वाचस्पत्यम्/नीचगृह

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४१२६

नीचगृह न० रष्यादीनां स्वस्वोच्चस्थानात् सप्तने राशौः

यथा रवेस्तुला, चन्द्रस्य वृषः, कुजस्य कर्कः । बुधस्य
मीनो गुरोर्मकरः शुक्रस्य कन्या शनेर्मेषः । “स्वोच्चात्तु
यामित्रमुशन्ति नीचम् यवनेश्वरोक्तेः । उच्चशब्दे दृश्यम्

नीचभोज्य पु० नीचैर्भोज्यः । १ पलाण्डौ शब्दच० । २

नीचभोज्यमात्रे त्रि० ।

नीचयोनिन् त्रि० नीचा योनिरस्त्यस्य व्रीह्या० इनि ।

नीचजातिमति । “एतत् कृतयुगे वृत्तं सर्वेषामेव
भारत! । प्राणिनां धर्मबुद्धीनामपि चेन्नीचयोनिनाम्”
हरिवं० १९८ अ० । इन्यभावे ब० व० । नीचयोनिरप्यत्र ।

नीचवज्र पु० न० नीचप्रियं वज्रम् । वैक्रान्तमणौ राजनि० ।

नीचा अव्य० निकृष्टामीं शोभां चिनोति बा० डा । १ नीचैरि-

रित्यर्थे २ नीचे च “नीचा सन्तमुदनयः” ऋ० २ १३ १२
“नीचा नीचम्” भा० “नीचा वर्त्तन्त उपरि” ऋ० १० ।
३४९

नीचात् अव्य० निकृष्टामीं चिनोति बा० डाति । नीचैरि-

त्यर्थे “नीचादुच्चा चक्रथुः पातवे वा” ऋ० १ । ११६२२

नीचायक त्रि० नितरां निश्चयेन वा चिनोति नि + चि--

ण्वुल् नणसूत्रनिर्देशात् दीर्घः । नितान्तचायके । ततः
उत्करा० चातुरर्थ्यां छ । नीचायकीय तत्सम्बन्ध्यादौ

नीचावया त्रि० नीचा न्यग्भावमवयाति अव + या--क्विप् ।

न्यग्भावपाप्ते “नीचावया अभवत् वृत्रपुत्रेन्द्रः” ऋ०
१ ३२९ “नीचावयाः न्यग्भावं प्राप्तः हतः” भा० ।

नीचीन त्रि० न्यगेव स्वार्थे ख अञ्चतेर्नलोपाल्लोपे पूर्वाणो

दीर्घः । न्यन्भूते अधोमुखे “नीचीनाः स्थुरुपरि
बुध्नः” ऋ० १२४७ “नीचीनवारं वरुणः कबन्धम्”
ऋ० ५ ८५ ३ “नीचीनवारमधोमुखबिलम्” भा० ।

नीचैर्गति स्त्री कर्म० । १ मन्दगमने २ निम्रगमने च ।

नीचैस् अव्य० नि + चि--“नौ दीर्घश्च” डैसि दीर्घश्च । १ नीचे

२ स्वैरे ३ अल्पे ४ अनुच्चे च अमरः “नीचैर्गच्छत्युपरि
च दशाचक्रनेमिः क्रमेण” मेघ० । तथापि नीचैर्विन-
याष्टदृश्यत” “प्रविश्य चैनं पुरमग्रयायी नीचैस्तथीप-
चरदर्पितश्रीः” रघुः । ततः अद्रव्ये उत्कर्षे तरप्
तमप् च आमु । नीचैस्तराम् (माम्) वा । द्रव्ये तु नीचै-
स्तरस्तरुः ।

नीच्य त्रि० नीचि भवः न्यन्च्--यत् नलोपाल्लोपौ पूर्वाणो दीर्घश्च । निम्नभवे न्यग्भूतभवे ।

नीड पु० न० नितरामिसन्ति णगा चात्र नि + इल--क डस्य

त्वः । णगानां १ वासस्थाने (वागा) अमरः २ माश्रये च
“वितर्दिनिर्यूहविटङ्गनीडः” माथः “नीडारम्भैर्गृह-
वलिभुजामाकुलग्रामचैत्याः” मेघ० । नितराभीड्यते नि +
ईड--कर्मणि घञ् । ३ रथावयवभेदे “प्रदक्षिणं रथनीड
परिहारः” कात्या० श्रौ० १८५१८ “भग्नचक्राक्षनो-
डाश्च निपातितमहाध्वजाः” भा० भी० ७१ अ० । स्वार्थे
क । तत्रार्थे “कुर्वाणौ नीडकं तत्र जटासु तृण
तन्तुभिः” भा० शा० २६२ अ० ।

नीडक पुंस्त्री नीडे कायति प्रकाशते कै--क ७ त० । खगे

शब्दार्थचि० । स्त्रियां जातित्वात् ङीष् ।

नीडज पुंस्त्री नीडे जायते जन--ड ७ त० । खगे हेमच० ।

स्त्रियां जातित्वात् ङीष् ।

नीडि पु० नितान्तमिलन्त्यत्र नि + इल--स्वप्ने इन् डस्य लः ।

निवासे आवासस्थाने “श्येनासो असुरस्य नीडयः”
ऋ० १० ९२ ६

नीडोद्भव पुंस्त्री नीटे उद्भवति उद् + भू--अच्, उद्भवत्यस्मात्

उद्--भू--अपादाने अप् नीड उद्भवो यस्य वा । खगे
अमरः स्त्रियां जातित्वात् ङीष् ।

नीत त्रि० नी--कर्मणि क्त । १ प्रापिते २ यापिते ३ गृहीते च

“नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया” भ्रमरा०
“नीते पलाशिन्युचिते शरीरवद् गजान्तकेनान्तमदान्त
कर्मणा” माघः ।

नीति स्त्री नीयन्वे उन्नीयन्तेऽर्था अत्रानया वा नी--क्तिन् ।

१ शुक्राद्युक्तराजविद्यायां कार्यकारणयोरभेदात् २ तच्छ्रास्त्रे
च । भावे क्तिन् । ३ प्रापणे ४ नये च मेदि० । ५ तदधिष्टावृ
देवीभेदे “शिष्टाश्च देव्यः प्रवराः ह्रीः कीर्त्तिर्द्युतिरेव
च । प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या दया मतिः”
हरिवं० २५६ अ० । “नीतिरापदि यद्गम्यः परस्तन्मानिनो
ह्रिये” माघः नीतिश्च कामन्दकीयशास्त्रादौ दृश्या ।
“नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या ।
जयाय तां प्रवक्ष्यामि शृणु धर्मादिवर्द्धनीम् । न्याये-
नार्जनमर्थस्य बर्द्धनं रक्षणं चरेत् । सत्पत्रे प्रतिपत्तिश्च
राजवृत्तं चतुर्विधम् । नयस्य विनयो मूलं विनयः
शास्त्रनिश्चयात् । विनयो हीन्द्रियजयस्तैर्युक्तः
पालयेन्महीम् । शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयि-
ष्णुता । उत्साहो वाग्मितौदार्यमापत्कालसहिष्णु ता ।
प्रभावः शुचिता मैत्री त्यागः सत्यं कृवज्ञता । कुलं
शीलं दमश्चेति गुणाः सम्पत्तिहेतवः । प्रकीर्णविष-
यारणे धावन्तं विप्रमाथिनम् । ज्ञानाङ्कुशेन कुर्वीत
पृष्ठ ४१२७
वश्यमिन्द्रियदन्तिनम् । कामः क्रोधस्तथा लोभो हर्षो
मानो मदस्तथा । षड्वर्गमुत्सृजेदेनमस्मिं स्त्यक्ते सुखी
नृपः । आन्वीक्षिकीं त्रयीं वार्त्तां दण्डनीतिं च
पार्थिवः । तद्विद्यैस्तत्क्रियोपैतैश्चिन्तयेद्विनयान्वितः । आन्वी-
क्षिक्यार्थविज्ञानं धर्मार्थौ च त्रयीस्थितौ । अर्थानर्थौ तु
वार्त्तायां दण्डनीत्यां नयानयौ । अहिंसा सुनृता वाणी
सत्यं शौचं दया क्षमा । वर्णिनां लिङ्गिनां चैव
सामान्यो धर्म उच्यते । प्रजाः समनुगृह्णीयात् कुर्य्यादा-
चारसंस्थितिम् । वाक् सूनृता दया दानं हीनोपगत
रक्षणम् । इति वृत्तं सतां साधु हितं सत्पुरुषव्रतम् ।
आधिव्याधिपरीताय अद्य श्वो वा विनाशिने । को
हि राजा शरीराय धर्मापेतं समाचरेत् । न हि
स्वसुखमन्विच्छत् पीडयेत् कृपणं जनम् । कृपणः पीड्य-
मानो हि मन्युना हन्ति पार्थिवम् । क्रियतेऽभ्यर्हणी-
याय स्वजनाय यथाञ्जलिः । ततः साधुतरः कार्य्यो
दुजंनाय शिवार्धिना । प्रियमेवाभिधातभ्यं सत्सु नित्यं
द्विषत्सु च । देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः ।
शुचितास्तिक्यपूतात्मा पूजयेद्देवता सदा । देवतावद्
सुरुजनमात्मवच्च सुहृज्जनम् । प्रणिपातेन हि गुरुं
सतोऽमृषानुचेष्टितैः । कुर्वीताभिमुखान् भृत्यैर्देवान्
सत्कृतकर्मणा । सद्भावेन हरेन्मित्रं सम्भ्रमेण च
वान्धवान् । स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतरं
जनम् । अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् ।
कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः । प्राणैरप्युपका-
रित्वं मित्रायाव्यभिथारिणे । गृहागते परिष्वङ्गः
शक्त्या दानं सहिष्णुता । स्वसमृद्धिष्वनुत्सेकः परवृद्धि-
ष्वमत्सरः । परोपतापि वचनं मौनव्रतचरिष्णुता ।
षन्धुभिर्लद्धसंयोगः स्वजने चतुरखता । उचितानुविधा-
वित्वमिति वृत्तं महात्मनाम्” अग्निपु २२७ अ० ।

नीतिघोष पु० नीत्यात्मकः घोषो यस्य । वृहस्पतिरथे त्रिका०

नीतिज्ञ त्रि० नीतिं जानाति ज्ञा--क । नीतिवेदिनि

विदणिनि । नीतिवेदिन् तत्रार्थे “त्रिवर्गो नीतिवेदिनाम्”

नीतिमत् त्रि० प्राशस्त्येन नीतिर्वेद्यत्वेनवास्त्यस्य मतुप् ।

प्रशस्ततीतियुक्ते “कदाचिदथ गाङ्गेयः सर्वनीतिमतां
वरः” भा० आ० १७९ अ० स्त्रियां ङीष् ।

नीतिशास्त्र न० शिष्यतेऽनेन शास--त्रल् ६ त० । नीतिज्ञा-

पके औशनससूबकामन्दकपञ्चतन्त्रनीतिसारनीतिमाला
नीतिमयूखहितोपदेशचाणक्यवारसंग्रहाद्यात्मकशास्त्रे
“भार्गवो नीतिशास्त्रं तु जगाद जगतोहितम्” भा०
शा० २१० अ० ।

नीथ त्रि० नी--क्थन् । १ नेतरि प्रापके । करणे क्थन् ।

२ स्तोत्रे ३ नयनहेतौ च पु० “प्रति यत् सा नीथादर्शि”
ऋ० १ । १०४ । ५ “नीथा नयनहेतुमूता” भा० । भावे क्थन् ।
४ प्रापणे पु० “सहह्रचेताः शतनीथ ऋभुः” ऋ १ । १०० ।
१२ “शतनीथः बहुस्तुतिः बाहुप्रापणो या” भा०
“नीथाविदो जरितारः” ऋ० ३ । १२ । ५ “नीयाविदः
स्तोत्राभिज्ञाः” भा० ।

नीध्र(व्र) न० नितरां ध्रि(व्रि)यते धृ--वृ--वा मूलवि० क

दीर्घः । १ बलीके पटलप्रान्ते २ वने ३ नेभौ ४ चन्द्रे ५
रेवतीनक्षत्रे हेमच० । नीव्रमिति पाठान्तरं तत्रार्थे “गृहाणि
नीघ्रैरिव यत्र रेजुः” माघः ।

नीनाह पु० नि + नह--भावे घञ् दीर्घः । निबन्धे निबरां

बन्धने “स्वप्नाश्च इव कक्ष्यामश्व इव नीनाहम्” अथ० १९ ।
५७ । ४

नीप पु० नी--प किच्च । १ कदम्बवृक्षे अमरः २ धाराकदम्बे

राजनि० । ३ बन्धूकवृक्षे ४ नीलाशोकवृक्षे च मेदि०
“नवनीपवनीधुवनः पवनः” सा० द० टीका । “तस्य नीपर-
जसाङ्गरागिणः” रघुः । ५ देशभेदे स च देशः वृह० सं०
१४ अ० कूर्मबिभागे मध्यदेशतयोक्तः यथा “भद्रारि-
मेदमाण्डव्यसाल्वनोपोज्जिहानसंख्याताः” इत्युपक्रमे
“गजाह्वयाश्चेति मध्यमिदम्” इत्युक्तम् । जनपदवाचित्वात्
अगिजने राजनि० च अण् । नैव तद्देशवासिनि तन्नृपे
च बहुषु अणो लुक् । “शतं भत्स्या नृपतयः शतं नीपाः
शतं हयान्” भा० स० ८ अ० । निपतिता नीचैः पतिता
आपो यत्र असमा० न्युपसर्गत्पिरस्याप आदेरत ईत्त्वम् ।
६ गिर्य्यधोभागे पु० तत्र भवः यत् । नीप्य तत्र भवे त्रि०
रुद्रभेदे पु० “नमः काट्याय च नीयाय च” यजु० १६ ।
३७ । “नीपो गिर्यधोभाग तत्र भवः” वेददी० ।

