
पति विक्षेषान्तरेण त्यजति । प्राग्भगणार्धस्थः ग्रह-
स्थानात् पूर्वविभागस्थितराशिषट् कमध्यस्थिती दक्षिणस्यां
दिश्यपकर्षति विक्षिपति । अथ बुधशुक्रयोर्विशेष-
माह” रङ्ग० “बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदा
स्थितः । तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्त-
वत्” सू० सि० “बुधशुक्रयोः शीघ्रोच्चाज्जात्यभिप्रायेणै-
कवचनम् । तद्वत् परार्द्धपूर्वार्द्धभगणार्द्धमध्ये यदा
तत्काले स्थितस्तुकारात् यत्काले पाताभ्यादित्यर्थः ।
तौ बुधशुक्रौ यथोक्तवत् पूर्वार्द्धपरार्द्धक्रमेण दक्षि-
णोत्तरयोर्विक्षिप्येते विक्षेपान्त ण त्यज्येते । तथा
हि स्वशीघ्रोच्चाद्बुधशुक्रयोर्यदनरं राश्यात्मकं तद्वत्
पातस्तेनान्तरेण युक्तः पूर्वानीतपात इत्यर्थः । यथा
बुधशुक्रयोरपरपूर्वार्द्धक्रमेण स्थितोऽवस्थितस्तुकारात्
तथेत्यर्थः । तच्छीघ्रकर्षणात् तादृशपाताभ्यां शीघ्रं
वेगेनाकर्षणं तस्मात् पातस्थानाधिष्ठातृदेवताभ्यां स्वहस्त-
स्थितग्रहसम्बद्धवायुसूत्रस्यातिबेगाकर्षणरचनादित्यर्थः ।
तौ बुधशुक्रावुक्तवदुत्तरदक्षिणक्रमेण विक्षिप्येते । अत्र
पातशब्देन चक्रशोधितपातो बोध्यः । अन्यथा ग्रहोन
शीघ्रोच्चरूपकेन्द्रयोजनस्योपपत्तिसिद्धत्वेन शीघ्रोच्चोनग्रह-
रूपकेन्द्रयोजनोक्त्यनुपपत्तेः । तथा च सर्वग्रहसाधा-
रणं विक्षेपकथनं पातभेददर्शनार्थं बुधशुक्रयोः पृगगु-
क्तम् । न ह्यन्यस्मिन् पक्ष उच्चयोर्विक्षेपणं प्रतीयते येन
प्रागुक्तसर्वविलीपाशङ्कनं शङ्कनीयम् । पातभेदोक्तिका-
रणं च “ये चात्र पातभगणाः कथिता ज्ञभृग्वीः ते
शीघ्रकेन्द्रभगणैरधिका यतः स्युः । स्वल्पाः सुस्यार्थमु-
दिताश्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ”
इति भास्कराचार्य्योक्तमिति दिक्” रङ्ग० ।
अत्रेदं बोध्यं रवेः स्वतएव दक्षिणोत्तरयोर्गमनसम्भवात्
नास्य पातेन विक्षेपणापेक्षेति विरविग्रहाणामित्युक्तम् ।
तत्र युगे चन्द्रपातभगणाः “चन्द्रोच्चस्याग्निशून्याश्विवसुस-
र्पार्णवा युगे । वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः”
सू० सि० “चन्द्रमन्दोच्चस्य पूर्वगतेरदृश्यरूपस्य भगणा
महायुगे रामनखाष्टाष्टवेदमिताः । पातस्य चन्द्रशब्दस्य
सन्निहितत्वाच्चन्द्रपातस्यादृश्यरूपस्य वामं पश्चिमगत्या
हादशराशिभागात्मकपरिवर्त्तरूपभगणा महायुगे वसु-
पृष्ठ ४२९८
रामाकृतिरामद्विमिताः । अत्र युगग्रहणं वक्ष्यमाणग्र-
होच्चपातभगणसम्बन्धिकल्पकालवारणार्थम् । ग्रहोच्च-
पातभगणास्तु युगे युगे नोत्पन्ना इत्यस्मिन् युगसम्बन्धि-
प्रसङ्गेनोक्ताः” रङ्ग० । कल्पे भौमादिपातानां भगणास्तु
तत्रोक्ता यथा “पातानामथ वामतः” इत्युपक्रमे “अथा-
नन्तरं पातानां भौमादिपातानां वामतः पश्चिमगन्था
भगणा उच्यन्त इति शेषः । तान् श्लोकाभ्यामाह” रङ्ग०
“मनुदस्रास्तु कौजस्य, बौधस्याष्टष्टसागराः । कृताद्रिचन्द्रा
जैवस्य त्रिखाङ्काश्च भृगोस्तथा । शनिपातस्य भगणाः
कल्पे यमरसर्तवः । भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्च-
पातयोः” सू० सि० “कौजस्य कुजसम्बन्धिनः । तुकारात्
पातस्य भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्व-
यम् । बौधस्य बुधसम्बन्धिनः शनिपातस्यैत्यस्यैकदेशपात-
स्येत्यत्रान्वेति । बुधपातस्य द्वादशोना पञ्चशती । जैवस्य
गुरुपातस्य चतुःसप्तत्यधिकं शतम् । भृगोः शुक्रस्य
तथा सम्बन्धिनश्चकारात्पातस्य शुक्रपातस्येत्यर्थः ।
त्र्यधिका नवशती । शनिपातस्य द्विरसषट्का भगणाः
कल्पे भवन्ति । नन्वस्मिन् प्रसङ्गे चन्द्रोच्चपातयोर्भगणाः
कथं नोक्ता इति मन्द्राशङ्कापाकरणाय पूर्वोक्तं स्मार-
यति भगणा इति । चन्द्रोच्चपातयोश्चन्द्रण मन्दोच्चपात-
योर्मगणा अत्रास्मिन्नधिकारे पूर्वं अहयुगगगणकथने
उक्ताः” रङ्ग० । पतति चन्द्रार्कयोः क्रान्तिसाम्येन उत्ति-
ष्ठति षत--ज्वला० कर्त्तरि ण । सूर्य्यसिद्धान्तोक्ते चन्द्रा-
र्कयोः क्रान्तिसाम्येनानानीते अशुभसूचके महापा-
तरूपे ३ वह्निभेदे तथा हि “तत्र भेदद्वयात्मकपा-
तस्य सम्भबं विवक्षुः प्रथमम् वैधृतसंज्ञपातस्य सम्भव-
माह” रङ्ग० “एकायनगतौ स्यातां सूर्याचन्द्रमसौ
यदा । तद्युतौ मण्डले कान्त्योस्तुल्यत्वे वैधृताभिधो”
सू० सि० । सूर्याचन्द्रौ “सूर्य्याचन्द्रमसौ धाता
यथापूर्वमक्तल्पयदिति” श्रुत्युक्तप्रयोगः । एकायनगतौ
अभिन्नदणिणोत्तरान्यतरायनस्थौ भवतस्तत्र यदा यस्मिन्
काले तद्युतौ सूर्यचन्द्रयोर्भाद्योर्योगे मण्डले द्वादश-
राशिमिते सति तदा तयोः क्रान्त्योः समत्वे महापात-
रूपै वैधृतसंज्ञः पातो भवति । अथ ष्यतीपातसंज्ञपातस्य
सम्भवमाह” रङ्ग० “विपरीतायनगतौ चन्द्रार्कौ क्रान्ति-
लिप्तिकाः । समास्तदा व्यतीपातो भगणार्थे
तयीर्युलौ” सू० सि० “चन्द्रार्कौ विपरीतायनगतौ भिन्नायनस्थौ
मवतस्तत्र यत्र तयोः सूर्यचन्द्रयोर्भाद्योर्योगे भगणार्द्धे
राशिषट्के सति तयोः क्रान्तिकलास्तुल्या भवन्ति
तदा तस्मिन् काले व्यतीपातसंज्ञकः पातो भवति” “ननु
क्रान्त्योः साम्ये कथं पातो भवतीत्यत आह” रङ्ग० ।
“तुल्यांशुजालसम्पर्कात् तयोस्तु प्रवहाहतः । तद्दृक्
क्रोधभवो वह्निर्लोकाभावाय जायते” सू० सि० । “तयो-
श्चन्द्रसूर्य्ययोः । तुकारात् क्रान्तिसाम्यकाणिकयोः ।
तुल्यांशुजालसम्पर्कात् समकिरणानां जालं समूहस्तयो-
रन्योन्याभिमुखयोः सम्पर्कात् एकीभावापन्नत्वात्
तद्दृक्क्रोधभवः सूर्य्यचन्द्रयोरन्योन्याभिमुखयोर्दृक्क्रोधो
विम्बकेन्द्रयोर्दृग्रूपोयो क्रोधः परस्पराभिमुखेन दोप्त्या-
धिक्यं तदुत्पन्नोऽग्निः । प्रवहाहतः प्रवहवायुप्रज्व-
लितः लोकाभावाय जनानामशुभफलाय जायते ।
अथायं वह्निर्व्यतीपाताख्यो वैधृताख्यो वेत्यत आह”
रङ्गना० । “विनाशयति पातोऽस्मिन् लोकानामसकृद्यतः ।
व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः” सू० सि० ।
“अस्मिन् क्रान्तिसाम्यकाले प्रसिद्धः पूर्वश्लोकोक्तस्वरूपः
पातो वह्निः, यतः कारणात् असकृत् स्वसम्भवेन वारं
वारम् लोकानां विनाशयति । नाशं करोति । अतः
कारणादयं वह्निर्व्यतीपातसंज्ञोऽयमेवाग्निः संज्ञाभेदेन
नामान्तरेण बैधृतिसंज्ञः । तथा चोभयत्र पाताख्यो
वह्निर्भवतीति भावः । अथ तत्स्वरूपमाह” रङ्गना० ।
“स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः । सर्वानिष्टः
करो रौद्रो भूयो भूयः प्रजायते” सू० सि० । “स
क्रान्तिसाम्यकालोत्पन्न उभयसंज्ञकः पाताख्योऽग्निपुरुषः
कृष्णः श्यामः, दारुणवषुः कठिनशरीरः, लोहिताक्ष
आरक्तनेत्रः, महोदरः पृथूदरः । अतएव सर्वानिष्ट-
करः सर्वलोकानामशुभकारकः, रौद्रः क्षयकारकः,
भूयोभूयोऽनेकवारम् प्रजायते । प्रत्येकं क्रान्तिसाम्य-
काल उत्पन्नो भवतीत्यर्थः” रङ्गना० ।
उपयमशब्दे १२६५ पृ० तद्भेदादिकं दृश्यम् भावे घञ् ।
सि० शि० टी० उक्ते ४ प्रतिमण्डलविमण्डलयोः संपाते मेलने
च “पातो नाम प्रतिमण्डलविमण्डलयोः संपातः ।
थस्मादारभ्य विक्षेपप्रवृत्तिः । इह सुसरलवंशशलाकया
कक्षामण्डलं तत्प्रतिमण्डलं च छेद्यकोक्तविधिना
विरचय्य तत्र शीघ्रप्रतिमण्डले मेषादेः प्रतिलोभं पातस्थानं
च चिह्नयित्वा तत्र विमण्डलं निवेश्यम् । पातचिह्ना-
द्राशिषट्कान्तरे विमण्डलप्रतिमण्डलयोरन्यं संपातं
कृत्वा पातात् पूर्वतस्त्रिभेऽन्तरे पठितविक्षेपप्रमाणेन
पृष्ठ ४२९९
प्रतिमण्डलादुत्तरतो विमण्डलं केनचिदाधारेण स्थिरं
कृत्वा मेषादेरनुलोमं मन्दस्फुटं ग्रहं प्रतिमण्डले
विमण्डले च दत्त्वा विक्षेपोपपत्तिं दर्शयेत् । तत्र
तयोर्ग्रहयोर्यावान् विप्रकर्षस्तावांस्तत्र प्रदेशे विक्षेपः । अथ
तस्यानयनम् । पातस्थाने हि विक्षेपाभावः । ततस्त्रिभे-
ऽन्तरे परमी विक्षेपः । अन्तरेऽनुपातेन । अतः
पातग्रहचिह्नयोरन्तरं तावज्ज्ञेयम् । तच्च तयोर्योगे कृते-
भवति । यतो मेषादेरनुलोमं ग्रहो दत्तः । पातस्तु प्रति-
लोमम्” । गणितागतपातकाले कृत्याकृत्ये “पातस्थिति-
कालान्तर्मङ्गलकृत्यं न शस्यते तज्ज्ञैः । स्नानजपहोम-
दानादिकमत्रोपैति खलु वृद्धिम्” सि० शि० उक्ते ।
पत--घञ् भावे ५ पतने । दृष्टिपातः सूत्रपात इत्यादि ।
पत--ज्वला० कर्त्तरि ण । ६ पतनकर्त्तरि त्रि० ।
पारक्षणे कर्म्मणि घञ् । ७ त्राते त्रि० मेदि० ।

पातक त्रि० पातयति पाति--ण्वुल् । १ पतनकारके

नरकरूपापकृष्टस्थानप्रापके नवविधे पापभेदे २ अनुपातके
च यथोक्तं प्रा० वि० “पातकपदमनुपातकपर्य्यायः,
ननु नवस्वेव पापेषु पातकशब्दो दृश्यते यथा पैठीनसिः,
“स्त्रीगोवृषलवैश्यक्षत्रियघाती सोमविक्रयी शूद्रेण
सहभोजी कन्यादूषी अगारदाही वृषलीपतिरग्नुत्सादी
चेति पातकिनः” । नवविधं पापमभिधायाह विष्णुः
“एवं पातकिनः पापमनुभूय सुदुःखिताः । तिर्य्यग्योनौ
घ्रवर्त्तन्ते दुःखानि विव्रिधानि च” । याज्ञवल्क्यः “नीचा-
भिगमनं गर्बपातनं भर्तृहिंसनम् । विशेषपतनीयानि
स्त्रीणामेतान्यपि ध्रुवम्” । पतनीयानि पातकानीत्यर्थः ।
“कृत्यल्युटो वहुलमिति” करणेऽनीयर् । “महापातकतु-
ल्यानि पापान्युक्तानि यानि च । तानि पातकसंज्ञानि
तदूनमुपपातकम्” । अतो महापातकतुल्यपापविशेषेऽप्यस्य
शक्तिः । “बवविधपातकञ्च बिष्णुसं “तेनायभाक्रान्वो-
ऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्त्तते ।
जातिभ्रंशकरणेषू सङ्करीकरणेष्वपात्रीकरणेषु च ।
मलावहेषु प्रकीर्णकेषु च” उक्तम् । ततः अस्त्यर्थे इनि ।
पातकिन् तद्युक्ते त्रि० स्त्रियां ङीप् ।

पातङ्गि पु० पतङ्गस्य सूर्य्यस्यापत्यम् इञ् । १ शनैश्चरे २ यमे

च ३ कर्णे ४ वैवस्वतमुनौ ५ सुग्रीवे च ।

पातञ्जल न० पतञ्जलिना प्रोक्तम् अण् । १ पाणिनिसूत्रवा

र्त्तिकव्याख्यानरूपे “अथ शब्दानुशासनम्” इत्यादिके
नहाभाष्ये, “पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः”
शेखरः । “अथ योगानुशासनम्” इत्यादिके २ योगशास्त्रे
च । पतञ्जलिशब्दे दृश्यम् ।

पातत्त्रिन् पु० पतत्त्री तच्छब्दोऽस्त्यत्राध्याये अनुवाके वा

विमुक्ता० अण् । पतत्त्रिशब्दयुक्ते १ अध्याये २ अनुवाके च ।

पातन त्रि० पातयति पाति--ल्यु । १ पतनकारके स्त्रियां गौरा०

ङीष् । भावे ल्युट् । २ अधोनयने न० ।

पातन्य त्रि० पत--बा० अन्यण् । पतनशीले ऋ० ३ । ५ ३ । १७ भा०

पाताल न० पतत्यस्मिन्नधर्मेण पत--आलञ् । १ भुवनस्याधो-

भागे २ सर्वाधोभागस्थे स्थानभेदे । तानि च सप्तैव यथा
“पातालानि च सप्तैव मुनयः संप्रचक्षते । अतलं
वित लञ्चैव सुतलञ्च तलातलम् । महातलञ्च विख्यातं
ततो ज्ञेयं रसातलम्” । “ततः पातालमित्येवं सप्त
पातालसंज्ञकाः । एते स्वर्गाधिकसुखा! बिलस्वर्गाः
प्रकीर्त्तिताः । समृद्धभवनीद्यानविहारक्रीड़चत्वराः”
पाद्मे पातालखण्ड । “अतलं सुतलञ्चैव वितलञ्च
गभस्तिमत् । महातलं रसातलं पातालं सप्तमं स्मृ-
तम् । रुक्मभौमं शिलाभौयं पातालं नीलमृत्तिकम् ।
रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि । पातालानाञ्च
सप्तानां लोकानाञ्च यदन्तरम् । शुषिरं तानि
कथ्यन्ते भुवनानि चतुर्दश । अष्टाविंशतिसंख्याता स्ततो
नरककोटयः । नरकाणामधस्तात्तु धूमः कालाग्निस-
म्भवः । तस्याधस्तादनन्ताख्यो रुद्रः सर्वमयो महान् ।
तदधो धर्मचक्रन्तु येनेदं धार्य्यते जगत्” अग्निपु० ।
३ औषधपाकार्थयन्त्रभेदे “ऊर्द्ध्वमापस्तले वह्निर्मध्ये च
रससग्रहः । पातालचक्रमेतद्धि शोधयेत् पारदा-
दिकम्” । ४ वड़बानले ५ गर्त्तमात्रे च मेदि० ।

पातालकेतु पु० दानवभेदे मार्क० पु० २१ अ०

पातालगरुड़ी स्त्री छिलिहिण्डाख्ये लताभेदे राजनि० ।

भावप्र० अस्य पुंस्त्वमुक्तं यथा “छिलिहिण्डा महा
मूलः पातालगरुडाह्वयः । छिलिहिण्डः परं वृष्यः
कफघ्नः पवनापहः” ।

