वाचस्पत्यम्/परिच्छेद

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४२४७

परिच्छेद पु० परि + छिद--भावे करणादौ च घञ् । १ अबधौ

२ सीमायां ३ अवधारणे ग्रन्थस्य ४ सन्धिभेदे । स च त्रिका०
दर्शितो यथा “सर्गवर्ग परिच्छेदोद्धोताध्यायाङ्कसंग्रहाः ।
उच्छ्वासः परिवर्त्तश्च पटलं काण्डमस्त्रियाम् । स्यानं
प्रकरणं पर्वाह्णिकञ्च ग्रन्धसन्धयः” । तत्र काव्ये सर्गः,
कोषे वर्गः, अलङ्कारे परिच्छेदोच्छ्वासौ कथयामुद्धातः
नाटके अङ्कः, संहितापुराणादौ अध्यायः, तन्त्रे पटलं,
ब्राह्मणे काण्डम्, इतिहासे पर्व, माणे आह्निकम् ।
एवमन्येऽपि ग्रन्यसन्धयः ग्रन्थभेदे ज्ञेयाः यथा
पादलम्बुकतरङ्गस्तवकप्रपाठकादयोऽपि यथावथमूह्याः ।
४ परिमाणे ।

परिच्छेद्य त्रि० परि + छिद--कर्मणि ण्यत् । १ परिमेये

२ अवथार्य्ये च ।

परिजन पु० परिगतो जनः । १ परिवारे २ प्रतिपाल्ये जने अमरः ।

परिजय्य त्रि० परि + जि--शक्यार्थे वत् नि० यान्तादेशः ।

परितो जेतुंशक्ये ।

परिजल्पित न० “प्रभोर्निर्दयताशाठ्यचापलाद्युपपादनात् ।

स्वविचक्षणताव्यक्तिर्भङ्ग्य स्यात् परिजल्पितम्” उज्ज्व-
लमण्युक्ते कथनभेदे ।

परिज्ञान न० परि + ज्ञा ल्युट् । सूक्ष्पज्ञाने सू० सि० ९ । १ रङ्गनाथः ।

परिज्रि त्रि० परि + जृ--कि । परितोगन्तरि ऋ० १ । ६४ । ५ भा०

परिज्वन् पु० परि + जु--सौत्रधातुः कमिन् । १ चन्द्रे २ अग्नौ

च उज्ज्वलदत्तः । अत्र परिजवन् इति परिजन्मन् इति
शब्दद्वयकल्पनं प्रामादिकं “श्वन्नुक्षन्नित्यादिके उणादिसूत्रे
परिज्वन् इत्यस्यैव पाठात् ।

परिडीन न० परि + डी--भावे क्त । सगगतिभेदे स्तगतिशब्दे २४१४ पृ० दृश्यम् ।

परिणत त्रि० परि + णम--क्त । १ परिपक्वे अमरः । २

परिणामयुक्ते “तिर्य्ग्दन्तप्रहारश्च गजः परिणतोमतः”
हलायुधोक्ते ३गजभेदे माघः ४।२९ ११।३५ सर्वतोनते
च ५ शेषयुते च।

परिणति स्त्री परि + नम--क्तिन् । १ शेषे २ अवसाने । ३ परिणामे ४ परिपाके च माधः १ । ११ ।

परिणय पु० परि + वी--भावे अच् । १ विवाहे अमरः भावे

ल्युट् । २ परिणयन तत्रार्थे न० । परिणयतेर्विवा-
हार्थत्वात् परिणीता इत्यादौ कृतविवाहाद्यर्थावगमः ।

परिणाम पु० परि + नम घञ् । १ प्रकृतेरन्यथाभावे विकारे

२ शेषे “परिणामेऽमृतोपमम्” गीता । ३ अर्थालङ्कारभेदे
च । अन्यथाभावश्च प्रकृत्युच्छेदेन प्रकृतेर्युणान्तराधानेन
वा यया नृदादेर्षटादिरूपेण, काष्ठादेर्भस्यादिना । “प-
रिणामतापतापसंस्कारदुःखैः” पात० सू० “परिणामतः
सलिलवत्” सां० का० “यथा हि वारिदविमुक्तमुदक-
मेकरसमपि तत्तद्भूमिविकारानासाद्य नारिकेलतालीवि-
ल्वचिरविल्वतिन्दुकामलकप्राचीनामलककपित्थफलरसतया
परिणामान्मधुराम्लतिक्तकटुकषायतया विकल्प्यते
एवमेकैकगुणसमुद्भवात् प्रधानं गुणमाश्रित्याप्रधानगुणाः
परिणामभेदान् प्रवर्त्तयन्ति” सांत० कौ० । ४ परिपाके
“भुक्तस्य परिणामहेतुरोदर्य्यः (वह्निः) तर्कसंग्रहः ।

परिणामदशिन् त्रि० परिणाम शेषं पश्यति दृश--णिनि

६ त० । शेषद्रष्टरि यत्कर्मकरणे पत्कलं तस्य द्रष्टरि ।

परिणामशूल न० परिणामे शूलम् । शूलरोगभेदे “स्वै-

र्निदानैः प्रकुपितो वायुः सन्निहितो यदा । कफपित्ते
समावृत्य शूलकारी भवेद्बली” । तस्य लक्षणं यथा
“भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् । तस्य
लक्षणमप्येतत् समासेनाभिधीयते” वातिकस्य तस्य
सक्षणं यथा “आध्मानाटोपबिण्मूत्रविवन्धाऽरतिवेपनैः ।
स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक्” पैत्तिकस्य तस्य
लक्षणं यथा “तृष्णादाहारतिस्वेदकष्ट्वम्लवणोत्त-
रम् । श्लं शीतशमप्रायं पैत्तिकं लक्षयेद्भिषक्” श्लैष्मि-
कस्य तस्य लक्षणं यथा “छर्दिहृल्लाससम्मोहं स्वल्व-
रुग्दीर्घ सन्तति । कटुतिक्तोपशान्तौ च तद्बिज्ञेयं
कफात्मकम्” त्रिदोषजस्य तस्य लक्षणं यथा “संसृष्टलक्षणं
बुड्घा द्विदोषं परिकल्पयेत् । त्रिदोगजमसाध्यन्तु क्षीण-
मांसबलानलम्” माधबकरः ।

परिणामिन् त्रि० परि + नम--णिनि । परिणामयुक्ते

परिणामिकारणत्वञ्च प्रधानस्यैव न पुरुषस्येति निर्णीतं सां०
सू० “पूर्वभावित्वे द्वयोरेकतरस्य हानेऽन्यतरयोगः” सू०
“द्वयोरेव पुम्प्रकृत्योरखिलकार्य्यपूर्वमावित्वेऽप्येकतरस्य
पुरुषस्यापरिणामित्वेन कारणताहान्थान्यतरस्य प्रकृतेः
लारणत्वौचित्यमित्यर्थः । पुरुषस्याषरिणामित्वे चेदं
वीजम् । पुरुषस्य संहत्यकारित्वे परार्थत्वापत्त्यागवस्था
असंहत्यकारित्वे सर्वदा महदादिकार्य्यप्रसङ्गः । प्रकृ-
तिद्वारा परिणामकल्पने च लाघवात् तस्या एव
परिणामोऽस्तु पुरुषे तु स्वामित्वेन स्रष्टृत्वोपचारो यथा
योधेषु वर्त्तमानौ जयपराजयौ राजन्युपचर्य्येते
तत्फलसुणदुःखभोक्तृत्वेन तत्स्वामित्वादिति । किञ्च
धर्मिग्राहकमानेन कारणतयैव प्रकृतेः सिद्धौ नान्यका-
रणाकाङ्क्षास्ति । यथा धर्मिग्राहकप्रमाणेन द्रष्टृतया
पृष्ठ ४२४८
पुरुषसिद्धौ नान्यद्रष्ट्राकाङ्क्षेति । अपि च पुरुषस्य
परिणामित्वे कदाचिच्चक्षुर्मनआदिवदन्घत्वमपि स्यात् ।
तथा च विद्यमानमपि सुखदुःखादिकं न ज्ञायेत ततश्चाहं
सुखी न वेत्यादिसंशयापत्तिः । अतः सदा प्रकाशस्वरू-
पत्वानपायेन पुरुषस्यापरिणामित्वं सिद्ध्यति । तदुक्तं
योगसूत्रेण “सदा ज्ञाताश्चित्तस्य वृत्तयस्तत्प्रभोः पुरुष-
स्यापरिणामित्वादिति” तद्भाप्येण च “सदाज्ञानविषयत्वं
तु पुरुषस्यापरिणामित्वं परिदीपयतीति” भा० उक्तम्
संयोगश्च न परिणामः सामान्यगुणातिरिक्तधर्मोपृत्त्यैव
परिणामित्वव्यवहारात्” सा० प्र० भा० । तेन पुरुषस्य
संयोगवत्त्वेऽपि विकारहेतुसंयोगाभावात् न परिणा-
मित्वम् । स्त्रियां ङीप् । “सती वाऽविद्यमाना वा
प्रकृतिः परिणामिनी” हरिका० ।

परि(री)णाय पु० न० परि + नी--द्यूते विषये घञ् उपसर्गस्य

वा दीर्घः । शरीणां वामदक्षिणतो नयने अमरः
घञन्तत्वेऽपि अभिधानात् अस्त्री ।

परि(री)णाह पु० परि + नह--घञ् वा दीर्घः । विस्तारे

(ओसार) “धनुः शतं परीणाहो ग्रामात् क्षेत्रान्तरं
भवेत्” याज्ञ० ।

परिणाहवत् त्रि० परिणाह + बला० वा मतुप् । विस्तार-

युते स्त्रियां ङीप् पक्षे एकाक्षरकृदन्तत्वेऽपि बला०
इनि । परिणाहिन् तत्रार्थे त्रि० स्त्रियां ङीप् ।

परिणेतृ पु० परि + नी--तृच् । १ विवाहकर्त्तरि भर्त्तरि

राजनि० २ परितो नेतरि च ।

परिणेय त्रि० परि + नी--यत् । १ परितोनयनीये आश्व० श्रौ०

४ । ६ । १५ । विवाहयोम्यायां २ कन्यायां स्त्री ।

परितक्मन् न० तक--हसने भावे मनिन् । परितोगमने

तदर्हति यत् । परितक्म्य परितो गन्तव्ये ऋ० १ । ३ १ । ६७
भा० दृश्यम् । “परित एनां रात्रिं तक्म” निरुक्तोक्तायां
रात्रौ च रात्रेरुभयत उष्णतोपलम्भात् तथात्वम् ।

परितस् अव्य० परि + तसिल् । सर्वतोभावे इत्यर्थे । एतद्योगे

सम्बन्धार्थे द्वितीया परितः कृष्णं भक्ताः ।

परिताप पु० परितप्यतेऽत्र परि + तप--आघारे घञ् । १ नरके

करणे घञ् । २ दुःखे मेदि० । ३ शोके शब्दच० ४ भये
५ कम्पे विश्वः ६ अत्युष्णतायाञ्च “ते ह्रादपरिताप
फलाः पुण्यापुण्यहेतुत्वात्” पात० सू० “ते जन्मायुर्भोगा
पुण्यहेतुका सुखफलाः अपुण्यहेतुकादुःखफलाः” भा० ।

परितोष पु० परि + तुष--भावे घञ् । सलोषे आतन्दभेदे

परित्याग पु० परि + त्यज--भावे घञ् । सर्वतो भावेन वर्जने

परित्राण न० परि + त्रै--ल्युट् । १ रक्षणे अनिष्टे प्रवृत्तस्य

२ निवारणे च “परित्राणाय साधूनाम्” गोता ।

परिदंशित त्रि० परिदंशो जातोऽस्य तार० इतच् ।

कृतसन्नाहे भा० आ० १ ३६ अ० ।

परिदान न० परि + दा--भावे ल्युट् । प्रतिरूवदाने विनिमये अमरः ।

परिदाय पु० परि + दा घञ् । आमोददायिनि सुगन्धौ

हरिवं० २१८ अ० ।

परिदायिन् परिवर्ज्य शास्त्रदोषं ददाति दा--णिनि ।

अकृतविवाहस्य ज्येष्ठस्य कनिष्ठाय कन्यादातरि परिवेत्तृ-
शब्दे हारीतवाक्यं दृश्यम् ।

परिदेबन न० परि + दिव--ल्युट् । १ अनुशोचने कृतस्य कर्म-

णोऽनुचितत्वधियानुतापे २ विलापे च । णिच्--युच् ।
परिदेवनाप्यत्र स्त्री । “तत्र का परिदेवना” गीता २ । ३८

परिदेविन् त्रि० परि + दिव--ताच्छील्ये इनि । परदेवनशीले

स्त्रियां ङीप् ।

परिद्वीप पु० गरुड़पुत्रभेदे भा० आ० १०० अ० ।

परिधान न० परिधीयते परि + धा--कर्मणि ल्युट् । १

परिहितवस्त्रे नाभेरधोधृतवसने अमरः भावे ल्युट् ।
२ वस्त्रादेर्देहाद्वौ धारणे च ।

परिधानीया स्त्री परि + धा--कर्मणि अनीयर् । १ शस्त्रादि-

स्थायासुत्तमायामृचि “सर्वत्रोत्तमां परिधानीयेति विद्यान्
आश्व० श्रौ० २१६ । ८ “स यत्रोपाकृते प्रातरनुवाके पुरा
परिधानीया स्यात्” छान्दो० । २ परिधेयवस्त्रादौ त्रि० ।

परिधाय पु० परि + धा--कर्मणि धञ् । १ परिच्छेदे आधारे

घञ् । २ नितम्वदेशे ३ जलस्थाने च मेदि० भावे घञ् ।
परिधाने ।

परिधि पु० परि + धा कि । चन्द्रसूर्य्यसमीपस्ये मेधादिस-

न्निकर्षात् जायमाने वेष्टनाकारे १ मण्डले (सूर्य्यसभा)
(चन्द्रसभा) परिवेशशब्दे दृश्यम् । यज्ञियपशुबन्धनार्थं
निस्वातायां यज्ञियतरोः पलाशादेः २ शाख्यायाम्
३ गोलमण्डलस्य परितो वेष्टनसूत्रमाने क्षेत्रशब्दे २४००
पृ० दर्शितम् । यज्ञियपरिधिमानं च इष्मशब्दे ९२८ पृ०
दृश्यम् । तच्चान्यतशाखिविषयम् कर्मप्रदीपोक्तमानन्तु
छन्दोगविषयम् यथा “बाहुमात्राः परिधय ऋजवः
सत्वचोऽव्रणाः । त्रयो भवन्ति शीर्णाग्रा एकेषान्तु
चतुर्दिशम् । प्रागग्रावभितः पश्चादुदगग्रमथापरम् ।
न्यसेत् परिधिमन्यञ्चेदुदग्रः स च पूर्वतः” ।
पृष्ठ ४२४९

परिधिस्थ त्रि० परिधौ तिष्ठति स्था--क । १ परिचारके

युद्धादौ रथिनो रक्षार्थं परितः स्थिते २ सैन्यादौ च ।

परिधिपतिखेचर पु० महादेवे भा० अनु० ६७ अ० ।

परिधूमन सुश्रुतोक्ते तृषार्दितस्य उद्गारभेदरूपे उपद्रवभेदे

(चो या ढेकुर तोला) ।

परिधूमायन न० सुश्रुतोक्ते उद्गारभेदे (च्ॐयाढेकुरतोला)

परिधेय त्रि० परितो घेयः । परिधिमवे १ विश्वदेवादौ

यजु३ । १८ । परि--धा यत् । २ परिधातव्ये वस्त्रादौ त्रि० ।

परिनन्दन त्रि० परि + नन्द--णिच्--ल्यु क्षुभ्रा० न णत्वम् ।

१ सन्तोषकारके भावे ल्युट् । २ सन्तोषकरणे न० ।

परिनिष्ठा परि + नि + स्था--भावे अ । पर्य्यवसाने “पारम्पर्ये-

ऽप्येकत्र परिनिष्ठा” सां० सू० ।

परिपक्व त्रि० परि + षच--क्त । १ परिपाकयुक्ते २ परिणते च

परिपन(ण) न० परिपन्य(ण्य)ते व्यवह्रियतेऽतेन पन(ण)-

घञ् । मूलधने अमरः ।

परिपति त्रि० परि + पत--इन् । १ सर्वव्यापिनि यजु० ५ । ५ ।

२ अधिपतौ पु० निरु० १२ । १८ अ० ।

परिपन्थ पु० पन्थानं वर्जयित्वा व्याप्य बा तिष्ठति

पथिअच् । १ पथिवर्जके २ पथिव्यापके च “परिपन्थं
गच्छति” पा० ठक् । पारिपन्थिक चौरे सि० कौ० ।

परिपन्थक पु० परिपन्थयति दोषाख्यानं गच्छति परि +

पन्थ--ण्वुल् पन्थानं वर्जयित्वा गच्छति वा कन् पन्था-
देशः । शत्रौ यजु० ४ । ३ ४ । हेमच० ।

परिपन्थिन् पु० परि + पन्थि--नि । १ शत्रौ २ विपरीताचारिणि

त्रि० स्त्रियां ङीप् । “छन्दसि परिपन्थिपरिपरिणौ पर्य्य-
वस्थातरि” पा० वेदे एवास्य प्रयोगः । लोके तूपचारात् ।

परिपरिन् पु० परिपन्थिन्शब्दोक्ते पा० नि० । शत्रौ

वेदे एवास्य योनः । यजु० ४ । २ ४ ।

परिपवन पु० परिपूयतेऽनेन परि + पू--करणे ल्युट् ।

चालन्यां निरु० ४ । ९ ।

परिपशव्य त्रि० व्याप्तौ परिः पशोरिदं यत् प्रा० स० । सर्वं-

पशुसम्बन्धिनि कात्या० श्रौ० ८ । ८ । ३

परिपाक परि + पच घञ् । १ उत्कृष्टपाके २ प्ररिणामे । ३ नैपुण्ये च ।

परिपाकिन् स्त्री परिपाकोऽस्त्यस्याः एकाक्षरकृदन्तत्वेऽपि

संज्ञात्वात् इनि ङीप् । त्रिवृतायां शब्दच० ।

परिपाटि(टी) स्त्री परि + चु० पट--इन् । अनुक्रमे

आनुपर्व्याम् अमरः बा ङीप् ।

परिपाद अव्य० पादं वर्जयित्वा । पादवर्जने निरुदका० अन्तोदान्तताऽस्य ।

परिपिष्टक न० परि + पिष--क्त संज्ञायां कन् । सीसके

राजनि० ।

परिपुटन न० परि + कुटा० पुट--भावे ल्युट् १ भेदने २ सम्पुटोकरणे च

परिपुष्करा स्त्री परितः पुष्करं मुखं यस्याः । (गोमुक)

गोडुम्बायाम् शब्दच० ।

परिपूत त्रि० परि + पू--क्त । १ अत्यन्तशुद्धे माघः २ । १६ ।

शूर्पादिवातेन तुषनिःसारणयुते २ धान्यादौ च । “परि-
पूतेषु धान्येषु” मनुः ।

परिपूर्ण त्रि० परि पूर--क्त नि० । आभोगयुते तस्य भावः

तल् । परिपूर्णता आभोगे स्त्री अमरः ।

परिपेल न० परि + पेल--अच् । कैवर्त्तीमुस्तके शैवलमध्ये

जायमाने मुस्ताकारे पदार्थे शब्दमाला ।

परिपेलव न० परितः पेलवं मृदुता यस्य । १ कैवर्त्तीमुस्तके

अमरः । २ अत्यन्तमृदौ त्रि० वृ० सं० ९४ अ० ।

परिपोट पु० सुश्रुतोक्ते कर्णपालीरोगभेदे “परिपोटस्तथो-

त्पात उन्मन्थो दुःखवर्द्धनः । पञ्चमः परिलेही च कर्ण-
पाल्या गदाः स्मृताः” इत्युपक्रमे सौकामार्य्याच्चि-
रोत्सृष्टसहसाभिप्रवर्द्धिते । कर्णशोफो भवेत् पाल्यां
सरुजः परिपोटनात् । कृष्णारुणनिभः स्तब्धः स
वातात् परिपोटकः” । परिपोटक इत्यप्यत्र पु० ।

परिपोटन न० प + पुट--भेदने ल्युट् । भेदने सुश्रुतः ।

परिप्रश्न पु० परितः प्रश्नः । युक्तायुक्तत्वप्रश्ने गीता ४ । ३४ अ०

परिप्लव पु० परि + प्लु--अच् । १ चञ्चले अमरः । भावे अप् ।

२ जलादेरुपरितरणे च ।

परिप्लुत स्त्री परि + प्लु--क्त । १ जलादिभिरार्द्रीभूते । २

पदिरायां स्त्री हेमच० । मैथुनवेदनायुक्ते ३ नार्य्यङ्गभेदे स्त्री
“परिप्लुतायां योनौ तु ग्राम्यधर्मे रुजा भृशम्” माधवकरः

परिव(ब)र्ह पु० परि + वर्ह--घञ् । नृपयोग्ये हस्त्यश्वरथादि

परिच्छदे अमरः । अन्त्यस्थव मध्य एव न्याय्यः ।

परिभ(भा)व पु० परि + भू--अप् घञ् वा । १ अनादरे २

तिरस्कारे अमरः ।

परिभविन् त्रि० परि + भू--ताच्छील्ये इनि । परिभवनशीले स्त्रियां ङीप् ।

परिभाविन् त्रि० परि + भू--ग्रहा० भूतेऽर्थे णिनि । सर्वतो-

भावेन भवनयुक्ते स्त्रियां ङीप् ।

परिभाषण न० परि + भाष--ल्युट् । १ निन्दया दुष्टवचने

आलापे २ नियमे च मेदि० ।
पृष्ठ ४२५०

परिभाषा स्त्री परि + भाष--अ । शास्त्रकृतां १ कृत्तिमसंज्ञा-

याम् अवयवार्थमनादृत्य समुदायार्थे २ विशिष्टसंज्ञायाम् ।
संज्ञापरिभाषयोस्तु अवान्तरभेदः परिभाषेन्दुशेणरे
“यथोद्देशं संज्ञापरिभाषम् “यथाकालं संज्ञापरिभाषम्”
अनयोर्व्याख्याने दृश्यः । “कश्चिदेकदेशस्थः सर्वशास्त्र-
मभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्मा-
भिज्वलयतीति “बष्ठी स्थाने” इति सूत्रे भाष्ये उक्तम् ।
“अधिकारशब्देन पारार्य्यात् परिभाषाप्युच्यते । कश्चित्
परिभाषारूप इति” कैयढः । दीपो यथा प्रभाद्वारा
सर्वगृहप्रकाशक एवमेतत् । स्वबुद्धिजननद्वारा सर्वशा-
स्त्रोपकारकमिति तत्तात्पर्यम् । ४ आधुनिकसङ्केते
पारिभाषिकशब्दे दृश्यम् ।

परिभूत त्रि० परि + भू--क्त । १ तिरस्कते २ अनादृते च हेमच०

परिभ्रमण न० परितो भ्रमणम् । १ सर्वतोभ्रमणे २ पर्य्यटने च

परिमण्डल त्रि० परिगतो मण्डलम् । १ वर्त्तुलाकारे हेमच०

२ अणुपरिषाणयुक्ते च परिमाणशब्दे दृश्यम् ।

परिमर पु० परिम्रियन्ते अस्विन् परि + मृ--आधारे अप् ।

वायौ “तद्ब्रह्मणः परिमर इत्युपासीत” तैत्ति० उ० ३ ।
१० । ४ “ब्रह्मणः परिमरः परिम्रियन्तेऽस्मिन् पञ्च
देवताः विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरित्येताः । अतो”
वायुः परिमरः श्रुत्यन्तरप्रसिद्धेः । “स एवायं वायु-
राकाशेनानग्य” इत्याकाशो ब्रह्मणः परिमरस्तमाकाशं
वाय्वात्मानं ब्रह्मणः परिमर इत्युपासीत” भा० ।

परिमर्द्द पु० परि + मृद--भावे घञ् । १ घर्षणे २ नाशने ३

हिंसने च भा० शा० २१८५ श्लो० । ल्युट् । परिमर्द्दन तत्रार्थे

परिमल पु० परि + मल--अच् । १ कुङ्कुमचन्दनादिमर्दने मर्द-

नोद्भूते २ सुगन्धौ अमरः । ३ परितः सम्बन्धे च “सतां
परिमप्रोद्भूतबद्धोत्सबः” इत्युदयनः ४ पण्डितसमूहे शब्दर०