नीर न० नी--रक् निर्गतं रादग्नेः निरा० त० । निर्गतो

रोऽग्निर्यत्मात् प्रा० ब० वा । १ जले अतरः । “आपोमयः
प्राणः” छा० उ० उक्तेः जलस्य प्राणाग्निहेतुत्वात्
अग्नेरापः” श्रुत्या तस्य अग्नेर्जातत्वात् “अद्भ्यो-
ऽग्निः ब्रह्मणः क्षत्रमिनि” मृतेश्च वज्राद्यग्नेजेलजात
त्वेन च तस्य तथात्वम् । “निष्यन्दनीरनिकरेश
कृताभिषेका” माघः । तद्गुणादि अम्बुशब्दे उक्तं
दृश्यम् । पूर्वमनुक्तत्वात् सम्प्रति कश्चिद्गिशेषोऽत्रोव्यते
पृष्ठ ४१२८
वृहस्पतिः “भूमिस्थमुदकं मेध्यं यच्च गोर्वितषीभ-
येत् । अव्याप्तं चेदमध्येन तद्वदेव शिलागतम् । शिला-
गतमिति शिला नीहारस्तद्गतमित्यर्थः । उशनाः
“नद्यः कूपं तड़ागानि सरांसि सरितस्तथा । असंह-
तान्यदीप्राणि मनुः स्वायम्भुवोऽब्रवीत्” । देवलः “अपि
गन्धरसोपेता निर्मलाः पृथिवीगताः । अक्षीणा-
श्चैव गोपानादापः शुद्धिकराः स्मृताः । उद्धृतास्तु
प्रशस्ताः स्यु शुद्धैः पात्रैर्यथाविधि । एकरात्रोषितास्तास्तु
त्यजेदपः समुद्धृताः” इति । सर्वबाम्ना प्रक्रान्तगोतृप्ति
मात्रपर्य्याप्ता अल्पा एवेत्यर्थात् परामृश्यन्ते अतो
बहुकालात् तड़ागादेरुद्धृतानां रात्र्युषितानां च न
दोषः । तडागोद्धृता अप्यापः रात्यनुषितोदकान्तर-
सम्भवे अशुद्धा एवेति मदनषारिजाते । इदं गङ्गाव्य-
तिरिक्तविषयम् “त्यजेत् पर्युषितं पुष्पं त्यजेत्
पर्युषितं जलम् । गङ्गातोयं च तुलसी पवित्रं सर्वदा-
स्मृतम्” इति विशेषोक्तेः । “अक्षोभ्याणि तड़ायानि नदी
वापीसरांसि च । चण्डालाद्यशुचिस्पर्शैस्तीर्घं तत्
परिवर्जयेत्” । चण्डालाद्यवतरणमार्गभित्यर्थः । हारीतः
“वापीकूपतडागेषु मानुषीम्रियते यदि । अस्थिचर्म-
विनिर्मुक्तैर्दूषितं च खरादिभिः । उद्धृत्य तज्जलं सर्वं
शोधनं परिकल्पयेत्” । “अस्थिचर्मविनिर्मुक्तैश्चिरकाल-
वासेन विशीर्णैरित्यर्थः । वृहस्पतिः “मृतपञ्चनस्वात्
कूपादत्यन्तोपहतात्तथा । अपः समुद्धरेत् सर्वाः शेषं
वस्त्रेण शोधयेत् । वह्निप्रज्वालितं कृत्वा कूपे पक्वेष्ट-
काचिते । पञ्चयव्यं न्यसेत्पश्चान्नवतोये समुद्भवे” । देबलः
“उद्धरेदुदकं सर्वं पञ्चपिण्डान्मृदस्तथा” । अचिरका-
लोपघाते स्वल्पधाते च हारीतः “चटानां शतमुद्धृत्य
पञ्चगव्यं क्षिपेत्ततः । श्वभिश्च काकचाण्डालैर्दूषितेषु
विशोधनम्” । आपस्तम्भः “उपानत्श्ले ष्मविण्मुत्रं स्त्री-
रजो मद्यमेव च । एभिर्विदूषिते कूपे कुम्भानां षष्टि-
मुद्धरेत्” । विष्णुः “जलाशयेष्वल्पाल्पेषु स्थावरेषु
महीतले । कूपवत् कथिता शुद्धिर्महत्सु न तु दूषणमिति” ।
स्थाबरेषु महीतलेऽप्रवाहिन् । यमः “चाण्डालभाण्डसं
स्पृष्टं प्रीत्वा कूपगतं जलम् । गोमूत्रयावकाहारस्त्रि-
रात्रेणैव शुध्यति” । तथा ‘नदीयेगेन शुध्यति’ कश्यपः
“दृतीनां रञ्जनं शुद्धिः” । दृतिः चर्मकोशा रञ्जनं
कषायद्रव्येण शोधनम् । यमः “प्रषाखरण्येस्वथ वान्धकूपे
द्रोण्यां जलं कोशगता तथापः । ऋतेऽप्रि शूद्रं
द्विजपेपमाहुरापद्रतः काङ्क्षितवत् पिबेत्तु” । अस्यार्थः
वद्यपि शूद्रातिरिक्तविप्रादिवर्णसम्बन्धि प्रपादि तथापि
तद्गतजलं धर्मार्थं दीयमानमनापदि न पेयम ।
आपदि पेयं यद्यरण्यगतं प्रपादिर्भवति । द्रोणिः
अश्मादिमयी जलपात्री सर्वसाधारणी । कोशो दृतिः तथा
“अजागावोमहिष्यश्व ब्राह्मणी च प्रसूतिका ।
दशरात्रेण शुद्ध्यन्ति भूमिस्थं च नवोदकम्” । योगीश्वरः
“शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थ महीगतम्” ।
प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरमनापन्नं महीगतमित्य-
शुद्धित्वनिवृत्त्यर्थं न तु अन्तरिक्षोदकस्य शुद्धत्वव्यावृ-
त्यर्थं नाप्युद्धृतस्य । “उद्धृताश्चेति” प्रागुक्तदेवल-
वचनादिति विज्ञानेश्वरः । हेमाद्रौ पराशरः “वापी-
कूपतडागेभ्य आपो ग्राह्यास्तु सर्वतः । पश्वात्पश्येदमे-
ध्यन्तु पञ्चगव्येन शुध्यति । अस्थिचर्मावसिक्तेन
मार्जारैश्च समूषिकैः । दूषितं तद्भवेत्तोयं यचाधस्तात्
सुशोधनम् । अस्थिचर्मावपतितं स्वरवानरसूकरैः ।
उद्धरेदुदकं सर्वं शोधनं परिमार्जनम्” । इदं
चिरकालविषयमित्युक्तमेव । यमः “वापीकूपतड़ागेषु
दूषितेषु कथञ्चन । उद्धृत्य शतकुम्भांश्च पञ्चगव्येन
शुढ्यति । खनिकूपतडागेषु पुन्दिग्येषु विशेषतः ।
अथोदूत्थ पञ्चशतं पञ्चगव्येन शुद्ध्यति । वादकोपानह
विण्मूत्रं कूपे यदि निमज्जति । अष्टिकुम्भान् समुद्धृत्य
पञ्चगव्येन शुद्ध्यति” । मात्स्येऽपि “दूषितं च शवैः
क्लिन्नं यच्च विष्ठानुलेपितम् । अद्रिः शुध्यति तत्सर्वमपां
शुद्धिः कथं भवेद् । गवां सूत्रपूरीषेण सोमसूर्य्याग्नि-
रश्मिभिः । मारुतस्य च वेगेन त्वापः शुद्धिमवाप्नु-
युरिति” स्मृत्यर्थसारेऽपि “वापीकूपतड़ागेष्यल्पजलेषु
श्वमार्जारादिशवक्लिन्ने जीर्णरोधसि तज्जलं सर्वं
निःसार्य्य मृत्तिकां परितक्ष्योद्धृत्य पञ्चगव्यप्रोक्षणात्
शुद्धिः । पाषाणैरिष्टकाभिर्वा बद्धे तक्षणस्थाने
दहनम् । मृदा वद्धे प्रक्षालनमेव बहुजले तु तस्मिन् षष्टि-
कुम्भीद्धारः । मूषकादिक्षुद्रप्राणिघाते त्रिंशत्ङ्कल्भो-
द्धारो गोमूत्रादिप्रक्षेपश्च । जले जलप्राणिशवोपथाते
न दोषः । वापीकूपादिजले नरण्वे स्थितेऽप्लोपघाते
घटशतमुद्वृत्य पञ्चगव्यप्रक्षेपात् शुद्धिः । पशुशवपा
तेऽप्येषैव शुद्धिः कार्य्या । तत्र जलेन मरणे जलस्य
त्रिरात्रमाशौचम् । अशौचान्ते पूर्वोक्ता शुद्धिः कार्य्या ।
वापीकूपजले उपानच्श्लेष्मविणमूत्ररक्तवसामज्जास्थि-
पृष्ठ ४१२९
मांसदूषिते षष्टिकुम्भानुद्धृत्य पञ्चगव्येन शुद्धिः । जल
बाहुल्ये शतकुम्भोद्धारात् पञ्चगव्यप्रोक्षणाच्च शुद्धिः ।
कूपादिषु दूषितेषु दिवा सूर्य्यरश्मिवायुस्पर्शनात्
शुद्धिः । रात्रौ वायुचन्द्रनक्षत्ररश्मिस्पर्शनात् शुद्धिः ।
सन्ध्यायां वायुस्पर्शनात् शुद्धिः । नद्यादौ अन्त्यजादिभि-
र्दूषिते तत्स्वीकृतजलस्थानादन्यत्र जलं शुद्धमेवेति ।
एवं स्वबुध्या शुद्धिर्विवेचनीया” विधा० पा० ।
अथ प्रसङ्गादुपहतजलपाने प्रायश्चित्तममिधीयते । तत्र
विष्णुः “मृतपञ्चनखात् कूपादत्यन्तोपहताद्वोदकं पीत्वा
ब्राह्मणस्त्र्यहमुपवसेद् द्व्यहं राजन्य एकाहं वैश्यः शुद्री
नक्तं सर्वे तेऽन्ते पञ्चगव्यं पिबेयुरिति” । अत्यन्तोपहतात्
मूत्रपूरीषादिभिः । इदमकामविषयं कामतो मानुष
शवोपहतकूपादिजलपाने हारीतः “क्लिन्नं भिन्ने शवे
तोयं तत्रस्थं यदि तत् पिबेत् । शुद्ध्ये चान्द्रायणं
कुर्यात्तप्तकृच्छ्रमथापि वा” । अशक्तौ तप्तकृच्छ्रमिति धर्म
प्रदीपः । “यदि कश्चित्ततः स्नायात् प्रमादेन द्विजोत्तमः ।
जपंस्त्रिषवणस्नार्य अहोरात्रेण शुद्ध्यति” । अकामतो
देवलोक्तम् “क्लिन्नं मिन्नं शवं चैव कूपस्थं यदि दृश्यते ।
पयः पिबेत् त्रिरात्रेण मानुषे द्विगुण स्मृतम्” । अङ्गिराः
“कूपे विण्मूत्रससृष्टे पीत्वा तोये द्विजोत्तमः । त्रिरा-
त्रेण विशुध्येत कृच्छ्रं सान्तपनं स्मृतम्” । ज्ञानेतु लघु
विष्णुः “अपो मूत्रपूरीषाद्यैर्दूषिताः प्राशयेद्यदा । तदा
सान्तपनं कृच्छ्रं व्रतं कार्य्यं विशुद्धये” । चाण्डालकूपादि
जलपाने आपस्तम्बः “चाण्डालकूपभाण्डस्थं नरः
कामात् जलं पिवेत् । प्रायश्चित्तं कथं तत्र वर्णे वर्णे
विनिर्दिशेत् । चरेत् सान्तपनं विप्रः प्राजापत्यं तु
भूमिपः । तदर्द्धं तु चरेत् वैश्यः शूद्रे पादं विनिर्दिशेत् ।
तथा “म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां ह्रदेऽपि
वा । जानुदग्धंशुचि ज्ञेयमधस्तादशुचि स्मृतम् । तत्तोयं
यः पिवेद् विप्रः कामतोऽकामतोऽपि वा । अकामा-
न्नक्तभोजी स्यादहोरात्रं तु कामतः” । अत्रैवाभ्यासे
प्राजापत्यम् “अन्त्यजैः खानिताः कूपाः तडागं
वाप्य एव वा । तेषु स्नात्वा च पीत्वा च प्राजापत्येन
शुद्ध्यति” इत्यापस्तम्बस्मरणात् । इदमनापद्विषयम् ।
यत्तु “अन्त्यजैः खानिताः कूपा तडागादि तथैव च ।
तेषु स्नात्वा च पीत्वा च पञ्चगव्येन शुद्ध्यति” ।
तदशक्तावज्ञाने वा आपदि तु शातातपः “अन्त्यैरपि कृते
कूपे सेतौ वाप्यादिके कृते । तत्र स्नात्वा च पीत्वा च
प्रायश्चित्तं न विद्यते” । इदमत्थन्तापद्विषयमिति शूल
पाणिः । “ब्राह्मणक्षत्रियो वैश्यः शूद्रश्चैवान्थजातयः ।
एभिर्य्ये कारिताः कूपाः स्नानं तेषु तु कारयेत्” ।
अन्यजातयो मूर्द्ध्वावसिक्ताद्या अनुलोमाः । अन्यखा-
नितचण्डालपरिगृहीतकूपादिजलपानेऽङ्गिराः
“चाण्डालपरिगृहीतं योह्यज्ञानादुदकं पिवेत् । तस्य शुद्धिं
विजानीयात् प्राजापत्येन नित्यशः” । एतदभ्यासे
यत्त्वापस्तम्बेन पञ्चगव्यप्राशनमात्रमुक्तम् “प्रपास्वरण्ये
घटके च सौरे द्रोण्यां जलं कोशविनिःसृतं च । श्वपाक
चाण्डालपरिग्रहेषु पीत्वा जलं षञ्चगव्येन शुद्ध्येदिति”
तदशक्तविषयमापद्विषयं वा” विधा० पा० ।
अथ प्रसङ्गात्तडागादिविक्रयप्रायश्चित्तम् । तत्र
“देवगृहप्रतिश्रयोद्यानारामसभाप्रपातड़ागपुण्यसेतुसुत-
विक्रथं कृत्वा तप्तकृच्छ्रं समाचरेदिति” शङ्खवचनम-
कामतद्विषयम् । यत्तु पैठिनस्युक्तम् “आरामत-
डागोद्यानपुष्करिणीसुते विक्रीते त्रिषवणस्नाय्यधःशायी
चतुर्थकालमश्नीयात्” तदमुत्सृष्टविषयम् उत्सृष्टस्य तु
सर्वसत्वोद्देशेन त्यक्तत्वात् तत्साधारण्येन सत्वाभावा-
द्विक्रयासम्भवात् । सर्वानुमतेश्च कर्त्तुमशक्यत्वात् साधा-
रणस्वामिकवस्तुन इवेति दिक्” विधा० पा० ।
“तिलकल्कं जलं क्षीरं दधि क्षौद्रं घृतानि च । न
त्यजेदर्द्धजम्यानि” विधा० पा० धृतवाक्यम् ।
वर्ज्यजलमुक्तं हेमाद्रौ ब्रह्माण्डे “दुर्गन्धि फेनिलं क्षीरं
पङ्किलं पल्वलोदकम् । न भवेद् यत्र गोतृप्तिर्नक्तं
यच्चाप्युपाहृतम् । यन्न सर्वार्थमुत्सृष्ट यच्चाभोज्यनिपा-
नजम् । तद्वर्ज्यं सलिल तात! सदैव श्राद्धकर्मणि ।
निपानं जलाशयः । शुद्धितत्त्वे शङ्खः “स्नानमाचमनं
दानं देवतापितृतर्पणम् । शूद्रोदकैर्न कुर्वीत तथा मेघा-
द्विनिःसृतैः” हेमाद्रावादित्यपुराणे “चिरं पर्युषितं
वापि शूद्रस्पृष्टमथापि वा । जाह्नव्याः स्नानदानादौ
पुनात्येव सदा पयः” । कात्यायनः “अपो निशि न
गृह्णीयान्न पिवेच्च कदाचन । उद्धृत्याग्निमुपर्यग्नेर्धाम्रो
धाम्न इतीरयेत्” । रजोदोषे तु प्रामुक्तम् नारदीये
“त्यजेत् पर्युषितं पुष्पं त्यजेत् पर्युषितं जलम् । न
त्यजेत् जाह्नवीतोयं तुलसी विल्वपद्मकम्” नि० सि० ।
“पानीयं पायसं सर्पिर्दधि क्षीरं घृतानि च । निरश्यं
शेषमेतेषां न प्रदेयन्तु कस्यचित्” आह्नि० त० महाभारतम्
जलप्रानप्रकारः विधानपारिजाते उक्तो यथा
पृष्ठ ४१३०
“जलपात्रं तु निःक्षिप्य मणिबन्धे च दक्षिणे । विप्रो
भोजनकाले तु पिबेद्वामेन पाणिना” अन्यकाले तु
“धारया नोदकं पेयं पीत्वा दोषमवाप्नुयात् ।
जलपात्रेण तत् पेयमितिं शातातपोऽव्रवीदिति” । आ० त०
विशेष डक्तो यथा “करेण च पिवेत्तोयं यावन्मांसं न
लेपयेत् । मांसलिप्तवारे तोयं सद्यो गोमांसभक्षणम्”
ब्रह्माण्ये मांसलिप्तकरेण जलपाननिषेधयात् मांस-
लिप्तकरेण अपोशानं न कर्त्तव्यम्” रघु० षट्त्रिंशन्मतम्
“पिबतो यत् पतेत् तोयं भोजने सुखनिःसृतम् ।
अभक्ष्यं तत् भवेदक्षं भुक्त्वा चान्द्रायणं चरेत् । वामपार्श्वे
स्थिते तोये यो भुङ्क्ते ज्ञानदुर्बलः । तोयं पिवति
वक्त्रेण श्वाऽसौ भवति नान्यथा । ग्रासे ग्रासे मलं
भुक्त्रा पानीयं रुधिरं पिवेत् । विद्यमाते तु हस्ते तु
ब्राह्मणो ज्ञानदुर्बलः । उद्धृत्य वागहंस्तेन यत्तोयं
पिवति द्विजः । सुरापानेन तुल्यं तदित्युवाच प्रजापतिः” ।
“वामहस्तेन केवलवामहस्तेनेति” रघु० । “अदुष्टा
सन्तताघारेति” तु शुद्ध्यर्थं न तु पेयतार्थम् “अभिय-
युःसरसोमधुसम्मृतां कमलिनीमलिनीरपतत्त्रिणः” माघः

नीरज न० नीरे जायते जन--ड । १ पद्मे २ कुष्ठोषधौ मेदि० ।

३ मुक्ताफले राजनि० । ४ उद्राख्ये जन्तौ (उद्बिडाल) पुंस्त्री
स्त्रियां जातित्वात् ङीष् । ५ उशीरिणि च राजनि० ।
६ जलजातमात्रे त्रि० “नीतं जन्म नवीननीरजवने
पीतं मधुस्वेच्छया” भ्रमराष्टकम् निर्गयं रजात् प्रा० ब०
रलोपदीर्घौ “सर्वे सान्ताः अदन्ताःस्थुः” इत्युक्तेः
रजशब्दोऽपि रजःसमानार्थकः । ७ रजोगुणकार्यरागशून्ये
८ महादेवे पु० । “उद्भित् त्रिविक्रमो वैस्रो विरजो नीरजो-
ऽमरः” भा० अ० १७ अ० ।

नीरजस् त्रि० निर्गतं रजो घूलिः परागः स्त्रीरजः रजो

गुणो वा यस्य प्रा० ब० वा कप् रलोपे दीर्घः । १ निर्धू-
लिदेशे “नीरजीकारितक्ष्माम्” भट्टिः अभूततद्भावे च्वौ-
स्लोपः । “स्वोत्तरीयैरकुर्वन्तनीरजस्कं महीतलम्”
८ अ० । २ परागशून्ये ३ पुष्पादौ रजोगुणकार्य-
रागादिशून्ये “नीरजस्तमता सत्वशुद्धिर्निस्पृहताशयः”
याज्ञ० “नीरजस्के सदानन्दे पदे चाहं निवेशितः”
प्रबोध० । “वेदशैलावतीर्णेन नीरजस्का महीकृता”
मार्क० पु० १ अ० । ४ गतार्त्तवायां स्त्रियां स्त्री ।

नीरजात त्रि० नीरात् जायते जन--ड ५ त० । १ जलजातमात्रे

अन्नादौ “दृष्टेरन्नं ततः प्रजाः” गीतायाम् “अद्भ्योऽ-
न्नम्” इति श्रुतौ चान्नस्य जलाज्जातत्वात् तथात्वम् ।
“अन्नञ्चापि प्रभवति पानीयात् कुरुसत्तम! । नीरजातेन
(अन्नेन) रहितं न किञ्चित् सम्प्रवर्त्तते । नीरजातश्च
भगवान् सोमो ग्रहगणेश्वरः । अमृतं च सुधा चैव
सुधा चैवामृतं तथा । अन्नौषधध्यो महाराज! वीरुधश्च
जलोद्भवाः” भा० अनु० ६७ अ० । २ कमलादौ न० ।

नीरद पु० नीरं ददाति--दा--क । १ मेघे २ मुस्तके च राजनि०

“धूपायतीव पटलैर्नवनीरदानाम्” माघः “नवीननीरद
श्यामं रामं राजीवलोचनम्” रामकवचम् । “आस्वाद्य
निरवशेषं विरहिवधूनां मृदूनि मांसानि । करका-
मिषेण मन्ये निष्ठीवति नीरदोऽस्थीनीति” ऋतुसं० ।

नीरधि पु० नीराणि धीयन्तेऽत्र धा--कि उप० स० । समुद्रे

शब्दा० नीरनिधिरप्यत्र । “पारे जलं नीरनिधेरपश्यत्”
माघः ।

नीरन्ध्र त्रि० निर्गतं रन्ध्रं छिद्रमस्य प्रा० ब० रलोपे दीर्घः ।

छिद्रशून्ये “नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्र-
न्थयः” सा० द० । “नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्ति” माघः

नीरप्रिय पु० नीरं प्रियमस्य प्रा० ब० । १ जलवेतसे नैघण्टु-

प्रकाशिका । २ जलप्रियमात्रे त्रि० ।

नीरस पु० निःसार्य्योरसी यस्य निर्गतो रसः शृङ्गारादिर्य-

स्माद्वा प्रा० ब० रलोपे दीर्घः । १ दाडिमे हारा० २
शृङ्गारादिरसादिशून्ये त्रि० । “अलब्धफलनीरसं मम
विधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चवाणः कृती”
विक्रमोर्वशी ।

