वाचस्पत्यम्/धर्मसेतु

विकिस्रोतः तः
पृष्ठ ३८६४

धर्मसेतु पु० धर्मस्य सेतुरिव धारकत्वात् । धर्मरक्षके “राजा

दशरथो नाम धर्मसेतुरिवाचलः” रामा० आर० ६२ अ० ।
एकादशमन्वन्तरे आर्य्यकस्य सुते २ हरेरंशभेदे च । तदुप-
क्रमे “आर्य्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः । विधृ
तायां हरेरंशस्त्रिलोकीं धारयिष्यति” भाग० ८ । १३ । १२

धर्मस्कन्ध पु० आर्हतमतसिद्धे धर्मास्तिकायपदार्थे अर्हत्

शब्दे दृश्यम् ।

धर्माङ्ग पुंस्त्री धर्म इव शुद्धमङ्गमस्य । वके निघण्टुः स्त्रियां ङीष् ।

धर्माचार्य्य पु० धर्मे आचार्य्यः । १ धर्मशिक्षके गुरुभेदे

ऋग्वेदिनां तर्पणीये २ ऋषिभेदे च “सुमन्तुजैमिनि
वैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्य्या इत्यु-
पक्रमे ये चान्ये आचार्य्यास्ते सर्व तृप्यन्त्विति”
आश्व० गृ० ३ । ४ । ४ । धर्माचार्य्याश्च नैमित्तिकादिप्रलयो-
त्तरं वैदिकधर्माचारयोः शिक्षार्थं वीजीभूता धर्म-
प्रवर्त्तका ऋषिभेदाः यहाह मिता० प्रा० अध्याये
“ननु नैमित्तिकादिप्रतिसञ्चरेऽखिलाध्यापकप्रलयादविदित-
वेदास्तस्योपरितनाजनाः कथमग्निहोत्रादिकं कर्म
करिष्यन्ति । कथन्तराञ्चाकृतकर्माणः स्वर्गमार्गमधिरो-
क्ष्यन्तीत्यत आह “तत्राष्टाशीतिसाहस्रा मुनयो
गृहमेधिनः । पुनरावर्त्तिनो वीजभूता धर्मप्रवर्त्तकाः” याज्ञ० ।
तत्र पितृयाने अष्टाशीतिसहस्रसंख्या मुनयो गृहस्था-
श्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया
धर्मतरुप्रादुर्भावे वीजभूताः सन्तोऽग्निहोत्रादिधर्मप्रव-
र्त्तका अतो न प्रागुदितदोषसमागमः । किञ्च ।
सिप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः । तावन्त एव
मुनयः सर्वारम्भविवर्जिताः । तपसा ब्रह्मचर्येण सङ्ग-
त्यागेन मेधया । तत्र गत्वावतिष्ठन्ते यावदाहूतसंप्लवम्”
याज्ञ० । सप्तर्षयः प्रसिद्धा नागवीथ्यैरावतपथः तदन्तराले
तावन्त एवाष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविव-
र्जिताः केवलज्ञाननिष्ठास्तपोब्रह्मचर्ययुक्तास्तथासङ्गत्या-
तिनो देवलोकं समाश्रिताः । आहूतसंप्लवम्प्राकृत-
प्रलयपर्य्यन्तमवतिष्ठन्ते । तत्र च स्थिताः सृष्ट्यादावा-
ध्यात्मिकधर्माणां प्रवर्त्तकाः । कथम्भूतास्ते मुनय इत्यत
आह “यतो वेदाः पुराणानि विद्योपनिषदस्तथा । श्लोकाः
सूत्राणि भात्याणि यच्च किञ्चन वाङ्मयम्” याज्ञ० ।
यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्ग-
विद्यौपनिषद्रश्च नित्यभता एवाध्येतृपरम्परायाताः
प्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानु-
शासनमीमांसागोचराणि । भाष्याणि च सूत्रव्याख्या-
रूपाणि यदन्यदायुर्विद्यादिकं वाङमयं तदपि यत्
सकाशात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवर्त्तकाः । एवं
सति वेदस्यापि नानित्यतादोषप्रसङ्गः” ।

धर्मात्मन् पु० धर्म आत्मा स्वभावो यस्य । धर्मशीले “स

तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः” मनुः ।

धर्माधर्म पु० द्वि० व० धर्मश्चाधर्मश्च द्व० । १ पुण्यपापयोः

“धर्माधर्मौ गुणा एते आत्मनः स्युश्चतुर्दश” भाषा० । धर्मा-
धर्मौ परीक्षणीयतयाऽत्र स्तः अच् । धर्मजरूपे दिव्यभेदे
तद्विधानं वीरमित्रोदये यथा
“तत्र पितामहः “अधुना सम्प्रवक्ष्यामिं धर्माधर्मपरी-
क्षणम् । हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणा-
मिति” । हन्तृणां साहसाभियोगेषु, याचमानानामि-
त्यर्थाभियोगेषु, प्रायश्चित्तार्थिनां नृणामिति पातकाभि
योगेषु एतद्दिव्यं भवतीति सूचितम् । धर्माधर्मदिव्य-
प्रकारमाह स एव “राजतङ्कारयेद्धर्ममधर्मं सीसकाय-
सम् । लिखेद्भूर्जे पटे वापि धर्माधर्मौ सितासितौ ।
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् । सितपुष्पस्तु
धर्मः स्यादधर्मोऽसितपुष्पधृक् । एवंविधायोपलिप्य
पिण्डयोस्तौ निधापयेत् । गोमयेन मृदा वापि पिण्डौ
कार्य्यौ समन्ततः । मृद्भाण्डके उपहृते स्थाप्यौ चानुप-
लक्षितौ । उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ ।
आवाहयेत्ततो देवान् लोकपालांश्च पूर्ववत् । धर्मावाह-
नपूर्वन्तु प्रतिज्ञापत्रकं लिखेत् । यदि पापविमुक्तोऽहं
धर्मस्त्वायातु मे करे” इति मन्त्रं विशोध्योब्रूयात् ।
अहमिति मन्त्रलिङ्गात् । वृहस्पतिरपि “पत्रद्वये
लेखनोयौ धर्माधर्मौ सितासितौ । जीवदानादिकैर्मन्त्रैर्गा-
यत्र्याद्यैश्च सामभिः । आमन्त्र्यं पूजयेद्गन्धैः कुसुमैश्च
सितासितैः । अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ
ततः । समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ ।
ततः कुम्भात्पिण्डमेकं प्रगृह्णीतानुयाचितः । धर्मे
गृहीते शुद्धः स्यात् सम्पूज्यश्च परीक्षकैरिति” जीवदाना-
दिकैर्मन्त्रैः, मा प्र गामपथोवयमित्यादि” ऋ० १० । ५७ । १
सूक्तपठितऋङ्मन्त्रैः अन्यैर्वा आगमोक्तैः प्राणप्रतिष्ठा-
मन्त्रैरित्यर्थः । ते च शारदातिलके उक्ताः” ।

धर्माधर्मविद् पु० धर्माधर्मौः वेत्ति विद--क्विप् त ६० ।

१ मीमांसके स हि विधिनिषेधगम्यौ धर्माधर्मौ तत्त्वतो
जानातीति तस्य तथात्वम् । २ तद्धेतुभूतविहितकर्माग्नि-
ष्टोमादिनिषिद्धकर्महिंसादिवेत्तरि च ।
पृष्ठ ३८६५

धर्माधिकरण न० धर्मोऽधिक्रियतेऽत्र अधि + कृ--आधारे

ल्युट् । नृपाणां तन्नियुक्तानाञ्च व्यवहारदर्शनयोग्ये
१ स्थानभेदे । तत्स्वरूपभेदादिकं वीरमि० उक्तं यथा
वृहस्पतिः “दुर्गमध्ये गृहं कुर्य्याज्जलवृक्षान्वितं
पृथक् । प्राग्दिशि प्राङ्मुखीन्तस्य लक्षण्याङ्कल्पयेत्स-
भाम् । माल्यभूपासनोपेतां वीजरत्नसमन्विताम्” ।
लक्षण्यां वास्तुशास्त्रोक्तलक्षणेन तु लक्षिताम् । समायां
धर्माधिकरणत्वं च “धर्मशास्त्रानुसारेण अर्थशास्त्रविवे-
चनम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तदिति”
उक्तेः । तत्र सभ्योपवेशनमाह मनुः” “यस्मिन्देशेनिषीदन्ति
विप्रा वेदविदस्त्रयः । राज्ञश्चाधिकृतोविद्वान् ब्राह्मणस्तां
सभां विदुरिति” त्रय इत्युपलक्षणम् “अधिकानामपि
स्मृतत्वात् । तच्च वक्ष्यते । अधिकृतो विद्वान् प्राङ्-
विवेकः । अत्र “सभामेव प्रविशेत्” इत्यादि-
वचनात् सभा मुख्यं व्यवहारदर्शनस्थानम् । अन्या-
न्यमुख्यानि नानावचनादवगन्तव्यानि “देशस्थानानि
वादानां पञ्च चैवाब्रवीद्भृगुः । निर्णयं येन गच्छन्ति
विवादं प्राप्य वादिनः । आरण्यास्तु स्वकैः कुर्य्युः
सार्थिकाः सार्थिकैस्तथा । सैनिकाः सैनिकैरेव ग्रामे-
ऽप्युभयवासिभिः । उभयानुमतञ्चैव गृह्यते स्थानमीप्-
सितम् । कुलिकाः सार्थमुख्याश्च पुरग्रामनिवासिनः ।
ग्रामपौरगणश्रेण्यश्चातुर्विद्यश्च वर्गिणः । कुलानि कुलि-
काश्चैव नियुक्ता नृपतिस्तथेति” स्वकैरारण्यकैः
ग्रामेऽपीत्यपिशब्दाद्ये ग्रामेऽरण्यादौ च निवसन्ति ते
उभयवोसिभिर्निर्णयं कुर्य्युरुभयव्यवहाराभिज्ञत्वात्तेषाम् ।
कुलिकाः कुलश्रेष्ठाः । सार्थो ग्रामदेवयात्रादौ मिलिती
जनसङ्घः तन्मुख्याः सार्थवाहादयः । पुरं मुख्यनगरम् ।
तस्मादर्वाचीनो ग्राम इति पुरग्रामनिवासिनोर्भेदः ।
कुलिकादीनि पञ्च स्थानानि तानि चारण्यकादीनामेव
ग्रामादीनि दश स्थानानि साधारणानि । ग्रामो
ग्रामाकारेणावस्थितोजनः । पौरः पुरवासिनां समूहः ।
श्रेण्यो रजकाद्या हीनजातयः । चातुर्विद्यः आन्वी-
क्षिक्यादिविद्याचतुष्टयोपेतः । वर्गिणो गणप्रभृतयः” ।
तत् अर्हत्वेनास्त्यस्य अच् । २ तत्र नियुक्ते प्राड्विवेकादी
पु० । “समः शत्रौ च मित्रे च सर्वशास्त्रविशारदः । विप्र-
मुख्यः कुलीनश्च धर्माधिकरणो भवेत्” मत्स्यपु० “पुरुषा-
न्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः । धर्माधिकरणे कार्य्या
जनाह्वानकरानराः इति मत्स्यपु० ।

धर्माधिकरणिन् पु० धर्माधिकरणं नियोगस्थानतयाऽस्त्यस्य

इनि । विचारके प्राड्विवेकादौ धर्माध्यक्षे हेमच० ।

धर्माधिकारिन् पु० धर्मं व्यवहारे तन्निर्णयमधिकरोति

अधि + कृ--णिनि ६ त० । प्राङिविवेकादौ ।

धर्माध्यक्ष पु० धर्मे व्यवहारे धर्मनिर्णये अध्यक्षः । १ प्राड्-

विवेकादौ । “कुलशीलगुणोपेतः सर्वकर्मपरायणः ।
प्रवीणः प्रेषणाध्यक्षो धर्माध्यक्षोऽभिधीयते” चाणक्यः ।
२ विष्णौ च “लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-
कृतः” विष्णुस० । “धर्माधर्म्मौ साक्षादीक्षते तदनुरूपं
फलं दातुं तस्माद्धर्माध्यक्षः” भा० । अत्र धर्मपदं
लक्षणया धर्माधर्मपदं तदभिप्रायेण धर्माधमौ इत्युक्तम्

धर्मान्धु पु० धर्मकृतोऽन्धु कूपः । तीर्थभेदे स्कन्दपु० ।

धर्माभास पु० धर्म इवाभासति आ + भास--अच् । श्रुति-

स्मृतीतरशास्त्रोक्ते असद्धर्मे । “श्रुतिस्मृतिभ्यामुदितोयः
स धर्मः प्रकीर्त्तितः । अन्यशास्त्रेषु यः प्रोक्तो धर्मा-
भासः स उच्यते” देवीभागवतम् ।

धर्मारण्य न० तीर्थभेदे तदाविर्भवकथा वराहपु० यथा

“सधर्मः षीड़ितः सर्वः सोमेनाद्भुतकर्मणा । तारां
जिघृक्षता पत्नीं भ्रातुराङ्गिरसस्य च । सोऽप्ययाद्भीषितस्तेन
बलिना क्रूरकर्मणा । अरण्यं गहनं घोरं प्रविवेश
तदा प्रभुः” ब्रह्मोवाच । “यच्चारण्यमिदं धर्म! त्वया-
व्याप्तं चिरं विभो! । नाम्ना भविष्यति ह्येतद्धर्मारण्य-
मिति प्रभो!” गयास्थे २ तीर्थभेदे “प्रथमेऽह्नि बिधिः-
प्रोक्तो द्वितीयदिवसे व्रजेत् । धर्मारण्यं तत्र धर्मो
यस्मात् यज्ञमकारयत्” वायुपु० गयामाहात्म्ये “गया
च फल्गुतीर्थञ्च धर्मारण्यं सुरैर्वृतम् । तथा देवनदी-
पुण्या सरश्च ब्रह्म निर्मितम्” भा० आनु० १६५ अ० ।
३ धर्मसाधने अरण्यमात्रे च “तैरुक्तो यज्ञियान् देशान्
धर्मारण्यं तथैवच” भा० आश्व० ९२ अ० । वृ० स० १४ अ०
कूर्मविभागोक्ते मध्यभागस्थेदेशभेदे न० ४ माथुरकोष-
ज्योतियधर्मारण्यानि शूरसेनाश्च” इत्युपक्रमे मध्यमिद-
मित्युक्तम् ।

धर्मासन न० धमार्थं धर्मविचारार्थमासनम् । विचार-

निर्णयार्थे आसनभेदे । “धर्मासनमधिष्ठाय संवीताङ्गः
समाहितः” मनुः ।

धर्मास्तिकाय पु० आर्हतमतसिद्धे जीवाजीवधर्माधर्म-

पुद्गलास्तिकायमध्ये पदार्थभेदे अर्हत्शब्दे दृश्यम् ।
पृष्ठ ३८६६

धर्मिक त्रि० धर्मोऽस्त्यस्य ठन् । धर्मयुक्ते । ततः पुरोहिता०

तस्य कर्मभावादौ यक् । धार्मिक्य तद्भावे न० ।

धर्मिन् त्रि० धर्मोऽस्त्यस्य इनि । १ धर्मविशिष्टे स्त्रियां ङीप् ।

सा च २ जायायाम् । “त्रिगुणमचेतनं प्रसवधर्भि”
सा० का० । ३ आधारे च सुखदुःखमोहधर्मिणी बुद्धिः
सुखदुःखमोहधर्मकद्रव्यजन्या” सां० प्र० भा० ।
“नित्यत्वान्न चित्धर्मा” सा० सू० भाष्ये पुरुषस्य
प्रकाशरूपत्वे सिद्धे तत्सम्बन्धमात्रेणान्यव्यवहारोप-
पत्तौ प्रकाशात्मकधर्मकल्वना गौरवमित्यपि बोध्यम् ।
तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपि स्पर्शपुरस्का-
रेण ग्रहात् प्रकाशतेजसोर्भेदः सिद्ध्यति । आत्मनस्तु
ज्ञानाख्यप्रकाशाग्रहकाले ग्रहणं नास्तीत्यतो लाघवात्
धर्मधर्मिभावशून्यं प्रकाशरूपमेवात्मद्रव्यं कल्प्यते”
“धर्म्यंशे सर्वमभ्रान्तं प्रकारे च विपर्य्ययः” न्यायका० ।
धर्माः श्रौतस्मार्त्ता कर्त्तव्यत्वेन सन्त्यस्य । ४ धार्मिके
त्रि० स्त्रियां ङीप् । धर्मः पाल्यत्वेनास्त्यस्य इनि
५ विष्णौ पु० । “धर्मगुप् धर्मकृत् धर्मी” विष्णुस० ।

धर्म्मिष्ठ त्रि० अतिशयेन धर्मवान् इष्ठन् मतुपो लोपः ।

१ अतिशयेन धार्मिके । २ विष्णौ पु० ।

धर्मेन्द्र पु० धर्मे इन्द्र इव रक्षकत्वात् । धर्मराजे यमे “पितॄ-

णामिव धर्मेन्द्रो यादसामिव चाम्बुराट्” भा० द्रो० ६ अ० ।
धर्मेशधर्मेश्वरादयोऽप्यत्र ।

धर्मेयु पु० पौरववंश्यस्य रौद्राश्वस्य पुत्रभेदे । “धर्मेयुः सन्नते-

युश्च दशमो देवविक्रमः” भा० आ० ९४ अ० । तत्पुत्रोक्तौ

धर्मोत्तर त्रि० धर्म उत्तरः प्रधानमस्य । धर्मप्रधाने ।

धर्मोपदेश पु० धर्म उपदिश्यतेऽनेन उप + दिश--करणे घञ्

६ त० । १ धर्मशास्त्रे मन्वादिशास्त्रे “आर्षं धर्मोपदेशञ्च
वेदशास्त्राविरोधिना । यस्त्रर्केणानुसन्धत्ते स धर्मं वेद
नेतरः” मनुः । भावे घञ् । २ धर्मस्य उपदेशे “धर्मोपदेशं
दर्पेण विप्राणामस्य कुर्वतः । तप्तमासेचयेत् तैलं वक्त्रे
श्रोत्रे च पार्थिवः” मनुः ।

धर्मोपदेशक त्रि० धर्ममुपदिशति उप--दिश ण्वुल् ६ त० ।

१ धर्मस्योपदेशकर्त्तरि २ गुरौ पु० ।

धर्म्य त्रि० धर्मादनपेतः “धर्मपथ्यर्थष्यायादनपेते” पा० यत् ।

धर्मेण प्राप्यः “नौवयोधर्मेत्यादिना” पा० यत् वा । १ धर्म-
युक्ते धर्मादबर्हिमूते २ धर्मेण प्राप्ये च “न द्रव्याणा-
मविज्ञाय विधिं धर्म्यं प्रतिग्रहे” मनुः । ब्राह्माद्यष्टविवाहो०
पक्रमे “यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ ।
तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् । षड़ानु-
पूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् । विट्शूद्रयोस्तु
तानेव विद्याद्धर्म्यान्न राक्षसान् । चतुरो ब्राह्मणस्या-
द्यान् प्रशस्तान् कवयो विदुः । राक्षसं क्षत्रियस्यैक-
मासुरं वैश्यशूद्रयोः । पञ्चानान्तु त्रयोधर्म्या द्वावधर्म्यौ
स्मृताविह । पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन ।
पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ । गन्धर्वा
राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ” ।

धर्ष पु० धृष--भावे घञ् । १ प्रागल्भ्ये २ अमर्षे ३ शक्तिबन्धने

४ संहतौ ५ हिंसायाञ्च शब्दच० ।

धर्षक त्रि० भृष--ण्वुल् । १ परिभवकारके २ प्रगल्भे ३ असहने

च ४ नटे पु० शब्दरत्ना० ।

धर्षकारिन् त्रि० धर्षं करोति कृ--णिनि ६ त० । १ परिभव-

कर्त्तरि २ प्रागल्भ्यकारके च ३ दूषितायाम् असत्यां
स्त्री स्त्रयां ङीप् शब्दर० ।

धर्षण न० धृष--भावे ल्युट् । १ परिभवे २ असहने ३ धर्षशब्दार्थे

च । कर्मणि ल्युट् । ४ अभिसारिकायां स्त्रियाम् स्त्री ङीप् ।
मेदि० । कर्त्तरि ल्यु । ५ धर्षकारके त्रि० । ६ शिवे पु० ।
“अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः” भा० अनु०
१७ अ० शिवसहस्रनामोक्तौ चु० धृष--भावे युच् ।
७ धर्षणे स्त्री “श्रुत्वेमां धर्षणां तात! तव तेन दुरा-
त्मना” भा० आ० ४१ अ० ।

धर्षणि(णी) स्त्री धृष्यतेऽसौ धृष--कर्मणि अनि । असत्यां

वन्धक्याम् उणादिवृत्तिः वा ङीप् तत्रार्थे भरतः ।

धर्षित त्रि० धृष--कर्मणि क्त इट् गुणश्च । १ परिभूते

असत्यां २ कुलटायां स्त्री शब्दरत्न० । भावे क्त । ३ असहने
४ मैथुने च न० त्रिका० । ५ परिभवे च ।

धलण्ड पु० दधाति धा--ड तं लण्डयति उत्क्षिपति

लडि--उत्क्षेपे अण् । (धला आकड़) वृक्षेशब्दच० ।
ण्वुल् । धलण्डक तत्रार्थे तस्य कण्टकावृतत्वेन
धारकस्योत्क्षेपणात्तथात्वम् ।

धव गतौ भ्वा० प० सक० सेट् इदित् । धन्वति अधन्वीत् ।

इदित्त्वात् कर्मणिधन्व्यते धन्वधातोस्तु धव्यते इति भेदः ।

धव त्रि० धवति धुवति धुनोति धूनाति वा कर्त्तरि अच् ।

१ कम्पनकारके २ पत्यौ स्वामिनि ३ नरे पु० अमरः ५ धूर्त्ते
त्रि० मेदि० । (धला आकुड़ा) ख्याते वृक्षे पु० रत्नमा० ।
“धवः शीतः प्रमेहार्शःपाण्डुपित्तकफापहा । मधुरस्तु-
पृष्ठ ३८६७
वरस्तस्य फलञ्च मधुरं मनाक्” भावप्र० । “विल्वार्क-
खदिराकीर्णं कपित्थधवसङ्कुलम्” भा० आ० ६९ अ० ।
“मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् ।
तस्मान्माधबनामासि धवः स्वामीति शब्दितः” हरिवं०
२७९ अ० । भावे अप् । ६ कम्बने ७ विधूनने च पु० ।

धवनि स्त्री धू--करणे अनि । अनले पारस्करनि० ।

धवल पु० धाव--वृषा० कल बा० ह्रस्वः धवं कम्पं लाति

लाक वा । “धवलः १ सिन्दूरे २ सिते । ३ महोक्षे चाथ धवली
४ सौरभ्यां समुदाहृता” विश्वः । सौरभ्यामेव गौरा० ङीष् ।
श्वेतबर्ण्णयुक्ते त्रि० अमरः अत्रार्थे स्त्रियां टाप् । “नीता
येन निशा शशाङ्कधवला” उज्जलद० । ५ निर्मले
त्रि० त्रिका० । “क्रियते धवलः खलूच्चकैर्धवलैरेव
सितेतरैरधः” माघः । ६ चववृक्षे ७ चीनकर्पूरे स्त्री ।
८ श्वेतमरिचे न० राजनि० । ९ रागभेदे स च भरतमते
हिन्दोलरागस्य अष्टमः पुत्रः सङ्गीतशास्त्रण् । १० स्वग-
भेदे “धवलः पाण्डुरुद्दिष्टो रक्तपित्तहरो हिमः । रसे
पाके च मधुरः संग्राही वातशान्तिकृत्” भावप्र० ।
११ छन्दोभेदे तल्लक्षणं यथा “द्विजवर! गणयुगसनगणन
गणयुगलकं विमलबलयमपि च कलय सकलजन-
सुखम् । फणिपतिवरमणितममलसिंह हितं विमल-
कविसुहृदिव ललितमिति भुवि विदितम्” ।

धवलगिरि पु० कर्म० । स्वनामख्याते पर्वतभेदे ।

धवलपक्ष पुंस्त्री धवलौ पक्षौ यस्य । हंसे राजनि० स्त्रियां

जातित्वात् ङीष् । “धवलपक्षबिहङ्गमकूजितैः” माघः ।
कर्मधा० । १ चान्द्रमासघटकेंपञ्चदशतिथ्यात्मके २ शुक्ले पक्षेपु०

धवलपट्टिनी स्त्री कर्म० । श्वेतपाटलिकायाम् राजनि० ।

धवलमृत्तिका स्त्री कर्म० । (खड़ि) खटिन्यां राजनि० ।

धवलयावानल पु० कर्म० । श्वेतयावानले यावनालवेदे

राजनि० ।

धवला स्त्री अनुदात्तत्वान्न ङीष् । शुभ्रवर्णायां स्त्रियाम् ।

अमरः ।

धवलिमन् पु० धवलस्य भावः इमनिच् । श्वेतत्वे “अधिगवधवलि{??} शूलपाणेरभिख्याम्” माघः ।

धवलोत्पल न० कर्म्म० । कुमुदे राजनि० ।

धवाणक पु० धुनोति वृक्षादीन् धू--आणक । वायौ उज्ज्वल०

धवित्र न० धू--करणे इत्र । गृनचर्ममयज्वजने अमरः ।

“मुञ्जवेदं धवित्राणि परिर्बौश्च” कात्या० श्रौ० २६ । २ । १० ।
“धुनोत्येभिरिति धवित्राणि कृष्णाजिनखण्डनिर्मिता-
सूयो व्यजनाः” देवलनाथः ।