परिमाण न० परिमीयतेऽनेन परि + मा--ल्युट् । यवाङ्ग-

लप्रस्थादिभिर्गुञ्जादिभिश्च द्रव्यव्यस्य परिच्छेदे (माप)
गुञ्जादिपरिमाणभेदविशेषाश्च कर्षशब्दे १७७५ पृ० उक्ता
दृश्याः । अङ्गुलादिपरिमाणञ्च वैशेषिकमते द्रव्यगुणभेद-
स्तच्चातुर्विध्यं चोक्तं यथा “अणोर्महतश्चोपलब्ध्यनुप-
लब्धी नित्ये व्याख्याते ।” कणा० सू० “तदेवं स्थूलो नीलः
कलस इति प्रात्यक्षिकप्रत्यये यथा नीलं रूपं विषय-
स्तथा परिमाणमपि तेन च परिमाणेन परमाणुप-
र्य्यन्तं परिमाणमुन्नीयते प्रत्यक्षत्वात् द्रव्यप्रत्यक्षहेतु-
त्वाच्च । द्रव्यप्रत्यक्षतायां रूपवत् परिमाणमपि कारणं
नहि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं मवति तथा च
द्रव्यप्रत्यक्षकारणत्वेन स्वयञ्च प्रत्यक्षतया परिमाणं
गुणोऽस्तीति निश्चीयते । यदि हि चटादिस्वरूषं
परिमाणं स्यात् तदा महदानयेत्युक्ते घटमात्रमानयेत्
तथाच प्रैषसंप्रतिपक्षी विरुध्येयाताम्, एवं वटपदात्
परिमाणं प्रतीयेत परिमाणपदाद्वा घट इति । आबधव-
हारासाबारणकारणत्वं द्रव्यसाणात्कारकारचगिष्ठ-
सामान्यगुणत्वं वा महत्त्वम् । मानव्यवहारोहस्तवित-
स्त्यादिव्यवहारो नतु पणसङ्ख्यादिव्यवहारः । तश्च
परिमाणञ्चतुर्विधं महत्वमणुत्वं दीर्घत्वं ह्रस्वत्वञ्च, तत्र
परममहत्त्वपरमदीर्त्तत्वे विभुचतुष्टयवर्त्तिनी परमाणु-
त्वपरमह्रस्वत्वे परमाणुवर्त्तिनी अवान्तराणुत्वावान्तर-
ह्रस्वत्वे द्व्यणुकवर्त्तिनी त्रसरेणुमारभ्य महावयवि-
पर्य्यन्तं महत्त्वदीर्घत्वे । एवञ्च सर्वाण्यपि द्रव्याणि
परिमाणद्वयबन्ति । विल्वामलकादावणुत्वव्यवहारः
समिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारोभाक्तः, भक्तिश्चात्र
प्रकर्षभावाभावः, आमसके यः प्रकर्षभावस्तस्याभावः
कुवले । विण्वे यः प्रकर्षभावस्तस्याभाव आमलके, स च
गौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः । दीर्धह्रस्वत्वे
नित्ये न वर्त्तेते इत्येके, परिमाण एव ते न भवत
इत्यपरे, महत्सु दीर्घमानीयतामितिवत् महत्सु वर्त्तुलं
त्रिकोणञ्चानीयतामिति निर्धारणबलाद्वर्त्तुलत्वादीना-
मप्यापत्तेरिति तेषामाशयात् । इदानीं परिमाणकार-
णानि परिसञ्चष्टे । उप० वृ० “कारणबहुत्वाच्च” कणा० सू०
“चकारोमहत्त्वप्रचयौ समुच्चिनोति, परिमाणमुत्पद्यते
इति सूत्रशेषः, तत्र कारणबहुत्वं केवलं त्र्यणुके
महत्त्रदीर्थत्वे जनयति महत्त्वप्रचचयोस्तत्कारणेऽभावात्
तच्च बहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्बुद्धेरनेकविषयत्वेऽ-
प्यदृष्टविशेषोपग्रहो नियामकः, एवं परमाणुद्वयगतं
द्वित्वं द्व्यणुके परिमाणोत्पादकं वक्ष्यते द्वाभ्यां तन्तु-
भ्यामप्रचिताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायि-
कारणं बहुत्वप्रचययोस्तत्राभावात् । यत्र च द्वाभ्यां
तूलकपिञ्जाभ्यां तूलकपिञ्जारभस्तत्र परिभाणोत्कर्ष-
दर्शनात् प्रचयः कारणं बहुत्वस्याभावात् महत्त्वस्य
सत्त्वेऽपि परिमाणोत्कर्षं प्रत्यप्रयोजकत्वात् । एवञ्च
सतियदि महत्त्वं तत्र कारणं तदा न दोषः तदुक्तं “द्वाभ्या-
मेकेन सर्वैर्वा” इति । प्रचयश्च आरम्भकसंयोगः,
स च स्वामिमुखकिञ्चिदवयवासंयुक्तत्वे सति स्वाभिसुख-
किञ्चिदवयवसंयोगलक्षणः, सचावयवसंयोगः स्वावयव-
प्रशिथिलसयोगापेक्षः परिमाणजनकः “गुणकर्म्मारम्भे
पृष्ठ ४२५१
सापेक्ष” इति वचनात् उ० वृ० । “अतो विपरीतमणु” क० सू०
“महत्त्वदीर्घत्वे व्युत्पाद्याणुत्वं व्युत्पादयति । अतः
प्रव्यक्षसिद्धान्महतः परिमाणाद्यद्विपरीतं तदणु परिमा
णमित्यर्थः । वैपरीत्यञ्चाप्रत्यक्षत्वात् कारणवैपरीत्याच्च,
महत्त्वे हि महत्त्वबहुत्वप्रचयानां कारणत्वम्, एतेन
दीर्घत्वबियरीतं ह्रस्वत्वमित्यपि द्रष्टन्यम्, वैपरीत्यञ्चात्रापि
पूर्वयत्” उ० वृ० “इदानीं कुवलासकादावणुत्वव्यवहारो-
भाक्त इति दर्शयति । “अणु महदिति तस्मिन् विशेष-
भावात् विशेषाभाबाच्च” क० सू० “इतिशब्दो व्यवहारपरतां
दर्शयति, तेन विल्वापेक्षया कुवलमणु, कुबलाग्रेक्षयामलकं
महत्, आमलकापेक्षया विल्वं महदिति तावद्व्यावहारी-
ऽस्ति, तत्र महदिति तेषु व्यवहारो मुख्यः, कुत एवमत
आह विशेषभावात् महत्त्वविशेषस्यैव तरतमादिभावेन
भावात् । अणुव्यवहारस्तु तेषु भाक्तः, कुत एवमत आह
विशेषाभावात् अणुत्वविशेषस्य तत्राभावात्, अणुत्यं हि
कार्य्यं द्व्यणुकमात्रवृत्ति, नित्यं परमाणुवृत्ति, कुवलादौ
तदभावात् । यद्वा विशेषस्य महत्वकारणस्यैवावयवबहु-
त्वमहत्त्वप्रचयानां कुवलाद्यवयवेषु भावात् सद्भावात् ।
विशेषाभावात् विशेषस्य अणुत्वकारणस्य महत्त्वासमाना-
धिकरणद्वित्वस्य कुवलाद्यवयवेष्वभावादसद्भावादित्यर्थः”
उप० वृ० । “अणुत्वव्यवहारो भाक्त इत्यत्र हेतुमाह ।
“एककालत्वात्” कणा० सू० “महत्त्वमणुत्वञ्च द्वयमप्येक-
णिन् कालेऽनुभूयते, ते च महत्त्वाणुत्वे परस्परविरो-
धिनी नैकत्राश्रये सह सम्भवतः, अतो महत्त्वकार-
णसद्भावान्महत्त्वप्रत्ययस्तत्र मुख्यीऽणुत्वप्रत्ययप्रयोगौ च
भाक्तावित्यर्थः” उप० वृ० “महत्त्वप्रत्ययस्य मुख्यत्वे
हेतुमाह “दृष्टान्ताच्च” कणा० सू० “दृश्यते था वस्तु-
गत्या महत्स्वेव कुवलामलकविल्वेषु स्थूलस्थूलतर-
स्थूलतमव्यवहारेण भवितव्यमित्यर्थः यथा वस्तुगत्या
शुक्लेष्वेव पटशङ्खस्फटिकादिषु शुक्लशुक्लतरशुक्लतमव्यव-
हारः” उप० वृ० । नन्वणु महत्परिमाणमितिव्यवहार-
बलान्महत्त्वेऽपि परिमाणे महत्त्वमणुत्वेऽप्यणुत्वम-
स्तीति ज्ञायते तत् कथं द्रव्यमात्रवृत्तित्वमनयोः कथं
वा गुणे गुणवृत्तित्वविरोधा नापद्यत इत्यत आह ।
“अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः”
कणा० सू० । “यथा गुणकर्मणी नाणुत्वमहत्त्ववती
तथाऽणुत्वमहत्त्वे अपि नाणुत्वमहत्त्ववती इत्यर्थः
प्रयोगश्च भाक्तो द्रष्टव्यः” उप० वृ० । “ननु यथा गुणा
गुणवन्तः कथमन्यथा महान् शब्दः द्वौ शब्दौ एच्चः
शब्दः चतुर्सिंशतिर्गुणा इत्यादिव्यवहारः, कर्माण्यपि
च कर्मवन्ति प्रतीयन्ते कथमन्यथा शीघ्रं गच्छति द्रुतं
गच्छतीति व्यवहारः तथाचाणुत्वमहत्त्वे अपि तद्वनी
स्यातामित्यत आह । “कर्मभिः कर्माणि गुणैश्च गुणा
व्याख्याताः” कणा० सू० । “कर्मभिः कर्माणि न तद्बन्ति
गुणैश्च गुणा न तद्वन्तस्तश्राऽणुत्वमहत्त्वे अपि न तद्वती
व्यवहारस्तु सर्वत्र भाक्त इत्यर्थः” उप० वृ० । ननु
महान्ति कर्माणि अणूनि कर्माणि महान्तो गुणाः
अणवो गुणा इत्यादिव्यवहारादणुत्वमहत्त्ववन्ति
कर्माणि तदुमयवन्तश्च गुणाः प्रसक्ता इत्यत आह ।
“अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः” कणा०
सू० । “यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तथा न
कर्माणि तदुभयवन्ति न वा गुणास्तदुभयवन्त इत्यर्थः,
प्रयोगस्तु पूर्ववद्भाक्त इति भावः” उप० वृ० । “अणु-
त्वमहत्त्वप्रक्रियां दीर्घत्वह्रस्वत्वयोरतिदिशति । “एतेन
दोर्घत्वह्रस्वत्वे व्याख्याते” क० सू० । “ह्रस्वत्वदीर्थत्वे
अपि न ह्रस्वत्वदीर्घत्ववती महोत्त्वोत्पादकमेव ह्रस्वत्वी-
त्पादकम्, कारणैक्यात् कथं कायेभेद इति चेन्न प्राग-
भावभेदेन पाकजवदुपपत्तेः यत्रैव महत्त्वं तत्र दीर्घत्वं
यत्राणुत्वं तत्र ह्रस्वत्वं यत्र नित्यमणुत्वं तत्र नित्यं
ह्रस्वत्वमित्याद्यतिदेशार्थः” उप० वृ० । “इदानीं विना-
शकमाह “अनित्येऽनित्यम्” क० सू० “एतच्चतुर्विधमपि
परिमाणं विनाशिनि द्रव्ये वर्त्तमानमाश्रयनाशादेव
नश्यति न तु विरोधिगुणान्तरात् । घटे सत्यपि तत्परि-
माणं विनश्यति कथमन्यथा कम्बुभङ्गेऽपि स एवायं घट
इति प्रत्यभिज्ञेति चेन्न आश्रयनाशेन तत्र धटनाशा-
वश्यकत्वात् न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुके
नष्टे तदाश्रितस्य त्रसरेणीस्तदाश्रितस्य चूर्णशर्करादेरवि-
नाश इति युक्तिरभ्युपगमो वा, कथं तर्हि प्रत्यभिज्ञेति
सैवेयं दीपकलिकेति प्रत्यभिज्ञामवद्भ्रान्तित्वात् । प्रदी-
पप्रत्यभिज्ञाऽपि प्रमैव ह्रस्वत्वदीर्थत्वे परमुत्पादविनाश-
शालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुग्रप-
त्तेरुक्तत्वात्” उप० वृ० । “नित्ये नित्यम्” कणा० सू० ।
“तत् किं पार्थिवपरमाणुरूपादिवत् परमाणुगतम-
णुत्वं शब्दबुद्ध्यादिवदाकाशादिगतं महत्त्वमपि नश्य-
तीत्यत आह । नित्येष्वाकाशादिषु परमाणुषु च
यत् परिमाणं तन्नित्यं विनाशकाभावात्” उप० वृ० ।
पृष्ठ ४२५२
परमाणुपरिमाणस्य वैशेषिकसिद्धां संज्ञामाह “नित्यं
परिमण्डलम्” कणा० सू० परिमण्डलमेव परिमाण्डल्यम्
(स्वार्थे ष्यज्) उप० वृ० ।
“परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः”
सि० मुक्ता० “अणु दीर्थं महद्ध्रस्वमिति तद्भेद ईरितः ।
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् । संख्यातः
परिमाणाच्च प्रचयादपि जायते । अनित्यं द्व्यणुकादौ
तु संख्याजन्यमुदाहृतम् । परिमाणं घटादौ तु
परिमाणजमुच्यते । प्रचयः शिथिलाख्यो यः संयोगस्तेन
जन्यते” भाषा० “तच्चतुर्विधम् अणु महद् दीर्घं ह्रस्वञ्च ।
तत्परिमाणम् । नित्यमित्यत्र परिमाणमित्यनुषज्यते ।
जायत इत्यत्रापि परिमाणमित्यनुवर्त्तते । अनित्यमिति
पूर्वेणान्वितम् । तथा चानित्यं परिमाणं सङ्ख्याजन्यं
परिमाणजन्यं प्रचयजन्यं चेत्यर्थः । तत्र सङ्ख्याजन्य-
मुदाहरति । द्व्यणुकादाविति । द्व्यणुकस्य त्रसरेणोश्च
परिमाणं प्रति परमाणुपरिमाणं द्व्यणुकादिपरिमाणं
वा न कारणम् परिमाणस्य स्वसमानजातीयोत्कृष्ट-
परिमाणजनकत्वात् । द्व्यणुकादिपरिमाणन्तु परमा-
णुत्वापेक्षया नोत्कृष्टम् । त्रसरेणुपरिमाणन्तु
न सजातीयम् । अतः परमाणौ द्वित्वसङ्ख्या द्व्यणुक-
परिमाणस्य द्व्यणुके, त्रित्वसङ्ख्या च त्रसरेणुपरिमाण
स्यासमवायिकारणमित्यर्थः । परिमाणजन्यमुदाहरति ।
परिमाणं घटादाविति । परिमाणजं कपालादिपरि-
माणजन्यम् । प्रचयजन्यमुदाहर्तुं प्रचयं निर्वक्ति
प्रचय इति” सि० मुक्ता० “परिमाणं तूलकादौ नाशस्त्वा-
श्रवनाशतः” भाषा० “नाश इति अर्थात् परिमाणस्य ।
न चावयवनाशः कथं परिमाणनाशकः सत्यप्यवयविनि
त्रिचतुरपरमाणुविश्लेषे तदुपचये चावयविनः प्रत्यभि-
ज्ञानेऽपि परिमाणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाच्यम्
परमाणुविश्लेषे द्व्यणुकस्य नाशोऽवश्यमम्युपेयस्तन्नाशे
च त्रसरेणुनाशः एवं क्रमेण महावयविनो
नाशस्यावकाशत्वात् सति च नाशकेऽनभ्युपगममात्रेण
नाशस्यापवदितुमशक्यत्वात् । शरीरादाववयवापचयेऽसम-
वायिकारणनाशस्यावस्यकत्वादवयविनाश आवश्यकः ।
न च पदाविनाशेऽपि तत्त्वन्तरसंयोगात् परिमाणाधिक्यं
स्यादिति वाच्यम् तत्रापि वेमाद्यमिघातेन समवायि-
कारणतन्तुसंयोगनाशात् पटनाशस्यावश्यकत्वात् । किञ्च
तस्त्वन्तरस्य तत्पटावयवत्वे पूर्वं तत्पद एव न स्यात् तत्त-
न्तुरूपकारणाभावात् तत्तन्तोरवयवत्वाभाबे च न तेन
परिमाणाधिक्यं संयुक्तद्रव्यान्तरवत् । तणात् तत्र तन्त्व-
न्तरसंयोगे सति पूर्वपटनाशस्ततः पटान्तरोत्पत्तिरित्यवश्यं
स्वीकार्य्यम् । अबयविनः प्रत्यभिज्ञानन्तु साजात्येन
दीपकलिकादिवत् । न च पूर्वतन्तव एव तन्त्वन्तरसह-
कारात् पूर्वपटे सत्येव पटान्तरमारभन्तामिति वाच्यम्
मूर्त्तयोः समानदेशताविरोधात् । एकदा नानाद्रव्यस्य
तवानुपलम्भवाधितत्वाच्च पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशे
द्रव्यन्तारोत्पत्तिरित्यवश्यमभ्युपेयत्वात्” सि० मुक्ता० ।
वेदान्तिमते अणुमहदित्येव परिमाणद्वैबिध्यम् ।
तच्च आरम्भवादशब्दे दर्शितम् । एवं सांख्यमतेऽपि
परिमाणद्वैविध्यम् । “न परिमाणचातुर्विध्यं द्वाभ्यां
तद्योगात्” सा० सू० ।

परिमार्जन न० परि + मृज--भावे ल्युट् वृद्धिः । १ जलगोम-

यादिना भूम्यादेः शोधने मधुमस्तकरूपे २ भक्ष्यद्रव्यभेदे च
“मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्चये । मधुमस्तकमुदिष्टं
तस्याख्या परिमाजंनम्” शब्दच० ।

परिमित त्रि० परि + मा--क्त । १ कृतपरिमाणे २ यधार्ह-

परिमाणे च त्रिका० ।

परिमिति स्त्री परि + मा--क्तिन् । परिमाणे भाषापरिच्छेदः

परिमुख अव्य० मुखस्य वर्जनम् अव्ययी० पूर्वनि० । समुस्त्रवर्जने

“परिमुखञ्च” पा० तत्र वर्त्तते ठक् । पारिमुखिक सेवके
परिमुखं भवम् “अव्ययीभावाच्च” पा० षरिमुखादिभ्य
एवेष्यते इत्युक्तेः ञ्य । पारिमुख्य तत्र भवे त्रि० ।

परिमुखादि ञ्यप्रत्ययनिमित्ते शब्दगणे स च गणः

“परिमुख परिहनु पर्य्योष्ट पर्य्युलूखल परिसीर
उपसीर उपाहूण उपकलाप अनुपथ अनुपद अनुगङ्ग
अनुतिल अनुशीत अनुसाय अनुसीर अनुमाष अनुयव
अनुयूप अनुवंश प्रतिशाख” ।

परिमोक्ष पु० परितो मोक्षः । १ सम्यग्मुक्तौ ३ निर्वाणमोक्षे

माग० २ । ६१० श्लोके श्रीधरः । २ मोचने च

परिमोषिन् त्रि० परि + मुष--ताच्छील्ये इनि । परिमोषण-

शीले चौरे स्त्रियां ङीप् ।

परियज्ञ पु० परित उमयती विहिती यज्ञोऽस्य । उभयतो

विहितयज्ञे वृहस्पतिसवादौ कात्या० १ ४ । १९ । संग्र०

परि(री)योग पु० परि + युज--भावे घञ् वा दीर्घः । परितोयोगे

परिरथ्या स्त्री परितो रथ्या । चतुष्पथादौ

परि(री)रम्भ पु० परि + रभ--घञ् मुम् च वा दीर्घः । आलिङ्गने ।

पृष्ठ ४२५३

परिराटक त्रि० परि + रढ--ताच्छील्ये बुञ् । समन्ताद्-

रटनशीले ।

परिराटिन् त्रि० परि + रट--ताच्छील्ये घिनुण् । समन्ताद् रटनशीले स्त्रियां ङीप् ।

परिल त्रि० परितो लाति ला--क । परितो ग्राहके ततः

शिवा० अपत्ये अण् । पारिल तदपत्ये पुंस्त्री० ।

परिलेख त्रि० परिलिखत्यनेन परि + लिख--करणे घञ् ।

परितो लेखनसाधने द्रव्ये । उपरागशब्दे १३०३ पृ०
दर्शिते पदार्थे च ।

परिलेखन परि + लिख--भावे ल्युट् । यज्ञस्थानेषु परितो रेखादिकरणे ।

परिवत्सर पु० संवत्सरपञ्चकान्तर्गते वत्सरभेदे “शकाव्दात्

पञ्चमिः शेषात् समाद्यादीषुवत्सराः । सम्परीदानुपूर्वाश्च
तथोदापूर्वकामताः” मलमा० त० । “परिपूर्वे तथा दानं
यवानां च द्विजोत्तमा!” विष्णुध० ।

परिवर्जन न० परिवर्ज्यतेऽसुभिरनेन वृज--णिच्--ल्युट् ।

१ मारणे । वृज--भावे ल्थुट् । २ त्यागे अमरः । पतिता-
दीनां शय्यासनादौ परिवर्जनमुक्तं यथा
“एकशय्यासनं पङ्क्तिभाण्डपक्वान्नमिश्रणम् ।
याजनाध्ययने योनिस्तथैव सह भोजनम् । सहाध्यायस्तु
दशमः सहयाजनमेव च । एकादश तमुद्दिष्टा दोषाः
साङ्कर्य्यसंज्ञिताः । समीपे चाप्यवस्थानात् पापं संक्र-
मते नृणाम् । गस्मात् सर्वप्रयत्नेन साङ्कर्य्यं परिव-
र्जयेत्” इति कौर्मे उपरिभागे १५ अ० । देशभेदावर्ज-
नीया यथा “यरियन्देशे न सम्मानी न प्रीतिर्न च
बान्धवाः । न च विद्यागमः कश्चित्तं देशं परिवर्जयेत्”
चाणक्यः । वर्ज्यमनुव्यादयो यथा “ब्राह्मणं वालिशं
जत्रमयोद्धारं विशं जड़म् । शूद्रमक्षरसंयुक्तं दूरतः
परिवर्जयेत् । कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृ-
दम । कुबन्धुञ्च कुदेशञ्च यकतः परिवर्जयेत्” तरुडपु०

परि(री)वर्त्त परि + वृत--मावे घञ् वा दीर्थः । १ विनिमये ।

आधारे घञ् । २ युगान्तकाले हेमच० ३ ग्रन्यविच्छेदे
अध्यायादौ जटा० कर्त्तरि अच् । ४ कूर्म्मराजे । ५ मृत्युपुत्र-
दुःसाध्यपुत्रभेदे मार्कण्डे० पु० ५१ अ० । तन्नामनिरुक्ति-
स्तत्रैव “अन्यगर्भे परान् गर्भान् सदैव परिवर्त्तयन् ।
इतिमाज्ञोति वाक्यञ्च बिवक्षोरन्यदेव हि । परिवर्त्तन
संज्ञीऽयम्” । तस्य सुतौ च विरूपविकृतौ तयोः कर्म च
तत्रोक्तं यथा “परिवर्त्तसुतौ द्वौ तु विरूपविकृतौ
द्विज! । तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ ।
गुर्विण्याः परिवर्त्तं तौ कुरुतः पादपादिषु । क्रौष्टुके
परिवर्तन्त्या गर्भस्यान्योदरात्ततः । न वृक्षं चैव नैवाट्टं
न प्राकारं महोदधिम् । परिखां वा समाक्रामेदवला
गर्भधारिणी” । ६ आवृत्तौ “युगानां परिवर्त्तेन” सू० सि० ।
यत् स्थानमारम्य ग्रहश्चलितः स चेत् पुनस्तत्स्थानमा-
याति तादृशे राशिचक्रस्य ७ परिवर्त्ते च “तेषान्तु परिव-
र्त्तेन पोष्णान्ते भगणः स्मृतः” सू० सि० । परिवर्त्तते परि +
वृत--अच् । ८ परिवृत्तियुक्ते धनादौ ताण्ड्य० माष्यम् ।

परिवर्त्तन न० परि + वृत--भावे ल्युट् । १ विनिमये मेदि० ।

परि + वृत--णिच्--ल्यु । २ दुःसाध्यपुत्रभेदे परिवर्त्तशब्दे
दृश्यम् ।

परिवर्त्तिका स्त्री मेढ्रगतरोगभेदे “मर्दनात् पीड़नाच्चापि

तथैवात्यभिथाततः । मेढ्रचर्म यदा वायुर्भजते सर्वतश्च-
रन् । तदा वातोपसृष्टन्तु चर्म प्रतिनिवर्त्तते ।
मणेरधस्तात् कोषश्च ग्रन्थिरूपेण लम्बते । सवेदनं सदाहञ्च
पाकञ्च व्रजति क्वचित् । मारुतागन्तुसम्भूतां विद्यान्तां
परिवर्त्तिकाम् । सकण्डूः कठिना चैव तथाश्लेष्मससु-
त्थिता” सुश्रु० ।

परिवर्त्तिन् स्त्री परि + वृत णिनि । १ पुनः पुनरावृत्ति-

युक्ते स्त्रियां ङीप् । सा च त्रिवृत्स्तोमस्य २ विष्टुतौ ।
“तिसृभ्यो हिङ्करोति स पराचीभिः” (एवं त्रिरुक्त्वा)
“परिवर्त्तिनी त्रिवृत्विष्ठुतिः” ताण्ड्यब्रा० २ । २ । १ । “परि-
वर्त्तिनी आवर्त्तिनी” मा० ।

परिवर्ह पु० परि + वर्ह घञ् । १ परिच्छदे राजचिह्नचामरसितच्छत्रादौ अमरः ।

परिवसथ पु० परि + वस--आथारे अथच् । ग्रामे हेमच० ।

परिवह पु० परि + वह--अच् । सप्तवायुमध्यपातिनि वायुभेदे

अनिलशब्दे दृश्यम् ।

परि(री)वाद पु० परि + वद--घञ् वा दीर्घः । १ अपवादे

“गुरोर्यत्र परीवादः” इति मनुः । करणे घञ् । २ वीणा-
वादनसाधने च मेदि० ।

परिवादिन् त्रि० परि + वद--“संपृचेत्यादि” पा० ताच्छील्ये

घिनुण् । १ परिवदनशीले स्त्रियां ङीप् सा च २ सप्त-
तन्त्रीयुते वीणाभेदे अमरः ।

परि(री)वाप पु० परि + वष--घञ् वा दीर्घः । ३ वपने ।

वपणिच्--घञ् । २ मुण्डने ३ जलस्थाने ४ परिच्छदे च । ततः
चतुरर्थ्यां कुमुदा० ष्ठक् । पारिवापिक तस्यादूरदेशादौ
त्रि० । रित्रयां षित्त्वात् ङीष् । प्रेक्ष्यादि० तदर्थे इनि ।
षरिवापिन् तस्यादूरदेशादौ त्रि० स्त्रियां ङीप् । ल्युट् ।
परिवापणमप्यत्र ।
पृष्ठ ४२५४

परिवापित त्रि० परिवापे नियुक्तः । परिवापने नियोजिते

अमरः । परि + वप--णिच्--क्त । ३ मुण्डिते त्रि० ।

परि(री)वार पु० परिव्रियतेऽसौ अनेन वा परि + वृ--घञ् वा

दीर्घः । १ परिजने कुटुम्बादौ रघुः ६ । १०२ खड्गकोषे
(णाप) मेदि० भावे घञ् । परिवरणे च ।

परिवासन न० परिवास्यतेऽनेन । यज्ञियवेदाच्छादनुकुलविशेषे

“शुल्वात् प्रादेशे परिवास्य वेदपरिवासनानि निदधाति”
आपस्तम्बसूत्रम् । तानि च वेदाग्राणि कार्य्याणीति
चूर्त्त स्वामी ।

परि(री)वाह पु० परि + वह--घञ् वा दीर्घः । जलोच्छ्वामे

अमरः । परितः समन्ताज्जसानामुच्छ्वलनात् पात्रवर्ज-
नेन वा वहनात्तथात्वम् रघुः ८ । ७३ उदा०

परिवित्त पु० परि + विद--क्त न दस्य नः । अकृतदारा-

ग्न्याधाने पूर्वं कृतविवाहाग्न्याधानस्य कनिष्ठस्य ज्येष्ठे
भ्रातरि बजु० ३० । ९

परिवित्ति पु० परि + विद--क्तिच् । अकृतविवाहाग्न्याधाने

पूर्वं कृतविषाहाग्न्याधानस्य कनिष्ठस्य ज्येष्ठे भ्रातरि
परिबेत्तृशब्दे दृश्यम् ।

परिविद्ध त्रि० परि + ल्यध--क्त । १ परितो विद्धे २ कुवेरे पु० हेमच० ।

परिविन्दत् पु० धरित्यज्य भ्रतिक्रम्य ज्येसं विन्दति भार्य्याम-

ग्न्याधानं वा विद--लाभे शतृ । अकृतदाराग्न्याधानस्य
ज्येष्ठस्य पूर्वं कृतदाराग्न्याधाने कनिष्ठे भ्रातरि अत्र
परिवेदने दोषः परिवेत्तृशब्दे हारीतोक्तौ दृश्यः । तत्र
प्रतिप्रसवादिकं उद्वा० निणीतं यथा
छन्दोमपरिशिष्टम् “देशान्तरस्यक्लीवैकवृषणानस-
होदरान् । वेश्याभिषक्तपतितशूद्रतुल्यातिरीगिणः ।
जड़मूकान्धबधिरकुब्जकुण्ठकवामनान् । अतिवृद्भाव-
भार्य्यांश्च लषिसक्तान् नृषस्य च । धनवृद्धिप्रमक्तांश्च
कामतः करिणस्तथा। कुलटोन्मत्तचौरांश्च परिविन्दन्न
दुष्यति । धनवार्युषिकं राज कर्षकं तथा प्रो-
षितञ्च प्रतीक्षेत वर्षत्रयमपि त्वरन् । प्रोथितं तद्य-
शृण्वानमद्दादतिसमाचरेत्” । जड़ो बिकलान्वाकरणः
हिताहितावधारणाक्षम इति यास दिति सिताक्षरा ।
कुण्ठः सर्वक्रियालसः “कुण्डो अन्दः क्रियासु यः” इत्य-
मरोक्तेः अभार्य्यान् शास्त्रनिविद्धभार्य्यासम्बन्यान् नैष्ठिक-
ब्रह्मचारिवानप्रस्थभिक्षुरूपान् । नृपस्य चेति चकारेण
सक्तानित्यसुकृष्यते । कामतः कारिणः श्रौतस्मार्त्त-
निरपेक्षखच्छन्दव्यवहारिणः । कुलटः कुलान्यटतीति
परकुलाटनशील इति नारावणमहामहोपाध्यायाः
तैषामयमाशवः कुलं परकुलम् अटति नच्छति व्राप्नोति यो
दतकः स कुलटः इति । चौरानित्यन पौरानिति पाठे
पुरजनप्रैष्यान् । धनबार्धुषिकादित्रयं देशान्तरस्थितञ्च
ज्येष्ठं त्वरन्नपि तर्षत्रयं प्रतीक्षेत । ततश्च पूर्ववचने एतान्
परिविन्दन्न दुष्यति इत्युक्तम् अत्र परेर्लक्षणार्थत्वाद्द्वि-
तीया । तत्र देशान्तरस्थकृषिसक्तनृपसक्तधनवृधिप्रसक्तान्
प्रति वर्षत्रयादूर्द्ध्वमिति बोद्धव्यम् । अत्रापि पोषिते यत्
त्र्यव्दप्रतीक्षणं तद्विद्याधर्मधनेतरार्थप्रोषितपरं वक्ष्य-
माणवशिष्ठगोतमवचनात् अशृण्वानं प्रत्ययव्यत्ययेन
अश्रूयमाणमिति परिशिष्टप्रकाशकारः । अशृण्वन् स इति
पाठस्तु रत्नाकरे प्रोषितस्य कल्याणवार्त्तामशृण्वन् वर्षैं
प्रतीक्ष्य परिणयनं करोति । तत्र समागते ज्येष्ठे कनिष्ठः
परिबेदनशुद्धये परिवेदनप्रायश्चित्तस्य कृच्छ्रपादं चरेत्
एवमन्यत्रापि प्रायश्चित्तसङ्कलनाऽम्बेष्या । वज्ञिष्ठः “अष्टौ
दश द्वादश वर्षाणि ज्येष्ठं भ्रातरमनिर्विष्टमप्रताक्षमाणः
प्रायश्चित्ती भवतीति तत्र श्लोकौ “द्वादशैव तु वर्षाणि
ज्यायान् धर्मार्थयोर्गतः । न्याय्यः प्रतीक्षितुं भ्राता
श्रूयमाणः पुनःपुनः । उन्मत्तः किल्वषी कुष्ठी पतितः
क्लीव एव वा । राजयक्ष्यामयावो च न न्यान्यः स्यात्
प्रतीक्षितुम्” । गोतमश्च “द्वादश वर्षाणि प्रतीक्षणं
ब्राह्मणस्य विद्यासम्बन्धे भ्रातरि चैवं ज्यायसि यवीतान्
कन्याग्न्युपयमेषु षड़ित्येके इति विद्यार्थं प्रोषितस्य
ब्राह्मणस्य दारा अपत्योत्पादनार्थं तदभिगमने द्वादश-
वर्षाणि प्रतीक्षेरन्नित्युक्त्वा । भ्रातरि चैवमित्यमेन सर्वमति-
दिष्टम् एतेनैतदवसीयते विद्याधवधर्मार्थं नतानां ब्रा-
ह्मणक्षत्रियवैश्यशूद्राणां क्रमशो दादशदशाष्टषड्वर्षाणां
प्रतीक्षणमिति प्रायश्चित्तविवेकः । रत्नाकरकद्भिणु श्रूय-
माणेऽभिमुखगमनं प्रव्रजिते गमनस्य निवृत्तिप्रसङ्गादि
त्यधिकं गौतमीयं विलिख्य प्रोषिते भ्रातरि ज्येष्ठे
विवाहाग्न्याधाने तं कारयितुमभिमुखगमनं यवीयसा
कर्त्तव्यं कृतसन्न्यासे च ततो निवृत्तिरिति व्याख्यातम् ।
शानागपः “क्लीवे देशान्वरगते पतिते मिक्षुकेऽपि वा” ।
योगशास्त्राभियुक्ते विषयात्यन्तविरक्ते इति रत्नाकरः ।
अत एव दक्षः “दृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमा-
त्मनि । एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते” ।
तेन विषयानासक्तमनसा जीवपरमात्रनोरभेदचिन्तन-
विशेषी योम इति । छन्दोगपरिशिष्टम् “नाम्बवः परि-
पृष्ठ ४२५५
विन्दन्ति न यज्ञा न तपांसि च । न च श्राद्धं कनिष्ठस्य
या च कन्या विरूपिका” । “विकला या च कन्यकेति”
पाठः शातातपीये । नाग्नयः परिविन्दन्तीति ज्येष्ठा-
ननुमत्या यथाह उशनाः “ज्येष्ठभ्राता यदा तिष्ठेदाधानं
नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शङ्गस्य वचनं यथा” ।
वशिष्ठः “अग्रजोऽस्य यदानग्निरधिकार्य्यनुजः कथम् ।
अग्रजानुमतः कुर्य्यादग्निहोत्रं यथाविधि” । एतेन
विवाहस्त्वनुमत्यापि दोषायेति प्रायश्चित्तविवेकः” ।

परिविन्न पु० परि + विद--क्त तस्य दस्य च नः । नकारेण

व्यवहारात् न णत्वम् मूर्द्धन्यपाठः प्रामादिकः “कृत्यचः”
पा० अचः परत्वाभावात् नकारेण व्यवधामाच्च अप्राप्ते
निर्विणस्योपसंख्यानात् णत्वम् । विषण्णस्य तु उपसर्ग-
स्थनिमित्तत्वाभावात् नास्य प्रवृत्तिः । पूर्वं कृतविवाहा-
ग्न्याधानस्य कनिष्ठस्य ज्येष्ठे भ्रातरि परिवेत्तृशब्दे
दृश्यम् । २ तादृशस्त्रियां स्त्री परिवेदनदोषकमत्वात्
तयोः परिवेदनकर्मत्वम् ।

परिविष्टि स्त्री परि + विश० विष--वा क्तिच् । १ परिचर्य्यायां

२ व्याप्त्वौ च ऋ० ४ । ३३ । ३ भा० ।

परिवी स्त्री परि + व्ये--क्विप् संप्रसारणे दीर्घः । १ परिवारिते

२ परितः स्यूते च यजु० ६ । ४

परिवीत त्रि० परि + व्येञ्--क्त सम्प्र० दीर्घः । परिवेष्टिमे

ऋ० १०५ । ४१

परिवृंहण न० परि + वृन्ह--णिच्--ल्यु । बहुलीकरणे मनुः १२ । १०९

परिवृंहित त्रि० परितो वृंहितम् । १ सर्वतोभावेन वर्ङ्गिते

२ वहुलीकृते च । भावेक्त । ३ करिध्वनिभेदे न० ।

परिवृक्ण त्रि० परि + व्रश्च--क्त । १ छिन्ने २ छिन्नहस्तपादे च छा० उ०

परिवृक्त त्रि० परि + वृज--क्त । परित्यक्ते ऋ० १० १०२ भा०

परिवृढ त्रि० परि + वृन्ह--क्त नि० । १ अधिपे प्रभौ । ततः भावे

दृढा० इमनिच् ऋतोरः । परिव्रढिमन् आधिपत्ये पु०
पक्षे ष्यञ् । पारिवार्ढ्य तदर्थे न० ।

परिवृत त्रि० परितो वृतः । परितो वेष्टिते “सभ्यैः परिवृ-

तोऽन्वहम्” कात्या० स्मृतिः ।

परिवृत्त त्रि० परि + वृत--क्त । परितोवृत्ते । ततः चतुरर्थ्यां

कुमुदा० कृश्यादि०च क । परिवृत्तक तददूरदेशादौ त्रि०

परिवृत्ति स्त्री परि + वृत--क्तिन् । १ परिवर्त्ते २ अर्थालङ्कार

भेदे अर्थालङ्कारशब्दे ३८८ पृ० दृश्यम् ।

परिवृत्तिसह त्रि० परिवृत्तिं परावृत्तिंसहते सह--अच् ।

यौगिके शब्दभेदे स च पूर्वोत्तरपदयोः परावृत्त्यायोग-
लभ्यार्थं बोधयतीति तस्य तथात्वम् । तत्र केचित् पूर्वपद-
परावृत्त्यायोगलभ्यार्थबोधकाः केचिदुत्तरपदपरावृत्तत्त्या ।
केचित्तु नोभयिपदपरावृत्तिसहा यथाह हेमच०
“स्वस्वामित्वादिसम्बन्धं तत्राहुर्न्नामतद्वताम् । स्वात्
पालधनभुग्नेतृपतिमत्वर्थकादयः । भूपालो भूधनो
भूभुग्भूनेता भूपतिस्तथा । भूमांश्चेतिकवेरूद्याज्ञेयोदाहर-
णावली । जन्यात् कृत्कर्तृसृट्स्रष्टृविधातृकरसूसमाः ।
जनकाद्योनिजरुहजन्मभूसूत्यणादयः । धार्य्याद्ध्वजा-
स्त्रपाण्यङ्कमौलिभूषणभृन्निभाः । शालिशेखरमत्वर्थ-
भागिभर्तृधरा अपि । भोज्याद्भुगन्धोव्रतलिट्पायि-
प्राशाशनादयः । पत्युःकान्तप्रियतमाबधूप्रणयिनी-
निभाः । कलत्राद्वररमणप्रणयीशप्रियादयः । सख्युः
सखिसमा बाह्याद्गामियानासनादयः । जनेः
खसृदुहित्रात्मजाग्रजावरजादयः । आश्रयात्सद्मपर्यायश-
यबासिसदादयः । बध्याद्भिद्द्वेषिजिद्घातिध्रुग्रिपुध्वंसि-
शासनाः । अप्यन्तकारिदमनदर्पच्छिन्मथनादयः ।
विवक्षितो हि सम्बन्ध एकतोऽपि पदात्ततः । प्राक्प्रद-
र्शितसम्बन्धिशब्दा योज्या यथोचितम् । दृश्यते खलु
वाह्यत्वे वृषस्य वृषवा हनः । स्वत्वे पुनर्वृषपतिर्द्धार्य्यत्वे
वृषलाञ्छनः । अंशोर्द्धाय्यत्वेऽंशुमाली स्वत्वेऽंशुपति-
रंशुमान् । बध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुग-
पि । चिह्नैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः ।
तथा ह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते । अयुग्विषम-
शब्दौ त्रिपञ्चसप्तादिवाचकौ । त्रिनेत्रपञ्चेषुसप्तपला-
शादिषु योजयेत् । गुणशब्दो विरोध्यर्वं नञादिरितरो-
त्तरः । अभिधत्ते यथाकृष्णः स्यादसितः सितेतरः ।
वार्द्ध्यादिषु पदे पूर्वे वाड़वाग्न्यादिषूत्तरे । द्वयेऽपि
भूभृदाद्येषु पर्य्यायपरिवर्त्तनम् । एवं परावृत्तिसहायोगाः
स्युरिति यौगिकाः । मिश्राः पुनः परावृत्त्यसहागी-
र्वाणसन्निभाः” ।

