वाचस्पत्यम्/नान्दी

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४०३२

नान्दी स्त्री नन्दन्ति देवा अत्र नन्द--घञ् पृषो० वृद्भिः ङीप् ।

१ समृद्धा २ नाटकस्यादौ मङ्गलार्थे पाठ्ये श्लोकादौ
“आशिर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रवर्त्तते । देवद्विजनृपा-
दीनां तस्मान्नान्दीति सा स्मृता” । नाटके विघ्नविघाता-
यादौ नान्दी कार्य्या यदाह भरतः “यद्यप्यङ्गानि
भूयासि पूर्वरङ्गस्य नाटके । तथाप्यवश्यं कर्त्तव्या नान्दी
विघ्नोप्रशान्तये । देवद्विजनृपादीनामाशीर्वादपरायणा ।
नन्दन्ति देवतायस्मात्तस्मान्नान्दी प्रकीर्त्तिता” अन्यच्च
“देवद्विजनृपादीनामाशीर्वचनपूर्विका । नान्दी कार्य्या
बुधैर्यत्नान्नमस्कारेण संयुता । गङ्गा नागपतिः सीमः
सुधानन्दाजयाशिषः । एभिर्नामपदैःकार्य्या नान्दी
धाराभिरङ्किता । प्रशस्तपदविन्यासा चन्द्रसङ्कीर्त्तनान्विता ।
आशीर्वादपरा नान्दी योज्येयं मङ्गलात्मिका । काचि-
द्दशपदा नान्दी काचिदष्टपदा तथा । सूत्रधारः
पठेन्नान्दीं मध्यमस्वरमाश्रितः” । सा० द० अन्यथा उक्तं यथा
“यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः
प्रकुर्वन्ति पूर्वङ्गः स उच्यते । प्रत्याहारादिकान्यङ्गान्यस्य
भूयांसि यद्यपि । तथाप्यवश्यं कर्त्तव्या नान्दी विघ्नो-
पशान्तये” “आशीर्वचनसंयुक्ता नित्यं यस्मात् प्रयुज्यते ।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता । मङ्गल्य-
शङ्खचन्द्राब्जकोककैरवशंसिनी । पदैर्युक्ता द्वादशभिरष्टा-
भिर्वा पदैरुत” । अष्टपदा यथा । अनर्घ्यराघवे “निष्-
प्रत्यूहमित्यादि” द्वादशपदा यथा मम तातपादानां पुष्प-
मालायाम् । “शिरसिधृतसुरापगे स्मरारावरुणमुखे
न्दुरुचिर्गिरीन्द्रपुत्री । अथ चरणयुगानते स्वकान्ते
स्मितसरसा भवतोऽस्तु भूतिहेतुः” । एवमन्यत्र ।
“एतन्नान्दीति” कस्यचिन्मतानुसारेणोक्तम् । वस्तुतस्तु “पूर्व-
रङ्गस्य रङ्गद्वाराभिधानमङ्गमिति” उच्यते । यदुक्तम् ।
“यस्मादभिनयो ह्यत्र प्राथम्यादवतार्य्यते । रङ्गद्वारमतो
ज्ञेयं वागङ्गाभिनयात्मकमिति” उक्तप्रकारायाश्च नान्द्या
रङ्गद्वारात् प्रथमं नटैरेव कर्त्तत्यतया न महर्षिणा
निर्देशः कृतः । कालिदासादिमहाकविप्रबन्धेषु च
“वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मि-
न्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च
मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिर-
भक्तियोगसुलभो निःश्रेयसायास्तु वः” एवमादिषु नन्दी-
लक्षणायोगात् । उक्तञ्च “रङ्गद्वारमारभ्य कविः कुर्य्या-
दिति” । अतएव प्राक्तनपुस्तकेषु “नान्द्यन्ते सूत्रधार”
इत्यनन्तरमेव “वेदान्तेष्वित्यादि” श्लोकलिखतं दृश्यते ।
यच्च पश्चात् “नान्द्यन्ते सूत्रधार” इति लिखनं तस्या-
यमभिप्रायः “नान्द्यन्ते सूत्रधार इदं प्रयोजितवान् इतः
प्रभृति मया नाटकमुपादीयते इति कवेरभिप्रायः सूचितः
इति” । वृद्धौ “ते तु नान्दीमुखा नान्दी समृद्धिरिति
कथ्यते” इति ब्रह्मपुराणम् “नान्दीमुखे विवाहे च
प्रपितामहपूर्वकम्” इति सम्बन्धविवेकपरिशिष्टधृतवच-
नम् । “नान्दीमुखे पुत्रादिसमृद्धिसाधनरूपे विवाहे
विशेषणं तु विवाहादेः पुत्रादिलाभविशेषज्ञापनाय
नान्दीमुखपदस्य श्राद्धपरत्वे अनेकवचनप्राप्तपितृपूर्व-
काभिलापस्य बाधापत्तेः” सं० त० रघुनन्दनः ।

नान्दीक पु० नान्द्यै कायति कै--क । १ तोरणस्तम्भे त्रिका०

२ नान्दीमुखश्राद्धे नान्दीमुखशब्दे दृश्यम् ।

नान्दीकर त्रि० ६ त० । १ नान्दीश्लोकादिपाठकरे २ नान्दी-

वादिनि च अमरः ।

नान्दी(न्दि)घोष पु० नान्द्यै घोषः वा ह्रस्वः । भेर्यादिशब्दे

नान्दीपट पु० नान्द्याः वृद्ध्यर्थः पटः । कूपादिमुखबन्धन-

वस्त्रे वीनाहे हेमच० ।

नान्दीपुर न० नान्द्यै पूः अच्समा० । अप्राक्स्थे पुरभेदे ततः

पुरान्तत्वात् भवाद्यर्थे वुञ् । नान्दीपुरक तत्र भवे त्रि० ।

नान्दीमुख न० नान्द्या वृद्धेर्मुखम् । १ वृद्धिश्राद्धे श्राद्धभेदे

नान्द्यै मुखं यस्य । २ पित्रादौ ३ मात्रादौ स्त्री ङीष् ।
जीवत्पित्रादित्रिकस्य ४ वृद्धप्रपितामहादौ च ६ त० ।
५ समृद्धेः साधने विवाहादौ “नान्दीमुखे विवाहे च”
नान्दीशब्ददर्शितवाक्ये स० त० लिखनं दृश्यम् । अथ
नान्दीश्राद्धाधिकारस्वरूपादि निर्ण० सि० दर्शितं यथा
अथ वृद्धिश्राद्धम् तन्निमित्तं पृथ्वीचन्द्रोदये ब्राह्मे
“जन्मन्यथोपनयने विवाहे पुत्रकन्ययोः । पितॄन्नान्दी
मुखान्नाम तर्पयेद्विधिपूर्वकम् । देवव्रतेषु चाधानयज्ञ-
पुंसवनेषु च । नवान्नभोजने स्नाने ऊढायाः प्रथमार्तवे ।
देवारामतडागादिप्रतिष्ठासूत्सवेषु च । राजाभिषेके
बालान्नभोजने वृद्धिसंज्ञकान् । वनस्थाद्याश्रमं गच्छन्
पूर्वेद्युः सद्य एव वा । पितॄन् पूर्वोक्तविधिना तर्पयेत्
कर्मसिद्धये” विष्णुपुराणे “यज्ञोद्वाहप्रतिष्ठासु मेखला-
वन्धमोक्षयोः । पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाच-
रेत्” तत्रैव “नामकर्मणि बालानां चूडाकर्मादिके
तथा” इत्युक्तेर्निष्क्रमान्नप्राशनयोर्न श्राद्धमिति मैथिलाः
तन्न पूर्वोक्तबिरोधात् नानिष्ट्वेति विरोधात् “सुतोत्पत्तौ
तथा श्राद्धे अन्नप्राशनिके तथा” इति राजमार्त्तण्डाच्च
पृष्ठ ४०३३
बहुह्वृचकारिकायाम् “आद्याभ्युदयिकं श्राद्धं वृद्धिपूर्त्तेषु
कर्मसु । पुंसःसवनसीमन्तलोकोपनयनेष्विह । विवाहे
चानलाधेयप्रभृतिश्रौतकर्मणि । इदं श्राद्धं प्रकुर्वन्ति
द्विजा वृद्धिनिमित्तकम् । अन्यैः षोडशसंस्कारश्रा-
वण्यादिष्वपीष्यते । वाप्याद्युद्यापनादौ तु कुर्युः
पूर्त्तनिमित्तकम्” । वोपदेवकालदर्शौ “सीमन्तव्रतचौल-
नामकरणान्नप्राशनोपायनस्नानाधानविवाहयज्ञतनयोत्प-
त्तिप्रतिष्ठासु च । पुंसूत्यावसथप्रवेशनसुताद्यास्याव-
लोकाश्रमस्वीकारक्षितिपाभिषेकदयिताद्यर्त्तौ च नान्दी-
मुखम्” यत्तु कामधेनौ “जलाशयप्रतिष्ठायां वृषोत्स-
र्गादिकर्मसु । वत्सराभ्यन्तरे पित्रोर्वृषस्योत्सर्गकर्मणि ।
वृद्धिश्राद्धं न कुर्वीत तदन्यत्र समाचरेत्” इति तत्र
जलाशये वृद्धिश्राद्धस्य निषेधो न तु कर्माङ्गस्येति
केचित् । अन्ये त्वस्य निर्मूलतामाहुः । श्राद्धकौमुद्यां
निर्णयामृते च मात्स्ये “अन्नप्राशे च सीमन्ते पुत्रो-
त्पत्तिनिमित्तके । पुंसवे च निषेके च नववेश्म प्रवे-
शने । देववृक्षजलादीनां प्रतिष्ठायां विशेषतः । तीर्थ-
यात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्तितम्” । इदं चावश्यकं
“वृद्धौ न तर्पिता ये वै पितरो गृहमेधिभिः । तद्धीन-
मफलं ज्ञेयमासुरो विधिरेव सः” इति शातातपोक्तेः ।
अत्र श्राद्धत्रयं पराशर आह “मातृश्राद्धं तु पूर्वं स्यात्
पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ
श्राद्धत्रयं स्मृतम्” । तत्कालमाह पृथ्वीचन्द्रोदये गार्ग्यः
“मातृश्राद्धं तु पूर्वेद्युः कर्माहनि तु पैतृकम् । माता-
महं चोत्तरेद्युर्वृद्धौ श्राद्धत्रयं स्मृतम्” । अत्राप्यशक्तौ स
एव “पृथक् दिनेष्वशक्तश्चेदेकस्मिन् पूर्ववासरे । श्राद्धत्रयं
प्रकुर्वीत वैश्वदेवं तु तान्त्रिकमिति” वृद्धमनुरपि “अलाभे
भिन्नकालानां नान्दीश्राद्धत्रयं बुधः । पूर्वेद्युर्वे प्रकुर्वीत
पूर्वाह्णे मातृपूर्वकम्” । अत्र “महत्सु पूर्वेद्युस्तदहर-
ल्पेष्विति” गृह्यपरिशिष्टाद्यवस्था ज्ञेया । तच्च प्रातरेव-
“पार्वणं चापराह्णे तु प्रातर्वृद्धिंनिमित्तकमिति” शाता
तपोक्तेः अत्र प्रातः शब्दः सार्द्धप्रहरषरः “प्रहरोऽप्यर्ध-
संयुक्तः प्रातरित्यभिधीयतै” इति गार्ग्योक्तेरिति पृथ्वी-
चन्द्रः । इदं च पुत्रजन्मातिरिक्तविषयम् । तदाहात्रिः
“पूर्वाह्णे वै भवेद्वृद्धिर्विना जन्मनिमित्तकम् । पुत्रजन्मनि
कुर्वीत श्राद्धं तात्कालिकं बुधः” इति एतदनियतनिमित्त
परम् “नियतेषु निमित्तेषु प्रातर्वृद्धिनिमित्तकम् ।
तेपामतियतत्वे तु तदानन्तर्य्यमिष्यंते” इति लौगाक्षि
स्मृतेः । आधानाङ्गं नान्दीश्राद्धं त्वपराह्णएव
“आमश्राद्धं तु पूर्वाह्णे सिद्धान्नेन तु मध्यतः । पार्वणं
वाऽपराह्णे तु वृद्धिश्राद्धं तथाग्निकम्” इति निर्णयामृते
गालवोक्तेः “नान्दीमुखाह्वयं प्रातराव्दिकं त्वपराह्णतः”
इति विष्णूक्तेश्च । इदं च मातृपितृमातामहादिक्रमेण
नवदैवत्यं कार्य्यम् । तत्र मातामहाः सपत्नीकाः “वृद्ध-
प्रमातामहप्रमातामहमातामहानां सपत्नीकानामिति”
पृथ्वीचन्द्रोदये गारुडे गठ्यरूपेण पाठात् । हेमाद्रौ शङ्खः
“नान्दीमुखे सत्यवसू संकीर्त्यौ वैश्वदेविके” वृद्धपराशरः
“नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणकुशासनम् । पितृभ्य-
स्तन्मुखेभ्यश्च प्रदक्षिणमिति स्मृतिः” यत्तु वृद्धवसिष्ठः
“नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् ।
नामसंकीर्त्तयेद्विद्वानन्यत्र पितृपूर्वकम्” । यच्च स्मृत्यर्थसारे
“वृद्धसुरव्यास्तु पितरो वृद्धिश्राद्धेषु भुञ्जते” । इति यच्च
गारुडे व्युत्क्रमप्रतिपादनं तच्च शाखान्तरविषयम् ।
“पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः” इति बह्वृचपरि-
शिष्टे कात्यायनेन चानुलोम्याम्नानात् पृथ्वीचन्द्रोदये-
ऽप्येवम् । यत्तु केचित् वृद्धिपदं पित्रादिषु प्रयुञ्जते तन्न
“अनस्मद्वृद्धशब्दानामरूपाणामगोत्रिणाम् । अनाम्ना-
मतिलाद्यैश्च नान्दीश्चाद्धं तु सत्यवदिति” पृथ्वीचन्द्रो-
दये संग्रहोक्तेः न च निषेधादेव विधिः कल्प्यत इति
वाच्यं प्रोष्ठपदीश्राद्धे प्रपितामहात् परेषां वृद्धपित्रादीनां
देवतात्वान्नान्दीश्राद्धत्वसाभ्येनेहापि तत्प्राप्तौ निषेधात्
गोत्रनामादिनिषेधस्तु “शुभार्थी प्रथमान्तेन वृद्धौ संकल्प-
माचरेत्” इत्युपक्रम्यानस्मद्वृद्धशब्दानामित्युक्तेः संकल्प-
श्रद्धपरः सपिण्डके तु सर्वं भवतीति प्रयोगपारिजातः ।
“गोत्रनामभिरामन्त्र्य पितृभ्योऽर्घ्यं प्रदापयेदिति” छन्दो-
गपरिशिष्टे तद्विधानात् यत्तु ब्राह्मे “पिता पितामह-
श्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा ह्येते पितरः
परिकीर्त्तिताः । तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखै
घिताः । ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते”
इति यच्च मार्कण्डेयपुराणे “ये प्रपितामहादूर्द्धं ते
तु नान्दीसुखाः स्मृताः” इति तज्जीवत्पित्रादित्रिक-
कर्तृकवृद्धिश्राद्धविषयम् । तेन तस्येदमावश्यकम् । यत्तु
विष्णुः “पितरि पितामहे प्रपितामहे च जीवति नैव
कुर्य्यादिति” तद्दर्शादिविषयमिति कल्पतरुः । मदनपारि-
जातोऽप्येवम् । हेमाद्रिस्तु “नान्दीमुखानां श्राद्धं तु
कन्याराशिगते रवौ । पौर्णमास्यां तु कर्त्तव्यं वराह-
पृष्ठ ४०३४
वचनं यथेति” प्रोष्ठपदीश्राद्धैकवाक्यत्वात् तत्रैव पूर्वेषां
देवतात्वमित्याह । अत्र सत्यवसू विश्वे देवावित्युक्तं प्राग्वत् ।
यत्तु शातातपः “मातुः श्राद्धं तु युग्मैः स्याददैवं
प्राङ्मुखैः पृथगिति” तद्भिन्नप्रयोगमातृशाद्धपरम् ।
यच्च मार्कण्डेयपुराणे “विश्वदेवविहीनं तु केचिदिच्छन्ति
मानवाः” इति तद्भिन्नप्रयोगमातृश्राद्धे विश्वदेवविक-
ल्पार्थं प्रयोगैक्ये तु देवनियम इति हेमाद्रिः । एतच्च
मातृपूजापूर्वकं कार्यम् । “अकृत्वा मातृयागं तु यः
श्रद्धं परिवेषयेत् । तस्य क्रोधतमाविष्टा हिंसामिच्छन्ति
मातरः” इति शातातपोक्तेः कौर्मेऽपि “पुष्पैर्धूपैः
सनैवेद्यैर्गन्धाद्यैर्मूषणैरपि । पूजयित्वा मातृगणं कुर्य्या-
च्छ्राद्धत्रयं बुधः” इति छन्दोगपरिशिष्टे “कर्मादिषु तु
सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः
पूजयन्ति ताः” प्रतिमासु च शुद्धासु लिखिता वा पटादिषु
अपि वाऽक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः । कुड्यलम्नां
वसोर्धारां सप्तधारां घृतेन तु । कारयेत् पञ्चधारां वा
नातिनीचां न चोच्छ्रिताम् । आयुष्याणि च शान्त्यर्थं
जत्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्ध-
दानमुपक्रमेत्” । अत्र सर्वेष्विति ग्रहणात् ग्रहयज्ञ
तद्विकारेष्वपि नित्यं श्राद्धम् । “नानिष्ट्वा तु पितॄन्
श्राद्धे कर्म किञ्चित् समाचरेदिति” शातातपोक्तेः । इयं
च वसोर्धारा तच्छाखीयानां नियतान्येषां त्वनियता ।
बह्वल्पं वा स्वगृह्योक्तमित्युक्तेः करणे त्वभ्युदयः “यन्ना-
म्रातं स्वशाखायाम्” इत्युक्तेः आयुष्याणि “आनी भद्रा
इत्यादीनि । षड्भ्य इति मात्रादित्रिकोपलक्षणमिति
पृथ्वीचन्द्रोदयः । छन्दोगानां षड्दैवत्यमन्वेषां नवदैवत्य-
मित्याशार्कः । मम तु मतं कोकिलमतानुसारिणां मातृ-
मातामहीप्रमातामही इति मात्रा सहैव मातामहश्राद्ध-
करणात् तद्विषयमिदं षड्भ्य इति । मातरस्तु तत्रैवोक्ताः
“गौरी पद्मा शची मेघा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ।”
चन्द्रिकायां चतुर्विंशतिमते त्वन्या उक्ताः “तिस्रः
पूज्याः पितुः पक्षे तिस्नो मातामहे तथा । इत्येता
मातरः प्रोक्ताः पितुर्मातुः स्वसाऽष्टमी” आसां जीवने
प्रत्यक्षपूजनम् । मृतानां त्वक्षतपुञ्जेष्विति हेमाद्रिः
“ब्रह्मण्याद्यास्तथा सप्त दुर्गाक्षेत्रगणाधिपान् । वृड्यादौ
पूजयित्वा तु पश्चान्नान्दीमुखान् पितृन् । मातृपूर्वान्
पितृन् पूज्य ततो मातामहानपि । मातामहीस्ततः
केचिद्युग्मा भोज्याद्विजातयः” इति । अत्र द्वादशदैवतस्य
देशाचाराद्व्यवस्था । ब्रह्मण्याद्यान्तु “ब्राह्मी माहेश्वरी
चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी
चामुण्डा सप्त मातरः” इत्यपरार्के उक्ताः । अत्र चौला-
दीनां यौगपद्ये तन्त्रतोक्ता छन्दोगपरिशिष्टे “गणशः
क्रियमाणानां मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्ध-
मादौ न पृथगादिषु” मातृभ्य इति षष्ट्यर्थे चतुर्थी ।
गणशः एकानेकपुत्राणां संस्कारेष्वेकदिने एकदेशकाल-
कर्त्रैक्यादित्यर्थः । तथा “असकृद्यानि कर्माणि क्रियेरन्
कर्मकारिभिः । प्रतिप्रयोगं नैव स्युर्मातरः सगणाधिपाः”
कर्मावृत्तावपि कुत्र श्राद्धं कार्यं क्वच नेत्युक्तं तत्रैव
“आधाने होमयोश्चैव वैश्वदेवे तथैव च । बलिकर्मणि
दर्शे च पूर्णमासे तथैव च । नवयज्ञे च यज्ञाज्ञा
वदन्त्येवं मनीषिणः । एकमेव भवेच्छ्राद्धमेतेषु न पृथक
पृथक्” एतेषु प्रतिप्रयोगं नावर्त्तते किन्त्वादौ, एतद्भिन्न
सोमयागादौ प्रतिप्रयोगमावर्त्तते एव श्राद्धमित्यर्थः ।
क्वचिदादावपि निषेधमाह स एव “नाष्टकासु भवेच्छ्राद्धं
न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजातकर्मप्रोषितामतक-
र्मसु” । “विवाहादिः कर्मगणीय उक्तो गर्भाधानं शुश्रुमो
यस्य चान्ते । विवाहादावेकमेवात्र कुर्य्याच्छ्राद्धं नादौ
कर्मणः कर्मणः स्यात्” । सोष्यन्त्या आसन्नप्रसवायाः “सोष्य
न्तीमभ्युक्ष्येत्युक्तं कर्म । कात्यायनोक्तस्य श्राद्धस्य पाकस्य
प्राधान्यात्तस्य च “जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्म-
णेष्वपीति” निषेधान्न जातकर्मणि नान्दीश्राद्धमित्याशार्कः
“आमान्नेन वा कार्यमित्यपि” तेनैवोक्तम् । गौडास्तु
जातकर्मण्येव निषेधः पुत्रजन्मनिमित्तकं तु कार्यमेव
“जन्मव्यथोपनयने” इत्युक्तेः “नैमित्तिकमथो वक्ष्ये
श्राद्धमभ्युदयात्मकम् । पुत्रजन्मनि तत्कार्यं जातकर्मसमं
नरैरिति” मार्कण्डेयपुराणाच्चेत्याहुः । हारलतायां
श्राद्धविवेके चैवम् । एतेन जातकर्मणि कालान्तरे श्राद्ध-
निषेधो न पुत्रजन्मदिने इति वाचस्मतिमतं परास्तम् ।
अत्र निषेककाले इति वचनात् गर्भाधाने न निषेधः
“निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं
पुंसवने श्राद्धं कर्माङ्गं विधिववत्कृतम्” इति पारस्करः ।
प्रोषितेति “प्रोष्यैत्य गृहानुपतिष्ठते पुत्रं दृष्ट्वा जपतीति”
विहितं कर्म विवाहादिगर्भाधानान्तो यो गृहप्रवेशच-
तुर्थीकर्मादिकर्मसमूह उक्तः सूत्रकारेण तत्रापि प्रतिकर्म
नेत्यर्थः । अन्येऽपि हलामियोगादयोऽपवादविषयास्वत्रैक
पृष्ठ ४०३५
ज्ञेवास्ते अप्रचारान्नोच्यन्ते । अत्राधिकारिणः विष्णुपुराणे
“जातस्य जातकर्मादि क्रियाकाण्डमशेषतः । पिता पुत्रस्य
कुर्वीत श्रद्धं चाभ्युदयात्मकम्” । अत्र केचित् जीवत्पिवृक
साग्नेरेव वृद्धिश्राद्धेऽधिकारः न तु निरग्नेः “न
जीवत्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । येभ्य एव पिता
दद्यात्तेभ्यः कुर्वीत साग्निकः । पितामहेऽप्येवमेव
कुर्याज्जीवति साग्निकः । साग्निकोऽपि न कुर्वीत जीवति
प्रपितामहे” इति चन्द्रिकायां सुमन्तूक्तेरित्याहुः प्रयो-
गपरिजातेऽप्यनाहिताग्निर्न कुर्यादितीदं व्याख्यातम् ।
तन्न “अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि ।
येभ्यएव पिता दद्यात्तानेवोद्दिश्य तर्पयेत्” इति हारी-
तोक्तेः सौमन्तवन्तु न वृद्धिश्राद्धपरमित्युक्तं मदनरत्ने
आद्धपदं पिण्डपितृयज्ञपरमिति पृथ्वीचन्द्रोदयः ।
निर्णयामृते तु हारीतीयेऽनग्निको नाहिताग्निरमिप्रेतः
पूर्ववचने तु साग्निः श्रौताग्निः स्मार्त्ताग्निश्चोच्यते तेनो-
भयाग्निहीनस्य नेत्युक्तं तन्न पूर्वोक्तदिशा गतिसम्भवे-
ऽनग्निपदस्य स्मार्त्ताग्निपरत्वे मानामावात् वक्ष्यमाणनि-
त्यानित्यसंयोगविरोघात् “पितरो जनकस्येज्या यावद्व्र-
तमनाहितम् । समाहितव्रतः पश्चात्स्वान् यजेत पिता-
महान्” इति पृय्यीचन्द्रोदये यमवचनविरोधाच्च
अपरार्केऽपि समावर्त्तने ब्रह्मचारी स्वयमेव नान्दीश्राद्धं
कृर्यादित्याह अतः पूर्वमेव साधु वोपदेवोऽप्येवमाह ।
यत्तुमतं जीवत्पितुः पुत्रनामकर्मादौ न वृद्धिश्राद्धम् ।
हारीतीये जन्मादावित्यादिशब्देन तत्प्राप्तावपि “उद्वाहे
पुत्रजनने पित्रिष्ट्यां सौमिके मखे । तीर्थे व्राह्मण आयाते
षडेते जीवतः पितुरिति” मैत्रपरिशिष्टे उद्वाह एव
तस्योपसंहारात् एवं यत्र तु संस्कारादिपदं तदप्युद्वा-
हादिपरमेवेति, तन्न उद्वाहपदस्य स्वविवाहपरत्वस्यापि
संभवात् पुत्रविवाहपरत्वे मानाभावात् “नामकर्भणि
वालानां चूडाकर्मादिके तथा” इत्यादिमिर्नित्यश्राद्धस्य चौला-
द्यङ्गत्वावगतौ नित्यानित्यसंवोगविरोधाच्च अतो जन्मा-
दाविति सर्वसंस्कारसंग्रहः तथा च कात्यायंनः “स्वपितृम्यः
पिता दद्यात् सुतसंस्कारकर्मसु । पिण्डानोद्वाहनात्तेषां
तस्याभावे तु तत्क्रमात्” । सुतानां चौलादिसंस्कारेषु
पिता स्वपितृभ्यः पिण्डान् श्राद्धम् “पिण्डदोऽंशहरश्चै-
छामिति” दर्शनात् ओद्वहनाद्विवाहपर्यन्तं दद्यात् विवा-
हश्च प्रथमः “नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे
वचः । अत उर्द्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्”
इति स्मृतेः तस्य पितुरमावे तत्क्रमात् “असंस्कतास्तु
संस्कार्या भ्रातृमिः पूर्वसंस्कृतौ” इति यः कर्तृक्रमः
तेन क्रमेण ज्येष्ठभ्रात्रादिर्दद्यादिति चन्द्रिकादयः
हेमाद्रिस्तु “तस्य पितुरमावे यः पितृव्यमातुलादिः संस्कु-
र्यात्स तत्क्रमात् संस्कार्यपितृक्रमाद्दद्यात् न तु स्वपि-
तृभ्य इति” व्याचख्यौ । समावर्त्तनस्यापि विवाहप्राचीन
सुतसंस्कारत्वात्पितैव नान्दीश्राद्धं कुर्यात् तदमावे ज्ये-
ष्ठम्रात्रादि तदभावे स्वयमेव कुर्यात् उपनयनेन
कर्माधिकारस्य जातत्वात् एवमाद्यविवाहेऽपीति पृथ्वी-
चन्द्रोदयचन्द्रिकादयः मदनरत्नेऽप्येवम् । यदा तु पितरि
सन्यस्ते प्रोषिते पतिते वा घर्मार्थं तत्पुत्रमन्यः संस्कु-
र्यात्तदा संस्कार्यपितुः पित्रादिभ्यो दद्यात् “पितरोजन-
कस्येज्या यावद्व्रतमनाहितम् । समाहितव्रतः पश्चात्
स्वान् यजेत पितामहान्” इति पृथ्वीचन्द्रोदये यमोक्तेः ।
जीवत्पितृकस्य विशेषमाह कात्यायनः “वृद्धौ तीर्थे च
सन्न्यस्ते ताते च पतिते सति । येभ्यएव पिता दद्या-
त्तेभ्यो दद्यात् स्वयं सुतः” इति । यच्च बह्वृचपरिशिष्टे
जीवत्पिता सुतसंस्कारेषु नातृमातामहयोः कुर्यात् तस्यां
जीवन्त्यां मातामहस्यैवेति” तत्तच्छाखीयानामेवेति दिक् ।
स्मृतितत्त्वादिगौडग्रन्थेषु जीवन्मातृकः पितामह्यादिभ्यो
दद्यात् “जीवन्तमति दद्याद्वा प्रेतायान्नोदके द्विजः” इति
कात्यायनोक्तेः “जीवे तस्मिन् सुताः कुर्युः पितामह्यां
सहैव तु । तस्यां चैव तु जीवन्त्यां तस्याः श्वश्र्वेति निश्चयः”
इति हारीक्तेश्चेत्युक्तम् । तस्मिन् भर्त्तरि । दाक्षिणा-
त्यास्तु पूर्वोक्तं सपिण्डीकरणादिविषयम् “जीवेत्तु
यदि वर्गाद्यस्तं वर्गन्तु परित्यजेत्” इति वचनात्तद्वर्गस्य
लोप एवेत्याहुः । यत्तु चन्द्रिकायां पारस्करः “निषेक-
काले सोमे च सीमन्तोन्नयगे तथा । ज्ञेयं पुंसवने श्राद्धं
कर्माङ्गं वृद्धिवच्च तत्” इति तत्र गर्माघानादौ कर्माङ्गम्
जातकर्मादावुक्तन्तु वृद्धिश्राद्धं पृथगेव विधिवत्यवधेयम् ।
गौडनिबन्धे मात्स्ये “अन्नप्राशे च सीमन्ते पुत्रोत्पत्ति-
निमित्तके । पुंसवे च निषेके च नववेश्मप्रवेशने ।
बेदव्रतजलादीनां प्रतिष्ठायां तथैव च । तीर्थयात्रावृषो-
ह्यर्गे वृद्धिश्राद्धं प्रकीर्त्तितम्” नाविनिषित्तानामङ्गत्वे
वृद्धिशब्दस्तद्धर्मातिदेशार्थ इति गौडाः “अन्थे तु निषे-
कादौ कर्माङ्गवृद्धिश्राद्धयोः समुच्चयमाहुः नान्दीश्राद्धे-
तूभयानुगता । अस्येतिकर्त्तव्यता पृथ्वीचन्द्रोदये वृद्धप-
राशरः “मालत्याः शतपत्राया मल्लिकाकुब्जयोरपि ।
पृष्ठ ४०३६
केतक्याः पाटलाया वा देया माला न लोहिता” श्राद्धे
मालानिषेघस्यायमपवादः । तथा “सुवेषमूषणैस्तत्र
सालङ्कारैस्तथा नरैः । कुङ्कुमाद्यनुलिप्त ङ्गैर्भाव्यन्तु ब्राह्मणैः
सह । स्त्रियोऽपि स्युस्तथा भूता गीतनृत्यादिहर्षिताः” ।
हेभाद्रौ ब्रह्माण्डे “कुशस्थाने च दूर्वाः स्युर्मङ्गलस्यामि-
वृद्धये” । कुशा अपि वक्ष्यन्ते । छन्दोगपरिशिष्ठे “प्रातरा-
मन्त्रितान् विप्रान् युग्मानुभयतस्तथा” । उभयतः दैवे
पित्र्ये च वैश्वदेवे द्वौ विप्रौ पित्रादीनामेकैकस्य द्वौ
द्वाविति विंशतिः । त्रिके वा द्वौ द्वावित्यष्टौ विप्राः । अत्र
विप्रालाभे स्त्रियोऽपि मोज्या इत्याहाशार्के वृद्धवसिष्ठः
“मातृश्राद्धे तु विप्राणामलामे पूजयेदपि । पतिपुत्रा-
न्विताभव्या योषितोऽष्टौ कुलोद्भवाः । मातृत्रिके
चतस्रः मातामहीत्रिके चेत्यष्टौ” इति हेमाद्रिः । “अत्र
पित्र्ये प्राङ्मुखाविप्राः पाद्ये पित्र्ये चतुरस्वं
मण्डलमिति, जयन्तः” हेमाद्री ब्राह्मे “विप्रान् प्रदक्षि-
णावर्त्तं प्राङ्मुखानुपवेशयेत्” । छन्दोगपरिशिष्टे “गोत्र-
नामभिरामत्र्य पितृभ्योऽर्घ्यं प्रदापयेत् । नात्रापसव्य-
करणं न पित्र्यं तीर्थमिष्यते । ज्येष्ठोत्तरकरान् युग्मान्
कराग्राग्रपवित्रकान् । कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र
दीयते” पित्रादेर्द्वौ द्वौ विप्रौ तयोर्दक्षिणहस्तौ संयोज्य
प्रथमोपवेशितविप्रकरोपरि तन्त्रेण द्वयोरर्घ्यं दद्या-
दत्यर्थः । बह्वृचकारिकायां तु “दत्तार्घ्यादेकदेशः स्या-
दर्ष्यदानं प्रतिद्विजम् । आवृत्तिरपि मन्त्रस्य प्रति-
ब्राह्मणमिष्यंते । प्रतिद्विजं पृथक्कुर्यान्निवीत्थर्घ्यानुमन्त्र-
णम्” इत्युक्तम् “मधु मध्विति यस्तत्र त्रिर्जपोऽशितुमि-
च्छताम् । गायत्र्यनन्तरं स्तोत्रं मधुमन्त्रविवर्जितम् ।
नचाश्नंस्तु जपेदत्र कदाचित् पितृसूक्तकम्” तथा
“सम्पन्नमिति तृप्ताःस्य प्रश्नस्थाने विधीयते । सुसम्पन्न-
मिति प्रोक्ते शेषमन्नं निवेदयेत् । अक्षय्योदकदानञ्च
अर्घ्यदानवदिष्यते । षष्ठ्यैव नियतं कुर्य्यान्न चतुर्थ्या
कदाचन” । चन्द्रोदये व्राह्मे “पठेच्छकुनिसूक्तं तु स्वस्ति
सूक्तं शुभं तथा । नान्दीमुखान् पितॄन् मक्त्या साञ्ज-
लिश्च समाह्वयेत्” तथा “शाल्यन्नं दधि मध्वक्तं
वदराणि यवांस्तथा । मिश्रीकृत्य तु चतुरः पिण्डान् श्री-
फलसन्निभान् । दद्यान्नान्दीमुखेभ्यश्च पितृभ्यो विधि-
पूर्वकम् । द्राक्षामलकमूलानि यवांश्च विनियोजयेत् ।
तान्येव दक्षिणार्थन्तु दद्याद्विप्रेषु सर्वदा” । तत्रैव
चतुर्विशतिमते “द्वौ द्वौ चाभ्युदये पिण्डावेकैकस्मै विनिः-
क्षिपेत् । एकं नाम्ना परं तूष्णीं दद्यात्पिण्डान् पृथक्
पृथक्” । वसिष्ठः “प्राङ्मुखो देवतीर्थेन प्राक्कूलेषु कुशेषु
च । दत्त्वा पिण्डान्न कुर्वीत पिण्डपात्रमधोमुखम्” ।
“नान्दीमुखेभ्यः पितृभ्यः स्वाहेति वा पिण्डदानमन्त्रः” ।
इति वृत्तिः । अत्र पिण्डाः कृताकृता इत्युक्तम् । तत्रैव
मविष्ये “पिण्डनिर्वपणं कुर्य्यान्न वा कुर्य्याद्विचक्षणः ।
वृद्धिश्राद्धे महावाहो! कुलधर्मानवेक्ष्य तु” छागलेयः
“अग्नौ करणमर्घ्यं च वाहनं चावनेजनम् । पिण्ड-
श्राद्धे प्रकुर्वीत पिण्डहीने निवर्त्तते” तेनात्र भोजनस्यैव
प्रधानत्वाद्यदि विप्रस्य वमनं तदा तस्यैव पार्वकस्य
पुनरावृत्तिरिति सिद्धम्” । वृद्धिश्राद्धञ्च मूतनिमित्तं यथा पुत्र-
जन्मनिमित्तं माविनिमित्तं च यथा विवाहादिनिमित्त-
मिति भेदः इति श्रा० त० रघु० समर्थितम् । तद्विधानञ्च
छन्दोगपरिशिष्टादौ दृश्यम् । ६ चतुर्दशाक्षरपादके छन्दो-
षेदे स्त्री “स्वरमिदि यदि नौ तौ च नान्दीमुखी गौ”
छन्दोम० तल्लक्षणमुक्तम् ।

