वाचस्पत्यम्/निर्माण

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४०९९

निर्माण न० निर् + मि--भावे ल्युट् । १ घटादेः २ रचनायाम् ।

“निर्माणदक्षस्य नर्मीहेतेषु” भट्टिः “निर्माणञ्च शरीरस्व
ततो धैर्य्यमवाप्नुहि” भा० व० २५१ अ० । निर्मीयतेऽनेन
करणे ल्युट् । निर्माणसाधने २ कायादौ । क्लेशकर्मवि-
पाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय सम्प्रदाय
प्रवर्त्तकः” कुसुमा० । कायस्य निर्माणसाधनत्वात्
तथात्वम् । निर्माणार्थं कायं निर्माणकायमिति हरिदासः
तत्तु न युक्तं कायाधिष्ठानस्यैव निर्माणार्थत्वेन कायस्य
तथात्वाभावात् । निर्गतो मानात् निरा० त० । ३ माना-
तीते । “पूर्वपदादिति” पा० असंज्ञायामपि आर्षे णत्वम् ।
“अनक्षत्रगणं व्योम निर्माणं घनगर्जितम्” रा० कि० ४४ अ०

निर्माल्य न० निर् + मल--ण्यत् । देवदत्ते तद्विसर्जनोत्तरमु-

च्छिष्टे द्रव्ये “अर्वाक् विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते ।
विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात्” गारुड़पु० ।
विद्यानन्दनिबन्धे “सूर्य्ये गणापतावुग्रे शाक्ते शैवेऽथ
वैष्णवे । तेजश्चण्डमथोच्छिष्टसोजमुच्छिष्टपूर्विकाम् ।
चाण्डालीं शेषिकां चण्डं विश्वक्सेनं क्रमाद्यजेत् ।
सोजो गणेशः । “हृदये च बहिर्देवीं समर्प्य विधिवत्ततः ।
निर्माल्यञ्च शुचौ देशे नैवेद्यं भक्षयेत् सुधीः” तन्त्रान्तरे
आ० त० निर्माल्यस्य धारणप्रकारादिकं निरूपितं यथा
“निर्माल्यं शिरसा धार्य्यं सर्वाङ्गे चानुलेपनम् ।
नैवेद्यञ्चोपभुञ्जीत दत्त्वा तद्भक्तिशालिने” । तद्भक्तिशालिने
विष्वक्सेनादये “उद्वास्य देवं स्वे घाम्नि तन्निवेदितमग्रतः ।
अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये” । खे धाम्नि स्वीय-
हदये उद्वास्य संस्थाप्य तथाच कालिकापुराणे
“ध्यायंस्तु मन्त्रेणानेन तत्रस्थं स्थापयेत् हृदि । तिष्ठ
देवि! परे स्थाने स्वस्थानं परमेश्वरि । यत्र ब्रह्मादयः
सर्बे सुरास्तिष्ठन्ति मे हृदि” । भविष्ये “निर्माल्यं
नोपभोक्तव्यं रुद्रस्य तपनस्य च । भक्ष्यते यदि तन्मोहान्नरके
पच्यते ध्रुवम्” । निर्माल्यमात्रे तु “उदके तरुमूले वा
निर्माल्यं तस्य संत्यजेत्” कालिकापुराणे “यो यद्देवार्च्चन-
रतः स तन्नैवेद्यभक्षकः” ब्रह्मपु० “अम्बरीष! नवं वस्त्रं
फलमन्यद्रसादिकम् । कृत्वा कृष्णोपभोग्यन्तु सदा सेव्यं
हि वैष्णवैः” तत्रैककर्त्तरि क्त्वाश्रवणात् स्वदत्तनैवेद्य-
भक्षणेऽप्यधिकार उक्तः “केवलं सौरशैवे तु वैष्णवो नैव
भक्षयेत्” । विष्णुयामले “पीत्वा पादोदकं देवि! नैवेद्यं
स्वयमुद्धरेत् । त्यजेत् पादोदकं यस्तु नैवेद्यं वा त्यजेच्च
यः । षष्टिवर्षसहस्राणि रौरवे नरके पचेत्” । उद्धरेत्
अभ्यवहरेत् । स्कन्दयामले “उद्वास्य देवं स्वे घाम्नि
तन्निवेदितमात्सनः । भक्षयेत् पापशुद्ध्यर्थं सर्वदा
साधकः प्रिये!” शिवधर्मोत्तरे रुद्रनैवेद्यभक्षणमुक्तं
यथा “अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् ।
तदन्नं स्वयमश्नीयात् तत् सर्वं विनिवेदयेत्” । “फलं
पुष्पञ्च ताम्बूलम् अन्नपानादिकञ्च यत् । अदत्त्वा-
तन्महादेव्यै न भोक्तव्यं कदाचन” । एतेन यत् पठन्ति
“अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणञ्चरेत्” इति
तदेकान्तवैष्णवपरमिति भूषणः । यत्तु “शूद्रान्नं
याजकान्नञ्च नैवेद्यञ्चापि वर्जयेत्” इति लैङ्गवचनम् । तन्नै-
वेद्यत्वेनोपकल्पितानिवेदितपरं लोभादिना भोजन-
निषेधकं वा यथोक्तं शाम्बे “नोपभुक्त्वा च नैवेद्यं
प्रयाति प्रेतयोनिषु ।” द्रय्यविशेषस्य कालभेदे
निर्माल्यतोक्ता तन्त्रसा० योगिनीतन्त्रे यथा “मणिमुक्ता
सुवर्णानि देवे दत्तानि यानि वै । न निर्माल्यं द्वाद-
णाव्दं ताम्रपात्रं तथैव च । पट्टशाटी च षण्मासं
नैवेद्यं दत्तमात्रतः । मोदकं कृषरञ्चैव मासार्द्धेन
महेश्वरि! पट्टवस्त्र त्रिमासाच्च यातयाममहः स्मृतम् ।
यावदुष्णं भवेदन्नं परमान्नं तथैव च । मस्तकं रुधिर-
ञ्चैव अहोरात्रेण पार्वति! । मुहूर्त्तन्दधि दुग्धञ्च आज्यं
यामेन शङ्करि । करवीरमहोरात्रं विल्वपत्रं तथैव
च । जवारक्तञ्च माघ्यं च निर्माल्यं सार्द्धयामके । माल्यं
वै करवीरस्य पद्मस्य विल्वजस्य च । यामार्द्धेन
महेशानि! ताम्बूलं दत्तमात्रतः । अनिर्माल्यञ्च दाड़िम्बं
तथा विल्वफलं प्रिये! । सौगन्धिकञ्च कदलीं प्रयत्नेन
नियोजयेत् । कदलीवीजपूरञ्च दुग्धपक्वं निवेदयेत् ।”
शिवनिर्माल्यधारणे विशेषः ति० त० उक्तो यथा स्कान्दे
“निर्माल्यं यो हि मद्भक्त्या शिरसा धारयिष्यति ।
अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः । नरके पच्यते
घोरे तिर्य्यग्योनौ च जायते । ब्रह्महापि शुचिर्मूत्वा
निर्माल्यं यस्तु धारयेत् । तस्य पापं महच्छीव्रं
नाशयिष्ये महाव्रते! ।” शुचिःस्नानादिनेति शेषः । एवञ्च
“स्पृष्ट्वा रुद्रस्य निर्माल्यं सवासा आप्लुतः शुचिः” इति
कालिकापुराणीयमशुचिविषयम् । अनुपनीतविषयमिति
श्रीदत्तः । बह्वृचगृह्यपरिशिष्टम् । अग्राह्यं
शिबनैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलास्पर्शात्
सर्वं याति पवित्रताम्” उदके निर्माल्यत्यागश्च नङ्गेतर-
परः । यथोक्तं व्रह्मपु० “गङ्गां पुण्यजलां प्राप्य
चतुर्दश विवर्जयेत् । शौचमाचमनं केशं निर्माल्यं
मलघर्षणम्” । २ पृक्कायां स्त्री शब्दर० ।
पृष्ठ ४१००

निर्मित त्रि० निर् + मा--क्त । कृतरचने “निजनिर्मितकारि-

कावलीम्” सि० मु० ।

निर्मिति स्त्री निर् + मा--भावे क्तिन् । निर्माणे करणे ।

“नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति”
काव्यप्र० ।

निर्मुक्त पु० निर् + मुच--क्त । १ मुक्तकञ्चुके सर्पे (खोलसछाड़ा

साप) निःशेषेण मुक्तः । निष्परिग्रहे २ सङ्गरहिते
३ बन्धशून्ये च अमरः । ४ वियुक्ते मेदि० “हिमनिर्मुक्त-
योर्योगे चित्राचन्द्रमसोरिव” रघुः ।

निर्मुट त० निर्गतं मुटं यस्मात् प्रा० ब० । १ करशून्यहट्टे (मुटि-

शून्यहाट) हारा० । २ वनस्पतौ पु० त्रिका० ३ सूर्य्ये
४ खर्परे पु० हारा० ।

निर्मूल त्रि० निर्गतं मूलमस्य प्रा० व० । मूलरहिते “आरुह्य

वृक्षान् निर्मूलान् गजः परितुदन्निव” भा० उ० ७४ अ० ।

निर्मूलन न० निमूलं + कृतौ णिच--भावे ल्युट् । उत्पाटने

निर्मृजस् अव्य० निर् + मृज--“ईश्वरे तोसुन्कसुनौ” पा०

तुमर्थे कसुन् । निर्मार्ष्टुमित्यर्थे “श्लक्ष्णेव तु वा ईश्वराः
पशून्निर्मृजः” ताण्ड्यब्रा० २२३ । “निर्माष्टुमपगमयितुं
विनाशयितुमीश्वराः समर्थाः” भा० ।

निर्मृष्ट त्रि० निर् + मृज--क्त । प्रोञ्छिते । “निर्मृष्टरागो-

ऽधरः” सा० द० ।

निर्मोक पु० निर् + मुच्--घञ् । १ सर्पकञ्चुके (खोलस) २ मोचने

३ सन्नाहे ४ आकाशे च मेदि० । “निर्मोकपट्यः फणिभि-
र्विमुक्ताः” रघुः । ४ सावर्णिमनोःपुत्रभेदे पु० । “निर्मोक-
विरजस्काद्याः सावर्णेस्तनया नृप!” भाग० ८१३६ अत्र
निर्मोहेति पाठान्तरं तत्रार्थे ।

निर्मोक्ष पु० निःशेषेण मोक्षः प्रा० स० । निःशेषेण मोक्षे

“अनिर्मोक्षप्रसङ्गः” सा० प्र० भा० ।

निर्मोह त्रि० निर्गतो मोहो यस्मात् प्रा० ब० । १ मोहशून्ये

रैवतमनोः २ पुत्रभेदे पु० “अरण्यश्च प्रकाशश्च निर्मोहः
सत्यवान् कृती । रैवतस्य मनोःपुत्राः” हरिवं ७ अ० ।
३ सावर्णिमनोःपुत्रभेदे निर्मोकशब्दे दृश्यम् । त्रयोदश-
मन्वन्तरे काश्यपे ४ सप्तर्षिभेदे “त्रयोदशेऽथ पर्य्याये भव्ये
मन्वन्तरे मनोः” इत्युपक्रमे “निष्प्रकम्पस्तथात्रेयः
निर्मोहः काश्यपस्तथा” हरिवं० ७ अ० ।

निर्म्रेतुका स्त्री निर् + म्ला--तुन् संज्ञायां कन् पृषो० । म्लानि-

शून्ये ओषधिभेदे “निभ्रेतुकास्तत्र भवन्ति” पञ्च० भी०
ब्रा० १३ । ९ । १४ ।

निर्यन्त्रण न० निर् + यन्त्र--ल्युट् । १ निष्पीडने निर्गत्

यन्त्रणं यस्मात् प्रा० ब० । २ यन्त्रणाशून्ये वाधाशून्ये
३ निरर्गले ४ उच्छृङ्खले त्रि० जटा० ।

निर्याण न० निर्याति मदोऽनेन निर् + या करणे ल्युट् ।

१ गजापाङ्गदेशे । भावे ल्युट् । २ मोचने ३ अध्वनिर्गमे
च मेदि० । ४ निःसरणे ५ प्राणवायोर्देहनिःसरणरूप-
मरणे च लग्नावधिकस्थानभेदस्थग्रहभेदैस्तज्ज्ञानं
वृहज्जातके निरूपितं यथा “मृत्युर्मृत्युगृहेक्षणेन
बलिभिस्तद्धातुकोपोद्भवस्तत्संयुक्तभगात्रजो बहुभवो वीर्या-
न्वितैर्भूरिभिः । अग्न्यम्ब्वायुधजो ज्वरामयकृतस्तृट्क्षुत्-
कृतश्चाष्टमे सूर्याद्यैर्निधने चरादिषु परस्वाध्वप्रदेशे-
ष्वपि । शैलाग्राभिहतस्य सूर्यकुजयोर्मृत्युः
खबन्धुस्थ १०४ योः कूपे मन्दशशाङ्कभूमितनयैर्बन्ध्वस्तकर्म-
४ । ७१० स्थितैः । कन्यायां स्वजनाद्धिमोष्णकरयोः
पापग्रहैर्दृष्टयोः स्यातां यद्युभयोदयेऽर्कशशिनौ तोये तदा
मज्जतः । मन्दे कर्कटगे जलोदरकृतो मृत्युर्मृगाङ्के
मृगे शस्त्राग्निप्रभवः शशिन्यशुभयोर्मध्ये कुजर्क्षे स्थिते ।
कन्यायां रुधिरोत्थशोषजनितस्तद्वत् स्थिते शीतगौ
सौर{??} यदि तद्वदेव हिमगौ रज्ज्वग्निपातैः कृतः ।
बन्धाद्धी ५ नवमस्थयोरशुभयोः सौम्यग्रहादृष्टयोर्द्रेष्काणैश्च
ससर्पपाशनिगडैः छिद्र ८ स्थितैर्बन्धतः । कन्थायामशुभान्वि-
तेऽस्तमयगे चन्द्रे सिते मेषगे सूर्य्ये लग्नगते च विद्धि
मरणं स्त्रीहेतुकं मन्दिरे । शूलोद्भिन्नतनुः सुखे ४ ऽवनिसुते
सूर्येऽपि वा खे १० यमे सप्रक्षीणहिमांशुभिश्च युगपत्पा-
पैस्त्रिकोणाद्य ५९१ गैः । बन्धु ४ स्थे च रवौ १० वियत्यव-
निजे क्षीणेन्दुसंवीक्षिते काष्ठेनाभिहतः प्रयाति मरणं
सूर्यात्मजेनेक्षिते । रन्ध्रास्पदाङ्गहिबुकै८।१०।१।४ र्लगुड़ा-
हताङ्गः प्रक्षीणचन्द्ररुधिरार्किदिनेशयुक्तैः । तैरेव कर्म १०
नवमोदय १ पुत्र ५ संस्थैर्धूमाग्निबन्धनशरीरनिकुट्टनान्तः ।
बन्ध्वस्तकर्म ४ । ७ । १० सहितैः कुजसूर्यमन्दैर्निर्याणमायुध-
शिखिक्षितिपालकोपात् । सौरीन्दुभूमितनयैः स्वसु-
खास्पदस्थै २४१० र्ज्ञेयः क्षतकृमिकृतश्च शरीरपातः ।
ख १० स्थेऽर्केऽवनिजे रसातल ४ गते यानप्रपाताद्बधो
यन्त्रोत्पीडनजः कुजेऽस्तमयगे सौरेन्द्विनाभ्युद्गमे ।
विण्मध्ये रुधिरार्किशीतकिरणैर्जूकाजसौरर्क्षगैर्यातैर्वा
गलितेन्दुसूर्यरुधिरैर्व्योमास्तबन्ध्वा १०७३ ह्वयान् । वीर्य्या-
न्वितवक्रवीक्षिते क्षीणेन्दौ निधनस्थितेऽर्कजे । गुह्यी-
द्भवरोगपीड़या मृत्युः स्यात् कृमिशस्त्रदाहजः । अस्ते ७
पृष्ठ ४१०१
रवौ सरुधिरे निधने ८ ऽर्कपुत्रे क्षीणे रसातल ४ गते
हिमगौ खगान्तः । लग्नात्मजाष्टमतपः १५८९ स्विन
मौममन्दचन्द्रौस्तु शैलशिखराशनिकुड्यपातैः । द्वाविंशः
कथितस्तु कारणं द्रेष्काणो निधनस्य सूरिभिः । तस्या-
धिपतिर्भवोऽपि वा निर्य्याणं स्वगुणैः प्रयच्छति ।
होरानवांशकपयुक्तसमानभूमौ योगेक्षणादभिरतः
परिकल्प्यमेतत् । मोहस्तु मृत्युसमयेऽनुदितांशतुल्यः स्वेऽंशे-
क्षिते द्विगुणितस्त्रिगुणः शुभैश्च । दहनजलविमिश्रैर्म-
स्मसंक्लेदशोषैर्निधनभवनसंस्थैर्व्यालवर्गैर्विड़न्तः । इति
शवपरिणामश्चिन्तनीथो यथोक्तः पृथुविरचितशास्त्राद्गत्य-
नूकादि चिन्त्यम् । गुरुरुडुपतिशुक्रौ सूर्य्यभौमौ
यमज्ञौ विबुधपितृतिरश्चोर्नारकीयांश्च कुर्युः । दिनकरशशि-
वीर्य्याधिष्ठिता त्र्यंशनाथात् प्रवरसमनिकृष्टास्तुङ्गह्रासा-
दनूके । गतिरपि रिपुरन्ध्रत्र्यंशपोऽस्तस्थितो वा गुरु-
रथ रिपुकेन्द्रच्छिद्रगः स्वोच्चसंस्थः । उदयति भवनेऽन्त्ये
सौम्यभागे च मोक्षो भवति यदि बलेन प्रोज्झितास्तत्र
शेषाः । इति नैर्य्याणिकाध्यायः” । “नेष्टा योगा जातकं
कामिनीनां निर्याणं स्यान्नष्टजन्मद्रिकाणः” इत्युपसंहा-
राध्याये तत्रोक्तम् । निर्गतं यानमस्मात् प्रा० ब०
“संज्ञायां पूर्वपदात् पा० णत्वम् । पशूनां पादबन्धने
६ दामनि वैज० “निर्याणहस्तस्य पुरो दुधुक्षतः” माघः ।

निर्यातक त्रि० निर्यातं निर्याणं बहिष्करणं तत् करोति

णिच्--ण्वुल् । निर्हारके । “अनग्नयश्च ये विप्राः
प्रेतनिर्यातकास्तथा” भा० अनु० २३ अ० । “मृत-
निर्यातकाश्चैव परदाररताश्च ये” मार्कण्डे ३५ अ० ।

निर्यातन न० निर् + यत--णिच् ल्युट् । १ वैरशुद्धौ, २ प्रतीकारे

३ प्रतिदाने ४ न्याससमर्पणे च अमरः । ५ मारणे हेमच० ।
६ ऋणादेः शोधने च । “विगणनऋणनिर्यातनम्” सि०
कौ० । “नह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति” हरिवं०

निर्यात्य त्रि० निर् + याति--कर्मणि यत् । १ शोधनीये २ प्रति-

देयेच “कन्या चैवं न चान्यस्य निर्यात्यानेन सङ्गता”
हरिवं० १७७ अ० ।

निर्याम पु० निर् + यम--घञ् । पोतवाहे हेमच० ।

निर्यास पु० न० निर--यस--घञ् अर्द्धर्चा० । १ कषाये २ क्वाथे

शब्दमा० । ३ वृक्षादिक्षीरे वृक्षात् निर्गत्य कठिनतां
याते वृक्षरसभेदे (आठा) रत्नमा० “शालनिर्यासगन्धिभिः”
रघुः । “लोहितान् वृक्षनिर्यासान्” मनुः । ३ निष्यन्दि
जलादौ च कंसस्याथ मुखस्वेदो भ्रूभेदान्तरगोचरः ।
अभवद्रोषनिर्यासः” हरिवं० ८७ अ० । निर्यासस्यादूरदे-
शादिः कुमुदा० ठच् । निर्यासिक तत्सन्निकृष्टदेशादौ त्रि० ।

निर्यूष पु० नितरां यूषः प्रा० स० । निर्यासशब्दार्थे शब्दमा०

निर्यूह पु० निर् + ऊह--क पृषो० । १ मत्तवारणे वैजयन्ती

तद्दन्ताकारतया निर्मिते २ नागदन्ते द्वारवेदिकायां काष्ठभेदे
अमरः । ३ शेखरे ४ आपीडे ५ द्वारे ६ क्वाथे निर्यासे
मेदि० । “वितर्दिनिर्यूहविटङ्कनीड़ः” माघः । द्वार-
तोरणनिर्यूहैर्युक्तमभ्रचयोपमैः” भा० आ० १०८ अ० तत्र
आपीडे “खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि”
भा० उ०१८ अ० । कार्मुकस्य निर्यूहैः आपीड़ैरिव
शरैरित्यर्थः ।

निर्लक्षण त्रि० निर्गतं लक्षणमस्य प्रा० ब० । १ शुभलक्षणशून्ये २ पाण्डुरपृष्ठे हेम० ।

निर्लिप्त त्रि० निर + लिप--क्त । १ लेपरहिते २ सम्बन्धशून्ये

निःसङ्गे । “निरुपाधिश्च निर्लिप्तो निरीहो निधना-
न्तकः” ब्रह्मवै० पु० ।

निर्लुञ्चन न० निर् + लुन्च--भावे ल्युट् । वितुषीकरणादौ

“नखनिर्लुञ्चनादिभिरपि तत्कार्य्यसिद्धेः” कात्या० श्रौ०
१ ६ ६ सू० कर्कः ।

निर्लुण्ठन न० निर् + लूठि--भावे ल्युट् । अपहरणे (लोटा)

“अङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः” सा० द० ।

निर्लेखन न० निर् + लिख--भावे ल्युट् । १ मलादेरपसारणे

(आँचड़ान) करणे ल्युट् । २ तत्साधने “जिह्वानिर्ले-
खनं रौप्यं सौवर्णं वार्क्षमेव च” सुश्रुतः ।

निर्लेप त्रि० निर्गतो लेपः सम्बन्धोऽनुलेपनं वा यस्य प्रा० ब० ।

१ प्ररिणामहेतुसंयोगादिशून्ये २ अनुलेपनरहिते च
“लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति सहापाशुपताः”
कुसुमा० । “निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति” मनुः ।

निर्लोमन् त्रि० निर्गतं लोम यस्य । लोमरहिते (टाक)

रोगयुक्ते । तद्रोगस्तु “पट्टसूत्रस्य हरणात् निर्लोमा
जायते नरः” शाता० उक्तेः पट्टसूत्रहरणाज्जायते ।

निर्ल्वयनी स्त्री नितरां लयति अहिरस्याम् त्वचि ल्युट

ङीप् पृषो० । सर्पत्वचि (खोलस) “तद्यथाऽहिनिर्ल्व
यनी वल्मीके मृता प्रत्यस्ता शयीत” वृह० उप० ।
“अहिनिर्ल्वयनी सर्पनिर्मोकः वल्मीके सर्पाश्रये
वल्मीकादावित्यर्थः प्रत्यस्ता प्रतिक्षिप्ता मृताऽनात्मभावेन
सर्पेण परित्यक्ता मृता शयीत” भा० ।

निर्वक्तव्य त्रि० निर् + वच--कर्मणि तव्य । अवयवार्थकथनेन

प्रतिपाद्ये निर्वाच्यनिर्वचनीयावप्यत्र ।
पृष्ठ ४१०२

निर्वचन न० निर् + वच--भावे ल्युट् । १ निरुक्तौ अवयवार्थ

कथने । २ प्रसिद्धे च “न निर्मन्युः क्षत्रियोऽस्ति लोके
निर्वचनं स्मृतम्” भा० व० २७ अ० । “सत्यं स्तेने बलं
नार्य्यां राज्यं दुर्योधने तथा । इति लोके निर्वचनं
लोके चरति भारत” भा० व० ३३ अ० ।
निर्गतं वचनं यस्य प्रा० व० । वचनशून्ये ३ तुष्णीमित्यर्थे
“माल्येन तां निर्वचनं जघान” कुमा० । ४ वचनरहिते
वक्तव्यताशून्ये त्रि० “येषां तडागानि महोदकाति वाप्यश्च
कूपाश्च प्रतिश्रयाश्च । अन्नस्य दानं मधुरा च वाणी
यमस्य ते निर्वचना भवन्ति” भा० व० १९९ अ० ।

निर्वण त्रि० निर्गतो वनात् निरा० त० प्रणिरन्तरित्यादिना

असंज्ञायामपि णत्वम् । वनान्निष्क्रान्ते “निर्वणो वध्यते
व्याघ्रो निर्व्याघ्रं छिद्यते वनम्” भा० उ० २८ अ० अस्य
“वनं समासे” पा० समासमात्रे वनान्तत्वेनान्तोदात्तता ।

