सामग्री पर जाएँ

वाचस्पत्यम्/नवलक्षण

विकिस्रोतः तः
पृष्ठ ३९९५

नवलक्षण न० नवमितं लक्षणम् । विश्वसर्गस्थितिप्रलया

णामन्यतमस्य तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षा-
कृतिमत्त्वानामन्यतमरूपेषु नवसु पारमेश्वरेषु लक्षणेषु
तदेतत् वेदा० प० समर्थितं यथा
“प्रकृते च जगज्जन्मादिकारणत्वम् (तटस्य लक्षणम्) अत्र
जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वञ्च कर्तृत्वम्
अतोऽविद्यादौ नातिव्याप्तिः । कर्त्तृत्वञ्च तत्तदु-
पादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । ईश्वरस्य
तावदुपादानगोचरापरोक्षज्ञानसद्भावे च “यः सर्वज्ञः
सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम
रूपमन्नञ्च जायते” इत्यादि श्रुतिर्मानम् । तादृशचिकीर्षा
सद्भावे च “सोऽकामयत बहु स्यां प्रजायेति” श्रुतिर्मानम् ।
तादृशकृतौ च “तन्मनोऽकुरुतेत्यादि” वाक्यम् । ज्ञाने-
च्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा
व्यर्थविशेषणापत्तेः । अतएव जन्मस्थितिध्वंसानामन्य-
तमस्यैव लक्षणे प्रवेशः । एवञ्च लक्षणानि नव सम्पद्यन्ते
ब्रह्मणो जगज्जन्मादिकारणत्वे च “यतोवा इमानि
भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसं-
विशन्तीत्यादि” श्रुतिर्म्मानम् । “जन्माद्यस्य यतोऽन्वयादि-
तरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये
मुह्यन्ति यत् सूरयः” भाग० । १ । १ । १ श्लोकस्य प्रतिपा-
द्यार्थसंग्राहकः श्रीधरस्वामिकृतः श्लोको यथा “विश्व-
सर्गविसर्गादिनवलक्षणलक्षितम् । श्रीकृष्णाख्यं परं
धाम जगद्धाम नमामि तत्” ।

नववरिका स्त्री नवो वरोऽस्त्यस्याः ठन् । नवीढ़ायां हारा०

नववर्ष पु० न० नवमितं वर्षम् । १ भारतादिषु नवसु वर्षेषु ।

वृष--भावे घञ् कर्म० । २ नूतनवर्षणे पु० ।

नववल्लभ न० नवानां नवीनानां वल्लभम् । १ दाहागुरुणि

शब्दार्थचि० । २ नव्यजनप्रिये त्रि०

नववस्त्र न० कर्म० । अनाहते नूतने वसने

नववास्तु पु० नवं वास्तु यस्य । राजर्षिभेद “अग्निर्नय नवास्त्व

वृहद्रथं तुर्वीतिम्” ऋ० १ । ३६ । १८ “नव वास्तु यस्यासौ
नववाराः” वा छन्दसीत्यनुवृत्तेः अमि पूर्वरूपत्वाभावे यण् ।
नववास्तुनामकं वृहद्रथनामकं तुर्वीतिनामकं च राज०
र्षीन् नय इहानय” भा० ।

नवविंशति स्त्री नवाधिका विंशतिः । १ नवाधिकविंशतिस-

ख्यायां २ तद्यते च “नवविंशत्याऽस्तुवत” यजु० १४ । ३१
“करपादाङ्गुलयोविंशतिः नव च्छिद्ररूपाः प्राणास्तैरस्तुवत”
वेददी० “दश हस्त्याङ्गुलयो दश पाद्या नव प्राणाः” शत०
ब्रा० ८ । ४ । ३ । १७ । ततः पूरणे डट् । नवविंश तत्संख्या-
पूरणे त्रि० स्त्रियां ङीप् ।

नवविध त्रि० नव विधायस्य । नवप्रकारे नवविधपापानि

च विष्णुना दर्शितानि यथा “अतिपातक १ महापा-
तका २ ऽनुपातको ३ पपातकेषु ४ प्रवर्त्तते । जातिभ्रंश-
करेषु ५ सङ्करीकरणेषु ६ अपात्रीकरणेषु ७ मलाबहेषु ८
प्रकीर्णकेषु” ९ । प्राय० वि० तद्विवरणं दृश्यम् ।

नवव्यूह पु० नव व्यूहा अस्य । विष्णौ तस्य अष्टसु पद्मदलेषु

प्रद्युम्नादिरूपतया केसरस्थाने मध्ये वासुदेवरूपतया च
नवव्यूहवत्त्वात् तथात्वम् । तदर्चनप्रकारः वह्निपु० उक्तो
यथा “नवव्यूहार्चनं वक्ष्ये नारदाय हरीरितम् । मण्ड-
लेऽब्जेऽर्चयेन्मध्ये अं वीजं वासुदेवकम् । आं सङ्कर्षणं
तथा वह्नौ आं प्रद्युम्नं च दक्षिणे । अनिरुद्धं नैरृते तु
नारायणन्तु पश्चिमे । तद्वद्ब्रह्माणमनिले हुं विष्णुं
क्षौं नृसिंहकम् । उत्तरे तु वराहञ्च ईशे वामनमेव च”

नवशक्ति स्त्री नवगुणिता शक्तिः । सा० ति० उक्ते शक्तिनवके

नवकशब्दे दृश्यम् काश्चित् नवविधा शक्तिः तन्त्रसारे उक्ता
यथा “प्रभा माया जया सूक्ष्मा विशुद्धानन्दिनी पुनः ।
सुप्रभा विजया सर्वसिद्धिदा नव शक्तयः” ।

नवशस्य न० कर्म० । नूतने शस्ये ।

नवशस्येष्टि स्त्री नवशस्यनिमित्ता इष्टिः । साग्निककर्त्तव्ये

नवशस्यनिमित्तके इष्टिभेदे “शस्यान्ते नवशस्येष्ठ्या” ।
“नानिष्ट्वा नवशस्येष्ट्या पशुना चाग्निमान् द्विजः” मनुः

नवशायक पु० नवविधः शायक इव । पराशरसंहितोक्ते

नवविधे (नवशाक) ख्याते सङ्कीर्णजातिभेदे “गोपोमाली
तथा तली तन्त्री मोदकवारुजी । कुलालः कर्मकारश्च
नापितो नवशायकः” ।

नवश्राद्ध न० प्रेतोद्देश्यके मरणाहाद्विषमदिवसे कर्त्तव्ये श्राद्ध-

भेदे तद्विधानादि निर्णयसिन्धौ यथा
“अथ नवश्राद्धं पृथ्वीचन्द्रोदयेऽङिराः “प्रथमेऽह्नि
तृतीये च पञ्चमे सप्तमे तथा । नवमैकादशे चैव तन्नवश्रा-
द्धमुच्यते” शिवस्वामी “नव श्राद्धानि पञ्चाहुराश्वलायनशा-
खिनः । आपस्तम्बाः षडित्याहुर्विभाषा त्वितरेषु हि”
पञ्च ऐकादशाहिकं विना “मरणाहाद्विषमेषु दिनेष्वे-
कैकं नवश्राद्धं कुर्य्यादानवमाद्यदि नवमे विच्छिद्येतैकादशे
तत्कुर्य्यादिति” मदनरत्ने बौधायनोक्तेः । भविष्ये
“नवसप्त विशां राज्ञां नवश्राद्धान्यनुक्रमात् । आद्यन्तयोर्वर्ण
योस्तु षडित्याहुर्महर्षयः” हेमाद्रौ वृद्धवसिष्ठः “अलब्धा
पृष्ठ ३९९६
द्वादशाहस्य लब्ध्वा तरति दुष्कृतम्” अतः षडेव ।
एतान्येव विषमश्राद्धानीत्युच्यते नागरखण्डे तु “पञ्चमे
सप्तमे तद्वदष्टमे नवमे तथा । दशमैकादशे चैव नवश्रा-
द्धानि तानि च” इत्युक्तं कात्यायनस्तु “चतुर्थे पञ्चमे चैव
नवमैकादशे तथा । यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते” ।
प्रथमे सप्तमे चैवेत्याद्यपादे व्यासे पाठः । बह्वृचानान्तु
“नवश्राद्धं दशाहानि नवमिश्रन्तु षडृतून्” इत्युक्तं
नारायणवृत्तौ दीपिकायां “अथ तनुयादाद्ये चतुर्थे दिने
श्राद्धं पञ्चमसप्तमाष्टनवदिग्रुदेषु । युग्मे द्विजः प्रथमे
ऽह्नि तृतीयेऽह्नि पञ्चसप्तनवस्वपि द्वौ द्वौ पिण्डौ प्रदा-
तव्यौ शेषेष्वेकैकन्तु विन्यमेत् । एको विषमश्राद्धेऽवयवपि-
ण्डस्यैक इनि तौ द्वावित्यर्थः । अत्र शास्वाभेदात् व्यवस्था ।
अपरार्के भविष्ये “नवश्राद्धं त्रिपक्षञ्च षण्मासं मासि-
कानि च । न करोति सुतोयस्तु तस्याघः पितरोगताः”
“नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । पृथक्
नैव तु कार्य्याणि संविभक्तधनेष्वपि” इति मिताक्षराधृत
दक्षः । व्यासः “जातकर्मान्त्यकर्माणि नवश्राद्धं तथैव च”
इत्युपक्रमे । “मलमासेऽपि कार्य्याणि नित्यं नैमित्तिकं
तथा” “नवश्राद्धे यदुच्छिष्टं गृहे पर्य्युषितञ्च यत् ।
दम्पत्योर्भुक्तशिष्टं च न भुञ्जीत कदाचन” मिताक्षराधृ-
तव्यासः । नवश्राद्धञ्च आहिताग्निविषयं यहाह यमः
“चतुर्थे पञ्चमे चैव नवमैकादशे तथा । यदत्र दीयते
जन्तोस्तन्नवश्राद्धमिष्यते । अस्थिसञ्चयनादर्वागाहिताग्ने-
र्द्विजन्मनः । अयुग्सान् भोजयेद्विप्रांस्तन्नवश्राद्धमिष्यते ।
नवमे पञ्चमे श्राद्धं प्रेतोपकारार्थं नावश्यकम्
नवश्राद्धसंज्ञा एतद्द्रव्यग्रहणे प्रायश्चित्तविशेषविधानार्थम्
आहिताग्नेरस्थिसञ्चयनादर्वाक् श्राद्धान्तरमस्तीति च
दर्शितम्” प्रा० वि० ।

नवषष्टि स्त्री नवाधिका षष्टिः शा० त० । १ ऊनसप्ततिसंख्यायां

२ तत्संख्यान्विते च ततः पूरणे डट् नवध्रष्ट तत्पूरणे
त्रि० । एवं स्त्रियां ङीप् । तत्पूरणे तमप् नवषष्टितम
त्रि० । नवसप्तति नवाशीतिप्रभृतयो नवाधिकतत्तत्संख्यायां
तत्पूरणे तद्युते च । तत्पूरणे डट् तमप् च नवाधिक-
तत्तत्संख्या पूरणे त्रि० ।

नवसप्तदश पु० नव च सप्तदश चस्तोमायस्य ड समा० ।

अतिरात्रयागभेदे “अभिप्लवं सर्वस्तोमनवसप्तदशावतिरात्रौ”
कात्या० श्रौ० २४ । ३९ “प्रजातिकामस्य नवसप्तेदशः”
तत्रैव २३ । ३ । १४ नवसप्तदशः प्रजातिकामस्य” आश्व० श्रौ०
१० । १ । २ “नवसप्तदशोनाम एकाहः तेन प्रजातिकामो
प्रजातिः प्रजासम्पत्तिस्तां कामयमानः यजेत” नारा० वृ० ।

नवसार पु० “नवसारो भवेच्छुद्धश्चूर्णतोयैर्विपाचितः ।

दोलायन्त्रेण यत्रेन भिषग्भिर्योगसिद्धये” इति वैद्यच-
न्द्विकोक्ते चूर्णतोयाभ्यां दोलायन्त्रेण पाचिते क्राथभेदे
नवसादरमप्यत्र । “प्रतिश्यायेषु क्षिरसः षीडने नवसाद-
रम्” वैद्यचन्द्रिका ।

नवसू स्त्री नवं सूते सू--क्विप् । अभिनवप्रसवायां स्त्रियां

गोप्रभृतौ “अस्तं नवस्य इव ग्मन्” ऋ० ४ । ३४ । ५
“नवस्वः नवप्रसवा गाव इव” भा०

नवसूति(का) स्त्री नवा सूतिः प्रसवो यस्या वा क्वप् ।

१ धेन्वाम् अमरः २ नवप्रसवायां स्थियाञ्च । नवप्रसूतिर-
प्यत्र “नवप्रसूतिर्वरटा तपस्विनी” नैष० ।

नवांश पु० नवमोऽंशः । त्रिंशांशकरूपराशेर्नवमे भागे स च

एकैकराशे ३ । ३० विंशतिकलाधिकांशत्रयरूपः । राशि-
भेदे राशिभेदस्यैकैकांशादिकं ज्यो० उक्तं यथा
“मेषाद्यामकराद्याश्च तुलाद्याः कर्कटादयः । एषान्न-
वांशा राशीनां खांशाः वर्गोत्तमा स्मृताः” यष्या मेघे
प्रथमनवांशो मेषस्य, द्वितीयांशो वृषस्य, तृतीयांशो
मिथुनस्य, चतुर्थाशः कर्कटस्य, पञ्चमांशः सिंहस्य, षष्ठांशः
कन्यायाः सप्तमांशस्तुलायाः, अष्टमांशो वृश्चिकस्य,
नवमांशो धनुषः । एवं वृषे प्रथमांशो मकरस्य १ कुम्भस्य २
मीनस्य ३ मेषस्य ४ वृषस्य ५ सिथुनस्य ६ कर्कटस्य ७
सिंहस्य ८ कन्यायाः ९ । तथा मिथुने तुलायाः १ वृश्चिकस्य २
धनुषः ३ मकरस्य ४ कुम्भस्य ५ मीनस्य ६ मेषस्य ७ वृषस्य ८
मिथुनस्य ९ । एवं कर्के कर्कस्य १ सिंहस्य २ सन्यायाः ३
तुलायाः ४ वृश्चिकस्य ५ धनुषः ६ मकरस्य ७ कुम्भस्य ८
मीनस्य ९ । एवं सिंहे मेषाद्याः ९ । कन्यायां मकराद्याः ९ ।
तुलायां तुलाद्याः ९ । वृश्चिके कर्कटाद्याः ९ । एवमेव
धनुषि मेषाद्याः ९ । मकरे मकराद्याः ९ । कुम्भे
तुलाद्याः ९ । मीने कर्काद्याः ९ । क्रमान्नवांशा ज्ञेयाः
उक्तञ्च “मेघे नवांशा मेषाद्याः वृषे च मकरादिकाः ।
मिथुने च तुलाद्याःस्युः कर्कटे कर्कटादिकाः” इति ।

नवाङ्ग त्रि० नवबिधमङ्गं यस्य । नवविधाङ्गयुक्ते चक्रद-

त्तोक्ते कषायभेदे पु० “संसृष्टदोषेषु हितं संसृष्टमथ
पाचनम् । विश्वामृताव्दभूनिम्बैः पञ्चमूलीसमन्वितैः ।
कृतःकषायो हन्त्याशु वातपित्तोद्भवं ज्वरम्” । २ कर्क-
टशृङ्ग्यां स्त्री टाप् राजनि० । ३ युवत्यां स्त्री ङीष् ।
“नवाङ्गी कुरङ्गीदृगङ्गी करोतु” जगन्नाथपण्डितः
पृष्ठ ३९९७

नवान्न न० कर्म० । १ नूतनान्ने तत् प्राप्यतयाऽत्रास्ति अच् ।

बवान्नागमकाले तन्निमित्तकश्राद्धादिकं श्राद्धविवेके
उक्तं यथा विष्णुधर्मोत्तरे “व्रीहिपाके च कर्त्तव्यं
यवपाके च पार्थिव! । नतावाद्यौ महाराज! विना-
श्राद्धं कथञ्चन । पोर्णमासी तथा माघी श्रावणी च
नरोत्तम! । प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयो-
दशी । एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः” ।
व्रीहिः शरत्पक्वधान्यं तत्रैव व्रीहिशब्दस्य मुख्यत्वात् ।
अन्यथा व्रीह्यपचारे शालिप्रतिनिधिविधानदर्शनं पृथगु-
पादानञ्च नोपपद्येत यथा छन्दोगपरिशिष्टे
कात्यायनः “यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।
यवानामिव गोधूमा व्रीहीणामिव शालयः” । “व्रीहयः
शालयोमुद्गा गोधूमाः सर्षपास्तिलाः” । यवाश्चौषधयः
सप्त्व विपदोघ्नन्ति धारिताः” । वामनपुराणे “हविषा
संस्कृता ये तु यवगोधूमशाद्ययः । तिलमुद्गादयोमाषा
व्रीहयश्च प्रिया हरेः” अतएव कामधेनुकृता आश्विन-
मासीयतिथिकृत्ये नवान्नश्राद्धविषयं ब्रह्मपुराणवचनं
लिखितं यथा “शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा
सुशोभनम् । गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम्”
इत्यमिधाय “तेन देवान् पितॄंश्चैव तर्पयेदर्चयेत्तथा”
इत्यस्मादेव वचनात् शुक्लपक्ष एवैतत् श्राद्धम् । वृश्चिके
ब्रीहिपाकनिमित्तं श्राद्धं न स्यादिति चेन्न स्यादेव
नवान्नागमनिमित्तन्तु तत् स्यादेवेति ब्रूमः”
श्रा० त० रघुं उक्तं यथा
अथ नवान्नश्राद्धम् । शातातपः “नवीदके नवान्ने च
गृहप्रच्छादने तथा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु
च” । नवोदके वर्षोपक्रमे । आर्द्रास्थरवाविति
यावत् “आर्द्रादितो विशाखान्तं रविचारेण वर्षति”
इति ज्योतिर्वचनात् रविचारेण रविगत्या । “प्रावृ-
ष्टकाले समायाते रौद्र ऋक्षगते रवौ । नाड़ीवेधसमा-
योगे जलयोगं वदाम्यहम्” इति रुद्रयामलाच्च । रौद्र-
मार्द्रा । नवान्ने नवान्नागमे अत्र “नक्षत्रग्रहपीड़ासु
दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवशस्यागमे
तथा” इति विष्णुपुराणाद्वक्ष्यमाणबहुतरबचनेषु नवान्न-
श्रुतेर्नवान्नागमत्वेनैव निमित्तत्वं लाघवात् । अमावा-
स्यास्तिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयोदशी व्रीहि-
यवपाकौ च “एतांस्त श्राद्धकालान् वै नित्यानाह
व्रजापतिः । श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते” इति
विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहियवोभयप्राप्तिविष-
यकत्वेन विघायकं ग्रैष्मादिधान्यव्युदासाय । शालि-
धान्यस्य तु प्राप्तिः । “शरद्वसन्वयोः केचिन्नवयज्ञं प्रच-
क्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः”
इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येष्टौ
शालिविधानाद्यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा कल्पनात् ।
“वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः । अपरे क्रिय-
माणं हि धनुष्येव कृतं भवेत् । धनुषि यत् कृतं
श्राद्धं मृगनेत्रासु रात्रिषु । पितरस्तन्न गृह्णन्ति
नवान्नामिषकाङ्क्षिणः” इति वराहवचनाच्च । श्यामाको
व्रीहिविशेषः । वनी वानप्रस्थः । अपरे कृष्णपक्षे
धनुषि धनुःस्थार्के । “पौषे चैत्रे कृष्णपक्षे नवान्नं
नाचरेद्बुधः । भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते”
इति भोजराजवचनैकवाक्यत्वात् । एवञ्च सौरपौष-
वत् चैत्रोऽपि सौर एव साहचर्य्यात् । अत्र धनुर्मीन-
पर्य्युदासात् यबश्राद्धमुख्यकालपर्य्यन्तं माघफाल्गुन-
वैशाखेष्वपि नवान्नश्राद्धं कार्यम् “एवमागामियागीय-
मुख्यकालादधस्तनः । स्वकालादुत्तरो गौणः कालः
पूर्वस्य कर्मणः । यद्वागामिक्रियामुख्यकालस्याप्यन्तरा-
लवत् । गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्मणि”
हरिहरपद्धतौ तथादर्शनात् । अधस्तनः वृक्षवच्छास्त्रे
व्यवहारः । अन्तरालवत् मध्यकालस्येब । वस्तुतस्तु
उत्तरक्रियामुख्यकालं विना उत्तरक्रियाकरणपूर्वकाल एव
पूर्बक्रिया कर्त्तव्या । “संस्कारा अतिपत्येरन् स्वकाला-
चेत् कथञ्चन । हुत्वैतदेव कुर्व्वीत ये तूपनयनादधः”
इति छन्दोगपरिशिष्टात् संस्कारातिपाते तथा व्यवहा-
रात् । अतएव श्राद्धविवेकेऽपि धनुषः पर्युदासान्माघादि-
रिति सामान्यत उक्तम् । एवं यवश्राद्धमपि हरिशयनात्
पूर्वं कर्त्तव्यम् “नवान्नं नै नन्दायां न च सुप्ते
जनार्दने । न कृष्णपक्षे धनुषि तुलायां नैब कारयेत्”
इति ज्योतिर्वचनात् “न च सुप्ते जनार्दने” इति आश्वि-
नशुक्लपक्षेतपरम् आश्विनाधिकारे “शुक्लपक्षे नबं धान्यं
पक्वं ज्ञात्वा सुशोमनम् । गच्छेत् क्षेत्री विधानेन
गीतवाद्यपुरःसरम्” इत्यभिधाय “तेन देबान् पितॄंश्चैव
तर्पयेदर्च्चयेत्तथा” इति ब्रह्मपुराणात् । मृगोनेता प्राप-
कोयासां रात्रीणामिति व्युत्पत्त्या नक्षत्रान्नेतुरित्यने-
नाजबिधानात तत्पदं सिद्धम् । ततश्च मृगशिरः-
पृष्ठ ३९९८
पूर्व्वार्द्धेन वृश्चिकशेषे रात्र्यारम्भात् चत्वारिंशद्दण्डाधि-
कावशिष्टषड्रारात्रयो मृगनेत्रा इति । यथोक्तं ज्योतिषे
“ज्येष्ठाशेषार्द्धगे सूर्ये मृगनेत्रानिशात्मके । नवान्नै-
र्भोजनं श्राद्धं जन्मचन्द्रे तिथौ न च” अत्र जन्मति-
थिनिषेधात् तथा “जन्मर्क्षतारं सितवासरञ्च” इति
जन्मर्क्षनिषेधाच्च “नन्दायां भार्गवदिने त्रयोदश्यां
त्रिजन्मनि” इत्यत्र त्रिजन्मपदं जन्मचन्द्रतिथिनक्ष-
त्रत्रिकपरं परवचने त्रिजन्मान्वित इत्यत्रापि तथा
“सूर्ये चैव विशाखगे स्मरतिथौ पापे त्रिजन्मान्विते ।
नन्दामन्दमहीजकाव्यदिवसे पौषे मधौ कार्त्तिके ।
भेषूग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे श्राद्धं
भोजनकं “नवान्नविहितं पुत्रार्थनाशप्रदम्” । सूर्ये चैव
विशाखगे मार्गशीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रया-
वस्थिते सूर्ये । स्मरतिथौ त्रयोदश्यां पापे पञ्चमतारात्रये
नन्दा प्रतिपत् षष्ठी एकादशी मन्दः शनिः महीजी
मङ्गलः काव्यः शुक्रः । उग्रगणः पूर्वात्रयमघाभरण्यः
अहिरश्लेषा शिव आर्द्रा । भोजराजः “ब्राह्मे विष्णुवृह-
स्पतौ शशधरे मार्त्तण्डपौष्णादितौ मैत्रे चित्रविशा-
खवायुधनभे मूलाश्विवह्नौ तथा । शक्रे वारुण ऋक्षके
शुभदिने श्राद्धं नवं शस्यते नन्दाभार्गवभूमिजेषु न
भवेत् श्राद्धं नवान्नोद्भवम्” । ब्राह्मादयः रोहिणीश्रवण
पुष्य मृगशिरो हस्त रेवती पुनर्वसु अनुराधा चित्रा
विशाखा स्वाती धनिष्ठा मूलाश्विनी कृत्तिका ज्येष्ठा
शतभिषाः । नवान्नश्राद्धे मूलाकृत्तिकाज्येष्ठाविधानात्त-
च्छेषभक्षणप्राप्ते “अश्लेषा कृत्तिका ज्येष्ठा मूलाजपद-
केषु च । भृगुभौमदिने रिक्ततिथौ नाद्यान्नवौदनम्”
इति श्राद्धशेषाभोजिमात्रपरम् अजपदः पूर्वभाद्रपदः ।
चन्द्रताराद्यशुद्धौ प्रतीकारमाह देवलः “कर्म कुर्य्यात्
फलावाप्त्यै चन्द्रादिशोभने बुधः । सुस्थकाले त्विदं सर्वं
नार्त्तः कालमपेक्षते । चन्द्रे च शङ्गं लवणञ्च तारे
तिथावभद्रे सिततण्डुलांश्च । धान्यञ्च दद्यात्
करणर्क्षवारे योगे तिलान् हेममणिञ्च लग्ने” । ऋक्षमविहित-
मक्षत्रं राजमार्त्तण्डे ताराभेदात् लवणपरिमाणमाह
“एकत्रिपञ्चसप्त द्विजाय दद्यात् पलानि लवणस्य क्रमशो
जन्मनि विपदिप्रत्यरिमरणाख्यतारकासु” । पलन्तु लौ
किर्कर्मानैः साष्टरत्तिद्विमासकम् । तोलकत्रितयं ज्ञेयं
ज्योतिर्ज्ञैः स्मृतिसम्मतम्” वामनपुराणाच्च “विष्टयो
व्यतिपाताश्च येऽन्येदुर्नीतसम्भवाः । ते नामस्मरणा-
द्विष्णोर्नाशं यान्ति महात्मनः” विष्णुधर्मोत्तरे “सर्वा-
शुभानां परिमोक्षकारि संपूजनं देववरस्य विष्णोः” इति
ब्रह्मपुराणे “प्राश्नीयात् दधिसंयुक्तं नवं विप्राभिम-
न्त्रितम्” अभिमन्त्रितम् “मन्त्रानादेशे गायत्री” इति
वचनाद्गायत्र्या । स्मृतिः “गृहीत्वा ब्राह्मणानुज्ञां सदधि-
प्राशयेन्नवम्” अत्र व्रीह्यभावे शालिना, नूतनाभावे पुरा-
तनेनापि श्राद्धादिकमाह भट्टभाष्ये स्मृतिः “गृहमेधी
व्रीहियवाभ्यां शरद्वशन्तयोर्यजेत । श्यामाकैर्वनी वर्षासु
आपत्कल्पे अन्येन पुरातनैर्वेति” । गृहंमेधीति मेधृ-
मेधाहिंसयोः मेधृ सङ्गमे चेत्यत्र चकारेण पूर्वगणस्थ
मेधाहिंसयोरनुवृत्तेः तेन मेधृ हिंसार्थः तेन गृहनिमि-
त्तेन जातायाः “पञ्चसूनागृहस्थस्य चुल्लीपेषण्युप-
स्करः । कण्डनी चोदकुम्भश्च बध्यते याश्च वाहयन्”
इति मनूक्तायाः पञ्चसूनारूपहिंसायाः कारी गृहमेधी
गृहस्थ इत्यर्थः । सूदयन्ति प्राणैर्वियोजमन्तीति सूना
प्राणिबधस्थानानि चुल्लीपाकस्थानं पेषणी दृशदुपलादिः
उपस्करः मृहसम्मार्जन्यादि कण्डनी मूषलोदूखलादि
याश्च एताः सूना वाहयन् स्वस्वकार्ये योजयन् वध्यते
पापेन सम्बध्यते इत्यर्थः । श्राद्धचिन्तामणावप्येवम् ।
प्रेतमातापितृकस्य पुरातनधान्यालाभे नवेनैव वैश्वदेवं
कृत्वा नवञ्च ब्राह्मणेभ्यो दत्त्वा ब्राह्मणानुज्ञां गृहीत्वा
भोजनादिकं कर्त्तव्यमाह रेणुकाचार्य्यनव्यवर्द्धमानधृता
स्मृतिः “दत्त्वैवं ब्राह्मणेभ्यश्च हुत्वा वा वैश्वदेविकम् ।
अन्योनवान्नमश्नीयादिति वौधायनोऽब्रवीत्” । अन्यः
श्राद्धकरणासमर्थः श्राद्धानधिकारी च । अतएव विधवया
नवमेकोद्दिष्टें दीयते भुज्यते चेति” ।

नवायस न० नवभागा आयसा यत्र । सुश्रुतोक्ते

लोहचूर्णभेदे “त्रिफला चित्रकत्रिकटुविडङ्गमुस्तानां नवभा-
गस्तावन्तएव च कृष्णायश्चूर्णस्य तत्सर्वमैकध्यं कृत्वा
यथायोगं मात्रां सर्पिर्मधुभ्यां संयुज्योपयुञ्जीत । एतन्न-
वायसमेतेन जाठर्य्यं न भवति सन्नोऽग्निराप्यायते दुर्ना-
मशोफपाण्डुकुष्ठरोगाविपाककासश्वासप्रमेहाश्च न भवन्ति”

नवार्चिस् पु० नव अर्च्चीषि यस्य । मङ्गले हारा० कर्म० ।

नवायां शेखायाञ्च ।

नवासिका स्त्री मात्रावृत्तभेदे “जोल्नावथाम्बुधेर्विश्लोकः”

“तद्युगलाद्वा नवासिका स्यात्” वृ० र० “तद्युगलात्
अम्बुधिद्वयात् अष्टमात्रात उपरीत्यर्थः । यदि जगणो मध्य
गुरुः नगणलघू स्यातां तदा नवासिका स्यात्” तदर्थः ।
पृष्ठ ३९९९

नवाह पु० कर्म० टच् समा० । १ अभिनवे दिने प्रतिपत्तिथौ ।

नवभिरहोभिर्निर्वृत्तः ठञ् तस्य लुक् अच् समा० ।
नवदिनसाध्ये २ यागादौ । ३ गवामयनाङ्गे नवरात्रसाध्य
यागभेदे च पु० । “अभिजित् १ त्रयः स्वरसामानः ४ दिवा-
कीर्त्त्यमहः ५ (विषुवान्) त्रयः स्वरसामानो ८ विश्वजित् ९
इति नवरात्रः इति नवरात्रो विधातव्यः । षष्ठेमासि-
तानभिप्लवान् एकं पृष्ठं च कृत्वा अभिचिदनुष्ठेयः
ततस्त्रयः स्वरसामानः ततो विषुवानिति” ताण्ड्य० ४ । ५१
भाष्ये स्थितम् ।

नविष्टि स्त्री त्रि० नवा इष्टिः वेदे शक० । अभिनवे इष्टिभेदे

यागे “वज्रिन्नपसो नविष्टौ” ऋ० ८ । २ । १७ “नविष्टौ
अभिनवये यागे” भा० ।

नविष्ठ त्रि० अतिशयेन नविता स्तोता इष्ठन् तृणोलोपः ।

१ अतिशयस्तोतृतमे “विप्रा नविष्ठया” ऋ० १ । ८२ । २ “नवि
ष्ठया नवितृतमया मती मत्या स्तुत्या” भा० करणभूताया
अपि स्तुत्याः कर्त्तृत्वविवक्षया कर्त्तरि तृन् । अतिशयेन
नवः नूतनः इष्ठन् । २ नव्यतमे त्रि० ।

नवीन त्रि० नव + स्यार्थे स्व नवस्य नूः ओर्गुणः । नव्ये

“गदाधरविनिर्मिता विविधदुर्गतर्काटवीनवीनपदवी सुदं
वितनुतां सतां धीमताम्” बाधे गदाधरः ।

नवीयस् त्रि० नव + अतिशये--ईयसुन् । नवतमे “प्रतरं

नवीयः” ऋ० १० । ८९ । १ “नवीयो नवतरम्” भा० स्त्रियां
ङीप् नवशब्दस्य स्तुत्याद्यर्थत्वे २ अतिशयेन स्तुत्ये च
“नू नव्यसे नवीयसे सूक्ताय” ऋ० ९ । ९ । ८ “नवीयसेऽ-
तिस्तुत्याय” भा० ।

नवेदस् त्रि० न विपरीतं वेत्ति विद--असुन् नभ्राडित्यादिना

नञः प्रकृतिमावः । विपरोतज्ञानशून्ये मेघाविनि यथा
श्रुतं तथैव ज्ञानवति “नवेदसा विमुर्वाम्” ऋ० १ । ३४ । १

नवोढा स्त्री नवमूढा । १ नूतनपरिणीतायां स्त्रियां २ नायि-

काभेदे “लज्जामरपराधीनरतिर्नवोढा” इति लक्षयित्वा
“बलान्नीता पार्श्वं सुखमनुमुखं नैव कुरुते धुनाना
मूर्द्धानं क्षिपति वदनं चुम्बनविधौ । हृदि न्यस्तं हस्तं
क्षिपति गमनारोपितमना नवोढा वोढारं रमयति च
सन्तापयति च” रसमञ्जर्खामुदाहृतम् ।

