वाचस्पत्यम्/निदेश

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४०६६

निदेश पु० नि + दिश--घञ् । १ शासने २ आज्ञायां ३ कथने

अमरः ४ निकटे ५ भाजने च मेदिनिः “प्राणस्य तु
शयानस्य निदेशे चैव तिष्ठतः” मनुः “निदेशात् स्वर्गिणः
पितुः” रघुः ।

निदेशिन् त्रि० नि + दिश--णिनि । १ आज्ञाकारके स्त्रियां

ङीप् । सा च २ दिशि काष्ठायां राजनि० ।

निद्रा स्त्री नि + द्रा--भावे अ । १ शयने स्वप्ने । निद्रा च

कालाग्निरुद्रपत्नी यथा “कालाग्निरुद्रपत्नी च निद्रा
सा सिद्धयोगिनी । सर्वलोकाः समाच्छन्ना यया योगेन
रात्रिषु” इति । रात्रिषु योगेन सम्बन्धेन । २ तत्त्वा-
प्रतिबोधे । ३ अभावप्रत्ययालम्बनायां वृत्तौ चतसृणां
वृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तदालम्बना-
वृत्तिरेव निद्रा न तु ज्ञानाद्यभावमात्रम् । सत्वरज
उभयविरोधिन्यां तमोगुणालम्बनायां ४ वृत्तौ । “निद्रा-
भिमानिनी काली तामसी शक्तिरिष्यते । यदा तु
मनसि क्लान्ते कर्मात्मानः क्लमान्विताः । विषयेभ्यो
निवर्त्तन्ते तदा स्वपिति मानवः” । कर्मात्मानः उभयविधा-
नीन्द्रियाणि “सुखं स्वपित्यनृणवान् व्याधिमुक्तश्च यो
नरः । सावकाशस्तु यो भुङ्क्ते यस्तु दारैर्न शङ्कितः ।
कुतो निद्रा दरिद्रस्य परप्रेष्यकरस्य च । परनारीप्रस-
क्तस्य परद्रव्यहरस्य च” निद्रा च मेध्या नाडीसंयोग-
रूपेति नैयायिका चित्तवृत्तिभेद इति योगाचार्य्या यथा
“वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” “प्रमाणविर्य्ययविकल्प
निद्रास्मृतयः पा० सू० वृत्तीः पञ्चधा विभज्य “अभा
वप्रत्ययावलम्बना वृत्तिर्निद्रा” सू० निद्रावृत्तिर्लक्षिता ५ सा
च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः कथं? सुखमह-
मस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशदीकरोति ।
दुःखमहमस्वाप्सं स्त्यानं मे मनोभ्रमत्यनवस्थितम् ।
गाढ़ं मूढ़ोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मे
चिचमलसं मुषितमिव तिष्ठतीति । स स्वल्वयं प्रबुद्धस्य
प्रत्यवमर्शो न स्यात् असति प्रत्ययानुभवे तदाश्रिताः
स्मृतयश्च तद्विषया न स्युः । तस्मात्प्रत्ययविशेषो निद्रा ।
सा च समाधावितरप्रत्ययवन्निरोद्धव्येति” भा० “अधिकृतं
हि वृत्तिपदमनुवादकं प्रमाणविपर्यविकल्पस्मृतीनां
वृत्तित्वं प्रतिपरीक्षकाणामविप्रतिपत्तेरतस्तदनूद्यते विशेष
विघानायं निद्रायास्तु वृत्तित्वे परीक्षकाणां विप्रतिपत्ते-
रिति वृत्तित्वं विधेयम् । न च प्रकृतमनुवादकं विधा-
नाय कल्पत इति पुनर्वृत्तिग्रहणम् जाग्रत्स्वप्रवृत्ती-
नामभावस्तस्य प्रत्ययः कारणं बुद्धिसत्वाच्छादकं तमस्त-
देवालम्बनं विषयो यस्याः सा तथोक्ता वृत्तिर्निद्रा ।
बुद्धिसत्वे हि त्रिगुणे यदा सत्वरजसी अभिभूय समस्त-
कारणावरकमाविरस्ति तमस्तदा बुद्धेर्विषयाकारपरिणा-
माभावादुद्धूततमोमयोः वुद्धिमवबुध्यमानः पुरुषः सुषु-
प्तोऽन्तःसंज्ञ इत्युच्यते । कस्मात्पुनर्निरुद्धकैवल्ययो-
रिव वृत्त्यभाव एव न निद्रेत्यत आह । सा च सम्प्रबोधे
प्रत्यवमर्शात्सोपपत्तिकात् स्मरणात्प्रत्ययविशेषः । कथं?
यदा हि सत्वसचिवन्तम आविरस्ति तदेदृशः प्रत्यवमर्श
सुप्तोत्थितस्य भवति । सुखमहमस्वाप्सम्प्रसन्नं मनः
प्रज्ञां मे विशदीकरोति स्वच्छीकरोति इति यदा तु
रजःसचिवन्तमः आविरस्ति तदेदृशः प्रत्यवमश
इत्याह । दुःखमहमस्वापसं स्त्यानम् अकर्मण्यं मे मनः
कस्मात् यतो भ्रमत्यनवस्थितम् । नितान्ताभिमूतरजः
सत्वे तमःसमुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शमाह ।
गाढं मूढ़ोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं
मे चित्तमलसम्मुषितमिव तिष्ठतीति । साध्यव्यति-
रेके हेतुव्यतिरेकमाह । स खल्ययमिति । प्रबुद्धस्य
प्रबुद्धमात्रस्य तदाश्रिताश्चेति बोधकाले प्रत्ययानुवृत्त्य-
भावे कारणानुभव इत्यर्थः । ननु प्रमाणादयो व्युत्थान-
चित्ताधिकरणा निरुध्यन्तां समाधिप्रतिपक्षत्वान्निद्रा-
यास्त्वेकाग्रवृत्तितुल्याया कथं समाधिप्रतिपक्षतेत्यत
आह । स च समाधाविरिति । एकाग्रतुल्यापि
तामसत्वेन निद्रा सवीजनिर्वीजसमाधिप्रतिपक्ष इति सापि
निरोद्धव्येत्यर्थः” विवरणम् । इयञ्च वेदान्तिमिः सुषुप्ति
रित्यभिधीयते ।

निद्राण त्रि० नि + द्रा--तस्य नः । निद्रायुक्तं अमरः ।

निद्रालु त्रि० नि + द्रा--शीलार्थे आलु । निद्राशीले अमरः ।

“अङ्गानि निद्रालुसविभ्रमाणि” ऋतुस० ।

निद्रावृक्ष पु० निद्राया वृक्ष इवाश्रयत्वात् । अन्धकारे शब्दमा० ।

निद्रासंजनन न० निद्रां संजनयति सम्--जन णिच्--ल्यु ।

श्लेष्मणि घातौ शब्दमाला । कफधातोर्निद्राजनकत्वं
वैद्यके प्रसिद्धम् ।

निधन पु० न० । निधीयतेऽत्र नि + धा--क्यु । १ मरणे

अमरः लग्नतः २ अष्टमस्थाने तत्र मरणस्य चिन्त्यत्वा-
त्तस्य तथात्वम् । ३ स्वजन्मनक्षत्रावधिकेषु सप्तमषोडशत्र-
योविंशेषु नक्षत्रेषु “निधने तिलकाञ्चनम्” ज्यो० त० ।
“क गन्तासि भ्रातः । कृतवसतयो यत्र धनिनः । किमर्थं
पृष्ठ ४०६७
प्राणानां स्थितिमनुविधातुं कथमपि । धनैर्याच्ञालभ्यै-
र्ननु परिभवोऽभ्यर्थनफलम् निकारोऽग्रे पश्चाद्धनम-
हह भोस्तद्धि निधनमिति” शान्तिश० । पञ्चावयवस्य
सप्तावयवस्य वा साम्नोऽन्तिमे ४ अवयवे च तच्च यस्य
कस्यचित्साम्नः अन्तिमभागरूपम् उद्गातृप्रस्तोतृप्रति-
हर्त्तृभिः मिलितैर्युगपद्गेयम् । “ऋतुषु पञ्चविधं सामो-
पासीत वसन्तो हिङ्कारः ग्रीष्मः प्रस्तावः वर्षा उद्गीथः
शरत् प्रतिहारो हेमन्तो निधनम्” “बाचि सप्तबिधं
सामोपासीत यत्किञ्चित् वाचो हुमिति स हिङ्कारः
यत्प्रेति स प्रस्तावो यदेति स आदिः यदुदिति
स उद्गीथः यत्प्रतीति स प्रतिहारः यदुपेति स उपद्रवः
यन्नीति तन्निधनम्” छा० उ० । निवृत्तं धनं यस्यात् ।
५ दरिद्रे त्रि० “निधनता सर्वापदामास्पदम्” मृच्छकटिकम्

निधनवत् त्रि० निधन + अस्त्यर्थे मतुप् मस्य वः । १

मरणयुक्ते निधनावयवयुक्ते २ साम्नि न० “पङ्क्त्यै निधन-
वत् । निधनवत आग्रायणम्” यजु० १३ । ५८ “निधनवत्-
साम” वेददी० ।

निधा स्त्री निधीयते धार्यते बन्धनेनानया नि + धा--अ ।

१ पाशसमूहे “निधा पाश्या भवति यन्निधीयते” निरु०
४ । २ “चक्षुर्मुमुग्ध्यस्मान् निधयेव वद्धान्” ऋ० १० ।
७३ । ११ “निधा पाश्या पाशसमूहस्तया बद्धान्” भा०
भावे अ । २ निधाने ३ अर्पणे च ।

निधान न० नि + धा--भावे ल्युट् । १ स्थापने निधीयतेऽत्र ।

२ आघारे आश्रये “निधानभूगतं सर्वं सद्यः समधिगच्छति”
आगमः । ३ लयस्थाने “एतन्नानावताराणां निधानं
वीजमव्ययम्” भाग० १ । ३ । ६ । ४ निधिशब्दार्थे । ५ अप्रकाशे
सि० कौ० निमूलशब्दे दृश्यम् । “नेरनिधाने” पा०
“निधानकुम्भस्य यथैव दुर्गतः” रघुः “हत्वा निधानं पादेन
सोऽर्थमिच्छति भिक्षया” काशीख० ४६ अ० । ततः ऋश्या०
चतुरर्थ्यां क । त्रिधानक तत्सन्निकृष्टदेशादौ ।

निधि पु० नि + धा--आधारे कि । १ वस्तुन आषारे “निधिः

श्रुतीनां धनसम्पदामिव” माघः “तदित्थमेतस्य निधेः
कलानाम्” नैष० । जलनिधिः गुणनिधिरित्यादि
२नलिकानामगन्धद्रव्ये ३ समुद्रे राजनि० ४ विष्णौ परेश्वरे
तस्य सर्वाधारत्वात् तथात्वम् । “सर्वः शर्वः शिबः
स्थाणुर्भूतादिर्निधिरव्ययः” विष्णुस० “प्रलवेऽस्मिन् सर्वं
निधीयते इति निधिः” भा० । ५ भूखाताज्ञातस्वामिकध-
नादौ मिताक्ष० निधिविषये विधिभेदस्तत्रोक्तो यथा
“अधुना मूमौ चिरनिखातस्य मुवर्णादेर्निधिशब्दवाच्य-
स्याधिगमे विधिमाह “राजा लब्ध्वा निधिं दद्यात् द्विजे-
भ्योऽर्द्धं द्विजः पुनः । विद्वानशेषमादद्यात् सर्वस्यासौ
प्रभुर्यतः । इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् ।
अनिवेदितविज्ञातोदाप्यस्तं दण्डमेव च” याज्ञ० । उक्तं
लक्षणं निधिं राजा लब्ध्वार्द्धं ब्राह्मणेभ्यो दत्त्वा शेषं
कोषे निवेशयेत् । ब्राह्मणस्तु विद्वान् श्रुताध्ययनसम्पन्नः
सदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात् ।
यस्मादसौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्-
ब्राह्मणव्यतिरिक्तेनाविद्वद्ब्राह्मणक्षत्रियादिना निधौ
लब्ध्वेराजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं निधिं स्वयमा-
हरेत्” यथाह वशिष्ठः “अप्रज्ञायमानं वित्तं योऽधि-
गच्छेत् राजा तद्धरेदधिगन्त्रे षष्ठमंशं प्रदद्यात्” इति ।
गौतमोऽपि “निध्यधिगमो राजधनं न ब्राह्मणस्याभि-
रूपस्याब्राह्मणोऽप्याख्याता षष्ठमंशं लभेतेत्येके” इति ।
अनिवेदित इति कर्त्तरि निष्ठा । अनिवेदितश्चासौ
विज्ञातश्च राज्ञा” इत्यनिवेदितविज्ञातः । यः कश्चिन्निधिं
लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा, स सर्वं
निधिं दाप्योदण्ड्यश्च शक्त्यपेक्षया । अथ निधेरपि स्वा-
म्यागत्य रूपसङ्ख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा
निधिं दत्त्वा षष्ठं द्वादशं वांशं स्वयमाहरेत्” यथाह
मनुः “ममायमिति यो ब्रूयान्निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशमेव वेति” । अशवि-
कल्पस्तु वर्णकालाद्यपेक्षया वेदितव्यः” । ३ महापद्मादि-
रत्नविशेषे सेवधौ स च नवविधः “महापद्मश्च पद्मश्च
शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्व खर्वश्च
निधयो नव” इति शब्दार्णवः खर्वभिन्नानामष्टानामेव
निधित्वं तल्लक्षणञ्च मार्कण्डेयपु० ६० अ० उक्तं यथा
“मार्कण्डेय उवाच । षष्मिनी नाम या विद्या
लक्ष्मीस्तस्याश्च देवता । तदाधाराश्च निधयस्तान् मे
निगदतः शृणु । तत्र पद्ममहापद्मौ तथा मकरकच्छपौ ।
मुकुन्दकुन्दौ नीलश्च शङ्खश्चैवाष्टमो निधिः । सत्यां
वृद्धौ भवन्त्येते सद्भिः सह भवन्त्यमी । एते ह्यष्टौ
समाख्याता निधयस्तव क्रोष्टुके! एभिरालोकितं चित्तं
मानुषस्य महामुने! । यादृक् स्वरूपं भवति तन्मे
निगदतः शृणु । पद्मो नाम निधिः पूर्वः स यस्य भवति
द्विज! । स तस्य तत्सुतानां च तत्पुत्राणां ध नान्यनः ।
दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् । सत्वाचारो
पृष्ठ ४०६८
महाभागोयतोऽसौ सात्विको निधिः । सुवर्णरूप्यता-
म्रादिध तूनां च परिग्रहम् । करोत्यतितरां सोऽपि
तेषां च क्रयविक्रयम् । करोति च तथा यज्ञान् दक्षि-
णाश्च प्रयच्छति । सम्पादयति कामांश्च सर्वानेव
यथाक्रमम् । सभादेवनिकेतांश्च स कारयति तन्मनाः १ ।
सत्वाधारो निधिश्चान्यो महापद्म इति स्मृतः । सत्व-
प्रधानो भवति तेन चाधिष्ठितो नरः । करोति पद्म-
रागादि रत्नानाञ्च परिग्रहम् । स मौक्तिकप्रवालानां
तेषां च क्रयविक्रयम् । ददाति योगशीलेभ्यस्तेषामा-
वसथांस्तथा । स करोति च तच्छीलः स्वयमेव च
जायते । तत्प्रसूतास्तथाशीलाः पुत्रपौत्रक्रमेण च ।
पर्वर्द्विमात्रः सप्तासौ पुरुषांश्च न मुञ्चति । महापद्मस्तु
विप्राणां यज्ञार्थमुपजायते २ । तामसो मकरो नाम
निधिस्तेनावलोकितः । पुरुषोऽथ तमःप्रायः सुशी-
लोऽपि हि जायते । वाणखड्गर्ष्टिधनुषां चर्मणाञ्च
परिग्रहम् । दंशनानाञ्च कुरुते याति मैत्रीञ्च राजभिः ।
ददाति शौर्य्यवृत्तीनां भूभुजां ये च तत्प्रियाः । क्रय-
विक्रयशस्त्राणां नान्यत्र प्रीतिमेति च । एकस्यैव
भवत्येष नरस्य न सुतानुगः । द्रव्यार्थं दस्युतो नाशं
संग्रामे वापि स व्रजेत् ३ । कच्छपाख्यो निधिर्योऽन्यो
नरस्तेनाभिवीक्षितः । तमःप्रधानो भवति यतोऽसौ
तामसो निधिः । व्यवहारान् न शिष्टैश्च पण्यजातं
करोति च । क्रियाः स्वा निखिलाश्चैव न विश्वसिति
कस्यचित् । समस्तानि यथाङ्गानि निगृह्यास्ते हि
कच्छपः । तथावष्टभ्य वित्तानि तिष्ठत्याकुलमानसः । न
ददाति न वा भुङ्क्ते तद्विनाशभयाकुलः । निधानमुर्व्यां
कुरुते निधिः सोऽप्येकपुरुषः ४ । रजोगुणमयश्चान्यो
मुकुन्दो नाम यो निधिः । नरोऽबलोकितस्तेन तद्गुणो
भवति द्विज! । वीणावेणुमृदङ्गादिगीतवाद्यपरिग्रहम् ।
करोति गायतां वित्तं नृत्यतां च प्रयच्छति । वन्दिमा-
गधसूतानां विटानां लास्यपाठिनाम् । ददात्यहर्निशं
भोगान् भुङ्क्ते तैस्तु समं द्विज! । कुलटासु रतिश्चास्य
भवत्यन्यैश्च तद्विधैः । प्रयाति सङ्गमेकं च स निधिर्भजते
नरम् ५ । रजःसत्वमयश्चात्यः कुन्दोनाम महानिधिः ।
उपैति स्तम्भमधिकं नरस्तेनावलोकितः । समस्तधातु-
रत्नानां पण्यधान्यादिकस्य च । परिग्रहं करोत्येष तथैव
क्रयविक्रथम् । आधारः स्वजनानां चाप्यागताभ्यागतस्य
च । सहते नापमानोक्तिं स्वल्पामपि महामुने! ।
स्तूयमानश्च महतीं प्रीतिं बध्नाति यच्छति । यं
यमिच्छति वै कामं मृदुत्वमुपयाति च । बह्व्यो मार्य्या
भवन्त्यस्य सूतिमत्योऽतिशोभनाः । तदन्वये सप्त नरान् निधिः
कुन्दोऽनुवर्त्तते । प्रवर्द्धमानोऽनुनरमष्टभागेन सत्तम! ।
दीर्घायुश्चैव सर्वेषां पुरुषाणां प्रयच्छति । बन्धूनामेव
भरणं ये च दूरादुपागताः । तेषां करोति वै वुन्दः
परलोकेन चादृतः । भवत्यस्य न च स्नेहः सहवासिषु
जायते । पूर्वमित्रैश्च शैथिल्यं प्रीतिमन्यैः करोति च ६ ।
तथैव सत्वतमसी यो बिभर्त्ति महानिधिः । निधिः स
नीलस्तत्सङ्गी नरस्तच्छीलभाम्भवेत् । वस्त्रकर्पासधान्यादि
फलपुष्पपरिग्रहम् । मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां
तथा मुने! । काष्ठादीनां करोत्येष यच्चान्थज्जल
सम्भवम् । क्रयविक्रयमप्येषां नान्यत्र रमते मनः ।
तडागान् पुष्करिण्यादीन् तथाऽऽरामान् करोति च ।
बन्धञ्च सरितां वृक्षांस्तथारोपयते नरः । अनुलेपन
पुष्पादिभोगभोक्ताऽपि जायते । त्रिपूरषश्चापि निधि-
र्नीलो नामेह जायते ७ । रजस्तमोमयश्चान्यः शङ्ख
संज्ञो हि यो निधिः । तेनापि नीयते विप्र! सद्गुणित्वं
निधीश्वरः । एकस्यैव भवत्येष नरं नान्यमुपैति च ।
यस्य शङ्खो निधिस्तस्य स्वरूपं क्रोष्टुके! शृणु । एक
एवात्मना मिष्टमन्नं भुङक्ते तथाऽम्बरम् । कदन्नभुक्परि-
जनो न च शोभनवस्त्रधृक् । न ददाति सुहृद्भार्य्या
सुतपुत्रस्नुषादिषु । स्वपोषणपरः शङ्खी नरो भवति
सर्वदा ८ । इत्येते निधयः ख्याता नराणामर्थदेवताः ।
मिश्रावलोलिता मिश्रस्वभावफलदायिनः । यथाख्यात
स्वभावस्तु भवत्येकविलोकनात् । सर्वेषामाधिपत्ये च
श्रीरेषा द्विज! पद्मिनी” । ऋषीणाभृणभूतपाठयुते
३ वेदे च । निधिगोपशब्दे दृश्यम् ।

निधिगोप पु० निधिमृषीणामृणभूतपाठो वेदस्तं गोपायति

गुप--अण् उप० । अनूचाने “अथ यदेवानुब्रुवीत तेन
ऋषिभ्य ऋणं जायते । तद्धैभ्य एतत् करोति ऋषीणां
निधिगोपं ह्यनूचानमाहुः” शत० ब्रा० १ । ७ । २ । ३

निधिनाथ पु० ६ त० । कुवेरे त्रिका० निधीशादयोऽप्यत्र ।

निधुवन न० नितरां धुवनं हस्तपादादिचालनमत्र । मैथुने

१ सुरतलीलायाम् अमरः । “विधुवनविनोदेन च मनुम्”
कर्पूरस्तवः “नवनिधुवनलीलाः कौतुकेनाभिवीक्ष्य”
माघः । नितरां धुवनम् । २ अत्यन्तकम्पने च

निधेय त्रि० नि + धा--यत् । स्थाप्ये स्त्रियां टाप् । “श्रीश्च

षद्मालया देवि! निधेया वैष्णवोरसि” हरिवं० ९८ अ०
आङि तु शार्द्धरबा० स्त्रियां ङीन् । आनिधेयी
पृष्ठ ४०६९

निध्यान् न० नि + ध्यै--भावे ल्युट् । निर्वर्णने दर्शने अमरः

निध्रुव पु० नोत्रप्रवर्त्तकर्षिप्रवरर्षिभेदे “निध्रुवाणां काश्यपा

वत्सारनैध्रुवेति” आश्व० श्रौ० १२ । १४ । ७ गोत्रप्रवरोक्तौ

निध्रुवि त्रि० नितरा ध्रुवति ध्रु--स्थैर्य्ये कि । नितरां

स्थैर्य्यान्विते । “यो मर्त्येषु निध्रुविरृतावा” ऋ० ७ । ३ । १

निध्वान पु० नि + ध्वन--भावे घञ् । शब्दमात्रं शब्दरत्ना० ।

निनङ्क्षु त्रि० नष्टु मिच्छुः नश--सन्--उ नुम् । अदर्शनं

प्राप्तुमिच्छौ “अविस्फवच्च वन्धूनां निनङ्क्षुर्विक्रमं मुहुः”
भट्टिः ।

निनद पु० नि + नद--भाव अप् । १ शब्दे अमरः २ रथतुल्य-

शब्दे शब्दार्थचि० । उच्चचार निनदोऽम्भसि तस्याः” रघुः ।

निनयन न० नि + नी--ल्युट् । १ निष्पादने “नाभिव्याहारयेत्

ब्रह्म स्वधानिनयनादृते” मनुः “निनयनं निष्पादनम्”
कुल्लू० । २ परासेचने च निपूर्वकस्य नयतेः परिषेकार्थ-
त्वात् तथात्वम् । “वर्हिषि पूर्णपात्रं निगयेत्” आश्व०
गृ० सू० १ । १० । २३ “निनयेत् सिञ्चेदित्यर्थः नारा० “एषो-
ऽवभृथः” ४ सू० “यदिदं पूर्णपात्रनिनयनं एषोऽस्य
कर्मणोऽवभृथो भवति” नारा० “उदकं चमसं निनयेयुः”
द्राह्मा० सू० “निनयेयुः परासिञ्चेयुः” ताण्ड्य० ब्रा० भा०

निनर्त्तशत्रु त्रि० देवश्रवस उद्धवस्य पुत्रभेदे “निनर्त्त-

शत्रु शत्रुघ्नं देवश्रवाव्यजायत” हरिवं० ३५ अ०

निनर्द पु० नि + नर्द--भावे घञ् । वेदशब्दस्योच्चारणभेदे ।

तत्प्रकारः आश्व० श्रौ० ८ । ३ । ९ “तृतीये तु पादेष्वादितो
यदक्षरं तदनुदात्तीकृत्य ब्रूयात् । एतदुक्तं भवति तृती-
येषु प्रथममादित इत्यर्थः । आदितो ये द्वे अक्षरे तयोः
पूर्वमनुदात्तं तस्मात् परं द्वितीयम् उदात्तं यथा भवेत्
तथा निनर्देत् नितरां ब्रूयादित्यर्थः । तदेवमुच्चारणं
निनर्दशब्देनोच्यत इत्यर्थः” नारा० “तस्योत्तमावर्जं
तृतीयेषु न्यूङ्खो निनर्दश्च” ७ । ११९ “तस्य सूक्तस्य
याः पुरस्तात् प्रागुत्तमाया ऋचस्तासां तृतीयेषु पादेषु
न्यूङ्खो निनर्दश्च कर्त्तव्यः । उत्तमापि न्यूङ्खनिनर्दर-
हिता शस्तव्येव” नारा० “स्वरादिरन्त ओकारश्चतुर्नि-
नर्दः” ११ अ० तृतीयेषु पादेषु निनर्द उक्तः । तेषु
कस्मिन् प्रदेश इत्युच्यते । पादान्ते । स्वरादिः स्वरो
वाटिप्रदेश इत्यर्थः स चौकारश्चतुष्कृत्वो वक्तव्यः स
निनर्दः इत्युच्यते” नारा० ।

निनाद नि + नद--पक्षे घञ् । शब्दमात्रे अमरः “ज्यानिना

दमथ शृण्वती तयोः” रघुः ।

निनाह्य पु० नीचैर्नाह्यः भूमौ निखननीयः नि +

नहकर्मणि ण्यत् । भूमौ नीचैः खननीये १ मणिके २ महा
घटे च “अस्तमितश्चेत् निनाह्यात् पुरेजानश्चेत्” कात्या०
श्रौ० ८ । ९ । ५८ “निनाह्यात् मणिकात्” संग्रहः “यदि
पुरेजानः स्यात् निनाह्यात् गृह्णीयात्” शत० ब्रा०
३ । ९ । २ । ८ “निनाह्यात् स्वगृहस्थितप्रभूतघटादेः” भा० ।

निनित्सु पु० निन्दितुमिच्छुः निन्दि--सन--उ वेदे नि० ।

निन्दितुमिच्छौ “आरे तं शंसं कृणुहि निनित्सोः”
ऋ० ७ । २५ । २ लोके तु निनिन्दिषु तत्रार्थे ।

निन्दक नि० निन्द--वुञ् । गर्हाकारके निन्दाकारके “परी-

वादात् खरो भवति श्वा वै भवति निन्दकः” मनुः

निन्दतल पु० निन्द--कर्मणि घञ् निन्दः निन्द्यं तलमस्य ।

निन्दितहस्ते शब्दर०

निन्दन न० निन्दि--भावे ल्युट् । गर्हणे शब्दरत्ना० ।

निन्दा स्त्री निन्दि--भावे अ । अविद्यमानदोषाभिधाने १ गर्हणे

“वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा । द्विज-
निन्दारतांश्चैव मनसापि न चिन्तयेत् । न चात्मानं
प्रशंसेद्वा परनिन्दाश्च वर्जयेत् । वेदनिन्दां देवनिन्दां
प्रयत्नेन विवर्जयेत्” कौर्म पु० १५ अ० । २ अनिष्टसाघनत्वबो-
धनद्वारा विध्यर्थप्रशंसावचने च “न हि निन्दा निन्द्यं
निन्दितुं प्रवर्त्तते अपि तु विधेयं स्तोतुम्” न्याय० ।

निन्दार्थवाद पु० निन्दारूपोऽर्थवादः । मीमांसकोक्ते

अर्थवादभेदे अर्थवादशब्दे ३६९ पृ० दृश्यम् उदाहर-
णान्तरं लौगाक्षिभास्करेण दर्शितं यथा “तत्र निन्दार्थ-
वादो यथा “असत्रं वा एतद् यदच्छन्दोमम् असृजं हि
रजतं यो बर्हिषि ददाति पुरास्य संवत्सराद्गृहे रुदन्ति”

निन्दास्तुति स्त्री निन्दया स्तुतिः । व्याजेन निन्दाद्वारा

स्तुतौ अलङ्कारशब्दे व्याजस्तुत्यलङ्कारे ४०५ पृ० दृश्यम् ।

निन्दित त्रि० निन्द--क्त । १ गर्हिते २ धिक्कृते जटा० “विहि-

तस्याननुष्ठानात् निन्दितस्य च सेवनात्” याज्ञ० । निन्दि-
तञ्च शास्त्रलोकयोर्गर्हितम् । तत्र शास्त्रे निन्दितं शूद्र-
प्रतिग्रहादि लोकगर्हितमतिभोजनादि ।
“अस्वर्ग्यं लोकबिद्विष्टं तस्मात् तत् परिवर्जयेत्” मनुः
“यद्यपि शिष्टं लोकविरुद्धं नाचरणीयं नाचरणीयमिति”
मिताक्षराधृतवचनम् ।

निन्दु स्त्री निन्द्यतेऽप्रजस्त्वेनासौ निन्दि--कर्मणि उ । मृतवत्सायां हेमच० ।

पृष्ठ ४०७०

निप पु० न० नितरां पिबत्यनेन नि + पा--करणे घञर्थे क ।

१ कलसे अमरः नीप + पृषो० । २ कदम्बवृक्षे शब्दच० ।

निपक्षति स्त्री नीचा पक्षतिः प्रा० स० । अश्वस्य दक्षिणपार्श्व-

स्थास्थ्नां त्रयोदशानां मध्ये द्वितीये अस्थ्नि वेददी० “अग्नेः
पक्षतिर्वायोः निपक्षतिः” “इन्द्राग्न्योः पक्षतिः
सरस्वत्यै निपक्षतिः” यजु० २५ । ४४ । ४५ “पक्षस्य पार्श्वस्य
मूलभूतानि अस्थीनि वङ्क्रिशब्दवाच्यानि पक्षतिशब्दे-
नोच्यन्ते तानि च प्रतिपार्श्वं त्रयोदश भवन्ति “षड्विं-
शतिरश्वस्य वङ्क्रयः” इति कौषीत० ब्रा० १० । ४ श्रुतेः
तेषां क्रमेण देवता । अग्नेः पक्षतिः प्रथमं दक्षि-
णपार्श्वास्थि, वायोर्निपक्षतिः नीचा पक्षतिः निपक्षतिः
द्वितीयं दक्षिणपार्श्वास्थि” “एवं द्वितीयं वामपार्श्वास्थि
सरस्वत्या इति च” वेददी० ।