निर्वपण न० निर् + वप--भावे ल्युट् । १ दाने २ अन्नादीनां

संविभागे च । “परिस्तरणपात्रसंसादनप्रोक्षणाज्यनिर्व-
पणाधिश्रयणानि” कात्या० श्रौ० ८ । २ । १ । “अनयैवा-
वृता कार्य्यं पिण्डनिर्वपणं सुतैः” मनुः ।

निर्वर त्रि० निर्गतो वरो वरणमस्य । १ निर्लज्जे कठिने

२ निर्भये ३ सारे च हेमच० । अत्र निर्दर इत्येव पाठः
मुद्रादोषात् निर्वर इति पाठोऽसाधुः । अतएव मेदिनी-
कोषे निर्दरं निर्भये सारेऽन्यवत्तु कठिनेऽत्रपे” इत्युक्तम् ।

निर्वर्णन न० निर् + वर्ण “सत्यापेति” पा० णिच् भावे ल्युट् ।

दर्शने त्रिका० ।

निर्वर्त्तित त्रि० निर् + वृत--णिच्--कर्म्मणि क्त । निष्पादिते ।

निर्वर्त्य त्रि० निर् + वृत--णिच्--कर्मणि यत् । निष्पाद्ये व्या-

करणपरिभाषिते कर्मभेदे न० “तन्निवर्त्त्यं विकार्य्यञ्च कर्म-
द्वेधा व्यवस्थितम्” हरि० कर्मन्शब्दे १७७१ पृ० दृश्यम् ।

निर्वहण न० निर् + वह--भावे ल्युट् । १ नाट्योक्तौ प्रस्तुत-

कथासमाप्तौ २ प्रकृताभिनयस्य निर्वाहे, नाटकसन्ध्यादेर-
ङ्गभेदे तस्याङ्गानि सन्ध्यदीनि यथोक्तं सा० द० “सन्धि-
र्विबोधो ग्रथनं निर्णयः परिभाषणम् । कृतिः प्रसाद
आनन्दः समयोऽप्युपगूहनम् । भाषणं पूर्ववाक्यञ्च
काव्यसंहार एव च । प्रशस्तिरिति संहारे ज्ञेयान्य-
ङ्गानि नामतः” । युच् । निर्वहणा निष्ठायाम् स्त्री ।

निर्वाञ्च् त्रि० निर् + अव--अन्च--क्विप् अवोपसर्गस्य

अल्लोपः । निर्गते “तस्मादिमे प्राणा विष्वञ्चोऽवाञ्चोऽनु-
निर्वाञ्चि” सां० ब्रा० ७ । ९ ।

निर्वाण त्रि० निर् + वा--क्त । “निर्वाणोऽवाते पा० तस्य

नः । १ शान्ते वह्निमुन्यादौ २ चरसाश्रमस्थे मुनौ ३ निश्चले
४ शून्ये शब्दर० । भावे क्त । ५ अस्तगमने ६ निर्वृतौ ७
गजमज्जने ८ सङ्गमे ९ अपवर्गे मोक्षे मेदि० । १० विनाशे
यादवः ११ विश्रान्तौ हेमच० । “निर्वाणोत्थानशयनानि
त्रीणि गजकर्माणीति” पालकाव्योक्ते १२ गजकर्मभेदे ।
“अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः” रघुः । “अनि-
र्वाणस्य मज्जनरहितस्येति” मल्लि० । “कुरुतेऽस्मिन्न-
मोघेऽपि निर्वाणालातलाधवम्” । “निर्वाणभूयिष्ठम-
थास्य वीर्य्यम्” कुमा० । निर्वृतौ “स्वर्लोकस्त्री गात्र-
निर्वाणमत्र” माघः । “यतितव्यं समत्वेन निर्वाणमपि
चेच्छता” “समत्वबुद्धेर्निर्वाणं फलमुक्तं श्रुतौ स्मृतौ
सर्वदुःखोपरमणलक्षण ब्रह्मणि स्थितिः” “स्थित्वाऽस्या-
मन्तःकालेऽपि ब्रह्म निर्वाणमृच्छति” “स योगी ब्रह्म०
निर्वाणं ब्रह्मभूतोऽधिगच्छति” गीता । सर्वदुःखोपरमा-
त्मकत्वात् निरतिशयानन्दरूपत्वाच्च परमपुरुषार्थकैवल्य
रूपं ब्रह्म निर्वाणमृच्छति इत्यर्थः । १३ आदिगुरुके
(ऽ।) त्रिकले मात्रागणभेदे १४ विद्योपदेशग्रन्थभेदे यथा
निर्वाणतन्त्रादि । नाभिदेशे जप्ये १५ प्रणवपुटितमातृका
पुटितस्वाभीष्टमन्त्रे । “कुल्लुकां मूर्द्ध्नि संजप्य हृदि-
सेतुं विचिन्तयेत् । महासेतुं विशुद्धे तु षोड़शारे
समुद्धरेत् । मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः ।
खाधिष्ठाने कामवीजं राकिणीमूर्ध्निसंस्थितम् ।
विचिन्त्य विधिवद् देवि! मूलाधारान्तिकाच्छिवे! । विशु-
द्धान्तं स्मरेद्देवि! विसतन्तुतंनीयसीम् । देवीस्थानं
द्विजिह्वान्तं मन्त्रमूलावृतं मुहुः” । तत्र निर्वाणं यथा
“अथ वक्ष्यामि निर्वाणं शृणु सारहितानघे । प्रणवं
पूर्वमुच्चार्य्य मातृकाद्य समुच्चरेत् । मातृकार्णां समस्ताञ्च
पुनः प्रणवमुच्चरेत् । एवं पुटितमूलन्तु प्रजपेन्मणि-
पूरके । एवं निर्वाणमीशानि! यो न जानाति
पामरः । कल्पकोटिसहस्रेषु तस्य सिद्धिर्न जायते”
आगमविलासतन्त्रम् ।

निर्वाणमण्डप पु० काशीस्थे मुक्तिमण्डपाख्ये तीर्थभेदे ।

निर्वाणमस्तक पु० निर्वाणं निर्वृतिर्मस्तकमिव यत्र । मोक्षे

त्रिका० ।

निर्वाणरुचि त्रि० निर्वाणे रुचिरस्य । १ मोक्षसाधनासक्ते

एकादशमन्वन्तरे २ देवभेदे “महर्षिर्धर्मसावर्णिरेकादशम
आत्मवान्” इत्युपक्रमे “विहङ्गमाः कामगमा निर्वा-
णरुचयः सुराः” भागवते ८१३१२ श्लोकः ।
पृष्ठ ४१०३

निर्वाणी स्त्री जैनानां १ शासनदेवताभेदे हेम० । निर्गता वाणी

यस्य बा० कप् न । २ वाक्यरहिते तुष्णीम्भूते कपि
निर्वाणीकोऽप्यत्र त्रि० ।

निर्वात त्रि० निर्गतो वातो यस्मात् प्रा० व० । वायुशून्य-

देशे । निर् + वा--क्त निर्वाणोऽवाते पा० न तस्य नः ।
२ निर्गते वाते हेमच० । “असूर्य्यमिव सूर्य्येण निर्वात
इव वायुना” भा० स० ३५ अ० ।

निर्वाद पु० निर् + वद--घञ् । निकृष्टवादे १ लोकापवादे

अमरः । “किमात्मनिर्वादकथामुपेक्षे” रघुः । नितरां
वादः । २ निश्चितवादे क्षीरस्वामी । अभावेऽव्ययी० ।
३ वादाभावे अव्य० ।

निर्वाप पु० निर् + वप--भावे घञ् । १ दाने, प्राप्तपितृलोको-

द्देशेन २ दाने च । “अमावास्यां तु निर्वापात् सर्वकामा-
नवाप्नुयात्” भा० अनु० ८७ अ० ।

निर्वापण न० निर् + वप णिचु--वा--वा णिच्--पुक् ल्युट् ।

१ मारणे बधे अमरः । २ दाने च हलायु० । (निवान)
३ निर्वाणतासम्पादने । “तप्तायःपिण्डसिकतानां वा
निर्वापणं प्रसाधनञ्च कर्त्तव्यम्” सुश्रुतः । “दाहपा-
कज्वरवतां कार्य्यं निर्वापणं भवेत्” सुश्रुतः । “दीप-
निर्वापणात् पुंसः कुष्माण्डच्छेदनात् स्त्रियः” ति० त० ।

निर्वार्य्य न० निर् + वृ--ण्यत् । निःशङ्ककर्म्मकर्त्तरि सत्वस-

म्पदा उद्यमेन कार्यकर्त्तरि अमरः । भयविक्रमव्यसना-
भ्युदयादौ निर्विकारं मनः सत्वम् तत् सम्पदा सम्पतन्
उद्यमं कुर्वन् योनिःशङ्को भूत्वा कर्म्म कुरुते स निर्वार्य्य
इत्युच्यते ।

निर्वासन पु० निर् + वस--णिच् भावे ल्युट् । पुरादितो

बहिष्करणे १ निःसारणे २ मारणे हिंसने ३ विसर्ज्जने
च मेदि० “ततो दुर्य्योधनः क्रूरः कर्णश्च सहसौबलः ।
तेषां निर्ग्रहनिर्वासान् विविधांस्ते समारभन्” भा० आ०
६१ अ० “निर्वासनञ्च नगरात् प्रव्रज्या च परन्तप!” भा०
उ० ८९ अ० ।

निर्वास्य त्रि० निर् + वस--णिच्--कर्म्मणि यत् । नगरादितो

बहिष्कार्य्ये “कट्यां कृताङ्को निर्वास्यः स्फिचं
वाऽस्यावकर्त्तयेत्” मनुः । “निर्वास्या व्यभिचारिण्यः प्रति-
कूलास्तथैव च” याज्ञ० ।

निर्वाह पु० निर् + वह--घञ् । १ कार्य्यसम्पादने २ निष्पादने

३ समाप्तौ च । “यावता स्यात् स्वनिर्वाहः स्वोकुर्य्यात्ताव-
देव तु” नारदीयपु० “स्वतिथ्या कर्मानिर्वाहे” ति० त० ।

निर्विकल्प(क) त्रि० निर्गतो विकल्पो ज्ञातृज्ञेयादिविभागो

विशेष्यविशेषणतासम्बन्धो वा यस्मात् प्रा० ब० वा कप् ।
१ वेदान्तोक्ते ज्ञातृज्ञेयादिविभागशून्ये ब्रह्मात्मैकात्म-
विषये अखण्डाकारके एकविषयके विशेष्यविशेष-
णतासम्बन्धरहिते ज्ञाने, “आत्मारामा विहितरतयो
निर्विकल्पे समाधाविति वेणी० । “तत् प्रमा नाप्रमा
नापि ज्ञागं यन्निर्विकल्पकम् । प्रकारतादिशून्यं हि
सम्बन्धानवगाहि यत्” इति न्यायोक्ते अलौकिके
आलोचनात्मके २ ज्ञानभेदे । “ज्ञानं यन्निर्विकल्पकाख्यं
तदतीन्द्रियभिष्यते” भाषा० । आलोचनशब्दे ८२६ पृ०
दृश्यम् । वौद्धमते निर्विकल्पकज्ञानमेव प्रमाणं कल्प-
नाशून्यत्वात् तद्भिन्नं सर्वमप्रमाणं यथोक्तं सर्वदर्शनसंग्रहे
“ततश्चार्थो द्विविधः ग्राह्योऽध्यवसेयश्च तत्र ग्रहणं
निर्विकल्पकरूपं प्रमाणं कल्पनापोढ़त्वात् अध्यवसायः
सविकल्पकरूपोऽप्रमाणं कल्पानाज्ञानत्वात् । तदुक्तम्
“कल्पनापोढ़मभ्रान्तं प्रत्यक्षं निर्विकल्पकम् । विकल्पो”
वस्तुनिर्भासादसंवादादुपप्लवः । ग्राह्यं वस्तु प्रमाणं
हि ग्रहणं यदितोऽन्यथा । न तद्वस्तु न तन्मानं शब्द-
लिङ्गेन्द्रियादिजमिति” च । ननु सविकल्पकस्याप्रामाण्ये
कथं ततः प्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति
चेन्न तद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पारम्प-
र्य्येणार्थप्रतिलम्भसम्भवेन तदुपपपत्तेः” ।

निर्विकार पु० प्रकृतेरन्यथाभावः विकारः स निर्गतोयस्मात्

प्रा० व० । जन्मादिषड्भावविकारहीने १ परमात्मनि ।
२ विकारशून्ये त्रि० । “त्वयेह भवने मह्यं वस्तव्यं
निर्विकारया” हरिवं० ९ अ० । “सिद्ध्यसिद्ध्योर्निर्विकारः
कर्त्ता सांत्विक उच्यते” गीता ।

निर्विचार त्रि० निर्गतो विचारो यतः प्रा० ब० । १ विचार-

रहिते “रे रे स्वैरिणि! निर्विचारकविते! भास्मत्
प्रकाशीभव” चन्द्रालो० । पात० सूत्रोक्ते सूक्ष्मविषयके
समापत्तिरूपे ३ समाधिभेदे च “एतयैव सविचारा
निर्विचारा च सूक्ष्मविषया व्याख्याता” पात० सू० ।
“तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्म्मकेषु देशकालनिमित्ता-
नुभबावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते ।
तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्म्मविशिष्टं भूतसूक्ष्म-
मालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते । या पुनः
सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्म्मानवच्छिन्नेष
पृष्ठ ४१०४
सर्वधर्म्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्वि-
चारेत्युच्यते एवं स्वरूपं हि तत् भूतसूक्ष्मम् एतेनैव
स्वरूपेणालम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति ।
प्रज्ञा च स्वरूपशून्येव अर्थमात्रा यदा भवति तदा
निर्विचारेत्युच्यते । तत्र महावस्तुविषया सवितर्का, निर्वि-
तर्का च सूक्ष्मविषया सविचारा निर्विचारा च एवमु-
भयोरेतयैव निर्वितर्काया विकल्पहानिर्व्याख्यातेति” भा०
“निर्विचारवैशारद्ये अध्यात्मप्रसादः” सू० । “अशु-
द्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रजस्तमो-
भ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यं यदा
निर्विचारस्य समार्धेर्वैशारद्यमिदं जायते तदा योगिनो
भवति अध्यात्मप्रसादः भूतार्थविषयः क्रमाननुरोधी
स्फुटप्रज्ञालोकः । तथाचोक्तं “प्रज्ञापासादमारुह्य
अशोच्य । शोचतो जनान् । भूमिष्ठानिव शैलस्थः सर्वान्
प्राज्ञोऽनुपश्यति” भाष्यम् ।

निर्विचित्स त्रि० निर्गता विचिकित्सा यस्य प्रा० ब० । निःसन्देहे ।

निर्वितर्क त्रि० निर्गतो वितर्को यस्मात् प्रा० ब० । १ वितर्क-

शून्ये पात० सू० उक्ते २ समाधिभेदे तल्लक्षणादिकं तत्रोक्तं
यथा “स्मृतिपरिशुद्धौ स्वरूपशून्येवाऽर्थमात्रनिर्भासा
निर्वितर्का” सू० “शब्दार्थस्मृतिप्रविलये सति प्रत्युदित-
स्पष्टबाह्याकारप्रतिभासिततया न्यग्भूतज्ञानांशत्वेन
स्वरूपशून्येव निर्वितर्का समापत्तिः” भा० ।

निर्विण्ण त्रि० निर + विद--क्त निर्विण्णस्योपसंख्यात्वात् दस्य-

नत्वे णत्वष्टुत्वे । १ निर्वेदयुक्ते २ खिन्ने ३ प्राप्तवै-
राग्ये विरक्ते च । “निर्विण्णोऽहं दक्षिणेन मार्गेण
गतागतलक्षणेन” ईशोप० भा० ।

निर्विन्ध्य त्रि० निर्गतः विन्ध्यात् नि० त० । १ विन्ध्यपर्वतनिः-

सृते । तथाभूते २ नदीभेदे स्त्री “गोदावरी निर्विन्ध्या
पयोष्णी इत्यादि” भाग० ५२१८ भारतवर्षनद्युक्तौ ।
“निर्विन्ध्यायाः पथि भयरसाभ्यन्तरः सन्निपत्य” मेघ० ।
“नर्म्मदा सुरसाद्याश्च नद्यो बिन्ध्यविनिर्गताः । तापी
पयोष्णी--निर्विन्ध्या--कावेरीप्रमुखा नदी” विष्णुपु० ।

निर्विशेष न० निर्गतो विशेषो यस्य प्रा० व० । सर्वदैवरूपे

विशेषरहिते परब्रह्मणि । “निर्विशेषं परं ब्रह्म
साक्षात्कर्त्तुमनीश्वराः । ये मन्दास्ते तु कल्पन्ते सविशेष
निरूपणैः” विशेषरहिते तुल्यरूपे त्रि० । “प्रवातनीलो-
त्पलनिर्विशेषम्” कुमा० ।

निर्विष त्रि० निर्गतं विषं यस्मात् प्रा० ब० । १ विषरहिते

२ अविषायां तृणभेदे स्त्री । “निर्विषा कटुका शीता
कफवातास्रदोषनुत् । अनेकविषहन्त्री च व्रण र्भूल-
कारिणी” राजनि० । गौरा० ङीष् निर्विषी ३ श्या-
मकन्दायां स्त्री । इयं चतुर्विधा भवति “रक्ता श्वेता
भृशं कृष्णा पीतवर्णा तथैव च । यथापूर्वञ्च विज्ञेया
बल्या श्रेष्ठा गुणोत्तमा । सर्वदोषहरी लेपाद्भुक्ताश्व-
यथुनाशिनी । श्लेष्मजान् विंशतिरोगान् सद्यो हन्यात्
निषेवणादिति” भावप्र० ।

निर्विष्ट त्रि० निर् + विश--क्त । कृतनिर्विशे १ कृतभोगे

२ प्राप्तवेतने लब्धभृतौ ३ कृतविवाहे ४ कृताग्निहोत्रे
च । “ज्येष्ठेऽनिर्विष्टे कनीयान् निर्वेशात् परिवेत्ता
भवति” उद्वा० त० स्मृतिः । ५ भोग्ये च । “स्वनि-
र्म्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान्” भा०
१ २ अ० । ६ भुक्ते च “निर्विष्टविषयस्नेहः” रघुः ।
“निर्विष्टं वैस्यशूद्रयोः” गौतम० । निर्विष्टं वेतनलब्धम्”
निर्वेशो भृतिभोगयोरित्युक्तेः” एका० त० रघु० ।
निर्वेशः भृतिर्वेतनं भोगश्च ।

निर्वीज त्रि० निर्गतं वीजमस्य । १ वीजशून्ये २ कारण-

रहिते पात० उक्ते ३ समाधिभेदे पु० ।
“तस्यापि निरोधे सर्वनिरोधान्निर्वीजः समाधिः”
पात० सु० “स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञा-
कृतानां संस्काराणामपि प्रतिबन्धा भवति । कस्मात्!
निरोघजः संस्कारः ससाधिजान् संस्कारान् बाधते इति
निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारा०
स्तित्वमनुमेयम्, व्युत्थाननिरोधसमाधिप्रभवैः सह
कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां
प्रविलीयते तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न
स्थितिहेतवो भवन्तीति यस्मादवसिताधिकारं सह
कैवल्यभागीयैः संस्कारैश्चित्तं विनिवर्त्तते तस्मिन्निवृत्ते पुरुषः
स्वरूपप्रतिष्ठः । अतः शुद्धो मुक्त इत्युच्यते” भा० “तस्यापि
निरोधे सर्वनिरोधात् निर्वीजः समाधिः । परेण वैरा-
ग्येण ज्ञानप्रसादमात्रलक्षणेन सर्वसंस्कारोपजननद्वारा
तस्यापि प्रज्ञाकृतस्य संस्कारस्य निरोधे न केवलं प्रज्ञाया
इत्यपिशब्दार्थः सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य
निरोधात् कारणाभावेन कार्य्यानुत्पादनात् सोऽयं
निर्वीजः समाधिः । व्याचष्टे स निर्वीजः समाधिः
समाधिप्रज्ञाविरोधिनः परस्मात् वैराग्यात् उपजायमान-
संस्कारद्वारेण न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृता-
पृष्ठ ४१०५
नामप्यसौ संस्काराणां परिपन्थी भवति । ननु वैराग्यजं
विज्ञानं सदविज्ञानं प्रज्ञामात्रं बाधतां संस्कारन्त्वविज्ञानं
कथं बाधते दृष्टा हि स्वप्नदृष्टार्थस्मृतिरित्याशयवान्
पृच्छति । कस्मादिति उत्तरं निरोधज इति निरुध्यते-
ऽनेन प्रज्ञेति निरोधः परं वैराग्यं ततो जातो निरो-
धजः संस्कारः, संस्कारादेव दीर्घकालनैरन्तर्य्यसत्कारा-
सेवितपरवैराग्यजन्मनः प्रज्ञासंस्कारवाधो नतु विज्ञाना-
दित्यर्थः । स्यादेतन्निरोधजसंस्कारसद्भावे किं प्रमाणं स
हि प्रत्यक्षेण नानुभूयते स्मृत्या वा कार्य्येणानुमीयेत न
च सर्ववृत्तिमात्रनिरोधे प्रत्यक्षमस्ति योगिनः, नापि स्मृतिः
तस्य वृत्तिमात्रनिरोधितया स्मृतिजनकत्वासम्भवादित्यत
आह निरोधेति । निरोधे स्थितिः चित्तस्य निरुद्गा-
वस्थेत्यर्थः । तस्याः कालक्रमो मुहूर्त्तार्द्धयामयामाहो-
रात्रादिस्तदनुभवेन । एतदुक्तं भवति वैराग्याभ्यासप्रक-
र्षानुरोधी निरोधप्रकर्षो मुहूर्त्तार्द्धयामादिव्यापितयानु
भूयते योगिना, न च वैराग्यक्षणाक्रमनियततया परस्प-
रमसम्भवन्तस्तत्तत्कालव्यापितया सातिशयं निरोधं कर्त्तु-
मीशत इति तत्तद्वैराग्यक्षणप्रचयजन्यः स्थायी संस्कारः
प्रचयएषितव्य इति भावः । ननु छिद्यन्तां प्रज्ञासंस्काराः,
निरोधसंस्कारास्तु कुतः समुच्छिद्यन्ते अनुच्छेदे वा साधि-
कारत्वमेव इत्यत आह व्युत्थानेति । व्युत्थानञ्च
तस्य निरोधसमाधिश्च सम्प्रज्ञातः तत्प्रभवाः संस्काराः
कैवल्यभागीया निरोधजाः संस्कारा इत्यर्थः । व्युत्था-
नप्रज्ञासंस्काराश्चित्ते प्रलीना इति भवति चित्ते व्यु
त्थानप्रज्ञासंस्कारवत्, निरोधसंस्कारस्तु प्रत्युदित एवास्ते
चित्ते । निरोधसंस्कारे सत्यपि चित्तमनधिकारवत्,
पुरुषार्थजनकं हि चित्तं साधिकारं शब्दाद्युपभोग-
विवेकख्याती च पुरुषार्थौ संस्कारशेषतायां तु न बुद्धेः
प्रतिसंवेदी पुरुष इति नासौ पुरुषार्था विदेहप्रकृतिल-
यानां न निरोधभागितया साधिकारं चित्तम् अपि तु
क्लेशवासितमेत्याशयबानाह यस्मादिति । शेषं सुग
मम्” विव० । २ काकलीद्राक्षायां स्त्री राजनि० ।

निर्वीर त्रि० निर्गतो वीरः शूरः पतिः पुत्रो वा यस्य यस्या वा

प्रा० ब० । १ वीरशून्ये “केनापीदमहो महद्धनुरतो निर्वीर-
मुर्वीतलम्” महाना० । २ पतिपुत्रविहीनायामवीरायां
स्त्रियां स्त्री हेमच० ।

निर्वृत त्रि० निर् + वृ--क्त । सुस्थे ।

निर्वृति स्त्री निर् + भावे क्तिन । १ स्वास्थ्ये सुखे २ मोक्षे

हेमच० । “न जातु कामो लभते स्र निर्वृतिम्” ।
“सर्व्वर्त्तुनिर्वृतिकरे निवसन्नुपैति” माघः ।

निर्वृत्त त्रि० निर् + वृत--क्त । १ निष्पन्ने अमरः । “विप्रे

न्यूने त्रिभिर्वर्षैर्मृते शुद्धिस्तु नैशिकी । निर्वृत्तचूडके
विप्रे त्रिरात्राच्छुद्धिरिष्यते” शु० त० अङ्गिराः ।

निर्वृत्तशत्रु पु० द्वापरयुगीये यदुवंश्ये नृपभेदे । “वृष्ण्य-

न्धकेषु चान्येषु मुख्येषु मधुसूदनः । गुरुमासज्य तं
भारं ययौ द्वारवतीं पति” “रामे भारं समासज्य युयु-
धाने च वीर्य्यवान् । अक्रूरे विपृथौ चापि” इत्युप-
क्रमे “निर्वृत्तशत्रौ विक्रान्ते भङ्गाकारे विदूरथे” इत्य-
भिहितम् हरिवं० ११७ अ० ।