नवोदक न० नवं पतितमुत्यितं वा उदकम् । १ नवखाते

उत्थिते उदके २ गगनादभिनवपतिते जले च तस्यापेय-
त्वादिकं प्रा० त० निरूपितं यथा
हारीतः “मत्स्यकण्टकशम्भूकशङ्खशुक्तिकपर्दकान् ।
पीत्वा नवोदकञ्चैव पञ्चगव्येन शुध्यति” । नवोदकं
नवस्वातजलं वर्षोदकञ्च तथा ब्रह्मपुराणम् “नवस्वातजलं
गावो महिष्यश्छागयोनयः । शुध्यन्ति दिवसैरेव
दशभिर्नात्र संशयः” मिताक्षराधृता स्मृतिः “काले नवोदकं
शुद्धं न पातव्यन्तु तत् त्र्यहम् । अकाले तु दशाहं
स्यात् पीत्वा नाद्यादहर्निशम्” काले वर्षाकाले । शङ्खः
“स्नानमाचमनं दानं देवतापितृतर्पणम् । शूद्रोदकैर्न
कुर्वीत तथा मेघाद्विनिःसृतैः” । पानादीतरत्र स्पर्शादौ
च हविवंशः । “अमौममम्भोविसृजन्ति मेघाः पूतं
पवित्रं पवनैः सुनन्धि” । नबोदकनिमित्तं च पार्वणं
श्राद्धं नित्यं, तद्विधानादि ति० त० उक्तं यथा
शातातपः “नबोदके नवान्ने च गृहप्रच्छादने सदा ।
पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च । तस्माद्दद्यात्
सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च” अत्र सदेति श्रवणात्
अस्य नित्यत्वम् । नवोदके वर्षोपक्रमे आर्द्रागते
रबाविति यावत् । “आर्द्रादिती बिशाखान्तं रविचारेण
वर्षति” इति नव्यवर्द्धमानधृतात् “प्रावृट्काले
समायाते रौद्र ऋक्षगते रवौ । नाडीवेधसमायोगे
जलयोगं बदाम्यहम्” इति रुद्रजामलाच्च । रौद्रमार्द्रा
नवोदकश्राद्धस्य सावकाशत्वात् त्रयोदश्यादिषु निषेधमाह
दीपिकायाम् “त्रयोदशीं जन्मदिनञ्च नन्दां जन्मर्क्ष-
तारां सितवासरञ्च । त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्र
ध्रुवेषु च श्राद्धविधानमिष्टम्” । सितबासरं शुक्रवारं
ऋक्षं राशिः हर्य्यादयः श्रवणपुष्यमृगशिरोहस्तारेबत्य-
नुराधा उत्तरात्रितयरोहिण्यः । कृष्णपक्षे चेन्नबोदक-
श्राद्धकालस्तदोमयोः श्राद्धयोस्तन्त्रात् सिद्धिः” ।

नवोद्धृत न० नवमुद्धृतम् । १ नवनीते अमरः । २ भूतलोद्धृतमात्रे त्रि०

नव्य त्रि० नु--स्तुतौ यत् । १ स्तुत्ये नव + स्वार्थे यत् नूरादेश

ओर्गुणः २ नवीने अमरः । ३ रक्तपुनर्णबायां पु० राजनि० ।
भावे यत् । ४ स्तुतौ न० ।

नव्यवर्द्धमान पु० स्मृतिनिबन्धकारकभेदे वर्द्ध मानश्च पुराणः गङ्गेशोपाध्यायसुतः ।

नश् त्रि० नश--क्विप् । १ नाशप्रतियोगिनि । भावे क्विप्

२ नाशे स्त्री । सुहा० झलि पदान्ते च वा च पक्षे
षडगकाः यथाविधानम् । नक्ग् नट् ड् ।

नशाक पुंस्त्री नश--आक । काकभेदे उणादिकोषः ।

नश्यत्प्रसूतिका स्त्री नश्यन्ती प्रसूतिर्यस्याः कप् ।

मृतवत्सायां स्त्रियां हेमच० ।

नश्वर त्रि० नश--क्वरप् । नाशप्रतियोगिनि अवश्यनाश-

शीले अशाश्वते “वदन्ति विश्वं कवयः स्म नश्वरम्” माम०
५ । १८ । ५ स्त्रियां ङीप् ।
पृष्ठ ४०००

नष्ट त्रि० नश--क्त । १ नाशप्रतियोगिनि २ तिरोहिते अदर्शनं

गते ३ दुष्टाशये च । भावे क्त । ४ नाशे ५ अदर्शने च न०
“नष्टं वर्षरवैर्मनुष्यगणनाभावादपास्य त्रपाम्” सा० द०
“ध्रुवाणि तस्य नश्यन्ति अध्रुबं नष्टमेव च” हितो०

नष्टचन्द्र पु० नष्टः दुष्टश्चन्द्रः । सौरभाद्रमासे उभयपक्षीय

चतुर्थ्यामुदिते चन्द्रे तस्य तद्दिवसे दुष्टत्वकारणं ब्रह्म-
वै० पु० ८० अ० उक्तं यथा
“नष्टश्चन्द्रो न दृश्यश्च भाद्रे मासि सितासिते ।
चतुर्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः । चन्द्रस्तारा-
पहरणं कलङ्कमतिदुष्करम् । तस्मै ददाति हे नन्द!
कामतो यदि पश्यति । अकामतो नरो दृष्ट्वा मन्त्र-
पूतं जलं पिबेत् । तदशुद्धो भवेत् सद्यो निष्कलङ्की
महीतले । सिंहः प्रसेनमबधीत् सिंहो जाम्बवता हतः ।
सुकुमारक! मा रोदीस्तव ह्येष स्यमन्तकः । इति
मन्त्रेण पूतञ्च जलं साधु पिबेद्ध्रुवम्” इत्युपक्रमे “दृष्ट्वा
तस्याश्च (तारायाः) सर्व्वाङ्मनङ्गवाणपीडितः । माद्रे
चतुर्थ्याञ्चन्द्रश्च जहाराचेतनां व्रजन् । ज्ञानं क्षणेन संप्राप्य
रथस्थो रसिको बली । रथमारोहयामास करे धृत्वा
च तारकाम् । कामोन्मत्तः कामिनीन्तां समाश्लिष्य
चुचुम्ब सः “यस्मात्तस्मिन् दिने वत्स! पापदृश्यो
युगे युगे । मा भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देहत्यागेन
हे वत्स! कर्मभोगो न नश्यति । प्रायश्चित्तान्न सन्देहो
ह्यस्तमेव भविष्यति । तारापहरणं वत्स! कलङ्कश्चन्द्र-
मण्डले । मृगकृतं विलग्नञ्च भविष्यति युगे युगे” ।

नष्टश्चेष्टता स्त्री नष्टा चेष्टा यस्य तस्य भावः तल् । १ हर्षशो-

कादिभिः सकलचेष्टानाशे २ प्रलये अमरः ३ सात्विकभा-
वभेदे मूर्च्छायामित्यन्ये ।

नष्टजातक न० नष्टं न ज्ञातं जातं जन्म जन्माधानकाली

यत्र कप् । जन्माधानकालयोरपरिज्ञाने प्रश्नलग्ना
दिना जन्मकालज्ञानार्थे उपायभेदे स च वृहज्जातके
२५ अ० उक्तो यथा
“अथ नष्टजातकाध्यायप्रारम्भः “आधानजन्मापरि-
बोधकाले संपृच्छतो जन्म बदेद्विलग्नात् । पूर्वापरार्द्धे
भवनस्य विद्याद्भानावुदग्दक्षिणगे प्रसूतिम्” १ वृ० जा०
“एवमाधानजन्मकालयोरपरिबोधे अज्ञाने सति संपृच्छतः
प्रष्टुः विलग्नात् प्रश्नलग्नाज्जन्म वदेद्ब्रूयात् येन लग्नेन
प्रष्टा पृच्छति तस्य यदि पूर्वार्द्धं प्रथमहोरा भवति तदा
प्रष्टुः भानावादित्ये उदग्गते उत्तरायणस्थे जन्म-
वक्तव्यम् । मकरादिराशिषट्कस्थे जात इत्यर्थः ।
अथ लग्नस्यापरार्द्धं द्वितीया हीरा भवति तदा भानौ
दक्षिणगते दक्षिणायनस्थे जन्म वक्तव्यम् । कर्कटादि-
राशिषट्कस्थे जात इत्यर्थः । तथा च “आधानज-
न्मनी यस्य न विज्ञायेत देहिनः । जन्म संपृच्छतस्तस्य
प्रश्नलग्नात् विनिर्दिशेत्” । अथ वर्षर्तुज्ञानमाह लग्न-
त्रिकोणेष्विति भट्टो० । “लग्नत्रिकोणेषु गुरुस्त्रिभागै-
र्विकल्प्य वर्षाणि वयोनुमानात् । ग्रीष्मोऽर्कलग्ने
कथितास्तु शेषैरन्यायनर्त्तावृतुरर्कचारात्” २ मू० “त्रिभागै-
द्रेष्काणैः लग्नत्रिकोणेषु प्रथमपञ्चमनवमस्थानेषु गुरुः
जीवो ज्ञेयः तद्यथा प्रश्नलग्नस्य यदि प्रथमद्रेष्काणो
भवति तदा यएव लग्नराशिः तत्रस्थे गुरौ जन्म वक्तव्यम् ।
अथ लग्नस्य द्वितीयोदेष्काणस्तदा लग्नाद्यः पञ्चमो राशि-
स्तत्रस्थे गुरौ जन्म वक्तव्यम् । अथ यदि लग्नस्य तृतीय
द्रेष्काणस्तदा लग्नाद्यो नवमोराशिस्तत्रस्थे गुरौ जन्म-
वक्तव्यम् । एवं केषाञ्चिन्मतम् । अथान्येषां मतम् । यथा
प्रश्नलग्नस्य यदा प्रथमोद्रेष्काणोदयो भवति तदा लग्न-
राशितो यावत्संख्ये राशौ वृहस्पतिस्तिष्ठति तावत्सं-
ख्यानि प्रष्टुः वर्षाणि वक्तव्यानि । अथ लग्ने द्वितीयो-
द्रेष्काणस्तदा लग्नात् पञ्चमराशितो यावत्संख्ये राशौ
वृहस्पतिर्भवति तावत्संख्यानि प्रष्टुः वर्षाणि वक्तव्यानि
अथ लग्नस्य तृतीयोद्रेष्काणो भवति तदा लग्नान्नवम-
राशितो यावत्संख्ये राशौ वृहस्पतिर्भवति तावत्संख्यानि
प्रष्टुः वर्षाणि वक्तव्यानि । एतद्व्याख्यानं न शोभनं पूर्वमेव
व्याख्यानं श्रेयः यस्माद्यवनेश्वरः “द्रेष्काणलग्ने क्रमशस्य
राशौ गुरुर्विलग्नाद्यदि कोणगोऽभूत् । समुद्भवेत् तद्भ-
वनक्रमेण स्वाच्चारभादव्दगति प्रगण्या” यद्यप्यत्र
सामान्येनोक्तं वृहस्पतेरवस्थानं तथा च द्वादशभाग-
क्रमेण प्रतिराशौ सञ्चार्य्यः । तद्यथा यदि प्रश्न-
लग्नस्य प्रथभद्वादशभागोदयो भवति तदा लग्नस्थे
जीवे जातः द्वितीयद्वादशभागश्चेत्तदा लग्नाद द्वितीये
गुरौ जातः एवं तृतीयादिद्वादशभागोदये तृतीयादिषु
स्थानेषु ऊह्यम् । विकल्प्य वर्षाणि वयोनुमानादेवं
वृहस्पतेरवस्थानं ज्ञात्वा तस्य एवं वयोनुमानात्तस्याकृतिं
शरीरमवेक्ष्य वर्षाणि विकल्प्य वयःप्रमाणं बुद्ध्वा द्वादशसु
पृष्ठ ४००१
द्वादशसु वर्षेषु विकल्पना कार्य्या । किमस्मिन्नेव
भगणपरिवर्त्ते ज्ञातराशेः वृहस्पतेरवस्थानमभूदुत द्वितीय
उत तृतीयादिषु एवं तस्याकृतिमवेक्ष्य वयोनुमानं वक्त-
व्यम् । यत्र द्वादशसु वर्षेषु भ्रान्तिर्भवति तत्र पुरुषलक्ष-
णोक्तेन दशाविभागेन द्वादशवार्षिकीं दशां क्षेत्रेषु
परिकल्प्य तत्तत्क्षेत्राङ्गसंस्पर्शाद्वर्षज्ञानं तथा च पुरुष-
लक्षणे पठ्यते “पादौ सगुल्फौ प्रथमं प्रदिष्टं जङ्घे-
द्वितीयं तु सजानुवक्त्रे । मेढ्रोरुमुष्काश्च ततस्तृतीयं नाभिं
कटिं चेति चतुर्थमाहुः । उदरं कथयन्ति पञ्चमं हृदयं
षष्ठमथ स्तनान्वितम् । अथ सप्तममंसजत्रुणी कथयन्त्यष्टममो-
ष्ठकन्धरे । नवमं नयने च साश्रुणी सललाटं दशम
शिरस्तथा । अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु
शोमतमिति” किं त्वत्र विंशत्याधिकं वर्षशतं यस्य जन्मनोऽतीतं
तस्य नष्टजातकवर्षज्ञानोपाय एव नास्ति । एवं वर्षेषु ज्ञा-
तेषु ऋतुज्ञानमाह ग्रीष्मोऽर्कलग्न इति येन लग्नेन
प्रष्टा पृच्छति तत्र चेदर्कः सूर्य्यः स्थितस्तद्रेष्काणो वा
लग्ने तदा ग्रीष्मे जात इति वक्तव्यम् । कथितास्तु शेषै-
रिति शेषैरन्यैश्चन्द्रादिभिर्ग्रहैर्लग्नस्थैः ऋतुः पूर्वमेव
कथित उक्तः द्रेष्काणैः शिशिरादय इत्यादिना ग्रन्थे-
नोक्तः । तत्र यदा शनैश्चरोलग्ने भवति तद्द्रेष्काणो वा
तदा शिशिरे जात इति वक्तव्यम् । एवं शुक्रे लग्नगते
तद्द्रेष्काणी वा तदा वसन्ते जातः एवं भौमे ग्रीष्मे ।
एवमेव चन्द्रे लग्नगते तद्द्रेष्काणो वा वर्षासु, बुधे
शरदि, जीवे हेमन्त इति । यदा बहवो लग्नगताः
भवन्ति तदा तेषां मध्ये यो बलवान् तदुक्तर्त्तौ जात इति
वक्तव्यम् । अथ न कश्चिद् यदि लग्नगतो भवति तदा
तस्य सम्बंन्धी द्रेष्काणोदयो भवति तदा तदुक्तर्त्तौ जात
इत्येवं वक्तव्यम । अन्यायनर्तावृतुरर्कचारादिति अन्य-
स्मिन्नयनेऽस्मनृतावर्कचारादृतुः अन्यस्मिन्नयने तदयना
मम्भवश्चेदृतुरन्यो भवति तदर्त्तुरर्कचाण्वशेन वक्तव्यम्
एतदुक्तं भवति सौरेण मानेन ऋतुर्वक्तव्यः न तु
चान्द्रेण यथा शिशिरे ज्ञाते मकरकुम्भयोरन्यनमे राशौ
सूर्य्यस्यावस्थानं ज्ञेयम् एवं शेषराशिष्वस्यूह्यम् अनेन
लौकिकश्चान्द्रमासो निराकृतो भवतीति” भट्टो० ।
“चन्द्रज्ञजीवाः परिवर्तनीयाः शुक्रारमन्दैरयने विलोमे ।
द्रेष्काणभागे प्रथमे तु पूर्वो मासोऽनुपाताच्च तिथिर्वि-
कल्प्यः” ३ मू० ।
“अथायने विलोमे ग्रहपरिज्ञानाष्टृतुपरिज्ञानं मासपरि-
ज्ञानं चैन्द्रवज्रयाह चन्द्रज्ञेति । अयने बिलोमे सति
चन्द्रजीवाः शुक्रारमन्दैः परिवर्त्तनीयाः शशिबुधगुरवः
सितभौमशनैश्चरैः अयनव्यत्यये प्राप्ते सति परिवर्त्तनीयाः
व्यत्ययेन व्यवस्थाप्याः एतदुक्तं भवति यद्युत्तरायणे
ज्ञाते प्रावृट्कालो ज्ञातस्तदा वसन्ते जात इति वक्तव्यम्
चन्द्राच्छुक्रेणात्र परिवर्तितः । अथोत्तरायणे शरदि
प्राप्तायां ग्रीष्मे जातः । दक्षिणायने ग्रीष्मे ज्ञाते शरदि
जातः । अथ बुधो रविमौमयोरपवर्त्तितो । रविभौमौ
बुधेन च । उत्तरायणे हेमन्ते ज्ञाते शिशिरे जातः
दक्षिणायने शिशिरे प्राप्ते हेमन्ते जातः इति वक्तव्यम्
अत्र जीवमन्दौ परस्परमपवर्त्तितौ एवमृतौ ज्ञाते
मासज्ञानमाह द्रेष्काणभाग इति प्रश्रलग्ने यो द्रेष्काणो
वर्त्तते तस्य च द्रेष्काणस्य यदि प्रथमभागो वर्त्तते तदा
ज्ञातर्तौ प्रथमे मासि जातः इति वक्तव्यम् अथ लग्ने
द्रेष्काणस्य द्वितीयो भागो वर्त्तते तदा ज्ञातर्तौ द्वितीये
मासि जातः तृतीयद्रेष्काणे द्वौ विभागौ पूर्वापरौ
अत्रापि अर्कावस्थानतएव मासज्ञानम् । तिथिज्ञानार्थ-
माह । अनुपाताच्च तिथिर्विकल्प्यः अनुपातात् त्रैराशि-
कात् तिथिर्विकल्प्यो विकल्पनीयः लग्नस्य षट्लिप्ताः
शतानि द्रेष्काणः द्रेष्काणेन च ज्ञातर्तुः ऋतुज्ञानं
तदर्द्धलिप्ताः शतत्रयं लिप्ताशतत्रयेण मासज्ञानम् अत्रा-
नुपातात् तिथिर्लिप्तादशकेनैकैको ज्ञेयः एवं च तिथि-
रादित्यभागा एवमादित्यराशयो भागा ज्ञेयाः मासा
राशयस्तिथयो भागाः यस्मिंश्च तिथौ ज्ञातवर्षे
यथाप्रदर्शितादित्यो भवति तस्मिन् तिथौ तस्य जन्म इति
वक्तव्यम्” भट्टो० ।
अथ चन्द्रमानतिथिज्ञानोपायमिन्द्रवज्रयाह ।
“अत्रापि होरापटवो द्विजेन्द्राः सूर्यांशतुल्यां तिथि-
मुद्दिशन्ति । रात्रिद्युसंज्ञेषु विलोमजन्म भागैश्च वेलाः
क्रमशो विकल्प्याः” ४ मू० ।
“अत्रापीति अत्रास्मिंस्तिथिज्ञाने द्विजेन्द्रा मुनयो होरा
शास्त्रस्त्राः सूर्यांशतुल्याम् अंशस्थाने स्फुटार्कभागसमां
तिथिमुद्दिशन्ति कथयन्ति प्रश्रकाले तात्कालिकेनादित्येन
यावन्तो मागा भुक्तास्तावन्तः शुक्लप्रतिपत्प्रभृतिज्ञात-
मासस्य तिथयो व्यतीताः । यत चान्द्रमाने मकरमासे ज्ञाते
माघमासो ज्ञेयः एवमन्यर्त्तृष्वपि मासकल्पना कार्य्या ।
तथा च मणित्थः “पृच्छाकाले रषिणा यावन्तोंशाः
स्फुटेन सम्भुक्ताः । राशेस्तास्तिथयः स्युः शुक्लादावर्क-
पृष्ठ ४००२
मासस्य” एवं दिने ज्ञाते किमयं रात्रौ जातो दिवा वेति
तदर्थमाह रात्रिद्युसंस्थेष्विति रात्रिद्युसंज्ञा पूर्वं
व्याख्याताः गोजाश्विकर्किमिथुना इत्यादिना । तत्र प्रश्र-
काले यदि रात्रिसंज्ञो लग्नो भवति तदा तस्य विलोमतो
दिवाजन्म वक्तव्यम् अथ द्युसंज्ञो लग्नो भवति तदा रात्रौ
जन्म वक्तव्यम् । एवं दिनरात्रिविभागे ज्ञाते वेलाज्ञानमाह
भागैश्च वेलाः क्रमशो विकल्प्याः यस्मिन् दिने पुरुषस्य
जन्मज्ञानं तस्मिन् दिने अंशादित्योऽपि ज्ञातः ततस्तस्य
पुरुषस्य यदि दिवाजन्म तदा तस्मादादित्याद्दिनप्रमाणं
कार्य्यम् अथ रात्रौ जन्म तदा रात्रिप्रमाणं तत्र प्रश्र-
लग्नस्य तस्मिन् काले यावन्तश्चषका भुक्तास्तैरनुपातः कार्यः
यदि पुरुषस्य दिवाजन्म तदा दिनप्रमाणेन यदा रात्रौ
रात्रिप्रमाणेन तत्काललग्नभुक्तचषकाणां गणनां कृत्वा
तस्यैव लग्नस्य स्वदेशराश्युदयप्रमाणेन भागमपहृत्यावाप्तां
वेलां तावता कालेन गतेन दिनस्य रात्नेर्वा जन्म वक्त-
ष्यम् । एवं लग्नभागैः क्रमशः परिपाट्या वेलाः
समयाः विकल्प्या विकल्पनीयाः” भट्टो० ।
“केचिच्छशांकाध्युषितान्नवांशाच्छुक्लान्तसंज्ञं कथयन्ति
मासम् । लग्नत्रिकोणोत्तमवीर्ययुक्तं सम्प्रोच्यतेऽङ्गालभगा-
दिभिर्वा” ५ मू० ।
“अथान्तरेण मासज्ञानमिन्द्रवज्रयाह केचिदिति केचि-
दाचार्याः शशाङ्काध्युषिताच्चन्द्रयुक्तान्नवांशाच्छुक्लान्त-
संज्ञं मासं कथयन्ति प्रश्नकाले यस्मिन्नवांशके
नवमेऽंशे चन्द्रमा भवति तमपि नवांशकं त्रिधा परिकल्प्य
तस्मिन्नवांशके नवमेंशे चन्द्रमा व्यवस्थित इति चन्द्रन-
वांशकगतं नक्षत्रमन्वेष्यम् । तन्नक्षत्रशुक्लान्तसंज्ञके मासि
तस्य जन्म वक्तव्यम् अत्र यस्य नक्षत्रस्य शुक्लान्तसंज्ञो
मासो नास्ति तस्य वृहस्पतिचारोक्तविधिना शुक्लान्त-
संज्ञो मासः परिकल्प्यः तत्रोक्तम् “नक्षत्रेण सहोदय-
मस्तं वा येन याति सुरमन्त्री । तत्संज्ञं वक्तव्यम् वर्षं
मासं क्रमेणैव । वर्षाणि कार्त्ति कादीन्याग्नेयाद्भद्वयाद्-
योज्यानि क्रमशस्त्रिभन्तु पञ्चममुपान्त्यमन्त्र्यं च यद्वर्ष-
मिति” तत्र चन्द्रमा यदि वृषनवांशके तन्नवांशकसप्त-
कस्यार्वाग्भवति तदा कार्त्तिके मासि जात इति वक्त-
व्यम् । अथ वृषनवांशकस्योर्द्धं भवति मिथुननवांशके
तन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा मार्ग-
शीर्षे मासि जात इति वक्तव्यम् । अथ मिथुनवांशके
तन्नवांशषट्कस्योर्द्ध्वं कर्कटनवांशके तन्नवांशकपञ्चकस्यार्वा-
म्यदा चन्द्रमा भवति तदा पौषे मासि जात इति वक्त-
व्यम् अथ कर्कटे तन्नवांशकपञ्चकस्योर्द्ध्वं सिंहनवांशके
तन्नवांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा माघे-
मासि जन्म इति वक्तव्यम् । अथ सिंहनवांशके तन्नवां-
शकचतुष्टयस्योर्द्धं कन्यानवांशके तन्नवांशकसप्तकस्या-
र्वाग्यदा चन्द्रमा भवति तदा फाल्गुने मासि जात इति
वक्तव्यम् । अथ कन्यानवांशकसप्तकस्योर्द्ध्वं तुलानवांशके
तन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा चैत्रे मासि
जात इति वक्तव्यम् अथ तुलानवांशके तन्नवांशकपट्-
कस्योर्द्ध्वं वृश्चिकनवांशके तन्नवांशकपञ्चकस्यार्वाग्यदा
चन्द्रमा मवति तदा वैशाखे मासि जात इति वक्तव्यम्
अथ वृश्चिके तन्नत्रांशकपञ्चकस्योर्द्ध्वं धन्विनवांशके तन्न-
वांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा ज्यैष्ठे-
मासि जात इत्यवगन्तव्यम् । अथ धन्विनवांशके तन्नवां-
शकचतुष्टयस्योर्द्ध्वं मकरनवांशकत्रयस्यार्वाग्यदा चन्द्रमा
भवति तदा आषाढ़े मासि जात इति वक्तव्यम् । अथ
मकरनवांशके तन्नवांशकत्रयस्योर्द्ध्वं कुस्य नवांशके तन्न-
वांशकद्वयस्यार्वाग्यदा चन्द्रमा भवति तदा श्रावणे मासि
जात इति वक्तव्यम् । अथ कुम्भनवांशके तन्नवांशकद्वय-
स्योर्द्ध्वं मीगनवांशे तन्नवांशपञ्चकस्यार्वाग्यदा चन्द्रमा
भवति तदा भाद्रपदे मासि जात इति वक्तव्यम् अथ मीन
नवांशके तन्नवांशकपञ्चक्रस्योर्द्ध्वं मेषनवांशे तन्नवांश-
षट्कत्रयस्यार्वाग्यदा चन्द्रमा भवति तदाश्वयुजि मासि
जात इति वक्तव्यम् । अथ मेषनवांशके तन्नवांशाष्टक-
स्योर्द्ध्वं यदि चन्द्रमा भवति तदा कार्त्तिके मासि जात
इत्यवगन्तव्यम् । यस्मिन् कृत्तिका रोहिणी स कार्त्तिकः
सृगशिरार्द्रा च मार्गशीर्षः पुनर्वसुः पुष्यश्च पौषः”
अश्लेषा मघा च माघः । पूर्वफाल्गुन्युत्तरफाल्गुनी
हस्तश्च फाल्गुनः । चित्रा स्वाती च चैत्रः । विशाखा
अनुराधा च वैशाखः । ज्येष्ठामूले ज्यैष्ठः । पूर्वाषाढ़ोत्तरा-
षाढ़ा चाषाढ़ः । श्रवणं घनिष्ठा च श्रावणः । शतमिषक्-
पूर्वभाद्रपदोत्तरभाद्रपदाश्च भाद्रपदः । रेवत्यश्विनीभरण्य-
श्चाश्चयुजः । यस्मादुक्तम् “त्रिभन्तु पञ्चममुपान्त्यमन्त्यं च
यद्वर्षमिति । एवं शुक्लान्तस्य मासस्य शुक्लान्तग्रहणेनैतत्-
प्रतिपादयति यत्तथा शुक्लपक्षान्ते येन नक्षत्रेण युक्तस्तदुप-
लक्षितोमासो वक्तव्यः यथा कार्तिकशुक्लपक्षान्ते कृत्ति-
कारोहिणीभ्यामन्यतमेन युतश्चन्द्रमा भवति तेन कार्ति-
कोमास उच्यते एवमन्येषामपि योज्यते । तदैतद्व्रुवते
पृष्ठ ४००३
एतदुक्तं मवति न शुक्लान्तोमासः कृष्णान्त एव तथा
च यवनेश्वरः “मासे तु शुक्लप्रतिपत्प्रवृत्ते पूर्वे
शशीमध्यवलोदयस्थः” । तथा च “यद्राशिसंज्ञे शीतांशुः प्रश्न
काले नवांशके । स्थितस्तद्राशिगः पूर्णो यस्मिन् भवति
चन्द्रमाः । जन्ममासः स निर्दिष्टः पुरुषस्य तु पृच्छतः ।
कृष्णपक्षान्तिको मासो ज्ञेयोऽत्र तु विपश्चिता” ।
लग्नत्रिकोणेत्यादि लग्नस्य प्रश्रलग्नस्य त्रिकोणयोश्च
नवमपञ्चमयोर्भध्याद्यस्तत्कालमुत्तमेन प्रधानवीर्येण बलेन
युक्तस्तद्भं राशिः प्रोच्यते कथ्यते तस्मिन् राशौ गते
चन्द्रमसि जात इति वक्तव्यम् । तथा च “यवनेश्वरः
होरादिवीर्याधिकलग्नभाजि स्थानं त्रिकोणे शशिनो
विधाय” । अङ्गालभनादिभिर्वा कालाङ्गानीत्यनेन प्रदर्शि-
तोयः कालपुरुषस्याङ्गविभागस्तदालभनाद्वानेन विधिना
स्प्रष्टुः स्पृशतः यदेव कालपुरुषस्याङ्गं स्पृशति तत्स्थे
चन्द्रमसि जात इति वक्तव्यम् आदिग्रहणात् प्रागुक्त-
सत्त्वदर्शनश्रवणे गृह्येते” भट्टो० । “यावान् गतः
शीतकरो विलग्नाच्चन्द्राद्वदेत्तावति जन्मराशिः । मीनोदये
मीनयुगं प्रदिष्टं भक्ष्याहृताकाररुतैश्च चिन्त्यम्” ६ मू० ।
“अथ प्रकारान्तरेण जन्मस्थराशिज्ञानमिन्द्रवज्रयाह यावा-
निति बिलग्नात् पृच्छालग्नाच्छीतकरश्चन्द्रो यावान् गतो
यावति राशौ व्यवस्थितस्तस्माद्यस्तावति राशिः तत्रस्थे
चन्द्रमसि जात इति वक्तव्यम् । मीनोदये यदि मीनल-
ग्नगतो भवति तदा मीनयुगमेव प्रदिष्टमुक्तम् मीनस्थ-
श्चन्द्रमा इति वक्तव्यम् ननु दर्शितबिधिना राशिरनेकप्र-
कारो यत्र प्राप्तो भिन्नरूपस्तत्र को वक्तव्य इत्याशङ्क्याह
भक्ष्याहृताकाररुतैरिति यस्य राशेः सम्बन्धि भक्ष्यद्रव्यं
तस्मिन् काले कृत्रिममानीयते तदाकारश्च कश्चिदृश्यते
यथा मार्जारादिदर्शने सिंहो महिषादिदर्शने वृष
इत्यादि अथ वा राश्युक्तरूपपुरुषस्य दृष्ट्याथ वा रुतेन
यस्य राशिसदृशप्राणिनो रुतं शब्दः क्रियते तत्रस्थे
चन्द्रमसि जात इति वक्तव्यम्” भट्टो० । “होरानवांश-
प्रतिमं बिलग्नं लग्नाद्रविर्यावति च दृकाणे । तस्माद्वदे-
त्तावति वा विलग्नं प्रष्टुः प्रसूताविति शास्त्रमाह” ७ मू०
“सुवं जन्मराशौ ज्ञाते लग्नज्ञानमिन्द्रवज्रयाह हीरेति
होरायां प्रश्नलग्ने यस्य राशेर्नवांशकस्तत्कालं वर्त्तते
तस्मात्तावति तमं तत्प्रतिमन्तमेवांशकराशिं तस्य जन्मलग्नं
वक्तव्यम् । अथवा लग्नाल्लग्नद्रेष्काणादारभ्य रविः सूर्य्यो
यावति यावत्संख्ये द्रेष्काणे व्यवस्थितस्तस्माल्लग्नादारभ्य
तावति राशौ लग्नगते तस्य जन्म वक्तव्यम् । अत्र च
द्वादशभ्योऽधिके द्रेष्काणे द्वादशकमपास्य संख्यानिर्देशः
चतुर्विंशतेरधिके चतुर्विंशतिमपास्य शेषं वदेत् एवं
शास्त्रमाह शास्त्रं कथयति न स्वमनीषयोक्तमित्ये
तत्प्रतिपादयति शास्त्रग्रहणेनैतत्प्रतिपाद्यते । उक्तञ्च
“पृच्छालग्ननवांशस्य यो राशिः संज्ञया समः । तस्मिन्
लग्नगते राशौ प्रष्टुर्जन्म विनिर्दिशेत्” । पृच्छतस्तावत्सं-
ख्योपगते लग्नाद्दृकाणे दिनकृत् ततः प्रश्नलग्नात्ता-
वत्संख्ये गते लग्नराशौ जन्म वक्तव्यम्” भट्टो० । “जन्मा-
दिशेल्लग्नगे वीर्यगे वा छायाङ्गुलघ्नोऽर्कहतेऽवशिष्टम् ।
आसिनसुप्तोत्थिततिष्ठतां भञ्जायासुखाज्ञोदयशं प्रदिष्टम्”
८ मू० । “अथ प्रकारान्तरेण लग्नानयनमिन्द्रवज्रयाह
जन्मदिशेदिति लग्नगे ग्रहे जन्मादिशेत् प्रश्नलग्ने यो
ग्रहो व्यबस्थितस्तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यम्
अथ बहवो लग्नगता भवन्ति तदा तेषां यो वलवान्
तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यं ततः सलिल
समायामवनौ द्वादशाङ्गुलेन शङ्कुना तात्कालिकानि
छायाङ्गुलानि गृहीत्वा तैरङ्गुलैरेकैकं ग्रहं दर्शितकाले
लिप्तापिण्डीकृतं गुणयेत् अथ वा सर्वग्रहेभ्यो यो
बलवान् ग्रहस्तं तात्कालिकं कृत्वा लिप्तापिण्डं कृत्वा
छायाङ्गुलाहतं चार्कशुद्धं कारयेत् द्वादशभिर्विभजेत्तत्र
तावत्तत्रावशिष्टं तावत्संख्यो मेषादेरारभ्य यो राशि-
र्भवति तस्मिन् राशौ लग्नगते तस्य जन्म वक्तव्यम् । अथ
प्रकारान्तरेणाह आसीनेत्यादि आसीन उपविष्टो यदा
प्रष्टा पृच्छति तदा लग्नाद्यज्जायास्थानं सप्तमराशिस्त-
स्मिन् लग्नगते तस्य जन्म वक्तव्यम् । अथ सुप्तः सुप्तोऽत्र
शयनपतितोऽभिहितः जातनिद्रस्य प्रश्नाभावात् । तत्र
पतितो यदा पृच्छति तदा लग्नाद्यत् सुखस्थानं चतुर्थराशि-
स्तस्मिन् लग्नगते तस्य जन्म बक्तव्यम् । अथोत्थितः पृच्छति
तदा तस्माल्लग्नाद्यदाज्ञा दशमोराशिस्तस्मिन् लग्नगते तस्य
जन्म वक्तव्यम् । अथ शयनादासनाच्च नोत्थितः किन्तु उत्ति-
ष्ठन् पृच्छति तदोदयलग्नराशौ तस्मिन्नेव जन्म वक्तव्यम् ।
उक्तञ्च “उत्तिष्ठतो विलग्नात्प्रष्टुः सुप्तस्य वन्धुलग्नाच्च ।
उपविष्टस्यास्तमये व्रजतोमेषूरणस्थानादिति” भट्टो० ।
“गोसिंहौ जितुमाष्टमौ क्रियतुले कन्यामृगौ च
क्रमात् संवर्ग्या दशकाष्टसप्तविषयैः शेषाः स्वसंख्यागुणाः ।
जीवारास्फुजिदैन्दवाः प्रथमवच्छेषाग्रहाः सौम्यवत्
राशीनां नियतो विधिर्ग्रहयुतैः कार्या च तद्वर्गणाः”
पृष्ठ ४००४
९ मू० । “अथ प्रकारान्तरेण सर्वमेव नष्टजातकं वक्ति ततः
प्रश्रकाले तात्कालिकं लग्नं कृत्वा लिप्तापिण्डीकार्यम्
ततस्तस्य लिप्तापिण्डीकृतस्य गुणकारविज्ञानार्थं शार्दू-
लविक्रीडितेनाह गोसिंहाविति गोसिंहादयो राशयो
यथाक्रमं दशादिभिर्गुणकारैः संवर्ग्या गुणनीयाः तदयथा
गोसिंहौ वृषसिंहौ दशभि १० र्गुणयेत् वृषलग्नं लिप्ता-
पिण्डीकृतं दशभिर्गुणयेत् । एवं सिंहं दशभिरेव ।
जितुमाष्टमौ मिथुनवृश्चिकौ लग्नगतावष्टभि ८ र्गुणयेत् ।
क्रियतुले मेषतुले एतौ सप्तभिर्गुणयेत् । कन्यामृगौ
कन्यामकरौ एतौ लग्नगतौ विषयैः पञ्चमिर्गुण-
येत् । एवमेते यथाक्रमं संवर्ग्यागुणनीयाः शेषा अनुक्ता
राशयः स्वसंख्यागुणा आत्मीयसंख्यया गुणनीयाः तत्र
मेषादिगणनया चतुर्थं कर्कटमिति चतुभिर्गुणतेत् एवं
घन्विन नवभिः ९ कुस्ममेकादशभिः ११ एवं मीनं द्वादशमिः १२ ।
एवं तावल्लग्नं स्वगुणकारेणावश्यमेव गुणयेत् दशकाष्ट-
सप्तविषयैः ततस्तत्र यदि ग्रहो भवति तदा ग्रहगुण-
कारेणावश्यमेव गुणयेत् तत्र ग्रहगुणकारविधिः जीवा
रास्फुजिदैन्दवाः प्रथमवद्दशकाष्टसप्तविषयैरिति जीवे
गुरौ लग्नगते तमेव लग्नं स्वगुणकारैराहतं दशभि-
र्गुणयेत् आरे भौमे लग्नगते अष्टभिः, आस्फुजिच्छुक्रः
तस्मिन् लग्नगते सप्तभिः, ऐन्दवे बुधे पञ्चभिः, शेषा
रविशशिसौरास्ते च सौम्यवत् बुधवत् पञ्चभिर्गुण-
नीया इत्यर्थः । एवं तात्कालिकं लग्नम् अवश्यं राशि-
गुणकारेण गुणयेत् ततः स ग्रहोक्तगुणकारैरपि तत्र
च यदा ग्रहो भवति तदा ग्रहगुणकारेण गुणयेत् ।
यदा बहवो ग्रहा भवन्ति तदा सर्वेषां गुणकारैर्गुण
थेत् एवं च तद्गुणितमेकान्ते स्थापयेत्” भट्टो० ।
“सप्ताहतं त्रिघनभाजितशेषमृक्षं दत्त्वाथ वा नव विशोध्य-
नवाथ वा स्मात् । एवं कलत्रसहजात्मजशत्रुभेभ्यः प्रष्टु-
र्तदेदुदयराशिवशेन तेषाम्” १० मू० । “अथ नक्षत्रानयनं
वसन्ततिलकेनाह सप्ताहतमिति सप्ताहतं सप्तभिर्गुणयेत्
दत्त्वाथ वेति ततस्तत्र नव देयाः शोध्या वा न किञ्चिद्वा
देया इत्युच्यते यदि स चरराशिर्लग्नगतो भवति तदा नव
देयाः स्थिरे न देया नापि शोध्याः, द्विःस्वभावे विलग्ने
नव शोध्याः एवं केचिद्व्याचक्षते वयं पुनर्ब्रूमः यदि
प्रश्रलग्ने प्रथमोद्रेष्काणो भवति तदा न देयाः, द्वितीये
न देया नापि शोध्याः, तृतीये नव शोध्याः एवं कृत्वा
तस्य राशेस्त्रिधनेन सप्तविंशत्या भागमप्रहृत्यावाप्तं त्याज्यं
तत्र यावत्संख्योऽङ्कोऽवशेषो भवति तावत्संख्यमश्वि-
न्यादितो यन्नक्षत्रं तन्नक्षत्रं तस्य प्रष्टुर्वक्तव्यम् । केचित्
वदन्ति तथास्थितस्य राशेः सप्तविंशत्याभागमपहृत्याव-
शेषाङ्कनवकदानेन विशोधनेन वा यथास्थितेनाङ्केन
संवाद उत्पद्यते तथा नक्षत्रं वक्तव्यम् एवमित्यादि
कलत्रसहजात्मजशत्रुभेभ्य इति भार्य्याभर्तृपुत्ररिपुषु नष्ट-
जातकं यदा पृच्छति तदा तद्भेभ्यस्तद्भावेभ्यः एवं प्रष्टुः
पृच्छकस्य वदेद्ब्रूयात् तमेवोदयराशिं परिकल्पयेदि-
त्यर्थः । एतदुक्तं भवति यदि पुरुमः स्वपत्र्या नक्षत्रं
पृच्छति तदा तात्कालिके लग्ने राशिषट्कं देयम् ।
अथ भ्वातुः पृच्छति तदा राशिद्वयं देयमथ पुत्रस्य
पृच्छति तदा राशिचतुष्क देयमथ शत्रो पृच्छति तदा
राशिपञ्चकं देयम् । एवं कृत्वा यद्भवति तदेवोदयराशिं
प्रकल्प्य तद्गुणकारेण गुणथेत् तत्स्थग्रहगुणकारेण
च ततस्तत्र प्राम्बन्नवकदानविशोधने कृत्वा सप्तविंशत्या-
मागमपहृत्यावशेषाङ्कसमं यस्य प्रष्टा पृच्छति तस्य नक्षत्रं
वक्तव्यम् । एतदप्युपलक्षणार्थमेव, त्रिराशिसहितात्ता-
त्कालिकाल्लग्नात् मित्रस्य वक्तव्यम् । एतन्नक्षत्रानयनम-
प्युपलक्षणमेवं सकलमपि नष्टजातकं वक्तव्यम्” भट्टो० ।
“वर्षर्तुमासतिथयोद्युनिशं ह्युडुनि वेलोदयर्क्षनवमागवि-
कल्पनाः स्युः । भूयो दशादिगुणितात् स्वविकल्पभक्ता-
द्वर्षादयो नवकदानविशोधनाभ्याम्” ११ मू० ।
“अथ वर्षाद्यानयनं वसन्ततिलकेनाह वर्षर्त्तुमासेति
वर्षादीनि सर्वाणि स्वविकल्पेन भागे हृते यथा
पाठक्रमेणानयितष्यानि तद्यथा तात्कालिकं लग्नं लिप्ता-
पिण्डीकृतं राशिगुणकाराहतं ग्रहसंयुक्तं चेद्ग्रह-
गुणकारा हृतमपि यदेकान्ते स्थापितं तत्पुनरपि
दशादिगुणं कार्य्यम् । एतदुक्तं भवति स राशिः स्थान-
चतुष्टये धार्य्यः एकत्र दशगुणोऽन्यत्र द्वितीयेऽष्टगुणो-
ऽन्यत्र तृतीये सप्तगुणः चतुर्थे पञ्चगुणः कार्यः यत
उक्तम् । भूयो दशादिगुणितात् भूयः पुनरपि दशकाष्ट-
सप्तविषयैर्गुणनीयाः ततस्तस्मिन राशिचतुष्टये प्राग्वन्न-
वकदानविशोवने कृत्वा स्वविकल्पैर्भागमपहृत्यावाप्तं
वर्षादयो ज्ञेयाः” भट्टो० ।
“विज्ञेयादशकेष्वव्दा ऋतुमासास्तथैव च । अष्टकेष्वपि
मासार्द्धा तिथयश्च तथा स्मृताः” १२ मू० । “अथ न ज्ञायते
कस्माद्राशेः कस्यानयनं कार्यं तदनुष्टुप्पत्रयेणाह
विज्ञेयादशकेष्वव्दा इति अत्र बहुवचनं बहुधोप्तयोगि-
पृष्ठ ४००५
त्वात् कृतम् । यदुक्तं लविकल्पभक्ताद्वर्षादयस्तद्व्याख्या-
यते एते चत्वारो राशयः स्थापितास्तेषां नवकदान-
विशोघनं कृत्वा कर्मयोग्याः सर्वे भवन्ति ततो दशगुणस्य
पृथक्स्थस्य परमायुषा विंशत्यधिकेन वर्वशतन
भागनपहृत्य योऽङ्कोऽवशिष्यते तदङ्कसमं तस्य वर्षसंख्याङ्कं
वर्त्तते तस्यैव षड्भिर्भागमपहृत्य ऋतुसंख्यया तत्र
योऽङ्कोऽवशिष्यते तदङ्कसमे शिशिरादारभ्यर्त्तौ जात इति
वक्तव्यम् । तस्यैव तु माससंख्यया द्वाभ्यां मागमपहृत्य
यद्येकोऽवशिष्यते तदा ज्ञातर्त्तौ प्रथमे मासि जात इति
वक्तव्यम् । अथ शून्यमवशिष्यते तदा द्वितीये मासि
जातः । एवं कृत्वा दशगुणः कर्मयोग्यो राशिरपास्यः
यस्य विंशव्यधिकाद्वर्षशतादप्यधिकं जन्मनोऽतीतं तस्य
नष्टजातकज्ञानोपाय एव नास्ति । अष्टकेष्वित्यादि
योऽसावष्टहतो राशिस्तस्य प्रथक्स्थस्य कर्मयोग्यस्य पक्ष-
संख्यया द्वाभ्या भागमपहृत्य यद्येकोऽवशिष्यते तदा
शुक्लपक्षे जात इति वक्तव्यम् । न किञ्चिदवशिष्यते तदा
कृष्णपक्षे । तस्यैव तिथिसंख्यया पञ्चदशभिर्भागमपहृत्य
योऽङ्कोऽवशिष्यते तदङ्कसमाने तिथौ जात इति वक्तव्यम्
एवं कृत्वाष्टगुणः कर्मयोग्यो राशिरपास्यः” भट्टो० ।
“दिवारात्रिप्रसूतिञ्च नक्षत्रानयनं तथा । सप्तकेष्वपि-
वर्गेषु नित्यमेवोपलक्षयेत्” १३ मू० । “दिवेत्यादि योऽसौ
सप्तहृतो राशिस्तत्र प्राग्वदेव नवकदानविशोधने कृत्वा
तत्कर्मयोग्यं राशिं स्थापयेत् तस्य दिवारात्रिसंख्यया
द्वाभ्यां भागमपहृत्य यद्येकोऽवशिष्यते तदा दिवसे जातो
ऽथ न किञ्चिदवशिष्यते तदा रात्रौ जात इति वक्तव्यम् ।
योऽसौ सप्तहतो राशिस्तस्य नक्षत्रसंख्यया सप्तविंशत्या-
भागमपहृत्य योऽङ्कोऽवशिष्यते तदङ्कसंख्ये नक्षत्रेऽश्वि-
न्धादित आरभ्य जातनक्षत्रमिति वक्तव्यम् । अस्य कर्मणः
पुनरभिधानं नक्षत्रानयनस्य बाहुल्योपयोगिंत्वात्” भट्टो० ।
“वेलामथ विलग्नञ्च होरामंशकमेव च । पञ्चकेषु
विजानीयान्नष्टजातकसिद्धये” १४ मू० । “वेलेत्यादि यस्मिन्
दिने पुरुषस्य जन्मज्ञानं तद्दिनप्रमाणं घटिकादिकं कर्त्तव्यं
रात्रौ चेत्तदा रात्रिप्रमाणं ततः पञ्चगुणस्य राशेष्तेन
दिनप्रभाणेन रात्रिप्रमाणेन भागमपहृत्य योऽङ्कोऽवशि-
ष्यते तस्मिन् काले दिनगते रात्रिगते वा तस्य जन्म
वक्तव्यम् । अथ विलग्नमित्यादि अथ शब्दः पादपूर-
णार्थं काले ज्ञाते राश्यादिलग्नं कर्त्तव्यं ततस्तस्य
होराद्रेष्काणनवां शद्व दशांशत्रिंशांशभागाः कर्त्तव्याः
तात्कालिका ग्रहाश्च कर्त्तव्याः ततो यथाभिहितेन
विधिना दशान्तर्दशाष्टकवर्गादेरभिहितस्य फलस्य निर्देशः
कार्य्यः एवं नष्टजातकं साधयेत्” भट्टो० ।
“संस्कारनाममात्राद्विगुणाच्छायाङ्गुलैः समायुक्ता । शेषं
त्रिनवकभक्ता नक्षत्रं तद्धनिष्ठादि” १५ मू० “अथ प्रकारा
न्तरेण नक्षत्रानयनमार्ययाह संस्कारनामेति संस्कारेण
नाम संस्कारनाम तस्य मात्राः संस्कारेणागतस्य नाम्नो
मात्राः संस्कारनाममात्राः संस्कारग्रहणेनैतत्प्रतिपादितं
भवति संस्कारेण यत्पुरुषस्य नामकृतं तस्य मात्रा ग्राह्याः
नान्यस्य कस्यचित् कुनामादेः मात्राश्चेह गृह्यन्ते । हल्
अर्द्धमात्रिकः अच् मात्रिकः इत्यनया स्थित्या ताः संस्का-
रनाममात्राः संगृह्य द्विगुणीकार्य्याः ततस्तात्कालिकानि
शङ्कुच्छायाङ्गुलानि गृहीत्वा ताद्विगुणमात्रास्तैरङ्गुलैः
संयुक्ताः कार्य्याः एवं कृते यद्भवति तस्य त्रिनवकेन सप्त-
विंशत्याभागमपहृत्य यः शेषो भवति तदङ्कसमं तस्य
धनिष्ठादित आरभ्य नक्षत्रं वक्तव्यम्” भट्टो० ।
“द्वित्रिचतुर्दशदशतिथि सप्तत्रिगुणानवाष्टचैन्द्राद्याः । पञ्च-
दशघ्नास्तद्दिग्मुखान्विताभं धनिष्ठादि” १६ मू० । “अथ
नक्षत्रानयनं प्रकारान्तरेणार्य्ययाह । द्वित्रिचतुर्दशेति
पूर्वाभिमुखो यदा प्रष्टा पृच्छति तदा द्वयोरङ्काः स्थाप्याः
अथाग्नेयाभिमुखस्तदा त्रयाणाम् । अथ दक्षिणाभि-
मुखस्तदा चतुर्दशानाम् अथ नैरृत्यभिमुखस्तदा दशानाम्
अथ पश्चिमाभिमुखस्तदा तिथिसंख्यानां पञ्चदशानाम्
अथ वायव्याभिमुखस्तदा सप्तत्रिगुणायाः एकविंशतेः ।
उत्तराभिमुखस्तदा नवानाम् ऐशान्याभिमुखस्तदाष्टानां
तद्यथा एवं दिगमिमुखप्रष्टृवशेनाङ्कं गृहीत्वा ततः पञ्च-
दशगुणः कार्यः ततस्तस्मिन् प्रदेशे यावन्तः पुरुषास्तदभि-
मुखाः स्थितास्तत्संख्ययान्वितो युक्तः कार्यः एवं कृते
यद्भवति तस्य सप्तविंशत्या भागमपहृत्य योऽङ्कोऽवशिष्यते
तदङ्कसमं तस्य धनिष्ठाद्यारभ्य नक्षत्रं वक्तव्यम्” भट्टो० ।
“इति नष्टजातकमिट बहुप्रकारं मया विनिर्दिष्टम ।
ग्राह्यमतः सच्छिष्येः परीक्ष्य यत्नाद्यथा भवति” १७ मू०
“इतिशब्दः उपसंहारे मया वराहमिहिराचार्येण
नष्टजातकं बहुप्रकारं बहुभेदं विनिर्दिष्टमुक्तमिदम् ।
अतोऽस्माद्धेतोः सच्छिष्यैः शोभनसच्छात्रैः ग्राह्यं
यत्नात्परीक्ष्य विचार्य यथा येन प्रकारेण संवदति सत्य-
रूपं तथ ग्राह्यमिति येन प्रकारेण संवदति तथा
ग्रहीतव्यमित्यर्थः बहुभिरागमैर्मया विचार्य पराशर-
पृष्ठ ४००६
वशिष्ठयवनसत्यमणित्थादीनां मतानि आलोक्य कृतं तदेव
भूयो निर्मलगुणनिपुणबुद्ध्या विचार्य संवादेन कार्यं येन
स्फुटसिद्धोऽसौ संपद्यते” भट्टो० ।