पातालनिवास पु० नि + वस--आधारे घञ् पातालं निवासो

यस्य । दैत्ये पातालनिलयादयोऽप्यत्र हला० पातलौ-
कस् तत्रार्थे हेमच० ।

पाति पु० पाति पा--रक्षणे अति । १ प्रभौ पत--इण् । २ अक्षिणि च उज्ज्वलद० ।

पातिक पुंस्त्री० पातः पतनं जलमज्जनं प्रयोजनमस्य पाते

साघु वा ठक् । शिशुमारे जलजन्तुभेदे शब्दमाला स्त्रियां-
जातित्वात् ङीप् ।
पृष्ठ ४३००

पातिली स्त्री पतिः स्वामी पक्षी वा लीयते अत्र लि--बा०

ड गौरा० ङीष् । १ वागुरायां २ नार्य्यां ३ मृत्पात्रभेदे
(पातिल) मेदि० ।

पातुक त्रि० पत--उकञ् । १ पतनशीले २ प्रपाते ३ जलहस्तिनि च मेदि० ।

पातृ त्रि० पाति रक्षति पिबति वा पा--तृच् । १ रक्षके २

पायिनि च त्रि० स्त्रियां ङीप् । ३ गन्धपत्रे ४ तृणभेदे
पु० हेमच० ।

पात्तिगणक न० पत्तिगणकस्य भावः उद्गात्रा० अञ् । सेनागणककर्मणि तद्भावे च ।

पात्नीवत पु० पत्नी विद्यतेऽस्य मतुप् । “छन्दसीरः” पा० यस्य

वः तच्छब्दोऽस्त्यत्र विमुक्ता० अण् । पत्नीवच्छब्दयुक्ते
१ अध्याये २ अनुवाके च । सचानुवाकः “तान् यजताम्
इत्यादिवर्गः” ऋ० १ । १४ । ७ । तस्येदम् अण् । ३ ग्रह-
रूपपात्रभेदे यजु० १८ । २० कात्या० ९ । ५ । २१ शत० ब्रा०
१७ । ७ । ३ । ९ ।

पात्य न० पत्युर्वावः यक् । १ पतित्वे “भरणाद्धि स्त्रिया भर्त्ता

पात्याच्चैव स्त्रियाः पतिः” भा० शा० २६७ अ० पत--णिच्
यत्, पत--ण्यत् वा । २ पातनीये ३ पतनीये च त्रि० ।

पात्र पु० न० अर्द्धर्च्चा० प्राति रक्षत्याधेयं पिबत्यनेन वा

पाष्ट्रन् । १ जलाद्याधारे भोजनयोग्ये २ अमत्रे अमरः ।
अस्य स्त्रीत्वमपि षित्त्वात् ङीष् । विद्यादियुक्ते
दानयोग्ये ३ ब्राह्मणे न० “ब्राह्मणं पात्रमाहुः” इति स्मृतिः ।
४ यज्ञिये स्रुवादौ, तीरद्वयमध्यवर्त्तिनि ५
जलाधारस्थाने ६ राजामात्ये च मेदि० । नाटकेऽभिनेये
७ नायकादौ च न० हेमच० ८ मानभेदे वैद्यकम् । यज्ञि-
यहोमादिसाधनपात्रलक्षणम् कात्या० श्रौ० भाष्ये ।
“अथ पात्राणां लक्षणमुच्यते खादिरः स्रुवोऽङ्गुष्ठपर्ववृत्त
पुष्करो नासिकावत् पर्वार्द्धखातो भवति । स्प्यश्च
खादिरः खडगाकृतिररत्निमात्रः । खुचो बाहुमात्र्यो
मूलदण्डास्त्वग्विला हंसमुखसदृशैकप्रणालिकायुक्ताः ।
पाणिमात्रपुष्कराधस्तात्खातयुक्ताश्च कार्य्याः । पालाशी
जुहूः, उपभृदाश्वत्थी, वैकङ्कतीध्रुवा “एतेषां वृक्षाणामे-
कस्य वा सर्वाः स्रुचः कारयेत्, बाहुमात्र्योऽरत्रिमा-
त्र्यी वाग्राग्रास्त्वक्तोविला हंसमुख्यः” इत्यापस्तम्बः ।
अग्निहोत्रहवणी वैकङ्कती, अग्निहोत्रस्रुवो वैकङ्कतः ।
यैः पात्रैर्होमी न क्रियते तानि सर्वाणि वारणानि
भवन्ति तानि चोलूखलमूषलकूर्चेडापात्रीपिष्टपात्रीपुरो-
डाशपात्रीशम्याशृतावदानाभ्यूपवेषान्तर्द्धानकटप्राशित्रह-
रणषड्यत्तब्रह्मासनादीनि । तत्रोत्रूखलादीनि वा-
र्क्षाणि । कूर्चो बाहुमात्रः पीठाकारः । इड़ापात्री
पिष्टपात्रयौ अरत्निमात्र्यौ मध्यसंगृहीते । पुरोडाश
पात्री प्रादेशमात्री समचतुरस्रा षड़ङ्गुलवृत्तखातवती ।
शम्या प्रादेशद्वादशाङ्गुला प्राशित्रहरणं वृत्तमादर्शाकारं
चतुरस्रं चमसाकारं वा तथैव द्वितीयमपिधानपात्रम्
षडवत्तं चोभयत्र खातवत् । आसनानि चारत्निमात्र
दीर्थाणि प्रादेशमात्रविपुलानि सर्वेषु पात्रेषु मूलाभि-
ज्ञानार्थं वृन्तानि कार्य्याणि अनादेशे होमसाधनभूतानि
पात्राणि वैकङ्कतानि भवन्ति यथा सोमयागे ग्रहचमस-
द्रीणकलशादीनि तत्रापि हविर्धानाधिषवणफलकस-
म्भरणीपरिप्लवादीन्यहोमसंयुक्तानि वारणान्येव षोड़-
शिनः पात्रं खादिरं चतुरस्नम् अंश्वदाभ्यपात्रमौदु-
म्बरं वचनात् बाजपेये सप्तदशानां सोमग्रहाणां
पात्राणि वारणानि अहोमसंयुक्तत्वात् । सुराग्रहपात्रा-
ण्यपि वारणानि शाखान्वरान्मृण्मयानि वा इत्येव-
मादि सर्वमूहनीयम् । मूलं कात्या० श्रौ० १ । ३ । ३१ सूत्रादौ
दृश्यम् । कर्मप्रदीपे च “आज्यस्थाली च कर्त्तव्या
तैजसद्रव्यसम्भवा । महीमयी वा कर्त्तव्या सर्वास्वा-
ज्याहुतीषु च । आज्यस्थाल्याः प्रमाणं तु यथाकामन्तु
कारयेत् । सुदृढ़ामव्रणां भद्रामाज्यस्थालीं प्रचक्षते ।
तिर्य्यगूर्द्धं समिन्मात्रा दृढ़ा नातिवृहन्मुखी । मृण्-
मय्यौड़म्बरी वापि चरुस्थाली प्रशस्यते । स्वशाखोक्तः
प्रसुखिन्नो ह्यदग्धोऽकठिनः शुमः । न चातिशिथिलः
पाच्यो न चरुश्चारसस्तथा । इध्मजातीयमिघ्मार्द्धप्रमाणं
मेक्षणं भवेत् । वृत्तं चाङ्गष्ठपृथ्वग्रमवदानक्रियाक्ष-
मम् । एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे । दर्वी द्व्य-
ङ्गुलपृथ्वग्रा तुरीयोऽनन्तमेक्षणम् । मूषलोलूखले वार्क्षे
स्वायते सुदृढ़े तथा । इच्छाप्रमाणे भवतः शूर्पं वैण
वमेव च । दक्षिणं वामतो बाह्यमात्माभिसुखमेव च ।
बाहुमात्राः बरिधय ऋजवः सत्वचोऽव्रणाः । त्रयो
भवन्ति शीर्णाग्रा एकेषान्तु चतुर्दिशम् । प्रागग्रावभितः
पश्चादुदग्रमथवा परम् । न्यसेत् परिधिमन्यञ्चेदुदगग्रः
स पूर्वतः” देवपूजाङ्गपात्रमानं देवीपु० उक्तं यथा
“षट्त्रिंशदङ्गुलं पात्रञ्चोत्तम परिकीर्त्तितम् । मध्यमं
तत्त्रिभागेण हीनं कन्यसमीरितम् । वस्वङ्गलप्रमाणन्तु
तत्षात्रं कारयेत् क्वचित् । नानाविचित्ररूपाणि पौ
ण्डरीकाकृतीनि च । शङ्खनीलोत्पलाकारपात्राणि
परिकल्पयेत् । रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुञ्च-
पृष्ठ ४३०१
ञ्चितान् । यथाशोभं यथालाभं तथा पात्राणि
कारयेत् । विना पात्रेण यः कुर्य्यात् प्रतिष्ठा याज्ञिकीं क्रि-
याम् । विफला भवते सर्वावाहनादिधनापहा”
दानशब्दे दानपात्रलक्षणादिकं ३५२० पृ० उक्तम् ।
पाकपात्रलक्षणादिकं पाकशब्दे ४२८३ पृ० दृश्यम् ।

पात्रट पु० पातेव पिबन्निव अटति अट् अच् । १ कर्पटे

२ कृशे शब्दच० ।

पात्रटीर पु० पातेव पिबन् रक्षन्निव वा अटति अट बा०

ईरन् । १ उचितव्यापारयुते सन्त्रिणि २ लौहपात्रे ३
कांस्यपात्रे ४ रजतपात्रे ५ सिंघाने ६ पावके च मेदि० ।
७ पिङ्गाशे ८ काके ९ कङ्के च पुंस्त्री० शब्दरत्ना स्त्रियां
जातित्वात् ङीष् ।

पात्रपाल त्रि० पात्रं पालयति पाल--अण् उप० स० । पात्ररक्षके तुलाधटे पु० जटाध० ।

पात्रसंस्कार पु० ६ त० । पात्रशुद्धौ मृज्जलादिना पात्र-

मार्जने पुरोटौ शब्दच० ।

पात्रासादन न० ६ त० । यज्ञपात्राणां यथोक्तक्रमेण यज्ञ-

निष्पादनाय स्थापने यज्ञपात्रासादनक्रमस्तु कात्या० श्रौ०
२ । ३ । ५ सू० तद्भाष्ये उक्तो यथा
“शूर्याग्निहोत्रहवणीस्प्यकपालं शस्थाकृष्णाजिनमुलू-
खलमूषलं दृषदुपलमर्थवच्च” ८ सू० “स्प्यकपालमित्येकव-
द्भावादिदमेकं द्वन्द्वम् तेन बहुभिरपि कपालैरेकमेव पात्र-
मिति द्रष्टव्यम् । कपालानि च भिन्नस्य घटादेर्ग्राह्याणि
अभिन्नान्यपि रौहिणकपालवत् निर्मितानि भवन्तीत्येके
इति धूर्त्तस्वामिनः । शूर्पं च नडतृणमयमिषीकानिर्मितं
वेणुदलनिर्मितं वा भवति । अर्थवच्च येन येन पात्रे-
णात्र प्रयोजनं तेषां सर्वेषामुपयोगक्रमेणासादनम् ।
तथा च कात्यायनः “प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं
समीपतः । तत्तथा सादयेद्द्रव्यं यद्यथा विनियुज्यते” इति
तच्चैवम् “अनो वा पात्री वा व्रीहयो यवा वा ततश्चैवम्
अनोव्रीहयश्चानोयवाश्च पात्रीव्रीहया पात्रीयवा-
श्चेति वा पवित्रच्छेदनानि पवित्रे च उपवेषः संयवना-
र्थमुदकं च आज्यस्थाली आज्यं च अमावस्यायां दोहन
चतुष्टयम्, वेदार्थः कुशमुष्टिः, दक्षिणार्था अन्वाहार्य्य
तण्डुलाश्च दर्मतणमभ्रिश्च इध्मो बर्हिश्च स्रुवो जुहूश्च
उपभृद्ध्रुवा च प्राशित्रहरणे शृतावदानं च द्वे पुरो-
डाशपात्र्यौ इति” कर्कादयः । तदयुक्तमिति केचित् ।
स्वसूत्रशाखान्तरसूत्रेषु सादनप्रतापनोपस्तरणादिष्वे-
कखा एव दर्शनात् । यच्चेड़ापात्रीपिष्टपात्र्योरभेद-
माहुस्तदपि अयुक्तम् शाखान्तरसूत्रेषु तयोर्भेददर्शनात्
तथा च तैत्तिरीयसूत्रम् “प्राशित्रहरणं चेड़ापात्रं च
मेक्षणं च पिष्टपात्री चेति” विकृतौ चातुर्मास्यादौ यत्र
चर्वादिभिर्व्यवहिताः पुरोडाशाः तत्र भवतु पुरोडाश-
पात्रीभेदः । याक्त्रा यूनकुशाश्च परिधयः कुशास्तीर्णं
होतृषदनं च इड़ापात्री षड़बत्तं च अन्तर्धानकटः
पूर्णपात्रं च पक्षे कर्मापवर्गा समिदप्यासाद्यते परिधी-
नामपि प्रथगासादनमष्टादशकाष्टकेध्मपक्षे एकबिंशति-
काष्ठकेध्मपक्षे तस्मादेवेध्मात् त्रीणि काष्ठान्यादाय
विकल्पेन परिधिपरिधानविधानात् । एवमत्र पात्राणा-
मुपादानक्रमेणासादनमुक्तम् । यस्य यस्य पात्रस्य येन
क्रमेण तस्यासादनम् एवं च सुतरां दृष्टार्थता भवति
लाघवं च बिनियोगक्रमेणासादने च तथा न स्यात्
हविर्ग्रहणे पात्र्याः हविर्द्रव्यस्य च देशविप्रकर्षात् आज्य
निर्वापे स्थाल्याज्यस्य च तस्मादुपादानक्रम एव पितृ-
भूतियाज्ञिकसम्मतः पात्रासादने युक्तः । कर्काचार्य्यास्तु
विनियोगक्रमेणासादनमाहुः” । सूत्रे अर्थवच्चेत्युक्ते-
र्यथा यथा यत्र यत्र यस्य यस्योपयोगस्तस्य तस्य तत्र
तत्रासादनम् । तत्स्थानप्रकारौ च तदुत्तरत्र सूत्रेषु दृश्यौ

पात्रिक त्रि० पात्रस्य वापः ष्ठन् । पात्रवापक्षेत्रादौ स्त्रिया

षित्त्वात् ङीष् पात्रिको क्षेत्रभक्तिः सि० कौ० । पात्रं
सम्भवति अपहरति आहरति वा ठञ् । पात्रावहार-
कादौ स्त्रियां ङीप् । पक्षे ख । पात्रीण तत्रार्थे स्त्रियां
टाप् ।

पात्रिय त्रि० पात्रमर्हति घ । पात्रार्हे पक्षे यत् । पात्र्यतत्रार्थे ।

पात्रीय न० पात्रे साधु बा० छ । पात्रसाधौ यज्ञद्रव्ये

त्रिका० ।

पात्रीव(र) पुंन० अर्द्धचादि० पात्रीं रा(वा)ति रा--(वा) क । यज्ञद्रव्ये ।

पात्रेबहल पु० ब० व० । पात्रे भोजनसमये एव बहुला०

न तु कार्य्ये पात्रेसमिता० आक्षेपे गम्ये अलुक्स० ।
भोजनसमय एव बहुलीभूतेषु कार्य्याक्षमेषु । युक्तराह्या०
अस्याद्युदात्तता ।

पात्रेसमित त्रि० पात्र भोजनकाल एव समितः सङ्गतः

पात्रेसमि० अलुक्स० । १ कार्य्यकाले अक्षमेषु भोजन एव
सङ्गतेषु । युक्तरोह्या० अस्याद्युदात्तताः । “स पात्रेस-
मितोऽन्यत्र भोजनान्मिलितो न य” त्रिका० “निधाय-
हृदये षाप यः परं शंसति खयम् । स पात्रेसमितोऽथ
स्यादिति” शब्दमा० उक्तलक्षणे पुरुषविशेषे च ।
पृष्ठ ४३०२

पात्रेसमितादि पु० क्षेपे अलुक्समासादिनिमित्ते शब्दगणे

स च गणः पा० सू० उक्तो यथा
“पात्रेसमिताः पात्रेबहुलाः उदुम्बरमशकः उदुम्बर-
कृमिः कूपेकच्छपः अवटेकच्छपः कूपमण्डूकः कुम्भमण्डूकः
उदपानमण्डूकः नगरकाकः नगरवायसः मातरिपुरुषः
पिण्डीशूरः पितरिशूरः गेहेशूरः गेहेनर्दी गेहेक्ष्वेड़ी
गेहेविजिती गेहेव्याड़ः गेहेमेही गेहेदाही गेहेदृप्तः
गेहेधृष्टः गर्भेतृप्तः आखनिकवकः गोष्ठेशूरः गोष्ठेवि-
जिती गोष्ठेक्ष्वेड़ी गोष्ठेपटुः गोष्ठेपण्डितः गोष्ठेगल्भः
कर्णेटिरिटिरा कर्णे चुरुचुरा” ।

पात्रोपकरण न० ६ त० । पात्राणामुपभूषर्ण “रीतिवर्गा-

दिसञ्जातं पात्रोपकरणादिकम् । दद्यादायसवर्जन्तु
भूषणं न कदाचन । घण्टाचामरकुम्भादि पात्रोपकर-
णादिकम् । तद्भूषणान्तरे दद्याद्यस्मात्तदुपभूषणम्”
कालिकापु० ८६ अ० ।

पात्त्र न० पतति पत--क्विप् पतं पतन्तं त्रायते त्रै--क स्वार्थे

प्रज्ञाद्यण् । पापित्रातरि “सर्वेषामेव पात्त्राणां परं
पात्त्रं महेश्वरः । पतन्तं त्रायते यस्मादतीव नरकार्ण-
वात्” नन्दिपु० । महेश्वर इति प्रदर्शकं हेतोरविशेषात्
“पात्त्राण्याध्यात्मिका मुख्या विशुद्धाश्चाग्निहोत्रिणः ।
देवताश्च तथा मुख्या गोदानं ह्येतदुत्तमम्” प्रा० त० ।