धस् त्रि० धा--कसुन् । १ थारके रेतोधाः पुरोधाः । २ ब्रह्मणि

पु० मेदि० । ३ वृहस्पतौ उणा० ।

धा धारणे पोषणे दाने च जुहो० उभ० सक० अनिट् ।

दधाति धत्ते धत्से दध्यात् दधातु धेहि अदधात्
अथश्च । अधात् अधित । दधौ दधे । दथिथ दधाथ ।
दधिव धाता धास्यति । धीयते अधायि अधायिषाताम्
अधिषाताम् । हितः हित्वा हितिः । “त्वं
मुग्धाक्षि! विनैच कञ्चुलिकया धत्से मनोहारिणीम्”
सा० द० । “इमं नो यज्ञममृतेषु धेहि” ऋ० ३ । २१ । १
“तत्र त्वा देवा सविता दधातु” ऋ० १० । १७ । ४
“धर्मे दध्यात् सदा मनः” मनुः । “निवेशाय मनो
दधुः” भा० ब० ६५ अ० । “न नाशमधिगच्छेयुरिति
मे धीयते मतिः” भा० विरा० २८ अ० । “हिंस्वाहिंस्रे
मृदुक्रूरे धर्माधर्मावृतानृते । यद् यस्य सोऽदधात् सर्गे
तत्तस्य स्वयमाविशत्” मनुः । “यश्चापमाश्मनप्रख्यं
सेषुं धक्षेऽन्यदुर्वहम्” भट्टिः । “गामधास्यत् कथं नागो
मृणालमृदुभिः फणैः” कुमा० धापयति धित्सति ।
“स्वं वव्रिं कुह धित्सथः” ऋ० १ । ४६ । ९
  • अति + अतिक्रम्य धारणे अतिशयधारणे च “आयुर्यत्ते
अतिहितं पराचैः” अथ० ७ । ५३ । ३ ।
  • अधि + आधिक्येन धारणे “यन्नार्षदाय श्रवो अध्यधत्तम्”
ऋ० १ । ११७ । ८ ।
  • अनु + पश्चाद्धारणे । “अथान्यान् (तण्डुलान) हुताखाश्वत्थीषु
समित्सु अनुदधीरन्” लाट्या० ४ । ९ । १४ ।
  • अन्तर् + आच्छादने वस्त्वन्तरेण व्यवधाने । “उदुम्बरशाखा-
मन्तर्धायाभिषिञ्चति” ऐ० व्रा० ८ । ७ । तिरोधाने “ते
चान्तर्दधिरे नागाः” भा० आ० १२९ अ० ।
  • अपि + तिरोधाने आच्छादने । “धनेनाधर्म्मलब्धेन यच्छिद्र-
मपिधीयते” भा० उ० ३४ अ० । वा अतो लोपः “पिधान-
मपिधानम्” अमरः ।
  • अभि + कथने “साक्षात् सङ्केतितं योऽर्थमभिधत्ते स
वाचकः” का० प्र० । “गणनव्यवहारे तु हेतुः संख्याभि-
धीयते” नाषा० ।
  • प्रति + अभि + प्रत्युत्तरकथने । “मया च प्रत्यभिहितं देवका-
र्य्यार्थदर्शनात्” भा० उ० १९ अ० ।
  • अव + मनःसंयोगविशेषे अभिनियेशे “अवधानपरे चकार सा”
कुमा० । अधःस्थापने पातने च “यां ते कृत्यां कूपे अवदधुः”
अथ० ५ । ६१ । ७ । “त्रितः कूपेऽवहितः” ऋ० १ । १०५ । १७
पृष्ठ ३८६८
  • वि + अव + आच्छादने (ढाकौ) अपवारणे । “प्रेक्ष्य स्थितां
सहचरीं व्यावधाय देहम्” रघुः । “व्यवदधाति दर्भ-
पिञ्जूलानि” सांख्यब्रा० १८ । ८ । “अन्तर्द्धा व्यवधा पुंसि
अन्तर्द्धिरपवारणम्” अमरः । “उदयाचलव्यवहितेन्दु
वपुः” माघः ।
  • आ + आरोहे आरोपणे स्थापने च । स्वद्रव्यस्य ऋणशोधन
कालपर्य्यन्तं धनिकसमीपे स्थापने आधिः आहितः ।
अग्न्यादेः संस्कारभेदे अग्न्याधानम् । “जनपदे न गदः
पदमादधौ” रघुः । “आदध्यात् संभारान् दर्भान्
दीर्घान् गर्भाश्च” वृ० स० ४८ । “गर्भमाधत्त राज्ञी”
रघुः । “ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्ममादधे”
भा० व० २९२ अ० ।
  • अति + आ + मर्य्यादातिक्रमेण धारणे । “कार्य्यमत्याहितं
भविष्यति” प्रबोधच० । “यदि स्यादिह गोविन्दो
नैतदत्याहितं भवेत्” हरिवं० १७१ अ० ।
  • अनु + आ + पश्चादाधाने । यदेकस्य निहितं द्रव्यं तेनापि
अनु पश्चादन्यस्य हस्ते स्वामिने देहीति समयेन समर्पणे
च । अन्वाहितशब्दे दृश्यम् ।
  • अभि + आ + साम्मुख्येन स्थापने “अभ्यादध्युश्च काष्ठानि
तत्र दह्येत पापकृत्” मनुः ।
  • उप + आ + धर्मचिन्तायाम् “उपाधिर्ना धर्मचिन्ता” काम० ।
सामीप्येनाधाने अग्न्युत्पाते मेदि० । “अग्न्युत्पात
उपाहितः” अमरः । संयोजने च अमरः । “तस्य
निष्क उपाहित आस” शत० ब्रा० ११ । ४ । १ । १
  • निर् + आ + निराकरणे “यः क्रव्यादं निरादधत्” अथ०
१२ । २ । ३९ ।
  • परि + आ० परितः स्थापने । “ऋचा कुम्भीमध्यग्नौ श्रयाम्या
सिञ्चोदकमवधेह्येनम् । पर्य्याधत्ताग्निना” अथ० ९ । ५ । ५
  • वि + आ + विशेषेनाधौ पीड़ायाम् । व्याधिः “यद्यात्मना
प्रजया वा व्याधीयेत” श्रुतिः “एतद्वै परमं तपो
यद्व्याहितस्तप्यते” शत० व्रा० १४ । ८ । ११ । १
  • सम् + आ + पूर्वमाक्षिप्तस्य दोषस्य निराकरणे “समाहितः
समाधिस्थेऽप्युक्तसिद्धान्त आहित” मेदि० उक्तेः च सिद्धान्तो-
क्त्या दोषसमाधाने । सम्यक्चित्तस्य ईश्वरादौ संस्थापने
समाधिः । “अथ चित्तं समाधातुं न शक्नोषि मयि
स्थिरम्” गीता । सम्यगारोपणे “सोऽहं भारं
समाधास्ये त्वयि त्वं बोदुमर्हसि” मा० द्रो० ११ अ० ।
“तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः” रघुः ।
  • आविस् + आविर्भवने प्रकाशने “आविर्हितस्त्वनुयुगं स हि
सत्यवत्याम्” भाग० २ । ७ । ३ ।
  • उप + सामीप्येन स्थापने उपलक्षणतया स्थापने च । “क्रिया
हि वस्तूपहिता प्रसीदति” रघुः । “एतदुपहितचैतन्यम्”
येदा० सा० । “यदिन्द्रियैस्तूपहितं पुरस्तात् प्राप्तान् गुणान्
न स्वरते चिराय” भा० शा० ७४१७ श्लो० । छलने
स्वरूपप्रच्छादने उपधयश्छद्मकैतवमित्यमरीक्तेः ।
  • तिरस् + अन्तर्द्धाने प्रच्छादने । “इति वाहृत्य विबुधान् विश्व-
योनिस्तिरोदधे” कुमा० ।
  • नि + स्थापने अज्ञातस्वामिकतया द्रव्यस्य स्थितौ स्थापने च “अनि-
धायैव तद्द्रव्यमाचन्तः शुचितामियात्” मनुः । “शिरसि
निदधानोऽञ्जलिपुटम्” सा० द० । “अलं प्रयत्नेन वा तत्र मा
निधाः पदं पदव्यां सगरस्य सन्ततेः” रघुः । “यस्तु पश्ये-
न्निधिं राजा पुराणं निहितं क्षितौ” मनुः ।
  • प्र + नि + ऐकाग्र्येण मनसः स्थापने । “ईश्वरप्रणिधानाद्वा”
पात० सू० । “प्रणिधानं भक्तिविशेषः” भा० । प्रेरणे च
“नीधिं प्रति प्रणिहिते तु करे प्रिथेण” सा० द० ।
मनोऽभिवेशने च “किष्किन्ध्याद्रिगुहां गन्तुं मनः प्रणिदधे
द्रुतम्” भट्टिः ।
  • प्रति + नि + तुल्यरूपतया करणादौ प्रतिनिधिः । “द्रव्ये-
ऽविद्यमाने यत् सामात्यतमं मन्येत तत्प्रतिनिदध्यात्”
सा० श्रौ० ३ । २० । ९ प्रतिनिधिशब्दे दृश्यम् ।
  • सम् + नि + सम्यग्निधाने । “मेघेषूर्द्ध्वं सन्निधत्ते प्राणानां
पवनः पतिः । तच्च मेघगतं वारि शक्रो वर्षति भारत ।”
भा० अमु० ६ त० । “दूरादाहृत्य समिधः संनिदध्याद्वि-
हायसि” मनुः । नैकट्येन सम्बन्धे “समवेशं न कुर्वीत
नोच्चैः सन्निहितो हसेत्” भा० वि० ४ अ० । “गुरो
र्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्” मनुः । “अस्मिन्
लतामण्डपे सन्निहितया त्वया भाव्यम्” शकु० ।
“भगवान् हरिरद्यापि तत्रत्यानां निजजननां वात्सल्येन
सन्निधाप्यत इच्छारूपेण” भाग० ५ । ७ । ८ । नैकट्येन
स्थापने तु सक० । “स चाहं सहसख्या धनमित्रेण तत्र
संन्यधिषि” दशकुमा० ।
  • परि + वेष्टने आच्छादने । “यं परिधिं पर्य्यधात्” यज०
२ । १७ । “येनेन्द्रस्य वृहस्पतिर्वासः पर्य्यधात्” पञ्चभी०
२ । २ “वासश्च परिधावैकम्” भा० वि० ९ अ० । “परि-
हिते प्रातरनुवाके” आ० श्रौ० ६ । ९ । १ । “दृष्टिं परिदधे
कृष्णे रौहिणेये च दारुणाम्” हरिवं० ७ । अ० ।
पृष्ठ ३८६९
  • वि + परि + परिवर्त्तनेन आच्छादने । “आचान्तः पुनराचामेत्
वासो विपरिधाय च” याज्ञ० ।
  • पुरस् + अग्रतः स्थापने । पुरोहितः । “तुरासाहं पुरोधाय
धाम स्वायम्भुवं ययुः” कुमा० ।
  • प्र + प्रकर्षेण धारणे । “दिशश्चतस्रः सहसा प्रधापिताः”
भाग० २० अ० । प्रधानम् ।
  • प्रति + प्रक्षेपे “तदग्ने चक्षुः प्रतिधेहि रेभे” ऋ० १० । ८७ । १२ ।
प्रतीकारार्थे विधाने “दुष्टदैवतनाशाय वज्रो ध्यान
समाधिना । सर्वत्राक्षतविक्षेपात् शान्तिकं प्रतिधास्यति”
शतरुद्र० प्रतिविधाने ।
  • वि + करणे “तस्य तस्याचलां श्रद्धां तामेब विदधाम्यहम्” गीता ।
“विदधाति विभज्येह फलं पूर्वकृतं नृणाम्” भा० व०
यच्चान्यदपि कर्त्तव्यं तद्विधत्स्व महामते” स० ७६ अ० ।
कर्त्तव्यतयोपदेशे “यज्ञशिष्टाशनं ह्येतत् मतामन्नं
विधीयते” मनुः । “चिकीर्षाकृतिसाध्यत्वहेतुधीविषयो विधिः”
शब्द० श० विधिशब्दे दृश्यम् । “न पैतृयाज्ञियो होमो
लौकिकेऽग्नौ विधीयते” मनुः ।
  • अनु + वि + तुल्यरूपावरणे पश्चात्करणे च । “आनुपूर्व्येण ह
विषां दैवत उच्चैरुपांशुतायां चाध्वर्युमनुविदधीत”
सांख्य० श्रौ० १३१ । ३ “वृत्तिं च तेभ्योऽनुविधाय काञ्चित्”
भा० उ० ३६ अ० । “उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ।
करोति कुर्वतः कर्म छायेवानुविधीयते” भा० शा० १८१ ।
“इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते” गीता ।
  • प्रति + वि + प्रतिरूपाचरणे “क्षिप्रमस्मिन्नरव्याघ्र चारः प्रति-
विधीयताम्” रामा० सुन्द० प्रतीकारे च “क्षिप्रमेव कस्मान्न
प्रतिविहितमार्य्येण” मुद्रारा० चन्द्रगुप्तोक्तिः “न पारितं
प्रतिविधा तुम्” तत्रैव चाणक्योक्तिः ।
  • त्रद् + आदरे विश्वासे च । “श्रद्दधाति क इवेह न साक्षात्” नैष० ।
  • सम् + सम्यग्विधाने योजने श्लेषणे अभिसन्धौ । “मनस्येतानि
सन्घाय मनसा सम्प्रधारयेत्” भा० आश्व० ४२ अ० ।
“यथा सूच्या वासः संदध्यात्” ऐ० व्रा० ८३ । ४८ ।
“धनुष्यमोधं समधत्त सायकम्” कुमा० । “संदधे धनुषि
वायुदैवतम्” रघुः । “भवति कृतसन्धानमिव तत्”
शकु० । मेलने “सकृद्दुष्टं यो हि मित्रं पुनः सन्धातु-
मिच्छति” चाणक्यः ।
  • ग्रति + सम् + अतिशयेन शक्त्यादिना व्यथने संयोजने । “त्वया
चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजन-
सार्थः” शकु० ।
  • अनु + सम् + अनुसन्धाने विचारजन्यज्ञानभेदे अनुचिन्तने
“आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्के-
णानुसन्धत्ते स धर्मं वेद नेतरः” मनुः । अन्वेषणे च
“दुर्गमनुसन्धेहि” हितो० ।
  • अभि + सम् + तात्पर्य्ये अभिलाषभेदे । “अभिसन्धाय तु फलं
दम्मार्थमपि चैव यत्” गीता । “भवन्तमभिसन्धाय
जिघांसन्ति भवत् प्रियम्” भा० शा० ३१०५ श्लो० । “श्राद्धानि
चैव कुर्वन्ति फलकामाः सदा नराः । अभिसन्धाय
पितरं पितुश्च पितरं तथा” हरिवं० १६ अ० “गूढ़ाभिसन्धिः
शङ्कते” जगदीशः । “अभिसन्ध्यादिषु चैवम्” शा० सू० ।
  • प्रति + सम् + प्रतिरूपसन्धाने । “प्रतिसन्धाय चास्त्राणि तेऽन्यो-
न्यस्य विशाभ्पते! । मुमुचुः पाण्डवाश्चैव कौरवाश्च
महामृधे” भा० भी० ७५ अ० । “पश्यतः प्रतिसन्धाय
विध्यतः सव्यसाचिनः” भा० वि० ६१ अ० ।

धाक त्रि० धा--उणा० क तस्य नेत्त्वम् । १ धारके २ ब्रह्मणि पु०

मेदि० । ३ वृषे ४ आहारे च ५ अन्ने ६ स्तम्भे च संक्षिप्त
सा० उणादिवृत्तिः ।

धा(घा)टी स्त्री धट्यते हिंस्यतेऽत्र धट--हिंसायां आधारे

अव् गौरा० ङीष् पृषो० धस्य धः घाटी वा तत्र
पाठः । अभ्यवस्कन्दने शत्रुसम्मुखगमने हेमच० ।

धाणक पु० धा--आणक । दीनारभागे परिमाणभेदे ।

उज्जलद० ।

धातक पु० धातुं करोति णिच् टिलोपः ण्वुल् । पुष्कर-

द्वीपस्यापतेः वीतहोत्रस्य १ पुत्रभेदे “तद्द्वीपस्याधिपतिः ।
प्रैयब्रतो वीतिहोत्री नाम तस्यात्मजौ रमणधातक-
नामानौ वर्षपती नियुज्य” भाग० ५ । २० । २२ । गौरा०
ङीष् । (धाइफुल) २ धातुपुष्प्याम् राजनि० । “धातकी
कटुका शीता मदकृत् तुवरा लघुः । तृष्णातीसारपित्तास्य
विषक्रमिविसर्यजित्” भावप्र० तद्गुणाः । ३ तीर्थभेदे शिवपु० ।