नष्टमार्गण न० नष्टस्यादर्शनं गतस्य मार्गणम् । अदर्शन-

गतस्यान्वेषणे ।

नष्टवीज त्रि० नष्टं वीजं वीजभावो यस्य । निष्फले वीजभावशून्ये शाल्यादौ ।

नष्टाग्नि पु० नष्टो लुप्तः प्रमादालस्यादिना अग्निः वैतानि-

कोऽग्निर्यस्य । प्रमादादिना लुप्ताग्निके द्विजे ।

नष्टाप्तिसूत्र न० नष्टस्य चोरेणापहृतस्याप्तेः साधनं सूत्रं

चिह्नम् । अपहृतद्रव्यस्य लाभसाधने चिह्नभेदे लोप्त्रे ।
(वामाल) ।

नष्टेन्दुकला स्त्री नष्टा इन्दुकला यस्याम् कुह्वाममरः । कुहूशब्दे २१६२ पृ० दृश्यम् ।

नस गतौ भ्वा० आत्म० सक० सेट् वेदनिघण्टुः । नसते

अनसिष्ट कौटिल्येऽयं णोपदेशः स च सति निमित्ते णत्वं
भजते । संश्लेषे च “स मोदते नसते साधते गिरा” ऋ०
९ । ७१ । ३ “नसते ग्रहादिषु संश्लिष्टो भवति” भा० ।

नस व्याप्तौ भ्वा० पर० सक० सेट् निघण्टुः नशदित्यत्र

नसदिति माधबसम्मतः पाठः । नसति अना(न)सीत् ।
ननास नेसतुः “सुरभिष्टमं नरां नसन्त” ऋ० १ । १८६ । ७
“नसन्त व्वाप्रुवन्ति नसतिर्व्वाप्तिकर्मेति” माघवः “वृर्षणो
नसीमहि” ऋ० २ । १६ । ८ नसीमहि व्याप्यामेति छान्दसः
प्रयोगः ।

नस् स्त्री नस--क्विप् । नासिकायाम् “अविर्ना मेषो नसि

वीर्य्याय” यजु० १९ । १० “नसि नासिकायाम्” वेददी-
नासिकाशब्दस्य सप्तम्येकवचनरूपमित्यन्ये ।

नसत्त न० न + सद--क्त नसत्तनिषत्तेत्यादिना नत्वाभावः नि० ।

सन्नभिन्ने “नसत्तमञ्जसा” सि० कौ० धृता श्रुतिः ।

नसा स्त्री नस्--हलन्तत्वात् वा टाप् । नासिकायां त्रिका०

“विनसा हतबान्धवा” भट्टिः ।

नस्त पु० नस--संज्ञायां त । १ नासिकायां शब्दमाला । नासि-

कायै हितः वा० त नसादेशश्च । नासिकायां हिते २ वैद्य-
कोक्ते पञ्चविधे नस्ये न० । नस्यशब्दे सुश्रुतवाक्ये तेषां
लक्षणानि दृश्यानि । नासिकायाः ३ छिद्रे स्त्री “नस्ता-
भेदनदाहाभ्यां कर्णदाहास्थिभेदनैः । अतिदाहाति
बाहाभ्यां बधे चान्द्रायणं चरेत्” स्मृतिः ।

नस्तस् अव्य० नासिका + विभक्त्यर्थे तसिल् “नस् नासिकाया

यत्तस्छिद्रेषु” नसादेशः । नासिकायामित्याद्यर्थे “नस्तः
कर्म्मणि शस्यन्ते पानाभ्यङ्गाञ्जनेषु च” सुश्रुतः “स
यत् नस्तोऽभवत् ततः सिंहः समभवत्” शत० ब्रा० ५ । ५४
“तस्तः प्राणा दिशं श्रोत्रात्” याज्ञ०

नस्तित त्रि० नस्ता नासाच्छिद्र जाताऽस्य तार० इतच् ।

कृतनासाछिद्रे रज्वास्यूतनासिके बलीवर्द्दे अमरः ।
(नाकफोडा) ।

नस्तोत पु० नस्ताया नासास्थरज्वा ऊतः । नस्योते बलीवर्द्दे रमानाथः ।

नस्य त्रि० नासिकायै हितं तत्र भवो वा यत् नसादेशः । १

नासिकाभवे २ तद्धिते च ३ सुश्रुतोक्ते नासिकाहिते क्रियाभेदे
यधा “नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः ।
औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यं
तद्द्विविधं शिरोविरेचनं स्नेहनञ्च तद्द्विविधमपि पञ्चधा ।
तद्यथा नस्यं शिरोविरेचनं प्रतिमर्शोऽवपीड़ः प्रधमनञ्च
तेषु नस्यं प्रधानं शिरोविरेचनञ्च नस्यविकल्पः प्रतिमर्शः
शिरोविरेचनविकल्पोऽवपीड़ः प्रधमनञ्च । ततो नस्य-
शब्दः पञ्चधा निपातितः । तत्र यः स्नेहनार्थं शून्य-
शिरसां ग्रीवास्कन्धोरसां बलजननार्थं दृष्टिप्रसादजन-
नार्थं वा स्नेहो विधीयते तस्मिन्वैशेषिको नस्यशब्दः ।
तत्तु नस्यं देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपात-
दारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघातनासारोगास्यशो-
षाषयाहुकाकालजवलीपलितप्रादुर्भावदारुणप्रबोधेषु
वातपैत्तिकेषु मुखरोगेष्वन्येषु च बातपित्तहरद्रव्यसिद्धेन
स्नेहेनेति । शिरोविरेचनं श्लेष्मणाभिव्याप्ततालुकण्ठ-
शिरसामरोचकशिरोगौरबशूलपीनसार्द्धावभेदककृमिप्रति-
श्यायापस्मारगन्धाज्ञानेष्वन्थेषु चोर्द्धजत्रुनतेषु कफजेषु
विकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेगेति ।
तत्रैतद्द्विविधमभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां
मध्याह्रे पित्तरोगिणामपराह्णे वातरोगिणाम् । अथ
पुरुषाय शिरोविरेचनीयाय दन्वकाष्ठधूमपानाभ्यां विशु-
द्धवक्त्रस्नेतसे पाणितापपरिस्विन्नमृदितगलकपोलललाट-
प्रदेशाय वातातपरजोहीनवेश्मन्थुत्तानशायिने प्रसारित-
करचरणय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादि-
तनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्ध-
स्रोतसि दक्षिणहस्तेन स्नेहमुष्णानुतप्तं रजतसुवर्णता-
म्रमृत्पात्रशुक्तीनामन्थतमस्थं शुक्त्या पिचुना वा
सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न
प्राप्तोति । स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत् ।
न कुप्येन्न् प्रभाषेच्च न क्ष्णुयान्न हसेत्तथा । एतैर्हि
विहतः स्नेहो न सम्यक्प्रतिपद्यते । ततः कासप्रतिश्या-
पृष्ठ ४००७
यशिरोऽक्षिगदसम्भवः” तस्य प्रमाणमष्टौ विन्दवः प्रदेशि-
नीपर्वद्वयनिःसृताः प्रथममात्रा, द्वितीया शुक्ति, स्तृतीया
पाणिशुक्तिरित्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः ।
स्नेहनस्यं नचोपगिलेत्किञ्चिदपि । “शृङ्गाटकमभिप्लाव्य
निरेति वदनाद्यथा । कफोत्क्लेशभयाच्चैव निष्ठीवेदबि-
धारयन्” दत्ते च पुनरपि संस्वेद्य गलकपोलादीन्धूम-
मासेवेत भोजयेच्चैनमभिष्यन्दि ततोऽस्याचारिकमादिशेत् ।
रजीधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधा-
दीनि च परिहरेत् । तस्य योगायोगानां विज्ञानं
भवति । “लाघवं शिरसो योगे सुखस्वप्नप्रवोधनम् ।
विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् । कफप्रसेकः
शिरसो गुरुतेन्द्रियबिभ्रमः । लक्षणं मूर्ध्न्यतिस्निग्धे
रूक्षं तत्रावचारयेत् । अयोगे चैव वैगुण्यमिन्द्रियाणाञ्च
रूक्षता । रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ।
चत्वारो विन्दवः षड्वा तथाष्टौ वा यथाबलम् ।
शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् । नस्ये त्रीण्यु-
पदिष्टानि लक्षणानि प्रयोगतः । शुद्धहीनातिसज्ञानि
विशेषाच्छास्त्रचिन्तकैः । लाघवं शिरसः शुद्धिः स्रोतसां
व्याधिनिर्जयः । चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिल-
क्षणम् । कण्डूपदेहौ गुरुता स्रोतसाङ्कफसंस्रवः ।
मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्त्तितम् । मस्तु-
लुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः । शून्यता शिरस-
श्चापि मूर्ध्नि गाढविरेचिते । हीतातिशुद्धे शिरसि
कफवातघ्नमाचरेत् । सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं
निषेचयेत् । एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः ।
एकविंशतिरात्रं वा यावद्वा साधु मन्यते । मारुतेनाभि-
भूतस्य वात्यन्तं यस्य देहिनः । द्विकालञ्चापि दातव्यं
नस्यं तस्य विजानता” । अवपीड़स्तु शिरोविरेचनवद
मिष्यन्दसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरोविरेचनद्रव्याणाम-
न्यतममवपीड्यावसिच्य चेतोविकारकृमिविषाभिपन्नानां
चूर्णं विदध्यात् । शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतसं
क्षीणानां शोणितपित्ते च विदध्यात् । “कृशदुर्बलभी-
रूणां सुकुमारस्य योषिताम् । शृताः स्नेहाः शिरः-
शुद्ध्यै कल्कस्तेभ्यो यथाहितः” । नस्यदाने परिहर्त्तव्यो
भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणी पोतस्ने-
होदकमद्यद्रवीऽजीर्णी दत्तवस्तिः क्रुद्धो गरार्त्तस्तृषितः
शोकाभिभूतः श्रान्ता बालो वृद्धो वेगावरोधितः शिरः-
स्नातुकामश्चेति । अनार्त्तवे चाभ्रे नस्यधूमौ परि-
हरेत् । तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानाति
प्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा
प्रतिषिद्धप्रदानाच्च व्यापदा भवन्ति तृष्णोद्गारादयो
दोषनिमित्ताः क्षयजाश्च । भवतश्चात्र “नस्ये शिरोविरेके
च व्यापदो द्विविधाः स्मृताः । दोषोत्क्लेशनिमित्तांस्तु
जयेच्छमनशोधनैः । अथ क्षयनिमित्तांस्तु यथास्वं
वृंहणं हितम्” । प्रतिमर्शश्चतुर्द्दशसु कालेषूपादेयः ।
तद्यथा तल्पोत्थितेन प्रक्षालितदन्तेन गृहान्निर्गच्छता
व्यायामव्यवायाध्वपरिश्रान्तेन मूत्रोच्चारकबलाञ्जनान्ते-
ऽभुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायञ्चेति । तत्र
तल्पोत्थितेनासेवितः १ प्रतिमर्शो रात्रावुपचितनासास्रोतो-
गतं मलमुपहन्ति मनःप्रसादञ्च करोति । प्रक्षालितदन्ते
नासेवितो २ दन्तानां दृढ़तां वदनसौगन्ध्यं चापादयति ।
गृहान्निर्गच्छतासेवितो ३ नासास्रोतसः क्लिन्नतया
रजोधूमो वा नाबाधते । व्यायाममैथुनाध्वपरिश्रान्तेनासेवि-
तः ४ । ५ । ६ श्रममुपहन्ति । मूत्रोच्चारान्ते ७ । ८ चासेवितो
दृष्टेर्गुरुत्वमपनयति । कवलाञ्जनान्ते ९ । १० सेवितो दृष्टिं-
प्रसादयति । अभुक्तवता सेवितः ११ स्रोतसां विशुद्धिं
लघुतां चापादयति । वान्तेनासेवितः १२ स्रोतोविलग्नं
श्लेष्माणमपोह्य भक्तकाङ्क्षामापादयति । दिवास्वप्नोत्थि-
तेनासेवितो १३ निद्राशेषं गुरुत्वं मलं चापोह्य चित्तै-
काग्र्यं जनयति । सायं चासेवितः १४ सुखनिद्राप्रबोधं
चेति । “ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते । नस्ये
निषिक्तं तं विद्यात्प्रतिमर्शं प्रमाणतः । नस्येन रोगाः
शाम्यन्ति नराणामूर्द्ध्वजत्रुजाः । इन्द्रियाणां च वैमल्यं
कुर्य्यादास्यं सुगन्धि च । हनुदन्तशिरोग्रीवात्रिकबाहू-
रसां बलम् । बलीपवितखालित्यव्यङ्गानां चाप्यसम्भवः ।
तैलं १ कफे समाते स्यात्केवलं पवने वसाम् २ । दद्या-
त्सर्पिः ३ सदा पित्ते मज्जानं ४ च समारुते । चतुर्विधस्य
स्नेहस्य विधिरेव प्रकीर्त्तितः । श्लेष्मस्थानाविरोधित्वा-
त्तेषु तैलं विधीयते” ।

नस्योत त्रि० आ + वे--क्त ओतः नसि ओतः अलुक्स० ।

नासिकायां कृतच्छिद्रायां रज्ज्वूबद्धे बलीवर्द्दे “मणिः
सूत्र इव प्रोतो नस्योत इव गोवृषः” भा० व० ३० अ० ।

नह अव्य० । न च ह च । प्रत्यारम्भे ।

नहि अव्य० न च हि च चादि० । निषेधे “नह्यस्मिन्

युज्यते कर्म किञ्चिदामौञ्जिबन्धनात्” मनुः ।
पृष्ठ ४००८

नहुष पु० नह--उष । १ मरुद्गणभेदे “नहुषञ्चाहुतिञ्चैव

चारित्रं ब्रह्मपन्नगम्” हरिवं० २०४ अ० । २ चन्द्रवंश्ये
नृपभेदे “आयोः पुत्रस्तथा पञ्च सर्वे वीरा महारथाः ।
स्वर्मानुतनयायाञ्च प्रभायां जज्ञिरे नृप! । नहुषः
प्रथमं जज्ञे वृद्धशर्मा ततःपरम्” २८ अ० । स चागस्त्य-
शापाट् सर्पतामाप्तः युधिष्ठिरेण तस्माद्मोचितः
तत्कथा भा० व० १८१ अ० “अहं हि दिवि दिव्येन विमा-
नेन चरन् पुरा । अभिमानेन मत्तः सन् कञ्चिन्ना-
न्यमचिन्तयम् । ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः ।
करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः । चक्षुषा यं
प्रपश्यामि प्राणिनं पृथिवीपते! । तस्य तेजोहराम्याशु
तद्धि दृष्टेर्बलं मम । ब्रह्मर्षीणां सहस्रं हि उवाह
शिविकां मम । स मामपनयो राजन्! भ्रंशयामास वै
श्रियः । तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया
सनिः । अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै
रुषा । ततस्तस्माद्विमानाग्र्यात् प्रच्युतश्चुतलक्षणः ।
प्रपतन् युबुधे त्मानं व्यालीभूतमधोमुखम् । अयाच-
न्तमहं विप्रं शापस्यान्तो भवेदिति । प्रमादात् संप्र-
मूढस्य भगवन्! क्षन्तुमर्हसि । ततः स मामुवाचेदं प्रप-
तन्तं कृपान्वितः । युधिष्ठिरो धर्मराजः शापात्त्वं
मोचयिष्यति । अभिमानस्य घोरस्य पापस्य च
नराधिप! । फले क्षीणे महाराज! फलं पुण्यमवाप्स्यसि”
“नहुषो नाम राजाऽहमासं पूर्वस्तवानघ! । प्रथितः
पञ्चमः सोमादायोः पुत्रो नराधिप! । क्रतुभिस्तपसा
चैव स्वाध्यायेन दमेन च । त्रैलोक्यैश्वर्य्यमत्युग्रं प्राप्तो-
ऽहं विक्रमेण च । तदैश्वर्य्यं समासाद्य दर्पो मामगम-
त्तदा । सहस्रं हि द्विजातीनामुवाह शिविकां मम ।
ऐर्श्वर्य्यमदमत्तोऽहमवमत्य ततो द्विजान् । इमामग-
स्त्येन दशमानीतः पृथिवीपते! । न तु मामजहात्
प्रज्ञा याबदद्येति पाण्डव! । तस्येवानुग्रहाद्राजन्नग-
स्त्यस्य महात्मनः” १८० अ० । नह्यति सर्वाणि भूतानि
मायया कर्तरि उष । ३ परमेश्वरे “शिखण्डी नहुषो
वृषः” विष्णुस० । नह्यते मायया कर्मणि उष । ४ मनुष्ये
बा० उषि नहुष् इति मनुष्ये निघण्टुः । “आदीं विश्वा
नहुष्याणि जाता” ऋ० ९ । ८८ । २ “नहुष्या मनुष्यसम्ब-
न्धीनि” भा० । “नहुषः खररोमा च शेषवासुकितक्षका”
इति विक्रमादित्यकोषोक्ते ५ नागराजभेदे च ।

नहुषाख्य पु० न० नहुषं शेषसर्पवर्णमाख्याति स्ववर्णेन

आ + ख्या--क । तगरपुष्पे राजनि० ।

नहुषात्मज पु० ६ त० । ययातिनृपे “ययातिर्नहुषात्मजः”

भारते भूरिप्रयोगः ।

ना अव्य० नह--बा० डा । निषेधे “अमानोना निषेधवाचकाः” ।

नाक पु० न कमकं दुःखं तन्नास्ति यत्र नभ्राडित्या० नि०

प्रकृतिभावः । १ स्वर्गे अमरः । “यन्न दुःखेन संमिन्नं
न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत् सुखं
स्वःपदास्पदम्” श्रुतौ हि स्वर्गस्य दुःखशून्यत्वमुक्तम् ।
दुःखराहित्येन २ सुखकरे त्रि० । “वैश्वानरः प्रत्नथा
नाकमारुह दिवः पृष्ठे” ताण्ड्यब्रा० १ । ७ । ६ “नाकं दुःखरा-
हित्येन सुखकरं रथम्” भा० । ३ नमसि निघण्टुः स्वर्गा-
न्तरिक्षसाधारणनामसु तस्य कीर्त्तनात् । ४ राजभेदे पु०
“नव् नाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ।
मथुरां च पुरीं रम्यां नागाः भोक्ष्यन्ति सप्त वै”
वामनपु० ।