नीराज पु० नीरमजति अञ--अच् ष्यभावः । जलविडाले हारा० ।

नीराजन(ना) निर्--राज--भावे ल्युट् युच् वा रलोपे

पूर्वाणो दीर्घः । दीपादिना प्रतिमादेरारार्त्तिके ।
युजन्तः स्त्री । “नीराजनां जनयतां निजबान्धवानाम्”
नैष० । तत्प्रकारश्च ति० त० देवीपु० उक्तो यथा
“यवप्रिष्टप्रदीपाद्यैश्चूताश्वत्थादिपल्लवैः । औषधीभिश्च मेध्या-
भिः सर्ववीजैर्यवादिभिः । नवम्यां पर्वकाले तु यात्राकाले
विशेषतः । यः कुर्य्यात् श्रद्धया वीर! देव्या नीराजनं
नरः । शङ्खभेर्य्यादिनिनदैर्जयशब्दश्च पुष्कलैः । यावतो
दिवसान् वीर! देव्या नीराजनं कृतम् । तावत् कल्प-
सहस्राणि दुर्गालोके महीयते” । “यस्तु कुर्य्यात् प्रदीपेन
सूर्थ्यलोके महीयते” । पर्वकाले उत्सवकाले । देव्या इति
स्त्रीत्वमविवक्षितं विष्ण्वादिप्रतिमायां तथाचारात्” रघु० ।
पञ्च नीराजनानि यथा “पञ्चनीराजनं कुर्य्यात् प्रथमं
पृष्ठ ४१३१
दीपमालया । द्वितीयं सोदकाब्जेन तृतीयं धौतवा-
ससा । चूताश्वत्थादिपत्रैश्च चतुर्थं परिकीर्तितम् । पञ्चमं
प्रणिपातेन साष्टाङ्गेन यथाविधि” कालोत्तरतन्त्रम् । तस्य
वर्त्तिकादिप्रमाणं यथा “कुङ्कुमागुरुकर्पूरघृतचन्दननि-
र्मिताः । वर्त्तिकाः सप्त वा पञ्च कृत्वा वन्दापनीयकम् ।
कुर्य्यात् सप्तप्रदीपेन शङ्खघण्टादिवाद्यकैः । हरेः पञ्च-
प्रदीपेन बहुशो भक्तितत्षरः” पद्मीत्तरखण्डे १०७ अ० ।
राज्ञां । २ शान्तिभेदे तद्विधानादि अग्निपु० २६७ अ० यथा
“नीराजनविधिं वक्ष्ये ऐशान्यां मन्दिरे चरेत् । तोरण-
त्रितयं तत्र गृहे देवान् यजेत् सदा । चित्रां त्यक्त्वा यदा
स्वातिं सविता प्रतिपद्यते । ततः प्रभृति कर्त्तव्यं यावत्
स्वातौ रविः स्थितः । ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवा-
नलानिलौ । विनायकः कुमारश्च वरुणी धनदो यमः ।
विश्वे देवा वैश्रवणो गजाश्चाष्टौ च तान् यजेत् ।
कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः । सुप्रतीकोऽञ्जनो
नीलः पूजा कार्य्या गृहादिके । पुरोधा जुहुयादग्नौ
समित्सिद्धार्थकं तिलाः । कुम्भा अष्टौ पूजिताश्च तैः
स्नाप्याश्च गजोत्तमाः । अश्वाः स्वाप्याः ददेत् पिण्डान्
ततो हि प्रथमं नजान् । निष्कामयेत्तोरणैस्तु गोपु-
रादि न लङ्घयेत् । विक्रमेयुस्ततः सर्वे राजलिङ्गं
गृहे यजेत् । वारुणे वरुणं प्रार्च्य रात्रौ भूतवलिं
ददेत् । विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः ।
अलङ्कुर्य्यात् दिने तस्मिन् वाहनन्तु विशेषतः । पूजिता
राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः । हस्तिनं तुरगं
छत्रं खड्गं चापञ्च दुन्दुभिम् । ध्वजं पताकां धर्मज्ञः
कालज्ञस्त्वभिमन्त्रयेत् । अभिमन्त्र्य ततः सर्वान् कुर्य्यात्
कुञ्जरधूर्गतान् । कुञ्जरोपरिगौ स्यातां सांवत्सर
पुरोहितौ । मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ।
निष्कम्य नागमारुह्य तोरणेनाथ निर्गमेत् । बलिं
विभज्य विधिवद्राजा कुञ्जरधूर्गतः । उल्मूकानान्दु
निचयमादीपितदिगन्तरम् । राजा प्रदक्षिणं कुर्य्यात्-
त्रीन् वारान् सुसमाहितः । चतुरङ्गवलोपेतः सर्वसैन्येन
नादयन् । एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ।
शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्दनी” ।
अन्योऽपि हेमाद्रिव्रतखण्डे विष्णुधर्मोत्तरोक्तो दृश्यः ।
“भगवति जलधरपक्ष्मक्षपाकरार्केक्षणे कमलनाभे । उन्मी-
लयति तुरङ्गमकरिनरनीराजनं कुर्य्यात् । द्वादश्या-
मष्टम्यां कार्त्तिकशुक्लस्य पञ्चदश्यां वा । आश्वयुजे वा
कुर्य्यान्नीराजनसञ्ज्ञितां शान्तिम् । नगरोत्तरपूर्वादि
प्रशस्तभूमौ प्रशस्तदारुमयम् । षोड़शहस्तोच्छ्रायं
दशविपुलं तोरणं कार्य्यम् । सर्जोदुम्बरशाखाककुभवयं
शान्तिसद्म कुशबहुलम् । यंशविनिर्मितमत्स्यध्वजचक्रा-
लङ्कृतद्वारम् । प्रतिसरणे तुरगाणां भल्लातकशालिकुष्ठ-
सिद्धार्थान् । कण्ठेषु निगध्नीयात् पुष्ट्यर्थं शान्तिगृह-
गानाम् । रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैर्मन्त्रैः ।
सप्ताहं शान्तिगृहे कुर्य्याच्छान्तिं तुरङ्गाणाम् । अभ्य-
र्चिता न परुषं वक्तव्या नापि ताड़नीयास्ते । पुण्या-
हशङ्खतूर्य्यध्वनिगीतरवैर्विमुक्तमयाः । प्राप्तेऽष्टमेऽह्नि
कर्य्यादुदङ्मुखं तोरणस्य दक्षिणतः । कुशचीरावृत-
माश्रममग्निं पुरतोऽस्य वेद्यां च । चन्दनकुष्ठसमङ्गा-
हरितालमनःशिलाप्रियङ्गुवचाः । दन्त्यमृताञ्जनरजनी-
सुवर्णपुष्पाग्निमन्थाश्च । श्वेतामपूर्णकोशां कटम्भरात्रा-
यमाणसहदेवीः । नागकुसुममात्मगुप्तां शतावरीं
सोमराजीं च । कलशेष्वेतान् कृत्वा सम्भारानुपहरेद्बलिं
सम्यक् । भक्ष्यैर्नानाकारैर्मधुपायसयावकप्रचुरैः । खदिर-
पलाशोदुम्बरकाश्मर्यश्वत्थनिर्मिताः समिधः । स्रुक्कनका-
द्रजताद्वा कर्त्तव्या भूतिकामेन । पूर्वाभिमुखः श्रीमान्
वैयाघ्रे चर्मणि स्थितो राजा । तिष्ठेदनलसमीपे तुरन-
भिषग्दैववित्सहितः । यात्रायां यदभिहितं ग्रहयज्ञ-
विधौ महेन्द्रकेतौ च । वेदीपुरोहितानललक्षणमस्तिं-
स्तदवधार्यम् । लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं
स्नातम् । अहतसिताम्बरगन्धस्रग्धूपाभ्यर्चितं कृत्वा ।
आश्रमतोरणमूलं समुपनयेत्मान्त्वयञ्छनैर्वाचा । वादित्र-
शङ्खपुण्याहनिःस्वनापूरितदिगन्तम् । यद्यानीतस्तिष्ठेद्
दक्षिणचरणं हयः समुत्क्षिप्य । स जयति तदा नरेन्द्र
शत्रूनचिराद्विना यत्नात् । त्रस्यन्नेष्टो राज्ञः परिशेषं
चेष्टितं द्विपहयानाम् । यात्रायां व्याख्यातं तदिह
विचिन्त्यं यथायुक्ति । पिण्डममिनन्त्र्य दद्यात् पुरो-
हितो वाजिने स यदि जिघ्रेत् । अश्नीयाद्वा जयकृ-
द्विपरीतोऽतोऽन्यथाऽभिहितः । कलशोदकेषु शाखा-
माप्लाव्यौदुम्बरीं स्पृशेत्तुरनान् । शान्तिकपौष्टिकमन्त्रै-
रेवं सेनां सनृपनागाम् । शान्तिं राष्ट्रविवृद्ध्यै कृत्वा
भूयोऽभिचारकैर्मन्त्रैः । मृण्मयमरिं विभिन्द्याच्छूले-
नोरःस्थले विप्रः । खलिनं हयाय दद्यादभिमन्त्र्य
पुरोहितस्ततो राजा । आरुह्योदक्पूर्वां यायान्नीरा-
जतः मबलः । मृदङ्गशङ्खध्वनिहृष्टकुञ्जरस्रवन्मदामोद-
पृष्ठ ४१३२
सुगन्धिमारुतः । शिरोपणिव्रातचलत्प्रभाचयैर्ज्वलन्
विवस्रानिव तोयदात्यये । हंसपङ्क्तिभिरितस्ततोऽद्रिराट्
सम्पतद्भिरिव शुक्लचामरैः । मृष्टगन्धपवनानुवाहि-
भिर्धूयमानरुचिरस्रगम्बरः । नैकवर्णमणिवज्रभूषितै-
र्भूषितो मुकुटकुण्डलाङ्गदैः । भूरिरत्नकिरणौघरञ्जितः
शक्रकार्मुकरुचं समुद्वहन् । उत्पतद्भिरिव खं तुरङ्गमै-
र्दारयद्भिरिव दन्तिभिर्धराम् । निर्जितारिभिरिवामरै-
र्नरैः शक्रवत्परिवृतो व्रजेन्नृपः । सवजृमुक्ताफलभूषणोऽ-
थ वा सितम्रगुष्णीषबिलेपनाम्बरः । धृतातपत्रो
गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः । सम्प्रसृष्ट-
नरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम् । निर्विकार-
मरिपक्षगीषणं यस्य सैन्यमचिरात्स गां जयेत्!” वृ० सं०
४४ अ० । “स्नाने धूपे च नैवेद्ये दीपे वस्त्रे च भूषणे ।
घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च” विधान-
पाजातधृतवाक्यम् ।

नीरिन्दु पु० नि + ईर--क्विप् तथाविधः सन् इन्दति इन्द--

उन् । अश्वशाखोटके वृक्ष (आसशेहोडा) शब्दच० ।

नीरुच् त्रि० निश्चितं रोचते निर् + रुच--क्विप् रलोपे दीर्घः ।

नितान्तदीप्तिशीले ।

नीरुज् अब्य० रुजोऽभावः अभावे अव्ययी० रलोपदीर्घौ ।

१ रोगाभावे । २ निर्गता रुग प्रा० त० । आरोग्ये । निर्गता
रुग् रोगो यस्य प्रा० ब० । ३ रोगशून्ये त्रि० “स्निग्धो
मृदुः पाण्डुरनिष्टगन्धोमेदःकृतो नीरुगथातिकण्डूः”
सुश्रुतः । ततः भावे घञ् । नैरुज्य रोगाभावे स्वास्थ्ये न०

नीरुज त्रि० निर्गता रुजा रोगो यस्य यस्मात् वा प्रा० ब०

रलोपदोर्घौः । १ रोगरहिते “पूतात्मा नीरुजः श्रीमां-
स्तस्माद्रोगाद्विमुक्तवान्” साम्बपु० २ कुष्ठोषधौ जटा०
रोगभेदे (अजगल्लिकारोगे) स्त्री “स्निग्धा सपर्णा ग्रथिता
नीरुजा मुद्गसन्निर्भा” सुश्रुतः ।

नीरूप त्रि० निर्गतं रूपमस्य प्रा० ब० । रूपहीने “नीरूप०

स्यापि कालस्य षडिन्द्रियवेद्यत्वाभ्युपगमेन” वेदा० परि० ।

नील पु० नील--अच । स्वनामख्याते वर्णे १ श्यामवर्णे २ तद्वति

त्रि० अमरः । ३ पर्वतभेदे ४ वानरभेदे च मेदि० । ५ नील्यो-
षधौ ६ निधिभेदे ७ लाञ्छने च पु० हेमच० । ८ मङ्क-
लघोषे त्रिका० ९ वटवृक्षे राजनि० । नीलपर्वतश्च रम्य-
कवर्षस्य सीमापर्वतः यथोक्तं भाग० ५१६९ श्लो०
“उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो-
रम्यकहिरण्मयकुरूणां वर्माणां मर्य्यादागिरयः प्रा-
गायता उभयतः क्षारोदाबधयोद्विसाहस्रवृथव
एकैकशः पूर्वस्मात् पूर्वस्मादुत्तरोत्तरेण दशांशाधिकांशेन
दैर्घ्य एव ह्रसन्ति” । भारतवर्षदक्षिणस्थे स्वनामख्याते
१० गिरौ च ११ इन्द्रनीलमणौ शनितुष्ट्यर्थं धार्ये देये
च मणिभेदे । तस्योत्पत्त्यादिपरीक्षा गरुडपु० उक्ता यथा
“तत्रैव सिंहलवधूकरपल्लवाग्रव्यालूनबाललवनीकुसुम
प्रवाले । देशे पपात दितिजस्य नितान्तकान्तं प्रोत्फुल्ल
नीरजसमद्युति नेत्रयुग्मम् । तत्प्रत्ययादुभयशोभन
वीचीभासा विस्तारिणी ऊलनिधेरुपकच्छभूमिः । प्रोद्-
भिन्नकेतकवनप्रतिबद्धलेखा सान्द्रेन्द्रनीलमणिरत्नवती
विभाति । तत्रासिताब्जहलभृद्वसनासिभृङ्गशार्ङ्गायु-
धाभहरकण्ठकलायपुष्पैः । शुक्लेतरैश्च कुसुमैर्गिरि
कर्णिकायास्तस्मिन् भवन्ति मणयः सदृशावभामः ।
अन्ये प्रसन्नपयसः पयसां निधातुरम्बुत्विषः शिखिगल
प्रतिमास्तथान्ये । नीलीरसप्रभवबुद्वुदभाश्च केचित्
केचित्तथा समदकोकिलकण्ठभासः । एकप्रकारा विस्पष्ट
तर्णशोभावभासिनः । जायन्ते मणयस्तस्मिन्निन्द्रनीला
महागुणाः । मृत्पाषाणशिलावज्रकर्कराभाससंयुताः ।
अव्भ्रिकापटलच्छाया वर्णदोषैश्च दूषिताः । तत एव
हि जायन्ते मणयस्तत्र भूरयः । शास्त्रसम्बोधित
धियस्तान् प्रशंसन्ति सूरयः । धार्यमाणस्य ये दृष्टाः पद्म-
रागमणेर्गुणाः । धारणादिन्द्रनीलस्य तानेवाप्नोति
मानवः । यथा च पद्मरागाणां जातु कर्तृभयं भवेत् ।
इन्द्रनीलेष्वपि तथा द्रष्टव्यमविशेषतः । परीक्षाप्रत्ययै-
र्यौश्च पद्मरागः परीक्ष्यते । तएव प्रत्यया दृष्टा इन्द्र-
नीलमणेरपि । यावन्तञ्च क्रमेदग्निं पद्मरागः प्रयो-
गतः । इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम् ।
तथापि न परीक्षार्थं गुणानामतिवृद्धये । मणिरग्नौ
समाधेयः कथञ्चिदपि कश्चन । मग्निमात्राऽपरिज्ञाने
दाहदोषैश्च दूषितः । सोऽनर्थाय भवेद्भर्तुः कर्तुः
कारयितुस्तथा । श्यामोत्पलकरवीरस्फटिकाद्या इह बुधैः
सवैदूर्य्याः । कथिता विजातय इमे सदृशा
मणिनेन्द्रनीलेन । गुरुभावकठिनभानाश्चैतेषां नित्यमेव
विज्ञेयाः । काचाद्यायावदुत्तरविवर्द्धमाना विशेषेण ।
इन्द्रनीलो यदा कश्चित् विभर्त्ति ताम्रवर्णताम् । रक्ष-
णीयौ तथा ताम्रौ करवीरोत्पलाबुभौ । यस्य मध्यगता
भाति नीलस्येन्द्रायुधप्रभा । तदिन्द्रनीलमित्याहुर्म-
हार्धं भुवि दुर्लभम् । यस्तु वर्णस्य भूयस्वात् क्षीरे शत
पृष्ठ ४१३३
गुणे स्थितः । नीलतां तन्नयेत् सर्वं महानीलः स उच्यते ।
यत् पद्मरागस्य महागुणस्य मूल्यं भवेन्माष समुन्मितस्य ।
तदिन्द्रनीलस्य महागुणस्य सवर्णसंख्यातुलितस्य मूल्यम्”
१२ नागभेदे पु० “नीलानीलौ तथा नागौ कल्माषशवलौ
तथा” भा० आ० ३५ अ० । क्रोधवशगणांशजाते द्वापर-
युगीये १३ नृपभेदे “गणः क्रोधवशो नाम यस्ते राजन्!
प्रकीर्त्तितः । ततः संजज्ञिरे वीराः क्षिताविह
नराधिपाः” इत्युप्रक्रमे “क्रथोविक्षित्रः सुरथः श्रीमान्
नीलश्च भूमिपः” भा० आ० ६७० उक्तम् । १४ अजमीढस्य
नील्यपरनाम्न्यां नीलिन्यां जाते पुत्रभेदे “अजमीढस्य
नीलिनी नाम षत्नी तस्यां नीलनंज्ञः पुत्रोऽभवत्” विष्णुपु०
४ अंशे १९ अ० । अजमीढस्य १५ पत्नीभेदे स्त्री ङीप् ।
“अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विता । नीली
च केशिनी चैव धूमिनी च वराङ्गना” हरिवं० २२ अ०
वानरभेदश्च रामसेनान्तर्गतः “नलनीलाङ्गदक्राथसुन्द-
द्विविदपालिता । ययौ सुमहती सेना राघवस्यार्थ-
सिद्धये” भा० व० २८२ अ० । नील + ओषधिजातौ ङीप् ।
१६ नील्योषधौ स्त्री नील्या रक्तम् अन् । नील १७ नीलीरक्ते
त्रि० १८ यमभेदे पु० “वैवस्वताय कालाय नीलाय परमेष्ठिने”
यमतर्पणमन्त्रः । १९ कालिकाशक्तिभेदे स्त्री “नीला घना
वलाका च मात्रा मुद्रा मिता च माम् कालीकवचम् ।
२० काचलवणे २१ तालीशपत्रे २२ विषे शब्दार्थचि० ।
२३ नृत्याङ्गाष्टोत्तरशतकरणान्तर्गतकरणे संगीतदा० ।
नीलवस्त्रधारणादिनिषेधः मिताक्षरायाम् यथा
“नीलीरक्तं यदा वस्त्रं व्राह्मणोऽङ्रेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति”
“रोमकूपे यदा गच्छेद्रसो नील्यास्तु कस्यचित् । त्रिवर्णेषु
च सामान्यन्तप्तकृच्छ्रं विशोधनम् । पालनं विक्रयश्चैव
तद्वृत्त्या चोपजीवनम् । पातनञ्च भवेद्विप्रे त्रिभिः
कृच्छ्रैर्व्यपोहति । नीलीदारु यदा भिन्द्याद्ब्राह्मणस्य
शरीरतः । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणञ्चरेत् ।
स्त्रीणां क्रीडार्थसम्भोने शयनीये न दुप्त्यति” स्मृतिः
भृगुणाप्युक्तम् “स्त्रीक्रीड़ाशयने नीली ब्राह्मणस्य न
दुष्यति । नृपस्य वृद्धौ वैश्यस्य पर्ववर्जं विघारणम्”
तथा वस्त्रविशेषकृतश्च प्रतिप्रसवः “कम्बले प्रदृसूत्रे च
नीलीरागो न दुष्यति” इति स्मरणात् । “नीली-
रक्तं यदा वस्त्र विप्रः स्वाङ्गेषु धारयेत् । तन्तुसन्त
तिसंख्याके वसेत् स नरके ध्रुवम्” । स्कान्दे काशीखण्डे
“नीलीरक्तं तु यद्वस्त्रं दूरतस्तद्विवर्जयेत् । स्त्रीणां
क्रीडार्थसंयोगे शयनीये ग दुष्यति । मृते भर्त्तरि
या नारी नीलीवस्त्रं तु घारयेत् । भर्त्ताग्रे नरकं
याति सा नारी तदनन्तरम् । कम्बले पट्टसूत्रे च
नीलीदोमो न विद्यते” । शूद्रे विशेषः “ब्राह्मणस्य
सितं वस्त्रं नृपते रक्तमुल्वणम् । पीतं वैश्यस्य शूद्रस्य
नीलं मलवदिष्यते । नीलं मलवत् कृष्णमिति” विथा० पा०
कतिचित् नीलवस्तूनि कविकल्पलतायां दर्शितानि यथा
“शुकः शैवालं दूर्वा बालतृणं बुधग्रहः वंशाङ्कुरः मरकत
इन्द्रनीलमणिः । २४ मात्रावृत्तभेदे न० “तालपयोधर-
नायकतोमरयज्रधरम् पाणियुतञ्च विधाय भामिनी
वृत्तवरम् । नीलमिदम् फणिनायकपिङ्गलसंलपितम्
पण्डितमण्डलिकासुखदं सखि! कर्णगतम्” “परिशी-
लय नीलनिचोलम्” गीतगो० । “शुक्राङ्गनीलोपल-
निर्मितानाम्” माघः “कण्ठप्रभासङ्गविशेषनीलां कृष्ण-
खचं ग्रन्थिमतीं दधानम्” कुमा० । नीलश्यामलका-
लानामीषद्भेदात् एकपर्य्यायता अमरे पर्य्यायतया
तेषामुक्तेः । २५ दिग्गजभेदे नीराजनशब्दे दृश्यम् ।

नीलक न० नील + खार्थे संज्ञायां कन् वा । १ काचलवणं

२ वर्त्तलोहे ३ असनवृक्षे राजनि० । नीलेन वर्णेच
कायति कै--क । ४ भ्रमरे कीटभेदे पु० । “यथा मधुकरीं
ध्यायन् नीलकस्तन्मयो भवेत्” वृह० सं० ७५ अ०
पाठान्तरम् । वीजगणितोक्ते ५ अव्यक्तराशिसंज्ञाभेदे पु०
“यावत्तावत् कालको नीलकोऽन्योवर्णः पीतो लोहि-
तश्चैवमाद्याः” वीजग०

नीलकण्ठ पुंस्त्री नीलः कण्ठो थस्य । १ मशूरे अकरः ।

२ दात्यूहे कालकण्ठे ३ ग्रामचटके ५ खञ्जने च हेमच०
स्त्रियां सर्वत्र ङीष् । ५ पीतसारे पु० हेमच० विभेण
कालकण्ठे ६ शिवे पु० अमरः । “स्कन्धाधिरूढोजज्वल
नीलकण्टानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः” “अवाप
बाल्योचितनीलकण्ठ!” माघः “क्व नीलकण्ठ! व्रजसीत्य
अलख्यवाक्” कुमा० । ७ मूलके न० राजनि० ८ राक्षस-
भेदे पु० “घण्टाजालावसक्तास्तु नीलकण्ठा विभीषणाः”
भा० सौ० ८ अ० नानाराक्षसोक्तौ शिवस्य नीलकण्ठ-
नामनिर्वचनम् हरिवं० १३३ अ० अन्यथोक्तं यथा “दत्तः
प्रहारः कुलिशेन पूर्व तवेशान! सुरराज्ञाऽतिवीर्य्य ।
कण्ठे नैल्यं तेन ते यत् प्रवृत्तं तस्मात् ख्यातस्त्वं
नीलकण्ठेति कल्यः” २२२ अ० । अन्यथापि तस्य तथात्वमुक्तम्
पृष्ठ ४१३४
“ततः प्रसभमाप्लुत्य रुद्रं विष्णुः सनातनः । जग्राह
कण्ठे भगवान्नीलकण्ठस्ततोऽभवत्” । भागवते ५८ अ०
“तद्विषं जग्धुमारेभे प्रभावज्ञानुमोदतः । ततः
करत्वलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन्
महादेवः कृपया भूतभावनः । तस्यापि दर्शयामास स्ववीर्यं
जलकल्मषः । यच्चकार गले नीलं तच्च साधोर्विभू-
षणम् । नीलग्रीवादयोऽप्युक्तार्थे “नीलग्रीव!
शुभग्रीव! सर्वकालफलप्रद” । “असौ यो अवसर्पति
नीनग्रीवो विलोहितः” यजु० १६ । ७ रुद्राध्याये । खञ्ज-
नश्च स्वनामख्यातः पक्षिभेदः खञ्जनशब्दे २४५६ पृ०
दृश्यम् ।

नीलकण्ठाक्ष पु० नीलकण्ठप्रियः शिवप्रियोऽक्षो जपमाला

यस्य । रुद्राक्षे राजनि० । नीलकण्ठस्य खञ्जनस्याक्षी
वाक्षि यस्य षच् समा० । खञ्जनतुल्यनेत्रयुक्ते स्त्रियां
षित्त्वात् ङीष् ।