निर्वृत्ति स्त्री निर् + वृत--भावे क्तिन् । निष्पत्तौ “वाचि

प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम्” मनुः । “न
विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः”
सां० का० । “यथा दृष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिरामयस्यैव संप्राप्तिर्जातिरागमैः” माधवनि-
दानम् । निर्गता वृत्तिर्जीविका यस्य । २ जीविका-
रहिते त्रि०ः

निर्वेद पु० निर् + विद--भावे घञ् । १ स्वावमाननायाम् ।

स च व्यभिचारिभावभेदः “निर्वेदो वेगदैन्यश्रममदज-
डतेत्यादिना व्यभिचारिभावान् विभज्य सा० द० लक्षितो
यथा “तत्त्वज्ञानापदीर्ष्यादेर्निवेदः स्वावमानना । दैग्थ-
चिन्ताऽश्रुनिःश्वासवेवैवर्ण्योच्छ्वसितादिकृत्” अस्य व्यभि-
चारिभावत्वेऽपि क्वचित् स्थायिभावत्व द्योतनार्थं प्राग्
निर्द्देशः अतएव “निर्वेदस्थायिभावोऽपि शान्तोऽस्ति
नवमो रसः” काव्यप्र० उक्तम् । एतन्मते निर्वेद एव
शान्तरसे स्थायिभाव इति भेदः । २ परमवैराग्ये “ततः
कदाचिन्निर्वेदात् निराकाराश्रितेन च । लोकतन्त्र
परित्यक्तं दुःखार्त्तेन भृशं मया” भा० शा० “तदा
गन्तासि निनिर्वेदं श्रोतव्यस्य श्रुतस्य च” गीता “जात-
निर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् । कर्म्मनिर्वेदमुक्त्वा च
धर्म्मनिर्वेदमब्रवीत्” भा० शा० २१८ अ० । ३ खेदे “अनि-
र्वेदः सदा कार्य्यो निर्वेदाद्धि कुतः सुखम् । प्रयत्नात्
प्राप्यते ह्यर्थः कत्पाद् गच्छत निर्द्दयाः” १५३ अ० ।
४ बहुकालेनाप्यसिद्धपदार्थेषु निष्प्रयोजनत्वज्ञानेनानु-
तापभेदे च ।

निर्वेधिम पु० मुश्रुतोक्ते कर्णवेधकारभेदे कर्णव्यधविधिशब्दे १७१२ पृ० दृश्यम् ।

पृष्ठ ४१०६

निर्वेश पु० निर् + विश--घञ् । १ भोगे, २ वेतने, ३ मूर्च्छगे,

मेदि० । ४ विवाहे च अमरः । “कालमेव प्रतीक्षते
निर्वे(र्दे)शं भृतकी यथा” मनुः । “अर्थानुकृतनिर्वेशो
जन्मकोट्यंहसामपि” माग० ६२७ श्लोकः ।

निर्वेष्टन न० नितरां वेष्टनमत्र । १ सूत्रवेष्टननलिकायां

नाडीकरे हारा० प्रा० ब० । वेष्टनरहिते त्रि० ।

निर्वेष्टुकाम पु० निर्वेष्टुं कामो यस्य तुमोऽन्तलोपः ।

विवोढ़ुकामे । “निर्वेष्टुकामो रोगार्त्तो यियक्षुर्व्यसने
स्थितः । अभियुक्तस्तथाऽन्येन राजकर्मोद्यतस्तथा” ।
आसेधनिषेधे नारदः ।

निर्व्यथन न० निर् + व्यथ--भावे ल्युट् । १ नितरां व्यथने

२ छिद्रे अमरः । निर्गतं व्यथनं यतः प्रा० ब० । ३ व्यथा-
शून्ये त्रि० ।

निर्व्यापार त्रि० निर्गतो व्यापारो यस्मात् प्रा० ब० । व्यापार-

शून्ये तुष्णीं स्थित्यादौ । (तं मणिम्) “दधार मैथिली-
कण्ठनिर्व्यापारेण वाहुना” रघुः ।

निर्व्यूढ़ त्रि० निर् + वि--वह--क्त । १ निष्पन्ने २ समाप्ते ३

सुसम्पन्ने अप्रतिबन्धे ४ यथेष्टवियोगार्हे । यथा स्त्रीणां
पतिपुत्रादिधने न निर्व्यूढ़ं स्वत्वं पुंसान्तु तन्निर्व्यूढ़ं
स्वत्वम् अप्रतिबन्धकतया यथेष्टविनियोगार्हत्वात् । पुत्रि-
कारूपाया दुहितुश्च पुत्रोत्पत्त्यनन्तरं पितृधने निर्व्यूढं
खत्वं पुत्रोत्पत्तेः पूर्वन्तु न निर्व्यूढमिति भेदः इति
दायभागमतम् । मिताक्षरामते तु स्त्रीसंक्रान्तधन-
स्यापि स्त्रीधनतया यथेष्टविनियोगार्हत्वेन तत्र स्त्रीणां
निर्व्यूढं स्वत्वम् ।

निर्व्यूह पु० निर्यूह + पृषो० । १ निर्यूहे नागदन्ताकारकाष्ठे

हेमच० । “द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना” भा०
व० १६० अ० । प्रा० ब० । २ व्यूहरहिते सैन्यादौ त्रि० ।

निर्हरण न० निःशेषेण हरणम् । १ दाहार्थं शवादेर्बहिर्ह-

रणे, निःसारणे च । तस्य निर्हरणादीनि सम्परेतस्य
भार्गव! । युधिष्ठिरः कारयित्वा मुहूर्त्तं दुःखितोऽभवत्”
शु० त० भागवतवाक्यम् । ३ नाशने च “तस्माद्भवद्भिः
कर्त्तव्यं कर्म्मणां त्रिमुणात्मनाम् । वीजनिर्हरणम्”
भाग० ७७२८ ।

निर्हा(र्ह्रा)द पु० निर् + हद (ह्रद) वा घञ् । शब्दभेदे

खगादीनां शब्दे “सारसानाञ्च निर्हादमत्रोदकमसशयम्”
भा० ब० ३११० । “सारसैः कलनिर्ह्रादैः कचिदन्नमिता
ननौ” रघुः ।

निर्हार पु० निर् + हृ--घञ् । १ निखातशल्यादेः उद्धरणे

२ मलमूत्रादित्यागे “आहारनिर्हारविहारयोगाः सुसंवृता
धर्मविदा तु कार्य्याः” आ० त० । ३ प्रेतदेहस्य दाहार्थं
बहिर्नयने, ४ यथेष्टविनियोगे च । “न निर्हारं स्त्रियः
कुर्युः कुटुम्बात् बहुमध्यगात् । स्वकादपि च वित्ताद्धि
स्वस्य भर्तुरनाज्ञया” मनुः ।

निर्हारक त्रि० निर्हरति बहिर्गमयति निर् + हृ--ण्वुल् ।

शवादेर्गृहात् बहिष्कारके “प्रेतनिर्हारकाश्चैव वर्ज्ज-
नीयाः प्रयत्नतः” मनुः प्रेतनिर्हारकस्य अपाङ्क्ते
यत्वोक्तिर्धनग्रहणेन तन्निर्हारकविषया । धर्म्मार्थं तन्नि-
र्हारे तु न दोषः “एतद्वै परमं तपो यत् प्रेतमरण्यं
हरन्तीवि” कुल्लूकभट्टधृतश्रुत्या तद्विधानात् ।

निर्हारिन् पु० निर्हरति दूरं गच्छति निर् + हृ--णिनि ।

१ दूरगामिगन्धे अमरः । २ निर्हरणकर्त्तरि । ३ शवादे-
र्बहिनिष्कारके त्रि० च ।

निर्हिम अव्य० हिमस्याभावः अव्ययी० । १ हिमाभावे निर्गतं

हिमं वतः प्रा० ब० । २ हिमशून्ये त्रि० ।

निर्ह्रास पु० निःशेषेण ह्रासः । नितान्तह्रासे “निर्ह्रास

एवैकस्मिन्” आश्व० श्रौ० ६६६ ।

निलय पु० निलीयतेऽत्र ली--आधारे अच् । १ गृहे

२ आवासस्थाने च अमरः । “निलयः श्रियः सततमेतदिति”
माघः । ३ निःशेषेण लये ४ अदर्शने । उभयत्र “सञ्चा-
रपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः”
रघुः ।

निलयन न० निलीयतेऽत्र नि + ली आधारे ल्युट् । नीडा-

दावाश्रये । “निलयनञ्चानिलयनञ्च” तैत्ति० उप० “निल-
यनं नीडमाश्रयो मूर्त्तस्यैव धर्मः” भा० । “विह्वलं तत्
समुद्राभं सभयं भारतातुरम् । बलमासीत् तदा सर्वमृते
द्रोणार्जुनावुभौ । तावेवास्तां निलयनं तावार्त्तायनमेव
च” भा० द्रो० १८८ अ० । भावे ल्युट् । २ श्लेषणे सम्बन्धे
“उत्तमाङ्गे निलयनं कपोतकङ्कप्रभृतीनाम्” सुश्रु० ।

निलिम्प पु० नि + लिप कर्त्तरि श । १ देवे “जटाकटाहस-

म्भ्रमभ्रमन्निलिम्पनिर्झरी” रावणकृतशिवस्तोत्रम् ।
“येऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषाम्”
अथ० ३२६५ । २ स्त्रीगव्यां स्त्री त्रिका० । स्वार्थे क ।
निलिम्पिका सौरभेय्यां स्त्रीगव्यां स्त्री हेम० ।

निलीन त्रि० नितरां लीनः । अत्यन्तसम्बद्धे तस्यादूरदे-

शादि ऋश्यादि० क । निलीनक तत्सन्निकृष्टदेशादौ त्रि०
पृष्ठ ४१०७

निवचन न० निरन्तरं वचनम् प्रा० त० । निरन्तरवचने ।

“तदेतन्निवचनमिवास्ति” शत० ब्रा० २४४४ “निवचनं
निरन्तरवचनम्” भा० । अभावे अव्ययी० । २ वचनाभावे
अव्य० ।

निवचने अव्य० निवचनं वचनाभावः एतदन्तत्वं निपातनात् ।

वचननियमे “मध्ये पदे निवचने च” पा० “अनत्याधानं
(उपश्लेषणाभावे) एतैः सह कृञो विभाषया उप० स० ।
“निवचनेकृत्य निवचने कृत्वेति वा वाचं नियम्येत्यर्थः”
सि० कौ० ।

निवत् त्रि० नि + “उपसर्गाच्छन्दसि धात्वर्थे” पा० “धात्व-

र्थविशिष्टे साधने वर्त्तमानादुपसर्गादुत्तरे स्वार्थे वतिः
स्यात्” सि० कौ० वेदे वति । निम्नगताद्यर्थे “निवतः
निम्नगतानित्यर्थः” सि० कौ० । “तृणं निवत्स्वपः स्वप-
स्यया नरः” ऋ० ११६१११ “निवत्सु प्रबणदेशेषु” भा०
नीचैर्भाववति २ निम्नदेशे च “स उद्वतो निवतो याति
वेविषत्” ऋ० ३२१० । “निवतः नीचैर्भाववतः प्रदे-
शान्” भा० “श्वघ्नीव निवता चरन्” ऋ० ८४५३८ ।
“अस्यै रीयन्ते निवनेव सिन्धवः” ऋ० १०४०९ ।
“निवनेव प्रवणेनेव” भा० छान्दसः तस्य नः ।

निवपन न० नि + वप--भावे ल्युट् । पित्राद्युदेशेन दाने

“ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत । तर्पणञ्चाप्य-
कुर्वन्त” भा० अनु० ९२ अ० । “अत्र वा निवपनम्”
कात्या० ७७२ “अस्मिन् काले बा उवरदेशे
सोमनिवपनं भवति” कर्कः ।

निवर त्रि० नि + अन्तर्भूतण्यर्थे वृ--कर्त्तरि अच् । १ निवारके

“आदु मे निवरो भुवत्” ऋ० ८९३१५ । “निवरो
निवारयिता” भा० । नितरां ब्रियते वृ--वरणे कर्मणि
“ग्रहवृदुनिश्चिगमश्च” पा० अप् । “कुमार्य्यामविवाहि-
तावां स्त्रियां स्त्री सि० कौ० ।

निवर्त्तन न० नि + वृत--णिच्--भावे ल्युट् । १ निवारणे

“सेतुश्च द्विविधो ज्ञेयः खेयी बन्ध्यस्तथैव च । तोयप्रव-
र्त्तनात् खेयो बन्ध्यः स्यात् तन्निवर्तनात्” मिताक्षरा ।
“तथा कराणां दशकेन वंशः । निवर्त्तनं विंशतिसंख्यैः
क्षेत्रं चतुर्भिश्च भुजैनिबद्धम्” लीलावतीपरिभाषिते
(१ विचा) क्षेत्रभेदे “विष्णवे विषयं ग्रामं ग्रामार्द्धमपि
शक्तितः” इत्युपक्रमे “निवर्त्तनसभं वा यो विष्णवे
विनिवेदयेत् । सर्वगीर्वाणनिलवे स क्रीड़ति युगावधि ।
निवर्त्तनशतेनापि यः प्रोणयति केशवम् । शतयोजन-
विस्तीर्णे स राजा भूतले भवेत्” हेमा० दा० वराहपु० ।
अन्यथाऽपि निवर्त्तनमानम् यथाह वृहस्पतिः
“दशहस्तेन दण्डेन त्रिंशद्दण्डो निवर्त्तनम्” । मत्स्यपु० “दण्डेन
सप्तहस्तेन त्रिंशद्दण्डो निवर्त्तनम्” । देशभेदात् शक्त्य-
पेक्षया वा दाने फलतारतम्यद्योतनाय मानभेदोक्तिः ।

निवसति स्त्री नि + वस--आधारे अतिच् । गृहे शब्दरत्ना०

निवसथ पु० न्थुष्यतेऽत्र नि + वस--आधारे अथच् । ग्रामे

हेमच० ।

निवसन न० न्थुष्यतेऽत्र नि + वस--निवासे आधारे ल्युट् ।

१ गृहे शब्दर० । नि + वस--आच्छादने ल्युट् । २ वस्त्रे
हलायुधः । “प्राप्तनाभिनदमज्जनमाशु प्रस्थितं निवस-
नग्रहणाय” माघः । “हैमनैर्निवसनैः सुमध्यमा” रघुः ।

निवहृ पु० नितरामुह्यते वह--घ । १ समूहे अमरः “भाग्ये

(११ ऋक्षे) शवरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय” वृ०
स० ९ अ० । नि + वह--अच् । २ सप्तवायुमध्ये वायुभेदे ।
अनिलशब्दे १६६ पृ० दृश्यम् । “निवहो यत्र वा
वाति केषाञ्चिन्न मुखप्रदः । न प्रचण्डी न च मृदुः
प्रमादी च प्रभञ्जनः” ज्यो० त० ।

निवाकु त्रि० नि + वच--बा० घुण् । निवचनशीले । ततः

वाह्वा० अपत्यादौ इञ् । नैवाकवि तदपत्यादौ ।

निवात पु० निवृत्तो निरुद्धो वा वातोऽस्मात् प्रा० ब० । १ दृढ़-

कवचे शस्त्राद्यभेद्यकवचे, २ आश्रये च अमरः । निवा-
(र्वा)त निष्कम्पमिव प्रदीपम्” कुमा० । “निर्वा(वा)त-
निष्कम्पतया विभाति” रघुः ।

निवातकवच पु० हिरण्यकशिपोः पुत्रस्य संह्रादस्य दैत्यस्य

पुत्रे १ दैत्यभेदे अग्निपु० । निबातमभेद्यं कवचं येषाम् ।
२ दानवभेदे ते च इन्द्रप्रेरितेनार्जुनेन निहतास्तत्कथा
भा० व० १६८ अध्यायादौ । “निवातकवचानाम दानवा भम
शत्रवः । समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत । तिस्रः
कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः । तांस्तत्र जहि
कौन्तेय! गुर्वर्थस्ते भविष्यति” १६८ इत्युपक्रमे
५ अध्यायैस्तद्बधो वर्णितः ।

निवान्या स्त्री नितरां वाति गच्छति पातृत्वेन नि + वा--

क--निवः पाता अन्यः परकीयोवत्सो यस्याः । परकीयेण
वत्सेन या मृतवत्सा गौर्दुह्यते तस्यां गवि । “अभि-
मृशार्ङ्गमपिष्ट्वा निवान्या दुग्धे” कात्या० श्रौ० ५८१८
पृष्ठ ४१०८

निवान्यवत्सा स्त्री निवः पाता अन्यस्यावत्सः अन्यवत्सो

यस्याः । स्वदुग्धपायिपरकीयवत्सयुक्तायां गवि “निवा-
न्यवत्सामेष्टवै ब्रूयात् तस्यै पयसा जुहुयादार्त्तं वा
एतत् पयो यन्निवान्यवत्साया आर्त्तमेतदग्निहोत्रं
यन्मृतस्य तदार्त्तेनैव तदार्त्तं निष्कृत्य श्रेयान् भवति”
शत०ब्रा० १२ ५ १४ ।

निवाप पु० न्युप्यते नि + वप--घञ् । १ पित्राद्युद्देशेन दाने

२ दानमात्रे च अमरः । “भर्तृलोकप्रपन्नानां निवापान्
विदधुः पृथक्” । “अनुगृह्णीष्व निवापदत्तिभिः” रघुः

नि(नी)वार पु० नि + वृ--“नौ वृ० धान्ये” कर्मणि घञ् वा

दीर्घः । नीवाराख्ये धान्यभेदे । नीवाञ्जलिनाऽपि
केवलमहो सेयं कृतार्था तनुः” सा० द० । निवारयति
पापानि नि + वारि अच् बा० दीर्घः । दीर्घयुक्तः नदीभेदे
स्त्री “नीवारां महितां चापि सुप्रयोगां जनाधिप!” भा०
भी० ९ अ० ।

निवारण न० नि + वृ--णिच्--भावे ल्युट् । नितरां वारणे “कण्डूयनैर्दंशनिवारणैश्च” रघुः ।

निवास पु० नि + वस--आधारे घञ् । १ गृहे २ आश्रये च

हेमच० “जगन्निवासो वसुदेवसद्मनि” माघः । भावे
घञ् । ३ वासे “कुम्भकारस्य शालायां निवासं चक्रिरे
तदा” भा० आ० १८५ अ० । ततः धान्या० चतुरर्थ्यां
क । निवासक तत्सन्निकृष्टदेशादौ त्रि० ।

निवासिन् त्रि० नि + वस + णिनि । १ निवासकारके “क्रव्या-

दान् शकुनीन् सर्वांस्तथा ग्रामनिवासिनः” मनुः ।
“अथानाथा प्रकृतयो मातृबन्धुनिवासिनम्” रघुः ।

निविड त्रि० नित्ररां विडति संहन्यते नि + विड--क । १ सान्द्रे

घने २ नीरन्ध्रे ३ दृढ़े च “गुरुनिविडनितम्बविम्बभारा”
माघः । निनता नासा नि + नासायाः विडच् ।
४ नतनासिकायां स्त्री हेमच० निनतनासिकायुक्ते
५ अषटीटे त्रि० ।

निविद् स्त्री नि + विद--करणे क्विप् । १ वाचि निघण्टुः ।

वैश्वदेवस्य शस्त्रे शंसनीये २ मन्त्रपदभेदे च “कति देवा
याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे, यावन्तो वैश्व-
देवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च
सहस्रा” वृ० उप० । “स याज्ञवल्क्योऽपि एतयैव वक्ष्य-
माणया निविदा प्रतिपेदे, यां संख्यां पृष्टवान् शाकल्यो
यावन्तो यावत्सङ्ख्याका देवा वैश्वदेवस्य शस्त्रस्य निविदि,
निविन्नाम देवतासंख्यावाचकानि मन्त्रपदानि कानि-
चिद्वैश्वदेवे शस्त्रे शस्यन्ते तानि निवित्संज्ञकानि
तस्यां निविदि यावन्तो देवाः श्रूयन्ते तावन्तो देवा
इति । का पुनः सा निविदिति तानि निवित्पदानि
प्रदर्श्यन्ते । त्रयश्च त्री च शता त्रयश्च देवा देवानां
त्रीणि च शतानि पुनरप्येवं त्रयश्च त्री च सहस्राण्ये
तावन्तो देवाः” भा० । ३ वक्ष्यमाणन्यूङ्खशब्दार्थे “पदैरा-
प्नोति निविदः” यजु० १९२५ “पदैः निबिदः न्यूङ्खाना-
प्नोति” वेददी० “सावित्र्यं शस्त्वैकाहिके निविदं दधाति”
“चतुर्थकं द्यावापृथिवीयं शस्त्वैकाहिके निविदं दधाति”
“अच्छेत्यार्भवं शस्त्वैकाहिके निविदं दधाति” वैश्वदेवं
शस्त्वैकाहिके निविदं दधाति” इत्यादीनि शत० ब्रा०
१३५१११ पठितानि ।

निविद्धान न० निबिद् न्यूङ्खो धीयतेऽस्मिन् धा--आधारे

ल्युट् । ऐकाहिके यज्ञादौ “तद्यद्वैकाहिकानि निवि-
द्धानानि भवन्ति” शत० ब्रा० १३५११२ यत्र यत्र निविद्
धीयते तत् निविदितिशब्दे उक्तम् दृश्यम् ।

निविरीस स्त्री निनता नासा “नेर्विडज्विरीसचौ” पा०

विरीसच् दन्त्योच्चारणसामर्थ्यात् न षत्वम् । १ नतायां
नासिकायां २ तद्युक्तपुरुषादौ त्रि० । ३ सान्द्रे घने
जटा० “उरुनिविरीसनितम्बभारखेदि” माघः ।

निविष्ट त्रि० नि + बिश--क्त । १ चित्ताभिनिवेशयुक्ते २ एकाग्रे

च “भवन्ति साम्येऽपि निविष्टचेतसाम्” कुमा० ।

निवीत न० नि + अज--क्त व्यदिशः । १ कण्ठलम्बिते यज्ञ-

सूत्रे । व्येञ् संवरणे क्त संप्रसारणादि । २ प्रावृतवस्त्रे
अमरः “उपवीतं भवेन्नित्यं निवीतं कण्ठसञ्जनम्”
कूर्मपु० “अधो वासः प्रतिमुच्योष्णीषं संवेष्ट्य निवीते”
कात्या० श्रौ० १५५१३ “निवीतञ्च कण्ठेसञ्जनम्” कर्कः ।

निवीतिन् त्रि० निवीतमस्त्यस्य इनि । कण्ठलम्बितयज्ञसूत्र-

युक्त “कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः ।
मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा” आह्नि० त० ब्रह्मपु० ।
“उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजैः । सव्ये
तु प्राचीनावीती निवीती कण्ठसञ्जने” मनुः । स्त्रियां
ङीप् “त्वगुत्तरासङ्गवतीं निवीतिनीम्” कुमा० ।

निवृत् स्त्री “ऊनाधिकेनैकेन निवृद्भुरिजौ” छन्दोऽनुक्त

क्रमणिकायां कात्यायनोक्तेषु गायत्र्याद्यष्टछन्दःसु
एकाक्षरन्यूनपादके छन्दोभेदे ।

निवृत न० नि + वृ--क्त । (उडनी) १ उत्तरीये स्वामी । २ परिधृते त्रि० ।

निवृत्त न० नि + वृत--भावे क्त । १ निवृत्तौ यत्नभेदे चित्तस्य

विषयेभ्य २ उपरमे च । ३ अभावे न० । नञ्सूत्रभाष्ये
“निवृत्तपदार्थक” इत्युक्तम् । “तस्यार्थः निवृत्तमभावः
पदार्थो यस्येति नपुंसके भावे क्त इति” वैयाकरणभूषणे
पृष्ठ ४१०९
उक्तं, हरिण्याप्युक्त्रं यथा “अभावो वा तदर्थस्तु
भाष्यस्य हि तदाशयात्” । कर्त्तरि क्त । ४ निवृत्तियुक्ते
त्रि० “निवृत्ततर्षैरुपगीयमानात्” भाग० १ । १ अ० । “निवृत्ते
मरते धीमानत्रेरामस्तपोवनम्” भट्टिः । ५ निवृत्तिपूर्वके
कर्मणि न० “प्रवृत्तञ्च निवृत्तं च द्विविधं कर्म वैदिकम् ।
सर्गादौ सृजता सृष्टं ब्रह्मणा वेदरूपिणा” हेमा०
व्रत० भृगुः । धर्मभेदस्य निवृत्तिपूर्वकत्वादुपचारादत्र
निवृत्तपदव्यपदेश्यता ।