धातक्यादिलेह चक्रदत्तोक्ते लेहभेदे “धातकीबिल्वधन्या-

कलोध्रेन्द्रयवबालकैः । लेहः क्षौद्रेण बालानां ज्वरा-
तीसारवान्तिजित्” चक्र० ।

धातु पु० धीयते सर्वं निःक्षिप्यते सुषुप्त्यादावस्मिन् धा--आधारे

तुन् । १ परमात्मनि । “स एष चिद्धातुः” श्रुतिः । दधाति
शब्दान् । २ सर्वेषां नाम्नां प्रकृतिभूते भूप्रभृतौ तस्य
लक्षणविभागादिकं शवलर्थरत्नेऽस्माभिर्दर्शितं यथा
“धातुर्नान क्रियावाचकोगणादिपठितः शब्दविशेषः
क्रिया च पूर्वोक्तफलानुकूलो व्यापार एव सर्वेषाञ्च कार-
पृष्ठ ३८७०
काणामन्वयोपपत्तये कालान्वयोपपत्तये च धातूनां
क्रियावाचकत्वाङ्गीकारात् । तथाहि । “क्रियाभेदाय
कालस्तु संख्या सर्वस्य भेदिकेति” वाक्यपदीये कालानां
क्रियाभेदकत्वमुक्तमुक्तञ्च तेनैव “क्रिया नियतसाधना”
इत्यादिना साधनानां क्रियाकाङ्क्षित्वं तत्र यदि धातुभिः
क्रिया न बोध्येत क्व तदा तेषामन्वयो विशेषणत्वं
वा भवेदतीऽवश्यं सर्वेषां क्रियावाचकत्वं स्वीकार्यं
धातूनां फलमात्रवाचकत्वे आख्यातानां व्यापारार्थकत्वे
कृदादिस्थले आख्याताभावेन कारकाद्यन्वयानुपपत्तेः
नापि क्रियामात्रवाचकत्वं त्यजिगम्योः पर्य्यायतापत्तेः ।
तथाच फलवाचकत्वस्य तेषां प्रायशोगणपाठे एव उक्त-
त्वात् न तदंशे विवादः । किञ्च फलावच्छिन्नक्रियायाः
पृथक्शक्त्या विशिष्टशक्त्या वा धात्वर्थत्वाभावे सकर्म-
काकर्मकविभागोच्छेदः स्यात् स्याच्च फलमात्रधात्वर्थत्वे
सर्वेषां कारकाणां तत्रानन्वयः तत्रैव कालान्वयोपगमे
च व्यापारविगमकालेऽपि फलसत्त्वेन वर्त्तमानत्वादिप्रयो-
गापत्तिः । अतोऽवश्यं क्रियावाचकत्वं स्वीकार्यमतएव
“धातोरर्थः क्रियोच्यते” इत्यनेन धात्वर्थत्वेनैव क्रिया-
त्वस्वीकारः । अतएव च “भूवादयोधातवः” इतिषाणि-
नीयसूत्रमपि क्रियावाचकत्वं धातुमात्राणां प्रतिपाद
यति । तथाहि मूश्च वा च भूवौ आदिश्चादिश्चादी
भूवौ आदी येषां ते धातवैति तथा चात्र प्रथम आदि
शब्दोव्यवस्थावाची भुवा सह तदन्वयात् भूप्रभृतयैत्यर्थ-
लाभः द्वितीयआदिशब्दः सादृश्यवाची वाधातुना
तदन्वयस्तेन वासदृशा इत्यर्थलाभः तत्सादृश्यञ्च क्रिया-
वाचित्वेन बाधातीर्गथर्थतया क्रियावाचित्वप्रसिद्धेस्तथा
च मूप्रभूतयः क्रियावाचित्वेन वासदृशा धातव इत्येव
फलितम् । भुवश्चादित्वं गणपाठापेक्षया तस्य च
क्रियावाचकत्वं पूर्वोक्तयुक्तेरिति संक्षेपः । अत्र क्रिया-
वाचित्वानुक्तौ गणपठितत्वेन सर्वनामाव्ययादीनामपि
धातुत्वापत्तिः तन्मात्रोक्तौ च हिरुगाद्यव्ययानां क्रिया-
वाचित्वेन धातुत्वापत्तिरत उभयमुक्तम् । उक्तञ्च
“किञ्च क्रियावाचकतां विना धातुत्वमेव नो । सर्व-
नामाव्ययादीनां यावादीनां प्रसङ्गतः । न हि तत्पाठ-
मात्रेण युक्तमित्याकरे स्फुटमिति” । तत्पाठः गणपाठः ।
विदि अवयवे गड़ि वदनैकदेशे इत्यादिद्रव्यवाचिनामपि
तत्साधनक्रियावाचित्वमस्त्येव कालकारकाद्यन्वयानुरो-
धात् तत्फलस्य द्रव्यरूपत्वेऽपि न क्षतिः । गणादीत्या-
दिपदेन सूत्रसंज्ञासूत्रग्रहणं तेन स्मैत्राणां स्कत्भुप्रमृ-
तीनां सनादयोधातव इत्यादीनाञ्च प्रत्ययान्तानां धातु-
त्वमव्याहतमेव दर्शितयुक्तेः तत्रापि क्रियावाचित्वादे-
रवश्यं स्वीकाराच्च नाप्रसङ्गैति दिक् ।
ते च सर्वेऽपि धातवः सकर्मकाकर्मकभेदेन द्विविधाः ।
तत्र व्यापाराधिकरणमात्रावृत्तिफलवाचकः सकर्मकः
पच्यादेः व्यापाराधिकरणावृत्तिविक्लित्तिरूपफलस्य बोधक-
तया सकर्मकत्वं कर्त्तृकर्मोभयनिष्ठफलवीधकस्यापि गम्यादेः
व्यापाराधिकरणम्भत्रावृत्तिफलवोधकतया सकर्मकत्वम् ।
भूप्रमृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधकतया
न सकर्मकत्वं फलस्य सक्षायास्तत्सम्बन्धरूपव्यापारस्यैक-
स्मिन्नेव धर्मिणि बटादौ सत्त्वात् । उक्तञ्च वाक्यपदीये
“आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्धर्भा-
वाच्च तेनासौ कर्मणा न सकर्मकः” इति । अस्यायमर्थः
आत्मानं स्वरूपं विभ्रत् आत्मधारणानुकूलव्यापाराश्रयः
अस्तीतिपदेन समानाधिकरणतया व्यपदिश्यते तदभेद-
बोधनाय तिङादिकं प्रयुज्यते इति यावत् तेनात्मनात्म-
रूपेण कर्मणा धारणकर्मणा धातुः न सकर्मकः । अत्र
हेतुरन्तर्भावात् धात्वर्थ एव तस्य कर्मणः प्रवेशात् आत्म-
धारणानुकूलव्यापाररूपधात्वर्थेनात्मनौपसंग्रहादित्यर्थः ।
अथ वा अन्यरेव व्यापाराधिकरण एव भावात् फलस्य
सत्त्वात् व्यापारसामानाधिकरण्यादित्यर्थः तेन भुवादे-
रुत्पत्त्यनुकूवव्यापारवाचितया धात्वर्थोपसंगृहीतकर्मक-
त्वाभावेऽपि फलसमानाधिकरणव्यापारवाचित्वादकर्मक-
त्वम् । अतएव “फलव्यापारयोरेकनिष्ठतायामकर्मकः ।
धातु स्तयोर्धर्मिभेदे सकर्मकौदाहृत” इति फलसामाना-
धिकरण्यादिकृताकर्मकसकर्मकविभागोऽभिहितः ।
एकनिष्ठतायामेकमात्रवृत्तितायामित्यर्थः तेन गम्यादेर्व्यापा-
राधिकरणवृत्तिफलवाचित्वेऽपि नाकर्मकत्वमिति धर्मि-
भेदेऽधिकरणान्यत्वे इत्यर्थः । एवमेव शब्दकौस्तुभ
कारादयः । एतन्मते सकर्मकाकर्मकशब्दौ पारिभाषि-
काविति द्रअव्यम् । मञ्जूषाकृतस्तु “कर्मणा सहेति
नास्ति कर्म यस्मेति व्युत्पक्ष्या सकर्मकाकर्मकशब्दौ
योगिकौ तत्र साहित्यं तदन्वितस्वार्थबोधकत्वम् अन्वयश्र
पृथक्पदोपस्थाप्ययोः सम्बन्धरूपोग्राह्यस्तेन जीवत्या-
दीनां प्राणधारणानुकूनव्यापारार्थकतया तत्कर्मणः
प्राणादेर्धात्वर्थमध्यपातात् न सकर्मकत्वं धात्वर्थोप-
गृहीतकर्मकत्वेनाकर्मकत्वात् । कर्म च व्याकरणशा-
पृष्ठ ३८७१
स्त्रीयपारिभाषासिद्धकर्मसंज्ञाविशिष्टमुच्यते तेनाधिशय्यते
प्रासादैत्यादौ कर्मणि लकारोपपत्तिः अधिशेतेः कर्म
संज्ञाविशिष्टान्वितस्वार्थबोधकत्वात् अन्यथा पूर्वमते तस्य
फलसमानाधिकरणव्यापारवोधकतयाऽकर्मकत्वेन “माने
चाकर्मकेभ्यः” इति भाव एव लकारापत्तेः । भवति च
ग्रामं गच्छतीत्यादौ गम्यादिः ईप्सिततमत्वेन कर्म
संख्याविशिष्टेन पृथग्भूतेन ग्रामेणान्वितं स्वार्थं बोधयन्
सकर्नकः, अधिवसतिस्तु अधिकरणत्वेन कर्मसंज्ञा
विशिष्टेनेति विवेकः” इति प्राहुः । युक्तञ्चैतत् धात्वर्थोप-
गृहोतकर्मकाणां व्यापारव्यधिकरणफलवाचितया पूर्व-
कल्पे सकर्मकत्वापत्तेः तत्तद्भिन्नत्वेन निवेशे नौरचं
तथा कर्मणोऽविवक्षायां गम्यादेरपि अकर्मकत्वस्वीका-
रेघ अविवक्षाविशिष्टत्वेन निवेशे गौरवञ्च । एतन्मते तु
कर्माभावादेव तदन्वितस्वार्थबोधकत्वाभावान्नाकर्मकत्व-
हानिरिति सूक्ष्ममीक्षणीयम् । अत्र पक्षे अकर्मकस्तु
तदनन्विवस्वार्थवोधक इति वोध्यम् ।
सकर्मकाश्च द्विविधाः एककर्मका द्विकर्मकाश्च ।
एककर्मान्वितस्वार्थबोधकाः गम्यादयः एककर्मकाः । द्विकर्म
काअपि द्विविधाः द्विकर्मान्वितैकव्यापारर्थकाः द्विकर्मा-
न्वितद्विव्यापारार्थकाश्च । तत्राद्या दुह्यादयः । न च
ते सिद्धान्ते द्विव्यापारार्थकाः तथात्वे ईप्सिततमाभ्या-
मेव कर्मभ्यां व्यापारद्वयेऽन्वयसम्भवेन द्वितीयाद्युत्पत्तौ
“अकथितञ्चेति” सूत्रेण दुह्यादीनां कारकान्तरसंज्ञाना-
पन्नस्याकथितस्य कर्मसंज्ञाविधानानौचित्यात् । दर्शयि-
व्यते च दुह्यादीनामेकव्यापारार्थकता । यदा पुन स्तेषां
द्विव्यापारार्थकता विवक्षिता तदा ईप्सिततमसूत्रेणैव
कर्मसंज्ञायां जातायां द्विकर्सान्वितद्विव्यापारार्थका एव ते
णिजन्तादिबदिति बोध्यम् । द्विकर्मान्वितद्विव्यापारार्थकाश्च
भिजन्ताः तत्र च धातुना एकत्यापारोऽभिधीयते द्वितो-
यखु णिचा, तद्व्यापारद्वये च ईप्सितकर्मणः प्रयोज्य-
कर्तृरूपकर्मणश्च यथाक्रममन्वतः । तथात्वञ्च गम्या-
दीनामिति बोध्यम् । पाच्यादीनां तु नैवं, तद्योगे
प्रयोज्यकर्त्तुः कर्मसंज्ञाभावेन व्यापारद्वये कर्मद्वयान्वया-
भावात् । नाव पाच्यादेः क्रियाफसाश्रयत्वेनोद्देश्यतया
प्रयोज्यकर्त्तुः कर्मसंज्ञा भवितुचर्हति गन्तादिशाप्तुयोगे-
एव तन्नियमात् । उक्तञ्च हरिका “सुखक्रियायां
स्वातन्त्र्यं प्रधाने कर्मतां गतम् । नियमात् कर्म-
संज्ञायाः स्वधर्मेणाभिधीयते” इति सिवमात् ततिबुद्ध्या-
दिसूत्रेण तदितरेषां निषेधात् स्वातन्त्र्यं कर्तृत्वमेव
स्वधर्मेण तृतीययाऽभिधीयते इति तदर्थः । वस्तुतस्तु
प्रयोज्यकर्त्तुरीप्सिततमत्वेऽपि परत्वात् कर्तृसंज्ञया
तस्य वाधात् कर्मत्वाप्रसक्तौ गत्यादिसूत्रेण अप्राप्तप्राप-
कत्परूपविधित्वाश्रयेण गम्यादेः कर्मत्वं विहितं न
षाच्यादेरिति द्रष्टव्यम् । उक्तञ्च हरिणा “परत्वादन्तरङ्ग-
त्वादुपजीव्यतथाऽपि च । प्रयोज्यस्यास्तु कर्तृत्वं गत्या-
देर्विधितोचितेति” । परत्वात् “विप्रतिषेधे परं कार्यम्”
इत्युक्तेः “अपादानसम्प्रदानकरणाधारकर्मणाम् । कर्त्तु-
श्चोभयसम्राप्तौ परमेव प्रवर्त्तते” इति चोक्तेः “अन्तरङ्ग-
त्वात् पच्यादिरूपप्रकृत्याकाङ्क्षितकर्तृसंज्ञारूपकार्यम्
“अन्तरङ्गं बलोय” इति न्यायात् पाच्याद्याकाङ्क्षितकर्म-
संज्ञायाः प्रत्ययाश्रितत्वेन दुर्वलत्वादिति भावः ।
उपजीव्यतया उपजौव्यजातीयतया सर्वेषामेव कारकाणां
कर्तृप्रयोज्यत्वेन कर्क्षुरुपजीव्यजातीयत्वादिति
फलितोऽर्थः तेन पाच्याद्यापेक्षया तस्योपजीव्यत्वाभावेऽपि
न क्षतिः । एवं पाच्यादियोगे प्रयोज्यस्य कर्मसंज्ञाया-
एवाप्रवृत्तेः न द्विकर्मकत्वं तेष्ममित्यन्यत्र विस्तरः ।
अकर्मका अपि धातवः हेतुचतुष्टयाधीनाकर्मकक्रियार्थ-
त्वात् चतुर्विधाः । अकर्मकक्रियात्वे हेतवश्च चत्वारी
हरिणा प्रदर्शिता यथा “धात्रोरर्थान्तरे वृत्तेर्धात्वर्थेनोप-
संग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रियेति” ।
धातोः स्ववीधकधातोरर्थान्तरे स्वसजातीयभिन्ने वृत्तेः
सामर्थ्यात् स्वविजातीयार्थबोधकत्वादित्येकः । यथा
जानातिः ज्ञानं वदन् सकर्मकः प्रवृत्त्यादिकं बोधयन्न-
कर्मकः नतु गतिवाची गम्यादिः ज्ञानाद्यर्थेऽप्यकर्मकः
तयोर्द्वयोरप्यर्थयोः सकर्मकत्वेन स्वसजातीयत्वात् ।
धात्वर्थेनोपसंग्रहादिति द्वितीयः । कर्मणो धात्वर्थेन
उपसंग्रहात् स्वशरीरे प्रवेशनात् यथा जीवत्यादीनां
प्राणधारणानुकूलव्यापाररूपक्रियार्थतया तत्कर्मणः प्रा-
णादेर्धात्वर्थेएव प्रवेशः । प्रसिद्धेः सत्तालज्जादिरूपाणा-
मकर्मकत्वेन प्रसिद्धेः । सक्षादिकञ्चानुपदं प्रदर्श्यते
तेषां फलसमानाधिकरणव्यापारबोधकत्वादित्यथः ।
इति तृतोयो हेतुः । कर्मणोऽविवक्षातः अकर्मकः ४ ।
अत्र च कर्मपदं व्यपदेशिवद्भावेन फलस्याप्युपलक्षणं तेन
फलस्वाविवश्चायामेत्व गन्यादेरकर्मकत्वमिति कौस्तुभानु-
सारिणः तेषाञ्च व्यापारपात्रबोधकतया फलावाचित्वान्न
लकर्मकत्वमिति द्रष्टव्यम् । अत्र चाविवक्षा नाम येन
पृष्ठ ३८७२
रूपेणान्वयविवक्षया यस्य कर्मसंज्ञा तेन रूपेणान्वय-
विवक्षाभावः । तत्र क्वचित् कर्मणोऽविबक्षया यथा
पच्यते इत्यादौ, क्वचिच्च कर्मत्वाविवक्षया यथा मातुः
स्मर्यते इत्यादौ । अत्र मातुः कर्मत्वेनैव स्मरणान्वये
कर्मसंज्ञा न पुनः सम्बन्धत्वेन, तथा विवक्षायामेव कर्मणि
षष्ठीविधानात् स्मरणादेः कर्मान्वयसत्त्वेऽपि कर्मत्वेन
तदन्वयाभावादकर्मकत्वं तेन भावे लकारादय इति
बोध्यम् । क्वचित्तु कार्यप्रवृत्तिवेलायामविवक्षा पश्चाद्वि-
वक्षा । यथा कृतपूर्वी कटम् मुक्तपूर्वी ओदनमित्यादौ ।
तथाहि कृतं पूर्वमनेनेति विग्रहे तत्कृतमनेनेति
पूर्वसूत्रादिनिमबनुर्त्त्य सपूर्वाच्चेति सूत्रेण विद्यमान
पूर्वात् पूर्वशब्दादपि इनिर्विहितः तत्र यदि कृतमिति
कर्मणि क्तः स्यात्तदा तस्य कटादिरूपकर्मविशेषणतया
सापेक्षत्वेन समासादिवृत्तिर्न्न स्यात् एकत्र विशेषणत्वे-
नोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात् वृत्तिश्चात्र
जायते भाष्यादिषु तथाप्रयोगादतोऽवश्यं प्रथमं कर्मा-
विवक्षयाऽकर्मकत्वेन भावे क्तप्रत्यये विहिते तदन्तेन
पूर्वादिभिः सुप्सुपेति समासे च कृते तत्पूर्वकात् पूर्व-
शब्दात् कर्त्तरि इनिप्रत्ययोभवति । पश्चाच्च कर्त्तृकृत-
क्रियायाः कर्मविशेषाकाङ्क्षायां कटादिकर्मणोऽन्वयः ।
उक्तञ्च हरिणा “अकर्मत्वे सत्येव क्तान्ते भावाभि-
धायिनि । पश्चात् क्रियावता कर्त्रा योगो भवति कर्म-
णाम् । अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।
क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थितेति” । क्रिया-
वतेत्यनेन क्रियाद्वारैव कर्मणीऽन्वय इति द्योतितम् क्रिया-
याश्च वृत्तिशब्दैकदेशतयाऽनन्वयशङ्कायामाहाविग्रहेति ।
नास्ति विशेषेण ग्रहोज्ञानं यस्याः सा पृथगुपस्थित्य-
भावेन ज्ञातुमशक्येत्यर्थः गतादिस्था कर्त्तृबोधकनिष्ठा-
न्तगतपदोप्स्थाप्यगमनकर्त्तृरूपार्थप्रविष्टापि यथा ग्रामं
गतैत्यादौ विभिन्नपदोपात्तैरपि ग्रामादिकर्मभिः
क्रिया सम्बध्यते तथेत्यर्थः समुदायशक्तिस्वीकारे एक
देशान्वयाभ्युपगमादवयवशक्तिस्वीकारे तु तदनुपगमे
क्षत्यभाबादिति भावः । कृतपूर्व्यादिष्वित्यादिपदेनाध्वरे-
ष्विष्टीत्यादयोगृह्यन्ते तत्रापि इष्टादिभ्यश्चेत्यनेन कर्त्तरि
इनिविधानात् । अत्रेदं बोध्यं “निष्पत्तिमात्रे कर्त्तृत्वं
सर्वत्रैवास्ति कारके” इत्युक्तेः कर्मणोऽपि स्वव्यापार-
द्वारा क्रियानिष्पत्तिहेतुत्वेन कर्तृत्वे स्थिते तद्व्यापारस्य
धात्वर्थत्वविवक्षायां धात्वर्थक्रियाश्रयत्वेन तस्य कर्तृत्वं
समानानुपूर्वीकमुख्यार्थवोधकधातूपात्तफलाश्रयत्वेन च
कर्मत्वमित्येकस्यैव कर्मकर्तृता एवञ्च तत्र धातोरर्था-
न्तरे वृत्तेरेवाकर्मकत्वम् । तथाहि अन्नं पच्यते स्वयमेवे-
त्यादौ विक्लित्तिस्तदनुकूलोऽन्नस्थाल्यादिसंयोगरूपो
व्यापारश्च तद्विशिष्टो वा पच्यर्थः तयोः फलव्यापारयो-
रेकनिष्ठतया तद्वोधकधातोरकर्मकत्वं तेन अन्नेन पच्यते
खयमेवेत्यादी भावे लकारोपपत्तिः । द्विकर्मकाणान्तु
एककर्मणः कर्तृत्वविवक्षयाऽपरस्याविवक्षयैवाकर्मकत्वं
पचिदुह्योस्तु कर्मान्तरसत्त्वेऽपि कर्मवद्भावविधानात् सकर्म-
कत्वं तेन तयोर्न भावे लकारादयः किन्तु कर्मण्येव
तेन दुह्यते गवा दुग्धं स्वयमेवेत्यादि । एवञ्च सर्वेषामेव
धातूनां कर्मणः कर्तृत्वविवक्षायां कर्मवद्भावे प्राप्ते
धातुविशेषयोग एव कर्मवत्कार्य्यातिदेशपे न सर्व
धातुयोगे तेन गम्यादियोगे कर्त्तरि वाच्ये न कर्म-
वद्भावः किन्तु कर्तृवत्कार्थं, भावे तु इष्यते एव कर्म-
वत्कार्यम् । पच्यादियोगे तु कर्त्तरि भावे च वाच्ये कर्म-
वद्भाव इति विवेकः । उक्तञ्च “कर्मस्थेऽपि च धात्वर्थे
कर्मकर्त्ता च कर्मवत् । कर्तृस्थेऽपि च धात्वर्थे कर्म
कर्त्ता च कर्तृवदिति” । कर्मवत् कर्मवत्कार्यवानित्यर्थः
अतएव “कर्मवत् कर्मणा तुल्यक्रिये” इति सूत्रे कर्म-
पदेन कर्मस्थक्रिया लक्षिता शास्त्रकारैस्तेन कर्मस्थ-
क्रियातुल्यक्रियावति कर्त्तरि कर्मवत् कार्यमित्यर्थः
क्रिययोस्तुल्यत्वञ्च एकाधिकरणमात्रवृत्तित्वेन तथाच
कर्मस्थक्रियया फलेन व्यापारस्य सामानाधिकरण्ये
एव कर्मवद्भावविधानात् पच्यादेस्तथाभूतार्थकतया
तत्कर्त्तरि कर्मवत्कार्यं, गम्यादेस्तु व्यापारस्योक्तफलसामा-
नाधिकरण्याभावात् कर्त्तृस्थगावकत्वमिति विवेकः ।
तथा तुल्यक्रिये कर्तरीत्यमिधानेन गम्यादीनामपि भावे
कर्मवत्कार्यं यागादि भवत्योव । यद्यपि सर्वेषामेवाकर्म
काणां फलव्यापारयोः सामानाधिकरण्यबोधकतया
कर्मवद्भावापक्षिस्तथापि सूत्रे कर्मणा तुल्येति निर्देशात्
येषां धातूनां मुख्यार्यवाचिनां सकर्मकत्वं तेषामेव
कर्मवद्भाव इति गम्यते अस्त्यादेः सत्तादिरूपमुख्यार्थ
सकर्मकत्व । भावात् न तत्प्रसङ्गः । भवतेस्बु लाक्षणिका-
नुभवार्थे वर्त्तमानस्य सकर्मकत्वेऽपि सत्तारूपमुख्यार्थे
तथात्वाभावान्न प्रसङ्गः । एवञ्च सर्वेषामेव सकर्म-
काणां कर्त्तृकर्मोभयस्थभाचकावेनाव्यवस्थायां हरिणा
क्रियाकृतविशेषेण व्यवस्था दर्शिता यथा “विशेष-
पृष्ठ ३८७३
दर्शनं यत्र क्रिया तत्र व्यवस्थिता । शब्दप्रवृत्तिरन्येषां
शब्दैरेव प्रकल्पितेति” । यत्र कर्मणि कर्त्तरि वा विशेषः
क्रियाकृतोऽसाधारणधर्मो दृश्यते तत्रैव क्रिया व्यबस्थि-
तेत्यर्थः धात्वर्थयोः फलव्यापाररूपयोः क्रिययोरुभय-
निष्ठत्वेऽपि तत्कृतविशेषादेव तन्निष्ठत्वव्यवहार इति
भावः । विशेषश्च द्विविधः धातूपस्थाप्यः तदनुपस्था-
य्यश्च तत्राभ्यर्हितत्वेन उपस्थितत्वेन च धातूपात्तवि-
शेषस्यैव प्रथमं ग्रहणं तदप्राप्तौ तु अपरस्येति
बिवेकः । तेन पच्यादयः स्वोपस्थाप्यस्य कर्त्त्रपेक्षयाऽ-
साधारणधर्मस्य व्यापाररूपक्रियाकृतस्य विक्लित्तिरूष-
फलस्य बोधकाः कर्मस्थभावकाएव गम्यादयस्तु नैवं
तदुपस्थाप्यफलस्य संयोगादेरुतयनिष्ठतया साधारण्यात्
धातूपस्थाप्यविशेषासत्त्वात् धात्वनुपस्थाप्यस्य क्रियाकृतस्य
श्रमादिरूपासाधारणधर्मस्य ग्रहणं तस्य च कर्त्तरि
दर्शनात् कर्त्तृस्थत्वम् । एवञ्च कर्त्तृस्थादिविभाग
एतम्भते न्यायमूल एव । अन्येषां मते पुनः शब्दप्रवृत्तिः
कर्मवनुकार्य्यप्रवृत्तिः शब्दैरेव निथामकशास्त्रैरेव प्रकल्पि-
तेति द्रष्टव्यम् । तच्च शास्त्रं यथा “कर्मस्थः
पचतेर्भावः कर्मस्थाश्च भिदादयः । कर्त्तृस्थो बुद्ध्यतेर्भावः
कर्तृस्थाश्च गमादयः” इति कर्मस्थाः कर्मस्थक्रियार्थका
इत्यर्थः एवमग्रेऽपि । सम्प्रदायविदस्तु एतच्छास्त्रमपि
न्यायमूलकं पूर्वोक्तरीत्या एतेषां कर्मस्थत्वादिव्यवस्थाप-
नात् अन्यथा प्रातखिकरूपेण तद्गणनस्य कर्तुमशक्य-
तयाऽव्यवस्थापत्तेरित्याहुः । एवञ्च क्रियाकृतविशेषे-
णैव क्रियाव्यवस्थेति पक्षमलम्ब्य “निर्वर्त्त्ये च विकार्य्ये
च कर्मवद्भाव इष्यते । नतु प्राप्ये कर्मणि तु सिद्धान्तोऽयं
व्यवस्थितः” इत्यभियुक्तैर्व्यवस्था भङ्ग्यन्तरेण दर्शिता ।
तथा च निवर्त्त्यविकार्य्ययोरेव क्रियाकृतस्य उत्प्रत्त्यादि-
रूपस्य विशेषस्य सत्त्वात्, प्राप्ये तदसत्त्वाच्च तेषु कर्मव-
द्भावाभावौ बोध्यौ । “क्रियाकृतविशेषाणां सिद्धिर्यत्र ब
तिष्ठति” इत्यग्रिमप्राप्यकर्मलक्षणे प्राप्यस्य क्रियाकृतविशेषा-
भावकथनात् व्यतिरेकेण निर्वर्त्त्यविकार्ययोस्तत्सत्त्वमर्था-
यातमित्यलं विस्तरेण । सनन्तधातूनां धात्वर्थेच्छार्थ-
कत्वेन कर्तृस्थत्वेऽपि तत्प्रकृतीभूतधातोरेव कर्मस्थ-
कर्तृस्थभावकतया व्यवस्था तत्प्रकृतेरात्मनेपदादिना
तदन्तस्यात्मनेपदादिवदिति द्रष्टव्यम्’ बोघस्तु कर्मकर्तरि
कर्तरीव यथा ओदनः पच्यते स्वयमेवेत्यादौ ओदनाभि-
न्नैकाश्रयकबिक्लित्त्यनुकूलस्थाल्यादिसंयोगरूपोव्यापारः ।
अपरे तु कर्तुराश्रयांशे विशेषणत्ववत् व्युत्पत्तिवैचित्र्येण
फलेऽपि विशेषणत्वमङ्गीचक्रुरङ्गीचक्रुश्चात्र नामार्थधात्व-
र्थयोरपि साक्षादन्वयम् । वस्तुतस्तु तिङर्थाश्रयस्यैव व्युत्-
पत्तिवैचित्र्येणोभयत्रान्वय इति द्रष्टव्यम्, अकर्मकत्वेन
प्रसिद्धाः सत्ताद्यर्थका अभियुक्तैरन्यत्र संगृहीता यथा
“सत्ताजीवनदर्पभीतिशयनक्रीड़ानिवासक्षयाव्यक्तध्वान-
नभोगतिस्थितिजरालज्जाप्रमादोदये । मोहे खेटनवेग-
युद्धदहनख्यातिक्षरोन्मादके शुद्धिस्वेदपलायनभ्रमणके-
शान्तौ प्लुतौ मज्जने । दृप्तौ जागरशोषवक्रगमनोत्साहे
मृतौ गंशये म्लानौ मन्दगतौ च नृत्यपतने चेष्टा-
क्रुधौ रोदने । वृद्धौ हावकृतौ च सिद्धिविरतौ हर्षो-
पवेशे बले कम्पोद्वेगनिमेषभङ्गयतनार्थे धातवोऽकर्मकाः ।
दौर्बल्यादिषु चार्थेषु वर्त्तमानास्तु धातवः । वाचका
भावमात्रस्य यतस्तस्मादकर्मकाः । कौटिल्यादिषु चार्थेषु प्रोक्ता
ये ते तु धातवः । तद्वद्भावेऽकर्मकाः स्युस्तद्वत्कृत्यां
सकर्मकाः । क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः ।
प्रयोगतोऽन्ये मन्तव्या अनेकार्था हि धातवः” इति ।
३ आकाशादिमहाभूतेषु । ४ इन्द्रियेषु ५ शब्दाद्याकाशादि
गुणेषु । देहस्थेषु “रसासृङ्मांसमेदोऽस्थिमज्जा-
शुक्राणिं धातव इत्युक्तेषु ६ रसादिषु । ७ मनःशिला-
द्यश्मविकारे । ८ कफादौ अमरः । अत्राह सुश्रुतः ।
“ते धातबोऽपि विद्वद्भिर्गदिता देहधारणात् । विसर्गा-
दानविक्षेपैः सोमसूर्य्यानिला यथा । धारयन्ति जगद् देहं
कफपित्तानिलास्तथेति” । ९ अस्थ्नि । १० स्वर्णादौ तत्राष्टघातवो
यथा “हिरण्यं रजतं कांस्यं ताम्रं सीसकमेव च । रङ्ग-
मायसरैत्यञ्च धातवोऽष्टौ प्रकीर्त्तिता” इति दानसागरः ।
“सुवर्णं रजतं ताम्रं लौहं कुप्यञ्च पारदम् ।
रङ्गञ्च सीसकञ्चैव इत्यष्टौ देवसम्भवाः” इति वैद्यकम् ।
सप्त धातवो यथा । “स्वर्णं रूप्यञ्च ताम्रञ्च रङ्गं यसदमेव
च । सीसं लोहञ्च सप्तैते धातवो गिरिसम्भवाः” इति
भावप्र० । “बलीपलितखालित्यकार्श्यावल्यजरामयान् ।
निवार्य देहं दधति नृणां तद्धातवो यथा । “सुवर्णरूप्य
ताम्राणि हरितालमनःशिला । गैरिकाञ्जनकासीस-
सीसलोहाः सहिङ्गुलाः । गन्धकोऽभ्रकमित्याद्या
धानवो गिरिसम्भवाः” । नव धातवो यथा “हेम-
तारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् । कांस्यकं
कान्तलौहश्च धातबो नव कीर्त्तिताः” । माक्षिकं
तुत्थिकाभ्रे च नीलाञ्जनशिलाऽलकाः । रसकश्चेति
पृष्ठ ३८७४
विज्ञेया एते सप्तोपधातवः । शरीरस्थसप्तधातुभवस-
प्तोपधातवो यथा । “स्तन्यं रजश्च नारीणां काले
भवति गच्छति । शुद्धमांसभवस्नेहो यः सा सङ्की-
र्त्यते वसा । स्वेदोदन्तास्तथा केशास्तथैवौजश्च सप्तमम् ।
इति धातुभवाज्ञेया एते सप्तोपधातवः” इति
सुखबोधः । ११ लोकेषु १२ वस्तुनि शब्दार्थचि० ।
रसादेर्धातुवाच्यतायां निरुक्तिस्तत्कर्माणि च भावप्र०
उक्तानि यथा “एते सप्तखयं स्थित्वा देहं दधति यन्नृणाम् ।
रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । प्रीणनं
जीवनं लेपः स्नेहो धारणपूरणे । गर्भोत्पादश्च कर्माणि
धातूनां कथितानि च । रसादीनां धातूनां क्रमेण प्रीण-
नादिकर्माणीति बोध्यम् । एतेषाञ्च पूर्वपूर्बस्योत्तरोत्तर-
हेतुत्वं तच्च कायशब्दे १९०८ पृ० दर्शितम् । उपधातवः
तद्गुणाश्च भावप्र० अन्यथोक्ताः यथा
“सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम् । तुत्थं
कांस्यञ्च रीतिश्च सिन्दूरं च शिलाजतु । उपधातुषु
सर्वेषु तत्तद्धातुगुणा अपि । सन्ति किन्त्वेषु तेऽत्रोनास्तत्त-
दंशाल्पभावतः” । तत्र स्वर्णादिधातौ “दह्यन्तेध्मायमानानां
धातूनां हि यया मलाः” मनुः । उपधातवश्च
गौणधातवस्तेन तत्रापि धातुशब्दप्रवृत्तिः । अतएव
उपधात्वभिप्रायेण गैरिकादीनां धातुशब्दवाच्यता दृश्यते यथा
“न्यस्ताक्षरा धातुरसेन यत्र” “अकालसन्ध्यामिव धातु-
मत्ताम्” कुमा० । “वर्द्धयन्निव तत् कूटान् उद्धूतै-
र्धातुरेणुभिः” रघुः । “त्वामालिख्य प्रणथकुपितां धातु-
रागैः शिलायाम्” मेघ० । “अद्रीणामिव कूटानि धातु-
रक्तानि शेरते” मा० आ० १९ अ० । १३ देहादिधारके
आत्मनि “स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते ।
पञ्च धातून् स्वयं षष्ठः आदत्ते युगपत् प्रमुः” याज्ञ० ।
“पञ्च धातून् पृथिव्यादिपञ्चभूतानि शरीरारम्भक-
तया षष्ठश्चिद्धातुरात्मा प्रभुः शरीरारम्भकादृष्टकर्मयोगि-
तया समर्थः युगपदादत्ते भोगायतनत्वेन स्वीकरोति”
मिता० आकाशादौ “तदव्ययमनुद्रिक्तं सर्वव्यापि ध्रुवं
स्थिरम् । नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम्” भा०
आश्व० ३६ अ० । “भूतेषु धातवः पञ्च ब्रह्मा
तानसृजत् पुरा । आवृता यैरिमे लोकाः महाभूताभि-
संज्ञिताः” भा० शा० १८४ अ० । “अन्नमशितं त्रेधा
विधीयते तस्य यः स्थविष्टो धातुस्तत् पुरीषम्” छा० उप० ।
प्रभृतौ “धातोः स्थाने इवादेशं सुग्रीवं संन्यवेशयत्” ।
“अवेक्ष्य धातोर्गमनार्थमर्थवित्” रघुः । रसादौ “शरीर-
धातवो ह्यस्य मांसं रुधिरमेव च । नेशुर्ब्रह्मास्त्रनि-
र्दग्धाः न च भस्माप्यदृश्यत” भा० व० २८९ अ० ।
परमेश्वरे “अनादिनिधनो धाता विधाता धातुरुत्तमः”
विष्णुस० । धातुर्विरिञ्चेरुत्कृष्टः इति वा नामद्वयं
कार्य्यकरणात् प्रपञ्चधारणात् वा चिद्धातुः” भा० । “वायुं
पूर्वमथो सृष्ट्वा यो धातुर्धातुसत्तमः । धारणाद्धातुशब्दञ्च
लभते लोकसंज्ञितम्” हरिवं० २० अ० । केशाद्युष-
धातौ “काकपदमक्षिका केशधातुयुक्तानि शर्कराबिद्धम्”
वृ० सं० ८० अ० । १४ धारके । “अत्यं हविः सचते
सच्च धातु चारिष्टगातुः” ऋ० ५ । ४४ । ३ । “धातु सर्वधार-
कम्” भा० । १५ प्रकारे “त्रिधातवः परमा अस्य गावः” ऋ०
५ । ५० । ४ “त्रिधातुः प्रथयद्विभूम” त्रिधातुः त्रिप्रकारः” भा०