परिवेत्तृ पु० परि + विद--तृच् । अकृतदाराग्न्याधानस्य ज्ये-

ष्ठस्य पूर्वं कृतदाराग्न्याधाने कनिष्ठे “ज्येष्ठे अनिर्विष्टे
कनीयान् निर्विशम् परिबेत्ता भवति परिविन्नो ज्येष्ठः
परिवेदनीया कन्या परिदायी दाता परिकर्त्ता याजकः
ते सर्वे पतिताः” उद्वा० त० हारीतः ।

परिवेदन न० परि + विद--लाभे स्थुट् । अदृतदाराग्न्या-

धाने ज्येष्ठे कनिष्ठस्य पूर्वं १ विवात्ते २ श्रग्न्याधाने च
परिवेचृशब्दे दृश्यम् । विद--ज्ञाने विद--सत्तायां भावे
ल्युट् । ३ सर्वतो ज्ञाने ४ सर्वतो वृत्तौ सर्वत्र स्थितौ च ।
पृष्ठ ४२५६

परिवेदनीया स्त्री पंरि + विद कर्मणि अनीयर् । परिवेत्तु-

र्भार्य्यायां परिवेत्तृशब्दे दृश्यम् ।

परिवेदिनी स्त्री परियेदः अस्त्यस्याम् इनि ङीप् ।

परिवेत्तुर्भार्य्यायां परिवेदनीयायां स्त्रियाम् हेमच० ।

परिवेश(ष) पु० परि + विश--(ष--)घञ् । १ परिधौ २ वेष्टने

सूर्य्यचन्द्रमण्डलयोर्वेष्टनाकारे ३ उपसूर्य्यकमण्डले तल्ल-
क्षणादिकेवृ० सं० उक्तं यथा
“सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः । ते रक्त-
नीलपाण्डुरकापोताभ्राभशबलहरिशुक्लाः । इन्द्रय-
मवरुणनिरृतिश्वसनधनेशपितामहाग्निकृताः । धनदः
करोति मेचकमन्योऽन्यगुणाश्रयेण चाप्यन्यः । प्रवि-
लीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः ।
चाषशिखिरजततैलक्षीरजलाभः स्वकालतम्भूतः । अविक-
लवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ।
सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः ।
असकलशकटशरासनशृङ्गाटकवत् स्थितः पापः । शिखि-
गलसमेऽतिवर्षं बहुवर्णे नृपबधो, भयं धूम्रे ।
हरिचापनिभे युद्धान्यशोककसुमप्रभे चापि । वर्णेलैकेन यदा
बहुलः स्निग्धः शुराभ्रकाकीर्णः । खर्तौ सद्योवर्षं
करीति पीतश्च दीप्तार्कः । दीप्तविहङ्गमृगरुतः कलुषः
सन्ध्यात्रयोत्थितोऽतिमहान् । भयकृत्तड़िदुल्काद्यैर्हतो
नृपं हन्ति शस्त्रेण । प्रतिदिनमर्कहिमांश्वोरहर्निश
रक्तयोर्नरेन्द्रबधः । परिविष्टयोरभीक्ष्मं लग्नास्तनभः,
स्थयोस्तद्वत् । सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्र-
कोपकरः । त्रिप्रभृति शस्तकोपं युवराजभयं नगर
रोधम् । वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभ-
निरोधे । होराजन्माधिपयोर्जन्मर्क्षे वाशुभो राज्ञः ।
परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः ।
जनयति च वातवृष्टिं स्थावरक्वषिकृन्निहन्ता च । भौमे
कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् । जीवे
परिवेषगते पुरोहितामात्यनृपपीड़ा । मन्त्रिस्थावर-
लेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च । शुक्रे यायिक्षत्रिय-
राज्ञां पीड़ाऽप्रियं चान्नम् । क्षुदनलमृत्युनराधिप-
शस्त्रेम्यी जायते भयं केतौ । परिविष्टे गर्भभयं
राहौ व्याधिर्नृपभयं च । युद्धानि विजानीयात्
परिवेषाभ्यन्वरे द्वयोर्ग्र हेयोः । दिवसकृतः शशिनो वा
क्षुदवृष्टिभयं त्रिषु प्रोक्तम् । याति षतुर्षुनरेन्द्रः
सामात्यपुरोहितो वशं मृत्योः । प्रलयमिव विद्गि जगतः
पञ्चादिषु मण्डलस्थेषु । ताराग्रहस्य कुर्य्यात् पृथगेव
समुत्थितो नरेन्द्रवधम् । नक्षत्राणामथ वा यदि केतोर्नो-
दयो भवति । विप्रक्षत्रियबिट्छूद्रहा भवेत् प्रतिपदादिषु
क्रमशः । श्रेणीपुरकोशानां पजम्यादिष्वशुभकारी ।
युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः ।
पुररोधो द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम् । नरपतिपत्नी-
पोड़ां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् । कुर्य्यात् तु पञ्च-
दश्यां पीड़ां मनुजाधिपम्यैव । नागरकाणामभ्यन्तर-
स्थिता यायिनां च बाह्यस्था । परियेषमध्यरेखा
विज्ञेयाक्रन्दसाराणाम् । रक्तः श्यामो रूक्षश्च भवति
येषां पराजयस्तेषाम् । स्निग्धः श्वेतो द्युतिमान् येषां
भागो जयस्तेषाम् ।”

परिवेषण न० परि + विष ल्युट् । १ परितो वेष्टने णिच्-

ल्युट् । २ भोजनार्द्यं परितो भक्ष्यादेरर्पणे य । तत्र
श्राद्धे परिवेषणप्रकारादि श्रा० त० उक्तं यथा
मनुः “पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्द्धितम् ।
विप्रान्तिके पितॄन्ध्यायन् शनकैरुपनिःक्षिशेत्” । अन्नस्येत्रि
चष्ठी तृतीयार्थे वर्द्धितं पूरियं पात्रमिति शेषः ।
उपनिःक्षिपेत् परिवेषणार्थं समीपे धारयेत् तत्रा च
पाकस्थाल्या आकृष्य प्रथमं भोजनपात्रे न देयं किन्तु
स्याल्यादिकं पाणिभ्यां पात्रसमीपे भूमौ संस्थाप्य
बसादुभाभ्यां पाणिभ्यां पात्रान्तरिताभ्यां आद्धे परिवेषणं
कुर्य्यात् । “उभाभ्यामपि पाणिभ्यामाहृत्य परिवेषयेत्”
इति मत्स्यपुराणात् । यत्तु श्राद्धे परिवेषणञ्च दक्षिण-
पाणिमात्रेणैवान्यानभिधानादिति मैथिलोक्तं तन्न
“एकेन पाणिना दत्तं शूद्दत्तं न भक्षयेत्” इत्यादि-
पुराणीयेनैकपाणिदत्तशूद्रदत्तभक्षणनिषेधेन तन्मात्र-
परिवेषणस्यापि निषिद्धत्वात् । पाणिभ्यामपि पात्रान्त-
रितं कृत्वा देयम् । “हस्तदत्ताश्च ये स्नेहा लवणं
व्यञ्जनानि च । दातारं नोपतिष्ठन्ते मोक्ता भुङ्क्ते
तु किल्विषम् । तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा ।
प्रदद्यात् न तु हस्तेन नायसेन कदाचन” इति
वशिष्ठेन सामान्यतोऽभिधानात् पितृभक्तितरङ्गिण्यामप्येवम् ।
मनुः “गुणांश्च सूपशाकाद्यान् पयोदधि वृतं मधु ।
विन्यसेत् यत्नतः सम्यक् भूमावेव समाहितः । भक्ष्यं
भोज्यञ्च विविधं मूलानि च फलानि च मद्यानि
पृष्ठ ४२५७
चैव मांसानि पानानि सुरभीणि च । उपनीय तु
तत्सर्वं शनकैः सुसमाहितः । आमिषं पानपात्रञ्च
भोक्तुर्दक्षिणतो न्यसेत् । परिवेषथेच्च प्रयतो गुणान्
सर्वान् प्रचोदयन्” । गुणान् उपकरणानि । भूमावेव
न तु व्यञ्जनादिपात्राद्यन्नपात्रोपरि निःक्षिपेत् पात्रा
सत्त्वे भोजनपात्रेऽपि” ।

परिव्याध परि + अध कर्त्तरि ण । १ अम्बुवेतसे ३ द्रुमोत्पले

च मेदि० ३ परितो वेधनकारके त्रि० ।

परिव्रज्या स्त्री परि + व्रज--भावे क्यप् । तपस्यायां हेमच० ।

परिव्राज् पु० परिवर्ज्य पुत्रादिकं व्रजति परि + व्रज--क्विप्

दीर्घः । पुत्रदारादिकं सर्वकर्माणि च परित्यज्य
आअमान्तरगामिणि भिक्षौ यतौ अमरः । तल्लक्षणं
यथा“सर्वारम्भपरित्यागी भैक्ष्याश्यं ब्रह्ममूलता । निष्परि-
ग्रहताऽद्रोहसमता सर्वजन्तुषु । प्रियाप्रियपरिष्वङ्गे
सुखदुःखाविकारिता । सबाह्याभ्यन्तरं शौचं सुखदुःखा
विकारिता । सर्वेन्द्रिवसमाहारो धारणाध्यानानित्यता ।
भावसंशुद्धिरित्येष परिव्राड्वर्य्य उच्यते” ।

परिव्राज पु० परित्यज्य पुत्रादीन् ब्रजति परि + व्रज--संज्ञायां

कर्त्तरि घञ् । परिव्राजि भिचौ

परिव्राजक पु० परित्यव्य पुत्रादीन् सर्वकमांणि च व्रजति

वज--घञ् स्वार्थे क ण्वुल वा । चतुर्थाश्रमिणि यतौ ।

परिव्राजि स्त्री परि + व्रज--णिच्--इन् । श्रावण्यां (थुलकुडि)

क्षुपे राजनि० ।

परिशिष्ट त्रि० परि + शिष--क्त । १ अवशेषे । ततः अस्त्वर्थे

अच् । २ तत्प्रकाशकग्रन्थभेदे न० तेमय० यथा नृह्य-
परिशिष्टं छन्दोगपरिशिष्टम् इत्यादि ।

परिशुष्क त्रि० परि + शुष--क्त तस्य कः । १ षरितः शोषयुते

२ नीरसे “मांसं बहुघृतैर्भृष्टं सिक्तञ्चेदम्बुना मुहुः ।
जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते” शब्दच० उक्ते
३ प्ररिपक्वमांसभेदे न० ।

परिशेष पु० परि + शिष--घञ् । अषशेषे

परिशोध पु० परि + भावे घञ् । १ ऋणादेः शोधने । णिच्

अच । २ परितः शुद्धिसम्पादने च । ल्युट् । परिशोधन
तत्रार्थे न० ।

परिश्रम पु० परि + अम--घञ न वृद्धिः । १ व्यानामे क्लेश-

आरके आयासे हेमच० । आर्षे तु क्वचित् वृद्धिः ।
परिश्राम तत्रार्थे भाग० २ । ९ । २०

परिश्रय पु० परि + श्रि--आधारे अच् । १ आश्रवे २ सभायां च मेदि० ।

परिश्रित् स्त्री परिश्रयत्यनया परि + श्रि--करणे क्विप् ।

सूक्ष्मपाषाणे शत० ब्रा० ७ । १ । १२ भाष्यम् । २ यज्ञियेष्टका-
समसंख्यके पाषाणखण्डे च कात्या० श्रौ० १८ । ६ । १ ३

परिश्रित त्रि० परि + श्रि + क्त । १ समाश्रिते भावे क्त ।

२ आश्रये न० । ३ परितोवेष्टने ४ वृष्ट्यादिपरिहारके
तिरस्करण्यादिभिर्वेष्टने शत० ब्रा० ३ । १ । २ । ८ भा० । आश्व०
श्रौ० २ । ४ । १ नारा० ।

परिषद् स्त्री परिषीदत्यस्यां परि + सद--आधारे क्विप् ।

सभायां धर्मनिर्णयार्थं विद्वद्भेदयुक्तायां २ सभायाञ्च
यथोक्तं मनुना “अनाम्नातेषु धर्मेषु कथे स्यादिति
चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादसंशयः”
प्रायश्चित्तनिर्णयार्थं परिषदुपस्थानप्रकारः परिषद्वि-
शेषव्यवस्थादिक प्रा० वि० उक्तं यथा
“अथ प्रायश्चित्तिनः परिषदुपस्थानम् । तत्राङ्गिराः
“कृते निःसंशये पापे न भुञ्जीतानुपस्थितः । भुञ्जानो
वर्द्धयेत् पापमसत्यं संसदि ब्रुवन् । सचेलं बाग्मतः
स्तात्वा क्लिन्नवासाः समाहितः । उपस्थाय ततः शोघ्र-
मार्त्तिमान् धरणीं गतः । गात्रैश्च शिरसा चैव न च
किञ्चिदुदाहरेत्” । उपस्थानञ्च वस्त्रादिना ब्राह्मणान्
तोषयित्वा कार्य्यम् “तोषयित्वा द्विजोत्तमानिति”
देवलवचनात् । महत्सु पापेषु राज्ञाप्युपस्थितिः कार्य्ये-
त्याह देवलः “स्वयं वा ब्राह्मणैः कृच्छ्रमल्पदोषे विधी-
यते । राज्ञा च ब्राह्मणैश्चैव महत्सु परिचक्षतं” ।
परिषदमाह अद्भिराः “एकविंशतिसंख्यातैर्मीमासा-
न्यायन्यायपारगैः । वेदाङ्गकुशलैश्चैव परिषत्त्वं प्रक-
ल्पयेत् । चातुर्वेद्यः प्रकल्पी च अङ्गबिङ्गर्मपाठकः ।
त्रयश्चाश्रमिणो वृद्गाः परिषत् स्याद्दशावरा” । परि
षच्छब्दोऽत्र सभार्हपरः । चातुर्वैद्यः चतुर्येदपारगः ।
विकल्पी सर्वधर्मपमाणज्ञः धर्मपाठकः धर्मशास्त्रज्ञः ।
मनुः “त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाश्रमिणो वृद्गाः परिषत् स्याद्दशावरा” । अङ्गिराः
“एषा तु लथुकार्य्येषु मध्यमेषु तु मध्यमाः । महापा-
तकशोध्येषु शतशो भूय एव वा” प्रदर्शनार्थमिदं
यावद्भिरेव निरूपणं भवति तावद्भिरेव परिषत् दृष्टार्थ-
त्वादस्याः । तथाच यमः “एको द्वौ वा त्रयो वापि
यद्ब्रूबुर्धर्मपाठकाः । स धर्म इति विज्ञेयो नेतरेषां
सहस्रशः । यद् वदन्ति तमोमूढ़ा मूर्खा धर्मपतद्विदः ।
तत्पापं शतधा भूत्वा तद्वक्तॄ ननुगच्छति” । वृद्धशाता-
पृष्ठ ४२५८
तपः “अबुद्ध्वा धर्मशास्त्राणि प्रायश्चित्तं वदन्ति ये ।
प्रायश्चित्ती भवेत् पूतस्तत् पापं तेषु गच्छति” । अङ्गिराः
“श्रार्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति तेऽपि तद्दोषमागिनः । अनर्च्चितै-
रनाहूतैरपृष्टैश्चैव संसदि । प्रायश्चित्तं न वक्तव्यं
जानद्भिरपि जल्पतः” । तघा न्यायतो मार्गमाणस्य क्षत्रियादेः
प्रणामिनः । श्रन्तरा ब्राह्मणं कृत्वा व्रतमेतत्
समादिशेत्” ।

परिषद त्रि० परितः सीदति परि + सद--अच् । अनुचरे द्विरूपकोषः ।

परिषद्य त्रि० परिषदमर्हति यत् । सभार्हे द्विरूप० । स्तोतुं

समेतानामृत्विजां सभायोग्ये पवमाने अग्निभेदे यजु०
५ । ३२ वेददीपः ।

परिषद्वल त्रि० परिषद् + अस्त्यर्थे यलच् । सभासदे तत्र

आश्रयत्वेन परिषदः सत्त्वात् तथात्वम् ।

परिषीवण न० परि + सिव--भावे ल्युट् षत्वं वा दीर्घः नि० ।

ग्रन्थिकरणे (गाँटदेओया) माघः ८ । ६ । १२ पक्षे परिषेव-
णमप्यत्र ।

परिषूति स्त्री परि + मू--प्रेरणे भावे क्तिन् । १ प्रेरणे ।

कर्त्तरि क्तिच् । २ प्रेरके त्रि० ऋ० १ । १९ । ६

परिषेचक परि + सिच--ण्वुल् । परितः सेचके अकान्तत्वेऽपि

याजका० समर्थषष्ट्या समासः । अन्तोदात्तता चास्य ।

परिष्कण्ण त्रि० परि + स्कन्द--क्त तस्य दस्य च न वा षत्वे

णत्वम् । परपुष्टे षत्वाभावे णत्वाभावात् परिस्कन्न
तत्रार्थे ।

परिष्क(स्क)न्द त्रि० परिष्कद्यते पूर्य्यते परि + स्कन्द घञ् वा

षत्वम् । १ परपुष्टे अमरः २ परितः स्थायिनि रथगोपके
भा० म० ४३ अ० ।

परिष्कर पु० परि + कृ--भावे--वा० अप् सुट् षत्वम् । रथस्य

रक्षादौ भा० क० ३४ अ० “सप्तर्षिमण्डलं ज्ञेयं रथस्यासीत्
परिष्करः” ।

परिष्कार पु० परि + कृ--थञ् सुट् षत्वम् । १ भूषणे

विद्यमानवस्तुनो गुणान्तरस्य २ आधानादौ ३ संस्कारे च
अमरः ४ शुद्धौ ।

परिष्कृत त त्रि० परि + कृ--क्त सुट् षत्वम् । १ भूषिते २ चेष्टिते

३ कृतमार्जनादिसंस्कारे च अमरः यज्ञार्थं पशुबन्धनाय-
यज्ञापात्रासदनाय च कृतसंस्कारायां ४ भूमौ स्त्री अमरः ।

परिष्टि स्त्री परि + इष--क्तिन् वेदे शक० । अन्वेषणे ऋ० १ ।

६५ । लोके तु परीष्टिरित्येव

परिष्टुभ् त्रि० परि + स्तुभ--क्विप् षत्वम् । १ परितः निरर्थ-

कशब्दरूपस्तोभयुक्ते ऋ० ११६६ । ११ भा० । २ परितः
श्रोतव्ये ऋ० ९६२२४ भा० ।

परि(ष्टो)स्तोम पु० परितः स्तूयते उत्तमवर्णयुक्तत्वात् षत्वम् ।

परिगतः स्तोमम् प्रा० स० तत्र परेः स्तीतिं प्रत्यनुपसर्ग-
त्वात् न षत्वमिति भेदः इति स्वामी । गजपृष्ठास्तरण-
कम्बले (झुल) अमरः ।

परिष्ठल न० परितः स्थलम् “विकुशमिपरिभ्यः स्थलम्” पा० षत्वम् । परितः स्थले ।

परिष्ठा त्रि० परि + स्था--क्विप् षत्वम् । परावृत्त्याम् ऋ० ६ ।

परि(ष्प)स्पन्द त्रि० परि + स्पन्द--घञ् । “परिस्पन्दः प्राच्य-

भरतेषु” पा० प्राच्याद्यर्थे न षत्वम् अन्यत्र वा षत्वम् ।
१ परितः स्पन्दनयुक्ते २ कुसुमादेः पत्रावल्यादिरचना-
याम् अमरः । ३ परिष्कारे ४ परिवारे च हेमच० ।

परिष्वङ्ग पु० परि + खन्ज--घञ् । आलिङ्गने अमरः

परिसंवत्सर अव्य० ऊर्द्ध्वं संवत्सरात् अव्ययी० । वत्सरादूर्द्धे

“परिसंवत्सरात् पुनः” मनु० पञ्चम्या अलुक् । २ परिवत्सरे पु०

परिसंख्या स्त्री परि + सम्--ख्या--भावे अङ् । १ परिगणिते

२ विधिभेदे नियमशब्दे ४०७८ पृ० ऋतुकालशब्दे च १४
३७ पृ० दृश्यम् ।

परिसंख्यात त्रि० परि + सम्--ख्या--कर्मणि क्त । परिगणिते

परिसञ्चर पु० सृष्टिकालादूर्द्धं सञ्चरति परि + सम्--हर-

अच् । प्रतिसञ्चरकाले सृष्टिप्रलयकाले “त्रिविधः सर्वभू-
तानां कीर्त्त्यते परिसञ्चरः । अनावृष्टिर्भास्कराश्च घोरः
संवर्त्तकोऽनलः । मेघो ह्येकार्ण्णवोवायुस्तथा रात्रिर्महा-
त्मनः” वराहपु० ।

परिसमूहन परि + सम्--ऊह मावे ल्युट् । यज्ञादौ अनलो-

परि १ तुष्णीं समिदाधाने परितः पतिततृष्णादेः प्रच्छिद्य
अग्निमध्ये २ प्रक्षेपरूपव्यापारभेदे च कात्या० श्रौ० ४ १२ ।
१९ । ३ अग्नेः समन्तात् मार्जने च ।

परिसर पु० परि + स--अप् । १ नदीनगरपवतादेः पर्य्यन्तभूमौ

अमरः २ मृत्यौ ३ विधाने मेदि० ।

परिसर्प पु० परि + सृप--भावे घञ् । १ परितो जलादिना

वेष्टने २ समन्ताद् गमने च हेम० । ३ सारस्वतयागमेदे न०
आश्व० १२ ६ २२

परिसर्य्या स्त्री परि + सृ--भावे क्यप् । सर्वतो गमने अमरः ।

परिसारक ति० परि + सृ--ण्वुल् । १ परिती गन्तरि । ततः

सत्वर्थे अण् । पारिसारक तच्छब्दयुक्ते अध्याये
अमुवाके च पु ।
पृष्ठ ४२५९

परिस्य(ष्य)न्द पु० परि + स्यन्द--भावे घञ् अप्राणिकर्तृ-

कत्वे वा षत्वम् । घृतादेः क्षरणे प्राणिकर्तृके हस्या-
देर्मदक्षरणे तु न षत्वम् ।

परिस्रव परि + स्नु--भावे अप् । परितः क्षरणे

परिस्रव पु० पति + स्रु--णिच्-अच् । सुश्रुतोक्ते परिस्नव-

जनके १ उपद्रवभेदे “क्रूरकोष्ठस्यातिप्रभूतदोषस्यामृद्वौष-
धमवचारितं ममुद्क्लिश्य दोषान्नमिःशेषानपहरति ततस्ते
दोषाः परिस्नावमाषादयन्ति तत्र दौर्बल्योदरविष्टम्भारुचि
गातसदनानि भवन्ति सवेदनौ चास्य पित्तश्लेष्माणौ
परिसवतस्तं परिस्नावमित्यासक्षते । परि + सु मावे
बा० घञ् । २ परिक्षरणे च

परिस्राविन् त्रि० परि + स्रु--णिनि । १ क्षरणयुक्ते सुश्रु-

मोक्ते पञ्चविधभगन्दरमध्ये २ तद्भेदे च “श्लेष्मा तु प्रकु-
पितः समीरणेनाधःप्रेरितः पूर्ववदवस्थितः शुक्लावभासां
स्थिरां कण्डूमतीं पिड़सां जनयति सास्य कण्ड्वादीन्वे-
दनाविशेषाञ्जनयत्यप्रतिक्रियमाणा च पारमुपैति
व्रणश्च कठिनः संरम्भी कण्डूप्रायः विच्छिलमजस्रमास्नावं
स्रवत्युपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति तं
भगन्दरं परिस्राविणमित्याचक्षते” तत्र तल्लक्षणमुक्तम् ।

परिस्रुत् स्त्री परि + स्नु--क्विप् । १ सुरायाम् अमरः ।

२ परितः क्षरणयुक्ते त्रि० “अन्नात् परिस्नुतो रसम्” यजु०
१९ ७५ भावे सम्प० क्विप् । ३ अरणे स्त्री ।

परिस्रुत त्रि० परि + स्नु--क्त । १ पुष्पादिभ्यो निःसृतसाररूपे

पदार्थे “ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं
परिस्नुतम्” यजु० २ ३४ “परिस्रुतं वहन्तीः पुष्पेभ्यो
निःसृतं सारं वहन्त्यः । तश्च सारं त्रिविधम् ऊर्ज-
शब्देन घृतशब्देन पयःशब्देन चाभिधेयम् । तत्रोर्ज-
शब्दोऽन्नगतं स्वादुत्वमभिधत्ते । घृतपयसी प्रसिद्धे”
वेददी० । २ अदिरायां स्त्री मेदि० ।

परिहनु अव्य० हन्धोरुपरि श्रव्ययी० । हग्नोरुपरि ततः

परिमुखा० भवार्थे ण्य । पारिहनव्य तत्र भवे त्रि०

परिहस्त अव्य० परिर्वर्जने अव्ययी० । हस्तस्य वर्जने तस्य

निरुदकादित्वात् अन्तोदात्तता ।

परि(री)हार पु० परि + हृ० घञ् वा दीर्घः । १अवज्ञायां

अनादरे शब्दरत्ना० । २ दोषाद्युद्धारणे

परिहार्य्य त्रि परि + ह--कर्मणि ण्यत् । १ परिहर्त्तव्ये

२ त्यक्तव्ये द्विरूपकोषः । २ उद्गाव्ये च

परि(री)हास पु परि + हस--घञ् वा दीर्घः । नर्मणि लिका०

परिहृत् त्रि० परि + हृ--क्विप् । परिहृत्य गन्तरि ऋ ६ । ४५

परीक्षक त्रि० परि + ईक्ष--ण्वुल् । १ तर्केण प्रमाणैरनिर्द्धा-

र्यनिर्द्धारणाय शास्त्रपरिशीलनेन प्राप्तबुद्धिप्रकर्षे दृष्टा-
न्तशब्दे २६७३ पृ० दृश्यम् । २ व्यवदृआरादौ दिव्यभेद-
परीक्षाकारके च ।

परीक्षण न० परि + ईक्ष--भावे ल्युट् । राज्ञा अमात्यादेः

आरादेश्च १ दुष्टादुष्टात्वनिरूपणे तर्कप्रमाणाभ्यां २ वस्तुत-
त्त्वावधारणे च “भेदोपजापाबुपधाधर्माद्यैर्यत्
परीक्षणम्” अमरः ।

परीक्षा स्वी परि + ईक्ष--भावे अ । दिव्यशब्दे २५८९

पृष्ठादौ दर्शिते १ दिव्यशब्दार्थे तर्कप्रमाणादिना २ वस्तुत-
त्त्वावधारणे च ।

परीक्षिन् त्रि० परि + ईक्ष--णिनि । युक्तिप्रमाणैर्वस्तुस्वरूपाद्यवघारके ।

परीणस् त्रि० परि + नस--कौटिल्ये धातूनामनेकार्थत्वात्

व्याप्ता क्विप् दीर्घः । १ व्यापके ऋ० ५ । १० । १ भा । परि +
नह बा० डसुन् दोघः । २ परितोनद्धे च्य ऋ० ११२९९

परीणसा अव्य० परि + नस--व्याप्तौ बा० आत् दीर्षः ।

बहुपदार्थे निघण्टुः ऋ० ९९७९ उदा० ।

परीणह् त्रि० परितः नह्यते बध्यते नह--क्विप् दीर्घः ।

१ परितो बन्धने २ तत्कर्मणि ज । झलि पदान्ते हस्य घः ।

परीत त्रि० परि + इ--क्त । परितो गते

परीप्सा स्त्री परि + आप्--सनू--भागे अ । प्राप्तुमिच्छायाम् भा० उ० ११० ख

परीर न० पूर्व्यतेऽनेन पॄ--श्च्युतौ ईरन् । फले उज्वत्व० ।

परीरण पु० परि + रण--अच् दीर्षः । १ कमठे २ दण्ठे ३ पट्ट-

शाटके च भेदि० ।

परीरम्भ पु० परि + रम्भ--घञ् वा दीर्घः । आसिङ्गने अमरः

परीष्टि स्त्री परि + इष--क्तिन् । १ अन्येषणायाम् २ परिच-

र्य्यायाञ्च हेमच० ।

परीसार पु० परि + सृ--घञ् दीर्घः । सर्वतोगमने हेमच० ।

परु पु० पृ--उन् । १ समुद्रे २ स्वर्गे ३ ग्रन्थौ ४ पर्वते च संक्षिप्त०

परुच्छेप पु० परुषि शेफोऽस्य पृवो० । ऋषिभेदे निरु० १० । ४२

परुत् अव्य० परस्मिन् वर्षे नि० । परवर्षे इत्यर्थे अमरः ।

तत्र भवः त्न । परुत्त्न परवर्षभवे त्रि० ।

परुद्वार स्त्री परुः समुद्रो पर्वतो वा द्वारमस्य । षोटके

शब्दमाला स्त्रियां जातित्वात् ङीष् ।

परुष न० पॄ--उषन् । १ निष्ठुरवचने २ नीसीझिण्ट्याम्

अमरः ३ फलभेदे परूषके मावप्र० ।

परुषोक्ति स्त्री कर्म० । १ निष्ठुरोक्तौ । बहु । २ कटुवाक्यकथके त्रि० ।

पृष्ठ ४२६०

परुस् न० पॄ--उसि । ग्रन्थौ (गाँट) पर्वणि अमरः ।

परूष न० पॄ--जषन् । फत्वभ्दे (फलसा) “परूषकं कषाया-

स्त्रमानं पित्तकरं लघु । तत् पक्वं मधुर पाके शीतं
विष्टम्मि वृंहणम् । हृड्यं तृट्पित्तदाहास्रज्वरक्षयस-
मीरहुत्” मावप्र० ।

परेत त्रि० परा + इ--क्त । सृते अमरः ।

परेतराज्(ज) पु० ६ त० टच्समा० परेतेषु राजते

राजकिष् वा । यमे अमरः ।

परेतवास पु० ६ त० । श्मशागे ।

परेद्यवि अव्य० सरस्पिन् अह्नि नि० । परदिने इत्यर्थे

परेद्युस् अव्य० परस्पिन् अहि पर + एद्युस् । परदिने इत्यर्थे

परेष्टुका स्ती परैरिष्यते इष--तु स्तार्थे क । बहुप्रसवायां

गवि ग्रषरः ।

परैधित त्रि० परैरेधितः एध + णिच्--क्त ३ त० । अन्य-

पासिते कौदासीन्येनापरवर्द्गिते ग्रमरः ।

परोक्ष अव्य० अणः परम् अव्यथी० सुट् नि० पूर्वनिपातः ।

१ अप्रत्यक्षज्ञाने “परोक्षज्ञानमनाहार्व्यं निश्चयश्चेति
सिद्धान्तः” इत्युक्तेस्तज्ज्ञानस्यानाहार्यत्वम् निश्चयरूप-
त्वञ्च बोध्यम् । अर्श शाद्यच् । २ तद्विषये त्रि० । ३
तपणिनि शब्दमाला ।

परोढा स्त्री परेलोठा ३ त० । परेण कृतविवाहायां स्त्रियाम् ।

परोपकार पु० ६ त० । परस्य हितादिसम्पादनव्यापारे

परोबाहु पु० परोबाहुर्बन्धोऽस्य नि० सुट् । परमवन्ध-

युक्ते शत ब्रा० ६ । ५ । ३ । १०

परोरजस् त्रि० रजसः परः सुट् नि० । १ रागाभावे २ विसुक्ते शत० ब्रा० १४ । ८ । १५ । १

परोलघ न० लजात् परः सुट् नि० । १ ललसंख्यातोऽधिक-

संख्यायाम् २ तदन्विते च ।

परोवरीण त्रि० “परांसापरांसानुभवति ख अवरस्योत्त्वं

निपात्यते । श्रेष्ठाश्रेष्ठयुक्ते ।

परोवरीयस् परण वरीयाँण नि० पूर्वपदे सुट् । अत्यन्त-

श्रेष्ठे परमात्मनि “परोवरीयसोह लोकान् जयति” छा० उ० ।

परोष्णी स्त्री परा + उष्णा--कर्म० गौरा० ङीष् । तैलपायि-

कायाम् अमरः ।

पर्कटि(टी) स्त्री पृच--अटि न्यङ्का० कुत्वम् । (पाकुड़) प्लक्षवृक्षे अमरः ।

पर्कटिन् पु० पृच--अटिनि न्यड्का० कुत्मम् । प्लक्षवृक्षे

(पाकुड़) “पर्कटी कटुकः प्रोक्तः शिशिरश्च कषायकः ।
रक्तदोषहरोमूर्च्छांप्रलापभ्रमनाशनः” राजनि०
तद्गुणा उक्ताः ।

पर्जनी स्त्री पृज--करणे ल्युट् ङीप् । दारुहरिद्रायाम्

अमरः ।

पर्जन्य पुं० पृधु--सेचने अन्थ जान्तादेशः । १ द्रन्द्रे २ मेघे मेदि०

“यज्ञाद्भवति पर्जन्यः” इति मनुः । ३ मेषशब्दे विश्वः
पर्जन्य “इव सर्वान् कामादभिवर्षति । ४ विष्णौ पु० ।
“कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनीऽनिलः” विष्णुस-
५ दांरुहरिद्रायां स्त्री राजनि० ।