नान्दीवादिन् पु० नान्दीं वदति वद--णिनि । १ नान्दी-

श्लोकपाठके वृद्ध्यर्थं २ भेर्य्यादिवादके च ।

नान्दीश्राद्ध पु० नान्दीनिमित्तं नान्द्यर्थं वा श्राद्धम् । वृद्धि-

श्राद्धे नान्दीमुखशब्दे उदा० ।

नापित पुंस्त्री शूद्रायां क्षत्रियात् जाते १ सङ्कीर्णजातिभेदे

पट्टिकार्य्यां कुवेरिणो जाते २ सङ्कीर्णजातिभेदे च ।
“आर्द्धिकं कुलमित्रं च गोपालो दासनापितौ । एते
शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्” मनुः ।
“सच्छूद्रौ गोपनापितौ” “नराणां नापितो धूर्त्तः” ।
“ग्रामकामञ्च गोपालं वनकामञ्च नापितम्” मा० उ० ३२ अ० ।
“नटी कापालिनी वेश्या कुलटा नापिताङ्गना” कुल
नायिकोक्तौ तन्त्रम् । तस्य वृत्तिः क्षुरकर्म । “उपो-
षितस्य व्रतिनः कॢप्तकेशस्य नापितैः । श्रीस्तावत्तिष्ठति
गृहे यावत् तैलं न संस्पृशेत्” स्मृतिः । शिल्पित्वात्
अपत्ये फिञ् । नापितायनि तदपत्ये पुंस्त्री० पक्षे
ष्यञ् नापित्य तत्रार्थे पुंस्त्री० ।

नापितशाला स्त्री ६ त० । क्षौरमृहे त्रिका० ।

नाभ् स्त्री नम--णिच्--क्विप् । नमसो बाधिकायां सोमस्य

दीप्तौ “चतस्नो नाभो निहिताः” ऋ० ९ । ७४ । ६ । नाभो
नभसो वाधिकाः सोमस्य दीप्तयः कलाः” भा० ।

नाभ पु० “श्रुतात् मगीरथो जन्मे तस्य नाभोऽमवत् सुतः”

भान० ९ । ९ । १२ उक्ते सूर्यवंश्ये नृपभेदे ।
पृष्ठ ४०३७

नाभक न० नभ--ण्वुल् । वनतिक्ते वृक्षे शब्दार्थचि० ।

नाभस पु० १२ अ० वृहज्जातकोक्ते लग्नतः तत्तत्स्थानभेदस्थित

ग्रहभेदेन योगभेदे ते च तत्र तद्व्याख्यायाञ्च दृश्याः ।
जातकपद्धतौ तु ततः संक्षिप्योक्तास्तेऽत्र दर्श्यन्ते यथा
“चरादिसंस्थैर्निखिलैर्ग्रहैः स्यात् योगस्तु रज्जु १ र्मुशलं २
यल ३ श्च । माला ४ शुभैः पापखगैश्च सर्पः ५ केन्द्रस्थितैः
सत्यमते दलौ तौ । समीपकेन्द्रद्वयगैर्गदाख्य ६ स्तन्वस्तगैः
स्याच्छकटो ७ ऽथ पक्षी ८ । स्वाम्बुस्थितैः, पञ्चमनन्दल-
ग्नस्थितैस्तु शृङ्गाट ९ कमामनन्ति । धनारिकर्मसंस्थि-
तैस्तृतीयसप्तलाभगैः । तुरीयरन्ध्ररिप्फगैस्त्रिधा हलः १०
प्रकीर्त्तितः । लग्नास्तगाः सौम्यखगाः खवन्ध्वोः पापा
यदा स्यात् कुलिशं ११ विलोमात् । यवो १२ ऽथ मिश्राः
कमलं १३ यदा ते केन्द्रात् परे तत्परतोऽथ वापी १४ ।
लग्नादिकेन्द्रात् सकलग्रहेषु चतुर्षु भेषु प्रवदन्ति
योगान् । यूपेषुशक्ती १५ । १६ । १७ रपि दण्ड १८ मद्रेः
स्थानेषु नौकूटकच्छत्रचापान् १९ । २०२१ । २२ । अर्द्धचन्द्रा-
ह्वयं २३ केन्द्रबाह्यतः लप्तकैर्ग्रहैः । लग्नादेकान्तरे षड्भे
चक्र २४ मर्थादपांनिधिः २५ । आश्रयाकृतिजा योगा
उक्ताः संख्याभवा अथ । गोल १ युग्म २ त्रिशूलानि ३
केदारः ४ पाश ५ दामकौ ६ । वीणे ७ त्येकचयस्थानस्थितैः
खेटैर्विहाय तान् । यववज्रौ न योगौ स्तः पूर्वोक्त-
त्वादिहोदितौ । क्रूरो रूपाढ्योऽटनो दुःखमावो
रज्ज्वौ १ प्राप्तस्वोमवेदन्यदेशे । मानाज्ञानैः संयुतः कर्म-
युक्तो राजेष्टः स्यान्मौशले २ भूरिपुत्रः । नले ३ ऽतिनैपुण्य-
युतो घनी स्यादूनाधिकाङ्गश्च घनी स्वबन्धोः । स्नजि ४
प्रसक्तो बहुभोगभोगे सर्पे ५ ऽतिदुःखी विषमोऽति-
दीनः । वज्वा नानाशास्त्रयोगातिविज्ञो नित्योद्युक्तो
द्रव्ययुक् स्याद्वद्रायाम् ६ । रोगार्त्तः स्यात् स्यन्दनेनो-
पजीवी निःस्वो मूर्खो मित्रहीनो रथाख्ये ७ । योगे
विहङ्गे ८ मनुजोऽतिसौख्यो दूतोऽटमः स्यात् कलिकृच्च-
निःस्वः । शृङ्गाटके ९ साहसवान्नृपेष्टः सुखी सुभार्य्यः
कलहप्रियश्च । हले १० दरिद्रः कृषिकारकः स्यात् प्रेष्यः
सुदुःखी बहुभोजनश्च । वज्रे ११ ऽतिदुःखी वयसस्तु मध्ये
शूरः सुरूपः सुमगः खलद्विट् । यवे १२ व्रती १३ मङ्ग-
सतत्परश्च दाता च मध्ये वयसः सुखाढ्यः । पद्मे १३
चिरायुर्नृपतिर्यशस्वी गुणी घनी कीर्त्तिसमृद्धियुक्तः ।
वाप्यां १४ स्थिरार्थसखमाक् निधिकृत् सुतप्तो गेत्रोत्सवैस्तु
सहितो मनुजो न दाता । यूपे १५ व्रती नियमकृत्
बहुसत्वसौख्यस्त्यागात्मवान् नरवरोऽपि च यायजूकः ।
वाणे १६ ऽतिगुप्त्यधिकृतः शरकृच्च हिंस्रो मांसाशनश्च
मृगयाघनयुक्कुशिल्पः । शक्त्यां १७ धनेन रहितो
विकलोऽतिदुःखी नीचोऽलसो मृधपरः पुरुषश्चिरायुः ।
दण्ड १८ जातः पुत्रदारधनहीनो जनोज्झितः । निर्घृणो
दुःखितो नीचः प्रेष्यश्च मनुजो भवेत् । नौयोग १९ जश्च-
लसुखः कृपणोऽतिकीर्त्तिर्हृष्टो जनाश्रयधनो मलिनोऽ-
तिलुब्धः । कूटे २० शठः कृपणबन्धनपोऽतिपापो निःस्वो
वनाचलगड़ेषु कृताधिकारः । छत्रे २१ दयाधीस्वज-
नाश्रयः स्याद्दीर्घायुराद्यन्तसुखी नृपेष्टः । सत्कार्मुके २२
शूरतरः सुखी स्यादाद्यन्तयोर्गुप्त्यघिपञ्च चौरः ।
चन्द्रार्द्ध २३ जश्चलसुखः सुमगः सुकान्तामोगी नराधि-
पसभश्च बली धनाढ्यः । चक्राह्वये २४ नृपतिचक्रकिरी-
टरत्रभाभासुराङ्घ्रियुगलो मनुजाधिनाथः । बहुरत्रार्थ-
युक्तः स्याद्भोगी पुत्रजनान्वितः । साधुर्वारिषियोगे २५ प्य
स्थिरवैभवसंयुतः । योगे गोले १ सत्वसामर्थ्यविद्याहीनो
नीतिः सर्वकालं प्रवासी । युग्मे २ निःस्वोऽतीवपाष-
ण्डयुक्तो युक्तायुक्तज्ञानहीनान्तरः स्यात् । योगे त्रिशूले ३
विघनश्च शूरः क्रूरः क्षतो धातरुचिर्मरः स्यात् ।
केदार ४ जातः कृमिकर्मकर्त्ता बहूपयोज्यः सुखितश्चलश्च ।
पाशे ५ विशीलो बहुभृत्यबन्धुर्बहुप्रपञ्चो बहुमाषकश्च ।
दाम्नि ६ स्वयुक्तः पशुनायकः स्यात् सेवोपकारी च वदान्य-
घीरः । वीणायोगे ७ गीतनृत्यप्रियः स्यात् कीर्त्त्या युक्त्रः
पोषकः स्याद्वहूनाम् । एते योगाः सर्वकालं विचिन्त्या
वीर्य्यात् खेटार्ना प्रपूर्णा अपूर्णाः” ।

नाभाक पु० ऋषौ “ऋषिर्नामाको बभूव” निरु० १० । ५ “नामा-

कस्य प्रशस्तिभिः” ऋ० ८ । ४१ । २ “नामाकस्य ऋषेः” मा० ।

नाभाग पु० वैवस्वतमनोः १ पुत्रभेदे “ऐक्ष्वाकुश्चैव नामागः”

हरिवं० १० अ० । वैवस्वतमनोःपुत्रोक्तौ । भगीरथसुत-
श्रुतनृपात्मजे २ नृपभेदे “भगीरथसुतो राजा श्रुत इत्य-
भिविश्रुतः । नामागस्तु श्रुतस्यासीत् पुत्रः परमघा-
र्सिकः । अम्बरीषस्तु नामागिः सिन्धुद्वीपपिताऽभवत्”
हरिवं० १५ अ० ।

नाभागारिष्ट पु० वैवस्वतमनोः पुत्रभेदे “नारिष्टप्रांशुषष्ठाश्च

नाभागारिष्टसप्तमाः” हरिवं० १० अ० तत्पुत्रोक्तौ

नाभि पु० नह--इञ् मश्चान्तादेशः । १ क्षत्रिये २ मुख्यनृपे

३ चक्रमध्यांशे रथचक्रस्थपिण्ड्याम् । ४ आग्नीघ्रनृपपुत्रभेदे
५ तन्नामके वर्षभेदे च “तस्यानुह वा आत्मजान् स
पृष्ठ ४०३८
राजवर आग्नीध्रोनाभिकिंपुरुषहरिवर्षेलावृतरम्यकहि-
रण्मयकुरुमद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत् ।
आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहनन
वलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथामागं
जन्वुद्वीपवर्षाणि बिभेजुः” भाग० ५ । २ । २१ “नाभिरपत्य
कामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्माऽय-
जत्” ५ । ३ । १ भारतवर्षस्यैव जम्बुद्वीपवर्षमध्यस्थितत्वात्
नाभिसंज्ञा नाभिवर्षशब्दे वक्तव्यकारणान्तराच्च तथा वा ।
६ प्राण्यङ्गे (नाइ) पुंस्त्री मेदि० स्त्रियां ङीप् वा ।
७ उदरावर्त्ते (ग्ॐड) राजनि० । सुषुमृणान्तर्गते नाभि-
ख्याने च मणिपूरं चक्रं यथाह तन्त्रसारे “तदूर्द्ध्वे
नाभिदेशे तु मणिपूरं महाप्रभम् । मेघामं विद्यु-
दाभञ्च बहुतेजोम ततः । मणिवद्भिन्नं तत् पद्मं
मणिपूरं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ता-
क्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम्”
इति । ८ मृगनाभिजाते मृगमदे मेदि० । “प्राप्तना-
भिनदमज्जनमाशु” माघः “प्राप्तनाभिह्रदेति” पाठः
छन्दोमञ्जरीसम्मतः । पुंस्त्वे “समुच्छ्वसत्पङ्कजकोषको-
मलैरुपाहितश्रीण्युपनीवि नाभिभिः” किरा० । श्रेष्ठ-
नृपे “उपगतोऽपि हि मण्डलनाभिताम्” रघुः
सोमधारास्रावणार्थं दशापवित्रस्य मध्ये आबध्यमा-
नायां ७ स्रुवि च । “अवधूय पवित्रमुदग्दशमवाङ्
नाभि वितनुयुः” ताण्ड्य० ब्रा० १ । २ । ७ भाष्यधृतद्राह्मायण
सूत्रम् । संज्ञायामेतदन्तस्य अच् समा० । पद्मनामः
हिरण्यनाभ इत्यादि ।

नाभिकण्टक पु० नाभेः कण्टक इव । (ग्ॐड) नाभेरा-

वर्त्तभेदे शब्दर० ।

नाभिका स्त्री नाभिरिव कायति कै--क । कंटभीवृक्षे राजनि० ।

नाभिगुलक पु० नाभौ गुलक इव । (ग्ॐड) इति ख्याते

नाभेरावर्त्तभेदे त्रिका० ।

नाभिगोलक पु० नाभौ गोलक इव । (ग्ॐड) नाभेरावर्त्तभेदे जटाधरः ।

नाभिज पु० नाभौ विष्णोर्नाभौ जायते जन--ड । चतुर्मुखे

ब्रह्मणि त्रिका० । तस्य विष्णोर्नामिकमलजातत्वात्तथात्वम् ।
नाभिजन्मादयोऽप्यत्र हेमच० ।

नाभिनाडी स्त्री नाभेर्नाड़ा । नाभौ स्थितायां नाड्यां

सिरायां नाडीभेदे “मातुस्तु रसवहायां नाड्यां गर्भ-
नाभिनाड़ी प्रतिवद्धा” सुश्रु० ।

नाभिनाल न० स्त्री नाभस्थितं नालम् । नाभिस्थिते ताले

“गाभिनालमृणालिनी” दुर्गाध्यानम् “तदङ्कशय्याच्युत
नाभिनाला” रघुः ।

नाभिभू पु० नामौ विष्णुनाभौ मवति मू--क्विप् ७ त० ।

चतुर्मुखे ब्रह्मणि नाभिभ्रवादयोऽप्यत्र ।

नाभिवर्द्धन न० नाभेस्तत्स्थनाड्यावर्द्धनं छेदनम् । नाडी

छेदने “प्राङ्नाभिवर्द्धनात् पुंसो जातकर्म विधीयते”
संस्कारतत्त्वे धृतमनुवचनम् । संहितायान्तु नाडीवर्द्ध-
नादित्येव पाठः ।

नाभिवर्ष पु० नाभेराग्नीध्रनृपपुत्रस्य वर्षः । जम्बुद्वीपस्थे

नववर्षमध्ये वर्मभेदे नाभिशब्दे दृश्यम् तस्य नामिसंज्ञक-
त्वेऽपि पश्चात् तत्कुलजमरतनाम्ना तत् ख्यातं तथाहि
नृसिंहपु० ३० अ० नामिपुत्रस्य ऋषमस्य पुत्रो भरतस्तेन
चिरं पालितत्वादस्य भारतवर्षेति संज्ञोक्ता । नाभिवर्षस्य
भारतवर्षनामता दर्शिता ऋषमशब्दे १४५१ पृ० दृश्या ।
अतएव विष्णुपु० “नाभिश्च प्रथसं वर्षमित्युपक्रमे मव वर्षास्पि
उक्त्वा “भारतस्यास्य वर्षस्य नव भेदान्निशामय” इति ।
नाभिवर्षस्यैव भारतवर्षत्वेन उक्तिः ।

नाभिल त्रि० नामिरस्त्यस्य सिध्मा० लच् । दीर्घनाभियुक्ते

नाभिसम्बन्ध पु० नाभेरेकत्र गर्भजातनाड्यां सम्बन्धः ।

सनाभितायां गोत्रसम्बन्धे सपिण्डानां ह्येकत्र गर्भे
जायमानतया नाडीसम्बद्धत्वम् । “व्यश्नुते स्मततः शोको
नाभिसम्बन्धसम्भवः” भट्टिः ।

नाभ्य त्रि० नाभये हितः शरीरावयवत्वात् यत् “नाभेर्नभ-

ञ्चेति” पा० ग० नभादेशस्तु इह न तस्य गवादियता
सन्नियोगशिष्टत्वात् रथचक्रावयवार्थत्वे एव नभादेशो
नेह । १ नामये हिते २ नाभिसम्बन्धिनि च ३ महादेवे पु०
“नमो नामाय नाम्याय नमः कटकटाय च” भा० शा० २८ अ०

नाम अव्य० नाम्यते नामि--ड । १ कोपे २ उपगमे ३ प्राकाश्ये

४ सम्मावनायां ५ कुत्सने च अमरः ।
तत्र कोपे “ममापि नाम दशाननस्य परैरभिभवः” ।
उपगमः सासूयोऽङ्गीकारः “एवं नामास्तु” । प्राकाश्ये
“हिमालयो नाम नगाधिराजः” । हिमालयः प्रका-
श्येनातिप्रसिद्ध इत्यर्थः । सम्भावनायां “इह नाम सीता
भविष्यति” । कुत्सने “कोनामायं सवितुरुदये स्वापमेवं
विधत्ते” । तट्टोकायां मरतः । ५ विस्मये ६ स्मरणे ७ विकल्पे
च भेदि० । विस्मये “अन्धोनाम गिरिमारोहति” ।
८ अलीके च “अहञ्च मीतोनामावप्लुतः” दशकु० ।
मिथ्याभीत इत्यर्थः ।
पृष्ठ ४०३९

नामकरण न० नाम्नः करणं यत्र । संस्कारभेदे तत्र

तत्कालादिनिरूपणं ज्यो० त० यथा “एकादशे द्वादशे
वाऽहवि पिता नाम कुर्य्यादिति” श्रुतिः । एकादशे इति
मुख्यः कल्पः “समर्थस्य क्षेपायोगादिति” न्यायात् एतच्च
परपरप्रशस्ततरतमकालोदितकर्मेतरकर्मपरम् । गोभिलः
“जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामधेय-
करणमिति” । व्युष्टे गते । गर्गः “आदौ घोषवदक्षरं
यवरलान्मध्ये पुनः स्थापयेदन्ते दीर्षविसर्जनीयरहितं
नाम प्रयत्नात् कृतम्” । “ऋक्षे तिष्यकराश्विसौम्यवसुभे
चित्रानुराधोत्तरे पौष्णे चादितिरोहिणीषु शुभकृत् पुंसां
समैरक्षरैः” दीपिकास्वरसात् स्वातीशतभिषाश्रवणा
अत्र ग्राह्याः । गोभिलसम्मतं पूर्वार्द्धम् देवनामकम्” तेन
नारायणजनार्द्दनादि नाम कुर्य्यात् । यत्तुनामकरणम्
कुलदेवतानक्षत्रामिसम्बन्धं पिता नाम कुर्य्यादन्यो वा
कुलवृद्धः” इति कल्पतरुधृतशङ्खलिखितवचनेनाभिवादनीयं
नामधेयं कल्पयित्वा “देवताश्रयं नक्षत्राश्रयं गोत्राश्रयमप्ये
वम्” इति गोभिलसूत्रेणोपनयनकाले च नक्षत्राभिसम्बन्धेन
नामाधिधागं तत् शतपदचक्रानुसारात् स्वनक्षत्रपदानु-
सारात् ज्ञेयम् । पाश्चात्त्यानां तथैव व्यवहारः । यत्र
तु न तथा कृतम् । तत्र नामाक्षरानुसारनक्षत्रादपि
फलं ज्ञेयम् । अत्र कुलवृद्ध इति दर्शनात् संस्कारान्तरे
तथैव व्यवहारः । मनुः “स्त्रीणां सुखोद्यमक्रूरं विस्प-
ष्टार्थं मनोहरम् । माङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभि-
धानवत्” । गोभिलः “अयुग्दान्तं स्त्रीणामिति” । यथा
यशोदा वसुदेत्यादि । नारायणपद्धतौ । “नामकरणं स्थि-
रलग्ने केन्द्रपञ्चनवमस्थितसौम्ये । त्र्यायषष्ठसमधिष्ठित
पापे जीवशुक्रशशिसौम्यदिनेषु” ज्यो० त० । विष्णुपु०
“ततश्च नाम कुर्वीत पितैव दशमेऽहनि । देवपूर्वं
नराख्यं हि शर्मवर्मादिसयुतम्” इति । नरमाचष्टे इति
नराख्यं नरनाम देवात् पूर्वं तच्च विशिष्टं शर्मयुतम् ।
“शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभुजः । भूतिर्गुप्तश्च
वैश्यस्य दासः शूद्रस्य कारयेत्” इति यमवचने समुच्च-
योपलब्धेः “शर्मान्तं ब्राह्मणस्य स्यात्” इति शातातपी-
येन शर्मान्तता च । गोभिलः “अयुग्दान्तं स्त्रीणाम् ।
अयुन्माक्षरं दान्तं यथा यशोदा इत्यादि । “देवं गुरुं
गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् सिद्धं सिद्धाधिकारांश्च
श्रीपूर्वं समुदीरयेत्” इति राघवभट्टधृतप्रयोगसार-
दर्शनात् स्वर्गगामित्वादिना सिद्धः अविकारो येषां
नराणामित्यनेन जीवतां श्रीशब्दादित्वं नाम्नो न
मृतानां तथेति शिष्टाचारः” संस्कारत० । अत्र
महाभाष्यं यथा दशम्यां याज्ञिकाः पठन्ति । “दशप्युत्तर-
कालं पुत्रस्य जातस्य नाम् विदध्यात् घोषबदाद्यन्तरन्त-
स्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि प्रति-
ष्ठितमं भवति द्व्यक्षरं चतुरक्षसं वा नाम “कृतं कुर्य्यान्न
तद्धितमिति” । नचान्तरेण व्याकरणं कृतस्तद्धिता बा
शक्या विज्ञातुमिति” । “दशम्या उत्तर इति पञ्चमीति
योगविभागात् समासः । ततः कालशंब्देन बहुत्रोहिः
क्रियाविशेषणं चैतत् । दशदिनान्याशौचं भवतीति
दशभ्युत्तरकालमित्युक्तम् । यदपि गृह्यकाराः पठन्ति दशम्यां
पुत्रस्येति तैरपि दशम्यामिति सामीपिकमधिकरणं व्या-
ख्येयम् । घोषवन्तो ये वर्णाः शिक्षायां प्रदर्शितास्तदादि ।
अन्तरन्तस्थमिति । मध्ये यरलवा यस्य तदित्यर्थः ।
त्रिपुरुषानूकमिति । नामकरणे योऽधिकारी पिता तस्य
ये त्रयः पुरुषास्ताननूकायत्यभिधत्त इति त्रिपुरुषानू-
कम् अन्येषामपि दृश्यत इति दीर्घ” इति कैयटः ।

नामग्राह त्रि० नाम--गृह्णाति ग्रह--अण् उप० स० । १

नामग्राहके । भावे घञ् । २ नामग्रहणे पु० “देवैनसात्
पित्र्यात् नामग्राहात्” ऋ० १० । १ । १२ ।

नामग्राहम् अव्य० नाम + ग्रह--“नाम्न्यादिशिग्रहोः” पा०

णमुल् । नाम गृहीत्वेत्यर्थे “नामग्राहमरोदीत् सा
भ्रातरौ रावणान्तिके” भट्टिः “नामग्रहणविशिष्टस्य
रोदनक्रियाया व्याप्तुमिष्टत्वाद्रुदिरिह सकर्मकः” जयम० ।

नामद्वादशी स्त्री द्वयोर्दशानां समाहारः द्वादशी ६ त० ।

१ गौर्य्यादिनाम्नां २ द्वादशके तन्नाम्रा देव्युद्देश्यकब्रतभेदे
च तानि नामानि च “गौरी काली ष्टमा भद्रा दुर्गा
कान्तिः सरस्वती । मङ्गला वैष्णवी लक्ष्मीः शिवा
नारायणी क्रमात् । मार्गतृतीयापारभ्य पूर्वोक्तं लभते
फलम्” देवीपु० । पूर्वोक्तं फलं मार्गादिद्वादशमासेषु कृष्णा-
ष्टमीव्रतफलम् ।

नामधातु पु० नामपूर्वको घातुः । सुवन्तनामप्रकृतिके

प्रत्ययान्तधातुभेदे पुत्रकाम्यादौ धातौ आत्मनः पुत्रमि-
च्छतीति वाक्ये द्वितीयान्तपुत्रनाम्नः काम्यच् तत्परे
विभक्तिलोपे तदन्तस्य प्रत्ययान्तत्वात् धातुसंज्ञा ।

नामधारक त्रि० नाममात्रं धरति न तदर्थं करोति

धण्वुल् । नाममात्रधारके विहितक्रियावर्जिते विप्रादौ
“अत ऊर्द्ध्वन्तुये विप्राः केवलं नामधारकाः । परिषन्त्व
पृष्ठ ४०४०
न तेषां वै सहस्रगुणितेष्वपि । यथा काष्ठमयो हस्ती
यथा चर्ममयो मृगः । ब्राह्मणास्त्वनधीयानास्त्रयस्ते
नामधारकाः” पराशरः । “यथा काष्ठमयो हस्ती यथा
चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नाम
बिभ्रति” मनुः ।

नामधेय न० नामन् + स्वार्थे धेय । नामशब्दार्थे “नाम-

धेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्” । नामधेयं
गुरुश्चक्रे जगत्प्रथममङ्गलम्” रघुः “नामधेयंदश-
म्यान्तु द्वादश्यां वाथ कारयेत्” मनुः “वाचारम्भणं
विकारो नामधेयं मृत्तिकेत्येव सत्यम्” छा० उप०