धातुकासीस न० धातुरूपं कासीसम् । कासीसे उपधातुभेदे

हेमच० ।

धातुकुशल त्रि० धातुषु कुशलः । १ धातुक्रियायां कुशले ।

२ देशभेदे च । ३ कूर्म्मविभागशब्दे दृश्यम् ।

धातुक्षय पु० धातूनां क्षयो यत्र । कासरोगभेदे ।

धातुघ्न त्रि० धातुं स्वर्णादि हन्ति हन--टक् । १ धातुनाशन

शीले २ काञ्चिके न० हेमच० । तस्य पारदादिधातुमारक-
त्वात् तथात्वम् ।

धातुद्रावक पु० धातुं द्रावयति द्रु--णिच्--ण्वुल् । धातु-

द्रुतिकारके (सोहागा) ख्याते पदार्थे पारस्करनि० ।

धातुनाशन त्रि० धातुं नाशयति नश--णिच् ल्यु । स्वर्ण्णादि

धातुमारके २ काञ्चिके न० त्रिका० ।

धातुप पु० धातुं पाति रक्षति पा--क । रसरूपे प्रथमधातौ

शब्दच० । “आरुह्य धमनीर्गत्वा धातून् सर्वानयं
रसः । पुष्णाति, तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः” भावप्र०
तस्य सर्वधातुपोषकत्वोक्तेस्तथात्वम् । “रसस्तु हृदयं
याति समानमरुतेरितः । स तु व्यानेन विक्षिप्तः
सर्वान् धातून् विवर्द्धयेत् । केदारेषु यथा कुल्याः पुष्णन्ति
विविधौषधीः । तथा कलेवरे धातून् सर्वान् बर्द्धयते
रसः” भावप्र० ।

धातुपाठ पु० धातूनां पाठो यत्र धातवः पठ्यन्तेऽत्र

आधारे घञ् वा । पाणिन्यादिप्रणीते धातूनामर्थाव-
बोधकग्रन्थभेदे । “धातुपाठः स्वदाद्यक्रमादन्तादिमक्रमः
“धातवः पठिताः पाठसूत्रलोकागभस्थिताः” इति च
कविकल्पद्रुमः । एवं पाणिनीयः भूसत्तायामित्यादिधातु-
पाठोज्ञेयः ।
पृष्ठ ३८७५

धातुपारायण पु० धातूनां पारायणं यत्र । धातुप्रति-

पादकग्रन्थभेदे ।

धातुपुष्पी स्त्री धातुरिव पुष्पं यस्या जातित्वात् ङीष् ।

(धाइफुल) ख्याते धातुपुष्प्यां भावप्र० । बहु० वा कप्
अत इत्त्वम् । धातुपुष्पिकाऽप्यत्र शब्दरत्ना० । धातकी-
शब्दे तद्गुणा दृश्याः ।

धातुभृत् पु० धातुं गैरिकादिकमुपधातुं बिभर्त्ति भृ--क्विप् तुक् ६ त० । पर्वते त्रिका० ।

धातुमल पु० ६ त० । धातूनां रसादीनां पाकतो जायमाने

केशादौ कफपित्तमलाः केशः प्रस्वेदो नखरोम च ।
नेत्रविट् चक्षुषः स्नेहो धातूनां क्रमशोमलाः” सुश्रुतः ।
शुक्रस्य तु मलोनास्ति यथाह भावप्र० ।
“स्वाग्निभिः पच्यमानेषु मलः षट्सु रसादिषु । षट्सु
धातुषु जायन्ते मलानि मुनयो जगुः । यथा सहस्रधा
ध्माते न मलं किल काञ्चने । तथा रसे मुहुः पक्वे
न मलं शुक्रताङ्गते” । “आहार्य्यस्य रसः सारः
सारहीनो मलद्रवः । सिराभिस्तज्जलं नीतं वस्तौ
मूत्रत्वमाप्नुयात्” भावप्र० । असृक्करशब्दे ५५९ पृ०
तत्पाकप्रकारो दृश्यः ।

धातुमाक्षिक न० धातुरुपधातुरूपं माक्षिकम् । माक्षिके

उषधातुभेदे राजनि० ।

धातुमारिणी धातुं मारयति मृ--णिच्--णिनि ६ न०

ङीप् । (सोहागा) सर्जिकायां शब्दच० ।

धातुराजक न० धातुषु राजते राज--ण्वुल् धातूनां

राजा टच्समा० स्वार्थे क वा । शुक्रे तस्य च
सर्वधातूनां चरमत्वात् तथात्वम् ।

धातुवल्लभ न० ६ त० । टङ्गणे राजवल्लभः ।

धातुवादिन् धातुं वदति उपायान्तरेण कर्त्तुम् । कारन्धमे

कौशलभेदात् रसायनादिना स्वर्णरौप्यादिकरे हारा०

धातुवैरिन् पु० ६ त० । गन्धके शब्दच० ।

धातुशेखर न० धातूनामुपधातूनां शेखरमिव । कासीसे

उपधातुभेदे हेमच० ।

धातूपल पु० धातुरुपधातुरूप उपलः । कठिनिकायां (खड़ि) हारा०

धातृ त्रि० धा--तृच् । १ धारके २ पोषके ३ ब्रह्मणि पु० अमरः

“सूर्य्याचन्द्रमसौ धाता यथापूर्वमकल्ययत्” सन्ध्यामन्त्रः
४ विष्णौ । “अनादिनिधनी धाता” विष्णुस० । धातुशब्दे
उदा० दृश्यम् । ५ आत्मनि ६ वायुभेदेऽनिसशब्दे १६६ पृ०
दृश्यम् । ७ आदित्यभेदे आदित्यशब्दे ६९५ पृ० दृश्यम् ।
तत्रादित्यभेदे “कौशल्या सुषुवे रामं धातारतदितिर्यथा”
रामा० वाल० ९३ अ० । ८ ब्रह्मणः पुत्रभेदे “द्वौ पुत्रौ
व्रह्मणस्त्वग्र्यौ ययोस्तिष्ठति लक्षणम् । लोके धाता विधाता
च यौ स्थितौ मनुना सह” भा० आ० ६६ अ० । ९ भृगु-
सुतभेदे “भृगुः ख्यात्यां महभागः पत्न्यां पुत्रानजीजनत् ।
धातारञ्च विधातारं श्रियञ्च भगवत्पराम्” भाग० ४ । १ । ३५
१० प्रजासर्गकारकेषु सप्तर्षिषु “सर्गशेषप्रणयनाद्विश्वयोनेरन-
न्तरम् । पुरातनाः पुराविद्भिः धातार इति कीर्त्तिताः”
कुमा० ।

धातृपुत्र पु० ६ त० । ब्रह्मणः पुत्रे सनत्कुमारे शब्दर० ।

धातृपुष्पी स्त्री धातृ पुष्टिकर्त्तृ पुष्पमस्याः ङीप् । (धाइफुल)

धातक्याम् अमरः । वा कप् अत इत्त्वम् । धातृपुष्पिका
तत्रार्थे अमरः ।

धात्र न० धीयतेऽन्नादिकमत्र धा--आधारे ष्ट्रल् । १ भाजने

उणादिवृत्तिः । धाता ब्रह्मा आदित्यो वा देवताऽस्य अण्
२ आदित्यदेवताके ३ ब्रह्मदेवताके च द्वादशकपालसंस्कृते
पुरोडाशादौ त्रि० । “स यः स धातासौ स आदित्यः ।
अथ यत्तद्दिशां परमं क्रान्तमेतत्तद्यस्मिन्नेष एतत् प्रतिष्ठित
स्तपति । स यः स धातायमेव स धात्रः द्वादशकपालः
पुरोडाशो द्वादशकपालो द्वादश मासाः संवत्सरः
संवत्सरः प्रजापतिः प्रजापतिर्धाता” शतब्र० ९ । ५ । १ ।
३८ । “अनुमतिराकासिनीवालीकुहूभ्यश्चरवो धात्रो
द्वादशकपालः सर्वहुतः” कात्या० श्रौ० १८ । ६ । २१ ।

धात्री स्त्री धीयते पीयते धेट--कर्मणि ष्ट्रन् धीयन्ते पुरुषार्था

अनया वा धा--करणे ष्ट्रन्, विश्वं वा दधाति ष्ट्रन् षित्त्वात्
ङीष् तृच् ङीप् वा । १ उपमातरि (धाइमा) ।
भावप्र० धात्रीलक्षणादि “पीताय (पानाय) यदि बालस्य
विदध्यादुपमातरम् । सुविचार्य्यगुणान् दोषान् कुर्य्याद्धात्रीं
ततेदृशीम् । सवर्णां मध्यवयसां सच्छीलां मुदितां सदा ।
शुद्धदुग्धाम्बहुक्षीरां सवत्सामतिवत्सलाम् । स्वाधीना-
मल्पसन्तुष्टां कुलीनां सज्जनात्मजाम् । कैतवेनापरि-
त्यक्तां निजपुत्रदृशं शिशौ । अथ निषिद्धां धात्रीमाह ।
शोकाकुला क्षुधार्त्ता च श्रान्ता ध्याधिमती सदा ।
अत्युच्चानितरां नीचा स्थूलातीव भृशंकृशा । गर्भिणी
ज्वरिणी चापि लम्बोन्नतपयोधरा । अजीर्णभोजिनी
चापि तथा पथ्यविवर्जिता । आसक्ता क्षुद्रकार्य्ये तु
दुःस्वार्त्ता चञ्चलापि च । एतासां स्तन्यपानेन शिशु-
र्भवति सामयः । अथ बालस्य स्तन्यपानविधिः । तत्र
माता प्रशस्ताङ्गी चारुवस्त्रा पुरोमुखी । उपविश्या-
पृष्ठ ३८७६
सने सम्यग्दक्षिणं स्तनमम्बुना । प्रक्षाल्येषत् परिस्राव्य
मन्त्राभ्यामभिमन्त्रितम् । उदङ्मुखं शिशुं क्रोड़े शनैः
सन्धार्य्य पाययेत् । मातेत्युपलक्षणं धात्री च ईषत्-
परिस्राव्य । अन्यथा वैगुण्यमाह सुश्रुतः । अस्रावितं
स्तनं बालः पिबन् स्तन्येन भूयसा । पूर्णस्रोता वमीकास-
श्वासैर्भवति पीड़ितः । अभिमन्त्रणमाह । क्षीरनोर-
निधिस्तेऽस्तु स्तनयोः क्षीरपूरकः । सदैव सुभगो बालो
भवत्येष महाबलः । पयोऽमृतसमं पीत्वा कुमारस्ते
शुभानने । दीर्घमायुरवाप्नोतु देवाः प्राप्यामृतं यथा ।
मन्त्रौ च पितृस्थानेन व्राह्मणेन पठनीयौ । यावत् मन्त्र
पाठस्ताबन्मात्रा धात्र्या वा दक्षिणहस्तेन स्पर्शः कार्य्यः”
“उवाच धात्र्या प्रथमोदितं वचः” रघुः । “धात्र्य-
ङ्गुलीभिः प्रतिसार्य्यमाणः” कुमा० । २ क्षितौ च तस्या
विश्वधारणात् । “मेखलेव स्थिता धात्र्या देवासुर-
विभागकृत्” सू० सि० । ३ धारणकत्त्र्यां स्त्रियां ।
३ आमलक्यां च मेदि० । तस्याः धारणादेः पुरुषार्थ-
साधनत्वात् तथात्वम् । आमलकीशब्दे ७६४ पृ० तद्गुणा
उक्ताः । तस्या उत्पत्तिर्माहात्म्यञ्च पाद्मोत्तरख० १२७
अ० उक्तं यथा “अथ क्षिप्तेभ्यो वीजेभ्यो वनस्पत्यः स्त्रियो-
ऽभवन् । धात्री च मालती चैव तुलसी च नृपोत्तम! ।
स्वधामवा स्मृता धात्री माभवा मालती तथा । गौरी-
भवा च तुलसी तमःसत्त्वरजोगुणा”
स्थानान्तरे तत्रैवतन्माहात्म्यं यथा
“शृणुष्व धात्रीमाहात्म्यं सर्वपापहरं शुभम् । यत्
पुरा हरिणा प्रोक्तं वशिष्ठं प्रति नारद! । धात्री वत्स!
नृणां धात्री मातृवत् कुरुते कृपाम् । दद्यादायुः पयः
पानात् स्नानाद्वै धर्मसञ्चयम् । अलक्ष्मीनाशनं सद्यो-
ऽप्यन्ते निर्वाणमेव च । विघ्नानि नैव जायन्ते धात्री-
स्नानेन वै नृणाम् । तस्मात् त्वं कुरु विप्रेन्द्र! धात्री-
स्नानं हि यत्नतः । प्रयास्यसि हरेर्धाम देवत्वं प्राप्य-
नारद! । यत्र यत्र मुनिश्रेष्ठ! धात्रीस्नानं समाचरेत् ।
तीर्थे वापि गृहे वापि तत्र तत्र श्रियः स्थिताः । धात्री-
स्नातानि दिवसे यस्यास्थीनि कलेवरे । प्रक्षालितानि
विप्रेन्द्र! न स स्याद्गर्भसम्भवः । धात्रीफलेन विप्रेन्द्र!
येषां केशाश्च रञ्जिताः । ते नराः केशवं यान्ति
नाशयित्वा कलेर्मलम् । धात्रीफलं महापुण्यं स्नाने पुण्य-
तरं स्मृतम् । पुण्यात् पुण्यतरं वत्स! भक्षणे मुनि-
पुङ्गव! । न गङ्गा न गया पुण्या न काशी न च
पुष्करम् । एकैव च यथा पुण्या धात्री माधववासरे ।
कार्त्तिके मासि विप्रेन्द्र! धात्रीस्नानं समाचरेत् । यश्च
तज्जलमश्नीयात् सोऽश्वमेधमवाप्नुयात् । धात्रीफलं
स्मरेद्यस्तु सदैव मुनिसत्तम! । प्राग्जन्मनि कृतात्
पापात् मुच्यते नात्र संशयः । संस्मरेद्यस्तु धात्रीं तामह-
न्यहनि मानवः । मुच्यते पातकैः सर्वैर्मनोवाक्वायस-
म्भवैः । धात्रीफलान्यमावास्यामष्टमीनबमौषु च ।
रविवारे च संक्रान्तौ संस्मरेन् मुनिपुङ्गव! । यस्य गेहे
मुनिश्रेष्ठ! धात्री तिष्ठति सर्वदा । तस्य गेहं
न गच्छन्ति प्रेतकुष्माण्डराक्षसाः । धात्रीस्नाने हरेर्नाम्नि
जागरे हरिवासरे । जन्मबन्धो विनश्येत हयमेधा-
युतं फलम् । स्नायादामलकैर्यस्तु कार्त्तिके हरिवत्सल! ।
परितोषं समायाति तस्य वै माधवः स्वयम् । धात्री-
च्छायां समासाद्य कुर्य्यात् श्राद्धन्तु यो मुने! । मुक्तिं
प्रयान्ति पितरः प्रसादात्तस्य वै हरेः । मूर्ध्नि पाणौ
मुखे कण्ठे देहे च मुनिसत्तम! । धत्ते धात्रीफलं यस्तु
स महात्मा स पुण्यभाक् । धात्रीफलविलिप्ताङ्गो
धात्रीफलविभूषितः । धात्रीफलकृताहारो नरो नारा-
यणो भवेत् । यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं
मुने! । प्रियो भवति विष्णोः स मनुष्याणाञ्च का कथा ।
धात्रीफलानि यो नित्यं वहते करसंपुटे । तस्य नारा-
यणो देवो वरमेकं प्रयच्छति । धात्रीफलं न मोक्तव्यं
कदाचित् करसंपुटात् । य इच्छेद्विपुलान् भोगानन्ते
यो मुक्तिमिच्छति । धात्रीफलकृतां मालां कण्ठस्थां
यो वहेन्न हि । स वैष्णवो न विज्ञेयो विष्णुभक्ति
परोऽपि च । न त्याज्या तुलसीमाला धात्रीमाला
विशेषतः । तथा रुद्राक्षमालापि धर्मकामार्थमिच्छता ।
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ।
तावन्मनसि हृत्स्थोऽपि सदा लुठति केशवः । यावद्दिनानि
वहते घात्रीमालां करे नरः । तावद्युगसहस्राणि
वैकुण्ठे वसतिर्भवेत् । सर्वदेवमयी धात्री वासुदेवमनः-
प्रिया । आरोपणीया सेव्या च सेचनीया सदा बुधैः ।
एतत्ते सर्वमाख्यातं धात्र्या महात्म्यमुत्तमम् । श्रोत-
व्यञ्च सदा सद्भिश्चतुर्वर्गफलदम्” अधिकमामलकीशब्दे
दृश्यम् । २ जनन्यां विश्वः । “पुनर्धात्रीं पुनर्गर्भमोजस्तस्य
प्रधायति” याज्ञ० ।

धात्रीपत्र न० धात्र्या इव पत्रमस्य । तालीशपत्रे राजनि० ६ त० । आमलक्याः पत्रे ।

धात्रीपुत्र पु० ६ त० । उपमातुः सुते हेमच० ।

पृष्ठ ३८७७

धात्रीफल न० ६ त० । आमलकीफले तस्य पाकविशेषगुणाः ।

“अङ्गारपाकमृदुयत्नसुपाचितानि सिन्धूत्थहिङ्गुमरिचादि-
समन्वितानि । तप्ते घृते पुनरपि प्रतिभर्जितानि धात्री-
फलानि जनयन्ति हि जाठराग्निम्” वैद्यके उक्ताः ।

धात्रेयी स्त्री धात्र्या अपत्यम् स्त्री स्वार्थे वा ढक् ङीप् ।

१ धात्र्याः स्त्र्यपत्ये २ धात्र्याञ्च । “दूत्यः सखी नटी
दासी धात्रेयी प्रतिवेशनी” सा० द० । स्वार्थे क तत्रार्थे ।
“अतश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्वीक्षते यदि । पठेद्धात्रे-
यिकावाक्यं प्राङमुखो वाप्युदङ्मुखः” ति० त० ।
धात्रेयिकावाक्यञ्च “सिंहः प्रसेनमबधीत् सिंहो जाम्बुवता
हतः । सुकुमारक! मा रोदीस्तव ह्येषस्यमन्तकः विष्णुपु०
“अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह । स्वान्तु
धात्रेयिकां तस्मै वृद्धाय प्राहिणोत् तथा” । “अवमत्य
ददौ मूढ़ा शूद्रां धात्रेयिकां मम” भा० आ० १०५ अ० ।

धात्र्यरिष्ट पु० “धात्रीफलसहस्रे द्वे पीड़यित्वा रसं भिषक् ।

क्षौद्राष्टभागं पिप्पल्याश्चूर्णार्द्धकुड़वान्वितम् । शर्करा-
र्द्धतुलोन्मिश्रं पक्वं स्निग्धपटे स्थितम् । प्रपिबेत्
पाण्डुरोगार्त्तो जीर्णे हितमिताशनः । कामलापाण्डु-
हृद्रोगवातासृग्विषमज्वरान् । कासहिक्काऽरुचिश्वासा-
नेषोऽरिष्टः प्रणाशयेत्” चक्रदत्तोक्ते थात्र्यारसपक्वे
रिष्टनाशके पदार्थे ।

धान न० धा--भावे ल्युट् । १ धारणे २ पोषणे च आधारे

ल्युट् । ३ धारणाधारे स्त्रियां ङीप् राजधानी मत्स्यधानी

धानक न० धन्याक + पृषो० । १ धन्याके राजनि० २ मानभेदे

पु० भावप्र० । “षड्भिस्तु रत्तिकाभिः स्यात् माषको
हेमधानकौ” । अत्र हेमधामकौ पाठान्तरम् ।

धाना स्त्री व० । धा--न टाप् । (वहुरी) ख्याते १ भृष्ट-

यवे अमरः । २ धन्याके ३ अभिनवोद्भिन्ने अङ्कुरे ४ चूर्ण-
मक्तुषु च मेदि० । “यवास्तु निस्तुषा भृष्टाः स्मृता धाना
इति स्त्रियाम् । धानाः स्युर्दुर्जरा रूक्षास्तृट्प्रदा
गुरवश्च ताः । तथा मेदःकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः”
राजनि० । “धाना मत्स्यान् पयोमांसं शाकञ्चैव न
निर्णुदेत्” मनुः । स्वार्थे क धानाका तत्रार्थे व० ब०
शब्दर० ।

धानाचूर्ण न० ६ त० । सक्तुषु ।

धानी स्त्री धा--आधारे ल्युट् ङीप् । १ आधारे राजधानी

२ पीलुवृक्षे स्त्री राजनि० । स्वार्थे क धानिका तत्रार्थे
“अङ्गारधानिका” अमरः ।

धानुर्दण्डिक पु० धनुर्दण्ड इव तेन जीवति वेतना० ठक् ।

धनुरुपजीविनि धानुष्के ।

धानुष्क पु० धनुःप्रहरणमस्य धनुषा जीवति वा वेतना०

ठक् इसुसुक्तान्तात् ठस्य कः । १ धनुषा युध्यमाने २ धनुषा
जीविनि च अमरः । “पारश्वधिकधानुष्कशाक्तीकप्रासि-
कान्वितौ” भट्टिः । धनुरिवावयवोऽस्य वा० ठक् । ३
अपामार्गे स्त्री शब्दच० ।