नाकचर पु० नाके स्वर्गे नभसि वा चरति चर--ट । १

गगनचरे देवे ग्रहादौ च २ पितृदेवभेदे । “गार्हपत्या
नाकचराः पितरो लोकविश्रुताः” भा० स० ११ अ०

नाकनाथ पु० ६ त० । इन्द्रे त्रिका० नाकनायकादयोऽप्यत्र

“नाकनावकपुरोहितो यदा” ज्योति० “नाकनायकनि-
केतनमाप” नैष० ।

नाकवनिता स्त्री ६ त० । अप्सरःसु ।

नाकसद् पु० नाके सीदति--सद क्विप् । १ देवे “सन्तर्पणो

नाकसदां वरेण्यः” भट्टिः ।

नाकिन् पु० नाकः वासस्थानत्वेनास्त्यस्य इनि । देवे हेमच० ।

“सदनान्युदस्मयत नाकिनामपि” “मन्यसेऽरिबधः श्रेयान्
प्रीतये नाकिनामिति” माघः ।

नाकु पु० नम--उ नाक्यादेशः । १ वल्मीके २ पवेते च अमरः ३ मुनिभेदे मेदि० ।

नाकुल पु० नकुलस्य गोत्रापत्यम् “ऋष्यन्धकवृष्णिकुरुभ्यः” पा०

गोत्रे अण् न तु इञ् । १ नकुलस्य गोत्रापत्ये । नकुल इव
शर्करा० इवार्थे अण् । २ नकुलसदृशे च । नकुलेन दृष्टा
तेन पीता वा अण् ङीप् । ३ कुक्कुटीकन्दे ४ रास्नायां
५ चविकायाञ्च स्त्री मेदि० । ६ यवतिक्तायां ७ श्वेतकण्ट-
कार्य्यां ८ कन्दभेदे च स्त्री राजनि० । “नाकुली तुवरा
तिक्ता कटुकोष्णा विनाशयेत् । भोगिलतावृश्चिकाखु
विषज्वरकृमिव्रणान्” शब्दार्थचि० धृतवाक्यम् ।

नाकुलक त्रि० नकुलो भक्तिरस्य “गोत्रक्षत्रियेभ्यो बहुल-

मिति” पा० वुञ् । नकुलभक्तिके मनुष्यादौ ।

नाकुलि पु० नकुलस्येदम् अपत्यं वा अत इञ् गोत्रे

तु अणेव । १ नकुलसम्बन्धिनि २ तदपत्यै च “शतानी-
कस्तु नाकुलिः” भा० आ० ६३ अ० ।
पृष्ठ ४००९

नाक्षत्र न० नक्षत्राणामिदम् अण् । तद्वटितचक्रस्य परिवर्त्त-

नात्मके कालरूपे १ दिनभेदे तत्त्रिंशद्दिनात्मके सर्वनक्षत्र
परिवर्त्तनात्मके च २ मासभेदे च “नाडीषष्ट्या तु नाक्षत्र
महोरात्रं प्रकीर्त्तितम्” सू० सि० । “घटीनां षष्ट्याहो
रात्रं नाक्षत्रमुक्तम् । तुकारादहीरात्रस्य नाक्षत्रत्वो-
क्त्योक्तघट्या अपि नाक्षत्रत्वमुक्तम् । एतत् षष्टिघटीभि-
र्भचक्रपरिवर्त्तनात्” रङ्ग० । “भचक्रभ्रमणं नित्यं नाक्षत्रं
दिनमुच्यते” सू० सि० । “नित्यं प्रत्यहं भचंक्रभ्रमणं
नाक्षत्रसमूहस्य प्रवाहवायुकृतं परिभ्रमः । नाक्षत्रं
मक्षत्रमम्बन्धि नाक्षत्रमासदिनं मानज्ञैः कथ्यते” रङ्ग० ।
स च मासो द्विबिधः । सप्तविंशतिनक्षत्रपरिवर्त्तनात्मक एकः
यथा “सर्वर्क्षपरिवर्त्तैश्च नाक्षत्र इह चोच्यते” इति
“सर्वनक्षत्रभुक्त्या तु नाक्षत्रमास इष्यते” इति च
अस्य प्रयोजनम् । “नक्षत्रसत्राण्ययनानि चेन्दोर्मासेन
कुर्य्याद्भगणात्मकेन” । सप्तविंशतिनक्षत्रात्मकेन जन्मनक्षत्रे
शनिभौमवारयोगे मनोदुःखदानम् यथोक्तं दीपिकायाम्
“जन्मन्यर्क्षे यदि स्यातां वारौ भौमशनैश्चरौ । स मासः
कल्मषो नाम मनोदुःखप्रदायकः” इति । द्वितीयः
षष्टिदण्डात्मकनक्षत्रभोगकालरूपदिनत्रिंशदात्मकः यथोक्तं
सूर्यसिद्धान्ते “नाडीषष्ठ्या तु नाक्षत्रमहोरात्रं प्रच-
क्षते । तत्त्रिंशता भवेन्मासः साबनोऽर्कोदयैस्तथा”
अस्य प्रयोजनमायुर्गणनायाम् यथा “आयुर्दाये स्मृतं
प्राज्ञैर्नाक्षत्रं षष्टिनाडिकमिति” मल० त० ।

नाक्षत्रिक त्रि० नक्षत्रादागतः ठञ् । १ नक्षत्रतःप्राप्ते नक्ष-

त्रनिमित्ते स्त्रियां ङीष् । सा च ग्रहाणां २ दशाभेदे
“सत्ये लग्नदशा चैव त्रेतायां हरगौरिका । द्वापरे
योगिनी चैव कलौ नाक्षत्रिकी दशा” भट्टीत्पलधृतवाक्यम्
सा च दशा “षट्सूर्यस्य दशा ज्ञेया इत्यादिका उक्ता
दशाशब्दे अष्टोत्तरदशाप्रकरणे ३४९५ पृ० दृश्या ।

नाग न० नगे पर्वते भवः अण् न गच्छति अगः न अगो

वा । १ वङ्गे २ सीसके ३ तिथ्यर्द्धरूपकरणभेदे च मेदि०
करणशब्दे १६९० पृष्ठे दृश्यम् । सीसके पुंस्त्वमपोति
वैद्यकम् । अस्योत्पत्तिर्भावप्र० दर्शिता यथा
“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् । वीर्य्यं
जातस्तती नागः सर्वरोगापहो नृणाम् । सीसं वङ्ग-
गुणं ज्ञेयं विशेषान्मेहनाशनम्” । “नागस्तु नागशततुल्य-
बलं ददाति व्याधिं विनाशयति जीवनमातनोति । वह्निं
प्रदीपयति कामवलं करोति मृत्युञ्च नाशयति सन्तत-
सेवितः सः” । भावप्र० पाकहीनयोर्वङ्गसीसयोर्दोषो यथा
“पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुल्मांश्च
तथातिकष्टान् । कण्डूप्रमेहानलमान्द्यशोथभगन्दरादीन्
कुरुतः प्रभुक्तौ” । नागभस्मप्रकारो यथा “ताम्बूलर-
ससंपिष्टं शिलालेपात् पुनःपुनः । द्वात्रिंशद्भिः पुटै-
र्नागो निरुत्थं भस्म जायते” । प्रकारान्तरेण यथा
“अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् । मृत्-
पात्रे विद्रुतो नागो लौहदर्व्या च चालितः । यामै-
केन मवेद्भस्म तत्तुल्या स्यान्मनःशिला । काञ्जिकेन समं
पिष्ट्वा पचेद् दृढ़पुटेन च । स्वाङ्गशीतं पुनः पिष्ट्वा
शिलायां काञ्जिकेन च । पुनः पुटशरावाभ्यामेवं षड्भिः
पुटैः मृतिः । नागः सिन्दूरवर्णाभो म्रियते सर्वका-
र्यकृत् । सतिक्तमधुरो नागो मृतो भवति भस्मसात् ।
आयुः कीर्तिं वीर्यवृद्धिं करोति सेवनात् सदा ।
रोगान् हन्ति मृतो नागो वङ्गवद्गुणकारकः” ४ सर्पे
५ हस्तिनि ६ मेघे ७ नागकेशरे ८ पुन्नागे ९ नागदन्तिके
१० मुस्तके ११ देहस्थेऽनिलभेदे च पु० १२ क्रूराकारे त्रि० ।
मेदि० “उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः” सा०
ति० टीका पदार्थादर्शे । अत्र नागशब्दस्य सर्पगजजाति-
वाचकत्वे द्विलिङ्गत्वम् । तत्र जातिवाचकत्वात् स्त्रियां
ङीष् । जानपदादिसूत्रे स्थौल्यगुणयोगादन्यत्र प्रयोगे
स्त्रियां ङीष् । दीर्घगुणयोगादन्यत्र प्रयोगे स्त्रियां टाप्
इति भेदः । १३ देशभेदे १४ ताम्बूल्यां च पु० भरतः ।
मनुष्याकारः फणालाङ्गूलयुक्तः कर्कोटादिर्नागः देवयो-
निभेदः । तेषामुत्पत्त्यादिकं वराहपु० उक्तं यथा
“सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम् ।
प्रथमं मनसां ध्यातस्तस्य पुत्रस्तु कश्यपः । तस्य दाक्षा-
यणी भार्य्या कद्रुर्नाम शुचिस्मिता । मारीचो जनया-
मास तस्यां पुत्रान् महाबलान् । अनन्तं वासुकिञ्चैव
कम्बलञ्च महाबलम् । कर्कोटकञ्च राजेन्द्र! पद्मं चान्यं
सरीसृपम् । महापद्मं तथा शङ्खं कुलिकञ्चापराजि-
तम् । एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः ।
एतेषान्तु प्रसूत्या तु इदमापूरितं जगत् । कुटिला-
हीनकर्माणस्तीक्ष्णास्योत्थविषोल्वणाः । दृष्ट्या संदृश्य
मनुजान् भस्म कुर्युः क्षणाद्ध्रुवम्” एवं प्रजानाशे ब्रह्मण
आदेशात् ते पातालस्थानं जन्मुः यथाह तत्रैव
पृष्ठ ४०१०
“अहं करोमि वो नागाः समयं मनुजैः सह । तदेक
मनसः सर्वे शृणुध्वं मम शासनम् । पातालं वितल-
ञ्चैव सुतलाख्यं तृजीयकम् । दत्तं वै वस्तुकामानां गृहं
तत्र गमिष्यथ । तत्र भोगान् बहुविधान् भुञ्जध्वं मम
शासनात् । तिष्ठध्वं सप्तमं यावद्रात्र्यन्ततः पुनःपुनः ।
ततो वैवस्वतस्यादौ काश्यपेया भविष्यथ । दायादाः सर्व
देवानां सुपर्णस्य च धीमतः । तदा प्रसूतिर्वः सर्वा
भोक्ष्यते चित्रभानुना । भवतां नैव दोषोऽयं भविष्यति
न संशयः । ये वै क्रूरा भोगिनो दुर्विनीतास्तेषामन्तो
भविता नान्यथैतत् । कालं प्राप्तं भक्षयध्वं दशध्वं
तथा परान् चापकृतोमनुष्यान् । भन्त्रौधघैर्गारुड
मण्डलैश्च बुद्धैर्दृष्टा मानवा ये चरन्ति । तेषां भीतैर्व-
र्त्तितव्यं न चान्या चिन्ता कार्या चान्यथा वो विनाशः ।
इतीरिते ब्रह्मणा ते भुजङ्गा जग्मुःस्थानं क्ष्मातलाख्यं
हि सर्वे । तस्थुर्भोगान् भुञ्जमानाः समग्रान् रसातले
लीलया संस्थितास्ते । एवं शापं ते तु लब्ध्वा प्रसा-
दञ्च चतुर्मुखात् । तस्थुः पातालनिलये मुदितेनान्तरा-
त्मना । एतत् सर्वञ्च पञ्चम्यां तेषां जातं महात्मनाम् ।
अतस्त्वियं तिथिर्धन्या सर्वपापहरी शुभा । एतस्यां
संयतो यस्तु अम्लन्तु परिवर्जयेत् । क्षीरेण स्नापये-
न्नागांस्तस्य यास्यन्ति मित्रताम्” । नागाश्च प्राधान्येन
भा० आ० ३५ अ० दर्शिता ततएवावसेयाः । तेषां केषाञ्चित्
जनमेजयस्य सर्पसत्रे नाशो भविष्यतीति मातृशापकथा
भा० आ० २० अ० “ततः पुत्रसहस्रन्तु कद्रुर्जिह्मं
चिकीर्षती । आह्वयामास च तदा बाला भूत्वाऽञ्जनप्रभाः ।
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा । नाभ्य-
पद्यन्त ये वाक्यं तान् शशाप भुजङ्गमान् । सर्पसत्रे
वर्त्तमाने पावको वः प्रधक्ष्यति । जनमेजयस्य राजर्षेः
पाण्डवेयस्य धीमतः । शापमेनन्तु शुश्राव स्वयमेव
पितामहः । अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि ।
सार्द्धं दैवगणैः सर्वैर्वाचं तामन्वमोदत । बहुत्वं प्रेक्ष्य
सर्पाणां प्रजानां हितकाम्यया । तिग्मवीर्यविषा ह्येते
दन्दशूकाः महाबलाः । तेषां तीक्ष्णविषत्वाद्धि प्रजा-
नाञ्च हिताय च । युक्तं मात्राकृतं तेषां परपीडोप-
सर्पिणामु अन्येषामपि सत्वानां नित्यं दोषपरास्तु
ये । तेषां प्राणान्तिकौ दण्टो देवेन विनिपात्यते । एवं
सम्भाष्य देवैस्तु पूज्य कद्रूञ्च तां तदा । आहूय कश्यपं
देव इदं वचनमब्रवीत् । यदेते दन्दशूकाश्च सर्पा जाता-
स्त्वयाऽनघ । विषोल्वणा महाभोगा मात्रा शप्ताः
परन्तप । तत्र मन्युस्त्वया तात न कर्त्तव्यः कथञ्चन ।
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम् । इत्युक्त्वा
सृष्टिकृद्देवस्तं प्रसादा प्रजापतिम् । प्रादाद्विषहरीं
विद्यां कश्यपाय महात्मने!” कम्बलाश्वतरनागयोः
सरस्वत्या गानवरप्राप्तिर्यथा “एवं स्तुता तदा देवी
विष्णोर्जिह्वा सरस्वती । प्रत्युवाच महात्मानं नागमश्व-
तरं ततः” सरस्वत्युवाच “वरन्ते कम्बलं भ्रातः
ग्रयच्छाम्युरगाधिप! । तदुच्यतां प्रदास्यामि यत्ते मनसि
बर्त्तते” । अश्वतर उवाच “सहायं देहि देवि! त्वं पूर्बं
कम्बलमेव मे । समस्तस्वरसम्बद्धमुभयोः संप्रयच्छ च”
सरस्वत्युवाच “सप्तस्वरा ग्रामरागाः सप्त पन्नगसत्तम ।
गीतकानि च सप्तैव तावत्यश्चापि मूर्च्छनाः । तानाश्चै-
कोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् । एतत् सर्वं भवान्
गाता कम्बलश्चैव ते सखा । ज्ञास्यते मत्प्रसादेन
भुजङ्गेन्द्र! परन्तथा । चतुर्विधं ददे तालं त्रिःप्रकारं
लयत्रयम् । यतित्रयं तथातोद्यं मया दत्तं चतुर्विधम् ।
एतद्भवान् मत्प्रसादात् पन्नगेन्दापरञ्च यत् । अस्यान्त-
र्गतमापन्नं स्वरव्यञ्जनयोश्च यत् । तदशेषं मया दत्तं
भवतः कम्बलस्य च । यथा नान्यस्य भूर्लोके पाताले
वापि गन्नग! । प्रणेतारौ भवन्तौ च सर्वस्यास्य
भविष्यतः । पाताले देवलोके च भूर्लोके चैव पन्नगौ ।
इत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती । जगामा-
दर्शनं सद्यो नागस्य कमलेक्षणा” मार्कण्डेयपुराणम् ।
“नार्गरिवालूनशटं मृगेन्द्रम्” किरा० “अधिनागं प्रज-
विनोविकशत्पिच्छचारवः” “नागं पूनर्मृदुसलीलनि-
मीलिताक्षम्” माथः । १६ अश्लेषानक्षत्रे

नागकन्द पु० हस्तिकन्दे राजनि० ।

नागकन्यका स्त्री ६ त० । सर्पजातिस्त्रियां भोगिन्यां त्रिका० ।

नागकर्ण पु० नागस्य गजस्य कर्णः तदाकारः पत्रेऽस्य ।

१ एरण्डे राजनि० ६ त० । २ हस्तिकर्णे च ।

नागकिञ्जल्क पु० नागस्येव किञ्जल्कोऽस्य । नागकेसरे भावप्र० ।

नागकुमारिका स्त्री नागस्य कुमारीव कन् । १ गुडूच्यां

२ मञ्जिष्ठायां च राजनि० ।

नागकेसर पु० नागस्येव केशरोऽस्य । स्वनामख्याते पुष्प-

प्रधाने वृक्षभेदे अमरः (नागेश्वरचाँपा) भावप्र० तन्ना-
मगुणा उक्ता यथा “नागपुष्पः स्मृतो नागः केसरो
नामकेसरः । चाम्पेयो नागकिञ्जलकः कथितः काञ्चना
पृष्ठ ४०११
हयः । नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम् ।
खरकण्डुतृषास्वेदच्छर्दिहृल्लासनाशनम् । दौर्गन्ध्यकुष्ठ-
वीसर्पकफपित्तविषापहम्” । त्रिजातकं नागकेसरसंयुक्तं
चतुर्जातकं भवति यथा “त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि
स्त्रिजातकम् । नागकेसरसंयुक्तं चतुर्जातकमुच्यते ।
तद्द्वयं रोचकं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् ।
लघुपित्ताग्निकृद्वर्ण्यं कफवातविषापहम्” भावप्र० ।

नागगन्धा स्त्री नागस्य गन्ध इव गन्धोऽस्याः वा न

इच्समा० । नाकुलीकन्दे राजनि० ।

नागगर्भ न० नागः सीसकं गर्भो जन्महेतुर्यस्य । सिन्दूरे राजनि० ।

नागचूड़ पु० नागः सर्पः चूडायां यस्य । शिवे महादेवे

नागच्छत्रा स्त्री नागस्य फणेव छत्रं छादनं पत्रे यस्य ।

नागदन्तीवृक्षे राजनि० ।

नागज न० नागात् सीसकात् जायते जन--ड । १ सिन्दूरे

२ वङ्गे हेमच० । ३ सर्पगजजातमात्रे त्रि० ।

नागजिह्वा स्त्री नागस्य सर्पस्य जिह्वेवाकारेऽस्य । १ अनन्त-

मूले । २ शारिवोषधौ च रत्नमाला ।

नागजिह्विका स्त्री नागस्य हस्तिनो जिह्वेव रक्तता यस्याः

कप् । मनःशिलायाम् अमरः ।

नागजीवन न० नागेन सीसकेन जीवनं यस्य । वङ्गे धातुभेदे ।

नागदत्त पु० धृतराष्ट्रपुत्रभेदे “आदित्यकेतुर्बहाशी नागदत्ता-

नुयायिनौ” भा० अ० ६७ अ० ।

नागदन्त पु० नागस्य हस्तिनो दन्त इवाकारोऽस्त्यस्य अच् ।

गृहभित्तिर्निर्गते काष्ठादिमये हस्तिदन्ताकारे (दाण्डा)
(दाँतिया) ख्याते १ पदार्थभेदे अमरः ६ त० । २ गजदन्ते
च मेदि० । स्वार्थे क तत्रार्थे अमरः । “शवरवसतिरिव
अवलम्बितचारुचामरनागदन्तघबलगृहाः” काद० । “द्वी-
पिचर्मावनद्धश्च नानदन्तकृतत्सरुः” भा० शा० ९७ अ० ।

नागदन्तिका स्त्री नागस्य सर्पस्य दन्त इव विषाघारः पत्रं

यस्याः कप् कापि अत इत्त्वम् । (विछाति) वृश्चिकाल्यां
रत्नमाला ।

नागदन्ती स्त्री नागस्य गजस्य दन्त इव फलाद्याकारे यस्याः

ङीष् । (हातिशुँडा) ख्याते १ श्रीहस्तिन्याम् ।
२ कुम्भाख्योषधौ च मेदि० । “अर्कालर्ककरञ्जद्वय नागदन्ती
त्यादि” अर्कादिगणोक्तौ सुश्रुतः ।

नागदमनी स्त्री नागो दम्यतेऽनया दम--ल्युट् ङीप् ।

१ क्षुपभेदे “विज्ञेया नागदमनी बलामोटा विषापहा ।
नागपुष्पी नागपत्रा महायोगेश्वरीति च । बलामोटा
कटुस्तिक्ता मघुः पित्तकफापहा । मूत्रकृच्छ्रव्रणान्रक्षो
नाशयेज्जालगर्दभम । सर्वग्रहप्रशमनी निःशेषविष-
नाशिनी । जयं सर्वत्र कुरुते धनदा सुमतिप्रदा” भावप्र०

नागदलोपम पु० नागस्य ताम्बूल्याः दलस्योपमा यत्र ।

परूषफले रत्नमाला ।

नागद्रु पु० नागाकारः द्रुः (सिजु) वृक्षे समन्तदुग्धायाम् शब्दच० ।

नागद्वीप पु० नागप्रधानो द्वीपः शा० त० । द्वीपभेदे “पार्श्वे

शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे । कणौ तु नागद्वीपश्च
कश्यपद्वीपएव च । ताम्रपर्णी शिला राजन् श्रीमान्
मलयपर्वतः” भा० भी० ३ अ० ।

नागनक्षत्र न० नागाधिष्ठितं नक्षत्रम् । अश्लेषानक्षत्रे

नागदैवतादयोऽप्यत्र “नागदैवतमस्तके” ति० त०

नागनामन् पु० नागान् नामयति नामि--कनिन् । तुलस्यां

नैघण्टुप्रकाषिका ।

नागनायक त्रि० ६ त० । १ प्रधाननागे “अनन्तो वासुकिः

पद्मो महापद्मोऽपि तक्षकः । कर्कोटः कुलिकः शङ्ख
इत्यष्टौ नागनायकाः” त्रिका० नागवर्य्यादयोऽप्यत्र ।
नागशब्दे उदा० । नागः नायकोऽस्य । २ अश्लेषानक्षत्रे न० ।

नागनिर्यूह पु० नाग इव निर्यूहः । नागदन्तशब्दार्थे जटा-

नागपञ्चमी स्त्री नागपूजाङ्गं पञ्चमी । आषाढ़कृक्ष-

पञ्चम्यां तत्र वागाङ्गानां पूजाविधानात् तस्यास्तथात्वम् ।
देवीपुराणे “सुप्ते जनार्द्धने कृष्णे पञ्चम्यां भवनाङ्गने ।
पूजयेन् मनसादेवीं स्नुहीविटपसंस्थिताम् । पद्मनाभे
गते शथ्यां देवैः सर्वैरनन्तरम् । पञ्चम्यामसिते पक्षे
समुत्तिष्ठिति पन्नगी” । मनसादेवीं विषहरीम् । स्नुही
सिजवृक्षः । देवैरिति सहार्थे तृतीया । “देवीं संपूज्य
नत्वा च न सर्पभयमाप्नुयात् । पञ्चम्यां पूजयेन्नागान-
नन्ताद्यान् महोरगान् । क्षीरं सर्पिस्तु नैवेद्यं देयं
सर्पविषापहम्” । गारुड़े “अनन्तं वासुकिं शङ्खं
पद्मं कम्बलमेव च । तथा कर्कोटकं नागं धृतराष्ट्रञ्च
शङ्खकम् । कालियं तक्षकञ्चापि पिङ्गलं मणिभद्रकम् ।
यजेत्तानसितान्नानान् दष्टमुक्तो दिवं व्रजेत्” ।

नागपति पु० ६ त० । शेषाद्येषु अष्टसु १ नागेषु २ गजपतौ

ऐरावते च ।

नागपत्रा स्त्री नागस्तत्फण इव पत्रं यस्याः । १ नागदमन्यां भावप्र० । २ लक्ष्मणावृक्षे राजनि० ।

नागपद पु० “पादौ स्कन्धे तथा हस्ते क्षिपेल्लिङ्गं भगे

लघु । कामयेत् कामुको नारीं बन्धो नागपदो मतः”
रतिमञ्जर्य्युक्ते १ रतिबन्धभेदे । ६ त० । २ हस्तिपदे न०
पृष्ठ ४०१२

नागपाश पु० नागः पाश इव । १ वरुणस्यायुधभेदे “सार्द्धद्व-

यावर्त्तनात्तु नागपाश इति स्मृतः । ब्रह्मग्रन्थिमथो दद्यात्
नागपाशमथापि वा” आगमोक्ते २ बन्धभेदे “वेष्टितं
नागपाशेन भ्रुकुटीभीषणाननम्” इति दुर्गाध्यानम् ।

नागपाशक पु० “स्वजङ्घाद्वयमध्यस्थां हस्ताभ्यां धारयन्

कुचौ । रमेन्निःशङ्कितः कामी बन्धोऽयं नागपाशकः”
रतिमञ्जर्युक्ते १ रतिबन्धभेदे । स्वार्थे क । २ नागपाशे च

नागपुर न० ६ त० । १ पाताले हस्तिनानामके २ पुरभेदे तन्नाम-

कारणं यथा “जटाजूटात् पपातोर्द्ध्वे मेरोस्तस्मात्ततो-
ऽगमत् । देवैः परिवृता गङ्गा हेमकूटञ्च पर्बतम् । मन्दर-
ञ्चैव कैलासं हिमवन्तञ्च पर्वतम् । ताभायान्तीन्तु रोधाय
स्वलीलो नाम दानवः । पार्वतं रूपमास्थाय वर्षाणान्तु
शतैर्द्विजाः । ततो भगीरथी राजा धारयामास कौशि-
कम् । स तुष्टः प्रददौ नागं वाहनं तं भगीरथः ।
समारुह्यागमत्तत्र यत्र रुद्धा भगीरथी । तेन नागेन तं
दैत्यं संविदार्य्य सुसङ्गतः । शतधा तं समाधाय
मूर्द्धन्यैरावतो गजः । महीतलं समापेदे स यावन्ना-
गसाह्वयम्” वह्निपुराणे तच्च हस्तिनापुरस्य नामान्तरं
“तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः” (पाण्डुः)
भा० आ० ११३ अ० ।

नागपुष्प पु० नागः तद्दानगन्धयुक्तं पुष्पं यस्य । १ पुन्नाग-

वृक्षे २ नागकेसरे ३ चम्पके च मेदि० । ४ नागदमन्यां स्त्री
भावप्र० ङीष् ।

नागपुष्पफला स्त्री नागस्य नागकेसरस्य पुष्पमिव शुभ्रं फलं यस्याः । कुष्माण्ड्यां राजनि० ।

नागपुष्पिका स्त्री नागस्य पुष्पमिव पुष्पं यस्याः कप्

कापि अत इत्त्वम् । स्वर्णयूथिकायां राजनि० ।

नागफल पु० नागः सर्प इव दीर्घं फलमस्य । पटोलभेदे

(धुन्दुल) राजनि० ।

नागबन्धु पु० नागस्य हस्तिनो बन्धुरिव तत्पोषकत्वात् । अश्वत्थवृक्षे हेमच० ।

नागबल पु० नागानां हस्तिनामयुतस्य बलं यस्य । १ भीमे

त्रिका० । २ हस्तितुल्यवलयुक्ते त्रि० । भीमस्य तथा
बलप्राप्तिकथा भा० आ० १२८ अ० । “यदि नागेन्द्र!
तुष्टोऽसि किमस्य धनसञ्चयैः । रसम्पिबेत् कुमारो-
ऽयं त्वयि प्रीते महाबलः । बलं नागसहस्रस्य
तस्मिन् कुण्डे प्रतिष्ठितम् । यावत् पिबति बालोऽयं
तावदस्मै प्रदीयताम् । एवमस्त्विति तं नागं वासुकिः
प्रत्यभाषत । ततो भीमस्तदा नागैः कृतस्वस्त्ययनः
शुचिः । प्राङ्मुखश्चोपविष्टः स रसं पिवति पाण्डवः ।
एकोच्छासात्ततः कुण्डं पिवति स्म महाबलः ।
एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः । ततस्तु
शयने दिव्ये नागदत्ते महाभुजः । अशेत भीमसेनस्तु
यथासुखमरिन्दम!” “ततोऽष्टमे तु दिवसे प्रत्यबुध्यत
पाण्डवः । तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो
बली । तं दृष्ट्वा प्रत्यबुध्यन्त पाण्डवं ते भुजङ्गमाः ।
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन् । यत्ते पीतो
महावाही! रसोऽयं वीर्यसम्भृतः । तस्मान्नागायुतबलो
रणेऽधृष्यो भविष्यसि” भा० आ० १२९ अ० । नागस्येव
बलं यस्याः । (गोरक्षचाकुलिया) २ लताभेदे स्त्री
“नागबलाफलतिन्दुकमदनफलमधूकमञ्जिष्ठाः” वृ० सं० ५७ अ०

नागबलाघृत न० चक्रदत्तोक्ते पक्वघृतभेदे “पादशेषे

जलद्रीणे पचेन्नागबलातुलाम् । तेन क्वाथेन तुल्यांशं धृतं
क्षीरञ्च साधयेत् । पलार्द्धिकैश्चातिबलाबलायष्टिपुन-
र्नवा । प्रपौण्डरीककाश्मर्य्यपियालकपिकच्छुभिः ।
अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः । मृणालविषशा-
लूकशृङ्गाटककशेरुकैः । एतन्नागबलासर्पीरक्तपित्तक्षय-
क्षयम् । हन्ति दाहं भ्रमं तृष्णां बलपुष्टिकरं परम् ।
बल्यमौजस्यमायुष्यं बलीपलितनाशनम् । उपयुञ्जीत
षण्मासान् वृद्धोऽपि तरुणायते” ।

नागभगिनी स्त्री ६ त० । वासुकेर्भगिन्यां जरत्कारौ तच्छब्दे ३०५७ पृ० दृश्यम् ।

नागभूषण पु० नागो भूषणमस्य । महादेवे

नागमल्ल पु० नागेषु मल्लः । ऐरावते शब्दच० ।

नागमातृ स्त्री नागस्य हस्तिनां मातेव भूषकत्वात् । १ मनःशि-

लायां शब्दर० । ३ मनसादेव्याञ्च त्रिका० तस्याः स्वपुत्रद्वारा
नागरक्षकत्वात् तथात्वम् । जगत्कारुशब्दे ३५०७ पृ०
दृश्यम् ।

नागमार त्रि० नागं मारयति मृ--णिच्--अण् उप० स० । १ हस्तिमारके २ केशराजे पु० त्रिका० ।

नागयष्टि स्त्री नागाधिष्ठानं यष्टिः । तडागादौ आरोप्ये

वारुणादिकाष्ठमये नागविशेषस्याधिष्ठानरूपे स्तम्भभेदे
(रैकाठ) तद्विधानं तदघिष्ठातृनागनामज्ञापनं च
जलाशयोत्सर्गे उक्तं यथा कापिले “नागानामष्ट
नामानि लिखितानि पृथक् पृथक् । ततः कुम्भे च
निःक्षिप्य गायत्र्या च विलोड्य वै । उद्धरेत् पत्रिका-
मेकां तत्र वैनागमीक्षयेत् । यस्य नामोद्धरेद्वत्स!
स वै जलाधिपः स्मृतः । तं वै संपूज्य गन्धाद्यैर्दद्यात्
क्षीरञ्च पायसम्” । पत्राण्याम्रस्य । योगीश्वरधृतवच-
नात् । “यथाऽष्टौ नामान्याम्रस्य पत्रे कृत्वा तु
पृष्ठ ४०१३
यत्नतः” तानि च गारुडे । “अनन्तो वासुकिः पद्मो
महापद्मोऽथ तक्षकः । कुलीरः कर्कटः शङ्खो ह्यष्टौ
नागाः प्रकीर्त्तिताः” ततश्च अनन्तवासुकिकर्कोटकपद्म-
महापद्मतक्षकशङ्खकुलीराणां नामान्याम्रपत्रे लिखित्वा
कुम्भमध्ये निक्षिप्य गायत्र्या गोमूत्रेण वा “छन्दसा-
मथ्नामीति” रघुनाथधृतमन्त्रेणालोड्य यस्य नामोत्तिष्ठति
तं यष्ट्यां समाबाह्यानेन नागेन अस्य जलाशयस्य रक्षा
कर्त्तव्येति ब्राह्मणान् श्रावयेत् । हयशीर्षे “वैल्वकं
वारुणञ्चैव पुन्नागं नागकेसरम् । बकुलं चम्पकञ्चैव
विल्वञ्चैवाथ खादिरम् । एतेषामेव दारुणां नागयष्टिः
प्रकीर्त्तिता । सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात्
यथेप्सितम्” । तथा च वृहस्पतिः “शूलचक्राङ्कितं कृत्वा
स्थापयित्वा जलाशये । द्वादशाङ्गुलमानन्तु वाप्यां चक्रं
प्रकल्पयेत् । षोडशं पुष्करिण्यान्तु विंशतिस्तु
सरोवरे । सागरे हस्तमात्रन्तु लौहं ताम्रञ्च पैत्तलम् ।
चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम्” ।
स्वार्थे क तत्रार्थे त्रिका० ।