पर्ज्जन्यपत्नी स्त्री पर्जन्यः पतिरिवास्वाः सपूर्वकत्वाद् पत्युर्न

ङीप् । वशायां “वशा पर्जन्यपत्नी देवा अप्येति जाह्मणा
ऊधस्त्रे भद्रे! पर्जन्यो विद्युतस्ते स्वना वशे!” अथ
१० । १० । ६ । ६ त० । २ इन्द्रपत्न्यां शप्याञ्च ।

पर्ण हरितीकरणे अ० चु० उभ० सक० सेट् । पर्णयति--ते अप

पर्णत्--त । वसन्तः पर्णयति धम्पकम् ।

पर्ण न० पॄ--न, पर्ण--अच् वा । १ पत्त्रे १ पक्षे च “सुपणो

गरुडो मतः” इति । ३ पलाशवृसे पु० ४ ताम्बूले न
५ पत्त्रयुक्ते त्रि० अमरः । “पर्णभूले भवेद्व्याधिः
पर्णाग्रे पापसम्भवः । जीर्णं पर्णं हरेदायुः सिरा
बुद्भिप्रणाशिनी” आड्गि० त० । तन्मूलादिसेवननिबेधः ।
“अनिधाय भुखे पर्ण्णं पगद्भादयते परम् । मतिभ्रंशातु
दरिद्रः स्यादन्ते न स्परते हरिम्” । अत्र परमित्युक्तेः
धन्याकादियोमे न दोषः । पर्णस्येदम् शिवा० अण् ।
पार्ण्ण तत्सम्बन्धिनि त्रि० । अस्यर्थे नडा० स कक् च ।
पर्णकीय तद्युक्तदेशे त्रि० । तस्यादूरनगरादि वरणा०
अण् पार्ण तस्याद्रदेशादौ लिन बह्रत्रे तस्य लुक् पर्णाः
इत्येव । तत्र भवः “कृकणपर्णात् भरद्वाजे” पा० भवादौ
छ । पर्णीय भरद्वाजदेशभवे अन्यत्र अणेव पार्ण
ततार्थे त्रि० । क्षुद्रं पर्णम् ङीष् । २ ह्युद्रपर्णे स्त्री सास्त-
पण्यं कृशरादि० ठन् । पर्णिक तद्विक्रेतरि स्त्रियां
षित्त्वात् ङीष् ।

पर्णक पु० ऋषिभेदे तस्य गोलापत्वम् इञ् पार्णकि तद्वो-

त्रापत्ये बहये तु उपका० तस्य वा लुक् ।

पर्णकार पुं स्त्री० पर्णं करोति उत्पादयति अण् उप० त० ।

(वारुइ) ख्याते जातिभेदे ताम्यूलजीविनि स्त्रियां
जातित्वात् डीष् ।

पर्णकुटी स्त्री पर्णनिर्मिता कुटी था० ता० । पत्रमात्रेण रचिते क्षुद्रगृहे (पातेरलुँड़े) ।

पर्णकूर्च पु० पर्ण्णकृच्छेक्तद्रव्याणां त्रिरात्रोपवासाते विघे-

षतो भोजननिष्पादितन्नतभेदे यथाह मिता० । “यदा तु
पर्णादीनामेकीकृतानां क्वायस्विरात्रान्ते पीयते तहा
पृष्ठ ४२६१
पर्णकूर्चः यथाह यमः “एतान्येव समस्तानि त्रिरात्रो-
पोषितः शुचिः । क्वाथयित्वा पिवेदद्भिः पर्णकूर्चो
ऽभिधीयते” इति । एतानि पर्णकृच्छ्रोक्तद्रव्याणि ।

पर्णकृच्छ्र पु० पञ्चाहसाध्ये व्रतभेदे “पर्णोदुम्बरराजीव

विल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र
उदाहृतः” याज्ञ० “पलाशोदुम्बरारविन्दश्रीवृक्षपर्णाना-
मेकैकेन काथितसुदकं प्रत्यहं पिबेत् । कुशोदकञ्चैक-
स्पिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः” मिता ।

पर्णखण्ड पु० पर्णमेव स्वण्डः खण्ड्यते यस्य पुष्पहीनत्वात् ।

१ पुष्पहीगे बनस्पतौ वृक्षे शब्दब० । समूहे खण्डच् ।
२ पर्णसमूहे न० ।

पर्णचीरपट पु० महादेये मा० शा० २८ ६ अ० ।

पर्णचोरक पु० पर्णं चोरबति चुर--खुल् । चोरनामगन्ध-

दप्ये राजनि० ।

पर्णनर पु पर्णनिर्मितः नर इव । अख्यलाभे मृतस्य

दाहार्थं पर्णनिमिते नराज्जतौ पुत्तलिकाभेदे तद्विधानं
शु० त० उक्तं यथा
“अथास्थ्यलाभे पर्णनरदाहः । तत्राश्वलायनमृह्यपरि-
शिष्टम् “अस्थिनाशे पलाशानां त्रीणि षष्टिशतानि च ।
पुरुशप्रतिकृतिं कृत्वा दहेत मन्त्रपूर्वकम् । अशीत्यर्ङ्गन्तु
शिरसि ग्रीवायां दश योजयेत् । उरति त्रिं पतं दद्या-
द्विंशतिं जठरे तथा । बाहुभ्याञ्च यतं दद्यात् दद्या-
दष्ट्वलिभिर्दश । द्वादशार्द्धं वृषणवोरष्टार्द्धं शिश्र एव
च । ऊरूभ्याञ्च शतं दद्यात्त्रिंशतं जासुजङ्घयोः ।
पादाङ्गसिषु च दश एतत् प्रेतस्य लक्षणम् । जर्णा-
स्तत्रेण संबेष्ट्य यवपिष्टेन लेपयेत्” । आदिपुराणम्
“तदलाभे पलाशोत्यैः पत्नैः कार्य्य १ पुमानपि ।
शतैस्त्रिभिस्तश्रा षष्ट्या शरपत्रैर्विधानतः” । तदलाभेऽस्थ्य-
लाभे । अत्र षलाशपत्रशरपत्रयोस्तुल्यत्वेनोपादानात्
आश्चलायनगृह्येऽपि प्रतिकृतौ शरपत्रस्र लामः । अत्रा-
चाराद्योग्यत्वाच्च शरपत्रैः पुत्तलकं कुत्वा शिरःप्रभृतिषु
पलाशपत्राणि देयानि ततो वेष्टनमूर्णासूत्रेण, लेपनं
बवपिष्टेनेति । अत्राशौचाभ्यन्तरे दाहे शेषाहेन शुद्धिः
तदुत्तरपर्णनरदाहे तु त्रिरात्रम् । “एवं वर्णनरं
दग्धा त्रिरात्रमशुचिर्भवेत्” इत्यादिपुरणात् । यज्ञ-
पार्श्वा “पुत्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन ।
तदलामे पत्वाक्षस्य सम्भवे हि पुनःक्रिया” । हि वस्पा-
तदलाभेऽस्थ्यसंप्राप्तौ पलाशस्य तत्कृतपुत्तलकस्य दा-
हक्रिया पुनरपि सम्भवे जाभेऽस्यिदाहक्रिया विहिता
तस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाहे त्रिरात्रा
थौचे कर्तव्ये न पुनः पिण्डादिदानं वक्ष्यमाणयुक्तेः ।
“अशौ चानन्तरं चेत् स्याद्दाहः पर्णनरस्य च । त्र्यहा-
च्छुद्ध्यन्ति च तथा सन्निकृष्टाः सगोत्रजाः । दर्शे दहेत्
“पर्णनरं दहेन्नैव विना दर्शं कथञ्चन । अस्थ्यलाभे
तु दर्शेऽपि ततः पर्णनरं दहेत्” इति दीपकलिकायां
सुमन्तुवचनात् । दर्शे इत्यत्राष्टम्यामिति कचित् पाठः ।
श्रष्टमी कृष्णा सन्देहे पितृकर्मणि कृष्णपक्षप्राधान्थे
नोक्तेः । “नरं पर्णं दहेत्वैव प्राक् त्रिपक्षात्
कवञ्चन । त्रिपक्षे तु न वै दह्यात् दर्शे प्राप्ते ह्यनग्निकः” ।
इत्यशौचव्यपगमे बोध्यम् । यथाह शुद्धिरत्नाकरे यमः
“अशौचमध्ये यत्नेन दाहयेदुक्तया वृता । कृणपक्षे
पञ्चदश्यामष्टम्यां वा समाहितः । एकादस्यां विशे-
षेण ततः प्रभृति सूतकम् । त्रिरात्रं सर्ववर्ष्णनामेप
धर्मो व्यवस्थितः ।” कृष्णपक्ष इत्यत्राशौचव्यपगमे
वोध्यम् । वायुपुराणे “पर्णनरं दहेन्नैव प्राक् त्रिपक्षात्
कथञ्चन । पितृहा मातृहाष्टम्यान्नैव दर्शे दहेत् यदि ।”
विष्णुपु० “त्रिपक्षे तु गते पर्णनरं दद्यादनग्निकः ।
त्रिपक्षाभ्यन्तरे राजन्! नैव पर्णनरं दहेत् । तदूर्द्ध्वन-
ष्टमीं प्राप्य दर्शं वापि विचक्षणः ।” दहेदिति ज्ञेयः ।
“श्रशौचाभ्यन्तरे यदि दाहं न कुर्य्यात् तदा मरणदिना-
वधि त्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः” इति
हरिदासकर्काचार्य्याः । “पर्श्यं नरं दहेग्नैन विना
दर्शं कदाचन । अस्थ्नामलाभे दर्शे तु ततः पर्णनरं
दहेत्” इति दीपकसिकायां सुमन्तुवचनाहर्थे दाहः ।
शत्राहमीति क्वचित् पाठः । यमः “त्रिपद्वाभ्यन्तरे
राजन् । नैव पर्णनरं दहेत् । तदूर्द्ध्वमष्टनीं प्राध दर्शं
वापि विचक्षणः” । अष्टमीत्यत्र कृष्टाष्टमीत्यर्थः ।
पितृकर्मणि कृष्णपक्षप्राधान्येनोक्तेः इति हरिदासत-
काचार्य्यलिखनात् । एतच्चाशौचव्यतिरिक्तविषयम्” ।
अत्र नक्षत्रादिकालभेदः स० घि० पी० उक्तो यथा
“शुक्रारार्किषु दर्शभूतमदने नन्दा सुतीक्ष्णोग्रभे
पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने ।
याम्येऽवदात् परतश्च पातपरिघे देवेज्यशुक्रास्तके भद्रा-
वैष्टतयोः शवप्रतिक्वतेर्दाहो न पक्षे सिते । जन्मप्रत्यरि-
तारयोर्मृतिसुखान्येऽब्जे च कर्तुर्न सन् मध्यो मैत्र-
भगादितिध्रुवविशाखाद्व्यङ्घ्रिभे क्षेऽपि च । श्रेष्ठो-
पृष्ठ ४२६२
ऽर्केज्यविधोर्दिने श्रुतिकरस्वात्यश्विपुष्ये तथा त्वाशौचा-
त्परतो विचार्य्यमखिलं मध्ये यथासम्मवम्” मु० चि० ।
“एवंविधे दिने शवस्य मृतस्य प्रतिकृतिः शरपत्रादिना
सावयवत्वकल्पनं तस्य दाहो न कार्यः कुतः यती द्विविधः
प्रेतसंस्कारः प्रत्यक्षशरीरस्यैकः प्रतिकृतेरन्यः तत्र प्रत्यक्ष-
शरीरसंस्कृतौ शुभाशुभदिनविचाराभावः यदाह गार्ग्यः
“प्रत्यक्षशवसंस्कारे दिनं नैव अविशोधयेदिति” प्रतिकृतिसं-
स्कारस्य हि कासत्रयम् अशौचमध्ये वर्षमध्ये वर्षानन्तरं
चेति अत्राशौचमध्ये यदि प्रतिकृतिसंस्कारश्चिकीर्षित-
स्तदा यथासम्भवं दिनशुद्धिर्विचार्य्या वर्षमध्ये वर्षानन्तरं वा
प्रतिकृतिसंस्कारे अवश्यं कालशुङ्गिर्विचार्या एतदप्याह
गार्ग्य एव “आशौचमध्ये क्रियते पुनः संस्कारकर्म चेत् ।
शोधनीयं दिनं तत्र यथासम्भवमेवमेव तु । आशौचवि-
निवृत्ता चेत् पुनः संस्क्रियते मृतः । संशोध्यैव दिनं ग्रा-
ह्यमूर्ध्वं संवत्सराद्यदि” । प्रेतकार्य्याणि कुर्वीतेति शेषः
अतएवोक्तम् “आशौयात्परतो विचार्यमखिलं मध्ये
यथासम्भवमिति” । एतद्वाक्यमत्रैव स्पष्टं व्याख्यास्यते
तत्र दिनशुद्धिरुच्यते शुक्रारेत्यादिना शुक्रः प्रसिङ्गः
आरो मङ्गलः आर्किः शनिः एषां वारे प्रतिकृतेर्दाहो
नेति प्रत्येकं सम्बन्धः । तथा दर्शोऽमावस्या भूतचतुर्दशी
मदनस्त्रयोदशी नन्दाः प्रतिपत्षष्ट्येकादश्यः आसु
तिथिषु दाही न कार्यः यदाह मरीचिः “नन्दायां
भार्गवदिने चतुर्दश्यां त्रिपुष्करे । पितृश्राद्धं न कुर्वीत
गृहो पुत्रधनक्षयात् । एकादश्यां तु नन्दायां तिनी
वाल्यां भृगोर्दिने । नभस्ये च चतुर्दश्यां कृत्तिकासु
त्रिपुष्करे” । द्वितीयवाक्यमतिदुष्टताकथनार्थं सिनी
बाल्याममावास्यायां भृगोर्दिने शुक्रयारे इति सुम्बन्धो
व्याख्येयः अत्र श्राद्धं न कुर्वीतेत्यनुषङ्गः श्राद्भशब्दे-
नात्र प्रेतक्रिया विवक्षिता । तथा तीक्ष्णोग्रभे
मूलज्येष्ठार्दाश्लेषालीक्ष्यानि उग्राणि पूर्वात्रयभरणीषषाः
पोष्णे रेवत्यां बारुणे शातभे त्रिपुष्करदिने भद्रातिथयः
सूर्य्यभौमशनिवाराः कृत्तिकापुनर्वसूत्तराफाल्गुनी
विशाखोत्तराषाढ़ापूर्वभाद्रपदाः एतत्त्रितयसंहतिरूपे दिने
प्रतिवृतेर्दाहो न कार्य इति केचिद्व्याकुर्वते तत्र पूर्व-
पद्येनैव निषेधसत्त्वात् मनु प्रत्यक्षमृतौ स निषेधो
न तु प्रतिकृतिदाहे एवं तर्हि सम्मतिवाक्याभावान्नायमर्थ
इति ब्रूमः । यदुक्तं ज्योतिःपराशरेण “साघारणध्रुवो-
ग्रे मैत्रे नो शस्यते मसुध्याणाम् । प्रेतक्रिया कथ-
ञ्चित् त्रिपुष्करे यमलधिष्ण्येवेति” अत तिर्पुव्करशब्देन
बिशिष्टयोगो विवक्षित इति चेत् अत्र ब्रूमः त्रिचरण-
नक्षत्राण्येव त्रिपुष्करपदेनोच्यन्तेऽतो हेमाद्रिणापि
कृत्तिकादीन्येव तिचरणानि मानि त्रिपुष्करशब्देन
व्याख्यातानि अतएवाह कश्यपः “भरण्याद्रा मथा श्लेषा
मूलं त्रिचरणानि च । प्रेतक्रियासु दुष्टानि घनिष्ठाद्यं च
पञ्चकम्” इति पराशरवाक्ये वहूनि प्रेतकृत्ये सामान्यतो
निषिडानि कश्यपवाक्येऽन्यानतिदुष्टान्युक्तानि इटमेवा-
भिप्रेत्य ग्रन्यकृतोक्तानि तत्र धनिष्ठाया अग्रहणं मध्य-
मेषु वक्ष्यमाणत्वात् । अथ न्यूनाधिमासे क्षयमासे
अधिमासे च शवप्रतिकृतिदाहो न कार्यः । उक्तञ्च ज्योति-
र्निबन्धे गरुड़पुराणे “न कुर्य्यात् गुरुशुक्रास्ते पौषै
खापे मलिम्लुबे । विसम्बितं प्रेतकार्यं गयां गीदावरीं
विनेति” मेधातिथिः “अस्तं गते गुरी शुक्रे पौषाषा-
ढाधिमासके । प्रेतकार्यं न कुर्वीत गयां गोदावरीं
विनेति” अधिमासस्योपलक्षणत्वात् क्षयमासेऽपि न
कार्यं प्रेतकार्यमित्यर्थः । अतएव मूले न्यूनमासनि
षेधः । अथाव्देकणाद्वर्षात्परतः ऊर्ध्वं याम्येऽयने
दक्षिणायने कर्कादिषड्राशिस्थिते सूर्य्ये न दाहः कार्यः
अर्थादुत्तरायणं सम्यक्, उपलक्षणणत्वादवमदिनमपि
निषिद्धम् उक्तञ्च गार्ग्येण “ऊर्ध्वं संवत्सराद्यदि”
प्रेतकार्याणि कुर्वीत श्रेष्ठं तत्रोत्तरायणम् । वृष्णपक्षश्च
तत्रापि वर्जयेत्तु दिनहूयम्” । इति गारुडपुराणेऽपि “न
कुर्य्याद्गुरुशुक्रास्ते पौषे स्वापे मलिम्लुचे । विलम्बितं
प्रेतकार्यं गयां गोदावरीं विनेति” । अत्र वाक्ये पौषस्वा-
पयोर्निषिङ्गत्वान्मार्गशीर्षस्य मध्यमत्वं प्रतीयते तदावश्य-
कविषयं प्रथमवर्षे तु दक्षिणायनमपि शुभमेव ।
पातपरिथे व्यतिपाताख्ये योगे गणितागते व्यतीपाताख्ये
महापात इत्यपि केचित् परिघाख्ये योगे तथा देबे-
ज्यशुक्रास्तके गुरुशुक्रयोरस्ते अत्र स्वार्थे कः । तथा
भद्रावैधृतयोः भद्रावैधृतौ प्रसिङ्गौ गणितसाध्ये वैधृ-
ताख्ये महापाते इत्यपि केचित् । तथा सिते पक्षे शुक्लपक्षे
शवप्रतिकृतेर्दाहो न कार्यः । यदुक्तं नारदेन श्राद्गलक्ष-
णाध्याये “चतुर्दशीं तिथिं नन्दां शुक्रारावार्किवासरम् ।
सितेज्ययोरस्तमयं द्व्यङ्घ्रिभं विषमाघ्रिभम् । शुकुपक्षं च
सन्त्यव्य पुनर्दहनमुच्यते” इति अन्यत्रापि “नन्दा
षदनभूतायां पातवैघृतविष्टिषु । शुक्रार्किभौमपरिथध्रुवमिश्रो
ग्रमूलभे । कर्तुश्चन्द्रेऽष्टवेदान्त्ये ब्जन्मप्रत्यरितारके ।
पृष्ठ ४२६३
त्रिपादभे सिते पक्षेऽयने याम्येऽव्दतः परम् । शवप्रति
त्रतेदांहः शुक्रेऽस्तेऽधिकमासके । नेष्टो मध्यो द्विपा-
न्मैत्रद्वीशादितिभगध्रुवे” इति तथा कर्तुः प्रेतश्रा-
द्धाद्यधिकारिणो जन्मप्रत्यरितारयोः जन्मतारा उत्प-
त्तिनक्षत्रं दशममेकोनविंशं चेति प्रत्यरितारा जन्मभात्
पञ्चमं चतुर्दशं त्रयोविंशं चेति । कथा कर्तुर्मृतिमुखा-
न्त्येऽब्जे स्वजन्मराशेरष्टमचतुर्थद्वादशस्थे चन्द्रे सति
दाहो न सन् न प्रशस्तः” ।
वराहपुराणे “चतुर्थाष्टमगे चन्द्रे द्वादशे च
विवर्जयेत् । प्रेतकृत्यं व्यतीपाते वैधृतौ परिघे तथा ।
करणे विष्टिसंज्ञे च शनैश्चरदिने तथा” । विष्टिसंज्ञं
करणं भद्रा । महाभारते “नक्षत्रेण न कुर्वीत यस्मिन्
जातो भवेन्नरः । न प्रोष्ठपदयोः कार्यं तथाग्नेयेऽपि
भारत! । दारुणेषु च सर्वेषु प्रत्यरे च विवर्जयेत्” इति
प्रोष्ठपदयोः पूर्वाभाद्रपदोत्तराभाद्रपदयोः आग्नेये कृत्ति-
कायाम् । कालविशेषादिकं नारदेनोक्तम् “दिनोत्तरार्द्धे
तत्कर्तुचन्द्रताराबलान्विते । पापग्रहे बलयुते शुक्र
लग्नांशवर्जनम् । तत्पुनर्दहनं प्रोक्तमिति “अथ
शवप्रतिकृतिदाहे मध्यनक्षत्राण्युच्यन्ते मैत्रमनुराघा भगः
पूर्वाफाल्गुनी अदितिध्रुवविशाखाः प्रसिद्भाः द्व्यङ्घ्रिभं
मृगचित्रा धनिष्ठा । ज्ञेऽपि बुधवारेऽपि शवप्रतिकृतिदाही
मध्यमः न शुभफलदो नाप्यनिष्टफलद इत्यर्थः उक्तञ्च
कश्यपेन “फल्गुनीद्वितयं रोहिण्यनुराधा पुनर्वसुः ।
द्वे आषाढे विशाखा च भानि द्विचरणानि च । एतानि
किञ्चिद्दुष्टानि वर्जयेत् सति सम्भवे” इति । “नेष्टो मध्यो
द्विपान्मैत्रद्वीशादितिभगध्रुवः” इति चेत्युक्तेर्बुधे सम्म-
त्यभावः । अथार्केज्यविधोरर्केज्याभ्यां सहितो विधुरिति
मध्यमपदलोपी समासः । सूर्यगुरुचन्द्राणां दिने वारे
दाहः श्रेष्ठस्तथा तेन करणेन श्रुतिकरस्वात्यश्विपुष्ये
एषु निषिद्धनक्षत्रगणाद्बहिर्भूतेषु पञ्चसु भेषु शवप्रतिकृते-
र्दाहः श्रेष्ठोऽनुष्ठीयमानः शुभफलद इत्यर्थः । आशौचा-
त्परत इत्यादिव्याख्यातार्थं ननु प्रतिकृतिसंस्कारः
किंनिमित्तम् उच्यते । दैवान्मानुषाद्वाऽपराधान्मृतस्य विधि-
वद्दाहो नाभूत् किन्तु काष्ठवद्दाहो जातीऽथ वा परदेश-
गतस्य चौरदंष्ट्र्यादिहतस्य तद्भीतेरेव केनचित् काष्ठव-
द्दाहोऽपि न कृतोऽथ वैकाकित्वान्न जातस्तदा प्रतिकृति-
दाहो विघेयः उक्तञ्च ब्रह्मपुराणे “अनाहिताग्नेर्देहस्तु
दाह्यो गृह्याग्निना द्विजैः । तदभावे पलाशोत्थैः पत्रैः
कार्यः पुमानपि । सुषिष्टैर्जलसंमिश्रैर्दग्धव्यश्च तथ
ग्निना । असौ स्वर्गाय लीकाय स्वाहेत्युक्त्वा सबान्धवैः ।
एवं पर्णशवं दग्ध्वा त्रिरात्रमशुचिर्भवेत्” इति ।
तदभावे देहाभावे तथाग्निना गृह्याग्निना अपिशब्दात्
स्त्रीमरणे तद्देहाभावे स्त्र्यपि पलाशोत्थैः पत्रैः कार्य्ये-
त्यर्थः । आहिताग्नेस्तु श्रौतसूत्रे विधिमाहापस्तम्बः
“यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत स यां
दिशमभिप्रस्थितस्तां दिशमस्याग्निभिः कक्षं दहेयुरपि
वाजसनेयिनामिति त्रीणि षष्टिशतानि पलाशवृन्तानि तैः
कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति
वा” । अत्र पक्षद्वयं यथाप्रवासगतो यदि न प्रज्ञायेत
प्रमीत इति यतो मृत इत्येव निर्णये स यां दिशं प्रस्थितो
भवेत्तां दिशं प्रति यः कक्षोऽकृष्टोभूमिप्रदेशस्तृणवांस्तं
देशमस्य मृतस्य श्रौत्राग्निभिस्तूष्णीं दहेयुर्बान्धवाः पितृ-
मेधविधिना । अयमेकः पक्षः । अपि वा अथवा ।
त्रीणि षष्ठ्युत्तराणि शतानि २६० पलाशवृन्तानि
पलाशानि पर्णानि यत्र तिष्ठन्ति तादृशानि वृन्तानि संपाद्य
तैर्वृन्तैः पलाशवृक्षीयैस्त्रिपत्रैर्वृन्तैः कृष्णाजिने पुरुषा
कृतिं कृत्वा तामाकृतिमस्याग्निभिः पितृमेधविधिना
दहेयुरिति वाजसनेयिनां मतमिति द्वितीयः पक्षः ।
पराशरेण तु कुशैः प्रतिकृतिः कार्येत्युक्तम् । “कृष्णाजिने
समास्तीयं कुशैस्तु पुरुषाकृतिमिति” कुर्य्यादिति शेषः ।
अत्र पलाशवृन्तकुशविध्योरन्यतरेणानुष्ठानं व्रीहियववत्तु-
ल्यबलत्वात् । शवप्रतिकृतिदाहानुष्ठानविधिस्तु शौनका-
द्युक्त दिशा ज्ञेयः नात्राप्रस्तुतत्वाल्लिख्यते अयं च
पलाशवृन्तादिभिः प्रतिकृतिविधिरस्थ्यलाभे यदा तु मृतास्थ्रां
लाभस्तदा तैरेव प्रतिकृतिः कार्य्या । यदुक्तं छन्दोगसूत्रे
“अथातः पुनर्दाहविधिं व्याख्यास्यामो यदि शरीरं नश्ये-
दस्थीन्यादायास्थीनि क्षीरोदकेन प्रक्षाल्यास्थिभिः कृष्णा-
जिने पुरुषाकृतिं कृत्वा पूर्बवद्दहेत्तेषामलाभे पलाशवृन्तैः
कृष्णाजिने पुरुषाकृतिं कृत्वा चत्वारिंशता णिरो दशभि-
र्ग्रीवां विंशत्योरस्त्रिंशतोदरं पञ्चाशता पञ्चाशता बाहू-
तयोरेव पञ्चभिरङ्गुलीन् सप्तत्या सप्तत्या पादौ तथैवाङ्गु”
लीरष्टाभिः शिश्नं द्वादशभिर्वृषणं तां कुशैर्वेष्टयित्वा
तस्मिन्नेव पूर्ववद्दहेदिति । अस्यार्थः चत्वारिंशता
पलाशवृन्तैः शिरः संपाद्य दशभिर्ग्रीवां विंशत्योरस्त्रि शता
जठरं पञ्चाशतैकबाहुं तथैव पञ्चाशताऽपरम् पञ्चभिः
पञ्चभिरङ्गनीन् तथा सप्तत्या सप्तत्या पादद्वय तत एव
पृष्ठ ४२६४
पञ्चभिरङ्गुलीन् एवं पञ्च पञ्च षष्ठ्यैकः पादः सम्पन्नः
अष्टाभिः शिश्नं द्वादशभिर्वृषणद्वयं एवं च षष्ट्यधिकत्रि-
शत्या पलाशवृन्तैरवयवकल्पना भवति तां प्रतिकृतिं
तस्मिन्नेव कृष्णाजिने पूर्ववदिति पितृमेधविधिना
दहेदित्यर्थः एतादृशे विषये कालनियमः शुक्रारार्किष्वि-
त्यादिनोक्तः यतः “अथातः संप्रवक्ष्यामि यत् पुनर्द-
हनं नृणाम्” इत्यादिना पद्यसमुदायेन कालशुद्धिमुक्त्वा
“अतीतविषये काम्ये न्यूने श्राद्धे महालये । एतत्
सर्वं विचिन्त्याशु कुर्याच्छ्राद्धमतन्द्रितः” इति कश्यपेन
कालातीतविषयत्वेनाभिधानात्” ।
आशौचमध्ये क्रियते चेत्तदा भद्रा भरणी धनिष्ठा
पञ्चकादिदोषराहित्यमपेक्षितं, नैव बहुकालव्यापिशुक्रा-
स्तादिदोषापेक्षा कार्येति गर्गवाक्ये यथासम्भवपदस्यार्थः
सर्वथा त्वाशौ चदिनेष दुष्टेषु दोषतारतम्येन महादोष-
त्यागोऽल्पदोषाङ्गीकारी यथा लोकप्रसिद्ध्रिः तादृशे दिने
शवप्रतिकृतिदाहो विधेयः सर्वथा दोषरहिते दिने
तूत्तम एव सः । अथ यदि मरणश्रवणानन्तराशौचदिनानां
राजिकदैविकब्राह्मणाद्यलाभरूपप्रतिवन्धादतिक्रसणमभू-
चदाशौचमस्ति न वेति विचारः राजिकदैविकसम्भाव-
नायां सत्यां सद्य एव शौचं स्यान्नत्वाशौचं यदाह
पराशरः “दुर्मिक्षे राष्ट्रसन्वापे आपदां च समुद्भवे ।
उपसर्ममृते चेव सद्यः शौचं बिधीयते” इति । यमवृह-
स्पती “दैवे भये समुत्पन्ने प्रधानांशे विनाशिते । सद्यः
शौचं समाख्यातं कान्तारापदि सम्प्रतीति” । पैठीनसि-
रपि “विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि । न
तत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत्” इति । कालान्त-
रालभ्यायाङ्गयादियात्रायां तादृशे एव तीर्थकर्मणि
तीर्थस्नानदानादिकर्माण तादृशे विषये आशौचग्रहाभा-
वादेव शवप्रतिकृतिदाहाभावः यदा तु ब्राह्मणाद्यलाभ-
स्तदाशौचपरिग्रहः स्यादेव परत्वाशौचदिनानन्तरं वर्ष-
मध्ये दिनशुद्धिमपेक्ष्यैव शवप्रतिकृतिदाही विधेयः
“आशौचस्य निवृत्तौ चेत् पुनः संस्क्रियते मृतः । संशो-
ध्यैव दिनं ग्राह्यमिति” गर्गेणैवकारसहितदिनपदोक्तेः
अयमर्थः अत्रापि भद्राभरणीपञ्चकादिर्दोषः कतिपय-
दिनव्यापी त्याज्य एव न तु शुक्रास्तादिकबहुकालव्यापि
दोषप्रतीक्षा । तदुक्तं ज्योतिर्निबन्धे पितृखण्डे “शुक्र-
स्यास्तमने चैव देवेज्यस्य तथैव च । प्रेतकार्यं प्रदुष्येत
प्रथमं वत्प्ररं विनेति” । अथ यदि वर्षमध्ये राजिक-
दैविकाद्युपद्रवः सम्पन्नस्तदा वर्षोत्तरं निषिद्गदक्षिणा-
यनशुक्रास्तादिमहादोषरहिते भद्राभरणीपञ्चकादिदोष
रहिते च काले शवप्रतिकृतिदाहः कायः उक्तञ्च
गार्ग्येण “ऊर्ध्वं संवत्सराद्यदि । प्रेतकार्याणि कुर्वीतश्रेष्ठं
तत्रोत्तरायणम्” इत्यादीनि मूलवाक्यानि प्रागभिहि-
तानि । अतएव मूलपद्येऽप्यव्दात्परतो याम्येऽयने तथा
देवेज्य शुक्रास्तके शवप्रतिकृतिदाहो न कार्य इति
व्याख्येयम् । प्रथमे वर्षे तु नायं दोषः सर्बत्रापि
गयागोदावर्य्योस्तीर्थयोः प्राप्तयोः सतीरयं शुक्रेज्यास्तदक्षि-
णायनादिमहादोषविचारः कोऽपि नास्ति तदुक्तं ज्यो-
तिर्निबन्धे प्रेतमञ्जर्य्याम् । “प्रेतकार्य्याणि सर्वाणि व्रत-
स्नानजपादिकम् । वर्ज्यं शुक्रेज्ययोरस्ते गयां गोदा-
वरीं विनेति” पी० धा० । अत्र दर्शे विध्रिनिषेधौ देशाचा-
रभेदात् व्यवस्थाप्यौ पर्णशवपर्णपुत्तलिकादयोऽप्यत्रार्थे ।