निप(पा)ठ पु० नि + पठ--भावे अप् पक्षे थञ् वा । पाठे अमरः

निपठितिन् त्रि० निपठितमनेन इष्टा० कर्त्तरि इनि । कृतपाठे

निपत्यरोहिणी स्त्री निपत्य रोहिणी रोहितवर्णा स्त्री

मयू० । निपत्यरोहितवर्णायां स्त्रियाम्

निपत्या स्त्री निपत्यस्याम् नि + पत--आधारे क्यप् नि० ।

१ पिच्छिलभूमौ २ युद्धभूमौ च ।

निपरण न० निषिद्धं परणं प्रीतिः नि + (निषेधे) पृ--प्रीतौ

भावे ल्युट् वा । प्रीत्यभावे तन्निरुक्तिश्च “निपरणात् पुत्
नरकं ततस्त्रायते” इति पुत्रशब्दे निरुक्तिः नितरां प्रीतौ
२ प्रीणने च “निपरणं पित्र्येण तीर्थेन” आश्व० श्रौ० २ । ६ । १५

निपलाश त्रि० निपतितं पलाशं यस्य प्रा० ब० । निपतितपत्रे

वृक्षे “साहास्मै निपलाशमिवोवाद” शत० ब्रा० ३ ।
२ । १ । २०

निपाक पु० नितरां पाकः प्रा० स० । अतिशयपाके शब्दर० ।

निपात पु० नि + पत--भावे घञ् । १ पतने २ मृतौ त्रिका०

३ अधःपतने च “पयोधरोत्सेधनिपातचूर्णिताः” कुमा०
“क्व च निशितनिपाता वज्रसाराः शरास्ते” शकु० ।
निपतन्ति अवयववर्णविनाशादिना अन्यथा निष्पद्यन्ते
नि + पत--कर्त्तरि ज्वला० ण । वर्णागमादिना अन्यथोत्प-
द्यमाने सूत्रानिष्पाद्ये ४ शब्दभेदे । वर्णागमादिप्रकारश्च
स्मर्य्यते “वर्णागमो वर्णविपर्य्यश्च द्वौ चापरौ वर्णवि-
कारनाशौ । धातोस्तदर्थादिशयेन योगस्तदुच्यते पञ्च-
विघं निरुक्तम्” । “भवेद्वर्णागमात् हंसः सिंहो वर्ण
विपर्य्ययात् । गूढोत्मा वर्णविकृते र्वर्णलोपे पृषोदरम्”
निपतन्त्यर्थेषु उच्चावचेषु नि + पत--कर्त्तरि ज्वला० ण ।
नानाविधार्थेषु वृत्त्या स्वार्थबोधकतया पतनशीले चादौ
५ शब्दभेदे “तद्यान्येतानि चत्वारि पदजातानि नामा-
ख्याते उपसर्गनिपाताश्चेति” विभज्य अथ निपाता
उच्चावचेष्वर्थेषु निपतन्तीति उपमार्थे वा कर्मोपसंग्र-
हार्थे पदपूरणाये वा” विरुक्तकारः । ते च “प्राग्रीश्व-
रान्निपाताः” “चादयोऽसत्त्वे” “प्रादयश्च” इत्यादिषु पा०
सूत्रेषु पठिताः निपातसंज्ञाः भवन्ति । उपसर्गातिरि-
क्तनिपातानां च द्योतकत्ववाचकत्वोभयस्वीकारः “अव्य-
यविभक्तीति” पा० सू० भाष्ये स्थितः । उपसर्गाणान्तु-
द्योतकत्वमेवेति “गतिर्गताविति” पा० सू० भाष्ये स्थि-
तम् । उपसर्गशब्दे १२३५ पृ० वैयाकरणमतसिद्धार्थबोध-
कता उक्ता नैयायिकमते तल्लक्षणादि शब्दश० प्र० उक्तं यथा
“निपातं लक्षयति । स्वार्थे शब्दान्तरार्थस्य तादात्म्ये-
नान्वयाक्षमः । सुबाद्यन्यो निपातोऽसौ विविधश्चादि-
भेदतः । यः शब्दः केवले यादृशस्वार्थे शब्दान्तरा-
र्थस्य तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुवादिप्रत्ययेभ्यः
प्रत्येकं भिन्नः स तादृशार्थः भेदेनान्वयबोधं प्रति योग्यः ।
न हि स्मृतमनुभूतञ्चेत्यादितः कस्यापि स्मृतः समुच्चय
इत्यादिरनुभवः किन्तु स्मृतानुभूतयोः समुच्चय इत्यादि-
रेव । स्तोकं पचति इत्यादौ धातुरपि स्वार्थे नामार्थस्य
तादात्म्यं बोधयंस्तत्समर्थ एव प्रत्ययस्तु सुबादिरेव । चः
शब्द इत्यादौ नामार्थस्याभेदसाकाङ्क्षश्चकारादिः स्वपर-
त्वान्न निपातः किन्तु नामैव । पुरन्दरप्रभृतौ तु नाम्नि
निपातव्यपदेशः सूत्रानिष्पाद्यत्वप्रयुक्तो भाक्तः ।
कार्त्तिक्यादौ यन्न दानं तदत्यन्तविनिन्दितम्” इत्यादौ
न केवले नञर्थे यदर्थस्य तादात्म्येनान्वयः किन्तु दाना-
द्यवच्छिन्ने । स्वर्दिवा नक्तमाद्यव्ययमपि नामैव न तु
निपातः शोभनं स्वरित्यादौ तदर्थे नामार्थस्य तादात्म्ये-
नान्वयात् । प्रादयस्तूपसर्गा न सार्थकाः सार्थकाश्चेत्
निपाता अपि” ।

निपातन न० नि + पत--णिच् ल्युट् । १ मारणे “परिचयं

चललक्ष्यनिपातने” रथुः । २ अधोनयने ३ पातने च
“अवगुर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने” मनुः निपातने
दण्डपातने” प्रा० त० निपात्यतेऽनेन करणे ल्युट् । ४ लक्ष-
णानुसारेणानुत्पद्यमानशब्दसाधनोपाये “यल्लक्षणेनानुत्पन्न
तत्सर्वं निपातनात् सिद्धम्” महाभाष्यम् । सर्वनाम-
संज्ञासू० “निपातनात् णत्वाभावः” “निपातनमप्येवं
जातीयकमेव अविशेषेण णत्वमुक्त्वा विशेषेण निपातनं
क्रियते तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते इदं न
भवतीति” महाभाष्यम् ।
पृष्ठ ४०७१

निपाद त्रि० निकृष्टो न्यग्भूतो वा पादो यत्र । निम्नप्रदेशे

“भवन्त्युद्वतो निपादाः” ऋ० ५ । ८३ । ७ “उद्वत उन्नत-
प्रदेशाः निपादा न्यग्भूतदेशाः” भा० ।

निपान न० निपीयतेऽस्मिन् नि + पा--आधारे ल्युट् ।

कुपसमीपस्थे १ जलाशये कूपोद्धृतजलाधारे कूपादिसमीपे
पशूनां पानार्थमुदकाधारे अमरः । करणे ल्युट् । २ गोदो-
हनपात्रे त्रिका० । ३ खातादिषु च “परकीयनिपा-
नेषु न स्नायाच्च कदाचत । निपानकर्त्तुः स्नात्वा च
दुष्कृतांशेन लिप्यते” मनुः “गाहन्तां महिषा
निपानसलिलम्” शकु० । भावे क्त । ४ निःशेषपाने

निपीडन नि + पीड--भावे ल्युट् । नितरां पीडने पीडि-

युच् । तत्रार्थे स्त्री “कृत्वा दीननिपीडनां निजजने वद्ध्वा
षचोविमहम्” सा० द० ।

निपीडित त्रि० नितरां पीडितः नि + पीड क्त । (निंगडान) कृतनिष्पीडने ।

निपुण त्रि० नि + पुण--क । १ प्रवीणे क्रियासु दक्षे “शिल्पो-

पचारयुक्ताश्च निपुणाः पण्ययोषितः” मनुः । “शक्ति-
र्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्” काव्यप्र० २ सूक्ष्मे
“दुष्यं वचो मम परं निपुणं विभाव्य” रघुनाथः ।
श्रेण्यादि० अभूततद्भावेऽर्थे कृतादिना स० । निपुणकृत
निपुणीकृते “साधु निपुणाभ्यामासेवायां सप्तम्यप्रतेः” पा०
एतद्योगे अर्चायां गम्यमानायां सप्तमी मातरि निपुणः ।
प्रत्यादियोगे तु न, मातरं प्रति निपुणः” सि० कौ० ।

निपुर पु० निकृष्टं पूर्य्यते पॄ--कर्मणि क्विप् । लिङ्गरेहे सूक्ष्म-

शरोरे “परा पुरो निपुरो ये भवन्ति” यजु० २ । ३०
“निपुरः सूक्ष्मदेहान्” वेददी० । तस्याशितान्नादिना सूक्ष्म-
रूपेण पूरणेन तत्पूरणस्य निकृष्टत्वात् तथात्वम् “अन्न-
मशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं
यो मध्यमस्तन्मासं योऽणिष्ठस्तन्मनः” छा० उ० इत्यादिश्रुत्या
मनसः सूक्ष्मदेहान्तर्गतस्य सूक्ष्मभूतेनानुप्रवेशेन उपची-
यमानत्वात् निकृष्टपूरणमेवं प्राणादीनामपि तदन्तर्ग-
तानां तथात्वं तत्रोक्तमतो लिङ्गदेहस्य तथात्वम् ।

निफला स्त्री निवृत्तं फलं यस्याः । जोतिष्मतीलतायाम्

राजनि० ।

निबन्ध पु० नि + बन्ध--घञ् । १ काश्चविशेषे देयावेन प्रतिश्रुते

वस्तुनि “दद्यात् भूमिं निबन्धं वा कृत्वा लेख्यञ्च लेखयेत्”
“निबन्धो द्रव्यमेव वा” याज्ञ० २ संग्रहग्रन्थभेदे भूत्र-
रोधरूपे ३ रोगभेदे ४ बन्धने च हेमच० “निबन्धायाऽऽसुरी
मता” गीता । निबध्नाति कोष्ठम् अच् । ५ निम्बवृक्षे
जटाध० । तत्सेवने हि कोष्ठरोधो भवति ।

निबन्धन न० निषध्यतेऽनेनात्र वा ल्युट् । १ हेतौ हेमच० ।

२ वीणायास्तन्त्रीनिबन्धनोर्द्धभागे च अमरः । भावे
ल्युट् । ३ बन्धने ४ ग्रन्थेच “अनुत्सूत्रपदत्वासा सदृत्तिः
सन्निबन्धना” माधः । ततः ऋश्यादि० चतुरर्थ्यां क ।
निबन्धनक तत्समीपस्थदेशादौ त्रि० । निबध्यते अनया
करणे ल्युट् । ५ निबन्धसाधने स्त्रियां ङीप् । “विषय
वती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी” पात० सू०

निब(व)र्हण न० नि + (व)वर्ह--ल्युट् । मारणे “निबर्हलं

धर्मधनैर्विगर्हितं विशिष्य विश्वासजुषां द्विषामपि” नैब० ।
अन्तस्थवमध्यमित्येके

निभ त्रि० नि + भा--क । १ नितरां भासमाने २ सदृशे च सादृ-

श्येऽस्य नित्यस० न पृथक् प्रयोगः । “प्रफुल्लतापिञ्छनि-
भैरभीषुभिः” “मुखेन पूर्णेन्ढुनिभस्त्रिलोचना” माघः
“प्रकृत्यन्यो निभाद्यन्थः स वा प्रत्यस उच्यते” शब्दश० ।

निभालन न० नि + चु--भल--निरूपणे भावे ल्युट् । दर्शने

त्रिका० ।

निभूत त्रि० निश्चलं भूतः । अत्यन्तभीते राजनि० । अत्यन्तभयेन हि निश्वलं भवतीति तस्य तथात्वम् ।

निभूयप पु० निभूय नितरां भूत्वा मत्स्यादिरूपेणाव-

तीर्य्य पाति पा--क । विष्णौ “विष्णवे निभूयपाय
स्वाहा” वजु० २२ । २० ।

निभृत त्रि० नि + भृ--क्त । १ धृते २ विनीते ३ निलले ४ एकाग्रे

५ गुप्ते ६ निर्जने अस्तायोपस्थिते च शर्ब्दार्थचि० “नमसा
निभृतेन्दुना तुलाम्” रघुः “मधुकराङ्गनया मुहुरुन्मद-
ध्यनिभृता निभृताक्षरमुज्जमे” माघः ।

निमग्न त्रि० नितरां मग्नः नि + मस्म--क्त । जलादौ

नितरां निविष्टे “निमग्नेनाप्यन्तर्मनमजलकशेरन्तरुदरम्”
रसगङ्गाधरः । निमग्नस्यादूरदेशादि० वराहा० क ।
नैमग्नक निमग्नस्यादूरदेशादौ त्रि० ।

निमज्जथु पु० नि + मस्ज--भावे अथुच् । निमज्जने “तल्पे

कान्तान्तरैः सार्द्धं मन्येऽहं धिङ्निमज्जथुम्” भट्टिः ।

निमज्जन न० नि + मस्ज--भाये ल्युट् । जलादावगाहने

स्नाने “दृङ्निमज्जनसुपैति सुधायाम्” नैव० ।

निमन्त्रण न० नि + मन्त्र--भावे ल्युट् । आवश्यकश्राद्धभो-

जनादौ प्रवर्त्तने । “विधिनिमन्त्रणामन्त्रणाधीष्टसंपश्न
प्रार्थनासु लिङ्” पा० “यस्याकरणे प्रत्यवायस्तन्निवन्त्रणम्”
पृष्ठ ४०७२
सि० कौ० । तथा च प्रत्यवायप्रयोजकाभावप्रतियोगि
निमन्त्रणम् । “व्राह्मणप्रातिवेश्यानामेतदेवा निमन्त्रणे”
याज्ञ० “निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्”
मा० व० २५५ अ० । श्राद्धनिमन्त्रणप्रकारादि
निमन्त्रितस्य नियमादि च नि० सि० निरूपितं यथा
चन्द्रिकायां मात्स्ये “पठन्निमन्त्र्य नियमान् श्रावयेत्
पैतृकान् वुधः । अक्रोधनैः शौचपरैः सततं ब्रह्मचा-
रिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा”
यत्तु मनुः “सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः ।
भवितव्यं मवद्भिर्नः श्वोभूते श्राद्धकर्मणीति” तत्पूर्वेद्यु-
र्निमन्त्रणपरं न तदहः । तत्रैव देबलः “असम्भवे
परेद्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत् । अज्ञातीनसमानार्षानयु-
ग्मानात्मशक्तितः” । कात्यायनः अनिन्द्येनामत्त्रितो
नापक्रामेत् केतनं गृह्यसक्तः” । अथ श्राद्धकर्तृभोक्तृ-
नियमाः तत्र मिमन्त्रितविप्रत्यागेऽपरार्के यमः “केतनं
कारयित्वा तु योऽतिपातयति द्विजम् । बह्महत्याम-
वाप्नोति शूद्रयीनौ च जायते । आमन्त्र्य ब्राह्मणं
यस्तु यथान्यायं न पूजयेत् । अतिकृच्छ्रासु षोरासु
तिर्य्यग्योनिषु जाग्रते” । प्रमदात्त्यागे हारीतः
“प्रमादाद्विस्मृतं ज्ञात्वा प्रसाद्यैनं प्रयत्नतः । तर्पयित्वा
यथान्यायं सर्वं तत् फलमश्नुते” । प्रमदाभावे तु नारा-
यणः “एकस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतः शुचिः ।
यतियान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते” यमः
“आमन्त्रितस्तु यो विप्रो भोक्तुमन्यत्र गच्छति ।
नरकाणां शतं गत्वा चाण्डालेप्यमिजायते” । तत्रैव
देवलः “पूर्वे निमन्त्रितोऽन्येन कुर्य्यादन्यप्रतिग्रहम् ।
भुक्ताहारोऽथ वा भुङ्क्ते सुकृतं तस्य नश्यति” । यदि
विप्रो विलग्वेत तदोक्तमादित्यपुराणे “आमन्त्रितश्चिरं
नैव कुर्य्याद्विप्रः कदाचन । देवतानां पितॄणाञ्च दातुरन्नस्य
चैव हि । चिरकारी भवेट्द्रोही पच्यते नरकाग्निना” ।
पृथ्यीचन्द्रोदये यमः “निमन्त्रितस्तु यो विप्रो ह्यध्वानं
माति दुर्मतिः । भवन्ति पितरस्तस्य तं मासं पांशुभो-
जनाः । आमन्त्रितस्तु यः श्राद्धे हिंसां वै कुरुते द्विजः ।
पितरस्तस्य तं मासं भवन्ति रुधिराशनाः । आमन्त्रि-
तस्तु यो विप्रो भारमुद्वहते द्विजः । पितरस्तस्य तं मासं
भवन्ति स्वेदभोजनाः । निमन्त्रितस्तु यो विप्रः प्रकुर्य्यात्
कलहं यदि । पितरस्तस्य तं मासं भवन्ति मलभोजनाः” ।
शङ्खः “निमन्त्रितस्तु यः श्राद्धे मैधुनं सेवते द्विजः ।
श्राद्धं दत्त्वा च भुक्त्वा च युक्तः स्यान्महतैनसा” ।
ऋतावपि मैथुनं निषिद्धम् “ऋतुकाले नियुक्तो वा नैव गच्छेत्
स्त्रियं क्वचित् । तत्र गच्छन्नवाप्नोति ह्यनिष्टानि
फलानि तु” इति तत्रैव माधवीये च वृद्धमनूक्तेः “श्राद्धं
करिष्यन् कृत्वा वा भुक्त्वा वापि निमन्त्रितः । उपोष्य
च तथा भुक्त्वा नोपेयाच्च ऋताबपि । भोक्ष्यन्
करिष्यन् श्वः श्राद्धं पूर्वरात्रौ प्रयत्नतः । व्यवायं भोजनञ्चापि
ऋतावपि विवर्जयेत्” इति तत्रैवाश्वलायनोक्तेश्च । विज्ञा-
नेश्वरेण तु श्राद्धे ऋतौ गच्छतोऽपि न दोष इत्युक्तम्
तत्त्वगतिकत्वे ज्ञेयम् । वृहस्पतिः “द्विनिशं ब्रह्मचारी
स्याच्छाद्धकृद्ब्राह्मणैः लह! अन्यथा वर्त्तमनौ तु स्यातां
निरयगामिनौ । पुनर्भोजनमध्वानं भारमायासमैथुनम् ।
श्राद्धकच्छाद्धभुक् चैव सर्वमेतद्विवर्जवेत् । स्वाध्यायं
कलहञ्चैव दिवास्वापं तथैव च” । यत्तु श्राद्धकाशि-
कायां पुराणसमुच्चये “कृत्वा तु रुधिरस्रावं न विद्वान्
श्राद्धमावरेत् । एकं द्वे त्रीणि वा विद्वान् दिनानि
परिवर्जयेत्” इति तन्निर्मूलम् । पृथ्वीचन्द्रोदये यमः
“पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । सन्ध्यां प्रति-
ग्रहं होमं श्वाद्धभोक्ताऽष्ट वर्जयेत्” । सन्ध्यानिषेधः प्राय-
श्चित्तात् पूर्वं ज्ञेयः यथाहोशनाः “दशकृत्वः पिबे-
दापो गायत्र्या श्राद्धभुक् द्विजः । ततः सन्ध्यामुपा-
सीत जपेच्च जुहुयादपि” । गौड़ास्तु “सायं सन्ध्यां
परान्नञ्च छेदनञ्च वनस्पतेः । अमावस्यां न कुर्वीत रात्रि-
भोजनमेव च । द्यूतञ्च कलहञ्चैव सायंसन्ध्यां दिवा-
शयम् । श्राद्धकर्त्ता च भोक्ता च पुनर्भुक्तिञ्च वर्जयेत्”
कामधेनौ वराहाद्युक्तेः श्राद्धकर्त्तुरपि सायंसन्ध्या-
विषेधमाहुः शिष्टास्तु निर्मूलत्वमाहुः । होमनिषेधस्तु
स्वयंहोमविषयः “सूतके च प्रवासे च अशक्तौ श्राद्ध-
भोजने । एवमादिनिमित्तेषु हावयेन्न तु हापयेत्” इति
छन्दोगपरिशिष्टात् । तत्रैवादित्यपुराणे “निमन्त्रितस्तु न
श्राद्धे कुर्य्याद्भार्य्यादिताड़नम्” । चन्द्रिकायां प्रचेताः
“श्राद्धभुक् प्रातरुत्थाय प्रकुर्य्याद्दन्तधावमम् । श्राद्धकर्त्ता
न कुर्वीत दन्तानां धावनं बुधः” हेमाद्रौ जाबालिः
“दन्तघावनताम्बूले तैलाभ्यङ्गममोजनम् । रत्यौषधपरा-
न्नञ्च श्राद्धकृत् सप्त वर्जयेत्” । विष्णुरहस्ये “श्राडो-
पवासदिवसे खादित्वा दन्तधावनम् । गायत्र्या
शतसम्पूतमम्बु प्राश्य विशुध्यति । पुनर्भोजनमध्वानं या
नप्रायासमैधुनम् । दानप्रतिग्रहौ होमं श्राङ्गभुक्
पृष्ठ ४०७३
त्वष्ट वर्जयेत्” । “निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान्
शुचिः । तैश्चापि संयतैर्भाव्यम् मनोवाक्कायकर्मभिः”
याज्ञ० “पूर्वेद्युरपवेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेत
त्र्यवरान् सम्यक् विप्रान् यथोदितान्” मनुः । “पूर्वेद्युर्नि-
वेदनम् वेदनं परेद्युर्द्वितीयं, तृतीयमामन्त्रणम्”
आपस्तम्बः “निवेदनं श्वोमया श्राद्धं कर्त्तव्यं तत्र भवन्तो
निमन्त्रणीया इत्येवंरूपं निवेदनम् । द्वीतयं वेदनं
त्वामहं निमन्त्रये इत्यनेन निमन्त्रणम् । त्वयि श्राद्धमहं
करिष्ये” इति तृतीयमनुज्ञाग्रहणरूपम्” श्रा० त० रघु०

निमय पु० नि + मि--अच् । परिवर्त्तने द्रव्यान्तरदानेन द्रव्या-

न्तरग्रहणरूपे विनिमये तत्र अविक्रेयद्रव्याणां विनि-
मयेनैव ग्रहणं कर्त्तव्यं यथा भा० शा० ७८ अ० “रसा-
रसैर्न्निमातव्या नत्वेव लबणं रसैः । कृतान्नञ्चाकृतन्नेन
तिलाधान्येन तत्समाः” । अविक्रेयाणि अपण्यशब्दे
२२४ पृ० दर्शितानि ।

निमान न० निमीयतेऽनेन नि + मा--ल्युट् । मूल्ये “संख्या-

यागुणस्य निमाने मयट्” पा० “निमानं मूल्यम्”
सि० कौ० ।

निमि पु० अत्रिवंश्ये १ दत्तात्रेयपुत्रे “स्वावम्भुवोऽत्रिः कौरव्य!

परमर्षिः प्रतापवान् । तस्य वंशे महाराज! दत्तात्रेय
इति स्मृतः । दत्तात्रेयस्य पुत्रोऽभून्निन्निर्नाम तपोधनः”
भा० अनु० ९१ अ० । २ कौरबवंश्ये भाविनृपभेदे “दण्ड-
पाणिर्निमिस्तस्य क्षेमको कविता ततः । क्षेमकं प्राप्य
राजानं संस्थां प्राप्स्यति वै कलौ” भाग० ९ । २२ । ९ ।
द्वापरयुगीये असुरांशनृपभेदे “अक्षप्रपातने चैव निमिर्हं-
सश्च दानवौ” हरिवं० १६१ अ० । ४ इक्ष्वाकुवंश्ये नृपभेदे
“स्मासीद्राजा निमिर्नाम इक्ष्व कूणां महात्मनाम् । पुत्रो
द्वादशमो वीर्य्ये धर्मे च परिनिष्ठितः” रामा० उ० ५५ स०
तस्य वसिष्ठशापेन विदेहप्राप्तिकथा “यस्मात्त्वमन्यं
वृतवान् मामवज्ञाय पार्थिव! । चेतनेन विनाभूतो
देहस्ते पार्थिवैष्यति” । तत्सर्गान्ते तस्य सर्वभूतानां नेत्रेषु
निमेषरूपतया स्थितिकथा “सुप्रीताश्च सुराः सर्वे निमे-
श्चेतस्तदाऽब्रुवन् । वरं वरय राजर्षे! क्व ते चेतो
निरूप्यताम् । एवमुक्तः सुरेः सर्वैर्निमेश्चेतस्तदाऽब्रवीत् ।
नेत्रेषु सर्वभूतानां वमेयं सुरसत्तमाः! । वादमित्येव
विबुधा निमेश्चेतस्तदाऽब्रुवन् । नेत्रेषु सर्वभूतानां वायु
भूतश्चरिष्यसि । त्वत्कृते निमिषिष्यन्ति चक्षूंषि पृथि-
वीपते! । वायुमूतेन चरता विश्रमार्थं बुहुर्मुहुः”

निमित त्रि० नि + मि--क्त । समदीर्घविस्तारपरिमाणयुर्क्त

निघशब्दे दृश्यम् ।

निमित्त न० नि + मिद--क्त । “अनात्मनेपदनिमित्ते” पा

सूत्रनिर्देशान्न न दस्य नः । १ हेतौ २ चिह्ने च अमरः
“निमित्तेषु च सर्वेषु ह्यप्रमत्तो च भवेन्नरः” स्मृतिः
“मयैव पूर्वं निहता धार्त्तराष्ट्राः निमित्तमात्रं भव
सव्यसाचिन् ।” गीता “अतः कालं प्रवक्ष्यामि निमित्तं
कर्मणामिह” ति० त० भविष्यपु० “मासपक्षतिथीनाञ्च
निमित्तानाञ्च सर्वशः । उल्लेखनमकुर्वाणो न तस्व
फलभाग् भवेत्” ति० त० भविष्यपु० । ब्रह्माण्डे “निमित्तानि
च शंसन्ति शुभाशुभफलोदयम्” “निमित्तं मनश्चक्षुरा-
दिप्रवृत्तौ” हस्तामलकम् । शुभाशुभसूचके ३ शकुने
“निमित्तानि च पश्यामि विपरीतानि केशव!” गीता
४ फले उद्देश्ये “निमित्तात् कर्मयोगे” वार्त्ति० निमित्त-
मिह फलम् । ५ निमित्तनिश्चये नैमित्तिकं निमित्तनिश्च-
यादागतम् । ६ शरव्ये च शब्दार्थचि० स्वार्थे क तत्रार्थे
संज्ञायां कन् । निमित्तक चुम्बने शब्दमाला ।

निमित्तकारण न० कर्म० । नैयायिकमते समवायिकारणाऽ-

समवामिकारणभिन्नकारणे तथाहि घटादौ मृत्तिकादि
समवायि कारणम् कपालद्वयसंयोगोऽसमयवायिकार-
णम् । कुलालचक्रदण्डसलिलसूत्रादि निमित्तकारणम् ।
एवमदृष्टादि कालादि च । एवन्यत्र यथायथमुन्नेयम् ।

निमित्तकृत् त्रि० निमित्तं शकुनं रुतेन करोति कृ--क्विप्

तुक् । रवेण दुष्टादुष्टशकुनकारके काके राजनि० । तस्य
रवेण शकुनसूचकत्वात् तथात्वम् । काकरुतशब्दे १८४४
पृ० दृश्यम् ।

निमित्तबध पु० निमित्तेन रोधादिहेतुना बधः । रोधादि-

निमित्ते १ गवादेर्वधे तत्र प्रायश्चित्तादि प्रा० त० उक्तं यथा
“रोधादिनिमित्तकप्रायश्चित्तम् । तत्राङ्गिराः “रोधने
बन्धने चापि योजने च गवां रुजः । उत्पाद्य मरणं
वापि निमित्ती तत्र लिप्यते । पादञ्चरेद्रोधबधे द्वौ
पादौ बन्धने चरेत् । योजने पादहीनं स्याच्चरेत् सर्वं
निपातने” । निमित्ती लिप्यत इति यथाकथञ्चित्
मरणनिमित्ततारतम्येन “यो भूय आरभते तास्मन् फले
विशेषः” इत्यापस्तम्बवचनात् पापविशेषेणं लिप्यते
तद्विशेषात् प्रायश्चित्तविशेषमाह पादञ्चरेदित्यादि । रोधः
शीणायाः गोराहारप्रचारनिर्गमविरोधः । बन्धन-
मयथाबन्धनमकालबन्धनञ्च । योजनं हलशकटादौ
पृष्ठ ४०७४
योजनं तत्रातिवाहादिनेति शेषः । अत्रैव विषये
व्यवनः “प्राजापत्यद्वयं गोहत्याप्रायश्चित्तं रोधनबन्धनयोक्त्र-
बधे पादवृद्ध्या नस्रानि लोमानि शिखावर्जं सशिखं
वपनं त्रिषवणं गवानुगमनं सहशयनं सुमहत्तृणानि
रथ्यासु चारयेत् व्रतान्ते ब्राह्मणभोजनमिति” । रोधन-
बन्धनयोक्त्रबध इत्यादेरयमर्थः रोधनिमित्तकवधे प्राजा-
पत्यस्य पादः प्रायश्चित्तं नखच्छेदनमात्रम् । बन्धन-
निमित्तबधे प्राजापत्यस्य द्वौ पादौ नखानां लीम्नाञ्च
छेदनम् । योक्त्रनिमित्ते च बधे प्राजापत्यपादत्रयं
नखलोमशिखावर्जकेशच्छेदनञ्च । दण्डादिप्रहारबधे
सम्पूर्ण प्राजापत्यम् नखलोमकेशशिखाच्छेदनञ्च इति ।
एतद्विषय एव मिताक्षराधृतं संवर्त्तवचनं तदेकवाक्य-
त्वात् तद्यया “पादेऽङ्गलोमवपनं द्विपादे श्मश्रुणोऽपि
च । त्रिपादे च शिम्नावर्जं वशिखन्तु निपातने” । अत्र
प्राजापत्यस्य पादादित्वे किं मानमिति चत् । पराशर-
वचनम् “रोधने तु चरेत् पादं बन्धने चार्द्धमेव
हि । योजने पादहीनं स्यात् प्राजापत्यं निपातने” ।
“कृच्छ्रमज्ञानताड़ने” इति वार्हस्वत्यात् । दण्डोऽत्र हस्त-
प्रमाणो ग्राह्यः । तदधिके तु द्विगुणपायश्चित्तविधानात् ।
यथा अङ्गिराः “अङ्गुष्ठमात्रः स्थौल्येन बाहुमात्रः
प्रमाणतः । सार्द्रश्च सपलाशश्च दण्ड इत्यभिधीयते” ।
“अस्यादूर्द्ध्वप्रहारेण यदि गां विनिपातयेत् । द्विगुणन्तु
भवेत्तत्र प्रायश्चित्तमिति स्थितिः” । सपलासः सपत्रः ।
एतद्वचनविषय एव च्यवनीक्तप्राजापत्यद्वयमिति एतच्चा-
ज्ञानतः यथा वृहस्पतिः “पादञ्चरेत् रोधवधे कृच्छ्रार्द्धं
बन्धधातने । अतिवाहे च पादोनं कृच्छ्रमज्ञानताड़ने” ।
अन्नानञ्च क्षीणायामक्षीणत्वभ्रमः । क्षैण्यज्ञाने तु
पायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणपादादिकम् ।
यथा हारीतः “नासाच्छेदनदाहेषु कर्णच्छेदनबन्धने ।
अतिदोहातिवाहाभ्यां कृच्छ्रं चान्द्रायणं चरेत्” हत्वेति
शेषः । कृच्छ्रं व्रतं तेन चान्द्रायणव्रतमित्यर्थः ।
इति शूलपाणिमहामहोपाध्यायाः । भवदेवभट्टैस्तु
निपातने कूपावदादिषु इति व्याख्यातं तदपि युक्तं
अन्यथा तत्र पातजनकभयादिदर्शकस्य प्रायश्चित्तस्यानध्य-
तद्धायापत्तेः । “शस्त्रादिना तु हत्वा गां मानवं
ततपाक्षरेत् । रोधादिना त्वाङ्गिरनमापस्तम्बोक्तमेव चेति”
बृहस्पत्युक्तं तत्र प्रयमादिपदामुष्टिलोष्ट्रलगुड़विषाग्न्या-
दीनां प्रायिकमृत्युफलानां ग्रहणम् । रोधादिनेति यथा
कथञ्चिन्निमितमात्रस्य, बन्धादेरिति शूलपाणिव्याख्या-
न्तराच्च । तस्मान्निपातनपरम् उभयपरम् । एतच्च रात्रौ
रक्षणार्थं रोधबन्धनव्यतिरिक्तविषयम् । “सायं संयम-
सनार्थन्तु न दुष्येद्रोधबन्धयोः” इति अङ्गिरोवचनात्
वन्धने मिताक्षरायां विशेषमाह व्यासः “न नारि-
केलैर्नच शाणतालैर्नचापि मौञ्जैर्नच बन्धशृङ्खलैः ।
एतैस्तु गावो न हि बन्धनीया बद्ध्वा तु तिष्ठेत् परशुं
गृहीत्वा । कुशैः काशैश्च बध्नीयात् स्थाने दोषविवार्जते” ।
निमित्तिन्शब्दे वक्ष्यमाणे मन्यूत्पादनदारा २ हनने च ।