नागर त्रि० नमरे भवः अण् । १ विदग्धे २ नगरोद्भवे च

मेदि० स्त्रियां ङीप् । अगं राति रा--क न अगः
नशब्देन(सह सुपा)पा० स० । ३ देवरे पु० त्रिका० । ५ नागरङ्गे
(नारेङ्गानेवु) जम्बीरभेदे पु० शब्दरत्ना० । ६ शुण्ठ्यां न०
अमरः । ८ मुस्ताभेदे (नागरमुथा) न० ९ रतिवन्धभेदे
विश्वः । १० देशभेदे तद्देशीये ब्राह्मणभेदे नागराब्रा-
ह्मणाः सि० कौ० नागरखण्डशब्दे दृश्यम् तद्देशे प्रथम
प्रचलिते १२ अक्षरभेदे न० “वयस्था नागरासङ्गादङ्गानां
हन्ति वेदनाम्” वैद्यकम् नगराय हितम् अण् । १३ नगर
हिते च “धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम्” भा०
स० ५ अ० “यन्त्राण्याग्नेयौषधबलेन सीसकांस्यदृषद्गोल-
प्रक्षेपकाणि लोहमयानि भाषायां नालशब्दाभिधेयानि
तेषां सूत्रं सूचकं शास्त्रं नागरं नगरहितम्” नीलक०
“यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागरीणाम्” मेघ०
१४ पौराख्ये ग्रहयुद्धभेदे ग्रहयुद्धशब्दे २१३७ पृ० दृश्यम् ।

नागरक त्रि० नगरे भवः कुत्सितः प्रविणो वा “नगरात्

कुत्सनप्रावीण्ययोः” पा० वुञ् । कुत्सने १ चौरे प्रवीणे
२ शिल्पिनि च “अकुत्सनादौ तु अणेव नागरा
व्राह्मणाः” सि० कौ० ३ रतिबन्धभेदे “ऊरुमूलोपरि स्थित्वा
योषिदूरुद्वयं रमेत् । ग्रीवां धृत्वा कराभ्याञ्च बन्धो
नागरकोमतः” तल्लक्षणम् नागर + स्वार्थे क । ४ नागरशब्दार्थे

नागरक्त न० नागकृतं रक्तम् शोणितवर्णचूर्णम् । सिन्दूरे

हेमच० । तस्य सीसकेन रञ्जितचूर्णरक्तवर्णत्वात् तथात्वम्

नागरखण्ड न० स्कन्धपुराणान्तर्गते स्वानामख्याते खण्डभेदे

तत्प्रतिपाद्यविषयाश्च वृहन्नारदीये उक्ता यथा “अतः
परः नागराख्यः खण्डः षष्ठोऽभिधीयते । लिङ्गोत्-
पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा । विश्वामित्रस्य
माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा । हाटकेश्वरमाहात्म्यं
वृत्रासुरबधस्तथा । नागविलं शङ्खतीर्थं अचलेश्वरवर्ण-
नम् । चमत्कारपुराख्यानं चमत्कारकरं परम् ।
गयशीर्षं बालशाख्यं बालमण्डं मृगाह्वयम् । विष्णुपादञ्च
गोकर्णं युगरूपं समाश्रयः । सिद्धेश्वरं नागसरः
सप्तार्षेयं ह्यगस्तकम् । भ्रूणगर्त्तं नलेशञ्च भैष्मं
दुर्वैरमर्ककम् । शार्म्मिष्ठं सोमनाथञ्च दौर्गमानर्जके-
श्वरम् । जमदग्निबधाख्यानं नैःक्षत्रियकथानकम् ।
रामह्रदं नागपुरं जडलिङ्गञ्च यज्ञभूः । मुण्डीरादि-
त्रिकाकञ्च सतीपरिणयस्तथा । बालखिल्यञ्च यागेशं
बालखिल्यञ्च गारुडम् । लक्ष्मीशापः सप्तविंशः
सोमप्रासादमेव च । अम्बावृद्धं पादुकाख्यम् आग्नेयं ब्रह्म-
कुण्डकम् । गोमुखं लोहयष्ट्याख्यं अजापालेश्वरी तथा ।
शानैश्चरं राजवापी रामेशो लक्ष्यणेश्वरः । कुशेशाख्यं
लवेशाख्यं लिङ्गं सर्वोत्तमोत्तमम् । अष्टषष्टिसमाख्यानं
दमयन्त्या स्त्रीजातकम् । ततोऽम्बा रेवती चात्र भट्टि-
कातीर्थसम्भवम् । क्षेमङ्करी च केदारं शुक्लतीर्थं मुखा-
रकम् । सत्यसन्धेश्वराख्यानं तथा कर्णोत्पला कथा ।
जटेश्वरं याज्ञवल्क्यं गौर्य्यं गाणेशमेव च । ततो
वास्तुपदाख्यानम् अजामहकथानकम् । सौभाग्यान्धुक
शूलेशं धर्मराजकथानकम् । मिष्टाम्रदेश्वराख्यानं
गाणपत्यत्रयं ततः । जावालिचरितञ्चैव मकरेशकथा ततः ।
कालेश्वर्य्यन्धकाख्यानं कुण्डमाप्सरसन्तथा । पुष्यादित्यं
रोहिताश्वं नागरोत्पत्तिकीर्त्तनम् । भार्गवं चरितं
चैव विश्वामित्रं ततः परम् । सारस्वतं पैप्पलादं कंसा-
रीशञ्च पैतृकम् । ब्रह्मणो थज्ञचरितं सावित्र्याख्यान-
संयुतम् । रैवतं भर्तृयज्ञाख्यं तुख्यतीर्थनिरीक्षणम् ।
कौरवं हाटकेशाख्यं प्रभासक्षेत्रकत्रयम् । पौष्करं
नैमिषं धार्ममरण्यत्रितयं स्मृतम् । वाराणसी
द्वारकाख्याऽवन्त्याख्येति पुरीत्रयम् । वृन्दावनं खाण्ड-
वाख्यं सद्वैताख्यं वनत्रयम् । कल्पः शालस्तथा नन्दो
ग्रामत्रयमनुत्तमम् । असिशुक्लपितृसंज्ञतीर्थत्रयसुदा-
पृष्ठ ४०१४
हृतम् । श्र्यर्वुदौ रैवतश्चैव पर्वतत्रयमुत्तमम् ।
नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती । सार्द्धकोटि
त्रयफलमेकैकञ्चासृ कीर्त्तितम् । कूपिका शङ्खतीर्थञ्चा-
मरकं बालमण्डनम् । हाटकेशं क्षेत्रफलप्रदं प्रोक्तं
चतुष्टयम् । शाम्बादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्ध-
कम् । जलाशयिचतुर्मास्यं अशून्यशयनं व्रतम् ।
मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम् । पृथ्वीदानं
बामकेशं कपालमोचनेश्वरम् । पापपिण्डं साप्तलैङ्गं
युगमानादिकीर्त्तनम् । दानमाहात्म्यकथनं द्वादशादित्य
कीर्त्तनम् । इत्येष नागरः खण्डः प्रभासाख्योऽधुनोच्यते”

नागरघन पु० नागरमेव घनः कर्पूरसाधनम् । (नागरमुथा)

मुस्ताभेदे राजनि० ।

नागरङ्ग पु० नागस्य नागभवस्य सिन्दूरस्येव रङ्गोऽस्य फले ।

(नारेङ्गा) जम्बीरभेदे अमरः । तत् फलगुणा यथा
“नागरङ्गन्तु सुरभि विपाके गुरु दुर्जरम् । अत्यम्लमीष-
न्मधुरं वृष्यं वातविनाशनम् । तत्केसरन्तु रुच्यं स्यात्
वातहारि निगद्यते” ।

नागरमर्दिन् त्रि० नागरं मृद्नाति मृद--णिनि । नागर-

मर्दके ततः बाह्वा० अपत्यादौ ठञ् । नागरमर्दिनि
तदपत्यादौ ।

नागरमुस्ता स्त्री नगरे भवा अण् ङीप् नागरी कर्म० ।

(नागरमुथा) मुस्ताभेदे राजनि० । “तिक्ता नागरमुस्ता
स्यात् कषाया शीरला कटुः । कफपित्तज्वरहरी तृष्णा-
दाहारुचि प्रणुत् । अतिसारामयहरी भिषग्भिः
परिकीर्त्तिता” राजनि० ।

नागराज पु० ६ त० टच्समा० । १ शेषे नागे “अधस्तान्नाग-

राजाय सोमायोर्द्ध्वां दिशं ददौ” हरिबं० २६५ अ० ।
२ छन्दोग्रन्थकारके पिङ्गलनागे च ।

नागराद्यचूर्ण न० चक्रोदत्तोक्ते चूर्णभेदे “श्रीफलशका-

टुकल्को नागरचूर्णेन मिश्रितः सगुडः । ग्रहणीगद-
मत्युग्रं तकभुजाशीलितो जयति । जम्बूदाडिमशृ-
ङ्गाटपाठाकञ्चटपल्ववैः । पक्वं पर्युसितं बालविल्वं
सगुड़नागरम् । हन्ति सर्वानतीसारान् ग्रहणिमति-
दुस्तराम् । नागरातिविषामुस्तक्वाथः स्यादामपाचनः ।
चूर्णं हिङ्ग्वष्टकं वातग्रहण्यान्तु वृतानि च ।
नागरातिविषामुस्तं धातकीं सरसाञ्जनम् । वत्सकत्वक्फलं
विल्वं पाठां कटुकरोहिणीम् । पिबेत् समांशं तच्चूर्णं
सक्षौद्रं तण्डुलाम्बुना । पैत्तिक्रे ग्रहणीदोषे रक्तं
यश्चोपावेश्यते । अर्शांस्यथ गुदे शूलं जयेच्चैव प्रवाहि-
काम् । नागराद्यमिदं चूर्णं कृष्णात्रेयेण भाषितम् ।
शीतकषायमानेन तण्डुलोदककल्पना । केऽप्यष्टगुणतो
येन प्राहुस्तण्डुलभावनाम्” ।

नागराह्व न० नागरेति आह्वा यस्य । शुण्ठ्याम् राजनि० ।

नागरी स्त्री नागेभ्यो राति ददाति अत्र रा--घञर्थे क

गौरा० ङीप् । १ स्नुहीवृक्षे शब्दच० तस्यां नागपञ्चमी-
शब्दे नागपूजनस्योक्तत्वात्तस्यास्तथात्वम् । नगरे भवः
अण् ङीप् । २ विदग्धायां नार्य्याञ्च “हन्ताभीरीं स्मरतु
स कथं संवृतो नागरीभिः” उद्धवदूतम् ।

नागरीट पु० नागरीमेटति इट--गतौ क । १ षिड़्गे २ जारे

३ नागरीकृतमङ्गलध्वनौ च शब्दार्थ० ।

नागरुक पु० नागरङ्गे जम्बीरभेदे शब्दरत्ना० ।

नागरेणु पु० नागस्य सीसकस्य रेणुः । सीसकसम्भवे सिन्दूरे राजनि० ।

नागरेयक त्रि० नगर्य्यां भवः कत्त्र्या० ढकञ् । नगर्य्यां भवे

नागरोत्था स्त्री नागरादुत्तिष्ठति उद् + स्था--क । (नागर-

मुथा) ख्याते मुस्ताभेदे राजनि० ।

नागर्य्य न० नागरस्य भावः पुरो० यक् । नागरभावे विदग्धत्वे

नागलक्षण ६ त० । नागानां भेदादिज्ञापके चिह्नभेदे

अहिशब्दे ५८१ पृ० तल्लक्षणादिकं सुश्रुतोक्तं दर्शितम् ।
अग्निपुराणोक्तं शेषवासुकितक्षकलक्षणादिकमत्र प्रद-
र्श्यते तच्च तत्र २९३ अ० उक्तं यथा
“अग्निरुवाच नागादयोऽथ भावादि दंशस्थानानि कर्म
च । सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते । शेषवासुकि-
तक्षाख्याः कर्कर्टोऽब्जो महाम्बुजः । शङ्खपालश्च कलिक
इत्यष्टौ नागवर्यकाः । दशाष्टपञ्चत्रिगुणशतमूर्द्ध्वान्वितौ
क्रसात् । विप्रौ नृपौ विशौ शूद्रौ द्वौ द्वौ नागेषु
कीर्त्तितौ । तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः ।
मणिमण्डलिराजीलवातपित्तकफात्मकाः । व्यन्तरा
दोषमिश्रास्ते सर्पा दर्वीकराः स्मृताः । रथाङ्गलाङ्गलच्छ-
त्रस्वस्तिकाङ्कुशधारिणः । गोनसा मन्दगा दीर्घा
मण्डलैर्विविधैश्चिताः । राजिलाश्चित्रिताः स्निग्धास्तिर्य-
गूर्द्धञ्च राजिभिः । व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेय
वायवः । चतुर्विघास्ते षड्विंशभेदाः षोडश गोनसाः ।
त्रयोदश च राजीला व्यन्तरा एकविंशतिः । येऽनुक्त-
काले जायन्ते सर्पास्ते व्यन्तराः स्मृताः । आपाढादि-
त्रिमासैः स्याद्गर्भो मासचतुष्टये । अण्डकानां शते द्वे च
चत्व्यारिंशत् प्रसूयते । सर्पा ग्रसन्ति सूतौ तान् विना
पृष्ठ ४०१५
स्त्रीपुन्नपुंसकान् । उन्मीलतेऽक्षि सप्ताहात् कुक्षे-
र्मासाद्गवेद्बहिः । द्वादशाहात् सुरोषः स्यात् दन्ताः
स्युः सूर्यदर्शनात् । द्वात्रिंशत्, दिनविंशत्या चतस्रस्तेषु
दंष्ट्रिकाः । कराली मकरी कालरात्री च यमदूतिका ।
एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः । षण्मासा-
न्मुच्यते कृत्त्या जीवेत् षष्टिसमाद्वयम् १२० । नागाः सूर्य्या-
दिवारेशाः सप्त उक्ता टिवा निशि । खेषां षट् प्रति-
वारेषु कुलिकः सर्वसन्धिषु । शङ्खेन वा महाब्जेन
सह तस्योदयोऽथ वा । द्वयोर्वा नाडिकामन्त्रमन्त्रकं
कुलिकोदयः । दुष्टः स कालः सर्वत्र सर्पदंशे विशेषतः ।
कृत्तिका भरणी स्वाती मूलं पूर्वत्रयाश्विनी । विशाखार्द्रा
मघाश्लेषा चित्रा श्रवणरोहिणी । हस्ता मन्दकुजौ
वारौ पञ्चमी चाष्टमी तिथिः । षष्ठी रिक्ता शिवा
निन्द्या पञ्चदशी चतुर्दशी । सन्ध्याचतुष्टयं दुष्टं दग्ध-
योगाश्च राशयः । एकद्विबहवो दंशा दष्टविद्धञ्च खण्डि-
तम् । अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम् । त्रयो
द्व्येकक्षता दंशा वेदना रुधिरोल्वणा । नक्तन्त्वेका-
ङ्घ्रिकूर्माभा दंशाश्च यमचोदिताः । दाही पिपीलिका-
स्पर्शीकण्टशोथरुजान्वितः । सतोदो ग्रन्थिती दंशः
मविषो न्यस्तनिर्विषः । देवालये शून्यगृहे वल्मीकोद्या-
नकोटरे । रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे ।
द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्वताग्रतः । बिलद्वारे
जीर्णकूपे जीर्णवेश्मनि कुड्यके । शिग्रुश्लेष्मातकाक्षेषु
जम्बूडुम्बरकेषु च । वटे च जीर्णप्राकारे स्वास्यहृत्-
कक्षजत्रुणि । तालौ शङ्खे गले मूर्घ्नि चिवुके नाभि-
पादयोः । दंशोऽशुभः शुभो दूतः पुष्पहस्तः सुवाक्
सुधीः । लिङ्गवर्णसमानश्च शुक्लवस्त्रोऽमलः शुचिः ।
अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः । विवर्णवासाः
पाशादिहस्तो गद्गदवर्णभाक् । शुष्ककाष्ठाश्रितः खिन्न-
स्तिलाक्तककरांशुकः । आर्द्रवासाः कृष्णरक्तपुष्पयुक्त-
शिरोरुहः । कुचमर्दी नखच्छेदी गुदस्पृक् पादलेखकः ।
केशलुञ्ची तृणच्छेदो दुष्टा दूतास्तथैकशः । इड़ान्या
वा वहेद्द्वेधा यदि दूतस्य चात्मनः । आभ्यां द्वाभ्यां
पुष्टयाम्यान् विद्यात्स्त्रीपुन्नपुंसकान् । दूतः स्पृशति
यद्गात्रं तस्मिन् दशमुदाहरेत् । दूताङ्घ्रिचलनं दुष्ट-
मुत्थितिर्निश्चला शुभा । जीवपार्श्वे शुभो दूतो दुष्टोऽ-
न्यत्र समागतः । जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ।
दूतस्य वाक प्रदुष्ठा सा पूर्वामजार्द्धनिन्दिता । विमक्त्वै-
स्तस्य वाक्यान्तैर्विषनिर्विषकालता । आद्यैः स्वरैश्च
काद्यैश्च वर्गैर्भिन्नलिपिर्द्विधा । स्वरजो बसुमान्वर्गी इति
ज्ञेया च मातृका । वाताग्नीन्द्रजलात्मानो वर्गेषु च
चतुष्टयम् । नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयो
नयः । दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः ।
प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः । प्रस्थाने
मङ्गलं वाक्यं गर्जितं मेघहस्तिनोः । प्रदक्षिणं फले
वृक्षे वामस्य च रुतं जितम् । शुभा गीतादिशब्दाः
स्युरीदृशं स्यादसिद्धये । अनर्थगीरथाक्रन्दो दक्षिणे
विरुतं क्षुतम् । वेश्या क्षुतो नृपः कन्या गौर्दन्ती
मुरजध्वजौ । क्षीराज्यदधिशङ्खाम्बु छत्रं भेरी फलं
सुराः । तण्डुला हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी ।
सकाष्ठः सानलः कारुर्मलिनाम्बरभावभृत् । गलस्थटङ्को
गोमायुगृध्रोलूककपर्दिकाः । तैलं कपालकार्पासा निषेधा
भस्म नष्टये । विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः ।
बिषदंशो ललाटं यात्यतोनेत्रं ततो मुखम् । आस्याच्च
चरणौ नाड्यौ धातून् प्राप्नोति हि क्रमात्” ।

नागलता स्त्री नाग इव लता । १ पुंसोलिङ्गे त्रिका० नागा-

कारा लता । २ नागदीर्घायां २ ताम्बूल्याञ्च ।

नागलोक पु० ६ त० । नागाधिष्ठिते लोके पाताले

नागशब्दे तेषां पातालस्थितिकारणं दर्शितम् । पातालाव-
स्थानभेदादि पुराणसर्वस्वे विष्णुपुराणाद्युक्तं यथा
“पराशर उवाच विस्तार एष कथितः पृथिव्या भवतो
मया । सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोऽपि कथ्यते ।
दशसाहस्रमेकैकं पातालं मुनिसत्तम! । सुतलं वितलञ्चैव
नितलञ्च गभस्तिमत् । महाग्रमतलञ्चापि पातालञ्चापि
सत्तम! । भूमयो यत्र मैत्रेय! वरप्रासादशोभिताः ।
तेषु दानवदैतेयजातयः शतसंघशः । निवसन्ति
महानागजातयश्च महामुने!” ब्रह्माण्डे “प्रथमेऽस्मिंस्तले
ख्यातमसुरेन्द्रस्य मन्दिरम् । नमुचर्देवशत्रोश्च महाना-
दस्य चानघ! । पुरञ्च शङ्कुकर्णस्य कबन्धस्य च मन्दि-
रम् । किंविषयस्य च पुरं प्रहृष्टजनसङ्कुलम् । राक्ष-
सस्य च भीमस्य शूलदन्तस्य चालयः । लोहिताक्ष
कुविन्दानां नगरं श्वापदस्य च । धनञ्जयस्य सदनं
नागेन्द्रस्य महात्मनः । कालियस्य च नागस्य नगरं
कलसस्य च । एवं पुरसहस्राणि नागदानवरक्षसाम् ।
ज्ञेयानि प्रथमे चैव कृष्णभौमे तले द्विज! । द्वितीयेऽस्मि
स्तले ज्ञेयं दैत्येन्द्रस्य सुरक्षसः । महाजम्भस्य च तथा
पृष्ठ ४०१६
नगरं प्रथसस्य च । हयग्रीवस्य कृष्णस्य निजं तस्य
च मन्दिरम् । शङ्खाख्यस्य च दैत्यस्य नगरं गोमुखस्य
च । राक्षसस्य च नीलस्य मेघस्य क्रथकस्य च । पुरञ्च
कृष्णपादस्य महोष्णीषस्य चालयः । कम्बलस्य च नागस्य
पुरमश्वतरस्य च । कद्रुपुत्रस्य च पुरं तक्षकस्य
महात्मनः । एवं पुरसहस्राणि नागदानवरक्षसाम् । द्वितीये-
ऽस्मिंस्तले विप्राः पाण्डुभौमे न संशयः । तृतीये तु
तले ख्यातं प्रह्लादस्य महात्मनः । अनुह्लादस्य च पुरं
पुरमग्निमुखस्य च । तारकाख्यस्य च पुरं पुरं त्रिशिर
सस्तथा । शिसुमारस्य च पुरं हृष्टपुष्टजनाकुलम् ।
च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम् । मन्दरस्यो-
रगपतेर्विशालस्य च मन्दिरम् । एवं पुरसहस्राणि
नागदानवरक्षसाम् । तृतीयेऽस्मिंस्तले ज्ञेयं रक्तभौमे न
संशयः । तत्रापि दैत्यसिंहस्य कालनेमेः पुरं महत् ।
तथालम्बस्य च पुरं नगरं कुञ्जरस्य च । राक्षसेन्द्रस्य च
पुरं सुमालेर्बहुविस्तरम् । मुञ्जस्य कोकनागस्य वृकष-
क्त्रस्य चालयः । बहुयोजनसाहस्रं बहुपक्षिगणाकु-
लम् । नगरं वैनतेयस्य चतुर्थेऽस्मिन्रसारले । पञ्चमे
शर्कराभौमे बहुयोजनविस्तृतम् । विरीचनस्य नगरं
दैत्यसिंहस्य वामतः । व्यायतास्याग्निजिह्वस्य हिरण्या-
क्षस्य चालयः । पुरञ्च विद्युज्जिह्वस्य राक्षसेन्द्रस्य
धीमतः । महामेघस्य च पुरं रक्षसो देवविद्विषः ।
किर्भीरस्य च नागस्य स्वस्तिकस्य जयस्य च । एवं
पुरसहस्राणि नागदानवरक्षसाम् । पञ्चमेऽस्मिंस्तले ज्ञेयं
शर्करानिलये तथा । षष्ठे तले केशरिणो दैत्येन्द्रस्य
पुरं स्मृतम् । सुपर्वणः पुलोम्नश्च नगरं महिषस्य च ।
राक्षसेन्द्रस्य च पुरं चुक्रोशस्य महात्मनः । तत्रास्ते
सुरसापुत्रः शतशीर्षोमुदा युतः । महेन्द्रस्य सखा श्रीमान्
वासुकिर्नाम नागराट् । एवं पुरसहस्राणि नागदानष-
रक्षसाम् । षष्ठे तलेऽस्मिन् ख्यातानि शिलाभौमे
रसातले । सप्तमे तु तले ज्ञेयं पाताले पूर्वपश्चिमे । पुरं
बलेः प्रमुदितं नरनारीगणायुतम् । असुराशीविवैः
पर्णमुद्धतैर्देवशत्रुभिः । मुचुकुन्दस्य दैत्यस्य तत्रैव
नगरं महत् । अनेकैर्दितिपुत्राणां समुदीर्णैर्महासुरैः ।
तथैव नागनगरैरृषिमद्भिर्महात्मभिः । दैत्यानां दानवा-
नाञ्च समुदीर्णैर्महासुरैः । उदीर्णै राक्षसावासैरनेकैश्च
समाकुलम् । स्वर्लोकादपि रम्याणि पातालानीति
नारढः । प्राह स्वर्गसभामध्ये पातालेभ्यो गतो दिवि ।
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः । नागाभ-
रणभूषासु पातालं केन तत्समम् । दैन्यदारिद्र्यरहितै-
रितश्चेतश्च शोभिते । पाताले कस्य न प्रीतिर्विमुक्तस्यापि
जायते । दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् ।
शशिनश्च न शीताय निशि द्योताय केवलम् । भक्ष्यभोज्य
महापानमुदितै रात्रिभोगिभिः । यत्र न ज्ञायते कालो
गतोऽपि दनुजादिभिः । वनानि नद्यो रम्याणि सरांसि
कमलानि च । पुंष्कोकिलादिनादाश्च मनोज्ञान्यम्ब-
राणि च । भूषणान्यतिरम्याणि गन्धाद्यञ्चानुलेपनम् ।
वेणुवीणामृदङ्गानामुदितैर्नादितानि च । एतान्यन्यानि
चोदारभोगभोग्यानि दानवैः । दैत्योरगैश्च भुज्यन्ते
पातालान्तरगोचरैः । पातालागामधश्चान्ते विष्णोर्या
तामसी तनुः । शेषाख्या तद्गुणान् वक्तुं न शक्ता दैत्यदा-
नवाः । योऽनन्तः पठ्यते सिद्ध्वैर्देवदेवर्षिभूषितैः ।
सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः । फणामणिसह-
स्रेण यश्च विद्योतयन् दिशः । सर्वान् करोति निर्वी-
र्य्यान् हिताय जगतोऽसुरान् । मदाघूर्णितनेत्रोऽसौ
यः सदैवैककुण्डलः । किरीटी स्रग्धरो भाति साग्निः
श्वेत इवर्क्षराट् । नीलवासा मदोत्सिक्तः श्वेतहारोप
शोभितः । साभ्रे गङ्गाप्रपातोऽसौ कैलासाद्रिरिवो-
न्नतः । लाङ्गूलासक्तहस्ताग्रो बिभ्रन्मूषलमुत्तमम् ।
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया ।
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । सङ्क-
र्षणात्मको रुद्रो निर्गम्यात्ति जगत्त्रयम् । समस्तपृथिवी
भूतमशेषक्षितिमण्डलम् । आस्ते पातालमूलस्थः
शेषोऽशेषसुरार्चितः । तस्य वीर्यं प्रभावञ्च स्वरूपं
रूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशै-
रपि । यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ।
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति । यदा विजृ-
म्भतेऽनन्तो मदाघूर्णितलोचनः । तदा चलति भूरेषा
साद्रितोयाब्धिकानना । यदा तु पर्वणि गजः खेदाच्चा-
लयते शिरः । सपर्वतबना नाम तदेयं चलति क्षितिः ।
गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः । नान्तं
गुणान्तं गच्छन्ति तेनानन्तोऽयमुच्यते । यस्य नागवधू-
हस्तैर्लेपितं हरिचन्दनम् । स्वनिश्वासानिलापास्तं
याति दिक्पटवासताम् । यमामनति देवर्षिर्गर्गोज्योतींषि-
तत्त्वतः । भगवान् सकलञ्चैव निमित्तं पटितं फलम् ।
तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्त्तिमालां
लोकानां सदेवासुरमानुषाम्” नागभुवनादयोऽप्यत्र ।
पृष्ठ ४०१७

नागवर्त्मन् पु० तीर्थभेदे “ततः प्रायाद्वलो राजन्! दक्षिणेन

सरस्वतीम् । गत्वा चैवं महाबाहुर्नातिदूरे महायशाः ।
धर्मात्मा नागवर्त्मानं तीर्थमागममच्युतः । यत्र पन्नग
राजस्य वासुकेः सन्निवेशनम् । महाद्युतेर्महाराज!
वहुभिः पन्नगैर्वृतम् । ऋषीणां हि सहस्राणि तत्र
नित्यं चतुर्दश । यत्र देवाः समागम्य वासुकिं पन्न-
गोत्तमम् । सर्वे पन्नगराजानमभ्यसिञ्चन् यथाविधि ।
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव! । तत्रापि
विधिवद्दत्त्वा विप्रेभ्यी रत्नसञ्चयान्” भा० श० ३८ अ० ।

नागवल्लरी स्त्री नाग इव दीर्घा वल्लरी । ताम्बूलीलतायां

भावप्र० ।

नागवल्ली स्त्री नाग इव दीर्घा वल्ली । ताम्बूलवल्ल्याम्

अमरः । सा च देशभेदात् मृत्तिकाभेदेन नानाकारगुणा
यथोक्तं राजनि० “एकाप्येषा देशमृत्स्नाविशेषान्नाना-
कारं याति काये गुणे च” इत्युपक्रमे
“श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा । रसाढ्या
सुरसा रुच्या विपाके शिशिरा स्मृता । स्य दम्लवाटो
कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुस्वपाककर्त्री । विदाह
पित्तास्रविकोपनी च विष्टम्भदा वातनिर्वहणी च ।
सप्तमी मधुरा तीक्ष्णा कटुरुष्णा च पाचनी । गुल्मो-
दराध्मानहरी रुचिकृद्दीपनी परा” अन्यच्च “गुहागरे
सप्तसिरा प्रसिद्धा तत्पर्णचूर्णातिरसातिरुच्या । सुगन्धि
तीक्ष्णा मघुरातिहृद्या सन्दीपनी पुंस्त्वकरी च बल्या”
“नाम्ना याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत्
पित्तोद्रेकहरी सुदीपनकरी बल्या मुखामोदिनी ।
स्त्रीसौभाग्यविवर्द्धिनी मदकरी ज्ञेया सदा वल्लभा गुल्-
माध्मानविबन्धजिच्च कथिता सा मालवे तूत्थिता । अन्ध्रि-
पुष्कलिका नाम कषायोष्णा कटुस्तथा । मलापकर्षा
कण्ठस्य पित्तहृद्वातनाशिनी । द्वैषणीया कटुस्तीक्ष्णा
हृद्या दीर्घदला च सा । कफवातहरी रुच्या कटुर्दीपन
पाचनी” स्वार्थे क । नागवल्लिकाऽप्यत्र “पर्णमूले
भवेद् व्याधिः पर्णाग्रे पापसम्भवः । जीर्णपर्णं
हरेदायुः सिरा बुद्विप्रणाशिनी” आह्नि० त० ।

नागवारिक पु० नागस्य गजस्य सर्पस्य वा वारो वारणं

प्रयोजनमस्य ठक् । १ हस्तिपालके २ गरुडे ३ मयूरे
४ राजकुञ्जरे ५ यूथस्थगजराजे च मेदि० ।

नागवि(बिल) न० तीर्थभेदे नागरखण्डशब्दे दृश्यम् ।

नागवीट पु० नाग इव व्येटति वि + इट--क । टाङ्गरे (ड्याकरा)

त्रिका० ।

नागवीथी स्त्री आकाशमण्डलस्थे उत्तरदिक्स्थे अश्वि-

न्यादित्रयघटितग्रहस्थानत्रयान्तर्गते मार्गभेदे
वियति हि मध्यमोत्तरदक्षिणमार्गत्रयमस्ति तच्च प्रत्येकं
वीथीत्रयेण त्रिधा भिद्यते । तथा हि त्रिभिस्त्रिभिरश्वि-
न्यादिनक्षत्रैर्नागवीथी गजवीथी ऐरावती चेत्युत्तरमार्गे
वीथीत्रयम्” “सर्वग्रहाणां भान्येव स्थानानि द्विज-
सत्तमाः । स्थानं जारद्गवं मध्ये तथैरावतमुत्तरम्”
“वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः । अश्विनी
कृत्तिका याम्या नागवीथीति शब्दिता” विष्णुपु० जरद्गव-
शब्दे ३०५८ पृ० दृश्यम् । २ कश्यपपुत्रीभेदे च “नाग
वीथी च यामिन्याम्” ब्रह्म० प्र० २ अ० ।

नागवृक्ष पु० नागाख्यो वृक्षः । नागकेसरवृक्षे शब्दार्थचि० ।

नागशत पु० नागानां शतमत्र । पर्वतभेदे “जगाम सह

पत्रीभ्यां ततो नागशतं गिरिम्” भा० आ० १९९ अ० ।

नागशुण्डी स्त्री नागस्य शुण्डस्तदाकारोऽस्त्यस्य शिखायाम्

अच् गौरा० ङीष् । डङ्गरीफलनामके वृक्षे राजनि० ।

नागसम्भव न० नागात् सीसकात् सम्भवति सम् + भू--अच्

५ त० । सिन्दूरे अमरः ।

नागसम्भूत न० नागात् सीसात् वासुक्यादितो वा सम्भूतम् ५ त०

सीससम्भवे १ सिन्दूरे वासुक्यादिशिरस्येवर्षणःपतिते २
मुक्ताफलभेदे च “तक्षकवासुकिकुलजाः कामगमा ये च
पन्नगास्तेषाम् । स्निग्धानीलद्युतयो भवन्ति मुक्ताः
फणस्यान्ते । शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च
यदि । वर्षति देवोऽकस्मात् तज्ज्ञेयं नागसम्भूतम् ।
अपहरति विषमलक्ष्मीं क्षपयति शत्रून्यशो विकाशयति ।
भौजङ्गं नृपतीनां धृतमकृतार्घं विजयदं च” वृ० स० ८१ अ०

नागसरस् व० तीर्थभेदे नागरखण्डशब्दे दृश्यम् ।

नागसाह्वय न० नागेन हस्तिना समानः आह्वयो यस्य ।

हस्तिनापुरे “जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्”
भा० आ० १३ अ० ।

नागसुगन्धा स्त्री नागस्य सर्पस्येव सुगन्धोऽस्याः । भुजङ्गाक्षीलतायां क्षीरस्वामी ।

नागस्तोक न० नागस्य तद्विषस्य स्तोकमत्र कप् । वत्स

नाभविषे राजनि० ।

नागस्फोता स्त्री नाग इव स्फोता । १ नागदन्तीवृक्षे २ दन्तीवृक्षे च राजनि० ।

नागहनु पु० नागस्य हस्तिनो हनुरिव । नखीनामगन्धद्रव्ये

राजनि० ।
पृष्ठ ४०१८

नागहन्त्री स्त्री नागान् सर्पान् हन्ति तृच् ङीप् । १ बन्ध्या-

कर्कट्याम् राजनि० । २ सर्पगजयोर्हन्तरि त्रि० ।

नागाख्य पु० नागेति आख्या यस्य । नागकेसरे त्रिका० ।

नागाञ्चला स्त्री नागस्याञ्चलमिवात्र । नागयष्टौ जटाधरः ।

नागाञ्जना स्त्री नागस्याञ्जनं यत्र । १ नागयष्ट्यां २ हस्तिन्याञ्च

मेदि० ।

नागाधिप पु० ६ त० । १ अनन्ते नागे हेमच० । २ गजसर्पयोरधिपमात्रे च । नागाधिराजादयोऽप्यत्र ।