पाथ न० पीयतेऽदः पा--कर्मणि थ । १ जले पाति रक्षति थ ।

२ अग्नौ ३ सूर्य्ये च मेदि० ।

पाथस् न० पाति रक्षति, पीयते वा पा--पाने रक्षणे बा

असुन् थुक् च । १ जले २ अन्ने च उज्ज्वलद० अन्नभो-
जने हि देहरक्षा ३ आकाशे च मेदि० ।

पाथिक पुंस्त्री० पथिकस्यापत्यं शिवा० अण् । पथिकापत्ये स्त्रियां ङीप् ।

पाथिक्य न० पथिकस्य भावः पुरोहि० यक् । पथिकत्वे

पाथिस् पु० पा--पाने इसिन् थुक् च । १ समुद्रे २ नेत्रे च

उज्ज्वलद० ।

पाथेय त्रि० पथि तद्व्यवहारे साधु ढञ् । १ मार्गेषु आहारोप-

योगिद्रव्ये २ कन्याराशौ दीपिका कौर्पशब्दे २२७८ पृ०
दृश्यम् । ३ देशभेदे । ततो भवेऽर्थे धूमा० वुञ् । पाथेयक
यत्र भवे त्रि०

पाथोज न० पाथसि जायते जन--ड ७ त० । १ जलजे कमले राजनि० २ शङ्खे च पाथोजातादयोऽप्यत्र ।

पाथोद पु० पाथो ददाति दा--क । १ मेघे त्रिका० मेघनामना-

मके २ मुस्तके अमरः ।

पाथोधर पु० पाथो धारयति धारि--अच् ह्रस्व । जलधरे

१ मेघे हला० २ मुस्तके च ।

पाथोधि पु० पाथो धीयतेऽत्र धा--आधारे कि उप० स० । जलधौ समुद्रे त्रिका० ।

पाथोनिधि पु० पाथो निधीयतेऽत्र नि + धा--कि उप० स० ।

जलनिधौ समुद्रे शब्दरत्ना० ।

पाथ्य त्रि० पाथसि भवः वेदे ड्यन् । पाथसि हृदयाकाशे भवे यजु० ११ । १४ ।

पाद् पु० पद + णिच् क्विप् । चरणे पादे जटा०

पाद पु० पद्यते गम्यतेऽनेन करणे कर्मणि वा घञ् । १ चरणे

अमरः २ श्लोकमन्त्रयोश्चतुर्थांशे “सोऽचि लोपे चेत्
पादपूरणम्” पा० “पादश्चेल्लोपे सत्येव पूर्य्येत” सि० कौ० ।
“पादेन नाक्रमेत् पादमुच्छिष्टं नैव लङ्घयेत् । न
संहताम्यां पाणिभ्यां कण्डूयेदात्मनः शिरः” इति कर्मलो-
चनम् । पादचालनादिनिषेधो यथा “न पादचालनं
कुर्य्यात् पादेन वा कदाचन । नाग्नौ प्रध्मापयेत् पादौ न
कांस्ये धावयेद्बुधः । नातिप्रसारयेद्देवब्राह्मणाना-
मथापि वा । वाय्वग्निनृपविप्राणां सूर्य्यं वा शशिनं
प्रति” कौर्मे उपरिभागे १५ अ० । सुसंख्यापूर्वकस्य
अन्त्यलोपः बहु० समा० । द्विपाद् सुपाद् । उपमानात्तु वा
व्याघ्रपाद्(दः) । पाच्छब्देनैकोपपत्तौ अन्त्यलोपविधा-
नम् द्विपादः सुपादः इति प्रयोगवारणार्थम् । पादश्च
इन्द्रियभेदः इन्द्रियशब्दे ९५५ पृ० दृश्यः । ३ वृक्षादैर्भूले
पादपः । ४ चतुर्थभागे ५ प्रत्यन्तपर्बते महाद्रिसन्नि-
कृष्टक्षुद्रपर्वते ६ किरणे च मेदि० ७ ग्रन्थांशमात्रे ८
अवयवमात्रे । भावे घञ् । ९ गमने तत्र कुशलः आकर्षा०
कन् । पादक गमनकुशले त्रि० । पादेन चरति पर्पा० ष्ठन्
पदादेशश्च पदिक पादचारिणि त्रि० स्त्रियां ङीष् ।
अस्य भत्थे शसादौ च परे वा पदादेशः । पादान् पदः
इत्यादि । वृषा० आद्युदात्ततास्य । १० ऋषिभेदे

पादकटक पु० पादस्य कटक इव । नूपुरे अमरः ।

पादकृच्छ्र पु० व्रतभेदे तल्लक्षणमुक्तं यथा “एकभुक्तेन

नक्तेन तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्रः
प्रकीर्त्तितः” याज्ञ० “एतच्चतुरहसाध्यम्” प्रा० वि० ।

पादगण्डीर पु० पादस्य गण्डेः (गुँडि) वृक्षस्यामूलाच्छा-

खावधिभागस्य ईः शोगास्त्यत्र बा० । र । श्लीपदे (गोद)
रोगभेदे त्रिका० ।

पादगृह्य पु० गृह्यः पादः मयूर० पूर्वनि० । गृह्ये पादे

पादग्रन्थि पु० पादस्य ग्रन्विरिव । १ गुल्फे २ पादसन्धौ च ।

पृष्ठ ४३०३

पादग्रहण न० पादौ गृह्येते यत्र ग्रह--आधार ल्युट् ।

१ चरणग्रहणपूर्वकप्रणामे । विप्रोष्य पादग्रहणमन्वयं
भिवादनम्” मनुः अभिवादनशब्दे २९९ पृ०
दृश्यम् । तत्र शौचान्तरमाह ऋष्यशृङ्गः “यस्मिन्
स्थाने कृतं शौचं वारिणा तद्विशोधयेत्” । अनभिवा
द्यानाह हारीतः “धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकृ-
तन्तथा । भुञ्जानमाचमनार्हञ्च नास्तिकं नाभिवादयेत् ।
जन्मप्रभृतियत् किश्चित् चेतसा धर्ममाचरेत् । सर्वं तन्नि-
ष्फल याति एकहस्ताभिवादनात्” । “समिद्वार्व्युदकु-
म्भपुष्पान्नहस्तो नाभिवादयेत् यच्चाप्येवं युक्तम्” इति ।
बौधायनः । “जपयज्ञजलस्थञ्च समित्पुष्पकुशानलान् ।
दन्तकाष्ठञ्च भक्ष्यञ्च वहन्तं नाभिवादयेत्” लषुहा-
रीतः । “न पुष्पाक्षतपाणिर्नाशुचिर्न जपन् न देवपि-
तृकार्य्यं कुर्वन्” अभिवादयेदित्यनुवृत्तौ शङ्खलिखितौ ।

पादघृत न० पादयोर्लेपनार्थं घृतं शा० त० । पादयोरभ्यञ्ज-

नार्थे घृते भा० व० १९९ अ० ।

पादचतुर त्रि० पादे पादव्यापारे चतुरः । १ पादव्यापारदक्षे

२ छागले पुंस्त्री । ३ सैकते ४ पिप्पले ५ करञ्जे ६ परदोषैक-
प्रवक्तृपुरुषे च मेदि० ।

पादचारिन् पु० पादेन चरति चर--णिनि ३ त० । १ पदातौ

२ पद्भ्यां गन्तरि त्रि० हेमच० स्त्रियां ङीप् ।

पादज पुंस्त्री पादात् जायते जन--ड ५ त० । ब्रह्मणः

पदादुत्पन्ने १ शूद्रे त्रिका० स्त्रियां जातित्वात् ङीष् ।
“पद्भ्यां शूद्रो अजायत” यजु० ३० । ११ । श्रुतेस्तस्य
तथात्वम् । २ चरणजातरोगादौ त्रि० ।

पादजल न० पादक्षालनं जलम् शा० त० । १ पादोदके । पादमितं

जलं यत्र । २ चतुर्थांशमितजलयुक्ते त्रि० ३ तक्रे न० अमरः

पादजाह न० पादस्य मूलं कर्णा० जाहच् । पादस्य मूले ।

पादत्र त्रि० पादौ त्रायते त्रै--क । १ पादरक्षके २ पादुकायाम्

स्त्री ।

पादत्राण न० पादस्त्रायतेऽनेन त्रै--करणे ल्युट् । पादुकायां जटाध० । उपागच्छब्दे दृश्यम् ।

पाददाह पु० पादौ दहति--अण् उप० स० । सुश्रुतोक्ते

१ वातव्याधिमेदे पादयोः कुरुते दाहं पित्तासृक्सहितो
ऽनिलः । विशेषतश्चङ्क्रमतः पादद्राहं तमादिशेत्” ।

पादप पु० पादेन मूलेन पिवति सिक्तं जलम् पा--क ।

१ वृक्षे अमरः । पाद पाति रक्षति पा--क । १ पादपीठे
मेदि० । ३ पादुकायां स्त्री मेदि० । पादपेन कृतम अञ् ।
४ पादपकृते त्रि० । ततः समूहे खण्डच् । पादपखण्ड
तत्लमूहे न० ।

पादपरुहा स्त्री पादपं रोहति रुह--क । वन्दायाम् (परगाछा) । राजनि० ।

पादपाश पु० ६ त० १ अश्वपादबन्धनदामनि हेमच० २ शृङ्ख-

लायां ३ खट्टुकायाम् (खेँडुया) ४ लतायां स्त्री मेदि०
गौरा० ङीष् ।

पादपीठ पु० न० ६ त० । पादस्थापनार्थे पीठे हेमच० ।

संज्ञायां कन् कापि अतैत्त्वम् । पादपीठिका० नापिता-
दिशिल्पे स्त्री शब्दमा० ।

पादप्रक्षालन न० ६ त० । पादयोः १ क्षालने जले “पादप्रक्षा-

लनं मेधाजनकं सुपवित्रकम् । अलक्ष्मीकलिहृच्चैव
आयुपो हितकारि च” राजनि० “पादप्रक्षालनं
विशेष्ठयति देवलः “प्रथमं प्राङ्मुखः स्थित्वा पादै
प्रक्षालयेच्छनैः । उदङ्मुखो वा दैवत्ये पैतृके दक्षिणा
मुखः” शनैरत्वरः । दैवपैतृकेतरत्रापस्तम्बः “प्रत्यक्
पादावसेचनमिति” । प्रत्यक् पश्चिमाभिमुखः । क्रम
माह गोभिलः “सव्यं पादमवगेनिजे इति सव्यं पाद
प्रक्षालयति” । अर्हणीये तथा दर्शनात् सर्वत्र तथा
कल्प्यते । पारस्करः “सव्यं प्रक्षाल्य दक्षिणं प्रक्षालय
तीति” “सव्यं प्रथमं प्रक्षालयतीति” सूत्रेण प्राक्
सव्यपादप्रक्षालगे सिद्धे पुव्यं प्रक्षाल्य दसिखं प्रक्षालय
तीत्यत्र लव्यग्रहष्यं सामान्यार्थं तेनान्यस्मिन्नपि
पादप्रक्षालने सव्यप्यैव प्राथम्यम् अन्यार्थं पूर्वचनमिति
दर्शनात्” । “ब्राह्मणश्चेद्दक्षिणं प्रथममिति” सृत्रं
पादौ यदि ब्राह्मणः प्रक्षालयति तदा दक्षिणं दातव्य-
मिति न सव्यम्। यथा प्रक्षालयतीत्यनुवृत्तावावलायनः
“दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् सव्यं शूद्रायेति
खयं प्रक्षालने सव्यस्यैव प्राथम्यमिति हरिशम
एवञ्च दक्षिणपादप्रक्षालनानन्तरं वामपदप्रक्षालनं वा
स्पतिमिश्राद्युक्तं हेयमिति” आ० त० रघुनन्दनः ।

पादबन्धन न० पादौ बध्येते अनेन करणे ल्युट् ६ त

१ गोमहिपादेः पादबन्धने दामनि । भावे--ल्युट् । २ गे
हिषादिपादयोर्बन्धने जटा० । घञ् पादबन्ध तत्रार्थे

पादभाग पु० ६ त० । १ चरणाधोभागे हेमच० । १ पादमि

भागः शा० त० । २ चतुर्थांशे च ।

पादमूल न० ६ त० । १ चरणस्याधोभागे २ चरणसमीपे च

पादरक्ष त्रि० पादं रक्षति रक्ष--अण् उप० स० । १ चर

रक्षके पादुकादौ २ रथचरणरूपचक्ररक्षके च भा० वि०
६५ अ० । ल्यु । पादरक्षण तत्रार्थे त्रि० भावे ल्युट् । ६ व० ।
३ पादस्य रक्षणे न० ।

पादरज्ज्यु स्त्री पादबन्धनार्था रज्ज्यः पा० त० । हस्तगदे पौदबन्धनार्थे दामनि जटाध० ।

पृष्ठ ४३०४

पादरथी स्त्री क्षुद्रो रथः ङीप् पादस्य रथीव । पादुकायां

त्रिका० ।

पादरोह पु० पादेन मूलेन रोहति रुह--अच् । वटवृक्षे ल्यु । पादरोहण तत्रार्थे राजनि० ।

पादवन्दन न० पादयोर्वन्दनम् । पादग्रहणपूर्वकप्रणामे

“कुर्य्याच्छ्वशुरयोः पादवन्दनं भर्तृतत्परा” याज्ञ० मनुना
क्वचिन्निषेध उक्तः “गुरुपत्नी सु युवतिर्नाभिवाद्येह
पादयोः । पूर्णषोडशवर्षेण गुणदोषौ विजानता”

पादवल्मीक पु० पादे वल्मीक इव । श्लीपदरोगे (गोद) हेदच०

पादविक त्रि० पदवीमनुधावति ठक् । पथिके सि० कौ० ।

पादविग्रह पु० पादस्यावयवस्य विग्रहः । अवयवग्रहणे ।

“ये च विष्णुमधीयन्ते बहुधा पादविग्रहैः” हरिवं०
२१७ अ० । पादः चतुर्थांशमितो विग्रहो यस्य । पादमि-
तावयवयुक्ते त्रि० “अधर्मो पादविग्रहः” १९८ अ० ।

पादविरजस् स्त्री पादो विरजाः धूलिहीनो यस्याः ।

१ पादुकायां हारा० । ६ ब० । २ देयेषु च तेषां विरज-
स्कपादत्वात्तथात्वम् ।

पादशस् अव्य० पादं पादमित्यादिकारकार्थे वीप्सायाम्

शस् ऋक्पादभिन्नत्वे न पदादेशः । वीप्सायां कारका-
र्थवृत्तौ पादशब्दार्थे मनु १ । ८२ । तु ऋक्पादे तु पच्छस्

पादशाखा स्त्री पादस्य शाखेव । पादाङ्गुलौ शब्दार्थकल्पत०

पादशैल पु० पादात्मकः शैलः । प्रत्यन्तपर्वते शब्दरत्ना० ।

पादशोथ पु० पादजातः शोथः शा० त० । पादजाते शोथे

रोगभेदे “अन्योन्योपद्रवकृतः शोथः पादसमुत्थितः ।
पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो ह्ययम्” माघवः ।

पादशौच न० ६ त० । पादप्रक्षालने पादप्रक्षानशब्दे दृश्यम्

“योम्यास्यतः पादशौचम्” श्राद्धप्रयोगः । श्राद्धे दक्षि-
णामुखेनैव तस्य करणं यथोक्तं श्राद्ध० त० “प्रथमं प्राङ-
मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः । उदङ्मुखो वा
दैवत्ये पैतृके दक्षिणामुखः” इति देवलवचनात् दक्षिणा-
मुखः सन् कृतपादशौचस्तत्रापि वामपादादिक्रमः रघु० ।

पादस्फोट पु० ६ त० । १ विपादिकाख्ये २ क्षुद्रकुष्ठभेदे अमरः

कुष्ठशब्दे २१५५ पृ० तस्य लक्षणादि दृश्यम् ।

पादस्वेदन न० ६ त० । पादयोः खेदने । ततः अक्षद्यूता०

निर्वृत्तेऽर्थे ठक् । पादस्वेदनिक तन्निर्वृत्ते रोगभेदोप-
शमादौ त्रि० ।

पादहर्ष पु० “हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत । पादहर्षः

स विज्ञेयः कफवातप्रकोपजः” सुश्रुतोक्ते वातव्याधिभेदे ।

पादहारक त्रि० पादाभ्यां हरति ह्रियते वा हृ--कर्त्तरि

कर्मणि वा नि० ण्वुल् । १ पादेन हरणकर्त्तरि
२ तत्कर्मणि च ।

पादहीन त्रि० ३ त० । १ त्रिपाद्यात्मके पदार्थे (तिनपोया) २ चरणशून्ये च ।

पादाकुलक “यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादै

कलितम् । अनियतवृत्तपरिमाणसहितम् प्रथितं
जगत्सु पादाकुलकम्” वृ० र० उक्ते मात्रावृत्तभेदे ।

पादाग्र न० ६ त० । चरणाभागे प्रपदे अमरः ।

पादाङ्गद न० पादस्य अङ्गदमिव । नूपुरे अमरः गौरा०

ङीष् । तत्रार्थे स्त्री हारा० ।

पादाङ्गुलीयक न० ६ त० । (चुष्टकी) चरणाङ्गुलीयके हेमच०

पादात् त्रि० पादाभ्यामतति अत--क्विप् । पद्भ्यां गन्तरि

२ पदातौ पु० हेमच० ।

पादात न० पदातीना समूहः अण् । १ सैन्यसमुदाये अमरः

पादाभ्यामतति गच्छति अत--अच् । २ पदातौ सैन्ये पु०
पादातिः पादातिकोऽप्यत्र पु० हेमच० ।