निमित्तविद त्रि० निमित्तं शकुनं शुभाशुभसूचकं लक्षणं

वेत्ति विद--क्विप् । निमित्तज्ञे दैवज्ञे हेमच० निमि-
त्तज्ञादयोऽप्यत्र । “निमित्तज्ञस्तपोधनः” रघुः ।

निमित्तिन् त्रि० निमित्तवस्त्यस्य इनि । निमित्तयुक्ते १ कार्ये

प्रा० वि० उक्ते २ बधकर्त्तृभेदे च यथा “कर्त्ता च पञ्चविधः
कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहकोनिमित्ती चेति” ।
निमित्तिनमाह विष्णुः “अन्यायेन गृहीतस्वो न्याय-
मर्थयते तु यः । यसुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्म-
घातकम्” तल्लक्षणं प्रो० वि० उक्तं “उद्देश्यत्वे सति
हन्तुर्मन्यूत्पादको निमित्तो” इति मन्यूत्पादने निमि-
त्तमाह तत्रैव वृद्धशा० “गोभूहिरण्यहरणे स्त्रीसम्ब-
न्धकृतेऽपि च । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्म-
धातकम्” वृहस्मतिः “ज्ञातिमित्रकलत्रार्थं सुहृत्क्ष-
त्रार्थमेव च । यमुद्दिश्य त्यजेत् प्राणांस्तभाहुर्ब्रह्मघा-
तकम् । गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च ।
यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मथातकम् । गुर्वर्थं
पितृमात्रर्थमात्मार्थमथ वा पुनः । यमुद्दिश्य त्यजेत् प्राणां-
स्तमाहुर्ब्रह्मथातकम्” षट्त्रिंशन्मतमिति कृत्वा पठितम्
“आक्रोशितस्ताद्धितो वा धनैर्बा परिपीडितः ।
यमुद्दिश्य त्यजेत् प्राणांस्तगाहुर्ब्रह्मघातकम्” सत्रोद्दि-
श्येति सर्वत्र कीर्त्तनात् उद्देशाभावे निमित्ततामा-
त्रेण वधित्वं नास्ति अर्थादिहरणाक्रोशनताड-
नादीनां मन्युकारणानामुपात्तत्वादेतेषाभभावे धनाद्यर्थं
वृक्षारोहणादिना ये म्रियन्ते (यदि मह्यं घनं न
दास्यसि तदा वृक्षारोहणेन मरिष्यामीतिं) तत्र
कीर्त्तनमात्रेण निमित्तबधो नास्ति तथा च
पठन्ति “अमम्बेन यः फश्चित् द्विजः प्राणान्
परित्यजेत् । तणैष तद्भवेत् पाषं न तु यं परिकी-
र्त्तयेत्” अयम्बन्धेगेति वाक्कृतादिसकलापराधसम्ब-
पृष्ठ ४०७५
न्धामावपरं यच्च “सम्बन्धेन विना देव! शुष्कवादेन
कोपितः” इति भविष्यपुराणवचनं वार्षिकप्रायश्चित्त-
विधायकं तत् वाक्कृतेतरापराधसम्बन्धाभावपरं “शुष्क-
वादेन कोपितः” इत्यभिधानात् । एवं यत्राक्रोशनादौ
पश्चात्कृते नापराधः तत्रापि न बधः यथा वृहस्पतिः
“आष्युष्टस्त यदाक्रोशँस्ताडितः प्रतिताडवम् । हत्वा-
ततायिनञ्चैव नापराधी भवेन्नरः” । शास्त्रविहितताड-
मादौ कृते यत्र पुत्रशिष्यादिर्म्रियते तत्रापि बधो
नाख्येव तथा भविष्यपुराणे “पुत्रः शिष्यस्तथा भार्य्या
शासितश्चेद्विनश्यति । न शास्ता तत्र दोषेण लिप्यते
देवसत्तम! । अशास्त्रीयताडनादौ भवत्येव यथा मनुः ।
“पुत्रः शिष्यस्तथा भार्य्या दासी दासस्तु पञ्चमः । प्राप्ताप-
राधास्ताह्याः स्यूरज्ज्वा वेणुदलेन वा । अधस्तान्नु
प्रहर्त्तव्यं नोत्तमाङ्गे कदाचन । अतोऽन्थथा तु प्रहरँ-
श्चौरस्याप्नोति किल्यिषम्” । एवञ्च विहितदण्डाचरणे
शास्त्रीयकरग्रहणे क्रियमाणे यदि म्रियते तदापि
वधो नास्त्येव दण्डादिशास्त्रविरोधान्निषेधाप्रवृत्तेः ।
वधनिमित्तिनस्तु प्रायश्चित्तं तत्रोक्तं यथा
“निमित्तिनस्तु वचनात् त्रैवार्षिकं सम्बन्धे, असम्बन्धे
वार्षिकं यथा भविष्ये “ससम्बन्ध यदा विप्रो हत्वात्मानं
मृतो गुह! । निर्गुणः सहसा क्रोधादुमृहक्षेत्रादितो
विभो! । त्रैवार्षिकं व्रतं कुर्य्यात् ब्रह्मचर्व्यञ्चरन् वने” ।
सम्बन्धशब्दोऽत्र धनसम्बन्धपरः । ताड़नादिना
तिरस्कारेऽपि त्रैवार्षिकमाह सएव “तिरस्कतो यदा विप्रो
निर्गुणो म्रियतेऽनच! । सनिमित्तं यदा विप्रस्तदेदं
शुद्धवे चरेद । त्रैवार्षिकं ब्रह्मचर्य्यं कृत्वा शुध्येत
विप्रहा” । षनताडनादिसम्बन्धाभावे वाक्कलहमात्रेण
मृते वार्षिकमाह सएव “यसुद्दिश्य द्विजो हन्यात्
ब्राह्मणं स्वयमेव हि । आत्मानं सहसा क्रोधात्तस्य
किन्नुभवेदिदम् । सम्बन्धेन विना देव! शुष्कवादेन
कोपितः । केशस्मश्रुनखादीनां कृत्वा वै वपनं गुह! ।
ब्रह्मचर्य्यञ्चरन् वीर! वर्षेणैकेन शुध्यति” एतत्त्रितय-
कारणाभावेऽर्थलोभादिना मृते प्रायश्चित्ताभाव इति
प्रागुक्तम्” प्रा० चि० ।

निमिष पु० नि + कुटा० मिष--भावे घञ् । १ चक्षुर्निमीलनरूपे

व्यापारे तदुपलक्षिते “सुस्थे नरे सुखासीने यावत्
स्पन्दति लोचनम्” इति मनूक्ते २ कालभेदे “सुरमत्स्यावनि-
मिषौ” अमरः । निमिषत्यस्मात् नि + मिष--अपादाने
घञ् । ३ परमेश्वरे “निमिषोऽनिमिषः सम्बी वाचस्य-
तिरुदारधीः” विष्णुस० मुश्रुतोश्ले नेत्रवर्त्माश्रिते ४ रोगमेदे
“अर्बुदं निमिषश्चापि” इत्यादिना विमज्य स च तत्र
लक्षितो यथा “निमेषणीः सिरा वायुः प्रविष्टो वर्त्म-
संश्रयाः । पालयेदतिवर्त्मानि निमिषः सगदो मतः” ।

निमिषित न० नि + मिष--क्त । नेत्रव्यापाभेदे पक्ष्माकुञ्चने

निमीलन न० नि + मील--भावे ल्युट् । १ नेत्रनिमेपरूपव्वा-

पारे २ पक्ष्यसङ्कोचने आधारे ल्युट् । ३ मरणे हेमच० ।
४ अविकाशे “अप्ताप्य च भवेत् पसादेवं वापि निमी-
लनात्” सू० सि० ।

निमीला स्त्री नि + मील--भावे अ । १ नेत्रमुद्रके करणे अ ।

२ निद्रायां प्रमीलायाम् स्वार्थे क । निमीलिका तत्रार्थे
निमीलयति स्वरूपम् निमील--णिच् ण्वुल् । व्याजे
स्त्री शब्दर० ।

निमीश्वर पु० अतीतायामुत्सर्पिण्यां जाते जिनेश्वरभेदे हेमच०

निमूल त्रि० निवृत्तं मूलं यस्य प्रा० ब० । १ मूलरहिते ।

तदुपपदे “निमूलसमूलयोः कपः” पा० णमुल् । निमूलकार्ष
कषति । नि + मूल--क । २ प्रकाशने च तथ “नेरनिधाने”
पा० नेःपरस्व मूलस्यान्तोदात्तता “निधानमप्रकाशता
ततोऽन्यदनिधानं प्रक्राशनमित्यर्थः तदर्थे मूलान्तस्यान्तो-
दात्तत्वमित्युक्तेरस्य प्रकाशनार्थता ।

निमेय त्रि० नि + माङ्--माने यत् । १ परिवर्त्तनीये भावे यत् । २ परिवर्त्ते न० ।

निमेष पु० नि + मिष--भावे घञ् । नेत्रस्य स्पन्दनरूपे व्यापारे

नेत्रपक्ष्मणोः स्वाभाविकोन्मेषस्य विरोधिव्यापारे
नराणायकृत्रिकविकाशानन्धरं १ पक्ष्माकुञ्चमे । तदुप-
सक्षिते २ कालभेदे च “द्वौ निमेषौ त्रुटिर्नाम द्वे त्रुटी
तु लवः स्मृतः” अग्निपु० “निमेषा दश चाष्टौ च काष्ठा-
त्रिंशत्तु ताः कला । त्रिंशत् कला मुहूर्त्तः स्यात्”
मनुः । “योऽक्ष्णोर्निमेषस्य खराम ३० भागः सु तत्परस्त-
च्छतभाग उक्तः । त्रुटिर्निमेषैर्धृतिमि १८ श्च काष्ठा तत्त्रिं-
शता सद्गणकैः कलोक्ता” सि० शि० “योऽक्ष्णोर्लोचनयोः
पक्ष्मपातः स निमेषो स यावताकालेन निष्पाद्यते तावान्
फलाऽपि निमेधशब्देनोच्यते उपचारात्” प्रमि० ।
“निमेषमात्रादवधूय तद्व्यथाम्” “पपौ निमेषालसपक्ष्म-
पङ्क्तिः” रघुः । स्वार्थे क निमेषक तत्रार्थे ४ कविकाशे च

निमेषकृत् स्त्री निमेषं करोति कृ--क्विप् तक् ६ त० । तष्ठिति

शब्दमाला तस्याः निमेषकालेग (स्वल्पकालेन) निमीषन
तुल्याधिकाशयुक्तत्व त् तथात्वम् ।
पृष्ठ ४०७६

निमेषणी स्त्री निमिषत्यनया नि + मिष--करणे ल्युट् ङीप् ।

नेत्रर्वत्माश्रिते निमेषसाधने सिराभेदे निमिषशब्दे दृश्यम्

निमेषरुच् पु० निमेषं तत्कालं व्याप्य रोचते रुच--क्विप् ।

खद्योते त्रिका० निमेषद्युदादयोऽप्यत्र तस्य स्वल्पकाल-
मात्रद्योतनात् तथात्वम् ।

निम्न त्रि० नि + म्ना--क । १ नीचे २ गभीरे (नावाल) अमरः ।

“पयश्च निम्नाभिमुखं प्रतीपयेत्” कुमा० “आपो न
निम्नैरुदभिर्जिगत्नवः” ऋ० १० । ७८ । ५ “प्रयाति
निम्नामिमुखं नवोदकम्” ऋतुसं० । वृक्षादिषु लतावेष्टना-
ज्जाते २ चिह्नभेदे शब्दार्थचि० ।

निम्नगा स्त्री निम्नं गच्छति गम--ड । १ नदीमात्रे २

नीचगामिनि त्रि० “अनुरोदितीव करुखेन पत्रिणां विरुतेन
वत्सलतयैष निम्नगाः” माघः “उदधेरिव निम्नगाशतेष्य-
भवन्नास्य विमानना क्वचित्” रघुः ।

निम्ब पु० निवि--सेचने अच् वबयोरैक्यात् मः । (निम्) ख्याते

वृक्षे अमरः “निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्नि-
वातहृत् । अहृद्यः श्रमतृट् कासज्वरारुचिकृमि
प्रणुत् । निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्र-
णुत् । वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत् । निम्बं
फलं रसे तिक्तं पाके तु कटु भेदनम् । स्निग्धं लघूष्णं
कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत्” । निम्बशाकगुणाः
“निम्बस्य कोमलदलानि सुयत्रभृष्टान्याज्ये क्षिपेत्तदनु
सैन्धवतक्रयुक्तान् । शालीयतण्डु फणान् सह रामठेन
चाघारितान् ददति रोचनमेव लेहात्” । “करञ्जनिम्ब-
जफलं कृमिकुष्ठप्रमेहजित् । निम्बतैलन्तु कुष्ठघ्नं तिक्तं
कृमिहरम् परमिति” राजवल्लभः । “मसूरं निम्बपत्रञ्च
योऽत्ति मेषगते रवौ । अतिरोषान्वितस्तस्य तक्षकः किं
करिष्यति” ति० त० । षष्ठ्यां तिथौ तद्भक्षणनिषेधो यथा
“कलङ्की जायते विल्वे तिर्यग्योनिश्च निम्बके” ति० त० ।
तिथिभेदे वर्ज्योक्तौ । निम्बक इत्यत्र स्वार्थे क ।

निम्बतरु पु० निम्ब इव तत्संज्ञको वा तरुः । १ मन्दारवृक्षे

अमरः । २ निम्बसंज्ञके तरौ च ।

निम्बवीज पु० निम्बस्य वीजमिव वीजं यस्य । राजादनीवृक्षे राजनि० ।

निम्बू स्त्री निवि--सेचने क वबयोरैक्यात् भः । (कागजी-

नेबु) जम्बीरभेदे ततः स्वार्थे क, वा ह्रस्वः अभिधानात्
पुंस्त्वम् । निम्बुक निम्बूक तत्रार्थे पु० । तस्य फल्म् अण्
तस्यलुपि । तत्फले न० “निम्बूकमम्लं वातथं दीपनं
षाचनं लघु । निम्बुकं कृमिसमूहनाशनं तीक्ष्णमम्लमु
दरग्रहापहम् । वातपित्तकफशूलिने हितं कष्टनष्टरु-
चिरोचनम् परम् । त्रिदोषवह्निक्षयवातरोगनिपीडितानां
विषविह्वलानाम् । मलग्रहे बद्धगुदे प्रदेयं विसूचिकायां
मुन यो वदन्ति” भावप्र० । “भागैकं निम्बुकं तोयं षड्भागं
शर्करोदकम् । लवङ्गमरिचोन्मिश्रं पानकं पानफोत्त-
मम् । निम्बूफलभवं पानमत्यम्लं वातनाशनम् । वह्नि
दीप्तिकरं रुच्यं समस्ताहारपाचकम्” राजनि० ।

निम्लोच पु० नि + म्लुचु--भावे घञ् । अस्तगमने “कृष्णद्युमणि

निम्लोचे” भाग० ३ । २ । ८ । भावे ल्युट् निम्लोचन तत्रार्थे
न० आधारे ल्युट् ङीप् सूर्य्यास्तस्थाने पुरीभेदे स्त्री ।
“पश्चादु वारुणीं निम्लोचनीं नाम” भाग० ५ । २१ । १५

निम्लोचि पु० यदुवंश्ये भजमाननृपस्य पुत्रभेदे “भजमानस्य

निम्लोचिः किंकालो वृष्णिरेव च” भाग० ९ । २४ । ५

नियत त्रि० नि + यम--क्त नितरां यतते यत--अच् वा ।

१ संयते २ नियमकारिणि ३ नियमयुते “नियमो यमश्च
नियतं मतिं यथा” माघः । कर्मणि क्त । ४ कृतनियमे
च । “प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् ।
प्रायश्चित्तमुपासीनो वाग्यतस्त्रिषवणं स्पृशेत्” प्रा० त०
शङ्खलिखितौ । “पाणिग्रहणिका मन्त्रा नियतं
दारलक्षणम्” उद्वा० त० मनुः । “अन्यथासिद्धिशून्यस्य नियता
पूर्ववर्त्तिता” भाषा० ।

नियताप्ति स्त्री नियता निश्चिता आप्तिः । सा० द० उक्ते

नाट्ये प्रारब्धकार्य्यस्य अवस्थाभेदे अवस्या विभज्य
“अपायाभावतः प्राप्तिर्नियताप्तिर्विनिश्चिता” अपाया-
भावान्निर्धारितैकान्तफलप्राप्तिर्नियताप्तिः । यथा रत्ना-
वल्याम् “राजा देवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं
पश्यामीति” देवीलक्षणापायस्य प्रसादनेन निवारणा-
न्नियतफलप्राप्तिः सूचिता” सा० द० ।

नियति स्त्री नियम्यतेऽनया नि + यम--करणे क्तिन् । १ भाग्ये

दैवे अमरः “नियतिं लोक इवानुरुध्यते” किरा० ।
“आसादितस्य तमसा नियतेर्नियोगात्” माघः “निय-
तिकृतनियमरहिताम्” काव्यप्र० । २ ईश्वरेच्छाभेदे
अविद्यायाम् । “महामायेत्यविद्येति नियतिर्मोहनीति
च । प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त! चोच्यते” पुराणा-
न्तरम् । करणे क्तिच् ङीप् । दुर्मायां देव्यां स्त्री “ऋतिः
संस्मरणाद्देवी नियती च नियामतः” देवीपु० ।
पृष्ठ ४०७७

नियन्त त्रि० नि + वम--वृच् । १ नियमकारिणि शासके

स्त्रियां ङीप् । २ अश्वनिवमकारिणि सारथौ पु० अमरः
“रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् । न व्यती-
युः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः” रघुः । ३ परमेश्वरे पु०
“अपराजितः सर्वसहोनियन्ता नियमोऽयमः” विष्णु स० ।

नियन्त्रण न० नि + यन्त्रि--ल्युट् । प्रतिबन्धदूरीकरणे ए

कत्रस्थापनार्थव्यापरभेदे “अनेकार्थस्य शब्दस्यैकार्थे
नियन्त्रणरूपं विशेषम्” सा० द० । भावे युच् । नियन्त्रणापि
तत्रार्थे स्त्री ।

नियन्त्रित त्रि० नि + यन्त्रि--क्त । १ कृतनियमने २ प्रतिबन्धा-

दिना एकत्रस्थापिते “अनेकार्थस्य शब्दस्य संयोगाद्यै-
र्नियन्त्रिते । एकत्रार्थेऽन्यधीहेतुः” सा० द० ।

नियम पु० नि + यम--घञ् वा ह्रखः । १ प्रतिज्ञायाम् अङ्गीकारे

अमरः । २ नित्ये ३ आगन्तुकसाधनकर्मरूपे व्रते ४
नियन्त्रणायां ५ निश्चये मेदि० पा० सू० उक्ते ६ योगाङ्गभेदे
“यमनियमासनपाणायामप्रत्याहारधारणाध्यानसमाध-
योऽष्टावङ्गानि” सूत्रे उद्दिश्य “शौचसन्तोषतपःस्वाध्या-
येश्वरप्राणिधानानि नियमाः” सू० विभज्योक्तं “तत्र
शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्य-
माभ्यन्तरं चित्तमलानामाक्षालनम् । सन्तोषः सन्निहित-
साधनादधिकस्यानुपादित्सा । तपो द्वन्द्वसहनं द्वन्द्वञ्च
जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च
व्रतानि चैवं यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि ।
खाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा ईश्व-
रग्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणं “शय्यास-
नस्थोऽथ पथि व्रजन् वा स्वस्थः परिक्षीणवितर्कजालः ।
संसारवीजक्षयमीधमाणः स्यान्नित्यमुक्तोऽमृतभोगमागी”
यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभाव-
श्चेति” भा० “शौचादिनियमान् व्याचष्टे शौचमिति ।
आदिशब्देन गोमयादयो गृह्यन्ते । गोमूत्रयावकादि
मेध्यं तस्याभ्यवहरणादि आदिशब्दात् ग्रासपरिमाण-
सङ्ख्यानियमादयो ग्राह्या मेध्याभ्यवहरणादिजनितमिति
बक्तव्ये मेध्याभ्यवहरणादि चेत्युक्तं कार्ये कारणत्वोप-
चारात् । चित्तमलाः मदमानासूयादयस्तदपनयो
मनःशौचम् प्राणयात्रामात्रहेतोरभ्यधिकस्यानुपादित्सा
सन्तोषः प्रागेव स्वीकरणपरित्यागादिति विशेषः ।
काष्ठमौनमिङ्गितेनापि स्वाभिप्रायाप्रकाशनम् अवचनमा-
कारमौनम् । परिक्षीणवितर्कजाल इति वितर्को वक्ष्यमाणः
संशयविपर्य्ययौ चेति एतावता शुद्धाभिसन्धिरुक्तः । एते
च यमनियमाः विष्णुपुराणे उक्ताः “ब्रह्मचर्यमहिंसां च
सत्यास्तेयापरिग्रहम् । सेवेत योगी निष्कामो योग्यतां
स्वमनो नयन् । स्वाध्यायशौचसन्तोषं तपांसि नियता-
त्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ।
एते यमाः सनियमाः पञ्च पञ्च प्रकिर्त्तिताः । विशिष्ट
फलदाः काम्या निष्कामाश्च विमुक्तिदाः” विव० । सर्वदर्शन-
संग्रहे पातञ्जलदर्शनप्रसङ्गे स्वाध्यायशब्देन प्रणवजपवत्
तान्त्रिकमन्त्रजपोऽप्युच्यते इत्युक्तम् ।
“नियमाः पञ्च सत्याद्या वाह्यमाभ्यन्तरं द्विधा ।
शौचं, तुष्टिश्च सन्तोषस्तपश्चेन्द्रियनिग्रहः । स्यानमौनो
पवासेज्यास्वाध्यायोपस्थनिग्रहः । तपोऽक्रोधो गुरौ
भक्तिः शौचञ्च नियमाः स्मृताः । यमाः पञ्चाथ
नियमाः शौचं द्विविधमीरितम् । सन्तोषस्तपसां जप्यं
वासुदेवार्चनं दमः” गारुडपु० “तपः सन्तोष आस्तिक्यं
दानं देवस्य पूजनम् । सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च
जपो हुतम् । दशैते नियमाः प्रोक्ता योगशास्त्रविशा-
रदैः” तन्त्रसारः । ७ विधिभेदे तल्लक्षणादि लौगाक्षि-
भास्करेणोक्तं यथा
“विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र
चान्यत्र च प्राप्तौ परिसख्येति गीयते” अस्यार्थः । प्रमाणा-
न्सरेणाप्राप्तस्य प्रापकोविधिरपूर्वविधिः । यजेत स्वर्ग-
काम इत्यादि स्वर्गार्थकयागस्य प्रमाणान्तरेणाप्राप्तस्या-
नेन विधानात् । पक्षे अप्राप्तस्य प्रापकोविधिर्नियमविधिः
यथा व्रीहीनवहन्तीत्यादिः । कथमस्य पक्षेऽप्राप्तेः प्राप-
कत्वमिति चेत् इत्यम् अनेन हि अवधातस्य वैतुष्या-
र्थत्वं न प्रतिपाद्यते अन्वयव्यतिरेकसिद्धात् किन्तु
नियमः स चाप्राप्तांशपूरणं वैतुष्यस्य हि नानोपाय
साध्यत्वादवघातं परित्यज्योपायान्तरं यदा ग्रहीतु-
मारभ्यते तदावघातस्याप्राप्तत्वेन तद्विघाननामकमप्राप्तां
पूरणमेवानेन विधिना क्रियते । अतश्च नियमविघाव-
प्राप्तांशपूरणात्मको नियम एव वाक्यार्थः पक्षेऽप्राप्तावघात
विधानमिति यावत्” । मिताक्षरोक्तं विशेषोदाहरणादि-
मृतुकालशब्दे १४३७ पृ० दर्शितं तत्र दृश्यम् । नियमे
च इतरसंवलने न दोषः । परिसंख्यायां दोष इति
भेदः । पाक्षिके सतीत्यादिकारिकां व्याख्याय
उदाहरणं परिसंख्यातो भेदश्च विधिरूपग्रन्थे दर्शितो यथा
“नियमः पाक्षिके सतीति विधिं विना प्रवृत्तेः पाक्षिकत्वे
सतीत्यर्थः प्रवृत्तिनियमे सतीति यावत तथाच
तद्गोचरप्रवृत्तिनियमनिर्वाहको विधिस्तन्नियमविधिरिति
पृष्ठ ४०७८
कलितम् । तादृशसावघातादिविधिः व्रीहीनवहन्तीति