पर्णभेदिनी स्त्री पर्ण्णानि भिनत्ति भिद--णिनि ङीप् ।

१ प्रियङ्गुवृक्षे राजनि० । २ पत्रभेदकमात्रे त्रि० ।

पर्णभोजन पु० स्त्री० पर्णं भुङ्क्ते भुज--ल्यु ६ त । १ छागले

त्रिका० स्त्रियां जातित्वात् ङीष् । २ पत्रभक्षकमात्रे लि०
भावे ल्युट् । २ पत्रस्य भक्षणे न० ।

पर्णमणि पु० पर्ण्णवर्णो मणिः शा० त० । हरिन्मणौ अथ० ३५१

पर्णमय त्रि० पर्णस्य विकारः “ह्यचश्चन्दसि” पा० विकारे

मयट् । पर्णस्य विकारे “शरमयं बर्हिः” श्रुतिः स्तियां
ङीप् । “यस्य पर्ण्णमयी जुहूर्भवति न स पापं श्लोकं
शृणोति” श्रुतिः ।

पर्णमाचाल पु० पर्णमाचालयति आ + चल + णिच्--अण्

बा मुम् । कारवेल्लवृक्षे (उच्चा) शब्दमाला ।

पर्ण्णमुच् त्रि० पर्ण्णानि मुञ्चत्यत्र मुच--आधारे--क्विप् ६ त ।

वृक्षाणां पत्रमोचनाधारे शिशिरकाले ।

पर्णमृग पु० पर्णचरो मृगः पशुः । पशुभेदे

“वनौका वृक्षमार्जारो वृक्षमर्कटिकादयः । एते पर्ण-
मृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः” । वनौका वानरः
वृक्षमार्जारो वृक्षविड़ालः । वृक्षमर्कटिका (रूपी) इति
लोके “स्मृताः पर्णमृगाः वृष्याश्चक्षूष्याः शोषिणे हिताः ।
श्वासार्शःकासशमनाः सृष्टमूत्रपुरीषकाः” भावप्र

पर्णरुह् पु० पर्ण रोहत्यत्र रुह--आधारे क्विप् । पर्ण-

जननाधारे वसन्तकाले ।

पर्णल त्रि० पर्ण + अस्त्यर्थे सिघ्मा० लच् । पत्रयुक्ते

पर्णलता स्त्री पर्णप्रधाना लता शा० त० । ताम्बूलीलतायाम् राजनि० ।

पृष्ठ ४२६५

पर्णवल्क पु० ऋषिभेदे ततः गर्गा० गोत्रापत्ये यञ् पार्ण-

वल्क्य तद्गोत्रापत्ये पुंस्त्री० स्त्रियां यलोपः ङीष् ।
पार्णवल्की

पर्णवल्ली स्त्री पर्णप्रधाना वल्ली शा० त० । पलाशीलतायाम् राजनि० ।

पर्णवी त्रि० पर्णसिव अजति--अज--क्विप् वीभावः । खगे ऋ०

९ । ३ । १ भा० ।

पर्णवीटिका स्त्री पर्णस्य वीटिका । (पानेर विड़ा) स्तवकी कृतताम्बूले ।

पर्णशद पु० पर्णानि शद्यन्ते शीर्य्यन्ते शात्यन्ते यत्र

शद--संज्ञायां आधारे घ । १ पतितपर्णस्थितिदेशे २ तदूपे
रुद्रभेदे च यजु० १६ । ४६ वेददीपः ।

पर्णशय्या स्त्री पर्ण्णरचिता शय्या शा० त० । पत्ररचितश-

य्यायाम् ।

पर्णशवर पुं स्त्री० पर्ण्णभक्षणकरः शवरो यत्र । देशभेदे मार्कण्डपु० ५८ अ० ।

पर्णशाला स्त्री पर्णरचिता शाला शा० त० । १ पत्ररचित

कुटीरे उटजे असरः । पर्णमिव शाला यत्र । २ ग्राम-
भेदे “मध्यदेशे महान् ग्रामो ब्राह्मणानां बभूव ह ।
गङ्गाययुनयोर्मध्ये य मनस्य गिरेरधः । पर्णशालेति
विख्यातो रमणीयो नराधिप!” हरिवं० ६८ अ०

पर्णशालाग्र पु० भद्राश्ववर्षस्पे कुलाचलभेदे तदुपक्रमे

“श्वेतपर्णश्च नीलश्च शैवालश्चतिलोत्तमाः । कौरञ्जः
पर्णशालाग्नः पञ्चेते तु कुलाचलाः” मार्कण्डपु० ।

पर्णशुष् पु० पर्णं शुष्यत्यत्र शुष--आधारे क्विप् ।

वृक्षाणां पत्रशोषाधारे शीतकाले ।

पर्णस त्रि० पर्णस्यादूरदेशादि तृणा० चतुरर्य्यां स । पत्र-

स्यादूरदेशादौ त्रि० ।

पर्णसि पु० पॄ--पूरणे असि--नुक् च । १ जलमध्यस्थगृहे

(जलटुङ्गो) उज्ज्वल० । २ पद्मे उणादिकोषः । ३ शाके
४ आभरणक्रियायाम् संक्षिप्तसारः ।

पर्णाढक पु० ऋ षभेदे तस्य गोत्रापत्यम् इञ् पार्णाढकि

तद्गोत्रापत्ये बहुत्वेऽस्त्रियां तस्य लुक् । पर्णाढकाः
स्त्रियान्तु पार्णाढक्य इत्येव ।

पर्णाद त्रि० पर्णमत्ति व्रतार्थम् अद--अण् उप० स० । १ व्रतार्थं

षत्रभक्षके २ ऋषिभेदे पु० भा० स० ४ अ० ।

पर्णाशन पु० पर्णनि अश्नानि अश--ल्यु । १ मेघे तस्य पत्र-

भक्षणकाते गलल्लालयाभ्रसम्भवप्रसिद्भिः । २ पत्रभोजि-
मात्रे त्रि० ।

पर्णास(सि) पु० पर्णानि अस्यति अम--अच्--इन् वा । तुलस्याम् अमरः ।

पर्णिन् पु० पर्ण + अस्त्यर्थे इनि । १ वृक्षे नच २ माषपर्ण्यां

स्त्री ङीप् शब्दमाला । ३ अप्सरोभेदे स्त्री हरिवं०
२ २६ अ० । पर्णतुल्यवर्णत्वात्तस्यास्तथात्वम् ।

पर्णिल त्रि० पर्ण + अस्त्यर्थे पिच्छा० इलच् उज्ज्वल० । पर्ण-

विशिष्टे पिच्छादिगणसूत्रे तु नास्य पाठा दृश्यते ।

पर्णोटज न० पर्णनिर्मितमुटजम् शा० त० । पर्णशालायाम्

हारा० ।

पर्द्द अपानवायुक्रियायां भ्वा० आत्म० अक० सेट् । पर्द्दते अपर्द्दिष्ट पपर्द्दे ।

पर्द्द पु० पृ--बा० द । १ केशसमूहे उणा० । पर्द्द--भावे घञ्

२ अपानवायुशब्दे (प्राद) । ल्युट् । पर्दन तत्रार्थे न० हेमच०

पर्प गतौ स्वा पर० सक० सेट् । पर्पति अपपीत् पपर्प ।

पर्प न० पृ--प । १ गृहे २ नवतृणे उणादिकोषः २ खञ्जवाह-

नसाधने पीठादौ सि० कौ० । तेन चरति पर्पा० ष्ठन् ।
पार्पिक पर्पेण गतियक्ते खञ्जे । स्त्रियां षित्त्वात् ङीष् ।

पर्पट पु० पर्प + शका० अटन् । (क्षेतपापड़ा) १ वृक्षभेदे “पर्पटो

वरतिक्तघ स्मृतः पर्पटकश्च सः । कथितः पांशुपर्य्याय-
स्तथा कवचनामकः । पर्पटी हन्ति पित्तास्रभ्रम
तृष्णाकफज्वरान् । संग्राही शीतलस्तिक्तो दाहनु-
द्वातलो लथुः” भावप्र० (पाँपर) ख्याते २ पिष्टकभेदे पु
कृतान्नशब्दे २१८२ पृ० दृश्यम् । मेदिन्यां अत्रार्थे
क्लीवत्वेन पठितः । ३ औषधभेदे पु० मेदि० स्वर्णपर्पट
इत्यादि स्वार्थे क । पिष्टकभेदे भावप्र ।

पर्पटद्रुम पर्पट इव द्रुमः । कुम्भीवृक्षे राजनि० ।

पर्पटी स्त्री पर्प--अटन् गौरा० ङीष् । १ मौराष्ट्रमृत्तिकायाम्

रत्नमाला । २ पिष्टकभेदे (पाँपर) उणादिकोषः । ३ उत्त-
रदेशपसिद्धस्नुगन्धिद्रव्ये भावप्र० । “पर्पटी तुवरा तिक्ता
शिशिरा वर्णकृल्लघुः । विषव्रणकण्डुकफपित्तास्रकुष्ठ-
नाशिनी” भावप्र० ।

पर्परीक पु० पृ--ईकन् द्वित्वमभ्यासस्य रुक् च । १ मूर्य्ये उज्

ज्वलद० २ वह्रौ त्रिका० । ३ जलाशये संक्षिप्रसारः

पर्परीण पु० पॄ--यङ्लुक् वा० ईनन् । १ पर्णस्य सिरायां २ द्यू

तकम्बले च मेदि० ।

पर्पादि तेन चरतीत्यर्थे ष्ठन् प्रत्ययनिमित्ते शब्दगणे स च

गणः पा० ग० सू० उक्तो यथा “पर्प अश्व अश्वत्थ रथ
जान्यास व्याल (पादः पच्च) पर्पिक इत्यादि ।

पर्फरीक न० स्फुर--ईकन् “पर्फरीकादयश्च” उणा० नि०

किसलये नवपलवे उज्ज्वद० ।

पर्ब गतौ भ्वा० पर० स सेट् । पर्तति अपर्वीत् पपर्ब ।

पृष्ठ ४२६६

पर्य्य(ल्य)ङ्क पु० परिगतोऽङ्कम् प्रा० समा० “परेश्च अङ्कयोः

वा रस्य लः । १ खट्वायाम् (पालङ्क) अमरः । २ वीरा-
सनाङ्के अङ्गस्थापितकरतले यथाह योगसारे वसिष्ठः
“एकं पादमथैकस्मिन् विन्यस्योरौ तु संस्थितम् ।
इतरस्मिन् तथैवोर्द्ध्वं वीरासनमिदं स्मृतम् । उत्तानिते
करतले करमुत्तानितं परम् । आधायाङ्कगतं कृत्वा ध्याये-
द्यस्तस्य सोऽन्तरम्” । ३ अवसिक्थकायाम् हेमच० ।
४ योगपट्टे च ।

पर्य्यङ्कपादिका स्त्री पर्य्यङ्कस्येव पादोऽस्त्यस्याः ठन् बहु०

कप् वा कापि अतैत्त्वम् । कोलशिम्ब्याम् राजनि० ।

पर्य्यङ्कबन्ध पु० पर्य्यङ्कस्य योगपट्टस्य बन्धः बन्ध--घञ् ।

योगपट्टवस्त्रादिना पृष्ठजानुजङ्घाबन्धने “पर्य्यङ्कबन्धं निविड़ं
बिभेदेति” कुमारः । ल्युट् । पर्य्यङ्कबन्धन अत्रैव न० ।

पर्य्यग्निकृत त्रि० अग्नेः परितः कृतः । “समन्तादग्निवेष्टनेन

कृतसंस्कारे “तान् वर्व्य ग्निकृतानुत्सृजति” ताण्ड्य० ब्रा० ।

पर्य्यङ्क्य पु० अश्वमेधीये प्रथमयूपे बन्धनीयेषु पञ्चदशसंख्याकेषु

पशुभेदेषु ते च यजु० २४१ मन्त्रे उक्ताः । “ते वात्र ते
पञ्चदश षर्य्यङ्क्याः पशवो भवन्ति” शत० ब्रा० १३२२१ ।
“पर्य्यङ्क्यानश्वे” कात्या० श्रौ २० । ५ । ४ । “कृष्णग्रीवादयः
वामनानाताः पञ्चदश पर्य्यङ्क्यसंज्ञा इत्यर्थः” कर्कः ।

पर्य्यटन न० परितोऽटनम् । पुनःपुनर्भ्रमणे हेमच० ।

पर्य्यनुयोग पु० परितोऽनुयोगः प्रश्नः । दूषणार्थं जिज्ञा-

सायाम् हलायु० “एतेनास्यापि पर्य्यनुयोगस्यानवकाशः”
इति दायभागः ।

पर्य्यनुयोज्य त्रि० परि + अनु--युज--कर्मणि ण्यत् । निग्र

होपपत्त्या चोदनीये (निग्रहस्थानं प्राप्तोऽसि) इव्येवम-
नुयोज्ये न्यायभाष्यम् ।

पर्य्यनुयोज्योपेक्षण न० गौतमोक्ते निग्रहस्थानभेदे निग्र-

हस्थानप्रप्प्तस्योपेक्षणे । “अनिग्रहः पर्य्यनुयोज्योपेक्ष-
णम्” गौ० सू० । पर्य्यनुयोज्योपेक्षणं लक्षयति । निग्र-
हस्थानं प्राप्तवतोऽनिग्रहः निग्रहस्थानानुद्भावनमित्यर्थः
यत्र त्वनेकनिग्रहस्थानपाते एकतरोद्भावनं तत्र न पर्य्य-
नुयोज्योपेक्षणम् अवमरे निग्रहस्थानोद्भावनत्वावच्छिन्ना-
भावस्येव तत्त्वात् ननु वादिना कथमिदमुद्भाव्यं स्वकौ-
लीनविवरणस्यायुक्तत्वादिति चेत् सत्यं मध्यस्थेनैव-
सद्भाव्यं वादे च स्वयमुद्भावनेऽप्यदोषः” वृत्तिः ।

पर्य्यन्त पु० परिगतोऽन्तम् प्रा० स० । शेषसीमाप्राप्ते ।

पर्य्यन्तभू स्त्री “पर्य्यन्तस्य शेषसीमाया भः । ग्रामादेः

शेषसोमास्थाने परिसरे अमरः ।

पर्य्यन्तिका स्त्री परितोऽन्तिका । गुणनाशे हारा० ।

पर्य्यन्य पु० पर्जन्यः + पृषो० । पर्जन्यशब्दार्थे उणा० ।

पर्य्यय पु० परित्यज्य शास्त्रलौकिकमर्य्यादाम् अयः इण--भावे

अच् । शास्त्रलोकव्यवहारातिक्रान्ते आचारे अमरः ।

पर्य्यवसान न० परि + अव + सो--भावे ल्युट् । १ तत्तदर्थाव-

धारणे २ शेषावथौ च ।

पर्य्यवसित त्रि० परि + अव + सो--कर्मणि क्त । १ पूर्वापरा-

लोचनेन अवधारितेऽर्थे २ निष्कृष्टार्थे च ।

पर्य्यवस्था स्त्री परि + अव + स्था--अङ् । १ विरोधे २ प्रतिपक्ष-

वादे च । ल्युट् । पर्य्यवस्थान तत्रैव न० । तृच् पर्य्य-
वस्थातृ तत्कर्त्तरि त्रि० । “परितः विश्वं व्याप्य स्थितः ।
षर्य्यवस्थित विष्णौ पु० “जीवनः पर्य्यवस्थितः” विष्णुस० ।

पर्य्यसन न० परि + अस--क्षेपे--भावे ल्युट् । १ अपसारणे

२ दूरीकरणे परितः ३ क्षेपणे च ।

पर्य्यस्त त्रि० परि + अस्--क्षेपे कर्मणि क्त । १ परितः क्षिप्ते २ पतिते च मेदि० ।

पर्य्यस्ति स्त्री पर्य्यस्यते शरीरं यत्र परि + अस--क्षेपे आधारे

भावे वा क्तिन् । १ पल्यङ्के (पालङ्ग) त्रिका० तत्रार्थे
२ दूरीकरणे च स्वार्थे क । पर्य्यस्तिका हेमच० ।

पर्य्याचान्त न० परित आचान्तम् । एकपङ्क्तिस्थान् भुञ्जा-

नानन्यानवमत्य यत्रान्येनान्ने भुज्यमाने अन्येनाचमनं
कृतं तादृशे अन्ने तच्चान्नमभक्ष्यम् “उग्रान्नं सूतिकान्नञ्च
पर्याचान्तमनिर्दशम्” मनुव्याख्यायां कुल्लूकभट्टः ।
“उदक्यास्पृष्टसंघुष्टं पर्य्याचान्तञ्च वर्जयेत्” याज्ञ० ।
मुद्रितपुस्तके पर्य्यायान्नमिति पाठः प्रामादिकः
मनुनैकवाक्यत्वात् तथा पाठस्य युक्तत्वात् ।

पर्य्याचित त्रि० परि + आ + चि--क्त । आचिते आचिता०

नास्यान्तोदात्तता ।

पर्य्याण न० परि + या--ल्युट् पृषो० । १ अश्वसज्जायां २ पल्य-

यने (जिन्) इण--ल्युट् । पर्यायणमप्यत्र ।

पर्य्याणहन न० सोमोऽनसि स्थितः समन्तादानह्यतेऽनेग

परि + आ + नह--करणे ल्युट् । सोमशकटोपरिगत
पटकुटीरूपे तद्बन्धनोपाये पदार्थे कात्या० श्रौ० ७ । ७ । १३०

पर्य्याप्त न० परि + आप--भावे--क्त । १ यथेष्टे २ तृप्तौ ३ सामथ्ये

४ निवारणे ५ योग्यत्वे च । कर्त्तरि क्त । ६ समर्थे ७ प्राप्ते
च त्रि० मेदि० । ८ षर्य्याप्तिमम्बन्धयुक्ते त्रि० ।

पर्य्याप्ति स्त्री परि + आप--भावे क्तिन् । १ सम्यक् प्राप्तौ न्या-

यमतसिद्धे २ स्वरूपसम्वन्धभेदे तथाहि “द्वित्वादिकं
पर्याप्तिसम्बन्धेन दित्रादिष्वेव वर्त्तते न प्रत्येकम ।
पृष्ठ ४२६७
समवायेन तु प्रत्येकवृत्ति । “प्रत्येकावृत्तेः समुदायावृ-
त्तित्वनियममस्तु समवायादिनैव न पर्य्याप्तिसम्बन्धे-
नेति भेदः । स च सवेषामेव पदार्थाना विशिष्टबुद्धि-
नियामकः । पदार्थभेदेन नाना यथा “पर्य्याप्तिश्चाय-
मेको घट इमौ द्वौ इत्यादि प्रतीतिसाक्षिकः स्वरूप-
सम्बन्धविशेषः” इति दीघितिः । समवायेन गुणे
गुणस्यासत्त्वेऽपि चत्वारो गुणा इत्यादिप्रतीत्या गुणादिषु
संख्यादिसत्त्वनियामकोऽपि तादृशः सम्बन्धः” इति
सामान्यभावे जगदीशः द्वितीयवुत्पतिवादे
गदाधरभट्टाचार्यश्च । पर्याप्तिर्द्विविधा अर्धपर्य्याप्तिः पूर्ण-
पर्य्याप्तिश्च । तत्र प्रथमा यत्राधिकस्य निरासार्था या
पर्य्याप्तिर्निवेश्यते सार्धपर्य्याप्निः यथा पर्वतो वह्निमान्
धूमादित्यादौ साध्यतावच्छेदककह्नित्वनिष्टा पर्य्याप्तिः ।
द्वितीया । यत्र न्यूनवारणाय या पर्य्याप्तिर्निवेश्यते
सा पूर्णपर्य्याप्तिः । यथा पर्वतो न महानसीयवह्निमा-
नित्यादौ साध्यतावच्छेदकीभूतमहानसीवत्वविशिष्टवह्नि-
त्वनिष्ठा पर्याप्तिः” ।

पर्य्याप्लाव पु० परि + आ--प्लु थञ् । १ अभिप्लवशब्द र्थे तैत्ति०

स्र० ७ ५ ७ २ । २ परित आप्लाव (छयलापि) ।

पर्याय पु० परि + इण--घञ् । १ अनुक्रमे २ प्रकारे ३ अवसरे

मेदिनिः ४ निर्माणे ५ द्रव्यधर्मभेदे ६ समानार्थबोधके शब्दे
च हेमच० ।

पर्य्यायशयन न० पर्य्यायेण क्रमेण शयनम् । यामिकभटानां क्रमेण शयने अमरः ।

पर्य्यायोक्त न० अर्थालङ्कारभेदे अलङ्कारशब्दे दृश्यस ।

पर्य्यारिणी स्त्री परि + ऋ--णिनि ङीप् । १ परित आर्त्ति-

मत्यां व्याधिग्रस्तायां गवि “तस्य दक्षिण्णा कृष्णा गौः
परिमर्णी पर्य्यारिणो” शत० ब्रा० ५ । ३ । १ । १३ । २ परित
आर्त्तियुक्ते त्रि० ।

पर्य्याली अव्य० परि + आ--अल ई ऊर्य्यादि० । हिंसायाम्

गणरत्नटी० पर्य्यालीकृत्य हिंसित्वेत्यर्थः ।

पर्य्यालोचन न० परि + आ + लोच--भावे ल्युट् । सम्यग्विवेचने

पर्य्यावर्त्तन न० परि + आ--वृत--ल्युट् । सूर्य्यस्य पश्चिमव-

र्त्तिन्याः छायायाः पूर्वदिग्बर्त्तित्वेन परिवृत्तौ “सन्धिश्चेत्
सङ्कवादूर्द्धं प्राक् पर्य्यावर्त्तनाद्रवेः” कर्मप्रदीपः ।

पर्य्यास पु० परि + अस--क्षेप घञ् । १ परिवर्त्ते “पर्य्यासं च

परिमाणञ्च गतिं चन्दार्कयोरपि” मार्कण्डपु० । २ पतने
३ हनने च । वहिष्पवमानगतानां त्रयाणां तृचानां
मध्ये ४ अन्तिमे तृचे । “स्तोत्रीयानुरूपौ तृचौ भवतो
घृषण्वन्तस्तृन्ना मवन्ति उत्तमः पर्य्यासः” सा० सं० भा०
ध्रता श्रुतिः ।

पर्युक्षण न० परित उक्षणम् । जलादेः मन्त्रवर्जं तुष्णीं

जलादेः परितः सेचने । “उदक्संस्थन्तूष्णीं पर्युक्षणम्”
आश्व० गृ० १ । ३ । १ “तुष्णीं ग्रहणं मन्त्रवर्जमन्ये धर्मा
अग्निहोत्रदृष्टा भवन्तीत्येवमर्थम् । त्रिस्त्रिरेकैकं पुनः-
पुनरुदकमादायादायान्ते च कर्मणां पर्युक्षणम्” नारा०
एतच्च ऋग्वेदिविषयम् सामगानां तु तत्र गीभिलेनमन्त्र-
भेदा उक्ता यथा “अग्निमुपसमाधाय पसिसमुह्य दक्षिण
जान्वक्तो दक्षिणेनाग्निम् “अदितेऽनुमन्यस्वेति” पश्चात्
“स्वरस्वत्यनुमन्धस्वेति” उत्तरतः, “देवसवितः प्रमुबेति”
प्रदक्षिणमग्निं पर्युक्षेत् सकृत्तिर्वा” ।

पर्युदञ्चन न० पर्युदञ्च्यते उदयते परि + उद्--अन्च

कर्मणि ल्युट् । १ऋणे अमरः भावे ल्युट् । २ उङ्गरे च ।

पर्युदय अव्य० उदयस्य सामीप्यम् सामीप्ये अव्ययी० ।

उदयसामीप्ये सूर्य्योदयसमीपे कात्या० श्रौ० । ४ । ७ । २५

पर्युदस्त त्रि० परि + उद् + अस--क्त । १ निवारिते २ फलप्रत्य-

वायशून्यतया कोर्विते नञा भेदप्रतियोगिनि “यथा
रात्रौ श्राड्गं न कुर्वीत” इति अत्र हि रात्रौ श्राद्धे
न फलं न वा प्रत्यवायः इति रात्रिः पर्युदस्ता तद्भि-
न्नामावस्या नञा बोध्यते । ३ परित उत्क्षिप्ते च ।

पर्युदास पु० परि + उद् + अस--घञ् । १ निवारणे फलप्रत्य-

वायशून्यतया “प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्रधा
नता । चर्युदासः स विशेयो यत्रीत्तरपदेन नञ्”
इत्युक्तलक्षणे भेदरूपे नञर्थे । नञ्शब्दे मतभेदेन
विस्तरो दृश्यः ।

पर्युपवेशन न० परित्यज्य कर्मान्तरमुपवेशनम् । सोमाभि-

षवादिकर्मपरिहारेण उपवेणनमात्रे क्यत्या० श्रौ० ९ । ४ । १
व्याख्यायां दृश्यम् ।

पर्युप्ति स्त्री परि + वप--भावे क्तिन् । परितो वपने मेदि०

पर्युषित त्रि० परिहृस स्वकालमतिक्रम्य उषितम् वम--क्त ।

(वासि) कालातिक्रान्ते गतरातिकालके द्रव्ये । देवेभ्यः
पर्युषितपुष्पदानं निषिन्नं यथा
नारसिंहे “अपर्युषितनिश्छिद्रेः प्रोक्षितैर्जन्तुवर्जितैः ।
स्त्रीयारामोद्भवैर्वापि पुष्यैः संपूजयेल्लरिम्” योगिनीतन्त्रे
तत्प्रसवः “विल्वपत्रञ्च माध्यञ्च तमालामलकीदलम् ।
कह्णारतुलसी चैव षद्मञ्च मुनिपुष्पकम् । एतत् पर्यु-
षितं न स्यात् यच्चान्यत् कलिकात्मकम्” । पर्युषितान्ना-
पृष्ठ ४२६८
दिभक्षणनिषेधो यथा “शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं
पतितेक्षितम् । उदक्यास्पृष्टसंथुष्टं पर्य्याचान्तञ्च वर्ज-
येत्” गरुड़पु० “यातयामं गतरसं पूति पर्युषितञ्च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्” गीता ।
“शुक्तं पर्युषितञ्चैव शूद्रोच्छिष्टन्तथैव च” मनुः ।
अत्र प्रतिप्रसवः पर्युषितं रात्र्यान्तरितं तत्तु स्नेहाक्तं
भक्ष्यमाह सनुः “यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यभोज्य-
मगर्हितम् । तत् पर्युषितमप्याद्यं हविःशेषञ्च यद्भ-
वेत्” विशेषमाह सएव “चिरसंस्थितमप्याद्यं सुस्नेहाक्त-
मपि द्विजैः” श्राद्धत० “मन्त्राभिमन्त्रितं शस्तं न च
पर्युषितं नृप! । अन्यत्र फलशाकेभ्यः शुष्कशाकालिका-
त्ततः । तद्वद्वदरिकाभ्यस गुड़पक्वेभ्य एव” आह्नित०
“ग्रहे पर्युषितञ्च यत्” स्मृत्युक्तनिषेधविषये प्रतिप्र
सवः उपरागशब्दे दृश्यः ।

पर्यूहण न० परि + ऊह--भाषे ल्मुट । परिसमूहने अग्नेः

समन्तान्मार्जने कात्या० श्रौ० ८ । ५ ३५

पर्य्येषणा स्वी परितस्तर्कादिना एषणा परीक्षा । १ तर्का-

दिना षदार्थपरीक्षायाम् २ अन्वेषणायाञ्च अमरः ।
परि + एषि--भावे ल्युट् । पर्य्येषणन० तत्राथे । क्तिन् ।
पर्य्येष्टि स्त्री तत्रार्थे ।

पर्य्येहि त्रि० परि + आ + ईह--इन् । समन्ताच्चेष्टाकारके

स्त्रियां शाङ्गरवा० ङीन् । कृदिकारान्तत्वेन ङीपः
प्राप्तावपि नित्स्वरार्थं ङीनोविधानम् ।

पर्व पूर्त्तौ भ्वा० पर० सक० सेट् । पर्वति अपर्वीत् । पपर्व ।

पर्वक न० पर्वणा कायति कै--क । ऊरुसन्धौ (आँटु) शब्दच०

पर्वका(र)रिन् त्रि० अपर्व पर्व तत्तुल्यक्रियं करोति कृ--अण्

णिनि वा । धनलोभादिना अपर्वदिने पर्वोक्तकर्मकारिणि

पर्वगामिन् पु० पर्वसु गच्छति स्त्रियं गम + णिनि । पर्वकाले

स्त्रीगमनकारिणि पर्वशब्दे तत्र स्त्रीगमननिषेधो दृश्यः

पर्वण पु० १ राक्षसभेदे भा० व० २ ३ ४ अ० । पर्व पूत्तौ करणे

ल्युट् । २ पूर्त्तिकरणे स्त्रियां ङीप् सा च ३ पौर्णमास्याम् ।
“चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः” हरिब०
१५ ३ अ० । पर्वणि सन्धौ जाता अण् संज्ञापूर्वकत्वात्
न वृद्धिः ङीप् । सुश्रुतोक्ते ४ सन्धिगतरोगभेदे स्त्री
“ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा”।

पर्व(णी)णिका स्त्री पर्वणी + स्वार्थे क । पर्वगतरोगभेदे सुश्रुतः ।

पर्वत पु० पर्व--अतच् पर्वाणि मागाः सुन्त्यस्प त वा ।

१ गिरौ अमरः दानार्थं कल्पिते पर्वताकारे २ धान्यादिर्श-
लदशके ३ मुनिभेदे कश्यपात् नारदश्चैव पर्वतोऽरुन्धती
तथा” तस्य नारदसोदरत्वमुक्तम् । मा० शा० ३० अ० तु
तस्य नारदभागिनेयत्वमुक्तम् तच्च कपिवक्त्रशब्दे १ ६ ७ ६
पृ० दर्शितम् । कृल्पभेदादविरोधः । ४ मत्स्यभेदे
(पावदा) ५ वृक्षे ६ शाकभेदे च मेदिनिः । ७ गन्धर्वभेदे
भा० आ० १८७ अ० । धर्मस्य पुत्रं साध्यायां जाते ८
देवभेदे मत्स्यपु० २० ४ अ० ।
सुमेरोः पूर्वे पर्वता यथा “शीताक्तश्चक्रमुञ्जश्च
कुलीरोऽश्वश्च कङ्गवान् । मणिशैलोऽथ वृषवान्
महानीलो भवाचलः । सुविन्दुः मन्दस्ये वेणुः सुमेषो
निमिपस्तथा । देवशैलस्य पूर्वेण मन्दरश्च महावलाः
सुमेरोः दक्षिणे पर्वता यथा “त्रिकूटः शिखराद्रिश्च
कलिङ्गोऽथ सतर्कुकः । रुचकः सानुमांश्चैव ताम्रको-
ऽथ विशाखवान् । श्वेतोदरः समलयो बसधारश्च रत्र-
वान् । एकशृङ्गो महाशैलो गजशैलः पिशाचकः ।
पञ्चशैलोऽथ कलासो हिमवांश्चान्नलोत्तमः । इत्येते
दक्षिणे पार्श्वे मेरोः प्रोक्ता महानलाः” । सुमेरोः
पश्चिमे पर्वता यथा “मुचक्षुः शिशिरश्चैव वैदूर्य्यः पिङ्ग-
लस्तथा । पिञ्जरोऽथ तथा भद्रः सुरसः कपिलो मधुः ।
अञ्जनः कुक्कुटः कृष्णः पाण्डुरश्चाचलोत्तमः । महस्र-
शिस्वरश्चाद्रिः पारिपात्रः सशृङ्गवान् । पश्चिमेन तथा
मेरोर्विष्कम्भात् पश्चिमाद्वहिः । एतेऽचलाः
समाख्याताः शृणुष्वातस्तथोत्तरान्” । सुमेरोरुत्तरे पर्वता
यथा “शङ्ककूटोऽथ ऋषभो हंसनाभौ तथाचलौ ।
कपिलेन्द्रस्तथा शैलः सानुमान्नील एव च । शतशृङ्गः
स्वर्णशृङ्गः पुन्नाको मेघपर्वतः । विराजाख्यो
वराहाद्रिर्मयूरी रुचिरस्तथा । इत्येते कथिता ब्रह्मन्मेरो-
रुत्तरतो नगाः” मार्कण्डेय पु० ।
श्रेष्ठपर्वता विंशतिर्यथा “हिमवाम् हेमकूटश्च
निषधो नीलपर्वतः । श्वेतश्च शृङ्गबान् मेरूर्माल्यवान्
गन्घमादनः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षमा-
नपि । बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा ।
लोकालोको महांस्तेषु तथैवोत्तरमानसः । एते
विंशतिर्विख्याताः पर्वतास्तस्थषांवराः” । गिरीणां सपक्षत्व
तच्छेदनकथा यथा “ततोऽद्रयो जातपक्षा विष्णो-
श्चैव तु मायया । प्रस्थिता मेदिनीं त्यक्त्वा यथापूर्व”
नियेथिताः । तत्स्थानममुराष्णान्तु धात्रादिष्ट जला-
पृष्ठ ४२६९
र्णवे । प्रतीच्यां पर्वताः सषे निममज्जुर्यथा गजाः ।
तत्रामुरेभ्यः शंसुस्ते आधिपत्य सुराश्रयम् । तच्छ्रु-
चैव सुराः सर्वे चक्रुरुद्योगमुत्तमम्” इत्युपक्रमे
तेषां युद्गमुक्त्वा युद्गजयानन्तरं तेषां पक्षच्छे दौक्ती यथा
“धरण्यान्तु गिरीन् स्थाप्य स्वेषु स्थानेषु गोपतिः ।
ग्रिच्छेद पविना ग्रक्षान् सर्वेषां भुविचारिणाम् । एकः
पपक्षो मैनाकः सुरैस्तत्समये कृतः” अग्निपु० । पर्वतानां
स्थावरजङ्गमरूपे द्वे रूषे यथा “नद्यश्च पर्वताः सर्वे
द्विरूपाश्च स्वभावतः । तोयं नदीनां रूपन्तु शरीरमप-
रन्तथा । स्थावरं पर्वतानान्तु रूपं कायस्तथाऽपरः ।
शुक्तीनामथ कम्यूना तथैवान्तर्गता तनुः । बहिरस्थि-
स्नरूपन्तु सर्वदैव प्रवर्त्तते । एवं जलं स्थाबरश्च
नदीपर्बतयोर्यथा । अन्तर्वसति कायस्तु सततंनोपलभ्यते ।
आप्याय्यते स्थावरेण शरीरं पर्वतस्य तु । तथा नदीनां
कायस्तु तोयेनाप्याय्यते सदा । नदीनां कामरूपित्वं
पर्वतानां तथैव च । जगत्स्थित्यै पुरा विष्णुः
कत्पयामास यत्नतः । तोयहानौ नदीदुःस्वं जायते
सततं द्विजाः १ । विशीर्शो स्थावरे दुःखं जायते गिरि-
कायगम्” कालिकापु० २ २ पु० ।