नागानन पु० नागस्येवाननमस्य । गजानने गणेशे ।

नागान्तक ६ त० । १ मरुडे क्रमेण सर्पगजयोरन्तके २ मयूरे

३ सिंहे च ।

नागानन्द पु० नामानामानन्दो वर्ण्यो यत्र । श्रीहर्षप्रणीते नाटकभेदे ।

नागाराति पु० नागस्य सर्पस्यारातिः १ बन्ध्याकर्कट्याम् राजनि०

२ सिंहे ३ गरुडे ४ मयूरे च । नागारिप्रभृतयोऽप्येषु ।

नागार्जुनोय पु० नागश्च अर्जुनश्च तौ अधिकृत्य कृतोग्रन्थः

“द्वन्द्वाच्छः” पा० छ । नागार्जुनाधिकारेण कृते काव्यभेदे
छस्याख्यायिकात्वात् वा लुक् । नागार्जुन तत्रार्थे ।

नागालाबू स्त्री नागः नागकुम्भ इवालावूः । गजकुम्भाका-

रायां तुम्ब्याम् राजनि० ।

नागाशन न० नागान् अश्राति अश--ल्यु । गरुडे हारा० । २ ययूरे ३ सिंहे च ।

नागाह्व पु० नागेन युक्ताह्वा यस्य । हस्तिनापुरे । नागा-

ह्वयादयोऽप्यत्र त्रिका० ।

नागाह्वा स्त्री नागं नागकेसरमाह्वयते स्पर्द्धते आ + ह्वे--क । लक्ष्मणायाम् राजनि० ।

नागिन् पु० नागो भूषणत्वेनास्त्यस्य इनि । सर्पभूषणे शिवे

“नागोपवीतिनं नग्नं नागिनमग्निवर्चसम्” हरिवं०
२७६ अ० ।

नागेन्द्र पु० नाग इन्द्र इव श्रेष्ठत्वात् उपमितस० । १

ऐरावते २ शेषादिनागे च । “नागेन्द्रहस्तस्त्वचि कर्कशत्वात्”
कुमा० । “कुथेन नागेन्द्रमिवेन्द्रवाहनम्” माथः ।

नागेश पु० ६ त० । १ अनन्ते शेषनागे । पाणिनिव्याकरण-

भाष्यविवरणादिग्रन्थकारके २ विद्वद्भेदे “नागेशभट्टस्तनुते
लघुशब्देन्दुशेखरम्” । ३ शिवलिङ्गभेदे न० नागेश्वरोऽप्यत्र
विष्णुपु० उक्ते तन्निकटस्थे ४ तीर्थभेदे न० ।

नागोद(र) न० नाग इवोदर यस्मात् पृषो० वा रस्य लोपः ।

उदरत्राणे हेमच० । रान्तं तत्रार्थे हारा० । सुश्रुतोक्ते
२ गर्भिण्या गर्भोपद्रवभेदे च “शुक्रशोणितं वायुर्नाभि
प्रपन्नमवक्रान्तजीवमाध्मापयत्युदर तत्कदाचिद्यदृच्छयो-
पशान्तं नैगमेषापहतधिति भाषन्ते । तमेव कदाचित्
प्रलीयमानं नागोदरमित्याहुस्तत्रापि तीनवत् प्रतीकारः”

नागोद्रेद न० सरस्वतीनदीप्रकाशस्थानभेदरूपे तीर्थभेदे “गच्छ-

त्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती । चमसे च शिवोद्भोदे
नागोद्भेदे च दृश्यते । नागोद्भेदे नरः स्रात्वा नागलो-
कमवाप्नुयात्” भा० व० ८२ अ० ।

नाचिक पु० विश्वामित्रपुत्रभेदे “अराणिर्नाचिकश्चैव” भा०

अनु० ४ अ० विश्वावित्रपुत्रोक्तौ ।

नाचिकेत पु० नचिकेतशब्दार्थे १ अनले २ ऋषिभेदे ३ तदुपा-

ख्याने च । त्रिकाण्डे नाचिकेतुरिति पाठः लिपिक-
रप्रमादकृतः नाचिकेत इत्येव पाठः श्रुत्यादिसंवादी ।
नाचिकेतोपाख्यानञ्च भा० अनु० ७१ अ० आदौ दृश्यम् ।

नाचीन पु० दक्षिणस्थे १ देशभेदे २ तन्नृपे च “नाचोनानर्वु-

कांश्चैब” भा० स० ३० अ० सहदेवदक्षिणदिग्विजये ।

नाट पु० नट--घञ् । १ नृत्ये २ कर्णाटदेशे च शब्दरत्ना०

नाटक त्रि० नट--ण्वुल् । १ नर्त्तके स्त्रियां टप् । कामाख्या

पर्वतान्तिकस्थे २ पर्वतभेदे । “ऐशान्यां नाटके शैले
शङ्करस्य महाश्रमम् । नित्यं वसति तत्रेशस्तदधीना तु
पार्वती” कालिकापु० । ३ दृश्यकाव्यरूपे रूपकभेदे न० ।
तद्भेदलक्षणादिकं सा० द० उक्तं यथा
“नाटकमथ प्रकरणम् भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश । किञ्च,
“नाटिकां त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानो-
ल्लाप्यकाव्यानि प्रेङ्क्षणं रासक तथा । संलापकं श्री-
गदितं शिल्पक्तञ्च विलासिका । दुर्मल्लिका प्रकरणी
हल्लीशो माणिकेति च । अष्टादश प्राहुरुपरूपकाणि
मणीपिणः । विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्” ।
सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणाञ्च ।
तत्र । “नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम् ।
विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभिः ।
सुखदुःखसमुद्भूति नानारसनिरन्तरम् । पञ्चादिका
दशपरास्तत्राङ्काः परिकीर्त्तिताः । प्रख्यातवंशो
राजर्षिर्धीरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो
वा गुणवान्नायको मतः । एक एव भवेदङ्गी शृङ्गारो
वीर एव वा । अङ्गमन्ये रसाः सर्वे कार्य्यनिर्वहणेऽद्भु-
तम् । चत्वारः पञ्च वा मुख्याः कार्य्यव्यापृतपूरुषाः ।
गोपुच्छाग्रसमाग्रन्तु बन्धनं तस्य कीर्तितम्” । “देवतोनां
मनुष्याणां राज्ञां लोके महात्मनाम् । पूर्ववृत्तानुचारतं
प्रख्यातोदात्तनायकम् । प्रवेशकविविस्कम्भादिभिः सन्धि-
भिरन्वितम् । इतिहासकथोद्भूतं सुखदुःखदयै-
पृष्ठ ४०१९
र्युतम् । षट्पञ्चदशसप्ताष्टनवाङ्कैरनुभूषितम् । नाना-
विलासलीलाभिः सर्वसिद्धिभिरन्वितम् । नानाभाव
रसैराढ्यं नाटकं सूरयो विदुः । किञ्चिदङ्गविहीनन्तु
न त्याज्यं नाटकं क्वचित् । आरम्भश्च प्रयत्नञ्च प्राप्तिः
सम्भव एव च । नियता च फलप्राप्तिः फलयोगस्तथा
परः । इत्यवस्थापञ्चकं स्यात् नाटके कार्य्यवस्तुनः ।
संस्कृतं प्राकृतं भूतभाषापभ्रंशिका गिरः । नाटके
नियताः शस्ता एषा भाषा रसावहा । भाषाविभाषा-
भेदेन प्राकृतन्तु चतुर्दश । मागध्यावन्तिका प्राच्या
शौरसेन्यर्द्धमागधी । वाह्लीका दाक्षिणात्याश्च भाषाः
सप्त च प्राकृते । शकाराभीरचाण्डालशवरद्रविडौड्रजाः ।
वानौकसी विजातीनां विभाषाः सप्त कीर्त्तिताः । कैकेयी
शौरसेनी च काञ्ची पाञ्चालमागधी । द्राविडी पाण्डु-
देशी च भूतभाषाः प्रकीर्त्तिताः । वैदर्भी मागधी
नाटी काम्बोजी चोपनागरी । पाञ्चाली षड़पभ्रंश-
भाषाः स्युर्देशभेदतः । देवतादर्शनान्तञ्च कर्त्तव्यं
नाटकं बुधैः । राजर्षिदर्शनान्तं वा तेऽपि देवैः समा
मताः” । उदाहरणम् “मुरारिकवेरनर्घराघवं भवभूते-
रुत्तरचरितं कालिदासस्याभिज्ञानशकुन्तलञ्च” सङ्गीतदा० ।
तच्च यथा कर्त्तव्यं नाटकादिविभागमुक्त्वा अग्निपु०
३३७ अ० तथा निरूपितं यथा
“सामान्यञ्च विशेषश्च लक्षणस्य द्वयी गतिः । सामान्यं
सर्वविषयं शेषः क्वापि प्रवर्त्तते । पूर्वरङ्गे निवृत्ते द्वौ
देशकालावुभावपि । रसभावविभावानुभावा अभिनय-
स्तथा । अङ्कः स्थितिश्च सामान्यं सर्वत्रैवोपसर्पणात् ।
विशेषोऽवसरे वाच्यः सामान्यं पूर्वमुच्यते । त्रिवर्ग-
साधनन्नाट्यमित्याहुः करणञ्च यत् । इतिकर्त्तव्यता
तस्य पूर्वरङ्गो यथाविधि । नान्दीमुखानि द्वात्रिंश-
दङ्गानि पूर्बरङ्गके । देवतानां नमस्कारो गुरूणामपि
च स्तुतिः । गोब्राह्मणनृपादीनामाशीर्वादादि गीयते ।
नान्द्यन्ते सूत्रधारोऽसौ रूपकेषु निबध्यते । गुरुपूर्वक्रमं
वंशप्रशंसा पौरुषं कवेः । सम्बन्धार्थौ च काव्यस्य पञ्चै-
तानेष निर्दिशेत् । नटी विदूषको वापि पारिपार्श्विक
एव वा । सहिताः सूत्रघारेण संलाप यत्र कुर्वते ।
चित्रैर्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं
तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा । प्रवृत्तकं कथोद्घातः
प्रयोगातिशयस्तथा । आमुखस्य त्रयो भेदा वीजांशेषूप-
जायते । कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् ।
तदाश्रयश्च पात्रस्य प्रवेशस्तत् प्रवृत्तकम् । सूत्रधारस्य
वाक्यं वा यत्र वाक्यार्थमेवात्वा । गृहीत्वा प्रविशेत्
पात्रं कथोद्द्वातः स उच्यते । प्रयोगेषु प्रयोगन्तु सूत्र-
धृग्यत्र वर्णयेत् । ततश्च प्रविशेत् पात्रं प्रयोगातिशयो
हि सः । शरीरं नाटकादीनामितिवृत्तं प्रचक्षते ।
सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदावुभौ स्मृतौ । सिद्धमागम-
दृष्टञ्च सृष्टमुत्प्रेक्षितं कवेः । वीजं विन्दुः पताका च
प्रकरी कार्य्यमेव च । अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि
क्रमात् । प्रारम्लश्च प्रयत्नश्च प्राप्तिः सद्भाव एव च ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः । मुखं प्रति-
मुखं गर्भो विमर्षश्च तथैव च । तथा निर्वहणञ्चेति
क्रमात् पञ्चैव सन्धयः । अल्पमात्रं समुद्दिष्टं बहुधा
यत् प्रसर्पति । फलावसानं यच्चैव वीजं तदभिधीयते ।
यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा । काव्ये शरीरानु-
नतं तन्मुखं परिकीर्त्तितम् । इष्टस्यार्थस्य रचना वृत्तान्त-
स्यानुपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव
गूहनम् । आश्चर्य्यवदभिख्यातं प्रकाशानां प्रकाशनम् ।
अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेव च । देशकालौ
विना किञ्चिन्नेतिवृत्तं प्रवर्त्तते । अतस्तयोरुपादान-
नियमात् पदमुच्यते । देशेषु भारतं वर्षं काले
कृतयुगत्रयम् । मर्त्त्ये ताभ्यां प्राणभृतां सुखदुःखोदयः
क्वचित् । सर्गे सर्गादिवार्त्ता च प्रसज्जन्ती न दुष्यति” ।

नाटकलक्षण न० नाटकस्य दशविधरूपकस्य लक्षणम् ।

सा० द० उक्ते षट्त्रिंशन्मिते नाटकस्य लक्षणे यथा
“षटत्रिंशल्लक्षणान्यत्र नाट्यालङ्कृतयस्तथा ३६ । त्रय-
स्त्रिंशत् प्रयोज्यानि वीथ्यङ्गानि त्रयोदश । लास्याङ्गानि
दश यथालाभं रसव्यपेक्षया” इत्युद्दिश्य “भूषणाक्षरसं-
हातौ शोभोदाहरणं तथा । हेतुसंशयदृष्टान्तास्तुल्यतर्कः
पदोच्चयः । निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ।
दिष्ठोपदिष्टे च गुणातिपातातिशयौ तथा । विशेषण-
निरुक्ती च सिद्धिर्भ्रंशविपर्य्ययौ । दाक्षिण्यानुनयौ
मालाऽर्थापत्तिगर्हणे तथा । पृच्छा प्रसिद्धिः सारूप्यं
संक्षेपो गुणकीर्त्तनम् । लेशो मनोरथोऽनुक्तसिद्धिः प्रिय-
वचस्तथा । लक्षणानि” इति बिभज्य क्रमेणलक्षितानि यथा
“गुणैः सालङ्कारैर्य्योगस्तु भूषणम् १ । वर्णनाऽक्षर-
संहात २ श्चित्रार्थैरक्षरैर्मितैः । सिद्धैरर्थैः समं यत्र प्रसि-
द्धोऽर्थः प्रकाशते । श्लिष्टलक्षणचित्रार्था सा शोभेत्यभि-
धीयते ३ । यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।
पृष्ठ ४०२०
साध्यतेऽभिमतश्चार्थस्तदुदाहरणं ४ मतम् । हेतु ५ र्वाक्यं
समासोक्तमिष्टकृद्धेतुदर्शनात् । संशयो ६ ज्ञाततत्त्वस्य
वाक्ये स्याद्यदनिश्चयः । दृष्टान्तो ७ यस्तु पक्षार्थसाध-
नाय निदर्शनम् । तुल्यतर्को ८ यदर्थेन तर्कः प्रकृतगा-
मिना । सञ्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः ९ ।
यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्त्तनम् । परपक्ष-
व्युदासार्थं तन्निदर्शन १० मुच्यते । अभिप्राय ११ स्तु सादृ-
श्यादद्भुतार्थस्य कल्पना । प्राप्तिः १२ केनचिदंशेन किञ्चि-
द्यत्रानुमीयते । विचारो १३ युक्तवाक्यैर्यदप्रत्यक्षा-
र्थसाधनम् । देशकालस्वरूपेण वर्णना दिष्ट १४ मुच्यते ।
उपदिष्टं १५ मनोहारि वाक्यं शास्त्रानुसारतः ।
गुणातिपातः १६ कार्य्यं यद्विपरीतं गुणान् प्रति ।
यः सामान्यगुणोद्रेकः स गुणातिशयो १७ मतः ।
अर्थान् सिद्धान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम् १८ । पूर्व-
सिद्धार्थकथनं निरुक्ति १९ रिति कीर्त्तितम् । बहूनां
कीर्त्तनं सिद्धि २० रभिप्रेतार्थसिद्धये । दृप्तादीनां भवेद्-
भ्रंशो २१ वाच्यादन्यतरद्वचः । विचारस्यान्यथाभावः
सन्देहात्तु विपर्य्ययः २२ । दाक्षिण्यं २३ चेष्टया वाचा
परचित्तानुवर्त्तनम् । वाक्यैः स्निग्धैरनुनयो २४
भवेदर्थस्य साधनम् । माला २५ स्याद्यदभीष्टार्थं नैकार्थप्र-
तिपादनम् । अर्थापत्ति २६ र्यदन्यार्थोऽर्थान्तरोक्तेः प्रती-
यते । दूषणोद्घोषणायां तु भर्त्सना गर्हणं २७ तु तत् ।
अभ्यर्थनापरैर्वाक्यैः पृच्छा २८ ऽर्थान्वेषणं २९ मतम् ।
प्रसिद्धि ३० र्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् । सारूप्य ३१
मभिभूतस्य सारूप्यात् क्षोभवर्त्तनम् । संक्षेपो ३२ यत्तु
संक्षेपादात्मन्यर्थे प्रयुज्यते । गुणानां कीर्त्तनं यत्तु तदेव
गुणकीर्त्तनम् ३२ । स लेशो ३३ भण्यते वाक्यं यत् सादृश्य
पुरःसरम् । मनोरथ ३४ स्त्वभिप्रांयस्योक्तिर्भङ्ग्यन्तरेण
यत् । विशेषार्थोऽतिप्रस्तावेऽनुक्तसिद्धि ३५ रुदीर्थ्यते ।
स्यात्प्रमाणयितुं पूज्यं प्रियोक्ति ३६ र्हर्षभाषणम्” ।

नाटकीय त्रि० नाटके भवः तत्र वर्ण्यः “वृद्धाच्छः” पा० छ ।

नाटके वर्ण्ये पदार्थे “पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः”
माघः ।

नाटाम्र(म्ल) पु० नटानां प्रियः अण् नाटः अम्रो (म्लो)

रसोऽस्य । (तरमज) ख्याते लतापनसे त्रिका० ।

नाटार पुंस्त्री नट्या अपत्यम् वा आरक् । नट्या अपत्ये

नाटिका स्त्री दृश्यकाव्यभेदे तल्लक्षण यथा “नाटिका

कॢप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका । प्रख्यातो
धीरललितस्तत्र स्यान्नायकोनृपः । स्यादन्तःपुरसम्बन्धा सङ्गी-
तव्यापृताऽथ वा । नवानुरागा कन्यात्र नायिका
नृपवंशजा । सम्प्रवर्त्तेत नेताऽस्यां देव्यास्त्रासेन शङ्कितः ।
देवी पुनर्भवेज्जेष्ठा प्रगल्भा नृपवंशजा । पदे पदे
मानवती तद्वशः सङ्गमो द्वयोः । वृत्तिः स्यात् कैशिकी
स्वल्पविमर्षाः सन्धयः पुनः” । द्वयोर्नायकनायिकयोः ।
यथा रत्नावली विद्धशालभञ्जिकादि” सा० द० । सङ्गीत-
दामोदरेऽत्र कश्चिद्विशेष उक्तस्तत्रैव दृश्यः ।

नाटित त्रि० चु० नट--क्त । १ कृताभिनये भावे क्त २ अमिनये

स्वार्थे क । नाटितक नटकृत्ये ।

नाटेय पुं स्त्री नट्या अपत्यम् क्षुद्रत्वेऽपि ष्ट्रकोऽभावपक्षे

स्त्रीभ्योढक्” पा० ठक् । नट्या अपत्ये

नाटेर पुंस्त्री नट्या अपत्यं क्षुद्राभ्यो बा ढ्रक् । नट्या अपत्ये

नाट्य न० नटस्य इदं कृत्यस् “छन्दोगौकिथकेत्यादिना” पा०

ष्यञ् । १ नटकृत्ये नृत्यगीतवाद्यात्मके २ लास्ये वाक्या-
र्थाभिनये च तत्फलादिकं सङ्गीतदा० उक्तं यथा
“देवर्षिक्षितिपालपूर्वचरितान्यालोक्य धर्मादयस्तत्
स्ताबाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः परा । सङ्गी-
तायुतचित्तवृत्तिहरणावश्या भवन्त्यङ्गना ज्ञानं शङ्करसेव-
येति कथितं नाट्यं चतुर्वर्गदम् । यो यस्य दयितो भावः
स तं नाट्ये निरीक्षते । अतः सर्वमनोहारि नाट्यं कस्य
न रञ्जकम्” । नाट्योत्पत्तिर्यथा “इहानुश्रूयते ब्रह्मा
शक्रेणाभ्यर्थितः पुरा । चकाराकृष्य वेदेभ्यो नाट्यवेदन्तु
पञ्चमम् । उपवेदोऽथ वेदाश्च चत्वारः कथिताः स्मृतौ ।
तत्रोपवेदो गान्धर्वः शिवेनोक्तः सयम्भुवे । तेनापि
भरतायोक्तस्तेन मर्त्ये प्रचारितः । शिवाब्जयोनिभरता-
स्तस्मादस्य प्रयोजकाः” । नाट्यारम्भमुहूर्त्तादिनिरूपणाय
पी० धा० वसिष्ठ आह “त्रिकोत्तरामित्रगुरुश्रविष्ठाहस्ते-
न्द्रवारीश्वरपौष्णभेषु । सङ्गीतनृत्यादिसमस्तकर्म कार्यं
विभौमार्कजवासरेषु” । श्रीपतिरपि “हस्तः पुष्यो वासवं
चानुराधा ज्येष्ठा पौष्णं वारुणं चोत्तराश्च । पूर्वाचार्यैः
कीर्त्तितश्चन्द्रवर्त्ती नृत्यारम्भे शोभनोऽयं भवर्गः” । काश्यपः
“लग्नसंस्थे बुधे चन्द्रे बुधराशौ तु वीक्षिते । शुभग्रहै-
श्चतुर्थस्थैर्नाट्यारम्भः प्रशस्यते” । अतएव रतमालायाम्
“बुधे विलग्ने शशिनि ज्ञराशौ शुभवीक्षिते । हिकु
कस्थैः शुभैर्नाट्यप्रारम्भः सद्भिरिष्यते” ।

नाट्यधर्मिका स्त्री नाट्यस्य धर्मोऽस्त्यत्र क्रियायाम् ठन् ।

“सङ्गीतं प्रेक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्यधर्मिका”
हेमचन्द्रोक्ते दर्शनार्थे शास्त्रोक्ते तौर्य्यत्रिकरूपे मटकृत्ये
पृष्ठ ४०२१

नाट्यप्रिय पु० नाट्यं प्रियमस्य । शिवे महादेवे हेमच० ।

नाट्यभाषा स्त्री नाट्ये प्रयोक्तव्या पात्रभेदेन भाषा ।

नाटके प्रयोक्तव्ये पात्रभेदेन भाषाभेदे साच सङ्गीतदा०
उक्ता नाटकशब्दे दर्शिता विशेषस्तु सा० द० उक्तो यथा
“पुरुषाणामनीचानां संस्कृतं स्यात् कृतात्मनाम् ।
शौरसेनी प्रयोक्तव्या तादृशीनाञ्च योषिताम् । आसामेव
तु गाथासु महाराष्ट्रीं प्रयोजयेत् । अत्रोक्ता मागधी
भाषा राजान्तःपुरचारिणाम् । चेटानां राजपुत्राणां
श्रेष्ठिनां चार्द्धमागधी । प्राच्या विदूषकादीर्ना धूर्त्तानां
स्यादवन्तिका । योधनागरिकादीनां दाक्षिणात्या हि
दीव्यताम् । शकाराणां शकादीनां शाकारीं सम्प्रयो-
जयेत् । वाह्लीकभाषा दिव्यानां द्राविड़ी द्रविड़ादिषु ।
आभीरेषु तथाऽभीरी चाण्डाली पुक्कसादिषु ।
आभीरी शावरी चापि काष्ठपत्रोपजीविषु । तथैवाङ्गार-
कारादौ पैशाची स्यात् पिशाचवाक् । चेटीनामप्य-
नीचानामपि स्यात् शौरसेनिका । बालानां षण्डका-
नाञ्च नीचग्रहविचारिणाम् । उन्मत्तानामातुराणां
सैव स्यात् संस्कृतं क्वचित् । ऐश्वर्य्येण प्रमत्तस्य दारि-
द्र्योपस्कृतस्य च । भिक्षुबन्धधरादीनां प्राकृतं सम्प्रयो-
जयेत् । संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ।
देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम् । यद्देशं
नीचपात्रन्तु तद्देशं तस्य भाषितम् । कार्य्यतश्चोत्तमा-
दीनां कार्य्यो भाषाविपर्य्ययः । योषित्सखीबाल-
वेश्याकितवाप्सरसां तथा । वैदग्ध्यार्थं प्रदातव्यं
संस्कृतं चान्तरान्वरा” । नाटकभाषाऽप्यत्र ।

नाट्यरासक न० दृश्यकाव्यरूपरूपकभेदे तल्लक्षणं सा० द०

उक्तं यथा “नाट्यरासकमेकाङ्कं वहुताललयस्थिति ।
उदात्तनायकं तद्वत् पीठमर्दोपनायकम् । हास्योऽङ्ग्यत्र
सशृङ्गारो नारी वासकसज्जिका । मुखनिर्वहणे सन्धी
लास्याङ्गानि दशापि च । केचित् प्रतिमुखं सन्धिमिह
नेच्छन्ति केवलम्” । “तत्र सन्धिद्वयवती यथा नर्मवती ।
सन्धिचतुष्टयवती यथा विलासवती” ।

नाट्यशाला स्त्री ६ त० । नाट्यस्य नाट्यार्थं शाला ।

(नाटमन्दिर) देवप्रासादसम्मुखस्थे गृहे “नाट्यशाला
च कर्त्तव्या द्वारदेशसमाश्रया” गरुडपु० ।

नाट्याङ्ग न० ६ त० । सा० द० उक्ते दशविधे नाट्यस्याङ्गे यथा

“गेयपदं स्थितपाद्यमासीनं पुष्पगण्डिका । प्रच्छेदक-
स्त्रिगूढ़ञ्च सैन्धवाख्यं द्विगूढ़कम । उत्तसोत्तमकञ्चान्य-
दुक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्गमुक्तं
मनीषिभिः । तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ।
शुष्कं गानं गेयपदं १ स्थितपाद्यं २ तदुच्यते । मदनोत्ता-
पिता यत्र पठति प्राकृतं स्थिता । निखिलातोद्यरहितं
शोकृचिन्तान्विताऽबला । सुप्रसारितगात्रं यदासीदा-
सीन ३ मेव तु । आतोद्यमिश्रितं गेयं छन्दांसि विविधानि
च । स्त्रीपुंसयोर्विपर्य्यासचेष्टितं पुष्पगण्डिका ४ । अन्या-
सङ्गं पतिं मत्वा प्रेमविच्छेदमन्युना । वीणापुरःसरं
गानं स्त्रियाः प्रच्छेदको ५ मतः । स्त्रीवेशधारिणां पुंसां
नाट्यं श्लक्ष्णं त्रिगूढकम् ६ । कश्चन भ्रष्टसङ्केतः सुव्य-
क्तकरणान्वितः । प्राकृतं वचनं वक्ति यत्र तत्सैन्धवं ७
विदुः । चतुरस्रपदं गीतं मुखप्रतिमुखान्वितम् । द्विगूढं ८
रसभावाढ्यमुत्तमोत्तमकं ९ पुनः । कोपप्रसादजमधिक्षेप-
युक्तं रसोत्तरम् । हावहेलान्वितं चित्रश्लोकबन्धमनोह-
रम् । उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् । विला-
सान्वितगीतार्थमुक्तप्रत्युक्त १० सुच्यते” ।

नाट्यालङ्कार पु० सा० द० उक्ते षट्त्रिंशद्विधे नाट्य-

स्यालङ्कारभेदे यथा
“आशीराक्रन्दकपटाक्षमागर्वोद्यमाश्रयाः । उत्प्रासनं
स्पृहाक्षोभपश्चास्तापोपपत्तयः । आशसाध्यवसायौ च
विसर्पोल्लेखसज्ञितौ । उत्तेजनं परीवादो नीतिरर्थ-
विशेषणम् । प्रोत्साहनञ्च साहाय्यमभिमानोऽनुवर्त्त-
नम् । उत्कीर्त्तनं तथा याच्ञा परीहारो निवेदनम् ।
प्रवर्त्तनाख्यानयुक्तिप्रहषाश्चोपदेशनम् । इति नाट्या-
लङ्कृतयो नाट्यभूषणहेतवः” इत्युद्दिश्य । आशी १
रिष्टजनाशंसाऽऽक्रन्दः २ प्रलपितं शुचा । कपटं ३ मायया
यत्र रूपमन्यद्विभाव्यते । अक्षमा ४ सा परिभवः स्वल्पो-
ऽपि नाभिसह्यते । गर्वो ५ ऽवलेपजं वाक्यं कार्य्यस्यारम्भ
उद्यमः ६ । ग्रहणं गुणवत्कार्य्यहेतोराश्रय ७ उच्यते ।
उत्प्रासन ८ न्तूपहासो योऽसाधौ साधुमानिनि ।
आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा ९ तु सा ।
अधिक्षेपवचःकारी क्षोभः १० प्रोक्तः स एव तु । मोहावधी-
रितार्थस्य पश्चात्तापः ११ स एव तु । उपपत्ति १२ र्मता
हेतोरुपन्यासोऽर्थसिद्धये । आशंसनं स्यादाशंसा १३ प्रति-
ज्ञाध्यवसायकः १४ । विसर्पो १५ यत्समारब्धं कर्मानिष्टफ
लप्रदम् । कार्यग्रहणमुल्लेखः १६ उत्तेजन १७ मितीष्यते ।
स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् । भर्त्सना तु
परीवादः १८ नीतिः १९ शास्त्रेण वर्त्तनम् । उक्तस्यार्थस्य
पृष्ठ ४०२२
यत्तु स्यादुत्कीर्त्तनमनेकधा । उपालम्भस्वरूपेण तत्
स्यादर्थविशेषणम् २० । प्रोत्साहनं २१ स्यादुत्साहगिरा
कस्यापि योजनम् । साहाय्यं २२ सङ्कटे यत्स्यात्
सानुकूल्यं परस्य च । अभिमानः २३ स एव स्यात्
प्रश्रयादनुवर्त्तनम् ७ । अनुवृत्तिः भूतकार्य्याख्यानमु-
त्कीर्त्तनं २८ मतम् । याच्ञा २९ तु क्वापि याच्ञा
या स्वयं दूतमुखेन वा । परीहार ३० इति प्रोक्तः कृता-
नुचितमार्जनम् । अवधीरितकर्त्तव्यकथनन्तु निवेदनम् ३१
प्रत्वर्त्तन ३२ न्तु कार्य्यस्य यत्स्यात् साधुप्रवर्त्तनम् ।
आख्यानं ३३ पूर्बवृत्तोक्तिर्युक्ति ३४ रर्थावधारणम् । प्रहर्षः ३५
प्रमदाधिक्यं शिक्षा स्यादुपदेशनम् ३६” लक्षितानि ।

नाट्योक्ति स्त्री नाट्ये उक्तिर्विशेषोक्तिः । लौकिकप्रसिद्धा-

र्थकशब्दान्तरेण नाट्ये पदार्थान्तराणामुक्तौ तथा च
केषाञ्चित् शब्दानामन्यार्थे पारिभाषिकत्वं नाट्ये ज्ञेयम्
सा च सा० द० निर्णीता यथा
“अश्राव्यं खलु यद्वस्तु तदिह स्वगतं १ मतम् ।
सर्वश्राव्यं प्रकाशं २ स्यात्तद्भवेदपवारितम् ३ । रहस्यन्तु
यदन्यस्य परावृत्य प्रकाश्यते । त्रिपताककरेणान्यानप-
वार्य्यान्तरा कथा । अन्थोन्यामन्त्रणं यत्स्याज्जनान्ते
तज्जनान्तिकम् ४ । किं ब्रवीषीति यन्नाट्ये विना पात्रं ।
प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाशभाषितम् ५ ।
दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत् । दत्त-
प्रायाणि बणिजां चेटचेट्योस्तथा पुनः । वसन्तादिषु
वर्ण्यस्य वस्तुनो नाम यद्भवेत् । नाम कार्य्यं नाटकस्य
गर्भतार्थप्रकाशकम् । नायिकानायकाख्यानां संज्ञा-
प्रकरणादिषु । नाटिकासट्टकादीनां नायिकाभिर्विशेष-
णम् । प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ।
राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः । राजर्षि-
भिर्वयस्येति तथा विदूषकेण च । राजन्नित्यृषिभिर्वाच्यः
सोऽपत्यप्रत्ययेन च । स्वेच्छया नामभिर्विप्रैर्विप्र आर्येति
चेतरेः । वयस्येत्यथ वा नाम्ना वाच्यो राज्ञा विदूषकः ।
वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम् । सूत्रधारो
भवेद्भाव इति वै पारिपार्श्विकः । सूत्रधारो मारिषेति
हण्डे इत्यधमैः समाः । वयस्येत्युचमैर्हंहो मध्यै-
रार्य्येति चाग्रजः । भगवन्निति वक्तव्याः सर्वैर्देवर्षि-
लिङ्गिनः । वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः ।
आयुष्मन् रथिनं सूतो वदेत् तातेति चेतरः । वत्स पुत्रक
तातेति नाम्ना गोत्रेण वा सुतः । शिष्योऽनुजश्च
वक्तव्योऽमात्य आर्य्येति चाधमैः । विप्रैरयममात्येति
सचिवेति च भण्यते । साधो इति तपस्वी च प्रशान्त-
श्चोच्यते बुधैः । अगृहीताभिधः पूज्यः शिष्याद्यैर्विनि-
नद्यते । उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः ।
स्वामीति युवराजस्तु कुमारो भर्तृदारकः । सौम्य भद्र-
मुखेत्येवमधभैस्तु कुमारकः । वाच्या प्रकृतिभीराज्ञः
कुमारी भर्तृदारिका । पतिर्यथा तथा वाच्या ज्येष्ठ-
मध्याधमैस्त्रियः । हलेति सदृशी प्रेष्या हञ्जे वेश्या-
ऽर्जका तथा । कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती-
जनैः । आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ।
शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः । यस्य यत्कर्म
शिल्पं वा विद्या वा जातिरेव वा । तेनैव नाभ्ना
वाच्योऽसौ ज्ञेयाश्चान्ये यथोचितम्” । “अमरे तु
वासुराचार्यस्तु मारिषः” वासुरधिकः पठितः ।

नाड पु० नाल + लस्य ड । नालशब्दार्थे अमरः ।

नाडपित् न० कण्छश्रमो “शकुन्तला नाडपित्यप्सरा भरतं

दधे” शत० ब्र० १२ । ५ । ४ । १३ “नाडपिति स्थाने कण्वा-
श्रमे” भा० ।

नाडि स्त्री नल--इन् । नाड्याम् “कुहूः स्युः सप्त नाडयः” सा० ति० नाडीशब्दे दृश्यम् ।

नाडिक न० नाड्यां हितं ठक् । कालशाके भावप्र० तत्र स्त्री

त्वमपि “कृमुम्भं नाडिकाशाकं वार्त्ताकुं पूतिकां तथा ।
भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः” ति० त० । अत्र
नालिकाशाकमिति पाठान्तरम् श्वेतकलमीति तदर्थ इति
कल्पतरुः ।