धानुष्य व० धनुषि साधुः बा० ञ्य । वंशे राजनि० ।

धानेय न० धानैव स्वार्थे ढक् । धन्याके राजनि० स्वार्थे क

धानेयक तत्रार्थे न० जटाधरः ।

धान्धा स्त्री (एलाइच) एलायां शब्दच०

धान्य न० धाने पोषणे साधु यत् । १ सतुषे(धान)ख्याते ब्री-

ह्यादौ “शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते”
स्मृतिः । धान्यवर्गः सगुणोऽभिहितो भावप्र० यथा
“शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम् ।
शिम्बीधान्यं क्षुद्रधान्यमित्युक्तं धान्यपञ्चकम् ।
शालयो रक्तशाल्याद्या व्रीहयः षष्ठिकादयः । यवादिकं
शूकधान्यं मुद्गाद्यं शिम्बिधान्यकम् । कङ्ग्वादिर्क
क्षुद्रधान्यं तृणधान्यञ्च तत् स्मृतम्” ।
तत्र शालिधान्यस्य लक्षणं गुणाश्च “कण्डनेन विना शुक्ला
हैमन्ताः “शालयः स्मृताः” । अथ शालीनां नामानि ।
रक्तशालिः सकलमः पाण्डुकः शकुनाहृतः । सुगन्धकः
कर्द्दमको महाशालिश्च दूषकः । पुष्पाण्डकः पुण्डरी-
कस्तथा महिषमस्तकः । दीर्घशूकः काञ्चनको हायनो
लोघ्रपुष्पकः । इत्याद्याः शालयः सन्ति बहवो बहुदे-
शजाः । ग्रन्थविस्तरभीतेस्ते समस्ता नात्र भाषिताः” ।
अथ तेषां गुणाः “शालयो मधुराः स्निग्धा बल्या
बद्धाल्पबर्च्चसः । कषाया लघवो रुच्याः स्वर्य्या वृष्याश्च
वृंहणाः । अल्पानिलकफाः शीताः पित्तघ्ना मूत्रला-
स्तथा । शालयो दग्धमृज्जाताः कषाया लघुपाकिनः ।
सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः । कैदारा
वातपित्तव्नाः गुरवः कफशुक्रलाः । कषाया अल्पवर्च्चस्का
मेध्याश्चैते बलावहाः” । कैदाराः कृष्टक्षेत्रजाः उप्ताः ।
“स्थलजाः स्वादवः पित्तकफघ्ना वातपित्तदाः । किञ्चि-
त्तिक्ताः कषायाश्च विपाके कटुका अपि । स्थलजाः
अकृष्टभूमिजाताः स्वयंजाता । बापिता मघुरा
वृष्या बल्याः पित्तप्रणाशताः । श्लेष्मलाश्चाल्पवर्च्चस्काः
कषाया गुरवो हिमाः” । वाप्रिताः कृष्टक्षेत्रे अकृष्टक्षेत्रे
पृष्ठ ३८७८
च । “वापितेभ्यो गुणैः किञ्चित् हीनाः प्रोक्ता
अवापिताः” । कृष्टक्षेत्रे अकृष्टक्षेत्रे वा । “रोपितास्तु
नवा वृष्याः पुराणा लघवः स्मृताः । तेभ्यस्तु रोपिता
भूयः शीघ्रपाका गुणाधिकाः । छिन्नरूढ़ाः हिमा
रूक्षा बल्याः पित्तकफापहाः । बद्धविष्ट्काः कषायाश्च
लघवश्चाल्पतिक्तकाः” ।
अय रक्तशालेर्गुणाः “रक्तशालिर्वरस्तेषु बल्यो वर्ण्य-
स्त्रिदोषजित् । चक्षुष्यो मूत्रलःस्वर्य्यः शुक्रलस्तृड्ज्व-
रापहः । विषव्रणश्वासकासदाहनुद्वह्निपुष्टिदः । तस्मा-
दल्पान्तरगुणाः शालयो महदादयः” । रक्तशालिः
(दाउदखानी) इति लोके मगधदेशे प्रसिद्धः ।
अथ व्रीहिधान्यस्य लक्षणं गुणाश्च । “वार्षिकाः
कण्डिताः शुक्ला व्रीहयश्चिरपाकिनः । कृष्णव्रीहिः
पाटलश्च कुक्कुटाण्डक इत्यपि । शालामुखो जतुसुख
इत्याद्याः व्रीहयः स्मृताः । कृष्णव्रीहिः स विज्ञेयो
यः कृष्णतुषतण्डुलः । पाटलः पाटलापुष्पवर्णको व्रीहि-
रुच्यते । कुक्कुटाण्डाकृतिर्व्रीहिः कुक्वटाण्डकौच्यते ।
शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते । लाक्षा-
वर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः । व्रीहयः
कथिताः पाके मधुरा वीर्य्यतो हिताः । अल्पाभि-
ष्यन्दिनो वद्धवर्च्चस्काः षष्टिकैः समाः । कृष्णब्रीहिर्वर-
स्तेषां तस्मादल्पगुणाः परे” ।
अथ षधिकानां लक्षणं गुणाश्च । “गर्भस्था एव ये पाकं
यान्ति ते षष्टिका मताः” । अथ षष्टिकानां नामानि ।
“षष्टिका शतपुष्पश्च प्रमोदकमुकुन्दकी । महाषष्टिक
इत्याद्याः षष्टिकाः समुदाहृताः । एतेऽपि व्रीहयः
प्रोक्ता व्रीहिलक्षणदर्शनात् । षष्टिका मधुराः शीता
लघवो बद्धवर्च्चसः । वातपित्तप्रशमनाः शालिभिः सदृशाः
गुणैः” ।
तत्र षष्टिकाया गुणाः । “षष्टिका प्रवरा तेषां
लध्वी स्निग्धा त्रिदोषजित् । स्वाद्वी मृद्वी ग्राहिणी
च बलदा ज्वरहारिणी । रक्तशालिगुणैस्तुल्या
ततः स्वल्पगुणाः परे । षष्टिका (षाठी) इति लोके ।
अथ शूकधान्यानि । तेषु यवाः प्रसिद्धाः । अतियवः
पोतशूकः कृष्णारुणवर्णो यवः । तोक्यो हरितो
निःशूकः स्वल्पो यवः यवेति प्रसिद्धः । तेषां नामानि
गुणाश्च । “यवस्तु पीतशूकः स्यान्निःशूकोऽतियवः
ऋतः । तोक्यस्तद्वत्सहरितस्ततः स्वल्पश्च कीर्त्तितः ।
यवः कषायो मधुरः शीतलो लेखनो मृदुः । व्रणेषु
तिलवत् पथ्यो रूक्षो मेधाग्निबर्द्धनः । कटुपाकोऽनभि-
ष्यन्दी स्वर्यो बलकरो गुरुः । बहुबातमलो वर्णस्थैर्य्य-
कारी च पिच्छिलः । कण्ठत्वगामयश्लेष्मपित्तमेदप्रणा-
शनः । पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् । अस्मा-
दतियवो न्यूनस्तोक्यो न्यूनतरस्ततः ।
अथ गोधूमस्य नामानि लक्षणं गुणाश्च । “गोधूमः
सुमनोऽपि स्यात् बिविधः स च र्कार्त्तितः । महागोधूम
इत्याख्यः पश्चाद्देशात् समागतः । महागोधूमः । (बड़गोहुम)
इति लोके । “मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा ।
निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखामिधः । गोधूमो
मधुरःशीतो बातपित्तहरो गुरुः । कफशुक्रप्रदो बल्यः
स्निग्धः सन्धानकृत् सरः । जीवनी वृंहणो वर्ण्यो
व्रण्यो रुच्यः स्थिरत्वकृत् । कफप्रदो नवीनो नतु
पुराणः । पुराणयवगोधूमक्षुद्रजाङ्गलशूलभागिति”
वाग्भटेन वसन्ते गृहीतत्वात् । “मधूली शीतला स्निग्धा
पित्तघ्नी मधुरा लधुः । शुक्रला वृंहणी पथ्या
तद्वम्मन्दीमुखः स्मृतः” ।
अथ शिम्बीधान्यानि तत्पर्य्यायानाह । “शमीजाः
शिम्बिजाः शिम्बीभवाः सूर्य्याश्च वैदलाः । तेषां गुणाः ।
“वैदलामधुरा रूक्षाः कषायाः कटुपाकिनः । वातलाः
कफपित्तघ्नबद्धमूत्रमला हिमाः । ऋते मुद्गमसूराभ्यामन्ये
त्वाध्मानकारिणः । मुद्गमसूरयोरनाध्मानकारित्वमन्यवै-
दलापेक्षया न तु सर्वथा एतयोरपि किञ्चिदाध्मानकारि-
त्वात् ।
तत्र मुद्गस्य गुणाः । “मुद्गो रूक्षो लघुर्ग्राही
कफपित्तहरोहिमः । स्वादुरल्पानिलो नेत्र्यो ज्वरघ्नो
वनजस्तथा । मुद्गो बहुविधः श्यामो हरितः पीतक-
स्तथा । श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः ।
सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः । चरकादि-
भिरप्युक्त एव एब गुणाधिकः ।
अथ माषः (उरद) । माषो गुरुः स्वादुपाकः स्निग्धो
रुच्योऽनिलापहः । स्रंसनस्तर्पणो बल्यः शुक्रलो
वृंहणः परः । भिन्नमूत्रमलस्तन्यो मेदःपित्तकफप्रदः ।
गुदकीलार्द्दितश्वासपङ्क्तिशूलानि नाशयेत् । कफपित्त-
करा माषा वृन्ताकं कफपित्तकृत्” ।
अथ राजमाषस्य (वरवटी) राजमाषो महामाषश्चपल
श्चबलः स्मृतः । राजमाषो गुरुःस्वादुस्तुवरस्तर्पणः
पृष्ठ ३८७९
सरः । रूक्षो वातकरो रुच्यः स्तन्यो भूरिबलप्रदः ।
श्वेतो रक्तस्तथा कृष्णस्त्रिविधः स प्रकीर्त्तितः । यो
महांस्तेषु भवति स एवोक्तो गुणाधिकः” ।
अथ निष्पावः । स तु राजशिम्बीवीजं (भेटवासु) इति
लोके । “निष्पाबो राजशिम्बिः स्याद् बल्लकः श्वेत-
शिम्बिकः । निष्पावो मधुरो रूक्षो विपाकेऽम्ली गुरुः
सरः । कषायःस्तन्यपित्तास्नमूत्रवातविबन्धकृत् । विदा-
ह्युष्णो विषश्लेष्मशोथहृच्छुक्रनाशनः” ।
अथ मकुष्ठः । मकुष्ठोवनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ ।
मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः । वह्नि-
जिन् मधुरः पाके कृमिकृज्ज्वरनाशनः” ।
अथ मसूरः । “मङ्गल्यको मसूरः स्यान्मङ्गल्या च
मसूरिका । मसूरो मधुरः पाके संग्राही शीतलो
लघुः । कफपित्तास्रजिद्रूक्षो वातलो ज्वरनाशनः ।
अथ आढकी (रहरी) । “आढ़की तुवरी चापि सा
प्रोक्ता शणपुष्पिका । आढ़की तुवरा रूक्षा मधुरा शीतला
लघुः । ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्” ।
अथ चणकः (छोला) । “चणको हरिमन्थः स्यात्
सकलप्रिय इत्यपि । चणकः शीतलो रूक्षः पित्त-
रक्तकफापहः । लघुः कषायो विष्टम्भी वातलो
ज्वरनाशनः । स चाङ्गारेण सम्भृष्टस्तैलभृष्टश्च
तद्गुणः । आर्द्रभृष्टो बलकरो रोचनश्च प्रकीर्त्तितः ।
शुष्कभृष्टोऽतिरूक्षश्च वातकुष्ठप्रकोपणः । स्विन्नः
पित्तकफं हन्यात् सूपः क्षोभकरो मतः । आर्द्रोऽति
कोमलो रुच्यः पित्तशुक्रहरो हिमः । कषायो वातलो
ग्राही कफपित्तहरो लघुः ।
कल्ययः (केराव) । कलायो वर्त्तुलः प्रोक्तः सतीनश्च
हरेणुकः । कलायो मधुरः स्वादुः पाके रूक्षश्च शीतलः ।
अथ त्रिपुटः (खेसारी) । त्रिपुटः खण्डिकोऽपि
स्यात् कथ्यन्ते तद्गुणा अथ । त्रिपुटो मधुरस्तिक्त
स्तुवरो रूक्षणो भृशम् । कफपित्तहरो रुच्यो ग्राहकः
शीतलस्तथा । किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः ।
अथ कुलत्थी । कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा
अथ । कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत् ।
लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान् । हन्ति
हिक्काश्मरीशुक्रदाहानाहान् सपीनसान् । स्वेदसंग्रा-
हको मेदोज्वरकृमिहरः परः ।
अथ तिलः । तिलः कृष्णः सितो रक्तः स वर्ण्योऽल्प-
तिलः स्मृतः । तिलो रसे कटुस्तिक्तो मधुरस्तुवरो
गुरुः । विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् ।
बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः ।
दन्त्योऽल्पमूत्रकृद् ग्राही वातघ्नोऽग्निमृतिप्रदः । कृष्णः
श्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः । अन्ये हीनतराः
प्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः ।
अथ अतसी (तिसि) । अतसी नीलपुष्पी च पार्वती
स्यादुमा क्षुमा । अतसी मधुरा तिक्ता स्निग्धा पाके
कटुर्गुरुः । उष्णासृक्शुक्रवातघ्नी कफपित्तविनाशिनी ।
अथ तुवरी (तोरी तोड़ीति) लोके । तुवरी ग्राहिणी
प्रोक्ता लघ्वी कफविषास्रजित् । तीक्ष्णोष्णा वह्निदा
कण्डूकुष्ठकोष्ठकृमिप्रणुत् ।
अथ सर्षप (रक्तसरीसो पिअरी सरीसो) । सर्षपः
कटुकः स्नेहस्तुन्दुभश्च कदम्बकः । गौरस्तु सर्षपः प्राज्ञैः
सिद्धार्थ इति कथ्यते । सर्षपस्तु रसे पाके कटुः स्निग्धः
सतिक्तकः । तीक्ष्णोष्णः कफवातघ्नोरक्तपित्ताग्निवर्द्धनः ।
रक्षोहरो जयेत् कण्डूं कुष्ठकोष्ठकृगिग्रहान् । यथा
रक्तस्तथा गौरः किन्तु गौरो वरो मतः ।
अथ राजी (कृष्णा राइ) । राजी तु राजिका तीक्ष्ण-
गन्धा कुञ्जनिकासुरी । क्षवः क्षवाभिजनकः कृमिकृत्
कृष्णसर्षपः । राजिका कफपित्तघ्नी तीक्ष्नोष्णा रक्तपित्त-
कृत् । किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोष्ठकृमीन् हरेत् ।
अतितीक्ष्णा विशेषेण तद्वत् कृष्णापि राजिका ।
अथ क्षुद्रधान्यम् । क्षुद्रधान्यं कुधान्यञ्च तृणधान्यमिति
स्मृतम् । क्षुद्रधान्यमनुष्णं स्यात् कषायं लघु लेखनम् ।
मधुरं कटुकं पाके रूक्षञ्च क्लेदशोषकम् । वातकृत्
बद्ध्वविट्कञ्च पित्तरक्तकफापहम् ।
तत्र कङ्गुः (काङ्नी) । स्त्रियां कङ्गुप्रियङ्गू द्वे कृष्णा
रक्ता सिता तथा । पीता चतुर्विधा कङ्गुस्तासाम्पीता
वरास्मृता । कङ्गुस्तु भग्नसन्धानवातकृत् वृंहणी गुरुः ।
रूक्षा श्लेष्महरातीव वाजिनां गुणकृद् भृशम् ।
अथ चीना । चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गु-
वद्गुणैः ।
अथ श्यामा । श्यामाकः शोषणो रूक्षो वातलः कफपित्तहृत् ।
अथ कोद्रवः । कोद्रवः कोरदूषः स्यादुद्दालो वनको-
द्रवः । कोद्रवो वातलो ग्राही हिमपित्तकफापहः ।
उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम् ।
अथ चारुकः (सरवीज) । चारुकः सरवीजः स्यात्
पृष्ठ ३८८०
कथ्यन्ते तद्गुणा अथ । चारुको मधुरो रूक्षो रक्तपित्त-
कफापहः । शीतलो लघुवृष्यश्च कषायो वातकोपनः ।
अथ वंशवीजम् । यवा वंशभवा रूक्षाः कषायाः
कटुपाकिनः । बद्धमूत्राः कफघ्नाश्च वातपित्तकराः सराः ।
अथ कुमुम्भवीजम् । कुसुम्भवीजं वरटा सैव प्रोक्ता
वरट्टिका । वरटा मधुरा स्निग्धा रक्तपित्तकफापहा ।
कषाया शीतला गुर्वीस्यादवृष्याऽनिलापहा ।
अथ गवेधुका (गरहेडुआ) । गवेधुका तु विद्वद्भिर्गवेधुः
कथिता स्त्रियाम् । गवेधुः कटुका स्वाद्वी कार्श्यकृत्
कफनाशिनी ।
अथ नीवारः । प्रसाधिका तु नीवारस्तृणधान्यमिति
स्मृतम् । नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ।
अथ (पुनेरा) । पवनालोहिमः स्वादुर्ल्लोहितः श्लेष्म-
पित्तजित् । अवृष्यस्तुवरो रूक्षः क्लेदकृत् कथितो लघुः ।
धान्यं सर्वं नवं स्वादु गुरु श्लेष्मकरं स्मृतम् ।
तत्तु वर्षोषितं पथ्यं यतो लघुतरं हितम् । वर्षोषितं
सर्वधान्यं गौरवं परिमुञ्चात । न तु त्यजति वीर्यं
स्वं क्रमान्मुञ्चत्यतः परम् । एतेषु यवगोधूमतिलमाषा
नवा हिताः । पुराणा विरसा रूक्षा न तथा
गुणकारिणः । पुराणा वर्षद्वयादुपरिस्थिताः । यवादयो
नवाः स्वस्थान् प्रति हिताः । पय्याशिनान्तु पुराणा
हिताः । “पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुगिति
वसन्ते वाग्भटेनोक्तत्वात्” ।
स्मार्त्तादिकर्मोपयोगिधान्यभेदाश्च हेमा० दा० उक्ता यथा
मार्क्कण्डेयपुराणे “जज्ञिरे तानि बीजानि ग्रा-
म्यारण्याभिधानि च । ओषध्यः फलपाकान्ताः सर्वे
सप्तदश स्मृताः । व्रीहयश्च यवाश्चैव गोधूमाः कङ्गु-
कास्तिलाः । प्रियङ्गवः कोविदाराः कोरदूषाः
सतीनकाः । माषमुद्गामसूराश्च निष्पावाः सकुलोत्यकाः ।
आढक्यश्चणकाश्चैव चीनाः सप्तदश स्मृताः । इत्येता
ओषधीनान्तु ग्राम्याणां जातयः स्मृताः । ओषध्यो
यज्ञिया ज्ञेया ग्राम्यारण्याश्चतुर्दश । व्रीहयश्च
यवाश्चैव गोधूमाः कङ्गुसर्षपाः । माषामुद्गाः सप्तमाश्च अष्टमाश्च
कुलोत्थकाः । श्यामाकाश्चैव नीवारा जर्तिलाः
सगवेधुकाः । कोविदारसमायुक्तास्तथा वेणुयवाश्च ये । ग्रा-
म्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश” “स्कन्द-
पुराणे “यवगोधूमधान्यानि तिलाः कङ्गुकुलोत्थकाः ।
माषामुद्गामसूराश्च निष्पावाः श्यामसर्षपाः । गवेधुकाश्च
नीवारा आढ़क्योऽथ सतीनकाः । चणकाश्चीनकाश्चैव
धान्यान्यष्टादशैवं तु” धान्यानि व्रीहयः । नीवाराः
आरण्यव्रीहयः । सतीनका वर्त्तुलकलायाः । चीनकाः
षष्टिकविशेषाः । षट्त्रिंशन्मतात् “यवा गोधूम-
धान्यानि तिलाः कङ्गुस्तथैव च । श्यामाकश्चीनकश्चैव
सप्तधान्यमुदाहृतम्” ।
“एकादश्यां विशेषेण ह्यन्नमात्रं परित्यजेत् । फलं मूलं
जलादीनि किञ्चिद्भक्ष्वं प्रकल्पयेत् । अन्नं तु धान्यसम्भूत
गिरिजे! भुवि जायते । धान्यानि विविधानीह जगत्यां
शृणु तान्यथ । श्यामामाषमसूराश्च धान्यकोद्रव
सर्षपाः । मकुष्ठो राजमाषाश्च तुवरोजुमरस्तथा । यव
गोधूममुद्गाश्च तिलकङ्गुकुलत्थकाः । गवेधुकाश्च नीवारा
आढ़कश्च कलायकाः । माण्डूको वज्रको रङ्कः कीचको
वड़कस्तथा । तिलकाश्चणकाद्याश्च धान्यानि कथितानि
वै । एतद्धान्य समद्भूतमन्नं भवति शोभने! । अन्नत्यागे
ब्रते भक्ष्यमेतदेव विवर्जयेत्” पाद्मोत्तरखण्डम् ।
धान्यमानन्तु हेमा० दा० उक्तं यथा
भविष्यपुराणे “पलद्वयन्तु प्रसृतं द्विगुणं कुड़वं
मतम् । चतुर्भिः कुड़वैः प्रस्थः प्रस्थाश्चत्वार आढ़कः ।
आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितोबुधैः । कुम्भो द्रोण-
द्वयं सूर्पः खारी द्रोणास्तु षोड़श” । विष्णुधर्मोत्तरे
“पलञ्च कुड़वः प्रस्य आढ़को द्रोण एव च । धान्य-
मानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः । द्रोणैः षोड़-
शमिः खारी विंशत्या कुम्भ उच्यते । कुम्भैस्तु
दशभिर्वाधो धान्यसंख्या प्रकीर्त्तिता” । वाराहपुराणे
“पलद्वयन्तु प्रसृतम् मुष्टिरेकं पलं स्मृतम् । अष्टमुष्टि
र्भवेत् कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलम् । पुष्कलानि च
चत्वारि आढ़कः परिकीर्त्तितः । चतुराढ़को भवेत्
द्रोण इत्येतन्मानलक्षणम् । चतुर्भिः सेतिकाभिस्तु
प्रस्थ एकः प्रकीतितः” मुष्टिर्यजमानस्येति केचित् ।
पाद्मे “चतुर्भिः कुड़वैः प्रस्थः प्रस्थैश्चतुर्भिराढ़कः ।
चतुराढ़को भवेद्रोण इत्येतन्मानलक्षणम्” । अथ गोपथ-
ब्राह्मणे । “पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम् ।
पलैर्द्वात्रिंशद्भिःप्रस्थो मागधेषु प्रकीर्त्तितः । आदकस्तैः-
श्चतुर्भिश्च द्रोणः स्याच्चतुराढ़कः” ।
धान्यच्छेदनादिविहितनक्षत्रादि ज्यो० द० उक्तं दीपिकायां
“याम्याजपादहिधनानलतोयशक्रचित्रेतरेषु च कुजा-
र्कजवारवर्जम् । शस्तेन्दुयोगकरणेषुतिथौ विरिक्ते वा-
पृष्ठ ३८८१
न्यच्छिदिः स्थिरनरर्क्षमृगोदयेषु । बलभद्रः “रेवतीहस्तमूलेषु
श्रवणे नागयाम्ययोः । पितृदेवे तथा सौम्ये धान्यच्छेदं
मृगोदये” अथ धान्यच्छेदनप्रकारः । “सपत्रौ मासमुद्गौ
च यवधान्ये सकाण्डके । छिन्द्यात्तिलञ्च निष्पत्र-
मेतत् पाराशरं मतम्” पराशरः । “न मुष्टिग्रहणं
कुर्यात् कदाचिद्धटपौषयोः । ईशाने लवनं कुर्यात्
सार्द्धमुष्टिद्वयं शुचिः । पौष्णे पुष्ये शुभाहे बा
पूजयित्वेष्टदेवताम् । शस्यविघ्नप्रशान्त्यर्थं क्षेत्रे वा हव्य
भोजनम्” । बौधायनः “रथाश्वगजधान्यानां गवां
चैव रजः शुभम् । अथाशस्तं समूहिन्याः श्वाजाविखर
वायसाम्” । समूहिनी संमार्जनी । कृत्यचिन्तामणौ-
मेधिरुक्ता यथा । “वटश्च सप्तपर्णश्च गाम्भारी शाल्ली
तथा औदुम्बरी तथा धात्री या चान्या क्षीरधारिणी ।
स्त्रीनाम्नी कर्षकैर्नित्यं मेधिः कार्या फलप्रदा” । अधिकं
कृषिशब्दे दृश्यम् ।

धान्यकोष्ठक न० ६ त० । धान्यस्थापनार्थे गृहे (गोला) हला०

धान्यचमस पु० चग्यते चम--कर्मणि असन् । धान्यविकारभेद

एव चमसः । चिपिटके त्रिका० ।

धान्यत्वच् स्त्री ६ त० । तुषे अमरः ।

धान्यधेनु स्त्री दानार्थे धान्यकल्पितायां गव्याम् । तद्विधिः

“विषुवे चायने वापि कार्त्तिक्यान्तु विशेषतः । तमिदानीं
प्रवक्ष्यामि धान्यधेनुविधिं परम् । यां दत्त्वा सर्वपापेभ्यः
शशाङ्क इव राहुणा” (मुच्यते इति शेषः) । दशधेनुप्रदानेन
यत्फलं राजसत्तम! । तत्सर्वमेव प्राप्नोति व्रीहिधेनुप्रदो
नरः । कृष्णाजिनं ततः कृत्वा प्राग्वद्वत्संन्यसेद्बुधः ।
गोमयेनानुलिप्ताङ्गीं शोभनां वस्त्रसंयुताम् । पूजयेद्वेदिमध्ये
स्याद्रोणैश्चापि चतुष्टयैः । मध्यमा च तदर्द्धेन
वित्तशाठ्यं न कारयेत् । चतुर्थांशेन धेन्वा वै वत्सन्तु
परिकल्पयेत् । कर्त्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता ।
गोरूधः पूर्ववद्घ्राणमगुरुचन्दनन्तथा । मुक्ताफलमया
दन्ता घृतक्षौद्रमयं मुखम् । प्रशस्तपत्रश्रवणा कांस्यदोह-
नकान्विता । इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता ।
नानाफलसमोपेता रत्नगर्भसमन्विता । पादुकोपानहौ-
छत्रे भाजमं दर्पणं तथा । इत्येवं रचयित्वा तां
कृत्वा दीपार्चनादिकम् । पुण्यकालञ्च संप्राप्य स्नातः
शुक्लाम्बरो गृही । त्रिःप्रदक्षिणमावत्य मन्त्रेणानेन कीर्त्त-
येत् । तव विप्र! महाभाग! वेदवेदाङ्गपारग! । या
मेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम! प्रीयतां
मम देवेशो भगवान् मधुसूदनः । त्वमेका लक्ष्मीर्गो-
विन्दे स्वाहा चासि विभावसोः । शक्रे शचीतु
विख्याता मेधा मुनिषु सत्तमा । तस्मात् सर्वमयी देवी
धान्यरूपेण संस्थिता । एवमुच्चार्य्य तां धेनुं ब्राह्मणाय
निवेदयेत् । दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्त-
मम् । यावच्च पृथिवी सर्वा वसुरत्नानि भूपते! । तावत्
पुण्यमयाधिक्यं व्रीहिधेनोश्च तत्फलम् । तस्मान्न-
रेन्द्र! दातव्या भुक्तिमुक्तिफलप्रदा । इह लोके च
सौभाग्यमायुरारोग्यवर्द्धनम् । विमानेनार्कवर्णेन किङ्कि-
णीरत्नमालिना । स्तूयमानोऽप्सरोभिश्च प्रयाति
शिवमन्दिरम् । यावच्च स्मरते जन्म तावत् स्वर्गे
महीयते । ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ।
एवं हरेण प्रोद्गीर्णं श्रुत्वा वाक्यं नरोत्तमः । सर्व-
पापविशुद्धात्मा रुद्रलोके महीयते” । वराहपुराणोक्तः ।