पर्वतकाक पुंस्त्री० पर्वते भवः काकः । द्रोणकाके हेमय०

स्त्रियां जातित्वात् ङीष् ।

पर्वतज त्रि० पर्वताज्जायते जन--ड ५ त० । १ गिरिजातमात्रे

२नद्यां स्वी हेमच० ।

पर्वततृण न० पर्वतभवं तृणं शा० त० । (सण्ड) गिरि तृणभेदे राजनि० ।

पर्वतपति पु० ६ त० । हिमालये पर्वतनाथादयोऽप्यत्र ।

पर्वतमोचा स्त्री पर्वतोड्गवा मोचा शा० त० । गिरिकदल्यां

राजनि० ।

पर्वतराज् पु० पर्वतेषु राजते राज--क्विप् । हिमालये

पर्वतराज पु० ६ त० टच्समा० । हिमालये “आरभ्य तस्यां

दशमीञ्च यात् प्रपूजयेत् पर्वतराजपुत्रीम्” ति० त० ।

पर्वतवासिन त्रि० पर्वते वसति वस--णिनि ७ त० । १ गिरि-

वासिनि स्त्रियां ङीप् । सा च २ आकाशमांआंस्यां राजनि०

पर्वतात्मजा स्त्री ६ त० । हैमवत्यां दुर्गाया हरिवं० १७६ अ०

२ मनाके पु० पर्वतसुतादयोऽप्यत्र ।

पर्वताधारा स्त्री पर्वत आधारो यस्याः । पृथिव्यां नगानां भूधरत्वेन तस्यास्तथात्वम्

पर्वतारि पु० ६ त० । इन्द्रे शब्दरत्ना० । तस्य तत्पक्षच्छे-

त्तृत्वात् तथात्वम् पर्वतशब्द दृश्यम् ।

पर्वताशय पु० पर्वते आशेते आ + शौ--अच् । मेघे शब्दच० ।

पर्वताश्रय त्रि० पर्वत आश्रयो यस्य । १ पर्वतवासिनि २ शरभे

पुंस्त्री० राजनि० स्त्रियां जातित्वेऽपि योपधत्वात् टाप् ।

पर्वतासन न० रुद्रयामलोक्ते आसनमेदे यथा “अथ वक्ष्ये

महादेव! पर्वतासनमङ्गलम् । यत् कृत्वा स्थिररूपिण्याः
षट्द्यक्रादिविलोडनम् । योन्यासनं पर्वतेन योगं
योगबलाबलम् । तत्कालं च फलं तावत् स्वेचरो
यावदेव हि । पादगेष्णेन चाक्रम्य लिङ्गाग्रं यो नियोजयेत् ।
अन्यत् पदमूरौ दत्त्वा तत्र योन्यासनं भुवि ।
एतन्मध्ये महेशान! पर्वतासनमुच्यते” ।

पर्वतीय पु० पर्वते भवः छ । (पाहाड़ीया) जातिभेदे

पर्वतेष्ठा त्रि० पर्वते स्था--क्विप् अत्वम् अलुक्समा० । १ पर्वत-

स्थायिनि ऋ० ६ २२ । २ लोके तु न षत्वम् ।

पर्वधि पु० पर्वणि दधाति किरणवृद्धिं धा--कि । चन्द्रे त्रिका०

पर्वन् न० पॄ--वनिप् । १ उत्सवे २ ग्रन्थौ (गाँट) ३ लक्षणभेदे

४ प्रस्तावे ५ ग्रन्थविच्छेदस्थागे मेदि । “चतुर्दश्यष्टमी चैव
अमावस्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र!
रविसंक्रान्तिरेव च” इति स्मृत्युक्तेषु पञ्चसु ६ कालभेदेषु च
“स्त्रीतैलमांससंमोगी पर्वस्वेतेषु वै पुमान् । विण्मूत्र-
भोजनं नाम प्रयाति नरकं मृतः” विष्णुपु० । तत्र कर्त्तव्य-
माह “नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः चन्द्रा-
र्कयोर्ग्रसुणयोर्व्यतिपातेषु पर्वसु । अहोरात्रोषितः
स्वानं श्राद्गं दानं तथा जपम् । यः करोति पवित्रात्मा
तस्य स्यादक्षयं फलम्” ब्रह्मपु० “अनध्यायस्तु नाङ्गेषु
नेतिहासपुराणयोः । न मर्मशास्त्रेष्वन्येषु पर्वण्येतानि
वर्जयेत्” कूर्मपु । ७ दर्शान्तपूर्णिमान्तरूपकाले “गतैष्य
पर्वनाड़ीनाम्” सू० सि० “पर्वनाड्यः दर्शान्तपूर्णिमान्त
नाड्यस्तासाम्” रङ्ग । ९ अंशे भागे “विशेषाविशेषलिङ्गमा-
त्रालिङ्गानि गुणपर्वाणि” पात० सू० “अविद्या पञ्चपर्वैषा
प्रादुर्भूता महात्मनः” विष्णुपु० “त्रिंशकद्वादशांशस्य
चतुर्विंशतिपर्वणः” भा० व० १३३ अ० । राशिचक्रे स्वस्व
गत्या गच्छतोः सूर्य्यचन्द्रयोर्यदात्यन्तं विप्रकर्षस्तदा
पौर्णमासी यदाऽत्यन्तं सन्निकर्षस्तदा दर्शः ते द्वे पर्वणी
एवं चतुर्बिंशत्या पर्वभिश्चतुष्पञ्चादधिकेन शतत्रयेण
चान्द्रो वर्षः” नील० । “पर्वणोऽंशे चतुर्थे च कर्त्तव्येष्टि-
र्द्विजोत्तमैः” कालमाधवधृतस्मृतिः । राशिचक्रे
अयनसंक्रान्तेर्बिषुवद्वयस्य अ सन्धितुष्यत्वात् पर्वत्वमुन्नेयम् ।
चातुर्मास्ययागे वेश्वदेववरुणप्रघासशाकमेधसुनासीरीया-
ख्येषु १० चतुर्षु यागेषु तेषाञ्चोतसबरूपत्वात्तथात्वमि-
पृष्ठ ४२७०
त्थन्ये कात्या० श्रौ० ५ । १ । १ सूत्रत्थाख्याने दृश्यम् ।
“द्वयोः प्रणीयन्तीत्यधिकरणे पर्वचतुष्टयविहिताया
उत्तरवेदेर्ग पर्वद्वये प्रतिषेध उपपद्यते तत्र पर्वद्वये
विकल्पसापेक्षं बिधानं पर्वद्वये च निरपेक्षमिति”
दायभा० “पर्वचतुष्टयेति चातुर्मास्ययागपसङ्गे वैश्वदेव-
वरुणप्रघासशाकमेधसुनासीरीयाख्याश्चत्वारो यागाः
चातुर्माससाध्या उक्ताः तत्र च “उपात्र वपन्ति न वैश्वदेवे
न सुनासीरीये उरू वा एतौ यज्ञस्य यद्वरुणप्रघासः
शाकमेधश्चेति द्वयोः प्रणयन्तीति” श्रुतिरस्ति । अस्यार्थः अत्र
पर्वसंज्ञके यागचतुष्के उत्तरवेदिम् उपवपन्ति निर्षपन्ति
सम्पादयन्तीत्यर्थः इति उत्तरवेदिः अग्निप्रणयनपा-
त्रम्” श्रीकृष्णः । एतच्च श्रौतकर्मानभिज्ञानादुक्तम् “उत्त-
रवेदिं निवपत्युत्तरस्याम्” कात्या० श्रौ ३ । ३ । १९
सूत्रादौ स्थण्डिलभेदस्यैव उत्तरवेदिनामता उक्ता यथा
“वक्ष्यमाणेन प्रकारेण उत्तरस्यां वेदौ उत्तरवेदिं निर्व-
पति उत्तरवेदिरिति वक्ष्यमाणसंस्कारसंस्वृतस्य चात्वा-
समृदा कृतस्य स्थण्डिलस्य नामधेयम्” कर्कः ।
तदुत्तरत्र सूत्रेषु तन्निर्माणप्रकार उक्तः चात्वालशब्दे
च शत० ब्रा० भाष्यवाक्यं दृश्यम् । ११ चन्द्रसूर्य्ययोरुपरागे
च पर्वेशशब्दे दृश्यम् । १२ प्रतिपत्पञ्चदश्योरन्तराले काले
पर्वसन्धिशब्दे दृश्यम् । पर्वणि विहितः तत्र भवो वा
अण् । पार्वण अमावास्यादिविहिते श्राद्धे पर्वभवे त्रि०

पर्वमूला स्त्री पर्वणि पर्वणि मूलं यस्याः मूलान्तत्वात् जाति-

त्वेऽपि टाप् । श्वेतदूर्वायां राजनि० ।

पर्वयोनि पु० पर्व ग्रन्थिर्योनिरुत्पत्तिसाधनमस्य । इक्ष्वादौ

हेमच० । तस्य ग्रन्थितएवोत्पत्तेस्तथात्वम् ।

पर्वरीण पु० पर्परीण + पृषो० । १ पत्रवृन्तरसे २ गर्वे ३ मारुते

४ पर्णसिरायां ५ मृतके ६ द्यूतकम्बले ७ पत्रचूर्णरसे च
८ पर्वणि न० शब्दरत्ना० ।

पर्वरुह् पु० पर्वणि रोहति रुह--क्विप् । दाडिमे त्रिका०

पर्ववल्ली स्त्री पर्व प्रधाना ग्रन्थिश्रेष्ठा वल्ली । मालादूर्वायाम्

(गाटदूर्वा) राजनि० ।

पर्वसन्धि पु० पर्वणोः सन्धिः । पर्वणोः पञ्चदशीप्रतिपदो-

रन्तादिदण्डचतुष्टयात्मकाले अमरः “सैंहियो यदा राहु-
र्ग्रसते पर्वसन्धिषु” यमः । दण्डचतुष्टयोक्तिः प्रायिकी
सू० सि० ग्रहणेष्टकालस्य अन्यथा दर्शितत्वात् । तच्च
उषरागशब्दे दृश्यम् ।

पर्वावधि पु० ६ त० । परग्रन्था हारा० ।

पर्वास्फोट पु० ६ त० । अङ्गुलिपर्वण आस्फोटने कामन्दकी

पर्वित पु० स्त्री० पर्व--क्त । (पावदा) पर्वतमत्स्ये शब्दच० ।

पर्वेश पु० ६ त० । ग्रहणकालभेदानामधिपभेदे स च वृ० सं०

५ अ० उक्तो यथा
“षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः । व्रह्म-
शशीन्द्रकुवेरा वरुणाग्नियमाश्च विज्ञेयाः । १ ब्राह्मे द्विज
पशुवृद्धिक्षेमारोग्याणि शस्यसम्पच्च । तद्वत् २ सौम्ये
पीड़ा विदुषामवृष्टिश्च । ३ ऐन्द्रे भूपविरोधः शारदसस्य-
क्षयो न च क्षेमम् । ४ कौवेरेऽर्थपतीनामर्थविनाशः
सुभिक्षं च । ५ वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धि-
करम् । ६ आग्नेयं मित्राख्यं सस्यारोग्याभयाम्बुक-
रम् । ७ याम्यं करोत्यवृष्टिं दुर्भिक्षं सङ्क्षयं च सस्या-
नाम् । यदतःपरं तदशुमं क्षुन्मारावृष्टिदं पर्व” ।

पर्शान न० पार्श्वस्थानम् पृषो० । १ पार्श्वस्थाने ऋ ७ । ४ । ५

भा० २ पीड्यमाने त्रि० ऋ० ८ ३४ भा० ३ विमर्षयोग्ये
ऋ० ८ ४५ ४१ ४ मेघे पु० निघण्टुः पाठान्तरम् ।

पर्शु पु० “स्पृशेः श्वण्शुनौ पृ च” उणा० स्पृश--शुन् धातोः

पु० आदेशः । १ आयुधे २ परश्वधे हेमच० । ३ आयुध-
जीविसंघभेदे ततः पर्श्वा० स्वार्थे अण् । पार्श्व तत्रार्थे ।

पर्शुका स्त्री पर्शुरिव कायति कै--क । पार्श्चास्थि अमरः ।

पर्शुपाणि पु० पर्शुः पाणावस्य । १ गणेशे हेमच० २

परशुरामे च ।

पर्शुराम पु० पर्शुसहितो जातो रामः शा० त० । जामदग्ने शब्दच० । परशुरामशब्दे दृश्यम् ।

पर्शुल त्रि० पर्शुः तदाकारमस्थि ततः सिध्मा० लच् । अस्थियुक्ते

पर्श्वध पु० परश्वध + पृषो० । परश्वधे कुठारे जटाध०

पर्श्वादि पु० “पर्श्वादियौधेयादिभ्योऽणञौ” पा० स्वार्थे

अण् प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० सू०
उक्तो यथा “पर्शु असुर रक्षस् बाह्लीक वयस् वसु
मरुत् सत्त्वत् दशार्ह पिशाच अशनि कार्षापण”

पर्ष स्नेहे भ्वा० आत्म० सक० सेट् । पर्षते अपर्षिष्ठ पप

पर्षद् स्त्री पृष--अदि । १ सभायाम् २ धर्मोपदेशकपिण्डतस-

माजे च । ततः अस्त्यर्थे वलच् । पर्षद्वल सभासदे त्रि
हेमच० ।

पर्षिक त्रि० पर्षः पूरणम् अस्त्यर्थे ठन् । पूरयितव्ययुक्ते

पुरोहिता० भावादौ यक् । पार्षिक्य तद्भावे न०

पर्ष्वन् त्रि० पृष--वनिष् । पूरयितव्ये ऋ० १० । १२६ । ३०

पल गतौ भ्वा० पर सक० सेट् । पलति अपालीत् पपाल

पेलतुः । जित् ज्वला० पलः पाल ।
पृष्ठ ४२७१

पल रक्षणे चुरा० उभ० सक० सेट् । पालयति ते अपीपलत्-

पल न० पल--अच् । १ मांसे न० अमरः “दशगुर्वक्षरोच्चारकालः

प्राणः षड़ात्मकैः । तैः पलं स्यात्तु तत्षष्ट्या दण्ड
इत्यभिधीयते” ज्योति० उक्ते २ कालभेदे “पलं तु
लौकिकैर्मानैः साष्टरत्तिद्विमाषकम् । तोलकात्रतयं ज्ञेयं
ज्यातिर्ज्ञैः स्मृतिसम्मतम्” ति० त० उक्ते ३ मानभेदे “पलं
कर्षचतुष्टयम्” उक्ते ४ कर्षचतुष्टये ५ पलाल तुच्छधाने पु०
हेम० “खार्द्धाद्रवेया विषुवद्दिनार्द्धे नतिः पलोऽक्षश्च स
एव तज्ज्ञैः” सि० शि० उक्तायां विषुवद्दिनार्द्धे अक्ष-
नतौ पु० ।

पलक्या स्त्री पल + + खार्थे क पलकं मांसं तत्पुष्टये हितम् बा० यत् । पालङ्क्यशाके राजनि० ।

पलक्ष पु० बलक्ष + पृषो० । १ श्वेतवर्णे २ श्वेतवर्णयुक्ते त्रि०

यजु० २ ४ । ४ वेददी० ।

पलक्षार पु० बलस्य मांसस्य क्षार इव उत्पादकत्वात् ।

शोणिते त्रिका० तत्पाकेन मांसोत्पत्तेस्तस्य तथात्वम् ।

पलगण्ड पु० पलं मांसुमिव मृदादिना भित्तिं गण्डति

वदनैकदेशमिव करोति गड़ि--वदनैकदेशे अण् । लेपके
(राज) अमरः ।

पलङ्कट त्रि० पलम् कटति आविरणोति भोत्या कट--आव-

रणे बा० खच् मुम् । भीरौ त्रिका० भोत्या मांसस्या-
वरणस्येव करणात्तस्य तथात्वम् ।

पलङ्कर पु० पल करोति कृ--बा० खच् मुम् । पित्ताख्ये धातौ त्रिका० ।

पलङ्कष पुंस्त्री० पल कषति कष + वा० खच् मुम् । १ राक्षसे

मेदि० स्त्रियां जातित्वात् ङीष् । २ कणगुग्गुलौ पु०
राजनि० ३ लाक्षायाम् ४ रास्नायां ५ मुण्डीर्य्यां ६ किंशुके
७ गुग्लुमात्रे ८ गोक्षुरके च पु० मेदि० । ९ क्षुद्रगोक्षुरके
१० महाश्रावण्यां ११ मक्षिकायाञ्च स्त्री राजनि० ।

पलद त्रि० पलं मांसं ददाति सेवनेन दा--क । १ सेवनेन

मांसकारके द्रव्यभेदे २ देशभेदे ३ नगरीभेदे स्त्री । “कन्था
पलदनगरग्रामह्रदोत्तरपदात्” पा० (कन्थादिपञ्चकोत्त-
रपदाद्देशवाचिनो वृद्धाच्छः) भवार्थे छ । दक्षिणपलदीय
दक्षिणपलदमवे त्रि० । पलद्यां भवः पलद्या० अण् ।
पालद तत्र भवे त्रि० स्त्रियां ङीप् ।

पलद्यादि पु० “प्रस्थोत्तरपदपलद्यादिकोपवादण्” पा०

अण्प्रत्ययनिमित्ते शब्दगणे स च गणः षा० ग० उक्तो यथा
“पलदी परिषद् रोमक वाहीक कलकीट बहुकीट
जालकीट कमलकीट कमलकोकर कमलभिदा गोष्ठी नैकती
पारणा शूरसेन गोमती पटच्चर उदपान यकृल्लोन” ।

पलप्रिय पुंस्त्री० पलं प्रियमस्य । १ काके राजनि० स्त्रियां

टाप् । पललप्रियादयोऽप्यत्र २ मांसप्रियमात्रे त्रि० ।

पलभा स्त्री पलस्य अक्षस्य भा । विषुवद्दिनार्द्धजायां शङ्कु-

च्छायायाम् । “मेषादिगे सायनसूर्यभागे दिनार्द्धर्जा भा
पलभा भवेत् सा” ग्रहलाघयम् । अक्षभाविषुवद्भाद-
योऽप्यत्र “भुजोऽक्षभा कोटिरिनाङ्कुलो ना” सि० शि०
“अक्षभा नाम पलमा” प्रमिता० “रेखा प्राच्यपरा साध्या
विषुवद्भा ग्रहस्तया” सू० सि० रङ्गनाथव्याख्यायां
विस्तरो दृश्यः ।

पलल न० पल--कलच् । १ मांसे २ पङ्के ३ तिलच्र्णे च “पललं

तिलकल्कः स्यात् तिलचूर्णञ्च पिष्टकम्” राजनि० । पलं
लाति ला--क । ४ राक्षसे पु० स्त्री मेदि० स्त्रियां जाति-
त्वात् ङीष् । “पलल मधुरं रुच्यं पित्तास्रवलपुष्टिदम्”
पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम्” वैद्यकोक्ते
(तिलकुटा) ५ पिष्टकभेदे “पललं मलकृद् वृव्यं वातघ्नं
कफपित्तकृत् । वृंहणं गुरु वृष्यञ्च स्निग्धं मूत्रनिव-
र्त्तकम्” तत्र तद्गुणा उक्ताः ।

पललज्वर पु० पललं ज्वरयति ज्वर--णिच् अच् । ह्रस्वः ।

पित्ते धातौ हला० ।

पललाशय पु० पलले आशेते आ + शी--अच् । गण्डरोमे ब्दच० ।

पलव पु० पल + वा० भावे अच् पलतो गतिती वाति रक्षति

वा--क । जीवतां धृतमत्स्यानां गतिरोधके (पोलो)
मत्स्यधारणसाधने यन्त्रभेदे त्रिका० ।

पलस्ति त्रि० पल--बा० अस्ति । १ पलिते २ दीर्धायुषि ऋ० ३ ।

५ ३ १६ भा० ।

पलाग्नि पु० पलस्य मांसस्य पाचकोऽग्निरिव । पित्ते धातौ हारा० ।

पलाग्र न० पलस्याग्रं सारांशः । मांससारांशे हरिवं०

८ ४६ ३ श्लो० ।

पलाङ्ग पुं स्त्री० पलप्रधानमङ्गं यस्य । शिशुमारे हारा०

पलाण्डु पु० पलस्य मांसस्याण्डमिवाचरति अण्ड

+ आचारे क्विप् न्यङ्क्वा० कु । मूलकभेदे (पेयाज) “पला-
ण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः । पलाण्डुलु गुणै-
र्ज्ञेयो रसोनसदृशैर्गुणैः । स्वादुपाकरसोऽनुष्णः
कफकृन्नातिपित्तलः । हरते केवलं वातं बलवीर्य्यकरो गुरुः”
भावप्र० । तद्भक्षणे दोषः “पलाण्डुं विडवराहञ्च
छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनञ्चैव जग्ध्वा
चःन्द्रायणञ्चरेत्” प्रा० वि० । एतज्ज्ञानतः सकृत् । अत्र च
पुनरुपयनेमित्याह विष्णुः “लशुनपलास्तुमृञ्जनतद्ग-
पृष्ठ ४२७२
न्धिविड्वराहग्रामकुक्कुटनरगोमांसभक्षणे सर्वेष्वेतेषु
द्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात्” ।

पलाद पुंस्त्री पलमत्ति अण् उप० स० । १ राक्षसे हेमच० ।

स्त्रियां जातित्वात् ङीष् । २ मांसभोजिमात्रे त्रि०

पलादन पुंस्त्री पलमदनं यस्य । १ राक्षसे हेमच० खियां

जातित्वात् ङीष् । २ मांसभोजिमात्रे त्रि० ।

पलान्न न० पलमिश्रणेन पक्वमन्नं शा० त० । (पोलाओ)

ख्याते मांसादिमिश्रणेन पक्वान्नभेदे तत्र द्रव्यादिपाकरा-
जेश्वरे उक्तानि यथा “शरावमात्रं छागमांसं तत्पादमितं
घृतम् त्रिमाषकं त्वचं लवङ्गमेलाफलञ्च । शरावमिता-
स्तण्डुलाः । मरिचं तोलकद्वयम् एकमाषकं कुङ्कुमम् ।
आद्रकं तोलकद्वयमात्रं षट्तोलकं लवणम् । शरावार्द्ध-
प्रादमिता दाक्षा” । तत्पाकप्रकारो यथा “छागमांस
सूक्ष्मं थोरयित्वा शुष्कप्रलेहपाककरणानन्तरं पात्रान्तरे
तेजपत्रोपरि अल्पाखण्डगन्धद्रव्येण सह प्रथमं सज्जी
कर्त्तव्यम् । ततस्तण्डुलं जलेनार्द्धसिद्धं कृत्वा मण्डगा-
लनपूर्वकमल्पाखण्डगन्धद्रव्येण सह तन्मांसोपरि सज्जी
कर्त्तव्यम् । एवंप्रकारेण वारंवार सज्जीकृत्य तदुपरि
अबशिष्टघृतक्षेपणेन दण्डद्वयं तप्ताङ्गारोपरि रक्षेत्” ।

पलाप पु० पलमाप्यतेऽत्र बाहुल्येन आप--आघारे थञ् ।

१ हस्तिकपोले २ कण्ठपाशे च शब्दसाला ।

पलायन न० परा--अय--ल्युट् रस्य लः । भीत्या स्थानान्तर गतौ हेम० ।

पलायित त्रि० परा + अय--गत्यर्थत्वात् कर्त्तरि क्त रस्य

लः । १ भीत्या पलायनकर्त्तरि २ अपयाते च हेमच० ।

पलाल पु० न० पल--कालन् । शस्यशून्ये धान्यकाण्डे (नाड़ा)

(पोयाल) अमरः ।

पलालदोहद पु० पलालं दोहदं यस्य । आम्रवृक्षे शब्द-

माला पलालवेष्टने हि तस्य वृद्धिरिति तस्य तथात्वम् ।

पलाली स्त्री ६ त० । मांससमूहे ततः अस्त्यर्थे पामादि० न

ह्रस्वः च । पलालिन तद्युक्ते त्रि० ।

पलाश न० पल--गतौ भावे घञर्थे क पलं गतिं कम्प्रनम-

श्नुते अश--व्याप्तौ अण् उप० स० । १ पत्त्रे अमरः पलं
मांससवर्णं ब्रह्ममांसोत्पन्नत्वेन कारणतया तद्वा अश्नुते
अश--व्याप्तौ अण् उप० स० । २ स्वनामख्याते वृक्षभेदे
तस्योत्पत्तिः शत० ब्रा० १ ३ । ४ । ४ “मांसेभ्य एवास्य
पलाशः समभवत् । तस्मात्स बहुरसो लोहितरसी
लोहितमिव हि मांसंतेनैवैनं तद्रूपेण समर्धयन्तरे
खादिरा भवन्ति बाह्ये पालाशा अन्तराणि ह्यस्थीनि
बाह्यानि मांसानि स एवैनांस्तदायतने दधाति” । म
च ब्रह्ममांसजत्वात् ब्रह्मरूपः यथोक्तं शत०ब्रा० ६६ ।
३७ “ब्रह्म वै पलाशः” इति “अश्वत्थरूपो भगवान्
विष्णुरेव न मंशयः । रुद्ररूपो वटस्तद्वत् पलाशी
ब्रह्मरूपदृक्” पह्योत्त १६० अ० । तत्पर्य्यायगुणादि
भावप्र० उक्तं यथा “पलाशः किंशुकः षर्णो याज्ञिको
रक्तपुष्पकः । क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः
समिद्वरः । पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित् ।
भग्नसन्धानकृद्दोषग्रहण्यर्शःकिमीन् हरेत् । तत्पुष्पं
स्वादु पाके तु कटुतिक्तं कषायकम् । वातलं कफपि-
त्तास्रकृच्छ्रजिद् ग्राह शीतलम् । तृड्दाहशमनं
वातरक्तकुष्ठहरं परम् । फलं लवूष्णं मेहार्शःक्रिमि-
वातकफापहम् । विपाके कटुकं रूक्षं कुष्ठगुल्मोदर-
प्रणुत्” । “नवपलाशपलाशवनम्” माघः ३ स्त्रियां ४ शट्यां
च स्त्री । पलं मांसमश्नाति अश--भोजये अण् उप०
स० । ५ राक्षसे पुंस्त्री० मेदि० स्त्रियां जातित्वात् ङीष् ।
तस्य मांसभोजित्वात्तथात्वम् । ६ हरिद्वर्णे च ७
मगधदेशे पु० शब्दरत्ना० ८ लाक्षायां स्त्री राजनि० यौरा०
ङीष् ।

पलाशक पु० पलाश + संज्ञायां कन् । १ शट्यां जटाधरः । स्वार्थे क । २ पलाशवृक्षे शब्दच० ।

पलाशपर्णी स्त्री पलाशस्येव पर्णमस्याः गोरा० ङीष् ।

अश्वगन्धायाम् ।

पलाशाख्य पु० पलाशं तत्पुष्पगन्धमाख्याति आ + ख्या क । नाडीहिङ्गौ राजनि० ।

पलाशादि पु० “पलाशादिभ्यो वा” पा० विकारे

अञ्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा
“पलाश खदिर शिंशपा स्पन्दन पुलाक करीर शिरीष
यवास विकङ्कत” पलाशस्य विकारः पालाश इत्यादि ।

पलाशान्ता स्त्री पलाशानामन्तो गन्धवान् यस्याः । गन्ध-

पत्रायाम् राजनि० ।

पलाशिन् पु० पलाशं विद्यतेऽस्य इनि । १ वृक्षे अमरः २ पत्र-

युक्ते त्रि० स्त्रियां ङीप् ।

पलाशिल त्रि० पलाशस्यादूरदेशाधि काशा० इल । पलाशादसन्निकृष्टदेशादौ ।

पलाशीय त्रि० पलाशमस्त्यस्य उत्करा० छ । पत्त्रयुक्ते

पलिक त्रि० पलं मानत्वेनास्त्यस्य ठन् । पजपरिमितद्रव्ये

पलिक्नी स्त्री पलिता वृद्धा स्त्री “छन्दसि क्न वा ङीप्” पा०

क्न ङीप् । १ श्वेतकेशायां वृद्धायां स्त्रियां यजु० ३० १५
लोके तु न । पलिता इत्येव । २ वालगर्भिण्यां स्त्रीगव्याम
हेमच० ।
पृष्ठ ४२७३

पलिघ पु० परिघवत् । “परेश्च थाङ्कयोः” पा० रस्य लः ।

१ काचघटे २ प्राकारे ३ गोगृरे च मेदि० । ४ परिघश-
ब्दार्थे च ।

पलित न० पल--भावे क्त । १ केशादौ जरया जातायां श्वेत-

तायाम् २ मांसादेर्वलिपरीतभावे च अमरः ३ वृद्धे त्रि०
रित्वयां पलिता । वेदे तु पलिक्रीत्युक्तम् । ४ तापे
५ शिलाजे ६ कर्दमे मेदि० । “फलेरितजादेश्च पः” उणा०
फल--इतच फस्य पः । ७ केशपाके उज्ज्वलद० “क्रोध-
शोकश्रमकृतः शरीरोष्मा शिरोगतः । पित्तं च केशान्
पचति पलितं तेन जायते” माधवकरः । ततः अर्श०
अच् । ८ तद्युते त्रि० ।

पलितङ्करण न० अपलितं पलितं क्रियतेऽनेन--च्व्यर्थे ख्वुन्

मुम् । अपलितस्य पलितताकरणसाधने ।

पलितम्भविष्णु त्रि० अपलितः पलितो भवति अभूततद्भावे

भू--कर्त्तरि खिष्णुच् मुम् । अपलिते पलिततया भूते
तदर्थे खुकञ् । पलितम्भावुक तत्रार्थे त्रि० ।

पल्य त्रि० पल + यत् । उत्तमे वर्चसा शब्देन समासे अच्समा० ।

पल्यवर्च्चस उत्तमतेजसि

पल्यङ्क पु० परिगतोऽङ्कं रस्य लः । शय्यायाम् (पालङ्ग) अमरः

पल्ययन न० परि + अय--करणे ल्युट् रस्य लः । (घोड़ार जिन्)

पर्य्याणे हेमच० ।

पल्युल छेदने पूतौ च अद० चुरा० उभ० सक० सेट् । पल्युलयति ते अषपल्युलत् त ।

पल्यूल छेदने पवित्रताकरणे च अद० चुरा० उभ० सक० सेट् ।

पल्यूतयति ते अपपल्यूलत् त ।

पल्ल गतौ भ्वा० पर० सक० सेट् । पल्लति अपल्लीत् अपल्ल ।

पल्ल पु० पदं लाति ला--क पादस्थाने पत् । (पालुइ)

(मराइ) ख्याते धाम्याधारभेदे मेदि० ।

पल्लव पु० न० अर्द्ध० पल्यते सम्प० क्विप् पलु लूयते लू--अप्

कर्म० । १ अभिनवे पत्त्रस्तवके २ तद्युक्तशाखायां ३
विस्तारे ४ बले ५ अलक्तकराने ६ बलये मेदि० “पर्व-
पत्त्रादिसंघाते शाखायाः पल्लवो मतः” इत्युक्ते
७ शाखादेः पर्वपत्त्रसमुदाये च । ८ नवपत्त्रे मधुसूदनः
९ विटपे १० शृङ्गारे ११ चापले शब्दर० ।