विधिं विना पुरोडाशनिष्यादकव्रीहिवैतुष्यद्वारा यागो-

पकारकेऽवधाते इतरपरीहारेण नखदलनादावपि
प्रवृत्तिप्रसक्त्याऽवधाते प्रवृत्तिनियमो न स्यादिति तादशे
विधेः प्रवृत्तिनियमनिर्वाहकत्वं यागोपकारके व्रीहि
वैतुष्येऽवचाताधीनत्वनियमस्तादृशविधितो यद्यपि दुर्लभः
नियमस्यापदार्धत्वादवाक्यार्थत्वाच्च तथापि तादृशवि-
धितो ब्रीह्यबधातत्वेन नियोगसाधनताऽवगमात्
यागजन्यपरमापूर्वस्य तदवधातरूपकारणं विनापि निष्प-
त्तिप्रतिलन्धानेन तत्र नियतप्रवृत्तिनिर्वाहः । तत्र
चान्यत्र चेति यत्रोद्देश्ये यस्य विधानं तदन्यस्मिन्नपि
तत्सम्बन्धस्य तस्मिन वा तदन्यसस्वन्धस्य प्रवृत्तितः
प्रलक्तावित्यर्थः । तादृशश्च प्रसञ्चकप्रवृत्तिविरोधिविधिः
परिसंख्याविधिरित्यर्थः तत्र “इमाममृभ्रन् रशनामृ-
तस्येत्यश्वामिधानीमादत्ते” इति । तत्रेमामित्यादिमन्त्रस्य
रशनातात्रग्रहणप्रकाशकतया अश्वरशनादान इव गर्द-
भरशनाया आदानेऽपि मन्त्रस्य विनियोगो लिङ्गात्
लभ्यते तथाच तदादानकालेऽपि {??}न्त्रपाठप्रवृत्या
तत्रापि तन्मन्त्रसम्बन्धः स्यात् एतस्माच्च विधितः प्रथम-
मश्वरशनाग्रहणे एतन्मन्त्रविनियोगलाभे निराकाङ्क्षतया
गर्दमरशनाग्रहणे न तद्विगियोगलामैति वैयर्थ्ये न
तदाचरणमिति एतद्विधेर्विधेयस्येतरोद्देश्यसम्बन्धप्रस-
ञ्जकप्रवृत्तिविरोधिता । अथ व्रीहीनव हन्तीति नियम-
बिधिदर्शितपरिसंख्याविध्योः को विशेषः नियमविधेरपि
षरिसंख्यावदितरनिवृत्तिफलकत्वात् नियमविध्यसत्त्वे
पुरीडाशद्वारा यागोपकारकवैतुष्याद्यर्थिनोऽवथातेतरतदु-
पावे प्रवृत्तिप्रसक्तेः । यदि चावधातनियमविधेरवधात-
प्रवृत्तिनियमफलकत्वं परिसंख्यातो विशेषः इमाम-
गृभ्रन् रशनामित्यादि परिसंख्याया अश्वरशनादाने
मन्त्रपाठप्रवृत्तिनियमस्य मन्त्रलिङ्गेन मन्त्रस्यासाधा-
रण्येनोपकारकताबोधनादेव निर्वाहात्तस्याः प्रवृत्ति-
नियमानुपपादकत्वादिति विभाव्यते तदा अस्तु
परिसंख्याया नियमानन्तर्भावः नियमस्तु परिसंख्यायामन्त-
र्भवतु परिसंख्याफलस्य तत्साधारण्यात् इति चेन्न
नियमस्थले इतरनिवृत्तेरर्थतः सम्भवेऽपि तत्र तत्तात्-
पर्य्यानुपगमात् नियतप्रवृत्तावेव तत्तात्प्रर्य्यात् न
चोपायान्तरनिवृत्तावपि नियमतोऽवघातप्रवृत्त्युपपत्तेर्नि-
वृतावेव तत्तात्पर्य्यं न तु नियतप्रवृत्तावित्येव किं
गोपयेत इति वाच्यम् अवघातविधिनाऽवघातस्यासाधा-
रण्येन यागोपकारकत्ववोधनेऽपि अवघातमात्रेण
वैतुष्यनिर्वाहाप्रतिसन्धाने अन्योपायसंवलनेनाप्यवधा-
तप्रवृत्तिसम्भवादवघातविधेरितरनिवर्त्तकत्वायोगेन
तलेतरनिवृत्तो तात्पर्य्यासम्भवात् । एवम् ऋतौ भार्य्या-
मुपेयादित्यादिनियमी न तु परिसंख्या दोषत्रयग्रासा-
दिति सर्वसिद्धान्तोऽपि व्याहन्येत स्रार्थमन्तरेणैवानिष्टा-
ननुवन्धिभार्य्यागमने ऋतुकालव्याप्तिबोधात् तदैकवाक्य-
तया परिसंख्याफलस्येतरकाले भार्य्यागमननिवृत्ति-
मिर्वाहान्नियमानावश्यकत्वात् । न च ऋत्वनभिगमने
प्रत्यमवायश्रुतेः ऋतुकालाभिगमस्यावश्यकत्वे तत्तात्-
षर्व्यमावश्यकमिति नियम इति वाच्यम् । अनृतावन-
भिगमस्यापि “इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः”
इत्यादिना निषेधात्तदेकवाक्यतया परिसंख्याया
एवौचित्यात् इति चेन्न येन रूपेण उद्देश्यता तदन्यरूप-
ध्यापकता उद्देश्यविधेयभावमर्य्यादातो न लभ्यते इति
पञ्च पञ्चनखान् भुञ्जीत इत्यादावुद्देश्याविशेषेण भक्ष्य-
पञ्चनखत्वादौ शशकाद्यभेदव्याप्त्यलाभ इत्याशयेन तत्र
षरिसंख्यायां खार्थहान्थादिदोषत्रयस्य प्राचीनैरभिधा-
नात्” । मीमांसापरिभाषायाञ्च “यो विधिः पक्षे प्राप्त-
मर्षं नियमयति स नियमविधिः यथा व्रीहीनवह-
न्तीति । एतद्विध्यभावे दर्शपूर्णमासिकेषु व्रीहिषूत्प
त्तिवाक्यावनतपुरोडाशोपयोगि तण्डुलनिष्पत्त्यनुकूल वैतु-
ष्यकार्य्यायावहनमवत् कदाचिन्नस्वविदलनमपि प्राप्नुया-
दिति तस्मिन् पक्षेऽवहनमस्य प्राप्त्यभावात् कार्य्वान्ययो-
पपत्तेरवहननस्व पाक्षिकी प्राप्तिः स्यात् सत्यस्मिन् विधौ
अवहननेमैव वैतुष्यं कार्यमिति नियमे सति विदसनं
सर्वात्मना निवर्त्तत इति नियमविधिरयम् । न च
वैतुष्यस्य नरूविदलनेनापि सम्भवादवहनगनियमो व्यर्थः
प्रयोजनाभावादिति वाच्यम् अवथातेनैव वैतुष्यकरखे
किञ्चिददृष्टं जन्यते इत्यदृष्टाङ्गीकारात् नियमेनदृष्ट-
कार्य्यालाभेऽप्यदृष्टस्योत्पत्तेः । तच्चापूर्वं यागोत्पत्त्यपूर्व-
द्वारा फलापूर्वे उपयुज्यते तेन नियमापूर्वाभावे फलापूर्व-
मेवनोत्पद्यत इति कल्पनान्नियमापूर्वस्य न वैयर्थ्यम्
एव व्रीहिसोमादिनियमविधिषु बोध्यम्” । अधिकं विधिर-
सावनग्रन्थे दृश्यम् । कवितावर्णननियममेदाः यथा “वर्ण-
येस्य मदप्येतन्नियमोऽथ प्रदर्श्यते । भूर्जत्वघिमवत्येव
चलये ह्येव चन्दनम् । सामान्यवर्णने शौल्क्यं छत्राप्यः-
पृष्ठ ४०७९
पुष्पवाससाम् । कृष्णत्वं केशकाकाहिपयोनिधिपयो
मुचाम् । रक्तत्वं रत्नवन्धूकविद्याम्भोजविवस्वताभ् ।
तथा वसन्त एवान्यपुष्टानां कलकूजितम् । वर्षास्वेव
मयूराणा रुतं नृत्यञ्च वर्णयेत् । नियमस्य विशेषोऽथ पुनः
कश्चित् प्रकाश्यते । कमलासम्पदोः कृष्णहरितोर्ना-
गसर्पयोः । पीतलोहितयोः स्वर्णपरागाग्निशिखादिषु ।
चन्द्रेशशैलयोः कामध्वजे मकरमत्स्ययोः ।
दानवासुरदैत्यानामैक्यमेवाभिसम्मतम् । बहुकालजन्मनोऽपि
शिवचन्द्रस्य बालता । मानवा मौलितो वर्ण्या देवाश्चर-
णतः पुनः” । नियममयति नि + यम--णिच्--अच् ।
८ सर्वनियामके परमेश्वरे “अतीन्द्रः संग्रहः सर्गो
धृतात्मा नियमोऽयमः” विष्णुस० “स्वेषु स्वेष्वधिकारेषु प्रजा
मियमयतीति नियमः” भा० ।

नियमन न० नि + यम--भावे ल्युट् । १ नियमशब्दार्थे २ निग्रहे

३ बन्धे “नियमनादसतां च नराधिपः” रघुः इतरनिवारण-
रूपे ४ परिसंख्यार्थे च “युग्माग्निकृतभूतानि षण्मुन्योर्व-
सुरन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ।
प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् । एतद्व्यस्तं
महाघोरं हन्ति पुण्यं पुराकृतम्” निगमवाक्यतात्पर्य्य
कथने “एतत्प्रयोजनं तु तिथिविशेषविहिते कर्मणि
तिथिखण्डविशेषनियमनम्” ति० त० रघु० । एतदुपदर्शित
खण्डविशेषतिथावेव कुर्य्यान्नेतरत्रेति परिसंख्यातुल्यत्वं
गम्यते । नियमपरत्वे विपरीतकरणे दोषाभावप्रसङ्गात्
मियमे इतरसंवलनस्य शास्त्रार्थत्वात् नचैद्युक्तम्
इतरत्र करणे निन्दाश्रवणात् । अतः परिसंख्याकार्य्य-
कारीह नियमनमिति स्थितम् ।

नियमसेवा स्त्री नियमेन सेवा विष्णोः । नियमपूर्वकम्

आश्विनस्य शुक्लैदश्यामारभ्य कार्त्तिकमासे विष्णोः सेवायाम्
“आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् । कार्त्ति-
कस्यन्ध्रतानीह तस्यां कुर्य्यादतन्त्रितः । अकृत्वा नियमं
विष्णोः कार्त्तिकं यः क्षिपेन्नरः । जन्मार्जितस्य पुण्यस्य
फलं नाप्नोति नारद!” । किञ्च “नियमेन विना चैव न
नयेत् कार्त्तिकं मुने! । चातुर्मास्यं तथा चैव ब्रह्महा स
कुलाधमः” हरिभक्तिविलासः ।

नियमस्थिति स्त्री नियमेन स्थितिरत्र । तपस्यायाम् हेमच०

नियमित त्रि० नि + यम--णिच्--कर्मणि क्त । १ कृतवन्धने

“किञ्चिद्भ्रुभङ्गीलीलानियमितजलधिंरामन्वेषयामि”
महाना० । २ कृतनियमे च

नियम्य त्रि० नि + यम--यत् । १ निरोद्धव्ये २ निग्राह्ये च

“त्वया नियम्या ननु दिव्यचक्षुषा” रघुः ।

निययिन पु० नी--भावे क्विप् निये नयनाय इनः प्रभुः बा०

अलुक्स० । प्रापणाय स्वामिनि रथादौ “न्वेषं
निययिनं रथम्” ऋ० १० । ७ । २

नियव पु० नि + यु--मिश्रणे वेदे वा० अप् । मिश्रीभावे

“गोषु युधो नियवं चरन्तीः” ऋ० १० । ३० । १० लोके तु
घञ । नियाव तत्रार्थे ।

नियातन न० नितरां यात्यते याति--ल्युट् । १ निपातने

नितरां यातना यत्र प्रा० ब० । २ भययुते नयनानन्दः ।

नियान न० नियमेन यान्ति गावोऽत्र या--आधारे ल्युट् ।

गोष्ठस्थाने । “यन्नियानं न्यासं संज्ञानम्” ऋ० १० । १९ । ४
“नियानं गोष्ठम्” भा० ।

नियाम पु० नि + यम--घञ् । नियमे

नियामक त्रि० नि + यम--णिच्--ण्वुल् । नियमकारके

नियामकत्वम् अदृष्टकालादेः “कारणस्य कार्यं प्रति
नियामकत्वम्” सर्वद० “कृत्तद्धितसमासानामभिधानं निया-
मकम्” अमरः । स्त्रियां टापि अत इत्त्वम् नियामिका ।
“विकल्पे आत्मप्रीतिर्नियामिका” मिता० २ निरासके
च “लोकप्रसिद्धमेवैतद्वारि वह्नेर्नियामकम्” कामन्द० ।

नियुक्त त्रि० नि + युज--क्त । १ अधिकृते २ नियोजिते ३ प्रेरिते

च “केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि
तथा करोमि” आ० त० प्रातःकृत्ये । “नियुक्तस्तु
यथान्यायं यो मांसं नात्ति मानवः” स्त्रिया सम्यग्नियुक्तया”
“विधवायां नियुक्तस्तु” “नियुक्तो यो विधिं हित्वा”
इति च मनुः ।

नियुत् पु० नि + यु--कर्मणि क्विप् तुक् । १ वायोरश्वे निघ०

“सहस्रेण नियुता नियुत्वते” ऋ० १ । १६ । १ “जातावेकवच-
नम् । नियुत इति वायोरश्वानां नामधेर्य “नियुतो
वायोरिति निरुक्ते उक्तत्वात्” भा० कर्मणि क्विप् ।
२ नियोजिते ३ नियते च नियुद्रथशब्दे दृश्यम् ।

नियुत न० । १ लक्षसंख्यायां २ दशलक्षसंख्यायां ३ तत्संख्येयेषु च

“शतं सहस्रमयुतं नियुतं प्रयुतं मतम् । स्त्री कोटि-
रर्वुदमिति क्रमाद्दशगुणोत्तरम्” इति रत्रकोषः । “एकं
दश शतञ्चैव सहस्रमयुतं तथा । लक्षञ्च नियुतञ्चैव
कोटिरर्षुद एव च । वृन्दः खर्वो निखर्वश्च शङ्खपद्मौ
च सागरः । अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या
यथोत्तरम्” पुराणम् ।
पृष्ठ ४०८०

नियुत्वत् पु० नियुतोऽश्वाः सन्त्यस्य मतुप् मस्य वः तान्तस्या-

स्त्यर्थ परे पदत्वाभावात् न तस्य दः । वायौ “नियुत्वान्
सोमपीतये” यजु० २७ । ३२ । तस्येदं छ । नियुत्वतीय
वायुदेवताके हविरादौ “एष वा प्राजापत्य एष वा
नियुत्वतीयः” शत० ब्रा० ६ । २ । २ १५ ।

नियुत्सा स्त्री भरतवंश्यस्य प्रस्तारनृपस्य पत्न्याम् “प्रस्तारस्य

नियुत्सायां हृदयज आसीत् विभुः” भाग० ५ । ५ । ७ नियुत्-
सायामित्यत्र निरुत्सायामिति पाठान्तरं साऽपि तत्रार्थे ।

नियुद्ध न० नि + युध--भावे क्त । बाहुयुद्धे अमरः । “नियुद्धं

सङ्कटयुतम्” सा० द० । निपूर्वकस्य युध्यतेः बाहुयुद्धपर-
त्वम् । “तेन नियोद्धुकामे किमु बद्ध्ववर्मणी” नैष० ।

नियुद्रथ त्रि० नियुत्--नियोजितो नियतो वा रथोयस्य ।

गमनाय नियोजितरथे “स दस्रा नियुद्रथः” ऋ० १० । २६ । १
“नियुद्रथो गमनाय सर्वदा नियतरथो नियुक्तरथो वा” भा०

नियोग पु० नि + युज--घञ् कुत्वम् । १ प्रेरणे इष्टसाधनत्वादि

बोधनेन २ प्रवर्त्तने नियोज्यशब्दे दृश्यम् । ३ आज्ञायाम्
४ अवकॢप्तौ अवधारणे तच्चावधारणम् अन्ययोगव्यव-
च्छेदार्थकम् । “एवानियोगे” सुग्ध० । अनियोगे
अनवकॢप्तावित्यर्थः “तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः”
रघुः । पुत्रोत्पादनाय विधवायाः ५ नियोजने च ।
नियोगप्रकारश्च क्षेत्रजशब्दे २४०६ पृ० दृश्यः । “उक्तो
नियोगो मनुना निषिद्धः स्वयमेव हि” वृहस्पतिः ।

नियोग्य त्रि० नियोक्तुमर्हति नि + युज--अर्हार्थे कर्त्तरि ण्यत्

कुत्वम् । प्रभौ । शक्यार्थे कर्मणि तु न कुत्वम् ।

नियोजन न० नि + युज--भावे ल्युट् । १ प्रेरणे २ प्रवर्त्तने

भृत्यादेः कर्मकरणाय ३ उपदेशात्मकव्यापारे “नियोजन-
कालेऽष्टाचत्वारिंशतमाद्यानग्निष्ठे” कात्या० श्रौ० २१ । १ । ८ ।
४ नितरां योजने च “पाशं कृत्वा प्रतिमुञ्जत्यथातो
नियोजनस्यैव” शत० व्रा० ३ । ७ । ३ । १३ ।

नियोज्य त्रि० नि + युज--शक्यार्थे कर्मणि ण्यत् “प्रयोज्यनि-

योज्यौ शक्यार्थे” पा० उक्तेः न कुत्वम् । १ प्रवर्त्तनीये
नियुञ्जतेः प्रवर्त्तनार्थकत्वात् कर्मणि ण्यता तत्कर्म
चच्यते प्रवर्त्तनाकर्म च तज्जन्यप्रवृत्तिमान् । तथा च स्वर्ग-
कामोयजेतेत्यादौ स्वर्गकामो यागे नियोज्यः स्वर्गका-
मादेश्च कामनाद्वारा यागे कृतिसाध्यताधीद्वारा प्रवृत्ति-
र्जायते इति तस्य तथात्वम् । तदेतत् शब्दचि० उक्तं
यथा “स्वर्गकामो यजेतेत्यादौ इष्टसाधनत्वं कार्यत्वं
वा यदि विधिः समभिव्याहृतक्रियान्वयी तदन्यान्वयी
वा गुरुमते यागादिर्न कार्यतया लिङा बोध यितुं
शक्यते स्वर्गकामनियोज्यान्वययोग्यताविरहात् ।
कामनाविशिष्टस्य हि ममेदं कर्त्तव्यमिति बोद्धृत्वं नियो-
ज्यत्वं कामना च तद्बोधोपयोगे सति भवति स च
कामनानन्तरं काम्यसाधनताबोधात् कार्यताबोधे सति
स्यात् एवञ्च स्वर्गसाधनताबोधे सति स्वर्गकामनियोज्या-
न्वययोग्यता । न च कालान्तरे भाविस्वर्गे क्रिया
साक्षात् परम्परया वा साधनमिति शब्दो बोधयितुमर्हति
आशुविनाशित्वात् परम्पराघटकानुपस्थितेश्च तृतीय
प्रकारस्याभावात् अन्यथा तमादाय साधनत्वसम्भवात्
कल्प्यमप्यपूर्वं न स्यात् इष्टसाधनताविधिपक्षे तु स्फुटै-
वानुपपत्तिः । कार्यताविधिपक्षे अन्वयप्रकारतया साधनत्वं
शाब्दमिति फलतो न विशेषः । अतः क्रियातोऽन्यत्
स्वर्गसाधनतार्हं कार्यं क्रियाकार्यतानिर्वाहकमित्यार्थम्”
गदाधरेणेदं नियोज्यान्वयग्रन्थे विवृतं दिङ्मात्रमत्रीच्यते
“लिङोऽर्थः कार्यत्वं पाकादिक्रियायामेब प्रथमतोऽन्वेति
न तु स्वर्गकामो यजेतेत्यादितो यागादौ प्रथमतस्तद-
न्वयः किन्तु कार्यत्वेनैव वैदिकलिङ्वाच्येऽपूर्वे प्रथमतो
विषयतया यागाद्यन्वयः प्रतीयते विषयत्वन्तु जन्यत्वम्
तत्र च शक्यतावच्छेदककार्यत्वैकदेशे कृतौ स्वर्गकामा-
न्वयः एवञ्च यागविषयकं स्वर्गकामकार्यमिति प्राथमिको
बोधः तदनन्तरमपूर्वस्य कृतिसाध्यता यागद्वारैव, यागम-
कृत्वा अपूर्वस्य साधयितुमशक्यत्वादतो यागकार्यतां विना
ऽपूर्वकार्यत्वसनुपपन्नमित्यनुपपत्तिप्रतिसन्धांने तत्सह
कृतलोकस्थलकॢप्तक्रियाकार्यतान्वयगोचरशाव्दसामग्रीतो
यागे औपादानिकोवोधः । पुनरनुसन्धीयमानशब्दसह-
कृतानुपपत्तिज्ञानमेवोपादानमिति गीयते तदसहकृतं
ज्ञानञ्चार्थापत्तिरिति । न च यागकार्यतायाः पूर्वमप्रतीत-
त्वेन यागकार्यताव्यतिरेकस्य दुर्ग्रहत्वात् उक्तानुपपत्ति-
धीरेव न घटते इति वाच्यं यागो यदि कार्य्यो न स्यात्
तदाऽपूर्वमपि कार्यं न स्यात् इति तर्काकारानुपपत्ति
प्रतिसन्धानस्य यागकार्यतासिद्ध्यनधीनस्य यागकार्य्यता
साधकत्वोपगमात् । न चापाद्यापादकयोवेयधिकरण्यान्नोक्त
तर्कसम्भव इति वाच्यं यागो यदि कृतिसाध्यो न स्यात्
असाध्यककृत्यसाध्यकृतिसाध्यव्यापारको न स्यादित्ये
तादृशतर्कोपगमेन सामञ्जस्यात् । कृतिसाध्यज्वलनादिरूप-
व्यापारके कृत्यसाध्यकाष्ठादौ व्यभिचारवारणायासा-
ध्यान्तं यापारविशेषणं, कृतिसाध्यव्यापारके नित्ये
पृष्ठ ४०८१
व्यभिचारवारणायाऽननुकूलत्वमपेक्ष्य असाध्यकत्वं
कृतौ विशेषणं शब्दानुपपत्तिधीजन्यतावच्छेदकधर्म्मयोः
सङ्करी न दोषो गुणगतजात्यनभ्यु पगमेन तयोर्ज्जातित्व
विरहात् । अस्तु वा केवलशब्दादिप्रमाणजन्यबोधवि-
जातीय एव औपादानिकवोधः अपूर्वाविषयककामिकृ-
तेरपूर्वसाधनक्रियाविषयकत्वं विनाऽपूर्वसाधनतानुपपत्तेः
कृतौ क्रियाविषयकत्वोपपादकत्वं तस्याः काम्यसाधनत्व-
मप्यपूर्वकार्यत्वोपपादकम् इति यागादेः काम्यसाधनता-
प्यौपादानिकी, अस्माकं काम्यसाधनत्वस्य विधिप्रत्ययावा-
च्यत्वेऽप्यध्याहारितस्याप्यर्थस्य शाब्दधीगोचरतया पदाज-
न्याया अपि स्वर्गसाधनत्वोपस्थितेः पदजन्यक्रियाद्युप-
स्थितिसहितायाः शाब्दसामग्रीत्वादिष्टसाधनत्वस्योपा-
दानलभ्यता । वाजपेयेन यजेतेत्यादौ च तदाभिधानिक-
मेव स्वर्गादिपदोपस्थाप्ये इष्टे कथञ्चित् तृतीयार्थ-
करणत्वान्वय उपेयते इति गुरुमतं निराकृत्य आहत्यैव
यागादौ विध्यर्थकृतिसाध्यत्वेष्टसाधनत्वयोरन्वयबोधं
व्यवस्थापयितुकामो विचाराङ्गं विप्रतिपत्तिं दर्शयति
अथेति स्वर्गकामोयजेतेत्यादाविति कालान्तरभाविफलका-
मबोधकघटितवेदवाक्ये इत्यर्थः प्रतिपाद्यत्वं विघावन्वेति
विधित्वञ्च विदधाति प्रवर्त्तयतीति व्युत्पत्त्या प्रवृत्तिप्रयो-
जकत्वं प्रवृत्तिजनकतावच्छेदकप्रकारताश्रयत्वम् । कार्य-
त्वस्य विशिष्यैव कथं न पक्षतोपेयते इत्याकाङ्क्षायाम् इष्ट-
साधनतासाधारणरूपावच्छिन्नःपक्षो, गुरूणामभावसाधने
एव नैयायिकाभिमतस्याहत्यक्रियायामिष्टसाधनतान्वय-
स्यापि निराकरणं भवतीत्युक्तानुगतरूपेण पक्षकरणप्र-
योजनमाविस्कर्त्तुं विधित्वेन संग्राह्यमर्थद्वयं दर्शयति इष्ट-
साधनत्वं कार्यत्वं वेति वाकारोऽनास्थायां न विकल्पे ।
इष्टसाधनत्वस्य विधित्वपक्षे कार्यत्वस्याकत्त्वात् । एवञ्चा-
लौकिकक्रियागोचरकालान्तरभाविफलकामनाधीनप्रवृत्ति
परलिङ्पद तात्पर्य्यविषयप्रवर्त्तकधर्मत्वमेव पर्य्यवसितं
पक्षतावच्छेदकम्” इत्युपक्रमे तु मध्ये
“स्वर्गकामेति काम्यस्वर्गसाधनतानिर्वाहकापूर्वरूपय्या-
पारे साधनत्वाप्रत्यायमे स्वर्गकामकृतिसाध्यत्वान्वयबोध-
जनकधीविषयतदन्द्रयप्रयोजक स्वर्गकामनियोज्यकत्वरू-
पयोग्यताविषयकशाब्दज्ञानस्य जनकीभूतं यन्नियोज्यतया
स्वर्गकामरूपनियोज्यस्यान्वयप्रयोजकस्वर्गसाधनतायाज्ञानं
तदसम्भवादित्यर्थः । कृतिविषयनिष्ठकाम्यसाधनतायाः
कृतिविशेषप्रयोजकत्वेऽपि इष्टासाधनस्यापि सन्ध्यावन्द-
नादेः कृतित उत्पत्तेः । कृतिसाध्यत्वसामान्ये यद्यपि
साक्षान्नेष्टसाधनत्वं प्रयोजकं तथापि तत्र कर्त्तुः क्रिया-
नियोज्यत्वं क्रियाविषयककृतिसाध्यताज्ञानबत्त्वरूपं
प्रयोजकमिति कार्यतान्वयबोधसामान्ये कर्त्तुर्नियोज्य-
ताज्ञानमन्वयप्रयोजकरूपयोग्यताज्ञानविधया कारणम्
तदपि ज्ञानं शाब्दात्मकमेवोपेयम् प्रमाणान्तराभावात् ।
एवञ्च काम्यस्थले कामिनियोज्यतया वोधे कामनावि-
शिष्टस्यैव तथाभानमङ्गीकार्यं कामनाया विशेषणत्वाव
श्यकत्वात् कामनाया उपलक्षणत्वे आत्ममात्रस्यैवोपल
क्ष्यतया निष्कामसाधारणनियोज्यताबोधो न, विधेरप्रा-
माण्यप्रसङ्गात्” “वस्तुतो वेदस्थले विशिष्टान्वयपरताया
औत्सर्गिक्याः कथञ्चित्सम्भवे तत्त्यागायोगादपि
कामनाया विशेषणत्वमावश्यकमेव” । स्थलान्तरे च
“यद्यपि नियोज्यत्वं विधिकर्तृकप्रवर्त्तनारूपनियोगकर्मत्वं
धात्वर्थतावच्छेदकप्रवृत्तिरूपफलाश्रयत्वमेव प्रवर्त्तकज्ञा-
नानुकूलव्यापारस्य नियोगत्वे च तादृशज्ञानाश्रयत्वमेव
तथापि निरुक्तं पारिभाषिकमेव वा नियोज्यत्वम् अथ
वा प्रवर्त्तकज्ञानोपधायकतानिर्वाहकव्यापारो नियोग
इति कामानासाधारणं तादृशज्ञानोपधायकत्वं नियो-
ज्यत्वं कामनायास्तद्बोधोपयोगे कार्यताबोथजनकत्वेभ-
वति निर्वहतीत्यर्थः । अन्यथा विशेषणांशे तद्वाधेन
कामनाया विशेषणत्वायोगादिति भावः । स चेति कामनाया-
स्तद्बोधोपयोगश्चेत्यर्थः । कामनानन्तरं काम्यसाधनता-
बोधात् कार्यत्वबोधे सतीति कामनाधीनकाम्यसाधनता
बोधस्य कार्यताबोधोपयोगे सतीत्यर्थः साक्षात्तदनुपयो-
गादिति भावः । काम्यसाधनताबोधस्य काननाधीनत्वं
कामनाविषयकत्वेन बोध्यं तथा च कामनाविशिष्टस्य
क्रियानियोज्यत्वं कामनायाः क्रियानिष्ठकाम्यसाधनता
ज्ञानोपयोगितानिर्वाह्यमिति तद्ध्वटकक्रियानिष्ठकाम्य-
साधनत्वमपि नियोज्यतान्वयप्रयोजकमिति पर्य्यवसितम् ।
एवञ्च स्वर्गकामसाधनताया नियोज्यतया स्वर्गकामान्वय
प्रयोजकत्वे च सति सत्येव नियोज्यान्वययोग्यता नियो-
ज्यत्वान्वयप्रयोजकयोग्यताघटितनियोज्यान्वयबोधसाम-
ग्रीसम्पत्तिः । एवञ्च यागः स्वर्गसाधनीभूत स्वनियोज्य
स्वर्गकामकार्यतान्वयधीरेतन्मते तत्र स्वर्गकामे नियो-
ज्यताज्ञानं क्रियायां स्वर्गसाधनताज्ञानञ्च योग्यताज्ञा-
नमेव औपादानिकरूपमनुपपत्तिमात्रमूलकं वा अपेक्ष्यते
इति तस्या अपि स्वर्गसाधनताविषयकतया तन्निर्वाहक-
पृष्ठ ४०८२
फलसमयपर्य्यन्तस्थायिव्यापारजनकत्वज्ञानभप्यपेक्षितमिति
नाहत्यक्रियाकार्यताधीरिति समुदायार्थः” ।
एवं शुचित्वतत्कालादिरूपकर्त्तृविशेषयुतस्यापि नियोज्य-
त्वम् अत्र को नियोज्यः इत्याकाङ्क्षयोत्थापितस्य शुचित-
त्तत् कालजीवित्वादेरधिकारिविशेषणस्य नियोज्यताप्रयो-
जकत्वात् इत्याकारे विस्तरः ।

नियोद्धृ पु० नि + युघ--तृच् । १ कुक्कुटे राजनि० २ वाहुयुद्धकारिणि त्रि० ।

निर् अव्य० नॄ--क्विप् न दीर्घः । १ वियोगे २ अत्यये ३ आदेशे

४ अतिक्रमे ५ भोगे ६ निश्चिते च गणरत्नमहो० । तत्र
यथाक्रममुदाहृतं च यथा १ निःसङ्गः ३ निर्मेघम् ३ निर्देशः ।
४ निषक्रान्तः ५ निर्वेशः । ६ निश्चितम् । ७ निषेधे मेदि०
निर्मक्षिकम् । अयं शब्दः प्रादिः सान्तः रान्तश्च “निसस्त-
पतावासेवने” पा० ८ । २१२० सूत्रे निस इति निर्देशात्
निष्कृतं दुष्कृतमित्युदाहृत्य “इदुदुपघस्य सकारस्य यो
विसर्जनीयः” इति भाष्योक्तेश्च सान्तत्वम् । “निरः
कुषः” पा० ७ । २ । ४६ सूत्रे निर इति निर्देशात् रान्त-
त्वम् । एवं दुस् दुर् सान्तोरान्तश्च दुष्कृतमित्यत्र
भाष्योक्तेः सान्तत्वम् “सुदुरोरधिकरणे” वार्त्ति० सूत्रे
सुदुरोरिति निर्देशात् रान्तत्वम् । उपसर्गगणसूत्रे तु
तन्त्रोच्चारितः” मनोरमा ।

निरंश त्रि० निर्गतोऽंशात् निरा० त० । सूयभुज्यमानराशेः

प्रथमे राशेस्त्रिशांशरूपे भागे तद्राशिभोगस्य अंशशून्यत्वात्
तथात्वम् । “राशेः प्रथमभागस्थः निरंशः सूर्यः उच्यते”
ज्योतिषम् । २ रवे राश्यन्तरसंक्रान्तिदिने रघु० । निर्गती
भागो यस्य प्रा० ब० वा कप् । ३ भागरहिते च ।
“पतितस्तत्सुतः क्लीवः पङ्गुन्मत्तको जडः । अन्धोऽचि-
कित्स्यरोगार्त्तो भर्त्तव्यास्ते निरंशकाः” याज्ञ० “निरंशौ
क्लीवप्रतितौ जात्यन्धवधिरौ तथा” मनुः । अनंशौवेति पाठः

निरक्ष त्रि० निर्गतः अक्षस्तदुन्नतिर्यस्मात् प्रा० ब० । अक्षो-

न्नतिशून्यदेशे स च देशः सू० सि० उक्तो यथा
“समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः । द्वीपेषु
दिक्षु पूर्वादि नगर्य्यो देवनिर्मिताः । भूवृत्तपादे पूर्वस्यां
यमकीटीति १ विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकारतो-
रणा । याम्यायां भारते वर्षे लङ्का २ तन्महती पुरी ।
पश्चिमे केतुमालाख्ये रोमकाख्या ३ प्रकीर्त्तिता । उदक्
सिद्धपुरी ४ नाम्ना कुरुवर्षे प्रकीर्त्तिता । भूवृत्तपादविव-
रास्ताश्चान्यीन्यं प्रतिष्ठिताः । ताभ्यश्चोत्तरगो मेरुस्ता-
वानेव सुराश्रयः । तासामुपरिगो याति विषुवस्थो
दिवाकरः । न तासु विषुवंच्छाया नाक्षस्योन्नतिरिष्यते ।
मेरोरुभयतो मध्ये ध्रवतारे नभःस्थिते । निरक्षदेशसं-
स्थानासुभये क्षितिजाश्रये । अतो नाक्षोच्छ्रयस्तासु
ध्रुवयोः क्षितिजस्थयोः । नवतिर्लम्बकांशास्तु मेराव-
क्षांशकास्तथा” ।