पादाम्बु न० पादमितमम्बु यत्र । तक्रे (गोल) अमरः ।

पादाभ्यञ्जन न० ६ त० । पादलेपनार्थे वृतादौ काशी० ३ अ० ।

पादाम्भस् न० पादप्रक्षालनमम्भः । पादशौचजले “दूरा-

दुच्छिष्टविण्मूत्रपादाम्मांसि समुत्सृजेत्” याज्ञ० तस्य
दूरे त्यज्यतोक्ता ।

पादायन पुंस्त्री० पादस्यर्षेः गोत्रापत्यम् अश्वा० फञ् । पादर्षिगोत्राघत्ये ।

पादारक पु० पाद इव ऋच्छति ऋ--ण्वुल् । नौकावयवभेदे

पोलिन्दे हेमच० ।

पादालिन्दी स्त्री पाद इवालिन्दो यस्याः गौरा० ङीष् । नौकायां हारा०

पादावर्त्त पु० पाद इवावर्त्तते आ + वृत--अच् । कूपादितो

जलोद्धारणे यन्त्रभेदे अरघट्टे हेमच० ।

पादाविक त्रि० पादातिक + पृषो० । पदातौ शब्दरत्ना० ।

पादिक त्रि० पादेन चतुर्थांशेन जीवति वेतना० ठक् ।

१ चतुर्थांशवृत्तियुते । पादः परिमाणमस्य निष्का० ठक् ।
२ पादपरिमाणे मनुः ३ १ ।

पादिन् त्रि० पादश्चरणोऽस्त्यस्य पादश्चतुर्थांशो ग्रहीतृ-

त्वेनास्त्यस्य वा इनि । १ पादयुते जलजन्तुभेदे “कुम्भीर
कूर्मनक्राश्च गोधामकरशङ्कयः । घण्डिकः शिशुमारश्चे-
त्यादयः पादिनः स्मृताः । पादिनोऽपि च ये ते तु
कोषस्थानां गुणैः समाः” भावप्र० । २ चतुर्थांशग्राहके
च “सर्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे । तृती-
यिनस्तृतीयांशाश्चतुर्थांशास्तु पादिनः मल० त० अर्द्धिन्-
शब्दे ३७८ पृ० दृश्यम् ।
पृष्ठ ४३०५

पादु स्त्री भावे उण् । गमने ऋ० १० । ३७ । २४ भाष्ये दृश्यम् ।

पादुक त्रि० पद--उकञ् । १ गमनशीले पादू + स्वार्थे क

“केऽणः” पा० ह्रस्वः । चर्भमयपादत्राणे स्त्री अमरः ।
तस्या उत्पत्तिकथा आतपत्रशब्दे ६४९ पृ० दृश्या तत्र
चानुशासनिकपर्वाध्यायसंख्या ९२९३ स्थाने ९५ ९६ संख्या
ज्ञेया । “वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च ।
शरीरत्राणकामो वै सोपानत्कः शदा व्रजेत्” ज्यो० त०
“पादप्रधारणं वृष्यमोजस्यं चक्षुषो हितम् । सुखप्रचार-
मायुष्यं बल्यं पादरुजापहम्” । तस्या अधारणे दोषा
यथा “पादाभ्याममुपानद्भ्यां नृणां च क्रमणं यदा ।
अनारोग्यमनायुष्यमिन्द्रियघ्नमदृष्टिकृत्” राजनि० अधिकं
दिनचर्य्याशब्दे ३५९० पृ० दृश्यम् । “दह्यमानाय
विप्राय यः प्रयच्छत्युपानहौ । स्नातकाय महावाहो!
संशिताय द्विजातये । सोऽपि लोकानवाप्नोति
दैवतैरपि पूजितान् । गोलोके स मुदा युक्तो वसति प्रेत्य
भारत!” भा० आनु० ९६ अ० । कचित्पादुकाधारणनि-
षेधः “वहन्नुपानहौ पद्भ्यां यस्तु मासुपसंक्रमेत् ।
चर्मकारस्तु जायेत वर्षाणान्तु त्रयोदश” वराहपु० ।
“सोपनत्कश्च यद्भुङक्ते तद्वै रक्षांसि भुञ्जते” मनुः ।
देवतापादुकानिर्माणप्रकारो देवीपु० यथा “मणिरत्नमयी
कार्य्या हेमरूप्यमयी तथा । चन्दवेनापि कर्त्तव्या पादुका
प्रतिमापि वा । श्रीपर्णा श्रीद्रुमा चापि देवदारुमयी
तथा । षडङ्गुला च सा कार्य्या पादुकां पूजयेत् सदा” ।

पादुकाकार पु० पादुकां करोति कृ--अण् उप० स० । चर्म-

कारे पादूकृत्पादुकाकृदादयोऽप्यत्र हेमच० ।

पादू स्त्री पद्यते मुखेमानया पद--करणे “णित् कशिपद्य-

र्त्तेः” उणा० ऊ--णिच्च । चर्ममयपादुकायाम् अमरः ।

पादोदक न० पादप्रक्षालनमुदकम् शा० त० । पादप्रक्षालनजले

हरिमूर्त्तिपादोदकपानफलं हरिभक्तिविलासादौ दृश्यम्

पादोदर पुंस्त्री० पाद उदरे यस्य सर्पे प्रश्नोप० स्त्रियां

जातित्वात् ङीष् ।

पाद्धत न० पद्धतीनां समूहः भिक्षा० अण । पद्धतिसमूहे

पाद्म न० पद्ममधिकृत्य प्रवृत्तम् अण् । “तदधिकृत्य कृते ग्रन्थे”

पा० वा अण् । पद्माधिकारेण प्रवृत्ते १ ब्रह्मदिनरूपे
कल्पभेदे तदधिकारेण कृते ३ पद्मपुराणात्मके ग्रन्थे च ।

पाद्य त्रि० पादार्थं पाद--यत् । १ पादशौचार्थे जले अपसुं स्त्री

तेन “पाद्याः पाद्याः पाद्याः प्रतिगृह्मन्तामिति” “दिवाहे-
ऽर्ष्ठक्षीयप्रश्नः । पादं चतुर्थांशमर्हति यत् । २ चतुर्थां-
शार्हे त्रि० । देवदेयपाद्ये द्रव्यविशेष उक्तो यथा “पाद्यं
श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम्” । एतद्द्रव्ययुक्तं
जलमिति” देवप्र० रघु० । तद्दानपात्रलक्षणं यथा “पादा-
वसेचनजलग्रहणं पात्रमद्भुतम् । लौहजं ताम्बजातं वा
हैमं राजतमेव वा” वैखानससं० । “षडङ्गुलप्रविस्ता-
रमुत्सेधे चतुरङ्गुलम् । ओष्ठमेकाङ्गुलं कुर्य्यात् नासिकां
चतुरङ्गुलाम् । पृष्ठे पादसमायुक्तं चतुरङ्गुगमानतः ।
पाद्यपात्रमिति ख्यातं सर्वदेवप्रपूजने” सिद्धान्तशेखरः ।
पाद्यप्रकारः स्थला० कन् । पाद्यक पाद्यप्रकारे त्रि० ।

पान न० पा--ल्युट् । १ द्रवद्रव्यस्य गलाधःसंयोजने २ रक्षणे

च ३ निश्वासे च पु० हेमच० । निश्व सेन प्राणरक्षणात्त-
थात्वम् । आधारे ल्युट् । ४ पानभाजने मेदि०
पीयतेऽस्मात् अपादाने ल्युट् । ५ शौण्डिके पु० जटा० । करणे
ल्युट् । अस्त्राणां तीक्ष्ण ग्रतासम्पादने ६ व्यापारभेदे
(पानदेओया) असिशब्दे ५५१ पृ० पायनाशब्दे च
दृश्यम । पीयते कर्मणि ल्युट् । ७ भद्यादौ ।

पानक न० पानार्थं कायति कै--क । अम्लिकानिम्बुरसादि-

मिश्रितशर्कराजलादौ कृतान्नशब्दे २१८ पृ० दृश्यम् ।

पानगोष्ठिका स्त्री पानार्थं गोष्ठिका । १ सम्भूय मद्यादि-

पानार्थसभायाम् तन्त्रोक्ते २ भैरवीचक्रे च ।

पानठ त्रि० पाने कशलः बा० अठच । पानकुशले स्त्रियां

गौरा० ङीष् ।

पानप त्रि० पानं पेयं मद्यादि पिबति पा--पाने क । सुरापायिणि ।

पानपात्र न० पानस्य पेयस्य सुरादेः पात्रम् । पेयसुरादेः

पात्रे कंसे अमरः । पानभाजनादयोऽप्यत्र ।

पानबणिज् पु० पानस्य पेयस्य सुरादेः बणिज् । शौण्डिके

हेमच० ।

पानशौण्ड त्रि० पाने शौण्डः ७ त० । सुरादिपानदक्षे पकृतिस्वरः ।

पानस न० पनसस्य तत्फलस्य विकारः तस्येदं वा अण् ।

पनसभवे १ मद्यभेदे “पानसं द्राक्षमाधूकम्” द्वादशम-
द्योक्तौ पा० वि० । २ पनससम्बन्धिनि त्रि० ।

पानात्यय पु० सुश्रुतोक्ते मद्यपानजे रोगभेदे मद्यख

पानदोषादिकनिरूपणेन तल्लक्षणादिकं तत्रोक्तं यथा
“मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव । रूक्ष-
माशुकरञ्चैव व्यवायि च विकाशि च । औष्ण्याच्छीतो-
पचारं तत्तैष्ण्याद्धन्ति मनोगतिम् । विशत्यवयवान्
सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् । मारुतं कीपयेद्रौक्ष्या-
दाशुत्वादाशुकर्मकृत् । हर्षदञ्च व्यवायित्वाद्विकाशित्वाद्वि-
पृष्ठ ४३०६
सर्पति । तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम् ।
केचिञ्चवणवर्जांस्तु रसानत्रादिशन्ति हि । स्निग्धै-
स्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् । भवेदायुःप्रकर्षाय
बलायोपचयाय च । काम्यता मनसस्तुष्टिर्द्धैर्य्यं तेजो-
ऽतिविक्रमः । विधिवत्सेव्यमाने तु मद्ये सन्निहिता
गुणाः । तदेवानन्नमज्ञेन सेव्यमानममात्रया । काया-
ग्निनाह्यग्निशमं समेत्य कुरुते मदम् । मदेन करणा-
नान्तु भावान्यत्वे कृते सति । निगूढमपि भावं स्वम्प्र-
काशी कुरुतेऽवशः । त्र्यवस्थश्च मदो ज्ञेयः पूर्वो भध्यो-
ऽथ पश्चिमः । पूर्वे वीर्य्यरतिप्रीतिहर्षभाष्यादिवर्द्ध-
नम् । प्रकापो मध्यमे हर्षो युक्तायुक्तक्रियान्तथां ।
विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः । श्लैष्मिकान-
ल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः । पानं न बाधतेऽत्यर्थं
विपरीतांस्तु वाधते । निर्भक्तमेकान्तत एव मद्यं निषे-
व्यमाणं मनुजेन नित्यम् । उत्पादयेत् कष्टतमान्विका-
रानासादयेच्चापि शरीरभेदम् । क्रुद्धेन भीतेन पिपा-
सितेन शोकाभितप्तेन बुभुक्षितेन । व्यायामभाराध्वपरि-
क्षतेन वेगावरोधाभिहतेन चापि । अत्यम्लभक्ष्यावततो-
दरेण साजीर्णभुक्तेन तथा बलेन । उष्णाभितप्तेन च
सेव्यमानं करोति मद्यं विविधान्विकारान् । पानात्ययं
परमदम्पानाजीर्णमथापि वा । पानविभ्रममुग्रञ्च तेषां
वक्ष्यामि लक्षणम् स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः
पानात्ययेऽनिलकृते शिरसो रुजश्च । स्वेदप्रलापमुख-
शोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च । श्ले-
षात्मके वमथुशीतकफपसेकाः सर्वात्मके भवति सर्वविका-
रसम्बत् । ऊष्मा शरीरगुरुता विरसाननत्वं श्लेष्माधि-
कत्वमरुचिर्मलमूत्रभङ्गः । लिङ्गं परस्य तु मदस्य
वदन्ति तज्ज्ञास्तृष्णारुजा शिरसि सन्धिषु चापि भेदः ।
आध्मानमद्गिरणमम्लरसो विदाहोऽजीर्ण्णस्य पानजनि-
तस्य वदन्ति लिङ्गम् । ज्ञेयानि तत्र भिषजा सुविनि-
श्चितानि पित्तप्रकोपजनितानि च कारणानि । हृद्गात्र-
तोदवमथुज्वरकण्टधूममूर्च्छाकफस्रवणमूर्द्धरुजो विदाहः ।
द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्य-
खिलेन धीराः । हीनोत्तरौष्ठमतिशीतममन्ददाहं
तैलप्रभास्यमतिमानहतं विजह्यात् । जिह्वौष्ठदन्तमसितं
त्वथवापि नीलं पीते च यस्य नयने रुधिरप्रभे च ।
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च
पानहतं मजन्ते” । परममदपानाजीणेपानविभ्रमा
अपि तत्रोक्ते मद्यपानजे रोगमेदे तल्लक्षणमत्रैवोक्तम् ।

पानिल न० पानमाधातरयाऽस्त्यत्र इलच् । पानपात्रे शब्दच०

पानीय त्रि० पा--पाने रक्षणे वा कर्मणि अनीयर् । १ पेये

जलादौ २ रक्षणीये च ३ जले न० अमरः । तद्गुणभेदादि
अम्बुशब्दे दृश्यम् ।

पानीयकाकिक पु० काकस्येवाकारेऽस्यास्ति ठन् ७ त० ।

(पानकौड़ि) पक्षिभेदे मद्गुखगे उज्ज्वलद० ।

पानीयनकुल पुंस्त्री० पानीये जले नकुल इव । (उद्विराल)

जलविडाले हेमच० ।

पानीयपृष्ठज पु० पानीयपृष्ठे जलोपरि जायते जन--ड ।

(पाना) कुम्भ्याम् रत्नमाला ।

पानीयफल न० ६ त० । (माखना) जलकन्दफलभेदे भावप्र०

पानीयभक्तगुड़िका स्त्री चक्रदत्तोक्ते गुलिकाभेदे

“रसोऽर्द्धभागिकस्तुल्याविडङ्ग्मरिचाभ्रकाः । भक्तोद-
केन संमर्द्य कुर्य्याद् गुञ्जसमां गुड़ीम् । भक्तोदकानु-
पानैश्च सेव्या वह्निप्रदीपनी । वार्य्यन्नभोजनञ्चात्र
प्रयोगे सात्म्यमिष्यते” ।

पानीयमूलक न० पानीयं मूलं यस्य कप् । सोमराज्याम् शब्दच० ।

पानीयवर्णिका स्त्री पानीयमिव वर्णवति वर्णि--ण्वुल् ।

बालुकायां राजनि० ।

पानीयशालिका स्त्री पीयतेऽस्याम् आधारे अनीयर्

तादृशी शाला पानीथवितरक्षार्थं वा शाला ततः स्वार्थे
क कापि अतैत्त्वम् । प्रपायाम् (जलसत्रगृहे) अमरः ।
तद्दानविधिः हेमाद्रि० दा० भविष्यपु० उक्तो यथा
“अतीते फाल्गुने मासि प्राप्ते चैव महोत्सवे । पुण्ये-
ऽह्नि विप्रकथिते ग्रहचन्द्रबलान्विते । मण्डपं
कारयेद्विद्वान् घनच्छायं सनोरमम् । पुरस्य मध्ये पथि वा
चैत्यवृक्षतलेऽथ वा । सुशीतलतलं रम्य विचित्रासनसं-
युतम् । तन्मध्ये स्थापयेद्भव्यान् मणिकुम्भांश्च
शोभनान् । आकल्पयुक्तान् करकान् वस्त्रैरावेष्टितानमान् ।
ब्राह्मणे शीलसम्पन्ने भृतिं दत्त्वा यथोदिताम् । प्रपा-
पालः प्रकर्त्तव्यो बहुपुत्रपरिच्छदः । पानोयपानादश्रा-
न्तान् यः कारयति मानवान् । एवंविधां प्रषां कृत्वा
शुभेऽह्नि विधिपूर्वकम् । यथाशक्त्या नरश्रेष्ठ! प्रारम्भे
भोजयेद्द्विजान् । ततश्चोत्सर्जयेद्विद्वान्मन्त्रेणानेन
मानवः । प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता । अस्याः
प्रदानात् पितरस्तृष्वन्तु च प्रितामहाः । अनिवारितं
तती देयं जलं मासचतुष्टयम् । त्रिपक्षं वा महाराज!
पृष्ठ ४३०७
जीवानां जीवनं परम् । गन्धाद्यं सुरसं शीतं शोभने
राजते स्थितम् । प्रदद्यादप्रतिहतं मुखञ्चानवलोकयन् ।
प्रत्यहं कारयेतस्यां भोजनं शक्तितो द्विजान् । अनेन
विधिना यस्तु ग्रीष्मे तापप्रणाशनम् । पानीयमुत्तमं
दद्यात्तस्य पुण्यफलं शृणु । कपिलाशतदानस्य सम्यग-
दत्तस्य यत् फलम् । तत्पुण्यफलमाप्नोति सर्वदेवैः
सुपूजितः । पूर्ण्णचन्द्रप्रतीकाशं विमानमधिरुह्य सः ।
याति देवेन्द्रनगरं पूज्यमानोऽप्सरोगणैः । त्रिंशत्-
कोट्यो हि वर्षाणां यक्षगन्धर्वसेवितम् । पुण्यक्षयादि
हागत्य चतुर्वेदो द्विजो भवेत् । ततःपरं पदं याति पुन
रावृत्तिदुर्लभम्” ।

पानीयामलक न० कर्म० । (पानिआमला) वृक्षभेदे “पानी-

यालकं दोपत्रयज्वरविनाशनम् । अम्लं स्वादु
मुखशुद्धिकरं मलविशुद्धिकत्” राजवल्लभः ।

पानीयालु पु० पानीयजात आलुः शा० त० । (पानीआलु)

कन्दभेदे राजनि० “पानीयालुस्त्रिदोषघ्नः सन्तर्पणकरः
परम्” ।

पानीयाश्ना स्त्री पानीयं जलमश्नाति मूलेन अश--भोजने बा० श टाप् । वल्वजायां राजनि० ।