नामन् न० म्रायते अभ्यस्यते नभ्यतेऽभिधीयतेऽर्थोऽनेन वा

म्ना--नम--वा । “नामन्सीमनित्यादिना” नि० । १
वाचकशब्दे २ संज्ञाशब्दे च । बमति आख्यातार्थं
प्रति स्वार्थविशेषणत्वेन नम--नि० । क्रियां प्रति विशेषण-
तापन्नार्थके प्रातिपदिकरूपे ३ शब्दभेदे “चत्वारि पदजा-
तानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवन्ति
तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशन्ति भावप्रधानमा-
ख्यातं सत्वप्रधानानि नामानि” निरु० १ । १
एतल्लक्षणभेदादिकं शब्दश० प्र० उक्तं यथा “निरुक्ता
प्रकृतिर्द्वेधा नामधातुप्रभेदतः । यत् प्रातिपदिकं प्रोक्तं
नन्नाम्लो नातिरुच्यते” “रूढ़ञ्च लक्षकञ्चैव योगरूढ़ञ्च
यौगिकम् । तच्चतुर्द्धा परैरूढ़यौगिकं मन्यतेऽधिकम् ।
रूढ़ं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते । नैमित्तिकी
पारिभाषिक्यौपाधिक्यपि तद्भिदा । जातिद्रव्यगुणस्प-
न्दैर्धर्भैः सङ्केतवत्तया । जातिशब्दादिभेदेन चातुर्विध्यं
परे जगुः । जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता ।
जातिमात्रे हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम् । उभया-
वृत्तिधर्मेण संज्ञा स्यात् पारिभाषिकी । औपाधिकी
त्वनुगतोपाधिना या प्रवर्त्तते । यद्वाऽऽधुनिकसङ्केतशा-
लित्वात् पारिभाषिकम् । जात्या नैमित्तिक शक्तमौ-
पाधिकमुपाधिना” । प्रकारान्तरेण तञ्च पञ्चविधं यथा
“उणाद्यन्तं कृदन्तञ्च तद्धितान्त समासजम् । शन्दा-
मुकरणञ्चैव नाम् पञ्चविधं स्मृतम्” । “सर्वाण्ये-
तानि नामानि परस्थ ब्रह्मणोऽनथ! । सर्वान्
कामानवाप्नोति समाराध्य जगद्गुरुम् । तन्मयत्वेन
गोविन्दमित्येतद्दाल्भ्य! नात्यथा । तन्मयो वाञ्छि-
तान् कामान् यदवाप्नोति मानवः” विष्णुधर्मवचनम् ।
कलौ परमेश्वरनामकीर्चनादेव श्रेयःप्राप्तिः “हरेर्नाम
हरेर्नाम हरेर्नामैव केवलम् । कलौ नास्त्येव नास्त्येव
नास्त्येव गतिरम्यथा” अधिकं कलिशब्दे १७९७ पृ०
उक्तम् । हरेरित्युपलक्षणं देवीभागवते ६ स्कन्धे ११ अ०
देव्यानाम्नः कीर्त्तनस्यापि कलौ श्रेयस्करत्वाभिधानात्
यथा “न सन्त्यधानि तावन्ति यावती शक्तिरस्ति हि ।
नाम्नि देव्याः पापदाहे तस्माद्भीतिः कुतो नृप! ।
अवशेनापि यन्नाम लीलयोच्चारितं यदि । किं किं ददाति
तज्ज्ञातुं समर्था न हरादयः । प्रायश्चित्तन्तु पापानां
श्रीदेवीनामसंस्मृतिः । तस्मात् कलिभयाद्राजन् पुण्य-
क्षेत्रे वसन्नरः । निरन्तरं पराम्बाया नामसंस्मरर्ण
चरेत्” । “उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव
यत्” रघुः । ४ उदके निघण्टुः । चैत्रमैत्रादिसंज्ञायाः
सर्वत्र शतपदचक्रानुसारेण कृतायाः जन्मनामता प्रसि-
द्धनाम तु ततोऽन्यदेव तत्र मन्त्रग्रहणादौ नाम्नो यथा
ग्रहणं तन्निरूपितं तन्त्रसारे यथा
तामग्रहणप्रकारमाह पिङ्गलामते “प्रसिद्धं यद्भवेन्नाम
किं वास्य जन्म नामयत् । यतीनां पुष्पपातेन गुरुणा यत्
कृतं भवेत् । लोकप्रसिद्धमथ वा मात्रा पित्रा च यत्
कृतम्” यामले । “सुप्तो जागर्त्ति येनासौ दूरस्थश्च प्रभाषते ।
वदत्यन्यमनस्कोऽपि तन्नाम ग्राह्यमत्र तु” । सनत्कुमारी-
ये “पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान् । श्रीवर्णञ्च
ततो विद्वान् चक्रेषु योजयेत् क्रमात्” ।

नामनामिक पु० नाम्नि नामः नमनं प्रह्वता अस्त्यस्य ठन् ।

परमेश्वरे “जितमानसिक! नामनामिक!” भा० शा० २
४० अ० विष्णुनामोक्तौ ।

नाममात्र त्रि० नाम संज्ञैव मात्रा यस्य । स्ववीर्यहीने

संज्ञाधारिमात्रे “यथा काकयवाः प्रोक्ता यथाऽरण्य
भवास्तिलाः । नाममात्रा न सिद्ध्यै हि धनहीनास्तथा
नराः” पञ्चत० ।

नाममाला स्त्री ६ त० । कोषभेदे

नाममुद्रा स्त्री प्रामाक्षरस्य मुद्रा यत्र । अङ्गुलौयकभेदे यत्र

नामाक्षराणि अङ्कितानि सन्ति तादृशे मुद्राभेदे

नामयज्ञा पु० नामसतिण यज्ञः नामप्रसिद्धये वा यज्ञः ।

दम्भकृते आत्मख्यातिलाभाय वा कृते यज्ञे यथोक्तं
“आत्ममम्भावितास्तब्धा धनमानमदान्विताः । यजन्ते नामय-
ज्ञैस्ते दम्भेनाविधिपूर्वकम्” गीता “नाममात्रेण ये
यज्ञास्ते नामयज्ञा यद्वा दीक्षितः सोमयाजीत्ये वमादि-
नाममात्रप्रसिद्धये ये यज्ञास्ते नामयज्ञास्तैः” श्रीधरः ।
पृष्ठ ४०४१

नामलिङ्ग न० नाम च लिङ्गं च ते नाम्नो वा लिङ्गम् ।

१ शब्दलिङ्गयोः २ शब्दभेदस्य लिङ्गभेदे च “नामलिङ्गानु-
शासनम्” अमरः । लिङ्गञ्च शब्दश० प्र० निरूपितं यथा
“स्त्रीलिङ्गमपि पुंलिङ्गं क्लीवलिङ्गमिति त्रिधा ।
शब्दसंस्कारसिद्ध्यर्थं भाषया नाम भिद्यते” स्त्रीलिङ्गं
पुंलिङ्गं नपुंसकलिङ्गमित्यपि त्रिधा नाम भिद्यते
तत्र स्त्रीलिङ्गत्वादिकं न स्त्रीत्वादिवाचकत्वं तटः तटी
तटमित्यादौ प्रकृत्यर्थस्य तटादेः स्त्रीत्वाद्यवगतावयोग्य-
तापत्तेः । परन्तु स्त्रीलिङ्गत्वादिना परिभाषितत्वमात्रं
परिभाषायाः प्रयोजनञ्चेह पदसंस्कारः सोऽपि तट
इत्यादौ पुंस्त्वेन सुबादिसद्भावः । तटीत्यादौ स्त्रीत्वेन
ङीबादिप्रत्ययः तटमित्यादौ क्लीवत्वेन सुबादेर्लुगादि-
रिति दुन्दुभी सुवर्ण इत्यादौ तु शब्दसंस्कारस्यैव
फलमर्षविशेषस्य लाभो न ह्ययं दुन्दुभिरिदं सुवर्णमित्या-
दितोऽक्षस्याशीतिरत्तिकापरिमितस्वर्णादेश्चावगमः । यत्र
त्र सम्पदादिशब्दे स्त्रीलिङ्गत्वादिषयुक्तो नास्ति संस्कारस्य
विशेषस्तत्राप्यभेदेन तत्साकाङ्क्षे शोभनादिपदे एवास्ति
विशेषणपदानां विशेष्यपदलिङ्गग्राहित्वस्य विना बाधकं
नियमात् । यत्तु तटादिकं द्रव्यमिव तद्वतं स्त्रीत्वादिकं
पदार्थान्तरमपि तटादिपदस्यार्थः प्रत्ययानान्तु तद्व्यञ्जक-
तामात्रमिति वैयाकरणैरुक्तं तन्न युक्तं तटादिपदेभ्य-
स्तटत्वादिनेव धर्मान्तरेण स्त्रीत्वादिना तटादेरननुभवेन
तादृशपदार्थान्तरे प्रमाणाभावात् न विप्रा वेदमुच्चरेदि-
त्यादौ च टाषादिना प्रत्ययेनैव स्वार्थस्य योन्यादिमत्त्व-
लक्षणस्त्रीत्वस्य प्रकृत्यर्थेऽनुभावनात् न प्राणि प्राप्तुया-
द्दायं न विप्रोऽध्ययनं त्यजेत्” इत्यादावपि लुप्तालुप्ताभ्यां
सुब्भ्यामेवोपस्थितं विलक्षणसंस्थानरूपं नपुंसकत्वं प्रा-
णिनि पुंस्त्रञ्च विप्रेऽनुभूयते” ।

नामशेष त्रि० नाममात्रं शेषोऽस्व । कथामात्रशेषे देहशून्ये मृते हेमच० ।

नामसंग्रह पु० नाम्नां शब्दभेदानां सग्रहः । नाम्नामर्थवत्तया

पर्यार्थशब्देन १ एकत्र कीर्त्तने ७ त० । २ तदाधारे अभिधाने च

नामाख्यातिक पु० नाम च आख्यातञ्च (तत्प्रतिपादके)

तयोर्व्याख्यानो ग्रन्थः नामाख्यात + ठञ् । नामाख्या-
तप्रतिषादकग्रन्थयोर्व्याख्याने ग्रन्थे

नामाङ्क त्रि० नाम नामाक्षरमेवाङ्को यत्र । नामाक्षरेणा-

ङ्किते “नामाङ्कवाणाङ्कितकेतुयष्टिम्” रघुः ।

नामादेशम् अव्य० नाम आदिश्य नामन् + आ + दिश--

णमुल् । नाम आदिश्येत्यर्थे ।

नामानुशासन न० अनुशिष्यते अर्थविशेषवत्तया ज्ञाप्यतेऽनेन

अनु + शास--करणे ल्युट् ६ त० । शब्दानामर्थविशेषज्ञापके
अभिधाने कोषे । तेम हि इमे शब्दा एतदर्थे वृत्तिमन्तः
इति प्रतिपाद्यते इति तस्य तथात्वम् ।

नामापराध पु० नाम्नि तद्विषये अपराधः । भगवदादिना-

मादिषु अवज्ञादिरूपे अपराधे नामापराधाश्च केचित्
पाद्मोत्तरस्व० १०३ अ० दर्शिता यथा
“सतां निन्दा नाम्नां परममपराधं वितनुते यतः ख्यातिं
यातस्तमुपहसते गर्हयति च । तथा विष्णोरिष्टं
य इह गुणनामादि सकलं धिया भिन्नं पश्येत् स खलु
हरिनामाऽहितकरः । गुरोरवज्ञा श्रुतिशास्त्रनिन्दनं
तथार्थवादो हरिनाम्नि कल्प्यते । नाम्नां बलाद्यस्य हि
पापबुद्धिर्न विद्यते तस्य शठस्य शुद्धिः । दिवौकसां गुरोः
पित्रोर्भूसराणाञ्च गर्हणम् । नामापराधं यत्तत्
स्याद्वैष्णवानां तथा नृणाम् । गोऽश्वत्यतुमसीधात्रीर्नृ-
पान्निन्दन्ति नारद! । नामापराधी स भवेन्नामगोबिन्द
वैष्णवान्” ।

नाम्ब पु० नास्ति अम्बः कर्षणादिजन्यप्राणिहिंसा यत्र

नशब्देन समासः । अकृष्टपच्ये स्वयंजाते व्रीहौ
“अथ मित्राय सत्याय नाम्बानां चरुं निर्वपति
तदेनं मित्र एव सत्यो ब्रह्मणे सुवत्यथ यन्नाम्बानां
भवति वरुण्या वा एता ओषधयो याः कृष्टे जायन्ते अथैते
मैत्रा यन्नाम्बास्तन्नाम्बानां भवति” शत० व्रा० ५ । ३३ । ८
“नाम्बा नाक अकृष्टपच्याः स्वयंजाता व्रीहयः कृष्ट-
क्षेत्रोत्पन्ना ओषधयो वरुण्याः कर्षणादिलक्षणहिंसास-
म्बन्धात्” भा० ।

नाय त्रि० नी--कर्त्तरि ण । १ नेतरि २ उपाये “नायः कोऽत्र

स येन स्यां वताहं विगतज्वरः” भट्टिः । भावे घञ् ।
३ नीतौ नयने पु० “यात यूयं यमश्रायं दिशं नायेन
दक्षिणाम्” भट्टिः ।

नायक त्रि० नी--ण्वुल् । १ प्रापके २ प्रभौ ३ श्रेष्ठे ४ प्रधाने

हारमध्यमणौ च पु० मेदि० ५ आग्रसरिके सेनापतौ त्रिका०
६ शृङ्गारालम्बने च । “स च त्रिविधः पतिरुपपतिर्वैशिक-
श्चेति । तत्र विधिवत् पाणिग्राहकः पतिः । अतुकूल
दक्षिणधृष्टशठभेदात् पतिश्चतुर्धा । सार्वकालिकपराङ्गनाप-
राङ्मुस्वत्वे सति सर्वकालमनुरक्तोऽनुकूलः । सकलना-
यिकाविषयसमसहजानुरागो दक्षिणः । भूयो निःशङ्कः
कृतदोषोऽपि भूयो निपारितोऽपि भूयः प्रणयपरायणो
पृष्ठ ४०४२
धृष्टः । कामिनीविषयकपटपटुः शठः । आचारहानि
हेतुः पतिरुपपतिः । वहुलवेश्याभोगोपरसिको
वैशिकः । त्रिविधोऽपि उत्तममध्यमाधमभेदात् पुंन-
स्त्रिबिधः । दयिताभूयःप्रकोपेऽपि उपचारपरायण
उत्तमः । प्रियायाः यः प्रकोपमनुरागं वा न प्रकटयति
चेष्टया मनोभावं गृह्णाति स मध्यमः । भयकृपाल-
ज्जाशून्यः कामक्रीड़ायामकृतकृत्याकृत्यविचारोऽधमः ।
भानी चतुरश्च शठ एवान्तर्भवति । वाक्चेष्टाव्यङ्ग्यसमा-
गमश्चतुरः । प्रोषितश्च पतिरुपपतिर्वैशिकश्च भवति ।
अनभिज्ञनायकोनायकामास एव । तेषाञ्च नर्मसचि-
वपीठमर्द्दविटचेटकविदूषकभेदाच्चतुर्धा सहायाः । कुपि-
तस्त्रीप्रसादकः पीठमर्मः । नर्मसचिवोप्ययमेव ।
कामतन्त्रकलाकोविदी विटः । सुसन्धानचतुरश्चेटकः ।
अङ्गादिवैकृत्यैर्हासकारी विदूषकः । तेषामष्ट सात्वि-
कागुणा यथा । स्वेदस्तम्भोऽथ रोमाञ्छः सरभङ्गो-
ऽथ वेपथुः । वैवर्ण्यमश्रु प्रलयावित्यष्टौ सात्विका
गुणाः । तेषां दशावस्था यथा “अभिलाषस्तथा चिन्ता
स्मृतिश्च गुणकीर्त्तनम् । उद्वेगश्च प्रलापश्च उन्मादो
व्याधिरेव च । जड़ता निधनान्येव दशावस्थाः प्रकी-
र्त्तिताः” इति रसमञ्जरी । सा० द० अन्यथाभेदा दर्शिता
यथा । “आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्” तत्र
नायकः । “त्यागी कृती कुलीनः सुश्रीको रूपयौवनो-
त्माही । दक्षोऽनुरक्तलोकस्तेजीवैदग्ध्यशीलवान् नेता ।
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त
इत्ययमुक्तः प्रथमं चतुर्भेदः । अविकत्मनः क्षमा-
वानतिगम्भीरो महासत्वः । स्थेयान् निगूढ़मानो
धीरोदात्तो दृढ़व्रतः कथितः । मायापरः प्रचण्डश्चप-
लोऽहङ्कारदर्षभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरो-
द्धतः कथितः । निश्चिन्तो मृदुरनिशं कलापरो
धीरललितः स्यात् । सामान्यगुणैर्भूयान् द्विजादिको
धीरप्रशान्तः स्यात् । एभिर्द्दक्षिणधृष्टानुकूलशठरूपिभिस्तु
षोड़शधा । एषु त्वनेकमहिलासु समरागो दक्षिणः
कथितः । कृतागा अपि निःशङ्कस्तर्ज्जितोऽपि न
लज्जितः । दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः ।
अनूकूल एकनिरतः शठोऽयमेकत्र बद्धभावो यः ।
दर्शितबहिरनुरागो विप्रियमन्यत्र गूढ़माचरति । एषाञ्च
त्रैविध्यात् सर्वेषामुत्तममध्याधमत्वेन । उक्ता नायकभे-
दाश्चत्वारिंशत्तथाऽष्टौ च” तत्र प्रभौ “तव वरद! क्वरो
तु सुप्रातमह्नामयं नायकः” माघः शक्तिसम्पन्ने श्रेष्ठे
हारमध्यमणौ च “यातव्यपार्ष्णिग्राहादिमालायामधिक
द्युतिः । एकार्थतन्तुप्रोतायां नायको नायकायते”
माघः “रामोहरिः करी भूभृद्भानुः कर्त्ता च चन्द्रमाः ।
तस्थिवान् भगवानात्मा दशैते पुंसि नायकाः” ।

नायकाधिप पु० ६ त० । नृपे शब्दरत्ना० ।

नायिका स्त्री नी--ण्वुल् कापि अत इत्त्वम् । १ प्रापिकायां

स्त्रियां २ शृङ्गाररसालम्बनभूतायां स्त्रियां च तद्भेदादि
सा० द० उक्तं यथा
“अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति ।
नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता । विनयार्जवा-
दियुक्ता गृहकर्मपरा पतिव्रता स्वीया । साऽपि कथिता
त्रिविथा मुग्धा मध्या प्रगल्भेति । प्रथमावतीर्णयौवनभ-
दनविकारा रतौ वामा । कथिता मृदुश्च माने समधिकल-
ज्जावती मुग्धा । मध्या विचित्रसुरता प्ररूढ़स्मरयौवना ।
ईषत्प्रगल्भवचना मध्यमव्रीडिता मता । स्मरान्धा नाढ़-
तारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीड़ा
प्रगल्भाऽऽक्रान्तनायका । ते धीरा चाप्यधीरा च धीरा-
धीरेति षडिविधे । प्रियं सोत्प्रासवक्रोक्त्या मध्या-
धीरा दहेद्रुषा । धीराधीरा तु रुदितैरधीरा परुषो-
क्तिभिः । प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ।
उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः । धीराधीरा
तु सोल्लुण्ठभाषितैः खेदयेदमुम् । तर्जयेत्ताड़येदन्या
प्रत्येकं ता अपि द्विधा । कनिष्ठज्येष्ठरूपत्वान्नायक
प्रणयं प्रति । मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश
कीर्त्तिताः । मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ।
परकीया द्विधा प्रोक्ता परोदा कन्यका तथा । यात्रादि-
निरताऽन्योढ़ा कुलटा गलितत्रपा । कन्या त्वजातो
पयमा सलज्जा नवयौवना । धीरा कलाप्रगल्भा स्या-
द्वेश्या सामान्यनायिका । निर्गुणानपि न द्वेष्टि न
रज्यति गुणिष्वपि । वित्तमात्रं समालोक्य सा रामं दर्श-
येद् बहिः । काममङ्गीकृतमपि परिक्षीणधनं नरम् ।
मात्रा निष्क्रामयेदेषा पुनःसन्धानकाङ्क्षया । तस्कराः
पण्ड्रकामूर्खाः सुखप्राप्तधनास्तथा । सिङ्गिनश्छन्नका-
माद्या आसां प्रायेण वल्लभाः । एषापि मदमायत्ता
क्वापि सत्यानुरागिणी । रक्तायां वा विरक्तायां रतमस्यां
सुदुर्लभम् । अवस्थाभिर्भवन्त्यष्टावेताः षोड़शभेदिताः ।
स्वाधीनभर्तृका तद्वत् खण्डिताऽथाभिसारिका । कल-
पृष्ठ ४०४३
हान्तरिता विगसब्धा प्रोषितमर्तृका । अन्या वासक-
सज्जा स्याद्विरहोत्कण्ठिता तथा । कान्तोरतिगुणाकृष्टो
म जहाति यदन्तिकम् । विचित्रविभ्रमासक्ता सा स्यात्
स्ताघीनभर्तृका । पार्श्वमेति प्रियो यस्या अन्यसम्मो-
नचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषा-
यिता । अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽमिसारिका । चाटु-
कारमपि प्राणनाथं रोषादपास्य या । पश्चात्तापमवाप्नोति
कलहान्तरिता तु सा । प्रियः कृत्वापि सङ्केतं यस्या
नायाति सन्निधिम् । विप्रलब्धा तु सा ज्ञेया नितान्तमवमा-
निता । नानाकार्य्यवशाद् यस्या दूरदेशं गतः पतिः ।
सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका । कुरुते मण्डनं
यस्याः सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्याद्वि-
दितप्रियसङ्गमा । आगन्तुं कृतचित्तोऽपि दैवान्नायाति
यत्प्रियः । तदनागमदुःखार्त्ता विरहोत्कण्ठिता तु सा ।
इति साष्टविंशतिशतमुत्तममध्यमाधमस्वरूपतः ।
चतरधिकाशीतियुतं शतत्रयं नायिकाभेदानां स्यात्” ।
३ देव्याः शक्तिभेदे “ततोऽष्ट नायिका देव्याः यत्नतः
परिपूजयेत् । उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डना-
यिकाम् । अतिचण्डां च चामुण्डां चण्डां चण्डवतीं
तथा” ब्रह्मवै० प्रकृतिख० ६० अ० । ४ कस्तूरीभेदे “चूर्णा-
कृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी च
कुलत्थिकाख्या । स्थूला ततः कियदियं किल पिण्डिका
स्यात्तस्याश्च किञ्चिदधिकापि च नायिकैषा” राजनि० ।

नार त्रि० नरस्येदम् अण् । १ नरसम्बन्धिनि २ परमात्मसम्ब-

न्धिनि च “नारं स्पृष्ट्वा तु सस्नेहं सचेलं जलमावि-
शेत्” स्मृतिः नरशब्दे उदा० दृश्यम् । ३ जले “आपो
नारा इति प्रोक्ताः आपौ वै नरसूनवः” मनुः । आर्ष-
त्वात् ङीपोऽभावः । लोके स्त्रियां ङीब नारी इत्येव ।
४ तर्णके बालके च मेदि० । नराणां समूहः अण् ।
५ नरसमूहे न० ।

नारक पु० नरक एव प्रज्ञा० अण् । १ नरके । नरको भोम्यत-

याऽस्त्यस्व अण् । २ नरकस्त्ये प्राणिनि त्रि० अमरः ।

नारकिन् त्रि० नरको भोज्यतयाऽस्त्यस्य इनि । नरकभोगिनि

“परेण विहितं कर्म स्वकर्मेति वदेच्च यः । स उच्यते
ब्रह्मघाती महानारकिनारकी” वृहद्धर्मपु० ।

नारकीट पु० नारकीव एटति इट--गतौ क । १ अश्मकीटे

नारे मनुष्यसमूहे कीट इव । २ स्वदत्ताशाहन्तरि च मेदि०

नारङ्ग न० नारं गच्छति वा० ड मुम् नारमिवाङ्गं यस्य

वा शकु० । ३ गर्जरे (गाँजर) राजनि० । २ पिप्पलीरसे
३ यमजप्राणिनि ४ विटे । न अरङ्गो यत्र । ५ फलप्रधान-
वृक्षविशेषे पु० मेदि० (नारङ्गी) ६ नागरङ्गे जम्बीरभेदे
“नारङ्गं मधुराम्लं स्यात् रोचनं वातनाशनम् । अपरं
त्वम्लमत्युष्णं दुर्जरं वातपित्तनुत्” राजवल्लभः ।
“नारङ्गकेसरमपाकृतवीजपूरं योऽश्नाति खण्डमरिचो-
द्भवचूर्णमिश्रम् । अन्नं गले विशति तस्य नरस्य जीर्णं
संगृह्यमाण इव राहुगलेन चन्द्रः” ।

नारङ्गक्षीरिणी स्त्री नारङ्गमिश्रिता क्षीरिणी । क्षीरि-

काभेदे “क्षिप्त्वा नारङ्गमज्जां वै पचेत् सर्पिषि तापिते ।
तत्र खण्डं विनिःक्षिप्य पक्वं मत्वाऽवतारयेत् । शीती
भूते विनिःक्षिप्य मात्रयार्द्धशृतं पयः । नारङ्गक्षीरिणी-
त्येषा सुगन्धिसुरभीकृता । विष्टम्भिती हरेद्वातं पित्तञ्च
गुरुपाचिका” शब्दार्थचि० धृतवाक्यम् ।

नारङ्गवर्णक न० नारङ्गस्येव वर्णोऽस्य फले कप् । गृञ्जने शब्दार्थचि० ।

नारद पु० नरस्य धर्म्यम् “नराच्चेति वक्तव्यम्” इत्यञ् नारं

ददाति दा--क । १ देवर्षिवरे मुनिभेदे तन्नामनिरूक्ति-
र्नहुधा दर्शिता यथा “नारं पागीयमित्युक्तं तत्पितृभ्यः
सदा भवान् । ददाति तेन ते नाम नारदेति भविष्यति”
इत्यागमः । नारदेन पुराकल्पाश्रितः स्तजन्मवृत्तान्तो व्यासं
प्रति भाग० १ । ५ । ६ अ० उक्तो यथा
“अहं पुराऽतीतभवेऽभवं मुने! दास्याश्च कस्याश्चन
वेदवादिनाम । निरूपितो वालक एव योनिनां शुश्रू-
षणे प्रावृषि निर्विविक्षताम् । ते मय्यपेताखिलचापले-
ऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्त्तिनि । चक्रुः कृपां
यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि”
इत्युपक्रमे तेभ्यो मुनिभ्यो विमलज्ञानस्य आत्मनो
लाभमुक्त्वा अनन्यमक्त्या परमेश्वरोपासने कृते भगवतः पार्ष-
देन जन्मान्तरे तव पारमेश्वररूपदर्शनं भविष्यतीति
आत्मानं प्रति उपदेशं वर्णयित्वाऽन्ते स्वस्य जन्मान्तरं
वर्णितं यथा “एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनः ।
कालः प्रादुरभूत् काले तडित् सौदामनी यथा । प्रयु-
ज्यमाने मयि तां श्रद्धां मागवतीं तनुम् । आरब्धक-
र्मनिर्वाणो ह्यापतत् पाञ्चमौतिकः । कल्पान्त इदषा-
दाय शयानेऽम्भस्युदन्वतः । शिशयिषोरनुप्राणं विवेशा-
न्तरहं विभोः । सहस्रयुगपर्य्यन्त उत्थायेदं सिसृक्षतः ।
मरीचिमिश्रा ऋषयः प्राणेभ्योऽहञ्च जज्ञिरे । अन्तर्क-
पृष्ठ ४०४४
हिश्च लोकांस्त्रीन् पर्थ्येम्यस्कन्दितव्रतः । अनुग्रहा-
न्महाविष्णोरविघातगतिः क्वचित् । देवदत्तामिमां वीणां
स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्च-
राम्यहम्” । कश्यपापत्यनारदवीर्येण तस्य कल्पभेदे
शुद्रागर्भजातकथा ब्रह्मवै० प्र० ख० २१ । २२ अ० यथा
“कान्यकुब्जे च देशे च द्रुमिलो गोपराजकः ।
कलावती तस्य पत्नी वन्ध्या चापि पतिव्रता । स्वामिदोषेण,
सा सन्ध्याकाले च भर्तुराज्ञया । उपस्थितं वने घोरे
नारदं काश्यपं मुनिम् । क्रोशमानञ्च श्रीकृष्णं ज्वलन्तं
ब्रह्मवर्च्चसा । तस्थौ सुवेशं कृत्वा सा ध्यानान्तञ्च मुनेः
पुरः । उवाच विनयेनैव कृत्वा च श्रीहरिं हृदि ।
गोपिकाहं द्विजश्रेष्ठ! द्रुमिलस्य च कामिनी । पुत्रार्थिनी
चागताहं त्वन्मूलं भर्त्तुराज्ञया । वीर्य्याधानं कुरु मयि
स्त्री नोपेक्ष्या ह्युपस्थिता । तेजीयसां न दोषाय वह्णेः
सर्वभुजो यथा । वृषलीवचनं श्रुत्वा चुकोप मुनिपुङ्गवः ।
वृषली तत् पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका । एतस्मिन्न-
न्तरे तेन पथा गच्छति मेनका । तस्या ऊरुस्थलं दृष्ट्वा
मुनेर्वीर्यं पपात ह । ऋतुस्नाता च वृषली कृत्वा
तद्भक्षणं मुदा । सा विप्रगेहे साध्वी च सुषाव तनयं
वरम् । तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा ।
अनावृष्ट्यावशेषे च काले बालो बभूव ह । नारं ददौ जन्मकाले
तेनायं नारदाभिधः । ददाति नारं ज्ञानञ्च बालके-
भ्यश्च बालकः । जातिस्वरो महाज्ञानी तेनायं नारदा-
भिधः । वीर्येण नारदस्यैव बभूव बालको मुने! । मुनी-
न्द्रस्य वरेणैव तेनायं नारदाभिधः । कल्पान्तरे ब्रह्म-
कण्ठाद्बभूवुर्बहवो नराः । नरान्ददो तत्कण्ठञ्च तेन
तन्नारदः स्मृतः । ततो बभूव बालश्च नारदात् कण्ठ-
देशतः । ततो ब्रह्मा नाम चक्रेनारद इति मङ्गलम्”
आदिनारदश्च व्रह्मणो ललाटाज्जातः यथोक्तं हरिवं०
२१० अ० “ललाटमध्यादसृजन्नारदं प्रियविग्रहम् ।
सनत्कुमारं मूर्घ्नश्च महायोगी पितामहः” । तस्य दक्षशा-
पकथा “नष्टेषु श्वबलाश्वेषु दक्षः क्रुद्धोऽब्रवीद्वचः ।
नारद नाशमेहीति गर्भवासं वसेति च हरिवं० ३ अ० ।
तस्याहर्निशं च भ्रमणं दक्षशाप्रात् यथा “तांश्चापि नष्टान्
विज्ञाय पुत्रान् दक्षः प्रजापतिः । क्रोधं चक्रे
महाभान! नारदं स शशाप च” स च शापः “तस्मा-
श्लोकेषु ते मूढ! न भवेद्भ्रमतः पदम्” भाग० ६ । ५ । ४१
स च भगवदवतारभेदः यथाह भाग० १ । ३ । ९ “नृतीय-
मृषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्टे
नैष्कर्म्म्यं कर्मणाम्मतम्” । तस्य स्वरूपं यथा “ज्वलिता-
ग्निप्रतीकाशो बालार्कसदृशेक्षणः । सव्यापवृत्तं विपुलं
जटामण्डलमुद्वहन् । चन्द्रांशुशुक्ले वसने वसानो रुक्मभू-
षणः । वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव ।
कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान् । दण्डी कम
ण्डलुघरः साक्षाच्छक्र इवापरः । मेत्ता जगति
गुह्यानां विग्रहाणां गुहोपमः । महर्षिर्विग्रहरुचिर्विद्वान्
गान्धर्ववेदवित् । वैरकेलिकिलो विप्रो ब्राह्मः
कलिरिवापरः । देवगन्धर्वलोकानामादिवक्ता मुनिः परः ।
गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् । स
नारदोऽथ विप्रर्षिर्ब्रह्मलोकचरोऽव्ययः” हरिवं० ५५ अ० ।
२ विश्वामित्रपुत्रभेदे “लीलाढ्यो नारदश्चैव तथा कूर्चा-
सुखः स्मृतः” भा० अनु० ४ अ० । विश्वामित्रपुत्रोक्तौ । स्वाय-
म्भवमनुसृष्टे ३ प्रजापतिभेदे “अहं प्रजाः सिसृ-
क्षुस्तु तपस्तप्वा सुदुरुश्चरम् । पतीन् प्रजानामसृजं
महर्षीनादितो दश । मरीचिमत्र्यङ्गिरसौ पुलस्त्यं
पुलहं क्रतुम् । प्रचेतसं वसिष्ठञ्च भृगुं नारदमेव च”
स्वायम्मवमनूक्तौ । कश्यपस्य मुनिपत्न्यां जाते ४ गन्धर्वभेदे
“कलिः पञ्चदशस्तेषां नारदश्चैव षोड़शः । इत्येते
देवगन्धर्वा मौनेयाः परिकीर्तिताः” भा० आ० ६५ अ० ।