नाडिका स्त्री नाडी + स्वार्थे क । नाडीशब्दार्थे

नाडिकेल पु० नारिकेल + रस्य डः । नारिकेले भरतः ।

नाडिचीर न० नाडी चीरमिव । १ नल्यां २ निर्वेष्टने हारा० ।

नाडिन्धम त्रि० नाडीं नलीं समति ध्मा--खश् ह्रस्वश्च ।

१ स्वर्नकारे अमरः । उच्चनीचाधिरोहणात् मुहुर्मुहु-
र्निःश्वासैर्नाडीं धमनं धमति ध्मा--खश् । उच्चनीचाधिरो-
हणेन २ श्वासकारके त्रि० “कथं नाडिन्धमान् मार्गान्”
भट्टिः ।

नाडिन्धय त्रि० नाडीं धयति धे--खश मुम् ह्रस्वश्च । नाडीपानकर्त्तरि ।

नाडिपत्र न० नाडिप्रधानं पत्रमस्य । नाडीचे शाकभेदे

नाडी स्त्री चु० नल--गन्धे अच् लस्य डः । चु० नड--भ्रंशे

अच् वा गौरा० ङीष् । सिरायां काथस्थसिरास्वरूप-
भेदादिकं भावप्र० उक्तं यथा
“अथ सिरामाह सन्धिबन्धनकारिण्यो दोपष्ठातुः
पृष्ठ ४०२३
वहाः सिराः । नाभ्यां सर्वा निबद्धास्ताःप्रतन्वन्ति
समन्ततः । शरीरं सकलञ्चैतत् सिराभिः पोष्यते सदा ।
प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत्” । अत्र
प्रणालीभिः कुल्याभिरिति दृष्टान्तद्वयं स्थूलसूक्ष्म
सिराभेदात् । “प्रसारणाकुञ्चनादिक्रियाभिः सततं
तनौ । सिरा एवोपकुर्वन्ति ताः स्युः सप्त शतानि तु ।
यथा द्रुमदले साक्षात् दृश्यन्ते प्रतताः सिराः” । तथैव
“नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता ।
सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः” । तद्यथा
तासां खलु स्थूलसिराः चत्वारिंशत् तासां दश
वातवहाः दश पित्तवहाः दश श्लेष्मवहाः दश रक्तवहाः ।
तासां खलु वातवहानां वातस्थानगतानां सपञ्चसप्त-
तिशतानि १७५ भवन्ति । तावत्य १७५ एव पित्तवहाः
पित्तस्थानगताः । श्लेष्मवहाः तावत्यः १७५ श्लेष्म-
स्थानगता रक्तवहास्तावत्यः १७५ यकृत्प्लीहगता एवं
सिराः सप्तशतानि भवन्ति । तत्र वात्वहाः एकस्मिन्
सक्थ्नि पञ्च विंशतिः एतेनेतरसक्थि २५ वाहू च व्या-
ख्यातौ (५०) । विशेषतः कोष्ठे चतुस्त्रिंशत् तासां
श्रोण्यां मुदमेढ्रादिश्रिता अष्टौ । द्वे द्वे पार्श्वयोः ४ ।
षट् पृष्ठे तावत्य ६ एवोदरे दश वक्षसि एवं (३४) ।
एकचत्वारिंशद् जत्रुण ऊर्द्ध्वम् तासां चतुर्द्दश १४
ग्रीवायां ४ चतस्रः कर्णयोः ९ नव जिह्वायां ६ षट्
नासिकायां ८ अष्टौ नेत्रयोः (४१) । एवं वातवहानां
सपञ्चसप्ततिशतं १७५ भवन्ति । एवं विभागः पित्त-
वहानामपि विशेषतस्तु पित्तवहा नेत्रयोर्दश १०
कर्णयोर्द्वे २ एवं रक्तवहा श्लेष्मवहास्तु षोडश १६
ग्रीवायां कर्णयो र्द्वे एवं सिराणां सप्तशतानि व्या-
ख्यातानि । “क्रियाणामप्रतीघातममोहं बुद्धिकर्म-
णाम् । करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्च-
रन्” । क्रियाणां प्रसारणाकुञ्चनादीनाम् । अमोहं
बुद्धिकर्मणाम् बुद्धीन्द्रियाणां मनसो बुद्धेश्च स्वे स्वे
विषये ज्ञानं न करोतीत्यर्थः । अन्यान् गुणान् रसादि-
व्यापनद्वारा शरीरपोषणादीन् । “यदा तु कुपितो
वायुः स्वाः सिराः प्रतिपद्यते । तदास्य विविधा रोगा
जायन्ते वातसम्भवाः । भ्राजिष्णुतामन्नरुचिमग्निदीप्ति
मरोगताम् । करोत्यन्यान् गुणांश्चापि पित्तमात्मसिरा-
श्चरन्” अरोगतां पैत्तिकरोगानुत्पत्तिं करोति । अन्थान्
गुणान् मेधाबुद्धिदर्शनशक्त्यादीन् । “यदा तु कुपितं
पित्तं सेवते स्वबहाः सिराः । तदास्य विविधा
रोगा जायन्ते पित्तसम्भवाः । स्नेहभङ्गेषु सन्धीनां
स्थैर्य्यं बलमरोगताम् । करोत्यन्यान् गुणांश्चापि
वलासः स्वाः सिराश्चरन्” । अरोगतां श्लैष्मिकरोगा-
नुत्पत्तिम् अन्यान् गुणान् बलपुष्ट्यादीन् । “यदा
तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते । तदास्य
विविधा रोगा जायन्ते श्लेष्मसम्भवाः । धातूनां पूरणं
सम्यक् स्पर्शज्ञानमसंशयम् । स्वसिरासु चरढ्रक्तं
कुर्य्याच्चान्थान् गुणानपि” अन्यान् गुणान् बलपुष्ट्य-
दीन् । “यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः ।
तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः । तत्रा-
रुणा वातवहाः पूर्य्यन्ते वायुना सिराः । पित्त-
दुष्टश्च नीलाश्च शीता गौर्य्यः स्थिराः कफात् ।
असृग्ष्टरास्तु ता रक्ताः स्युश्चलात्युष्णशीतलाः” । याज्ञव०
नाडीसंख्या अन्यथैवोक्ता । कायशब्दे १९१० पृ० दृश्या ।
पदार्थादर्शे च “पूर्वोक्तायाः सुषुम्णाया मध्यस्थायाः
सुलोचने । नाभिहृत्कण्ठतालुभ्रू मध्यपर्व समुद्ववाः ।
अधोमुख्यः सिराः काश्चित् काश्चिदूर्द्ध्वमुखास्तथा । सिरा-
स्तिर्यग्गतास्याश्च तत्र शतत्रयाधिकाः । नाड्योऽर्द्धलक्ष-
सङ्ल्याताः प्रधानाः समुदीरिताः । तमु सर्वासु वलवान्
प्राणो नादः समन्ततः” । संस्थितः सर्वदेहान्तः” इति
तत्रापि दशनाडीनां प्राधान्येनोत्कीर्त्तनं सा० ति० यथा
“नाडीर्दश विदुस्तासु मुख्यास्तिस्रः प्रकीर्त्तिताः । ईडा
वामे तयोर्मध्ये सुपुम्णा पिङ्गलाऽपरे । मध्ये तास्वपि
नाडी स्यादग्निषोमस्वरूपिणी । गान्धारी हस्तिजिह्वा
च सप्तलालङ्कृता तथा । यशस्विनी शङ्खिनी च कुहूः
स्युः सप्त नाडयः । नाड्योनन्ताः समुत्पन्ना सुषुम्णापञ्चप-
र्वसु” । रोगविशेषज्ञानार्थं नाडीपरीक्षा मावप्र० उक्ता यथा
अथ नाड़ीपरीक्षामाह । पुंसो दक्षिणहस्तस्य स्त्रियो
वामकरस्य तु । अङ्गुष्ठमूलनां नाडीं परीक्षेत
भिषग्वरः । अङ्गलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत् ।
तच्चेष्टया सुखं दुःखं जानीयात्कुशलोऽखिलम् । सद्यः-
स्नातस्य सुप्तस्य क्षुत्तृष्णातपशीलिनः । व्यायामश्रान्त-
देहस्य सम्यक् नाडी म बुध्यते । वातेऽधिके भवेन्नाडी
प्रव्यक्ता तर्जनीतले । पित्ते व्यक्ता मध्यमायां तृतीया-
ङ्गुलिगा कफे । तर्जनीमध्यमामध्ये वातपित्ताधिके
स्फुटा । अनामिकायां तर्जन्यां व्यक्ता वातकफे भवेत् ।
मध्यमानामिकामध्ये स्फुटा पित्तकफेऽधिके । अङ्गुलि
पृष्ठ ४०२४
त्रितयेऽपि स्यात्प्रव्यक्ता सन्निपाततः । वाताद्वक्रगति-
न्धत्ते पित्तादुत्प्लुत्य गामिनी । कफान्मन्दगतिर्ज्ञेया
सन्निपातादतिद्रुता । वक्रमुत्प्लुत्य चलति धमनी
वातपित्ततः । वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिकत्वतः ।
उत्प्लुत्य मन्दञ्चलति नाडी पित्तकफेऽधिके । कामात्
क्रोधाद्वेगवहा क्षीणा चिन्ताभयप्लुता स्थित्वा
स्थित्वा च लेह्या सा हन्ति स्थानच्युता तथा ।
अतिक्षीणा च शीता च प्राणान् हन्ति न संशयः । ज्वर-
कोपेन धमनी सोष्णा वेगवती भवेत् । मन्दाग्नेः क्षीण
धातोश्च सैव मन्दतरा मता । चपला क्षुधितस्य स्यात्
तृप्तस्य भवति स्थिरा । सुखिनोऽपि स्थिरा ज्ञेया तथा
बलवती सता” । अत्र विशेषो नाड़ीप्रकाशे
“सार्द्धत्रिकोट्यो नाड्यो हि स्थूलाः सूक्ष्माश्च देहि-
नाम् । नाभिकन्दनिबद्धास्तास्तिर्य्यगूर्द्ध्वमधः स्थिताः ।
द्विसप्ततिः सहस्रन्तु तासां स्थूलाः प्रकीर्त्तिताः । देहे
धमन्यो धन्यास्ताः पञ्चेन्द्रियगुणावहाः । तासाञ्च
सूक्ष्मशुषिराणि शतानि सप्त स्य स्तानि यैरसकृदन्नरसं
वहद्भिः । आप्याय्यते वपुरिदं हि नृणाममीषामम्भः
स्ववद्भिरिव मिन्धुशतैः समुद्रः । आपादतः प्रततगात्र-
मशेषमेषामा मस्तकादपि च नाभिपुरःस्थितेन । एतन्
मृगङ्ग इव चर्म च येन नद्धं कायं नृणामिह सिरा-
शतसप्तकेन । सप्तशतानां मध्ये चतुरधिका विंशतिः
स्फुटास्तासाम् । एका परीक्षणीया दक्षिणकरचरण-
विन्यस्ता । “तिर्य्यक्कूर्मो देहिनां नाभिदेशे वामे वक्रं
तस्य पुच्छञ्च याम्ये । ऊर्ध्वे भागे हस्तपादौ च वामौ
तस्याधस्तात् संस्थितौ दक्षिणौ तौ । वक्त्रे नाडीद्वयं
तस्य पुच्छे नाडीद्वयं तथा । पञ्च पञ्च करे पादे
वामदक्षिणभागयोः । वामे भागे स्त्रिया योज्या नाडी
पुंसस्तु दक्षिणे । इति प्रोक्तो मया देवि! सर्वदेहेषु
देहिनाम्” । नपुंसकस्य तु स्त्रीपुंसयोरन्यतराकारप्रक-
टतामपेक्ष्य परीक्षा । साम्यन्तु न स्यादेव । कृत्रि-
मस्य तु प्रकृतिस्थता । “अङ्गुष्ठस्य तु या मूले धमनी
जीवमाक्षिणी । तस्या गतिवशाद्विद्यात् सुखं दुःखंञ्च
देहिनाम् । वातं पित्तं कफं द्वन्द्वं सन्निपातन्तथैव च ।
साध्यासाध्यविवेकञ्च सर्वं नाडी प्रकाशयेत् । प्रातः-
कृतसमाचारः कृताचारपरिग्रहम् । सुखासीनः
सुखासीनं परीक्षाथमुपाचरेत् । सद्यः स्नातस्य भुक्तस्य
क्षुत्तृष्णातपसेविनः । व्यायामाक्रान्तदेहस्य सम्यङ्-
नाडी न बुध्यते । तेलाभ्यङ्गे च सुप्ते च तथा च
मोजनान्तरे । तथा न ज्ञायते नाडी यथा दुर्गतरा
नदी । आदौ च वहते वातो मध्ये पित्तं तथैव च ।
अन्ते च वहते श्लेष्मा नाडिकात्रयलक्षणम् । भूलता
गमनप्राया स्वच्छा स्वास्थ्यमयी सिरा । प्रातःसिग्धमयी
नाडी मध्याह्ने चीष्णतान्विता । सायाह्ने धावमाना च
चिराद्रोगविवर्जिता । वाताद्वक्रगता नाडी चपला
पित्तवाहिनी । स्थिरा श्लेष्मवती ज्ञेया मिश्रिते मिश्रिता
भवेत् । सर्पजलौकादिगतिं वदन्ति विबुधाः प्रभञ्जनेन
नाडीम् । पित्ते च काकलावकभेकादिगतिं विदुः
सुधियः । राजहसमयराणां पारावतकपोतयोः ।
कुक्कुटादिगतिं धत्ते धभनी कफसंवृता । मुहुः सर्प-
गतिं नाडीं मुहुः मेकगतिं तथा । वातपित्तद्वयोद्भूतां
प्रवदन्ति विचक्षणाः । भुजगादिगतिञ्चैव राजहंस
गतिं सिराम् । वातश्लेष्मसमुद्भूतां भाषन्ते तद्विदो
जनाः । मण्डूकादिगतिं नाडीं मयूरादिगति तथा ।
पित्तश्लेष्मसमुद्भूतां प्रवदन्ति महाधियः” ।
“लावतित्तिरिवार्त्तीकगमनं सन्निपाततः । कदाचिन्मन्द-
गा नाडी कदाचिच्छीग्रगा भवेत् । त्रिदोषप्रमवे रोगे
विज्ञेया हि भिषग्वरैः । यदा यं धातुमाप्नोति तदा
नाडी तथा गतिः । तथाहि सुखसाध्यत्वं नाडी-
जानेन बुध्यते” । “नाडी यथा कालगतिस्त्रयाणां
प्रकोपशान्त्यादिभिरेव भूयः” । “मन्दं मन्दं शिथिल-
शिथिलं व्याकुलाव्याकुलं वा स्थित्वा स्थित्वा वहति
धमनी याति नाशञ्च सूक्ष्मा । नित्यं स्थानात् स्खलति
प्रनरप्यङ्गुलिं संस्पृशेद्वा भावैरेवं बहुविधविधैः सन्नि-
पातादसाध्या । सह्रातापेऽपि शीतत्वं शीतत्वे तापिता
सिरा । नानाविधगतिर्यस्य तस्य मृत्युर्न संशयः । त्रि-
दोषे स्पन्दते नाडी मृत्युकालेऽपि निश्चला । पूर्वं
पित्तततिं प्रभञ्जनगतिं श्लेष्माणमाबिभ्रतीम् सन्तान-
भ्रमणं सुहुर्विदधतीं चक्राधिरूढ़ामिव । तीव्रत्व
दधतीं कलापिगतिकां सूक्ष्मत्वमातन्वतीं न साध्यां धमनीं
वदन्ति सुधियो नाडीगतिज्ञानिनः । यात्युच्चा च
स्थिरात्यन्ता या चेथं मांसवाहिनी । या चं सूक्ष्मा च
वक्रा च तामसाध्यां विदुर्बुधाः । भारप्रवाहमूर्च्छाभयशोव
प्रमुस्वकारणान्नाडी । संमूर्च्छितापि गाढ़ं पुनरपि
सा जीवितं धत्ते । पातितः सन्धितो भेदी नष्टशुक्रश्च
यो नरः । शाम्यते विस्मयस्तस्य न किञ्चिन्मृत्युका-
पृष्ठ ४०२५
रणम्” । अन्यत्रापि । “तथा भूताभिषङ्गेऽपि त्रिदोष-
वदुपस्थिता । समं वा वहते नाडी तथा च न क्रमं
गता । अपमृत्युर्न रोगाङ्गा नाडी तत्सन्निपातवत् ।
स्वस्थानहीने शोके च हिमाक्रान्ते च निर्गदाः ।
भवन्ति निश्चला नाड्यो न किञ्चित् तत्र दूषणमिति” ।
अन्ये त्वाहुः “तोकवातकफैर्दुष्टं पित्तं वहति दारुणम् ।
षित्तस्थानं विजानीयात् भेषजं तस्य कारयेदिति” । अत्र
कश्चित् “स्वस्थानच्यवनं यावद्धमन्या नोपजायते ।
तावच्चिकित्सासत्त्वेऽपि नासाध्यत्वमिति स्थितिरिति” ।
प्रसङ्गात् कालनिर्णयमाह “भूलताभुजगाकारा नाडी
देहस्य संक्रमात् । विशीर्णा क्षीणतां याति मासान्ते
मरण भवेत् । क्षणाद्गच्छति वेगेन शान्ततां लभते
क्षणात् । सप्ताहान्मरणं तस्य यद्यङ्गं शोथवर्जितम् ।
हिमवद्विशदा नाडी ज्वरदाहेन तापिनाम् । त्रिदोष-
स्पर्शभजतां तदा मृत्युर्दिनत्रयात् । निरीक्ष्या दक्षिणे
मादे तदा चैषा विशेषतः । मुखे नाडी वहेन्नित्यं ततस्तु
दिनतुर्य्यकम् । गतिन्तु भ्रमरस्येव वहेदेकदिनेन तु ।
कम्पेन स्पन्दते नित्यं पुनर्लगति चाङ्गुलौ । मध्ये
द्वादशयामानां मृत्युर्भवति निश्चितम्” । दक्षिण इति
पुंसः । स्त्रियास्तु वाम एव तथेति । “स्थित्वा नाडी
मुखे यस्य विद्युद् द्योतिरिवेक्ष्यते । दिनैकं जीवितं तस्य
द्वितीये म्रियते ध्रुवम् । स्वस्थानविच्युता नाडी यदा
वहति वा न वा । ज्वाला च हृदये तीव्रा तदा ज्वाला-
वधि स्थितिः । अङ्गग्रहणे नाडीनां सान्निपातिक-
रूपेण भवन्ति सर्ववेदनाः” ज्वररूपमाह । “ज्वर-
कोपे च धमनी सोष्णा वेगवती भवेत् । उष्मा पित्ता-
दृते नास्ति ज्वरो नास्त्युष्मणा विना । उष्णा वेगधरा
नाडी ज्वरकोपे प्रजायते” । अन्यत्र च “ज्वरे च
वक्रा धावन्ती तथाच भरुतः प्लवे । रमणान्ते निशि-
प्रातः तप्ता दीपशिखा यथा” । तत्रापि विशेषमाह
“सौम्या सूक्ष्मा स्थिरा मन्दा नाडी सहजवातजा ।
स्थूला च कठिना शीघ्रा स्पन्दते तीव्रमारुते । द्रुता च
सवला शोघ्रा दीर्घा पित्तज्वरे भवेत् । शीघ्रमाहननं
नाड्याः काठिन्याच्च चला तथा । मलाजीर्णेनाति-
तरां सस्पन्दञ्च प्रकीर्त्तितम् नाड़ी तन्तुसमा मन्दा
शीतला श्लेष्मदोषजा” । द्वन्तजामाहृ “चञ्चला तरला
स्यूलकठिना वातपित्तजा । ईषच्च दृश्यते तूष्णा मन्दा
स्यात् शेष्मवातजा निरन्तरं खरं रूक्ष मन्दश्लेष्माति
वातलम् । दक्षवातभवे तस्य नाडी स्यात् पित्तसन्निभा ।
सूक्ष्मा शीता स्थिरा नाडी पित्तश्लं ष्मसमुद्भवा” ।
“मध्ये करे वहेन्नाडी यदि सन्तर्पिता ध्रुवम् । तदा
न्यूनं मनुष्यस्य रुधिरा पूरिता मलाः” ।
आगन्तुकरूपभेदमाह “भूतज्वरे सेक इवातिवेगा
धावन्ति नाड्यो हि यथाम्बुवेगाः” । तथा “ऐकाहिके
न क्वचन प्रदूरे क्षणान्तगा सा विषमज्वरेण । द्विती-
यके वापि तृतीयतुर्य्ये गच्छन्ति तप्ता भ्रमिवत्
क्रमेण” । अन्यत्रापि “उष्णा वेगधरा नाडी ज्वरकोपे
प्रजायते । उद्वेगक्रोधकामेषु भयचिन्ताश्रमेषु च ।
मवेत् क्षीणगतिर्नाडी ज्ञातव्या वैद्यसत्तमैः” ।
“व्यायामे भ्रमणे चैव चिन्तायां श्रमशोकतः । नामा-
प्रभावगमना सिरा गच्छति विज्वरे” । अजीर्णरूप-
माह “अजीर्णे तु भवेन्नाडी कठिना परितोजडा!
प्रसन्ना च द्रुता शुद्धा त्वरिता च प्रवर्त्तते” । तत्र
विशेषमाह “पक्वाजीर्णे पुष्टिहीना मन्दं मन्दं
वहेज्जडा । असृक्पूर्णा भवेत् कोष्णा गुर्वी सामा गरीयसी ।
नाड्या भक्षितद्रव्यज्ञानम् यथा “पुष्टिस्तैलगुडाहारे मांसे
च लगुडाकृतिः । क्षीरे च स्तिमितावेगा मधुरे
भेकवद्गतिः । रम्भागुडवटाहारे रूक्षशुष्कादिभोजने ।
वातपित्तार्त्तिरूपेण नाडी वहति निष्क्रमम्” । नाड्या
पीतरसज्ञानम् “मधुरे बर्हिगमना तिक्ते स्याद्भूलता
गतिः । अम्ले कोष्णा प्लवगतिः कटुके भृङ्गसन्निभा ।
कषाये कठिना म्लाना लवणे सरला द्रुता । एवं द्वित्रि-
चतुर्योगे नानाधर्मवती सिरा” । तथा “द्रवेऽतिकठिना
नाडी कोमला कठिनाशने । द्रवद्रव्यस्य काठिम्ये
कोमला कठिनापि च । क्षौद्रे पृथग्ग्रन्थिलेव पिष्टे
पुष्टैव जायते” । अग्निमान्द्यधातुक्षयलिङ्गम् “मन्दाग्नेः
क्षीणधातोश्च नाडी मन्दतरा भवेत्” तदुक्तम् “क्षीण-
धातौ च मन्दाग्नौ नाडी क्षीणतमा ध्रुवम्” । तथा
“मन्देऽग्नौ क्षीणतां याति नाडी हंसाकृतिस्तथेति”
अन्ये तु “आमाचये पुष्टिविवर्द्धनेन भवन्ति नाड्योऽग्र-
भुजाभिवृत्ताः । आहारमान्द्यादुपवासती वा तथैव
नाड्यो भुजगाग्रमाना । प्रसङ्गाद्दीप्ताग्निज्ञानमाह
“लघ्वी भवति दीप्ताग्नेः करे मण्डूकसंप्लवा । तस्या-
ग्नेर्मन्दता देहे त्वथ वा ग्रहणीगदे” । तथा “भेदेन
शान्ता ग्रहणीगदेन निर्वीर्य्यरूपा त्वतिसारभेदे ।
विलम्बिकायां प्लवगा कदाचिदामातिसारे पुथुलाजड़ा च” ।
पृष्ठ ४०२६
अथ विसूचिका ज्ञानम् । “निरोधो मूत्रशकृतोर्विड्-
ग्रहे त्वितराश्रिताः । विसूचिकाभिभूते च भवन्ति
भेकवत्क्रमाः” । प्रसङ्गादानाहमूत्रकृच्छ्रज्ञानमाह
“आनाहे मूत्रकृच्छ्रे च भवेन्नाडीगरिष्ठता” । शूलज्ञान-
माह “वातेन शूलेन मरुत्प्लवेन सदैव वक्रा हि सिरा
वहन्ति । ज्वालामयी पित्तविचेष्टितेन साध्या न शूले
न च पुष्टरूपा” । अथ प्रमेहज्ञानम् । “प्रमेहे ग्रन्थि-
रूपा सा सुतप्ता त्वामदूषणे” । विषविष्टम्भगुल्म-
ज्ञानमाह “उत्पित्सुरूपा विषरीष्टिकायां विष्टम्भ
गुल्मेन च वक्ररूपा । अत्यर्थवातेन अधःस्फुरन्ती
उत्तानभेदिन्यसमाप्तिकाले” । गुल्मे विशेषमाह कश्चित्
“गुल्मेन कम्पोऽथ पराक्रमेण पारावतस्येव गतिं करोति”
अथ भगन्दरज्ञानम् “व्रणार्थं कठिने देहे प्रयाति
पैत्तिकं क्रमम् । भगन्दरानुरूपेण नाडीव्रणनिवेदने ।
प्रयाति वातिकं रूपं नाडी पावकरूपिणी” । अथ
वान्तादिज्ञानम् “वान्तस्य शल्यामिहतस्य जन्तोर्वेगाव-
रोधाद्गिलितस्य भूयः । गतिं विधत्ते घमनी गजेन्द्र-
मरालमानेव कफोल्वणेन । रोगादिकमपि रक्तादि-
ज्ञानक्रमेण ज्ञातव्यम् । “क्वचित् प्रकरणोल्लेखात् क्वचि-
दौचित्यमात्रतः । क्वचित् देशात् क्वचित् कालात् सङ्कीर्ण
गदनिर्णयः” । नाडीपरिचयज्ञानं प्रायशो नैव दृश्यते ।
तेन धार्ष्ट्यात् मयोक्तं यत्तत् समाधेयमुत्तमैः” ।
“मातुस्तु खलु रसरहायां नाड्यां गर्भनामिनाड़ी
प्रतिवद्धा” सुश्रु० “प्राग् नाड़ीच्छेदनात् पुंसो जातकर्म
विधीयते” इति स्मृतिः “शतं चैका च हृदयस्य नाड्यः”
श्रुतिः “प्रवृत्ता हृदयात् सर्वाः तिर्य्यगूर्द्धमधस्तथा ।
वहन्त्यन्नरसान् नाड्यो दशप्राणप्रचोदिताः” भा० व०
२१२ अ० । २ व्रणान्तरे ३ गण्डदूर्वायाम् कुहकचर्य्यायाञ्च
घटीरूपे दण्डात्मके ४ समयभेदे च मेदि० । “दशगुर्वक्षरः
प्राणः षड्भिः प्राणैर्विनाड़िका । तत्षष्ट्या तु
भवेन्नाड़ी” सू० सि० । तत्कालज्ञाने यन्त्रादिकं घटीशब्दे
दर्शितम् । “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् ।
नाड़ीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त० ।
नक्षत्रविशेषज्ञापके ५ नाड्याकारे रेखाभेदे उपयमशब्दे
नाड़ीकूटनिरूपणे १२५४ पृ० दृश्यम् । “एकराश्या-
दियोगे च नाड़ीदोषो न विद्यते” ज्यो० त० “अश्वि-
न्यादिलिखेच्चक्रं सर्पाकारं त्रिनाड़िकम्” ज्यो० त० ।
चक्रशब्दे पण्णाड़ीनिर्णये २८१६ पृ० दृश्यम् “आर्द्रा-
दिकं लिखेच्चक्र मृगान्तञ्च त्रिनाड़िकम्” “एकना-
ड़ीस्थधिष्ण्यानि यत्र स्युर्वरकन्ययोः” तत्रैव । स्वरोदये
षड़्नाड़ीचक्रनवनाड़ीचक्रयोस्तु चक्रशब्दे दर्शितयो-
रपि रेखाविशेषस्यैव नाड़ीशब्दार्थत्वम् । सिराबोध-
कस्य नाड़ीशब्दस्य स्वाङ्गवाचकत्वात् “नीडीतन्त्र्योः
स्वाङ्गे” पा० बहु० न कप् । बहुनाड़िः कायः ।
अस्वाङ्गत्वे तु कप् । षष्टिनाड़ीको दिवसः । ६ प्रणा-
ल्याञ्च सौरीभिरिव नाड़ीभिरमृताख्याभिरम्मयः” रघुः
नाले शाकादीनां (डाटा) ख्याते ७ अवयवभेदे च ।

नाडीक पु० नाड्या कायति प्रकाशते कै--क । (पाटशाक)

काण्डप्रधाने शाकभेदे पट्टशाके “नाड़ीको रक्तपित्तघ्नो
विष्टम्भी वातकोपनः” भावप्र० ।

नाडीकलापक पु० नाड़ीनां नालानां कलापः संघोऽत्र

कप् । सर्पाक्षीलतायां भावप्रका० ।

नाडीकूट न० नाड्या रेखाभेदेन कूटं नक्षत्रकूटं ज्ञाप्यं यत्र ।

उपयमशब्ददर्शिते १२५४ पृ० विवाहाद्यङ्गे नाड़ीचक्रसू
चितनक्षत्रसमूहे ।

नाडीकेल पु० नारिकेल + पृषो० । नारिकेले शब्दर० ।

नाडीच पु० नाड्या चीयते चि--बा० कर्मणि ड ३ त०

(नालिता) शाकभेदे चुचुके “नाड़ीचशाकं द्विविध
तिक्तं भधुरमेव च । रक्तपित्तहरं तिक्तं कृमिकुष्ठवि-
नाशनम् । मधुरं पिच्छिलं शीतं विष्टम्भि कफवातकृत्”
राजवल्लभः ।

नाडीचक्र न० वाडीनां चक्रमिव बन्धनस्थानम् । नाभिम-

ण्डलस्वे १ चक्रभेदे “नाभिमण्डलमासाद्य कुक्कुटाण्ड-
मिव स्थितप् । नाडीधफमिह प्राहुस्तस्मान्नाड्यः
समुद्गताः” रेखाविशेषेण नक्षत्रभेदज्ञापके २ चक्रभेदे उपयम-
शब्दे १२५४ पृ० दृश्यम् ।

नाडीचरण पुंस्त्री नाड़ी नालमिव चरणौ यस्य । स्वग-

मात्रे त्रिका० स्त्रियां जातित्वात् ङीष् ।

नाडीजङ्घ पुंस्त्री नाडीव नालमिव जङ्गास्य । १ काके त्रिका०

२ बकभेदे । स च द्विविधस्तत्र इन्द्रद्युम्रसरसि स्थितश्चिर-
जीवी एक । यथोक्तं भा० व० १९८ अ० “अस्ति स्वस्वि-
न्द्रद्युम्नं नाम सरस्तस्विन्नाडीजङ्घोनाम वकः प्रतिवसति
सोऽस्मत्तश्चिरजाततरस्तं पृच्छेति” अन्यः कश्यपात्मजः
राजधर्भाख्यः । तत्कथा “ततोऽस्तं भास्करे याते सन्ध्या-
काल उपस्थिते । आजगाम स्वभवनं ब्रह्मलोकात्
खगोत्तमः । नाड़ीजङ्घ इति ख्यातो दयितो ब्रह्मणः
पृष्ठ ४०२७
सखा । वकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः ।
राजधर्मेति विख्यातो बमूवाप्रतिमो मुवि । देवकन्यासुतः
श्रीमान् विद्वान् देवसमप्रभः । मृष्टाभरणसम्पन्नो
भूषणैरर्कसन्निभैः । भूषितः सर्वगात्रेषु देवगर्भः श्रिया
ज्वलन्” भा० शा० १६९ अ० । ३ मुनिभेदे “नाडीजङ्घः
सुरगुरुमुनिर्वक्ति वृष्टेरकालौ मासवेतौ न शुभफलदौ
पौषमासौ न शेषान्” मलमा० त० ।

नाडीतरङ्ग पु० नाडी नाला तरङ्ग इव यत्र । १ काकोले

२ हिण्डके ३ रक्तहिण्डके च मेदि० ।

नाडीतिक्त पु० नाड्या तिक्तः । नेपालनिम्बे राजनि० ।

नाडीदेह पु० नाडीसारो देहोऽस्य । अतिकृशे भृङ्गिणि

शिवस्य द्वारपालभेदे ।

नाडीनक्षत्र नाड्यां षड़्नाड़ीचक्रनवनाड़ीचक्रयोः स्थितं

नक्षत्रम् । नाडीज्ञापकरेखास्थनक्षत्रभेदे । २८१६ पृ०
चक्रशब्दे षड़्नड्यादिचक्रनिरूपणे दृश्यम् ।

नाडीयन्त्र न० नाड़ीव नालीव यन्त्रम् । सुश्रुतोक्ते शल्यो-

द्धारणार्थे विंशतिविधे यन्त्रभेदे “तत्र मनःशरीरबाधा-
कराणि शल्यानि तेषामाहरणोपाया यन्त्राणि । तानि
षट्प्रकाराणि तद्यथा स्वस्तिकयन्त्राणि, सन्दंशयन्त्राणि
तालयन्त्राणि, नाड़ीयन्त्राणि, शलकायन्त्राणि, उप
यन्त्राणि चेति” इत्युपक्रमे “विंशतिर्नाड्यः” ।
“नाड़ीयन्त्राण्यनेकप्रकाराण्यनेकप्रयोजनान्येकतोमुखान्युम-
यतोमुखानि च तानि स्रोतोगतशल्योद्धरणार्थं
रोगदर्शनार्थमाचूषणार्थं क्रियासौकार्य्यार्थञ्चेति तानि स्रोतो
द्वारपरिणाहानि यथायोगपरिणाहदीर्घाणि च” सुश्रु०