पान्थ त्रि० पन्थानं नित्यं गच्छति अण् पन्थादेशः । नित्यं

पथि गन्तरि १ पथिके अमरः । २ वियोगिनि च त्रि० ।

पान्थायन त्रि० पथोऽदूरदेशादि पथिन् + पक्षा० फक्

पन्थादेशः । मार्गस्यादूरदेशादौ ।

पान्नागारि पुंस्त्री० पन्नागारस्य ऋषेरपत्यं युवा इञ्

“इञः प्राच्यभरतेषु” प्रा० युवप्रत्ययस्यलुक् । गोत्रप्रव-
र्त्तकपन्नागारर्षेः १ गोत्रापत्ये २ तदीये यून्यपत्ये च ।

पाप न० पाति रक्षति आत्मानमस्मात् पा--अपादाने प ।

१ नरकहेतौ दुरदृष्टे तत्साधने २ हिंसादौ ज्योतिषोक्तेषु
अर्द्धोनचन्द्ररविप्रभृतिषु ग्रहेषु पापग्रहशब्दे दृश्यम् ।
पापलक्षणं पापसत्तायां प्रमाणञ्च प्रा० वि० उक्तं यथा
मनु किं पापलक्षणम् उच्यते चोदनालक्षणोऽर्थोधर्म्म
इति धर्मलक्षणं कुर्वता सूत्रकारेण जैमिनिना वेदैकप्रति-
पाद्योऽनर्थोऽधर्म्भ इत्यधर्म्मलक्षणं सूचितम् अनर्थश्चा
निष्टसाधनं तथा चोक्तं भाष्यकृता कोऽर्थो योऽभ्युद-
याय कोऽनर्थो योऽनभ्युदयाय” । नमु पापसत्तायां किं
मानं न तावत् वेदः तस्य कार्य्ये कार्य्यान्विते वा प्रामा-
ण्यात् न च दुरितापूर्वं कार्य्यं कार्य्यान्वितं वा । न चं
नित्यकर्माकरणस्य निषिद्धाघरणस्य च वेदोक्तप्रत्यवाय-
साधनत्वान्यथानुपपत्त्या कल्प्यं तस्य तथाविधशब्दाभा-
येन असिद्धत्वेन चावगन्तुमशक्यत्वात्, उच्यते “यो
व्राह्मणायावगुरेत् तं शतेन यातायात्” इति श्रुतौ
लिङ्द्वयश्रुतेरवगोरणशतयातनयोः साध्यसाधनभावोऽ-
वगम्यते “हेतु हेतुमतोर्लिङिति” पाणिनिस्मरणादिति
यथोक्तं शंय्वधिकरणे, तथात्रापि क्वचित् पञ्चम्या
क्वचित् तृतीयया क्वचिद्विशेषणेन तदवगम्यते । यथा
याज्ञवल्क्यः “विहितस्याननुष्ठानान्निन्दितस्य च
सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति”
(अत्र पञ्चम्या) मनुः “शरीरजैः कर्म्मदोषैर्याति स्था-
वरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजाति-
ताम् । इह दुश्चरितैः केचित् केचित् पूर्बकृतैस्तथा ।
प्राप्नुवन्ति दुरात्मानो नरारूपविपर्य्ययम्” (अत्र
तृतीयया) विष्णुपु० “नरकं कर्म्मणां लोपादेवमाहूर्मह-
र्षयः” यमः “सुरापो ब्रह्महा गोघ्न सुवर्णस्तेयकृन्नरः ।
पतितैः संप्रयुक्तश्च कृतघ्नो गुरुतल्पगः । एते पतन्ति
सर्वेषु नरकेष्वनुपूर्वशः” । अत्रैते सुरापादयः पतन्तीति
सुरापादीनां पतनकर्तृत्वावगतेः पतनकर्तृत्वच्च साधन-
त्वविशेषः । अतः सुरापानादिविशिष्टस्य पुरुषस्य
पतनसम्बन्धे विशेषणस्य सुरापानादेः सति सम्भवे पतनसा-
धनत्वमवगम्यते । “सप्तदशप्राजापत्यान्पशूनालभेत” इति
वत् । एवं “वारिदस्तृप्तिमाप्नोति” इत्यादिवच्च ।
नरकसाधनत्वस्य कार्य्यान्वयाभावात् कथं शब्दादवगतिरिति चेत्
शंयुवत् विषयविशेषणतया इति व्रूमः । यथा यातनासा-
धनादवगोरणान्निवर्त्तितव्यमिति विधिः । तथा नरकसा-
धनात् सुरापानादेरपि निवर्त्तितव्यमिति” । यथा काला-
न्तरभावि स्वर्गादिसाधनत्वान्यथानुपपत्त्या यागादेर्द्वारी-
भूतधर्मकल्पकता एवं कालान्तरभाविनरकादिसाधनत्वान्य
थानुपपत्त्या सुरापानादेर्द्वारीभूताधर्मकल्पकत्वमिति वोध्यम्
पापमस्त्यस्य अर्श० अच् । ४ पापयुक्ते त्रि० । पापं च
कायिकादिभेदेन दशविधं दशहराशब्दे ३४८३ पृ० दर्शितम्
कायिकादिभेदेनान्यान्यपि पापान्युक्तानि यथा
“प्राणाभिपातनं स्तैन्यं परदारमथापि च । त्रीणि-
पापानि कायेन सर्वतः परिवर्जयेत् । असत्प्रलापं
पारुष्यं पैशुन्यमनृतन्तथा । चत्वारि वाचा राजेन्द्र! न
जल्पेत न चिन्तयेत् । अनभिध्या परस्वेषु सर्वसत्वेषु
सौहृदम् । कर्मणां फलमस्तीति त्रिविधं मनसाचरेत्”
भा० शा० दानधर्मः । पापस्य पुरुषत्रयावध्यनुवर्त्तित्वं यथा
“नाधर्म्मश्चरितो राजन्! सद्यः फसति गौरिव । शनै-
पृष्ठ ४३०८
रावर्त्तमानस्त मूलान्थपि निकृतति । यदि । नात्मनि
मित्रेषु न चेत् पुत्रेषु नप्तृषु । पापमाचरितं कर्म त्रि-
पगमनुबर्त्तते । फलत्येवं ध्रुवं पापं गुरु भुक्तमिवोदरे”
मात्स्ये २८ अ० । राष्ट्रादिकृतपापेन राजादीनां परस्परं
पापित्वं यथा “राजा राष्ट्रकृतात् पापात् पापी भवति वै
हरे! । तथैवराज्ञः पापेन तद्राज्यस्थास्तुये जनाः । वर्णा-
श्रमादय सर्वे पापिनो नात्र संशयः । भार्य्यांहोदुष्कृती
स्वामी वृजिनात् स्वामिनोऽबला । तथा देशिकपापात्तु
शिष्यः स्यात् पातकी सदा । शिष्याद्धि पापिनो नित्यं
गुरुर्भवति दुष्कृती । पातकी यजमानः स्यात् पापिनो
ऽङ्ग पुरोधसः । पुरोहितस्तथा पापी यजमानांहसो
ध्रुवम्” अदत्तपुण्यपापभागित्वं यथा “अदत्तानि च
पुण्यानि पापानि च यथा प्रिये! । प्राप्याणि कर्मणा-
येन तद्यथावन्निशामय । देशग्रामकुलानि स्युर्भागभाञ्जि
कृतादिषु । कलौ तु कवलं कर्त्ता फलभुक् पुण्यपापयोः ।
अकृतेऽपि च संसगे व्यवस्थेयमुदाहृता । संसर्गात् पुण्य-
पापानि यथा यान्ति निबाध तत् । एकत्र मैथुनाद्याना
देकपात्रस्थभोजनात् । फलार्द्धं प्राप्नुयान्मर्त्यो यथावत्
पुण्यपापयोः । स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि ।
दशांश पुण्यपापानां नित्यं प्राप्नोति मानवः । दर्शन-
श्रवणाभ्याञ्च मनोध्यानात्तथैव । परस्य पुण्यपापानां
शतांशं प्राप्नुयान्नरः । परस्य निन्दापैशुन्यं धिक्कारञ्च
करोति यः । तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति
सः । कुर्वतः पुण्यकर्माणि सेवां यः कुरुते परः ।
पत्रीभृत्योऽथ शिष्यो वा सजानीयोऽप्रि मानवः । तस्य
मेवानुरूपेण तस्य तत्पुण्यमाग्भवेत् । एकपङ्क्तेस्ततो
यस्तु लङ्घवन् परिवेशयेत् । तस्य पापशतांशन्तु लभते
परिवेशकः । स्नानसन्ध्यादिकं कुर्वन् संस्पृशेद्वा प्रभा-
षते । स पुण्यकर्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम् । धर्मो-
द्देशेन यो द्रव्यं परं याचयते नरम् । तत्पुण्यं कर्मजं
तस्य धनं दत्त्वाप्नुयात् फलम् । अपहृत्य परद्रव्यं पुण्य-
कर्म करोति वः । कर्मकृत् पाप मोक्तात्र धनिनस्तद्भवेत्
फलम् । नापनुद्य ऋषं यस्तु परस्य म्रियते गरः ।
धनी तंत्पुण्यमाप्नोति स्यधनस्यानुरूपतः । बुद्धिदस्त्यनु-
मन्ता च यश्चोपकरणप्रदः । बलकृच्चापि षष्ठांशं प्राप्नुयात्
पुण्यपापयोः । प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमु
द्धरेत् । शिष्याद्गुरुः स्त्रिया भर्त्ता पिता पुत्रात्तथैव
च । स्वपतेरपि पुण्यस्य भार्य्यार्द्धं समवाप्नुयात् । पर-
हस्तेन दानादि कुर्वतः पुण्यकर्मणः । विना भृत्यक-
शिष्याभ्यां कर्त्ता षष्ठांशमाहरेत् । आत्मनो वा
परस्यापि यदि सेवां न कारयेत्” श्रीकृष्ण उवाच “इत्यं
ह्यदत्तान्यपि पुण्यपापान्यायान्ति नित्यं परसञ्चितानि ।
शृणुष्व चास्मिन्नितिहासमग्र्यं पुराभषं पुण्यमतिप्र-
सिद्धम्” पाद्मोत्तरखण्डे ७१ १५७ अ० । अत्र कलौ
संसर्गजपापोक्तिः महापातकिविषया संसर्गशब्दे
दृश्यम् । ५ गर्ह्ये त्रि० पापयोनिः मनुः ४ । १६६
पापनापित इत्यादि ।

पापकृत् त्रि० पापं कृतवान् कृ--भृते क्विप् । १ कृतपापे

२ असपिण्डीकृते प्रेते च श्रा० त० रघु० ।

पापग्रह पु० कर्म० । “अर्द्धोनेन्दुः कुजो राहुः शनिस्तैर्युत

इन्दुजः । रविः पापग्रहाश्चैते शुभाश्चान्ये प्रकीर्त्तिताः”
ज्योतिषोक्तेषु ग्रहेषु ।

पापघ्न पु० पापं हन्ति हन--टक् । १ तिले तस्य हि दानेन

पापनाशकत्वमिति तस्य तचात्वम् । २ पापनाशके त्रि०
राजनि० ।

पापचेली स्त्री पुनःपुनः पचति पा--यङ्--अच् पापचीवायु-

स्तमीरयति ईर--अण् रस्य लः । (आकनादि) पाठाल-
तायाम् अमरः स्वार्थे क ह्रस्वः । पापचेलिका तत्रार्थे
स्त्री रत्नभाला ।

पापति त्रि० पत--यङ्लुक् इन् । पुनःपुनः पतनशील

पापनापित पु० कर्म० “कुत्सितानि कुत्सनैः” पा०

पापत्वेन (गर्ह्यत्वेन)नापितस्य कुत्स्यमानत्वात नापितस्य पूर्व
निपाते प्राप्ते “पापाणके कुत्सितैः” पा० परनि० । धूर्त्तनापिते

पापनाशन त्रि० पाप नाशयति नाशि--ल्यु । १ पापनाशके

२ विष्णौ पु० “क्षितीशः पापनाशनः” विष्णुसं० । भावे
ल्युट् ६ त० । ३ पापस्य नाशने च न० । करणे ल्युट् ।
४ प्रायश्चित्ते न० ।

पापपति पु० पापजनकः पतिः । उपपतौ जारे त्रिका० ।

पापपुरुष पु० पापात्मकः पुरुषः पुरुषाकारः । तन्त्रोक्ते

वाषकुक्षिस्थे पापात्मके ध्येये नराकारे पदार्थे तन्त्रसारे
भूतशुद्धिप० । बहुपापावयवभेदयुते २ पुरुषभेदे च ।
पाष्मे क्रिया० २१ अ० तत्स्वरूपमुक्तं यथा
“सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम् । सर्वेषां
दमनार्थाय सृष्टवान् पापपुरुषम् । द्विजातिहत्यामूर्द्धानं
मदिरापानलोचनम् । सुवर्णस्तेयवदनं गुरुतल्पगति
श्रुतिम् । स्त्रीहत्यानासिकञ्चैव गोहत्यादोपबाहुकम् ।
न्यासापहरणग्रीवं भ्रूणहत्यागलन्तथा । परस्त्रीगति-
पृष्ठ ४३०९
वुक्कानं सुहृल्लोकबधोदरम् । शरणापन्नहत्यादिनाभिं
गर्वकथाकटिम् । गुरुनिन्दासक्थिभागं कन्याविक्रय-
शेफसम् । विश्वासवाक्यकथनपायुं पितृबधाङ्घ्रिकम् ।
उपपातकरोमाणं महाकायं भयङ्करम् । कृष्णवर्णं
पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम्” ।

पापयक्ष्मन् पु० वास्तुमण्डलस्थे पूज्यगणभेदे वृ० सं० ५३ अ० ।

पापमुक्त त्रि० पापान् मुक्तः ५ त० । परित्यक्तपापे । पापमो-

चनहेतवश्च मनुना दर्शिता यथा
“ख्यापनेनानुतापेन तपसाध्ययनेन च । पापकृन्मु
च्यते पापात् तथा दानेन चापदि” । अन्ये च तस्य हेतवो
वराहपु० दर्शिता यथा “यः समः सर्वभूतेषु जितात्मा
शान्तमानसः । स पापेभ्यो विमुच्येत ज्ञानवान् स
च वेदवित् । गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च ।
ध्याने चैवं ह्यसंमूढः स पापेभ्यः प्रमुच्यते । स्वदेहे
परदेहे च सुखदुःखेन नित्यशः । विचारज्ञो भवेद्यस्तु
स मुच्येतैनसो ध्रुवम् । अहिंसः सर्वभूतेषु तृष्णा-
क्रोधविवर्जितः । कृतन्यासः सदा यश्च स पापेभ्यः
प्रमुच्यते । प्राणायामैश्च निर्दह्य अंहः, सन्धारणारतः ।
व्यवस्थितमना यस्तु स पापेभ्यः प्रसुच्यते । निराशीः
सर्बतस्तिष्ठेदिष्टार्थेषु न लोलुपः । पवितात्मा त्यजेत् प्राणान्
सर्वपापात् प्रमुच्यते । श्रद्दघानोजितक्रोपः परद्रव्य
विवर्जितः । अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते ।
गुरुशुश्रूषया युक्तो ह्यहिंसानिरतश्च यः । क्षुद्रोऽपि क्षुद्र-
शीलोऽपि स पापेभ्यः प्रमुच्यते । प्रशस्तानि सदा कुर्य्यादु
अप्रशस्तानि वर्जयेत् । योऽभिगच्छति तीर्थानि तिशुद्धे-
नान्तरात्मना । पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते ।
उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः । अभिगम्य
प्रवत्नेन स पापेभ्यः प्रमुच्यते” । अन्येऽपि तस्य हेतवः
शास्त्रान्तरेषु दृश्याः ।

पापयोनि स्त्री पापा गर्ह्या योनिः । १ तिर्य्यगयोन्यादौ ।

पापहतुका योनिः । २ पापहेतुके जन्मभेदे तद्भेदे
कारणभेदो याज्ञ० उक्तो यथा
“महापातकजान् घोरान्नरकान् प्राप्यगर्हितान् । कर्म-
क्षयात् प्रजायन्ते महापातकिनस्त्विह । मृगाश्वशूकरो-
ष्ट्रणां ब्रह्महा योनिमृच्छति । स्वरपुक्कशवणानां
सुरापो नात्र संशयः । कृमिकीटपतङ्गत्वं स्वर्णहारी
समाप्नुयात् । तृणगुल्मलतात्वञ्च क्रमशो गुरुतल्पगः” ।
“तैसहृ{??}इसपायी स्यात् पूतिवक्त्रस्तु सूचकः । परस्य
योषितं हृत्वा व्रह्मस्वमपहृत्य च । अरण्ये निर्जने घोरे
भवति ब्रह्मराक्षसः । हीनजातौ प्रजाययेत पररत्नाप-
हारकः । पत्रशाकं शिखी हृत्वा गन्धांश्छुच्छुन्दरिः
शुभान् । मूषिको धान्यहारी स्याद् यानमुष्ट्रं फलं
कपिः । जलं प्लवः पयः काको गृहकारी ह्युपस्क-
रम् । मधु, दंश फलं गृध्रो, गां गोधाऽग्निं वकस्तथा ।
शित्री वस्त्रं श्वा रसन्तु चीरी लवणहारकः । प्रदर्शना-
र्थमेतत्तु मयोक्तंस्तेयकर्मणि । द्रव्यपकारा हि यथा
तथैव प्राणिजातयः । यथा कर्मफलं प्राप्य तिर्य्यक्त्वं
कालपर्य्ययात् । जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषा-
धमाः” । गौतमोऽपि क्वचिद्विशेषमाह “विद्याविक्रयी
पुरुषमृगः वेदविक्रयी द्वीपी, बहुयाजको जलप्लवः,
अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायस,
मिष्टैकभोजी वानरः, यतस्ततोऽश्नन् नार्जारः, कक्षव-
नदहनात् खद्योतः, दारकाचार्य्यो मुखविगन्धिः, पर्यु-
षितभोजी कृमिः, अदत्तादायी वलीवर्द्दो, मत्सरी
भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्य्यः श्वपाकः,
गोहर्ता सर्पः, स्नेहापहारी क्षयी, अन्नापहार्य्यजीर्णी,
ज्ञानापहारी मूर्खः, चण्डालीपुष्कसीगमनेऽजगरः,
प्रव्रजितागमने मरुपिशाचः, शूद्रागमने दीर्घकीटः
सवर्णाभिगानी दरिद्रः, जलहारी मत्स्यः क्षीरहारी
वलाका । वार्धुसिकोऽङ्गपीनः, अविक्रेयविक्रयी
गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशको
गर्दभः, गोगामी मण्डूकः, अनध्यायाध्ययने शृगालः
परद्रव्यापहारी परप्रेष्यः, मत्स्यबधे गर्भवासी, इत्ये-
तेऽमूर्द्धगमना इति । स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्तास्वेव
जातिषु स्त्रीत्वमनुभवन्ति” । विष्णुस० ४४ अ० अन्येऽपि
पापभेदकृतयोनिभेदा दर्शिताः । बहु० । ३ तद्युते त्रि० ।