नीलकन्द पु० नीलः कन्दो मूलमस्य । १ विषकन्दे २ महिषकन्दे च वृक्षे राजनि० ।

नीलकमल न० नीलं कभलम् । १ नीलपद्मे नित्यक० ।

२ नीलांत्पले राजनि “गणेशाय नमोनीलकमलामल-
कान्तये” लीला० ।

नीलकुन्तला स्त्री नीलाः कुन्तला यस्याः । दुर्गासखीभेदे

“सखी रत्नमुखो नाम जगादैवं शुचिस्मिता । तां
निवार्य्यापरा प्राह सखी सा नीलकुन्वलाम्” वृहद्धर्मपु० ।

नीलकुरण्टक पु० कर्म० । नीलझिण्ट्याम् रत्नमाला ।

नीलकुसुमा स्त्री नीलं कुसुमं यस्याः । नीलझिण्ट्यां राजनि०

नीलक्रान्ता स्त्री नीलेन वर्णेन क्रान्ता । कृष्णापराजितायां

राजनि० ।

नीलक्रौञ्च पुंस्त्री (क्ॐ चवक) कालवके राजनि० स्त्रियां जातित्वात् ङीप् ।

नीलगङ्गा स्त्री नदीभेदे शिवपु० ।

नीलगणेश पु० नीलवर्णे गणक्रीडाख्ये गणेशे “कर्णि-

कायां चतुर्दिक्षु प्रथमं पूजयेदिमान् । गणाधिपं
गणेशानं तृतीयं गणनायकम् । गणक्रीडं पीतगौर-
रक्तनीलरुचः क्रमात्” शा० ति० १३ पटले “गणेशाय नमो
नीलकमलासनकान्तये” लीला० ।

नीलगिरिकर्णिका स्त्री कर्म० । गिरिकर्णिकाभेदे राजनि०

नील(ला)ङ्गु नि + लगि--कु उपसर्गदीर्घः धातोरपि दीर्घ

इति केचित् १ कृमिजातौ भ्रमरादौ २ कुसुमे च
उज्ज्वलद० । ३ देवभेदे पु० “क्षिप्रश्येनाय वर्त्तिका नीलाङ्गोः
कृमिः” यजु० २४ । ३०

नीलचर्म्मन् न० कर्म० । १ नीलवर्णचर्मणि । ६ ब० । २ तथा

चर्मयुक्ते त्रि० ।

नीलज न० नीलात् पर्वतात् जायते जन--ड ५ त० । १ वर्त्त-

लोहे राजनि० २ नीलजातमात्रे त्रि० ।

नीलझिण्टी स्त्री कर्म० । नीलवर्णझिण्ट्यां राजनि० ।

नीलतन्त्र न० चीनाचारादिप्रकाशके तन्त्रभेदे

नीलतरु पु० नित्यकर्म० । १ नारिकेले राजनि० । २ नीलवर्ण-

वृक्षमात्रे च ।

नीलताल पु० तलमेव तालं स्वरूपं नीलं तालमस्य ।

१ हिन्ताले २ तमालवृक्षे च राजनि० ।

नीलदूर्वा स्त्री कर्म० । हरिद्वर्णदूर्वायां राजनि० ।

नीलद्रुम पु० नित्यकर्म० । नीलवर्णे असनवृक्षे राजनि० ।

नीलध्वज पु० नीलवर्णो ध्वज इव । १ तालवृक्षे ६ ब० ।

२ नीलध्वजवति त्रि० राजनि० ३ नृपभेदे पु० “अर्जुनस्य
हयो राजन् पुरीं माहिष्मतीं ययौ । नीलध्वजेन वीरेण
रक्षितां दुर्गमण्डिताम् । नीलध्वजस्य महिषी ज्वा-
लानाम्नी सुमध्यमा । स्वाहां कन्यां प्रसूतां सा सुन्दरे
धर्मतत्परा” जैमिनीभारते आश्वमेधिके १५ अ० ।

नीलनिर्गुण्डी स्त्री कर्म० । नीलसिन्धुवारे राजनि० ।

नीलनिर्यासक पु० नीलवर्णो निर्यासो यस्य कप् । १

नीलवर्णेऽसनवृक्षे राजनि० । ६ ब० । २ कृष्णवर्णनिर्यास-
युक्ते त्रि० ।

नीलपङ्क पु० न० नीलं पङ्क इव । अन्धकारे त्रिका० ।

नीलपत्र न० नीलं पत्रं पर्णं पुष्पदलं वा (पावडि) यस्य ।

१ नीलवर्णे उत्पले । २ गुण्डतृणे ३ अश्मन्तकवृक्षे ४ नीलास-
नवृक्षे ५ दाडिमे च राजनि० कर्म० । ६ नीलवर्णपर्णे
न० ६ व० । ७ तद्वति नीलवर्णपत्रयुक्ते त्रि० । ८ इन्दीवरे
शब्दच० ।

नीलपद्म न० कर्म० । नीलवर्णे पद्मे शब्दच० ।

नीलपिङ्गल त्रि० “वर्णो वर्णेन” पा० कर्म० । १ नीलवर्णयुक्ते

अथ च पिङ्गलवर्णयुक्ते च २ गोजातिभेदे पुंस्त्री० “गवां
जातीस्तु वक्ष्यामि शृणुष्वैकमना द्विज! । प्रथमा
गौरकपिला द्वितीया गौरपिङ्गला । तृतीया रक्तकपिला
चतुर्थी नीलपिङ्गला । पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु
शुक्लपिङ्गला । सप्तमी चित्रपिङ्गाक्षी अष्टमी वभ्रुरो-
हिणी । नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला ।
तादृशास्त्रेऽप्यनड्वाहः कपिलास्तु प्रकीर्त्तिताः” वृहदनी
पु० १५ अ० ।
पृष्ठ ४१३५

नीलपिच्छ पुंस्त्री नीलं पिच्छं यस्य । श्येनखगे राजनि० ।

स्त्रियां जातित्वात् ङीष् ।

नीलपिष्टोडी स्त्री नीलाम्लीवृक्षे (नल्लवुलगुड) भाषा-

प्रसिद्धे क्षुपभेदे राजनि० ।

नीलपुनर्णवा स्त्री मर्म० । कृष्णवर्णपुनर्णवाशाकभेदे राजनि० ।

नीलपुष्प पु० नीलं पुष्पमस्य । नीलभृङ्गराजे २ नीलाम्लाने

च । ३ ग्रन्थिपर्णे न० ४ कृष्णापराजितायां स्त्री राजनि०
५ अतस्यां (मसिना) स्त्री ङीप् । खार्थे क तत्रैव ।

नीलपृष्ठ पु० नीलं पृष्ठं घूमरूपेणास्य । वह्नो “आ बोधमं

नीलपृष्ठम् वृहन्तम्” ऋ० ५ । ४३१

नीलपोरक पु० इक्षुभेदे सुश्रुतः इक्षुशब्दे ९०९ पृ० दृश्यम्

“सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः । वातलाः
कफपित्तघ्नाः सकषाया विदाहिनः” सुश्रुते तहुणादि ।

नीलफला स्त्री नील फलं यस्याः । जम्बूवृक्षे राजनि० ।

नीलभृङ्गराज पु० कर्म० । नीलवर्णभृङ्गराजे (नीलकेश-

रिया) राजनि० ।

नीलमक्षिका स्त्री कर्म० । नीलवर्णमक्षिकायाम् । स्ना-

तालुलिप्तं यञ्चापि भजते नीलमक्षिताः । सुगन्धि-
र्वाति योऽकस्मात् व्रजन्ति ते गतायुषः” सुश्रुतः ।

नीलमणि पु० कर्म० । १ इन्द्रनीलमणौ हारा० । नीलशब्दे

दृश्यम् । तद्वर्णत्वात् २ कृष्णे वासुदेवे च नीलरत्नमप्यत्र

नीलमल्लिका स्त्री नित्यकर्म० । विल्वे नैवण्टुप्रकाशिका ।

नीलमाधव पु० कर्म० । जगन्नाथदेवे “प्रेषितोऽहं हरिं

द्रष्टुं मञ्चस्थं नीलमाधवम्” स्क० पु० उत्क० ७ त्र० ।

नीलमाष पु० नित्यकर्म० । राजमाषे राजनि० ।

नीलमीलिक पु० नीला मीलिका निमीलनं यस्म । खद्योते शब्दमाला ।

नीलमृत्तिका स्त्री नीला मृत्तिकेव । १ पुष्पकाशोशे राजनि०

कर्मधा० । २ नीलवर्णमृत्तिकायाम् । नीला मृत्तिका
यत्र । ३ तद्युकदेशादौ त्रि० ।

नीलमेहिन् पु० नीलं तद्वर्णं शुक्रं मेहति मिह--णिनि ।

नीलवर्णमेहयुक्ते “पैत्तिकेषु नीलमेहिनम्” सुश्रुतः ।

नीलराजि पु० ६ त० । तमस्ततौ “निशा शशाङ्कक्षतनील-

राजयः” ऋतुसं० ।

नीललोचन त्रि० नीलं लोचनं नेत्रं यस्य । नीलवर्णनेत्र-

युक्ते “शाकहारी च पुरुषो ज यते नीललोचनः” शाता०
शाकहरणपापेन तथात्वमम् जायते” इत्युक्तम् ।

नीललोहित पु० “वर्णावर्णन” पा० कर्म० । कण्ठेन नीले

केशेषु लोहितवर्णयुक्ते १ शिवे अमरः । “अंशायुते नि-
षिकस्य नीललोहिततिसः” कृपा० “द्रापे अन्यस-
स्पते दरिद्र! नीललोहित!” यजु० १६ । ४७ “प्रजार्थं
वरयामास नीललोहितसंज्ञितम्” भा० आनु० १६ अ० ।
२ निश्रितनीललोहितवर्णे ३ तद्युते त्रि० । ४ भूभिजब्यां
स्त्री शब्दच० ।

नीललौह न० नित्यक० । वर्त्तलोहे राजनि० ।

नीलवर्षाभू पु० वर्षावां भवति भू--क्विप् कर्म० । १ कृष्णवर्ण-

मूर्वालतायां २ कृष्णभेके च ।

नीलवल्ली स्त्री कर्भ० । वन्दायाम् (परगाछा) रत्नमाला ।

नीलवसन त्रि० नील्या रक्तम् अन् नीलं वसनमस्य ।

१ नीलवस्त्रयुक्ते २ शनैवरे पु० हारा० । ३ बलरामे च पु०
कर्म० । ४ नीलवर्ण वस्त्रे नीलवस्त्रादयोऽपि एष्वर्थेष ।
“स्त्रीक्रीडाशयनीयादौ नीलवस्त्रं न दुष्यति” नीलशब्दे
दृशप्रम् । “परिशीलय नीलनिचोलम्” गीत० गो०
“नीलवासा एककुण्डलोहलककुदि कृतसुभगसुन्दरभुजः”
(वलरामः) भाग० ५ । २५ । ८ ।

नीलवीज पु० नीलं वोजमस्य । १ नीलासने राजनि० २

नीलवर्णवीजयुक्तमात्रे त्रि० ।

नीलवुह्ना स्त्री कर्म० । नीलवर्णे वुह्नाभेदे राजनि० ।

नीलवृक्ष पु० कर्म० । अजान्त्र्यां नीलासने वृक्षभेदे राजनि० ।

नीलवृन्त(क) न० नीलं वृन्तमस्य वा कप् । तूले राजनि० ।

नीलवृष पु० नित्यकर्म० । विशेषनक्षणाक्रान्ते वृषभेदे तल्लक्षण

मुक्रं श० त० शङ्खेन “लोहितो यस्तु वर्णेन मुखे पुच्छे
च पाण्डरः । श्वेतः खुरविषाणाभ्यां स वृषो नील
उच्यते” “स वृषो नील उच्यते” इत्युक्तेः नीलशब्द
स्वैव तत्रार्थे पारिभाषिकत्वं तस्य सामानाधिकरण्यद्योत-
नायैव वृषशब्दपयोगः । अतएव “नीलं वा वृषमुत्सृजेत्”
देवीपु० वाक्ये व्यःसप्रयोगः । नीलषण्डप्रमोक्षेण
अभावास्यां तिलोदकैः” भा० अनु० १६५ अ० वृषार्थकषण्ड-
शब्दप्रयोगश्च । “लोहितो यस्तु वर्णेन शङ्खवर्णखुरो
वृषः । लाङ्गूलशिरसोश्चैव स वै नीलवृषः स्मृतः
इति वचनेऽपि न समुदाये पारिभाषिकत्वम् किन्तु
नीलशब्दस्यैव सामान्याधिकरण्यद्योतनाय वृषशब्दप्रयोगः
पूर्वोकहेतोः । एवं लोहितवृषशब्देऽपि लोहितशब्द-
स्यैव पारिभाषिकत्वम् यथोक्तं विष्णुसं० “जीववत्सायाः
पयस्विन्याः पुत्रं सर्वलक्षणोपेतं नीलं लोहितं वा सुख
पुच्छपादशृङ्गशुक्लं यूथस्याच्छादकम्” । नीलषण्डादयो-
ऽप्यत्र ।
पृष्ठ ४१३६

नीलवृषा स्त्री नीलवर्णं पत्रं पुष्पं फलं च वर्षति प्रसूते

वृष--क । वार्त्ताकीभेदे राजनि० ।

नीलव्रत न० व्रतभेदे “यस्तु नीलोत्पलं हैमं शर्करापात्र-

संयुतम् । एकान्तरितनक्ताशी समाप्ते वृषभं ददेत् ।
स वैष्णवपदं याति नीलवतमिदं स्मृतम्” मत्स्यपु० ।

नीलशिखण्ड त्रि० नीलः शिखण्डोऽस्य । १ नीलवर्णशिख-

ण्डयुक्ते २ रुद्रभेदे पु० “रुद्र! जटीश! भेषज!
नीलशिखण्ड! कर्मकृत्!” अथ० २२७६ ।

नीलशिग्रु पु० कर्म० । नीलवर्णपुष्पयुक्ते शोभाञ्जनभेदे राजनि० ।

नीलसन्ध्या स्त्री नीला सन्ध्येव । कृष्णापराजितायां राजनि०

नीलसरस्वती स्त्री द्वितीयविद्यायां तारायाम् मातर्नील-

सरस्वति! प्रणमतां सौभाग्यसम्पत्प्रदे!” इति तत्स्तो-
त्रम् । “नीला च वाक्प्रदा चेति तेन नीलसरस्वती”
तन्त्रसारे तन्नामनिरुक्तिः । तन्मन्त्रस्तु तत्रैव “ताराद्या
पञ्चवर्णेवं श्रीमन्नीलसरस्वती । सर्वभाषामयी शुद्धा
सर्वदेवैनेमस्कता” (“ॐ त्त्रीँ हुँ क फट्”) ३२८१ पृ०
तारिणीशब्दे दर्शिते तारिणीगणे सरस्वतीपदं
नीलसरस्वतीपरम् ।

नीलसार पु० नीलः सारोऽस्य । तिन्दुवृक्षे (तँद) राजनि० ।

नीलसिन्धवार पु० कर्म० । नीलनिर्गुण्ड्याम् राजनि० ।

नीलस्कन्धा स्त्री नीलः स्कन्धोऽस्याः । नोकर्णीनतायाम्

नैघण्टुप्रकाशिका ।

नीला स्त्री १ नीलमक्षिकायाम् अमरः । २ नीलपुनर्णवायां

३ नील्योषधौ च राजनि० अत्र बा० न ङीष् । ४ मल्लरा-
गस्य स्त्रीभेदे वृहद्धमपु० । अस्यान्योऽर्थो नीलशब्दे दृश्यः

नीलाङ्कितदल पु० नीलाङ्कितं दलमस्य । तैलकन्दे नैघ० प्र० ।

नीलाङ्ग पुंस्त्री नीलमङ्गं यस्य । १ सारसखगे राजनि०

स्त्रियां जातित्वात् ङीष् । २ नीलवर्णाङ्गयुक्तमात्रे त्रि०
स्त्रियां स्वाङ्गत्वात् ङीष् ।

नीलाञ्जन न० कर्म० । १ सौवीराञ्जने (तुँते) राजनि० “नीला-

कुनचयप्रख्याम्” तन्त्रसारः । नीलं मेषमञ्जयति
अन्जि--णिच्--ल्यु । २ विद्युति जटा० करणे ल्युट्
ङीप् । ३ कालाञ्जनीक्षुपे राजनि० ।

नीलाञ्जसा स्त्री नीलमञ्जति अन्जि--णिच् असच् । १

अप्सरोभेदे २ नदीभेदे ३ विद्युति च मेदि० ।

नीलाद्रिकर्णिका स्त्री कर्म०! कृष्णापराजितायां राजनि०

नीलापराजिताऽप्यत्र ।

नीलाम्बर पु० नीलमम्बरं यस्य । १ बलदेवे २ शनैश्चरे च

कर्म० । ३ नीलीरक्ते वस्त्रे न० । ६ ब० । ४ तद्वति त्रि० ।
नीलमम्बति अवि--अरण् । ५ तालीशपत्रे राजनि० ।

नीलाम्बुज न० कर्म० । नीलपद्मे रत्नमाला नीलाम्बु-

जातादयोऽप्यत्र ।

नीलाम्बुजन्मन् न० नीलवर्णमम्बुजन्म । नीलोत्पले अमरः

नीलाम्ला पु० ईषत्कालेन आम्लायति आ + म्ला--क कर्म्म० ।

१ नीलझिण्ट्याम् । तस्या हि पुष्पमल्पकालेनैव गलति ।
२ श्यामाम्लत्रां स्त्री गौरा० ङीष् । नीलाम्लानीत्यप्यत्र ।

नीलालु पु० कर्म० । श्यामवर्णकन्दे आलुभेदे राजनि० ।

नीलाशी स्त्री नीलं वर्णमश्नुते व्याप्नोति अश--अण् उप० स०

गौरा० ङीष् । नीलनिर्गुण्ड्यां नीलसिन्धुवारे राजनि० ।

नीलाशोक पु० कर्म० । नीलवर्णे अशोके “सालेन कल्म-

षाली, रक्ताशोकेन रक्ताम्लानी च । पाण्डूकः क्षीरि-
कया नीलाशोकेन सूकरकः” वृ० सं० २९ अ० वनरपति
भेदवृद्ध्या शस्यभेदवृद्ध्युक्तौ ।

नीलाश्मन् पु० कर्म० । नीलभणौ “नीलाश्मद्युतिमास्यषाद

दशकां सेवे महाकालिकाम्” महाकालीध्यामम् ।
“नीलाश्मद्युतिभिदुराम्भसोऽपरत्र” माघः ।

नीलासन पु० कर्म० । (पियासाल) वृक्षभेदे राजनि० ।

नीलि पु० नील--इन् । जलजन्तुभेदे “मद्यं नीलिञ्च

लाक्षाञ्च सर्वाश्चैकशफांस्तथा” अविक्रेयोक्तौ महः ।
“नीलिर्जलजन्तुः” कुल्लू० ।

नीलिका स्त्री नीली इवार्थे क नील--ण्वुल् क कापि अन

इत्त्वं वा । १ नीलसिन्धुवारे राजनि० २ नीलिन्यां ३ नील
शेफालिकायां मेदि० । ४ नेत्ररोगभेदे “स एव लिङ्ग-
नाशश्च नीलिकाकाचसंज्ञितः” सुश्रुतः । ५ क्षुद्ररोगभेदे
“क्रोधाय संप्रकुपितो वायुः पित्तेन संयुतः ।
मुखमागत्य सहसा मण्डलं विसृमत्यतः । नीरुजं हनुकं
श्यावं तं व्यङ्गमिति निर्दिशेत् । कृष्णमेवंगुणं गात्रे पुष्पे
वा नीलिका विदुः” माधवकरः । जलस्य ६ ज्वरविशेषे
“भूमेरुषरा वृक्षस्य कोटरः जलस्य नीलिका” इत्यादि ।

नीलिन् त्रि० नीलो भूम्ना प्राशस्त्येन वाऽस्त्यस्य इनि ।

प्रशस्तनीलवर्णयुक्ते स्त्रियां ङीप् । सा च २ आजषी-
तुनृपस्य पत्नीभेदे पु० नीलशब्दे दृश्यम् “आजगीढख
नीलित्था प्रशान्तिरुदपद्यत हरिवं० ३२ अ० । ३
नील्यौषधौ च ।