निवृत्तसन्तापन न० निवृत्तं सन्तापनं यस्य । सन्तापविहीने ।

तस्मै हितम् छ । निवृत्तसन्तापनीय रसायनभेदे यथोक्तं
सुश्रुते “यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः ।
तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः । अथ सप्त
पुरुषा रसायनं नोपयुञ्जीरन् तद्यथा अनात्मवानलसो
दरिद्रः प्रमादी व्यसनी पापकृद्भेषजापमानी चेति ।
सप्तभिरेव कारणैर्न सम्पद्यते । अज्ञानादनारम्भादस्थि-
रचित्तत्वाद्दारिद्र्यादनायत्तत्वादधर्मादौषघालाभाच्चेति”
औषधशब्दे दृश्यम् ।

निवृत्तात्मन् त्रि० निवृत्तः विषयेभ्य उपरत आत्मा अन्तःक-

रणं यस्य । १ विषयरागशून्यचेतस्के २ विष्णौ० पु० “अनि-
वर्त्ती निवृत्तात्मा” विष्णुस० “स्वभावतो विषयेभ्यो निवृत्त
आत्मायस्येति विग्रहः” भा० ।

निवृत्ति स्त्री नि + वृत भावे क्तिन् । न्यायमतसिद्धे १ यत्नभेदे

“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् । एवं
प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् । निवृत्तिश्च
भवेद् द्वेषात् द्विष्टसाधनाधियः” भाषा० “द्विष्टसाधनता
ज्ञानस्य दुःखसाधनविषयकनिवृत्तिं प्रति जनकत्वमन्वय
व्यतिरेकाभ्यामवधारितमिति” मुक्ता० मीमांसकमते
कलञ्जाधिकरणशब्दे “प्रवृत्त्युपाधिना विनाशं प्राप्स्यन्
प्राग्भाव एव प्रवृत्तिनिराकरणस्य साध्यमानो निवृत्ति-
रित्युच्यते” इत्युक्ते २ पदार्थे । अधिकं तच्छब्दे नञ्शब्दे
च दृश्यम् “औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्त्तते
लोकः” सा० का० ।

निवृत्त्यात्मन् त्रि० निवृत्तिः आत्मा स्वरूपं यस्य । निषेधे

“निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते” ति० त० ।

निवेश पु० नि + विश--भावे घञ् । १ प्रवेशे २ उपवेशने आधारे

घञ् । ३ निवेशाधारे गृहादौ अस्य क्षुभ्रा० उत्तरपद-
स्थस्य संज्ञायामपि न णत्वम् शरनिवेशः । “श्रीमतां
हरिसखवाहिनीनिवेशः” किरा० । आधारे घञ् ।
४ शिविरे भावे घञ् । ५ उद्वाहे विवाहे मेदिनिकोषः ।

निवेशन न० नि + विश--आधारे ल्युट् । १ गेहे २ नगरे

हेमच० । ३ निवेशाधारे पृथिव्यां स्त्री ङीप् । “स्योना
पृथिवि! नो भवानृक्षरा निवेशनी” “निविशन्ति
जनायस्यां साधुप्रतिष्ठाना पृथिवी” वेददी० । भावे ल्युट् ।
४ प्रवेशे ५ स्थितौ च जटाध० नि + विश + णिच्--भावे ल्युट् ।
६ विन्यासे “सा गौरसिद्धार्थनिवेशवद्भिः” कुमा० ।

निवेष्य न० नि + विष--भावे ण्यत् । १ व्याप्तौ । कर्मणि ण्यत् ।

२ व्याप्ये त्रि० बा० कर्त्तरि ण्यत् । ३ व्यापके देवभेदे पु०
“निवेष्यं (देवभेदम्) मूर्द्धा” यजु० २५ । २ । ४ आवर्त्ते
५ नीहारजले पु० “अथ निवेष्यं गृह्णाति” शत० ब्रा०
५ । ३ । ४ । ११ “निवेष्य आवर्त्तः” भा० निवेष्ये भवः
यत् । ६ तत्र भवे त्रि० । ७ तत्र भवे सद्रे पु० “हृदय्याय
च निवेष्याय च” यजु० १६४४ “निवेष्य आवर्त्तः
नीहारजलं वा तत्र भवो निवेष्यः” वेददी० ।

निव्याधिन् पु० नितरां विध्यति हन्ति शत्रून् नि + व्यघ-

णिनि । १ रुद्रभेदे “नमः सहमानाय निव्याधिने” यजु०
१६२०२ नितान्तव्याधके त्रि० ।

निश् स्त्री नितरां श्यति तनूकरोति व्यापारान् शो--क

पृषो० । १ रात्रौ २ हरिद्रायाञ्च निशाशब्दस्य शसादौ
भत्वे च वा निश् आदेशः । “विधवायां नियुक्तस्तु
घृताक्तो वाग्यतो निशि” मनुः निशाशब्दे दृश्यम् ।

निशठ पु० वलदेवपुत्रभेदे “रामाच्च निशठो जज्ञे रेवत्यां दयितः

सुतः” हरिवं० ३६ अ० ।

निशमन न० नि + शम--णिच्--ल्युट् वा ह्रस्वः । १ दर्शने दृष्टौ

२ श्रवणे च मेदि० । निपूर्वकात् शमयतेः श्रवणार्थत्वं यथा
“निशामय तदुपत्ति विस्तरात् गदतो मम” देवीमा० ।
“अहिद्विषस्तद्भवता निशम्यताम्” । “निशम्य ताः शेष
गवीरमिधातुमधोक्षजः” माघः

निशा स्त्री नितरां श्यति तनूकरोति व्यापारान् शो--क ।

१ रात्रौ २ हरिद्रायाम् “अजगोपतियुग्मञ्च कर्किधन्वि-
मृगा निशा” इति ज्योतिषोक्तेषु ३ मेषादिराशिषु च ।
शसादौ भत्वे च वा निश् आदेशः । “अग्निहोत्रं
जुहुयात् आद्यन्ते द्युनिशोः सदा” मनुः “न स्नानमा-
चरेत् भुक्त्वा नातुरो न महानिशि” मनुः “संविश्य
कुशशयने निशां निनाय” रघुः “त्रिभागशेषायु निशासु
च जणम्” कुमा० “निशातुषारैर्नयनाम्बुकल्पैः” भट्टिः ।
तत्पुरुषेऽस्य “बिभाषा सेनासुराच्छायाशालानिशानाम्”
पृष्ठ ४११०
क्लीवता “श्वनिशं श्वनिशा वा” सि० कौ० ।
समाहारद्वन्द्वेऽपि क्लीवता । “इन्द्रियाणां जये योगं स
याति चेदु दिवानिशम्” मनुः ।

निशाकर पु० निशां करोति “दिवाविभानिशेति” पा०

कृ--ट उप० स० । १ चन्द्रे २ कर्पूरे च अमरः । “द्विजा-
वलीबालनिशाकरांशुभिः” माघः “बहुलेऽपि गते निशा-
करः” कुमा० । ३ कुक्कुटे शब्दरत्ना० ।

निशाख्या स्त्री निशाया आख्या आख्या यस्याः । निशा-

ह्वयायां हरिद्रायाम् अमरः ।

निशाचर पुंस्त्री निशायां चरति चर--ट । १ राक्षसे २

शृगाले ३ पेचके ४ सर्पे च मेदि० “अर्जुनस्य वचः श्रुत्वा
वित्रस्तोऽभून्निशाचरः” भा० अनु० १५२ अ० “तमुपाद्रव-
दुदम्य दक्षिणं दोर्निशाचरः” रघुः स्त्रियां जातित्वात्
ङीष् । ५ रात्रिचारिमात्रे त्रि० स्त्रियां टित्त्वात् ङीप् ।
सा च ६ कुलटायां ७ केशिनीनामगन्धद्रव्ये च जटाधरः ।
“राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा”
रघुः । ८ पिशाचादौ त्रि० ।

निशाचरपति निशाचरणां भूतानां पतिः । प्रमथपतौ

१ शिवे “ततो हरो जटी स्थाणुर्निशाचरपतिः शिवः”
भा० द्रो० ५२ अ० २ राक्षसेश्वरे रावणे च ।

निशाचर्मन् पु० निशाया चर्मेव आवरकत्वात् । अन्धकारे त्रिका० ।

निशाजल न० निशाजातं जलम् शा० त० । हिमजले त्रिका० ।

निशाट पुंस्त्री निशायामटति अट--अच् । १ पेचके हेमच०

स्त्रियां जातित्वात् ङीष् । २ निशागतियुक्तमात्रे त्रि०

निशाटक पु० निशेव कृष्णत्वात् अटति निशायामटति वा

अट--ण्वुल् । १ गुग्गुलौ राजनि० । २ रात्रिचरमात्रे त्रि० ।

निशाटन पुंस्त्री निशायामटति अट--ल्यु । १ पेचके हला०

स्त्रियां जातित्वात् ङीष् । २ रात्रिचरमात्रे त्रि० स्त्रियां
टाप् ।

निशात त्रि० नि + शो--क्त पक्षे इत्त्वाभावः । तेजिते

तीक्ष्णीकृते “पुराणि दुर्गाणि निशातमायुधम्” माघः
“तसुद्यतनिशातासिं प्रत्युवाच जिजीविषुः” भट्टिः ।

निशात्यय पु० ६ त० । १ निशावसाने । ७ ब० । २ प्रभाते च हेमच०

निशाद पु० निशायामत्ति अद--अच् । १ रात्रिभोजिनि

२ निषादे रमानाथः ।

निशादर्शिन् पु० निशायां पश्यति दृश--णिनि । पेचके शब्दार्थकल्पतरुः ।

निशादि पु० ६ त० । सायंसन्ध्यायां राजनि० ।

निशान न० नि + शो--भावे ल्युट् । तीक्ष्णीकरणे तेजने

“क्रमादेतेऽत्र सन्देहे क्षान्तिनिन्दाविचारणे । निशाना-
र्जवनिन्दासु रुग्जयेऽपि कितोमतः” मुग्धबो० । “तेषां
(शस्त्राणां) निशानार्थं शाल्मलिशिलामाषवर्णम्” सुश्रुतः

निशानाथ पु० ६ त० । १ चन्द्रे “अष्टमस्थे निशानाथे कण्टकैः

पापवर्जितैः । प्रवासी सुखामायाति सौम्यैर्लाभसमन्वितः”
षट्पञ्चाशिका । २ कर्पूरे च अमरः ।

निशान्त न० नितरां शम्यते विश्रम्यतेऽत्र आधारे क्त ।

१ भवने अमरः । “तस्याः स राजोपपदं निशान्तं कामीव
कान्ताहृदयं विवेश” रघुः “निशान्तनारीपरिधानधून-
गेत्यादि” माघः ६ त० । २ निशायाः अन्ते । ७ ब० । ३ ऊषसि ।
“न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्” मनुः ।
प्रा० त० । ४ नितान्तशान्ते च मेदि० । ततः उत्करा० । चतु०
रर्थ्यां छ । निशान्तीय तत्सन्निकृष्टदेशादौ त्रि० ।

निशान्ध त्रि० निशायामन्धः ७ त० । १ रात्र्यन्धे नक्तान्धशब्दे

दृश्यम् । २ जतुकालतायां स्त्री रात्र्यन्धसूचकयोगभेदो
वृहज्जातके उक्तो यथा “शूरःस्तब्धो विकलनयनो
निर्घृणोऽर्के तनुस्थे मेषे सस्वस्तिमिरनयनः सिंह-
संस्थे निशान्धः” । “सिंहलग्ने तत्रस्थे चार्के निशान्धः
रात्र्यन्धो भवति” भट्टोत्पलः ।

निशापति पु० ६ त० । १ चन्द्रे २ कर्पूरे च अमरः “स्वस-

न्धिभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः” सू० सि० ।

निशापुत्र पु० निशायाः पुत्र इव । खेचरे नक्षत्रादौ तेषां

रात्रौ पुष्टज्योतिष्कत्वात् रात्रिपुत्रतुल्यत्वम् । “खेचराश्च
निशापुत्रास्तथा पातालवासिनः” हरिवं० २३६ अ० ।

निशापुष्प न० निशायां पुष्प्यति पुष्प--विकाशे अच् । कुमुदे

उत्पले राजनि० ।

निशाबल पु० निशायां बलं वीर्यमस्य । मेषवृषधनुःकर्कटमिथु-

नमकराख्येषु षट्षु राशिषु यथोक्तं वृहज्जातके “मोऽजा-
श्विकर्किमिथुना समृगा निशाख्याः पृष्ठोदया विमिथुनाः
कषितास्तएव । शीर्षोदया दिनबलाश्च भवन्ति शेषा लग्नं
समेत्युभयतः पृथुरोमयुग्मम्” । “निशाख्या निशाबल-
संज्ञा उत्तरत्र दिनबला इत्युक्तेरत्रापि निशाबला
इति, व्याख्यातं तत्प्रयोजनं, यात्रायां तत्रोक्तं यथा च
“शस्तं दिवा दिनबले निशि नक्तवीर्य्ये राशौ
विपर्य्ययमतो गमन न शस्तम्” । नक्तवीर्य्यादयोऽप्यत्र ।

निशाभङ्गा पु० निशाया हरिद्राया भङ्गः इव भङ्गः पल्लवो-

ऽस्याः । दुग्धपुच्छ्याम् (दुधपेया) शब्दच० ।
पृष्ठ ४१११

निशामणि पु० निशायां मणिरिव प्रकाशकत्वात् । १ चन्द्रे

त्रिका० २ कर्पूरे च ।

निशामन पुंस्त्री नि + शम--णिच्--ल्युट् । १ दर्शने २

आलोचने च मेदि० ३ श्रवणे हेमच० ।

निशामुख न० ६ त० । प्रदोषे “स चोपेन्द्रो वृषं हत्वा

कान्तचन्द्रे निशामुखे” हरिवं० ७८ अ० “व्रतं निशा-
मुखे ग्राह्यम्” प्रा० त० ।

निशामृग पुंस्त्री निशाचरः मृगः पशुः शा० त० । शृगाले

शब्दर० । स्त्रियां जातित्वात् ङीष् ।

निशारण न० नि + शृ--हिंसायां स्वार्थे णिच्--भावे ल्युट् ।

१ मारणे अमरः । स्वार्थे णिजभावे निशरणमप्यत्र ।

निशारत्न न० निशायां रत्नमिव प्रकाशित्वात् । १ चन्द्रे

हेमच० २ कर्पूरे च ।

निशारुक पु० १ सङ्गीतशास्त्रप्रसिद्धे रूपकभेदे यथा “दृढ़ः

प्रौढोऽथ खचरो विभवश्चतुरक्रमः । निशारुकः प्रति-
तालः कथिताः सप्त रूपकाः” तस्य लक्ष्म यथा “लघु
द्वन्द्वं गुरुद्वन्द्वं तन्न्यासतालकः स्मृतः । चतुर्विंशति-
बर्णैस्तु रसे हास्ये निशारुकः” सङ्गीतदामोदरः ।
स च तालविशेषः । तथा हि “प्रविश्य नर्त्तको रङ्गं
विकीर्य्य कुसुमादिकम् । निशारुकेण तालेन कोमलं नृत्य-
माचरेत्” सङ्गीतदा० । २ नितान्तहिंसके त्रि० ।

निशावन पु० निशानां हरिद्राणामिव वनमत्र । शणवृक्षे राजनि० ।

निशाविहार पुंस्त्री निशायां विहारोऽस्य । राक्षसे “इत्थं

प्रवादं युधि संहारं प्रचक्रतू रामनिशाविहारौ” भट्टिः ।
स्त्रियां जातित्वात् ङीष् ।

निशावृन्द न० ६ त० । रात्रिगर्ण शब्दरत्ना० ।

निशावेदिन् पु० निशा तन्मानं तत्पारिच्छेदं वेदयति रुतेन

विद + णिच्--णिनि । कुक्कुटे हेमच० ।

निशाहस पु० निशायां हसति पुष्पविकाशेन हस--अच् ।

कुमुदे त्रिका० ।

निशाह्वा स्त्री निशाया आह्वा आह्वाऽभिधानं यस्याः । हरिद्रायाम् अमरः ।

निशित त्रि० नि + शो--क्त पक्षे इत्त्वम् । १ शाणिते तेजिते

२ लौहे न० राजनि० । आधारे क्त । ३ निशीथे स्त्री
“निशितायां निर्वपेन्निशितायां हि रक्षांसि प्रेरते” तैत्ति०
स० २ । २ । २ । २ ।

निशिति स्त्री नि + शो--कर्मणि क्तिन् । तनूकृते “आहृतिं

निशितिं मर्त्यो नशत्” ऋ० ६ । २ । ५ “निशितिं
तनूकृताम्” भा० ।

निशिपालक न० पञ्चदशाक्षरपादके १ छन्दोभेदे “निशि-

पालकमिदं भजसनाश्च रः” वृ० टीका० । २ निशिपा-
लके प्रहरिभेदे पु० ।

निशिपुष्पा स्त्री निशि रात्रौ पुष्प्यति पुष्प--अच् अलुक्स० ।

शेफालिकायाम् । पाककर्णेति ङीष् । निशिपुष्पीत्यप्यत्र

निशीथ पु० निशेरतेऽत्र नि + शी--आधारे थक् । १ अर्द्धरात्रे

अमरः । “यन्निशीथादधो भवेत्” ति० त० २ रात्रिसात्रे
मेदिनिः । “निशीथदीपाः सहसा हतत्विषः” रघुः ।

निशीथिनी स्त्री निशीथोऽस्त्यस्या इनि । रात्रौ अमरः ।

निशीथिनीश पु० ६ त० । १ चन्द्रे हला० । २ कर्पूरे च ।

निशुम्भ पु० नि + शुन्भ--भावे घञ् । १ वधे हेमच० । २ हिंसने

३ मर्दने “प्रागप्राप्तनिशुम्भशाम्भवधनुर्दण्डावभङ्गोद्यतः”
वीरच० । ४ असुरभेदे “कश्यपस्य दनुर्नाम भार्य्यासीद्-
द्विजसत्तम! । तस्यास्तु द्वौ सुतावास्तां सहस्राक्षाद्बला-
धिकौ । ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽ-
सुरः । तृतीयो नमुचिर्नाम महाबलसमन्वितः” वामन
पु० ५२ अ० । “पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।
त्रैलोक्यं यज्ञभागाश्च हृता सदमलाश्रयात्” देवीमा० ।
देव्या तस्य वधकथा “शूलहस्तं समायान्तं निशुम्भमम-
रार्दनम् । हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ।
भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः । महाबलो
महावीर्य्यस्तिष्ठेति पुरुषो वदन् । तस्य निष्क्रामतो
देवी प्रहस्य स्वनवत्तदा । शिरश्चिच्छेद खड्गेन
ततोऽसावपतद्भुवि” मार्कण्डपु० ८९ अ० । अन्योऽपि निशुम्भा-
सुर आसीत् यथाह देवीमाहा० “वैवस्वतेऽन्तरे प्राप्ते
अष्टाविंशतिमे युगे । शुम्भो निशुम्भश्चैवान्यावुत्पत्-
स्येते महासुरौ । नन्दगोपगृहे जाता यशोदागर्भ-
सम्भवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिबासिनी”
मार्क ९१ अ० । “तंत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स
वासवः । कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि ।
स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम् । ततः
स्थानसहस्रैस्त्वं पृथिवीं शोभयिष्यसि । तत्र शुम्भ-
निशुम्भौ द्वौ दानवौ नगचारिणी । माञ्च कृत्वा मनसि
तौ सानुगौ नाशयिष्यसि” हरिवं० ५८ अ० ।

निशुम्भन न० नि + शुन्भ--भावे ल्युट् । मारणे ।

निशुम्भमर्दिनी स्त्री निशुम्भं मृद्नाति मृद--णिनि ६ त० ।

दुर्गायाम् अमरः । तत्कथा निशुम्भशब्दे दृश्या ।

निशुम्भिन् पु० नि + शुन्भ--णिनि । १ बुद्धभेदे त्रिका० । २ नाशके त्र० ।

पृष्ठ ४११२

निशृम्भ पु० निश्रथ्य सम्बध्य हरति नि + श्रन्थ--वा० भक्--

वा० सम्प्रसा० पृषो० । निश्रथ्य सम्बध्य हर्त्तरि पूष्णच्छाग-
भेदे “आजासः पूषणं रथे निशृम्भास्ते जनाश्रयम्”
ऋ० ६ । ५५ । ६ “निशृम्भा निश्रथ्य सम्बध्य हर्त्तारः पूष्णो
वाहनतया प्रसिद्धाः” भा० । इमामेव ऋचमधिकृत्य
निरु० ६ ४ “निशृम्भा निश्रथ्य हारिणः” इत्युक्तम् ।

निशैत पुंस्त्री निशायामेतम् ईषद्गतं यस्य । वके त्रिका०

स्त्रियां जातित्वात् ङीष् ।

निश्चत्वारिंश त्रि० निर्गतः चत्वारिंशतः शदन्तात् ड । चत्वारिंशतोनिर्गते ।

निश्चप्रच त्रि० निश्चितं च प्रचितञ्च मयूरव्य० नि० ।

निश्चिते अथच प्रचिते वस्तुनि ।

निश्चय पु० निर् + चि--अच् । १ संशायान्यज्ञाने निर्णये २

सिद्धान्ते इदमित्थमेवेति ३ विषयपरिच्छेदे च “तद्भावाप्रकारा
धीः तत्प्रकारा तु निश्चयः” भाषा० । “तद्भभावाप्रकारकत्वे
सति तत्प्रकारकज्ञानत्वं निश्चयत्वम्” सुक्ता०
अनुमित्यादौ निश्चयत्वमेव न सन्देहत्वम् “परोक्षज्ञान-
मनाहार्य्य निश्चयश्च” अनु० चि० उक्ते । “संशयो-
ऽथ विपर्य्यासो निश्चयः स्मृतिरेव च” भाग० ३ । २६ । ३०
४ बुद्धेरसाधारणवृत्तिभेदे “मनो बुद्धिरहङ्कारश्चित्तं करण
मान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे”
वेदान्तपरिभा० “बुद्धिर्नाम निश्चयात्मकान्तःकरणवृत्तिः”
वेदा० सा० । “अध्यवसायो बुद्धिः” सा० सू० “महत्तत्त्वस्य
पर्य्यायो बुद्धिरिति अध्यवसायश्च निश्चयाख्यस्तस्यासाधा-
रणी वृत्तिरित्यर्थः अभेदनिर्देशस्तु धर्मधर्म्यभेदात्”
भा० । ५ अर्थालङ्कारभेदे अलङ्कारशब्दे ३८८ पृ० दृश्यम् ।

निश्चर पु० एकादशमन्वन्तरीये सप्तर्षिभेदे तन्मन्वन्तरमुपक्रम्य

“अङ्गिराश्चोदधिष्णश्च पौलस्त्यो निश्चरस्तथा । पुलह-
श्चाग्नितेजाश्च भाव्याः सप्त महर्षयः” हरिवं० ७ अ० ।

निश्चल त्रि० निर् + चल--अच् । १ स्थिरे २ अचले ३ असम्भाव-

नाविपरीतभावनारहिते च । ४ भूमौ ५ शालपर्ण्याञ्च स्त्री
राजनि० । “तालुस्थाचलजिह्वश्च संवृतास्योऽथ निश्चलः”
याज्ञ० । “श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
“समाधावचला बुद्धिस्तदा योगमवाप्स्यसि” गीता ।

निश्चलाङ्ग पुंस्त्री निश्चलं मत्स्यधारणाय स्पन्दरहित-

मङ्गं यस्य । २ वके राजनि० स्त्रियां जातित्वात् ङीष् ।
२ स्पंन्दरहिते त्रि० । स्त्रियां स्वाङ्गत्वात् बा ङीष् ।

निश्चायक त्रि० निर् + चि--ण्वुल् । निश्चयकर्त्तरि निर्णायके

निश्चारक त्रि० निर् + चर--ण्वुल् । १ वायौ २ परीषक्षये

३ स्वच्छन्दे त्रि० मेदि० । निर्गतश्चारो यस्मात् प्रा० ब०
कप् । ४ चारहिते त्रि० चारश्च गतिर्दूतभेदश्च ।

निश्चित त्रि० निर् + चि--कर्मणि क्त । १ निश्चयज्ञानविषये

अवधारिते “वेदान्तविज्ञानसुनिश्चितार्थाः” वेदा० । २
नदीभेदे स्त्री “कौशिकीं निश्चितां कृत्यां निचितां लाहता-
रिणीम्” भा० भी० ९ अ० नानानद्युक्तौ ।