नारदपञ्चरात्र न० नारदकृते पञ्चरात्रे तन्त्रभेदे

तत्र प्रतिपाद्यविषयाश्च दिङ्मात्रमत्रोच्यन्ते । अभिगमन-
मुपादानमिज्या स्वाध्यायो योग इति पञ्चविधमुपासनं
तत्राभिगमनं नाम देवतास्थानमार्गस्य संमार्जनोपलेप-
नादि । उपादानं नाम गन्धपुष्पादिपूजासाधनसम्पाद-
नम् । इज्या नाम देवता पूजनम् । स्वाध्यायो नाम
अर्थानुसन्धानपूर्वको मन्त्रजपो वैष्णवसूक्तस्तोत्रपाठो
त्रामसंकीर्त्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च । योमो
नामदेवतानुसन्धानम् । अन्यत् तत्र दृश्यम् ।

नारदशिक्षा स्त्री नारदकृते वर्णोच्चारणशिक्षाभेदे

नारदीय न० नारदस्येदम् “वृद्धाछः” पा० वेदव्यासकृते नारदं

प्रति सनकाद्युपदेशात्मके महापुराणभेदे तत्प्रतिपाद्य-
विषयाश्च वृहन्नारदीये ९६ अ० उक्ता यथा
श्रीब्रह्मोवाच । “शृणु विप्र! प्रवक्ष्यामि पुराणं
नारदीयकम् । पञ्चविंशतिसाहस्रं वृहत् चित्रकथाश्रयम् ।
सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् । नानाधर्मकथाः
पुण्याः प्रवृत्ते समुदाहृताः । प्रागभागे प्रथमे पादे सन-
पृष्ठ ४०४५
केन महात्मना । द्वितीये मोक्षधर्माख्ये मोक्षोपायनि-
रूपणम् । वेदाङ्गानाञ्च कथनं शुकोत्पत्तिश्च विस्तरात् ।
सनन्दनेन गदिता नारदाय महात्मने । महातन्त्रे
समुद्दिष्टं पशुपाशविमोक्षणम् । मन्त्राणां शोधनं दीक्षा
मन्त्रोद्धारश्च पूजनम् । प्रयोगाः कवचं नामसहस्रं
स्तोत्रमेव च । गणेशसूर्य्यविष्णूनां शिवशक्त्योरनु-
क्रमात् । सनत्कुमारमुनिना नारदाय तृतीयके ।
पुराणलक्षणञ्चैव प्रमाणं दानमेव च । पृथक् पृथक्
समुद्दिष्टं दानकालपुरःसरम् । चैत्रादिसर्वमामेषु
तिथीनाञ्च पृथक् कृथक् । प्रोक्तं प्रतिपदादीनां व्रतं
सर्वाघनाशनम् । सनातनेन सुनिना नारदाय चतुर्थके ।
पूर्वभागोऽयमुदितो वृहदाख्यानसंज्ञितः । अस्योत्तरे
विभागे तु प्रश्र एकादशीव्रते । वशिष्ठेनाथ संवादो
मान्धातुः परिकीर्त्तितः । रुक्माङ्गदकथा पुण्या मोहि-
न्युत्पत्तिकर्म च । वसुशापश्च मोहिन्यै पश्चादुद्धरण
क्रिया । गङ्गाकथा पुण्यतमा गयायात्रानुकीर्त्तनम् ।
काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् । यात्राविधानं
क्षेत्रस्य वह्वाख्यानसमन्वितम् । प्रयागस्याहि माहात्म्यं
कुरुक्षेत्रस्य तत्परम् । हरिद्वारस्य चाख्यानं कामोदा-
ख्यानकं तथा । वदरीतीर्थमाहात्म्यं कामाख्यायास्तथैव
च । प्रभासस्य च माहात्म्यं पुराणाख्यानकं ततः ।
गौतमाख्यानकं पश्चाद् वेदपादतपस्ततः । गोकर्णक्षेत्र-
माहात्म्यं लक्षणाख्यानकं तधा । सेतुमाहात्म्यकथनं
नर्मदातीर्थवर्णनम् । अवन्त्याश्चैव माहात्म्यं मथुराया-
स्ततःपरम् । वृन्दावनस्य महिमा वसोर्व्रह्मान्तिके
गतिः । मोहिनीचरितं पश्चादेवं वै नारदीयकम् ।
यः शृणोति नरो भक्तप्रा श्रावयेद्वा समाहितः । स
याति ब्रह्मणो धाम नात्र कार्य्या विचारणा । यस्त्वे-
तदिह पूर्णायां धेनूनां सप्तकान्वितम् । प्रदद्याद्द्वि-
जवर्य्याय स लभेन्मोक्षमेव च । यश्चानुक्रमणीमेतां
नारदीयस्य वर्णयेत् । शृणुयाद्वैकचितेन सोऽपि स्वर्ग-
गतिं लभेत्” ।

नारसिंह न० नरसिंहमधिकृत्य कृतो ग्रन्थः अण् । नरसिंहचरिताख्याने उपपुराणभेदे

नारा स्त्री नरस्येयमण् बा० ङीबोऽभावः । जले शब्दर० ।

“आपो नारा इति प्रोक्ता आपो वै नरसूनवः” मनुः ।

नाराच पु० नरान् आचामति आ + चम--ड स्वार्थे अण्,

नारं नरसमूहमाचामति आ + चम--ड वा । सर्वलौहमये
वाणे अमरः । “तत्र नाराचदुर्दिनम्” रघुः नालीकशब्दे
दृश्यम्” कुपित मदनमुक्तोत्तप्तनाराचलीलाम्” माघः “इह
गनरचतुष्कसृष्टन्तु नाराचमाचक्षते” उक्ते छन्दोभेदे न०

नाराचिका स्त्री नाराचस्तदाकारोऽस्त्यस्याः ठन् । नारा-

चाकृतियुक्ते स्वर्णकारादीनां तोलनार्थे यन्त्रभेदे
(निकति) शब्दर० अस्त्यर्थे अण् ङीप् । नाराची-
त्यपि तत्रार्थे । स्वल्पार्थे ङीपि तु स्वल्पे नाराचे स्त्री ।

नारायण पु० नानाविधा निरुक्तिः अनुपदं वक्ष्यते

तदनुसारेण व्युत्पत्तिः । १ विष्णौ परमात्मनि “जह्नुर्नारा-
यणो नरः” विष्णु स० । भाष्ये अस्य व्युत्पत्तिर्दर्शिता यथा
“नर आत्मा ततो जातान्याकाशादीनि नाराणि तानि
कार्य्याणि अयते कारणात्मना व्याप्नुते नारायणः “यच्च
किञ्चिज्जगत् सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्वहिश्च
तत्सर्वं व्याप्य नारायणः स्थितः” इति मन्त्रवर्णात् “नरा-
ज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः । तान्ये-
वायनं यस्य तेन नारायणः स्मृतः” इति महामारते ।
अयनत्वात् प्रलय इति वा “यत् प्रयन्त्यभि संविशन्तीति”
श्रुतेः “आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः ॠतः” मनुः । ब्रह्मवै०
ज० ख० १०९ अ० अन्यथा निरुक्तिर्दर्शिता यथा
“सारूयमुक्तिवचनो नारेति च विदुर्बुधाः । यो देवो-
ह्ययनं तस्य स च नारायणः स्मृतः । नाराश्च कृतपा-
पाश्चाप्ययनं गमनं स्मृतम् । यतो हि गमनं तेषां
सोऽयं नारायणः स्मृतः । नारञ्च मोक्षणं पुण्यमयनं
ज्ञानमीप्सितम् । तयोर्ज्ञानं भवेद् यस्मात् सोऽयं नारा-
यणः स्मृतः” । “नारायणेति शब्दोऽस्ति वागस्ति
वशवर्त्तिनी । तथापि नरके मूढाः पतन्मीह किमद्भुतम्” ।
महाभारतम् । नरस्यापत्यम् नडा० फक् । २ नरस्यापत्ये पु०
स्त्री० ३ अजामिलपुत्रभेदे “कान्यकुब्जे द्विजः कश्चिद्दासीपति-
रजामिलः । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ।
तस्य प्रवयसः पुत्रादश तेषान्तु योऽवरः । वालो नारा-
यणी नाम्ना पित्रोश्च दयितो भृशम् । दूरे क्रीड़नका-
सक्तं पुत्रं नारायणाह्वयम् । ग्लपितेन स्वरेणोच्चै
राजुहावाकुलेन्द्रियः” । “निशम्य म्रियमाणस्य मुखतो
हरिकीर्त्तनम् । मर्तुर्नाम महाराज! पार्श्वदाः
सहसाऽपतन् । विकर्षतोन्तर्हृदयाद्दासीपतिमजामिलम्” भाग०
६ । १ अ० । नारायणस्येदम् अण् । ४ नारायणसम्बन्धि सैन्य-
भेदे “मत्संहननतुल्यानां गोपानामर्वुदं महत् । नारा-
यणा इति ख्याताः सर्वसंग्रामयोधिनः” भा० उ० ७ अ०
पृष्ठ ४०४६
५ धमैपुत्रर्षिभेदे नरशब्दे दृश्यम् । सुखबोधोक्ते ६
तैलभेदे न० तच्च त्रिविधं स्वल्पं वृहन्महच्चेतिभेदात् । तेषां
पाकद्रव्यादि क्रमेण तत्रोक्तं तत्र
  • स्वल्पस्य “विल्वाग्निमन्वश्योनाकपाटलापारिभद्रकाः ।
प्रसारण्याश्वगन्धा च वृहती कण्टकारिका । बला
चातिबला चैव श्वदंष्ट्रा सपुनर्णवा । एषां दश पलान्
भागान् चतुर्द्रोणेऽम्भसः पचेत् । पादशेषं परिस्राव्य
तैलपात्रे प्रदापयेत् । शतपुष्पा देवदारु मांसी शैलेयकं
वचा । चन्दनं तगरं कुष्ठमेलापर्णीचतुष्टयम् ।
रास्ना तुरगगन्धा च सैन्धवं सपुनर्णवम् । एषां द्विप-
लिकान् भागान् पेषयित्वा विनिःक्षिपेत् । शतावरीर-
सञ्चैव तैलतुल्यं प्रदापयेत् । आजं वा यदि वा नव्यं
क्षीरं दत्त्वा चतुर्गुणम् । पाने वस्तौ तथाभ्यङ्गे मोज्ये
चैव प्रशस्यते । अश्वो वा वातसम्भग्नो गजो वा यदि वा
नरः । पङ्गुकः पीठसर्पी च तैलेनानेन सिध्यति ।
अधोभागे च ये वाताः शिरोमध्यगताश्च ये । दन्तशूले
हनुस्तम्भे मन्यास्तम्भे गलग्रहे । बल्यं शुष्यति चैकाङ्गं
नतिर्यस्य च विहला । क्षीणेन्द्रिया नष्टशुक्रा ज्वर-
क्षीणाश्च ये नराः । बधिराः शल्लजिह्वाश्च मन्दमेधस
एव च । अल्पप्रजा च या नारी या च गर्भं न
विन्दति । वातार्त्तौ वृषणौ येष्ममन्त्रवृद्धिश्च दारुणा ।
एतत् तैलवरं तेषां स्वल्पं नारायणं स्मृतमिति”
  • दृहतः “शतावरी चांशुमती पृश्निपर्णी शठी बला ।
एरण्डस्य च मूलानि वृहत्याः पूतिकस्य च ।
गवेधुकस्य मूलानि तथा सहचरस्य च । एषां
दशपलान् भागान् जलद्रोणे विपाचयेत् । पादशेषं रसे पूते
तत्र तैलं समावपेत् । पुनर्णवाबचादारुशताह्वाचन्दना-
मुरु । शैलेयं तगरं कुष्ठमेलाभांसीस्थिराबला । अश्वाह्वा-
सैन्धवं रास्नापलार्द्धानि च पेषयेत् । मव्याश्रपयसः प्रस्थौ
द्वौ द्वावत्र प्रदापयेत् । शतावरीरसप्रस्थं तैलप्रस्थं विपा-
चयेत् । अस्य तैलस्य सिद्धस्य शृणु वीर्य्यमतः परम् ।
अश्वानां वातभग्नानां कुञ्जराणां तथा नृणाम् । तैलमे-
तत् प्रयोक्तव्यं सर्ववातनिवारणम् । आयुष्मांश्च नरः
पीत्वा निश्चयेन दृढो भवेत् । गर्भमश्वतरी विन्देत्
किम्पुनर्मानुषी तथा । हृत्स्यूलं पार्श्वशूलञ्च तथैवार्द्धा-
वभेदकम् । अपचिं गण्डमालाञ्च वातरक्तं हनुग्रहम् ।
कामलां पाण्डुरोगञ्च अश्मरीञ्चापि नाशयेत् । तैलमेतद्
भगवता विष्णुना परिकीर्तितम् । नारायणमिति
ख्यातं वातान्तकरणं शुभमिति” । वृहन्नारायणतैलम् ।
  • महतः “विल्वाश्वगन्धा वृहती श्वदंष्ट्रा श्योनाकवाट्यालकपारिभ-
द्रम् । क्षुद्रा कठिल्लातिबलाग्निमन्थं मूलानि चैषां सरला-
युतानाम् । मूलं विदद्यादथ पाटलीशं प्रत्येकमेषां प्रवदन्ति
तज्ज्ञाः । सपादप्रस्थं विधिनोद्धृतञ्च द्रोणैरपामष्टभि-
रेव पक्त्वा । पादावशेषेण रसेन तेन तैलाढकाभ्यां सममेव-
दुग्धम् । छानस्य मांसद्रवमेव तुल्यमेकत्र सम्यक्
विपचेत् सुबुद्धिः । दद्याद्रसञ्चैव शतावरीणां तैलेन तुल्यं
पुनरेव तत्र । रास्नाश्वगन्धाद्रुमदारुकाष्ठं पर्णी चतुष्का
गुरुकेसराणि । सिन्धूत्थमांसीरजनीद्वयञ्च शैलेयकं
चन्दनपुष्कराणि । एला सयष्टी तगराव्दपत्रं भृङ्गाष्ट-
वर्गास्तु वचापलाशम् । स्थौणेयवृश्चीरकचोरकाख्यमेभिः
समस्तैर्द्विपलप्रमाणैः । कर्पूरकाश्मीरमृगाण्डजानां
दद्यात् सुनन्धाय वदन्ति केचित् । प्रस्वेददौर्गन्ध्यनिवा-
रणार्थं चूर्णीकृतानाम् द्विपलप्रमाणम् । आलोड्य सम्य-
ग्विधिवद्विपक्वं नारायणं नाम महच्च तैलम् । सर्वैः
प्रकारैर्विधिवत् प्रयोज्यमश्वस्य पुंसां पवनार्दितानाम् ।
ये पङ्गवः पीठविसर्पर्णाश्च एकाङ्गहीनार्द्दितवेपमानाः ।
वाधिर्यशुक्रक्षयपीड़िताश्च मन्याहनुस्तम्भशिरोगदार्त्ताः ।
मुक्ता नरास्ते बलवीर्य्ययुक्ताः संसेव्य तैलं सहसा भवन्ति ।
वन्ध्या च नारी लभते च पुत्रं वीरोपमं सर्वगुणोपपन्नम् ।
शाखाश्रिते कोष्ठगते च वाते वृद्धौ विधेयं पवनार्दिता-
नाम् । जिह्वानिले दन्तगते च शूले औन्मादकौब्जज्वर
कर्षितानाम् । प्राप्नोति लक्ष्मीं प्रमदाप्रियत्त्वं जीवेच्चिरं
चापि भवेद्युवेव । देवासुरे युद्धवरे समीक्ष्य स्नाव्यस्थि
मम्नानसुरैः सुरांश्च । नारायणेनापि सुवृंहणार्थं
स्वनामतैलं विहितन्तु तेषाम्” ।

नारायणक्षेत्र न० ६ त० । नारायणस्वामिके गङ्गातट-

क्षेत्रभेदे “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र
नारायणः स्वामी नान्यः स्वामी कथञ्चन” ब्रह्मपु० । अत्र
च वर्ज्यमुक्तं वृहद्धर्म पु० ४५ अ० ।
“अत्र किञ्चिन्न दद्याच्च साक्षात्पात्राय पुण्यवान् । अत्र
प्रतिग्रहे राजन्! विक्रीता जाह्नवो भवेत् । विक्रीता-
याञ्च जाह्नव्यां विक्रीतः स्याज्जनार्द्दनः । जनार्दने च
विक्रीते विक्रीतं भुवनत्रयम् । कोऽपि न त्राणकर्त्तास्य
निःस्वम्बन्धप्रसङ्गतः” । तत्र कर्त्तव्यानि यथा “दीक्षाञ्च
देवपूजाद्ध जपं गङ्गातटे चरेत् । शुष्कवासः पिधायात्र
सावित्रीजपमाचरेत् । श्राद्धञ्च तर्पणञ्चैव परोपकारकर्म
पृष्ठ ४०४७
च । परोद्देशञ्च मनसा त्यक्तद्रव्यस्य दापनम् । स्तवपाठञ्च
मौनञ्च नीचालापविवर्ज्जनम् । केवलं वारिपानञ्च
कर्त्तव्यं ब्रह्मभावतः । एतानि किल कर्माणि क्षेत्रे
नारायणे चरेत्” ।

नारायणतीर्थ न० तीर्थभेदे शिवपु० ।

नारायणप्रिय पु० ६ त० । १ शिवे २ पीतचन्दने नैघण्टुप्रका० ।

नारायणबलि पु० नारायणमुद्दिश्य देयो बलिः । दुर्मरण-

मृतानामौर्द्धदेहिकक्रियासम्प्रदानतायोग्यत्वार्थं नारा-
यणादिपञ्चदेवतोद्देशेन देये बलिभेदे तस्य निमि-
त्तञ्च आत्मधातिन्शब्दे ६६० पृ० उक्तं तद्विधानं निर्णय
सिन्धावुक्तं यथा
“नारायणवलिस्तु हेमाद्र्याद्यनुसारेणोच्यते तत्रादौ
क्रियानिबन्धे गारुड़े तर्पणमुक्तम् “कार्य्यं पुरुषसूक्तेन
मन्त्रैर्वा वैष्णवैरपि । दक्षिणाभिमुखो भूत्वा प्रेतं विष्णु-
मिति स्मरन् । अनादिनिधनो देवः शङ्खचक्रगदाधरः ।
अक्षय्यः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेति” । शुक्लैका-
दश्यां देशकालौ संकीर्त्यामुकगोत्रस्यामुकस्य दुर्मरणा-
त्मघातजदोषनाशार्थम् और्ध्वदेहिकसम्प्रदानत्वयोग्यता-
सिध्यर्थं नारायणवलिं करिष्ये इति सङ्कल्प्य ब्रह्माणं
विष्णुं शिवं यमं प्रेतञ्च पञ्चकुम्भेषु स्थापयेत् “विष्णुः
स्वर्णमयः कार्यो रुद्रस्ताम्रमयस्तथा । ब्रह्मा रौप्यमयस्तत्र
यमो लोहमयो भवेत् । प्रेतोदर्भमयः कार्य्य इति
देवप्रकल्पनेति” गारुड़ोक्तामु सर्वासु हैमीषु बा प्रतिमासु
षोडशोपचारैः पुरुषसूक्तेनाभ्यर्च्याग्निं प्रतिष्ठाप्य चरुं
पुरुषसूक्तेन प्रत्यृचं नारायणायेदमिति हुत्वा देवाना-
मग्रे दक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नामगो-
त्राभ्यां मधुघृततिलयुतान् दश पिण्डान् यज्ञोपवी-
त्येवामुकगोत्रामुकशर्मन्! प्रेत । विष्णुरूपाय ते पिण्ड
उपतिष्ठताभिति दत्त्वा पुरुषसूक्तेनाभिमन्त्र्य तेनैव
शङ्खोदकेनाभिषिच्याभ्यर्च्यामुकशर्माणममुकगोत्रं विष्णु-
रूपं प्रेतं तर्पयामीति पुरुषसूक्तेन प्रत्यृचं तर्पयित्वा
एवमामान्नं ब्रह्मादिपञ्चभ्यो दद्यात् मन्त्रस्तु “ब्रह्मविष्णु-
महाद्वेवा यमश्चैव सकिङ्करः । वलिं गृहीत्वा कुर्वन्तु
प्रेतस्य च शुभां गतिम्” । मिताक्षरायान्तु होमवल्यादि
नोक्तम् । ततः प्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानि
च निवेद्य पिण्डानभ्यर्च्य नद्यां क्षित्वा रात्रौ नव सप्त पञ्च
वा विप्रान्तिमन्त्र्योपोषितो जागरं कृत्वा श्वोभूते पुनर्विष्णुं
ब्रह्माणं रुद्रं यमं संपूज्यैकोद्दिष्टविधिना श्राद्धपञ्चकं
करिष्ये इत्युक्त्वा विष्णुयमब्रह्मरुद्रप्रेतान् स्मरन्
विप्रानुपवेश्य प्रेतस्थाने चैकं विष्णुं स्मरन् पाद्यावा-
हनार्घ्ययुतं तृप्तिप्रश्रान्तं कृत्वोल्लेखनादि कृत्वान्नशेषेण
विष्णवे ब्रह्मणे शिबाय यमाय सपरिवाराय चतुरः
पिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णुनाम्ना पञ्चमं
दत्त्वाभ्यर्च्याचान्तेभ्यो दक्षिणां दत्त्वैकं प्रेतं स्मृत्वा विशे-
षतः सन्तोष्य विप्रैः प्रेतायेदं तिलोदकमुपतिष्ठतामिति
सतिलमुदकं दापयित्वा भुञ्जीतेति । अत्र विशेषान्तरं
च अनन्तभट्टकृतान्त्येष्टिपद्धतौ ज्ञेयम्” ।

नारायणसरस् न० ६ त० । तीर्थभेदे । “तेऽपि (शवलाश्वाः)

पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः । नारायणसरो
जग्मुर्यत्र सिद्धाः स्वपूर्वजाः” भाग० ६ । ५ । २३

नारायणाश्रम न० ६ त० । तीर्थभेदे “वाराणसी मधुपुरी

पम्पा विन्दुसरस्तथा । नारायणाश्रमो नन्दा सीता-
रामाश्रमादयः” भाग० ७ । १४ । २६

नारायणी स्त्री नारायणस्येयम् अण् ङीप् । नारायणस्य

१ शक्तौ २ लक्ष्म्यां ३ दुर्गायाञ्च तन्निरुक्तिः “यशसा तेजसा
रूपैर्नारायणसमा गुणैः । शक्तिर्नारायणस्येयं तेन
नारायणी स्मृता” ब्रह्मवै० प्र० ख० ४५ अ० । “नारायणा-
र्द्धाङ्गमूता तेन तुल्या च तेजसा । तथा तस्य शरीरस्था
तेन नारायणी स्मृता” जन्मख० २७ अ० । नारस्य
जीवसंघस्य जलस्य वा अयनी स्थानभूता । “जलायना
नराधारा समुद्रशयनाऽपि वा । नारायणी समाख्याता-
नरनारीप्रवर्त्तिका । वसत्यदृष्टा सर्वेषु भूतेष्वन्तर्हिता-
यतः । देव्या व्याप्तमिदं सर्वं जगत् स्थाबरजङ्गमम्”
देवीपु० । ४ शतावर्य्यां हेमच० । ५ मुद्गलमुनिपत्न्यां च ।
“सर्वस्यार्त्तिहरे देवि! नारायणि! नमोऽस्तुते” देवीमा०

नारायणीय त्रि० नारायणस्येदम् “वृद्धाच्छः” पा० छ ।

१ नारायणसम्बन्धिनि २ तदुपाख्याने । तच्चोपाख्यानं
नारदनारायणर्षिसंवादरूपं भा० शा० ३२६ अ० अध्याया-
वधि “नारदस्य च संवादमृषेर्नारायणस्य च” इत्युपक्रमे
“नारायणीयमाख्यानमेतत्ते कथितं तव” इत्यन्तेन ३४८
अध्यायान्तेन दर्शितम् । ३ तत्प्रतिपादकोपनिषद्भेदे च
उपनिषच्छब्दे दृश्यम् ।

नारायणोपनिषद् स्त्री ६ त० । उपनिषद्भेदे उपनिषच्छब्दे १२२३ पृ० दृश्यम् ।

पृष्ठ ४०४८

नाराशंस पु० नरैरांशस्यते आ + शन्स--कर्मणि घञ्

नराशंसाः पितरः तेषामयम् अण् । नाराशंसानां
पितॄणां सोमपानसाधने १ चमसे “ते नाराशंसा
आवैश्वदेवात्” कात्या० श्रौ० ९ । १२ । ८ “ते चमसा नारा-
शंससंज्ञाभवन्ति” कर्कः “आप्यायितांश्चमसान् सादयन्ति
ते नाराशंसा भवन्ति” आश्व० श्रौ० ५ । ६ । ३० । नारा-
शंसा भवन्ति इत्यर्थः अन्वर्थसंज्ञेयं नाराशंसा नाम त्रय!
पितृगणा ऊमाः और्वाः काव्याश्चेति तेषामनुसवनं
यथासङ्ख्येनाप्यायितानां चमसानां देवता भवन्तीति
नाराशंसाश्चमसा भवन्ति” नारायण० । २ तद्देवतासु पितृषु
“अथ यदि नाराशंसेषु सन्नः किञ्चिदापद्यते पितृभ्यः
नाराशंसेभ्यः इति जुहुयात् पितरोहि तर्हि नारा-
शंसाः” शत० ब्रा० १२ । ६ । ३३ । ३ पित्र्यचमसस्थसोमे च “मनो
न्वा हुवामहे नाराशंसेन सोमेन” ऋ० १० । ५७ । ३
“नाराशंसेन चमसगतेन सोमेन । नरैः शस्यन्ते इति
नराशंसाः पितरः तेषां चमसानां कम्पनमेव होमः ।
तथाविधेन सोमेन” भा० । ४ मन्त्रभेदे “येन नराः प्रश-
स्यन्ते स नारांशसोमन्त्रः” निरु० ९ । ९ स च रुद्रदै-
वत्यः यथाह “वाकोवाक्यं पुराणञ्च नाराशंसांश्च
गाथिकाः” याज्ञ० व्याख्याने “नाराशंसान् रुद्रदैवत्या-
मन्त्रान्” मिता० ।

नारिकेल पु० नल--इण् नालिः केन वायुना जलेन वा

इलति चलति इल--क कर्म० रलयोरैक्यम् । स्वनाम-
ख्यातेऽवृक्षे अमरः । नालिकेरोऽपि तत्रार्थे शब्दरत्ना० ।
“नारिकेलफलं शीतं दुर्जरं वस्तिशोधनम् । विष्टम्भि
वृंहणं बल्यं वातपित्तास्रदाहनुत् । विशेषतः कोमल
नारिकेलं निहन्ति पित्तज्वरमूत्रदोषान् । तदेव जीर्णं गुरु-
पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः” नवस्य
जलगुणाः । “तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलंलघु ।
पिपासा पित्तजित् स्वादु वस्तिशुद्धिकरं परम्” । तस्य
मस्तिष्कगुणाः “नारिकेलस्य तालस्य खार्जूरस्य शिरांसि
तु । कषायस्निग्धमधुरवृंहणानि गुरूणि च” भावप्र०
“वालस्य नारिकेलस्य जलं प्रायो विरेचनम्” इति
राजवल्लभः । कांस्यपात्रे तत् जलं मद्यतुल्यं यथाह
“नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यञ्च
ताम्रपात्रस्थं मद्यतुल्यं घृतं विना” इति कर्मलोचनम् ।
तस्येदमण् । २ तदीये त्रि० “नारिकेलासवं तत्र शात्रवं व
यशः पपुः” रघुः । अष्टम्यां तद्भक्षणनिषेधः “नारिकेले च
मूर्खता” ति० त० तिथिभेदेऽभक्ष्योक्तौ “कोजागररात्रौ
तदुदकपानं कार्यं यथाह “नारिकेलोदकं पीत्वा कोजा-
बर्त्तिमहीतले” ति० त० कोजागरशब्दे दृश्यम् ।

नारिकेलक्षीरी स्त्री क्षीरिकाभेदे “नारिकेलं

तनूकृत्य च्छिन्नं पयसि गोः क्षिपेत् । सितागव्याज्यसंयुक्तं
तत् पचेन्मृदुनाग्निना । नारिकेलोद्भवा क्षीरी स्निग्धा
शीतातिपुष्टिदा । गुर्वी सुमधुरा वृष्या रक्तपित्तानिला-
पहा” भावप्र० ।

नारी स्त्री नरजातिः स्त्री नृ + नर + वा जातौ ङीष् नि० ।

१ नरजातिस्त्रियां तद्भेदा रतिमञ्जर्य्यामुक्ता यथा “पद्मिनी
चित्रिणी चैव शङ्खिनी हस्तिनी तथा । चतस्रो जातयो
नार्य्या रतौ ज्ञेया विशेषतः” अन्यथाऽपि त्रिधा “योषि-
तस्त्रिविधा ब्रह्मन् गृहिणां मूढ़चेतसाम् । साध्वी भोग्या
च कुलटा ताः सर्वाः स्वार्थतत्पराः । परलोकभयात्
साध्वी तथेह यशसेऽर्थतः । कामस्नेहाच्च कुरुते भर्त्तुः
सेवाञ्च सन्ततम् । भोग्या भोगार्थिनी शश्वत्
कामस्नेहेऽथ केवलम् । कुरुते पतिसेवाञ्च न च भोगा
दृते क्षणम् । वस्त्रालङ्कारसम्भोगं सुस्निग्धाहारमुत्त
मम् । यावत् प्राप्नोति सा भोग्या तावच्च वशगा प्रिया ।
कुलाङ्गारसमा नारी कुलटा कुलनाशिनी । कपटात्
कुरुते सेवां स्वामिनो न च भक्तितः । सदा पुंयोगमा
शंसुर्मनसा मदनातुरा । आहारादधिकं जारं प्रार्थयन्ती
नवं नवम् । जारार्थे स्वपतिं तात! हन्तुमिच्छति
पुंश्चली । तस्यां यो विश्वमेन्मूढ़ो जीवनं तस्य निष्फलम् ।
कथिता योषितः सर्वा उत्तमाधममध्यमाः । स्वात्मारामा
विजानन्ति मनसा ता न पण्डिताः” ब्रह्मवै० ब्रह्म० ख०
२३ अ० । गुरुत्रयपादके छन्दोभेदे “मो नारी” वृ० र०