निरग्नि पु० निर्गतोऽग्निस्तत्साध्यकार्यं यस्मात् प्रा० ब० ।

श्रोतस्मार्त्ताग्निसाध्यकर्मरहिते द्विजे “एकोद्दिष्टं सदा
कुर्य्यात् निरग्निः श्राद्धदः सुतः” उशनाः “वीरहा वा
एष देवानां भवति योऽग्निमुद्वासयते” श्रुतौ अग्नि-
त्यागस्य पुत्रहत्यातुल्यपापजनकत्वमुक्तम् । उपपातक-
शब्दे निरग्नितादोष उपपातकत्वेन मनुनोक्तो दर्शितः ।

निरङ्कुश त्रि० निर्गतोऽङ्कुश इव प्रतिबन्धको यस्य प्रा० ब० ।

१ प्रतिबन्धशून्ये २ अनिवार्य्ये जटाध० “विक्रयार्थं हि यो
हन्यात् भक्षयेद्वा निरङ्कुशः” भा० अनु० ३६०८ श्लो० । “निर-
ङ्कुशाः कवयः” । “कुबलयदृशां वामः कामो निकामनि-
रङ्कुशः” गीतगो० ।

निरङ्ग त्रि० निर्गतमङ्गं यस्य प्रा० ब० । १ अङ्गहीने २ रूपकाल-

ङ्कारभेदे न० सा० द० अलङ्कारशब्दे ४०२ पृ० दृश्यम् ।

निरङ्गुल त्रि० निर्गतमङ्गुलिभ्यः प्रा० त० अच्समा० । अङ्गुलि-

तोनिर्गते ।

निरजिन न० निर्गतमजिनात् प्रा० त० । अजिनात् निर्गते निरुदकादि० अन्तोदात्ततास्य ।

निरञ्छन न० शालाङ्गोपायाभ्यासरज्वाः प्रथमे षष्ठे भागे

कर्त्तव्ये लक्षणभेदे शालाङ्गमुक्तं परिशिष्टे “विंशत्यरत्निः
शाला स्यात्तदर्द्धेन तु विस्तृतेति” तत्साधनोपायश्च “प्र-
माणार्द्धं बाभ्यस्याभ्यासपष्ठे लक्षणं करोति तन्निरञ्छ-
नमिति अत्र विंशत्यरत्निर्मूलरज्ज्वुः दशारत्निरभ्या-
सरज्ज्वुः तस्याः प्रथमे षष्ठे भागे निरञ्छनम् तस्या
अर्द्धे पञ्चारत्निमिते श्रोण्यङ्कनार्थमिति” कात्या० श्रौ०
७ । १ । २४ कर्कः ।

निरञ्जन त्रि० निर्गतमञ्जनं कज्जलं तदिव समलमज्ञानं वा

यस्मात् प्रा० ब० । १ कज्जलरहिते नेत्रे २ दोषरहिते
३ अज्ञानशून्ये परमात्मनि पु० “तदा विद्वान् पुण्यपापे
विधूय निरञ्जनं परमं साम्यमुपैति” मुण्डकोप० “निर-
वद्यं निरुञ्जनम्” श्वेता० । ४ शिवे पु० “दीर्घरोमा दीर्घभुजो
दीर्घवाहुर्निरञ्जनः” हरिवं० २२७ अ० शिवनामोक्तौ ।

निरति स्त्री नितरां रतिः, नि + रम--क्तिन् वा । अत्यन्तरतौ ।

पृष्ठ ४०८३

निरतिशय पु० निर्गतोऽतिशयो यस्मात् नितरामतिशयो

वा । १ अत्यन्तातिशये २ स्वापेक्षयातिशयशून्ये ३ परमेश्वरे
यदपेक्षया कस्याप्यतिशयाभावः ४ तस्मिन् त्रि० । “तत्र
निरतिशयं सार्वज्ञ्यवीजम्” पात० सू० “यदिदमतीता-
नामतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति
सार्वज्ञ्यवीजमेतद्विवर्द्धमानं यत्र निरतिशयं स सर्वज्ञः ।
अस्ति काष्ठाप्राप्तिः सार्वज्ञ्यवीजस्य सातिशयत्वात्
परिमाणवदिति यत्र काष्टाप्राप्तिर्ज्ञानस्य स सर्वज्ञः स
च पुरुषविशेषः” भा० “व्याचष्टे यदिदमिति । बुद्धिस-
त्वावरकतमोऽपगमतारतम्येन यदिदमतीतानागतप्रत्यु-
त्पन्नानां प्रत्येकञ्च समुच्चयेन च वर्त्तमानानामतीन्द्रि-
याणां ग्रहणं तस्य विशेषणमल्पं बह्विति सार्वज्ञ्यवीजं
कारणम् । कश्चित् किञ्चिदेवातीतादि गृह्णाति कश्चिद्
बहुतरं कश्चिद्बहुतमम् एतद्विवर्द्धमानं यत्र निष्क्रा-
न्तमतिशयात् स सर्वज्ञ इति तदनेन प्रमेयमात्रं
कथितम् । अत्र प्रभाणयात अस्ति काष्ठा प्राप्तिः सार्वज्ञ्य-
वीजस्येति साध्यनिर्देशः निरतिशयकाष्ठा यतः
परमतिशयवत्ता नास्तीति । तेन नावधिमात्रेण सिद्धसा-
धनं, सातिशयत्वादिति हेतुः । यत् सातिशयं तत्
तत्सर्वं निरतिशयं यथा कुवलामलकविल्वेषु सातिशय-
मिति । व्याप्तिं दर्शयति परिमाणवत् । न च गरिमा-
दिगुणैर्व्यभिचार इति साम्प्रतम्, न स्वल्वऽवयवगरि-
मावयविनः किन्त्वा, परमाणुभ्य अन्त्यावयविभ्यो
यावन्तः केचन तेषा प्रत्येकं वर्त्तिनं गरिमाणं
समाहृत्य गरिमवर्द्धमानताभिमानः ज्ञानन्तु प्रतिज्ञेयं
समाप्यते इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न
व्यभिचारः” विवरणम् ।

निरत्यय त्रि० निर्गतोऽत्ययो यस्य प्रा० ब० । १ अत्ययशून्ये

“निरत्ययं साम न दान वर्जितम्” किरा० । अभावेऽ-
व्ययी० । २ अत्ययाभावे अव्य० ।

निरध्व त्रि० निष्क्रान्तोऽध्वनः प्रा० त० अच्समा० । अध्वनो निष्क्रान्ते ।

निरनुनासिक त्रि० निर्गतमनुनासिकमनुनासिकत्वं यस्य ।

अनुनासिकभिन्ने वर्णभेदे “यलो द्विधाऽरो निरनुनासिकः
सानुनासिकः” मुग्धवोधः ।

निरनुयोज्यानुयोग पु० गौतमोक्ते निग्रहस्थानभेदे तल्ल-

क्षणम् तत्रोक्तं यथा “निग्रहस्थानातियोगो निरनु-
योज्यानुयोयः” सू० “निग्रहस्थानलक्षणस्य मिथ्याध्य-
वसायादनिग्रहस्थाने निगृहीतोऽसाति परं ब्रुवन्
निरनुयोज्यानुयोगान्निगृहीतो वेदितव्यः” इति भा० ।
“अवसरे यथार्थनिग्रहस्थानोद्भावनातिरिक्तं यन्निग्रह-
स्थानोद्भावनं तदित्यर्थः एतेनावसरे निग्रहस्थानोद्भावने
एकनिग्रहस्थाने निग्रहस्थानान्तरोद्भावने च नाति
व्याप्तिः । सोऽयं चतुर्द्धा छलं जातिराभासोऽनवसरग्रह-
णञ्च । आभासो व्यभिचारादावसिद्ध्याद्युद्भावनम्
अनवसरग्रहणञ्चाकाले एवोद्भावनं यथा त्यक्षसि चेत् प्रतिज्ञा-
हानिः विशेषयसि चेत् हेत्वन्तरम् । एवमवसरमतीत्य-
कथनमपि, यथा उच्यमानग्राह्यस्यापशब्दादेः परिसमाप्तौ
एवमनुक्तग्राह्याज्ञानाद्यननुभाषणावसरेऽनुद्भाव्यबोधावि-
ष्करणानुभाषणप्रवृत्ते वादिनि तदुद्भावनमित्यादिक-
मुह्यम्” वृत्तिः ।

निरन्तर त्रि० निर्गतमन्तरं यस्मात् प्रा० ब० । १ सन्तते

अविच्छिन्ने सन्ततियुक्ते सन्ततिश्च दैशिकी कालिकी च तत्र
दैशिकविच्छेदशून्ये “कृतापराधानपि योषितः प्रि-
यान् परिष्वजन्ते शयने निरन्तरम्” ऋतुस० “भूभर्त्तु-
रायतनिरन्तरसन्निविष्टाः” माघः “निरन्तरास्वन्तर
वातवृष्टिसु” कुमा० कालिकविच्छेदशून्ये निरवधौ यथा
“कपिलानां सवत्सानां वर्षमेकं निरन्तरम्” भा० व० ९७ अ०
२ अपरिधाने ३ अनन्तर्द्धाने ४ अभेदे ५ अतादार्थ्ये च ।
निरन्तरालादयोऽप्यत्र “निरन्तराला करिणां कदम्बकैः”

निरन्तराभ्यास पु० कर्म० । १ सततावृत्ते ब० व० । २ स्वाध्यायेत्रिका०

निरन्वय त्रि० नास्ति अन्वयः सम्बन्धो यत्र । १ सम्बन्धरहिते

“का त्वमेकाकिनी भीरु! निरन्वयजने वने” भट्टिः ।
२ स्वामिसमक्षतारूपसम्बन्धशून्ये स्तेयभेदे “स्यात् साहसं
त्वन्वयवत् प्रसभं कर्म यत् कृतम् । निरन्वयं भवेत् स्तेय
हृत्वाऽपह्नूयते च यत्” मनुः (निरन्वयं) “स्वामिपरो-
क्षापहृतं स्तेयम्” कुल्लू० । ३ स्वामिसम्बन्धशून्ये स्तेये च
“परिपूतेषु धान्येषु शाकमूलफलेषु च । निरन्वये शतं
दण्डः सान्वयेऽर्द्धशतं दमः” मनुः “निष्पुलाकीकृतेषु
धान्येषु शाकादिषु चापहृतेषु अन्वयो द्रव्यस्वामिनां सम्बन्धः
येन सह कश्चिदपि सम्बन्धो नास्ति” कल्लू० । ४ निर्वंशे च ।

निरपत्रप त्रि० निष्क्रान्तः अपत्रपायाः प्रा० त० । निर्लज्जे

धृष्टे जटा० । “अप्सरो मेनका ब्रह्मन् निर्दया
निरपत्रपा” भा० आ० ८ अ० ।

निरपेक्ष त्रि० निर्गता अपेक्षा यस्य प्रा० ब० । १ अपेक्षाशून्ये

स्वार्थवोधनाय अन्यापेक्षाशून्ये “निरपेक्षो रवः श्रुतिः”
भट्टवार्त्तिकम् । “तंत्तत्कर्मसु विनियोगसाधकानां श्रुति
लिङ्गादीनां मध्ये श्रुतेः (श्रूयमाणविभक्तेः) इतरानपेक्ष-
णेन विनियोगसाधकत्वात् तथात्वं लिङ्गादीनां तु द्विती-
पृष्ठ ४०८४
यादिश्रुतिं कल्पयित्वा तद्द्वारैव तथात्वमिति सापेक्षत्व-
मिति भेदः । २ आशाशून्ये “अध्यात्मरतिरासीनो
निरपेक्षो निरामिषः” मनुः । ३ अशक्तविषयके “उक्तानि
प्रतिषिद्धानि पुनः सम्भावितानि च । सापेक्षनिरपे-
क्षाणि श्रुतिवाक्यानि कोविदैः” । “सापेक्षनिरपेक्षाणि
शक्ताशक्तविषयाणि” ज्योति० त० रघु० ।

निरमण न० नियतं रमणम् । नियतरतौ अत्यन्तानुरागे

“निरृतिर्निरमणात्” निरु० २ । ७ नियतं रमत्यस्मिन्
नि + रम + आधारे ल्युट् । २ नियतरागाधारे “अश्वशतं
निरष्टं निरमणम्” शत० ब्रा० १३ । ४ । २ । ५

निरमित्र पु० पाण्डवनकुलस्य पुत्रमेदे “नकुलस्तु चैड्यां

करेणुमतीं नाम भार्य्यामुदवहत् यस्यां पुत्रं निरमित्रं
नामाजनयत्” भा० आ० ४५ अ० । निर्गतोऽमित्रो यस्य ।
२ शत्रुरहिते त्रि० । ३ त्रिगर्त्तराजपुत्रभेदे पु० “हाहाकारो
महानासीत् त्रिगर्त्तानां जनेश्वर! । राजपुत्रं हतं
दृष्ट्वा निरमित्रं महारथम्” भा० द्रो० १५७ अ० । ४ बार्ह-
द्रथवंश्ये भाविनि नृपभेदे पु० “ततो युतायुस्तस्यापि
निरमित्रोऽथ तत्सुतः” भाग० ९ । २२ । ३० भाविवार्ह-
द्रथवंशोक्तौ ।

निरय पु० निर्गतोऽयोत्र प्रा० ब० नीचैरेत्यत्र निर् + इ

आघारे अच् वा । नरके अमरः “निरये चैव पतनं
यातनाश्च यमक्षये” मनुः ।

निरयण न० निर् + अय--भावे ल्युट् । निर्गमने । करणे ल्युट् ।

निर्गमनोपाये “पश्चात् निरयणं कृतम्” ऋ० १० । १२३ । ६
“निरयणं निर्गमनोपायः” भा० ।

निरर्गल त्रि० निर्गतमर्गलमिव प्रतिबन्धो यस्य प्रा० ब० । प्रतिबन्धशून्ये अमरः ।

निरर्थ पु० निर्गतोऽर्थो यस्य प्रा० ब० । अर्थशून्ये १ निष्फले

२ अभिधेयशून्ये च “निरर्था साप्यमूर्त्तत्वात् पुरुषस्य
महीपते” मार्कण्डेयपु० ।

निरर्थक त्रि० निर्गतोऽर्थो यस्य प्रा० ब० वा कप् । १ निष्फले

“प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः” भा० उ०
३५ अ० । “इत्थं जग्म निरर्थकं क्षितितलेऽरुण्ये यथा
मालती” सा० द० । २ अभिधेयशून्ये ३ काव्यदोषभेदे च
“निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम्” चन्द्रा०
गौतमोक्ते ४ निग्रहस्थानभेदे “वर्णक्रमनिर्देशवन्निरर्थकम्”
सू० “यथा नित्यः शब्दः कचटतपय्जवगडदश्त्वात्
झभञ्घढधषबदिति एवम्प्रकारं निरर्थकम् अभिधाना-
भिधेयभावानुपपत्तौ अर्थगतेरभावाद् वर्णा एव क्रमेण
निर्दिश्यन्त इति” भा० । “वर्णानां क्रमेण निर्देशो
जवगडेत्यादिप्रयोगस्तत्तुल्यो निर्देशोर्निरर्थकं निग्रह-
स्थानम् अवाचकपदप्रयोग इति फलितार्थः । अवाचकत्वं
च शक्त्या निरूढलक्षणया शास्त्रपरिभाषया वा बोध्यं
समयबन्धव्यतिरेकेणेति बिशेषणीयं तेन यत्रापभ्रंशेन
विचारः कर्तव्य इति समयबन्धस्तत्रापभ्रंशे न दोषः ।
झटिति संवरेण तु न दोष इत्युक्तप्रायम् । अस्य सम्भवः
प्रमादादित्यवधेयम्” वृत्तिः । क्रमश्चेहाक्षरसमाम्नाये
माहेश्वरे सूत्रे यथा पठितास्तथेत्यर्थः ।

निरवकाश त्रि० निर्गतोऽवकाशो यस्य प्रा० ब० । १ असम्भवत्-

कालान्तरकर्त्तव्यताके कार्य्ये २ अवकाशशून्ये च ।

निरवग्रह त्रि० निर्गतीऽवग्रहः प्रतिबन्धो वृष्टिप्रतिबन्धो

नियमनं वा यस्य प्रा० व० । १ स्वच्छन्दे स्वतन्त्रे अन्येच्छान-
धीनप्रवृत्तियुक्ते अमरः । “केचित् क्रोधसमाविष्टा मदान्धा
निरवग्रहाः” भा० भी० ९४ अ० । २ वृष्टिप्रतिबन्धशून्ये च ।

निरवद्य त्रि० निर्गतभवद्यं दोषः अज्ञानं रागद्वेषादि वा

यस्य । १ निर्दोषे उत्कृष्टे “तस्य निरवद्यविद्योद्द्योतेन
द्योतितस्तत्त्वतोऽयमर्थः” दायभा० । २ अज्ञानश्न्ये
३ रागादिशून्ये परमात्मनि च “निष्कलं निष्क्रियं
शान्तं निरवद्यं निरञ्जनम्” श्वेता० उ० ।

निरवयव त्रि० निर्गतोऽवयवो यस्य । न्यायमत १ अवयवशून्ये

परमाण्वाकाशादौ सर्वथावयवशून्ये २ ब्रह्मणि च
“नाशकारणाभावेन निरवयवद्रव्याणां नाशाभावः” सा० प्र० भा०

निरवशेष त्रि० निर्गतोऽवशेषो यस्य । अवशेषशून्ये समग्रे

“यावत् निरवशेषं भवति तावत् दाहयित्वा” आश्व० श्रौ०
३ । ११ । ५ ।

निरवसित त्रि० निर् + अव + सो--क्त । येन भुक्ते पात्रं

संस्कारेणापि न शुध्यति तस्मिन् पात्रबहिष्कृते चण्डालादौ ।

निरवहानिका स्त्री निर + अव + हन--ण्वुल् । प्राचीरे शब्दमाला ।

निरविन्द पु० पर्वतरूपे तीर्थभेदे “अश्मपृष्ठे गयायाञ्च

निरविन्दे च पर्वते” भा० आनु० २५ अ० ।

निरशन अव्य० अशनस्याभावः अव्ययो० । १ भोजनाभावे ।

निर्गतमशनं यस्य प्रा० ब० । २ भोजनरहिते त्रि० “अश्म-
कुट्टा निरशना दशपञ्चतपाश्च ये” हरिवं० ४६ अ० ।

निरष्ट पु० निर्गतानि अष्टौ वयोव्यञ्जनानि यस्मात् डद्समा० ।

चतुर्विंशतिवर्षीये २ अश्वे “अश्वशतं निरष्टं निरमणम्”
शत० ब्रा० १२ । ४ । २ । ५ “अश्वस्य दन्तगतानि वयोव्यञ्जनानि
पृष्ठ ४०८५
भवन्ति तेषामेमैकं त्रीणि त्रीणि बर्षाणि अनुवर्त्तते
तान्यष्टौ व्यञ्जनानि निर्गतान्यस्मादिति निरष्टं चतुविंशति-
वषीयम्” भा० । निर + अक्ष--क्त । २ निराकृते त्रि०
“वृषायुधो न वध्रयो निरष्टाः” ऋ० १ । ३३ । ६ “निरष्टा
निराकृताः” भा० ।

निरस त्रि० निवृत्तो रसो यस्मात् प्रा० ब० । १ निवृत्तरसे

रसहीने २ निःश्रेणिकातृणे स्त्री राजनि० ।

निरसन न० निर् + असु--क्षेपे भावे ल्युट् । प्रत्याख्याने अमरः

“स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा” मा० आश्व०
४ अ० । आधारे ल्युट् । २ बधे निष्कृष्य असनम् क्षेप-
णम् । ३ निष्ठीवने च मेदि० । ष्टिवु निरसने इत्युक्तेः
ष्ठीवनस्य निष्कृष्यश्लेष्मादेः क्षेपणरूपत्वात्तथात्वम् ।

निरस्त त्रि० निर--अस--क्षेपे कर्मणि क्त । १ प्रत्याख्याते

निवारिते अमरः “निरस्तगाम्भीर्य्यमपास्तपुष्पकम्” माघः
“निरस्तः परावसुः” क्रव्यादाग्निभानत्यागे मन्त्रः । २
त्वरितोदिते न० । ३ त्यक्तशरे पु० अमरः । ४ निष्ठ्यूते ५
प्रतिहते ६ प्रेषिते त्रि० मेदि० । भावे क्त । ७ निष्ठीवने
८ निवारणे ९ क्षेपणे च न० ।

निरस्थि न० निर्गतमस्थि यस्मात् प्रा० ब० । दूरीकृतास्थिके

मांसे “मांसं निरस्थि सुस्विन्नं पुनर्दृ दि चूर्णितम्”
सुश्रुतः ।

निरहङ्कार त्रि० निर्गतोऽहङ्कारो यस्य प्रा० व० । १ अभिमान-

शून्ये देहेन्द्रियादावहममित्यभिमानशून्ये २ धनविद्याव-
त्त्वादिनिमित्तात्मोत्कर्षसम्भावनाहीने च “निर्वैरा
निरहङ्कारा विगतक्रोधमत्सराः” भा० आश्र० ३२ अ० ।

निरहम् त्रि० निर्गतमहमिति बुद्धिर्यस्य प्रा० ब० ।

अहङ्कारशून्ये “प्रत्यक् प्रशान्तं सुधियोपलम्भं ह्यनामरूपं
निरहं प्रपद्ये” भाग० ५ । १९ । ४ श्लो० ।

निरह्न पु० निर्गतमह्नः प्रा० स० टच्समा० “अह्नोह्न एतेभ्यः”

पा० अह्नादेशः अह्नोऽदन्तात्” पा० नियमात् न णत्वम्
“अह्नाहान्ताः पुंसि” पा० पुंस्त्वम् । १ निर्गते दिने
निष्क्रान्तोऽह्नः निरा० त० साधनं प्राग्वत् । २ दिनात्
निर्नते त्रि० ।

निराक पु० निर + अक--वक्रगतौ भावे घञ् । १ पाके २ स्वेदे

च कर्मणि घञ् । असत्कर्मफले हेमच० ।

निराकरिष्णु त्रि० निर् + आ + कृ--शीलार्थे इष्णुच् ।

निराकरणशीले निवारणशीले “निराकरिष्णू वर्त्तिष्णू
वर्द्धिष्णू परितो रणम्” भट्टिः “निराकरिष्णोर्वृजिना-
दृतेऽपि” रघुः “निराकरिष्णुता चैव विज्ञेयाः पाशवा-
गुणाः” सुश्रुतः ।

निराकाङ्क्ष त्रि० निर्गता आकाङ्क्षा अपेक्षा इच्छा वा यस्य

प्रा० व० । १ शाब्दबोधोपयोग्यपेक्षाशून्ये २ इच्छाशून्ये च
“तेषां वाक्यं निराकाङ्क्षम्” कात्या० श्रौ० १ । ३ । २
“यावत् पदवृन्दं निराकाङ्क्षं पूर्वापरपठितपदान्तराका-
ङ्क्षारहितम्” संग्रहव्याख्या । आकाङ्क्षास्वरूपञ्च
आकाङ्क्षाशब्दे दृश्यम् ।

निराकार त्रि० निर्गतः आकारोऽवयवोऽस्य प्रा० ब० । १

अवयवहीने २ देहाद्याकारवर्जिते ब्रह्मणि च “तेजःस्वरूपो
भगवान् निराकारो निराश्रयः” ब्रह्मवै० जन्मस्य० ७ अ० ।
“निराकरज्ञानवादेऽपि योग्यतावशेन प्रतिकर्मव्यव-
स्थायाः स्थितत्वात्” सर्वद० । आकार आह्वानम् ।
३ निर्गताह्वाने च “निराकारा निरानन्दा दीना प्रति-
हतस्वना” (अयोध्या) रामा० अयो० ११३ स० ।

निराकुल नितरामाकुलः प्रा० ब० । अत्यन्ताकुले “अलि-

कुलसङ्कुल कुसुमसमूहनिराकुलवकुलकलापे” गीतगो० ।
“सुपात्रनिक्षेपनिराकुलात्मना” माघः ।

निराकृति स्त्री निर् + आ + कृ--क्तिन् । १ प्रत्यादेशे निराकरणे

निवारणे अमरः । “प्रलयः सुखदुःखाभ्यां चेष्टाज्ञान-
निराकृतिः” सा० द० । निर्गता आकृतिराकारोऽस्य प्रा० ब० ।
२ निराकारे “योऽसौ विष्णुरगाधात्मा परमात्मा निरा-
कृतिः” हरिवं० २१८ अ० । निर् + आ + कृ--कर्त्तरि
क्तिच् । ३ पञ्चयज्ञत्यागिनि पु० “यक्ष्मी च पशुशालश्च
परिवेत्ता निराकृतिः” मनुः “यस्तु पञ्च महायज्ञविहीनः
स निराकृतिः” कुल्लू० धृतवचनम् । “निराकर्त्तासुरादीनां
स विज्ञेयो निराकृतिः” शब्दार्थचि० धृतवाक्यम् । तस्य
देवयज्ञनिराकर्त्तृत्वात् तथात्वम् । ४ रोहितमनुपुत्रभेदे पु०
“दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । मनोः पुत्रो
धृष्टकेतुः पञ्चहोत्रो निराकृतिः” हरिवं० ७ अ० ।

निराकृतिन् त्रि० निराकृतमनेन इष्टा० इनि । निराकरण

कर्त्तरि “अलोलुपोऽव्यथोदान्तो न कृती न निराकृती”
भा० शा० २३६ अ० ।

निरातङ्क त्रि० निर्गता आतङ्का यस्य यस्माद्वा प्रा० ब० ।

१ भयशून्ये २ रोगरहिते राजनि० “पुरुषायुषजोविन्यो
निरातङ्का निरीतयः” रघुः । ३ शिवे पु० ।

निरातप त्रि० निर्गत आतपो यस्मात् प्रा० ब० । १ आतपशून्ये

२ रात्रौ स्त्री शब्दच० ।
पृष्ठ ४०८६

निराबाध त्रि० निर्गता आबाधा यस्य । १ आबाधाशून्ये

२ व्यथाशून्ये ३ प्रतिवन्धशून्ये च “दवीयान् महीधरो
नेदीयान् दीर्घो बहुरिति व्यवहारश्च निराबाधं
जागरूकत्वत्वात्” सर्वदर्शनसं० । ४ पक्षाभासभेदे पु० “अप्र-
सिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा
विरुद्धं वा पक्षाभासं विवर्जयेत्” मिता० धृतवचनम् ।
“निराबाधम् अस्मद्गृहप्रदीपप्रकाशेनायं स्वगृहे व्यव-
ह रतीति” मिताक्षरा ।

निरामय त्रि० निर्गत आमयात् प्रा० त० । १ आमयरहिते

रोगशून्ये अमरः । २ वनच्छगले पुंस्त्री० मेदि० ३ शूकरे
शब्दमाला उभयत्र स्त्रियां जातित्वात् ङीष् ।

निरामालु पु० नितरां रमतेऽत्र रम--आलु । कपित्यवृक्षे शब्दच० ।

निरामिष त्रि० निर्गतमामिमभिलाषो मांसाद्यामिषं वा

यस्मात् प्रा० ब० । १ लोभशून्ये “अध्यात्मरतिरासनो
निरप्रेक्षो निरामिषः” मनुः २ र्मासाद्यामिषहीने च
“सामिषं कुररं दृष्ट्वा बध्यमानं निरामिषैः । आमिषस्य
परित्यागात् कुररः सुखमेधते” भा० शा० ११९ अ० । ३ आमिष-
रहिते अन्नादौ । “नैवेद्यैश्च निरामिषैः” ति० त० ।

निरालक पु० स्त्री निर् + अल--ण्वुल् । सामुद्रे मत्स्यभेदे

“तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरालकनन्दिवारल-
कमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः”
सुश्रु० ।

निरालम्ब त्रि० निर्गत आलम्बः अवलम्बनं यस्य प्रा० ब० ।

१ अवलम्बनशून्ये “एवं मयि निरालम्बे शापात् शिथि
लतां गते” हरिव० १७ अ० “निरालम्बो लम्बोदरजननि!
कं यामि शरणम्” जगन्नाथः । २ आकाशमांस्यां स्त्री
राजनि० । तस्या मूलरूपालम्बनशून्यत्वात्तथात्वम् ३ ब्रह्मणि
न० तदधिकारेण प्रवृत्ते ४ उपनिषद्भेदे न उपनिषच्छब्दे
१२२२ पृ० दृश्यम् ।

निरालोक त्रि० निर्गत आलोक उद्द्योतो दृष्ठिर्वा यस्मात्

प्रा० व० । आलोकशून्ये १ अन्धकारे २ आलोकनरहिते
च “कृत्वा लोकान् निरालोकात्” भा० आ० ३२ अ० ।

निराश त्रि० निर्गता आशा यस्य प्रा० ब० । आशारहिते

“निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्” ति० त०
“सनो बभूवेन्दुमतीनिराशम्” रघुः । तस्य भावः
प्यञ् । नैराश्य आशाशून्यत्वे “आशा बलवती राजन्!
नैराश्यं परमं सुखम् । आशां निराशां कृत्वा तु सुखं
स्वपिति पिङ्गला” भा० शा० १७८ अ० ।

निराशिष् त्रि० निर्गता आशी राशंसनं यस्य प्रा० ब० । १

आशंसनशून्ये “जगच्छरण्यस्य निराशिषः सतः” कुमा०
“निराशीर्निममो भूत्वा युध्यस्व विगतज्वर” गीता ।
वैराग्यदार्ढ्येन २ विगततृष्णे च ।

निराश्रय त्रि० निर्गत आश्रय आधारोऽवलम्बनं वा यस्य ।

१ आश्रयरहिते २ आलम्बनरहिते च “चित्रं यथाश्रय-
मृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद्विना विशे
षैर्न तिष्ठति निराश्रयं लिङ्गम्” सां० का० “निराश्रयं
मां जगदीश! रक्ष” उद्भटः “त्यक्त्वा कर्मफलासङ्गं
नित्यवृप्तो निराश्रयः” गीता “निराश्रयः योगक्षेमार्थ-
माश्रयणीयरहितः” श्रीधरः । ३ अद्वैतदर्शनेन देहेन्द्रि-
याद्यभिमानशून्ये शब्दार्थचि० ।