निश्चिन्त त्रि० निर्गता चिन्ता यस्मात् प्रा० ब० । चिन्ताशून्ये

“निश्चिन्तो मृदुरनिशं कलापरोधीरललितः सात्” सा० द०

निश्चि(श्ची)रा स्त्री नदीभेदे विष्णुपु० ।

निश्चुक्कण न० निःशेषेण चुक्कणम् । दन्तशोधके चूर्णभेदे (मिसि) त्रिका० ।

निश्चेष्टाकरण निश्चेष्टा चेष्टाराहित्यं क्रियतेऽनेन

कृकरणे ल्युट् । १ कामवाणभेदे त्रिका० । २ मनःशिलाघ-
टितौषधभेदे वैद्यकम् ।

निश्च्यवन पु० वैवस्वतमन्वन्तरे सप्तर्षिमध्ये १ ऋषिभेदे तदुपक्रमे

“प्राणो वृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा” हरिवं०
७ अ० । २ अग्निभेदे “यस्तु न च्यवते नित्यं यशसा
वर्चसा श्रिया । अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति
केवलम्” भा० ब० ११८ अ० । निर्गतं च्यवनमस्य प्रा० ब० ।
३ च्युतिहीने त्रि० ।

निश्छन्दस् त्रि० निर्गतं छन्दो वेदोयस्य प्रा० ब० । वेदाध्य-

यनहीने “हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्श-
सम्” (कुलम्) मनुः ।

निश्न त्रि० निश--समाधौ वा० नङ् । समाहिते ततः । ब्रा-

ह्मणा० भावे कर्मणि च ष्यञ् । नैश्न्य समाहितत्वे न० ।

निश्वास पु० नि + श्वस--भावे घञ् । प्राणवायोर्वहिर्गमनरूपे

व्यापारे हेमच० । “निश्वासधूमं सह रत्नभाभिः” माघः ।

निश्वाससंहिता शिवप्रणीते पाशुपते शास्त्रभेदे “एव०

मभ्यर्थितस्तैस्तु पुराहं द्विजसत्तमाः । वेदक्रियासमा-
युक्तां कृतवानस्मि संहिताम् । निश्वासाख्यां ततस्तस्यां
गीना वाभ्रव्यशाण्डिलाः । निश्वाससंहिता या हि
लक्षमात्रप्रमाणतः । सैव पाशुपती दीक्षा योगः पाशु-
पतस्य हि । एतस्माद्वेदमार्गाद्धि यदन्यदिह जायते ।
तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम्” वराहपु० ।

निषङ्ग पु० नितरां सजन्ति शरा यत्र सन्ज--आधारे घञ् ।

१ तूणीरे अमरः । “जाताभिषङ्गो नृपतिर्निषङ्गात्” ततो
निषङ्गादसमग्रमुद्धृतम्” रघुः । भावे घञ् । २ नितान्तसङ्गे
च “केन कार्यनिषङ्गेण तमाख्याहि महाबल!” भा० शा०
२०१ अ० । ३ खड्गे च वेददी० निषङ्गधिशब्दे दृश्यम् ।
पृष्ठ ४११३

निषङ्गथि पु० नि + सन्ज--भावे गथिन् कुत्वम् । समालिङ्गे

उज्ज्वद० ।

निषङ्गधि पु० निषङ्गः खडगः धीयतेऽस्मिन् धा--आधारे कि

१ खछ्गपिधाने कोशे (खाप्) “आतुरस्य निषङ्गधिः”
यजु० १६ । १० “निषङ्गः खड्गः स धीयतेऽस्मिन्निति
निषङ्गधिः कोशः” वेददी० ।

निषङ्गिन् त्रि० निषङ्गोऽस्त्यस्य इनि । १ धनुर्द्धरे अमरः ।

नि + सन्ज--घिणुन् । २ तूणीरे शब्दार्थचि० ४ खड्गधा-
रिणि च “नमो नमो निषङ्गिणे ककुभाय स्तेनाना पतये”
यजु० १६२० “निषङ्गिणे खड्गधारिणे” वेददी० ।
“निषङ्ग्यस्त्री धनुर्द्धरः” इत्यमरे पाठात् निषङ्गीन इति
शब्दक० उक्तिः प्रामादिकी अत्राणत्वञ्च चिन्त्यम् । ५
नितान्तसङ्गयुक्ते च “स्थाणौ निषङ्गिण्यनसि क्षणं पुरः”
माघः “निषङ्गिणि सक्ते अनसि” मल्लि० ६ तूणी-
रवति च “रथी निषङ्गी कवची धनुष्मान्” रघुः ।
७ धृतराष्ट्रपुत्रभेदे पु० “कवची निषङ्गी दण्डी दण्डधारो
धनुर्ग्रहः” भा० आ० ६७ अ० तत्पुत्रोक्तौ ।

निषण्ण त्रि० नि + सद--कर्त्तरि क्त । उपविष्टे “संनिषण्णा

सिताब्जे” सरस्वतीध्यानम् । “निषण्णा पङ्कजे पूज्या नमो
देव्यै श्रिया इति” ति० त० । स्वार्थे--क । तत्रार्थे त्रि०
संज्ञायां कन् । सुनिषण्णके शाकभेदे शब्दरत्ना० ।

निषत्स्नु त्रि० नि + सद--वा० स्नु । निषण्णे “निषत्स्नुं स

यः सरीसृपम्” ऋ० १० १६२३

निषद् स्त्री निषीदत्यस्याम् नि + सद--आधारे घञ् । १ यज्ञदी-

क्षायाम् “या वै दीक्षा सा निषत् तत्सत्रं तदयनं तत्स-
त्रायणम्” शत० ब्रा० ४६७२ निषीदति वेद्यत्वेन देवता
अत्र आधारे क्विप् । २ वेदवाक्यविशेषे “यं वाकेष्वनुवाकेषु
निषत्सूपनिषत्सु च । गृणन्ति सत्यकर्माणम्” भा० शा०
७७ अ० । “वाकेषु मन्त्रेषु सामान्यतः कर्मप्रकाशकेषु
अनुवाकेषु मन्त्रार्थविवरणभूतेषु ब्राह्मणवाक्येषु निषत्सु
कर्माङ्गावबद्धदेवताविज्ञानवाक्येषु उपनिषत्सु केवलात्म-
ज्ञापकेषु गृणन्ति ध्यायन्ति” नीलक० । सम्प० भावे
क्विप् । ३ उपसदने स्त्री “अभिस्वरा निषदा गा
अवस्यवः” ऋ० २२१५ “निषदा उपसदनेन” भा० । नि +
सद--कर्त्तरि क्विप । ४ उपवेष्टरि निषद्वरशब्दे दृश्यम् ।

निषदन न० निषीदत्यत्र आधारे ल्युट् । १ गृहे शब्दार्थचि० ।

२ उपवेशनस्थाने च “निक्रमणं निषदनम्” यजु० २५ । ३८
“निषदनसुपवेशतस्थानम्” वेददी० । भावे ल्युट् । ३ स्थितौ
“अश्वत्थे वो निषदनम् पर्णे वो वसतिस्कृता” यजु० १२ ।
७९ “निषदनं स्थानम्” वेददी० । निषीदति
पापकमत्र ल्युट् । ४ निषादे पु० “निषादः कस्मान्निषदनो
भवति निषण्णमत्र पापकमिति” निरु० ३८

निषद्या स्त्री निषीदन्त्यस्याम् जनाः नि + सद--आधारे क्यप् ।

१ पण्यविक्रयशालायां (हाटचाला) २ हट्टे अमरः
३ क्षुद्रखट्वायाञ्च शब्दार्थचि० “केचित् गुर्वीमेत्य संयन्नि-
षद्याम् क्रीणन्ति स्म प्राणमूल्यैर्यशांसि” माघः ।

निषद्वर पु० नि + सद--क्विप् निषद् आसनं तां वृणाति

वृ--अच् वरः आवरकः ६ त० । जम्बाले १ कर्दमे अमरः ।
नि--सद आधारे बा० ष्वरच् । षित्त्वात् ङीष् । २
निशायां स्त्री मेदि० । उभयत्र हि गतेर्निषण्णत्वात्
तथात्वम् । ६ त० । ३ निषदामुपवेष्टॄणां वरे श्रेष्ठे वृषभेदे
“निषद्वरं वृषभं नर्य्यापसम्” यजु० २८ । ४ “निषीदन्ति
निषद उपवेष्टारस्तेषां वरम् श्रेष्ठम् ऋषभम्” वेददी० ।

निषध पु० पर्वतभेदे स च सि० शि० उक्तो यथा

“लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्मा-
च्चान्यो निषध इति ते सिन्धुपर्यन्त दैर्व्याः” । एवं सिद्धा-
दुदगपि पुरात् शृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह
बुधा अन्तरे द्रोणिदेशान् । भारतवर्षमिदं ह्युदगस्मात्
किन्नरवर्षमतो हरिवर्षम्” मू० “अतो लङ्काया उत्त-
रतो हिमवान् नाम गिरिः पूर्व सिन्धुपर्यन्तदैर्व्यो-
ऽस्ति । तस्योत्तरे हेमकूटः, सोऽपि समुद्रपर्यन्तदैर्घ्यः ।
तथा तदुत्तरे निषधः” । तेषामन्तरे द्रोणिदेशा वर्ष-
संज्ञाः, तत्रादौ भारतवर्षम् । तदुत्तरं किन्नरवर्षम् ।
ततो हरिवर्षमिति” प्रमिता० । स च किंपुरुषवर्षस्य
सीमापर्वतः यथाह भाग० ५ । १६ । १० श्लो० । “एवं दक्षि-
णेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता
यथा नीलादयः । अयुतयोजनोत्सेधा हरिवर्षकिम्-
पुरुषभारतानां यथासंख्यम्” । सूर्यवंश्ये रामात्मजकुशस्य
पौत्रे २ नृपभेदे “अतिथिस्त कुशाज्जज्ञे निषधस्तस्य
चात्मजः” हरिवं १५ अ० । “स (अतिथिः) नैषधस्यार्थपतेः
सुतायाम् उत्पादयामास निषिद्धशत्रुः । अनूनसारं
निषधान्नगेन्द्रात् पुत्रं यमाहुर्निषधाख्यमेव” रघुः । चन्द्र-
वंश्ये ३ जनमेजयान्तरस्यात्मजभेदे “जनमेयस्य तनयाः
भुवि ख्याता महाबलाः । धृतराष्ट्रः प्रथमजः पाण्डुर्बा-
ह्लीक एव च । निषधश्च महातेजास्तथा जाम्बूनदो
ब्रली” भा० आ० ९४ अ० । ४ देशभेदे पु० ब० व० । “शका
पृष्ठ ४११४
निषादा निषधास्तथैवानर्त्तनैरृताः” भा० भी० ९ अ०
जनषदोक्तौ । “निषधेषु महीपालो वीरसेन इति
श्रुतः” भा० व० ५२ अ० । निषधानां राजा ते अभिजनोऽस्य
वा अण् । नैषध तद्देशनृपे पित्रादिक्रमेण तद्देशवासिनि
च । “न नैषधे कार्यमिदं निगाद्यम्” नैष० बहुषु अणो
लुक् । ५ कठिने त्रि० मेदि० ६ निषादस्वरे हेमच० ।
७ कुरुनामकनृपपुत्रे च “तपत्यां सूर्य्यकन्यायां कुरुक्षे-
त्रपतिः कुरुः । परीक्षित् सुधनुर्मन्युर्निषधश्च कुरोः
सुताः” भाग० २२ । ३

निषाद पुंस्त्री निषीदति पापमत्र नि + सद--आधारे घञ् ।

१ चण्डाले जातिभेदे अमरः तन्निरुक्तिः “निषादः कस्मा-
न्निषदनो भवति निषण्णमत्र पापकमिति” निरु० ३ । ८ ।
वेनोरुमन्थनाज्जाते २ जातिभेदे तत्कथा “दग्धस्थूणा-
व्रतीकाशी विकटाक्षोऽतिह्रस्वकः । किङ्करोमीति तान्
सर्वान् विप्रानाह स चातुरः । निषीदेति तमूचुस्ते
निषादस्तेन सोऽभवत् । ततस्तत्सम्भवा जाता विन्ध्य-
शैलनिवासिनः । निषादा मुनिशार्दूल! पापकर्मोपल-
क्षणाः । तेन द्वारेण निष्क्रान्तं तत्पापं तस्य भूपतेः ।
निषादास्ते ततो जाता वेनकल्मषनाशनाः” स्त्रियां
लातित्वात् ङीष् । “निषाद्याः पञ्चपुत्रायाः सुप्ताया
जतुवेश्मनि” भा० आ० १ अ० । तन्त्रीकण्ठोत्थिते ३ स्वर-
भेदे पु० अमरः । “षड्जादयः षड़ेतेऽत्र स्वराः सर्वे
मनोहराः । निषीदन्ति यतो लोके निषादस्तेन
कथ्यते । चतस्रः पञ्चमे षड्जे मध्यमे श्रुत्तयो मताः ।
ऋषभे धैवते तिस्रोद्वे गान्धारनिषादके” सङ्गीतदामो-
दरः “निषादं रौति कुञ्जरः” इत्युक्तेः तस्य हस्तितुल्य-
स्वरता । ४ ब्राह्मणाच्छूद्रकन्यायामुत्पन्ने पारशवाख्ये
जातिभेदे च “ब्राह्मणात् वैश्यकन्यायामम्बष्ठो नास
जायते निषादः । शूद्रकन्यायां यः पारशव उच्यते”
मनुः । “मत्स्यघातोनिषादानाम्” मनुना तद्धृत्तिरुक्ता
५ देशभेदे स च देशः सरस्वती नद्यन्तर्द्धानस्थानं यथोक्तं
भा० व० १३० अ० “एतद्विनशनं नाम सरस्वत्या विशा-
म्पते! । द्वारं निषादराष्ट्रस्य येषां दोषात् सरस्वती ।
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः” ।

निषादकर्षू पु० देशभेदे ततः शैषिकः ठञ् “इसुसुक्

तान्तात् कः” पा० ठस्य कः, “केऽणः” पा० ह्रस्वः ।
नैषादकर्षुक तत्सम्बन्ध्यादौ त्रि० ।

निषादवत् पु० निषादोऽस्त्यस्य मतुप् मस्य वः । १ निषाद-

स्वरे “षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा । पञ्च-
मश्चापि विज्ञेयस्तथा चापि निषादवान्” भा० शा० १८४
अ० । २ निषादस्वरयुक्ते गानादौ त्रि० स्त्रियां ङीप् ।

निषादित न० नि + सद--णिच्--भावे क्त । १ निषादने उपवेश-

नकरणे । निषादितमनेनेत्यर्थे इष्टा० इनि । निषादि-
तिन् निषादनकर्त्तरि त्रि० स्त्रियां ङीप् । कर्मणि क्त ।
२ उपवेशिते त्रि० ।

निषादिन् पु० निषादयति हस्तिनं नि + सद--णिच्--णिनि ।

हस्त्यादेरुपवेशनादिकारके १ हस्तिपके अमरः “निर्याण
निर्यदसृजं चलितं निषादी” माघः । नि + सद--णिनि ।
२ उपविष्टे “आतपात्ययसंक्षिप्तनीरारासु निषादिनिः”
रघुः । स्त्रियां ङीप् । “इक्षुच्छायानिषादिन्यः” रघुः ।

निषिक्त त्रि० नि + सिच--क्त । १ नितान्तसिक्ते आहिते

२ शुक्रादौ च ३ तज्जे गर्भे च “योनेः शरीरम्” शा०
सूत्रभाष्ये “योनौ निषिक्ते रेतसि” उक्तम् “विष्णुं
निषिक्तपामवोभिः” ऋ० ७ । ३६ । ९ “निषिक्तपाम् निषि-
क्तस्य गर्भस्य रक्ष तारम्” भा० ।

निषिद्ध त्रि० नि + सिध--कर्मणिक्त । १ निषेधविषये २ बाधिते

“निषिद्धैरप्येभिर्लुलितमकरन्दैर्मधुकरैः” वेणीसं० ।
३ भ्रमावगतेष्टसाधनतानिषेधिनञ्पदयोगिवाक्यगम्ये
४ अनिष्टसाधनताबोधकलिङाद्यनुषक्तनञ्पदयोगिवाक्यगम्ये च
यथा “न कलञ्जं भक्षयेत्” इत्यत्र “कलञ्जभक्षणं
निषिद्धम्” “काम्यनिषिद्धवर्जनपुरःसरम्” वेदान्तसा० ।

निषेक पु० नि + सिच--भावे घञ् कुत्वम् । १ जलादेः नितान्त

सेचने २ गर्भाधाने च “निषेकादिश्मशानान्तोमन्त्रैर्य-
स्योदितो विधिः” मनु० “योषित्सु तद्वीर्य्यनिषेकभूमिः”
कुमा० । “वैदिकैः कर्ममिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः” मनुः । “निषेककाले सोमे च
सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्ग-
मेव च” श्रा० त० भविष्यपु० । “निषेककाले गर्भार्थशुक्रा-
धानदिने” रघु० ।

निषेदिवस् त्रि० नि + सद--कसु । निषण्णे उपविष्टे स्त्रियां

ङीप् सेटोवस्य उः । “निषेदुषो स्थण्डिल एव केवले” कुमा०

निषेध पु० नि + सिध--भावे घञ् । १ वारणे २ निवर्त्तने ।

निषिध्यतेऽनेन करणे घञ् । ३ अनिष्टसाधनताबोधक
वेदादिवाक्यभेदे “स च (वेदः) विधिमन्त्रनामधेयनिषे-
धार्थवादभेदात् पञ्चविधः” लौगाक्षिभास्करः । तल्ल-
णादि तत्र निरूपितं यथा
पृष्ठ ४११५
“पुरुषस्य निवर्त्तकं वाक्यं निषेधः निषेधवाक्यानाम-
र्थहेतुक्रियानिवृत्तिजनकत्वेनैवार्थवत्त्वात् । तथाहि यथा
विधिः प्रवर्त्तनां प्रतिपादयन् स्वप्रवर्त्तकत्वनिर्वाहार्थं
विधेयस्य यागादेरिष्टसाधनत्वमाक्षिपन् पुरुषं तत्र प्रवर्त्त-
यति । तथा “न कलञ्जं भक्षयेत्” इत्यादि निषेषोऽपि
निवर्त्तयन् स्वनिवर्त्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्ज-
भक्षणस्य परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त्त-
यति । ननु निषेधवाक्यस्य कथं निवर्त्तनाप्रतिपादकत्व-
मिति चेत्? उच्यते न ताबदत्र धात्वर्थस्य नञर्थेना-
न्वयः अव्यवधानेऽपि तस्य प्रत्ययार्थभावनोपसर्जनत्वे-
नोपस्थितेः । न ह्यन्योपसर्जनत्वेनोपस्थितमन्यत्रान्वेति ।
अन्यथा राजपुरुषमानयेत्यादावपि राज्ञः क्रियान्वया-
पत्तेः । अतः प्रत्ययार्थस्यैव नञर्थेऽन्वयः । तत्रापि
नाख्यातांशवाच्यार्थभावनायाः, तस्या लिङशवाच्यप्र-
वर्त्तनोपसर्जनत्वेनोपस्थितेः । किन्तु लिङशवाच्यशाब्द
भावनायाः, तस्याः सर्वापेक्षया प्रधानत्वात् । नञश्चैष
स्वभावो यत् स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम् ।
यथा “घटोनास्तीत्यादौ” अस्तीति शब्दसमभिव्याहृतो
नञ् घटसत्ताविरोधिनिवर्त्तनामेव वोधयति विधिवा-
क्यश्रवणेऽय मां प्रवर्त्तयतीति प्रतीतेः । तस्मान्निषेध-
वाक्यस्थले निवर्त्तनैव वाक्यार्थः! यदा तु प्रत्ययार्थस्य
तत्रान्वये बाधकं तदा धात्वर्थस्यैव तत्रान्वयः । तच्च
बाधकं द्विविधम् । तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्च ।
तत्राद्यं “नेक्षेतोद्यन्तमादित्यम्” इत्यादौ तस्य व्रतमि-
त्युपक्रम्यैतद्वाक्यपाठात् । तथा चात्र पर्युदासाश्रय-
णम् । तथा हि व्रतशब्दस्य कर्त्तव्यार्थरूढत्वात्तस्य व्रत-
मित्यत्र स्नातकस्य व्रतानां कर्त्तव्यत्वेनोपक्रमात् किं
तत् कर्त्तव्यमित्याकाङ्क्षायां “नेक्षेतोद्यन्तमादित्यम्” इत्या-
दिना कर्त्तव्यार्थ एव प्रतिपादनीयः । अन्यथा पूर्वोत्तर-
वाक्ययोरेकवाक्यत्वं न स्यात् । तथा च नञर्थेन प्रत्य-
यार्थान्वये स्कर्त्तव्यार्थानवबोधात् विध्यर्थप्रवर्त्तनाविरो-
धिनिवर्त्त नाया एव तादृशनञा बोधनात् तस्याश्च
कर्त्तव्यार्थत्वाभावात् । तस्मान्नेक्षेतेत्यत्र नञा धात्वर्थ-
विरोध्यनीक्षणसङ्कल्प एव लक्षणया प्रतिपाद्यते । तस्य
कर्त्तव्यत्वसम्भवात् । आदित्यविषयकारोक्षणसङ्कल्पेन
भावयेदिति वाक्यार्थस्तत्र भाव्याकाङ्क्षायाम् “एतावता हैनसा
वियुक्तो भवतीति” वाक्यशेषावगतः एपिक्षयो भाव्यतया-
न्वेति । एवञ्च पूर्वोत्तरयोरेकवाक्यत्वं निर्वहत्येव । न
चात्र धात्वर्थविरोधिनः पदार्थान्तरस्यापि सम्भवात्
कथमनीक्षणसङ्कल्पस्यैव भावनान्वय इति वाच्यम् तत्र
कर्त्तव्यत्वाभावेन प्रकृते भावनान्वयायोग्यत्वात् । द्वितीयं
“यजतिषु ये यजामहङ्करोति नानुयाजेषु” इत्यादौ । अत्र
विकल्पप्रसक्त्यैव पर्युदासाश्रयणात् । तथाहि यद्यत्र
वाक्ये नञर्थे प्रत्ययार्थान्वयः स्यात्तदा “अनुयाजेषु ये
यजामहे” इति मन्त्रस्य प्रतिषेधः स्यात् । अनुयाजेषु
ये मजामहे” न कुर्यादिति । स च प्राप्तिपूर्वक एव प्राप्त-
स्यैव प्रतिषेधात् । प्राप्तिश्च यजतिषु “ये यजामहङ्करो-
तीति” शास्त्रादेव वाच्या । शास्त्रप्राप्तस्य च प्रतिषेधे
विकल्प एव न तु बाधः । प्राप्तिमूलरागस्येव तन्मूल-
शास्त्रस्य शास्त्रान्तरेण बाधायोगात् । न च पदे जुहोती-
त्यादौ हि विशेषशास्त्रेणाहवनीये जुहोतीति शास्त्रस्येव
नानुयाजेष्वित्यनेन यजतिषु ये यजामहङ्करोतीत्यस्य
बाधः स्यादिति वाच्यम् परस्परनिरपेक्षयोरेव शास्त्र-
योर्बाध्यबाधकभावात् । पदशास्त्रस्य हि स्वार्थविधाना-
र्थमाहवनीयशास्त्रानपेक्षणान्निरपेक्षत्वम् । प्रकृते तु
निषेधशास्त्रस्य निषेध्यप्रसक्त्यर्थं “यजतिषु ये यजामहम्”
इत्यस्यानपेक्षणान्न निरपेक्षत्वम् । तस्माच्छास्त्रविहितस्य
शास्त्रान्तरेण प्रतिषेबे विकल्पएव, स च न युक्तः ।
विकल्पे शास्त्रस्य पाक्षिकाप्रामाण्यापातात् । न “ह्यनुया-
जेषु ये यजामहम् इत्यस्यानुष्ठाने नानुयाजेष्वित्यस्य
प्रामाण्यं सम्भवति, व्रीहियागानुष्ठाने यवशास्त्रस्येव ।
द्विरदृष्टकल्पना च स्यात्, विधिप्रतिषेधयोरपि पुरुषार्थ-
त्वात् । अतोऽत्र न प्रतिषेधस्याश्रयणम् । किन्तु
अनुयाजसम्बन्धमाश्रित्य पर्युदासस्यैव । इत्थञ्चानुयाजव्यति-
रिक्तेषु “यजतिषु ये यजामहे” इति मन्त्रं कुर्य्यादिति
वाक्यार्थबोधः नञोऽनुयाजव्यतिरिक्ते लाक्षाणिक-
त्वात् । एवञ्च न विकल्पः । अत्र च वाक्ये “ये
यजामहे” इति न विधीयते । “यजतिषु ये यजामहे”
इत्यनेनैव प्राप्तत्वात् । किन्तु सामान्यशास्त्रप्राप्तये “ये
यजामहे” इत्यनुवादेन तस्यानुयाजव्यतिरिक्तविषयत्वं
विधीयते यत् यजतिषु ये यजामहङ्करोति तदनुयाजव्यति-
रिक्तेष्वेवेति । नन्वेवं सामान्यतः प्राप्तस्य विशेषसङ्कोचरू-
पादुपसंहारात् पर्युदासस्य भेदो न स्यादिति चेन्न
उपसंहारो हि तन्मात्रसङ्कोचार्थः । यथा पुरोडाशे
“चतुर्द्धा करोतीति” सामान्यप्राप्तचतुर्द्धाकरणम् “आग्नेय
चतुर्द्धा करोतीति” विशेषादाग्नयपुरोडाशमात्रे सङ्को
पृष्ठ ४११६
च्यते पर्युदासस्तु तदन्यमात्रसङ्कोचार्थ इति ततो
भेदात् । कुत्रचिद्विकल्पप्रसक्तावप्यनगत्या प्रतिषेधाश्रय-
णम् । यथा “नातिरात्रे षोडशिनं गृह्णाति” इत्यादौ ।
अत्र “अतिरात्रे षोडशिनं गृह्णातीति” शास्त्रप्राप्तषो-
डशिग्रहणस्य निषेधाद्विकल्पप्रसक्तावपि न पर्युदासाश्र-
यणम्, असम्भवात् । तथाहि यद्यत्र षोडशिपदार्थे
नञर्थान्वयस्तदातिरात्रे षोडशिव्यतिरिक्तं गृह्णातीति
वाक्यार्थबोधः स्यात् । स च न सम्भवति “अतिरात्रे
षोडशिनं गृह्णातीति” प्रत्यक्षविधिविरोधात् । यदि
चातिरात्रपदार्थेनान्वयस्तदातिरात्रव्यतिरिक्ते षोडशिनं
गृह्णातीति वाक्यार्थबोधः स्यात् । सोऽपि न सम्भवति,
तद्विधिविरोधात् । अतोऽनन्यगत्या शास्त्रप्राप्नषोडशि-
ग्रहणस्यैव निषेधः । न च विकल्पप्रसक्तिः तस्याप्याश्रय-
णीयत्वात् । इयांस्तु विशेषो यद्विकल्पादावेकप्रतिषिध्यमा-
नस्य नानर्थहेतुत्वम् । यथा “न कलञ्जं भक्षयेत्” इत्यादौ
कलञ्जभक्षणादेः, तत्र भक्षणनिषेधस्यैव पुरुषार्थत्वात् ।
न च “दीक्षितो न ददाति न जुहोति” इत्यादौ शास्त्र-
प्राप्तदानहोमादीनां निषेधाद्विकल्पापत्तिरिति वाच्यम् ।
स्वतः पुरुषार्थभूतदानहोमादीनां निषेधस्य पुरुषार्थत्वा
ऽभावेपि निषिध्यमानस्यानर्थहेतुत्वम् यथा क्रतौ स्त्री-
गमनादेः । तन्निषेधस्य क्रत्वर्थत्वेन तस्य क्रतुवैगुण्यस-
म्पादकत्वात्” ।