नारीकवच पु० सूर्यवंश्ये अश्मकस्य पुत्रे मूलकापर-

पर्य्याये नृपभेदे “अश्मकान्मूलको जज्ञे यः स्त्रीभिः
परिरक्षितः । नारीकवच इत्युक्तो निक्षत्रे मूलकोऽ-
भवत्” भाग० ९ । ९ । ३२ “स्त्रीभिः संवेष्ट्य परशुरामतः
परिरक्षितः । अतो नारीकवच इत्युक्तः निःक्षत्रे सति
क्षत्रवंशस्य मूलमभवत् अतो मूलक इति चोक्तः”
श्रीधरः ।

नारीकेल पु० नारिकेल + पृषो० । नारिकेलशब्दार्थे शब्दरत्ना

गौरा० ङीष् । नारीकेलीत्यप्यत्र स्त्री शब्दरत्ना० ।

नारीच न० नाडीच + पृषो० । (नालिता) शाकभेदे राजवल्ल

नारीतरङ्गक पु० नारीं तरङ्गयति तरङ्ग + कृतौ

णिण्वुल् । नाडीचित्तचञ्चलकारके जारे षिड्गे शब्दमा०
पृष्ठ ४०४९

नारीतीर्थ न० तीर्थभेदे भा० आ० २२६ । २७ अ० तदाविर्भ

वकथा दृश्या “त्रीणि पुण्यानि तीर्थानि ततः प्रभृति
चैव ह । नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति
सर्वतः । पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्”
यत्र घर्गाप्रमृतिपञ्चाप्सरसः विप्रशापेन ग्राहतां
प्राप्ता अर्जुनेन मोचिताः अतस्तत्तीर्थनारीतीर्थ-
त्वेन ख्यातम् ।

नारीदूषण न० ३ त० । “पानं दुर्जनसंसर्गः पत्या च

विरहोऽटनम् । स्वप्नोऽन्यगृहवासश्च नारीणां दूषणानि
षट्” मनूक्ते स्त्रीणां दोषभेदे । पानं सुरापानम् ।

नारीमुख पु० नाडी मुखं प्रधानं यत्र । वृ० मं० १४ अ० कूर्म-

विभागे नैरृत्यामुक्ते देशभेदे “वडवामुखारवाम्बष्ठ
कपिलनारीमुखानर्त्ताः” ।

नारीष्ट त्रि० ६ त० । १ नारीप्रिये २ मल्लिकायां स्त्री राजनि० ।

नारीष्ठ त्रि० नार्य्यां तदानुकूल्ये तिष्ठति स्था--क षत्वम् ।

गन्धर्वभेदे “गन्धर्वाभ्यां नारीष्ठाभ्यां महाहाहाहूहूभ्यां
स्वाहा” सां० श्रौ० ४ । १० । ७

नारेय पु० सत्राजित्पुत्रभङ्गकारस्य पुत्रभेदे “सभाक्षो भङ्ग-

कारात्तु नारेयश्च नरोत्तमौ । जज्ञाते गुणसस्पन्नौ”
हरिवं० ३९ अ० ।

नार्य्य पु० नृ--ण्यत् नरहिते नर्य्यं तस्येदं अण् वा ।

नरहितसम्बन्धिनि यज्ञे निघण्टुः “नार्य्यस्य दक्षिणा”
ऋ० ८ । ४ । २९ ।

नार्य्यङ्ग पु० नार्य्यं नरहितसम्बन्धिनं गच्छति गम--ड मुम् च । नारङ्गे जम्बीरभेदे हेमच० ।

नार्य्यतिक्त पु० नित्यकर्म० । किराततिक्ते नैघण्टुप्रकाशिका

तस्य नरहितत्वात् तिक्तत्वाच्च तथात्वम् ।

नाल स्त्री न० नल--बन्धे ज्वला० ण । १ काण्डे २ पद्मादिदण्डे

हेमच० “नालामृणालाग्रभुजो भजामः” नैष० “कश्चित्
कराभ्यामुपगूढनालम्” रघुः “तयोरुपर्य्यायतनाल-
दण्डः” कुमा० । नल--घञ् । ३ जलनिर्गमे जलादेः प्रवाहे
पु० “यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः”
मार्कण्डेयपु० ।

नालम्बी स्त्री शिवस्य वीणायाम् हेमच० ।

नालवंश पु० नालं वंश इव । नले तृणभेदे राजनि० ।

नालि(ली) स्त्री नल--णिच् इन् वा ङीप् । १ नाड्यां दण्डे

२ सिरायां ३ पद्मादिदण्डे ४ शाकभेदे च द्विरूपकोषः ।

नालिक पु० नलमेव नालमस्त्यस्य ठन् । १ पद्मे शब्दरत्ना० ।

२ महिषे पुंस्त्री० त्रिका० नाला + स्वार्थे क । नालिका
नालायां स्त्री नालिताशाके शब्दच० । चर्मकषायां स्त्री
जटाध० । हस्तिकर्णवेधनिकायां स्त्री हारा० । “गजाः
सकृत्करतल लोलनालिका” माघः । श्वेतकलम्ब्यां कल्प-
तरुः “कुसुम्भं नालिकाशाकमिति” ति० त० पाठान्तरम् ।

नालिकेर पु० नल--बा० इण् केन वायुना ईर्य्यते ईर--घञ्

कर्म० । नारिकेले तच्छब्दे दृश्यम् । तस्य खण्डपाकवि-
धिगुणादि वैद्यके उक्तं यथा “कुड़वं नालिकेरस्य सूक्ष्मं
दृषदि पेषितम् । शुद्धखण्डस्य कुड़वं गव्यक्षीरे
चतुर्गुणे । आलोड्य नालिकेरस्य जले मृद्वग्निना पचेत् ।
धान्यकं पिप्पलीं शुण्ठीं चातुर्जातं सुचूर्णितम् । शाण
प्रमाणं प्रत्येकं शीतीभूते क्षिप्रेद्बुधः । नालिकेरस्य
खण्डोऽयं पुंस्त्वनिद्राबलप्रदः । अम्लपित्तं क्षयं कासं
शूलं च परिणामजम् । नाशयेद्रक्तपित्तञ्च शुष्कं
दावानलो यथा” । अत्र घृतपलेन कुष्माण्डवन्नालिकेरस्य
भर्जनं विधेयमिति सम्प्रदायः । वृ० सं० १४ अ० कूर्मविभागे
आग्नेय्यामुक्ते २ देशभेदे “वृषनालिकेरचर्मद्वीपेत्यादि”
तद्वाक्यम् । पृषो० रस्य लः । नालिकेलोऽप्यत्र ।

नालिता स्त्री नल--णिच्--क्त । नारीचशब्दोक्तगुणके पट्ट-

शाके स्वनासख्याते शाकभेदे शब्दर० ।

नाली स्त्री नालि + वा ङीप् । १ शाककडम्बे (डाँटा) ख्याते

पदार्थे मेदि० । “नालेन रहिता नाली सुस्विन्ना मुष्टि-
पीडिता । घृते तप्ते परिक्षिप्ता चिञ्चिणीपत्रसंयुता ।
नाली सरा लघुः शीता पित्तनुत् कफवातला । मुक्त
शोककरी ज्ञेया लिप्ता शीथघ्निका मता” शब्दार्थचि० ।
२ हस्तिकर्णवेधन्याम् ३ दण्डात्मककाले घट्याम् त्रिका० ।
४ पद्मे शब्दर० ५ पद्मदण्डे ६ प्रणाल्याम् ७ वाद्यविशेषे
शब्दार्थचि० ।

नालीक पु० नाल्या कायति कै--क । मुखमात्रे लौहसंयुक्ते

अन्तश्छिद्रे १ शरभेदे २ शल्याङ्गे ३ पद्मसमूहे च न० मेदि०
४ शल्ये विश्वः “कर्णिनालीकनाराचानुत्सृजन्तो
महारथाः” भा० व० ६१ अ० ५ नारिकेलकमण्डलौ “तल्पे न
शयीत नग्नो नालीकं विभृयाद्व्रती” स्मृतिः “कामु-
कानिव नालीकांस्त्रिणताः सहसाऽमुचन्” माघः । ततः
पुष्करा० देशे इनि । नालीकिनी तत्समूहे स्त्री ।

नालीघटी स्त्री नाद्ध्या दण्डकालस्य बोधनार्था घटी डस्य

लः । घटीवादनवाद्यभेदे स्त्री शब्दार्थचि० ।

नालीप पु० कदम्बके नैघण्टु प्रकाशिका ।

नालीव्रण पु० न० नाडी तत्र व्रणः + डस्य लः । नाडीव्रणशब्दार्थे

नाल्य त्रि० नलस्यादूरदेशादि सङ्काशा० ण्य । नलस्यादूरदेशादौ

पृष्ठ ४०५०

नावयज्ञिक पु० नवयज्ञस्य तत्प्रतिपादकग्रन्थस्य व्याख्यानो

ग्रन्थः ठञ् । नवयज्ञप्रतिपादकग्रन्थव्याख्याने १ ग्रन्थे
नवयज्ञो वर्त्ततेऽस्मिन् काले तम इति वा ठञ् । २
नवयज्ञविधानयोग्ये काले च ।

नाविक पु० नाबा तरति “नौद्व्यचष्ठन्” पा० ठन् । १ नावा

तारिणि । नौरस्त्यस्य बाह्यतया व्रीह्या० पक्षे ठन् ।
नौपृष्ठस्थदण्डचालनेन नौकाचालके ३ कर्णधारे
“महावातसमुद्भूतामपरीक्षितनाविकाम् । अन्यनौप्र-
तिबद्धां वानोपेयान्नावमातुराम्” काम० नी० “नाविक-
पुरुषे न विश्वासः” । “अख्यातिरिति ते कृष्ण! मग्ना-
नौर्नाविके त्वयि” इति च उद्भटः ।

नाविन् त्रि० नौरस्त्यस्य व्रीह्या० पक्षे इनि । नाविके स्वामी ।

नावोपजीवन पु० नावा उपजीवनमस्य आर्षे अलुक्स० ।

१ नौचालनोपजीविजातिभेदे “निषादो मद्गुरं सूते
दासं नावोपजीवनम्” भा० आनु० ४८ अ० सङ्करजात्युक्तौ ।

नाव्य त्रि० नावा तार्य्यं यत् “वान्तोयि प्रत्यये” पा० आवादेशः ।

१ नौकयातार्य्ये देशे २ नौतार्य्यनद्यादौ च “नाव्याः सुप्र-
तराः नदीः” रघुः । नवस्य भावः ष्यञ् । ३ नूतनत्वे न०

नाव्युदक न० नावि स्थितमुदकं नावि अग्निहोत्रसमाप्तिं

यावदुदकम् । १ नौकास्थिते जले अग्निहोत्रार्थमग्निप्रणने
कृते जलमात्रे च “तयोर्जलयोराहिताग्निना पाननिषेधः
कात्या० श्रौ० ४ । १० । १५ उक्तो यथा “अनृतातिथ्यप-
नोदपूतिदार्वाधानर्बीषपक्वनाव्युदकानि वर्जयेत्” सू०
नाव्युदकम् नौशब्देन “नौर्ह वा एषा स्वर्ग्या यदग्नि-
होत्रमिति” श्रुतेरग्निहीत्रमुच्यते तेन अग्निहोत्रार्थमुद्ध-
रणे कृते तत्समाप्तिं यावत् उदकपानं न कुर्य्यादित्यर्थः ।
अथ वा नावि नौकायां यदुदकम् तस्य पानं न कुर्य्या-
दिति मानवे “या अन्तर्नाव्यापः स्युर्न तासामाचामेन्न
क्लिन्नं दार्वादध्यादिति” । यजमान आधानानन्तरमेतानि
यावज्जीवं वर्जयेत्” कर्क० ।

नाश पु० नश--भावे घञ् । १ ध्वंसे निधने २ अदर्शने ३ पलायने

४ अनुपलम्भे च मेदि० । ध्वं सश्च जन्याभावः इति नैया-
यिकाः अतीतावस्थेति सांख्याः “नाशः कारणलयः”
सा० सू० “लीङ् श्लेषणे इत्यनुशासनात् लयः सूक्ष्मतया
कारणेष्वविभागः सएवातीतावस्थाख्यो नाश इत्युच्यते”
प्र० व० भा० । आत्यन्तिकनाशश्च कारणेन सह नाशः इति
भेदः “विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते” संक्षेप०
“अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः” वेदा० प०
“स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति” गीता ।

नाशन त्रि० नाशयति नश--णिच् ल्यु । नाशके “त्रिविर्ध

नरकस्येदं द्वारं नाशनमात्मनः” गीता । ण्वुल् नाशको
ऽप्यत्र “ये परस्वापहर्त्तारः परस्वानाञ्च नाशकाः” भा०
अनु० २३ अ० ।

नाष्टिक त्रि० नष्टं द्रव्यं स्वामित्वेनार्हति वा० ठञ् । १ नष्ट-

द्रव्यार्हे तत्स्वामिनि । “अथ मूलनाहार्य्यं प्रकाश
क्रयशोघितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते
धनम्” इति मनुः “यदि स्वं नैव कुरुते ज्ञातिभिर्ना-
ष्टिको धनम् । प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डमर्हति”
वी० मि० व्यासः । प्रसङ्गः चोरत्वसंशयः ।

नाष्ट्र त्रि० नश + णिच्--ष्ट्रन् । नाशके स्त्रियां टाप् गौरादि

गणे मातामहीशब्दस्यग्रहणात् षितां ङीष् अनित्य
इति षित्त्वेऽपि स्त्रियां न ङीष् । “सूर्य्यो मा दिवाभ्यो
नाष्ट्राभ्यः पातु” ताण्ड्य० ब्रा० १ । ४ । २ “विश्वाभ्यो मा
नाष्ट्राभ्यःषाहि” यजु० ३० । १२

नासत्य पु० द्वि० व० । नास्ति असत्यं यस्य नभ्राडित्यादिना

पा० नञः प्रकृतिभावः । अश्विनीकुमारयोः अमरः ।
“नासत्याभ्यां वयति वपुः” यजु० १९ । ८३ अश्विनीकुमारौ
च द्वौ नासत्यदस्रनामानौ यथाह “देवौ तस्यामजायेता-
मश्विनौ भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वाव-
श्विनाविति” हरिवं० ९ अ० । तेनास्य प्रत्येकाभिप्रायत्वे-
एकवचनान्ततापि हरिवंशे तथाप्रयोगात् । निरुक्तकारस्तु
६ । १३ “ताँ अध्वर उशतो यक्ष्यग्ने श्रुष्टी ८ भगं नासत्या
पुरन्धिम्” इमामृचमधिकृत्य नासत्यशब्दस्य निरुक्तिभेदा
नाह । सत्यावेव नासत्यावित्यौर्णवाभः । सत्यस्य २ प्रणे-
तारावित्याग्रायणः, नासिकाप्रभवौ वभूवतुरिति वा” ।
तयोर्नासाभवत्वं च अरुणात्मजशब्दे ३५९ पृ० तृश्यम् ।

नासमौजस् पु० भजमानवंश्यस्य कम्ब्वलवर्हिषः पुत्रभेदे

“असमौजाः सुतस्तस्य नासमौजाश्च ताबुभौ” हरिवं० ३९ अ०
तत्पुत्रोक्तौ ।

नासा स्त्री नास--शब्दे भावे अ । १ शब्दे बा० करणे अ ।

२ नासिकायां ३ गन्धग्राहकेन्द्रियभेदे च । द्वारोपस्थित
काष्ठे (झनकाठ) (कपालि) ख्याते ४ पदार्थे अमरः
५ वासकवृक्षे राजनि० तत्पुष्पस्य नासाकृतित्वात्तस्य
तथात्वम् । नासायाः शुभाशुभलक्षणं गारुडे उक्तं यथा
“शुकनासः सुखी स्याच्च शुकनासेऽतिजीवनम् ।
छिन्नाग्ररूपनासः स्यादगम्यागमने रतः । दीर्घनासे च
सौमाग्यं चौर आकुञ्चितेन्द्रियः । स्त्रीमृत्युश्चिपिटनास
पृष्ठ ४०५१
ऋजुर्भाग्यवतां भवेत् । अल्पच्छिद्रा सुपुटा च अवक्रा च
नृपेश्वरे । क्रूरे दक्षिणवक्रा स्याद्धनिनां च क्षुतं सकृत्”
इति गरुडपु० ।

नासागतरोग पु० सुश्रुतोक्ते नासागतव्याधिभेदे यथा

“अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।
अषीनसः १ पूतिनस्यं २ नासापाक ३ स्तथैव च ।
तथाशोणितपित्त ४ ञ्च पूयशोणित ५ मेव च । क्षवथु ६ र्भ्रंशथु
७र्दीप्तो ८ नासानाहः ९ परिस्रवः १० । नासाशोषेण ११
सहिता दशैकश्चेरिता गदाः । चत्वार्य्यर्शांसि चत्वारः
शोफाः सप्तार्बुदानि च । प्रतिश्यायाश्च ये पञ्च
वक्ष्यन्ते सचिकित्सिताः । एकत्रिंशन्मितास्ते तु नासा-
रोगाः प्रकीर्त्तिताः । आनह्यते यस्य विधूप्यते
च पापच्यते क्लिद्यति चापि नासा । न वेत्ति यो गन्ध-
रसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन १ । तञ्चानिलश्ले-
ष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम् । दोषै-
र्विदग्धैर्गलतालुमूले संबाहितो यस्य समीरणस्तु ।
निरेति पूतिर्मुखनासिकाभ्यान्तं पूतिनस्यं २ प्रवदन्ति
रोगम् । घ्राणश्रितं पित्तमरूंषि कुर्य्याद्यस्मिन्विकारे
बलवांश्च पाकः । तं नासिकापाक ३ मिति व्यवस्येद्विक्लेद-
कोथावपि यत्र दृष्टौ । चतुर्विधं द्विप्रभवं द्विमार्गं
वक्ष्यामि भूयः खलु रक्तपित्तम् ४ । दौषैर्विदग्धैरथ वापि
जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु । नासा स्रवेत् पूयमसृ-
ग्विमिश्रं तं पूयरक्तं ५ प्रवदन्ति रोगम् । घ्राणाश्रिते
मर्मणि सम्प्रदुष्टे यस्यानिलो नासिकया निरेति ।
कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं ६
विधिज्ञाः । तीक्ष्णोपयोगादतिजिघ्रतो वा भावान्
कटूनर्कनिरोक्षणाद्वा । सूत्रादिभिर्वा तरुणास्थिमर्मण्यु-
द्घाटिते यः क्षवथुर्निरेति । प्रभ्रश्यते नासिकयैव यश्च
सान्द्रो विदग्धो लवणः कफस्तु । प्राक्सञ्चितो मूर्घ्निच
पित्ततप्तं तं भ्रंशथुं ७ व्याधिमुदाहरन्ति । घ्राणे भृशं
दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः । नासा
प्रदीप्तेव च यस्य जन्तोर्व्याधिन्तु तं दीप्त ८ मुदाहरन्ति ।
कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितः
स्यात् । घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह ९
इति प्रदिष्टः । अजस्नमच्छं सलिलप्रकाशं यस्याविवर्णं
स्रवतीह १० नासा । रात्रौ विशेषेन हि तं नासापरि-
स्रावमिति व्यवस्येत् । घ्राणश्रिते श्लेष्मणि मारुतेन
पित्तेन गाढं परिशोषिते च । समुच्छसित्यूर्द्ध्वमधश्च
कृच्छ्राद्यस्तस्य नासापरिशोष ११ उक्तः । दोषैस्त्रिभिस्तैः
पृथगेकशश्च ब्रूयात्तथार्शांसि तथैव शोफान् । शालाक्य
सिद्धान्तमवेक्ष्य वापि सर्वात्मकं सप्तकमर्बुदं तु । रोगः
प्रतिश्याय इह प्रदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात् ।
शोफाश्च शोफविज्ञाने नासास्रोतोव्यवस्थिताः । निदाने-
ऽर्शांसि निर्दिष्टान्येवं तानि विभावयेत्” ।

नासाच्छिन्नी स्त्री नासा च्छिन्ना यस्याः ङीप् । पूर्णिकाखगे त्रिका० ।

नासादारु न० नासार्थं दारु । द्वारोर्द्ध्वस्थे काष्ठे

(झनकाठ) (कपालि) अमरः ।

नासालु पु० नासायै नासिकाशब्दाय अलति पर्य्याप्नोति

अलउण् । कट्फलवृक्षे शब्दच० नासायां तत्फलचूर्णयोगे
हि नासिकाशब्दो भवतीति तस्य तथात्वम् ।

नासावंश पु० नासा तन्मध्यभागोवंश इव उच्चत्वात् । नासा-

पृष्ठस्थमध्यभागे ।

नासासंवेदन पु० नासा संविद्यतेऽनेन सम् + विद--ल्युट् । काण्डीरलतायां राजनि० ।

नासिकन्धम त्रि० नासिकां धमति नासिका + ध्मा--खश्

मुम् ह्रस्वश्च । नासिकां शब्दायमानां कुर्वति नासिकया
शब्दकारके ।

नासिन्धय त्रि० नासिकां तत्स्थजलं धयति नासिका +

धेखश् मुम् ह्रस्वश्च । नासिकास्थजलपायके नायिकया
जलपायके ।

नासिका स्त्री नास--शब्दे ण्वुल् । १ घ्राणेन्द्रिये २ तदाधार-

गोलके नासाशब्दार्थे । अस्य शसादौ भत्वे च
नसादेशः । नसः नसा नोभ्याम् नस्यमित्यादि ।

नासिकामल पु० ६ त० । नासास्थिते मले शिङ्घाणे (शिकनी) हारा० ।

नासिक्य त्रि० नासिका + चतुरर्थ्यां सङ्काशा० ण्य । १ नासिका-

समीपादौ । स्वार्थे ष्यञ् । २ नासिकायाम् । भवार्थे
शरीरावयवत्वात् यत् । ३ नासिकाभवे त्रि० ४ अश्विनीकुमारयोः
पु० द्वि० व० हेमच० । ५ दक्षिणदेशभेदे “कर्णाटमहाटवि-
चित्रकूटनासिक्यकोल्लगिरिः” वृ० सं० १४ अ० दलिणस्थदे-
शोक्तौ । खार्थे क । नासिक्यक नासायां शब्दमा० ।

नासीर न० नासाय शब्दाय ईर्त्ते ईर--क । १ अग्रेसरसैन्ये

त्रिका० २ अग्रेसरमात्रे त्रि० शब्दर० “नलस्य नासीर
गते वितेनतुः” नैष० ।

नास्ति अव्य० अस्तीति विभक्तिप्रतिरूपमव्ययं “सह सुपा”

पा० नशब्देन स० । अविद्यमानतायां सत्त्वाभावे यथा
नास्तिक्षीरा “अस्ति नास्ति न जानाति” इति चाणक्य
पृष्ठ ४०५२

नास्तिक त्रि० नास्ति परकोकस्तत्साधनमदृष्टं तत्साक्षीश्वरो

वा इति मतिरस्य ठन् । १ परलोकाभाववादिनि २ तत्सा-
धनादृष्टाभाववादिनि ३ तत्साक्षिण इश्वरस्यासत्त्ववादिनि
च चार्वाकादौ चार्वाकादिश्च चार्वाकः माध्यमिकः योगा-
चारः सौत्रान्तिकः वैभाषिकः दिगम्बरश्चेत षड्विधः ।
“अतिमात्रोज्झितभीरनास्तिकः” माघः ।

नास्तिकता स्त्री नास्तिकस्य भावः तल् । मिथ्यादृष्टौ

परलोकाद्यभावज्ञानस्य मिथ्यात्वात् “प्रज्ञानाशात्मकोमोह-
स्तथा धर्मार्थनाशकः । तस्मान्नास्तिकता चैव दुराचारश्च
जायते” भा० शा० १२३ अ० ।

नास्तिक्य न० नास्तिकस्य भावः ष्यञ् । नास्तिकतायाम्

“नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम्” मनुः ।

नास्तिद पु० आम्रवृक्षे शब्दच० ।

नास्तिवाद पु० नास्ति परलोकादिरिति वादः । नास्तिकता-

याम् “नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम्”
हरिवं० २८ अ० ।

नास्य न० नासायां भवत् शरीरावयवत्वात् यत् । १ बलीवर्द्द

नासाबन्धनरज्ज्वाम् “छिन्ननास्ये भग्नयुगे तिर्य्यक्-
प्रतिमुखागते” मनुः । नासा + चतुरर्थ्यां ण्य । २ नासा-
सन्निकृष्टादौ त्रि० “मनुष्यान् स्वपुषो दृष्ट्वा नास्यघ्रासं
चकार यः” हरिवं० ३१७ अ० नासासन्निकृष्टस्थग्रास-
मित्यर्थः ।

नाह पु० नह--बन्धने भावे घञ् । १ बन्धने २ कूटे च मेदि० ।

नाहल पु० म्लेच्छजातिभेदे हेमच० ।

नाहुष(षि) पु० नहुषस्यापत्यं वा० अण् अत इञ् वा ।

नहुषनृपापत्ये यजातौ । “ययातिर्नाहुषः सम्राडासीत्
सत्यपराक्रमः” भा० आ० ७५ अ० ।

नि अव्य० नी--वा० डि प्रादिः उपसर्गः । १ संधे २ अधोभावे

न्यग्भावे ३ भृशे ४ आदेशे ५ नित्ये ६ कौशले ७ बन्धने ८ अन्त-
र्भावे ९ समीपे १० दर्शने ११ उपरमे १२ आश्रये च गणरत्न-
महोदधिः उदाहृतं च तत्रैव क्रमशस्तेष्वर्थेषु १ निकरो
मणीनां २ निपतितः । ३ निगृहीतं ४ निदेशितं, ५
निविशते ६ निपुणः ७ निबन्धः ८ निपीतमुदकम् । ९ निकटः
१० निदर्शनं ११ निवृत्तः १२ निलयः । १३ संशये १४ क्षेपे
१५ दाने १६ मोक्षे १७ विन्यासे च मेदि० । १८ निषेधे
१९ निश्चये दुर्गादासः ।