धान्यपञ्चक न० ६ त० । भावप्र० उक्ते धान्यविशेषाणां

पञ्चके । धान्यशब्दे भावप्र० वाक्यं दृश्यम् । २ अतिसारे
पाचनविशेषे यथा “धान्यपञ्चकविल्वाभ्रं नागरैः पाचितं
जलम् । आमशूलविबन्धघ्नं पाचनं नित्यसेवितमिति”
भावमिश्रः ।

धान्यमातृ त्रि० धान्यं माति मा--तृच् । धान्यमापके

“मातुरुत् संख्यासंभद्रपूर्वायाः पा० सूत्रे पूर्वाया इति
स्त्रीत्वनिर्देशात् स्त्रीत्वविशिष्टमातृशब्दस्यैव उत् नेतर-
स्येति सि० कौ० । तेन धान्यमातुरपत्यम् धन्यमात्र इत्येव

धान्यमाय त्रि० धान्यं माति मा--अण् युक् । १ धान्यमानका-

रके २ तद्विक्रेतरि च तस्य धान्यमानेनैव विक्रेतृत्वात् ।

धान्यराज पु० धान्यानां राजा--टच् समा० । यवे राजनि०

धान्यवनि पु० धान्यस्य वनिः राशिः । धान्यराशौ उज्ज्वल०

धान्यवर्द्धन न० धान्यस्य ऋणपयुक्ततया वर्द्धनं यत्र । (वाड़ी)

वृद्धिभेदे त्रिका० ।

धान्यवीर पु० धान्येषु वीर इव वलहेतुत्वात् । माषे (कलाइ) ।

धान्यशीर्षक न० ६ त० । धान्यस्त मञ्जर्य्याम् धान्याग्रादयी-

ऽप्यत्र । जटाधरः ।

धान्यशैल पु० दानार्थकल्पिते धान्यमये पर्वते तद्विधानादि

हेमा० दा० पद्मपु० उक्तं यथा ।
“तस्माद्विधानं वक्ष्यामि पर्वतानामनुत्तमम् । प्रथमो
धान्यशैलः स्यात् द्वितीयो लवणाचलः । गुड़ाचलस्तृती-
यस्तु चतुर्थो हेमपर्वतः । पञ्चमस्तिलशैलः स्यात् षष्ठः
कार्पासपर्वतः । सप्तमो घृतशैलश्च रत्नशैलस्तथाऽष्टमः ।
पृष्ठ ३८८२
राजतो नवमस्तद्वद्दशमः शर्कराचलः । वक्ष्ये विधान
मेतेषां यथावदनुपूर्वशः । अयने विषुवे चैव व्यतीपाते
दिनक्षये । शुक्लपक्षे तृतीयायामुपरागे शशिक्षये!
विवाहोत्सवयज्ञे वा द्वादश्यामथ वा पुनः । शुक्लायां पञ्च-
दश्यां वा पुण्यर्क्षे च विधानतः । धान्यशैलादयो देया
यथाश्रद्धं विधानतः । तीर्थे वायतने वापि गोष्ठे
वापि भवाङ्गणे । मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्-
मुखम् । प्रागुदक्प्रवणं तद्वत्प्राङ्मुखं वा विधानतः” ।
मण्डपलक्षणन्तु, परिभाषायां प्रतिपादितम् । अत्र
चायं विधानक्रमः दानदिवसात् पूर्वेद्युः पूर्वाह्णे कृत
स्नानादिक्रियो यजमानः अमुकपर्वतदानमहं श्वः
करिष्ये इति कृतसंकल्पो वृद्धिश्राद्धमाभ्युदयकं विधाय
पूर्ववत् पुण्याहवाचनं कुर्य्यात्, तदनन्तरम् अद्य अमुक-
स्पिन् देशे अमुकस्मिन् काले अमुकपर्वतदानेनाहं यक्ष्ये
तत्र तदङ्गभूतहोमादिके अमुकशर्माणं अमुकवेदाध्या-
यिनम् ऋत्विजं त्वामहं दृणे इति । पुराणवेदविदाञ्चतु-
र्णामृत्विजां वरणं, तथा ओम् अद्य अमुकस्मिन् देशे
अमुकस्मिन् काले अमुकपर्वतदानेनाहं यक्ष्ये तत्र
तदङ्गभूतानि कर्माणि कर्तुं कारयितुं च अमुकगोत्रं
अमुकशर्माणं अमुकवेदाध्यायिनं गुरुं त्वामहं वृणे
इत्याचार्यं वृणुयात् घृतोऽस्मीति सर्वत्र प्रतिवचनं तत्र
तावत् मधुपर्केणार्च्चयेदितिसर्वपर्वतदानसाधारणोऽयं
विधिः । “गोमयेनोपलिप्तायां भूमावास्तीर्य्य वै कुशान् ।
तन्मध्ये पर्वतं कुर्यात् विष्कम्भपर्वतान्वितम् । धान्य-
द्रोणसहस्रेण भवेद्गिरिरिहोत्तमः । भध्यमः पञ्चश-
तिकः कनिष्ठः स्यात् त्रिभिः शतैः” । द्रोणलक्षणमुक्तं
परिभाषायाम् । प्रमाणस्थकरचरणस्य पुंसो द्वादशभिः
प्रसृतिभिः कुडवो भवति अनेन कुडवेन चतुगुर्णोत्तरं
प्रस्थाढकद्रोणा भवन्ति अतः चतुःषष्ट्या कुडवैर्द्रोणो
भवतीति कल्पतरुणा व्याख्यातम् । “मेरुर्महाब्री-
हिमयस्तु मध्ये सुवर्णवृक्षत्रयमंयुतः स्यात् । पूर्वेण
मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः । पश्चाच्च
गारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः । श्रीखण्ड-
खण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलः स्यात् ।
ब्रह्माऽथ विष्णुर्भगवान् पुरारिर्दिवाकरोऽप्यत्र
हिरण्मयः स्यात् । मूर्द्धव्यवस्था गतमत्सरेण कार्याः सुवर्णेन
तथा द्विजौघाः । चत्वारि शृङ्गाणि च राजतानि
नितम्बभागेष्वपि राजतः स्यात् । आर्द्रेक्षुवंशावृतकन्दरस्तु
घृतोदकः प्रस्रवणश्च दिक्षु । शुक्लाम्बराण्यम्बुधरावली
स्यात् पूर्वेण पीतानि च दक्षिणेन । वासांसि पश्चादथ
कर्वुराणि रक्तानि चैबोत्तरतोघनाली । रौप्यान्महेन्द्र-
प्रमुखानथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण । नाना-
फलाली च समन्ततः स्यात् मनोरमं माल्यविलेपनं
च । वितानकं चोपरि पञ्चवर्णमम्लानपुष्पाभरणं
सितञ्च” । मेरुरित्यादि, महाव्रीहयो, राजान्नशालयः,
वृक्षत्रयसंयुत, इति दक्षिणे मन्दारः, उत्तरे पारिजातो,
मध्ये कल्पतरुरिति वृक्षत्रयं, तथा पूर्वतो हरिचन्दनं,
पश्चिमे सन्तान इति तरुद्वयं च कुर्यात्, एते सर्वपर्वतेषु
कर्त्तव्या इति शर्कराचले वक्ष्यमाणत्वात् सर्वेषाञ्च पञ्च-
शाखत्वमवधेयमिति । वज्रं, हीरकं । गारुत्मतं,
मरकतं । सरोजरागः, पद्मरागः । मुक्ताफलादोनि च
यथादिशं वक्ष्यमाणराजतशृङ्गेषु निवेशनीयानि ।
पुरारिः, महेश्वरः । ब्रह्मादिलक्षणमुक्तं ब्रह्माण्डदाने ।
मूर्द्धव्यवस्था उपरिदेशस्थिताः । गतमत्सरेण, वित्तशा-
ठ्यरहितेन । द्विजौघाः, पक्षिसमूहाः । दिवीशा इति
क्वचित्पाठः । तत्र आदित्यावसवोरुद्रा दिवीशाः । तेषु,
वस्वादिलक्षणमुक्तं ब्रह्माण्डदाने, रुद्रलक्षणं विश्वचक्रे ।
इक्षुरेव वंशः, घृतमेवोदकं, वस्त्राण्येव मेघसमूहाः
कर्वुराणि, चित्राणि । लोकपाललक्षणमुक्तं ब्रह्माण्ड-
दाने । “इत्थंनिवेश्यामरशैलमग्र्यं मेरोश्च विष्कम्भगि-
रीन् क्रमेण । तुरीयभागेण चतुर्द्दिशन्तु संस्थापयेत्
पुष्पविलेपनाट्यान् । पूर्वेण मन्दरमनेककलैश्च युक्तं
युक्तं गणैः कनकभद्रकदम्बचिह्नम् । कामेन काञ्चनम-
येन विराजमानमाकारयेत् कुसुमवस्त्रविलेपनाढ्यम् ।
क्षीरारुणोदसरसाऽथ वनेन चैव रौप्येण शक्तिघटितेन
विराजमानम् । याम्येन गन्धमदनश्च निवेशनीयो
गोधूमसञ्चयमयः कलधौतजम्बा । हैमेन यक्षपतिना
घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात् ।
पश्चात्तिलाचलमनेकसुगन्धिपुष्पसौवर्ण पिप्पल-हिरण्मय-
हंसयुक्तम् । आकारयेद्रजतपुष्पवनेन तद्वद्वस्वन्वितं
दधिसितोदसरस्तथाग्रे । संस्थाप्य तं विपुलशैलमथोत्तरेण
शैलं सुपार्श्वमपि माषमयं सवस्त्रम् । पुष्पैश्च हेमवटपाद-
पशेखरन्तमाकारयेत्कनकधेनुविराजमानम् । माक्षीकरद्र-
सरसा च वनेन तद्वद्रौप्येण भास्करवता च युतं विधाय” ।
इत्थन्निवेश्येत्यादि, एवं मेरुं निवेश्य तच्चतुर्थभागपरि-
मेतेन पृथग्द्रव्येण एकैकं विष्कम्भगिरिं कुर्यात् न तु
पृष्ठ ३८८३
चगुर्थभागेन चतुरोऽपीति, तथाच लवणाचले वक्ष्यति
“चतुर्थांशेन विष्कम्भपर्वतान् कारयेत्, पृथगिति” । पूर्वेण
मन्दरमिति, सन्निधानान्मन्दरोऽपि व्रीहिमय एव,
गणैर्युक्तमिति, पुरुषाकृतिगणत्रयान्वितमित्यर्थः ।
अनेकफलालीयुक्तं यवैरिति क्वचित्पाठः । तस्य समूलत्वे
यवानुष्ठानमपि कार्यम् । कनकघटितेन भद्रकदम्बाख्येन
वृक्षेण लक्षितम् । कामलक्षणमाह विश्वकर्मा “चाप-
वाणधरः कामो रतिप्रेयान् सुमध्यमः । आलीढो
नन्दनी वाजी चापवान् विश्वमादकः” इति । क्षीरपूरि-
तेन, अरुणोदसंज्ञितेन रूप्यघटितेन, सरसा वनेनापि
रूप्यघटितेन विराजमानमिति सम्बन्धः । याम्येने-
त्यादि, गन्धमदनो, गन्धमादनः, कलधौतजं येति,
सुवर्णजम्बुवृक्षेण । यक्षपतिरूपमुक्तं श्रीप्रश्ने “ह्रस्व-
मापिङ्गाक्षञ्च गदिनं पीतविग्रहम् । पुष्पकस्थन्धनाध्यक्षं
ध्यायेत् शिवसखं सदेति” । घृतमानसेनेति घृतपूरितेन
मानसाभिधानेन राजतेन सरसा । पश्चादिति, पश्चिम-
देशे दधिपूरितसितोदं नाम रजतनिर्मितं सर इति,
विपुलशैलं, विपुलं नाम पर्वतं माक्षीकभद्रसरसेति,
माक्षीकं, मधु तत्पूरितेन रजतमयेन भद्राभिधानेन सरसा
युतमित्यर्थः । अत्र च कामदेवस्य प्रत्यङ्मुखत्वं हंसस्य
प्राङ्मुखत्वं कनकधेनोर्दक्षिणामुखत्वं यक्षपतेरुदङ्मुखत्वं
च शर्कराचलस्थितदिग्विशेषापेक्ष्यं दैवतेषु सर्वशैलेषु
वेदितव्यं, चरमव्यवस्था कुतोऽपि शास्त्राद्व्यवस्थितिरिति ।
एते च कामदेवादयः कदम्बादीनां निजपर्वतवृक्षाणामध-
स्तात्कर्त्तव्याः । “होमैश्चतुर्भिरथ वेदपुराणविद्भिर्दान्तै-
रनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः । पूर्वेण हस्तमितमत्र
विधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च । रात्रौ च
जागरमनुद्धतगीततूर्यैरावाहनञ्च कथयामि शिलोच्चया-
नाम्” । पूर्वेणेत्यादि मण्डपस्य पूर्वभागे हस्तमात्रं कुण्डं
विधाय तस्य पूर्वोत्तरदिग्विमागे तुलापुरुषोक्तलक्षणां
देवतावेदिं कृत्वा तत्र विनायकादिदेवताभ्यः पूर्बवत् पूजां
विदध्यात् अनन्तरमृत्विजाऽग्निस्थापनान्ते ग्रहाणां
लोकपालानामित्यादिवक्ष्यमाण देवताभ्यस्तत्तल्लिङ्गमन्त्रै-
स्तिलादिद्रव्येण होमं कुर्युः । “सहस्रे त्वथ होतव्ये
कुर्यात् कुण्डं करात्मकम्” इत्युक्तेरत्र हस्तपरिमितकुण्डो-
पदेशादाहुतिसहस्रं होतव्यमिति दानविवेककारः । अत्र
विनायकादयो द्वात्रिं शद्देवा, द्वादशादित्याः, एकादश-
रुद्राः, दश लोकपालाः, अष्टौ वसवः, ब्रह्म--विष्णु--शिव-
सूर्याश्चत्वारः काम धनद--हंस--कामधेनव श्चत्वारः इत्येव-
मेकाशीतिसंख्यकेभ्यो देवेभ्यः ग्रहादीनां प्रतिदैवतं त्रयो-
दशाहुतिहोमे त्रिपञ्चाशदधिकमाहुतिसहस्रं सम्पद्यते ।
अष्टशतन्तु होतव्यमिति ब्रह्माण्डपुराणे वक्ष्यति । तिला-
दीनि चत्वार्येव हविर्द्रव्याणि घृताक्तानीत्यवगन्तव्यम् ।
समिधः, साधारण्यादुदुम्बरस्य । होमादनन्तरं पुष्पोपहारा-
नादाय वक्ष्यमाणमन्त्रैर्यथाक्रमं पर्वतानावाहयेत्, तत्र
मेरोरावाहनमन्त्रः । “त्वं सर्वदेवगणधामनिधे! विरुद्ध-
मस्मद्गृहेऽप्यमरपर्वत! नाशयाशु । क्षेमं विधत्स्व कुरु-
शान्तिमनुत्तमां नः सम्पूजितः परमभक्तिमता मया हि ।
त्वमेव भगवानीशो ब्रह्मा विष्णुर्द्दिवाकरः । मूर्त्तामूर्त्तपरं
वीजमतः पाहि सनातनः । यस्मात्त्वं लोकपालानां
विश्वमूर्त्तेश्च मन्दिरम् । रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं
प्रयच्छ मे । यस्मादशून्यममरैर्नारीभिश्च समं तथा ।
तस्मान्मामुद्धराशेषदुःखसंसारसागरात् । एवमभ्यर्च्य तं मेरुं
मन्दरञ्चाभिपूजयेत् । अथ मन्दरस्य । यस्माच्चैत्ररथेन त्वं
भद्राश्ववर्षकेण च । शोभसे मन्दर! क्षिप्रमतः पुष्टिकरो
भव । अथ गन्धमादनस्य । यस्माच्चूड़ामणिर्जम्बुद्वीपे त्वं
गन्धमादन! । गन्धर्ववनशोभावानतः कीर्त्तिर्दृढास्तु मे ।
अथ विपुलपर्वतस्य । यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन
च । हिरण्मयाश्वत्थशिखस्तस्मात् पुष्टिर्ध्रुवास्तु मे ।
अथ सुपार्श्वस्य । उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन
च । सुपार्श्व! राजसे नित्यमतः श्रीरक्षयास्तु मे ।
एवमामन्त्र्य तान् सर्वान् प्रभाते विमले पुनः । स्नात्वाथ
गुरवे दद्यात् मध्यमं पर्वतोत्तमम् । विष्कम्भपर्वतान्
दद्यादृत्विग्भ्यः क्रमशो नृप । गावोदद्याच्चतुर्विंशादथ
वा दश पार्थिव! । शक्तितः सप्त वाष्टौ वा पञ्च दद्या-
दशक्तिमान् । एकां वा गुरवे दद्यात् कपिलाञ्च
पयस्विनीम्” । एवमामन्त्र्येति, दानदिनात् पूर्वदिवसे सर्व-
मिदमामन्त्रणादि विधाय गीतवादित्रादिभिर्निशामति-
बाह्य ततः प्रभाते गुरुप्रभृतयो विहितस्नानादिक्रियाः
पूर्णाहुतिपर्यन्तं सकलकर्म्मशेषं समाप्य कुण्डसमीप-
स्थापितकलसजलेन पूर्ववद्यजमानं स्नपयेयुः । यजमा-
नोऽपि शुक्लाम्बरपरिधानः प्रदक्षिणीकृत्य वक्ष्यमाणम-
न्त्रेण यथाक्रमं पर्वतान् प्रतिपादयेत् ।
“पर्वतानामशेषाणामेष एव विधिः स्मृतः । त एव पूजने
मन्त्रास्त एवोपस्कराः स्मृताः । ग्रहाणां लोकपालानां
ब्रह्मादीनाञ्च सर्वशः । स्वमन्त्रेणैव सर्वेषु होमः ५-
पृष्ठ ३८८४
लेषु पठ्यते । उपवासो भवेन्नित्यमशक्तौ नक्तमिष्यते”
सर्वत्राक्षारलवणमश्नीयादिति वक्ष्यमाणत्वादक्षारल-
वणं नक्तं वेदितव्यम्” “विधानं सर्वशैलानां क्रमशः शृणु
पार्थिव! दानकालेषु ये मन्त्रा पर्वतेषु च यत्फलम्”
अथ मन्त्रः “अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रति-
ष्ठिताः । अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते । अन्न-
मेव यतोलक्ष्मीरन्नमेव जनार्दनः । धान्यपर्वतरूपेण
पाहि तस्मान्नमोनमः” । एवमाचार्यादीन्, सम्पूज्य
तदनुज्ञया अन्येभ्योऽपि दद्यात् ततोयजमानो वेद्यां
पूर्ववद्देवताः सम्पूज्य नमस्कुर्यात् । गुरुस्तान्विसर्जयेत्,
ततो “यथाशक्ति ब्राह्मणभोजनम् कृतोपवासस्य
यजमानस्य दानदिने क्षारलवणवर्जनं सर्वपर्वतोपस्करा-
णाञ्च ब्राह्मणगृहप्रापणं शर्कराचलोक्तं सर्वत्र द्रष्ट-
व्यम् । “अनेन विधिना यस्तु दद्याद्धान्यमयङ्गिरिम् ।
मन्वन्तरशतं सार्द्धं देवलोके महीयते । अप्सरोगण-
गन्धर्वैराकीर्णेन विराजितः । विमानेन दिवः पृष्ठ-
मायाति सुरसेवितः । कर्मक्षयाद्राजराज्यं प्राप्नोतीह
न संशयः” । इत्थमेव मत्स्यपु० । धान्यपर्वतादयोऽप्यत्र ।
ब्रह्माण्डभविष्यपुराणोक्तो विधिश्च ततःपरं तत्र दृश्यः ।

धान्या स्त्री धन्याक + पृषो० । (धनिया)ख्याते पदार्थे हेमच० ।

धान्याक न० धन्याक + स्वार्थे अण् धान्यमकति अक--कुत्सि-

तायां गतौ अण् उप० स० वा । (धनिया) ख्याते पदार्थे
“धान्याकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु । तिक्तं
कदुष्णवीर्य्यञ्च दीपनं पाचनं स्मृतम् । ज्वरघ्नं रोचनं
ग्राहि स्वादु पाके, त्रिदोषनुत् । तृष्णादाहवमिश्वास-
कासामार्शःकृमिप्रणुत् । आर्द्रन्तु तद्गुणं स्वादु विशेषात्
पित्तनाशनम्” भावप्र० ।

धान्याकृत् त्रि० धान्यं कर्षणादिना करोति कृ--क्विप् वेदे

पूर्वपददीर्घः । कर्षके “रूपन्तु वीजमिव धान्याकृतः”
ऋ० १० । ९४ । १३ ।

धान्याम्र न० “पादांशशालिसंयुक्तमभ्र” बद्ध्वाथ कम्बले । त्रि-

रात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेत् करैः । कम्बलाद्गालितं
सूक्ष्मं वालुकारहितञ्च यत् । तद्धान्याभ्रमिति प्रोक्तमभ्र-
मारणसिद्धये” भावप्र० उक्ते अभ्रमारणोपयोगिवस्तुभेदे ।

धान्याम्ल न० धान्येष्वभिषुतमम्लम् । काञ्चिके (आमानि) ।

“धान्याम्लं शालिचूर्णोत्थं कोद्रवादिकृतं भवेत् । धान्याम्लं
धान्ययोनित्वात् प्रीणनं लघु दीपनम् । अरुचौ
वातरागेषुसर्वेष्वास्थापने हितम्” भावप्र० ।

धान्यायन पुंस्त्री धन्यस्य गोत्रापत्यम् कण्वा० फक् ।

धन्यगोत्रापत्ये ।

धान्यारि पु० ६ त० । धान्यशत्रौ अस्मिन्नर्थे शब्दकल्पद्रुमे

त्रिलिङ्गतोक्तिः प्रामादिकी अरिशब्दस्य पुंलिङ्गत्वेन
“परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः” पा० सूत्रेण तत्पुरुषे
परवल्लिङ्गस्यैवानुशासनात् ।

धान्यार्थिन् त्रि० “अर्थाच्चासन्निहिते” पा० “तदन्ताच्च” वार्त्ति०

उक्तेः पुष्करा० अस्त्यर्थे इनि । धान्यरूपार्थविशिष्टे
स्त्रियां ङीप् । “कालत इहासन्निधिर्न देशतः” तथात्वे
अस्तीत्यधिकरणान्वयाभावात् न इनिप्रसक्तिः ।

धान्यास्थि न० ६ त० । तुषे ।

धान्योत्तम पु० धान्येषूत्तमः । शालिधान्ये राजनि० ।

धान्व पु० धन्वदेशे भवः अण् वोपधत्वेऽपि वेदे नि० टिलोपः ।

धन्वदेशोद्भवे । “असितो धान्वो राजेत्याह” शत० व्रा०
१६ । ४ । १४ । लोके तु धान्वन इत्येव “उदकं पार्वतं वार्क्ष-
मैरिणं धान्वनं तथा” कामन्दकी० ।

धान्वन्तर्य्य त्रि० धन्वन्तरिर्देवताऽस्य बा० ण्यत् । धन्वन्तरि-

देवताके होमादौ “अग्नीषोमं वैश्वदेवं धान्वन्तर्य्यमनन्तरम् ।
प्रजानां पतये चैव पृथक् होमो विधीयते” भा० आनु०
९७ अ० ।

धाम पु० धा--बा० मन् । गणदवर्भदे “देवाः साध्यास्तथा

विश्वे तथैव च महर्षयः । यामा धामाश्च मौद्गल्या
गन्धर्वाप्सरोगणाः” भा० व० २६ अ० । “पितरो
जगतः श्रेष्ठो देवानामपि देवताः । तेऽपि तत्र समाजग्म-
र्यामा धामाश्च सर्वशः” भा० श० ४५ अ० ।