निषेधक त्रि० नि + सिध--ण्वुल् । निवारके “ये चाह्लादनिषेधकाः” मार्कण्डपु० ।

निषेधविधि पु० निषेधे अभावे विधिरिष्टसाधनताधीहेतुः ।

अभावे इष्टसाधनताबोधकवाक्ये यथा “एकादश्यां न
भुञ्जीतेत्यादौ” भोजनाभावे एव इष्टसाधनत्वं बोधयति न तु
भोजने विध्यर्थेष्टसाधनत्वभावम्, अतो निषेधवाक्या-
दस्य भेदः । “अष्टम्यां मांसं नाश्नीयात्” इत्यादौ तु
निषेधे मांसजोजने अनिष्टसाधनत्वं बोधयति “एकादश्यां
न भुञ्जीत” इत्यादौ तु भोजनाभावे इष्टसाधनत्वमिति
विधिस्वरूपे गदाधरः । एवं नेक्षेतोद्यन्तमादित्यमित्या-
दावपि निषेधविधित्वमित्याकरे स्थितम् । अतएव
एकादशीभोजनाभावस्य अभोजनसंकल्परूपस्य व्रतत्वम्
तिथिखण्डविशेषनियमनं, च । निषेधत्वे कालमात्रापे-
क्षतया तत्कालमात्रेण निवृत्तिः स्यात् “निषेधस्तु
निवृत्त्यात्मा कालमात्रमपेक्षते” इति भट्टोक्तेः ।

निष्क माने चु० आत्म० सक० सेट् । १ निष्कयते अनिनिष्कत ।

अणोपदेशत्वात् सति निमित्ते न णत्वम् । प्रनिष्कयते ।

निष्क पु० न० निश्चयेन कायति निस् + कै--क निष्क--अच

वा । शास्त्रीयषोडशमाषकपरिमितसुवर्णानामष्टाधिकशते,
२ व्यवहारिकरूपके (टाका) ३ चतुसुवर्णपरिमिते
पलपरिमाणे मानभेदे, ४ वक्षोभूषणे ५ हेमपात्रे ६ दीनारे
च अमरः । दीनारशब्दे दीनारार्थः दृश्यः । ७ पणे
८षोडशद्रम्मे (काहन) परिमाणे “वराटकानां दशकद्वय
यत् सा काकिणी ताश्च पणश्चतस्रः । ते षोडश द्रम्म
इहावगम्यो द्रम्मैस्तथा षोडशभिश्च निष्कः” लीला० ।
“हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम्” कुमा०
“चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः” मनुः
“गवामभावे निष्कः स्यात् तटूर्द्धं पादमेव वा” मिता०
धृता स्मृतिः ।

निष्कण्टक त्रि० निर्गतः कण्टकोऽस्य प्रा० ब० । १ उपसर्गहीने

२ बाधकरहिते “राज्यं निष्कण्टकंकृत्वा भोक्ष्यसे मेदिनीं
पुनः” भा० वि० ६ अ० ।

निष्कण्ठ पु० विर्गतः कण्ठः स्कन्धोऽस्य । वरुणद्रुमे शब्दच०

निष्कम्प त्रि० निर्गतः कम्पो यस्य प्रा० ब० । कम्पहीने

“निवातनिष्कम्पमिव प्रदीपम्” “निष्कम्पवृक्षंनिभृतद्विरेफम्”
कुमा० “दिशः पपात पत्रेण वेगनिष्कम्पकेतुना” रघुः ।

निष्कम्भु पु० देवसेनाधिपभेदे “बलिना वृषपर्वा तु सह

निष्कम्भुना रणे” हरिवं० २४४ अ० देवासुरयुद्धोक्तौ ।

निष्कर्ष पु० निस् कृष + भावे घञ् । १ निश्चये २ इयत्तादिना

स्वरूपपरिच्छेदे “एतद्विदन्तोविद्वांसस्त्रयीनिष्कर्षमन्व-
हम्” मनुः । “स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रद-
र्श्यते” भाषा० । ३ निःसारणे च

निष्कर्षण न० निस् + कृष--प्रावे ल्युट् । १ निष्कासने २ निःसा-

रणे “ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम्” रघुः

निष्कल त्रि० निर्गता कला यस्य प्रा० ब० । १ कलाशून्ये

२ निरवयवे सम्पूर्णे “निष्कलं निष्क्रियं शान्तं निरवद्यं
निरञ्जनम्” श्वेता० उ० “चिन्मयस्याद्वितीयस्य निष्क-
लस्याशरीरिणः” एका० जामदग्न्यवाक्यम् । ३
कलादिव्यापारशून्ये च “दृश्यन्ते निष्कलाः शान्तं प्रहीणाः
स्वस्वकर्मभिः” भा० व० २०८ अ० । ४ गतार्त्तवायां वृद्धायां
स्त्रियां स्त्री शब्दरत्ना० नीरकस्कायां स्त्रियां स्त्री
ङीप् शब्दरत्ना० ।

निष्कषाय त्रि० निर्गतः कषायः चित्तमलभेदो यस्य प्रा० ब० ।

१ चित्तदोषशून्य निर्मलचित्ते नुमुक्षौ । उत्सर्पिण्यां
२ जिनभेदे पु० हेमच० ।
पृष्ठ ४११७

निष्कादि पु० “अससासे निष्कादिभ्यः” षा० तेन क्रीतभि-

त्यर्थे असमासे ठग्निमित्ते शब्दगणे स च गणः पा० ग०
सू० उक्तो यथा “निष्क पण पाद माष वाह द्रोण
षष्टि” । निष्केण क्रीतं नैष्किक निष्केण क्रीते त्रि० ।
स्त्रियां टाप् । समासे तु ठञ् स्त्रियां ङीप् इतिभेदः

निष्काम त्रि० निर्गतः कामोऽभिलाषो यस्य यत्र वा प्रा० ब० ।

विषयभोगेच्छाशून्ये १ कामनयाऽकृते कर्मादौ च “निष्कामं
ज्ञानपूर्वं च निवृत्तमुपदिश्यते” मनुः । “निष्कामादन्त-
र्यागजपादिकर्मणो न दुःखं प्रत्युत मोक्षफलं प्राप्यते”
सा० प्र० भा० “विशिष्टफलदाः पुंसां निष्कामाणां विमु-
क्तिदाः” मल० त० विष्णु पु० “निष्कामाणां मुक्तिप्रतिकू-
लकामनारहितानाम्” रघुनन्दनः ।

निष्कालक पु० निर्गतः कालकः केशादिः मुण्डनेन यस्य

प्रा० ब० । २ मुण्डितकेशलोमादौ “निष्कालको घृताभ्यक्त-
स्तप्तां शूमी” परिष्वज्य मरणात् पूतो भवतीति विज्ञायते”
वसिष्ठः । प्रा० ब० कप् । २ निर्गतसमयके अभावे अव्ययी० ।
३ कालकाभावे अव्य० । निरुदकादि० अन्तोदात्ततास्य

निष्कालन न० निर् + कल--भावे ल्युट् । १ चालने २ भारणे च

निष्कालिक अव्य० कालिकस्याभावः अव्ययी० । कालिका

भावे निरुदकादि० अस्य अन्तोदात्तता । काले कालने
साधु तदर्हति वा ठञ् कालिकः काली कालयिता
जेता वा स निर्गतो यस्य प्रा० ब० कप् वा । २ कालयि-
तृहीने जेतृशून्ये अजय्ये च त्रि० । “तं सूतपूतं
रथिनां वरिष्ठं निष्कालिकं कालवशं नयाद्य” भा० क०
७२ अ० । निष्कालिक० निर्गतः काली कालयिता
जेता यस्येति विग्रहः” नीलकण्ठः ।

निष्का(श)स पु० निर + कश(स)--भावे घञ् । निष्कासने

बहिष्करणे १ निःसारणे “सन्ध्ये रजनीदिनयोः प्रवेश
निष्काशौ(सौ)” हला० “न च पश्यामि निष्काश(स)म्”
रामा० कि० ५२ सर्गः । कर्त्तरि घञ् । प्रासादाद्युपरितो
बहिर्गतभागे (साजा) ख्याते पदार्थे च ।

निष्काशि(सि)त त्रि० निस् + क(श)स--गतौ णिच्--क्त ।

१ निःसारिते दन्त्यमध्यस्तु दूरीकृते समपसारिते जटा० ।
३ निर्गमिते ४ आहिते अधिकृते च त्रि० मेदि० ।

निष्काष पु० निर्--कष घञ् । तापवशादधःस्थालीतललग्ने

पयस्यावशेषे “वारुणीनिष्काषेणावभृथम्” कात्या० श्रौ०
५ । ५२९ । उक्तार्थएव कर्केणोक्तः ।

निष्किञ्चन त्रि० निर्गतं किञ्चन गम्यं धनं वा यस्य प्रा० ब० ।

१ किञ्चनशून्ये विषयान्तरशून्ये “प्रज्ञानं शौचमेवात्र
शरीरस्य विशेषतः । तथा निष्किञ्चनत्वं मनसश्च प्रस-
न्नता” भा० अनु० १०८ अ० । २ अकिञ्चने दरिद्रे च ।

निष्कुट पु० निस् + कुट--क । १ गृहसमीपस्थे उपवने अमरः

२ केदारे क्षेत्रे ३ राज्ञाम् अन्तःपुरे च मेदि० ।
“अवस्करे चिरं स्थानं निष्कुटेषु च वर्जयेत्” भा० व० २२३ अ० ।
४ पर्वतभेदे “स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कु-
टम्” भा० स० २६ अ० । “सपर्वतवनाकाशां ससमुद्रां
सनिष्कुटाम्” भा० ब० २५३ अ० ।

निष्कुटि(टी) स्त्री कृट--इन् कौटिल्यम् निर्गता कुटिर्यस्याः

बा० ङीप् । एलायाम् अमरः ।

निष्कुटिका स्त्री निष्कुटः अस्त्यस्याः वासत्वेन ठन् । कुमा-

रानुचरमातृभेदे “ऋक्षाऽम्बिका निष्कुटिका वामा
चत्वरवासिनी” भा० श० ४७ अ० स्कन्दमातृगणोक्तौ ।

निष्कुम्भ पु० नि + ष्कुन्भ--अच् षत्वम् । १ दन्तीवृक्षे रायमु-

कुटः । निर्गतः कुम्भोऽस्य प्रा० ब० । २ कुम्भशून्ये च त्रि० ।

निष्कुल त्रि० निर्गतं कुलमक्यवानां समूहो यस्मात् प्रा० ब० ।

अवयवसमूहशून्ये । ततः निष्कोषणे कृञि डाच् । निष्-
कुलाकरोति दाडिमम् निष्कोषयतीत्यर्थः । निर्गतं कुलं
सपिण्डादिर्यस्य प्रा० ब० । २ सपिण्डादिकुलरहिते त्रि० ।
“वशाऽपुत्रासु चैवं स्यात् रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च” मनुः “निष्क-
लासु सपिण्डरहितासु” कुल्लू० ।

निष्कुलीकृत त्रि० निष्कुल + अभूततद्भावे च्वि--कृ--कर्मणि क्त ।

निष्कुषिते “काश्मर्य्याणां निष्कुलीकृतानाम्” सुश्रुतः ।

निष्कुषित त्रि० निस् + कुष--निष्कर्षे क्त । १ निस्त्वचीकृते

खण्डिते “काकैर्निष्कुषितं श्वभिः कवलितं वीचिभि-
रान्दोलितम्” गङ्गास्तोत्रम् । “चिरकालोषितं
जीर्णं कीटनिष्कुषितं धनुः” भट्टिः “उपान्तयोर्निष्कु-
षितं विहङ्गैः” रघुः । २ मरुद्गणभेदे पु० “अश्मन्तं
चित्ररश्मिञ्च तथा निष्कुषितं नृपम्” हरिवं० २०४ अ०
मरुद्गणोक्तौ ।

निष्कुह पु० निःशेषेण कुहयते विस्मापयति कुह--अच् ।

वृक्षादिस्थे स्वयंजाते रन्धे कोटरे अमरः ।

निष्कृति स्त्री निर् + कृ--क्तिन् । १ निस्तारे २ गिर्मुक्तौ

पापादिभ्य ३ उद्धारे च अमरः “कामतो ब्रह्मणबधे निष्कृति
र्न विधीयते” मनुः “कृतघ्ने नास्ति निष्कृतिः” स्मृतिः

निष्कृष्ट त्रि० निर + कृष--क्त । १ सारांशे २ निश्चिते च

पृष्ठ ४११८

निष्केवल्य पु० यज्ञिये स्तोमकारितशंसनात्मके शस्त्रभेदे

“माध्यन्दिने तु होतुर्निष्केवल्ये स्तोमकारितं शस्यम्” आश्व०
श्रौ० ९ । १ । १४ “तत्र तु ऋग्भिरेव निष्केवल्यस्य स्तोमका-
रित शंसनं स्वस्तोमातिशंसनञ्च कर्त्तव्यं न सूक्तेन । यदि
स्वस्तोमाधिको निष्केवल्यस्तोमस्तदा तस्मादप्यतिशंसनञ्च
कर्त्तव्यं यदा हीनं तदास्मादतिशंसनमिति निष्केवल्ये
स्तोमकारितमिति पाठः कर्त्तव्यो न निष्केवल्यस्तोम-
कारितमिति” नारा० । “निष्केवल्यमुक्थ्यमव्यथायै”
यजु० १५ । १३ “प्रौगं शंसति निष्केवल्यं शंसतीति” श्रुतिः
तच्छस्त्रेण ग्राह्ये २ यज्ञपात्ररूपे ग्रहभेदे पु० “मरत्व-
तीयाश्च मे निषष्केवल्यश्च मे” यजु० १८ । २० ।

निष्कैवल्य त्रि० केवलस्य भावः कैवल्यम् निश्चितकैबल्य-

मसहायत्वमस्य प्रा० व० । निश्चितकेवलत्वे अन्यासहका-
रिणि “निष्कैवल्येन पापेन तिर्य्यग्योनिमबाप्नुयात् ।
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताम्” भा० शा० ३०४
अ० । २ निवृत्तकैवल्ये ३ मोक्षहीने च ।

निष्कोषण न० निर् + कुष--ल्युट् । अन्तरवयवार्ना बहिर्निः-

सारणे “शर्करासिकतामेहवातकुण्डलिकाष्ठीलादन्तशर्क-
रोपकुशकण्ठशालूकनिष्कोषणदूषिताश्च दन्तवेष्टाः” सुश्रुतः

निष्कौशाम्बि त्रि० निर्गतः कौशाम्ब्या नगर्य्याः निरा० त०

तत्पुरुषे गौणत्वेन ह्रस्वः । कौशाम्ब्या नगर्य्या
निर्गते ।

निष्क्रम पु० निर् + क्रम--घञ् । १ गृहादितो बहिर्गमने प्रथम-

निष्क्रमनिमित्तं कर्त्तव्ये शिशोः २ संस्कारभेदे च
“अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः” याज्ञ० ।

निष्क्रमण न० निर् + क्रम--ल्युट् । १ गृहादितो बहिर्गमने

चतुर्थे मासि शिशोः कर्त्तव्ये प्रथमनिष्क्रमनिमित्ते
२ संस्कारभेदे च । तन्मुहूर्त्तादिकं मुहू० पी० उक्तं यथा
“दोलाधिरूढिरथ निष्क्रमणं चतुर्थमासे गमोक्तसम-
येऽर्कमितेऽह्नि वा स्यात्” सू० “अथ निष्क्रमणमुहूर्त्तः
तत्र चतुर्थमासे गमोक्तसमये यात्राभिहितसमीचीनति-
थिवारनक्षत्रादिसहिते काले शिशूनां निष्क्रमणम् ।
निष्क्रमाख्यसंस्कारपूर्वं गृहाद्बहिर्गमनं कुर्य्यात् । वा
अथवाऽर्कमितेऽह्नि द्वादशे दिवसे निष्क्रमणं कुर्य्यात् ।
यदाह मनुः “चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं
गृहात्” । गुरुरपि “गृहात् निष्क्रमणं सूतेश्चतुर्थे
मासि कारयेत् । यात्रोक्ते समये मासि तृतीये द्वाद-
शेऽहनि” अत्र तृतीयमासोऽप्युक्तः । राजमार्त्तण्डे-
नापि “मासे तृतीये शशिवृद्धिपक्षे क्षपाकरे शोभनगो
चरस्थे । उत्पातपापग्रहवर्जिते भे निष्कासनं सौख्य-
करं शिशूनाम्” । तदेतयोः पक्षयोर्यथागृह्यं व्यवस्था ।
मुहूर्त्तसंग्रहे तु निष्क्रमणे विशिष्य तिथ्याद्युक्तं यथा
“पूर्वः पक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना । रिक्ता-
षष्ठ्यष्टमीदर्शद्वादशीश्च विवर्जयेत् । चत्वार्यार्यम्णतस्त्रीणि
वैश्वात् त्रीणि च बुध्न्यभात्” । बुध्न्यभादुत्तराभाद्रपदा-
तस्त्रीणि भानि । “मैत्रमादित्यपुष्यौ च रोहिणी च
शुभावहाः । झषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानि
च । सतां तु वारवर्गाश्च शुभदास्तूदयास्तथा ।
केन्द्रत्रिकोणगाः सौम्याः पापाः षष्ठत्रिलाभगाः ।
उपनिष्क्रसणे शस्ता मातुलो वाहयेच्छिशुमिति” ।
अधोमुखानि मूलाहिमिश्रोग्रमधोमुखं भवेदित्युक्तानि ।
उदयाः लग्नानि । एवंविधे सुलग्ने क्रियमाणस्य शिशु-
निष्क्रमण फलमाह वृहस्पतिः । “अथ निष्क्रमण्णं नाम
गृहात् प्रथमनिर्गमः । अकृतायां क्रियायां स्यादायुः-
श्रीनाशनं शिशोः” । कृते संपद्विवृद्धिः स्यादायुर्वर्द्धनमेव
चेति” अत्र विशेषमाह यमः “तृतीये मासि कर्त्तव्यं
शिशोः सूर्यस्य दर्शनम् । चतुर्थे मासि कर्त्तव्यमग्नेश्च-
न्द्रस्य दर्शनम्” इति । वेदभेदेन व्यवस्था ज्यो० त० दर्शिता
यथा “चतुर्थमासीति ऋग्वेदियजुर्वेदिनोः । यथाह
विष्णुः “चतुर्थमास्यादित्यदर्शनमिति” । शौनकोऽपि
“चतुर्थे मासि पुण्यर्क्षे शुक्ले निष्क्रमणं शिशोः”
पारस्करः “चतुर्थे मासि नष्क्रमणिक्यं सूर्यमुदीक्षयति
तच्चक्षुरितीति” मासे तृतीय इति तु छन्दोगानां गोभि-
लेन जननान्तरं तृतीयशुक्लपक्षतृतीयायां चन्द्रदर्शनरूप-
निष्क्रामणविधानात् यथा गोभिलः “जननाद्यस्तृतीयो-
ज्यौत्स्नस्तत्तृतीयायामित्यादि” । ज्यौत्स्नः शुक्लपक्षः ।
अत्रैव कृत्यचिन्तामणिः “तस्मात् स्वस्वविधानतोऽर्क-
शशिनोरर्घ्यं शिशुं दापयेत्” । ततः तारका० संजा-
तार्थे इतच् । निष्क्रमणित संजातनिष्क्रमणे त्रि० ।

निष्क्रय पु० निष्क्रीयते प्रत्याह्रियतेऽनेन परगृहीतम् निस् +

क्री--करणे अच् । १ भृतौ वेतने २ विनिमयद्रव्ये तुल्य
मूल्यद्रव्येण विनिमिते द्रव्ये । भावे अच् । ३ क्रये ४
बुद्धियोगे ५ सामर्थ्ये ६ निर्गमने च वैजय० । ७ प्रत्युपकारे
८ विनिमये च शब्दार्थचि० “समुत्क्षिपन् य० पृथिवी-
भृतां वरम् वरप्रदानस्य चकार शूलिनः । त्रसत्तुषारा-
द्रिसुताससम्भ्रमस्वयंग्रहश्लेषसुखेन निष्क्रयम्” माघः ।
९ विक्रये “न निष्क्रयविसर्गाभ्यां मर्त्तुर्भार्य्या विमुच्यते”
मनुः ।
पृष्ठ ४११९

निष्क्रिय त्रि० निर्गता क्रिया यस्य प्रा० ब० षत्वम् । क्रि-

यादिव्यापारशून्ये “निष्कलं निष्क्रियं शान्तं निरबद्यं
निरञ्जनम्” श्रुतिः “निष्क्रियस्य तदसम्भवात्” सा० सू०
“अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः”
भाषा० ।

निष्क्वाथ पु० निःसृतः काथः प्रा० त० षत्वम् । मांसादिकाथे (झोल) हेमच० ।

निष्टक्वन् त्रि० निर् + तक--सहने क्वनिप् वेदे षत्वटुत्वे ।

नितरां सहनशीले स्त्रियां “वनो र च” पा० ङीप्
रश्चान्तादेशः । निष्टकरी । “दासों निष्टक्वरीमिच्छ” अथ०
५२२६

निष्टानक पु० नितान्तस्तानकः शब्दभेदः प्रा० त० बा० षत्वटुत्वे ।

सव्यथशब्दे “निष्टानकश्च सुमहांस्तव सैन्यस्य चाभवत्”
भा० भी० ४८ अ० ।

निष्टि स्त्री निश--समाधौ क्तिच् । अदितिसपत्न्यां १ दितौ

“निष्टिग्र्याः पुत्रमाच्यावयोतयः” ऋ० १०१०११२ “निष्टिं
दितिं स्वसपत्नीं गिरतीति निष्टिग्रीरदितिः तस्याः
पुत्रम्” भा० ।

निष्टुर् त्रि० निस् + तॄ--क्विप् वेदे बा० उः रपरत्वम् षत्वटुत्वे ।

निस्तरते शत्रूणानभिभावके “प्र ब उग्राय निष्टुरे” ऋ०
८३२२७ “निष्टुरे शत्रून् निस्तरते” भा० ।