निः(नि)क्षेप पु० निर्--(नि)वा क्षिप--भावे घञ् । १ अर्पणे

(गच्छितराखा) अष्टादशविवादान्तर्गते २ विवादभेदे ।
स च वीर० मि० विस्तरेण दर्शितो यथा
“अथ निः(नि)क्षेपाख्यव्यवहारपदम् । तत्र निः(नि)
क्षेपो नाम स्वद्रव्यस्य विश्वासेन पुरुषान्तरे स्थापनम् ।
तथा च नारदः “स्वद्रव्यं यत्र विस्रम्भान्निः(नि)-
क्षिपत्यविशङ्कितः । निः(नि)क्षेपो नाम तत्प्रोक्तं
व्यवहारपदं बुधैरिति” नच न्यासोपनिध्योरतिव्याप्ति-
स्तयोर्लक्ष्यत्वान्निः (नि)क्षेप एव । ग्राहकस्यासमक्षं
समर्पितो न्यास इत्युच्यते । अतएव वृहस्पतिः “राजचौ-
रादिकभयाद्दायादानां च वञ्चनात् । स्थाप्यतेऽन्यगृहे
द्रव्यं न्यासः स परिकीर्त्तितः” इति । अयमेवागणि-
तद्रव्यस्थापने उपनिधिरित्युच्यते । तथा च नारदः
“असङ्ख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीया-
दुपनिधिं निः(नि)क्षेपङ्गणितं विदुरिति” । असङ्ख्यातम्
अनाख्यातम् अविज्ञातम् अदर्शितम् । अतएव
वृहस्पतिः “असमक्षं व्यवहितमसङ्ख्यातमदर्शितम् । मुद्रा-
ङ्कितञ्च यद्द्रव्यं तदौपनिधिकं स्मृतमिति” व्यवहितं
करण्डकादौ प्रक्षिप्य पिहितम् । अतएव याज्ञवल्क्यः
“वासनस्थमविज्ञातं हस्तेऽन्यस्य यदर्प्यते । द्रव्यन्तदौप-
निधिकं प्रतिदेयन्तथैव तदिति” वासनं द्रव्याधार
करण्डकादि तत्स्थं वासनस्थम् । हस्तग्रहणमुपलक्ष-
णम् । अतएव नारदः “निः(नि)क्षिप्यते परगृहे तदौप-
निधिकं स्मृतमिति” । तथा चायमेतेषाम्भेदः । ग्राह-
कस्य समक्षं गणयित्वा स्थापितं निः(नि)क्षेपः । गृहस्वा-
मिनोऽसमक्षं गणितं वा तस्मिन्नामते एतद्दातव्यमित्यु-
क्त्वाऽन्यस्य तत्पुत्रादेर्हस्ते दत्तं न्यासः । मुद्राङ्कितमस-
मक्षमनणितं स्थापितमुपनिधिरिति । निः(नि)क्षेपादीनां
स्थापनप्रकारमाह मनुः “कुलजे वृत्तसम्पन्ने धर्मज्ञे
सत्यवादिनि । महापक्षे धनिन्यार्य्ये निः(नि)क्षेपं
निः(नि)क्षिपेद्बुधः” इति । महापक्षे बहुतरबन्धुयुक्ते ।
निः(नि)क्षेपग्रहणमुपलक्षणम् । वृहस्पतिः “स्थानं
गृहञ्च तद्वर्णं विधानञ्च गुणन्तथा । सत्यं शौचं वन्धुजनं
परीक्ष्य स्थापयेन्निधिमिति” निधिरुपनिधिः । एतदप्यु-
पलक्षणम् । निः(नि)क्षेपादीनां रक्षणं कथं कर्तव्यं ग्रा-
हकेणेत्याह वृहस्पतिः “ससाक्षिकं रहोदत्तं द्विबिधं
समुदाहृतम् । पुत्रवत्परिपाल्यं तद्विनश्यत्यनवेक्षणे” इति ।
पालयितुः फलभपालयितुर्दोषञ्चाह “ददतो यद्भवेत् पुण्यं
हेमकूप्याम्बरादिकम् । तत् स्यात्फलमतो न्यासो यथैव
शरणागतः । भर्तृद्रोहं यथा नार्याः पुंसः पुत्रसुहृद्बधे ।
दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् । न्यास-
पृष्ठ ४०५३
द्रव्य” न गृह्णीयात्तन्नाशस्त्वयशस्करः । गृहीतं
पालयेद्यत्नात् सकृद्याचितमर्पयेदिति” न्यासग्रहणमुपलक्ष-
णम् । तेन फलरक्षणादिकं निः(नि)क्षेपादित्रयसाधार-
णमिति मन्तव्यम् । दैवराजोपघाते ग्राहकस्य न दोष
इत्याह वृहस्पतिः “दैवराजोपघातेन यदि तन्नाशमाप्नु-
यात् । ग्रहीतृद्रव्यसहितं न तद्दोषोऽत्र विद्यत” इति ।
ग्रहीतुरिति शेषः उपेक्षादिद्रव्यदोषाभावादिति मावः ।
ग्रहीतृद्रव्यसहितमित्युपेक्षाभावनिश्चयायोक्तम् । तेन
कथञ्चिन्निः(नि)क्षिप्तमात्रस्य विनाशे प्रमाणान्तरादुपेक्षाभावे
निश्चिते ग्रहीतुर्दोषो न विद्यते इति मन्तव्यम् ।
दैवराजग्रहणमसमाधेयनिमित्तोपलक्षणार्थम् । अतएव
कात्यायनः “राजदैविकचौरैर्वा निः(नि)क्षिप्तं यत्र
नाशितम् । ग्रहीतुः सह भाण्डेन दातुर्नष्टन्तदुच्यते”
इति । भाण्डेन अर्थेन । नारदोऽपि “ग्रहीतुः
सह योऽर्थेन नष्ट एव स दायिनः । दैवराजकृते तद्वन्न
चेत्तज्जिह्मकारितमिति” तद्वदितिपदेनैकमुपमेयमन्य-
दुपमानमित्यवगम्यते । तेनैवं योजना ग्रहीतुरर्थेन सह
यो नष्टः स दायिन एव एवन्दैवराजकृते यो नष्टः सोऽपि
दायिन एव नष्ट इति दैवग्रहणन्तस्करोपलक्षणम् ।
अतएव याज्ञवल्क्यः “न दाप्योपहतन्तन्तु राजदैविकत-
स्करैरिति” दैविकपदस्यार्थो विवृतो मनुना “चौरैर्हृ-
तञ्जलेनोढमग्निना दग्धमेव वा । न दद्याद्यदि तस्मात्स्वं
न संहरति किश्चनेति” । यदि तस्मान्निः(नि)क्षेपादल्प-
मपि धनन्न संहरति न गृह्णाति तर्हि न दद्यादित्यर्थः ।
तथा च स एव “समुद्रे नाप्नुयात्किञ्चिद्यदि तस्मान्न
संहरेदिति” क्वचित् केनचिद्धेतुना नष्टमपि ग्रहीता
भूल्यद्वारेण न दाप्य इत्याह कात्यायनः “ज्ञात्वा
द्रव्यवियोगन्तु दाता यत्र विनिः(नि)क्षिपेत् । सर्वोपाय-
विनाशेऽपि ग्रहीता नैव दाप्यते” इति । निः(नि)-
क्षेपग्रहीतारं प्रत्याह कात्यायनः । “निः(नि)क्षिप्तं
यस्य यत्किञ्चित् तत्प्रयत्नेन पालयेत् । दैवराजकृतादन्यो
विनाशस्तस्य कीर्त्त्यते” इति । यस्य पार्श्वे यत् स्था-
पितन्तत्तेनावहितेन रक्षणीयम् । यतो दैवराजकृता-
दन्यो विनाशस्तस्य ग्राहकस्य दोपेण कृतत्वेन कीर्त्त्यते
इत्यर्थः । न केवलन्दुष्कीर्त्तिरेव तस्य किन्तु विनाशे
जाते वस्तुगत्या दोषो वह्वर्थहानिश्चेत्याह स एव
“यस्य दोषेण यत्कञ्चिद्विनश्येत ह्रियेत वा । तद्द्रव्यं
तोदयन्दाप्यो दैवराजकृताद्विनेति” । दोषः उपेक्षादि-
लक्षणः । वृहस्पतिरपि “भेदेनोपेक्षया न्यासं ग्रहीता
यदि नाशयेत् । याच्यमानो न दद्याद्वा दाप्यन्तत्सोद-
यम्भवेदिति” कात्यायनोऽपि “न्यासादिकं परद्रव्यं प्रभ-
क्षितमुपेक्षितम् । अज्ञाननाशितञ्चैव येन दाप्यः स एव
तदिति” अत्र विशेषमाहतुर्व्यासकात्यायनौ “भक्षिते
सोदयन्दाप्यः समन्दाप्य उपेक्षिते । किञ्चिदूनं प्रदाप्यः
स्याद्द्रव्यमज्ञाननाशितमिति” किञ्चिदूनञ्चतुर्थांशन्यून-
मिति मिताक्षरायाम् । याचनानन्तरमदत्तस्य पश्चाद्दैव-
राजकृतेऽपि विनाशे तन्मूलमात्रं दातव्यमित्याह व्यासः
“याचनानन्तरं नाशे दैवराजकृतेऽपि सः । ग्रहीता
प्रतिदाप्यः स्यान्मूलमात्रन्न संशयः इति । प्रत्यर्पण-
विलम्बमात्रापराधे सवृद्धिकदानस्यान्याय्यत्वात् । राज्ञे
च तत्समो दण्डो देय इत्याह नारदः “याच्यमानस्तु
यो दातुर्निः(नि)क्षेपन्न प्रयच्छति । दण्ड्यः स राज्ञो
भवति नष्टे दाप्यश्च तत्सममिति” नष्टे दैवतो राजतो
वेति शेषः । याज्ञवल्क्योऽपि “भ्रंशश्चेन्मार्गितेऽदत्ते
दाप्यो दण्डञ्च तत्सममिति” । मार्गिते याचितेऽदत्ते
सति यदि भ्रंशो दैवराजकृतो नाशो भवति तथापि
तद् द्रव्यं मूल्यपरिकल्पनेन । “धनिने ग्राहको दाप्यो-
दण्डो राज्ञे च तत्समम्” । तत्समं दण्डमित्यर्थः ।
यः पुनःस्थापकाननुज्ञया निः(नि)क्षेपमुपभुङ्क्ते तस्य
दण्डमाह नारदः “यत्रार्थं साधयेत्तेन निः(नि)क्षेपे
त्वननुज्ञया । तत्रापि दण्ड्यः स भवेत्तञ्च सोदयमावहे-
दिति” दण्डश्च साधितद्रव्यानुसारेण । याज्ञवल्क्योऽपि
“आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयमिति”
आजीवन् भोगवृद्ध्यर्थप्रयोगादिना उपजीवन् स्वेच्छया
स्वाम्यननुज्ञया । वृद्धिप्रमाणमाह कात्यायनः । “निः-
(नि)क्षेपं वृद्धिशेषञ्च क्रयविक्रयमेव च । याच्यमानं न
चेद्दद्याद्वर्द्धते पञ्चकं शतमिति” । निः(नि)क्षेपहर्त्तार-
म्प्रत्याह विष्णुः “निः(नि)क्षेपापहारी वृद्धिसहितन्धनं
धनिकस्य दाप्यः” । अस्य दण्डमाह मनुः “निः(नि)-
क्षेपस्यापहर्त्तारं तत्समन्दापयेद्दमम् । तथोपनिधिहर्त्ता-
रमविशेषेण पार्थिवः” निः(नि)क्षेपापह्नवे कर्त्तव्यमाह
व्यासः “निः(नि)क्षेपन्निह्नुते यस्तु नरो बन्धुबला-
न्थितः । साक्षिभिर्वाथ द्रव्येण विभाव्य प्रतिदाप्यते”
दण्डमाह वृहस्पतिः “गृहीत्वापह्नुते यत्र साक्षिभिः
शपथेन वा । विभाव्य दापयेद्राजा तत्समं विनयन्तथेति”
विनयं दण्डम् । ससाक्षिकनिः(नि)क्षेपादौ स्थापकस्या-
पृष्ठ ४०५४
नृतवादित्वे साक्षिभ्यो यथास्थितमर्थमवगत्य दण्डनीयः
स राज्ञेत्याह मनुः “निः(नि)क्षेपो यः कृतो येन
यावांश्च कुलसन्निधौ । तावानेव स विज्ञेयो विब्रुवन्
दण्डमर्हतीति” कुलं साक्षिवृन्दम् । असाक्षिके त्वाह
वृहस्पति “रहोदत्ते निधौ यत्र विसंवादः प्रजायते ।
विभावकन्तत्र दिव्यमुभयोरपि च स्मृतमिति” उभयो-
र्मध्ये एकस्येत्यर्थः उभयग्रहणं “रुच्या वान्यतरः कुर्या-
दित्ययमेव पक्षे यथा स्यादिति । ग्रहीतृस्थापकयोर-
नृतवादित्वे दण्डमाह मनुः “निः(नि)क्षेपस्यापह-
र्त्तारमनिः(नि)क्षेप्तारमेव च । सर्वैरुपायैरन्विच्छेच्छपथै-
श्चैव वैदिकैः । यो निः(नि)क्षेपं नार्पयति यश्चानिः-
(नि)क्षिप्य याचते । उभौ तौ चोरवच्छास्यौ दाप्यौ वा
तत्समं दममिति” चौरवच्छास्यौ चौरवद्दण्ड्यौ चौरव-
द्दण्डेन दण्ड्यावितियावत् । दण्डस्य प्रमाणमाह
सममिति । मत्स्यपुराणे । यस्तु “यो निः(नि)क्षेपं
नार्पयति यश्चानिः(नि)क्षिप्य याचते । ताबुभौ
चौरवच्छास्यौ दाप्यौ च द्विगुणं दममिति” द्विगुणो
दण्ड उक्तः स दुर्वृत्तविषयो ब्राह्मणातिरिक्तविषयो वा
अन्यया समदण्डप्रतिपादकमनुवचनविरोधः स्यादिति ।
निः(नि)क्षिप्तं द्रव्यमकाले ददतो द्विगुणोदम इत्याह
कात्यायनः “ग्राह्यस्तूपनिधिः काले कालहीनन्तु
वर्जयेत् । कालहीने ददद्दण्डं द्विगुणञ्च प्रदापयेदिति”
ग्राह्यः निः(नि)क्षेपकारिणेति शेषः यद्भयादुपनिधिर-
न्यस्य हस्ते न्यस्तस्तद्भयातीते काले न ग्राह्य इत्यर्थः ।
भयातीते काले स्वयमेव नायाचितमर्पणीयम् “सकृ-
द्याचितमर्पयेदिति” वृहस्पतिस्मरणात् । तद्भये वर्त्तमाने
स्वयमेवायाचितन्दीयमानं कालहीनन्तस्य दानन्दौष्ट्ये-
नैवेति तद्ददतोऽपि दण्डोयुक्तः । प्राड्विवाकं प्रत्याह
मनुः “यो निः(नि)क्षेपं याच्यमानो निः(नि)क्षेप्तुर्न
प्रयच्छति । स याच्यः प्राड्विवाकेन तन्निः(नि)क्षेप्तुरस-
न्निधौ । स यदि प्रतिपद्येत यथान्यस्तं यथाश्रितम् ।
न तत्र विद्यते किञ्चित् यत्परेणाभियुज्यते” इति । यदा
तु न प्रतिपद्येत तदा राजानं प्रत्याह स एव “तेषां न
दद्यायद्यदि तु तद्धिरण्यं यथाविधि । द्वयन्निगृह्य दाप्यः
स्यादिति धर्मस्य धारणा । निःक्षिप्तस्य धनस्यैव प्रीत्योप-
निहितस्य च । राजा विनिर्णयं कुर्य्यादक्षिण्वन्थासधा-
रिणामिति” तेषां अभियोक्तृणाम् । द्वयं द्विगुणम् ।
निगृह्य दण्डयित्वा अचिण्वन् अताडयन् । निः(नि)-
क्षेप ग्रहीतारं प्रत्याह वृहस्पतिः “स्थापितं येन विधिना
येन यच्च यथाविधि । तथैव तस्य तद्देयं न देयं प्रत्यन-
न्तरे” इति । स्थापितेतरस्य यस्य स्थापितद्रव्यस्वाम्यमस्ति
स इह प्रत्यनन्तर उच्यत इति स्मृतिचन्द्रिकायां प्रत्यन-
न्तरे पुत्रादाविति कल्पतरौ । स्थापकं प्रत्याह मनुः
“यो यथा निः(नि)क्षिपेद्धस्ते यमर्थं यस्य मानवः । स
तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः । मिथोदाय
कृतो येन ग्रहीतो मिथ एव वा । मिथ एव प्रदातव्ये
यथा दायस्तथा ग्रहः । समुद्रे नाप्नुयात् किञ्चिदयदि त
स्मान्न संहरेदिति” दायो दानं स्थापनमिति यावत्
ग्रहोग्रहणं मिथः अन्योन्यमेव एतदुक्तम्भवति
ससाक्षिकं स्थापितम् साक्षिसमक्षं ग्रहीतव्यम् । रहसि
स्थापितं रहस्येवेति । समुद्रे मुद्रासहिते निःक्षेपेमु
मूषकादिनोपहते निः(नि)क्षेपं स्थापयित्वा न किञ्चिद्दू-
सणमाप्नुयात् । यदि तस्मान्निः(नि)क्षेपात् प्रतिमुद्राक-
रणादिना न संहरेत्किञ्चिदित्यर्थः । स्थापयितुर्मरणे प्रत्य-
नन्तरे तद्देयमित्याह स एव “स्वयमेव तु यो दद्यान्मृतस्य
प्रत्यनन्तरे । न स राज्ञाऽभियोक्तव्यो न निःक्षेप्तुश्च
बन्धुभिरिति” अनेन वचनेन वचोभङ्ग्या स्थापके मृते
प्रत्यनन्तरे प्रत्यर्पणं ग्राहकेण कार्य्यमित्युक्तम् । स्वय-
मेव याचनमन्तरेणेत्यर्थः । याचनमन्तरेण दानम्भयादि-
कालापाये मन्तव्यम् अन्यथा दोषापत्तेः । प्रत्यनन्तर
वहुत्वे तु नैकस्मिन् प्रत्यनन्तरे देयं किन्तु सर्वप्रत्य-
नन्तरसन्निधाविति न निःक्षेप्तुबन्धुभिरभियोक्तव्य इत्य-
नेन सूचयाम्बभूव । यदा तु ग्राहकः स्वयमेव न ददाति
तदा प्रत्यनन्तरकर्त्तव्यमाह स एव । “अच्छलेनैव
चान्विच्छेत्तमर्थं प्रीतिपूर्वकम् । विचार्य्य तस्य वा वृत्तं
साम्नैव परिसाधयेदिति” अन्विच्छेत् अवधारयेत्परिसा-
धनं ग्राहकसकाशादादानन्तद्ग्राहकवृत्तिं विचार्य्य स
तद्वृत्तग्राहकविषये साम्नैव कार्य्यं न भयादिप्रदर्शनेन ।
दुर्वृत्तग्राहकविषये तु ऋणादानप्रकरणोक्तेन भयादि-
प्रदर्शनाद्युपायान्तरेण छलादिना कार्य्यमित्यस्मादेव
वचनादवगम्यते । तथा सद्वृत्ते विप्रतिपन्ने भूतानुसारेण
साधयितुमशक्ये साक्ष्याद्यभावे प्रत्यनन्तरादिना साधु-
येत् । दुर्वृत्ते तु विप्रतिपन्ने छलादिना परिहरेदिति
चास्मादेव वचनादवगम्यते । सद्वृत्ते छलादिप्रयोगबच्छ-
पथेन शोधनस्याप्यनुचितत्वात् । ग्राहके तु मृते पश्चा-
द्यदधीनं निःक्षेपादि जायते तेनैव स्थापके प्रत्यनन्तरे
पृष्ठ ४०५५
वा प्रत्यर्पणीयमित्यतिस्थूलत्वात् स्मृतिकारैरुपेक्षित-
मित्यस्मादृणादानप्रकारवदुवन्नेयं यदि ग्राहकोऽसौ स्वयं
न ददाति तदा स्थापकः प्रत्यनन्तरो वा पूर्वोक्तमार्गेणा-
ग्विच्छेत् सम्प्रतिपन्नं पूर्वोक्तेन प्रकारेण परिग्रहं
साधयेदित्येतदपि स्मृतिकारैरुपेक्षितं ज्ञातुं शक्यत्वादिति ।
“द्वयीषु निः(नि)क्षेष इवार्पितं द्वयम्” कुमा० ।

निःप्रभ त्रि० निर्गता प्रभा यस्य “प्रादिभ्यो धातुजस्य वाचो-

त्तरपदलोपः” वार्त्ति० । गतशब्दलोपः वा विसर्गस्य
षत्वम्, १ प्रभाशून्ये पक्षे षत्वे निष्प्रभ इत्यपि तत्रार्थे

निःशम पु० निर्गतः शमात् “निरादयः क्रान्ताद्यर्थे पञ्चम्याः”

वार्त्ति० निरा० ५ त० । १ क्रोधे त्रिका० पक्षे शत्वम् ।

निःशलाक त्रि० निर्गतः शलाकायाः निर्गता शलाका यस्मात्

वा । १ निर्जने रहसि अमरः । “अरण्ये निःशलाके वा
मन्त्रयेदविभावितः” मनुः वा शत्वम् ।

निःशल्या स्त्री निर्गतं शल्यं यस्याः ५ ब० । १ दन्तीवृक्षे

राजनि० तत्सेवने हि शीघ्रं शल्यं निर्गच्छति । २ शल्य-
वत्प्रतिबन्धकरहिते त्रि० “निःशल्यमुत्सृजेयं जीवितम्”
दशकुमा० पक्षे शत्वम् ।

निःशूक पु० निर्गतः शूकोऽस्मात् । १ सुण्डशालौ राजनि० २ अग्रशून्यमात्रे त्रि० । वा शत्वम्

निःशेष त्रि० निर्गतः शेषो यस्य । समस्ते सकले “निःशेष

च्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरः” काव्यप्र० वा
शत्वम् । निश्शेष तत्रार्थे

निःशोध्य त्रि० निर्गतं शोध्यमस्मात् । निर्मले मृष्टे अमरः । पक्षे शत्वम् ।

निःश्रयणी स्त्री निश्चितं श्रीयतेऽनया श्रि--करणे ल्युट्

ङीप् । काष्ठमयसोपाने शब्दरत्ना० वा शत्वम् ।
निःश्रि--इनि ङीप् । निश्रयिणीत्यप्यत्र शब्दर० ।

निःश्रेणि स्त्री निश्चिता श्रेणिरत्र । काष्ठसोपाने अमरः ।

वा शत्वम् । “चक्रे त्रिदिवनिःश्रेणिः सरयूरनुया-
यिनाम्” रघुः ।

निःश्रेयस न० नितराम् श्रेयः नि० अच् समा० । १ मोक्षे

२ मङ्गले ३ विज्ञाने ४ भक्तौ ५ अनुभावे च शब्दरत्ना० ।
“पण्डितो ह्यर्थकृच्छ्रेषु निःश्रेयसकरं वचः” भा० स०
१६९ श्लो० “तपो विद्या च विप्रस्य निःश्रेयसकरं परम्”
मनुः । नितरां श्रेयो यस्मात् अच् समा० । ६ शङ्करे
पु० मेदि० वा शत्वम् । निश्श्रेयस तत्रार्थे

निःश्वास पु० निरे + श्वस--भावे घञ् । प्राणवायोर्नासया

बहिर्निःसरणे “वृषलीफेनपीतस्य निःश्वासोपहतस्य
च” मनुः । वा शत्वम् । निश्श्वास तत्रार्थे

निःषम अव्य० निर् सम + तिष्ठन्ग्वा० स० सुषामा० षत्वम् ।

निन्दायाम् अमरः ।

निःषन्धि त्रि० निष्क्रान्तः सन्धेः सुश्लिष्टित्वात् निरादिस०

सुषामा० षत्वम् । १ सन्धिशून्ये २ दृढ़े त्रिका० वा षत्वम् ।

निःषामन् त्रि० निष्क्रान्तः साम्नः निरा० सुषामा० षत्वम् ।

सामरहिते वा षत्वम् ।

निःसम्पात पु० निर्गतः सम्पातो यत्र प्रादि० बहु० ।

गमनशून्ये १ निशीथे त्रिका० वा सत्वम् । २ गतिशून्ये च “आका-
शमपि बाणौघैर्निःसम्पातं विधीयताम्” हरिवं० ९९ अ० ।

निःसंशय त्रि० निर्गतः संशयोऽस्मात् प्रा० ब० । सन्देहशून्ये

“कृते निःसंशये पापे न भुञ्जीतानुपस्थितः” प्रा० त० । पक्षे
सत्वम् । निःसन्दे होऽप्यत्र ।

निःसङ्ग त्रि० निर्गतः सङ्गो यस्मात् प्रा० बहु० । सङ्गरहिते

सङ्गश्च स्नेहः फलाभिसन्धिश्च “निःसङ्गता मुक्तिपदं
यतीनाम्” विष्णुपु० “वेदोक्तमेव कुर्वाणो निःसङ्गोऽ-
र्पितमीश्वरे” मल० त० धृत भाग० ११ स्कन्धवचनम् ।

निःसरण न० निर् + सृ--भावे ल्युट् । १ निर्गमे करणे ल्युट् ।

२ गृहादिमुखे ३ मरणे ४ निर्वाणे ५ उपाये च हेमच० ।
“दुःखनिःसरणं वेद सर्वज्ञः स सुखी भवेत्” भा० शा०
२१५ अ० वा सत्वम् ।

निःसार पु० निर्गतः सारो यस्मात् । १ शाखोटकवृक्षे

(सेओडा) २ श्योनाकभेदे राजनि० ३ साररहिते त्रि० ।
“मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम्” शु० त०
“जगत् सर्वन्तु निःसारमनित्यं दुःखभाजनम्”
कालिकापु० २७ अ० । ४ कदल्यां स्त्री वा सत्वम् ।

निःसारण न० निर् + सृ--णिच् ल्युट् । १ बहिष्करणे स्वार्थे

णिच् करणे ल्युट् वा । २ मृहादिमुखे ३ निःसरणे च
शब्दर० वा सत्वम् ।

निःसारित त्रि० निर् + सृ--णिच् कर्मणि क्त । बहिष्कृते जटाधरः ।

निःसीम(न्) निगता सीमा यस्मात् निरादि० बहु० । सीमा-

रहिते अवधिशून्ये “निःसीमानन्दमासीदुपनिषदुपमा
तत्परीभूय भूयः” नैष० “अहह महतां निःसीमानश्च-
रित्रविभूतयः” भार० र०अत्र डापोऽभावपक्षे नान्तत्वात्
स्त्रियां वा टाप् मनन्तत्वात् न ङीप् इति भेदः । वा सत्वम्

निःस्नेह त्रि० निर्गतः स्नेहो यस्य प्रादि० बहु० । स्नेहशून्ये

स्नेहश्च तैलादिद्रव्यं प्रीतिश्च । “निःस्नेहं कीटमुषि-
तम्” स्मृतिः “ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गवा
नामिनः” भा० अनु० २३ अ० । २ अतस्यां स्त्री त्रिका० तस्य
निष्काशितस्नेहत्वात् तथात्वम् । वा विसर्मस्य सत्वम् ।
पृष्ठ ४०५६

निःस्नेहफला स्त्री निःस्नेहं फलं यस्याः । श्वेतकण्ट-

कार्य्यां राजनि० ।

निःस्पृह त्रि० निर्गता स्पृहाऽस्य । आशाशून्ये “त्रिदिवस्थेष्वपि निष्पृहीऽभवत्” रघुः ।

निःस्रव पु० निर् + स्रु--अप् । अवशेषे “राजनि स्थापितो

योऽर्थः प्रत्यहं तेन विक्रयः । क्रयो वा, निस्रवस्तस्मात्
बणिजां लाभकृत् स्मृतः” याज्ञ० “निःस्रवः अवशेषः”
मिता० ।

निःस्राव पु० निःस्रवति निर् + स्नु--ण । (माड) (फेन) १ भक्त-

रसे हेमच० भावे घञ् । २ व्यये “बह्वादानोऽल्पनिःस्रावः
ख्यातः पूजितदैवतः” कामन्द० ।

निःस्व त्रि० निर्गतं स्वमस्य प्रा० ब० । १ दरिद्रे “शूर्पाकारौ

विरूक्षौ च वक्रौ पादौ सिरालकौ । संशुष्कौ पाण्डु-
रनखौ निःस्वस्य विरलाङ्गुली” गरुडपु० । २ धनरहिते
३ ज्ञातिरहिते च ।

निःस्वभाव त्रि० निर्गतः स्वभावो यस्य प्रा० ब० । स्वभाव-

शून्ये । बौद्धमते वस्तुमात्रस्य निःस्वभावत्वम् यथोक्तं
लङ्कावतारे “बुद्ध्या विविच्यमानानां स्वभावो नावधा-
र्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः”
(ते पदार्थाः)

निकक्ष अव्य० कक्षस्य समीपम् सामीप्येऽव्ययी० । पश्चिमापर-

सन्धिसमीपे “चित्यं परिषिञ्चत्यग्नीद्दक्षिणे निकक्षे”
कात्या० श्रौ० १८ । २ । १ “पश्चिमापरसन्धिः कक्षस्तस्य समीपं
निकक्षम्” वेददी० । अव्ययीभावे अदन्तात् सप्तस्या
वा न लुक् ।

निकट त्रि० निबद्धम् निबद्धार्थात् नेः “सम्प्रोदश्च” पा०

चात् कटच् । आसन्ने सम्बवे । “अदूरे गम्यतां
किञ्चिन्निकटं सरः” पञ्चत० ।

निकर प० निकॄ + भावादौ अप् । १ समूहे अमरः । २ सारे

३ न्यायदत्तधने ४ निधौ च मेदि० “निष्यन्दिनीरमिकरेण
कृताभिषेका” माघः ।

निकर्षण न० निर्गतं कर्षणमस्मात् प्रा० ब० । १ कर्षणरहिते

भूभामे २ गृहादिपरिच्छिन्नदेशे सन्निवेशे ३ पुरग्रामाद्बहि-
भागस्थविहारभूमौ कर्षणशून्यत्वात् तयोस्तथात्वम् ।

निकव(स) पु० नि + कम(स)--अच् निकष(स)त्यनेन करणे घो

वा । १ कषणे २ कषपाषाणे च (कषटीपातर) अमरः ।
“निकषे देमरेखेव श्रीरासीदनपायिनी” रघुः कर्मणि
च । ३ परीक्षार्थं कषणकर्महेमादौ त्रि० “यदा निर्गुण
माप्नोति ध्यानं मनसि पूर्वजम् । तदा प्रज्ञायते ब्रह्म
निकषं निकषे यथा” मा० शा० २०५ अ० । ४ शाणे अस्त्रा-
दितीक्ष्णतासाधनास्त्रे अमरः ।

निकषा अध्य० नि + कष--वा० आ । १ निकटे अमरः ।

“विलङ्घ्य लङ्कां निकषा हनिष्यति” माघः निकषायोगे
शेषार्थे द्वितीया २ मध्ये च मेदि० । ३ राक्षसमातरि स्त्री

निकषात्मज पु० ६ त० । राक्षसे अमरः ।

निकषोपल पु० कर्म० । १ शाणे (कषटी) २ प्रस्तरभेदे च ।

निकाम न० नि + कम--घञ् अभिधानात् क्लीवता । १ इष्टा-

मतिक्रमे २ पर्य्याप्ते ३ अतिशये च अमरः । “निकामतप्ता
द्विविधेन वह्निना” कुमा० “नित्यं हरेः सन्निहिता
निकामम्” माथः ।

निकामन् त्रि० नि + कम बा० मनिन् । नितरां कामुके

“सिषक्ति सृजमानानि कामभिः” ऋ० १० । ९२ । ९ “निका-
मभिः नितरामभिलाषुकैः” भा० ।

निकाय पु० नि + चि--थञ् कुत्मम् । १ निवासे २ सजातीय-

प्राणिसङ्घे ३ लक्ष्ये ४ परमात्मनि मेदि० “तथा देवनिका
यानां सेन्द्रणाञ्च दिवौकसाम्” भा० आ० १२३ अ० । “तस्य
सर्वनिकायेषु निर्झरेषु गुहासु च” रामा० ४ । ४४ । ३१

निकाय्य पु० नि + चि--ण्यत् कुत्वम् । गृहे अमरः ।

“न प्रणाय्यः जनः कच्चित् निकाय्यं तेऽधितिष्ठति”
भट्टिः ।

निकार पु० नि + कृ--कॄ--वा भावे घञ् । १ मारणे २ परिभवे

अमरः “राक्षां निकारे सहसा प्रवृत्तः” भा० आ०
१८९ अ० । “निकारोऽग्रे पश्चाद्धनमहह भोस्तद्धि
निधनम्” शान्ति० श० ३ भर्त्सने च ४ धान्यादेरूर्द्धक्षेप्रणे
अमरः । ४ खलीकारे शब्दमा० ।

निकारण न० नि + कॄ--णिच्--ल्युट् । १ मारणे २ बधे अमरः

निकाल्य त्रि० नि + कल--ण्यत् । चालनीये त्रिका० ।

निकाश पु० नि + काश--घञ् । १ प्रकाशे २ समीपे च । तुल्यार्थे

अस्य निभादित्वात् नित्यस० वा दीर्घश्च । “उवाच
पूर्णेन्दुनिकाशवक्त्राम्” हरिवं १५४ अ० “आकर्णमुल्लसित-
मम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य”
माघः । साद्वश्येऽस्य न पृथक्प्रयोगः ।

निकाष पु० नि + कष--भावे घञ् । समुल्लिखने कषणे

“तेजोभिः कणकनिकाषराजिलौहैः” किरा० ।

निकास पु० नि + कास--घञ् । प्रकाशे नीकाशशब्दार्थे सादृश्ये

भरतः निभादिवत् नास्य पृथक्प्रयोतः ।
पृष्ठ ४०५७

निकुच्यकर्णि अव्य० निकुच्यौ सङ्कुचौ कर्णौ यत्र द्वि-

दण्ड्या० इच्समा० । सङ्कुच्यकर्णके

निकुञ्चक पु० नि + कुन्च--ण्वुल् । १ कुडवपादे प्रसृतपरि-

माणे अमरः २ वानीरभेदे जलवेतसे भावप्र० ।

निकुञ्ज पु० न० नितरां कौ जायते जन--ड पृषो० ।

लतादिपिहितोदरे कुञ्जे “कपिकुलमुपयाति क्लान्तमद्रेर्नि-
कुञ्जम्” ऋतुस० ।

निकुञ्जिकाम्रा स्त्री निकुञ्जमुत्पत्तिस्थानत्वेनास्त्वस्या ठन्

कर्म० । कुञ्जबल्लर्य्यां श्रीफलतुल्यगुणायां लतायाम्
राजनि० ।

निकुम्भ पु० नि + कुभि--अच् । १ दन्तीवृक्षे २ कुम्भकर्णराक्षस-

पुत्रभेदे च मेदि० । “स कुम्भञ्च निकुम्भञ्च कुम्भकर्णा-
त्मजाबुभौ” रामा० लङ्का० ७५ । ४६ श्लो० । ३ दानवभेदे
“निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा” भा० आ० ७५
अ० । प्रह्णादस्य ४ पुत्रभेदे “प्रह्णादस्य त्रयः पुत्राः
ख्याताः सर्वत्र भारत! । विरोचनश्च कुम्भश्च निकु-
न्भश्चेति भारत!” भा० आ० ६० अ० । ५ हर्य्यश्वनृप-
पुत्रे “हर्य्यश्वथ्य निकुम्भोऽभूत् क्षात्रधर्मरतः
मदा” हरिवं० १२ अ० । ६ विश्वदेवभेदे “विश्वदेवाश्च
विश्वायां धर्माज्जाता इति श्रुतिः” इत्युपक्रमे “विश्वावसु-
सुपर्वाणौ निकुम्भश्च महायशाः” हरिवं० २०४ अ० ।
तत्र निकुम्भ इत्यत्र विष्कुम्भ इति पाठान्तरम् । ७ कुरुसे-
नाधिपान्तर्गते नृपभेदे “दुःशासनो निकुम्भश्च कुण्डभेदी
पराक्रमी” भा० द्रो० १५६ अ० । ८ कुमारामुचरभेदे “शङ्कु-
कर्णो निकुम्भश्च पद्मः कुमुद एव च” भा० श० ७६ अ०
तत्सेनाध्यक्षोक्तौ । ९ राक्षसेशे शिवानुचरभेदे “पार्श्वे
तिष्ठन्तमाहूय निकुम्भमिदमब्रवीत् । राक्षसेश! पुरीं
नत्वा शून्यां वाराणसीं कुरु” हरिवं० २९ अ० “अयेहि
मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भमित्रम्” रघुः
१० दन्तीवृक्षे स्त्री गौरा० ङीष् वा राजनि० ।