निरास पु० निर + अस--भावे घञ् । १ प्रत्याख्याने निराकरणे

“तथा विज्ञानपक्षनिरासहेतुर्बाह्यप्रतीत्यादि” सां० प्रभा० ।
निर + आ + अस--अच् । २ निरासके त्रि० “निरासैरलसैः
श्रान्तैस्तप्यमानैः स्वकर्मभिः” भा० शा० २७० अ० ।

निराहार त्रि० निर्गत आहारो यस्य प्रा० ब० । १ आहारशून्ये

“निराहाराश्च ये जीवाः” तर्पणमन्त्रः । निवृत्त
आहारः प्रा० स० । २ निवृत्ते आहारे “पश्चात्तापो निराद्वारः
सर्वेऽमी शुद्धिहेतवः” याज्ञ० अव्ययी० । ३ आहाराभावे न०

निरङ्गिणी स्त्री निभृतमङ्गं निरङ्गं तदस्त्यस्या आच्छा-

द्यत्वेन इनि ङीप् । तिरस्करिण्यां प्रच्छदपटे त्रिका०

निरिन्द्रिय त्रि० निर्गतं निवृत्तमिन्द्रियं यस्य प्रा० ब० । इन्द्रि-

यशून्ये “ये च केचिन्निरिन्द्रयाः” मनुः ।

निरीति त्रि० निर्गता ईतिर्यत्र । अतिवृष्ठ्यादीतिशून्ये

“निरीतिभावं गमितेऽतिवृष्टयाः” नैष० “निरातङ्का निरी-
तयः” रघुः ।

निरीष न० निर्गतमीषायाः निरा० त० । फाले अमरः ।

निरीश्वर त्रि० निस्त्यक्त ईश्वरो यत्र प्रा० व० । १ ईश्वररहिते

वादे “निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम्” सां० प्र०
भा० पद्मपु० । २ तद्वादयुने नास्तिके । निरीशादयोऽप्यत्र ।

निरीह त्रि० निर्गता ईहा यस्य प्रा० ब० । चेष्टाशून्ये

“निरीहस्य हतद्विषः” रघुः निवृत्ता ईहा प्रा० त० । चेष्टा-
विरोधिव्यापारे स्त्री “शमो निरीहावस्थायामात्मवि-
श्रावजं सुखम्” सा० द० ।

निरुक्त न० निर्--वच--भावे क्त । १ निर्वचने पदानामव-

वयवार्थाः सम्भाविता निःशेषेण निश्चयेन उच्यन्वे यत्र
आधारे बा० क्त । पदानामवयवार्थनिर्वएनरतिपादके
पृष्ठ ४०८७
यास्कादिप्रणीते २ ग्रन्थभेदे तदेतत् ऋग्वेदभाष्योपक्रमे
उक्तं यथा
“पञ्चध्यायरूपकाण्डत्रयात्मके एतस्मिन् ग्रन्थे परनि-
रपेक्षितया पदार्थस्योक्तत्वात्तस्य ग्रन्थस्य निरुक्तत्वम् ।
तद्व्याख्यानं च “समाम्नायः समाम्नातः” इत्यारभ्य “तस्या-
स्तस्यास्ताद्भाव्यमनुभवत्यनुभवति” इत्यन्तैर्द्वादशभिरध्यायै-
र्यास्को निर्ममे । तदपि निरुक्तमित्युच्यते एकैकस्य पदस्य
सम्भाविता अवयवार्थास्तत्र निःशेषेणोच्यन्त इति व्यु-
त्पत्तेः । तथा हि “चत्वारि पदजातानि नामाख्याते
चोपस्वर्गनिपाताश्चेति” प्रतिज्ञाय “उच्चावचेष्वर्थेषु निपत-
न्तीति” निपातस्वरूपं निरुच्यैवमुदाहृतम् “नेति प्रति-
षेघार्थीयो भाषायामुभयमन्वव्यायम् “नेन्द्रं देवममंसतेति”
प्रतिषेधार्थीय इति । “दुर्मदासो न सुरायाम्” इत्युप-
मार्थीयः इति च । तच्च लोके केवलप्रतिषेधार्थकस्यापि
नकारस्य वेदे प्रतिषेधोपमालेक्षेणार्थोदाहरणमस्मिन्
ग्रन्थेऽवगम्यते । एवं ग्रन्थकारेणोक्तास्तत्तत्पदनिर्वचन-
विशेषास्तत्तन्मन्त्रव्याख्यानावसरे एवास्माभिरुदाहरिष्यन्ते ।
म च निर्वचनानां निर्मूलत्वं शङ्कनीयम् एतद्व्युत्पत्त्यर्थ-
मेव ब्राह्मणेषु पदनिर्वचनानां केषाञ्चिदुक्तत्वात् । “तदा-
हुतीवामाहुतित्वमिति” “तमिदन्द्रं सन्तमिन्द्रम् इत्याच-
अते” इति “यदप्रथयत्तत् पृथिव्याः पृथिवीत्वमिति च” ।
ग्रन्थकारोऽपि तत्र तत्र स्वीक्तनिर्बचनमूलभूतब्राह्मणा-
न्युदाहरिष्यति केषाञ्चिन्निर्ववचानागां व्याकरण-
वलेन सिद्धावपि न सर्वेषां सिद्धिरस्ति । अतएव अन्थ-
कार आह “तदिदं विद्यास्थानं व्याकरणस्य कात्र्स्न्यं
स्वार्थसाधकं चेति” । तस्माद्वेदार्थावबोधायोपयुक्तं
निरुक्तम्” । तत्र निर्वचने पदसाधनप्रकारश्च “वर्णागमो
वर्णविपर्यवश्चेत्यादिनोक्तो निपातशब्दे दृश्यः । “शिक्षा-
मल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति” मुण्ड-
कोप० “छन्दः पादौ तु नेदस्य हस्तौ कल्पोऽध पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं
तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्ग-
मधीत्यैव ब्रह्मलोके महीयते” तस्यैतत् निरुक्तं
हृद्ययमिति हृदयम्” छा० उप० । हेमचन्द्रे तु पदभञ्जनं
निरुक्तमित्युक्तं तेनावयवार्थज्ञापनार्थं तत्तद्घटकपदस्य
विभागकरणमेव निरुक्तमिति तदर्थः । ३ नियोगेन
उक्ते ४ नियुक्ते च निरुक्तजशब्दे दृश्यम् ।

निरुक्तकार पु० निरुक्तं ग्रन्थं करोति कृ--अण् उपस० ।

१ यास्के मुनौ २ शाकपूणिनामकमुनौ च । कृ--क्विप्
निरुक्तकृदपि तयोरर्थयोः ।

निरुक्तज पु० निरुक्तः नियुक्तः अस्यां पुत्रमुत्पादयेत्युक्तः

अन्यस्तस्मात् जायते जन--ड । क्षेत्रजपुत्रे “आत्मा
पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः । निरुक्तजश्च विज्ञेयः
सुतः प्रसृतजस्तथा” भा० अनु० ४९ अ० । “निरुक्तजः
स्वक्षेत्रेऽन्योरेतःसेकार्थमुक्तस्तज्जः” नीलक० ।

निरुक्ति स्त्री निर् + वच--क्तिन् । १ निर्वचने प्रकृतिप्रत्ययाद्य-

वयवार्थकथनद्वारा समुदितार्थबोधने “किं कारणं जरत्-
कारोर्नामैतत् प्रथितं भुवि । जरत्कारुनिरुक्तिं त्वं
यथावत् वक्तुमर्हसि” सौतिरुषाच “जरेति क्षयमाहुर्वै
दारणं कारुसंज्ञितम् । शरीरं कारु तस्यासीत्तत्स
धीमाञ्छनैः शनैः । क्षपयामास तीव्रेण तपसेत्यत
उच्यते । जरत्कारुरिति ब्रह्मन्! वासुकेर्भगिनी तथा”
भा० आ० ४० अ० । ३९९ पृ० अलङ्कारशब्दोक्ते २ अलङ्कारभेदे

निरुत्सुक त्रि० नितरामुत्सुकः प्रा० स० । १ अत्यन्तोत्सुके

निर्गतमुत्सुकम् उत्सुकता यस्य प्रा० ब० । २ औत्सुक्यहीमे
च “ममापि कण्वशुतामनुस्मृत्य मृगयां प्रति निरुत्सुकं
चेतः” रैवतकमनोः ३ पुत्रभेदे पु० “धृतिमानव्यथोवक्र-
स्तत्त्वदर्शी निरुत्सुकः” हरिवं० ७ अ० रैवतपुत्रोक्तौ ।
त्रयोदशमन्वन्तरे सप्तर्षिमध्ये मार्गवे ऋषिभेदे “पौल-
हस्तत्त्वदर्शी तु मार्गवश्च निरुत्सुकः” तत्रैव त्रयोदश-
मन्वन्तरे सप्तर्षिकथने ।

निरुदकादि पु० पा० न० सू० उक्ते अन्तोदात्ततानिमित्ते

शब्दगणभेदे स च “निरुदक निरुपल निर्मक्षिक निर्मशक
निष्कालक निष्कालिक निर्वुषदुस्तरीप निस्तरीप निस्तरी
निरजिन उदजिन उपाजिन (परेर्हस्तपादकेशकर्षाः)”
“निरुदकादिराकृतिगणः” सि० कौ० ।

निरुद्ध त्रि० नि + रुध--कर्मणि क्त । १ संरुद्धं कृतगमनादिप्रति-

रोधे “यत्ननिरुद्धवाहैः” माघः । पात० भा० उक्ते ३ चित्त-
स्यावस्थारूपभूमिभेदे तच्च तत्रोक्तं यथा
“क्षिप्तं मूदं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तममयः ।
तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न
योगपक्षे वर्त्तते यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्यो-
तयति क्षिणोति च क्लेशान् कर्मबन्धनानि श्लथयति
निरोधमभिमुखं करोति स सम्प्रज्ञातो योग इत्याख्यायते” वा०
“क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्त-
मस्थिरम् । मूढ़न्तु तमःसमुद्रेकान्निद्रावृत्तिमत् । विक्षिप्तं
पृष्ठ ४०८८
क्षिप्ताद्विशिष्टं विशेषो हि स्थेमवहुलस्य कादादित्कः
स्थे मा सा चास्या स्थेमबहुलता सांसिद्धिकी वा वक्ष्य-
माणव्याधिस्त्यानाद्यन्तरायजनिता वा । एकाग्रमेकता-
नम् । निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरु-
द्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्ति-
निरोधे पारम्प्रर्येणापि निश्चेयहेतुभावाऽभावात्
तदुपघातकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति
नतथोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्क
सद्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वामिति
निषेधति तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः
सद्भूतविषयस्य चित्तस्य स्थेमा न योगपक्षे वर्त्तके ।
कस्माद्यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः विपक्षवर्गा-
न्तर्गतस्य हि स्वरूपमेव दुर्लभं प्रागेव कायकरणात् ।
न खलु दहनान्तर्गतं वीजं त्रिचतुरक्षणावस्थितमुप्तम-
प्यङ्कुराय कल्पते इति भावः । यदि विक्षेपोपसर्जनीभूतः
समाधिर्न योगः कस्तर्हि इत्यत आह यस्त्वेकाग्रे
चेतसि इति । भूतमिति समारोपितमर्थं निवर्त्तयति ।
निद्रावृत्तिरपि स्वालम्बने तससि भूते भवत्येकाग्रेत्यत
उक्तम् सदिति । शोभनं नितान्तमाविर्भूततत्त्वं,
तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि
तत्त्वज्ञानमागमाद्वाऽनुमानाद्वा भवदपि परोक्षरूपतया
न साक्षात्कारवतीमविद्यामुच्छिनत्ति द्विचन्द्रदिङ्मो-
हादिष्वनुच्छेदकत्वादत आह प्रेति प्रशब्दो हि प्रकर्षं
द्योतयन् साक्षात्कारं सूचयति । अविद्यामूलत्वादस्मि-
तादीनां क्लेशानां विद्यायाश्च अविद्याच्छेदरूपत्वात्
विद्योदये चाविद्याक्लेशसमुच्छेदो विरोधित्वात् कारण
विनाशाच्चेत्याह क्षिणोति चेति । अतएव कर्म्म
रूपाणि वन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतं
कार्ये कारणत्वोपचारात् । श्लथयति स्वकार्य्यादवसाद-
यति । वक्ष्यति हि “सति मूले तद्विपाकः” । इति किञ्च
निरोधमभिमुखं करोत्थभिमुखीकरोति” विव०

निरुद्धप्रकष(स) न० सुश्रुतोक्ते क्षुद्ररोगभेदे “वातोपसृष्ट-

मेवन्तु चर्म संश्रयते मणिम् । गणिश्चर्म्मोपनद्धस्तु मूत्र-
स्रोतोरुणद्धि च । निरुद्धषकषे(स) तस्मिन् मन्दधारे
सवदनम् । मूत्रं प्रवर्त्तते जन्तीर्मणिर्न च विदीर्य्यते ।
निरुद्धप्रकषं(सं) विद्याद्दुरूढां चावपाटिकाम्” ।

निरुपाख्य त्रि० निर्गता उपाख्या यस्मात् प्रा० ब० ।

असत्पदार्थे १ बन्ध्यापुत्रादौ २ अभावपदार्थे च वाचोमनसश्च
विषयतयोल्लेखनायोग्ये अस्फुटस्वरूपे ३ ब्रह्मणि च ।
“ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना । केवल्या
या नतिर्देव! परमा सा गतिर्भवान्” भा० अनु० १७ अ० ।
४ निःस्वरूपे “त्रयमपि चैतदवस्तु अमावमात्रं निरुपाख्य-
मिति” शारी० भा० “निरुपाख्यं निःस्वरूपम्” रत्नप्र० ।

निरुपाय त्रि० निर्गत उपायोयस्य प्रा० ब० । १ उपायरहिते

“उच्छिद्यमानोबलिना निरुपायप्रतिक्रियः” कामन्द० ।

निरुप्त त्रि० निर् + वप--कर्मणि क्त । यज्ञादौ भागशः पृथक्-

कृत्य दत्ते “न च मुष्टिमात्रेण निरुप्तेन प्रयोजनम्”
कात्या० श्रौ० १५ । १९ सू० कर्कः ।

निरूढ़ त्रि० निर्--रुह--क्त । १ नितरां रूढे २ शक्तितुल्यतक्ष-

णयाऽर्थबोधके शब्दे “पूर्वस्वामिसम्बन्ध धीनं तत्स्वाम्यु-
परमे यत्र द्रव्ये स्वत्वं तत्र निरूढोदायशब्दः” इति
दायभागः । २ पशुयागभेदे “निर्मित ऐन्द्राग्नः” आश्व०
० ३ । ८ । ४ “ऐन्द्राग्नो निरूढो नाम वशुः कर्त्तव्यः ।
कयमपि पशूनां प्रकृतिः । तेनाङ्गभूतानामग्नीषोमीयः
प्रकृतिः । स्वतन्त्राणां निरूढः प्रकृतिरिति तेष्वेव
पश्विष्टिर्नाङ्गभूतेष्वित्येवमर्थं निरूढप्रकृतित्वाभ्रानम्”
नारा० । “षाण्मास्यः सांत्वत्सरो वा” ५ सू० “सोऽयं
निरूढः पशुः षट्सु षट्सु भासेषु कर्त्तव्यः संवत्सरे
संवत्सरे वा । अतोऽयं वीप्सावचमान् नित्योऽयं
पशुरिति गम्यते” नारा० ।

निरूढलक्षणा स्त्री निरूढ़ा शक्तितुल्या लक्षणा । व्याण-

रणकोपादिहेतुतः प्रसिद्धार्थे शक्तितुल्यायां लक्षणारू-
पायां शब्दस्वार्थबोधनाशक्तौ ।

निरूढि स्त्री नि + रुह--क्तिन् । १ प्रसिद्धौ “नृप! विद्यासु

निरूढिमागता” किरा० । २ निरूढ़लक्षणायाञ्च ।

निरूपक त्रि० निरूपयति नि + रूप--ण्वुल् । निसूपणक-

र्त्तरि तस्य भावः तल् । निरूपकता स्वरूपसम्बन्धभेदे
यथाऽऽधारतानिरूपकताऽऽधेयत्वे इत्यादि ।

निरूपण न० नि + रूप--ल्युट् । तत्त्वज्ञानानुकूलशब्दप्रयोगे

१ विचारे २ निदर्शने ३ आलोके च “निरूपणं लक्षणादि-
प्रकारेण ज्ञानानुकूलवचनम्” दाय० भा० श्रीकृष्णः ।

निरूपित त्रि० नि + रूप--क्त । निरूपणकर्मणि तस्य भायः

त्व । निरूपितत्वं न्यायोक्ते स्वरूपसम्बन्धविशेषे ।

निरूह पु० निर् + ऊह--करणे घञ् । सुश्रुतोक्ते दोषनि-

र्हरणोपावे वस्तिभेदे “तत्र द्विविधो वस्तिः नैरूहिकः
स्वैहिकञ्च । आस्थापयं निरूह इत्यनर्थान्तरम् । तस्य
पृष्ठ ४०८९
विकल्पोमाधुतैलिकः । तस्य पर्य्यायशब्दो यापनोयुक्त-
रयः सिद्धवस्तिरिति । स दोषनिर्हरणाच्छरीररोगहर-
णाद्वा निरूहः वयःस्थापनादायुःस्थापनद्वाऽऽस्थापनम् ।
माधुतैलिकविधानञ्च निरूहक्रमचिकित्सिते वक्ष्यामः” ।
“तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवा-
सनः पादावकृष्टः । अनुवसन्नपि न दुष्यत्यनुदिवसं वा
दीयते इत्यनुवासनः । तस्यापि विकल्पोऽर्द्धार्द्धमात्राव-
कृष्टोऽपरिहार्य्यो मात्रावस्तिरिति” । “निरूहः शोधनो-
ल्लेखी स्नेहनो वृंहणो मतः । निरूहशोधितान्मार्गान्
सम्यक्स्नेहोऽनुगच्छति । अपेतसर्वदोषासु नाडीष्विव
वहज्जलम् । सर्वदोषहरश्चासौ शरीरस्य च जीवनः ।
तस्माद्विशुद्धदेहस्य स्नेहवस्तिर्विधीयते । तत्रोन्मादभ-
यशोकपिपासारोचकाजीर्णार्शःपाण्डु रोगभ्रममदमूर्च्छा-
{??}र्दिकुष्ठमहोदरस्थौल्यश्वासकासकण्टशोषशोफोपसृष्टक्षत
क्षीणचतुस्त्रिमासगर्भिणीदुर्वलाग्न्यसहाबालवृद्धौ च वा०
तरोगादृते क्षीणा नानुवास्या नास्थापयिव्याः” ।
उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः अवश्यं स्था-
पनीयाश्च नानुवास्याः कथञ्चन । असाध्यता विकाराणां
स्यादेषामनुवासनात्” ।
तत्प्रयोगप्रकारश्च तत्रैवीक्तो यथा
“अथातो निरूहोपक्रमचिकित्सितं व्याख्यास्यामः ।
अथानुवासितमास्थापयेत्स्वभ्यक्तस्विन्नशरीरमुत्सृष्टवहि-
र्वेषमप्रवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्याया-
प्रधःसुपरिग्रहायां श्रोणिपदेशव्यूढायामनुपधानायां
वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिं
सुमनसं जीर्णान्नं वाग्यतं सुनिषस्मदेहं विदित्वा
ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां
कर्णिकामुपरि निष्पीड्य सव्यपाणिकनिष्ठिकानामिकाभ्यां
वस्तेर्मुखार्द्धं सङ्कोच्य मध्यमप्रदेशिन्यङ्गुष्ठैरर्द्धन्तु विवृ-
तास्यं कृत्वा वस्तावौषधं प्रक्षिप्य दक्षिणहस्ताङ्गुष्ठप्रदे-
शिनीभ्यां चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौ-
षधासन्नमुपसंगृह्य पुनरितरेण गृहीत्वा दक्षिणेनावसि-
ञ्चेत्ततः सूत्रेणैवषौधान्ते द्विस्त्रिर्वावेष्ट्य बध्नीयात् । अथ
दक्षिणेनोत्तानेन पाणिना वस्तिं गृहीत्वा वामहस्तम-
ध्यमाङ्गलिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्ठेन नेत्रद्वारं
पिधाय धृताभ्यक्ताग्रनेत्रं घृताक्तगुदाय प्रयच्छेदनुपृष्ठ-
यंशं सममुन्धुखमाकर्णिकं मेत्रं प्रणिधत्स्नेति ब्रूयात् ।
वस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत् । एकेनैवा-
पपीडेन न द्रुतं न बिलम्बितम्” ततो नेत्रमपनीय
त्रिशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात् ।
आतुरमुपवेशयेदुत्कटुकं वस्त्यागमनार्थम । निरूहप्रत्याग
मनकालस्तु मुहूर्त्तो भवति । “अनेन विधिना वस्तिं
दद्याद्वस्तिविशारदः । द्वितीयं वा तृतीयं वा चतुर्थं वा
यथार्थतः । सम्यग्निरूढलिङ्गे तु प्राप्ते वस्तिं निवा-
रयेत् । अपि हीनक्रमं कुर्य्यान्न तु कुर्य्यादनिक्रमम् ।
विशेषात्सुकुमाराणां हीनएव क्रमो हितः । यस्य स्या-
द्वस्तिरत्यल्पवेगो हीनमलानिलः । दुर्निरूढः स विज्ञेयो
मूत्रार्त्त्यरुचिजाड्यवान् । यान्येव प्राक्प्रयुक्तानि
लिङ्गान्यतिविरेचिते । तान्येवातिनिरूढेऽपि विज्ञेयानि
विपश्चिता । यस्य क्रमेण गच्छन्वि विट्पित्तकफवायवः ।
लाघवं चोपजायेत सुनिरूढं तमादिशेत् । सुनिरूढं
ततोजन्तुं स्नानवन्त तु भोजयेत् । पित्तक्लेस्मानिलाविष्टं
क्षीरयूषरसैः क्रमात् । सर्वं वा जाङ्गलरसैर्भोजयेदवि-
कारिभिः । त्रिभागहीनमर्द्धं वा हीनमात्रमथापि वा ।
यथाग्निदोषं मात्रेयं भोजनस्य विषीयते । अनन्तरं
ततो युञ्ज्याद्यथास्वं स्नेहवस्तिना । विविक्तता
मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः । आस्थापनस्नेहवस्त्योः
सम्यग्दाने तु लक्षणम् । तदहस्तस्य पवनाद्भयं बलवद-
दिष्यते । रसौदनस्तेन शस्तस्तदहश्चानुवासनम् । पश्चा-
दग्निबलं मत्वा पवनस्य च चेष्टितम् । अन्नोपस्तम्भिते
कोष्ठे स्नेहवस्तिर्विधीयते । अनायान्तं मुहूर्त्तात्तु
निरूहं शोधनैर्हरेत् । तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्रा-
म्लसंयुतैः । विगुखानिलविष्टव्यं चिरं तिष्ठन्निरूह-
चम् । शूलाऽरतिज्वरानाहं मरणं वा प्रवर्त्तयेत् । तत्तु
भुक्तवते देयमास्थापनमिति स्थितिः । विसूचिकां वा
जनयेच्छर्दिं वापि सुदारुणम् । कोपयेत्सर्वदोषान्वा
तस्य हद्यादमोजिने । जीर्णान्नस्याशये दोषाः पुंसः
प्रव्यक्तिमागताः । निःशेषाः सुशृमायान्ति भोजनेनाप्रपी-
डिताः । न वास्थापनविक्षिप्तमक्षमग्निः प्रधावति ।
तस्मादास्थापनं देयं निराहाराय जानता । आवस्थिकं
क्रमञ्चापि मत्वा कायं निरूहणम् । मलेऽपकृष्टेऽदोषाणां
बलवत्त्वं न विद्यते” । वस्तिभेदश्च (पिचकारी) ख्यातः
“वस्तिर्द्विधानुवास्याख्योनिरूहश्चेति संज्ञितः । यः
स्नेहैर्दीयते स स्यादनुवासननामकः । कषायक्षीरतै-
लैश्च निरूहः स निगद्यते” इति वेद्यसारकौ० । ल्युट् ।
निरूहणमप्यत्र न०
पृष्ठ ४०९०

निऋ(रृ)ति पु० नियता ऋतिर्घृणा यत्र प्रा० व० रमध्यो वा ।

१ दक्षिणपश्चिमविदिक्पतौ । “मृगव्याधश्च सर्पश्च निरृतिश्च
महायशाः” भा० आ० ६६ अ० । २ अलक्ष्म्याम् स्त्री ३ निरु-
पद्रवे त्रि० । ४ अधर्मस्य भार्य्यायां स्त्री “अधर्सस्तत्र संजातः
सर्वशुभविनाशकः । तस्यापि निरृतिर्भार्य्या नैरृता येन
राक्षसाः” भा० आ० ६६ अ० । ५ अधर्मस्य कन्यायाञ्च स्त्री
“हिंसा भार्य्या त्वधर्मस्य तस्यां जज्ञे तथाऽनृतम् ।
कम्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम्” मार्क-
ण्डेयपु० ५ अ० । ६ मृत्युभार्य्यायाम् । “निरृतिश्च तथा
चान्या मृत्योर्भार्य्याऽभवनुमुने!” तत्रैवाध्याये ।
अलक्ष्मीश्च लक्ष्म्या ज्येष्ठा भगिनी अश्वत्थशब्दे ५०६ पृ०
दृश्यम् । ७ मूलानक्षत्रे तस्य तद्देवताकत्वात् तथात्वम् ।
निरृतिर्लोकपालश्च पिङ्गाक्षव्याधः कार्पटिकादीनां
रक्षर्थं यतमानस्ताराक्षण तत्पितृव्येन धातितः
मरणकाले तेषामाधिपत्यं लभेयमितीच्छया प्राणविमोच-
नात् तदीशतामाप तत्कथा काशीख० १२ अ० यथा “असू-
दयिष्यमेतांस्तदभविष्यं यदीश्वरः । अभिलव्योन्नतिं
प्राणानत्याक्षीत् स परार्थतः । या मतिस्त्वन्तकाले
स्याद्गतिस्तदनुरूपतः । दिगीशत्वमतः प्राप्तो नैरृत्यां
नैरृतेश्वरः” इति । एतल्लोकप्राप्तिकारणादिकं तत्रैव यथा
“दिक्पतेनैरृतस्यासौ पुण्यापुण्यजनोषिता । राक्षसा
निवसन्त्यस्यामपरद्रोहिणः सदा । जातिमात्रेण रक्षांसि
वृत्तैः पुण्यजना इमे । अत्यक्तश्रुतिवर्त्मानो जाता वर्णा
वरेष्यपि । नाद्रियन्तेऽन्नपानानामस्मृत्युक्तं कदाचन ।
परदारपरद्रव्यपरद्रोहपराङ्मुखाः । जाता जातौ
निकुष्टायामपि पुण्यानुसारिणः । द्विजातिभक्त्युत्पन्ना-
न्नैरात्मानं पोषयन्ति ये । सदा सङ्कुचिताङ्गाश्च द्विजस-
म्भाषणादिशु । आहूता हृष्टवदना वदन्ति द्विजसन्निधौ ।
जय जीव भगोनाथ स्वामिन्निति हि वादिनः । तीर्थ
स्नानपरानित्यं नित्यदेवपरायणाः । द्विजेषु नित्यं
प्रणताः स्वनामाख्यानपूर्वकम् । दमदानदयाक्षान्तिशौ-
चेन्द्रियविनिग्रहाः । अस्तेयसत्याऽहिंसाश्च सर्वेषां
धर्महेतवः । नवस्वेषु सदोद्युक्ता ये जातायत्र कुत्रचित् ।
सर्वभोगसमृद्धास्ते वसन्त्यत्र पुरोत्तमे । म्लेच्छा अपि
मुतीर्थेषु ये मृता नात्मघातकाः । विहाय काशीं निर्वाण
विश्राणान्तेऽत्र भोमिनः । अन्धन्तमो विशेयुस्ते ये चैवा-
त्यहनो जनाः । भुक्त्वा निरयसाहस्रं ते च स्युर्ग्राम-
श्रूकराः । आत्मथातो न कर्त्तव्यस्तस्मात् क्वापि विप-
श्चिता । इहापि च परत्रापि न शुभान्यात्मधातिनाम् ।
यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः । प्रयागे सर्वती-
र्थानां राज्ञि सर्वाभिलाषदे । अन्त्यजा अपि ये केचि-
द्दयाधर्मानुसारिणः । परोपकृतिनिष्ठास्ते वसन्त्यत्र तु
सत्तमाः । अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः
शृणु । मध्येविन्धाटवि पुरा पक्वणस्य जनाग्रणीः ।
पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः । निर्विन्ध्याया-
स्तटे शूरः क्रूरकर्मपराङ्मुखः” ।

निरृथ पु० निर + ऋ--घक् । सामभेदे उज्ज्वलद० ।

निरोद्धव्य त्रि० नि + रुध--कर्मणि तव्य । १ आवरणीये लोकानां

यथेष्टप्रचारवारणाय रक्षणीये “आशयाश्चोदपानाश्च
प्रभूतसलिलाकराः । निरोद्धव्याः सदा राज्ञा क्षीरि-
णश्च महीरुजाः” भा० शा० ८६ अ० । यथेष्टावगाहना-
दिभिर्जलमालिन्यसम्भवात् तन्निवारणार्थं तस्यावरणा-
दिना रक्षणं कार्यम् । २ प्रतिरोधनीये च