नाडीवलय न० नाड्या घटिकायाः ज्ञानार्थं बलयं वलया

कारं यन्त्रम् । सि० शि० उक्ते लग्नादिज्ञानार्थे नाडीरूप-
कालज्ञानोपाये यन्त्रभेदे
“अपवृत्ते कुजलग्ने लग्नं चाथो खगोलनलिकान्तः ।
भूस्थं ध्रुवयष्टिस्थं चक्रं षष्ट्या निजोदयैश्चाङ्क्यम् ।
व्यस्तैर्यष्टीभायामुदयेऽर्कं न्यस्य नाडिका ज्ञेयाः । इष्ट-
च्छायासूर्यान्तरेऽथ लग्नं प्रभायां च । केनचिदाधारेण
ध्रुवाभिमुखकीलकेऽत्र धृते । अथ वा कीलच्छायातत्व-
मध्ये स्युर्नता नाड्यः” मू० । “अत्र सारदारुमयमिष्टाप्र-
माणं चक्राकारं समं नेम्यां षष्टिघटिकाङ्कं यन्त्रं
खगोलमध्यस्थायां ध्रुवयष्टौ पृथ्वीमध्यस्थाने प्रोतं कार्यम् ।
तथा स्वोदयप्रमाणैर्मेषादिराशिभिरसमैरुभयपार्श्वयोः षड्व-
र्गेण च बुद्धिमताङ्कनीयम् । तैश्चोदयैर्विलोमैरङ्क्यम् ।
मेषात् पश्चिमतो वृषो वृषात् पश्चिमतो मिथुनम् इत्थादि ।
स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे मया पठितः । “वृतौ
चक्रभागैस्तदन्वर्घटीभिः स्वदेशोदयैश्चाङ्कयेदस्य पार्श्वम् ।
प्रतिस्वोदयं स्वाग्निमिः ३० क्षेत्रभागैस्त्रिभागाभिधैर्द्वादशां-
शै० । ३० र्नवांशैः ३ । २० । त्रिभागै १० र्द्वि भागै १५ स्तथा सस्वनाथैः
प्रयत्नेन षडवर्गमेवं विभज्य” । एवं यन्त्रं कृत्वा यस्मिन्
दिने तेन कालज्ञानं तस्मिन् दिने यावानौदयिको रविस्त-
द्भुक्तान् राशीन् मेषादेर्दत्त्वा भुज्यमानराशेर्भागान् क्षेत्र-
भागेषु दत्त्वाग्रे रविचिह्नं कार्यम् । तस्मिन् दिन
उदयकाले यष्टिच्छाया या पश्चिमतो गता तस्यां छायायां
रविचिह्नं यथा भवति तथा यन्त्रं स्थिरं कार्यम् । ततोऽ-
नन्तरं रविर्यथा यथोपरि याति तथा तथा छायाऽधो
गच्छति । छायार्कचिह्नयोर्मध्ये या घटिकास्ता
दिनगता ज्ञेयाः । तथा यष्टिच्छायायां यो राशिर्ये च क्षे-
त्रांशास्तल्लग्नं ज्ञेयम् । स च षड्वर्गः । अथ वा किं
खगोलान्तःस्थेन यष्टिप्रोतेन, चक्रान्तरिष्टप्रमाणं
कीलकं प्रोतं कृत्वा स कीलको घ्रुवाभिमुखो यथा भवति
तथा केनचिदाधारेण चक्रं स्थिरं कार्यम् । तथा
कृते इष्टकाले कीलच्छाया यत्र लगति तस्य यन्त्राधश्चि-
ह्नस्य च मध्ये नतनाड़िका ज्ञेयाः” प्रमिता० ।

नाडीविग्रह पु० नाड़ीमात्रसारः विग्रहो देहोऽस्य ।

शिवानुचरभेदे अतिकृशे भृङ्गिणि हेमच० ।

नाडीव्रण पु० न० नाड़ीव व्रणम् । माधवकरोक्ते ब्रणभेदे

(नालीघा) “यः शोथमाममिति पक्वमुपेक्षतेऽज्ञो यो
वा व्रणं प्रचूरपूयमसाधुवृत्तः । अभ्यन्तरं प्रविशति
प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः सपूयः ।
तस्यातिमात्रगमनाद्गतिरिष्यते तु नाडीव यद्वहति तेन
मता तु नाडी” । वातादिदोषभेदेन तस्य रूपाणि यथा
“दोषैस्त्रिभिर्भबति सा पृथगेकशश्च संमूर्च्छितैरपि च
शल्यनिमित्ततोऽन्या । तत्रानिलात् परुषसूक्ष्ममुखी
सशूला फेनानुविद्धमधिकं स्रवति क्षपासु । पित्तात्तृषाज्वर-
करी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसुतापि ।
ज्ञेया कफाद्बहुघनार्जनपिच्छिलास्रा स्तब्धा सकण्डूर
रुणा रजनीप्रवृद्धा । दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा
यस्यां भवन्त्यमिहितानि च लक्षणानि । तामादिशेत्
पवनपित्तकफप्रकोपाद् घोरामसुक्षयकरीमिव
कालरात्रिम् । दोषद्वयाभिहतलक्षणदर्शनेन तिस्रो गतीर्व्य-
तिकरप्रभवास्तु विद्यात्” । शल्यनिमित्तलक्षणं यथा
पृष्ठ ४०२८
“नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण
गतिं करोति । सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं
करोति सहसा सरुजञ्च नित्यम्” । असाध्यकृच्छ्रसा-
ध्ययोर्लक्षणं यथा “नाडी त्रिदोषप्रभबा न सिध्येत्
शेषाश्चतस्रः खलु यत्नसाध्याः” ।

नाडीशाक पु० नाडीप्रधानः शाकः । नाडीके (पाटशाक)

नाडीशोषणतैल न० चक्रदत्तोक्ते तैलभेदे “पुटपाकवि-

धिस्विन्नहस्तिविड्जातगोण्डकः । रसः सतैलसिन्धूत्थः
कर्णस्रावहरः परः । जम्बूकस्य तु मांसेन कटुतैलं
विपाचयेत् । तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ।
निशागन्धपले पक्वं कटुतैलं पलाष्टकम् । धूस्तूरपत्र-
जरसे कर्णनाडीजिदुत्तमम्” ।

नाडीस्वरसञ्चार पु० ७ त० । नाडोभेदे वायोः वहनरूपे

गतिभेदे । देहमध्ये वामभागस्थायाम् ईड़ायां श्वासादिधिक्येन
सञ्चारे चन्द्रोदयः, दक्षस्थायां पिङ्गलायां तथा वहने
सूर्य्योदयः इत्येतत् स्वरोदयग्रन्थे प्रसिद्धम् । तस्य शुभा-
शुभफलादिकं कालविशेषनियमश्च प्रदर्श्यते ग्रहयामले
“आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे । प्रतिपत्-
क्रमतोऽहानि त्रीणि कृत्वोदयत्ययम्” । त्रिपुरासारसमुच्चये
तु अमावास्यावध्युदयमाह यथा “आरभ्य दर्शं प्रथमामुदेति
वामे पुटे त्रीणि दिनानि देवः । वामेतरे त्रीणि ततो
दिनानि पूर्णां तिथिं यावदथैवमेवम् । एकस्य पक्षस्य
विपर्ययेण रोगाभिभूतिर्भवतीह पुंसाम् । पक्षद्वये बन्धु-
सुहृद्विपत्तिः पक्षत्रये व्यत्ययतो मृतिः स्यात्” ब्रह्मजामले
“चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्य्योदये यदा । अशुभं
हानिरुद्वेगः, शुभं सर्वं निवारयेत्” । चन्द्रोदये वाम
नाड्यां वायुगमननिरूपितसमये एवं सूर्य्योदये दक्षिण-
नाड्यां वायुगमननिरूपितसमये । कर्मविशेषे नासिकयोर्वा
योः प्रवेशनिर्गमाभ्याञ्च शुभत्वमपि तत्रैव “यात्राकाले
विवाहे च वस्त्रालङ्कारधारणे । शुभकर्मसु सर्वेषु प्रवेशे
च शशी शुभः । विग्रहद्यूतयुद्धेषु स्नानभोजनमैथुने ।
व्यवहारे भये भङ्गे भानुनाड़ी प्रशस्यते । मोहनं
शान्तिकञ्चैव दिव्यौषधिरसायनम् । विद्यारम्भः स्थिरं
कार्य कर्तव्यञ्च निशाकरे । दूरयुद्धे जयी चन्द्रः सुमा-
भन्ने दिवाकरः । वहन्नाडीपदे चैव यात्रा भवति
सिदिटा” । यस्यां नासिकायां प्राणवायोर्गतिर्भवति तद्दे-
शीयपादप्रसारणपूर्विका यात्रा सिद्धिदा भवतीत्यर्थः
“शयने च प्रसङ्के वा युवत्यालिङ्गनेऽपि वा । यः सूर्य्येप्य
पिबेच्चन्द्रं स भवेन्मकरध्वजः” । सूर्येण दक्षिणनासि-
कास्थप्राणवायुना, चन्द्रं वामनासिकागतप्राणवायुं
पिबति तत्सङ्गकाले स्वीयनिःश्वासमतिनिविष्टः सन्ना-
कर्षयति तत्फलं तत्रैव “चन्द्रचारो विषं हन्ति
सूर्य्यो बालावशं नयेत् । सुषुम्णायां भवेन्मोक्ष एको
देवस्त्रिधा मतः । भुक्तमात्रेण मन्दाग्नौ स्त्रीणां वश्ये
ऽथ कर्मणि । शयनं सूर्यवाहेन कर्त्तव्यं सर्वदा बुधैः ।
शान्ते शोके विवादे च ज्वरीते मूर्च्छिते तथा । सज्जन-
स्यापि वोधार्थे चन्द्रचारं प्रवाहयेत्” । भुक्तमात्रादौ
वामपार्श्वेण, शान्तादिषु दक्षिणपार्श्वेण शयनं कार्यमिति
तात्पर्य्यम् । चतुर्दिक्षूर्द्ध्वमधस्ताच्चान्यतरस्थानमाश्रित्य
यदि दूतः पृच्छति तदा कस्यां नाड्यां वायुगतिः शुभे-
त्याह “ऊर्द्ध्ववामागतो दूतो ज्ञेयो वामपथस्थितः ।
पृष्ठे दक्षे तथाधस्तात् सूर्यवाहगतो मतः । पूर्वनाडी
गतो दूतो यत् पृच्छति शुभाशुभम् । तत्सर्वं सिद्धमा-
प्नोति शून्ये शून्यं न संशयः । आदौ शून्यगतः पृच्छेत्
पश्चात् पूर्णो विशेद् यदि । तदा सर्वार्थसिद्धिः स्यादिति
जानीहि निश्चितम्” । इदानीं प्रणावायोः प्रवेशनिर्ग-
माभ्यां विशेषमाह “प्रवेशकाले यद्भूतो वाञ्छति स्वप्र-
योजनम् । तत्सर्वं सिद्धिमाप्नोति निर्गमे नास्ति सुन्द्र-
रम्” । कर्मविशेषे नाडीविशेषगतिमाह “मारणं मोहनं
स्तम्भं विद्वेषोच्चाटनं तथा । प्रेरणाकर्षणक्षोभं भानु-
नाड्युदये कुरु । शान्तिकं पौष्टिकं क्षेमं दिव्यौषधिरसा
यनम् । योगाभ्यासादिकर्माणि कर्तव्यानि निशाकरे” ।
त्रिपुरासारंसमुच्चये “भूतानामुदयं द्वयोरपि बुधः संलक्ष-
येत् पक्षयोस्तत्रादौ वसुधोदयं निहितघीर्घ्राणस्य दण्ड-
स्पृशि । देवेऽधस्पृशि वारिणोहुतवहस्योर्द्धा गतिश्चो-
दयं तिर्यक्संस्पृशि मारुतस्य परितः पृष्ठे मरुद्वर्त्मनः”
देवे प्राणवायौ । फलं जामले “पृथ्वीजले शुभेतत्त्वे
तेजोमिश्रफलोदयम् । हानिमृत्युकरौ पुंसामुभयौ
व्योममारुतौ” कर्मविशेषे भूतोदयफलं त्रिपुरास्मरे
“वश्यस्तम्भनयोः प्रशस्त उदयो भूमेर्जलस्योद्रयः शस्तः
शान्तिकपौष्टिकादिषु शुभो वन्धाय वह्नेः पुनः । शत्रो-
र्मारणदारणदिकरणे उच्चाटनोच्छेदयोर्वायोः शान्ति-
कनिर्विषीकरणयोर्व्योम्नो हितश्चोदयः । कियत्काल-
मेकनाडीगतो वायुर्भवति तत्रापि पञ्चभूतोदयः केन ज्ञेय
इत्यपेक्षायां नाड़ीगतिकालं स्थानक्रमेण भूतोदयञ्चाह
जामसे “एकैकस्य कलाः पञ्च क्रमेणैवोदयन्ति ताः । पृथि-
पृष्ठ ४०२९
व्यापस्तथा तेजो वायुराकाशमेव च । मध्ये पृथ्वी त्वध-
श्चाप ऊर्द्धे वहति चानलः । तिर्यग्वायुप्रवाहश्च नभो
वहति संक्रमे” । प्रपञ्चसारेऽपि “पुटयोरुभयोश्च दण्ड-
संस्था पृथिवी तोयमधःकृशानुरूर्द्धम् । पवनस्त्वथ पार्श्वगो
ऽपि मध्ये गगनं भूतगतिस्तनूद्भवेयम्” तत्रापि बाल्या-
द्यवस्थाभेदमाह रुद्रजामले उत्तरखण्डे एकादशपटले
“स्वकीयनासिकाग्रन्तु पञ्चमं परिकीर्तितम् । यन्नासा-
पृटमध्ये तु वायुर्भ्रमति भैरव! । तन्नासापथमध्ये तु
भावाभावं विचारयेत् । आकाशं वायुरूपं हि तैजसं-
वारुणं प्रभो! । पार्थिवं क्रमशोज्ञेयं बाल्यास्तादि
क्रमेण तु । वामोदये शुमा वामा दक्षिणे पुरुषः शुभः ।
वायूनां गमनं ज्ञेयं गगनावधिरेव च । केवलं मध्य-
देशे तु गमनं पवनस्य च । तदाकाशं विजानीयाद्बा-
ल्यभावं प्रकीर्त्तितम् । तिर्यग्गतिस्तु नासाग्रे वायोरु-
दयमेव च । केवलं भ्रमणं ज्ञेयं सर्वमङ्गलमेव च ।
किशोरं तद्विजानीयाद्वायौ तिर्यग्गतौ विभो! । केवला-
र्द्धनासिकाग्रे वायुर्गच्छति दण्डवत् । तत्तैजसं विजा-
नीयात्तेजसा बलवान् भवेत् । यौवनं तद्विजानीयात्
कर्मसिद्धिर्भवेद्ध्रुवम् । यदा व्याप्य गच्छतीह नासापुटमना-
कुलम् । जलोदयं विजानीयात् तदाव्यामोहमेव च ।
तद्वृद्धगतमावञ्च विलम्बोऽधिकचेष्टया । प्राप्नोति परमां
प्रीतिं वारुणार्णोदयोऽरुणम् । यद्यधोगच्छति क्षिप्रं
किञ्चिदूर्द्धमगोचरम् । यदा करोति प्राग् वालं तदारो-
गाद्बलोदयः । पृथिव्या उन्नतं भागं रोगार्त्तं
परिपीड़ितम् । अस्तमितं महादेव । अनुलोमविलोमतः ।
पवनोगच्छति क्षिप्रं वामदक्षिणभेदतः । वामनासापुटं
याति पृथिवी जलमेव च । सदा फलाफलं दातुमु-
दिताकुलमण्डले । तयोर्वै वायवी शक्तिं फलभागं तदा
लभेत्” । अवस्थाभेदे तत्फलकथनं तत्रैव “यद्येवं
वाममागे तु बालायाः प्रश्नकर्मणि । यदि तत्र पुमान्
प्रश्नं करोति वामगामिनी । तदा रोगमवाप्नोति
कर्मार्हो न भवेद्ध्रुवम् । यदि वायूदयो वामे दक्षिणे
पुरुषः स्थितः । तदा कुफलमाप्नोति द्रव्यागमनदुर्लभम् ।
अकस्माद्द्रव्यहानिः स्यान्मनीगतफलापहम् । सुहृद्भङ्गं
विवादञ्च भिन्ने भिन्नोदयात् शुभम् । केवलं वरुणस्यैव
पुरुषो दक्षिणे शुभः । अशुभं पृथिवीदक्षे भेदोऽयं
वरदुर्लभः । सदोदयं दक्षिणे च वायोस्तेजसएव च ।
आकाशस्य विजानीयात् शुभाशुभफलं प्रभो! । यदि
भाग्यवशादेव वायोर्मन्दा गतिर्भवेत् । दक्षनासा मध्यदेशे-
तदा वामोदयं शुभम् । तदा वामे विचारश्च वायुतेजः-
स्वरस्य च । ज्ञात्वोदयं विजानीयान्मित्रे हानिः स्वरे
भयम् । एवं स्वभुवनागारे यदि गच्छति वायवी ।
तस्मिन् काले पुमान् वामदक्षभागस्थसम्मुखः । तदा
कन्यादानफलं यथा प्राप्नोति मानवः । तदा वायुप्रसादेन
प्राप्नोति धनमुत्तमम् । देशान्तरात् शुभा वार्त्ता आयाति
पुत्रसम्पदः” इति स्त्रीपुंसभेदेन फलकथनं सूक्ष्मस्वरोदये
“गुरुशुक्रबुधेन्दूनां वासरे वामनाडिकाः । सिद्ध्यन्ति
सर्वकार्येषु कृष्णपक्षे विशेषतः । अर्काङ्गारकशौराणां
वासरे दक्षनाड़िका । स्यात्तथा चिरकालेन शुक्ले नैवो-
दयःस्थितः । क्रमादेकैकनाड्यास्तु तत्त्वानां पृथगुद्भवः ।
अहोरात्रस्य मध्ये तु ज्ञेया द्वादश संक्रमाः । वृषकर्कट-
कन्यालिमृगमीननिशाकरे । मेषे सिंहे च वनुषि-
तुलायां मिथुने घटे । उदयो दक्षिणे ज्ञेयः शुभाशुभ
विनिर्णयः” । वारादिभेदेन नाड़ीविशेषफलकथनम् ।
“तिष्ठेत् पूर्वोत्तरे चन्द्रोभानुः पश्चिमदक्षिणे । दक्ष-
नाड्याः प्रवाहे तु न गच्छेद्दक्षपश्चिमे” इति नाड़ी-
विशेषेण दिग्गतिः । “वामचारप्रवाहे तु न गच्छेत्
पूर्व उत्तरे । परिपन्थो भवेत्तस्य गतोऽसौ न निवर्त्तते ।
तस्मादत्र न गन्तव्यं बुधैः सर्वहितेप्लुभिः । तदा तत्र तु
सङ्घाते मृत्युरेव न संशयः” इति वहन्नाड़ीकस्य दिग्-
विशेषगमननिन्दा । “शुक्लपक्षे द्वितीयायामर्के वहति
चन्द्रमाः । प्रदृश्यते महाँल्लाभः पुंसः सौख्यं प्रजायते
सूर्य्योदये यदा सूर्य्यश्चन्द्रे चन्द्रोदयो भवेत् । सिध्यन्ति
सर्वकार्य्याणि दिवारात्रिगतान्यपि” स्वस्वनाड़ा-
फलकृथनम् “चन्द्रकार्थे यदा सूर्यः सूर्यश्चन्द्रोदये भवेत् ।
उद्वेगः कलहो हानिः शुभं सर्वं निवारयेत्” इति
विपरीतनिन्दा “सूर्यस्य वाहे प्रवदन्ति लाभं प्रकाशने
युक्तमनःस्थिरञ्च । श्वासेन युक्तस्य तु शीतरश्मेः प्रवाह-
काले फलमन्यदस्मात् । यदा प्रत्यूषकाले तु विपरीतोदयो
भवेत् । चन्द्रस्थाने स्थिते चार्के रविस्थाने च चन्द्रमाः ।
प्रथमे मानसोद्वेगं धनहानिं द्वितीयके । तृतीये गमनं
विद्यादिष्टनाशं चतुर्थके । पञ्चमे राज्यविभवं षष्ठे
सर्वार्थनाशनम् । सप्तमे व्याधिदुःखानि अष्टमे मृत्यु-
मृच्छति” इति दिनभेदेन विपरीतफलम् “कालत्रयं
विनाऽनिष्टो विपरीतः यदा भवेत् । तदा दुष्टफलं प्रोक्तं
किञ्चिन्न्यूनेऽतिशोभनम् । प्रातर्मध्याह्नयोश्चन्द्रः सायं-
पृष्ठ ४०३०
काले दिवाकरः । तदा नित्यं जयं लाभं विपरीतन्तु
दुःखदम्” इति कालभेदेन फलम् “वामे वा दक्षिणे
वापि यत्राप्याक्रम्यते स्वरः । कृत्वा तत्पदमाद्यञ्च यात्रा
भवति सिद्धिदा” इति वहन्नाडीकस्य यात्राफलम् ।

नाडीस्नेह पु० नाड्यामेव स्नेहोऽस्य । नाडीमात्रसारे अति

कृशे शिवद्वारपाले भृङ्गिणि शब्दर० ।

नाडीहिङ्गु पु० नाडीप्रधानी हिङ्गुः । हिङ्गुभेदे राजनि० ।

नाणक त्रि० न अणकः कुत्सितः नशब्द न “सह सुपा” स० ।

१ कुत्सितभिन्ने २ मुद्राचिह्नितनिष्कादौ “तुलाशास-
नमानानां कूटकृन्नाणकस्य च । एभिश्च व्यवहर्त्ता यः
स दाप्योदण्डमुत्तमम्” याज्ञ० ।

नाथ दवे (उपतापे) प० आशिषि आत्म० ऐश्येऽर्थने च पर०

भ्वा० मक० सेट् नाथति दुनोति ईष्टे याचते इत्यर्थः
नाथते आशंसते इत्यर्थः । अनाथीत् अनाथिष्ट । ननाथ-
थे ऋदित् अननाथत् । नाथः । अणोपदेशत्वात् सति
निमित्ते म णत्वम् प्रनाथति । याचने “सन्तुष्टमिष्टानि
तमिष्टदेतं नाथन्ति के नाम न लोकनाथम्” नैष०
“आशिषि नाथः” पा० आशीर्वादे एवात्मनेपदविधानात्
उपतापयाचनादौ परस्यैपदित्वम् अतएव काव्यप्र०
“दीनं त्वामनुनाथते कुचयुगम्” इति च्युतसंस्कृतिदोषे
उदाहृत्योक्तं यथा अत्र अनुनाथते इति । सर्पिषो
नाथते इत्यादावशिष्येव नाथतेरात्मनेपदं विहितम् ।
“आशिषि नाथः” इति सू० अत्र तु याधनमर्थः तस्मात्
“दीनं त्वामनुनाथति स्तनयुगमिति” पठनीयम् ।

नाथ पु० नाथ ऐश्ये अच् । स्वामिनि ईश्वरे हेमच० ।

“अनर्घ्यमर्घ्येण तमद्रि नाथः” कुमा० “त्रिलोकनाथेन सतां
मथद्विषः” रघुः ।

नाथवत् त्रि० नाथ + अस्त्यर्थे मतुप् मस्य वः । पराधीने

अमरः स्त्रियां ङीप् । “विष्णुना श्रीरिवेन्द्रेण भर्त्त्रा
नाथवती सती” रामा० सुन्द० ३७ अ० “याः स्म ता
लोकनाथेन नाथवत्यः पुराऽभवन्” भा० मौ० ५ अ०

नाथहरि पु० नाथं हरति स्थानान्तरं नयति ह्व--इन् ।

पशौ सि० कौ० ।

नाद पु० नद--घञ् । १ शब्दे अमरः । २ अनुस्वारवदुचार्य्ये

अर्द्धचन्द्राकृतिवर्णभेदे ३ ब्रह्मस्वरूपघोषभेदे वर्णविशेष-
व्यञ्जके वाह्यप्रयत्नभेदे “कण्टमन्ये तु घोषाः स्युः संवृता
नादमागिनः” पा० शिक्षा “सच्चिदानन्दविभवात् सकलात्
षरमेश्वरात् । आसीच्छक्तिस्ततो नादस्तस्माद्विन्दुसमु-
द्भवः । नादो विन्दुश्च वीजञ्च सएव त्रिविधो मतः ।
भिद्यमानात् पराद्विन्दोरुभयात्मारवोऽभवत् । स रवः
श्रुतिसम्पन्नः शब्द ब्रह्माऽभवत् परम्” शार० ति० । “तत्र
सत्वप्रविष्टा चित् शक्तिशब्दवाच्या परमाकाशावस्था सैव
सत्वप्रविष्टा रजोऽनुविद्धा नादशब्दवाच्या अव्यक्तावस्था”
पदार्थदर्शः । “नाभेरूर्द्धं हृदि स्थानान् मारुतः प्राण-
संज्ञकः । नदति ब्रह्मरन्ध्रन्ते तेन नादः प्रकीर्त्तितः”
“आकाशाग्निमरुज्जातो नाभेरूर्द्ध्वं समुच्चरन् । मुखेऽ-
तिव्यक्तमायाति यः स नाद इतीरितः । स च प्राणि-
भवोऽप्राणिभवश्चोभयसम्भवः । आद्यः कायभवो वीणा-
दिभवस्तु द्वितीयकः । तृतीयोऽपि च वंशादिभव इत्थं
त्रिधा मतः । यदुक्तं ब्रह्मणः स्थानं व्रह्मग्रन्थिश्च यो
मतः । तन्मध्ये संस्थितः प्राणः प्राणाद्वह्निसमुद्भवः ।
वह्निमारुतसंयोगान्नादः समुपजायते । न नादेन विना
गीतं न नादेन विना स्वरः । न नादेन विना रागस्त-
स्मान्नादात्मकं जगत् । न नादेन विना ज्ञानं न नादेन
विना शिवः । नादं रूपं परं ज्योतिर्नादरूपी परं
हरिः” सङ्गीतदा० ५ स्तीतरि निघण्टुः । ६ शब्दाभि-
व्यञ्जके कर्णशष्कुलीसंयोगविभागे शवरस्वामी “नाद-
वृद्धिपरा” जै० १ । १ । १७ सू० “यच्चैतत् बहुभिर्भेरीभाध-
मद्भिः शब्दमुच्चारयद्भिर्महान् शब्दः उपलभ्यते । तेन
प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते नैवं निरवयवो-
हि शब्दः अवयवभेदानवगमात् निरवयवत्वाच्च
महत्त्वानुपपत्तिः अतो न वर्द्धते शब्दः । कर्णशष्कुली-
मण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः संयोगविभागैर्नैरन्त-
र्येण अनेकशोग्रहणात् महान् इव अवयववान्
इवोपलभ्यते, संयोगविभागाः नैरन्तर्य्येण क्रियमाणाः
शब्दमभिव्यञ्जयन्तो नादशब्दवाच्याः । तेन नादस्यैषक
वृद्धिः न शब्दस्येति” शवरभा० ।

नादमुद्रा स्त्री “मुष्टिरूर्द्धीकृताङ्गुष्ठा दक्षिणा नादमुद्रिकाः”

तन्त्रसारोक्ते मुद्राभेदे ।

नादवत् पु० नादो वाह्यप्रयत्नभेद उजारणे साधनतयाऽ-

स्त्यस्य मतुप् मस्य वः । १ नादरूपबाह्यप्रयत्नोच्चार्य्यवर्ग्य
द्वितीयवर्णादौ “घोषवतो नादवतो महाप्राणस्य” सि० कौ०
२ शब्दयुक्ते च ।

नादविन्दु पु० उपनिषद्भेदे १ उपनिषच्छब्दे पृ० दृश्यम् । २ वर्णभेदे च ।

पृष्ठ ४०३१

नादिन् त्रि० नद--णिनि । १ शब्दकारिणि स्त्रियां ङिप् ।

“प्रमथ्यमनावर्णवधीरनादिनी” रघुः कालञ्जरे गिणौ
जातेषु जातिस्मरेषु सप्तसु मृगेषु सप्तमे २ मृगे पु० । गुरोर्गां
हत्वा पितृश्राद्धं कृतवतां गर्गशिष्याणां व्याधादि जन्म-
प्राप्ति कथा हविवं० २१ अ० दृश्या । तेषां दशार्णे व्याध-
जन्मानन्तरं कालञ्जरे गिरौ मृगजन्मप्राप्तानां संज्ञा यथा
“उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः । पण्डितो
घस्मरो नादी नामतस्तेऽभवन्मृगाः” । ३ नादयुक्ते त्रि०

नादेय त्रि० नद्या इदं तत्र भवो वा नद्या नदस्य वा ढक् ।

१ नद्याः सम्बन्धिनि २ तत्र भवे च “नद्या नदस्य वा
नीरं नादेयमिति कीर्त्तितम् । नादेयमुदकं रूक्षं
वातलं लघु दीपनम् । अनभिष्यन्धि विशदं कटुकं
कफपित्तनुत्” भावप्र० । ३ सैन्धवलवणे न० रत्नमा० । ४ सौवी-
राञ्जने न० राजनि० । ५ काशतृणे ६ वानीरवृक्षे
पु० राजनि० । ७ अम्बुवेतसे ८ भूमिजम्बूकायां ९
वैजयन्तिकायां स्त्री ङीप् अमरः । १० नागरङ्गजम्ब्वां ११
व्यङ्गुष्ठे स्त्री ङीप् मेदिनो । १२ अग्निमन्थरवृक्षे १३
काकजम्बूवृक्षे च स्त्री राजनि० । न आदेयम् अदेयं वा
१४ अग्राह्ये १५ देये च त्रि० “नादेयं नादेयं शरदि वसन्ते
च नादेयम्” वैद्यकम् शरदि नादेयं न ग्राह्यमित्यर्थः ।
वसन्ते तु न अदेयं देयमित्यर्थः ।

नादेश्वर न० काशीस्थे शिवलिङ्गभेदे “नादेश्वरं समभ्यर्च्य कैः

कैर्णापि सुचिन्तितम् । तस्मात् काश्यां प्रयत्नेन सेव्यो
नादेश्वरो नृभिः” काशीख० ३२ अ० ।

नाद्य त्रि० नद्यां भवः “नद्यादिभ्योढकं वाचित्वा “पाथो

नदीभ्यां ड्यण्” पा० वेदे ड्यण् । नदीभवे “चलोदधीत
नाद्यो गिरोमे” ऋ० २ । ३५ । १ “याश्च कूया याश्च नाद्याः
समुद्रिया आपः” तैत्ति० ३ । १ । २ । ४

नाध नाथार्थे भ्वा० आ० सक० सेट् । नाधते अनाधिष्ट ननाधे

ऋदित् चङि अननाघत् त । अयं णोपदेशोऽपीत्यन्ये
तेन सति निमित्ते णत्वम् । कविकल्पद्रुमेऽस्योभ-
यथा कीर्त्तनादस्य उभयविघत्वम् “रोदसी नाधसी
वृतौ” ऋ० १० । ६५ । ५ “णाधृ याच्ञौतापैश्वर्य्यादौ
नाधसी याचमाने” भा० ।

नाना अव्य० न + नाञ् । २ विनार्थे “नाना नारीर्निष्फला लोक

यात्रा” न नाना शम्भुना रामात्” मुग्धबोधम् । २
अनेकार्थे “नानाविध देहभृतां समाजम्” “मृत्योः स
नृत्युमाप्नोति यैह नानेव पश्यति” श्रुतिः “बह्वोषु
चेकजातानां नानास्त्रीषु निबोधत” । “प्रकाशरक्षका-
स्त्रेषां नानापण्योपजीविनाम्” मनुः ।

नानाकन्द पु० नाना कन्दोऽस्य । १ पिण्डालौ राजनि० ।

२ बहुमूलयुक्ते त्रि० ।

नानाध्वनि पु० ६ त० । काहलवीणादिशब्दे हारा० ।

नानान्द्र पु० ननान्दुरपत्यम् विदा० अञ् । ननान्दुरपत्ये ततः

यूनि हरिता० फक् । नानान्द्रायण ननान्दुर्यून्यपत्ये ।

नानारूप न० कर्म० । १ बहुविधे रूपे “नानारूपवती मता”

भाषा० नाना रूपाणि यस्य । २ बहुप्रकारे त्रि० “नाना-
रूपाणि जायन्ते वीजानीह स्वभावतः” मनुः ।

नानार्थ त्रि० नाना अर्था यस्य । १ अनेकार्थे अक्षादिशब्दे

“नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्त्तिताः” अमरः
नानार्थशब्दानाञ्च यत्र शक्यतावच्छेदकतायां लाघवं
तत्र शक्तिः बहूनां लाधवे निगमनाविरहेण सर्व-
त्रैव शक्तिः अन्यत्र लक्षणा । तत्रापि अनेकाथेस्य
शब्दस्य सर्वत्र वृत्तिसाम्येन सर्वेषां पदार्थानां युगपदुप-
स्थितावपि संयोगादिना कस्यचिदर्थस्य शाब्दबोध इत्ये-
केषान्मतम् अन्यार्थोपस्थितावेव संयोगादेः प्रतिवन्धकत्व-
मित्यन्ये । तदेत् रसगङ्गाधरे व्यवस्थापितम् । अधिकं
अनेकार्थशब्दे १९३ पृ० दृश्यम् । २ नानाप्रयोजनयुक्ते
त्रि० कर्म० । ३ बहुप्रयोजने पु० ।

नानावर्ण त्रि० नानावर्णा रूपाणि यस्य । चित्रवर्णयुक्ते

“उल्का मन्त्रिविनाशं नानाषर्णघनाश्च भयमतुलम्”
वृह० सं० ५ अ० । कर्म० । २ ब्राह्मणादिवर्णचतुष्टये च ।

नानाविध त्रि० नाना विधाः प्रकारा अस्य । बहुप्रकारे

“नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः” सां० का०
“नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम्” मनुः

नान्तरीयक न० न अन्तरा विना भवः अन्तरा + छ अव्य-

यस्य टिलोपः ततः स्वार्थे क । अविनाभूते तदभावे
तदभावरूपव्याप्तियुते “अभिधेयाविनाभूतप्रतीतिर्लक्षणो-
च्चते” कारिकाव्या० “अनिभावः सम्बन्धमात्रं न तु
नान्तरीयकत्वम्” काव्यप्र० । व्याकृतञ्चेदं महेश्वरेण
“नान्तरीयकत्वं तदभावे तदभावरूपा व्याप्तिः” । “प्रतिबन्ध
काभावे नान्तरीयका अर्थोत्पत्तिः” नव्यन्यायवादार्थः ।

नान्त्र न० नम--ष्ट्रन् वृद्धिश्च । स्तोत्रे उणादिकोषः । संक्षिप्त-

सारे नान्त्रमित्येव पाठः शब्दकल्पद्रुमे नान्तेति पाठक-
ल्पनम् लिपिकरप्रमादपाठमालोक्येति बोध्यम् ।

नान्दिकर पु० नान्दीं करोति कृ--ट ६ त० “ङ्यापोः संज्ञा

छन्दसीः” पा० ह्रस्वः । नाटके नान्दीपाठकरे सूत्रधारे
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/नवलक्षण&oldid=57789" इत्यस्माद् प्रतिप्राप्तम्