नीलिमन् पु० नीलस्य भावः इमनिच् । नीलवर्णे “कञ्ज-

कमलिनविलोचनचुम्बनविरचितनीलिमरूपस् गीतयो०
पृष्ठ ४१३७

नीलीराग पु० “नचातिशोभते यन्नापैति प्रेम मनोगतम् ।

त्तन्नीलीरागमाख्यान्ति यथा श्रीरामसीतयोः” सा० द०
उक्ते १ प्रेमभेदे । सोऽस्यास्ति अच् । २ पूर्वोक्तप्रेमयुक्ते
संसि ३ तथाविधस्त्रियां स्त्री हेमच० । नील्याराग इव ।
४ नीलवर्णे शब्दच० । स्वार्थे क । नीलिकाऽप्यत्र नेत्र-
रोगभेदे च “नीलिकाकाचसंज्ञितः” सुश्रुतः ।

नीलीरोग पु० अक्षिरोगभेदे “ऐर्म्यं हन्यादार्म्यनक्तान्ध्य-

काचान् नीलीरोग तैमिरं चाञ्जनेन” सुश्रुतः ।

नीलीवृक्षाकृति पु० नीलीवृक्षस्वाकृतिरिवाकृतिरस्य ।

शरपुङ्खे शब्दार्थचि० ।

नीलोत्पल न० कर्म० । नीलवर्णे उत्पले “विलम्बिनीलोत्पलक-

र्णपूराः” माघ० “नीलोत्पलं विभ्रती” ताराध्यानम् । इदञ्च
अञ्जनादिगणे सुश्रुते पठित्वा तद्गुण उक्तो यथा “अञ्ज-
नरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पत्वनलदनलिनकेशराणि
मघूकञ्चेति । अञ्जनादिर्गणा ह्येष रक्तपित्तनिवर्हणः” ।

नीलोत्पलाद्यघृत न० चक्रपाणिदत्तोक्ते धृतभेदे “नीलो-

त्पलोशीरमधूकयष्टीद्राक्षा विदारीकुशपञ्चमूलैः । स्वाज्जी-
वनीयैश्च घृवं विपक्वं शतावरीकारसदुग्धमिश्रम् ।
तच्छर्करापादयुतं प्रशस्तम् असृग्दरे वारुतरक्तपित्ते ।
क्षीणे बले रेतसि संप्रनष्टं कृच्छे च रक्तप्रभये च गुम्मे”

नीलोत्पलिन् पु० नीलोत्पलं धार्य्यत्वेन यद्वर्णो वास्त्यस्य

इनि । मञ्जुघोषे शिवांशभेदे त्रिका० ।

नीवर पु० नी--ष्वरच् नि० । १ परिव्राजि २ वणिजके ३ वास्तव्ये च मेदि० ।

नीवाक पु० नियतं वाको वचनं नि--वच--वक्ष् दीर्घः ।

१ महार्षहेतोर्धान्यस्य संप्रयोगकारके अमरः । निवृत्तौ
अव्ययी० । २ वचननिवृत्तौ अव्य० ।

नीवार पु० नि + वृ--घञ् दीर्घः । तृणधान्यभेदे “नीवार-

साकादिकडङ्गरीयैः” “अपत्यैरिव नीवारभागधेयोचितै-
र्मृगैः” रघुः “नीवारफलमूलाशानृपीनप्यति शेरते”
भट्टिः । स च कुधान्यं यथोक्तं सुश्रुते “कोर-
दूषकश्यामाकनीवारसान्तनुतुवरकोद्दालकपियङ्गुमधूलिका
नान्दीमुखीकुरुविन्दगवेधुकावरुकतोदपर्णीनुकुन्दकरेणु
यवप्रभृतयः कुधान्यविक्षेषाः । उष्णाः कषायमधुरा-
सूच्चाः कटुविपाकिनः । श्लेष्मन्ना बद्धनिष्यन्दावातपि-
त्तप्रकोपणाः । कवायमधुरास्तेषां शीतपित्तापहाः
स्मृताः । नीवारः शोतत्वोयाही पित्तक्षुत्कफवातकृत्”
भावप्र० । स्वार्थे क । तत्रार्के “नीवारकादयो श्रुद्धादयश्च
समासेन कषायोवर्गः” सुश्रु० ।

नीवि(वी) स्त्री निव्ययंति निवीयते वा नि + व्ये--इन् यलोप

दोर्घौ डिच्च वा ङीप् । १ बणिजां मूलधने २ स्त्रीकटीवस्त्र-
वन्थे अमरः “नीविं प्रति प्रणिहिते च करे प्रियेण” सा० द०
“नीवीरतिक्रम्य सितेतरस्य” कुमा० “आलोच्य प्रिय-
तममंशुके विनीवौ” माघः “निवीप्रविश्रंसनकरः” भा०
स्त्री० २४ अ० । ३ वस्त्रमात्रे “अवनिज्य पूर्ववन्नी विं
विश्रस्य नमोव इत्यादि” कात्या० ४११५४ राजपुत्रा-
देर्बन्धके सुभूतिः तत्र मूलधने “निजगृहमिवानुप्रविश्य
नीविं सारमहतीमादाय गिरमाम्” दशकु० ।

नीव्र न० नीध्रशब्दार्थे पटले अमरे पाठान्तरम् ।

नीवृत् पुंस्त्री नियतं वर्त्ततेऽत्र नि + वृत--आधारे क्विप् दीर्घः ।

देशे जनपदे अमरः “गमिकर्म्मीकृतनैकनीवृता” नैष० ।

नीशार पु० नितरां शीर्य्येते हिमानिलावत्रानेन वा नि +

शॄ--करणे आधारे वा घञ् दीर्घः । हिमानिलनिवारणे
१ प्रावरने २ काण्डपटे च (कानात्) अमरः ।

नीहार पु० निह्रियते नि + हृ--कर्मणि घञ दीर्घः । घनीभूते

१ शिशिरे २ हिमे च अमरः “नीहारजालमलिनाः पुनरु-
क्तसान्द्राः” माघः वृ० र० टीकोक्ते त्रयोविंशतिरगणात्मके
२ दण्डकभेदे ।

नु अव्य० नुदति नौति वा नुद--नु--वा मित० डु । १ विकल्पे

२ अनुनये ३ अतीते ४ प्रश्ने ५ हेतौ ६ वितर्के ७ अपमाने
८ आदेशे ९ अनुतापे च मेदि० “क्षालितं नु गमितं नु
बधूनाम्” माघः अयञ्चात्रोत्पेक्षाद्योतकः । क्वचित् संशया-
लङ्कारद्योतकश्च ।

नुड बधे तु० कु० पर० सक० सेट् । नुडति अनुड़ीत् । नुनोड़ अणोपदेशत्वात् न णत्यं प्रनुड़ति ।

नुति स्त्री नु--क्तिन् । १ स्तवे २ प्रणामे च ।

नुत्त(न्न) त्रि० नुद--क्त । १ प्रेरिते २ क्षिप्ते च अमरः

“अदस्त्वया नुत्तमनुत्तमं तमः” माघः । पक्षे क्ततस्य नः
पूर्वदस नः । “न नोननुन्नोनुन्नोनोनाना नानानना ननु ।
नुन्नोऽनुन्नोननुन्नेनोनानेनानुन्ननुन्ननुत्” किरा० ।

नूतन त्रि० नवएव “नवस्य त्नप्तनप्खार्श्च पा० स्वाथे तनष्

नूरादेशश्च । नवीने अमरः “नूतनजलधररुचये” भाषा०
“प्रशमस्थितपूर्वपार्थिवम् कुलमम्युतनूतनेश्वरम्” रघुः ।

नूत्र त्रि० नव एव नव + नूतनवत् त्नप् नूरादेशश्च । नवीने

अमरः “नूत्रा इन्द्र! ते रथमृचिती भूमः” ऋ० ८ । २१ । ७

नूद पु० नुदति पापं क पृषो० दीर्घः । अश्वत्थाकारे ब्रह्मदा-

रुवृक्षे अमरः ।
पृष्ठ ४१३८

नूनम् अव्य० नु + उन--पि । १ वितर्के २ निश्चिते ३ स्मरणे

अमरः ४ वाक्यपरणे ५ उत्प्रेक्षाद्योतने च मेदि० “क्षुद्रे-
ऽपि नूनं शरणं प्रपन्ने” “न वेत्सि नूनं यतएवमात्थ
माम्” कुमा० “नूनं शङ्के ध्रुवं प्रायोन्यूनमित्येवमा-
दयः” सा० द० उत्प्रेक्षाद्योतकोक्तौ ।

नूपुर न० नू--क्विप् नुवि पुरति पुर--अन्तगमने क । (नेपुर)

पादाङ्गदे अमरः “अप्सरोनूपुररवैः प्रनृत्यद्वरबर्हिणः”
भा० व० १४६ अ० ।

नृ नये भ्वा० प० अक० अनिट् । नरति अनार्षीत् मनार

अणोपदेशत्वात् न णत्वं प्रनरति “णोपदेशाल्वनर्द-
नाटिनाथ्नाध्नन्द्नकक् नृनृतः” । “नर्द शब्दे नट अवस्य-
न्दने चुरादिः नाटीति दीर्घनिर्देशात् अट नृताविति
घटादिर्नेह गृह्यते नाथ्र नाधृ याच्ञादौ टु नदि
समृद्वौ नक्व नाशने नृ नते नृतो गात्रविक्षेपे एतद्भिन्ना
णोपदेशाः” इति मनोरमा । भृ नये सेट् इत्यन्ये

नृ पु० नी--ऋन् डिच्च । १ मनुष्ये २ पुरुषे च अमरः । ना नरौ

नरः नृन् नुः नणां नृणाम् । “नृणाभेकोगम्यस्त्वमसि
षयसामर्णव इव” पुष्पदन्तस्त्रीत्रम् । “अन्ये कृतयुगे नॄणां
युगह्लासानुरूपतः” मनुः । ३ नेतरि त्रि० ४ गङ्कौ पु० ।
मनुष्यजातौ स्त्रियां ङीष् वृद्धो नारी “नारीणामनु-
कृचमाचरसि चेज्जानासि” सा० द० ।

नृकपाल न० ६ त० । नरस्य क्वपाले शीर्षास्थ्नि नृकरोटिकाप्यत्र स्त्री ।

नृकेशरिन् पु० ना चासौ केशरी च । नरसिंहे विष्णोरवता-

रभेदे नरसिंहशब्दे दृश्यम् ।

नृग पु० औशीनरे १ नृपभेदे २ तत्पत्र्यां स्त्री । दर्वाशब्दे

३४७३ पृ० मूलं दृश्यम् । “राजर्षेस्तस्य च सरिन्न-
मस्य भरतर्षभ! । रम्यतीया बहुजला पयोष्णी द्विज-
सेविता” भा० व० ८८ अ० । स च अज्ञानात् स्वकीय
धेनुबुद्ध्या ब्राह्मणधेनुं विप्राय दत्त्वा कृकलासतां प्राप्त
इत्येषा कथा भा० अनु० ७० अ० दृश्या ।

नृगधूम पु० तीर्थभेदे शब्दार्थ० ।

नृचक्षस् पु० नॄर्न् चष्टे पश्यति भक्ष्यत्वेन चक्ष--असुन् न

ख्यादेशः । १ राक्षसे हेमच० । २ मनुष्यदर्शके च “श्येनो
नृचक्षा अग्नेष्ट्वा चक्षुषावपश्यामि” ताण्ड्य० ब्रा० । ३ देवे च
“नृचक्षसां भागोऽसि” यजु० १४ । २४ “नॄन् शुभाशुभ-
कर्त्तृन् चक्षते जानन्ति ये ते नृवक्षसो देवाः” वेददी०

नृचक्षुस् पु० कीरवे सनीथपुत्रे भाविनि नृपभेदे “सुनीब-

स्तस्य भविता नृचक्षुर्यत्सुखी नला” भाग० ९ । २२ ।
२८ श्लो० ।

नृजल ग० ६ त० । १ मनुव्यनेत्रजले नृनिःमृतं जलम्” शा० त० ।

२ माबवमूत्रे हेमच० ।

नृत नर्त्तने दिवा० प० अक० सेट् । नृत्यति अनर्त्तीत्

ननर्त्त नर्त्तिष्यति नर्त्स्यति । नृत्तम् नृत्यम् । निनृत्-
णति नरीनृयते । नरीनत्तिं नर्नर्त्ति नरीनरीति नर्न-
रीति । अणोषदेशत्वात् सति निमित्ते न णत्वम् । प्रनृ-
त्यति नर्त्तकः नर्त्तकी । “नृत्यति युवतिजनेन समं
सति! विरहिजनस्य दुरन्ते” गीतगो० “नृत्यन्ति
गोकर्णशरीरभक्षाः” चोरप० ।

नृति स्त्री नृत--गात्रविक्षेपे इन् किच्च अभिवानात् स्त्रीत्वम् । नर्त्तने शब्दच० ।

नृतु पु० नृत--कु । नर्त्तके “तेऽपरीतं नृतो शवः” ऋ० ८ । २४ । ९

“नृतू जनिमन् यज्ञिवानाम्” ऋ० ६ । ६३ । ५ “नृतू नर्त्त-
कावश्विनौ” भा० “वज्रेण दाशुषे नृतो!” ऋ० १ । १३० । ७

नृतू त्रि० भृत--कू । १ नर्त्तके । नॄन् तूर्वति हिनस्ति तूर्ष--

क्विप् । २ नरहिंसके च “नृतूरिवापोर्णुते” ऋ० १ । ९२ । ४

नृत्त(त्य) न० नृत--क्त क्यप् वा । तालमानयुक्ते सविलासा-

ङ्गविक्षेपरूपे नर्त्तने “ताण्डवं नटनं नृत्यं लास्यं नृत्यञ्च
नर्त्तने” अमरे ईषद्भेदेऽपि पर्यायता । तल्लक्षणादि यथा
“देवरुच्या प्रतीतो यस्तालमानरसाश्रयः । सविलासो
ऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः । ताण्डवश्च तथा खास्यं
द्विविधं नृत्यमुच्यते । अङ्गविक्षेपबाहुल्यं तथाभिनय-
शून्यता । यत्र सा पेरलिस्तस्याः संज्ञा देशीति लोकतः ।
क्लेदनं भेदनं यत्र बहुरूपा मुखावली । ताण्डवं
बहुरूपन्तद्वारुणागलमुद्धतम् । छुरितं यौवतञ्चेति लास्य”
द्विविधमुच्यते । यत्राभिनयाद्यैर्भावैरसैराश्लेषचुम्बनैः ।
नायिकानायकौ रङ्गे नृत्यतश्छुरितं हि तत् । मधुरं
बद्वलीलाभिर्नटीभिर्यत्र नृयते । वशीकरणविद्याभं
तल्लास्यं यौवतं मतम् । गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते
लयः । लयतालसमारब्धं ततो नृत्यं प्रवर्त्तते” सङ्गी-
तदा० । अपरूपस्य नृत्यं व्यर्थं यथा “नृत्येनालमरु-
पेण सिद्धिर्नाट्यस्य रूपतः । चार्वधिष्ठानवन्नृत्यं नृत्य-
मन्यद्विडम्बना” इति मार्क० पु० “रङ्गस्य दर्शयित्वा
नर्त्तकी निवर्त्तते यथा नृत्यात्” सा० का० । “गोपाङ्गना
नृत्यमनन्दयत्तम्” भट्टिः ।

नृत्यप्रिय त्रि० नृत्यं प्रियमस्य । १ नर्त्तगप्रिये २ ताण्डवप्रिये

शिवे पु० ३ कुमारानुचरमातृभेदे स्त्री “नृत्यप्रिया च
राजेन्द्र! शतोलूखलमेखला” भा० श० ४७ न० ।

नृत्यशाला स्त्री ६ त० । (नाचधर) नाट्यगृहे

पृष्ठ ४१३९

नृत्यस्थान न० ६ त० । नृत्याधिकरणे रङ्गस्थाने अमरः ।

नृदुर्ग न० नृवेष्टितं दुर्गम् शा० त० । मनुष्यरथादिवेष्टिते

नृपस्याश्रयणीये दुर्गभेदे (गड) भेदे “नृदुर्गं गिरिदुर्गं
वा समाश्रित्य वसेत् नृपः” मनुः “नृदुर्गं चतुर्दिगवस्था-
यिहस्त्यश्वरथयुक्तवहुपादातरक्षितम्” कूल्लू० ।

नृदेव पु० गा देव इव । नरदेवे नृपे “अम्लानमालां विपुलां

च पत्रैर्देवा नृदेवाश्च “भिदां न भेजुः” नैष० ।

नृधर्मन् पु० नरस्येव धर्मोऽस्य अनिच् समा० । १ कुवेरे हेमच०

२ मनुष्यधर्मयुक्तमात्रे त्रि० स्त्रियां वा ङीप् ।

नृनमन न० ६ त० । नृभिर्नम्यते नम--कर्मणि ल्युट् पूर्वपदादिति

णत्वे प्राप्ते क्षुम्रा० न णत्वम् । २ मनुष्यनमनीये देवादौ ।

नृप पु० नॄन् पाति रक्षति पा--क । “चतुर्योजनपर्यन्तेष्वधि-

कारी नृपो भवेत्” इत्युक्ते १ राजविशेषे २ राजमात्रे च
अमरः । “नृपादिलक्षणं यथा “चतुर्योजनपर्य्यन्त-
मधिकारो नृपस्य च । यो राजा तच्छतगुणः स एव
मण्डलेश्वरः । तस्माद्दशगुणो राजा राजेन्द्रः परिकी-
र्त्तितः” ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अ० ।
तत्प्रशंसा यथा “अपुत्त्रस्य नृपः पुत्रो निर्धनस्य धनं
नृपः । अमातुर्जननी राजा अतातस्य पिता नृपः ।
अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः ।
अभृत्यस्य नृपो भृत्यो नृप एत नृणां सखा । सर्वदेवमयो
राजा तस्मात्त्वामर्थये नृप!” कालिकापु० ५० अ० । “व्यव-
हारान्नृपः पश्येद्विद्वद्भिः ब्राह्मणैः सह” याज्ञ० “नृपेण
षाणिग्रहणस्पृहेति” नैष० । २ षोड़शसंख्यायाम्
भारते षोडशानामेव राज्ञां माहात्म्यविशेषकथनात्
नृपशब्दस्य तत्सङ्ख्यावाचित्वम् षोड़श नृपाश्च भा० द्रो०
५५ अध्यायादौ षोडशराजिकपर्वण्युक्ताः तत्रैव दृश्याः ।
“भुवि नृपमितहस्तेष्वङ्गलग्नं तदग्रम्” लीला० ।
राज्ये एकनृपकरणस्यावश्यकता तत्र विशेषश्च औशनस-
नीतिपरिशिष्टे १ अ० उक्तो यथा
“सदैकनायकं राज्यं कुर्य्यान्न बहुनायकम् । नानाथकं
क्वचिदपि कर्त्तुरोप्सितमूतये । राजकुले तु वहवः
पुरुषा यदि सन्ति हि । तेषु ज्येष्ठो भवेद्राजा शेषास्तत्-
कार्यसाधकाः । गरीयांसोवराः सर्वे सहायेभ्यो बिवृ-
द्धये । ज्येष्ठोऽपि बधिरः कुष्ठी मूढ़ोऽन्धः षण्ड एव
यः । स राज्यार्हो भवेन्नैव भ्राता तत्सुत एव वा ।
न कनिष्ठोऽपि, ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यभाक् ।
दायादानामैकमत्यं राज्ञः श्रेवस्करं परम् । पृथग्-
भावो विनाशाय राज्यस्य च कुलस्य च । अतः स्वभोग
सदृशान् दायादान् कारयेन्नृपः । अव्याहताज्ञः संतुष्ये-
च्छत्रसिंहासनैरपि । राज्यविभजनाच्छ्रेयो न भूपानां
भवेत् खलु । अल्पीकृतं विभागेन राज्यं शत्रुर्जिघृक्षति ।
राज्यतुर्य्यांशदानेन स्थापयेत्तान् समन्ततः । चतुर्दिक्ष्वथ
या देशाधिषान् कुर्य्यात् सदा नृपः । गोगजाश्वोष्ट्रको-
षाणामाधिपत्ये नियोजयेत् । सेनाधिकारे संयोज्या
नान्धवाः श्यालकादयः । स्वदोषदर्शकाः कार्य्या गुरवः
सुहृदश्च ये । वस्त्रालङ्कारपात्राणां स्त्रियो योज्यास्तु
दर्शने । स्वयं सर्वं च विमृशेत् पर्य्यायेण च दुर्नयेत् ।
मन्त्रयेन्मन्त्रिभिः सार्द्धं भावि कृत्यं तु निर्जने । अन्त-
र्वेश्मनि रात्रौ वा दिवा वाऽन्यविशोधिते । सुहृद्भिर्भ्रा-
तृभिः सार्द्धं सभायां पुत्रबान्धवैः । राजकृत्यं सैन्यपैश्च
सभ्याद्यैश्चिन्तयेन्नृपः” ।