निरोध पु० नि + रुध--भावे घञ् । १ नाशे २ गव्यादिप्रतिरोधे

मेदि० ३ निग्रहे च तत्र नाशे (प्रलये) “न निरोधो न
चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा
परमार्थता” सां० प्र० भा० धृता श्रुतिः । ४ निरुद्धाख्यचित्ता-
वस्थाभेदे निरुद्धशब्देऽस्य स्वरूपादिकमुक्तम् । “योगश्चित्त-
वृत्तिनिरोधः” पात० सू० “अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भू-
म्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं
भवति एकाग्रे बहिर्वृत्तिनिरोधः निरुद्धे च सर्वासां
वृत्तीनां संस्कारशेषाणां प्रविलय इत्यनयोरेव भूम्यो-
र्योगस्य सम्भवः” भोजवृत्तिः । तस्य कारणञ्च तत्र दर्शितं
यथा “अभ्यासवैराम्याभ्यां तन्निरोधः” पात० सू० “अथासां
निरोधे क उपायः? इति चित्तनदी नामोभवतोवाहिनी
वहति कल्याण्याय वहति पापाय च । या तु कैवल्य
प्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा । संसार
प्राग्भाराऽविवेकविषयनिम्ना पापवहा । तत्र वैराम्येण
विषयस्वोतः खिलीक्रियते विवेकदर्शनाभ्यासेन विवेकस्तोत
उद्घाट्यते इत्युभयाधीनश्चित्तवृत्तिनिरोधः” ना० ।
“अभ्यासवैराम्ये वक्ष्यमाणलक्षणे ताभ्यां प्रकाशप्रवृत्तिनि-
यमरूपा या वृत्तयस्तासां निरोधो भवतीत्युक्तं भवति
तासां विनिवृत्तगाह्याभिनिवेशानाम् अन्तर्मुखतया
खकारण एव चित्ते शक्तिरूपतयाऽवस्थानम् । तत्र
विषयदोषदर्शनजेन वैराम्येण तद्वैमुख्यमुत्पाद्यते । अभ्या-
सेन च मुखजनकं शान्तप्रवाहप्रदर्शनद्वारेण दृढ़स्थैर्यमुत्प-
पृष्ठ ४०९१
द्यते । इत्यं ताम्यां भवति चित्तवृत्तिनिरोधः” भोजवृचिः ।
“अवातो विपरीता । विवेकख्यातिरित्यतस्तस्यां विरक्तं
चित्तं तामपि निरुणद्धि । तदवस्थं चित्तं संस्कारोपगं
भवति । स निर्वीजः समाधिः, न तत्र किञ्चित् सम्प-
ज्ञायत इत्यसम्प्रज्ञातः द्विविधः स योगश्चित्तवृत्तिनिरोध
इति । तदवस्थे चेतसि विषयाभावात् बुद्धिबोधात्मा
पुरुषः किं स्वभावः इति” पात० भा० “अतश्चितिशक्तेर्विप-
रीतेति । यदा च विवेकख्यातिरपि हेया तदा कैव
कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः । ततस्य-
द्वेतोर्निरोधसमाधेरवतारो युज्यते इत्याह अतस्तस्या-
मिति । ज्ञानप्रसादमात्रेण हि परेण वैराग्येण वियेक-
ख्यातिमपि निरुणद्धीत्यर्थः । अथ अनिरुद्धाऽशेषवृत्ति-
चित्तं कीदृशमित्यत आह तदवस्थमित्यादि । स
निरोधः व्यवस्था यस्य तत्तथोक्तम् । निरोधस्य स्वरूपमाह
स निर्वीज इति । क्लेशसहितः कर्माशयो जात्यायुर्भोन-
वीजम् तस्मान्निर्गत इति निर्धीजः । अस्यैव योगिजन-
प्रसिद्धामन्वर्थसंज्ञामादर्शयति न तत्रेति । उपसंहरति ।
द्विविधः सःयोभश्चित्तवृत्तिनिरोध इति । संप्रत्युत्तरसूत्र-
मवतारयंश्चोदयति । तदवस्थे चेतसीति । किमाक्षेपे
तत्तदाकारपरिणतबुद्धिबोधात्मा त्वयं पुरुषः सदानुमू-
यते नतु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य बुद्धिबोध-
स्वभावः सवितुरिव प्रकाशः न च संस्कारशेषे चेतसि
सोऽस्ति न च स्वभावमपहाय भावो वर्त्तितुमर्हति इति
भावः । स्यादेतत् संस्कारशेषामपि बुद्धिं कस्मात् पुरुषो
न बुध्यते इत्यत आह विषयाभावादिति । न बुद्धि-
मात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः
विवेकख्यातिविषयमोगौ च पुरुषार्थौ तौ च निरुद्धास-
स्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः” विव० ।
“तदा द्रष्टुः स्वरूपेऽवस्थानम्” पात० सू० “स्वरूपप्रतिष्ठा
तदार्नी चितिशक्तिर्यथा कैवल्ये, व्युत्थानचित्ते तु सति
तथापि भवन्ती न तथा” भा० “मूत्रेण परिहरतिं
तदा द्रष्टुः स्तरूपेऽवस्वानम् । स्वरूप इत्यारोपितम्
शान्तधोरमूढस्वरूपं निवर्त्तयति । पुरुषस्य हि चैतन्यं
स्तरूपमनौवाचिकम् । न तु बुद्धिबोधः शान्तादिरूपः ।
चोपाधिकी हि सः, स्फटिकस्येध स्वमावस्वच्छधबलस्य
जपाकुसुमसन्निधानोपाधिररुणिमा, न चोपाजिनिवृ-
त्तावुपहितनिवृत्तिरतिप्रसङ्गादिति भावः । स्वरूपस्य
चाभेदेऽपि भेदं विकल्प्य कधिकरणभाव उक्त इति ।
अयमेवार्थोभाव्यकृता द्योत्यते स्वरूपप्रतिष्ठेति । तदार्नी
निरोधावस्थायां न व्युत्यानावस्थायाभिति भावः ।
स्वादेतत् व्युत्थानावस्थायामप्रतिष्ठिता स्वरूपे, चिति
शक्तिः निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्याद्
व्युत्थाने वा स्वरूपप्रतिष्ठाने सति व्युत्थाननिरोधयोर-
विशेष इत्यत आह व्युत्थानचित्ते त्विति । न जातु
कूटस्थनित्या चितिशक्तिः स्वरूपात् च्यवते । तेन यथा
निरोधे तथैव व्युत्थानेऽपि । न खलु शुक्तिकायाः प्रमाण
विपर्य्ययज्ञाननोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः
प्रतिपत्ता तु तथाभूतमप्यतथात्वेनाभिमन्यते । निरोध-
समाधिमपेक्ष्य सम्प्रप्रज्ञातोऽपि व्युत्थानमेवेति” विवरणम्
२ निरुध्यते यस्मै सम्प्रदाने घञ् । निरोधजनिते वशीक-
रणे च “निरोधश्छर्दिविधारणाभ्याम्” सां० सू० “प्राण-
स्येति प्रसिद्ध्या लभ्यते “प्रच्छर्द्दनविधारणाभ्यां प्राण-
स्येति” योगसूत्रे भाष्यकारेण प्राणायामस्य व्याख्या-
तत्वात् । छर्दिश्च वमनम्, विधारणं त्याग इति यावत् ।
तेन पूरणरेचनयोर्लाभः । विधारणं च कुम्भकम् । तथा
च प्राणस्य पूरकरेचककुम्भकैर्योनिरोधो वशीकरणं सा
धारणेत्यर्थः” सां० प्र० भा० ।

निरोधक त्रि० नितरां रुणद्धि नि + रुध--ण्वुल् । १ निरोध-

कारके स्त्रियां टप् अत इत्त्वम् । सा च सत्वप्रविष्ट
चिच्छक्तेः तमःप्राचुर्य्यात् २ निरोधकारिण्यां स्त्री
राधवमट्टः । ध्वनिशब्दे ३९२३ पृ० दृश्यम् ।

निरोधन न० नि + रुध--ल्युट् । कारागारादौ प्रवेशनेन

१ गतिरोधने २ विषयसंप्रचाररहितकरणे च ।

निर्ग त्रि० नितरां गच्छत्यत्र “सुदुरोरधिकरणे” वार्त्ति०

“अन्यत्रापि दृश्यते इति वक्तव्यम्” निर + गम--अधिक-
रणे ड । देशे हेमच० ।

निर्गत त्रि० निर् + गम--कर्त्तरि क्त । निष्क्रान्ते गहिर्भूते निःसूते ।

निर्गन्ध त्रि० निर्गतो गन्धोऽस्य । गन्धशून्ये “निर्गन्धा इव

किंशुकाः” चाणक्यः ।

निर्गन्धन न० निर् + बन्ध--अर्दने--भावे ल्युट् । नितान्तार्दने मारणे शब्दार्थचि० ।

निर्गन्धपुष्पौ स्त्री निर्गन्धं गन्धशून्यं पुष्पं यस्याः ङीप् ।

शाल्मलिवृक्ष शब्दच० ।

निर्गमन न० निर् + नम--करणे ल्युट् । १ द्वारे २ प्रति-

हारिणि शब्दार्थचि० । भावे ल्युट् । ३ निःसरणे
पृष्ठ ४०९२

निर्गुण पु० निर्गतो गुणेभ्यः । सत्वरजस्तमोरूपगुणत्रयशून्ये

निर्धर्मके १ परमान्धनि । “साकारञ्च निराकारं सगुरूं
निर्गुणं विभुम्” ब्रह्म० वै० पु० । “गुणभृन्निर्गुणो महान्”
विष्णुस० । निर्गताः गुणाः शौर्य्यादयोरूपादयो वा
यस्मात् प्रा० व० । २ गुणहीने त्रि० वैशेषिकमते ३ गुणादौ
“गुणादिर्निर्गुणक्रियः” भाषा० ।

निर्गुण्ठी स्त्री निर्गता गुण्ठात् गुण्डनात् निरा० त० गौरा०

ङीष् । (निसिन्दा) वृक्षे अमरटीकायां मघुसूदनः ।

निर्गुण्डी स्त्री निर्गुडति गुड--रक्षायां क पृषो० । निर्गता

गुडात् वेष्टनाद्वा ङीष् । नीलशेकालिकायां (निसिन्दा)
वृक्षे अमरः । “श्वेतनीलपुष्पभेदात् निर्गुण्डी द्विविधा
मता” २ करहाटे ३ पद्मकन्दे विश्वः । “समूलफलप-
त्रायाः निर्गुण्ड्याः स्वरसैर्धृतम् । सिन्नं पीत्वा क्षय-
क्षीणो निर्व्याधिर्भाति देववत्” चक्रद० ।

निर्गूढ़ त्रि० निर् + गुह--क्त । १ संवृते २ नितान्तगूढे ३ वृक्ष-

कोटरे पु० शब्दरत्रा० ।

निर्ग्रन्थ पु० निर्गतो ग्रन्थेभ्यः निरा० त० । १ क्षपणके दिगम्परे

३ बौद्धभेदे २ द्यूतकरे ३ मुनिभेदे च मेदि० । ४ निर्द्धने
५ भूर्स्ने ६ निःसहाये ७ निर्वेदं गते त्रि० हेमच० । तत्र
क्षपणस्य वस्त्रग्रन्धिशून्यत्वात् मुनेर्हृदयग्रन्थशून्यत्वात् च
तथात्वम् “आत्मरामाश्च मुनयोनिर्ग्रन्था अप्युरुक्रमे”
भाग० १ । ७ । ४ “शाक्योपाध्यायार्हममिर्ग्रन्थनिमित्तनित-
मकैवर्त्तैः” वृ० सं० ५१ अ० । स्वार्थे क । निर्ग्रन्थक क्षपणे
पु० निष्फले वस्त्ररहिते त्रि० जटाधरः ।

निर्ग्रन्थन न० निर् + ग्रधि--कौटिल्ये ल्युट् । मारणे अमरः

निर्ग्रन्थिक पु० निर्गतो ग्रन्धिर्वस्त्रग्रन्धिर्यस्य कप् प्रा० ब० ।

१ अपणके २ निर्गुणे ३ ग्रन्धिहीने च त्रि० शब्दरत्ना०
“सोऽपि कथञ्चित् निर्ग्रन्धिकग्रहमोचितात्मा मदनु-
शिष्टोहृष्टतमः स्वधर्ममेव प्रत्यपद्यत” दशकुमा० ४
जैनसन्न्थसिन्यां स्त्रियां स्त्री “वृक्षवाटिकायां गतो
नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पादे परामृशन्निव”
दशकुमा० ।

निर्ग्राह्य त्रि० निर् + ग्रह--कर्मणि ण्यत् । निश्चयेन ग्रहीतुं-

शक्ये “अस्थूकमनण्वह्रस्वमद्रेश्यमनिर्ग्राह्यम्” वृ० उप० ।

निर्घट त्रि० निर्गतो घटो यस्मात् प्रा० व० । १ घटशून्यदेशे

३ राजकरशून्यहट्टे शब्दच० । ३ बहुजनसंकीर्णहट्टे
हारा० । अभावे अव्ययी० । ४ घटाभावे अव्य० ।

निर्घण्ट निर् + घटि--अच् । १ ग्रन्धानां सूचीपत्रे २ निघण्टौ

च शब्दार्थचि० ।

निर्घात पु० निर् + हम--घञ् । पवनाहतपवनस्य गगनाद्-

मूमौ पतयजन्ये शब्दभेदे तल्लक्षणादिकं वृ० सं० ३९ अ०
उक्तं यथा “पवनः एवनाभिहतो गगनादवनौ यदा
समापतति । भवति तदा निर्घातः स च पापो दीप्त-
विहगरुतः । सर्कोदयेऽधिकरणिकनृपधनियोधाङ्गना-
वणिग्वेश्याः । आ प्रहरात्सोऽजाविकमुपहन्याच्छूद्रपौ-
रांश्च । आ मध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीडयति ।
वैश्यजलदांस्तृतीये चौरान् प्रहरे चतुर्थे च । अस्तं
याते नीचान् प्रथमे यामे निहन्ति सस्यानि । रात्रौ
द्वितीययामे पिशाचसङ्गान्निपीडयति । तुरनकरिण-
स्तृतीये विनिहन्याद्यायिनश्चतुर्थे च । भैरवजर्जरशब्दो
याति यतस्तां दिशं हन्ति” । “निर्घाते भूमिचलने
ज्योतिषाञ्चोपसर्जने । एतानाकालिकान् विद्यादनध्या-
यानृतावपि” मनुः । “निर्घातोग्रैः कुञ्जलीनान्
जिघांसुः” रघुः । “उल्कापाते च निर्घात तथैवाकालव-
र्षणे । छिद्रे सूर्ये विनिर्दिष्टे न कुर्य्यान् मङ्गलक्रियामृ”
ज्योतिषतत्त्वे गर्गः ।

निर्घातन न० निर् + हन--स्वार्ये णिच्--भावे ल्युट् । मुश्रु-

तोक्ते यन्त्रनिष्याद्ये क्रियाभेदे यन्त्रकर्माणि तु निर्घा-
तनपूरणबन्धनेत्यादिना उद्दिश्य निर्घातनञ्च कथं कार्य्यं
तत्राह “उत्तुण्डितं छित्त्वा निर्घातयेत् छेदनीयसुखम् ।
छेदनोयमुक्षान्थपि कुक्षिवक्षःकणावङ्क्षणपर्शुकान्तर
पतितानि च हस्तशक्यं यथामार्गं हस्तेनैवापहर्त्तुं
प्रयतेत । अनुत्तुण्डितशल्यानि छेदनीयमुखानि च ।
अनिर्थात्यानि जानीयात् भूबश्छेदामुबन्धतः” ।

निर्घृण त्रि० निर्गता घृणा दया यस्मात् । निर्दये “याजीवा-

म्यतिनिर्घृणः” मार्कण्डेयपु० ।

निर्घोष पु० निर् + थुष--घञ् । शब्दमात्रे अमरः “ज्यानि-

र्घोषैः क्षोभयामास सिंहान्” । “स्निग्धगम्भीरनिर्घो-
षम्” इति च रघुः ।

निर्जन त्रि० निर्गतो जनो यस्मात् प्रा० व० । जनैरनाकीर्णे विजने ।

निर्जरं पु० निर्गता जरा यस्मात् । १ देवे २ जराशून्ये त्रि० ।

५ ब० । ३ अमृते न० । जराशब्दस्य गौणत्वेऽपि अजादौ
प्रत्यये परे वा जरसादेशः निर्जरसौ निर्जरौ । आर्हत-
मतसिद्धे जीवाजीवादिषु सप्तसु पदार्षेषु ४ पदार्थभेदे
आर्हतशब्दे ३९५ पृ० दृश्यम् । ५ गुडूच्यां ६ तालपर्ण्यां
च स्त्री मेदि० ।

निर्जरसर्षप पु० निर्जरप्रियः सर्षपः शा० त० । देवसर्षपे राजनि० ।

पृष्ठ ४०९३

निर्जरायु पु० निर्मतो जरायुतः निरा० त० । जरानुतो

निर्गते नृगवादौ । निर्गतो जरायुर्यस्य । ३ जरायुहाने
त्रि० । “अभूः पारे पृदाक्कस्त्रिषप्तानिर्जरायवः । तासां
जरायुभिर्वयमक्ष्यावपि” अथ० १ । २७ । १

निर्जर्जल्प पु० नितरां जर्जरः पृषो० । अत्यन्तजर्जरीभूते

“निरृतिं निर्जर्जल्पेन शीर्ष्णा (प्रीणामि) यजु० २५ । २
“नितरां जर्जरीभूतेन शिरोभागेन” वेददी० ।

निर्जल त्रि० निर्गतं जलं यस्मात् प्रा० ब० । जलशून्ये देशे

“कोषञ्च जनयेद्राजा निर्जलेभ्यो यथा जलम्” भा० शा०
१३० अ० ।

निर्जलैकादशी स्त्री कर्म० । ज्यैष्ठस्य शुक्लैकादश्याम् यथाह-

पाद्मे भीमसेनं प्रति व्यासः । “वृषस्थे मिथुगस्थेऽर्के
शुक्ला ह्येकादशी हि या । ज्यैष्ठे मासि प्रयत्नेन
सोपास्या जलवर्जिता । स्नाने चाचमने चैव वर्जयित्वो
दकं बुधः । उपयुञ्जीत नैवान्यद् व्रतभङ्गोऽन्यथा भवेत् ।
उदयादुदयं यावद् वर्जयित्वा जलं बुधः । अप्रयत्नादवा-
प्नोति द्वादशद्वादशी फलमिति” ।

निर्जित त्रि० निर् + जि--क्त । १ पराजिते २ वशीकृते

“निर्जितैरावता गजाः” कुमा० । निर्जितेन्द्रियग्रामः
अमरः ।

निर्जिह्व त्रि० निर्गता मुखान्निःसृता जिह्वा यस्य । १ मुखा-

द्वहिर्गतरमने । “निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च
गतामुभिः । हयैर्वभौ नरश्रेष्ठ!” भा० भी० ९० अ० । २ जिह्वा-
शून्ये भेके च अजिह्वशब्दे ९२ पृ० दृश्यम् ।

निर्जीव त्रि० निर्गतो जीवो यस्मात् प्रा० व० । जीवाजरहिते

देहे “वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोचितोक्षितैः”
मा० द्रो० ४९ अ० । निर्जीवतुल्यैरित्यर्थः । “चिता दहति
निर्जीवं चिन्ता दहति जीवितम्” प्राचीनमाथा ।

निर्झर पु० निर् + भृ--अप् । १ पर्वतान्निःसूतजलप्रवाहे (झरणा)

अमरः । २ सूर्याश्वे ३ तुमानले च मेदि० “भागीरथीनि-
र्झरशीकराणाम्” कुमा० । “पृक्तस्तुषारैर्गिरिनिर्झराणाम्”
रघुः । स कारणत्वेनास्त्यस्या अच् गौरा० ङीष् ।
४ नद्याम् स्त्री शब्दर० । “जढाकटाहसम्भ्रमम्रमन्नि-
लिम्पनिर्झरी” इत्यादि रावणकृतशिवस्तवः ।

निर्झरिणी स्त्री निर्झरः पर्वतान्निःसृतजलप्रवाहः कारण-

त्वेनाख्यस्या इनि ङीप् । नद्याम् त्रिका० । “स्स्वल-
नमुखरभूरिस्वोतसो निर्झरिण्यः” महावीरचरितम् ।

निर्णय पु० निर् + नी--भावे अच् । १ निश्चये तदमावाग्राहिणि

तद्ग्राहिणि ज्ञाने । सन्देहे यथा भावाभावौ
द्वावेव विषयतया भासेते नैवं निश्चये किन्तु तत्र एकविध
एवावभासते । निश्चयत्वं च न जातिः प्रत्यक्षत्वादिना
लाङ्कुर्व्यात् किन्तु विषरिताविशेष इत्याकरे स्थितम् ।
२ विरोधप रहारे मीमांसोक्ते पञ्चावयवन्यायमध्ये
३ चरमावयवे न्यायोक्ते सन्दिह्य पक्षप्रतिपक्षयोः ४
साधनबाधनाभ्यामर्थावधारणे स च गौतमोक्तेषु षोडशसु
पदार्थेषु पदार्थभेदः तल्लक्षणादिकं गौ० सू० मा० उक्तं यथा
“विमृश्य पक्षप्रतिपक्षाभ्याषर्थावधारणं निर्णयः” सू०
“स्थापना साधनं, प्रतिषेध उपालम्भः, तौ साधनोपा-
लम्भौ पक्षपतिपक्षाश्रितौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानौ
षक्षपतिपक्षावित्युच्यते, तयोरन्थतरस्य निवृत्तिरेकतर-
स्यावस्थानम् अवश्यम्भावि, यस्यावस्थानं तस्यावधारणं
निर्णयः । नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीति
एको हि प्रतिज्ञातमर्थं हेतुतः स्थापयति प्रतिषिद्धं
चोद्धरतीति द्वितीयेन स्थापनाहेतुः प्रतिषिध्यते
तस्यैव प्रतिषेघहेतुवोद्ध्रियते स निवर्त्तते तस्य
निवृत्तौ योऽवतिष्ठते तेनार्थवधारणं निर्णय इति
उभाभ्यामेवार्थावधारणनित्याह । यथा युक्त्या एकस्य सम्भ-
वो द्वितीयस्वासम्भवः तावेतौ सम्भवासम्भवौ विमर्शं सह
निवर्त्तयतः, उभयसम्भवे उभयासम्भवे त्वनिवृत्तो विमर्श
इति । विमृश्येति विमर्शं कृत्वा, सोऽयं विमर्शः पक्ष-
प्रतिपक्षाभावद्योत्यं न्थायं प्रवर्त्तयतीत्युपादीयते इति ।
एतच्च विरुद्धयोरेकधर्मिस्थयोर्नोदव्यं यत्र तु धर्मिसामान्य-
मतौ विरुद्धौ धर्मौ हेतुतः सम्भवतः तत्र समुच्चयहेतुतो-
ऽर्थस्य तत्त्वामावोपपत्तेः, यथा क्रियावद्द्रव्यमिति सक्ष-
णवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति तत्
क्रियावत् यस्य न सपावति तदतियमिति, एकधर्मिस्थ-
योश्च विरुद्धयोर्युगपङ्गाविनोः कालविकल्पः यथा तदेव
द्रव्यं क्रियायुक्तं क्रियावत् अनुत्पन्नोपरतक्रियं पुनरक्रि-
यमिति । न चायं निर्णये नियमो विमृश्यैव पक्षप्रति-
पक्षाभ्यामर्थावधराणं निर्णय इति किन्त्विन्द्रयार्थसन्नि-
कर्षोत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति । परीक्षाविषये
तु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः शास्त्रे
वादे च विमर्शवर्जम्” । मीमांसकोक्तस्याधिकरणस्यावय-
वाश्च “विषयोऽविषयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णय
श्चेति सिद्धान्तः शास्त्रेऽधिकरखणं स्मृतम्” इत्युक्ताः ।
“तत्र निर्णयः सिद्धान्तसिद्धविचार्य्यवाक्यतात्पर्य्यावधार-
णम्” तत्त्वकौ० ।
पृष्ठ ४०९४

निर्णयपाद पु० चतुष्पाद्व्यवहारस्य निर्णयात्मके सिद्धि

पादापरपर्थाये अंशभेदे “भाषोत्तरक्रियासाध्यसि-
द्धिभिः व्रमवृत्तिभिः । आक्षिप्तचतुरशस्तु चतुष्पाद-
मिधीयते” मिता० घृतवचनम् । स च वीरमि० विस्त-
रतो दर्शितो यथा
“अथ निणयापरपर्य्यायः सिद्धिपादः । येषां प्रत्या-
कलित व्यवहारपाद इत्यभिसतं तेषां सिद्धेः फलत्वाद्-
व्यवहारपृथग्भावोऽन्येषां प्रत्याकलितस्य चत्त्वमेव
तु सर्वमते ध्यवहारस्य । याज्ञवल्क्यः “तत्सिद्धौ सिद्धि-
माप्नोति विपरीतमथोऽन्यथा” इति । तस्य प्रमाणस्य
सिद्धौ नि शङ्कप्रामाण्यव्यवस्थितौ सत्यां प्रमाणोपन्यास-
वर्त्ता सिद्धिं जया क्षणामाप्नोति । अन्थथा प्रामाण्या-
सिद्धौ विपरीतमसिद्धिं पराजयलक्षणमाप्नोति । नारदः
सारस्तु ध्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ
हीयते वादी तरंस्तामुत्तरो भवेत्” । तरन्निर्वाहयन् ।
उत्तरः उत्कृष्टो विजर्यीति यावत् । निर्णयप्रकारानाह
व्यासः “प्रमाणैर्हेतुचरितैः शपथेन नृपाज्ञया । वादि
सम्प्रतिपत्त्या वा निर्णयोऽष्टविधः स्मृतः । विवृतवानेतत्
स एव “लिणितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं
स्मृतम् । अनुमानं विदुर्हेतुस्तर्कश्चेति मनीषिणः ।
देशस्थितिः पूर्वकृताञ्चरितं समुदाहृतम् । अर्थानुरूपाः
शपथाः स्मृताः सत्यघटादयः । तेषामभावे राजाज्ञां
निर्णयन्तु निदुर्बुधाः” । इति प्रमाणत्रयं सतर्कोपष्टब्ध-
मनुमानं चरितादिचतुष्टयमित्यष्टविधहेतुकत्वान्निर्णयस्या-
प्यष्टविधत्वं यद्यपि भुक्तिरप्यनुमानमेव । तथापि प्रत्या-
कलितकालीनं सम्यानामनुमानमिहानुमानपदेन
विवक्षितम् । “धर्मेण व्यवहारेण चरित्रेण मृपाज्ञया ।
चतुःप्रकारोऽभिहितः सन्दिग्धेऽर्थे विनिर्णयः” इति
वृहस्मत्युक्तानां धर्मादीनां निर्णयहेतुत्वं प्रागेव “तत्र
सत्ये स्थितो धर्म” इत्यादिना तेनैव विवृतं प्रागेव निरू
पितम् । स एव “एकैको द्विविधः प्रोक्तः क्रियाभेदाम्भनी-
षिभिः” । क्रियाभेदात् धर्मनिर्णयस्य द्वैधमाह । स एव
“सम्यग्विचार्य्य कार्य्यन्तु युक्त्या संपरिकल्पितम् ।
परीक्षितन्तु शपथैः स ज्ञेयो धर्मनिर्णयः । प्रतिवादी
प्रपद्येत यत्र धर्मः स निर्णयः । दिव्यैर्विशोधितः सम्यक्
द्वितीयः स उदाहृतः” । प्रतिवादी प्रपद्येतेत्यस्य काका-
क्षिवदुभयत्र सम्बन्धः । यत्र प्रतिवादी युक्त्या सम्यग्-
विचार्य सम्परिकल्पितं निर्धारितं पुनः शपथैः पुत्रशिरः-
स्पर्शादिभिः परौक्षितं कार्यं प्रपद्येताङ्गीकर्थ्यात् स
आद्यो धर्मनिर्णयः दिव्यैर्षटादिभिर्बिशोधितः प्रतिवादी
यत्र कार्यं प्रपद्येग स द्वितीयो धर्माख्यो निर्णयः
इत्यर्थः । व्यवहारनिर्णयस्यापि द्वैविध्यमाह स एव
“प्रमाणैर्निश्चयो यस्तु व्यवहारः स उच्यते । वाक्छला-
नुत्तरत्वेन द्वितीयः परिकीर्त्तितः” प्रमाणपदेनात्र
साक्षिणो लिस्यितञ्च व्यक्त्यभिप्रायेण च बहुवचसम् ।
भुक्तेरनुमानत्थाद्दिव्यस्य धर्मनिर्णयान्तर्भावात् । वाक्छ-
लानुंत्तरत्वेन वाक्छलेनानुत्तरत्वेन च यो निश्चयो
द्वितीयो व्यवहारः स इत्यर्थः । चरित्रनिर्णयस्यापि
भेदद्वयन्तेनैवाभिहितम् “अनुमानेन निर्णीतं चरित्र-
मिति कीर्त्तितम् । देशस्थित्या द्वितीयन्तु शास्त्रविद्भिरु-
दाहृतम्” अनुमानेन भुक्तिस्वरूपेण यो निर्णय-
स्तदेकं चरित्रम् । देशस्थित्या यो निर्णयस्तद्द्वितीयं
चरित्रमित्यर्थः । राजाज्ञानिर्णयस्यापि द्विभेदताभिहिता
तेनैव “प्रमाणसहिताद्यस्तु राजाज्ञा निर्णयः स्मृतः ।
शास्त्रसभ्यविरोधे च तथान्यः परिकीर्त्तितः” प्रमाण-
सहिता राजाज्ञा आद्यो निर्णय इत्यन्वयः । शास्त्राणां
सभ्यानाञ्च विरोधे परस्परं विप्रतिपत्तौ या राजाज्ञा
स द्वितीयो राजाज्ञानुरूपो निर्णय इत्यर्थः । ननु
शास्त्राणां सभ्यानाञ्च विरोध एवासम्भवी स्मृत्यपेतानामधि-
कारिणां सभ्यानां दण्ड्यत्वात् । न च शास्त्राणां परस्वर
विरोधे सभ्यानाञ्चेत्यर्थ इति वाच्यम् सम्यविरोधोप-
भ्यासानर्थक्यात् । शास्त्रविरोधे न्यायोपष्टब्धशास्त्रानुसा-
रेण निर्णयः कार्य इत्यस्यार्थस्य “स्मृत्योर्विरोधे न्यायस्तु
वसवान् व्यवहारतः । धर्मशास्त्रविरोधे तु युक्तियुक्तो
विधिःस्मृतः । केबलं शास्त्रमाश्रित्य न कर्त्तव्यो हि
निर्णयः । युक्तिहीनविचारे हि धर्महानिः प्रजा-
यते” “न्यायाधिगमे तर्कोऽभ्युपायस्तेनाभ्यूह्य यथास्थानं
गमयेदित्यादि” योगीश्वरनारदवृहस्पतिनीतमोदिवचो-
भिर्निर्धारितत्वात् । तदृशि विषये राजाज्ञानवसरात्
अनीदृशराजाज्ञाया निषिद्धत्वाच्चेति चेत् उच्यते
यत्र शास्त्रविरोधे बलवान्न्यायोऽन्यतरार्थविनिर्णायकः
सलभ्यप्राड्विवाकस्य सभापतेर्न हृदयमारोहति
चिरतरं मीमांसितोऽपि तादृशशास्त्रविरोधे तन्मूलक वा
समाधेये सभ्यविरोधे राजकृतव्यवस्था वादिप्रतिवादिभ्यां
जन्तव्येत्येतदर्थकमिदं वचनम् । अतएव पिताबहः
“वचनं प्राग्लिखितन्निश्चेतुं येन शक्याः स्युः” इत्यादि
पृष्ठ ४०९५
धर्मादोनां चतुर्णां पूर्वयोत्तरोत्तरापेक्षया दुर्बलत्वमाह
नारदः “धर्मश्च व्याहारश्च चरितं राजशासनम् ।
चतुष्पाद्व्यवहारोऽयमुनरः पूर्ववाधकः” इति । व्यवहारस्य
धर्मबाधकतामाह वृहस्पतिः “शास्त्रं केवलमाश्रित्य क्रि-
यते यत्र तिर्णयः । व्यवहारः स विज्ञेयो धर्मस्तेनाव-
हीयत” । शास्त्रशब्देन शास्त्रीकं साक्ष्यादिप्रमाणं तेन
यो निर्णयः क्रियते स व्यवहारः । तेन धर्मः शपथा-
दिकतो निर्णयोऽवहीयते बाध्यते मानुषप्रमाणे सति
दिव्यानवसरात् । अतएवाह कात्यायनः “युक्तियुक्तन्तु
कार्यं स्याद्विव्यं यत्र विवर्जितम् । धर्मस्तु व्यवहारेण
बाध्यते तत्र नान्यथा” चरित्रस्य व्यवहारबाधकतामाह
वृहस्पतिः “देशस्थित्यानुमानेन नैगमानुमतेन वा ।
क्रियते निर्णयस्तत्र व्यवहारस्तु वाध्यते” । नैगमाः
वौरबणिजः । नैगमानुमतेनानुमानेनेति सम्बन्धः
सामानाधिकरण्येन शब्दाद्देशस्थित्यपेक्षः । अमुमेवार्थं
स्फुटयति कात्यायनः “प्रतिलोमप्रसूतेषु तथा दुर्गनि-
वासिषु । विरुद्धन्नियनं प्राहुस्तं धर्मं न विचालयेत् ।
निर्णयन्तु यदा कुर्य्यात्तेन धर्मेण पार्थिवः । व्यरहार-
श्चरित्रेण तदा तेनैव वाध्यते” इति । स्मृतिविरुद्धमपि
नियतत्वान्न विचालवेद्राजा । राजशासनस्य चरित्रबाध-
कतामाह वृहस्पतिः “विहाय चरिताचारं यत्र कुर्य्यात्
पुनर्नृपः । निर्णयं सा तु राजाज्ञा चरित्रं वाध्यते
तया” इति चरिताचारं पूर्वपूर्वाचरितमाचारम् । यद्यपि
तं धर्मं न विचालयेदित्युक्तभत्र तु विहाय चरिताचार
नित्युच्यते तेन विरोधः प्रतिभाति । तथापि यदि
तद्विचालने पुरराष्ट्रादिक्षोभो न भवति तदा स्मृत्या-
दिविरुद्वत्वात्तं दूरीकृत्य स्मृत्याद्यविराधो राजाज्ञया
निर्णयः कार्य इति तात्पर्यम् । अतएव पुरराष्ट्रस्य विरु-
द्धस्य विवादस्यानादेयत्वमुक्तम् पुरराष्ट्रक्षोमापादकतया
तदनापादकतया तु स्मृत्याद्यनुरोध एव कार्य्यो राज्ञेति ।
अतएवाह कात्यायनः “विरुद्धं न्यायतो यत्तु चरित्रं
कल्प्यते बुधैः । एवन्तत्र निरस्येत चरित्रन्तु नृपाज्ञया”
इति नृपैर्यन्न्यायविरुद्धं चरित्रं न तद्ग्राह्यमिति
कल्प्यते । तत्र नृपाज्ञया तच्चरित्रं निरस्यते बाध्यत
इत्यर्थः । यथोक्तप्रकारातिरिक्तप्रकारेणैषां बाध्यवाध-
कताकल्पने दोषमाह कात्यायनः “अनेन विधिना
युक्तं बाधकं यद्यदुत्तरम् । अत्यथा बाधनं यत्र तत्र
धर्मो विहन्यते” ।