निष्ट्य पु० निर्गत्य स्त्रायते स्त्यै--क निस् + गतार्थे त्यष् वा ।

विसर्गलोपषत्वष्टुत्वे १ चण्डलादौ २ म्लेच्छजातिभेदे
हेमच० ३ पुत्रादौ च । “यं मे निष्ट्यो यममात्यो
निचखान” यजु० ५२३ “ष्ट्यै स्त्यै शब्दसङ्घातयोः
नितरां स्त्यायति सङ्घातरूपेण सह वर्त्तते इति
निष्ट्यः यद्वा निर्गत्य शरीरात् स्त्यायति विस्तीर्णो
भवतीति निष्ट्यः पुत्रादिः । यद्वा निर्गतो वर्णाश्रमेभ्यो
निष्ट्यः चण्डालादिः “निसो गते” इति पा० वार्त्ति-
केन निस उपसर्गाद्गतार्थे त्यप् इति काशिकायाम्”
वेददी० ।

निष्ठ त्रि० नि + स्था--क षत्वटुत्वे । नितरां स्थितिशीले

“अथ वा हेतुमन्निष्ठविरहाप्रतियोगिना” भाषा० ।

निष्ठा स्त्री नि + स्पा--भावे अ षत्वटुत्वे । १ निष्पत्तौ २ नाशे

३ अन्तसीमायां ४ निर्वहणे च अमरः । ५ याच्ञायां
वेदि० । (६ मांदौ श्रद्धायाम “लोकेऽस्मिन् द्विविधा निष्ठा
पुरा प्रोक्ता मयाऽनघ! । ज्ञानयोगेन सांख्यानां कर्मयोतेन
योगिनाम्” गीता “तन्निष्ठस्य मोक्षोपदेशात्” शा० सू०
“तस्मिन्नात्मनि चेतने निष्ठा यस्येति विग्रहः । “तेषां निष्ठा
तु का कृष्ण! सत्वमाहो रजस्तमः” गीता । ७ अवघा-
रणे च “घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मनएव
च । न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति” भा०
आश्व० ६६५ श्लो० । व्याकरणपरिभाषिते ८ क्त क्तवतु-
प्रत्यये “क्तक्तवतू निष्ठा” पा० “औरनिड़्निष्ठः” धातु-
पाठः । नितरां निष्ठन्ति भूतान्यत्र आधारे बा० अ ।
प्रलये सर्वभूतस्थित्याभारे ९ विष्णौ स्त्री “निष्ठा शालिः
परायणः” विष्णुस० ।

निः(नि)ष्ठा त्रि० नि(निर्) + स्था--क्विप् षत्वटुत्वे वा

विसर्गलोपः । नितरां यथा भूतस्थितौ “जातो निःष्ठा-
मदधुर्गोषु धीरान्” ऋ० ३३११० “निष्ठां पूर्वं यथास्थिति-
मर्कार्षुः तथा” भा० अस्य शसाद्यजादौ निःष्ठः निःष्ठा
निःष्ठे इत्यादिरूपमिति भेदः ।

निष्ठान न० नि + स्था--करणे ल्युट् षत्वटुत्वे । भक्ताद्युपसेचने तेमने व्यञ्जने अमरः ।

निष्ठानक पु० नागभेदे “निष्ठानको हेमगृहो नहुषः

पिङ्गलस्तथा” भा० आ० ३५ अ० ।

निष्ठान्त त्रि० निष्ठा नाशोऽन्ते यस्य । नाशान्ते वस्तुनि ।

“निष्ठान्तं पश्य चापि त्वं क्षात्रं धर्मञ्च केवलम्” भा०
स्त्री० ११ अ० । २ नितरांस्थित्यन्ते च “नानादिरथ निष्ठान्तो
मानुषा बहवो यथा” अनु० १०१ अ० ।

निष्ठित त्रि० नि + स्था--क्त षत्वटुत्वे । १ नितरांस्थिते वस्तुनि

२ निष्ठायुक्ते च “बुद्धियोगवलोत्साहैः सर्वास्त्रेषु च
निष्ठितः” भा० आ० १३२ अ० ।

निष्ठी(ष्ठे)व पु० नि + ष्ठिव--भावे घञ् वा दीर्घः । ष्ठीवने

श्लेष्मादीनां मुखान्निरसने हेमच० ।

निष्ठी(ष्ठे)वन न० नि + ष्ठिव--भावे ल्युट् वा दीर्घः । श्लेष्मा-

दीनां मुखेन निरसने “वान्तं निष्ठीवनं चैव कुर्वते चास्य-
सन्निधौ” भा० शा० ५६ अ० “क्षुतेऽवलीढे वान्ते च तथा
निष्ठीवनादिषु । कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्श-
नम्” मार्कण्डपु० ३४ अ० ।

निष्ठीवित न० निष्ठीवं करोति कृतौ निष्ठीव + णिच्--भावे

क्त । निष्ठीवनकरणे “वाचः परुषा निष्ठीवितं क्षुतं
चाशुभं कथितम्” वृ० स० ५२ अ० ।

निष्ठुर न० नि + स्था--उरच् मद्गुरादि० नि० षत्वटुत्वे । १ परुष-

वाक्ये २ कठोरे त्रि० । “गुह्याङ्गामेध्यशब्दानां वचनं
निष्ठुरं विदुः । यदन्यद्वा वचो नीच स्त्रीपुंसमैथुनाश्रयम्”
पृष्ठ ४१२०
इत्युक्ते ३ अश्लीलवाक्ये न० ४ तत्तद्विशिष्टे त्रि० अमरः ।
“हिंस्ना भवतु ते बुद्धिरेतासु कुरु निष्ठुरम्” भट्टिः ।
“संरब्ध हस्तिपकनिष्ठुर चोदनामिः” माघः ।

निष्ठुरिक पु० नागभेदे “आप्तः कोटरकश्चैव शिखी निष्ठु-

रिकस्तथा” भा० उ० १०२ अ० ।

निष्ठ्यूत त्रि० नि + ष्ठिव--क्त ऊठ् । १ मुखेन निरस्ते श्लेष्मादौ

“अङ्गुष्ठनिष्ठ्यूतमिवोर्द्धमुच्चैः” माघः “श्लेष्मनिष्ठ्यूतवान्तानि
नाधितिष्ठेत्तु कामतः” मनुः भावे क्त । २ निष्ठीवने न० ।

निष्ण त्रि० नि + स्मा--क “निनदीभ्यां स्वातेः कौशले” पा०

षत्वे टुत्वम् । कुशले “आतिथ्यनिष्णा वनवासिमुख्याः”
भट्टिः ।

निष्ण्णात त्रि० नि + स्ना--कर्त्तरि क्त “निनदीभ्यां स्नातेः

कौशले” पा० षत्वे टुत्वम् । १ कुशले निपुणे अमरः ।
“निष्णातैरथ सरसा प्रियासमूहैः” माघः । २ पारङ्गते च
“वैशम्पायनएवैको निष्णातोयजुषामुत” भाग० १ । ३ अ० ।

निष्पक्व त्रि० नितान्तं पक्वम् । “इदुदुपधस्य चाप्रत्ययस्य” पा०

वत्वम् । १ अतिशवेन पक्वेव्यञ्जने २ क्वाथिते दशमूलादौ च
“पर्णकषायनिष्पक्वा एतामापो भवन्ति” शत० ब्रा० ६५११

निष्पतिष्णु त्रि० निस् + पत--बा० इष्णुच् षत्वम् । निता-

न्तपतनशीले “इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य
यत्नतः । सर्वतो निष्पतिष्णूनि” भा० शा० २५० अ० ।

निष्पतिसुता स्त्री निर्गतौ पतिः सुतश्च यस्याः प्रा० ब० षत्वम् ।

अवीरायां पतिपुत्रविहीनायां स्त्रियां अमरः ।

निष्पत्ति स्त्री निर् + पद--क्तिन् षत्वम् । १ समाप्तौ २ सिद्धौ च

“कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते” कुमा०
“निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता” मार्क० पु० ४३ अ० ।

निष्पत्र त्रि० निर्गतमन्यपार्श्वेन निःसृतं पत्रं शरपुङ्खो यस्य

प्रा० व० षत्वम् । १ एकपार्श्वनिक्षिप्तसपुङ्खशरस्यापरपार्श्वेन
निर्गमयुक्ते मृगादौ ततः “सपत्रनिष्पत्रादतिव्यथने”
पा० कृञोयोगे डाच् । निष्पत्राकरोति मृगं सपुङ्खस्य
शरस्यापरपार्श्वेन निर्गमनात् निष्पत्रं करोतीत्यर्थः
सि० कौ० । निर्गतं पत्रं यस्य । निर्गतपत्रके त्रि० ।
“विध्यन्त्यनिष्पत्रम्” कात्या० श्रौ० १३३२३ “अनिष्पत्र-
मनिःसृतपत्रं विध्यन्ति क्षत्रियाः” कर्कः ।

निष्पत्रक त्रि० निर्गतं पत्रं पर्णं यस्य कप् । १ पत्रशून्ये

स्त्रियां टाप् कापि अत इत्त्वम् । सा च २ करीरवृक्षे
राजनि० ।

निष्पत्राकृति स्त्री निष्पत्र + डाच् कृ--भावे क्तिन् । अतिव्यथने हेमच० ।

निष्पद न० निर्गतं पदं पादोऽस्य प्रा० ब० षत्वम् । १ पादहीने

२ तादृशयाने नौकादौ युक्तिकल्पतरुः ।
निष्पदयानञ्च नौकादिरूपं तद्विवरणमुक्तं तत्र यथा
“नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते । अश्वादिकन्तु यद्
यानं स्थले सर्वं प्रतिष्ठितम् । जले नौकैव यानं स्याद-
तस्तां यत्नतो वहेत्” । तद्घटनादिकालो यथा “सुवारवेला
तिथिचन्द्रयोगे चरे विलग्ने मकरादिषट्के । ऋक्षे-
ऽन्त्यसप्तव्यतिरेकतोऽन्ये वदन्ति नौकाघटनादि कर्म ।
अश्विखरांशुसुधानिधिपूर्वामित्रधनाच्युतभे शुभलग्ने ।
तारकयोगतिथीन्दुविशुद्धौ नौगमनं शुभदं शुभवारे ।
वृक्षायुर्वेदगदिता वृक्षजातिश्चतुर्विधा । समासेनैव
गदितं तेषां काष्ठं चतुर्विधम्” । तद्यथा “लघु यत्
कोमलं काष्ठं सुघटं व्रह्मजाति तत् । दृढ़ाङ्गं लघु
यत् काष्ठमघटं क्षत्रजाति तत् । कोमलं गुरु यत् काष्ठं
वैश्यजाति तदुच्यते । दृढ़ाङ्गं गुरु यत् काष्ठं शृद्रजाति
तदुच्यते । लक्षणद्वययोगेन द्विजातिकाष्ठसंग्रहः ।
क्षत्रियकाष्ठैर्घटिता भोजमते सुखसम्पदि नौका । अन्ये
लघुभिः सुदृढ़ैर्विदधति जलदुष्पदे नौकाम् । विभिन्न-
जातिद्वयकाष्ठजाता न श्रेयसे नापि सुखाय नौका ।
नैषा चिरं तिष्ठति भुज्यते च विभिद्यते वारिणि मज्जते
च । न सिन्धुगाद्याऽर्हति लौहवन्धं तल्लोहकान्तै-
र्हियते हि लौहम् । विपद्यते तेन जलेषु नौका गुणेन
बन्धं निजगाद भोजः” । अथ लक्षणानि “सामान्यञ्च
विशेषश्च नौकाया लक्षणद्वयम्” । तत्र सामान्यम् ।
“राजहस्तमितायामा तत्पादपरिणाहिनो ।
तावदेवोन्नता नैका क्षुद्रेति गदिता बुधैः । अतः सार्द्धमि-
तायामा तदर्द्धपरिणाहिनी । त्रिभागेणोन्नता नौका
मध्यमेति प्रचक्षते । क्षुद्राऽथ मध्यमा भीमा चपला
पटला भया । दीर्घा पत्रपुटा चैव गर्भरा मन्वरा
तथा । नौकादशंकमित्युक्त राजहस्ताद्यनुक्रमात् ।
एकैकवृद्धैः सार्द्धैश्च विजानीयाद् द्वयं द्वयम् । उन्नतिश्च
प्रवीणा च हस्तादर्द्धांशसम्मिता । अत्र भीमा भया
चैव गर्भराख्या शुभप्रदा । मन्थरा परतोयास्तु तासा
मेवाप्स्वधोगतिः । तासां गुणस्तु संक्षेपात् दृढ़ता च
प्रकीर्त्तिता” । अथ विशेषः “दीर्घा चैवोन्नता चेति
विशेषे द्विविधा भिदा । तत्र दीर्घा यथा “राजहस्त-
द्वयायामा अष्टांशपरिणाहिनी । नौकेयं दीर्घिका
नाम दशांशेनोन्नतापि च । दीर्घिका तरणिर्लोला
पृष्ठ ४१२१
गत्वरा गामिनी तरिः । जङ्घाला प्लाविनी चैव धारिणी
वेगिनी तथा । राजहस्तैकैकवृद्ध्या नौकानामानि
वै दश । उन्नतिः परिणाहश्च दशाष्टांशमितौ क्रमात् ।
अत्र लोला गामिनी च प्लाविनी दुःखदा भवेत् ।
लोलायमानामारभ्य यावत् भवति गत्वरा । लोलायाः
फलमाधत्ते एवं सर्वासु निर्णयः । वेगिन्याः परतो
या तु साखिलायोत्तरा तथा” । भोजोऽपि “नौकादीर्घं
यथेच्छं स्यात् तत्रैतानि विवर्जयेत् । हस्तसंख्या
परित्याज्या ८ वसु ४ वेद ९ ग्रहोत्तरैः । षष्ट्युत्तरमिता नौका
कुलं हन्ति वलं धनम् । नवतेरुत्तरे यापि या चत्वा-
रिंशतः परा” । यावदपरदशकं तावदेव तत् फलमिति ।
अथोन्नता । “राजहस्तद्वयमिता तावत् प्रसरणो-
न्नता । इभमूर्द्धाभिधा नौका क्षेमाय पृथिवीभु-
जाम् । ऊर्द्ध्वानूर्द्ध्वा स्वर्णमुखी शर्भिणी मन्थरा तथा ।
राजहस्तैकैकवृद्ध्या नाम पञ्च त्रयं भवेत् । अत्रानूर्द्ध्वा
गर्भिणी च निन्दितं नाम युग्मकम् । मन्थरायाः
परायास्तु ताः शुभाय यथोद्भवम्” । भोजोऽपि । बाणा-
ग्न्युत्तरतो मानं नौका नाम शुभा वहेत् । पञ्चाशदूर्द्ध्वा
दुल्लासं धननाशं त्रयोर्द्धतः । इत्युन्नता “घात्वादौ
नामतो वक्ष्ये निर्णयं तरिसंश्रयम् । कनकं रजतं ताम्रं
त्रितयं वा यथाक्रमम् । ब्रह्मादिभिः परिन्यस्य नौका-
चित्रणकर्मणि । चतुःशृङ्गा त्रिशृङ्गा वा द्विशृङ्गा चैक
शृङ्गिणी । सितरक्तपीतनीलवर्णास्ताःस्युर्यथाक्रमम् ।
केशरी महिषो नागो द्विरदो व्याघ्र एव च । पक्षी
भेको मनुष्यश्च एतेषां वदनाष्टकम् । नावां सुखोपरि-
न्यस्य आदित्यादिद्रशाभुवाम् । कलशो दर्पणश्चन्द्र
स्त्रैदशानां महीभुजाम् । हंसः केकी शुकः सिंहो
गजोऽहिर्व्याव्रषट्पदौ । आदित्यादिदशाजातनौको-
परि परिन्यसेत् । नौकासु मणिविन्यासो विज्ञेयो
नवदण्डवत् । सुमुक्तास्तवकैर्युक्ता नौका स्यात् सर्वतो
भद्रा । तत्संख्या चेदथ रसवेदद्वयसम्मिता क्रमशः ।
कनकादीनां माला जयमालेति गद्यते सद्भिः । ब्रह्म-
क्षत्रे द्वितये एकैके वैश्यशूद्रयोनी । निर्गृहं सगृहं
बाध तत्सर्वं द्विविधं भवेत् । निर्गृहं पूर्वमुद्दिष्टं
सगृहाणि यथा शृणु । सगृहा त्रिविधा प्रोक्ता सर्वमध्या-
श्रमन्दिरा । सर्वतो मन्दिरं यत्र सा ज्ञेया सर्वमन्दिरा ।
राज्ञां कोशाश्चनारीणां फलमत्र प्रशस्यते । मध्यतो
मन्दिरं यत्र सा ज्ञेया मध्यमन्दिरा । राज्ञां विलासया-
त्रादिवर्षासु च प्रशस्यते । अग्रतो मन्दिरं यत्र सा ज्ञेया
ह्यग्रमन्दिरा । चिरप्रवासयात्रायां रणे काले
थनात्यये । मन्दिरमानं नौकाप्रसरत एवार्द्धभागतो न्यू-
नम्” । भोजस्तु दीर्घवृत्तवसुषड्दिवाकरानेकदिङ्
नवमिता यथाक्रमम् । राजपञ्चभुजसम्मितोन्नतिर्म-
न्दिरे तरिगते महीभुजाम् । भास्करादिकदशाभुवां
पुनर्धातुनिर्णयनमत्र पूर्ववत् । पताकाकलसादीनां
निर्णयो नवदण्डवत् । काष्ठजं धातुजं चेति मन्दिरं द्विविधं
भवेत् । काष्ठजं सुखसम्पत्त्यै विलासे धातुजं मतम् ।
अत्र शय्यासनादीनां मन्थरोल्लोचयोरपि । अन्येशाञ्चैव
मुनिभिर्निर्णयः पूर्ववन्मतः । दिङ्मात्रमिदमुद्दिष्टं नौका-
लक्षणमग्रजम् । प्रधानेष्वेव नियमो अप्रधाने न
निर्णयः । लघुता दृढ़ता चैव गामिताऽच्छिद्रता तथा ।
समतेति गुणोद्देशो नौकानां सम्प्रकाशितः । एवं
विचिन्त्य यो राजा नौकायानं करोति च । स चिरं
सुखमाप्नोति विजयं समरे श्रियम् । योऽज्ञानादन्यथा
मानं नौकानां कुरुते नृपः । तस्यैतानि विनश्यन्ति
यशोवीर्यं बलं धनम्” । जथन्यजलयानानि यथा
“नौकान्यतो जले यानं जघन्यमिति गद्यते । तद्देहावह-
वस्ते तु पाश्चात्त्यानां प्रकीर्त्तिताः । द्रोणीरूपन्तु
यद्यानं द्रोणीयानं तदुच्यते । घटीमिर्घटितं यानं घटी
नौकेति गद्यते तुम्बाद्यैस्तु फलैर्यानं फलयानं प्रचक्ष्यते ।
चर्मभिस्थूलपूर्णैर्यच्चर्मयानं तदुच्यते । यानं यल्लघुभि-
र्वृक्षैर्वृक्षयानं तदुच्यते । जन्तुनिः सलिले यानं जन्तुयानं
प्रचक्ष्यते । बाहुभ्यां सन्तरेद् वारि जघन्येषु न निर्णयः”

निष्पदी स्त्री निर्गतः पादोऽस्याः पादः अन्तलोपः समा०

कुम्भपद्या० ङीष् पद्भावः विसर्गस्य षः । १ पादहीनायां
स्त्रियाम् । निर् + पद--क्विप् । २ निर्गते “निष्पदो मुद्ग-
जानाम्” ऋ० १०१०२६ “निष्पदः निर्गच्छन्तः” भा० ।

निष्पन्द त्रि० निर्गतः स्पन्दो यस्य प्रा० व० । विसर्गलोपाभावे

“इदुदुपधस्य चाप्रत्ययस्य” पा० षत्वष्टुत्वे । स्पन्दनरहिते
“ज्यावन्धनिष्पन्दभुजेन यस्य” । “मैथिलीतनयोद्गी-
तनिष्पन्दमृगमाश्रमम्” रघुः । विसर्गलोपे न षत्वम् ।

निष्पन्न त्रि० निर् + पद--क्त षत्वम् । १ सिद्धे २ समाप्ते च ।

निष्परिग्रह त्रि० निर्गतः परिग्रहः यस्य प्रा० य० । १ विषया-

दिसङ्गरहिते कन्धापादुकादिभिन्नद्रव्यरहिते २ यत्यादौ
च “आत्मन्न्थात्मानमाधाय निर्द्वन्द्वो निष्परिग्रहः” मार्क०
पु० १६ अ० ।
पृष्ठ ४१२२

निष्पवन न० निस् + पू--भावे ल्युट् षत्वम् । धान्यादेर्निस्तूषी-

करणे । निष्पावशब्दार्थे “निष्पवनादिफलीकरणान्तं भेदेन
पात्थामप्यभिमन्त्रणादिफलनिधानान्तं कण्डनम्” कात्या०
श्रौ० पद्धतौ कर्कः ।

निष्पाद् पु० निर्गतौ पादौ यस्य पा० ब० अन्त्यलोपः समा०

विसर्गस्य षः । निर्गतपादके तः सिष्मा० अस्त्यर्थे लच् ।
निष्पाल्ल तद्युक्ते देशादौ त्रि० ।

निष्पादक त्रि० निर् + पद--णिच्--ण्वुल् विसर्गस्य षः ।

निष्पत्तिकारके “न चार्थचिन्तने तस्य मन्त्री सहायः
किन्तु स्वयमेव निष्पादकः” सा० द० ।

निष्पाव पु० निष्पूयते तुषाद्यपनयनेन शोध्यतेऽनेन निर् +

पू--करणे घञ् षत्वम् । १ सूर्पादिवायौ तेन हि खलस्थ-
धान्यादिकं कडङ्गरादिशून्यं करोति । कर्मणि घञ् ।
२ कडङ्गरे (आगडा) ३ राजमाषे (वरवटी) ४ श्वेतशि-
म्बीधान्ये ५ निर्विकल्पे त्रि० मेदि० । भावे घञ् ।
६ धान्यादीनां वितुषीकरणे अमरः । “चौरयित्वा तु
निष्पावान् जायते गृहगोलकः” मार्क० पु० १५ अ०
संज्ञायां कन् । श्वेतशिम्ब्यां राजनि० “निष्पावो मधुरो
रूक्षो बिपाकेऽम्लो गुरुः सरः । कषायस्त्वल्यपित्ता-
अमूत्रवातविबन्धकृत् । विदाह्युष्मविषश्लेष्मशोधहृत् शत्रु-
गाशनः” भावप्र० । ततः सिष्मा० अस्त्यर्थे लच् ।
निष्पावल वितुषीकरणयुक्ते धान्यादौ त्रि० गौरा०
ङीष् । निष्पावी शिम्बीभेदे स्त्री राजनि० ।

निष्पुस्ताक त्रि० निर्गतः पुलाको यतः प्रा० ब० षत्वम् ।

१ पुलाकरहिते धान्थादौ (आग्डा) तुच्छ धान्यरहिते
उत्सर्गिण्यां २ जैनभेदे पु० हेम० ।

निष्पेष पु० निर् + पिष--घञ्! १ निष्पोडने २ निघर्षणे ३ चूर्णने

“नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम्” रघुः । तस्मै
प्रभवति सन्तापादि० ठञ् । नैष्येषिक निष्पेषस-
म्बादके । अभावे अव्य० ४ पेषणाभावे अव्य० निरुदका०
अन्तोदात्ततास्य भावे ल्युट् । निष्पेषणमप्यत्र न० ।

निष्प्रकम्प त्रि० निर्गतः प्रकम्पो यस्य प्रा० ब० षत्वम् । १ प्रकृ-

ष्टकम्पशून्ये त्रयोदशमन्वन्तरोये २ सप्तर्षिभेदे पु० । तदुप
क्रमे “निष्प्रकम्पस्तथात्रेयो निर्मोहः काश्यपस्तथा ।
सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः” हरिवं० ७ अ० ।

निष्प्रतिभ त्रि० निर्गतः प्रतिभायाः निरा० त० षत्वम् ।

१ जड़े अज्ञे २ प्रागल्भ्यरहिते च जटाव० “क्षीणाकारासु
तारासु सुप्तनिष्प्रतिभासु च” हरिवं० ८३ अ० ।

निष्प्रत्यूह त्रि० निर्गतः प्रत्यूहो यस्य प्रा० ब० षत्वम् ।

निर्विघ्ने निरुपसर्गे “निष्प्रत्यूहमुपास्महे भगवतः
कौमोदकीलक्ष्मणः” मुरारिनाटकम् ।

निष्प्रभ त्रि० निर्गता प्रभाऽस्य प्रा० ब० षत्वम् । १ दीप्तिशून्ये

अमरः । “निष्प्रभश्च रिपुरास भूभृताम्” रघुः । २
दानवभेदे पु० । “निष्प्रभः सुप्रभश्चैव तथैव च निरूदरः”
हरिवं० २६३ अ० ३ नानादानवोक्तौ ।