पापरोग पु० पापविशेषकृते रोगभेदे स च विष्णुसं० उक्तो

यथा “नरकानुभूतदुःखानां तिर्य्यक्त्रमुत्तीर्णानां
मनुष्येषु लक्षणानि भवन्ति । कुष्ठ्यतिपातकी । ब्रह्महा
यक्ष्मी । सुरापः श्यावदन्तकः । सुवर्णहारी कुनखः ।
गुरुतल्पगो दुश्चर्मा । पूतिनासः पिशुनः । पूतिवक्त्रः
सूचकः, धान्यचौरोऽङ्गहीनः । मिश्रचौरोऽतिरिक्ताङ्गः ।
अन्नापहारकस्त्वामयावी । वागपहारको मूकः । वस्त्रा-
पहारकः श्वित्री । अश्वापहारकः पङ्गुः । देवब्राह्मण-
क्रोशकोमूकः । लोलजिहो गरदः । उन्मत्तोऽग्निदः ।
गुरुप्रतिकूलोऽपस्मारी । गोघ्नन्त्वन्धः । दीपापहारकश्च
पृष्ठ ४३१०
काणश्च दीपनिर्वापकः । त्रपुचामरसीसकविक्रयी
रजकः । एकशफविक्रयी मृगव्याधः । कुण्डाशी मगास्यः,
घाण्टिकःस्तेनः । वार्धुषिको भ्रामरी । मिष्टाश्येकाकी
वातगुल्मी । समयभेत्ता खल्वाटः, श्लीपद्यवकीर्णी ।
परवृत्तिघ्नो दरिद्रः । परपीडाकरो दीर्घरोगी । एवं
कर्मविशेषेण जायन्ते लक्षणान्विताः । रोगान्वितास्तथा
न्धाश्च कुब्जखञ्जैकलोचनाः । वामनावधिरामूका दुर्ब-
लाश्च तथा परे । तस्मात् सर्वप्रयत्नेन प्रायश्चित्तं
समाचरेत्” । यद्यपि सर्वेषां रोगाणां दुःखदायकत्वेन
पापहेतुकत्वं तथापि उन्मादाद्यष्टरोगाणां प्राधान्येन
“महापापजत्वेन पापरोगत्वं यथोक्तं शु० त० रघुनन्दनेन
“महारोगिण इति पापरोगाष्टकान्यतमरोगवतः । ते च
उन्मादस्त्वगदोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरः
उदरोऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः । कर्मविपा-
कशब्दे १७४५ पृ० विस्तरः । २ मसुरीरोगे शब्दरत्ना० ।

पापरोगिन् त्रि० पापजन्यरोगो निन्द्यत्वेनास्त्यस्य इनि ।

महारोगयुक्ते ३ । ५ । २ मनुः ।

पापर्द्धि स्त्री पापानामृद्धिरत्र । १ मृगयायां हेमच० ६ त० । २ पापवृद्धौ च ।

पापल त्रि० पापं लाति ला--क । १ पापग्राहके पातयति

तुलादण्डं स्वाधिष्ठानेन अधोनयति पाति--कलच् तस्य
पश्च । २ परिमाणमेदे न० उणादिकोषः ।

पापशमनी स्त्री पापं शम्यतेऽनया शम--णिच्--करणे ल्युट्

ङीप् । १ शमीवृक्षे राजनि० । पापं शमयति
शमिल्यु । २ पापनिवारके त्रि० ।

पापसम अव्य० पापेन तुल्यम् तिष्ठद्गु० अव्ययीभावः । पापतुल्ये ।

पापहन् त्रि० पापं हन्ति हन--क्विप् । पापनाशके मनुः

७ । २५ ।

पापाख्या स्त्री पापमनिष्टमाख्याति सूचयति आ + ख्या-

क । वृ० सं० ७ अ० उक्ते बधस्य गतिभेदे “प्राकृतविमिश्रसं-
क्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः । पराशरतन्त्रे नक्षत्रैः
कीर्त्तितागतयः” इत्युपक्रमे “पापाख्या सावित्रं मैत्रं
शक्राग्निदैवतं चेति” सावित्रादिनक्षत्रे तद्गतेः संज्ञामुक्त्वा
“प्राकृतगत्यामारोग्यवृष्टिशस्यप्रवृद्धयः क्षेमम् । संक्षि-
प्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम्” इति तस्याः
अशुभफलकथनेन पापसूचकत्वात् तथात्वम् ।

पापात्मन् त्रि० पापयुक्त आत्मा अन्तःकरणं यस्य । पापा-

न्विते जीवे “पापात्मा पापसम्भवः” इति पुराणम् ।
तेषां संसरणप्रकारः पाद्मे क्रियायो० २२ अ० यथा
“पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् । षडशीति
सहस्राणि योजनानि दुरात्मनाम् । प्रोक्तो मार्गस्य
विस्तारः सर्वदुःखान्वितस्य च । क्वचित् क्वचित् ज्वल-
द्वह्निः सन्तप्तः कर्दमः क्वचित् । क्वचित् क्वचित् द्विज-
श्रेष्ठ! सन्तप्तं ताम्रवालुकम् । क्वचित् क्वचित्तीक्ष्णशिलाः
क्वचित्रप्तशिलास्तथा । क्वचित् क्वचिच्छस्त्रवृष्टिः क्वचि-
दङ्गारवर्षणम् । कुत्रचिद्वह्निवृष्टिश्च कुत्रचित् पङ्कवर्ष-
णम् । उष्णाम्बुवर्षणं क्वापि क्वचित् पाषाणवर्षणम् ।
ज्वलदग्निरिव क्वापि सन्तप्तो वाति मारुतः । गभीरा
अन्धकूपाश्च तृणावृतमुखा द्विज! । क्वापि कण्टकवृक्षाश्च
नाराचसमकण्टकाः । पाषाणश्रेणयः क्वापि दुरा-
रोहाः सपन्नगाः । क्वचिद्गाढ़ान्धकाराश्च क्वचित् शोणित
कन्दराः । क्वचिद्वीरणवृक्षाश्च क्वचित् काशाः क्वचित्
शराः । क्वचित् क्वचिच्छर्कराश्च लेष्टवश्च क्वचित् क्वचित् ।
क्वचिदस्थ्नां राशयश्च दुर्गन्धा मांसराशयः । क्वचित्-
कण्टकराशिश्च शैवालानि क्वचित् क्वचित् । कीलकावलयः
क्वापि क्वचिद्व्याघ्रास्तथा शिवाः । खड्गिनः करिणः
क्वापि क्वचिदृक्षा भयङ्कराः । एवं बहुविधक्लेशे छाया
जलविवर्जिते । तस्मिन्मार्गे द्विजश्रेष्ठ! पापिनो यान्ति
दुःखिनः । नग्नाविमुक्तकेषाश्च प्रेताकारभयङ्कराः ।
गच्छन्ति पापिनस्तत्र शुष्ककण्ठौष्ठतालुकाः” ।

पापान्त न० पृथूदकापरनामके तीर्थभेदे वामनपु० ३८ अ० ।

पापाह पु० पापमशुद्धत्वात् गर्ह्यमहः टच्समा० । अशौचदिने

पापिन् त्रि० पाप + अस्त्यर्थे इनि । पापयुक्ते । अतिशयेन

पापी इष्ठन् । पापिष्ठ अतिशयेन पापयुक्ते । ईयसुन्
पापीयस् तत्रार्थे त्रि० स्त्रियां ङीप् ।

पाप्मन् पु० आप्नोति व्याप्नोति पापिनम् आप--मनिन् नि० । पापे अमरः ।

पामघ्न पु० पाम हन्ति हन--टक् । १ गन्धके राजनि० ।

२ कटुकायां स्त्री जटाधरः ।

पामन् न० पा--मनिन् । विचर्चिकायां (खोस पाचड़ा)

स्त्रीत्वमपि मनन्तात् वा ङीप् पामाप्यत्र अमरः ।

पामन त्रि० पामास्त्यस्य मत्वर्थे न । पामंरोगवति अमरः

पक्षे मतुप् मस्य वः । पामवत् तत्रार्थे त्रि० स्त्रियां ङीप्

पामर त्रि० पाति क्विष् पाः त्रयीधर्मः स म्नियनेऽनेन

मृघ ॥ १ मूर्खे २ नीचे मेदि० २ खले हेमच० ।

पामरोद्धारा स्त्री पामरमुद्धरति उद्--हृ--अण् अजादित्वात्

टाप् । गुडूच्याम् शब्दरत्ना० ।
पृष्ठ ४३११

पामादि पु० “पामादिभ्यो नः” पा० अस्त्यर्थे नप्रत्ययनिमित्ते

शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “पामन्
वामन् वेमन् श्लेष्मन् कद्रुवलि सामन् ऊष्मन् कृमि-
(अङ्गात् कल्याणे) (शाकीपलालीदद्रूणां ह्रस्व-
त्वञ्च) (विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः) (लक्ष्मा अच्च)

पामारि पु० ६ त० । गन्धके हेमच० । तत्सेवने हि

पामरोगनाशः इति तस्य तथात्वम् ।

पायना स्त्री पा--णिच + भावे युच् । अस्त्रादीनां धाराकर-

णार्थे व्यापारभद तेषां पायना त्रिविधा “क्षारोदक-
तैलेपु, तत्र क्षारपायितं शरशल्यास्थिच्छेदनेष । पुटक
पायितं मांसच्छेदनभेदनपाटनेषु, तैलपायित सिराव्यधन-
स्नायुच्छेदनेषु” सुश्रुतः ।

पायस त्रि० पयसोविकारः अण् । १ दुग्धविकारे २ परमान्ने पु०

अमरः । तत्पाकप्रकारो यथा “अतप्ततण्डुलो धौतः
परिभृष्टो घृतेन च । खण्डयुक्तेन दुग्धेन पाचितः
पायसो भवेत । पायसः कफकृद्बल्यो विष्टम्भी मधुरी
गुरु” पाकराजेश्वरः ।

पायसिक त्रि० पायसी भक्तिरस्य । पायसभक्तियुक्ते

पायिक पु० पादविक + पृषो० । पदातौ शब्दच० ।

पायित त्रि० पा + णिच--क्त । १ पानकर्तृभूतीकृते पदार्थे

(पानदेओया) २ अस्त्रे च पायनाशब्दे दृश्यम् ।

पायु पु० अपैति अनेन वायुः अप + इण करणे--उण्

अपेरल्लोपः पिबत्यौषधमनेन पा--उण् वा । १ अपानवायु-
स्थाने २ कर्मेन्द्रियभेदे च इन्द्रियशब्दे दृश्यम् ।

पाय्य न० मीयतेऽनेन मा--ण्यत् नि० पादेशः । १ परिमाणे

२ पानीये न० ३ निन्दनीये त्रि० विश्वः । ४ पाने उणादि०

पार कर्मसमाप्तौ अद० चु० उभ० सक० सेट् । पारयति ते

अपपारत् त ।

पार न० परं तीरं परमेव अण्, पृ--घञ् वा । नदीलङ्घनेन

प्राप्ये १ परे तीरे अमरः । २ प्रान्तभागे शेषावधौ मेदि० ।

पारक त्रि० पृ--ण्वुल । १ पूर्त्तिकारके २ पालके ३ प्रीति-

कारके च स्त्रियां गौरा० ङीष् ।

पारकुलीन त्रि० परंकुले साधु प्रतिजना० खञ् । परकुले साधौ ।

पारक्य त्रि० परस्मै लोकाय हितम् तस्येदं वा ष्यञ् कुक्च ।

१ परलोकसाधने २ परकीये च “पारक्यमविरोधि च”
कर्मप्रदीप “उद्धृत्य चतुरः पिण्डान् पारक्ये स्नान-
माचरेत्” अत्रिस० ।

पारग त्रि० पारं गच्छति गम--ड । १ पारगन्तरि २ कार्यसमाप्तिगन्तरि च ।

पारगत त्रि० पारं गतः । १ पारगामिनि २ जिने पु० हेमच०

पारज् न० पार--अजिन् । सुवर्णे उज्ज्वलद० ।

पारजायिक पु० परजायां गच्छति परदारादि० ठक् । परदारगन्तरि ।

पारटीन पु० प्रस्तरे त्रिका० ।

पारण न० पार--भावे ल्युट् । १ व्रतान्तभोजने युच् पारणा

तत्रार्थे । “पारणं पावनं पुंसां सर्वपापप्रणाशनम ।
उपवासाङ्गभूतञ्च फलदं शुद्धिकारणम् । सर्वेष्वेवोपवा-
सेषु दिवा पारणमिष्यते । अन्यथा फलहानिः स्यादृते
धारणपारणम । न रात्रौ पारणं कुर्य्यादृते वै रोहि-
णीवतात् । निशायां पारणं कुर्य्याद्वर्जयित्वा महानि-
शास् । पृर्वाह्णे पारणं शस्तं कृत्वा विप्र । सुरार्चनम् ।
सर्वेषां सम्मतं कुर्य्यादृते वै रोहिणीव्रतम्” व्रह्मवै०
श्रीकृष्णजन्मखण्डे ८ अ० । जन्माष्टमीशब्दे एकादशी-
शब्दे च दृश्यम् । ल्यु । २ मेघे पु० शब्दमाला ।
३ ऋषिभेदे । पारणस्यर्षेरपत्यम् इञ् । पारणि तदपत्ये ।
ततः यूनि फञ् पारणायन यूनि तदपत्ये । तौल्वला०
फिञो न लुक् ।