निर्ण्णाम पु० नितरां नामो नमनम् प्रा० स० णत्वम् । नितरां

नमते “अथ निर्णामौ पक्षयोः करोति । निर्णामौ हि
वयसः पक्षयोर्भवतो विवृतीये, वितृतीये हि वयसः
पक्षयोर्निर्णामौ भवतोऽन्तरे वितृतीयेऽन्तरे वयसः पक्ष-
योर्निर्णामौ भवतः स चतुरङ्गुलमेव पुरस्तादुदूहति
चतुरङ्गुलं पश्चादुपसमूहति तद्यावदेवोदूहति तावदुप-
समूहति तन्नाहैवातिरेचयति नो कनीयः करोति ।
स तस्मिन्निर्णामे एकामिष्टकामुपदधाति तर्ह्येवं वयसः
पततो निर्णामादेका नाड्युपशेते तां तत्करोति”
शत० ब्रा० १० । १ । २ । ५ ।

निर्ण्णायन न० निर् + नी--णिच्--ल्युट् । १ निर्णयकरणे

२ गजापाङ्गदेशे निर्याण शब्दरत्ना० ।

निर्णिक्त त्रि० निर् + निज--क्त । १ शोधिते २ अपगतपापे च ।

“एनस्विभिरनिर्णिक्तैर्न्नार्थं किञ्चित् सहाचरेत्” मनुः ।

निर्णिज् पु० निर + निज--शौचपोषणयोः क्विप् । १ रूपे

निघण्टुः “बिभ्रद्द्रापिं हिरण्ययं वरुणोवस्त निर्णिजम्”
ऋ० १ । २५ । १३ । २ शोधके त्रि० । क । निर्णिज तत्रार्थे त्रि०

निर्णेक पु० निर् + निज--घञ् । नितरां शुद्धौ “दानेन

बधनिर्णेकं सर्पादीनामशक्नुवन्” । “अपामग्नेश्च संयोगात्
हेम रूप्यञ्च संबभौ । तस्मात्तयोः स्वयोन्यैव निर्णेको
गुणवत्तयः” मनुः ।

निर्णेजक पु० निर् + निज--ण्वुल् । रजके (धोपा) अमरः ।

“श्ववतां शौण्डिकानाञ्च चेलनिर्णेजकस्य च” । “कारु-
कान्नं प्रजां हन्ति बलं निर्णेजकस्य च” मनुः ।

निर्णेजन न० निर् + निज--भावे ल्युट् । १ शुद्धौ करणे

ल्युट् । २ शोधहेतौ प्रायश्चिचे “कृतनिर्णेजनांश्चैव न
विगर्हेत कर्हचित्” मनुः ।

निर्णेतृ त्रि० नि + णी--तृच् । निश्चयकर्त्तरि विवादपदनिर्णायके च ।

निर्द(र्दि)ग्धिका स्त्री निर् + दह--दिह--वा क्तसंज्ञायां कन्

कापि अत इत्त्वम् । निदिग्धिकायाम् हेमच० ।

निर्दट त्रि० निर्दय(र) + पृषो० । १ दयाहीने २ परापवादके

३ निष्प्रयोजने च मेदि० । ४ मन्त्रे ५ तीव्रे च शब्दरत्रा० ।

निर्दण्ड त्रि० निःशेषेण दण्डो यस्य प्रा० ब० । सर्वप्रकारद

ण्डार्हे १ शूद्रे “वाचा दण्डो ब्राह्मणानां क्षत्रियाणा
भुजार्पणम् । दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र
उच्यते” भा० शा० १५ अ० । २ दण्डनार्हे च

निर्दर पु० निर् + दॄ--कर्मणि अप् । १ निर्झरे २ निर्भरे च

“गिरिनिर्दरवासिनाम्” रामा० अयो० २८ स० ।
निर्गतोदरो यस्मात् प्रा० व० ३ निर्भये त्रि० ४ सारे न०
५ कठिने ६ अपत्रपे च त्रि० मेदि० ।
पृष्ठ ४०९६

निर्दश त्रि० निर्गतानि दश दिनानि यस्य डसमा० ।

अतिक्रान्तदशाहे “निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म
च” मनुः “यथा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति”
ऐत० ब्रा० ७१४

निर्दहस् अव्य० निर् + दह--तुमर्थे “ईश्वरे तोसुन्कसुनौ”

पा० कसुन् । निर्दग्धुमित्यर्थे “अपशव्येव तु वा ईश्वरा
पशून्निर्दहः” ता० ब्रा० २७३

निर्दहन पु० नितरां दहति निर् + दह--ल्यु । १ भल्लातके

शब्दर० । २ मूर्वालतायां स्त्री राजनि० । निर्गतोदहनो
वह्निः दहनं वा यस्मात् प्रा० ब० । ३ वह्निशून्ये ४
दाहशून्ये च त्रि० ।

निर्दातृ त्रि० निर् + दो--खण्डने दा--दाने दै--शोधने तृच् ।

नितरां १ छेत्तरि २ दातरि ३ शोधके च “यथोद्धरति
निर्दाता कक्षं घान्यञ्च रक्षति” मनुः ।

निर्दिग्ध त्रि० निर् + दिह--क्त । १ बलवति मांसले हेमच० ।

२ निर्लिप्ते च ।

निर्दिष्ट त्रि० निर् + दिश--क्त । १ उपदिष्टे २ प्रदर्शिते २ कथिते

च “निर्दिष्टविषयं किञ्चित् उपात्तरिषयं तथा” हरि०

निर्देश पु० निर् + दिश--भावे घञ् । १ शासने आज्ञायां २ कथने

३ उपदेशे च । निर्दिश्यतेऽभिधीयतेऽनेन करणे घञ् ।
४ प्रतिपादकशब्दभेदे नाम्नि “ॐ तत्सदिति निर्देशो
ब्रह्मणस्त्रिविधः स्मृतः” गीता । ५ वेतने च “कालमेव
प्रतीक्षेत निर्द्देशं भृतको यथा” इति पुराणम् । निर्गत्रो
देशात् निरा० त० । २ देशान्निर्गते त्रि० ६ उपान्ते च मेदि० ।

निर्दोष त्रि० निर्गतो दोषी यस्मात् प्रा० ब० । दोषरहिते

“निर्दोषे पितरि स्थिते” दायभा० “निर्दोषं दर्शयित्वा तु
सदोषं यः प्रयच्छति” । मता० धृतवचनम् ।

निर्द्वन्द्व त्रि० निर्गतो द्वन्द्वात् निरा० त० । शीतोष्णादिद्वन्द्वरहिते

“निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान्” गीता

निर्द्धन त्रि० निर्गतं धनमस्य । १ धनशून्य दरिद्रे “शशिनस्तु-

ल्यवंशोऽपि निर्द्धनः परिभूयते” चाणक्यः । २ जरद्गवे पु०
शब्दच० ।

निर्द्धर्म त्रि० निर्गतो धर्मात् निरा० त० । धर्मबहिर्भूते “निर्द्ध-

र्म्मार्थ कर्म कुर्य्युश्च पार्थाः” भा० उ० २४ अ० ।

निर्द्धार पु० निर् + धृ--णिच्--भाव घञ् । निश्चये ज्ञानभेदे ।

निर्द्धारण न० निर् + धृ--णिच्--ल्युट् । १ निश्चये जातिगुणक्रि-

याभिः समुदायादेकदेशस्य २ पृथक्करणे “यतश्च निर्द्धार-
चम्” पा० तदर्थे षष्ठी सप्तमी च भवति । तत्स्वरूपा-
न्वयादिकं शब्दश० प्र० उक्तं यथा
“विशेषस्य स्वेतरसामान्यव्यावृत्तधर्मवत्त्वं निर्धारणं
तच्च समुदितं न षष्ठ्यर्थः सामान्यतन्निष्ठधर्मयोः स्वपदो-
पात्तत्वात् । किन्तु विशेषान्यत्वं व्यावृत्तं च । विशेषस्तत्स-
मभिव्याहृतक्षत्रियादिर्विशेष्य ग्राह्यः । व्यावृत्तत्वञ्च
भेदप्रतियोगित्वं तथा च नराणां क्षत्रियः शूरतम इत्यत्र
क्षत्रियस्य नरविशेषतया षष्ठ्यर्थेन क्षत्रियान्यत्वेन विशि-
ष्टस्य तत्प्रकृत्यर्थस्य नरस्य तादृशनरत्वावच्छिन्नाधेयत्व-
संसर्गेण भेदेऽन्वयलब्धस्य क्षत्रियान्यनरत्वावच्छिन्नवृत्तिक-
भेदप्रतियोगित्वस्य शूरतमे शूरतमस्य च क्षत्रिये तादा-
त्म्येनान्वय इति क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रति-
योगित्ववच्छूरतमाभिन्नः क्षत्रिय इत्याकारकस्तत्र बोधः ।
क्षत्रियान्यनरस्याघेयतामात्रेण भेदेऽन्वये नराणां क्षत्रियः
सुन्दर इत्यपि प्रयोगापत्तेः क्षत्रियान्यकुरूपनरनिष्ठभेद-
प्रतियोगित्वस्य सुन्दरे सत्त्वात् । एवञ्च नरत्वातच्छिन्न-
वृत्तिकभेदप्रतियोगित्वस्य शूरतमे बाधादुक्तवाक्यस्यायोग्य-
तापत्तिरतः षष्ठ्यर्थेन क्षत्रियान्यत्वेन तत्प्रकृत्यर्थो नरो
विशेषितः । नच घटानां क्षत्रियः शूर इत्यपि स्यात्
क्षत्रियान्यघटत्वावच्छेदेन शूरभेदस्य सत्त्वादिति वाच्यं
राहोः शिर इत्यादाविव प्रकृते क्षत्रियान्वयिनः स्वप्रकृ-
त्यर्थतादात्म्यस्य षष्ठ्या बोध्यत्वात् । न च सङ्ख्यान्यसु-
वर्थस्य प्रकृत्यर्थविशेष्यत्वनियमात् क्षत्रियान्यत्वरूपस्य षष्ठ्य-
र्थस्य प्रकृत्यर्थनरे प्रकारत्वायोग इति वाच्यं सम्बोध्य-
त्वादौ व्यभिचारेण तादृशव्याप्तेः प्रायिकत्वस्य प्रागुक्त-
त्वात् । न च नराणां क्षत्रियो द्रव्यमित्यपि स्यात्
क्षत्रियान्यनरत्वावच्छेदेन द्वित्वाद्यवच्छिन्नद्रव्यप्रतियोगि-
ताकभेदसत्त्वादिति वाच्यं द्रव्यत्वादिविशिष्टे धर्मिणि
द्रव्यत्वाद्यवच्छिन्नस्यैव भेदप्रतियोगित्वस्य बोधने निर्द्धारण
षष्ठ्याः तमर्थत्वात् । यद्यपि भेदः प्रतियोगित्वञ्च द्वयमेव
निर्द्धारणषष्ठ्यथः चत्रियशब्देनैवोपस्थापितस्य क्षत्रियस्य
षष्ठ्यर्थभेदे तस्य च नरे नरस्य च पुनर्भेदे पुनर्भेदस्य प्रति-
योगित्वेऽन्वयादेव क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रति-
योनित्वस्य शूरतमऽन्वयसम्भवः । तथापि क्षत्रियादि-
नामोपस्थाप्यस्य क्षत्रियादेस्तादृशनामोत्तरविभक्त्यर्थ एव
भेदान्वयस्य व्युत्पन्नत्वात् नरपदोत्तरषष्ठ्यर्थे तदन्व-
यासम्भवात् क्षत्रियान्यत्वं विशिष्टमेव षष्ठ्यर्थो नत्व-
पृष्ठ ४०९७
न्यतामात्रम् न च नरस्य क्षत्रियः शूर इत्यपि स्यात्
पाणिपादस्य पाणिः पवित्र इत्यत्रेवान्यत्रापि एकवचनस्य
निर्द्धारणार्थकत्वे क्षत्यभावात् । अतएव द्वन्द्वः सामासिकस्य
चेति गीतापि सङ्गच्छते । एकवचनभिन्नयोरेव षष्ठीसप्तम्यो-
रुक्तनिर्द्धारणबोधकत्वव्युत्पत्तिस्वीकाराद्वा । ननु पाथः
पृथिव्योजल स्नेहवदित्यादौ जलभिन्नयोः पाथःपृथि
व्योरप्रसिद्ध्या पाथःपृथिव्युभयवृत्तिभेदप्रतियोगित्वस्य
स्नेहवति बाधेन च जलान्यपाथःपृथिव्युभयत्वावच्छिन्न-
वृत्तिकभेदप्रतियोगिनः स्नेहवतो वोधासम्भवः । न च
द्विपदद्वन्द्वोत्तरनिर्द्धारणषष्ठ्या अन्यतरवृत्तिभेदप्रयोगि-
त्वमेवार्थः तन्निविष्टे चान्यतरस्मिन्नेकपदोपात्तत्वेन
जलान्यत्वादेः षष्ठार्थान्तरस्यान्वयः तथाच जलान्यो यः पाथ
पृथिव्योरन्यतरस्तन्निष्ठस्य भेदस्य प्रतियोगित्वं स्नेहवति
वर्त्तत एवेति वाच्यं तावतापि पाथःपृथिव्युभयतादा-
त्म्यस्य जले बाधादुक्तवाक्यस्यायोम्यतातादवस्थ्यात् पाथः-
पृथिव्योस्तेज उष्णमित्याद्यप्रयोगेन निर्द्धारणषष्ठ्यास्तादा-
त्म्यवाचिताध्रौव्यात् घटतद्भिन्नयोर्घटः कम्बुग्रीवादि-
मानित्यादौ घटतद्भिन्नान्यतरत्वाप्रसिद्ध्या तादृशान्य-
तरवृत्तिभेदस्य बोधयितुमशक्यत्वाच्चेति चेन्न द्वन्द्वोत्तर
निर्द्धारणषष्ठ्याः पर्य्याप्तसंख्यायामपि शक्तत्वेन तस्मि
न्नेवैकपदोपात्तत्वेन षष्ठ्यर्थस्य जलाद्यन्यत्वरूपनिर्द्धार्य्य-
भेदस्यान्वयेन सर्वसामञ्जस्यात् । पाथःपृथिव्योर्जलं स्नेह-
वदित्यादौ जलभिन्नो यः पाथःपृथिवीपर्य्याप्तसंख्याश्रय-
स्तत्त्वावच्छिन्नवृत्तिकभेदप्रतियोगिसस्नेहाभिन्नं पाथः
पृथिवीपर्य्याप्तसख्याश्रयो जलमित्यन्वये वाधकभावात् ।
पटघटमठानां घटः कम्बुग्रीवादिमानित्यादावप्युक्तरीत्यै
बान्वयधीः । इदन्तु बोध्यं यत्रोद्देश्यविधेययोस्तादात्म्ये-
नान्वयबोधसामग्री तत्रैव निर्द्धारणषष्ठ्या भेदपतियोगि-
त्वमर्थः यत्र तु सम्बन्धान्तरेण, तत्रात्यन्ताभावप्रतियोगि-
त्वमतो नराणां क्षत्रिये शौर्य्यमित्यादौ क्षत्रियान्यनरत्वा-
वच्छिन्नवृत्तिकस्यात्यन्त्यभावस्यैव प्रतियोगित्वं शौर्य्यादौ
प्रतीयते न तु तादृशभेदस्य नराणां क्षत्रिये रूपमित्यपि
प्रयोगापत्तेः । नरणां मध्ये क्षत्रियः शूर इत्यादौ तु
निर्द्धारणवाचिनो मध्ये इत्यव्ययस्य तदर्थकषष्ठ्या सह
सम्भेदे देहे चैत्र इत्यादाविव नान्यतरवैयर्थ्यम् । नरेषु
क्षत्रियः शूर इत्यादौ निर्द्धारणसप्तमीस्थलेऽप्युक्तदि-
शैवान्वयो द्रष्टव्यः । यत्तु नराणां क्षत्रिय, शूरतम
इत्याद्रौ राहोः शिर इत्यत्रेवाभेदएव षष्ठ्यर्थस्तादात्म्यं
वा तथा च नराभिन्नक्षत्रियत्वाच्छेदेन शूरतमम्याभेदस्तत्र
वाक्यार्थस्तेन नराणां क्षत्रियोऽर्जुन इत्यादिकोन प्रयोमः
नरभिन्नक्षत्रियत्वावच्छेदेनार्ज्जुनाभेदस्यासत्त्वात् न वा
नराणां वानरः पशुरित्यादिकः” कीशे पश्वभेदसत्त्वेऽपि
मानुषाभेदस्य विरहादिति तत्तुच्छं नराणां क्षत्रियः
प्राणी क्षत्रियाणां नरः शूरैत्यादिबाक्यस्य दुर्वार-
तापत्तेः । केचित्तु नराणां क्षत्रियः शूर इत्यादौ क्षत्रि-
यान्यो नरः शूरभिन्नो नराभिन्नः क्षत्रियश्च शूरैत्ये-
वमन्वयितावच्छेदकधर्मावच्छेदेन धियमुरीकुर्वन् भेदमभेदञ्च
निर्द्धारणवाचिषष्ठीसप्तम्योरर्थमाहुस्तच्चिन्त्यं नामार्थमुख्य-
विशेषकान्वयबोधे नाम्नः प्रथमान्तत्वापेक्षायाः परित्यागा-
पत्तेः स्वप्रकृत्यर्थाबच्छिन्नस्यैव संख्यान्यसुबर्थस्य शब्दान्त-
रार्थेन सहान्वयस्य व्युत्पन्नत्वेन षष्ठ्यर्थे केवलभेदे शूरादेर
न्वयायोगाच्चेत्यास्तां विस्तरः” । “पञ्चमी विभक्ते” पा० यत्र
निर्द्धार्य्यमाणस्य भेदएव प्रतीयते तत्र पञ्चमी स्यात्
सिकौ० पञ्चम्यास्तु भेदएवाथः यथा माथुरा पाटलिपुत्रेभ्य
आढ्यतर इति “यतश्च निर्द्धारणमित्यनुवर्त्तते विभागोऽत्र
भेदः तत्र निर्द्धारणे सर्वत्र यथा कथञ्चित् भेदस्य सत्त्वे-
ऽपि विभक्तग्रहणसामर्थ्यात् यत्र भेद एव न तु केना-
प्युपाध्यादिरूपेणाभेदस्तत्रैवास्याः प्रवृत्तिरित्याह भेदए-
वेति न तु शब्दान्तरोपात्ते सामान्याक्रान्ततेति भावः ।
अत्र पञ्चम्यर्थो निर्द्धारणविषयरूपएव तत्र च अवधिमत्त्व-
सम्बन्धन पाटलिपुत्रस्यान्वयः तेन पाटलिपुत्रावधिकनि-
र्द्धारणविषया माथुरा आढ्यतरा इति बोधः । न ह्यत्र
निर्द्धा णाबधेर्निर्द्धार्य्यमाणस्य च गोषु कृष्णेत्यादाविव
सामान्यविशेषभावोऽस्ति प्रत्युत शब्दोपात्तयोधर्मयोर्वि-
रोध एव” मनोरमा ।

निर्द्धारित त्रि० निर + धारि--क्त । १ निर्द्धारणविषये २ निश्चिते

च “निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु नाचिकम्”
माघः ।

निर्द्धार्य्य त्रि० निर् + धारि--कर्मणि ण्यत् । १ निर्द्धारणकर्मणि

सामान्यतः पृथक्कार्य्ये विशेषे यथा नराणां क्षत्रियः
शूरतमः इत्यत्र शूरत्वेन नरान्तरेभः पृथक् कार्यरूपवि-
शेषः क्षत्रियः । २ निश्चेये च । भावे ण्यत् । ३ अवश्यनि-
र्द्धारणे न० । तावद्यतेऽस्य अच् । ४ निःशङ्ककर्मकर्त्तरि
रमानाथः । “निर्द्धार्य्यः कर्मकर्त्ता च संयतः सत्वस-
म्पदा । व्यसनेऽभ्युदये वापि ह्यविकारं सदा मनः ।
तत्तु सत्वकिति प्रोक्तम्” शब्दार्थचि० धृतवाक्यम् ।
पृष्ठ ४०९८

निर्द्धूत त्रि० निर् + धू--कर्मणि क्त । निरस्ते “निर्धूतवीत-

मपि बालकमुल्ललन्तम्” माघः ।

निर्ध्मापन निर् + ध्मा--णिच्--भावे ल्युट् । सुचुतोक्ते शल्यो-

द्धरणार्थे व्यापारभेदे “शल्योद्धारेणहेतूपक्रमे “प्रमार्जनं
निर्ध्मापनं वमनम्” इत्यादिना विभज्य “आहारशेषश्ले-
ध्महीनानुशल्यानि श्वसनोत्कासनप्रधमैर्निर्धमेत्” सुश्रु० ।

निर्बन्ध पु० निर् + बन्ध--भावे घञ् । आग्रहे अभिनिवेशभेदे

“अवस्तुनिर्बन्धपरे कथं नु ते” कुमा० “निर्बन्धसंजातरुषार्थ
कार्श्यम्” रथुः । निरः वध्नातेस्तदर्थत्वम् “तथापि निर्ब-
न्धति! तेऽथ वा स्पृहाम्” नैष० प्रयोगात् ।

निर्व(र्ब)र्हण न० निर् + व(व)र्ह--भावे ल्युट् । निवर्हणे

मारणे नीलकण्ठः ।

निर्बाध त्रि० निर्गता बाधा यस्मात् प्रा० ब० । १ अप्रतिबन्धे

२ निरुपद्रवे ३ विविक्ते च शब्दार्थचि० । ४ निष्काश्ये च
“परिमण्डलो ह्येष एकविंशतिनिर्बाध एकविंशो ह्येष
बहिष्टान्निर्बाधं बिभर्त्ति रश्मयो वा एतस्य निर्बाधा
बाह्यत उवा एतस्य रश्मयः” शत० व्रा० ६ । ७१ । २ “निर्बा-
धम् निर्बाध्यन्ते निःकाश्यन्ते उन्नताः स्वरूपाद्वहिर्निः-
सृता भवन्ति” यजु० संग्रहव्याख्या । “परिमण्डल एकविं-
शतिनिर्बाधस्तस्योक्तो बन्धुरधस्तान्निर्बाधमुपदधाति रश्मयः”
शत० ब्रा० ७ । ४ । १ १० “परिमण्डलोवर्तुलाकृतिः एकविंशति-
संख्याकैःपुलाकैर्युक्तः । उपधानसमये यथा निर्बाधानाम-
धोभागाऽवस्थानं भवति तथा कर्त्तव्यम्” भा० ५ मज्ज
भा गभेदे च पु० “निर्बाधेनाशनिम्” यजु० २५ । २ “निश्चितं
वाध्यते शिरोऽस्थिमध्यसंलग्नो मज्जाभागः तेन” । वेददी० ।

निर्बुष त्रि० निर्गतं वुषं यस्मात् । वुष--(आगडा) रहिते

पूते धान्ये हेमच० । निरुदकादि० अन्तोदात्तताऽस्य

निर्भट त्रि० निर् + भट--अच् । दृढे त्रिका० ।

निर्भय त्रि० निर्गतं भयमस्मात् प्रा० ब० । १ भयरहिते त्रिका०

“निर्भयन्तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम्” मनुः । रौच्य-
मनोः २ पुत्रभेदे पु० “सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो
दृढः” हरिवं० ७ अ० ।

निर्भर न० निःशेषेण भरो भरणं भृतिर्वाऽत्र प्रा० ब० ।

१ अतिमात्रे २ तद्युके त्रि० अमरः “द्रुतपीतमाधवरसौ
सुनिर्भरैः सरजसभकरन्दनिर्भरासु” माघः । ३ वेतन-
शून्थे भृत्ये च ।

निर्भर्त्सन न० नितरां भर्त्सनम् प्रा० स० । १ खलीकारे

२ अभिभवे । कर्मणि ल्युट् । ३ अनर्थके न० मेदि० “निर्भ-
र्त्सनापवादैश्च तथैवाप्रियया गिरा” भा० व० ३०३० अ० ।

निर्भाग्य त्रि० निर्गतं भाग्यं यस्यात् प्रा० व० । भाग्यरहिते

अमरः ।

निर्भृति त्रि० निर्गता भृतिरस्य । वेतनशून्ये कर्मकरे (वेगार) हेमच० ।

निर्मक्षिक अव्य० मक्षिकायाः अभावः अव्ययी० । १ मक्षिकाया

अभावे । निर्गता मक्षिका यस्मात् प्रा० ब० । २ मक्षिकाशून्ये
देशे ३ तदुपलक्षिते निर्जने देशे “कृतं भवतेदानीं निर्मक्षि-
कम्” शकु० प्राकृतानुवादः । निरुदकादि० अन्तोदात्तताऽस्य ।

निर्मज् त्रि० निर्--मृज--क्विप् वेदे पृषो० । नितान्तशुद्धे

“षष्टिं सहस्रानु निर्मजामजे” ऋ० ८ । ४ । २० “निर्मजां
निःशेषेन शुद्धानां गवाम्” भा० ।

निर्मथ पु० निर्मथ्यतेऽनेन निर् + मथ--करणे ल्युट् । अग्नि-

मन्थनदारुणि अरणौ हेमच० । निर्मथननिर्मन्थनिर्मन्थन
शब्दा अप्यत्र ।

निर्मद त्रि० निर्गतो मदो दानजलं हर्षो गर्वो वा यस्मात् ।

१ निरभिमाने २ हर्षशून्ये ३ दानजलशून्ये च “निर्मदं
दुःश्चितं दृष्ट्वा पितरो राममव्रुवन्” भा० व० ९९ अ० ।

निर्मन्थ्य न० निर्मन्थ्यते अग्न्युत्पादनार्थं घृष्यते नि + मन्थ-

कर्मणि ण्यत् । अग्न्युत्पादनार्थं घृप्यमाणे दारुणि
अमरः ।

निर्मर्य्याद त्रि० निर्गतो मर्य्यादायाः निरा० त० । १ मर्य्यादा-

तीते २ अविनीते “निर्मर्य्यादा म्लेच्छा ये पश्चिमदिक्स्थि-
तास्ते च” वृ० सं० १४ अ० ।

निर्मल त्रि० निर्गतो मलो यस्य प्रा० व० । मलहीने “निता-

न्तनिर्मलस्वान्तः” वेदान्तसारः “निर्मलाः स्वर्गमायान्ति
सन्तः सुकृतिनो यथा” मनुः । मलश्च रागादिदोषः
कालुष्यञ्च ।

निर्मलोपल नित्यकर्म० । स्फटिकोपले राजनि० ।

निर्मशक त्रि० निर्गतो मशको यस्मात् प्रा० ब० । मशकरहिते

देशे निरुदका० अन्तोदात्ततास्य । अभावे अव्ययी० ।
२ मशकाभावे अव्य० ।

निर्मांस त्रि० निर्गतं मांसमस्य प्रा० ब० । १ मांसविहीने

२ आहाराभावेनातिकृशे तपस्विदरिद्रप्रभृतौ च “निर्मांस-
बालहस्ताः कृच्छ्रेणायान्ति परदेशान्” वृ० सं० ३ अ० ।

निर्मांसवक्त्र पु० निर्मांसं वक्त्रमस्य । कुमारानुरभेदे “कृष्णा

निर्मांसबक्त्राश्च स्थूलपृष्ठास्तनूदराः” भा० श० ४ अ० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/निदेश&oldid=57791" इत्यस्माद् प्रतिप्राप्तम्