पल्लवक पु० पल्लव इव कायति कै--क । १ मत्स्यभेदे २ वेश्यापतौ

च हला० स्वार्थे क । ४ नवकिसलये पु० न० पल्लवेन
कायति कं--क । ४ अशोकवृले राजनि० ।

पल्लवद्रु पु० पल्लवप्रधानो द्रुः शा० त० । अशोकवृक्षं राजनि० ।

पल्लवद्रमादयोऽप्यत्र ।

पल्लवाङ्कर पु० पल्लवस्याङ्कुरो यत्र । शाखायाम् हलाध० ।

पल्लवाधार पु० ६ त० । शास्वायां शब्दच० ।

पल्लविक त्रि० पल्लवः इव अस्त्यस्य ठन् । कामुके हेमच०

पल्लवित त्रि० पल्लवं नूतनपत्त्रं विस्तारो वा जातः अस्य

तार० इतच् । १ पल्लवयुक्ते २ विस्तारयुक्ते च पल्लव +
आचारे क्विप् ततः क्त । ३ लाक्षारक्ते त्रि० मेदि० ।

पल्लविन् पु० पल्लव + अस्त्यर्थे इनि । वृक्षे शब्दच० ।

पल्लि(ल्ली) स्त्री पल्ल--इन् वा ङीप् । १ क्षुद्रग्रामे २ कुट्याम्

३ गेहे च । दीर्घान्तः ४ नगरभेदे राजनि० । पल्लं
गृहमाश्रयत्वेनास्त्यस्याः अच् गौरा० ङीष् । ४ गृहगो-
धिकायाम् स्त्री हेमच० ।

पल्लिबाहु पु० पल्लिं क्षुद्रग्रामं वाहयति निर्वाहयति

बहउण् उप० स० । तृणभेदे राजनि० ।

पल्वल न० पल--वल । क्षुद्रजलालये (डोवा) “अल्पं सरः

पल्वलं स्याद्यत्र चन्द्रर्क्षगे रबौ । न तिष्ठति जलं काले
तत्रत्यं वारि पाल्वलम् । पाल्वलं वार्य्यभिष्यन्दि गुरु
स्वादु त्रिदोषकृत्” भावप्र० । चन्द्रर्क्षमृ मृगशिरर्क्षम् ।

पव पु० पू--भावे अप् । १ निष्पावे शूर्पवायुना धान्यादेनिर्व्यू-

षकरणे शाल्यादेः शोधने अमरः कर्त्तरि अच् । २ वायौ
शब्दच० ।

पवन न० पू--ल्युट् । १ निष्पावे शूर्पवातेन धान्यादेः शोधने

आधारे ल्युट् । २ कुम्भकारस्य आमघटादिपाकस्थाने
(पोयान) मेदि० । करणे ल्युट् । ३ जले शब्दमा० कर्त्तरि
ल्यु । ४ वायौ पु० अमरः पवनाश्च आवहादयः सप्त
अनिलशब्दे १६ ४ पृ० दर्शिताः । वत्सरभेदे तेषां क्रमेणै-
केकवत्सराधिपतित्वम् तच्च ज्योतिस्तत्त्वे उक्तं यथा
“शाकः शराब्धिसंगुण्यो मुनिभिर्भाग हारितः ।
आवहादिक्रमेणैव सप्त वाताः प्रकीर्त्तिताः” गुण्या शाकाङ्कः ।
गुण्यकः ४५ भाक्तकः ७ ५ प्रयते त्रि० शब्दर० । ६ विष्णौ
पु० “पवनः पावनोऽनिलः” विष्णुसं० ।

पवनतनय पु० ६ त० । १ हनूमति २ भीमे च पवनसुतादयोऽप्यत्र ।

पवनविजय पु० पवनः श्वासवायुर्विजीयतेऽनेन । वि +

जिकरणे अच् । देहस्थवायोः श्वासप्रश्वासगतिभेदेन शुभा-
शुभसूचके ग्रन्यभेदे तत्प्रकारो गरुड़पु० उक्तो यथा
“कुजे वह्नी रविः पृथ्वी शौरिरापः प्रकीर्त्तिताः ।
वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः । गुरुः शुक्र-
स्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः । वामनाड्यास्तु मध्य-
स्थान् कारयेदात्मनस्तषा । यदाचार इड़ागुक्तस्तदा
पृष्ठ ४२७४
कर्म समाचरेत् । स्थानसेवां तथा ध्यानं बाणिज्यं राज
दर्शनम् । अन्यानि शुभकर्माणि कारयेत प्रयत्नतः ।
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैहिकः । इनश्चैव
तथाप्येवं पापानामुदयो भवेत् । शुभाशुभविवेको हि
ज्ञायते तु स्वरोदयात् । देहमध्ये स्थिता नाड्यो
बहुरूपाः सुबिस्तराः । नाभेरधस्ताद्यः कन्दो अङ्कुरास्तत्र
निर्गताः । द्वासप्ततिसहस्राणि नाभिमध्ये व्यव-
स्थिताः । चक्रवच्च स्थितास्तास्तु सर्वाः प्राणहराः
स्मृताः । तासां तिस्रोमता श्रेष्ठा वामदक्षिणमध्यमाः ।
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा ।
मध्यमा च भवेदग्निरूपिणी कालरूपिणी । वामा
ह्यमृतरूपा च जगदाप्यायने स्थिता । दक्षिणा रौद्र-
भावेन जगच्छोषयते सदा । द्वयोर्वाहे तु मृत्युः स्यात्
सर्वकार्य्यविनाशिनी । निर्गमे च भवेद्वामा प्रवेशे
दक्षिणा स्मृता । कारयेत् क्रूरकर्माणि प्राणे पिङ्गल
संस्थिते । इडाचारे तथा सौम्यं चन्द्र सूर्यगतस्तथा ।
यात्रार्या सर्वकार्य्येषु विषापहरणे इडा । भोजने
मैथुने युद्धे पिङ्गला सिद्धिदायिका । उच्चाटमारणा-
द्येषु कर्मस्वेतेषु पिङ्गला । नैथुने चैव संग्रामे मोजने
सिद्धिदायिका । शोभनेषु च कार्येषु यात्रायां विषक-
र्मणि । शान्तिमुक्त्यर्थसिद्धौ च इडायोज्या नराधिषैः ।
द्वाभ्याञ्चैव प्रवाहे च क्रूरसौम्यविवर्जने । विषुवतीन्तु
जानीयात् संस्मरेत्तु विचक्षणः । सौम्येषु शुभकार्येषु
लाभादिजयजीविते । गमनागमने चैव वामा सर्वत्र
पूजिता । युद्धादिभोजने घाते स्त्रीणाञ्चैव तु सङ्गमे ।
प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि । शुभाशुभानि
कार्य्याणि लाभालाभौ जयाजयौ । जीवाजीवाय यत्
पृच्छेन्न सिध्यति च मध्यमा । वामाचारेऽथ वा दक्षे
प्रत्यये यत्र नायकः । तत्रस्थः पृच्छते यस्तु तत्र सिद्धिर्न
संशयः । वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि ।
तत्र भागे स्थितः पृच्छेत् सिद्धिर्भवति निष्कला । वामे
वा दक्षिणे बापि यत्र संक्रमते सिरा । धोरे घोराणि
कर्माणि सौम्ये वै मध्यमानि च । प्रस्थिते भागतो
हंसे द्वाभ्यां वै सर्ववाहिनि । तदा मृत्युं विजानीयात्
योगी योगविशारदः । यत्र यत्र स्थितः पृच्छेद्वाम
ष्टक्षिणसम्मुखः । तत्र तत्र समं दिश्याद्वातस्योदयनं
तदा । अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ।
द्वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा । जीवो
जीवति जीवेन यच्छून्यं तत्स्वरी भवेत् । यत्किञ्चित्
कार्य्यमुद्दिष्टं जयादि शुभलक्षणम् । तत्सर्वं पूर्णना-
ड्यान्तु जायते निर्विकल्पकम् । अन्यनाड्यादिपर्य्यन्तं पक्ष-
त्रयमुदाहृतम् । यावत् षष्ठीं तु पृच्छायां पूर्णायां
प्रथमं जयेत् । रिक्तायान्तु द्वितीयन्तु कथयेत्तदशङ्कितः ।
वामाचारः समं वायुर्जायते कर्मसिद्धिदः । प्रवृत्ते
दक्षिणे मार्गे विषमे विषमाक्षरम् । अन्यत्र वामवाहे
नु नाम वै विषमाक्षरम् । तदासौ जयमाप्नोति योधः
संग्राममध्यतः । दक्षवातप्रवाहे तु यदि नाम समाक्षरम् ।
जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत् । पिङ्ग-
लान्तर्गते प्राणे समानीयाहवञ्जयेत् । यावन्नाड्युदयं
चारस्तां दिशं यावदाजयेत् । न जातु जयते सोऽपि
नात्र कार्य्या विचारणा । अथ संग्राममध्ये तु यत्र
नाडी सदा वहेत् । सा दिशा जयभाप्नोति शून्ये भङ्गं
विनिर्दिशेत् । जातस्वरे जयं विद्यान्मृतके मृतिमा-
दिशेत् । जयं पराजयञ्चैव योजानाति स पण्डितः ।
वामे वा दक्षिने वापि यत्र सञ्चरते सिरा । कृत्वा तत्
पदमादौ तु यात्रां नयति शोभनाम् । शशिसूर्यप्रवाहे
नु सति युद्धं समाचरेत् । तत्रस्थः पृच्छते यस्तु स
साधुर्जयते ध्रुवम् । यां दिगं वहते वायुस्तां दिशं
यावदाजयेत् । जयते नात्र सन्देह इन्द्रो यदग्रतः
स्थितः । मेषाद्या दश या नाड्यो दक्षिणा वामसंस्थिताः ।
चरस्थिरद्विमार्गे तास्तादृशे तादृशः क्रमात् । निर्गमे
निर्गमं याति संग्रहे संग्रहं बिदुः । पृच्छकस्य वचः
श्रुत्वा घण्टाकारेण लक्षयेत् । वामे वा दक्षिणे वापि
पञ्चतत्त्वस्थितः शिवे! । ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्-
संस्थः प्रभञ्जनः । मध्ये तु पृथिवी ज्ञेया नभः सर्वत्र
सर्वदा । ऊर्द्ध्वे मृत्युरधः शान्तिस्तिर्य्यक् चोद्घाटयेत्
सुधीः । मध्ये ह्यस्तं विजानीयान् मोक्षः सर्वत्र सर्वगे” ।

पवनव्याधि पु० पवनः वातरोनभेदो व्याधिरस्य । उद्धवे

यादवक्षत्त्रियभेदे त्रिका० ।

पवनात्मज पु० ६ त० । १ हनुभति २ भीमे १ वह्नौ च “वायो-

रग्निः” इति श्रुतेस्तस्य वायुजातत्वात्तत्सुतत्वम् ।
षवनप्रभवादयोऽप्यत्र ।

पवनाल पु० पवनायालति पर्य्याप्नोति अल--पर्य्याप्तौं अच्

४ त० । (देधान) धान्थभेदे पवनालो हिमः स्वादु-
लोहितः श्लेष्मपित्तजित् । अवृष्यस्तुवरो रूक्षः क्लेद-
कृत कथितो लघुः” भावप्र० ।
पृष्ठ ४२७५

पवनाश पुंस्त्री० पवनमश्नाति अश--अण् उप० स० । १ सर्पे

स्त्रियां जातित्वात् ङीष् । २ वायुभक्षके त्रि० हला० ।

पवनाशनाश पु० पवनः अशनमस्य पवनाशनं सर्पमश्नाति

अशअण् । १ गरुड़े २ मयूरे हला० स्त्रियां जातित्वात् ङीष् ।

पवनेश्वर न० पवनेन स्थापित ईश्वरः ईश्वरलिङ्गम् । काशीस्थे

शिवलिङ्गभेदे काशीख० १३ अ० ।

पवनेष्ट पु० पवने पवनवृद्धौ इष्टः । महानिम्बे रत्नमा० ।

पवनोम्बुज न० पवनं पवित्रमम्बुजमिव पृषो० । परूषफले

शब्दच० पवनाम्बुजमित्येव तत्र पाठः साधुः ।

पवमान पु० पू--ताच्छील्ये चानश् । १ वायौ अमरः ३ गार्ह-

पत्येऽग्नौ “अथ यः पवमानस्तु निर्मख्योऽग्निः
स उच्यते । स च वै गार्हपत्योग्निः प्रथमो ब्रह्मणः सुतः”
मत्स्यपु० ७८ अ० । ३ सोमे च तदधिकृत्य प्रवृत्तं सूक्तम्
अण । पावमान सोमदेवताके सूक्तभेदे तानि च सूक्तानि
ऋ० ९ १ सूक्तावधि षट्षटिसूक्तात्मकानि स्वादिष्ठयेत्यादि
कानि हिन्वन्तीत्याद्यन्तानि ।

पवमानात्मज पु० ६ त० । वह्निभेदे “पवमानात्मजो वह्नि

र्हव्यवाहन उच्यते” मत्स्यपु० ४८ अ० । तस्य “वायोरग्निः”
इति श्रुतेर्वायुजत्वात्तथात्वम् ।

पवष्टुरिक पु० ऋषिभेदे तस्यापत्यम् शुभ्रा० ढक् । पावष्टुरिकेय तदपत्ये पुंस्त्री० ।

पवाका स्त्री पू--आक । वात्यायाम् उज्वलदतः ।

पवि पु० पू--शोधे इ । १ वज्रे अमरः २ वाचि स्त्री निघण्टुः ।

पवित त्रि० पूङ् शोधे “पूङश्च” पा० वा इट् । “पूङः क्त्वाच”

पा० न कित्त्वम् । १ पवित्रे २ मरिचे न० राजनि० ।

पवित्र पु० न० पूयते आज्यमनेन पू--करणे इत्र । १ आज्यसं-

स्कारके २ कुशद्वये उत्पवनशब्दे तल्लक्षणं ११२३ पृ० दर्शि-
तम् “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च । प्रादे-
शमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्” कर्मप्र० । २
अनामिकावेष्टने पवित्रतासाधके द्रव्ये च ३ यज्ञोपवीते त्रिका०
पवित्रारोपणशब्दे दृश्यम् । ४ विष्णौ “पवित्रं मङ्गलं
परम्” विष्णुसं० । ५ वर्षणे ६ ताम्रे ७ पयसि न० मेदि० ।
८ वर्षणे न० विश्वः ९ अर्ध्योपकरणे हेमच० । १० घृते
११ मधुनि च राजनि० । १२ तिलवृक्षे १ ३ पुत्रजीववृक्षे पु०
राजनि० १ ४ व्रतशौचादिना १५ शुद्धे त्रि० अमरः ।
१६ तुलस्यां स्त्री शब्दमा० १७ नदीभेदे हेमच० १८
हरिद्रायाम् १८ अश्वत्थीवृक्षे च स्त्री राजनि० ।

पवित्रक पु० पवित्रमिव कायति कै--क स्वार्थे क, संज्ञायां

कन् श्चा । १ पवित्रशब्दार्थे २ अश्वत्थवृक्षे ३ उदुम्बरवृक्षे
४ कुशे ५ दमनकवृक्षे राजनि० ६ शणमूत्रनिर्मिते जाले
मत्स्यधारणसाधने द्रव्यभेदे न० अमरः ।

पवित्रधान्य न० नित्यकर्म० । यवे राजनि० ।

पवित्रारीप(ह)ण न० ६ त० । विष्णुप्रभृतिदेवसम्प्रदाबवे

यज्ञोपवीतदाने देवभेदेन तिथिभेदादौ तद्दानप्रकारश्च
हेमा० व्र० विष्णुरहस्ये उक्तो यथा
“तस्माद्भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः । वर्षे वर्षे
प्रकर्त्तव्यं परित्रारोपणं हरेः । श्रावणस्य सिते पक्षे
कर्कटस्थे दिवाकरे । द्वादश्यां वासुदेवस्य पवित्रारोपणं
स्मृतम् । सिंहस्थे वा रवौ कार्य्यं कन्थायान्तु गतेऽथ
वा । तस्यामेव तिथौ सम्यक् तुलास्थे न कथञ्चन ।
विष्णोरुद्रस्य सूर्य्यस्य विरिञ्चेः षण्मुखस्य च । देव्याग-
णाधिनाथस्य मातॄणां धनदस्य च । पवित्रारोपणं
कार्य्यमन्येषाञ्च यथाविधि । अकृत्वा फलहानिः स्यात्
संवत्सरकृतार्चनात् । सर्वेषान्तु महत् पुण्यं पवित्रा-
रोपणे कृते । तिथयस्तत्त्वविन्यासाः पृथगुक्तास्तपी-
धन! । प्रतिपद्वनदस्योक्ता पवित्रारोपणे तिथिः । श्रिया
देव्या द्वितीया तु तिथीनामुत्तमा तिथिः । तृतीया तु
भवान्यास्तु चतुर्थी तत्सुतस्य तु । पञ्चमी नागराजस्य
षष्ठी प्रोक्ता गुहस्य च । सप्तमी भास्करे प्रोक्ता दुर्गाया-
श्चाष्टमी स्मृता । मातॄणां नवमी प्रोक्ता दशमी वासुकेः
स्मृता । एकादशी ऋषीणान्तु द्वादशी चक्रपाणिनः ।
त्रयोदशी ह्यनङ्गस्य शिवस्योक्ता चतुर्दशी । मम देवमुनि-
श्रेष्ठ! पौर्णमासी तिथिः स्मृता । यथोक्ताः शुक्लपक्षे
तु तिथयः श्रावणस्य च । सर्वेषामेव देवानां तथा कार्य्यं
यथाविधि । प्रथमं दर्भसूत्रन्तु पद्मसूत्रं ततःपरम् ।
ततः क्षौमं सुपुण्यं स्यात् पट्टसूत्रं ततः परम् । शुचि
कार्पाससूत्रेण निर्मितं वा शुभाशुमम् । शुचिर्भूत्वा
शुचौ देशे कारयीत प्रयत्नतः । तद्विधानोपयुक्तन्तु
यथोक्तफलदायकम् । कन्था कर्त्तयते सूत्रं नारी वाथ
पतिव्रता । विधवा साधुशीला वा सूत्रमेतत्तु कर्त्त-
येत् । केशयुक्तं क्षतं दग्धं मद्यरक्तादिदूषितम् ।
मलिनं नीलरक्तं वा प्रयत्नेन विवर्जयेत् । यथोक्तं सूत्र-
मादाय त्रिगुणं त्रिः प्रयोजयेत् । पवित्रं तेन कुर्वीत
कनिष्ठोत्तममध्यमम् । कनिष्ठं तन्तुमिर्ज्ञेयं सप्तविंश-
तिमिः शुभम् । मर्त्त्यलोके तु तत्कीर्त्तिसुखायुर्द्धन-
पुत्रदम । चतुःपञ्चाशता ज्ञेयं तन्त नां मध्यमं परम् ।
दिव्यभोगावहं पुण्यं स्वर्गाबाससुखप्रदम् । उत्तमं
पृष्ठ ४२७६
चैव तन्तूनां शतमष्टोत्तरं शतम् । दत्त्वा तद्वासदेवाय
विष्णुलोकं भजेन्नरः । अष्टोत्तरसहस्रं तु तन्तूनां
परिसंख्यया । वनमाला स्मृता विष्णोर्दत्ता भक्तिप्रदा हि
सा । कनिष्ठं नाभिमात्रं स्यादूरुमात्रन्तु मध्यमम् ।
पवित्रं चीत्तमं प्रोक्तं जामुमात्रं प्रमाणतः । वनमाला
प्रमाणेन प्रतिमायाः प्रणीयते । नराणां जन्मससार
दुःखमृत्युप्रणाशिनी । कनिष्ठे द्वादशैवोक्ता मध्यमे
द्विगुणाः स्मृताः । त्रिगुणास्तूत्तमे प्रोक्ता ग्रन्थयस्तु
पवित्रके । शतमष्टोत्तरं कार्य्यं ग्रन्थीनां तु विधा-
जतः । मुनीन्द । वनमालायां विष्ण्पूजनतत्पर! ।
अधिवासनसूत्रे तु ग्रन्थयो द्वादश मृताः । तत्त्वन्यास
विधानं तु श्रूयतां गुह्यकोत्तम” । इत्युपक्रमे तत्त्वन्यास
स्तत उक्तः “पवित्रं तेन विख्यातं ब्रह्मतेजो हि
गीयते । विष्ण्वाख्यया तु विख्यातं तदा लोके
निगद्यते । तदेव सूत्ररूपेण यज्ञेशः कर्मणः प्रभुः ।
तदेव त्रिगुणीभूतं नारायणसमाख्यया । त्रिवेदात्मा
त्रिदेवात्मा त्र्यक्षरः प्रणवः स्मृतः । ते पर्वतात्समु-
द्भूता वराहार्द्धाङ्गमाश्रिताः । संघातेन च तन्तूनां
नवात्मा परिकीर्त्तितः । तन्तूनां प्रथमो देवो वासुदेवो
जगद्गुरुः । हलायुधो द्वितीयस्तु प्रद्युम्नश्च तृतीयकः ।
अपरे त्वनिरुद्धस्तु ततो नारायणः प्रमुः । ब्रह्माविष्णु-
त्वथा नॄणां वरारोहे समाश्रिताः । अधिदैवेन रूपेण
अध्यात्म्ये च निबोध मे । मनोबुद्धिरहङ्कारस्तन्मात्राणि
तथैव च । जीवश्चेति नवैतच्च अध्यात्म्येसुव्यवस्थितम् ।
द्यौरन्तरिक्षं पृथिवी भूर्भुवःस्वस्तथैव च । अकारश्चा-
प्युकारश्च मकारश्चाधिभूतकम् । अग्नित्रयं तथा कर्म
त्रयञ्च सदनत्रयम् । ज्ञेयं पवित्रे तद्विद्वानधिदैवमु-
दाहरेत्” । शिवपवित्रलक्षणम् “एकादशाथ वा
सूत्रैस्त्रिंशता वाष्टयुक्तया । पञ्चशता वा कर्त्तव्यं
तुल्यग्रन्थ्यन्तराजकम् । द्वादशाङ्गुलमानानि व्यायामाष्टा-
ङ्गुलानि च । लिङ्गविस्तारमानानि चतुरङ्गष्ठिकानि
वा । तथैव पिण्डिकास्पर्शे चतुर्थं सार्वदैवतम् ।
साङ्गावतारकं कार्य्यं पवित्रमतिसुन्दरम्” । पवित्रा-
रोहणमप्यत्र “आषाढशुक्लपक्षस्य याष्टमी श्रावणस्य
च । पवित्रारोहण कुर्य्यात् दवप्रीतिकरं परम्”
कालिकापु० ५८ अ० ।

पविन्द पु० ऋषिभेदे तण गोत्रापत्यम अशा० फञ् । पाविन्दायन तद्गोत्रापत्ये पुंस्त्री० ।

पवीतृ त्रि० पू--तृच् वेदे इटो दीर्घः । शोधके म० ९४४

पवीनस पु० गर्भोपद्रावके असुरभेदे अय० ८६२

पवीर न० १ आयुधे “षविः शल्यी भवति तद्विपुनातिकायं

तद्वत् पवीरमायुधम्” निस० १२ ३० । पवि + स्वार्थे ईर ।
३ वज्रे ऋ० १० ६० ३ “पविर्धारास्यास्ति र पूर्वाणो दीर्घः ।
३ फाले यजु० १२ ७१ वेददी० ।

पवीरव पु० पवे रव वेदे दीर्घः । वज्रशब्दे ऋ० ११७४४ भा०

पव्य त्रि० पू--ण्यत् । १ शोध्ये २ यज्ञपात्रादौ च ऋ० ९८६३४

तत्र “पव्यया पात्राणि” भा० शसःस्थाने याट् ।

पश(ष--स) बाधे विहतौ भ्वा० उभ०० सक० सेट् । पश(ष)-

(स)ति ते अपशी(षो)(सी)त् अपाशी(षी)(सी)त्
अपशि(षि)(सि)ष्ट । पपाश(ष)(स)पेशे(षे)(से) । दन्त्यान्त्य-
स्यैव अभ्यासस्य सम्” यङ्यङ्लुकोः सि० कौ० पम्प-
स्यति--पम्पसीति । तालव्यान्त्यस्य तथेत्यन्ये ।

पश(ष स) स्पर्शे, गतौ अनुपसर्गात् षन्धे वाधे च अद० चु०

उभ० सक० सेट् । पश(ष)(स)यति ते अपपश(ष)(स)त् त ।

पश(ष--स) बन्धे चुरा० उभ० सक० सेट् । पाश(ष)सयति ते

अपीपश(ष)(स) त ।

पशव्य त्रि० पशवे हितम् तस्येदं बा यत् । १ पशुहिते याज्ञ १ । ३२० श्लो० २ पशुतस्वन्धिनि च ।

पशु पु० सर्वमविशेषेण पश्यति दृश--कु पशादेशः । मृगादौ

लोमवल्लाङ्गूलवति १ जन्तुभेदे २ दर्शनार्थेऽव्ययम् अमरः ।
२ प्रमथे ४ देवे ५ पाणिमात्रे शब्दर० ६ छागे “अनादेशे
पशुश्छागः” मीमांस० । ७ यज्ञभेदे धरणिः तस्व पशुसाधा-
त्वात् तथात्वम् । “न तौ पशौ करोति “श्रुतौ पशुः
पशुसाध्या यागः । ७ यज्ञोडुम्बरे शब्दच० । ८ तन्घोक्ते
साधकानां भावभेदे तत्र जन्तुभेदानां ग्रामारण्यभेदा यथा
“गोरविरजोऽश्वोऽश्वतरो गर्दभो मनुष्यश्चेति सप्त
णाम्याः पशवः । महिषवानर षाक्षसरोस्वपरुरु पृषत
मृगाश्चेति सप्तारण्याः पशवः” दुर्गोत्सवत० । छागादौ
पशुपदप्रयोगमाह यज्ञपार्श्वः “उष्ट्रो वा यदि वा
मेषश्छागो वा यदि वा हयः । पशुस्थाने नियक्तानां
पशुशब्दोऽभिधीयते” । पश्वधिष्टातृदेवताभेदा यथा “सिहे
वसति दुर्गा च शरभे च प्रजापतिः । एणे च वसते
वायुर्मेषे चैव च चन्द्रमाः । नक्षत्राणि च शशके
कृष्णसारे हरिः स्वयम् । शतक्रतुर्गवां पृष्ठे गवये
भुवनानि च । शल्लके मङ्गलान्यष्टौ गजे विष्णुर्गणे-
श्वरः । षश्वे तु द्वादशादित्या ब्राह्मणे सर्वदेवताः ।
ब्रह्मा तु चमरे चैव छागले तु तयाऽनलः । एतस्मात्
कारणादेते पूज्या बद्याः प्रयत्रतः” इति मतस्पसूक्त-
पृष्ठ ४२७७
तन्त्रे ३९ पटले । बल्यर्थपशुचक्षणादि यथा “निवेद-
येत् शोणगण्डम् मानुषं वा लुलाषकम् । वराहं
वाथ छूगलं चमरं षाऽरुणन्तथ । मेषञ्चाथ
वराहञ्च गोधिकाञ्च निवेदयेत्” मत्स्यसूक्ते
“लुलापञ्च तथा खड्गं चमरञ्च वराहकम् । कच्छपं
शल्लकीं गोधां मानुषं तदनन्तरम् । न दद्याद्ब्राह्मणो
मद्यं मानुषञ्च तथा रुरुम् । त्रैपक्षिकान् विबर्णान्न
मानुषान्न कपीनपि । सवत्रात् परं छागं यावत् स्यात्तु
त्रिहायणम् । वराहदन्तसदृशविशाणाभ्यां सुशोभ-
नम् । मदगन्धसमायुक्तं रोमराजिविराजितम् ।
कृष्णं बाऽरुणकञ्चैव तृप्तौ द्वादशवार्षिकम्” । जातिभेदे
वर्णविशेषमाह तत्रैव “श्वेतञ्च छागलञ्चैव ब्राह्मणस्य
विशिष्यते । रक्तं श्वेतं क्षत्रियस्य वैश्यस्य गौरमेव च ।
नानावर्णं हि शूद्रस्य सवषामञ्जनप्रभम्” योगिनी-
तन्त्रे “पशूमाञ्चैव षण्मासात् परतश्च वलिर्भवेत् ।
छागलः कष्णः श्वेतो वा द्विवर्षात् परतो यदि ।
“तथा चाश्वं मृगञ्चैव छागञ्च षार्वतीयकम् । मूषिकञ्च
करालञ्च चद्रमार्जारमेव च” ।
सद्रयामले उत्तरख० ६ प० षशुभावलक्षणं यथा
“पशुभावस्थितां नाष! देवतां शृणु विस्तरात् ।
टुर्णपूजां विष्णुपूजा शिवपूजाश्च नित्यशः । अवश्यं
हि यः करोति स पशुरुत्तमः स्मृतः । केवलं
शिवपूजाञ्च यः करोति च स साधकः । पशूनां मध्यमः
श्रीमान् शिवया सह चोत्तमः । केवलं वैष्णवो धीरः
पशूला सध्यमः स्यृतः । भूतानां देवतानाञ्च सेवां कुर्वन्ति
ये सदा । पशूनामधमाः प्रोक्ता नरकस्था न संशयः ।
त्वत्सेवां मम सेवाञ्च ब्रह्मविष्ण्वादिसेवनम् । कृत्वान्य
सर्वभूतानां नायिकानां महाप्रभो! । यक्षिणीनां भूति-
नीनां ततः सेवां शुभप्रदाम् । यः पशुर्ब्रह्मकृष्णादि-
सेवाञ्च कुरुते सदा । तथा श्रीतारकव्रह्मसेवां ये वा
नरोत्तमाः । तेषामसाध्यभूतादिदेवताः सर्वकामदाः । वर्ज-
येत् पशुमार्गेण विष्णुपूजापरोजनः” द्वितीयपटले ।
“नित्यं श्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् । देवता
दर्शनं पीठदर्शनं तीर्थदर्शनम् । गुरोराज्ञापालनञ्च देवता-
नित्यपूजनम् । पशुभावस्थितो मर्त्त्यो महासिद्धिं
लभेद्ध्रुवम्” । यज्ञियपशुलक्षणं च आ० गृ० ४ ९ १
सूत्रादौ दृश्यः । ९ शैवागमपसिद्धे जीवात्मनि
पशुपतिशब्दे दृश्यम् । १० अग्नौ पतिष्टिशब्द दृश्यम् ।

पशुकल्प पु० पशोः यज्ञाङ्गपशोः कल्पोविधानम् । “अथ

पशुकल्पः” आ० गृ० १ ११ १ सूत्रादौ विहिते पशूपा-
करणादिसंस्कारादिकर्सणि ।

पशुगायत्री ६ त० । पशोः कर्णे जप्यमन्त्रमेदे म च “पशु-

पाशाय विद्महे विश्वकर्मणे धीमहि । तन्नो जीवः प्रचोद
यात्” इत्येवं रूपः ।

पशुचर्य्या स्त्री पशोरिव चर्य्याचारः । पशोरिव निर्लज्जाचारे भाग० ५ २६ २३ ।

पशुतन्त्र न० पशूनां तन्त्रम् । १ अनेकोद्देशेन एकजातीयैक

पशुग्रहणे आश्व० श्रौ० ३ ६ १७ पशोस्तन्त्रम् । २ पश्वधीने
व । कात्या० श्रौ० ५१११९ । ३ पशुकल्पे च ।

पशुद त्रि० पशुं ददाति दा--क । १ पशुदातरि २ कुमारानुच-

रमातृभेदे स्त्री भा० श० ४७ अ० ।

पशुदेवता स्त्री पश्वधिष्ठास्त्री देवता पशुसम्प्रदानं देवता वा ।

१ पश्वधिष्टात्र्यां देवतायाम् । पशुभेदे देवताभेदाव
पशुशब्दे दर्शिताः । २ पशुसम्प्रदाने देवताभेदे च ।