पार(द)त पु० पॄ--णिच्--तन्, पृषो० तस्य दो वा । १ रसभेदे

(पारा) । पारं ददाति दा--क । २ पारदायिनि त्रि० हेमच०
“रसायनार्थिमिर्लोकैः पारदो रस्यते यतः । ततो रस
इति प्रोक्तः स च धातुरपि स्मृतः” । अथ पारदस्योत्-
पत्तिर्लक्षणनामगुणाः “शिवाङ्गात् प्रच्युतं रेतः
पतितं धरणीतले । तद्देहसारजतित्वाच्छुक्लमच्छमभूच्च
तत् । क्षेत्रभेदेन विज्ञेयं शिववीर्य्यञ्चतुर्बिधम् । श्वेतं
रक्तन्तथा पीतं कृष्णं तत्तु भवेत् क्रमात् । ब्राह्मणः
क्षत्रियो वैश्य शूद्रश्च खलु जातितः । श्वेतं शस्तं रुजां
नाशे रक्तङ्किलरसायनम् । धातुवादे तु तत्पीतं खेगतौ
कृष्णमेव च । पारदो रसधातुश्च रसेन्द्रश्च महारसः ।
चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः । पारदः
षडसः स्निग्धस्त्रिदोषघ्नो रसायनः । योगवाहो महा
वृष्यः सदा दृष्टिबलप्रदः । सर्वामयहरः प्रोक्तो विशे-
षात्सर्वकुष्ठनुत् । स्वस्थो रसो भवेद्ब्रह्मा बद्धो ज्ञेयो
जनार्दनः । रञ्जितः कामितश्चापि साक्षाद्देवमहेश्वरः ।
मूर्च्छिती हरति रुजं बन्धनमनुभूय खेगतिं कुरुते ।
अजरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ।
असाध्यो यो भवेद्रोगो यस्य नास्ति चिकित्सितम् । र०
सेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् । मलं विषं
वह्निगिरी च वापलन्नैसर्गिकन्दोषमुशन्ति पारदे ।
उपाधिजौ द्वौ त्रपुनागयोगजौ दोषौ रसेन्द्रे कथितौ
पृष्ठ ४३१२
मुनीश्वरैः । मलेन मूर्च्छा, मरणं विषेण दा होऽग्निना
कष्टतरः शरीरे । देहस्य जाड्यङ्गिरिणा सदा स्यात्
चाञ्चल्यतो वीर्य्यहृतिश्च पुंसाम् । वङ्गेन कुष्ठम्भुजगेन
षण्डो भवेदतोऽसौ परिशोधनीयः । वह्निर्विषं
मलञ्चेति मुख्यादोषास्त्रयो रसे । एते कुर्वन्ति सन्तापं
मृतिं मूर्च्छां नृणां क्रमात् । अन्येऽपि कथिता दोषा
भिषग्भिः पारदे यदि । तथाप्येते त्रयो दोषा
हरणीया विशेषतः । संस्कारहीनं खलु सूतराजं यः
सेवते तस्य करोति बाधाम् । देहस्य नाशं विदधाति नूनं
कष्टांश्च रोगान् जनयेन्नराणाम्” । तस्य शोधनादिविधिः
तत्स्वेदनञ्च “नानाधान्यैर्यथाप्राप्तैस्तुषवज्रैर्जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद् यावदम्लत्वमाप्नुयात् । तन्मध्ये
भृङ्गरा मुण्डी विष्णुक्रान्ता पुनर्णवा । मीनाक्षी
चैव सर्पाक्षी सहदेवी शतावरी । त्रिफला गिरिकर्णी
च हंसपदी च चित्रकम् । समूलं कुट्टयित्वा तु
यथालाभं विनिःक्षिपेत् । पूर्वाम्लभाण्डभध्ये तु धान्याम्ल-
कमिदं स्मृतम् । स्वेदनादिषु सर्वत्र रसराजस्य
योजयेत्” विष्णुक्रान्ता गिरिकर्णी च अपराजितैव नीलश्वे-
तपुष्पभेदात् । “अत्यम्लमारनालं वा तदभावे प्रयोजयेत्”
तदभावे धान्याम्लाभावे “त्र्यूषणं लवणं राजी रजनी
त्रिफर्लाद्रकम् । महाबला नागबला मेघनादः
पुनर्णवा । मेषशृङ्गी चित्रकञ्च नवसारं समं समम् ।
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् । प्रलिम्पेत्तेन
कल्केन वस्त्रमङ्गुलमात्रकम् । तन्मध्ये निक्षिपेत्सूतं
बद्ध्वा तत्त्रिदिनं पचेत् । दोलायन्त्रेऽम्लसंयुक्ते जायते
स्वेदितो रसः” मेघनादः (चवराई)शाकविशेषः । मेष
शृङ्गी (मेढाशृङ्गी) । तदलाभे कर्कटशृङ्गी ग्राह्या ।
नवसारं नवसादरम् । अन्यच्च “मूलकानलसिन्धूत्थत्र्यू-
पणार्द्रकराजिका । रसस्य षोडशांशेन द्रव्यं युञ्ज्यात्
पृथक् पृथक् । द्रवेष्वनुक्तमानेषु मतं मानमिदं बुधैः ।
पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके । स्वेदयेद्दिन-
मेकञ्च दोलायन्त्रेण बुद्धिमान् । स्वेदात्तीव्री भवेत्-
सृतो मर्दनाच्च सुनिर्मलः” । मूलकम् (मुरै) अनलश्चित्र-
कम् । त्र्यूषणं त्रिकटु राजिका (राई) । अथ मर्दनम्
“इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्योरसस्ततः । दघ्ना गुड़ेन
सिन्धूत्थराजिकागृहधूमकैः” । अन्यच्च “कुमारिकाचि-
त्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः ।
फलत्रिकेणापि विमर्द्दितो रलो दिवत्रयं सर्वमलैर्विमुच्यते” ।
अथ मूर्च्छनम् “त्र्यूषणं त्रिफलाबन्ध्याकन्दैः क्षुद्राद्वया-
न्वितैः । चित्रकोर्णानिशाक्षारकन्यार्ककनकद्रवैः । सूतं
कृतेन यूषेण वारान् सप्ताभिमर्द्दयेत् । इत्थं सम्मू-
र्च्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान्” । बन्ध्याकन्दः (वान्दु-
स्वेखसाकन्द) क्षुद्राद्वयं (छीटीकटाई वडीकटाई) उर्णा
उर्णमेषका । निशा हरिद्रा क्षारः यवक्षारः । कन्या
कुमारिका अर्कस्तत्पत्ररसः कनकघूत्तूरपत्ररसः ।
अथोर्द्धपातनम् “मयूरग्रीवताप्याभ्यान्नष्टपिष्टीकृतस्य च ।
यन्त्रे विद्याधरे कुर्य्याद्रसेन्द्रस्योर्द्धपातनम्” । ताप्यम्
सुवर्णमाक्षी । नष्टपिष्टीकृतस्य । कुमारिकाद्रवयोगेन
तावन्मर्द्दनं कर्त्तव्यं यावत्पारदः पृथक् न दृश्यत इत्यर्थः ।
विद्याधरयन्त्रे डमरुयन्त्रे । अथाःधपातनम् “त्रिफ-
लाशिग्रुशिखिभिर्लवणासुरिसंयुतैः । नष्टपिष्टं रसं
कृत्वा लेपयेदूर्द्धभाजनम् । ततो दीप्वैरधःपातः सुपलै-
स्तस्य कारयेत् । यन्त्रे भूधरसंज्ञे तु ततः सूतो विशु-
ध्यति । स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा
मवेत् । तदा कार्य्याणि कुरुते प्रयोज्यः सर्वकर्मसु” । अथ
मुख्यदोषहरः शोधनविधिः “गृहकन्या हरति मलन्त्रि
फलाऽग्निञ्चित्रको विमं हन्ति । “तस्मादेभिर्मिश्रैर्वारान्
संमूर्च्छयेत् सप्त” । अथ सर्वदोषहरः शोधनविधिः “कुमा-
रिकाचित्रकरक्तसर्षपैः कृतः कषायैर्वृहतीविमिश्रितैः ।
फलत्रिकेणापि विमर्द्दितो रसो दिनत्रयं सर्वमलैर्विमु-
च्यते । कुमार्य्या च निशाचूर्णैर्दिनं सूतं विमर्द्दयेत् ।
एवं कदर्थितः सूतो षण्डो भवति निश्चितम् । वह्वौ-
षधीकषायेण स्वेदितः स बली भवेत् । सर्पाक्षीचि-
ञ्चिकाबन्ध्यामृद्वव्दैः स्वेदितो बली । ततः स
पावकद्रावैः स्विन्नः स्यादतिदीप्तिमान्” । सर्पाक्षी (नागफणी)
चिञ्चिका (अम्बिली) बन्ध्या (वाङ्खखेखसा) भृङ्गः
भृङ्गराजः । अव्दो मुस्ता पावकः चित्रकम् । अथ
रसस्य मारणविधिः “धूमासारं रसं तोरीगन्धकं
नवसादरम् । यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् ।
काचकूप्यां विनिक्षिप्य ताञ्च मृद्वस्त्रमुद्रया । विलिप्य
परितो वक्त्रे मुद्रां दत्त्वा विशोधयेत् । अधःसच्छिद्रपि-
ठरीमध्ये कूपीं निवेशयेत् । पिठरीं बालुकापूरैर्भृत्वा
च कूपिकागलम् । निवेश्य चुल्यां तदधो वह्निं कुर्य्या-
च्छमैः शनैः । तस्मादप्यधिकं किञ्चित्पावकं ज्वालयेत्
क्रमात् । एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः । स्फोट-
येत् स्वाङ्गशीतं तमूर्द्धगङ्गन्धकं त्यजेत् । अधस्थञ्च
पृष्ठ ४३१३
मृतं सूतं गृह्णीयात्तन्तु मात्रया । यथोचितानुपानेन सर्व-
कर्मसु योजयेत्” भावप्र० । सर्व० सं० रसेश्वरदर्शने तनिरुक्तिः
“संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः” इति ।
रसार्णवेऽपि “पारदो गदितो यस्मात् पारार्थं साधको-
त्तमैः । गुप्तोऽयं मत्समो देवि मम प्रत्यङ्गसम्भवः ।
मम देहरसो यस्माद्रसस्तेनायमुच्यते” इति “कर्मयोगेन
देवेशि! प्राप्यते पिण्डधारणम् । रसश्च पवनश्चेति
कर्मयोगो द्विधा स्मृतः । मूर्च्छितो हरति व्याधीन्
मृतो जीवयति स्वयम् । वद्धः खेचरतां कुर्य्याद्रसो वायुश्च
भैरवि!” इति । मूर्च्छितस्वरूपमप्युक्तम् “नानावर्णो भवेत्
सूतो विहाय घनचापलम् । लक्षणं दृश्यते यस्य मू
र्च्छितं तं वदन्ति हि । आर्द्रत्वञ्च घनत्वञ्च तेजो गौरव
चापलम् । यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूत-
कम्” इति । अन्यत्र बद्धस्वरूपमप्यभ्यधायि “अक्षतश्च
लघुद्रावी तेजस्वी निर्मलो गुरुः । स्फोटनं पुनरावृत्तौ
वद्धसूतस्य लक्षणम्” इति । “ननु हरगौरीसृष्टिसिद्धौ
पिण्डस्थैर्यमास्थातुं पार्य्यते तत्सिद्धिरेव कथमिति
चेन्न अष्टादशसंस्कारवशात्तदुपपत्तेः तदुक्तमाचार्य्यैः
“तस्य हि साधनविधौ सुधियां प्रतिकर्मनिर्मलाः प्रथ-
मम् । अष्टादशसंस्काराविज्ञातव्याः पयत्नेनेति” । ते च
संस्कारानिरूपिताः “स्वेदनमर्द्दनमूर्च्छनस्थापनपातननि-
रोधनियमाश्च । दीपनगगनग्रासप्रमाणमथ जारणापिधा-
नम् । गर्भद्रुतिबाह्यद्रुतिक्षारणसरागमारणाश्चैव क्रमेण
वेधो भक्षणमष्टाशधेति रसकर्मेति” । रसेश्वरशब्दे विवृतिः

पारतन्त्र्य न० परतन्त्रस्य भावः ष्यञ् । पराधीनत्वे

पारत्रिक त्रि० परत्र भवं, हितं वा ठक् । १ परलोकहित-

कारके कर्मणि २ परलोकभवे च ।

पारदण्डक पु० देशभेदे शब्दरत्ना० ।

पारदारिक पु० परस्य दारान् गच्छति “गच्छतौ परदारा-

दिभ्यः” वार्त्ति० ठक् । यथेष्टं परस्त्रीगामिनि ।

पारदार्य्य न० परस्य दारा दारा अस्य तस्य कर्म्म--ष्यञ् ।

परदारगमने । तच्चोपपातकम् याज्ञ० ३ । २३५ श्लो० ।

पारदृश्वन् त्रि० पारं दृष्टवान् दृश--भूते क्वनिप् । पारं

दृष्टवति । स्त्रियां ङीप् रश्चान्तादेशः ।

पारदेश्य त्रि० परदेशे भवः परदेशात् आगतो वा व्यञ् ।

१ परदेशोद्भवे द्रव्यादौ याज्ञ० २ । २५५ । २ परदेशागते च ।

पारमार्थिक त्रि० परमार्थाव पारलौलिकधर्म्माय हितं

ठक । १ परमार्थोपायमूते श्रेयःसाधने कर्म्मणि । पर-
मार्थतो भवः तत आगतो वा ठक् । २ वस्तुत आगते स्वा-
भाविके । स्वार्थे वा ठक् । यथार्थे “सत्ता त्रिविधा
पारमार्थिकी व्यवहारिकी प्रातीति की चेति वेदान्तस० ।

पारम्परीण त्रि० परम्पराया आगतः खञ् । परम्पराया

क्रमादागते ।

पारम्पर्य्य न० परम्परैव स्वार्थे ष्यञ् । कुलादिपरम्परयाम् “पारम्पर्य्यक्रमागतः” इति मनु ।

पारम्पर्य्योपदेश पु० पारम्पर्य्येण पित्रादिपरम्परया

उपदेशः न तु साक्षात्कारादिज्ञानम् । ऐतिह्ये अमरः
(यथा इह वटे यक्षः) इत्यादिरुपदिश्यते एव सर्वैः न
तु तत्र यक्षः केनचित् दृश्यते ।

पारयुगीन त्रि० परयुगे साधु प्रतिजना० खञ् । परयुगसाधौ ।

पारलौकिक त्रि० परलोकाय हितं ठक् द्विपदवृद्धिः ।

परलोके जन्मान्तरादौ, हिते कर्म्मणि ।

पारवत पुंस्त्री पारावत + पृषो० । पारावते द्विरूपकोषः ।

पारवश्य न० परवशस्य भावः ष्यञ् । पारतन्त्र्ये त्रिका० ।

पारशव पुंस्त्री “निषादः शूद्रकन्यायां यः पारशव उच्यते ।

स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः” इति मनूक्ते
ऊढ़ायां शूद्रायां ब्राह्मणेनोत्पादिते निषादरूपे १ सङ्कीर्ण-
वर्णे २ परस्त्रीतनये ३ लौहे च मेदि० । परशु + इदमर्थे-
ऽण् । ४ परशुसम्बन्धिनि त्रि० । ५ मध्यस्थे देशभेदे वृ० सं०
१४ अ० । पारशवस्य गोत्रापत्यं युवादि० अञ् । ६ तद्गात्रापत्ये
हरिता० फञ् । पारशवायन तदीये यूनि गीत्रापत्ये ।

पारशीक पु० १ देशभेदे तद्देशोद्भवे २ घोटके च (आरवी) ।

पारश्वधिक पु० परश्वधः प्रहरणमस्य “परश्वधाट्ठञ्” च

पा० ठञ् । परश्वधास्त्रेण योद्धरि अमरः । पक्षे अण्
पारश्वध तत्रार्थे हेमच० ।

पारस त्रि० पारस्यदेशभवे अण् बा० । यलोपः । १ पारस्यदेशोद्भवे

२ तत्सम्बन्धिनि च स्त्रियां ङीप् । “ज्येष्ठाश्लेषामघा
पूर्वारेवतीभरणीद्वये । विशाखार्द्रोत्तराषाढाशतभे
पापवासरे । लग्ने स्थिरे सचन्द्रे च पारसीमारवीं पठेत्”
मुहूर्त्तगणपतिः ।

पारसिक पु० पारसीक + पृषो० । १ पारस्यदेशे २ घोटके पुं स्त्री० शब्दरत्ना० स्त्रियां ङीष् ।

पारसीक पु० १ देशभेदे २ तद्देशस्थे जने ब० व० । “पारसीकां-

स्ततो जेतुम्” रघुः । ३ तद्देशस्थे घोटके पु० स्त्री
(आरबीषोड़ा) तद्देशस्य कुङ्कुमाकरता भावप्र० उक्ता कुङ्कु-
मशब्दे २६४० पृ० दृश्या ।

पारस्कर पु० पारं करोति कृ--ट पारस्करा० सुट् । १ देशभेदे

२ गृह्यसूत्रकारके मुनिभेदे च ।
पृष्ठ ४३१४

पारस्करादि “पारस्करप्रभृतीनिच संज्ञायाम्” पा० उक्ते

ससुट्कनिपातनिमित्ते शब्दगणे स च “पारस्करो देशः ।
कारस्करोवृक्षः । रथस्या नदी । किष्कुः प्रमाणम् ।
किष्किन्धा गुहा । (तद्वृहतोः करपत्योश्चौरदेवतयोः
सुट् तलोपश्च) (प्रात्तुम्पतौ गवि कर्त्तरि) ।

पारस्त्रैणेय त्रि० परस्त्रिया अपत्यं ढञ् इनङादेशः ।

जारजे परस्त्रियाः सुते अमरः स्त्रियां ङीप् ।

पारस्यकुलीन त्रि० परस्य कुले भवः प्रतिजना० खञ् तत्र

परस्यकुलेति पाठात् अलुक्स० । परकुलोत्पन्ने दत्तकसुतादौ

पारापत पुंस्त्री० पारादप्यापतति प्रेम्णा आ + पत--अच् ।

पारावते (पायरा) अमरः स्त्रियां ङीष् ।

पारावत पुंस्त्री० परं जीवमवति परात् शत्रोर्वा अहङ्कारद्वा

ज्ञानोपदेशद्वारा अवति अव--शतृ परावन् तत्त्वज्ञः
तस्यायमुपदेष्टा अण् । कपोते अमरः स्त्रियां ङीष् ।
चतुर्विंशगुरुमध्ये पारावतस्यापि गुरुत्वमुक्तं तत्र प्रस
ङ्गात् चतुर्विंशतिर्गुरवोऽत्र प्रदर्श्यन्ते “पृथिवी
वायुराकाशमापोऽग्निश्चन्द्रमा रविः । कपोतोऽजगरः
सिन्धुः पतङ्गो मधुकृद्गजः । मधुरहां हरिणो मीनः
पिङ्गला कुररीऽर्भकः । कुमारी शरकृत् सर्प ऊर्ण-
नाभिः सुपेशकृत् । ततो मे गुरवो राजन्! चतुर्विं-
शतिराश्रिताः । शिक्षावृत्तिभिरेतेषामन्वशिक्षमिहात्मना”
भाग० ११ । ७ अ० । तत्कथा तदुत्तरत्र दृश्या

पारापा(वा)र न० पारमपारञ्चास्त्यस्य अर्शा० अच् । १ समुद्रे

पमरः द्व० । २ तटद्वये द्वि० व० । पारावारशब्दोऽप्युभयत्रार्थे ।

पारायण न० पारं समाप्तिमयतेऽनेन अय--ल्युट् । १

साकल्ये अमरः २ ग्रन्थादीनामाद्यन्तपाठे च । तत्र वेदपारा-
यणं चतुष्प्रकारम् ऋग्वेदशब्दे १४१२ पृ० दृश्यम् । पुरा-
णसम्पूर्णग्रन्थापाठेऽपि पारायणव्यवहारः । तत्र
भायवतपारायणे कश्चिद्विशेषः पद्म० पाता० ७१ अ० उक्तो यथा
“कृत्यनित्यक्रियः प्रातः कुशहस्तः कृतासनः । देवद्विज-
गुरून्नत्वा ध्यात्वा विष्णुं सनातनम् । द्वैपायनं नमस्कृत्य
शुकदेवञ्च भक्तितः । हिरण्याक्षबधं यावत् प्रथमेऽहनि
कीर्त्तयेत् । चरितं भरतस्यापि द्वितीयेऽथ तृतीयके ।
मथनञ्चामृतस्यापि, यत्र कूर्मः स्वयं हरिः । चतुर्थदिवसे,
चैव दशमे हरिजन्म च । पञ्चमे तु पठे द्विद्वान् रुक्मिण्या
हरणावधि । षष्ठे चोद्धवसंवादं सप्तमे तु समापयेत् ।
अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन । कुते बिरामे
मध्ये तु अध्यायादिं पठेत् पुनः । पठेदर्थं बुध्यमानः
श्रावयेद्वैष्णवोत्तमैः । श्रोता तु प्राङुमुखो भूत्वा शृणु-
पाद्भक्तितत्परः । अध्याये स्वर्णमाषैकं तथा दद्याच्च
दक्षिणाम् । समाप्तौ च ततो धेनुं स्वर्णशृङ्गीं निवे-
दयेत् । कुर्य्याच्च वैष्णवं होमं सात्वतान् भोजयेत्ततः ।
एवं यः कुरुते देवि! पाठं भागवतस्य तु । श्रवणं
श्रावणं वापि स इष्टां गतिमाप्नुयात् । एतत् पारायणं
नाम सर्वकामफलप्रदम्” तत्र मासभेदाः पाद्मोत्तरख०
६ अ० उक्ता यथा “अथ ते संप्रवक्ष्यामि सप्ताहश्रवणे
विधिम् । सहायैर्बन्धुभिश्चैव प्रायः साध्यो विधिः स्मृतः ।
दैवज्ञन्तु समाहूय मुहूर्त्तं पृच्छ्य यत्नतः । विवाहे यादृशं
वित्तं तादृशं परिकल्पयेत् । नभस्य आश्विनोर्जौ च
मार्गशीर्षः शुचिर्नभाः । एते मासाः कथारम्भे श्रोतॄणां
मोक्षसूचकाः” । “कृच्छ्रो देव्ययुतञ्चैव प्राणायाम-
शतद्वयम् । तिलहोमसहस्रन्तु वेदपारायणं भवेत्”
इति मिता० धृतषट्त्रिंशन्मतम् ।