निकुम्भाख्यवीज न० निकुम्भं दन्तिकावृक्षवीजमाख्याति

स्ववीजेन आ + ख्या--क । जयपाले राजनि० ।

निकुम्भित न० नि + कुभि--क्त । नृत्यकरणभेदे “करणानान्तु

सर्वेषां सामान्यं लक्षणन्त्विदम् । प्रायो वामकरो वक्षः-
स्थितोऽन्यः पुरतोऽनुगः । पादाभ्यां करणं ज्ञेयं
शतमष्टोत्तरं मतम्” इत्युपक्रमे “निकुम्भितं पार्श्वक्रान्त-
मतिक्रान्तं विवर्त्तनम्” सङ्गीतदा० ।

निकुम्भिला स्त्री लङ्कायाः प्रश्चिमभागस्थायां १ गुहायां

२ तत्स्थदेव्याञ्च “मानुषं मांसमास्वाद्य प्रनृत्यामो
निकुम्भिलाम्” रामा० सु० २४ । ४५ “निकुम्भिला नाम लङ्कायाः
पश्चिमभागवर्त्तिनी भद्रकाली तां तत्समीपं गत्वा प्रनृ-
त्यामः” इति तट्टीका । “तेन वीरेण तपसा वरदानात्
स्वयम्भुवः । अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च
तुरङ्गमाः । स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम् ।
यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः । निकुम्भि-
लामसंप्राप्तमकृतास्त्रं च यो रिपुः” रामा० लङ्का० ८५ । ११ श्लो०

निकुरम्ब न० नि + कुर--शब्दे बा० अम्बच् । समूहे अमरः ।

“अनिलतरलकिशलयनिकरेण करेण लतानिकुरुम्बम्”
गीतगोविन्दम् ।

निकुलीनिका स्त्री निपाते “गतागतं प्रतिगतं चुह्लीश्च

निकुलीनिकाः” भा० क० ४९ अ० । “निकुलीनिकाः
निपाताः” नीलकण्ठः ।

निकूल पु० नरमेधाङ्गे षष्ठयूपे पशुभेदालम्भोद्देश्ये

देवभेदे “उत्कूलनिकूलाभ्यन्त्रिष्ठिनम्” यजु० ३० । १४ ।

निकृत त्रि० नि + कृ--क्त । १ पराभूते २ दूरीकृते ३ शठे अमरः ।

४ पतिते ५ नीचे च मेदि० ।

निकृति स्त्री नि + कृ--भावे क्तिन् । १ भर्त्सने २ क्षेपे ३ शाठ्ये

मेदि० ४ दैन्ये शब्दरत्रा० “निकृतिपरेषु परेषु भूरिधाम्नः”
किरा० “निकृत्या कामये नाहं सुखान्युत धनानि वा
भा० स० २०४ श्लो० । ५ पृथिव्यां निघण्टुः । साध्यायां
धर्मस्य पुत्रे ६ वसुभेदे “सप्तमञ्च ततो वायुमष्टमं निकृर्ति”
वसुम् । धर्मस्थापत्यमित्येवं साध्यायां वै व्यजायत”
हरिवं० २०४ अ० ।

निकृष्ट त्रि० नि + कृष--क्त । अधमे जात्याचारादिनिन्दिते अमरः ।

निकेचाय पु० नि + चि--यङ् लुक्--घञ् “आदेश्च कः” इति

सूत्रे च कः इति बक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव
सि० कौ० उक्तेः आदेः चस्य कः । गोमयादीनां पुनःपुनः
राशीकरणे

निकेत पु० नि + कित--निवासे आधारे घञ् । १ गृहे निकेतने

भरतः । “निकेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः”
भा० व० ८९ अ० ।

निकेतन न० नि + कित--निवासे आधारे ल्युट् । १ गृहे

अमरः “शरणेष्यनियमश्चैव वृक्षमूलकेतनः” मनुः ।
कर्मणि ल्युट् । २ पलाण्डौ पु० शब्दच० ।

निकोचक पु० नि + कुच--शब्दे वुन् । अङ्कोटे अमरः अच्

निकोच तत्रार्थे “निचुणपिचु निकोचचोरमाणप्रभृतोनि
पित्तरोगराण्याहुः स्निग्धोष्णानि गुरूणि च” सुश्रुतः ।
पृष्ठ ४०५८

निकोठक पु० नि + कुठि--वुन् पृषो० नलोपः । अङ्कोठवृक्षे

भरतः ।

निक्रमण न० नितरां क्रमते यत्र नि + क्रम--आधारे ल्युट् ।

स्थाने “निक्रमणं निषदनं निवर्त्तनं यच्च पट्वीशमर्वतः”
ऋ० १६२ । १४ “निक्रमणं स्थानम्” भा० ।

निक्वण पु० नि + क्वण--शब्दे “क्वणो वीणायाम्” पा० पक्षे

अप् । वीणायाः शब्दे अमरः ।

निक्वाण पु० क्वण--शब्दे पक्षे घञ् । वीणादेः शब्दे अमरः

निक्षा स्त्री निक्ष--अच् । निख्यायां (निकी) ख्याते क्षुद्रयूके

उणादिकोषः ।

निक्षुभा स्त्री नि + क्षुभ--क । १ सूर्यपत्न्यां २ ब्राह्मण्याञ्च हेमा०

व्र० ख० भविष्यपु० “निक्षुभार्कव्रतं भानोः सदा प्रीति
विवर्द्धनम्” इत्युपक्रमे “निक्षुभा सूर्यपत्नी तया
सहितोऽर्कः निक्षुभार्कः” तत्र व्याख्या, “निक्षुभा ब्राह्मणी
ज्ञेया वाचकोऽर्कः प्रकीर्त्तितः” तत्रैव भविष्यपु० ।

निक्षिप्त त्रि० नि + क्षिप--क्त । १ त्यक्ते जटा० २ कृतनिः क्षेपद्रव्ये च

निक्षेप पु० नि + क्षिप--घञ् । १ निःक्षेपशब्दार्थे निःक्षेपशब्दे

दृश्यम् । २ शिल्पिहस्ते संस्कारार्थं द्रव्यादेरर्पणे च

निखर्व पु० १ अयुतकोटिसंख्यायां २ तत्संख्येये च “अर्वुदमब्जं

खर्वनिखर्वमहापद्मशङ्खवस्तखात्” लीला० नितरां खर्वः
३ वामने त्रि० हेमच० ।

निखर्वट पु० रावणसैन्यगतराक्षसभेदे “विरूपाक्षेण सुग्रीव-

स्तारेण च निखर्वटः” भा० व० २८४ अ० ।

निखात त्रि० नि + खन--क्त । खनित्वाऽऽरोपिते “अष्टादश-

द्वीपनिखातयूपः” रघुः ।

निखिल त्रि० निवृत्तं खिलं शेषो यस्मात् । सकले समग्रे

अमरः । “सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा”
मनुः ।

निगड पु० न० । नि + गल--अच् सस्य डः । १ शृङ्खलायाम्

(वेडी) । निवृत्तो गडः सेचनमस्मात् कठिनत्वात् । २
लोहमये हस्तिपादबन्धने अन्दुके अमरः । “संसारे संनिब-
द्धानां निगडच्छेदकर्त्तरि” ब्रह्मवै० पु० “बद्धापराणि परितो
निगडान्यलावीत्” माघः । ३ बद्धे त्रि० “वद्धस्य निगडस्य
च” मनुः “निगडः निगडितः” कुल्लू० । लस्य नडः ।
निगलः तत्रार्थे हेमच० ।

निगडित त्रि० निगडो जातोऽस्य तार० इतच् । १ बद्धे संयते

निगण पु० निगरण + पृषो० । १ होमधूमे त्रिका० ।

निगद पु० नि + गद--अच् । १ भाषणे २ शब्दमात्रे च अमरः ।

“यद्गृहीतमविज्ञातं निगदेनैव शब्द्यते” ऋ० भाष्यधृत-
मन्त्रः । “निगदस्तु जनैर्वेद्यः” आगमोक्ते ३ जपे च ।
कर्मणि घञ् । उच्चैर्जप्ये ४ मन्त्रे च “य एवात्र मन्त्रो
यो निगदः” शत० व्रा० ११ । २ । १६ ।

निगम पु० निगम्यतेऽत्र अनेन वा नि + गम--घञ् । १ पुरभेदे

तत्र भवः अण् न वृद्धिः । २ वाणिजे ३ कटभेदे ४ वणिक्-
पथे हट्टे मेदि० । ५ निश्चये ६ अध्वनि पर्य्यायकथनेन
वेदार्थबोधके ७ ग्रन्थभेदे हेमच० न्यायमतसिद्धे पञ्चा-
वयवन्यायमध्ये चरमावयवे निगमनशब्दे दृश्यम् ।
८ न्यायशास्त्रे ९ तन्त्रभेदे १० वेदे च । “निगमकल्पतरो-
र्गलितं फलम्” भाग० १ । १ । ३
“आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा” ऋ० अनुक्र-
मणिकायाम् “निगमशब्दो वेदवाची यास्केन तत्र तत्रापि
निगमो भवतीत्येवं वेदवाक्यानामवतारितत्वात् तस्मिन्
निगम एव प्रायेण वर्त्तमानानां शब्दानां चतुर्थाध्याय-
रूपे द्वितीयस्मिन् काण्डे उपदिष्टत्वात्तस्य काण्डस्य
नैगमत्वम्” ऋग्वेदभाष्ये माधवः ।

निगमन न० निगम्यतेऽनेन करणे ल्युट् । १ न्यायस्य चरमा-

वयवे । निगमनलक्षणं गौ० सू० उक्तं यथा
“हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्”
गौ० सू० “साधर्म्योक्ते वैधर्म्योक्ते वा यथोदाहरणमुप-
संह्रियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति
निगमनम् निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया
एकत्रेति निगमनम् निगम्यन्ते समर्थ्यन्ते सम्बोध्यन्ते
तत्र साधर्म्योक्ते तावद्धेतौ वाक्यम् अनित्यः शब्दः इति
प्रतिज्ञा, उत्पत्तिधर्मकत्वादिति हेतुः । उत्पत्तिधर्मकं
स्थाल्यादिद्रव्यमनित्यमित्युदाहरणम् । तथा चोत्पत्ति
धर्मकः शब्द इत्युपनयः तस्मादुत्पत्तिघर्मकत्वादनित्यः
शब्द इति निगमनम् वैधर्म्योक्तेऽपि अनित्यः शब्द
उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं
दृष्टम् न च तथाऽनुत्पत्तिधर्मकः शब्दः तस्मादुत्पत्तिघ-
र्मकत्वादनित्यः शब्द इति” भाध्यम् ।
तत्सूत्रं वृत्तौ तु अन्यथा व्याख्यातम् ।
“हेतोर्व्याप्तिविशिष्टपक्षधर्मस्य अपदेशः कथनं
प्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यविशिष्टपक्षस्य वचनं
निगमनं तथा च व्याप्तिविशिष्टपक्षधर्महेतुकथनपूर्वकसाध्य-
विशिष्टपक्षप्रदर्शकः व्याप्तपक्षधर्महेतुज्ञाप्यसाध्यविशिष्ट-
पृष्ठ ४०५९
पक्षवोधकस्तादृशबोधको वान्यायावयवो निगमनम् इति”
अनु० चिन्ता० तल्लक्षणं यथा
“उपनयानन्तरं निगमनं तच्चानुमितिहेतुलिङ्गपरा-
मर्शप्रयोजकशब्दज्ञानकारणव्याप्तिपक्षताधीप्रयुक्तसाध्यधी-
जनकं वाक्यम्” ।
प्रतिकूलप्रमाणाभावसूचके २ प्रतिज्ञोपसहारवचने
तस्मात् तथेति वचने यथा “असकृदनुचिन्तितानामव्या-
हततरनिजोपदेशानाम् । प्रामाण्यपरमसीम्नां निगमन-
मिदमेव निखिलनिगमानाम्” वेदान्तप्र० ।

निगरण न० नि + गॄ--ल्युट् । गरणस्य वमनस्य प्रतिरूप

व्यापारे १ भक्षणे मेदि० । निगीर्य्यतेऽनेन करणे ल्युट् ।
२ गले पु० मेदि० । ३ होमधूमे शब्दरत्ना० । रस्य लः । निग
लनमप्यत्र ।

निगा(ग)ल पु० नि + गॄ--घञ् अप् वा रस्य सः । १ भक्षखे

करणे घञ् । २ अश्वगलदेशे अमरः “घण्टागलसमीपस्थो
निगालः कीर्त्तितो बुधैः” अश्वशास्त्रम् ।

निगालवत् पु० निगाल + अस्त्यर्थे मतुप् मस्य वः । अश्वे शब्दार्थचि० ।

निगीर्ण त्रि० नि + गॄ--क्त । १ भक्षिते २ अन्तर्भाविते च

“विषयिणारोप्यमाणेऽन्तःकृते--निगीर्णे अन्यस्मिन्नारोप-
विषये” काव्यप्र० ।

निगु पु० निगृह्यते ज्ञायते पदार्थोऽनेन नि + ग्रह बा० डु

रलोपश्च । १ मनसि त्रिका० । २ मले ३ मूले ४ चित्रकर्मणि
च संक्षिप्तसारोणादिवृत्तिः ।

निगुत् त्रि० नि + गु--शब्दे क्विप् तुक् । मयादिना अव्यक्त-

शब्दकारके “प्रत्यञ्चोयन्तु निगुतः” ऋ० १० । १२८ । ६

निगूढ त्रि० नि + गुह--क्त । १ गुप्ते २ वनमुद्गे पु० हेमच०

“सुराजेव निगूढमन्त्रसाधनकथितविग्रहः” काद० ।

निग्रन्थन न० नि + ग्रन्थ--भावे ल्युट् । मारणे हेमच० ।

निग्रह पु० नि + ग्रह--अप् । १ भर्त्सने २ सीमायाम् ३ बन्धने

४ अनुग्रहाभावे ५ चिकित्सायां निषिद्धे प्रवृत्तस्य ६
तिरस्कारे ७ मारणे प्रवृत्तिवारणय ८ रोधे च निरोधरूप
योगेन अभ्यासवैराग्यां ९ मनसोनिरोधे “निग्र-
हानुग्रहे शक्तः प्रभुरित्यभिधीयते” । “तस्याहं निग्रहं
मन्ये वायोरिव सुदुष्करम्” गीता । १० परमेश्वरे पु०
“प्रग्रहो निग्रहो व्यग्रः” विष्णुसं० । “सर्वं प्रलये
निगृह्णातीति निग्रहः” भा० ।

निग्रहस्थान न० नौतमोक्ते वादिनोनिग्रहास्पदे वाक्यभेदे

तल्लक्षणं यथा
“विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्” गौ० सू०
“क्रमप्राप्तं निग्रहस्थानम् लक्षयति । निग्रहस्य
खलीकारस्य स्थानं तच्च विप्रतिपत्तिरप्रतिपत्तिश्च विप्रति-
पत्तिर्विरुद्धा प्रतिपत्तिरप्रतिपत्तिः प्रकृताज्ञानं यद्यप्ये-
तदन्यतरत् परनिष्ठं नोद्भावयितुमर्हं प्रतिज्ञाहान्यादे-
र्निग्रहस्थानत्वानुपपत्तिश्च तथापि विप्रतिपत्त्यप्रतिपत्त्य-
न्यतरोन्नायकधर्मवत्त्वं तदर्थः उद्देश्यानुगुणसम्यग्ज्ञाना-
मावलिङ्गत्वं प्रतिज्ञाहान्याद्यन्यतमत्वं वा लक्षणमि-
त्यपि वदन्ति” वृत्तिः । निग्रहस्थानानि द्वाविंशतिः यथा
“प्रतिज्ञाहानिः १ प्रतिज्ञान्तरम् २ प्रतिज्ञाविरोघः ३
प्रतिज्ञासन्न्यासो ४ हेत्वन्वर ५ मर्थान्तरं ६ निरर्थक ७ मविज्ञा-
तार्थ ८ मपार्थक ९ मप्राप्तकालं १० न्यून ११ मधिकं १२ पुनरुक्त-
१३ मननुभाषण १४ मज्ञानम १५ ऽप्रतिभा १६ विक्षेपो १७
मतानुज्ञा १८ पर्य्यनुयोज्योपेक्षणं १९ निरनुयोज्यानुयोगो
२०ऽपसिद्धान्तो २१ हेत्वाभासाश्च २२ गौ० मु० उक्तानि ।

निग्राह पु० नि + ग्रह--घञ् । अनिष्टं ते भूयादित्येवं रूपे शापे ।

निघ पु० निर्विशेषण हन्यते हन--क नि० । समविस्तार-

देर्ध्ये तुल्यारोहपरिणाहे पदार्थे अमरः । निघा
निघतरुच्छन्नैः” भट्टिः “निघो निमितम्” पा० निमितमिह
समारोहपरिणाहाभ्यां मितं निमितमित्युच्यते” जयम० ।

निघण्टिका स्त्री कन्दभेदे राजनि० ।

निघण्टु पु० नि + घटि--उ । पर्य्यायनाम्रामेकत्रार्थकथनाय

संग्रहे कोषाभिधानादौ तच्च ऋग्वेदभाष्योपक्रमे उक्तं यथा
“आद्यं नैघण्ठुकं काण्डं द्वितीयं नैगमं तथा” अस्यार्थः
एकार्थवाचिनां पर्य्यायशब्दानां सङ्घो यत्र प्रायेणोप-
दिश्यते तत्र निघण्टुशब्दः प्रसिद्धः । तादृशेष्वमर-
सिंहवैजयन्तीहलायुधादिषु दश निघण्टव इति व्यव-
हारात् । एवमत्रापि पर्य्यायशब्दसङ्घोपदेशादाद्य-
काण्डस्य नैघण्टुकत्वम् । तस्मिन् काण्डे त्रयोऽ-
ध्यायाः । तेषु प्रथमे पृथिव्यादिलोकदिक्कालादिद्रव्य-
विषयाणि नामामि, द्वितीये मनुष्यतदवयवादिद्रव्यविष-
याणि, तृतीये तदुभयद्रव्यगततनुबहुत्वह्रसत्वादिधर्म-
विषयाणि” ।

निघर्ष पु० नि + घृष--भावे घञ् । षर्षणे (घसा) “तरुशाखान्त

निघर्षजोऽनलः” किरा० । ल्युट् । निघर्षणमप्यत्र न० । यथा
हि कनकं शुद्धं तापच्छेदनिघर्षणैः” भा० शा० १२२
५७ श्लो० ।

निघस पु० नि + अद + अप् घसादेशः । भोजने अमरः ।

पृष्ठ ४०६०

निघात पु० नि + हन--भावे घञ् । १ आहनने अन्यस्वरेण

२ अन्यस्वरहनने उदात्तादिहननपूर्वके अनुदात्तकरणे च
कर्मणि घञ् । अनुदात्ते ३ स्वरे “समानवाक्ये निघातयु-
ष्मदस्मदादेशाः” वार्त्ति० । “उदात्तादिहननपूर्वकमनुदात्त-
करणं निघातः” मनोरमा । “ज्यानिघातकठिनाङ्गलि-
त्वचौ” रघुः ।

निघाति पु० निहन्यतेऽनया निहन्--इञ् कुत्वञ्च । लोहघातिन्याम् उणादिकोषः ।

निघृष्व त्रि० नि + घृष--क्वन् निपा० । १ स्वुरे २ तन्मार्जने च

उज्ज्वल० कर्मणि क्वन् । ३ ह्रस्वे निघण्टुः ।

निघ्न त्रि० निहन्यते नि + हन--घञर्थे क । १ अधीने अमरः ।

नियम्यत्वात् तस्य तथात्वम् “निघ्नस्य मे भर्त्तृनिदेशरौ-
क्ष्यम्” रघुः । २ आहते ३ पूरिते च “स्थाप्योऽन्त्यवर्गो द्विगु-
णान्त्यनिघ्नः” लीला० “पुनर्द्वादशनिघ्नाच्च लभते यत्फलं
बुधैः” सूर्यसि० । सूर्यवंश्ये ४ अनरण्यसुते नृपभेदे पु० ।
“अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः” हरिवं० १७ अ० ।
अनमित्रपुत्रे ५ नृपभेदे च “अनमित्रसुतो निघ्नो निघ्नस्य
तु बभूवतुः” हरिवं० ३९ अ० ।

निचन्द्र पु० दानबभेदे “निचन्द्रश्च निकुम्भश्च” निकुम्भशब्दे दृश्यम् ।

निचय पु० नि + चि--भावे अच् । १ समूहे २ अवयवादीनां

समुच्चये ३ निश्चये च शब्दर० । “षण्मासनिचयो वा
स्यात् समानिचय एव वा” मनुः कर्मणि अच् । ४
निचीयमाने अवयवादिना वर्द्ध्यमाने “सर्वे क्षयान्ता
निचयाः पतनान्ताः समुच्छ्रयाः” भा० स्त्री० २ अ० । श्रेण्या०
कृतादिना च्व्यर्थे त० स० । निचयकृत निचयीकृते त्रि० ।

निचयक त्रि० निचये कुशलः आकर्षा० कन् । निचये कुशले

निचाय पु० नि + चि--परिमाणाख्यायां घञ् । राशीकृते

धान्यादौ “एकस्तण्डुलनिचायः अत्र राश्येकत्वेन
समुदायिनां परिच्छित्तिर्गम्यते” सि० कौ० ।

निचि पु० नि + चि--बा० डि । गोकर्णशिरोदेशे रभसः ।

निचिकी स्त्री निचिना कायति शोभते कै--क गौरा०

ङीष् । उत्तमायां गवि नैचिक्याम् शब्दार्थचि० ।

निचित त्रि० नि + चि--क्त । १ व्याप्ते २ पूरिते ३ सङ्कीर्णे ४

निर्मिते च हेमच० । ५ नदीभेदे स्त्री “कौशिकीं निश्चितां
कृत्यां निचितां लोहतारिणीम्” भा० भी० ९ अ० ।

निचिर न० नितरां चिरः प्रा० स० । १ अत्यन्तचिरकाले २ तद्व-

र्त्तिनि त्रि० “प्रसू ज्येष्ठां निचिराभ्याम्” ऋ० ६ । १३६ । १

निचुम्प्रण पु० निचमनेन पूर्यते नीचैरस्मिन् क्वणन्ति दधतीति

या पृषो० । १ समुद्रे २ अवभृथे च “समुद्रोऽपि निचुम्पुण
उच्यते निचमेन पूर्य्यते । अवभृथोऽपि निचुम्पुण उच्यते
नीचैरस्मिन् क्वणन्ति नीचैर्दधतीति वा । नीचं कुणो-
तीति वा” निरु० ५ । १८ । “अवभृथो निचुम्पुणो भवति”
तद्वृता श्रुतिः “अवभृथ! निचुम्पुण निचेरुरसि निचु-
म्पुणः” यजु० ३ । ४८ “निचुम्पुण चुप मन्दायां गतौ
नितरां चोपति मन्दं गच्छति निचुम्पुणः । उणप्रत्ययो
मुमागमश्च । यद्वा नीचैरस्मिन् क्वणन्ति नीचशब्देन
कर्म कुर्वन्त्यवभृथो निचुम्पुणः । “वोणस्थूणव्रणभ्रुणे-
त्यादिना नीचैः शब्दोपपदात् क्वणतेः कप्रत्ययान्तो
गिपातः धातोः पुम्भाव उपपदस्य निचुम्भावश्च निपा-
तितः । तथा विधावभृथ! यद्यपि त्वं निचेरुरसि
नितरां चरतीति निचेरुः । नितरां गमनशीलोऽसि
तथाप्यत्र निचुम्पुणो भव मन्दगमनो भव” वेददी० ।

निचुल पु० नि + चुल--क । १ हिज्जलवृक्षे अमरः । २ वेतस-

वृक्षे राजनि० । “स्थानादस्मात् सरसनिचुलादुत्पतो-
दङ्मुखः खम्” मेघ० ।

निचुलक न० नि + चुल--वा० क्वुन् । १ योधादेश्चोलाकृतिसन्नाहे

निचोलके हारा० । २ कुञ्चिकामत्स्ये पुंस्त्री शब्दार्थचि० ।

निचेय त्रि० नि + चि--यत् । आचीयमाने स्त्रियां टाप् ।

आङि तु स्त्रियां शार्द्धरवा० ङीन् । आनिचेयी

निचेरु पु० नि + चर--उन् बा० आदेरेच्च । नितरां चरणशीले

“अवभृथ निचुम्पुण निचेरुरसि निचुम्पणः” यजु० ३ । ४८

निचोल पु० नि + चुल--अच् । १ प्रच्छदपटे येन शय्यादि प्रच्छा-

द्यते तस्मिन् अमरः २ दोलिकाद्यावरणवस्त्रे ३ स्त्रीपिधा-
नपटे च हेमच० । “शीलय नीलनिचोलम्” गीतगो०

निचोलक पु० निचोल इव कायति कै--क । योधादेश्चोला-

कृतिसन्नाहे कूर्पासे हेमच० ।

निच्छवि पु० निकृष्ट छविरत्र । (त्रिहोत्) तीरभुक्तदेशे त्रिका० ।

निच्छ्रिवि पु० ब्रात्यात् क्षत्रियात्सवर्णायामुत्पन्ने जातिभेदे

“झल्लोमल्लश्च राजन्यात् ब्रात्यात् विच्छिविरेव च” मनुः

निज त्रि० नितरां जायते नि + जन--ड । १ स्वकीये २ नित्ये च

अमरः । “सेनागजेन मथितस्य निजप्रसूनैः” माघः ।
३ स्वाभाविके “स्वाम्यं यस्य निजम्” न्याय लीला० ।

निजघास पु० पार्वत्या रोषसंभूते गणभेदे “निजघासो

घसश्चैव स्थूणाकर्णः प्रशोषणः” हरिवं० १६८ अ० ।

निजघ्नि त्रि० नि + हन--कि द्वित्वम् । नितरां हननशीले

“अथा निजघ्निरोदसा” ऋ० ९ । ५३ । २ ।
पृष्ठ ४०६१

निजधृति स्त्री शाकद्वीपस्थे १ नदीभेदे तदुपक्रमे “एतेषां

वर्षमर्य्यादागिरयो नद्यः सप्त सप्तैव” इत्युक्त्वा “अनघा
आयुर्द्धा उभयसृष्टिरपराजिता पञ्चपदी सहस्रश्रुतिर्नि-
जधृतिरिति” भाग० ५ । २० । १९ । उक्तम् । निजा धृतिरस्य ।
२ स्वभावतो धैर्य्यान्विते त्रि० ।

निजि त्रि० निज--शुद्धौ कि । शुद्धिमति । अतोयवा० मस्य न वः । निजिमान् ।

निटल पु० नि + टल--अच् । कपाले भालस्थले शब्दार्थकल्प-

तरुः “राजा निटलतले चुम्बितनिजचरणाम्बुजैः”
दशकु० ।

निटलाक्ष पु० निटले भाले अक्षि अस्य षच्स० । शिवे

शब्दार्थकल्प० “रोषरूक्षेण निटलाक्षेण दूरीकृतचेतने
मकरचेतने” दशकुमा० ।

निडीन न० नीचैर्डीनम् । भक्ष्यमाश्रयं वा दृष्ट्वा अधःपतन

रूपे खगगतिभेदे खगगतिशब्दे २४१४ पृ० दृश्यम् ।

निण्डिका स्त्री सतीलायां (तेओयाडा) कलायभेदे शब्दच० ।

निण्य त्रि० अन्तर्हिते निघण्टुः “निण्यः संनद्धो मनसा

चरामि” ऋ०१ । १६४ । ३७

नितत्नी स्त्री ओषधिभेदे “देवी देव्यामधिजाता पृथिव्याम-

स्योषधे! । तां त्वा नितत्नि! केशेभ्यः” अथ० ६ । १२६ । १

नितम्ब पु० नि + तम्ब--अच्, निभृतं तम्यते काम्यते कामुकैः

नितरां ताम्यति सुरतमर्दाद् तम--बा० ब वा । स्त्रीणां
पश्चात् १ कटितटे अमरः २ स्कन्धे ३ कूले ४ कट्या अधोभाने
कटके (पर्वतवसृतिस्थाने) ५ कटिमात्रे च मेदि० ।
“तरुण्यालिङ्कितः कण्ठे नितम्बस्थानमाश्रितः । गुरूणां
सन्निधानेऽपि कः कूजति मुहुर्मुहुः” विदग्ध० “नित-
म्बमिव मेदिन्याः स्वस्तांशुकमलङ्घयत्” रघुः “गिरेर्नि-
तम्बे सरुता विभिन्नम्” भट्टिः “सेव्यो नितम्बः किमु
भूधराणां विलासिनानीम्” सा० द० ।

नितम्बिन् त्रि० नितम्ब + अस्त्यर्थे इनि । १ नितम्बयुक्ते

“मेखलागुणपदैर्नितम्बिभिः” रघुः । प्राशस्त्ये इनि ।
२ प्रशस्तनितम्बयुक्तायां स्त्रियां स्त्री ङीप् । “नितम्बिनी-
मिच्छसि मुक्तलज्जाम्” कुमा० ।

नितम्भू पु० ऋषिभेदे “नितम्भूर्भवनो धौम्यः शतानन्दो-

ऽकृतब्रणः” भा० अनु० २६ अ० नानर्षिकथने

नितराम् अव्य० नि + तरप् आमु । १ सुतरामित्यर्थे २ अतिशये

च “सुतरां तुदन्ति चेतो नितरां विवादिनाम्” ऋतुस०
“तेभ्यो नितरां विरतिः” वेदा० ।

नितल न० निकृष्टं तलमधोभागः प्रा० स० । पातालभेदे शब्द-

रत्ना० “सुतलं वितलञ्चैव नितलञ्च गभस्तिमत् । महा-
ग्रमतसञ्चापि पातालञ्चापि सप्तमम्” पुराणस० विष्णु० ।

नितान्त न० निताम्यति स्म नि + तम--क्त । १ एकान्ते २ अत्यन्ते

अमरः । “निद्राविनोदितनितान्तरतिक्लमानाम्” किरा०
“नितान्तदीर्षैर्जनिता तपोभिः” कुमा० ।

नित्य त्रि० नियमेन नियतं वा भवं नि + त्यप् । १ सतते

अमरः । अहरहः क्रियामाणत्वेन २ विधिबोधिते ३
प्रत्यवायसाधनाभावप्रतियोगिनि कर्मणि यथा अहरहः
सन्ध्यामुपासीतेति अत्र सन्ध्याभावे प्रत्यवायसाधनत्व-
बोधः । ४ अविच्छिन्नपरम्पराके च यथा वर्णा नित्याः ।
५ उत्पत्तिविनाशरहिते ६ शाश्वते कालत्रयस्थे वस्तुनि
च त्रि० ७ ससुद्रे पु० राजनि० । शास्त्रबोधितसदातन-
कर्त्तव्यताकं च नित्यं तद्बोधकं ति० त० समाहृत्योक्तं
यथा “नित्यं १ सदा ३ यावदायु ३ र्न कदाचिदति-
क्रमेत् ४ । उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् ।
फलाश्रुतेर्वीप्सया च तन्नित्यमिह कीर्त्तितम्” । अत्र पूर्वा-
र्द्धोक्तार्थकशब्दाः स्वान्वितपदार्थस्य नित्यत्वबोधकाः ।
उत्तरश्लोकबोध्यार्थास्तु परम्परया नित्यतासमर्पका इति
भेदः “तस्मादस्मिन् सदायुक्तो नित्यं स्यादात्मवाय् द्विजः”
“विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु” मनुः
नित्यत्वञ्च ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगि-
त्वम् तेन उत्पत्तिविनाशशून्यत्वात् कालत्रयस्थत्वं गम्यते ।