धामक पु० धानक + पृषो० । माषपरिमाणे भावप्र० हेमधानकौ

इत्यत्र हेमधामकौ इति पाठान्तरम् धानकशब्दे दृश्यम् ।

धामकेशिन् पु० धाम ज्योतीरूपः केशीऽस्त्यस्य इनि ।

ज्योतिर्मयकिरणयुक्ते सूर्य्ये “दिवाकरः सप्तसप्तिर्धामकेशी
विरोचनः” भा० व० ३ अ० ।

धामच्छद् पु० धामानि छादयति छादि--क्विप् ह्रस्वः ।

न्यूनानां पूरके अतिरिक्तानां समीकारके । “धामच्छ-
दग्निरिन्द्रः” यजु० १८ । ७६ । “वाग् वा अनुष्टुव् वाग
धामच्छद्वाचैवास्य तदाप्नोति” शत० व्रा० १० । १ । ३ । १० ।

धामन् म० धा--मनिन् । १ गेहे २ देहे ३ त्विषि ४ प्रभावे

अमरः । ५ रश्मौ ६ स्थाने ७ जन्मनि मेदि० । “आ ये
धामानि दिव्यानि तस्थुः” ऋ० १० । १३ । १ “पुत्रं जनय
सुश्नोणि धाम क्षत्रियतेजसाम्” भा० आ० १२३ अ० ।
पृष्ठ ३८८५
८ तेजसि “कार्शानवं धाम पतङ्गकान्तेः” । “पतत्यधो धाम
विसारि सर्वतः” माघः । तत्र स्थाने “योगधारणयाऽग्नेय्या
दग्ध्वा धामाविशत् स्वकम्” भाग० ११ । ३ । ६ । ९ दामोप-
लक्षिते च “धाम्नो धाम्नो राजंस्ततो वरुण! नो मुञ्च”
यजु० ६ । २२ । १० परमेश्वरे न० । “गुरुर्गुरुतमो धाम”
विष्णुस० । “धाम ज्योतिः “नारायणः परं ज्योति-
रिति” मन्त्रवर्णात्” भा० ११ धने च “धामसाचमभिषाचं
स्वर्विदम्” ऋ० ३ । ५१ । २ । “धाम धनं तदर्थिभिः सह
योजयितारम” भा० ।

धामनिका स्त्री धामन्येव स्वार्थे क । धमन्याम् रत्नमाला ।

धमनी स्वार्थे अण् ङीप् । धामनी धमन्यां शब्दच० ।

धामनिधि पु० धामानि निधीयन्तेऽस्मिन् नि + धा--आधारे

किप् ६ त० । सूर्य्ये जटाधरः ।

धामभाज् पु० धाम यज्ञस्थानं भजते भज--ण्वि ६ त० । यज्ञ-

स्थानभागिनि देवे । “धाममाजो देवाः पाथोभाग्
वनस्पतिः । धाम वै देवा यज्ञस्याभजन्त पाथः पितरः”
सांख्यब्रा० १० । ६ ।

धामशस् अव्य० धाम्नि धाम्नि इत्यर्थे शस् । स्थाने स्थाने

इत्यर्थे “तेषामिष्टानि विहितानि घामशः” ऋ० १ । १६४ । १५

धामार्गव पु० धाम्नोऽर्गं वाति--वा क । १ अपामार्गे अमरः

२ पीतघोषायाम्, मेदि० ३ घोषके च रत्नमा० । “धामार्गव-
स्यापि मदनफलमज्जवदुषयोगो विशेषतस्तु परं गुल्मो-
दरकासश्वासश्लेष्मामयेषु” सुश्रुतः ।

धाय त्रि० धा--ण । धारके “ददैर्दुःखस्य मादृग्भ्यो धायै-

रामोदमुत्तमम्” भट्टिः । “अनित्यत्वात् न कृद्योगे षष्ठी
दुःखस्य धायैः पोषकैरित्यन्वयो वा” जयमङ्गलः ।

धायस् त्रि० वसेर्णित तोऽनुवृत्तौ “बहिहाधाञ्भ्यश्छन्दसि”

उणा० असुन् युक् माषवः १ धारके “भूरसि भूमिरस्यदितिरसि
विश्वधायाः विश्वस्य भुवनस्य धर्त्री” यजु० १३ । १८ ।
धेटभावे असुन् । २ पाने च “तुविष्टमाय धायसे” ऋ० १ । १३० । २
“तुविष्टमाय प्रभूताय पानाय धायसे” भा० ।

धायु त्रि० धा--उण् युक् । धारके “यस्मै धायुरदधाः” ऋ० ३ । ३० । ७ ।

धाय्य पु० धा--कर्मणि ण्यत् युक् । १ पुरोहिते धीयते समिदनया

करणे नि० ण्यत् । २ सामधेन्यामृचि स्त्रा ततो दिगा०
भवादौ यत् यलोपाल्लोपौ । ३ धाय्य तत्र भवे त्रि० “यजेति
धाय्यारूपं प्रगाथा यजामहाः” यजु०१९ । २४ ।

धार न० धाराया इदम् अण् । १ वर्षोद्भवजले दिव्यपानीयप्रभेदे ।

तद्गुणभेदादि भावप्र० उक्तं यथा “धाराभिः पतितं तोयं
गृहीतं स्फीतवाससा । शिलायां वसुधायां वा धौतायां
पतितञ्च यत् । सौवर्णे राजते ताम्रे स्फाटिके काचनि-
र्मिते । भाजने मृणमये वापि स्थापितं धारमुच्यते । धारं
नीरं त्रिदोषघ्नमनिर्देश्यरसं लघु । सौम्यं रसायनं बल्यं
तर्पणं ह्लादि जीवनम् । पाचनं मतिकृन्मूर्च्छा तन्द्रादाह
श्रमक्लमान् । तृष्णां हरति तत् पथ्यं विशेषात् प्रावृषि
स्मृतम्” । राजनि० तु अन्यथोक्तं यथा “यदा स्यादाश्विने
मासि सूर्य्यः स्वातीविशाखयोः । तदाम्बुजलदैर्मुक्तं गाङ्ग-
मुक्तं मनीषिभिः । अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः ।
अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम् । तयोर्गुणाः ।
“गाङ्गं जलं स्वादु सुशीतलञ्च रुचिप्रदं पित्तकफापहञ्च ।
निर्दोषमिष्टं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीत-
माहुः । सामुद्रं सलिलं शीतं कफवातकरं गुरु ।
चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत् । पतितं भुवि
तत्तोयं गाङं सामुद्रमेव वा । स्वस्वाश्रयवशाद्गच्छेदन्य-
दन्यद्रसादिकम्” । धृ--णिच् अच् । २ ग्रावान्तरे ३ ऋणे
च मेदि० भावे अप् । ४ जलधारावर्षणे हेमच० ।
५ खड़्गादेरन्तभागे ६ गम्भीरे पु० शब्दा० ।

धारक त्रि० धारयति धारि--ण्वुल् । १ अधमर्णे २ धारण-

कर्त्तरि च । ३ कलसे तस्य नामनिरुक्तिः देवीपु० “ग्रहान्
धारयते यस्मात् मातराविविधास्तथा । दुरितानि च
निघ्नन्ति तन ते धारकाः स्मृताः” ४ यौनौ स्त्री कापि वेदे
अत इत्त्वं न । “निगल्गलीति धारका” यजु० २३ । २२
“धरति लिङ्गं धारका योनि” वेददी० ।

धारण न० धारि--ल्युट् । १ धरणे २ विचारणे भावे युच् ।

३ बुद्धिभेदे ४ राज्ञां न्यायपथस्थितो च स्त्री अमरः ।
४ योगाङ्गभेदे स्त्री तल्लक्षणादिकं पात० सू० भा० उक्तं यथा
“योगाङ्गानुष्ठानन्तु द्विधैव कारणत्वं लभते इति योगा-
ङ्गान्यवधार्य्यन्ते” भा० “यमनियमासनप्राणायामप्रत्याहार-
धारणाध्यानसमाधयोऽष्टावङ्गानि” पा० सू० । “यथाक्रमं
एतेषाम् अनुष्ठानं स्वरूपञ्च वक्ष्यामः” भा० इति उद्देश्य
तेषां मध्ये पञ्चानां लक्षणानि पात० सू० समाधिपादे
दर्शयित्वा धारणादेर्लक्षणानि विभूतिपादे उक्तानि तत्र
धारणायाः लक्षणं दर्शितं यथा “उक्तानि पञ्च
बहिरङ्गानि साधनानि धारणा वक्तव्या” भा० आभासः
“देशबन्धश्चित्तस्य धारणा” पा० सू० ।
“नाभिचक्रे हृदयपुण्डरीके मूर्द्ध्नि ज्योतिषि नासिकाग्रे
जिह्वाग्रे इत्येवमादिषु देशेषु वाह्ये वा विषये
पृष्ठ ३८८६
चित्तस्य वृत्तिमात्रेण बन्ध इति बन्धोधारणा” भा० ।
“प्रथमद्वितीयपादाभ्यां समाधिस्तत्साधनं चोक्तम्
तृतीयपादे तत्प्रवृत्त्यनुगुणाः श्रद्धोत्पादहेतवो विभूतयो
वक्तव्याः ताश्च संयमसाध्याः संयमश्च धारणाध्यान
समाधिसमुदाय इति विभूतिसाधनतया पञ्चभ्यश्च
योगाङ्गेभ्यो बहिरङ्गेभ्योऽस्याङ्गत्रयस्यान्तरङ्गतया
विशेषज्ञापनार्थमत्र त्रयस्योपन्यासः तत्रापि च धारणा-
ध्यानसमाधीनां कार्यकारणभावेन नियतपौर्वापर्यत्वा-
त्तदनुरोधेनोपन्यासक्रम इति प्रथमं धारणा लक्षणीये-
त्याह उक्तानीति देशेति” आध्यात्मिकदेशमाह । नाभि-
चक्र इति । आदिशब्देन ताल्वादयो ग्राह्याः बन्धः
सम्बन्धः । बाह्यदेशमाह बाह्यैति । बाह्ये च न
स्वरूपेण चित्तस्य सम्बन्धः सम्भबतीत्युक्तं वृत्तिमात्रेण
इति अत्रापि पुराणम् “प्राणायामेन पबनं प्रत्या-
हारेण चेन्द्रियम् । वशीकृत्य ततः कुर्याच्चित्तस्थानं
शुभाश्रये” शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापति
प्रभृतयः इदञ्च तत्रोक्तम् । “मूर्त्तं भगवतोरूपं सर्वोपा-
श्रयनिष्पृहम् । एषा वै धारणा ज्ञेया यच्चितं तत्र
धार्यते । तच्च मूर्त्तं हरेरूपं तद्विचिन्त्य नराधिप! । तत्
श्रूयतामनाधारा धारणा नोपपद्यते । प्रसन्नवदनं
चारु पद्मपत्रनिभेक्षणम् । सुकपोलं सुविस्तीर्णललाट
फलकोज्वलम् । समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।
कम्बुग्रीवं सुविस्तीर्णं श्रीवत्साङ्कितवक्षसम् । वलीवि-
भङ्गिना मग्रनाभिना चोदरेण च । प्रलम्बाष्टभूजं विष्णु
मथ वापि चतुर्भुजम् । समस्थितोरुजङ्घञ्च स्वस्तिकाङ्घ्रि
कराम्बुजम् । चिन्तयेद् ब्रह्मभूतं तं पीतनिर्मलवाससम् ।
किरीटहारकेयूरकटकादिविभूषितम् । शार्ङ्गचक्रगदा-
खड्गशङ्खाक्षवलयान्वितम् । चिन्तयेत्तन्मयो योगी
समाधायात्ममानसम् । तावत् यावत् दृढ़ीभूता तत्रैव
नृप! धारणा । एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म
सर्वतः । नापयाति यदा चित्तं सिद्धां मन्येत तां
तदेति” विवृतिः ।
सां० सूत्रोक्ते पूरणरेचककुम्भकाख्यप्राणनिरोधरूपे चित्त-
वशीकरणे ५ प्राणायामभेदे च । यथा “ध्यानस्यापि
साधनान्याह” भा० “धारणामनस्वकर्मणा तत्सिद्धिः” सां० सू०
“वक्ष्यमाणेन धारणादित्रयेण ध्यानं भवतीत्यर्थः ।
धारणादित्रयं क्रमात् सूत्रत्रयेण लक्षयति । “निरोधश्छर्दि-
विधारणाभ्याम्” सू० “प्राणस्येति प्रसिद्ध्या लभ्यते ।
प्रच्छर्दनविधारणाभ्यां वा प्राणस्येति योगसूत्रे भाष्य-
कारेण प्राणायामस्य व्याख्यातत्वात् । छर्दिश्च
वमनम् । विधारणं त्याग इति यावत् । तेन पूरणरेचन
योर्लाभः । धारणञ्च कुम्भकम् । तथा च प्राणस्य
पूरकरेचककुम्भकैर्यो निरोधो वशीकरणं सा धारणे-
त्यर्थः । आसनादेः स्वशब्देन पश्चाल्लक्षणीयतया-
सूत्रे परिशेषत एव धारणायालक्ष्यत्वलाभाद्धारणापदं
नोपात्तम् । चित्तस्य धारणा तु समाधिवद्ध्यानशब्दे-
नैव गृहीतेत्युक्तम्” प्र० भा० ।
“धारयेत्तत्र चात्मानं धारणां धारयन् बुधः” याज्ञ०
प्राणायमविशेषरूपस्य धारणात्मकत्वमुक्तम् व्याख्यातञ्चैतत्
“तत्र च हृद्यात्मानं मनीगोचरतया धारयेत् । तथा
धारणाञ्च धारयेद्धारणास्वरूपञ्च जान्वग्रभ्रमणेन
छोटिकादानकालोमात्रा ताभिः पञ्चदशमात्राभिरधमः प्रा-
णायामस्त्रिंशद्भिर्मध्यमः । पञ्चचत्वारिशद्भिरुत्तम इत्ये-
वम्प्राणायामत्रयात्मिकैका धारणा । तास्तिस्रो योगशब्द-
वाच्यास्तांश्च धारयेत् । यथोक्तमन्यत्र “संभ्राम्य छोटि-
कान्दद्यात्कराग्रञ्जानुमण्डले । मात्राभिः पञ्चदशभिः प्रा-
णायामोऽधमः स्मृतः । मध्यमोद्विगुणः श्रेष्ठस्त्रिगुणो-
धारणा तथा । त्रिभिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव
चेति” । धारणात्मकयोगाभ्यासे प्रयोजनमाह “अन्त-
र्द्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा । निजं
शरीरमुत्सृज्य परकायप्रवेशनम् । अर्थानाञ्छन्दतः
सृष्टिर्योगसिद्धेश्च लक्षणम् । सिद्धे योगे त्यजन्देहममृत-
त्वाय कल्पते” मिताक्षरा कृता ।
वह्निपु० धारणास्वरूपभेदादिकमन्यथोक्तं यथा
अग्निरुवाच “धारणा मनसोध्येये संस्थितिध्यनिवद्-
द्विधा । मूर्त्तामूर्त्तहरिध्यानं मनोधारणतो हरौ ।
यद्बाह्यावस्थितं लक्ष्यं तस्मान्न चलते मनः । तावत्
कालं प्रदेशेषु धारणा मनसि स्थितिः । कालाबधि
परिच्छिन्नं देहे संस्थापितं मनः । न प्रच्यवति यल्ल-
क्ष्याद्धारणा साऽभिधीयते । धारणा द्वादशायामा ध्यानं
द्वादश धारणाः । ध्यानं द्वादशकं यावत्समाधिरभिधी-
यते । धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते । कुलै-
कविंशमुत्तार्य्य स्वर्य्याति परमं पदम् । यस्मिन् यस्मिन्
भवेदङ्गे योगिनां व्याधिसम्भवः । तत्तदङ्गं धिया व्याप्य
धारयेत्तत्त्वधारणम् । आग्नेयी वारुणी चैव ऐशानी
चामृतात्मिका । साग्निः शिखा फडन्ता च विष्णोः
पृष्ठ ३८८७
कार्या द्विजोत्तम! । नाड़ीभिर्विकटं दिव्यं शूलाग्रं
वेधयेच्छुभम् । पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डल-
मावृतम् । तिर्य्यक् चाधोर्द्धभागेभ्यः प्रयान्त्योऽतीव
तेजसा । चिन्तयेत् साधकेन्द्रस्तं यावत् सर्वं महामुने! ।
भस्मीभूतं शरीरं स्वन्ततश्चैवोपसंहरेत् । शीतश्लेष्मादय
स्तापा विनश्यन्ति द्विजाऽसमाः । शिरोग्रीवाकरे चैव
कण्ठे चोरोमुखे स्मरेत् । ध्यायेदच्छिन्नचित्तात्मा पयो
भूतेन चात्मना । स्फुरच्छोकरसंस्पर्शप्रभूते हिमगा-
म्बुभिः । धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत् ।
ब्रह्मरन्ध्राच्च संक्षोमाद्यावदाधारमण्डलम् । सुषुम्णान्त-
र्गतो भूत्वा संपूर्णेन्दुकृतालयम् । संप्लाव्य हिमसंस्पर्श-
तोयेनामृतमूर्त्तिना । क्षुत्पिपासाक्रमप्रायसन्तापपरिपी-
ड़ितः । धारयेद्वारुणीं मन्त्री तुष्ट्यर्थं चाप्यतन्त्रितः ।
वारुणी धारणा प्रोक्ता ऐशानीं घारणां शृणु । व्योम्नि
ब्रह्ममये पद्मे प्राणापाने क्षयङ्गते । प्रसादं चिन्तयेद्
विष्णोर्यावच्चिन्ता क्षयं गता । महातारञ्जपेत् सर्वं ततो
व्यापक ईश्वरः । अर्द्धेन्दुं परमं शान्तं निराभास-
न्निरञ्जनम् । असत्यं सत्यमाभाति तावत्सर्वं
चराचरम् । यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः ।
दृष्टे तस्मिन् परे तत्त्वे आब्रह्म सचराचरम् । प्रमा-
तृमानमेयञ्च ध्यानहृत्पद्मकल्पनम् । मातृमोदनकृत् सर्वं
जपहोमार्चनादिकम् । विष्णुमन्त्रेण वा कुर्य्यादमृतां
धारणां वदेत् । संपूर्णेन्दुनिभं ध्यायेत् कमलं तत्त्रिमू-
र्त्तिकम् । शिरःस्थं चिन्तयेद् यत्राच्छशाङ्कायुतवर्चसम् ।
सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितम् । तथा हृत्-
कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् । साधको विगतक्लेशो
जायते घारणादिभिः” । ३७४ अ० ।
काशीख० ४२ अ० विशेषोऽत्रोक्तो यथा
“प्राणायामद्विषट्केन प्रत्याहार उदाहृतः । प्रत्या-
हारैर्द्वादशभिर्धारणा परिकीर्त्तिता । भवेदीश्वरसङ्गत्यै
ध्यानं द्वादशधारणम्” “प्रत्याहारेण सम्पन्नो धारणा-
मथ चाभ्यसेत् । हृदये पञ्चभूतानां धारणं यत् पृथक्
पृथक् । मनसो निश्चलत्वेन धारणा साऽभिधीयते ।
हरितालनिभां भूमिं सालङ्कारां समेधसम् । चतुष्कोणां
हृदि ध्यायेदेषा स्यात् क्षितिधारणा । कण्ठेऽम्बु
तत्त्वमर्द्धेन्दुनिभं विष्णुसमन्वितम् । वकारवीजं
कुन्दाभं ध्यायेन्नम्बु जयेदिति । तालुस्थमिन्द्रगोपाभं त्रि-
कोणं रेफसंयुतम् । रुद्रेणाधिष्ठितं तेजोध्यात्वा वह्निं
जयेदिति । वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमञ्जनसन्निभम् ।
यं वीजमीशदैवत्यं ध्यायेद्वायुं जयेदिति । आकाशञ्च
मरीचिधारसदृशं यद्व्रह्मरन्ध्रस्थितं यन्नाथेन सदाशिवेन
सहितं शान्तं हकाराक्षरम् । प्राणं तत्र विलीय पञ्च-
घटिकं चित्तान्वितं धारयेदेषा मोक्षकपाटनपटुः प्रोक्ता
नभोधारणा । स्तम्भनी प्लावनी चैव शोधनी भामनी
तथा । शमनी च भवन्त्येता भूतानां पञ्च धारणाः”
वृ० सं० उक्ते जलसूचके वायुविशेषधारणाद्यात्मके ६ योगभेदे
च “ज्यैष्ठसितेऽष्टम्याद्याश्चत्वारो वायुधारणादिवसाः ।
मृदुशुभपवनाः शस्ताः स्निग्धवनस्थगितगगनाश्च । तत्रैव
स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः । श्रावणपूर्वा
ज्ञेयाः परिस्रुता धारणास्ताः स्युः । यदि ताः स्युरेक-
रूपाः शुभास्ततः सान्तरास्तु न शिवाय । तस्करभयदाः
प्रोक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः । सविद्युतः सपृषतः
सपांशूत्करमारुताः । सार्कचन्द्रपरिच्छन्ना धारणाः ।
शुभधारणाः । यदा तु विद्युतः श्रेष्ठाः शुभाशाप्रत्युप-
स्थिताः । तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः ।
सपांशुवर्षाः सापाश्च शुभा बालक्रिया अपि । पक्षिणां
सुखरा वाचः क्रीडा पांशुजलादिषु । रविचन्द्रपरि-
वेषाः स्निग्धा नात्यन्तदूषिताः । वृष्टिस्तदापि विज्ञेया
सर्वसस्याभिवृद्धये । मेघाः स्निग्धा संहताश्च प्रदक्षिणगति-
क्रियाः । तदास्यान्महती वृष्टिः सर्वसस्यार्थसाधिका” २२ अ०

धारणी स्त्री धारि--ल्युट् । १ स्थैर्य्ये “शारीरिकधारणी

शिथिलान्” दशकु० । २ नाड़िकायां ३ बुद्धानां मन्त्रभेदे
मेदि० ४ श्रेण्याम् हेमच० ।

धारणीय त्रि० धारि--कर्मणि अनीयर् । १ धार्य्ये २ धरणीकन्दे पु० राजनि० ।

धारणीययन्त्र न० धार्य्यते धारि--कर्मणि अनीयर् कर्म० ।

धार्य्ये देवताभेदानां यन्त्रभेदे तच्च पूजायन्त्राद्विलक्षणं
सारदायां २४ पटले दृश्यम् । तल्लेखनद्रव्यादि तत्रोक्तं
यथा “काश्मीररोचनालाक्षामृगेभमदचन्दनैः । विलि-
खेद्धेमलेखन्या यन्त्राण्येतानि देशिकः” । निषिद्धयन्त्रमुक्तम्
“भूमिस्पृष्टं शवस्पृष्टं दग्धं निर्माल्यसङ्गतम् । विशीर्णं
लङ्घितं मन्त्री यन्त्रं जातु न धारयेत्” मन्त्रमहीदधौ १९
तरङ्गे । तल्लेखनप्रकारद्रव्यादिकमुक्तं तत्रैव दृश्यम् ।
विस्तरभयात् न लिखितं कर्मभेदे सामान्यतोलेखनद्र-
व्यादिकं २५ तरङ्गे तत्रोक्तं यथा “चन्दनं राचना रात्रि-
र्गृहधूमश्चिताभवः । अङ्गारोऽष्टविषाणीति शान्त्यादौ
यन्त्रलेखने । पूर्वोक्तलेखनद्रव्यं गृह्णीयात्तदपि ध्रुवम् ।
पृष्ठ ३८८८
पिप्पलं मरिचं शुण्ठी श्येनविष्ठाथ चित्रकः । गृह
धूमोन्मत्तरसौ लवणञ्च विषाष्टकम् । शान्तौ वश्ये
लिखेद्भूर्जे स्तम्भने द्वीपिचर्मणि । खरचर्मणि विद्वेषे
उच्चाटे ध्वजवाससि । नरास्थनि लिखेद्यन्त्रं मारण
मन्त्रवित्तमः । ये त्वाधाराः स्मृता यन्त्रतरङ्गे तेऽपि
सम्मताः” ।

धारय त्रि० धारि--ण । धारके “धारयैः कुसुमोर्म्मीणाम्” भट्टिः ।

धारयितृ त्रि० धारि--तृच् । १ धारणकर्त्तरि “त्वं हि

धारयिता श्रेष्ठ! कुरूणां कुरुसत्तम!” भा० उ० ९४ अ० ।
स्त्रियां ङीप् । सा च २ पृथिव्यां स्त्री शब्दरत्ना० ।

धारयिष्णु त्रि० धृ--णिच् वेदे नि० इष्णुच् । धारणशीले

“दृषदः धारयिष्णपः” सि० कौ० लोकेऽपि क्वचित् इष्णुच् ।
“शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता ।
उत्साहो वाग्मिता दार्द्यमापत्क्लेशसहिष्णुता ।
प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता । दया शीलं
दमश्चेति गुणाः सम्पत्तिहेतवः” काम० ।

धारयु त्रि० धारमभिषवमिच्छति क्यच् वेदे० नि० न दीर्घः “क्य-

श्छन्दसि” पा० उ । १ अभिषवणकामे “त्वं सोमासि
धारयुर्मन्द्रः” ऋ० ९ । ६७ । १ “धारयुरभिषवणकामः” भा०
धारयुधांरावान् मत्वर्थीयोयुरिति भाष्ये पक्षान्वरे व्या-
ख्यानात् २ धारावति च ।