पारायणिक त्रि० पारायणमावर्त्तयति ठक् । १ तदावर्त्तनका-

रिणि । पारयणस्येदं तदधिकृत्य वा प्रवृत्तं “वृद्धाच्छः”
पा० छ । परायणीय पारायणकसम्बन्धिनि पाराय-
णग्रन्थाधिकारेण प्रवृत्ते ग्रन्थभेदे च ।

पारारुक पारमृच्छति ऋ--उकञ् । प्रस्तरे शब्दच०

पारावतघ्नी स्त्री पारावारं हन्ति हन--टक् पृषो० ।

पारवति दूरदेशे भवाऽपि वृक्षादेर्हन्त्री । सरस्वत्यां नद्याम्
ऋ० ६ । ६१ । २ । इतामृचकमधिकृत्य निरु० २ । २४ उक्तं
“पारावतघ्नीं पारावारघातिनी” ।

पारावतपदी स्त्री पारावतस्येव पादोमूलमस्य अन्त्यलोपः

ङीष् पद्भावः । (नया फटकि) १ लतायां रत्नमा० । २
काकजङ्घायां राजनि० ।

पारावताङ्घ्रि पु० पारावतस्याङ्घ्रिरिव मूलमस्य । ज्योतिष्मतीलतायाम् अमरः ।

पारावताङ्घ्रिपिच्छ पुंस्त्री० पारावताङ्घ्रिरिवास्तदाकार-

युतं पिच्छमस्य । पारावतभेदे राजनि० ।

पारावारीण त्रि० पारमवारञ्च समस्तं समुद्रं वा गच्छति

खञ् । १ तटद्वयगामिनि २ समुद्रगामिनि च । पारा-
पारीणोऽप्यत्र ।

पाराशर पु० पराशरस्यापत्यं गर्गा० यञ् पाराशर्य्यः तस्य

छात्रा० कण्वा० अण् अन्त्ययलोपः । १ पाराशर्य्यस्य
छात्रेषु । पराशरण प्रोक्तम् अण् । २ पराशरप्रोक्ते स्त्रियां
ङीप् “कलौ पाराशरी स्मृतिः” पराशरः ।
पृष्ठ ४३१५

पाराशरकल्पिक त्रि० पाराशरकृत कल्पः तं वेत्त्यधीते वा

“विद्यालक्षणकल्पान्तात्” वार्त्ति० ठक् । १ पराशरकृतक-
ल्पग्रन्वाध्येतरि २ तत्कल्पग्रन्थस्यार्थवेत्तरि च ।

पाराशरि त्रि० पराशरस्येदम् इञ् । अपत्ये तु यञेव ।

१ पराशरसम्बन्धिनि २ शुकदेवे पु० त्रिका० ।

पाराशरिन् पु० ब० व० । पाराशर्य्येण प्रोक्तं भिक्षुसूत्रम-

धीयते इनि यलोप । वेदव्यासप्रणीतशारीरकसूत्ररूप
भिक्षुसूत्राध्यायिपु चतुर्थाश्रमिषु अमरः ।

पाराशरीय त्रि० पराशरस्यादूरदेशा० कृशाश्वा० छण् ।

पराशरसन्निकृष्टदेशादौ ।

पाराशर्य्य पु० पराशरस्यापत्यं गर्गा० यञ् । पराशरस्या-

पत्ये वेदव्यासे द्वैपायनशब्दे दृश्यम् । “यञञोः” पा०
ततो यूनि फञ् पाराशर्य्यायण तदीये यून्थपत्ये ।

पारिकर्म्मिक त्रि० परिकर्मणि नियुक्तः ठञ् । परिकर्मक-

रणे नियुक्ते ।

पारिकाङ्क्षिन् पु० पारयति संसारात् तारयति पारि णिनि

पारि व्रह्मज्ञानं तत्काङ्क्षति णिनि । यतिभेदे अमरः ।

पारिख त्रि० परिखायां भवः पलद्या० अण् । परिखाभवे

तस्येदं “वृद्धाच्छः” पा० छ । षारखीय तत्सम्बन्धिनि त्रि० ।

पारिखेय त्रि० परिखा प्रयोजनमस्य ढक् । परिखार्थे

स्थलादौ स्त्रियां ङीप् पारिखेयी भूमिः ।

पारिग्रामिक त्रि० परिग्रामं भवः ठञ् । ग्रामस्य परितोभते

पारिजात पु० पारमस्यास्ति पारी समुद्रस्तत्र जातः

जनक्त । १ देवतरुभेदे “ततीऽभवत् पारिजातः सुरलोक-
विभूषणम्” भाग० ८ । ८ । ५ श्लो० । तस्यामृतमथनकाले
समुद्रादुत्पत्तिरुक्ता । हरिवंशे तु १८६ अ० तस्य कश्यपात्
सृष्टिरुक्ता तन्नामनिरुक्तिश्चान्था दर्शिता यथा
“पारिजातं ततोऽस्नाक्षीददित्याः प्रिइयकाम्ययः
सर्वकामप्रदैः पुष्पैरावृतं दिव्यगन्धजैः । त्रिर्शाखं सर्वदा
दश्यं सर्वभूतमनोहरम् । सर्वपुष्पाणि दृश्यन्ते तस्मि-
न्नेव महाद्रुमे । ईदृशान्यस्य पुष्पाणि विभर्त्त्येकाऽति-
रूपिणी । बहुरुपाणि चाप्यस्य पद्माऽपि च तथाऽ-
परा । मन्दरादपि दृक्षच्च सारमुद्धृत्य कश्यपः ।
तस्यादेष परुश्रेष्ठः सर्वेषां ज्येष्ठतां गतः । ततस्तत्र
निवध्याथ कश्यपं प्रददौ शुभा । अदितिर्मम पुण्यार्थं
सौभाग्यार्थं तथैव च । निष्क्रयेण मया मुक्तः कश्यपस्तु
तपोधनः । इन्द्रोदत्तस्तथेन्द्राण्या सौभाग्यार्थं ततो मम ।
सोमश्चाप्यथ रोहिण्या ऋध्या च धनदस्तथा । एवं
सौभाग्यदो वृक्षः पारिजातो न संशयः । पारेजातो
पिष्णुपद्याः पारिजातेति शब्दितः । मन्दारपुष्पैर्यद्युक्तो
मन्दारस्तेल कथ्यते । कोऽप्येमं दारुरित्याहुरजानन्तो
यतो जनाः । कोविदारः इति ख्यातस्तत्त्वबः स
महातरुः । मन्दारः कोविदारश्च पारिजातश्च नामभिः ।
स वृक्ष्योःज्ञायते दिव्यो यस्यैतत् कुसुमोत्तमम्” । तस्य
द्वारकायामानयनकथा पारिजातहरणे तदुत्तरत्राध्या-
येषु दृश्या । २ नागभेदे भा० आ० ५७ अ० । ३ ऋषिभेदे
मा० स० ५ अ० । खार्थे क । पारिजातक तथार्थे अमरः ।

पारिजातसरस्वती स्त्री पारिजातेश्वरी सरस्वती । सरस्य-

तीभेदे तन्मन्त्रादि तन्त्रसारे दृश्यम् ।

पारिणाय्य त्रि० परिणये तत्काले लब्धम् बा० ष्यञ् ।

परिणयकाले लब्धे धनादौ मातुः पारिणार्य्य स्त्रियो
विभजेरन्” दायभागे वसिष्ठः ।

पारिणाह्य त्रि० परिणाहमर्हति बा० ष्यञ् । मृहोप

करणे शव्यासनादौ मनुः ९ । ११ कुल्लूक० ।

पारितथ्या स्त्री परितस्तथा परितथा स्वार्थे ष्यञ् ।

सीमन्तस्थितायां स्वर्णादिपट्टिकायां (सिँती) अमरः ।

पारितीषिक त्रि० परितोषः प्रयोजनमस्य ठञ् ।

परितोषार्थं दीयमाने धनादौ ।

पारिधेय त्रि० परिधौ भवः शुभ्रा० ढक् । परिधौ भवे ।

पारिन्द्र पुंस्त्री० पारीन्द्र + पृषो० । सिंहे हेमच० स्त्रियां ङीष् ।

पारिपन्थिक त्रि० पन्थानं वर्ज्जयित्वा व्याप्य वा

परिपन्थम् अव्ययीभा० तत्र तिष्ठति हन्ति वा ठक्
“परिपन्थञ्च तिष्ठति” पा० उक्तेः निपा० पन्थादेशः ।
पन्थासं वर्ज्जयित्वा व्याप्य वा १ स्थायिनिः २ हन्तरि च
चौरे हेमच० ।

पारिपाट्य न० परिषाष्ट्येव स्वार्थे ष्यञ् । परिपाट्याम् ।

पारिपा(या)त्र पु० पर्वतभेदे “हिमवान् पारिपात्रश्च”

भा० स० १० अ० । स तु भारतवर्मस्थकुलाचलभेदः
यथोक्तं “विन्ध्यश्च पारिपात्रश्च सप्तैते कुलपर्वताः ।
तेषां सहस्वशो राजन्! पर्वतास्ते समीपतः” भा० भी०
९ अ० । “जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ।
आनीलनिषधौ प्राप्तौ परस्परनिरन्तरौ । निषधः पारि-
पात्रश्च मेरोःपार्श्वे तु पश्रिमे । यथा पूर्वौ तथा चैता
वानीलनिषधायतौ” मार्क० पु० ५४ अ० । “वेदस्मृतिर्वेद-
वती वृत्नघ्नी सिन्धुरेव च । वेण्वा सा नन्दिनी चैव सदा
नीरा नदी तथा । पारा चर्मण्वती मूपी बिदिशा तत्र-
वत्यर्ण । शिमा ह्यवर्णी च तथा वारिपात्रा श्रयाः
पृष्ठ ४३१६
स्मृताः” मार्क० पु० ५७ अ० । “मरुकामालवाश्चैव
पारिपात्रनिवासिनः” विष्णुपु० । स च पर्वतः वृ० स० १४
अ० कूमेविमागे मध्यस्थिततयाक्तः यथा “उत्तरसाकेतक-
ङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः” स्वार्थे क ।
पारिपात्रक तत्रार्थे क्वचिद् यमध्यपाठस्तत्रार्थे ।

पारिपार्श्विक त्रि० परिपार्श्वं पार्श्वं व्याप्य वर्त्तते ठक् ।

पार्श्वं व्याप्य स्थायिनि १ सेवकादौ । स्थापकानुचरे २
नटभेदे पु० “नटी विदूषको वाऽपि पारिपार्श्विक एव वा ।
सूत्रधारेण सहितः संलापं यत्र कुर्वते” । सूत्रधार-
सदृशत्वात् स्थापकोऽपि सूत्रधार उच्यते तस्यानुचरः
पारिपार्श्विकः” सा० द० ।

पारिप्लव त्रि० परि + प्ल--अच् स्वार्थेऽण् । १ चञ्चले २ आकुले

च अमरः । ३ तीर्घभेदे भा० व० ८ अ० । पञ्चममन्वन्तरे
५ प्रकृतिभेदे हरिवं० ७ अ० । ६ आख्यानभेदे शत० ब्रा०
१३ । ४ । ३ । २ । तच्चाख्यानं “पारिप्लवमाख्यानमाख्यास्यन्”
इत्युपक्रमे “मनुर्वैवस्वतो राजेत्याह” इत्यादिकं तत्र दृश्यम्

पारिभद्र पु० परितो भदूमस्त्यस्य प्रज्ञाद्यण् । (पालदामा-

न्दार) १ वृक्षे अमरः । “पारिभद्रोऽनिलश्लेष्मशोथमेदः
कृमिप्रणुत् । तस्य पुष्पं पित्तरोगकर्णव्याधिविनाशनम्”
भावप्र० । परिभद्राय कायति कै--क । २ देवदारुवृक्षे
३ निम्बवृक्षे च पु० मेदि० । ४ कुष्ठौषधौ न० शब्दच० ।
५ सरलवृक्षे पु० शब्दच० ६ शाल्मलिद्वीपपतिपुत्रभेदे
७ तद्वर्षभेदे च पु० भाग० ५ । २० । ९ श्लो० ।

पारिभाव्य न० परिभवाय रोगप्रशमनाय हितः ष्यञ् ।

कुष्ठौषधौ अमरः । परिभुवः प्रतिभुवो भावः ष्यञ् ।
प्रतिभूभवने “साक्षित्वं पारिभाव्यञ्च” इति स्मृतिः ।

पारिभाषिक त्रि० परिभाषात आगतः ठञ् । १ परिभाषातः

प्राप्ते २ परिभाषारूपाधुनिकसङ्केतयुते शब्दे पु० ३ तादृश-
संज्ञायां स्त्री । “उभयावृत्तिधर्मेण संज्ञा स्यात् पारि-
भाषिकी” । “उभयावृत्तिधर्म्मावच्छिन्नसङ्केतवती संज्ञा
पारिमाषिकी यथाकाशडित्थादिः सा हि द्वितीयावृत्तिनैव
शब्दादिना रूपेण तदाश्रयमभिधत्ते न चाकाशादिपदस्य
गगनादौ निरवच्छिन्नैव शक्तिः पटादिपदस्यापि पटादौ
तादृशशक्त्यापत्तेः पटे शक्तमपि पटपदं न पटत्वावच्छिश-
न्नशक्तिमदित्यादिग्रहोत्तरं ततः पटत्वविशिष्टस्याननुभ-
वादवश्यं तच्छक्तिरवच्छिन्नेति चेत् शब्दवति शक्तम-
प्याकाशपदं न शब्दवत्त्वावच्छिन्नशक्तिमदित्येवं ग्रहद-
शायामाकाशादिपदान्न शब्दवत्त्वेन गगनस्य प्रतीतिरत-
स्तस्यापि शब्दवत्त्वावच्छिन्नैव तत्र शक्तिरिति विभाव-
व्यताम् । “यद्वाधुनिकसङ्केतशालित्वात् पारिभाषिकम्”
यत्रार्थे यन्नामाधुनिकसङ्केतवत्तदेव तत्र पारिभाषिकं
यथा पित्रादिभिः पुत्रादौ सङ्केतितं चैत्रादि यथा च
शास्त्रकृद्भिः सिद्ध्यभावादौ पक्षतादि” शब्दशक्तिप्रका० ।

पारिमाण्डल्य न० परितो मण्डलं यस्य सर्वत्र विद्यमान-

त्वात् परिमण्डलः परमाणुस्तस्य मावः व्यञ् । १ न्योयोक्ते
असमवायिकारणताशून्ये परमाणुपरिमाणे । स्वार्थे
ष्यञ् । २ परिमण्डलशब्दार्थे परिमण्डलशब्दे दृश्यम् ।

पारिमुखिक त्रि० परिमुखं वर्त्तते ठक् । मुखसमीपे वर्त्तमाने ।

पारियात्रिक पु० पारियात्र + स्वार्थे ठक् । कुलाचलभेदे हेमच० । पारिपात्रशब्दे दृश्यम् ।

पारियानिक पु० परियानं प्रयोजनमस्य ठक् । मार्गयान-

योग्यरथे हेमच० ।

पारिरक्षक पु० परिरक्षा व्रतभेदः प्रयोजनमस्य ठक् । मस्करिणि तापसे हेमच० ।

पारिव्राजक न० परिव्राजकस्य भावः युवा० अण् ।

परिव्राजकस्य भावे सन्न्यामे ।

पारिश पु० पिपूर्त्ति पॄ--णिनि पारी तं श्यति शो--क । (पलाशपिपुल) ख्याते वृक्षे ।

पारिषत्क पु० परिषदं तत्प्रतिपादकं ग्रन्थमधीते वेत्ति वा

उक्था० ठक् । परिषद्ग्रन्थाध्येतरि तद्वेत्तरि च ।

पारिषद त्रि० परिषदि साधु अण् भवेऽर्थे पलद्या० अण वा ।

१ सभासाधौ २ सभाभवे च ।

पारिषदक त्रि० परिषदा कृतं कुला० वुञ् । परिषदा कृते

पारिषद्य त्रि० परिषदि साधु--ण्य । सभायां साधौ

पारिसीर्य्य त्रि० परिसीरं सीरं वर्जयित्वा भवम् परिमुखा०

ञ्य । हलवर्जनेन भवे ।

पारिहनव्य त्रि० परिहनु + परिमुखा० ञ्य । हनूपरिमवे

पारिहारिक त्रि० परिहारे साधु ठक् । परिहारकारके

शब्दार्थकल्पतरु ।

पारिहार्य्य पु० परिह्रियतेऽसौ परि + हृ--कर्मणि घञ् स्वार्थे ष्यञ् । वलय अमरः ।

पारी स्त्री पा--पाने रक्षणे वा सम्प० भावे क्विप् तां राति

रा--क गौरा० ङीष् । १ जलपूरे २ कर्कर्य्यां गलन्तिकायां
३ हस्तिपादबन्धनदामनि च मेदि० ।

पारीण त्रि० पारं गच्छति पार + खञ् । १ पारगे २ कर्मसमाप्तिकारके च ।

पारीन्द्र पु० पृ--पालने कर्मणि इण् पारिः पशुः पारिरिन्द्र

इव । १ सिंहे २ अजग्रसर्पे च हेमच० ।

पारीरण पुंस्त्री० पार्य्यां जलपूरे रणति रण + अच । कमठे

स्वियां ङीष् । १ दण्डे २ पटशाटके च विश्व ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/पश्वयन&oldid=57811" इत्यस्माद् प्रतिप्राप्तम्