नृपकन्द पु० कन्दानां नृपः श्रेष्ठः राजद० । राजपलाण्डौ राजनि० ।

नृपगृह न० ६ त० । राजमन्दिरे तल्लक्षणादि वृ० सं० ५३ अ०

“उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन । अष्टा-
ष्टोनान्येवं पञ्च सपादानि दैर्घ्येण” औशनसनीतिपरि-
शिष्टे १ अ० तद्विवृतिर्यथा
“राजगृहं सभामध्यं गवाश्वगजशालिकम् । प्रशस्त
वापीकूपादिजलयन्त्रैः सुशोभितम् । सर्वतः स्यात्
समभुजं दक्षिणोच्चमुदङ्नतम् । शालां विना नैकभुजम् तथा
विषमबाहुकम् । प्रायःशाला नैकभुजा चतुशालं विना
शुभा । शस्त्रास्त्रधारिभिर्युक्तप्राकारं सुष्ठुयन्त्रकम् ।
सन्निकृष्टचतुर्द्वारं चतुर्दिक्षु सुशोभनम् । दिवारात्रौ
सशस्त्रास्त्रैः प्रतिकक्षासु गोपितम् । चतुर्भिः पञ्चभिः
षड्मिर्यामिकैः परिवर्त्तकैः । नानागृहोपकार्य्याट्ट-
संयुतं कल्पयेत् सदा । वस्त्रादिमार्जनार्थं च स्नानार्थं
यजनार्थकम् । भोजनार्थं च पाकार्थं पूर्बस्यां कल्पयेत्
गृहम् । निद्रार्थञ्च विहारार्थं पानार्थं रोदनार्थकम् ।
धान्यार्थं द्वारपालार्थं दासीदासार्थमेव च ।
उत्सर्गार्थं ग्रहान् कुर्य्यात् दक्षिणस्यामनुक्रमात् । गो
खगोष्ट्रगजाद्यर्थं ग्रहान् प्रत्यक् प्रकल्पयेत् । रथवा-
ज्यर्थशस्त्रार्थव्यायामयामिकार्थकम् । वस्त्रार्थकं तद्भ-
रार्थं विद्याभ्यासार्थमेव च । उदक् ग्रहान् प्रकुर्वीत
सुगुप्तान् सुमनोहरान् । यथामुखानि वा कुर्य्याद्गृहा-
ण्येतानि वै नृपः । धर्माधिकरणं शिल्पशालां कुर्य्यादुदग्
ग्रहान् । पञ्चमांशाधिकोच्छ्रायां भित्तिं विस्तरतो गृहे ।
पृष्ठ ४१४०
कोष्ठविरतारषष्ठांशस्थूला सा च प्रकीर्त्तिता । एकभूमे
रिदं मानमूर्द्धमूर्द्ध्वं समन्ततः । स्तम्भैश्च भित्तिभिर्वापि
पृथक् कोष्ठानि संन्यमेत् । त्रिकोष्ठं पञ्चकोष्ठं वा सप्त-
कोष्ठं गृहं स्मृतम् । द्वारार्थमष्टधा भक्तं द्वारस्यांशौ
तु मध्यमौ । द्वौ द्वौ क्षेयौ चतुर्दिक्षु धनपुत्रपदौ
नृणाम् । तत्रैव कल्पयेत् द्वारं नान्यत्र तु कदाचन ।
वातायनं पृथक् कोष्ठे कुर्य्याद्यादृक् सुखावहम् । अन्य
गेहद्वारविद्धं गृहद्वारं न कारयेत् । वृक्षकोणस्तम्भमार्ग
पीठकूपैश्च वेधितम् । प्रासादमण्डपद्वारे मार्भवेधो न
विद्यते । गृहपीठं चतुर्थांशमुच्छ्रायस्य प्रकल्पयेत् ।
प्रसादानां मण्डपानां चार्द्धांशं चापरे जगुः । पर
वातायनैर्विद्धं नापि वातायनं स्मृतम् । हीना निम्ना
छदिर्न स्यात्तादृक् कोष्ठस्य विस्तरः । स्वोच्छायस्यार्द्धमूलैक
प्राकारः सममूलकः । तृतीयांशकमूलो वा ह्रस्वस्यार्द्ध
प्रविस्तरः । उच्छ्रितस्तु तथा कार्य्यो दस्युभिर्न
विलङ्ग्यते । यामिकैरक्षितो नित्यं नालिकास्त्रैश्च संयुतः ।
बहुसुदृढ़गुल्मश्च सुगवाक्षप्रणालिकः । स्वहीनमहा-
प्राकारो ह्यसमीपमहोधरः । परिखा तत्र कार्य्या च
खातात् द्विगुणयिस्तरा । नातिसमीपप्राकारा ह्यगाध-
सलिला शुभा । युद्धसाधनसम्भारैः सुयुद्धकुशलैर्विना ।
न श्रेयसे दुर्गवामे राज्ञः स्याद् बन्धनाय वै” ।

नृपञ्जय पु० अन्यान् नृपान् जयति जि--खश् । पौरवे

नृपभेदे “क्षेम्यात् सुवीरो नृपतिः सुवीरात्तु
नृपञ्जयः । नृपञ्जयो बहुरथ इत्येते पौरवाः स्मृताः”
हरिवं० २० अ० ।

नृपति पु० नॄन् पाति पा--डति ६ त० । १ कुवेर २ नृपाले

राजनि च शब्दरत्ना० “जाताभिघङ्गो नृपतिर्निषङ्गात्”
रघुः । नृनाथादयोऽपि राजनि । ३ क्षत्रिये “नृपते-
र्वर्णयोर्द्वयोः” मनुः ।

नृपतिवल्लभ पु० ६ त० । १ वटिकात्मके औषधभेदे “जाती-

फलं लवङ्गाब्दत्वगेलाटङ्गरामठम् । जीरकञ्च यवानी
च विश्वासौन्धवपत्रकम् । लौहमभ्रं रसं गन्धं ताम्रं
प्रत्ये कशः पलम् । मरिचं त्रिपलं दत्त्या छागोदुग्धेन
पेषयेत् । धात्रीरसेन वा पिष्ट्वा वटिकां कुरु यत्नतः ।
श्रीमद्गगननाथेन विचिन्त्य परिनिर्सितः । सूर्य्यवत्ते-
जसा चायं रसो नृपतिवल्लभः । अष्टादशवटीं खादेत्
पवित्रः सूर्य्यदर्शकः । हन्ति मन्दानलं सर्वभामदोषं
विसूचिकाम् । प्लीहगुल्मोदराष्ठीला यकृत् पाण्डुहली-
सकम् । हृच्छूलं कण्ठशूलञ्च चक्षुःशूलञ्च कामलाम् ।
शिरःशूलं कटीशूलमानाहमोष्ठशूलकम् । कासश्वासाम-
वातञ्च श्लीपदं शोथमर्बुदम् । गलगण्डं गण्डमाला-
मम्लपित्तञ्च गर्दभीम् । क्रिमिकुष्ठानि दद्रूणि वातरक्तं
भगन्दरम् । उपदंशमतीसारं ग्रहण्यर्शःप्रमेहकम् ।
अश्मरीं मूत्रकृच्छ्रञ्च मूत्राधातमसृग्दरम् । ज्वरं जीर्ण-
ज्वरं कण्डूं तन्द्रालस्यं वमिं भ्रमिम् । दाहविद्रधि
हिक्काश्च जड़गद्गदमूकताः । बाधिर्य्यं स्वरभेदञ्च मुष्क-
वृद्धिविसर्प्रकान् । उरुस्तम्भं रक्तपित्तं गुदभ्रंशारुचिं
तृषाम् । कर्णनासानुशोथांश्च दन्तरोगञ्च पीनसम् ।
स्थौल्यञ्च शीतपित्तञ्च स्थावराणि विषाणि च ।
वातपित्तकफोत्थांश्च द्वन्धजान् सान्निपातिकान् । सर्वरोगचयान्
हन्ति चण्डांशुरिव पापहा । बलवर्णकरो ह्येष
आयुष्यो वीर्य्यवर्द्धनः । परं वाजीकरः श्रेष्ठः पटुतामन्त्र
सिद्धिदः । अरोगी दीर्घजीवी स्यात् रोगी रोगं विमु-
ञ्चति । रसस्यास्य प्रसादेन सुबुद्धिर्जायते नरः” भैमज्य-
रत्नावली । २ राज्ञां प्रिये त्रि० ३ राजपत्न्यां स्त्री
नृपवल्लभादयोऽप्यत्र ।

नृपत्री स्त्री नॄणां पतिः पालयित्री “विभाषा सपूर्वस्य”

पा० नान्तादेशः नान्तत्वात् स्त्रियां ङीप् । नॄणां
पालयित्र्यां स्त्रियां “अभि नो देवीरवसा महः शर्मणा
नृपत्नीः” ऋ० १२२११ “नृपत्नीः मनुष्याणां पालयि-
त्र्यः” भा० छन्दसि जसः स्याने शस् ।

नृपद्रुम पु० नृपस्यादनो द्रुमः शा० त० । राजादने आरग्बधे

राजनि० । नृपवृक्षादयोऽप्यत्र “खादेद्वप्यङ्कुरान् भृष्टान्
पूतीकनृपवृक्षजान्” सुश्रुतः ।

नृपप्रिय पु० ६ त० । (वेडुवाँश) १ वंशभेदे तस्य दुर्गवेष्टनका-

रित्वात्तत्प्रियत्वम् । २ राजपलाण्डौ ३ शालिधान्ये
४ आम्रे च शब्दच० । ५ राजवल्लभे त्रि० ६ केतक्यां
७ राजखर्जूर्य्याञ्च स्त्री राजनि० ।

नृपप्रियफला स्त्री नृपप्रियं फलं यस्याः । वार्त्ताक्यां राजनि० ।

नृपबदर पु० बदरार्णां नृपः राजदन्ता० पूर्वनि० । राजवदरे

राजनि० ।

नृपमन्दिर न० ६ त० । राजगृहे सौधे हेमच० ।

नृपमाङ्गल्यक म० नृपस्य माङ्गुल्यं यस्मात् कप् । बाहुल्य-

वृक्षे राजनि० ।

नृपमान न० नृपस्य तद्भोजनस्य मानमावेदकं वाद्यम् ।

नृपस्य मोजगकालावेदके वाद्यभेदे त्रिका० ।
पृष्ठ ४१४१

नृपलक्ष्मन् न० ६ त० । नृपचिह्ने छत्रे चामरादौ च

नृपलिङ्गादयोऽप्यत्र “निजग्राहोजसा वीरः कलिं दिग्विजये
क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा” भाग०

नृपवल्लभ न० चक्रपाणिदत्तोक्ते पक्वे १ तैलभेदे २ घृतभेदे च ।

“गवां शकृत्क्वाथविपक्वमुत्तमं हितञ्च तैलं तिमिरेषु
नस्ततः । घृतं हितं केवलमेव पैत्तिके तथानुतैलं
पवनासृगुत्थयोः । जीवकर्षभकौ मेदाद्राक्षांशुमती निदि-
ग्धिका वृहती । मधुकं वला बिडङ्गं मञ्जिष्ठा शर्करा
रास्ना । नीलोत्पलं श्वदंष्ट्वा प्रपौण्डरीकं पुनर्णवा लवणम् ।
पिपपल्यः सर्वेषां भागैरक्षांशिकैः पिष्टैः । तैलं वा
यदि वा सर्पिर्दत्त्वा क्षीरं चतुर्गुणं पक्वम् । तिमिरं
पटलं काचं नक्तान्ध्यं चार्बुदन्तथान्घ्यशु । श्वेतशु लिङ्ग-
नाशं नाशयति नीलिकासंज्ञम् । मुखनासादौर्गन्ध्यं
लक्षितञ्चाकालनं हगुस्तम्भम् । कासं श्वासं शोषं
हिक्कां स्तम्भं तथा व्यथां नेत्रे । मुखजैह्मवमर्दभेदं रोगं
बाहुग्रहं शिरस्तम्भम् । रोगानथोर्द्धजत्रोः सर्वानचि-
रेण नाशयति । नस्यार्थं कुड़वं तैलं पक्तव्यं नृपवल्लभे ।
अक्षांशैः शालिकैः कल्कैरन्ये भृङ्गादितैलवत्” ।

नृपशासन न० ६ त० । राजशासने तत्प्रकारः औशनस-

नीतिसरिशिष्टे १ अ० उक्तो यथा
“शासनं कीदृशं कार्यं राज्ञा नित्यं प्रजासु च । दासे
भृत्येषु भार्य्यायां पुत्रे क्षिष्येऽपि वा कचित् । वाग्-
दण्डं परुषं नैव कार्यं तद्देशसंस्थिते । तुलाशासन
षानानां नाणकस्यापि वा क्वचित् । निर्य्यामानां च
धातूनां सजातीनां घृतस्य च । मृदुदग्धवसातैलपिष्टादीनाञ्च
सर्वदा । कूटं नैव तु कार्यं स्यात् बलाच्च निर्मितं जनैः ।
उत्कोचग्रहणं नैव स्वामिकार्यविल्वोपनम् । दुर्वृत्तका०
रिष्णं चोरं जारं सद्द्वेषिणं द्विषम् । नरचन्त्वप्रकाशं
हि तथान्यानपकारकान् । मातॄणां पितॄणां चैव
पूज्यानां विदुषामपि । नायमानं गोपहासं न कुर्युः
पितृपुत्रयोः । वापीकूपारामसीमाघर्मशातासुराल-
यान् । मार्गान्नैव प्रनाधेयुर्दीनान्धविकलाङ्गकान् । द्यू-
तञ्च मद्यपानञ्च नृगयां शस्त्रधारणम् । गोगजाश्वोष्ट्र-
लहिमीमृणां च स्थावरस्य च । रजतस्वर्णरत्नानां
मादकस्य विषस्य च । क्रयं वा विक्रपं वापि मद्यसन्धान-
मेव च । क्रवपत्रं दानपत्रमृणनिर्णयपत्रकम् । राजा-
ज्ञया विना नैव जनैः कार्यं चिकित्सितम् । महापा-
पाभिशमनं निधिग्रहणमेव स । न या समाजनियम्”
निर्णयं जातिदूषणम् । अस्वामिनाष्टिकधनसंग्रहमन्त्र
भेदतः । नृपतेर्गुणलोपञ्च नैव कुर्युः कदाचन । स्वचर्म
हानिमनृतं परदाराभिमर्शनम् । कूटसाक्ष्यं कूटलेख्य-
भप्रकाशप्रतिग्रहम् । निर्द्धारितकराधिक्यं स्तेयं
साहसमेव च । मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव
च । भृत्या शुल्केन भागेन वृड्या दर्पात्जलात् छलात् ।
आधर्षणं न कुर्वन्तु यस्य कस्यापि सर्वदा । परिमाणोन्मान
मानं धार्यं नृपविमुद्रितम् । गुणसाधनसंदक्षा भवन्तु
निखिला जनाः । साहसाधिकृतो न स्युर्विना चैवातता-
यिनम् । उत्सृष्टा वृषभाद्या यैस्तैस्ते धार्य्याः सुयन्त्रिताः ।
इति मच्छाशनं श्रुत्वा येऽन्यथा वर्त्तयन्ति तान् । नाशयि-
षत्रानि दण्डेन महता पापकारकान् । इति प्रबोधये-
न्नित्यं प्रजाशासनडिण्डिमैः । लिखित्वा शासनं
राजा धारयेच्च चतुष्पथे । तथा चोद्यतदण्डः स्यादसा-
धुषु च शत्रुषु” ।

नृपशु पु० ना पशुरिव ना चासौ पशुश्चेति वा । १ मूर्खे

२ पुरुषपशौ च “याश्च स्त्रियो नृपशून् स्वादन्ति” भाग०
५ २६ २९ श्रो० ।

नृपसभ(भा) न० स्त्री नृपाणां सभा “राजामनुष्यपूर्य्येति”

पा० राजपर्य्यायग्रहणात् क्रीवत्वम् । बहूनां नृपाणां
सभायाम् । एकस्य सभायां तु स्त्री । तत्सभाप्रकारश्च
औशनसनीतिपरिशिष्टे १ अ० उक्तो यथा
“राज्ञा राजसभा कार्य्या सुगुप्ता च मनोरमा । त्रि-
कौष्ठैः पञ्चकीष्ठैर्वा सप्तकोष्ठैः सुविस्तृता । दक्षिणोदक्
तथा दीर्धा प्राक प्रत्यग द्विगुणाऽथ वा । त्रिगुणा वा
यथाकाममेकभूमिर्द्विभूमिका । त्रिभूमिका वा कर्त्तव्या
सोपकार्य्याशिरोगृहा । परितः परिकोष्ठेषु वातायन
विरास्त्रिता । पार्श्वकोष्ठात्तु द्विगुणा मध्यकोष्ठेषु
विस्तृता । पञ्चमांशाधिकं त्वौच्च्यं मध्यकोष्ठस्य विस्तरात् ।
विस्तारेण समं त्वौच्चत्रं पञ्चमांशाधिकं तु वा । कोष्ठ-
कानां च भूमिं च यदि वा तत्र कारयेत् । द्विभूमिके
पार्श्वकोष्ठे मध्यमं त्वेकभूमिकम् । पृथक्स्तम्भा तु सत्
कोष्ठा चतुर्मार्गानमा शुभा । जलोद्वारादियन्त्रैश्च युता
सुखरयन्त्रकैः । वातप्रेरकयन्त्रैश्च यन्त्रौ कालप्रयो-
धकैः । प्रतिष्टिता च सादर्शैस्तथा च प्रतिरूपकैः ।
एवंविधा राजसभा यन्त्रार्था कार्यदर्शने । तथाविधा-
मात्यसेख्यश्चभ्याधिकृतशालिकाः । कर्चव्याः प्रागुदक्
चितास्तदर्थाश्च पृथक् वृषक् । शतहस्तमिर्ता भूमिं
पृष्ठ ४१४२
त्यक्ता राजगृहात् सदा । उदक् द्विशतहस्ता प्राक् सेना
सन्निवेशनार्थिका । आराद्राजगृहस्यैव प्रजानां
निलयानि च । सधनिश्रेष्ठिकाननुक्रभतश्च सदा ततः ।
समन्ताच्च चतुर्दिक्षु विन्यसेच्च ततःपरम् । प्रकृत्यनुप्रकृतयो
ह्याधिकारिगणस्ततः । सेनाधिपपदातीनां गणः सादि
गणस्ततः । साश्वश्च सगजश्चापि गजपालगणस्ततः ।
वृहन्नालिकयन्त्राणि ततः सत्वरगोगणः । ततः
खगोल्मिकगणो ह्यारण्यकगणस्ततः । क्रमादेषां गृहाणि
स्युः शोभनानि परे सदा । पान्थशाला ततः कार्य्या
सुगुप्ता सजलाशया । सजातीयगृहाणां च समुदायेन
पङ्क्तितः । निवेशने पुरे ग्रामे प्रागुदक् सुखमेधते ।
सजातिपण्यनिवहैरापणे पण्यवेशनम् । धनिकादिक्रमे-
णैव राजमार्गस्य पार्श्वतः । एवं हि पत्तनं कुर्य्यात् प्रभं
चैव नराधिपः” । तदधिवेशनप्रकारः तत्रैव “सभायां
प्रत्यगर्द्धस्य मध्ये राजासनं भवेत् । दक्षसंस्था
वामसंस्थाः विशेयुः पार्श्वपृष्ठगाः । पुत्राः पौत्राः भ्रातरश्च
भागिनेयाश्च पृष्ठतः । दौहित्रा दक्षभागास्तु वामसं-
स्थाः क्रमादिमे । पितृव्याः स्वकुलश्रेष्ठाः सभ्याः सेनाधि-
पास्तया । स्वाग्रे दक्षिणभागे तु प्राक्संस्थाः पृथना-
सनाः । मातामहकुलश्रेष्ठा मन्त्रिणो कान्धवास्तथा ।
श्वशुराश्चैव श्यालाश्च वामाशे चाधिकारिणः ।
वामदक्षिणपार्श्वस्थो जामाता भगिनीपतिः । स्वसदृशस-
मीपे वा स्वार्द्धासनगतः सुहृत् । दौहित्रभागिनेयानां
स्थाने स्युर्दत्तकादयः । भागिनेयाश्च दौहित्राः
पुत्रादिस्थानसंस्थिताः । यथा पिता तथार्चायां समः
श्रेष्ठासने स्थितः । पार्श्वयोरग्रतः सर्वे सेवका मन्त्रिण-
स्तथा । परिवारगणाः सर्वेः सर्वेभ्यः पृष्ठसंस्थिताः ।
स्वर्णदण्डघरौ स्यातां प्रवेशननिवेदकौ । विशिष्टचिह्नधृक्
राजा स्वासने प्रवसेत् स्वके । सुभूषणः सुवसनः कवची
मुकुटान्वितः । स्निग्धास्त्रलग्नशस्त्रस्तु सावधानः
मनाः सदा” ।