पशुधर्म्म पु० पशूनामिव यथेष्टमैथुनादिरूपो धर्मः । यथेष्टमै-

थुनादिसम्पादके पशुतुल्यधर्से मनुः ९ ६६ श्लो० ।

पशुनाथ पु० ६ त० । १ शिबे हेमच० ३ पशुस्वामिनि च ।

पशुप त्रि० पशून् पाति--क । १ षशुपालके २ पशूनां पत्यौ च ।

पशुपति पु० पशूनां जीवानां पतिः । १ महेश्वरे शिवे

१ पशुस्वामिनि । यजुर्बेदीयकर्सकाण्डपद्धतिकारके
हलायुध सहोदरे ३ पण्डितभेदे च । शिवस्य तन्नामनिरुक्ति-
र्यथा “अयञ्च सर्वविद्याना पतिराद्यः सनातनः । अहं वै
पतितो येन पशुमध्ये (जीवमध्ये) व्यवस्थितः । अतः
पशुपतिर्नाम त्वं लीके ख्यातिमेध्यसि” वराहपु० ।
पशुपतिनोपदिष्टम् अण् । पाशुपत शैत्रागमभेदे तत्र
प्रतिपाद्यविषयाश्च सर्वदर्शनसंग्रहे नकुलीशमतप्रदर्शनान-
न्तरं दर्शिता यथा
“तमिसं परमेश्वरः कर्सादिनिरपेक्षः कारणमिति पक्षं
वैषम्यनैर्घृ ण्यदोषदूषितत्वात् प्रतिक्षिपन्तः के अन माहे-
श्वराः शैवागमसिद्धान्ततत्त्वं यथावदीक्षमाणाः कर्मादि-
सापेक्षः परमेश्वरः कारणमिति पक्षं कक्षीकुर्वाणाः प्रक्षा-
न्तरमुपक्षिपन्ति । तत्र पशुपतिपाशभेदात् त्रयः पदार्था
इति । तदुक्तं तन्त्रतत्त्वज्ञैः “त्रिपदार्थं चतुष्पादं महामन्त्रं
जगद्गुरुः । सूत्रेणैकेन संक्षिप्य प्राह विस्तरतः पुनः” इति
अस्यार्थः त्रयः पशुपतिपाशाः पदार्था यस्मिन् सन्ति तत्त्रि-
पदाथ विद्याक्रियायोगचर्य्याख्याश्चत्वारः पादा यणिन्
तच्चुतुश्चरणं महामन्त्रमिति । तत्र पशूनामस्वतन्त्रत्वात
पृष्ठ ४२७८
पाशानामचैतन्यात् तद्विलक्षणस्य पत्युः प्रथममुद्देशः ।
चेतनत्वसाधर्म्यात् पशूनां तदानन्तर्य्यम् । अवशिष्टानां
पाशानामन्ते विनिवेश इति क्रमनियमः । दीक्षायाः
परमपुरुषार्थहेतुत्वात्तस्याश्च पशुपाशेश्वरस्वरूपनिर्णयोपाय
भूतेन मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन ज्ञानेन
पिना निष्पादयितुमशक्यत्वात् तदवबोधकस्य विद्यापा-
दस्य प्राथम्यम् । अनेकविधसाङ्गदीक्षाविधिप्रदर्शकस्य
क्रियापादस्य तदनन्तर्य्यम् । योगेन विना नाभिमत-
प्राप्तिरिति साङ्गयोगज्ञापकस्य योगपादस्य तदुत्तरत्वम् ।
विहिताचरणनिषिद्धवर्जनरूपां चर्य्यां विना योगोऽपि
न निर्वहतीति तत्पतिपादकस्य चर्य्यापादस्य चरमत्व-
मिति विवेकः । तत्र पतिपदार्थः शिवोऽभिमतः । मुक्ता-
त्मनां विद्येश्वरादीनाञ्च यद्यपि शिवत्वमस्ति तथापि
परमेश्वरपारतन्त्र्यात् स्वातन्त्र्यं नास्ति । ततश्च तदुप-
करणभुवनादीनां भावानां सन्निवेशविशिष्टत्वेन कार्य्यत्व-
मवगम्यते । तेन च कार्य्यत्वेनैर्षा बुद्धिमत्पूर्वकत्वमनु-
मीयत इत्यनुमानवशात् परमेश्वरप्रसिद्धिरुपपद्यते ।
ननु देहस्यैव तावत्कार्यत्वमसिद्धं म हि क्वचित् केन
चित् कदाचित् देहः क्रियमाणो दृष्टचरः । सत्यं
तथापि न केनचित् क्रियमाणत्वं देहस्य दृष्टमिति कर्भृ-
दर्शनापह्नवो न युज्यते तस्यानुमेयत्वेनाप्युपपत्तेः ।
देहादिकं कार्य्यं भवितुमर्हति सन्निवेशविशिष्टत्वात्
विनश्वरत्वाद्वा घटादिवत् तेन च कार्य्यत्वेन बुद्धिमत्-
पूर्वकत्वमनुमातुं सुकरमेव । विमतं सकर्तृकं कार्य्य-
त्वात् घटवत् यदुक्तसाधनं तदुक्तसाध्यं न यदेवं न
तदेवं यथात्मादि । परमेश्वरानुमानप्रामाण्यसाधनानुमा-
नमन्यत्राकारीत्युपरम्यते “अज्ञो जन्तुरनीशोऽयमात्मनः
सुखदुःखयोः । ईश्वरष्रेरितो गच्छेत् स्वर्गं वा श्वभ्र-
मेव वा” इति न्यावेन प्राणिकृतकर्मापेक्षया परमेश्वरस्य
कर्तृत्वोपपत्तेः । न च स्वातन्त्र्यविहतिरिति वाच्यं
करणापेक्षया कर्तुः स्वातन्त्र्यविहितेरनुपलम्भात् कोषा-
ध्यक्षापेक्षस्य राज्ञः प्रसादादिना दानवत् यथोक्तं
सिद्धगुरुभिः “स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता ।
कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षया” इति । तथा च
तत्तत्कर्माशयबशाद्भोगतत्साधनतदुपादानादिविशेषज्ञः ।
ततश्च कर्त्ता अनुमानादिसिद्ध इति सिद्धम् । तदिदमुक्तं
तत्रमवद्भिर्वृहस्पतिभिः “इह भोग्यगोगसाधनतदुपादा-
नाद्दि यो विजानाति । तमृतेमूतन्नहीदं पुंस्कर्मा शय-
विपाकज्ञमिति” । अन्यत्रापि “विवादाध्यासितं सर्वं बुद्धि-
मत्पूर्वकर्तृकम् । कार्य्यत्वादावयोः सिद्धं कार्य्यं कुम्भा-
दिकं यथा” इति सर्वात्मकत्वादेवास्य सर्वज्ञत्वं सिद्धम्
अज्ञस्य करणासम्भवात् । उक्तञ्च श्रीमन्मृगेन्द्रैः “सर्वज्ञः
सर्वकर्तृत्वात् साधनाङ्गफलैः सह । यो यज्जानाति कुरुते
स तदेवेति सुस्थितम्” इति । अस्तु तर्हि स्वतन्त्र
इश्वरः कर्त्ता न तु तावदशरीरः घटादिकार्य्यस्य शरीर-
वता कुलालादिना क्रियमाणत्वदर्शनात् शरीरवत्त्वे
चास्मादादिवदीश्वरः क्लेशयुक्तीऽसर्वज्ञः परिमितशक्तिं
प्राप्नुयादिति चेन्मैवं मंस्थाः अशरीरस्याप्यात्मनः स्वश-
रीरस्पन्दादौ कर्तृत्वदर्शनादभ्युपगम्यापि ब्रूमहे शरीर-
वत्त्वेऽपि भगवतो न प्रागुक्तदोषानुषङ्गः । परमेश्वरस्य
हि मलकर्मादिपाशजालासम्भवेन प्राकृतं शरीरं न
भवति किन्तु शाक्तं शक्तिरूपैरीशानादिभिः पञ्चभिर्म-
न्त्रैर्मस्तकादिकल्पनायामीशानमस्तकस्तत्पुरुषवक्त्रोऽघोर-
हृदयोबामदेवगुह्यः सद्योजातपादः ईश्वर इति प्रसि-
द्ध्या यथाक्रमानुग्रहतिरोभावादानलक्षणस्थितिलक्षणो-
द्भवलक्षणकृत्यपञ्चककारणं स्वेच्छानिमितं तच्छरीरं न
चा{??}च्छरीरसदृशम् । तदुक्तं श्रीन्मृगेन्द्रे “मलाद्य-
सम्भवाच्छक्तं वपुर्नैतादृशं प्रभोः” इति । अन्थवापि
“तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयो गिभिः । ईश
तत्पुरुषाघोरवामाद्यैर्मस्तकादिमत्” इति । ननु पञ्च-
वक्त्रस्त्रिपञ्चदृगित्यादिना आगमेषु परमेश्वरस्य मुख्यत
एव शरीरेन्द्रियादियोगः श्रूयत इति चेत्सत्यं निरा-
कारे ध्यानपूजाद्यसम्भवेन भक्तानुग्रहकरणाय तत्तदा
कारग्रहणाविरोधात् । तदुक्त श्रीमत्पौष्करे “साध-
कस्य तु रक्षार्थं तस्य रूपमिदं स्मृतम्” इति अन्थत्रापि
“आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैति
बुद्धिः” इति । कृत्यपञ्चकं च प्रपञ्चितं भोजराजेन
“वञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावाः । तद्वदनु-
ग्रहकरणं प्रोक्तं सततोदितस्यास्य” इति । एतच्च कृत्य-
पञ्चकं शुद्धाध्वविषये साक्षाच्छिवकर्तृकं कृच्छ्राध्वविषये
त्वनन्तादिद्वारेणेति विवेकः । तदुक्तं श्रीमत्करणे
“शुद्धेऽध्वनि शिवः कर्त्ता प्रोक्तोऽनन्तोहितो प्रभोः” इति ।
एवञ्च शिवशब्देन शिवत्वयोगिनां मन्त्रेश्वरमहेश्वर-
मुक्तात्मशिबानां सवाचकानां शिवत्वप्राप्तिसाधनेन
दोक्षादिनोपायकलापन सह षतिपदार्थेन संग्रहः कृत इति
बोद्धव्यम् । तदित्यं पतिपदार्थो निरूपितः । सम्प्रति
पृष्ठ ४२७९
पशुपदार्थो निरूप्यते । अणुक्षेत्रज्ञादिपदवेदनीयो
जीवात्मा पशुः न तु चार्वाकादिवद्देहादिरूपः “नान्य-
दृष्टं स्मरत्यन्यः” इति न्यायेन प्रतिसन्धानानुपपत्तेः ।
नापि नैयायिकादिवत् प्रकाश्यः अनवस्थाप्रसङ्गात् ।
तदुक्तम् “आत्मा यदि भवेन्मेयस्तस्य माता भवेत् परः ।
पर आत्मा तदानीं स्यात् स परो यदि दृश्यते” इति ।
न च जैनवदव्यापकः नापि बौद्धवत् क्षणिक देशकाला-
म्यामनवच्छिन्नत्वात् । तदुक्तम् “अनवच्छिन्नसद्भावं
वस्तु यद्देशकालतः । तन्नित्यं बिभु चेच्छन्तीत्यात्मनी
विभुनित्यता” इति । बाप्यद्वैतवादिनामिवैकः,
भोगप्रतिनियमस्य पुरुषबहुत्वज्ञापकस्य सम्भवात् । नापि
साङ्ख्यानामिवाकर्त्ता पाशजालापोहने नित्यनिरतिशय-
दृक्क्रियादिरूपचैतन्यात्मकशिवत्वश्रवणात् । तदुक्तं
“पाशान्ते शिवताश्रुतेः” इति “चैनन्य दृक्क्रियारूपं
तदस्यात्मनि सर्बदा । सर्वतश्च यता मुक्तौ श्रूयते सर्वतो
मुखम्” तत्त्वप्रकाशेऽपि “मुक्तात्मानोऽपि शिवाः किञ्चैते
सत्प्रसादतो मुक्ताः । सोऽनादिमुक्त एको विज्ञेयः पञ्च-
मन्त्रतनुः” इति । पशुस्त्रिविधः विज्ञानाकलप्रलयाक-
लसकलभेदात् तत्र प्रथमो विज्ञानयोगसन्न्यासैर्भोगेन वा
कर्मक्षये सति कर्मक्षयार्थस्य कलादिभोगबन्धस्याभावात्
केवलमलमात्रयुक्तो विज्ञानाकल इति व्यवदिश्यते । द्विती-
यस्तु प्रलयेन कलादेरुपसंहारात् मलकर्मयुक्तः प्रलया-
कल इति व्यवह्रियते । तृतीयस्तु मलमायाकर्मात्मकवन्ध-
त्रयसहितः सकल इति संलप्यते । तत्र प्रथमो द्विप्र-
कारो भवति समाप्ताकलुषासमाप्तकलुषभेदात् । तत्राद्यान्
कालुष्यपरिपाकवतः पुरुषधीरेयान् अधिकारयोग्या-
ननुगृह्यानन्तादिविद्येश्वराष्टपदं प्रापयति । तद्विद्येश्वरा-
ष्टकं निर्दिष्टं बहुदैवत्ये “अनन्तश्चैव सूक्ष्मश्च तथैव
च शिवोत्तमः । एकनेत्रस्तथैवैकरुद्रश्चापि त्रिमूर्त्तिकः ।
श्रीकण्ठश्च शिखण्डी च प्रोक्ता विद्येश्वरा इमे” । अन्त्यान्
सप्तकोटिसङ्ख्यातान् मन्त्राननुग्रहकरणान् विधत्ते
तदुक्तं तत्त्वप्रंकाशे “पशवस्त्रिविधाः प्रोक्ता विज्ञानप्र-
लयाकलौ सकलः । मलयुक्तस्तत्राद्यो सलकर्मयुती द्वि-
तीयः स्यात् । मलमायाकर्मयुतः सकलस्तेषु द्विधा
भवेदाद्यः । आद्यः समाप्तकलुषोऽसमाप्तकलुषो द्वितीयः
स्यात् । आद्याननुगृह्य शिवो विद्येशत्वे नियोजय-
त्यष्टौ । मन्त्रांश्च करोत्यपरान् ते चोक्ताः कोटयः सप्त”
इति । सोमशन्भुनाप्यभिद्वितम् । “विज्ञानाकलनामैको
द्वितीयः पलयाकलः । तृतीयः सकलः शास्त्रेऽनुग्रा-
ह्यस्त्रिविधो मतः । तत्राद्यो मलमात्रेण युक्तोऽन्यो
मलकर्मभिः । कलादिभूमिपर्य्यन्ततत्त्वैस्तु सकली युतः”
इति । पलयाकलोऽपि द्विविधः पक्वपाशद्वयः तद्विल-
क्षणश्च तत्र प्रथमो मोक्षं प्राप्नोति द्वितीयस्तु पुर्य्यष्ट-
कयुतः कर्मवशान्नानाविधजन्मभाग् भवति । तदप्युक्तं
तत्त्वप्रकाशे “प्रलयाकलेषु येषामपक्वमलकर्मणी व्रज-
न्त्येते । पुर्य्यष्टकदेहयुता योनिषु निखिलासु कर्मव-
शात्” इति । पुर्य्यष्टकमपि तत्रैव निर्दिष्टम् “म्यात्
पुर्य्यष्टकमन्तःकरणं धीकर्म करणानि” इति विवृतं
चाघोरशिवाचार्य्येण “पुर्य्यष्टकं नाम प्रतिपुरुषनियतः
सर्गादारभ्य कल्पान्तं मोक्षान्तं वा स्थितः पृथिव्यादि-
कलापर्य्यन्तस्त्रिंशत्तत्त्वात्मकः सृक्ष्मी देहः । तथा चोक्तं
तत्त्वसंग्रहे “वसुधाद्यस्तत्त्वगणः प्रतिपुन्नियतः
कलान्तोऽयम् । पर्य्येति कर्मवशाद्भुवनजदेहेष्वयञ्च सर्वेषु”
इति । तथा चायमर्थः सममद्यत अन्तःकरणशब्देन
मनोवुद्ब्यहङ्कारचित्तवाचिना अन्यान्यपि पुंसो
भोगक्रियायामन्तरङ्गाणि कलाकालनियतिविद्यारागप्रकृति-
गुणाख्यानि सप्त तत्त्वानि उपलक्ष्यन्ते धीकर्मशब्देन ज्ञे-
यानि पञ्चभूतानि तत्कारणानि च तन्मात्राणि
विवक्ष्यन्ते करणशब्देन ज्ञानकर्मेन्द्रियदशकं संगृह्यते ।
ननु श्रीमत्कालोत्तरे “शब्दः स्पर्शस्तथा रूपं रसो
गन्धश्च पञ्चकम् । बुद्धिर्मनस्त्वहङ्कारः पुर्य्यष्टकमुदाहृत-
मिति” श्रूयते तत्कथमन्थथा कथ्यते । अद्धा अतएव च
तत्रभवता रामकण्ठेन तत्सूत्रं शक्तत्वपरतया व्याख्या-
यीत्यलमतिप्रपञ्चेन । तथापि कथं पुनरस्य पुर्य्यष्टकत्वं
भूततन्मात्रबुद्धीन्द्रियकर्मेन्द्रियान्तःकरणसज्ञैः पञ्चभिर्वर्गे-
स्तत्करणेन प्रधानेन कलादिपञ्चकात्मना वर्गेण
चारब्धत्वादियविरोधः । तत्र पुर्य्यष्टकयुतान् विशिष्टपुण्यस-
म्पन्नान् कांश्चिदनुगृह्य भुवनपतित्वमात्रं महेश्वरोऽनन्तः
प्रयच्छति । तदुक्तम् “कांयिदनुगृह्य वितरति भुवगपतित्वं
महश्वरस्तेषामिति” । सकलोऽपि द्विविधः पककलापा-
पक्वकलुषभेदात् । तत्राद्यः परमेश्वरस्तत्परिपाकपरिपाटश
तदनुगुणशक्तिपातेन मण्डल्याद्यष्टादशोत्तरशतं मन्त्रे-
श्वरपद प्रापयति । तदुक्तम् “ज्ञेया भवन्ति सकलाः
कलादियोगादहर्मुखे काले । शतमष्टादश तेपां करुते
ख्ययमेव मन्त्रेशान् । तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्-
समाष्टवीरेशाः । श्रीण्ठशतरुद्राः शतमित्यष्टादणा-
पृष्ठ ४२८०
भ्यधिकम्” इति । तपरिपाकाधिक्यनिरोधेन शक्त्यु-
पसहारेण दीक्षाकरणेन मोक्षपदो भवत्याचार्य्यमूर्त्ति
मास्थाय परमेश्वरः । तदप्युक्तम् “परिपक्वमलानेता
नुत्सादनशक्तिपातेन । योजयति परे तत्त्वे स दीक्षया-
चार्य्यमूर्त्तिस्थः” इति । श्रीमृगेन्द्रेऽपि “पूर्वं व्यत्यासि
तस्याणोः पाशजीलमपोहति” इति । व्याकृतञ्च
नारायणकण्ठेन “तत्सर्वं तत एवावधार्यम् अस्माभिस्तु
बिस्तरभिया न प्रस्तूयते । अपक्वकलुषान् बद्धानणून्
भोगभाजो विधचे परमेश्वरः कर्मवशात् । तदप्युक्तम्
“बद्धान् शेपानपरान् विनियुङ्क्ते भोगभुक्तये पुंसः ।
तत्कर्मणामनुगमादित्येवं कीर्त्तिताः पशवः” इति । अथ
पाशपदार्थः कथ्यते । पाशश्चतुर्विधः मलकर्ममायारोध-
शक्तिभेदात् । ननु “शैवागमेषु मुख्यं पतिषशुपाशा
इति क्रमात्त्रितयम् । तत्र पतिः शिव उक्तः पशवो
ह्यणवोऽर्थपञ्चकं पाशाः” इति पाशः पञ्चविधः कथ्यते
तत्कथं चतुर्विध इति गण्यते । उच्यते विन्दोर्मायात्मनः
शिवतत्त्वपदवेदनीयस्य शिवपदप्राप्तिलक्षणपरममुक्त्यपे-
क्षया पाशत्वेऽपि तद्योगस्य विद्येश्वरादिपदप्राप्तिहेतु-
त्वेनापरसुक्तित्वात् पाशत्वेनानुपादानमित्यबिरीधः ।
अतएवोक्तं तत्त्वप्रकाशे “पाशाश्चर्विधाः स्युः” इति ।
श्रीमन्मृगोन्द्रेऽपि “प्रावृतीशौ बलं कर्म मायाकार्य्यञ्च-
तुर्विधम् । पाशजालं सआसेन पर्मनाम्नैव कीर्त्तितम्”
इति । अस्यार्थः प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनो
वृक्क्रिये इति प्रावृतिः स्वाभाविक्यशुचिर्मलः स च ईष्टे
स्वातन्त्र्येणेति टशः । तदुक्तम् “एको ह्यनेकशक्तिदृक्-
किययोश्छादको नलः पुंमः । तुपतुण्डुलवज् ज्ञेयास्ता-
म्राश्रितकालिकावद्वेनि” । बलं रोधशक्तिः अस्याः
शिवशक्तेः पाशाधिष्ठानेन पुरुषनिरोधायकत्वादुपचारेण
पाशत्रम् तदुक्तम् “तासामहं वरा शक्तिः सर्वानुग्रा-
हिका शिवा । धर्मासुवर्त्तनादेव पाश इत्युपचर्य्यते”
इति । क्रियते फलार्थिभिरिति कर्म धर्माधर्मात्मकं
वीजाङ्कुरवत् प्रपाहरूपेणानादि । यथोक्तं श्रीमत्-
किरणे “यथानादिर्मलस्तस्य कर्माल्पकमनादिकम् ।
यद्यनादि न ससिद्धं वैचित्र्यं केन हेतुना” इति ।
मात्यस्यां शक्त्यात्मना प्रलये सर्वं जगत्, सृष्टौ व्यक्तिं
यातीति माया । यथोक्तं श्रीमत्सौरभेये “शक्तिरू-
पेण कार्य्याणि तल्लीनानि महाक्षये । विकृतौ व्यक्ति-
आयाति सा कार्येण कलादिना” इति । यद्यप्यप्त वहु
वक्तव्यमस्ति तथापि ग्रन्थभूयस्वभयादुपरम्यते । तदित्थं
पतिपशुपाशपदार्थास्त्रयः प्रदर्शिताः । “पतिविद्ये
तथाऽविद्या पशुः पाशश्च कारणम् । तन्निवृत्ताविति
प्रोक्ताः पदार्थाः षट्समासतः” इत्यादिना प्रकारान्तरं
ज्ञानरत्नावल्यादौ प्रसिद्धम् । सर्वं तत एवावगन्तव्यमिति
सर्वं समञ्जसम्” ।
४ ओषधौ च । प्रजापतिना रुद्रादिनामकरणप्रसङ्गे शत०
ब्रा० ६ १ । ३ । १२ “तमव्रवीत् पशुपतिरसीति । तद्यदस्य
तन्नामाकरोदोषधयस्तद्रूपमभवन्नोषधयो वै पशुपतिस्त-
शाद्यदा पशव ओषधीर्लभ तेऽथ पतीयन्ति” ।

पशुपल्वल न० पशूनां प्रियं पल्वलमिव । कैवर्त्तीमुस्तके शब्दच०

पशुपाल त्रि० पशून् पालयति पालि--अण् उप० स० । १ पशूनां

पालके वृत्त्यर्थतया मेषादीनां पालके । तस्याभोज्यान्नता
मनुनोक्ता ३ । १५ ४ श्लोके । वृ० सं० १ ४ अ० उक्ते ऐशान्यां
स्थिते २ देशभेदे च तद्देशस्थानां च पशुपालनवृत्तिक-
त्वात् तथात्वम् । पशुपालस्य भावः ष्यञ् । पाशुपाल्य
पशुपालनरूपे वैश्यवृत्तिभेदे “वैश्यानां पाशुपाल्यञ्च”
स्मृतिः । ण्वुल् । पशुपालक पशुपालनकर्त्तरि त्रि० ।
तस्य पत्री पालकान्तत्वात् पुंयोगेऽपि न ङीष् किन्तु टाप्

पशुपाश पु० ६ त० । पशुरूपजीवानां वन्धे पशुपतिशब्द

दृश्यम् ।

पशुपाशक पु० “स्त्रियमानतपूर्वाङ्गीं स्वपादान्तःपदद्वयम् ।

ऊर्द्धांशेन रमेत् कामी बन्धोऽयं पशुपाशकः” रतिमञ्ज-
र्य्युक्ते रतिवन्धभेदे ।

पशुप्रेरण न० ६ त० । गवादीनां चालने अमरः ।

पशुमारम् अव्य० पशुमिव मारयित्वा णमुल् । पशोरिव

हिंसायाम् कषादित्वात् मारयतीत्यादेरनुप्रयीगे एवास्य
साधुता “पशुमारममारयत्” भा० ब० ११ अ० ।
यज्ञे पशुमारणञ्च श्वासरोधेन गलादिनिष्पीडनेनैव, न
शस्त्रादिना शमित्रा करणीयमिति श्रौतसम्प्रदायः ।

पशुमोहनिका स्त्री पशुर्मोह्यतेऽनेन मुह--णिच्--ल्युट् स्वार्थे

क काप अतैत्त्वम् । १ कट्व्यां २ लतायाम् राजनि० ।

पशुयाग पु० पशुकरणको यागः ३ त० वा । पशुदव्यके

पशुनामके यागभेदे स च यागः “पशौ” आश्व० श्रौ० सूत्रादौ
विहितः “क्षालनं दर्भकूर्चेन सर्वत्र स्रातसा पशोः ।
तुष्णीमिच्छाक्रमेण स्याद्वपार्थे पार्णदारुणी । सप्त तावन्-
मूर्द्ध्वन्यानि तथा स्तनचतुष्टयम् । नाभिः श्रोणिर्कपा-
नञ्च गोस्रोतांसि चतुर्दश । क्षुरो मांसावदानार्थः
पृष्ठ ४२८१
कृत्स्नः स्विष्टकृदावृता । वपामादाय जुहुयात्तत्र मन्त्रं
मुमापयेत् । हृज्जिह्वाक्रोड़मस्थीनि यकृद्वुक्वौ गुदं
स्तनाः । श्रोणिस्कन्धसटापार्श्वं पश्वङ्गानि प्रचक्षते ।
एकादशानामङ्गानामवदनानि सङ्ख्यया । पार्श्वस्य वुक्व-
सक्थोश्च द्वित्वादाहुश्चतुर्दश । चरितारा श्रुतिः कार्य्या
यस्मादप्यनुकल्पशः । अतोऽष्टर्च्चेन होमः स्याच्छागपक्षे
चरावपि” कर्मप्र० । तत्कालः पश्विज्याशब्दे दृश्यः ।

पशुरज्ज्वु स्त्री ६ त० । पशुवन्धसाधनदामनि अमरः ।

पशुराज पु० पशूनां राजा टच्समा० । सिंहे शब्दच० स्त्रियां

जातित्वात् ङीष् ।

पशुवर्द्धन न० ६ त० । पशोः संपुष्टताविधायके व्यापारभेदे

यज्ञियपशुवर्द्धनप्रकारस आश्व० गृ० ४ । ९९ सूत्रादौ दृश्यः ।

पशुष पु० पशुषु सीदति सद--ड वत्वम् । पशुष स्यायिनि

लीरदध्यादौ ऋ० ५४११ तत्र पशुपः इत्यत शसूः सुः

पशुसनि त्रि० पशुं सनीति ददाति सन--इन् । पशुदायके

यजु० १९ । ४८ मन्त्रः ।

पशुहरितकी स्त्री पशूनां हरितकीव हितकारित्वात् आम्रातकफले त्रिका० ।

पश्चा अव्य० पश्चात् + वेदे पृषो० । पश्चादित्यर्थे ऋ० १ । १३३ । ५

आर्षेऽपि क्वचित् अपरशब्दस्थाने पश्चभावः । “पूर्वपश्चा-
यतावेतौ” मार्कण्डपु० ५४ अ० ।

पश्चात् अव्य० अपर + प्रथमापञ्चमीसपम्यर्थे आति पश्चादेशः ।

१ प्रमाद्यर्थवृत्तेरपरशब्दस्यार्थे २ चरमे ३ अधिकारे च
मेदि० । ततो भवार्थे त्यक् । पाश्चात्त्य पश्चाद्भवे त्रि० स्वार्थे
तातिल् पश्चात्तात् तदर्थे अव्य० ऋ० ७ । ७३ । ५

पश्चात्ताप पु० पश्चात् चरमस्तापः । अनुशये कृतस्य कर्मणो

ऽनुचितत्वधिया अनुशोचने अमरः ।

पश्चार्द्ध पु० अपरश्चार्द्धावर्द्धश्च “अपरश्चार्द्धे पश्चभावः” वार्त्ति०

पश्चादेशः । अपरार्द्धे “अर्द्धं नपुंसकम्” पा० एकदेशिस-
मासे तु अर्द्धपिप्ल्यादिवत् अर्द्धापरमित्येवेति भेदः ।

पश्चिम त्रि० पश्चाद्भवः डिमच् । १ पश्चाद्भवे २ प्रतीच्यां दिशि स्त्री

पश्चिमानूपक पु० नृपभेदे “पश्चिमानूपकं विद्धि तं नृपं

नृपसत्तम!” भा० आ० ६७ अ० ।

पश्चिमरात्र पु० पश्चिमं रात्रेः एकदेशिसमा० अच्समा० ।

रात्रे शेषभागे “पूर्वापरोत्तरमेकदेशिमैकाधिकरणे” पा०
“सर्वोऽप्येकदेशोऽह्रा समस्यते सङ्ख्यायिसायेति ज्ञाप्र-
कात् मध्याह्नः सायाह्नः । केचित्तु सर्वकदेशः कालेन
समस्यते नत्वह्नेव ज्ञापकस्य सामान्यापेक्षत्वात् । तेन
मध्यरात्रः “उपारताः पश्चिमरात्रगोचरादित्यादि सिद्ध-
मित्याहुः” सि० कौ० । मल्लिनाथेन तु “उपरताः पश्चि-
मरात्रिगोचरादिति” पठित्वा समासान्तं निराचष्टे यथा
पश्चिमा चाऽसौ रात्रिश्चेति विग्रहः अपररात्र इत्यर्थः ।
पूर्वा दिक् पश्चिमं नभ इत्यादिवत् एकदेशिशब्दस्यैकदेशशब्द-
सामानाधिकरण्यादेकदेशे पर्य्यवसानं, न तु पश्चिमं रात्रे
रित्येकदेशिसमासः तद्विधायके पूर्वापरादिसूत्रे
पश्चिमशब्दाग्रहणादतएव “अहः सर्वैकदेशेत्यादिना न
समासान्तोऽपि तस्यापि पूर्वापरादिसूत्रोक्तसमासविषय-
त्वादिति । प्रकाशवर्षस्त्वेकदेशिसमासमेवाश्रित्य समासा-
न्तमाह तन्मूलं मृग्यम्” ।

पश्चिमोत्तरा स्त्री पश्चिमाया उत्तरस्या दिशोऽन्तरला दिक्

“दिङ्नामान्यन्तराले” पा० स० । वायुकोणे विदिशि ।

पश्य अव्य० दृश--बा० शः । १ प्रशंसायाम् २ विस्मये च शब्द-

रत्ना० ३ यथोक्तदर्शिनि विमर्षे त्रि० छा० उ० ।

पश्यतोहर त्रि० पश्यन्तमनादृत्य हरति हृ--अच् अनादरे

षष्ठी “वागिदक्पश्यद्भ्यो युक्तिदण्डहरेषु” वार्त्ति०
अलुक्स० । पश्यन्तमनादृत्य हरे चौरभेदे स्वर्णकारादौ
“यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः” हेमच० ।

पश्यन्ती स्त्री दृश--शतृ ङीप् । १ दर्शिन्यां स्त्रियां २ वाग्विशेषे

“प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति । स्थानेषु
विकृते वायौ कृतर्वणपरिग्रहा । वैखरी वाक् प्रयो-
क्तॄणां क्रमरूपानुपातिनी । प्राणवृत्तिमनुक्रम्य मध्यमा
वाक् प्रवर्त्तते । अबिभागा तु पश्यन्ती सर्वतः संहृत-
क्रमा । स्वरूपज्योतिरेवातः परा वागनपायिनी” मञ्जूषा-
धृतवाक्यम् अस्यार्थः शब्दार्थरत्ने “चेतनेन ज्ञातार्थविवक्षया
तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणं मूलाधार-
स्थितमनलं चालयति तच्चालितश्चानलस्तत्स्थलस्थानिल-
चालनाय प्रभवति तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपे-
णोत्पादितः शब्दः परा वागित्यभिधीयते । ततो नाभि-
देशपर्य्यन्तं चलितेन तेन तद्देशसंयोगादुत्पादितः शब्दः
पश्यन्तीति व्यवह्रियते एतद्द्वयस्य सूक्ष्मतरसूक्ष्मतमतया
ईश्वरयोगिमात्रगम्यता नास्मदीयश्रुतिगचिरता । ततस्ते-
नैव हृदयदेशं परिसरता हृदयसंयोगेन निष्पादित-
शब्दो मध्येत्युच्यत सा च स्वकर्णपिधानेन ध्वन्यात्मकतया
सूक्ष्मरूपेण कदाचिदस्माकमपि समधिगम्या । ततो
मुखपर्य्यन्तमागच्छता तेन कण्ठदेशं प्राप्य आहत्य
मूर्द्धानं तत्प्रतिघातेन परावृत्य च मुखविवरे कण्ठ दितत्त-
दष्टस्थानेषु स्वाभिघातेनोत्पादितः शब्दो वैणरीत्युच्यते”
“वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्थी
तु पश्यन्ती सूक्ष्मा वागनपायिनी” मल्लिनाथधृतवाक्यम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/परिच्छेद&oldid=57810" इत्यस्माद् प्रतिप्राप्तम्