निष्प्रयोजन त्रि० निर्गतं प्रयोजनमस्य प्रा० ब० षत्वम् ।

प्रयोजनशून्ये “गुरूणामुपदेशो हि निष्प्रयोजनतां ब्रजेत्”
प्राय० त० “निरानन्दं निरास्वादं निष्प्रयोजनमारुतम्”
हरिवं० अ० ।

निष्प्रवाण न० प्रकर्षेण वयति अनेन प्र + वे--स्यूतौ करणे

ल्युट् प्रवाणं तन्त्रवयनसाधनद्रव्यं निर्गतं प्रवाणात्
निरा० त० । नवाम्बरे हारा० ।

निष्प्रवाणि त्रि० प्रोयन्तेऽस्यामनया वा प्र + वेञ्--करणे

ल्युट् ङीप् प्रवाणी तन्त्रवायशलाका निर्गतः प्रवाण्याः
निरा० स० गौणत्वेन ह्रस्वः षत्वम् । नवाम्बरे अभिनये
(ताँतकाटा) वसने अमरः ।

निष्प्राण त्रि० निर्गतः प्राणः तज्जन्योच्छ्वासादिर्वस्य प्रा० ब०

षत्वम् । श्वासप्रश्वासादिशून्ये “ग्लानिर्निष्प्राणताकत्मका-
र्श्यानुत्सहतादिकृत्” सा० द० “संस्तम्भितमिवाभाति
निष्प्राणसटशाकृति” (बलम्) हरिवं० ४६ अ० ।

निष्फल त्रि० निर्गतं फलं यस्मात् प्रा० ब० षत्वम् । १ फलरहिते

“अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्कलोदयः”
कुमा० । फलशून्ये धान्यकाण्डे २ पलाले (नाडा) पु०
अमरः । ३ विगतार्त्तवायां स्त्रियां स्त्री गौरा० ङीष् ।
निष्फली विगतरजस्कायां स्त्रियां स्त्री शब्दरत्रा० ।

निष्फेन त्रि० निर्गतं फेनं यस्य प्रा० ब० षत्वम् । फेनरहिते

उपरतफेने “यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं
लघु” सुश्रुतः । पक्षे विसर्गोपध्मानीयौ

निष्य(स्य)न्द पु० नि + स्यन्द--भावे घञ् वा षत्वम् । क्षरणे

जलादेः स्वयंस्रवणे “हिमनिष्यन्दशीतलम् ।” अच् ।
२ निष्यन्दयुक्ते त्रि० ।

निष्यूत त्रि० नि + सिव--क्त ऊट् षत्वम् । नितान्तग्रषिते

निष्षन्धि त्रि० निर्गतः सन्धिः सन्धान यस्य प्रा० ब० सुषामा-

षत्वम् ष्टुत्वञ्च । सन्धिरहिते ।

निष्षम अव्य० निर्गता समा यस्य तिष्ठद्गुप्र० अव्ययी०

गत्वष्ट्त्वे । वत्सरातीते ।
पृष्ठ ४१२३

निष्षामन् त्रि० निर्गतं साम यस्य प्रा० त० सुषामा० षत्वम्

ष्टुत्वञ्च । सामशून्ये ।

निष्षेध पु० निस् + सिध--भावे घञ् सुषामा० षत्वम् ष्टुत्वञ्च । नितान्तसेथे ।

निस् अव्य० निस्--क्विप् उपसर्गभेदः । १ निषेधे २ निश्चये ३

साकल्ये ४ अतिक्रमे च शब्दार्थचि० । निर् शब्दे दृश्यम्

निसम्पात पु० निवृत्तः सम्पातः सञ्चारो यत्र । निशीथे

अर्द्धरात्रे शब्दरत्ना० निरा समासे निःसम्पातोऽप्यत्र ।

निसर त्रि० निसरति नि + सृ--अच् । नितान्तसर्त्तरि नितान्त

गामुके “मन्यवेऽयस्तापं क्रोधाय निसरम्” यजु०
३०१४ अ० ।

निसर्ग पु० नि + सृज--घञ् । १ स्वभावे २ स्वरूपे ३ सृष्टौ च

मेदि० “सर्गोनिसर्गोज्ज्वलः” नैष० “मधुरालापनिस-
र्गपण्डिताम्” कुना० “निसर्गदुर्बोधमबोधविक्लवाः” किरा०
“निसर्गज तु तत्तस्य कस्तस्मात्तदपोहति” मनुः ।
ग्रहाणां निसर्गबलम् ग्रहबलशब्दे २७५४ पृ० दृश्यम् ।

निसार पु० नि + सृ--घञ् । समूहे त्रिका० ।

निसिन्धु पु० नितरां सिन्धुरिव बहुद्रवपत्रादिमत्त्वात् ।

सिन्धुवारे(निसिन्दा) शब्दच० ।

निसुन्ध(न्द) पु० असुरभेदे “स्वादिता भौरवाः काशा

निसुन्ध(न्द) नृतकौ हतौ” मा० व० १२ अ० “हयग्रीवो
निसु(न्द)न्धश्च वीरः पञ्चनखस्तथा” हरिवं० १२२ अ० ।

निसूदक त्रि० निसूदयति नि + सूदि--ण्वुल् । हिंसके

“तथात्रेयीनिसूदकः” याज्ञ० ।

निसूदन न० नि + सूद--भावे ल्युट् । १ मारणे वधे अमरः ।

कर्त्तरि ल्यु । २ मारके नाशके त्रि० “यमिन्द्रशब्दार्थनि-
सूदनं हरेः” माघः “बलनिसूदनमर्थपतिञ्च तम्” रघुः ।

निसृता स्त्री नितरां सृता नि + सृ--क्त । २ त्रिवृतायाम्

(तेओडि) रत्नमा० । २ नितान्तगते त्रि० ।

निसृष्ट त्रि० नि + सृज--कर्मणि क्त । १ न्यस्ते अमरः

२ मध्यस्थे त्रिका० । “न स्वामिना निसृष्टोऽपि शूद्रो
दास्याङ्विमुच्यते” मनुः ।

निसृष्टार्थ पु० “उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।

सन्दिष्टः कुरुते कर्म निसृ ष्टार्थस्तु स स्मृतः” सा० द०
इत्युक्ते १ दासभेदे “निसृष्टार्थोमितार्थश्च तथा सन्देशहा-
रकः । कार्य्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः”
सा० द० “यः स्वामिना नियुक्तोऽपि धनायव्ययपालने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः” २ वृहस्य
त्युक्ते “धीरः स्थिरमतिः शूरः स्वामिकार्यविधायकः ।
स्वपौरुषप्रकाशी च निसृष्टार्थः स उच्यते” सङ्गीतदा०
च उक्ते ३ पुरुषे ।

निसोढ त्रि० नि + सह क्त ओत् ओत्त्वत्त्वान्न षः । नितान्त-

सह्ये एवं निसोढवत् । निसोढि इत्यादावपि न षः ।

निस्तत्त्व त्रि० निर्गतं तत्त्वं वास्तवं रूपं स्वरूपं वा यस्य

प्रा० ब० । असत्पदा ।

निस्तनी स्त्री नितरां स्तनस्तदाकारोऽस्त्यस्याः अच् गौरा०

ङीष् वा रोर्लोपः । वटिकायां (वडि) अत्र निस्तलीत्येव
पाठः शब्दच० । निर्गतौ स्तनौ यस्याः वा विसर्ग
लोपः । स्तनहीनायां स्त्रियाञ्च खाङ्गत्वात् वा ङीष्
पक्षे टाप् इति भेदः ।

निस्तन्द्र त्रि० निष्क्रान्ता तन्द्रा यस्य प्रा० ब० । १ तन्द्रारहिते

२ आलस्यरहिते च “निस्तन्द्रो ह्यवितथसंस्कृतप्रभाषी” सुश्रु०

निस्तन्द्रि त्रि० निर्गता तन्द्रिरालस्य यस्य प्रा० । आलस्यर-

हिते । निर्गता तन्द्र्याः निरा० त० । निस्तन्द्री इत्येव
स्त्रीप्रत्ययान्तत्वाभावात् गोण्येऽपि न ह्वल इति भेदः ।

निस्तरण न० निर् + तॄ--करणे ल्युट् । १ उपाये । भावे ल्युट् ।

२ निस्तारे ३ पारगमने ४ तरणे च मेदि० ५ निर्गमे विश्वः ।

निस्तरीक अव्य० तरे देयः ईक तरीकः अभावे अव्ययी० ।

१ तरणार्थदेयकराभवे निरुदका० अन्तोदात्तताऽस्य ।
प्रा० ब० । २ तरीकशून्ये त्रि० ।

निस्तीप त्रि० तरीं पाति पाः क निर्गतस्तरीपो यस्मात्

प्रा० ब० । १ नौकापालकशून्ये अभावे अव्ययी० । २
तरीपाभावे अव्य० । निरुदका० अस्यान्तोदात्तता ।

निस्तर्हण न० नि + तृहू--हिंसायां भावे ल्युट् । मारणे अमरः ।

निस्तल त्रि० निरस्तं तलं प्रतिष्ठा यस्य । १ वर्तुले २

तलशून्ये अतले न० अमरः । ३ चले मेदि० चलस्य प्रति-
ष्ठाराहित्यात् तथ त्वम् । निस्तान्तं तलं प्रा० स० । ५ तले
हेमच० ५ वटिकायां स्त्री शब्दच० गौरा० ङीष् ।

निस्तार पु० निःशेषेण तारः पारगमनम् । १ उद्धारे २

पारगमने ३ अभीष्टप्राप्तौ च “जीर्णा तरिः सरिदतीवगभीर
नीरा बाला वयं सकलमित्थनर्थहेतुः । निस्तारवीजमिद०
मेव कृशोदरीणां यन्माधव! त्वमसि सम्प्रति कर्णधारः”
उद्भटः । “कलौ पापयुगे घोरे तपोहीनेऽतिदुस्तरे ।
निस्तारवीजमेतदु यदुब्रह्ममन्त्रस्य साधनम्” महानि० त० ।

निस्तुष त्रि० निर्मुक्तास्तुषा यतः प्रा० ब० । १ वितुषीकृते धान्य

यवादौ “पूर्वेद्युर्दक्षिणाग्नौ निस्तुषावभृष्टयवानाम्”
कात्या० श्रौ० ५३२२ निर्मले च ।
पृष्ठ ४१२४

निस्तुषक्षीर पु० निस्तुषं निर्मलं क्षीरं यस्य । गोधूमे राजनि०

निस्तुषरत्न न० निस्तुषं निर्मलं रत्नम् । स्फटिके राजनि० ।

निस्तुषित त्रि० निस्तुष + कृतौ णिच्--क्त । १ त्वग्विहीने कृते

तण्डुलादौ २ लघूकृते ३ त्यक्ते च मेदि० ।

निस्तेजस् त्रि० निर्गतं तेजोऽस्य प्रा० ब० । तेजोहीने

“नभेतव्यं भृशं चैते मात्रा निस्तेजसः कृताः” मार्कण्डपु०
१८ अ० ।

निस्तोद पु० निस् + तुद--भावे घञ् । नितान्तव्यथने

“सूचीभिरिव निस्तोदः” “तेषु कालेषु निस्तेदो मारुतेनो-
पजायते” सुश्रुतः भावे ल्युट् । निस्तोदनमप्यत्र न० ।
“पार्श्वभङ्गो गुदवस्तिनिस्तोदनम्” सुश्रुतः ।

निस्त्रिंश पु० निर्गतस्त्रिंशतोऽङ्गुलिभ्यः डच् समा० ।

१ खड्गे अमरः त्रिंशदङ्गुल्यधिकस्यैव खड्गत्वात् ततो
न्यूनत्वे छुरिका । तत्तुल्यहिंसकत्वात् २ निर्दये त्रि० मेदि०
“हे निस्त्रिंश (निर्दय) विमुक्तकण्ठकरुणं तावत् सखी
रोदितु” अमरुशतकम् “सधनुर्बद्धनिस्त्रिंशः पादचारीव
पर्वतः” भा० आ० १३६ अ० । ३ मन्त्रभेदे “नवाक्षरो ध्रुव
युतो मनुर्निस्त्रिंश ईरितः” तन्त्रसा० ।

निस्त्रिंशपत्रिका स्त्री निस्त्रिंशः खड्ग इव पत्रसस्या कप्

कापि अत इत्त्वम् । स्रुहीवृक्षे राजनि० ।

निस्त्रिंशिन् त्रि० निस्त्रिंशः धार्य्यत्वेनास्त्यस्य इनि । खड्ग

धारिणि “सन्नद्धा लोहितोष्णीषा निस्त्रिंशिनो
याजयेयुः” आश्व० श्रौ० ९७४ स्त्रियां ङीष् ।

निस्त्रैगुण्य त्रि० निष्क्रान्तः त्रैगुण्यात् त्रिगुणकार्य्यात् संसा-

रात् तत्कार्येभ्यः कामादिभ्यो वा निरा० त० । १ कामा-
नादिशून्ये २ संसारातीते च “निस्त्रैगुण्यो भवार्जुन!”
गीता ।

निस्त्रैणपुष्पी स्त्री निर्गतं स्त्रैणं स्त्रीरागादि यस्मात् प्रा० ब०

निस्त्रैणं पुष्पमस्याः ङीष् । राजधुस्तूरवृक्षे राजनि० ।

निस्स्नेह त्रि० निर्गतः स्नेहःप्रेमतैलादिकं वास्य प्रा० ब० ।

१ प्रेमशून्ये २ तैलशून्ये च ३ मन्त्रभेदे पु० “शतद्वयं द्विन-
वतिरेकहीना तथापि वा । यावच्छतत्रयं सङ्ख्या निस्-
स्नेहास्ते प्रकीर्त्तिताः” तन्त्रसा० पक्षे विसर्गः । निःस्नेहः

निस्स्नेहफला स्त्री निःस्नेहं फलमस्याः । श्वेतकण्टकार्य्यां

राजनि । पक्षे विसर्गः ।

निस्पन्द पु० निर्गतः स्पन्दो यस्य प्रा० ब० वा विसर्गलोपः ।

१ स्पन्दनरहिते “सूक्ष्मे घने नैषधकेशपाशे निपत्थ
निष्पन्दतरीमवद्भ्याम्” नैष० । २ चेष्टाशून्ये पक्षे विसर्गः ।

नि(ष्पृ)स्पृह त्रि० निर्गता स्पृहा यस्य वा विसर्गलोपाभावे

विसर्गस्य इदुदुपधत्वेन षत्वे ष्टुत्वम् झरोझरीति ष
लोपे एकषः । १ विषयादिषु इच्छाशून्ये “व्यासादीनां
निस्पृहाणां पारार्थ्यमिह दृश्यते” “निस्पृहः सर्व-
कामेभ्यो युक्तैत्युच्यते तदा” गीता । २ अग्निशिखा-
वृक्षे स्त्री शब्दर० । अव्ययी० ३ स्पृहाया अभावे अव्य० ।
विसर्गलोपे न षः ।

निस्यन्द पु० नि + स्यन्द--घञ् वा षत्वम् । १ स्यन्दने ईषत्क्ष-

रणे । कर्त्तरि अच् । २ तद्युते त्रि० । शशाङ्ककिरणा-
हतचन्द्रकान्ते निस्यन्दनीरनिकरेण कृताभिषेका” माघः
“तदङ्गनिस्यन्दजलेन लोचने” रघुः ।

निस्र(स्रा)व पु० नि + स्रु--अप्, संज्ञायां घञ् वा । १ भक्त-

मण्डे (माड) अमरः । भावे अप् घञ् वा । २
अपक्षरणे च ।

निस्स्व त्रि० निर्गतं स्वमस्य प्रा० ब० । दरिद्रे पक्षेविसर्गः ।

नि(स्व)स्वान पु० नि + स्वन--अप् घञ् वा । शब्दे अमरः ।

“सुखश्रवा मङ्गलतुर्यनिस्वनाः” रघुः “बायुं कृत्वाथ
वाजाभ्यां पुङ्खे वैवस्वतं यमम् । विद्युत् कृत्वाथ निस्वानं
मेरुं कृत्वाथ वै ध्वजम्” भा० द्रौ० २०३ अ० । आर्षे
विद्युत्मित्यत्य अमो लोपः ।

निस्सीम त्रि० निष्क्रान्ता सीमा यस्मात् प्रा० ब० विसर्गस्य वा

सः । अवधिशून्ये अपर्य्यन्ते “निः(स)सीमानन्दमासी-
दुपनिषदुपमा तत्परीभूय भूयः” नैष० ।

निह त्रि० निहन्ति नि + हन--ड । निहन्तरि “अति निहो

अति स्त्रिधः” यजु० २७ । ६

निहनन न० नि + हन--ल्युट् । १ बधे अमरः । उदात्तस्व-

रेणानुदात्तादेरनुच्चारणरूपे निघाते च । निघातशब्दे
दृश्यम् ।

निहन्तृ त्रि० नि + हन--तृच् । १ नाशकर्त्तरि “निहन्ता

वैरकाराणाम्” भट्टिः स्त्रियां ङीप् । २ महादेवे पु०
“भगहारी निहन्ता च कालो ब्रह्मा पितामहः” भा० अनु०
१७ अ० “अनुमन्ता विशसिता निहन्ता क्रयविक्रयी” मनुः
एकपदे अन्यस्वरोच्चारणाप्रयोजके निघातकर्त्तरि
३ उदात्ते स्वरभेदे च अतएव “निहन्त्यरीनेकपदे य
उदात्तः स्वरानिव” माघे उदात्तस्वरस्य एकपदे अन्य-
स्वराणां निहन्तृत्वस्योपमानविथयोक्तम् “अनुदात्तं
पदमेकवर्जमिति” पा० परिभामाबलेन तस्य तथात्वम्
निघातशब्दे दृश्यम् ।
पृष्ठ ४१२५

निहव पु० नि + ह्वे--अप् “ह्वः संप्रसारणञ्च” पा० सम्प्रसार

णम् थाऽथादि पा० सू० अस्य अन्तोदात्तता । आह्वाने
“आदित्य ऊकारः निहव एकारः” छा० उ० “निहव इत्या-
ह्वानमेकारः स्तोभः । एहीति चाह्वयन्तीति तत्सामा-
न्यात्” भा० । “इन्द्र! नेदीय एदिहीन्द्रो निहवः प्रशास्यः”
आश्व० श्रौ० ५१४५

निहाका स्त्री नियतं जहाति भुवं हा--कन् ह्रस्वः ।

गोधिकायाम् अमरः “साकं नश्य निहाकया” ऋ० १० । ९७
१३ “नीहाराय स्वाहा निहाकायै स्वाहा” तैत्ति०
सू० ५ ५ ११ ११

नि(नी)हार न० निह्नियते नि + हृ--कर्मणि घञ् वा दीर्घः ।

ह्रस्वमध्यः । १ हिमे शब्दरत्ना० । दीर्घमध्यः । तत्रार्थे
अमरः २ कुज्झटिकायां कुल्लू० “नीहारे वाणशब्दे च
सन्ध्ययोरेव चोभयोः” मनुः । “नीहारः कुज्झटिका”
कुल्लूकः स च अनीभूतं शिशिरं (वरफ) इति ख्यातं
कुज्झटिका च “नीहारमग्नो दिनपूर्वभागः” रघुः “एवं
तयोक्तो भगवान्नीहारमसृजत् प्रभुः” भा० आ० ६० अ० ।
मत्स्यगन्धयोक्तः पराशरः कुज्झटिकारूपं नीहारं
सृष्टवानिति प्रसिद्धम् ।

निहिंसन न० नि + हिन्स--मावे ल्युट् । मारणे अमरः ।

निहित त्रि० नि + धा--क्त हिरादेशः । १ आहिते २ स्थापिते

३ निक्षिप्ते च “धर्मस्य तत्त्वं निहितं गुहायां महाजनो
येन गतः स पन्थाः” भा० व० ३१२ अ० ।

निहीन त्रि० नितरां हीनः प्रा० स० । १ नीचे २ पामरे

अमरः । “निहीनैः परिक्लिश्यन्तीं समुपेक्षन्ति मां
कथम्” भा० व० १२ अ० । समुपेक्षन्तीत्यत्र आर्षः पदव्यत्ययः ।

निह्नव पु० नि + ह्नु--अप् । १ शाठ्ये अन्यथा स्थितस्य वस्तुनो

ऽन्यथात्वेन २ सूचने अपलापे । “निह्नवे साक्षिभावि-
तम्” मनुः “निह्नवे याचितो दद्याद्धनं राज्ञे च तत्समम्”
याज्ञ० । नि + ह्नु--क्तिन् । निह्नुतिरप्यत्र स्त्री अमरः ।

नी त्रि० नयति नी + कर्त्तरि--क्विप् । प्रापके । ङौ न्याम्

नीक पु० नी--कक् । वृक्षभेदे

नी(नि)कार पु० नि + कृ--भावे घञ् वा दीर्घः । १ न्यक्कारे २ अवहेलने शब्दार्थचि० ।

नीकाश पु० नि + काश--घञ् । उत्तरपदस्थः १ उपमाने अमरः

अस्य निभादित्वेन नित्यसमास एव पृथक्प्रयोगाभा-
वात् । २ निश्चये पु० मेदि० “आकाशनीकाशतटां तीरवा-
नीरसङ्कुलाम्” भा० व० १८२ अ० ।

नीकुलक पु० प्रवरभेदे हेमा० ब्र० प्रवरोक्तौ दृश्यम् ।

नीक्षण न० नीक्ष्यतेऽनेन नि + ईक्ष--करणे ल्युट् । पाकादि-

परीक्षासाधने काष्ठभेदे “यन्नीक्षणं मांसपचन्याः” ऋ०
१ १५२ १३ “नीक्षणं पाकपरीक्षासाधनं काष्ठम्” भा० ।

नीच त्रि० निकृष्टामीं शोभां चिनोति चि--ड । जातिगुण

कर्मादिभिः निकृष्टे १ अधमे अमरः । २ वामने खर्वे च
अमरः । ३ चोरनामशन्धव्ये पु० राजनि० । ४ निम्ने च ।
नीचसङ्गदोषो यथा “न प्राप्नोति सुखं किञ्चिन्नीच-
सङान्महानपि । प्रेतश्चङ्गात् महादेवो नग्नो भस्मविभू-
षितः । प्रविश्य निलयं नीचः स्त्रीधनादिकमिच्छति ।
स्वयं नेतुं स शक्राति तदा साययति ध्रुवम् । स्थिते
गुणेऽपि नीचस्तु यत्नाद्दोषं प्रपद्यते । किञ्चित्तु सङ्गमा-
साद्य तदुक्तं स्यात् सनातनम् । सतां श्रुत्वा गुणं नीचः
श्रोतुमायाति बन्धुवत् । ततः समयमासाद्य प्रकाशयति
तद्धसन् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ।
मनस्यन्यद्वचस्यन्थत् कर्मण्यन्यत् दुरात्मनाम्” पाद्मे क्रिया
योगसारे ५ अ० । “बुद्धिश्च हीयते पुंसां नीचैः सह
समागमात् । मध्यमे मध्यतां याति श्रेष्ठतां याति
वित्तमे” भा० शा० । “प्रायो नीचानपि मेदिनीभूतः”
माघः । “नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि”
मनुः । ग्रहभेदानाम् उच्चशब्ददर्शितोच्चस्थानात् सप्त-
मस्थाने तच्च रव्यादीनां यद्यद् भवति तत् नीचस्थान-
शब्दे दृश्यम् । स्वार्थे क । नीचक तत्रार्थे

नीचकदम्ब पु० नीचः कदम्बो यस्मात् ५ त० । मण्डीरे

नैघण्टुप्रकाशिका ।

नीचका स्त्री निकृष्टामीं शोभां चकते प्रतिहन्ति चक--

प्रतिघाते अच् । उत्तमायां गवि भरतः ।

नीचकिन् त्रि० निकृष्टामीं शोषां चकते चक्र--प्रतिथाते बा०

इनि । उच्चे हला० ।

नीचकैस् अव्य० नीचैस् अव्ययस्य चैः पूर्वमकच् । नीचैरित्यर्थे

नीचग त्रि० नीचं निम्नं गच्छति गम--ड । १ निम्नगामिनि

२ जले च । ३ नीचवर्णगामिन्यां स्त्रियां स्त्री “नीचगामङ्गनां
प्राप्य चन्दनैर्मण्डलं लिखेत्” तन्त्रम् । ३ स्वस्वोच्चस्थानात्
सप्तसं स्थानं नीचं तत्स्थानस्थिते ग्रहे “तत्सप्तमं
भवेन्नीचम्” ज्यो० ति० । “सुनीचगेऽस्तऽगेऽपि वा वृथाफलं
प्रकीर्त्तितम्” नील० ता० । उच्चशब्दे दृश्यम् । ४ निम्न-
गायां नद्यां स्त्री “सङ्गमयति विद्यैव नीचगाऽपि नरं
सरित् । समुद्रमिव दुर्द्धर्षं नृपं भाग्यं यतः पृथक्”
सिता० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/निर्माण&oldid=57792" इत्यस्माद् प्रतिप्राप्तम्