नृपसुता स्त्री ६ त० । १ राजकन्यायां २ छुछुन्दर्य्यां स्त्री वृं०

सं० ८८ अ० “छुछुन्दरी नृपसुता वालेयोगर्दभः प्रोक्तः” ।

नृपांश ६ त० । १ नृपाय देये करे षष्ठांशादौ २ राजपुत्रे पु० ।

नृपाकृष्ट ३ त० । चतुरङ्गशब्दे २८६४ पृ० दर्शिते क्रीडार्थ-

राजाकृष्टे राजनि । “नृपाकृष्टो यदा राजा गमिष्यति
युधिष्ठिर! । तदा राजा हि राजानं घातेऽपि तं
हनिप्यति ।

नृपात्मज पु० ६ त० । १ राजपुत्रे २ राजकन्यायां स्त्री “स्वयं

वरं भीमनृपात्मजायाः” नैष० । नृपस्यात्मजेव । ३ कटु
तुम्ब्यां स्त्री रत्नमाला ।

नृपाध्वर पु० नृपमात्रकर्त्तव्योऽध्वरः शाक० त० । राजमात्र

कर्त्तव्ये राजसूययज्ञे “राजा राजसूयेन यजेत” श्रुत्या
राजमात्रस्यैव तत्राधिकारस्य विधानात्तस्य तथात्वम् ।

नृपान्न न० नृपप्रियमन्नम् । १ राजान्ननामके धान्यभेदे राजनि०

६ त० । २ राज्ञोऽन्ने च ।

नृपाभीर न० नृपं तद्भोजनकालमभीरयति अभि + ईर--अच्

उप० स० । राज्ञो भोजनकालावेदके नृषमानाख्ये वाद्य-
भेदे त्रिका० ।

नृपामय पु० आमयानां नृपः राजदन्ता० पूर्वनि० ।

१ राजयक्ष्मरोगे राजनि० ६ त० । २ राज्ञोरोगे च ।

नृपाल पु० नृन् पालयति पालि--अण् उप० स० । १ नृपतौ

राजनि । “अस्मै नृपालाः किलतत्र तत्र बलिं
हरिष्यन्ति सलोकपालाः” भाग० ४ । १६ । २० नरपालादयोऽप्यत्र

नृपावर्त्त न० नृप इवावर्त्तते आ--वृत--अच् । राजावर्त्ते

मणिभेदे राजनि० ।

नृपासन न० । राज्ञो भद्रासने सिंहासने मण्यादिरचिते आसनभेदे अमरः ।

नृपाह्वय पु० नृपमाह्वयति गन्केन आ + ह्वे--श ।

राजपलाण्डौ राजनि० ।

नृपीट न० उदके निघण्टु कृपीटमित्यत्र पाठान्तरम् ।

नृपीति स्त्री पा--रक्षणे भावे किन् आत ईत्त्वम् ६ त० ।

१ मनुष्यरक्षणे । “अनाधृष्टो नृपीतये” ऋ० ७ । १५ । १४ ।
कर्त्तरि क्तिच् । २ मनुष्यरक्षके त्रि० “वरूथे अघ्नतो
नृपीतौ” ७ । २० । ८ “नृपीतौ नृणां रक्षके” भा० ।

नृपोचित पु० नृपेषु उचितः । १ राजमाषे २ राजयोग्ये

त्रि० राजनि० ।

नृभोजा त्रि० नभसि जायते जन--विट् ङा । आकाशजाते

“नभोजाः पृष्ठं हर्य्यतस्य दर्शि” ऋ० १० । १२३ । २ नभो
जस् शब्दकल्पनं प्रामादिकम् ।

नृमणस् त्रि० नृषु यजमानेषु मनो यस्य “छन्दस्यृदवग्र-

हात्” पा० णत्वम् । रक्षितव्ययजमानेषु अनुग्राहक
वुद्धियुक्ते इन्द्रादौ देवे “त्वं पिप्रोर्नृमणः प्रारुजः
पुरः” ऋ० १ । ५१ । ५ नृणां मनोयत्र णत्वम् । २ धने नृम्ण
शब्दे दृवत्रम् । ३ प्लक्षद्वीपस्थे महानदीभेदे स्त्री
आवन्तः “अरुणा नृमणाङ्गिरसी सावित्री सुभ्राता
ऋतन्मरा सत्यम्भरेति महानद्यः” भाग० ५ । २० । ६
पृष्ठ ४१४३

नृमिथुन न० ६ त० । मनुष्यस्य स्त्रीपुरुषयुग्मे । “मत्स्यौ

घटी नृमिथुनं सगदं सवीणम्” वृहज्जा० मिथुनराशि-
स्वरूपोक्तौ । नृयुग्मादयोऽप्यत्र । “उच्चं नृयुम्भ घटभं
त्रिकोणम्” ज्योति० त० ।

नृमेध पु० ना मिध्यतेऽत्र मिध--आधारे घञ् । पुरुषमेधे

१ यज्ञभेदे । तद्विधिः यजु० ३० अ० दृश्यः । २ ऋषिभेदे
“नृमेधं प्रजयासृजत्सम्” ऋ० १० ८० १३ “नृमेधमेत-
न्नामानमृषिम्” भा० ।

नृम्ण न० नृभिर्म्नायतेऽभ्यस्यते उपार्जयितुम् म्ना--घञर्थे--क

“छन्दस्यृदवग्रहात्” पा० णत्वम् । धने निघण्टुः ।
“अस्मभ्यं नृम्णमाभरास्मभ्यं नृमणस्यसे” ऋ० ५ । ३८४ ।
नृमणं धनम् । नृमणस्यसे धनसिच्छसि” भा० नमणस् +
क्यच् ।

नृवज्ञ पु० नुर्नरार्थो यज्ञः । प्रत्यहं गृहस्थकर्त्तव्यवञ्चयज्ञा-

न्तर्गते अतिथिपूजनरूपे यज्ञे “अध्यापनं ब्रह्मयज्ञः
पिवृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भोतो नृयज्ञो-
ऽतिथिपूजनम् । पञ्चैतान् यो महायज्ञान् न
हापयति शक्तितः” “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्वदा ।
नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत्” इति च मनुः ।

नृवत् त्रि० ना--परिचारकादिरस्त्यस्य मतुप् वेदे मस्य वः

लोके तु न वः नृमदित्येव । परिचारकनरयुक्ते
“भरद्वाजे नृवत इन्द्र! सूरीन् दिवि” ऋ० ६१७१४

नृवराह पु० ना चासौ वराहश्च । अंशाभ्यां मनुष्यवराहाकृतौ

भगवदवतारभेदे “दैत्यस्ततोऽसौ नृवराहमाहवे निपा-
तयामास रुषा ज्वलन्तीम् । शक्तिं यथा विद्युतभाशु कुञ्जे
प्रयर्षमाणोऽपि गिरिं सुमेघः । स हन्यमानो गदया-
ऽप्रमेयः प्रोवाच दैत्यं नृवराहमूर्त्तिः । प्रजापतेः सेतुमिमं
निहत्य व्रजेच्च कः स्वस्ति यथा सुरेन्द्र!” अग्निपु० ।
“नृवराहस्य वसतिर्महर्ल्लोके प्रतिष्ठिता । नृसिंहस्य तथा
प्रोक्ता जनलोके महात्मनः” । सएव वलेर्द्वारी यथा
“शौकरं रूपमास्थाय द्वार्यस्य च दुरात्मनः ।
भविष्यामि न सन्देहो व्रज शक्र! त्वरान्वितः” पाद्मे
सृष्टिखण्डे २८ अ० ।

नृवाहन पु० ना वाहनमस्य । १ नरवाहने कुवेरे नुर्नेतुर्वा-

हनम् “छन्दस्यृदवग्रहात्” पा० वेदे णत्वम् । २ नेतुर्वा-
हने “अर्वाञ्चमद्य यय्यं नृवाहणम्” ऋ० २३७५

नृवाहस् पु० नृन् वहति वह--वेदे असुन् णिच्च । मनुष्य-

वाहके “शोणा धृष्णू नृवाहसा” ऋ० १६२

नृशंस त्रि० नॄन् शंसति शन्सु--हिंसायाम् अण् । १ घातुके

क्रूरे अमरः २ परद्रोहिणि च “भगो नृशंस! उर्वन्तरि-
क्षम्” ऋ० ० । ५ । १५ “इतरेषु (विवाहेषु) तु शिष्टेषु
नृशंसानृतवादिनम्” मनुः ।

नृशृङ्ग न० नुः शृङ्गम् । अलीकपदार्थे नरस्य शृङ्गाभावात्

अयोग्यत्वेऽपि अलीकत्वविवक्षायामस्य साधुत्वम् “नास-
दुदुत्पादो नृशृङ्गवत्” सां० सू० “नरशृङ्गतुल्यस्यासत
उत्पादो न सम्भवतीति” प्र० भा० ।

नृषद् पु० नरि पुरुषे अन्तर्यामितया सीदति सद--क्विप् वेदे

षत्वम् । १ परमात्मनि २ कण्वर्षेः पितरि ऋषिभेदे
“उत कण्वं नृषदः पुत्रमाहुः” ऋ० १० । ३१ । ११३ मनुष्य-
स्थायिनि च “ध्रुवसदं त्वा नृषदं मनःसदम्” यजु० ९ । २ ।

नृषदन न० नरः नेतारः ऋत्विजः तेषाम् सदनम् वेदे

षत्वम् । यज्ञगृहे “समृतौ रण्वा नरो नृषदने” ऋ०
५७२ “नृषदने यागगृहे” भा० ।

नृसिंह पु० ना चासौ सिंहश्च । अंशाभ्यां मनुष्यसिंहाकृति-

युक्ते १ भगवतोऽवतारभेदे “सिंहस्य कृत्वा वदनं मुरारिः
सदा करालञ्च सुरक्तनेत्रम् । अर्द्धं वपुर्वै मनुजस्य कृत्वा
ययौ सभां दैत्यपतेः पुरस्तात्” अग्निपु० । २ रतिबन्धभेदे
तस्य लक्षणं यथा “पादौ संपीड्य योनौ च हठाल्लिङ्ग-
प्रवेशनम् । हस्तयोर्वेष्टयेद्गात्रं वन्धो नृसिंहसंज्ञकः”
रतिम० । ना सिंह इव उपमितसमासः । ३ पुरुषश्रेष्ठे च

नृसिंहचतुर्दशी स्त्री नृसिंहस्याविर्भावदिनं चतुर्दशी शा०

त० । वैशाखशुक्लचतुर्दश्याम् । आगमे “वैशाखे शुक्लपक्षे
च चतुर्दश्यां महातिथौ । सायं प्रह्लादधिक्कारमसहि-
ष्णुः परोहरिः । सद्यः कटकटाशब्दविस्मापितसभाजनः ।
लीलया स्तम्भगर्भान्तादुद्भूतः शब्दभीषणः । नृहरेरव-
तारात्तां यत्नतः समुपोषयेत् । महापुण्यतमायाञ्च सायं
विष्णुं प्रपूजयेत्” । वृहन्नारसिंहे “वैशाखशुक्लपक्षस्य
चतुर्दश्यां समाचरेत् । मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणा-
शनम्” किञ्च “स्वातीनक्षत्रयोगे तु शनिवारे हि
मद्व्रतम् । सिद्धियोगस्य योगे च लभ्यते दैवयोगतः ।
सर्वैरेतैस्तु संयुक्तैर्हत्याकोटिविनाशनम् । केवलञ्च प्रक-
र्त्तव्यं मद्दिनं फलकाङ्क्षिभिः । वैष्णवैर्न तु कर्त्तव्या
स्मरविद्धा चतुर्दशी” । तत्र व्रतनित्यत्वादि वृहन्नरसिं-
हपुराणे “वर्षे वर्षे तु कर्त्तव्यं मम सन्तुष्टिकारणम् ।
महागुह्यमिदं श्रेष्ठं मानवैर्भवभीरुभिः” किञ्च “विज्ञाय
मद्दिनं यस्तु लङ्घयेत् स तु पापभाक् । एवं ज्ञात्वा प्रक-
पृष्ठ ४१४४
र्त्तव्यं मद्दिने व्रतमुत्तमम् । अन्यथा नरकं याति
यावच्चन्द्रदिवाकरौ” तत्राधिकारिनिर्णयः तत्रैव “सर्वेषा-
मेव लोकानामधिकारोऽस्ति मद्व्रते । मद्भक्तैस्तु विशे-
षेण प्रणेयं मत्परायणैः” ।

नृसिंहपुराण न० उपपुराणभेदे उपपुराणशब्दे दृश्यम् ।

नृसिंहवन न० वृ० सं० १६ अ० कूर्मविभागे उक्ते पश्चिमोत्तर-

दिक्स्थिते देशभेदे कूर्मविभागशब्दे दृश्यम् ।

नृसेन(ना) न० स्त्री नॄणां सेना “विभाषा सेनेत्यादि” पा० वा

क्लीवता । बहुमनुष्यसेनायाम् ।

नृसोम पु० ना सोम इव । १ मनुजश्रेष्ठे ३ सोमोद्भवायाः

सरितो नृसोमः” रघुः ।

नृहरि पु० ना चासौ हरिश्च । नरसिंहे भगवदवतारभेदे

“नृहरिवामनजामदग्न्यः” मुग्धवो० ।

नॄ नीतौ क्र्यादि० प्वादि० पर० सक० सेट् । नृणाति

अनारीत् अणोपदेशत्वान्न णत्वम् कविकल्पद्रुमः पाणिनि-
मते नृ न ये इति ह्रस्वान्तएव पाठः । तस्यैव णोपदेश
पर्युदासता ।

नॄ नये भ्वा० पर० सक० सेट् । नरति अनारीत् । घटा० णिच् नरयति । न णत्वम् ।

नेउ(डु)ली स्त्री हठयोगभेदे तत्प्रकारस्तु रुद्रयामले

“धौतीयोगानन्तरं हि ने(उ)डुलीकर्म समाचरेत् ।
ने(उ)डुलीयोगमात्रेण आसने ने(उ)डुलोपमः ।
नेउ(डु)लीसाधनादेव चिरजीवी निरामयः । तत्कारणं
प्रवक्ष्यामि सावधनावधारय । भुक्त्वा मुद्गान्नपक्वञ्च वारैकं
प्रतिचालयेत् । प्रतिचालयेत् स्वोदरञ्च कठिनाशाविव-
र्जितः । पुनःपुनश्चालनञ्च कुर्य्यात् सोदरमध्यकम् ।
कुलालचक्रवत् कुर्य्यात् भ्रमणञ्चोदरस्य च । सर्वाङ्गचा-
लनादेव कुण्डलीशक्तिचालनम् । चालनात् कुण्डली-
देव्याश्चेतना सा भवेत् प्रभो! । एतस्यानन्तरं देव! क्षालनं
परिकीर्त्तितम् । नाडीनां क्षालनादेव सर्वविद्यानिधिर्भ-
वेत् । वायुसिद्धिर्भवेत्तस्य पञ्चभूतसुसिद्धिभाक् । मुण्डा-
सनं हि सर्वत्र सर्वदा कारयेद्बुधः । बद्ध्वपद्मासनं कृत्वा
अधोहस्ते जपं चरेत् । तदा त्रिदिनमाकर्त्तुं समर्थो
मुण्डिकासनम् । तदा हि सर्वनाड्यश्च वशीभूता न
संशयः । नाडीक्षालनयोगेन सिद्धिमाप्नोति साधकः ।
नेडु(उ)लीं यो न जानाति स कथं कर्त्तुमुद्यतः । स
धीरो मानसचरोमतिमान् स जितेन्द्रियः । यो
नेउ(डु)लीयोगसारं कर्त्तुमुद्यमपारगः । स चावश्यं क्षा-
लनञ्च कुर्य्यन्नाड्यादिसाधनम् । नेउ(ड़ु)लीयोगमार्गेण
नाडीक्षालनतत्परः । भवत्येव महाकाल! राजराजेश्वरो
यथा । केवलं प्राणवायोश्च धारणात् क्षालनं भवेत् ।
विना क्षालनयोगेन देहशुद्धिर्न जायते । क्षालनं नाडि-
कादीनां कफपित्तादिनाशनम् । करोति यत्नतो योगी
मुण्डासनानिलाशनात् । वायुग्रहणमेवं हि नेडु(उ)-
लीवशकालके । न कुर्य्यात् केवलं नाथ! अन्यकाले
सदाचरेत् । यावन्नेउ(डु)लीं न जानाति तावद्वायुं न
संपिबेत् । बहुतरं न संग्राह्यं वायोरोगमलादिकृत् ।
केवलं श्वासगणनं यावन्नेउ(डु)ली न सिद्ध्यति । पञ्चा-
रामसाधनाच्च पञ्चवायुवशो भवेत्” ।

नेजक पु० निज--शुद्धौ ण्वुल् । १ रजके “शाल्मलीफलके

श्लक्ष्णे नेनिज्यात् नेजकः शनैः । न च वासांसि वासो-
भिर्निर्हरेन्न च वासयेत्” मनुना तत्कृत्यमुक्तम् । २
शोधकमात्रे त्रि० ।

नेजन न० निज्यतेऽत्र निज--आधारे ल्युट् । १ नेजकालये

“राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव” भा० द्रो०
१८८ अ० । भावे ल्युट् । २ शोधने

नेत(द) अव्य० नी--विच् बा० तुक् नेद--विच् वा चादि०

१ शङ्कायां २ प्रतिषेधे ३ समुच्चये च मनोरमा । न
इत् । ४ नैवेत्यर्थे । “अन्यो नेत् सूरिरोहते” ऋ०
८ । ५ । ९ । “नेत्त्वदपचेतयातै” यजु० २ । १७

नेतीयोग पु० हठयोगभेदे सच रुद्रयामले उत्तरखण्डे उक्तो

यथा “नेतीयोगविधानानि शृणुष्व वीरपूजित! । येन
सर्वमस्तकस्थकफानां दाहां भवेत् । सूक्ष्मसूत्रं दृढ़तरं
प्रदद्यान्नासिकाबिले । मुखरन्ध्रे समानीय सन्धानेन
समाश्रयेत् । पुनःपुनः सदा योगी यातायातेन घर्षयेत् ।
क्रमेण वर्द्धनं कुर्य्यात् सूत्रस्य परमेश्वर! । नेतीयोगेन
नासाया रन्ध्रं निर्मलकं भवेत् । वायोर्गमनकाले तु
महायुष्मानिति प्रभो!” ।

नेतृ त्रि० नी--तृच् । १ प्रभौ अमरः २ निर्वाहके ३ नायके

४ प्रवर्त्तके ५ प्रापके च स्त्रियां ङीप् । ६ निम्बवृक्षे पु०
राजनि० “इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि
मत्कृतात्” भा० व० ६६ अ० “स नेता शासिता च नः” मनुः ।
७ विष्णौ पु० “न्यायो नेता समीरणः” विष्णुस०
“जगद्यन्त्रनिर्वाहकोनेता” भा० । नक्षत्रवाचकात् परमेतस्मात्
बहु० अच्समा० । मृगोनेता यस्याः मृगनेत्रा रात्रिः ।
यस्यां रात्रौ आरम्भावधिशेषपर्य्यन्तं मृगशीर्षनक्षत्रस्य
दर्शनं तस्यारात्रेर्मृगस्य नेतृतुल्यत्वात् तथात्वम् ।
पृष्ठ ४१४५