नित्यकर्मन् न० कर्म० । विहिते कर्मभेदे “नित्यं नैमित्तिकञ्चैव

नित्यनैमित्तिकन्वथा । गृहस्थस्य त्रिधा कर्म तन्निशामय
पुत्रक! । पञ्चयज्ञादिकं नित्यं यदेतत् कथितं तव ।
नैमित्तिकं तथा चान्यत् पुत्रजन्मक्रियादिकम् । नित्यनैमि
त्तिकं ज्ञेयं पर्वश्राद्धादिं पण्डितैः” श्रा० त० मार्क० पु०
तत्त्यागे दोषो यथा “नित्यानां कर्मणां विप्र! तस्य हानि
रहर्निशम् । अकुर्बन् विहितं कर्म शक्तः पतति तद्दिने ।
प्रायश्चित्तेन महता शुद्धिमाप्नोत्यनापदि । पक्षं नित्य-
क्रियाहानेः कर्त्ता मैत्रेय! मानवः । संवत्सरं क्रिया
हानिर्यस्य पुंसोऽभिजायते । तस्यावलोकनात् सूर्य्यो
निरीक्ष्यः साधुभिः सदा । स्पृष्टे स्नानं सचेलस्य शुद्धि
हेतुर्महामुने! । पुंसो भवति तस्योक्ता न शुद्धिः
वापकर्मणः” इति विष्णुपु० । क्षतादौ नित्यकर्मकरणनिषेधो
यथा “जानूर्द्धे क्षतजे जाते नित्यकर्म न चाचरेत् ।
सूतके च समुत्पन्ने क्षुरकर्मणि मैथुने । घूमोद्गारे तथा
वान्तौ नित्यं कर्माणि संत्यजेत् । द्रव्ये भुक्ते त्वजीर्णे
च नैव भुक्त्वा च किञ्चन । कर्म कुर्य्यान्नरो नित्यं सूतके
पृष्ठ ४०६२
मृतके तथा । पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पि-
तम् । कणादिपिप्पल्यन्तञ्च फलं भुक्त्वा न चाचरेत् ।
जलस्यापि नरश्रेष्ठ भोजनाद्भेषजादृते । नित्यक्रिया
निवर्त्तेत सह नैमित्तिकैः सदा । जलौकागूढ़पादञ्च
कृमिगण्डूपदादिकम् । कामाद्दम्भेन संस्पृश्य नित्य-
कर्म्माणि संत्यजेत् । विशेषतः शिवापूजां प्रमीत
पितृको द्विजः । यावद्वत्सरपर्य्यन्तं मनसापि
नचाचरेत् । महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ।
आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत् । गुरुमा-
क्षिप्य विप्रञ्च प्रकृत्यैव च पाणिना । न कुर्य्यान्नित्य-
कर्माणि रेतःपाते च भैरव!” कालि० पु० ५४ अ० ।
नित्यकर्मणि अशक्याङ्गवैगुण्येऽपि फलनिष्पत्तिर्भवतीति
कात्या० श्रौ० १ । २ । १८ सूत्रे याज्ञिकदेवकृतसंग्रहे च
व्यवस्थापितं यथा
“अथेदं विचार्य्यते द्विप्रकारं कर्म नित्यं काम्यञ्च तत्र
नित्यं प्रकृत्येदं विचार्य्यते । किं सर्वाङ्गोपेतं कर्त्तव्यम्
उत यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिरङ्गैरुपेतमिति ।
किं ताबत् प्राप्तम् सर्वाङ्गोपेतमेव कर्त्तव्यमिति कुतः
भावनांशस्य कथंभाबस्य सर्वैरङ्गैः परिपूरणेन सर्वाङ्गो-
पेतमेव कर्त्तव्यमित्येवं प्राप्ते आह” “विगुणे
फलनिर्वृत्तिरङ्गप्रघानभेदात्” सू० । “नित्ये कर्मणि
अग्निहोत्रदर्शपूर्णमासादिके प्रत्यवायपरिहाररूपस्य
फलस्य निष्पत्तिर्भवत्येव । अङ्गप्रधानभेदात् यतोऽङ्गानि
च प्रधानानि च भिन्नानि नित्येषु चेतिकर्त्तव्यता
नास्ति अपूर्वाभावात् अपूर्वप्रयुक्ता हीतिकर्त्तव्यता सा च
तस्मिन्नसति न भवितुमर्हति कथमपूर्वाभावः? ।
फलाभावात् कालान्तरभाविफलसिद्ध्यर्थं ह्यपूर्वं कल्प्यम् ।
तच्चासति फले कल्पयितुं न शक्यते तस्मान्नित्येषु
यागस्यैव माव्यत्वम् न फलस्य । तस्मात् पौर्णमास्याममावा-
स्यायां वाग्निमुद्दिश्य पुरोडाशस्त्यक्तव्य इत्येतावदुपदिश्यते
तेन दृष्टार्थानि यान्यङ्गानि संनिपत्योपकारकाणि
यैर्विना प्रधानभूतयागनिष्पत्तिर्न भवति अन्यथानुपपत्त्या
तावद्भिरुपेतं प्रधानं कर्त्तव्यम् नाङ्गानि अङ्गाम्नानं तु
काम्यप्रयोगार्थम् अतोऽग्निकालपुरोडाशमात्रमादरणी-
यम् अन्यदङ्गजातमदृष्टार्थं नादरणीयमिति । कथं
तर्हीदृशे निष्फले पुरुषस्य प्रवृत्तिरिति? चेत् उच्यते प्रत्य-
वायानुत्पत्त्यर्था प्रवृत्तिर्न तु फलार्था विहिताकरणाद्धि
प्रत्यवायः स्मर्य्यते “अकुर्वन्विहितं कर्म प्रायश्चित्तीयते
नरः” इति (मनुना) । अतो नित्यकर्मणो निष्फलत्वा-
दपूर्वाभावादितिकर्त्तव्यता नास्तीति हीनाङ्गस्यैव प्रयोग
इति केचित् सिद्धान्तमाहुः । तदेतन्नोपपद्यते कथंभाव-
नातो हि तिस्र आकाङ्क्षा जायते किं, केन, कथमिति
तत्र कथमितीतिकर्त्तव्यताकाङ्क्षा नित्येऽप्यस्ति तस्मा-
दत्राप्यस्तीतिकर्त्तव्यता । सत्यम् अस्त्येवेहाप्याकाङ्क्षायाः
समानपदोपात्तेन यागेनैव पूरणात्तन्निर्वृत्त्युपयोगिन्ये-
नेतिकर्त्तव्यता कथमाकाङ्क्षया गृह्यते न त्वदृष्टोप-
योगि प्रयाजाद्यङ्गम् अदृष्टस्य साध्यस्याभावादिति चेत्
न यागस्य स्वतोऽपुरुषार्थत्वेन प्रवृत्त्यन्यथानुपपत्त्या समान-
पदोपात्तं यागमुत्सृज्य सर्वेषामभिमतस्य प्रत्यवाय
परिहारस्येह भाव्यतया कल्पनात् । ननु चेत् सर्वेषा-
मभिमतः स्वर्गः किमिति न कल्प्यते, तस्य शरीरारम्भ-
हेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिप्रेतत्वात् प्रत्य-
वायपरिहारस्तु तैरपीष्यत एव कथं? तस्मिन् पापे
एतज्जन्मोपार्जिते भवान्तरोपार्जिते वा स्थिते सति
तदुपभोगहेतुभूतशरीरारम्भावश्यंभावेन मोक्षाभावात् अतो
मोक्षार्थिनाप्यवश्यं पापक्षय एषितव्य एव समीहित
फलाय, इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः । तस्मान्नित्यानि
कर्माणि पापक्षयस्योपायत्वेन चोद्यमानानीतिकर्त्तव्यता
भपेक्षन्त एव । धर्मशास्त्रेषु च यथैवाकरणे प्रत्यवायः
स्मृतः तथैव करणादपि पापक्षयः स्मर्य्यते “पूर्वां सन्ध्यां
जपंस्तिष्ठन्नैशमेनो व्यपोहति (मनुः) इत्यादिभिः
“नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयमिति च” । तस्मा-
न्नित्येऽप्यस्त्येव प्रत्यवायपरिहाररूपं फलम् । तस्मा-
न्नित्यान्यपिं कर्माणि सर्वाभिमतस्य तस्य पापक्षयस्योपाय-
त्वेन चोद्यमानानीतिकर्त्तव्यतामपेक्षन्त एव । ततश्च
सर्वाङ्गोपेतानामनुष्ठानं कश्चिदपि सर्वदा कर्तुं
न शक्नोति जीवनादिनिमित्ते च तानि विधीयन्ते निमित्तस्य
चैतदेव रूपं यत्तस्मिन् सति नैमित्तिकमवश्यं कर्त्तव्यम् ।
तेन यावज्जीवं कर्त्तव्यम् । तेन यथा शक्नुयादित्युप-
योध्यते तत्रावश्यमन्यतरस्मिन्नहातव्ये निमित्ते सति
नैमित्तिकस्य कर्त्तव्यत्वं प्रधानवाक्ये श्रूयते तद्यदि कस्य-
चिदङ्गस्यानुरोधेन सति निमित्ते नैमित्तिकं न क्रियते
ततः प्रधानवाक्यविरोधः स्यात् प्रधानमात्रं श्रुत्या
निमित्ते विधीयते अङ्गानि तु तदर्थतया प्रकरणेन गृह्यन्ते
अतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाशक्त्यु-
वसंहर्त्तव्यानि इतरथा प्रधानस्यावश्यकर्त्तव्यत्वं श्रुतं
पृष्ठ ४०६३
हीयेत तस्मात् प्रधानाविरोधेनाङ्गानि यथाशक्त्युप-
संहर्तव्यानि । नन्वेवं हीनाङ्गादपि प्रधानात्
फलसिद्धेरभ्युपगसात् समर्थोऽप्यङ्गानि परित्यक्ष्यतीति
मैवम् । शक्तस्य कामतोऽङ्गे त्यज्यमाने वैगुण्यं स्यादेव
अङ्गोपदेशं निमित्तं वालोच्योभयानुरोधेन यावन्त्यङ्गानि
कर्तुं शक्नोति तावद्भिरुपेतं प्रधानमेनः क्षपयतीति
शास्त्रार्थोऽवधार्य्यते तावतैव शास्त्रवशात् फलनिष्पत्तिः
इति साधूक्तम् “विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदा-
दिति” । एतच्च प्रयोगविध्यनुजीव्येष्वङ्गेषूच्यते यद्धि
कुर्य्यादित्युच्यते तत् यथाशक्तीत्युपबोध्यते । यानि तु
स्वभावसिद्धानि विध्यन्तरसिद्धानि वोपजीव्यन्ते यथा लोके
धनार्जनादि वेदेऽपि कालो विद्याग्नयश्च तेषां स्वरूपे-
णौवाधिकारिविशेषणत्वम् । द्रव्यबान् विद्यावानग्नि-
मानिति । एतदुक्तं भवति अङ्गं हि विधिबलादुपादीयते
निमित्तानुरोधाद्वा त्यज्यते उभयानुग्रहार्थं वा शक्तं
प्रत्युपादीयते अशक्तं प्रति त्यज्यत इति नान्या
गतिरस्ति तत्रोभयानुग्रहो युक्तो यदि सम्भवति सम्भवश्चो-
पादेयेष्वङ्गेषु यथाशक्ति व्रीहीन् सम्पादयेत् यथाशक्त्य-
वहन्यादिति आहवनीयादिस्वरूपं तु नानेन विधिनोपा-
दीयते तस्मादग्निमान् विद्यावान् द्रव्यवान् जीवंश्च यजेते-
त्येवमाश्रीयते अतो विद्याग्निकालाद्यपरित्यागेनान्थे-
षामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम् । तथाचोक्तं तन्त्र-
रत्ने “यानि प्रयोगविधिना कर्तुरुपादेयत्वेनाङ्गानि
चोद्यन्ते तेषामेव शक्तिपरिमितत्वम् यावन्ति शक्नुया-
त्तावन्ति कुर्य्यादिति यानि तु विध्यन्तरप्रयुक्तानि स्वयं
सिद्धानि वाङ्गत्वेन गृह्यन्ते तानि स्वरूपत एवाधि-
कारिविशेषणम् यथाग्न्यादीनि तेषामुपादानस्य प्रयोग-
विधिनानुपादानान्न यावच्छक्तीत्युपवन्धः सम्भवति
किन्तु तदपेक्षो विधिस्तद्वन्तमेवाधिकरोति तेन सपत्नीक-
स्यार्षेयस्य (वेदस्य)व्याख्यानोपात्तसंस्कारविशिष्टस्याग्निमतो
विद्यावतःप्रदोषादिकालसंयोगिनोऽधिकारो नान्यस्येति ।
एवं चाप्रतिसमाधेयाङ्गवैकल्येऽप्यग्न्यादिमानधिक्रियेतैव
आधानं तु न कुर्य्यात्तस्यानैमित्तिकत्वादिति” । “प्राय-
श्चित्तविधानाच्च” सू० । “प्रायश्चित्तविधानादप्येवं कल्प्यते
यद्विगुणेऽपि फलनिर्वृत्तिर्भवतीति । यदि च विगुणात्
फलं न स्यात्तर्हि प्रायश्चित्तं न विदधीत नहि निष्फल-
स्याङ्गैः कृत्यमस्ति अस्ति च विधानम् तस्माद्विगुणादपि
फलं भवतीति । येषां मते नित्येषु फलाभावेनापूर्वा
भावात्तदर्थेतिकर्त्तव्यताभावेन निमित्तभेदने जाते वैगु-
ण्यात्तत्परिहारायापरं होमाख्यमङ्गं भिन्ने जुहो-
तीत्यादिकमनुपपन्नं न क्रियत एव । पक्षान्तरे असत्या-
मितिकर्त्तव्यतायां भेदने जातेऽपि नास्ति वैगुण्यम्
गुणहानिर्हि वैगुण्यम् असति गुणे कस्य हानिः स्यात्
ततश्चास्मत्पक्ष एव प्रायश्चित्तविधानमुपपन्नमिति” । “तथा
च दृष्टम्” सू० । “नित्यं कर्म यथा कथञ्चित् श्रुताङ्गप-
रित्यागेनापि यथाशक्त्यङ्गोपेतमनुष्ठातव्यत्वेन श्रुतौ
दृष्टम् । तथा हि “यत्पयो न स्यात् केन जुहुया
इति व्रीहियवाभ्यामित्यादि न वा इह तर्हि किं च
नासीदथैतदहुत सत्यं श्रद्धायाम्” इत्यन्तेन ग्रन्थेन । तथा
“तदेव यादृक्कीदृक् च होतव्यमिति” शाखान्तराच्च तस्मा-
द्विगुणेऽपि नित्ये प्रत्यवायपरिहाररूपं फलं भवति
अतएवोक्तं कर्काचार्य्यैः “उपात्तदुरितक्षयो वा उत्पत्-
स्यमानदुरितप्रतिवन्धो वा भवत्येवेति” । “नित्यकर्माण्या-
रब्धे अनारब्धे वा प्रतिनिविर्भवति अबश्यकर्त्तव्यतया
यथाशक्तिप्रयोगस्य व्यवस्थापितत्वात् इति” चान्यत्र तत्रो-
क्तम् । “काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः”
इत्युक्तेस्तत्र प्रतिनिधिरस्ति । “नित्यं नैमित्तिकं काम्यं
त्रिविधं स्नानमिष्यते” ब्रह्मपु०

नित्यक्षौर न० अवैधकेशादिच्छेदने “चूडोदिते तिथावृक्षे बुधेन्द्वो-

र्दिवसे नरः । नित्यक्षौरं प्रकुर्वीत जन्ममासे न तु क्वचित्”
जयोतिषसारः । अधिकं क्षुरकर्मन् शब्दे २३८६ पृ० दृश्यम्

नित्यगति पु० नित्यं गतिरस्य । सदागतौ वायौ हेमच० ।

“यथा वायुर्नित्यगतिर्जलदान् शतशोऽम्बरे” भा० स० ४६ अ०
नित्यगमनादयोऽप्यत्र ।

नित्यदा अव्य० नित्य + दाच् स्वरादि । सर्वदेत्यर्थे “त्वमग्निः

सर्वभूतानामन्तश्चरसि नित्यदा” भा० आ० ६ अ० ।

नित्यदान न० नित्यं प्रत्यहं कर्त्तव्यं दानम् । प्रत्यहकर्त्तव्ये

दाने “नित्यं नैमित्तिकं काम्यं त्रिविधं दानमिष्यते ।
अहन्यहनि यत् विप्र! दीयतेऽनुपकारिणे । अनुद्दिश्य
फलं तत् स्यात् व्राह्मणस्य तु नित्यकम्” गरुडपु० ।

नित्यनैमित्तिक न० कर्म० । नित्यत्वनैमित्तिकत्वयुक्ते

कर्मभेदे पर्वश्राद्धादौ “नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादि
पण्डितैः” श्राद्धत० मार्कण्डेयपु० । प्रायश्चित्तेऽपि
तथात्वम् । अवश्यकर्त्तव्यत्वेन नित्यत्वं पापनिश्चयवता
कर्त्तव्यत्वेन नैमित्तिकत्वं यथाह प्रा० त० रघुनन्दनः
“प्रायश्चित्तस्य नित्यत्वेनाङ्गवैकल्येऽपि फलसिद्धिः । तथा
पृष्ठ ४०६४
च प्रायश्चित्तस्य नैमित्तिकत्वं नित्यत्वञ्च मिताक्षराकृदाह
“नैमित्तिकोऽयं प्रायश्चित्ताधिकारः । अत्र चार्थवादाव-
गतपापक्षयोऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रि-
यते । न च दुरितपरिजिहीर्षुणानुऽष्ठीयते एतावता
काम्याधिकारमात्रशङ्का कार्य्या यस्मात् “चरितव्य
अतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैश्च लक्षणैर्युक्ता
जायन्तेऽनिष्कृतै नसः” इति मनुवचनेऽकरणे दोषश्रवणे-
नावश्यकतावगमात् । तथा च याज्ञवल्क्यः “प्राय-
श्चित्तमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः
कृष्टान्नरकान् यान्ति दारुणान्” । प्रायश्चित्तमकुर्वाणा
दुःसहान्नरकान् प्राप्नुवन्ति” ।

नित्यप्रलय पु० नित्यः प्रात्यहिकः प्रलयः । सुषुप्तौ “चतु-

र्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः । सदा विनाशो
जातानाम्” अग्निपु० ३६७ अ० स च प्रलयचातुर्विध्यमुक्त्वा
वेदान्तपरिभाषायां विवृतो यथा
“स च चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिक-
श्चेति । तत्र नित्यप्रलयः सुषुप्तिः तस्याः सकलकार्य्य-
प्रलयरूपत्वाद् धर्माघर्मपूर्वसंस्काराणाञ्च तदा कारणा-
त्मनावस्थानं, तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः
न वा स्मरणानुपपत्तिः । न च सुषुप्तावन्तःकरणस्यापि
विनाशे तदधीनप्राणनादि क्रियानुपपत्तिः, वस्तुतः श्वासा-
द्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुप्त-
शरीरोपलम्भवत् । नचैवं सुषुप्तस्य परेतादविशेषः सुषु-
प्तस्य हि लिङ्गशरीरं संस्कारात्मना तत्रैव वर्त्तते परेतस्य
तु लोकान्तरे इति वैलक्षण्यात् । यद्वा अन्तःकरणस्य द्वे
शक्तो ज्ञानशक्तिः क्रियाशक्तिश्चेति तत्र ज्ञानशक्तिविशि-
ष्टन्तःकरणस्य सुषुप्तौ विनाशः न तु क्रियाशक्तिविशिष्ट-
स्येति प्राणनाद्यवस्थानमविरुद्धम् । “यदा सुप्तः स्वप्नं
न कञ्चन पश्यति अथास्मिन् प्राणएवैकधा भवति अथैनं
वाक सर्वैर्नामभिः सहाप्येति सता सौम्य! तदा सम्पन्नो
भवति स्वमपीतो भवतीत्यादि” श्रुतिरुक्तमुषुप्तौ मानम्” ।

नित्यमुक्त पु० नित्यं सुक्तः । कालत्रयेऽपि बन्धशून्थे

परमात्मनि “अहं देवो नचान्योऽस्मि--इत्युपक्रमे नित्य-
मुक्तस्वभाववान्” आ० त० । “नित्यमुक्तत्वम्” । मां० सू०

नित्ययज्ञ पु० कर्म० । फलयोगं विना जीवनादिमात्रनिमि-

त्तेन विहिते यथाकथञ्चित् प्रतिनिध्यादिगा असुख्यद्र-
व्येण चानुष्ठेये अग्निहोत्रादौ यज्ञे ।

नित्ययौवन त्रि० नित्ययौवनमखं । १ स्थिरयौवने २ द्रौपद्यां स्त्री त्रिका० ।

नित्यवैकुण्ठ पु० सत्यलोकस्थे विष्णोः स्थानभेदे “ऊर्द्ध्वं

नमसि संविष्टो नित्यवैकृण्ठण्व च । अस्त्वाकाशसमो
नित्यो विस्तृतश्चन्द्रविम्बवत् । इश्वरेच्छासमुद्भूतो निर्ल-
क्ष्यश्च निराश्रयः । आकाशवत् सुविस्तांरश्चामूल्यरत्न-
निर्मितः । तत्र नारायणः श्रीमान् वनमाली चतुर्भुजः ।
लक्ष्मीः सरस्वती गङ्गा तुलसी पतिरीश्वरः । सुनन्द-
नन्दकुमुदपार्षदादिभिरन्वितः । सर्वेशः सर्वसिद्धीशो
भक्तानुग्रहकारकः” ब्रह्मवै० पु० प० ख० १५ अ० ।

नित्यसत्वस्थ त्रि० नित्यमचलं यत् सत्वं धैर्य्यं गुणभेदो

वा तत्र तिष्ठति स्था--क । १ नित्यधैर्य्यावलम्बिनि २
रजस्तमसी अभिभूय सदा सत्वगुणावलम्बिनि च । “नित्य-
सत्वस्थो निर्योनक्षेमः आत्मवान्” मीता ।

नित्यसम पु० गौ० सूत्रोक्ते जात्युत्तरभेदे नित्यानित्यकार्य्य

समादीन् विभज्य “नित्यमनित्यभावादनित्ये नित्यत्वोप-
पत्तेः नित्यसमः” इति लक्षितम् जातिशब्दे ३१०४ पृ० दृश्यम्

नित्यसमास पु० कर्म० । व्याकरणोक्ते समस्यमानयावत्पद-

रहितविग्रहवाक्यसूचिते समासभेदे

नित्यहोम पु० नित्यं प्रत्यहं कर्त्तव्यो होमः । द्विजैः प्रत्यहं

कर्त्तव्ये होमे । स च होमः “यावज्जीवमग्निहोत्रं
जुहोति” इति श्रुत्युक्तः विष्णुसंहितोक्तोऽन्यविधो यथा
“अथाग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य्य परिषिच्य सर्वतः
पाकादग्रमुद्धृत्य जुहुयात् । वाद्धदेवाय सङ्कर्षणाय
प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय ।
अथाग्नये सोमाय मित्राय वरुणाय इन्द्रायेन्द्राग्निभ्यां
विश्वेभ्यो देवेभ्यः प्रजापतये अनुमत्यै धन्वन्तरये वास्तोष्प-
तये अग्नये स्विष्टिकृते च” । “वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ
विधिपूर्वकम् । होमं कुर्य्याद्देवताभ्यो ब्राह्मणो होमभ-
न्वहम् । अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः ।
विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च । कुह्वै चैवा-
नुमत्यै च प्रजापतय एव च । सह व्यावापृथिव्योश्च तथा
स्विष्टकृतेऽन्ततः” मनुनोक्तविधिरन्यविधः शाखाभेदात्
व्यवस्था ।

नित्या स्त्री १ देव्याः शक्तिभेदे तदधिकारेणैव नित्यातन्त्रं

प्रवत्तं तद्ध्यानमन्त्रादिकं तन्त्रसारे दृश्यम् । २ मनसादेव्यां
शब्दरत्ना० ।

नित्यानध्याय पु० सर्वथा वर्जनीयवेदपाठकालादौ “द्वावेव

वर्जयेन्नित्यमनध्यायौ प्रयत्नतः । खाध्यायभूमिञ्चाशुद्धा-
मात्मानं चाशुचिं द्विजः” इति “इमान्नित्यमनध्यायान०
घीयानो विवर्जयेत्” इति मनुना प्रदर्शितोऽनध्यायभेदः
अनध्यायशब्दे १४६ पृ० दृश्यम् ।
पृष्ठ ४०६५

नित्यानित्यवस्तुविवेक पु० नित्यञ्च अनित्यञ्च नित्याऽनित्ये

ते ष ते वस्तुनी च नित्यानित्यवस्तुनी नित्यानित्यव-
स्तुनोर्विवेकः पृथगात्मता । ब्रह्मैव नित्यं वस्तु ततोऽन्य-
दणिलमनित्यमिति विवेचने । “ब्रह्म सत्यं जगन्मिथ्ये-
त्येवं रूपो विनिश्चयः । सोऽयं नित्यानित्यवस्तुविवेकः
समुदाहृतः” शब्दार्थचि धृतवाक्यम् । अयञ्च ब्रह्मविद्या-
याम् अधिकारप्रयोजकः ।

नित्यानित्यसंयोगविरोध पु० नित्यत्वस्यानित्यत्वस्य एकत्र

संयोगे सम्बन्धे विरोधः । एकत्र घर्मिणि नित्यत्वस्या-
नित्यत्वस्व च सम्बन्धरूपे भावाभावयोरेकत्र योगरूपे
विरोधे । संयोगपृथक्त्वभ्यायविषयातिरिक्त एवास्य
विरोधस्य दूधकतेरित्याकारे दृश्यम् ।

नित्याभियुक्त त्रि० नित्यमभि समन्तात् युक्तः योगे व्यापृतः ।

देहयात्रामात्रार्थं प्रयतमाने इतरत्यागासक्ते योगिनि

निद न० निदि--क वा० नलोपः । १ विषे शब्दच० २ निन्दक

त्रि० “अर्च्चन् निदाया विश्वेभिरग्निम्” ऋ० ६ । १२ । ६
“निदाया निन्दिन्याः” भा० ।

निदद्रु त्रि० निवृत्तो दद्रुस्य प्रा० ब० । १ दद्रुरहिते २ मनुष्ये पुंस्त्री० शब्दच० ।

निदर्शन न० नि + दृश--ल्युट् । १ उदाहरणे दृष्टान्ते “आत्मा

ह्याकाशवज्जीवैर्घटाकाशैरिवोदितम् । घटादिवच्च सङ्घा-
तैर्जातावेतन्निदर्शनमिति” । यदा मन्वबुद्धिप्रतिपिषादाय-
षया श्रुत्यात्मनो जातिरुच्यते जीवादोनां तदा जाता-
युपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदित माकाश-
वदित्यादीनि भाष्यम्” शब्दार्थचि० । २ अर्षालङ्कारभेदे
स्त्री टाप् । अर्थालङ्कारशब्दे ३९९ पृ० दृस्यम् ।

निदाघ पु० नितरां दह्यतेऽत्र नि + दह--आधारे घञ्

न्थङ्क्वादि० कुत्वम् । १ उष्णे २ घर्मे ३ घर्मकाले ज्यैष्ठा-
षाढ़मासयोः ४ घर्मजले च मेदि० । ऋतुसंहारे १ म सर्गे
निदाघकाले वर्ण्याः पदार्था भङ्ग्या प्रदर्शितास्तत्रैव
दृश्याः । पुलस्त्यपुत्रे ऋभुपत्नीजाते ५ ऋषिभेदे पु० ।

निदाघकर पु० निदाघ उष्णः करः अस्य । १ सूर्य्ये

हारा० निदाघधानादयोऽप्यत्र “निदाघधामानमिबाधि-
दीधितिम्” माघः । २ अर्कवृक्षे च

निदाघकाल पु० निदाषस्य कालः । १ ग्रीष्मर्त्तौ ज्यैष्ठाषाढ़-

मासयोः “दिनान्तरेम्योऽभ्युपशान्तमन्मयो मिदाघकालः
समुपागतः प्रिये!” ऋतुसं० ।

निदातृ त्रि० नि + दो--तृच् । निरोधके “चरन्वत्सोरुश-

न्निह निदातारम्” ऋ० ८ । ७२ । ५ “निदातारं निरोध-
कम्” भा० ।

निदान न० नितरामसाधारणतया दयते कार्यम् नि + देङ्

पालने ल्यु । १ आदिकारणे अमरः २ कारणमात्रे ३ वत्स-
दामनि निवृत्त दानम् प्रा० स० ४ कारणक्षये च मेदि०
नि + दै शुद्धौ भावे ल्युट् । ५ शुद्धौ हेमच० । ६ रोगनिर्णये
विश्वः ७ रोगहेतौ । “निदानं पूर्वरूपाणि रूपाण्युप-
शयस्तथा । सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चघा
स्मृतम् । निमित्त हेत्वायतनप्रत्ययोत्थानकारणैः । निदा-
नमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते” इति
माधवकरः सुश्रुते निदानप्रकरणे तद्भेदादिकं दृश्यम् ।
“निदानमिक्ष्वाकुकुलस्य सन्ततेः” रघुः ।

निदिग्ध ब्रि० नि + दिह--क्त । १ उपचिते २ लेपनादिना

वर्द्धिते च ३ एलायां स्त्री शब्दच० । ततः संज्ञायां कन्
कापि अत इत्त्वम् । निदिग्विका कण्टकारिकायां स्त्री
अमरः ।

निदिग्धिकादिक्वाथ पु० चक्रदत्तोक्ते क्वाथभेदे “निदि-

ग्धिकानागरकामृतानां काथं पिवेन्मिश्रितपिप्पली-
कम् । जीर्णज्वरारोचककासशूलश्वासाग्निमान्द्यार्द्दित-
पीनसेषु । हन्त्यूर्द्धगामयं प्रायः सायन्तेनोपयुज्यते”

निदिध्यास पु० नि + ध्या--सन्--भावे घञ् । श्रवणमननज्ञातस्य

एकतानतासाध्ये निरन्तरचिन्तने । भावे ल्युट् निदिध्या-
सन तत्रार्थे न० । तल्लक्षणादि यथा “निरन्तरं विचारो यः
श्रुतार्थस्य गुरोर्मुखात् । तन्निदिध्यासनं प्रोक्तं तच्चै-
काग्र्येण लभ्यते । अनात्मन्यरुचिश्चित्ते रुचिश्चात्मनि
चेद्भवेत् । पुण्यपुञ्जेन शुद्धं तच्चित्तमैकाग्र्यमर्हति” ।
विजातीयदेहादिप्रत्ययरहिताद्वितीयवस्तुनि २ सजातीय-
प्रत्ययप्रवाहे । विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्यय
प्रवाहेण ३ श्रवणमननफलमूतेनात्मचिन्तने । निदिध्यासनं
च विचारविशेषत्मकम् । स च विचारविशेषोध्यानात्मा
तद्ध्यानरूपं निदिध्यासनम् । “ताभ्यां निर्विचिकित्सेऽर्थे
चेतसः स्यापितस्य यत् । एकतानत्यमेतद्धि निदिध्यासन-
मुच्यते” । ताभ्यां श्रवणमगनाभ्याम् । ४ अपरायत्तबोधे ।
“अपरायत्तयोधो हि निदिध्यासनमुच्यते” इति वार्त्ति-
कोक्तेः “तस्य वेदान्तवेद्यस्य निदिध्यासगतो बिना”
काशीण० ३० अ० । “श्रुते शतगुणं विद्यात् मननं मननादपि ।
निदिध्यासं लक्षगुर्णमनन्तं निर्विकल्पकम्” विवेकचू० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/नान्दी&oldid=57790" इत्यस्माद् प्रतिप्राप्तम्