नेत्र न० नयति नीयते वाऽनेन ष्ट्रन् । १ मन्थनदामनि २ वस्त्र-

भेदे ३ वृक्षमूले ४ रथे ५ जटायाम् ६ नाड्याम् मेदि० ।
७ चक्षुषि अमरः । ८ प्रापयितरि ९ नयनसाधने
१० प्रवर्त्तके च त्रि० । ११ वस्तिशलाकायां राजनि० ।
१२ चक्षुर्गोलकावस्थिते वह्निदेवताके तैजसे इन्द्रियभेदे
न० “विजित्य नेत्रप्रतिघातिनीं प्रभाम्” कुमा० तत्र
अग्निमन्थनदामनि “व्यामप्रमाणं नेत्रं स्यात् प्रमथ्यस्तेन
पावकः” कर्मप्रदीपे कात्या० “मन्थानं मन्दरं कृत्वा
तथा नेत्रञ्च वासुकिम्” भा० आ० १८ अ० । चक्षुषि “नेत्रे
दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः” सा० द० । १२
हैहयनृपपुत्रभेदे पु० “धर्मस्तु हैहयसुतो नेत्रः कुन्तिपिता
ततः” भाग० ९ । १३ । ६६ । १४ द्वित्वसंख्यायां न० “मुनिषड्-
यमनेत्राणि (२२६७) सू० सि० ज्यार्द्धपिण्डोक्तौ ।
वस्तिशलाकामानादि सुश्रुते उक्तं यथा “अथातो नेत्र-
वस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः” इत्यु-
पक्रमे सप्रपञ्चमुक्त्वा नेत्रप्रमाणादि उक्तं यथा
“पञ्चविंशतेरूर्द्ध्वं द्वादशाङ्गुलं मूलेऽङ्गुष्ठोदरपरीणाहमग्रे
कनिष्ठिकोदरषरीणाहमग्रे त्यङ्गुलसन्निविष्टकर्णिकं
गृध्रवत्रनाडीतुल्यप्रवेशं कोलास्थिमात्रं छिद्रं क्लिन्नकला-
यमात्रं छिद्रमित्येके । सर्वाणि मूले वस्तिनिबन्धनार्थं
द्विकर्णिकानि । आस्थापनद्रव्यप्रमाणं तु विहिता द्वादश-
पसृतयः । सप्ततेस्तूर्द्धं नेत्रप्रमाणमेतदेव द्रव्यप्रमाणन्तु
द्विरष्टवर्षवत् । तत्र नेत्राणि सुवर्णरजतताम्रायोरीति-
दन्तशृङ्गमणितरुसारमयाणि श्लक्ष्णानि दृढ़ानि गोपु-
च्छाकृतीन्यृजूनि गुटिकामुखानि । वस्तयश्चावृद्धानां
मृदवो नातिबहुला दृढ़ाः प्रमाणवन्तो गोमहिषवराहा-
जोरभ्राणाम्” । “नेत्रालाभे हिता नाड़ी नलवंशास्थि-
सम्भवा । वस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं
घनम्” । वस्तिशलाकारूपं च उत्तरवस्तिशब्दे १०९८०
पृ० सुश्रुतोक्तं दृश्यम् । “चतुर्दशाङ्गुलं नेत्रमातुराङ्गु-
लमानतः” इत्यादिनोक्तं दृश्यम् । “कृत्वा सूक्ष्मेण
नेत्रेण चक्रतैलेन तर्पयेत्” सुश्रुतः ।

नेत्रकोष पु० ६ त० । नेत्रपटले

नेत्रच्छद पु० नेत्रे छाद्येते अनेन छद + णिच्--क ह्रस्वः ।

नेत्रपिधायके चर्ममये नेत्रपुटे (चकेरपाता) अमरः ।

नेत्रपर्य्यन्त पु० नेत्रयोः पर्यन्तः कोणसीमा । १ अपाङ्गे

राजनि० । २ नेत्रावधिके त्रि० ।

नेत्रपाक पु० नेत्ररोगभेदे तल्लणणं सुश्रुते उक्तं यथा

“कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः । दाहसंहर्ष
ताम्रत्वशोफनिस्तोदगौरवैः । जुष्टो मुहुः स्रवेद्वास्र
मुष्णशीताम्बुपिच्छिलम् । संरम्भी पच्यते यश्च नेत्रपाकः
स शोफजः । शोफहीनानि लिङ्गानि नेत्रपाके त्वशो-
फजे । अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन् ।
हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः” ।

नेत्रपिण्ड पुंस्त्री नेत्रं पिण्ड इव यस्य । विडाले हारा०

स्त्रियां जातित्वात् ङीष् । ६ त० । नेत्रगोलके न० ।

नेत्रपुष्कर न० नेत्रस्य पुष्करं जलं यस्याः ५ ब० । रुद्रजटायां

राजनि० । तत्सेवने हि नेत्रात् जलं स्रवतीति तस्यास्त-
थात्वम् ।

नेत्रप्रबन्ध पु० नेत्रे प्रबध्येते अनेन प्र + बन्ध--करणे ल्युट् ।

नेत्रपुटे “कर्णस्रोतः सुकुमारकं च नेत्रप्रबन्धमयम्”
वृ० सं० ५८ अ० ।

नेत्रबन्ध पु० ६ त० । पृष्ठतोऽलक्षितेनागत्य करतलाभ्यां

नेत्रयोः पिधानरूपे बालानां क्रीड़ाभेदे “अदृश्यनेत्र-
बन्धाद्यैः क्वचिन्मृगखगेहया” भा० १० । १८ । ८ रामकृष्ण-
योर्बालक्रीडावर्णने ।

नेत्रमल न० ६ त० । चक्षुर्मले दूषिकायाम् (पिचुटि) अमरः ।

नेत्रमीला(ना) स्त्री नेत्रयोः मीला मुद्रणं यस्याः ५ ब०

पृषो० वा लस्य नः, लान्तपाठः साधुः । यवतिक्तायां
राजनि० । तत्सेवने हि नेत्रयोर्मीलनं जायते इति
तस्यास्तथात्वम् ।

नेत्रमुष् त्रि० नेत्रं तत्प्रचारं मुष्णाति मुष--क्विप् । दृष्टे-

रुपघातके दृष्टिप्रचारनाशके “वहन्ति ये नेत्रमुषं दिव्यं
माथामयं रथम्” भा० व० ४२ अ० ।

नेत्रयोनि पु० नेत्राणि योनय इवास्य । १ इन्द्रे शब्दमाला ।

नेत्रमत्रिनेत्रं योनिरुत्पत्तिस्थानं यस्य । २ चन्द्रे च

नेत्ररञ्जन न० नेत्रे रज्येते अनेन रन्ज--करणे ल्युट् ।

कज्जले “एष वा कथितो धूपः शृणुतं नेत्ररञ्जनम्”
कालिकापु० ६१ अ० ।

नेत्ररुज् स्त्री ६ त० । नेत्ररोगे

नेत्ररोग पु० ६ त० । नयनस्य रोगभेदे तन्निदानादि माधव

करेणोक्तं यथा “उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात्
स्वप्नविपर्य्ययाच्च । स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाता-
द्वमनातियोगात् । द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्र-
वातक्रमनिग्रहाच्च । प्रसक्तसंरोदनशोककोपाच्छिरो-
ऽभिघाताटतिमद्यपानात् । तथा ऋतूनाञ्च विपर्यये-
पृष्ठ ४१४६
क्लेशाभिघातादतिमैथुनाच्च । वास्पग्रहात् सूक्ष्मनिरी-
क्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः । वातात्
पित्तात् कफाद्रक्तादभिस्यन्दश्चतुर्विधः । प्रायेण जायते
घोरः सर्वनेत्रामयाकरः” । तस्य सम्प्राप्तिर्यथा “निस्तो-
दनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः । विशु-
ष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ।
दाहप्रपाकौ शिशिराभिबन्धात् धूमायनं वास्पसमुच्छ-
यश्च । उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने
भवन्ति । उष्णाभिवन्धो गुरुताक्षिशोथः कण्डूप
देहावतिशीतता च । स्रावो बहुः पिच्छिल एव चाषि
कफाभिपन्ने नयने भवन्ति । ताम्राश्रुता लोहितनेत्रता
च बाह्यः समन्तादतिलोहितश्च । वित्तस्य लिङ्गानि च
यानि तानि रक्ताभिपन्ने नयने भवन्ति” ।
नेत्ररोगहेतुदोष उक्तो वैद्यके
“नेत्रं स्यात् पवनाद्रक्षं घूम्रवर्णं तथाऽरुणम् ।
कोटरान्तप्रविष्टञ्च तथास्तञ्च विलोकनम् । हरिद्रा-
खण्डवर्णञ्च रक्तं वा हरितं तथा । दीपद्वेषि सदाहञ्च
नेत्रं स्यात् पित्तकोपतः । चक्षुर्बलासबाहुल्यात् स्निग्धं
स्यात् सलिलप्लुतम् । तथा धवलवर्णञ्च ज्योतिर्हीनं
बलान्वितम् । नेत्रं द्विदोषबाहुल्यात् स्याद् दोषद्वय
लक्षणम् । त्रिदोषलिङ्गं सन्धेयं तन्मारयति रोगि-
णम् । त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत् ।
त्रिलिङ्गं सलिलस्रावि प्रायेणोन्मीलयत्यपि” । नेत्ररोग-
भेदाश्च सुश्रुते उत्तरतन्त्रे अष्टभिरध्यायैः सलक्षणमुक्ता-
स्तत्रैव दृश्याः । “त्रपुहारी च पुरुषो जायते नेत्र-
रोगवान्” । “मधुहारी च पुरुषो जायते नेत्ररोगवान्”
शाता० त्रपुमधुहरणेन तद्रोगवान् जायते” इत्युक्तम् ।

नेत्ररोगहन् पु० नेत्ररोगं हन्ति हन--क्विप् । वृश्चिकाली-

वृणे राजनि० तस्य हि नेत्ररोगनाशकत्वं वैद्यके प्रसिद्धम्

नेत्ररोमन् न० ६ त० । नेश्रपक्ष्मणि हेम० ।

नेत्रवस्त्र न० नेत्रयोर्वस्त्रमिवाच्छादकम् । (चक्षेरपाता)

नेत्रच्छदे ।

नेत्रविष् स्त्री ६ त० । नेत्रमले (पिँचुटि) “नेत्रविट् चक्षुषः

स्नेहो धातूनां क्रमशो मलाः” सुश्रुतः ।

नेत्रविष पुंस्त्री नेत्रे विषं यस्य । दिव्ये सर्पभेदे “दृष्टिनि-

श्वासविषा दिव्याः सर्पाः” सुश्रुतः । “आशीविषान्
नेत्रविषान् कोपयेन्न च पण्डितः” भा० स० ६२ अ० ।

नेत्रस्तम्भ पु० ६ त० । नेत्रयोः स्तम्भे नयनोन्मीलनादिव्यापा-

रराहित्ये “नेत्रस्तम्भं निमेषञ्च तृष्णां कासं प्रजानरम् ।
लभते दन्तचालञ्च तांस्तानन्यानुपद्रवान्” सुश्रुतः ।

नेत्रान्त पु० ६ त० । अपाङ्गदेशे “नेत्रान्तपादकरताल्वधरोष्ठ

जिह्वाः रक्ता नखाश्च खलु सप्त सुखावहानि” वृ० सं० ६८ अ०

नेत्राभि(स्य)ष्यन्द पु० ६ त० । नेत्रस्यं रोगभेदे अभिस्यन्द-

शब्दे ३०४ पृ० दृश्यम् । “नेत्राभिष्यन्दप्रभृतयोमज्ज
दोषजाः” सुश्रुतः । स च संक्रामिरोगः यथाह सुश्रुते
“प्रसङ्गाद्गात्रसंस्पर्शात् निःश्वासात् सह भोजनात् । सह
शय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् । कुष्ठं ज्वरश्च
शोथश्च नेत्राभिष्यन्द एव च । औपसर्गिकरोगाश्च सक्रा-
मन्ति नरान्नरम्” ।

नेत्रामय पु० ६ त० । नयनरोगे “वातात् पित्तात् कफाद्रक्ता

दभिष्यन्दश्चतुर्बिधः । प्रायेण जायते घोरः सर्वनेत्रा-
मयाकरः” माधवनि० ।

नेत्राम्बु न० ६ त० । चक्षुर्जले अश्रुणि अमरः ।

नेत्रारि पु० ६ त० । मेहुण्डवृक्षे राजनि० ।

नेत्री स्त्री नी--ष्ट्रन् ङीष् । १ लक्ष्म्यां २ नाड्यां च शब्दर० ।

३ नद्यां मेदि० । नी--तृन् स्त्रियां ङीप् । ४ प्रापयित्र्यां
स्त्रियां स्त्री ।

नेत्रोपमफल पु० नेत्रे उपसा यस्य तादृशं फलमस्य । (वादाम)

वृक्षभेदे भावप्र०

नेत्रौषध न० ६ त० । १ पुष्पकासीसे राजनि० २ नेत्रयोरौषधमात्रे च

नेत्रौष(धि)धी स्त्री ६ त० वा ङीप् । अजशृङ्ग्याम्

(गाड़रशिङ्गा) रत्नमाला ।

नेद गतौ भ्रा० प० सक० सेट् । गतिकर्मसु निघण्टुः ।

नेदति अनेदीत् । निनेद “या हुता उज्ज्वलन्ये या
हुता अतिनेदन्ते” वृ० उप० ।

नेदिष्ठ त्रि० अतिशयेनान्तिकः ईयसुन् नेदादशः । १ अतिशय-

निकटस्थे “नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते”
ऋ० १ १३२ १ २ निपुणे त्रि० राजनि० । ३ अङ्कोटवृक्षे
पु० जटाध० ।

नेदिष्ठिन् पु० नेदिष्टं जन्मतः सन्निकृष्टस्थानं विद्यतेऽस्य

इनि । स्वोदरम्रातरि “म्रियेत चेन्निर्मन्थ्येन दग्ध्वा
शामित्राद्वास्थीन्युपनह्य नेदिष्ठिनमुपदीक्ष्य तेन सह
यजेरन्” कात्या० श्रौ० २५१३२८ “मृतं यजमानं निर्म-
न्थ्येन शामित्रेण वा दग्ध्वास्थीन्युपनह्य तस्य यो
नेदिष्ठी स्वोभ्राता स्यात् तं दीक्षयित्वा तेन सह
यजेरन्” कर्कः ।
पृष्ठ ४१४७

नेदीयस् त्रि० अतिशयेनान्तिकः ईयसुन् नेदादेशः । अत्यन्त-

समीपस्थे स्त्रियां ङीप् ।

नेप पु० नी--प । १ पुरोहिते उज्ज्वल० । २ उदके निघण्टुः

नेपथ्य न० नी--विच् ने नेता तस्य पथ्यम् । १ भूषणे अमरः

२ वेशे ३ वेशस्थाने नाटकादेरभिनयार्थसज्जाभूमौ च
मेदि० “न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ” सा० द०
“उदारनेपथ्यभृतां स मध्ये” रघुः “नेपथ्योक्तं श्रुसं
यत्र त्वाकाशवचनं तथा” सा० द० ।

नेपाल पु० देशभेदे “नेपालभृङ्गिमध्यकच्छसुराष्ट्रमद्रान्”

वृ० सं० ४ अ० “नेपालादागतोऽयं नवकम्बलवत्त्वात्”
छलोदाहरणे विश्वनाथः “जटेश्वरं समारभ्य योगेशान्तं
महेश्वरि! । नेपालदेशो देवेशि! साधकानां सुसिद्धिदः”
शक्तिसङ्गमत० । “नेपाले माहिषं भांसम्” अनाचारोक्तौ

नेपालजा स्त्री नेपाले देशे जायते जन--ड ७ त० । नेपाल-

जातायां मनःशिलायाम् “नेपालजामरिचशङ्खरसा-
ञ्जनानि” सुश्रुतः । जन--कर्त्तरि क्त ७ त० । नेपा-
लजाताप्यत्र । “मरिचं च शुक्लं नेपालजाता च
समप्रमाणा” सुश्रुतः ।

नेपालकम्बल पु० ६ त० । कुथाख्ये चित्रकम्बले शब्दार्थचि० ।

नेपालनिम्ब पु० ६ त० । ज्वरान्तके तृणनिम्बे नेपाल-

जाते निम्बभेदे राजनि० ।

नेपालमूलक न० हस्तिकन्दसदृशे मूलभेदे राजनि० ।

नेपालिका स्त्री नेपाल उत्पत्तिस्थानत्वेनास्त्यस्याः ठन् ।

मनःशिलायां राजनि० ।

नेम पु० नी--मन् । १ काले २ अवधौ ३ खण्डे ४ प्राकारे

५ कैतवे च मेदि० । ६ अर्द्धे ७ गर्त्ते च हेमच० । ८
नाट्यादौ अन्यार्थे च शब्दरत्ना० । ९ सायंकाले १० मूले
च ११ ऊर्द्धे च सुमूतिः । अर्द्धार्थेऽस्य सर्वनामता ।
नेमस्मै नेमस्मिन् इत्यादि । जसि वा, नेमे नेमाः ।
१२ अन्ने १३ दिश उत्तरवर्त्तिनि च निघण्टुः । “हितं
जनिम नेममुद्यतम्” ऋ० ९६८५ “नेममर्द्धम्” भा०
“आयन् पचाति नेमो नहि पक्षदर्धः” ऋ० १०२७१८

नेमधित त्रि० नेमं हितः नेम + धा--क्त “सुधितनेम-

धितेत्यादिना” पा० निपा० । अर्द्धहिते “स्वर्षाता यद्ध्व-
यामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर!” ऋ० ६३३४
भावे क्तिन् । नेमधिति । अर्द्धधाने स्त्री । नेमं धीयतेऽत्र
धा--क्तिन् निपा० । संग्रामे निघण्ठुः ।

नेमन् त्रि० नी--बा० मनिन् । प्रापके “तं गूर्त्तयो नेमान्निषः”

ऋ० १५६२ “इष गतौ बा० क्विप् नेमानः प्रापका इषो
येषाम्” भा० । छान्दसो नलोपाभावः ।

नेमि पु० नी--मि । १ तिनिशवृक्षे । २ कूपसमीपे रज्जुधार-

णार्थे त्रिकाकृष्टयन्त्रे ३ चक्रान्ते च (रथचक्रस्य भूमि-
स्पर्शनयोग्ये भागे) ४ कूपान्तिकस्थे--समानस्थलभागे स्त्री
अमरः वा ङीप् । ५ जिनभेदे पु० हेमच० । ६ वज्रे पु०
निघण्टुः “नियन्तुर्नेमिवृत्तयः” रघुः “आनेमिमग्नैः
शितिकण्ठपक्षः” “अपतन् द्रुतभ्रमितनेमिवृत्तयः” माघः

नेमिचक्र पु० परीक्षितनृपस्य वंश्ये भाविनृपभेदे “असीन-

कृष्णस्तस्याषि नेमिचक्रस्तु तत्सुतः । गजाह्वये हृते
नद्या कौशाम्ब्यां स निवत्स्यति” भाग० ९२२२७

नेमिन् पु० नी--बा० मिनि । तिनिशवृक्षे भरतः ।

नेयार्थता स्त्री नेयः रूढिपयोजनाभावादशक्त्याकृतो लक्ष्यार्थो

यत्र तस्य भावः । काव्यदोषभेदे “ग्राम्योऽप्रतीतसन्दिग्ध
नेयार्थनिहतार्थता” सा० द० “कमले चरणाघातं मुखं
सुमुखि! तेऽकरोत्” । अत्र चरणाघातेन निर्जितत्वं
लक्ष्यते” सा० द० । तत्र रूढिप्रयोजनयोरभावात् तथात्वम् ।

ने(नै)मिश न० नेमिः शीर्य्यतेऽत्र शॄ--वा० आधारे ड ।

नैमिशारण्ये ततः स्वार्थे अण् । नैमिशतत्रार्थे वायुपु०
यथा “एतन्मचोमयं चक्रं मया सृष्टं विसृज्यते ।
यत्रास्य शीर्य्यते नेमिः सदेशस्तपसः शुभः । इत्युक्त्वा
सूर्यसङ्काशं चक्रं सृष्ट्वा मनीमयम् । प्रणिपत्य
महादेवं विससर्ज पितामहः । तेऽपि हृष्टतरा विप्राः प्रणम्य
जगतां प्रभुम् । प्रययुस्तस्य चक्रस्य यत्र नेमिर्विशी-
र्य्यते । तद्वनं तेन विख्यातं नैमिशं भुवि पूजितम्” ।

नेष्ट त्रि० न इधम् नञर्थनशब्देन “सह सुपा” पा० स० ।

१ अनिष्टे २ तत्साधने निषिद्धे च । “अतिककुदाः
कृशदेहा नेष्टाः हीनाधिकाङ्ग्यश्च” वृ० सं० ६१ अ० ।

नेष्टु पु० निश--तुन् । लोष्टे शब्दाम्बुधिः । “यथा महार्णवे

क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति” भा० अनु० १२ अ० “नेष्टुः
पांशुपिण्डः” नीलकण्ठः ।

नेष्टृ पु० नी--तृन् नि० षुक् । ऋत्विग्भेदे उज्ज्वलद० ।

“ग्नावो नेष्टः! पिब ऋतुना” ऋ० ११५३ “समान्तरान्
ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानाम्” कात्या० ८६२१ ।

नेष्ट्र त्रि० नेष्टुरिदम् वा० अन् । नेष्टृसम्बन्धिनि “नेष्ट्रादृ-

तुभिरिष्यते” ऋ० ११५९

नैःस्व न० निः स्वस्य भावः अण् । निर्द्धनत्वे ष्यञ् नैःस्व्य अप्यत्र न० ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/नीचगृह&oldid=57794" इत्यस्माद् प्रतिप्राप्तम्