धारवाक त्रि० धार्य्यते धारि--कर्मणि अच् धारो धार्य्यो

वाकः स्तोत्रं येन । स्तोत्रधारके ऋत्विगादौ “धारवाके-
ष्वृजुगाथ” ऋ० ५ । ४४ । ५ ।

धारा स्त्री धार्य्यन्ते अश्वा अत्र अनया वा धारि--अङ् ।

अश्वानां १ गतिभेदे अमरः । अश्वशब्दे दृश्यम् अन्यत्र च
“अश्वानान्तु गतिर्धारा बिभिन्ना सा च पञ्चधा । आस्क-
न्दितं धौरितकं रेचितं वल्गितं प्लुतम् । धौरितं
वल्गितं धाराप्लुतमुत्तेजितं क्रमात् । उत्तारितं चेति
पञ्च शिक्षयेत् तुरगं गतीः । उत्तेरितोऽतिवेगान्धो न
शृणोति न पश्यति । धौरितं गतिमात्रे यद्योजितं
बल्गितं पुरः । अग्रकायसमुल्लासात् कुञ्चितास्यं
नतत्रिकम् । उत्तेजितं मध्यवेगं योजनं श्लथवल्गया ।
पूर्वापरोन्नमनतः क्रमादुत्तारणं प्लुतम्” अश्वशास्त्रे
तु संज्ञान्तरेणोक्ताः । गतिः पुला चतुष्का च तद्वन्मध्य
जवा परा । पूर्णवेगा तथा चान्या पञ्च धारा प्रकी-
र्त्तिताः । एकैका त्रिविधा धारा हयशिक्षाविधौ मता ।
लम्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमादिति”
“धाराः प्रसाधयितुमव्यतिकीर्णरूपाः” माघः । ३ सैन्या-
ग्रिमस्कन्धे ४ अविच्छिन्नसन्तत्या द्रवद्रव्यस्य प्रपाते ५ खड़-
गादेर्निशितमुखे ६ पाषाणभेदे ७ ऋणे च पु० मेदि० ।
८ यशसि ९ अतिवृष्टौ १० समूहे च शब्दरत्ना० ११ प्रशान्ते
१२ उत्कर्षे १३ रथचक्रे स्त्री हेम० । १४ दाक्षिणात्यपुरभेदे
स्त्री “विश्वा उत त्वया वयं धारा उदन्या इव” ऋ० २ । ७ । ३
“घृतस्य धारा उपयन्ति विस्रुतः” ऋ० १ । १२५ । ४
“धारां शितां रामपरश्वधस्य” रघुः । “ध्रुवं स नीलो-
त्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति” शकु० ।
“धारा जवेन पतिता जलदोदरेभ्यः” मृच्छ० । “तौ
हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ” रामा० ६ । १९ अ० ।
“अथ माहेश्वरीं घारां समासाद्य धराधिपः” भा० व०
८५ अ० । “वसोः पवित्रमसि शतधारम्” यजु० १ । ३
धाराधरशब्दे दृश्यम् । १५ जनप्रवादे १६ वाचि निरु०
वृषा० आद्युदात्तता १७ वर्षणे पु० धारयुः ।

धाराकदम्ब पु० धाराकालोपलक्षितः कदम्बः । प्रावृट्काले

पुष्पवति कदम्बभेदे हेमच० ।

धारागह न० जलधारायुक्तं गृहम् । (फोआरा)

जलस्रावयन्त्रयुक्ते गृहे “धारागृहेष्वातपमृद्धिमन्तः”
रघुः । “धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत
सलिलानिलशीतकुक्षौ” सुश्रुतः ।

धाराङ्कुर पु० धाराया अङ्कुर इव । १ शीकरे २ करकाख्ये

घनोपले ३ नाशीरे च मेदि० ।

धाराङ्ग पु० धारा अङ्गमिवास्य । १ खड्गे २ तीर्थभेदे च हेमच०

धाराट पुंस्त्री धारायै अटति धारया वा अटति अट--अच्

१ चातकखगे २ अश्वे च स्त्रियां जातित्वात् ङीष् । ३ मेघे
पु० च शब्दरत्ना० ।

धाराधर पु० धारां धरति धृ--अच् । १ मेघे २ खड्गे च

मेदि० । “धाराधर! धरा वारिधारया परिपूर्य्यते ।
खगचञ्चुपुटद्रोणीपूरणे तव कः श्रमः” चातकाष्टकम्
“प्रत्यगृह्णात् प्रहृष्टात्मा धाराधरमिवाचलः” भा० वि०
६४ अ०

धारापात पु० ६ त० । जलधारायाः पतने । “धारापातैस्त्वमिव कमलान्यभ्यवर्षन् मुखानि” मेघ० ।

धारापूप न० धाराख्यम् अपूपम् । अपूपभेदे “घृतमिश्रा

कनिक्या या दुग्धेनालोड़िता तु सा । धाराख्यापूपक
साज्ये पक्वं खण्डेन योजयेत् । धारापूपं सुमधुरं
वृष्यं पित्तहरं परम् । सुस्निग्धं रोचनं हृद्यमत्यर्थं
वातनाशनम्” भावप्र० ।
पृष्ठ ३८८९

धाराफल पु० धारा असिधारेव फलेऽस्य । मदनवृक्षे राजनि०

धारायन्त्र न० धाराया जलधारायाः प्रस्रवार्थं यन्त्रम् ।

(फोआरा) इति ख्याते जलप्रस्रवयन्त्रभेदे “धारायन्त्र-
जलाभिषेककलुषे धौताञ्जने लोचने” अमरुशतकम् ।

धाराल त्रि० धारा अस्त्यस्य सिध्मा० लच् । धारायुक्ते खड्गादौ

धारावनि स्त्री धाराया अवनिरिव । वायौ त्रिका० ।

परवल्लिङ्गत्वात् स्त्रीत्वमेव युक्तं पुंस्त्वोक्तिः प्रामादिकी ।

धारावर पु० धारया जलधारया आवृणोत्याकाशम्

वृअच् ३ त० । मेघे “धारावरा मरुतो धृष्ण्वोजसः”
ऋ० २ । ३४ । १ ।

धारावर्ष पु० धारया सन्तत्या अविच्छेदेन वर्षः । अविच्छेदेन

वर्षणे । “अधारावर्षदुर्दिनम्” रघुः ।

धारावाहिन् त्रि० धारया सन्तत्या वहति वह--णिनि ।

१ सन्तत्या पातुके क्रमेणाविच्छेदेन २ जायमाने च । स्वार्थे
क । धारावाहिकोऽप्यत्रार्थे “किञ्च सिद्धान्ते धारावा-
हिकबुद्धिस्थले न ज्ञानभेदः” वेदान्तप० ।

धाराविष पु० धारायां विषमस्य धारैव विषमस्य प्राणहारक-

त्वात् वा । खड़्गे त्रिका० ।

धारासम्पात पु० धाराणां सम्यक् पातः । महावृष्टौ अविच्छिन्नवर्षणे अमरः ।

धारास्नुही स्त्री धारायुता स्नुही शाकत० । त्रिधारायां

स्नुह्याम् (तेकाँटा सिजु) । राजनि० ।

धारिन् पु० धृ--णिनि । १ पीलुवृक्षे । २ धारणकर्त्तरि ।

जटाधरः । ३ ग्रन्थार्थधारणावुक्ते च त्रि० “अज्ञेभ्यो
ग्रन्थिनः श्रेष्ठाग्रन्थिभ्यो धारिणो वराः” मनुः । स्त्रियां
ङीप् । सा च ४ धरण्यां शब्दर० । ५ शाल्मलीवृक्षे स्त्री
शब्दच० । धार ऋणमस्त्यस्य शोध्यत्वेन इनि । ६
अधमर्णे त्रि स्त्रियां ङीप् ।

धारु त्रि० धेट--रु । पानशीले जटाधरः ।

धारेश्वरी स्त्री धाराख्यपुर्य्या ईश्वरी । धारापुरीस्थे देवीभेदे

धारोष्ण न० धारायां दोहनेन निर्गमकाले उष्णम् ।

“दोहनेनोष्णधारया सद्यः पतिते दुग्धे । “धारोष्णन्त्वमृतं
पयो भ्रमहरं निद्राकरं कान्तिदं वृष्यं वृंहणमग्नि-
वर्द्धनमतिस्वादु त्रिदोषापहमिति” राजनि० ।

धार्त्तराज्ञ पुंस्त्री धृतराज्ञोऽपत्यम् अण् उपधालोपः ।

धृतराष्ट्रापत्ये स्त्रियां ङीप् ।

धार्त्तराष्ट्र पुंस्त्री धृतराष्ट्रस्यापत्यम् अण् । १ दुर्योघनादौ

२ दुःशलायां स्त्री ङीप् । ३ धृतराष्ट्रसर्पवंशोद्भवे नागभेदे पु०
स्त्री । धृतराष्ट्रे सुराजदेशे भवः अण् । ४ कृष्णवर्णचञ्चचरण-
युते श्वेतवर्णे हंसभेदे पु० स्त्री (गँड़ोहाँस) अमरः सर्वतः
स्त्रियां ङीप् । “सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धता-
रम्भाः । निपतन्ति धार्त्तराष्ट्राः कालवशान्मेदिनीपृष्ठे”
वेण्याम् । अत्र “शरत्समयवर्णनाशंसया हंसा धार्त्तराष्ट्रा
इति व्यपदिश्यन्ते” वेणी० दुर्योधनादयस्तत्र व्यङ्ग्यार्थाः ।
“धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय” इति जनमेजयप्रश्ने
“दुर्योघनोयुयुत्सुश्चेत्याद्युपक्रमे” “वैश्यापुत्रो युयुत्सुश्च
धार्त्तराष्ट्रः शताधिकः । एतदेकशतं राजन्! कन्या चैका
प्रकीर्त्तिता” भा० आ० ६७ अ० । उक्तेस्तेषां तत्सुतत्वम् ।

धार्त्तराष्ट्रपदी स्त्री धार्त्तराष्ट्रस्य हंसभेदस्य पाद इव

मूलमस्याः अन्तलोपे कुम्भप० ङीषि पद्भावः । हंसपदी-
लतायां राजनि० ।

धार्त्रेय पुंस्त्री घृताया अपत्यम् “द्व्यचः” पा० ढक् । धृताया

अपत्ये स्त्रियां ङीप् । ततः यौधेयादि० स्वार्थे अञ् । तत्रार्थे

धार्म्म त्रि० धर्मस्येदम् अण् । १ धर्मसम्बन्धिनि स्त्रियां ङीप्

“धार्मी तनुरकिल्विषी” भा० आ० ६० अ० । प्राचुर्य्ये
अण् । २ धर्ममये च । “यश्चादाय यस्मिन् धर्मे तेजो-
मयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयो-
ऽमृतमयः पुरुषः” शत० ब्रा० १४ । ५ । ५ । ११ ।

धार्म्मपत त्रि० धर्मपतेरपत्यादि अश्वपत्या० अण् । १ धर्मपति-

सम्बन्धिनि स्त्रियां ङीप् ।

धार्म्मपत्तन त्रि० तत्र भवः अण् । १ धर्मपत्तनभवे २ कोलके गन्धद्रव्ये न० हेमच० ।

धार्मिक त्रि० धर्मं वेद तच्छास्त्रमधीते वा धर्मं चरति

आसेवते वा ठक् । १ धर्मशीले २ धर्मासेवके । “चरणमिहासेवा
तेन दैववशात् धर्मे प्रवृत्तोऽपि दुर्वृत्तो न धार्मिक इति”
सि० कौ० । “विभागशीलो यो नित्यं क्षमायुक्तोदया
परः । देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः” इति
दक्षोक्तलक्षणयुक्तस्यैव धर्मिकपदवाच्यत्वनिर्णयः ।
“आचार्य्यपुत्रः १ शुश्रूषु २ र्ज्ञानदी ३ धार्मिकः ४ शुचिः ५ आप्तः
६ शक्तो ७ ऽर्थदः ८ साधुः स्वो १० ऽध्याप्या दश धर्मतः” मनुः ।
ततः पुरोहिता० भावे यक् । धार्मिक्य धर्मानुशीलने न० ।

धार्मिण न० धर्मिणां ममूहः भिक्षादिगणे धर्मन् धर्मिन् इति

पाठान्तरस्य सत्त्वात् अण् “इनण्यनपत्ये” पा० इनः
प्रकृतिभावे न नलोपः । धर्मवतां समूहे ।

धार्मिणेय पुंस्त्री धर्मिण्याः अपत्यम् शुभ्रा० ढक् । धर्मिण्याः

अपत्ये स्त्रियां ङीप् ।

धार्म्यायण पुंस्त्री धर्म्यस्य गोत्रापत्यम् अश्वा० फञ् ।

धर्म्यस्य गोत्रापत्ये स्त्रियां गोत्रत्वेन जातित्वात् ङीष् ।
पृष्ठ ३८९०

धार्य्य त्रि० धारि--ण्यत् । धारणीये “धार्य्यः कथङ्कारमहं

भवत्या वियद्विहारी वसुधैकगत्या” नैष० । “कार्य्यञ्च
तस्य दशधा हार्य्यं धार्य्यं प्रकाश्यञ्च” सा० का० “एवं
धार्य्यम् अप्यन्तःकरणादित्रिकस्य प्राणादिलक्षणया
वृत्त्या शरीरं तच्च पार्थिवादि पाञ्चभौतिकं शब्दादीनां
पञ्चानां समूहः पृथिवीति ते च पञ्च दिव्यादिव्यतया
दशेति धार्य्यमपि दशधा” सा० कौ० ।

धार्ष्ट्य न० धृष्टस्य भावः कर्म वा ष्यञ् । प्रागल्भ्ये निर्लज्जत्वे ।

“धार्ष्ट्यमेतत्तयोर्विप्र! मत्तो यत्तु करग्रहः । अहो
धार्ष्ट्यमहो धार्ष्ट्यं तयोः क्षत्रियवीरयोः” हरिवं० ३०६ अ०

धार्ष्णक न० धृष्णोर्नृपस्य पुत्रभेदे “धृष्णोस्तु धार्ष्णकं क्षत्रं

रणे धृष्टं बभूव ह” हरिवं० १५ अ० ।

धाव जवे शुद्धौ अक० शुद्धीकरणे संमार्जने च सक० भ्वा०

उभ० सेट् । स्वरितेत् पा० । धावति धावते अधावीत्
अधाविष्ट दधाव--वे । सार्वधातुके परतः वेगगतौ
सर्त्त्यादेशस्तु पर० । अनेनैवोपपत्तौ तदादेशविधानं
वेगगतौ सरतेः सार्वधातुके प्रयोगवारणार्थं
शब्दस्तोमे आत्मनेपदत्वोक्तिः मुद्रादोषात् । “गच्छति
पुरःशरीरं घावति पश्चादसंस्थितं चेतः” शकु० । “रेतः
सिक्तमधावत्” ऐ० ब्रा० । “अधावीच्चारिसंमुखम्” भट्टिः ।
“यथा पराञ्चं धावन्तमनुलिप्सेत” शत० ब्रा० ३ । २ । १ । ३६ ।
“दिवस्पृष्टे धावमानं सुपर्णम्” अथ० १३ । २ । ३७ “सततं
धावमानश्च चिन्तमानो विशाम्पते!” भा० व० १८८ अ० ।
जवे अस्य न उदित्त्वम् तेन धावित्वा धावित इत्यादि
“दिशश्चतस्रः सहसा प्रधाविताः” भा० श० २० अ० ।
“वनान्तरे तोयमिति प्रधाविताः” । ऋतुसं० अन्यत्रार्थे
उदित् धावित्वा धौत्वा धौत इत्यादि । “बाह्योद्यानस्थित्
हरशिरश्चन्द्रिकाधौतहर्म्या” “धौतापाङ्गं हरशशि-
रुचा” मेघ० । “तुषारस्रुतिधौतरक्तम्” कुमा० ।
प्राद्युपसर्गपूर्वकस्तु तत्तदुपसर्गद्योतार्थयुक्ते धावने ।

धावक पु० धावति वस्त्रादिकं मार्ष्टि धाव--ण्वुल् । १ रजके

२ वस्त्रादिप्रक्षालके ३ शीघ्रगामिनि (धाउड़िया) च त्रि०
४ नागानन्दरत्नावलीकारके कविभेदे पु० “श्रीहर्षादेर्धाव-
कादीनामिव धनम्” काव्यप्र० । “प्रथितयशसां धावकसौमिल्ल
कविपुत्रादीनां प्रबन्धानतिक्रम्येति” मालविकाग्निमित्रम् ।

धावन न० धाव--भावे ल्युट् । १ शीघ्रगमने २ प्रक्षालने च ।

“सुरसादिहिंतस्तत्र धावने पूरणे तथा” सुश्रुतः । “उच्छिष्टं
नेव भुञ्जीयां न कुर्य्यात् पादधावनम्” भा० व० ६५ अ० ।

धावनि स्त्री धाव--अनि । १ पृश्निपर्ण्याम् अमरः । २ कण्ट-

कार्य्यां राजनि० । स्वार्थे क धावनिका तत्रार्थे रत्नमा०
वा ङीप् । धावनी तयोरर्थयोः मेदि० ३ धातक्यां राजनि०

धासस् पु० धा--“वहिहाधाञ्भ्यश्छन्दसि” उणा० असुन्

“पचिवचिभ्यांसुट् च” उणा० युटोऽनुवृत्तिः उज्जलदत्तः
साधवस्तु “वसेर्णित्” उणा० इत्यतो णितोऽनुवृत्तिमाह न
युट इति भेदः तेन तन्मते धाया इत्येव । घायस्शब्दे
दृश्यम् । पर्वते उज्जलदत्तः ।

धासि पु० धारयति प्राणान् धा--वा असि । अन्ने निरु० सद्य-

श्चिद्या दुदुहे भूरि धासेः” ऋ० ३ । ५७ । १ “धासेरन्नस्यः” भा०
“महीं मित्रस्य वरुणस्य धासिम्” १० । ३० । १ ।

धि धृतौ तु० पर० सक० अनिट् । धियति अधैषीत् । दिधाय ।

धिक् अव्य० धक्क--नाशने धा--धारणे वा बा० डिकन् । १

अपकारशब्दैर्भयोत्पादने २ निर्भर्त्सने ३ निन्दायाञ्च ।
एतद्योगे निन्दाविषयवाचकशब्दात् द्वितीया । “धिक् धिक्
शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा” सा० द० ।
“धिगस्तु तृष्णातरलं भवन्मनः” नैष० । निन्दनीयपरत्वे
न द्वितीया किन्तु प्रथमैव । “धिङ्माता मम कैकेयी
यया पापमिदं कृतम्” रामा० अयो० ८२ स० ।

धिक्कृ धिक् + निन्दने कृ--करणे प्रादिस० उभ० सक० अनिट् ।

धिक्करोति धिगकार्षीत् धिक्चकार । धिक्कृतः (तिर-
स्कृतः) धिक्कारः धिक्क्रिया इत्यादि ।

धिक्ष सन्दीपने सक० क्लेशे जीवने अक० भ्वा० आत्म० सेट् ।

धिक्षते अधिक्षिष्ट दिधिक्षे ।

धिग्दण्ड पु० धिगिति दण्डः । निर्भर्त्सनरूपे दण्डे “वाग्-

दण्डं प्रथमं कुर्य्यात् धिग्दण्डं तदनन्तरम्” मनुः ।

धिग्वण पुंस्त्री मनूक्ते सङ्कीणजातिभदे “ब्राह्मणादुग्रकन्याया

मावृतो नाम जायते । आभीरोऽम्बष्ठकन्यायामायोग-
व्यान्तु धिग्वणः” मनुः । “शूद्रेण वश्यायामुत्पन्ना
आयोगवी तस्यां ब्राह्मणाद्धिग्वणो जायते” कुल्लू० । “धिग्व-
णानां चर्म कार्य्यं वेणानां भाण्डवादनम्” मनुना
तद्वृत्तिरुक्ता ।

धित त्रि० धा--क्त छान्दसो न हिः । हिते निहिते ।

“श्रुष्टीवानं धितावानम्” ऋ० ३ । २७ । २ धृते च ।

धिति स्त्री धि--धृतौ क्तिन् । धारणे

धिप्सु त्रि० दन्भ--सन् इडभावभक्षे “दम्भ इच्च अभ्यासलोपः

ततः उ । दम्भितुमिच्छौ वञ्चयितुमिच्छौ “भूयस्तं
धिप्सुमाहूय राजपुत्रं दिदम्भिषुः” भट्टिः ।
पृष्ठ ३८९१

धियसान त्रि० धि--धारणे वेदे बा० असानच् किच्च ।

धारके “स त्वं न इन्द्र धियसानः” ऋ० ५ । ३३ । २ “धिय-
सानः धारयन्” भा० ।

धियाम्पति पु० ६ त० अलुक्समा० । वृहस्पतौ त्रिका० ।

धियायत् त्रि० ई--कान्तौ (इच्छायाम्) शतृ यन् ३ त० छान्दसः

अलुक्समा० । कर्मण इच्छति “एष पुरू धियायते वृहते
देवतातये” ऋ० ९ । १५ । २ “धियायते कर्मण इच्छते
द्वितीयार्थे तृतीयायाः छान्दसोऽलुक्” भा० ।

धियायु त्रि० धि--धारणे धीयते ज्ञायते अनया धि--बा० करणे

श धिया तां प्रज्ञामात्मनः इच्छति क्यच् “क्यचश्छन्दसि”
पा० उ । आत्मनः प्रज्ञाकामशीले । “विप्रासो वा धिया-
यवः” ऋ० १ । ८ । ६ ।

धियावसु त्रि० धिया कर्मणा वसु यस्मात् वेदे अलुक्स० । कर्मणा

वसुनिमित्ते देवभेदे सरस्वतीरूपा देवतैव धियावसुः ।
“यज्ञं वष्टु धियावसुः” ऋ० १ । ३ । १० “कर्महेतुधननिमित्तभू
ताया वागदेवतायास्तथाविधं धननिमित्तत्वमारण्यकाण्डे-
“वाग्वै धियावसुः” श्रुत्या व्याख्यातम्” भा० ।

धिव प्रीणने गतौ च सक० स्वा० पर० सेट् इदित्

सार्वधातुके धिः आदेशः । धिनोति अधिन्वीत् दिधिन्व ।
इदित् धिन्व्यते । “धान्यमसि धिनुहि देवान्” यज० १ । २०
“भर्गगृहिणीं रुधिरैर्धिनोमि” प्रबोधच० । “धिनोति
नास्मान् जलजेन पूजा” नैष० ।

धिष रवे जु० पर० अक० सेट् । दिधेष्टि अधेषीत् दिधेष ।

वैदिकोऽयम् । “सूरींश्चिद्यदि धिषा वेषि जनान्” ऋ०
१ । १७३ । ८ “धिषा यदि धिषण्यन्तः सरण्यान्त्सदन्तो
अद्रिमौशिजस्य गोहे” ऋ० ४ । २१ । ६ ।

धिषण पु० धृष्णोति धृष--“धृषोधिष च संज्ञांयाम्” उणा० क्यु ।

१ वृहस्पतौ । धृष्णोत्यनया करणेल्यु । २ बुद्धौ स्त्री अमरः
“पराय धिषणाभ्यः” ऋ० ९ । ५९ । २ । “आर्य्यपुत्रार्य्य-
धिषण! प्राणनाथ! शुभव्रत” काशीख० १० अ० ।
३ स्तुतौ ४ वाचि ५ पृथिव्याञ्च निघ० ६ स्थाने च “तदा
विकुण्ठधिषणात्तयोर्निपतमानयोः” भाग० ३ । १६ । ३३ ।
“ये पारमेष्ट्यं धिषणमधितिष्ठन्न कञ्चन प्रत्युत्तिष्ठेदिति
ब्रूयुर्धर्मं ते न परं विदुः” भाग० ६ । ७ । १३ ।

धिषणाधिप पु० ६ त० । १ वाक्पतौ सुराचार्य्ये मत्स्यपु०

धिषण्य धिषणामिच्छति क्यच् छान्दसदीर्घाभावेऽल्लोपः

आत्मनःस्तुतीच्छौ अक० प० सेट् । धिषण्यति अधिषण्यीत्
“धिषा यदि धिषण्यन्तः” ऋ० ४ । २१ । ६

धिष्ट्य न० धिष--अघ्न्या० नि० । धिष्ण्यशब्दार्थे मुकुटः

धिष्ण्य न० धिष--“सानसिधर्णसीत्यादि” उणा० नि० ।

१ स्थाने २ गृहे ३ नक्षत्रे च अमरः ४ अग्नौ ५ शक्तौ च
पु० मेदि० । ६ शुक्राचार्य्ये । तत्र स्थाने “न भौमान्येव
धिष्ण्यानि हित्वा ज्योतिर्मयाण्यपि” रघुः । “स्वर्गे
लोके श्ववतां नास्ति धिष्ण्यम्” भा० महा० ३ अ० ।
नक्षत्रे “भवन्त्यतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः”
सू० सि० । ७ प्राणाभिमानिदेवे च “देवा ऊचिषे धिष्ण्या
ये” ऋ०३ । २२ । ३ “धियं बुद्ध्युपहितं देहमुष्णन्ति उष्णी-
कुर्वन्ति धिषण्याः प्राणाभिमानिनो देवाः उष--दाहे
“सानसिधर्णसीत्यादि” उणा० नि० यत् णुडाममः
धात्वादिलोपोपपदह्रस्वाः” भा० धिष्ण्यं स्थानमर्हति यत्
यलोपाल्लोपौ । ८ स्थानार्हे स्तुत्ये त्रि० । “को धिष्ण्यां प्रति
वाकं पपाद” ऋ० १० । ११४ । ९ “धिषणार्हे स्तुत्यर्हे” भा० स्तुत्यस्य
स्थानार्हत्वात् तथात्वम् । “आविवासन् रोदसी
धि मे” ऋ० ७ । ७२ । ३ । “रोदसी धिष्ण्ये
धिषणार्हे स्तुत्ये” भा० । उष--दाहे इति धात्वर्था-
मुगमात् । १० उल्काभेदे स्त्री वृ० स० ३२ अ० “दिवि
भुक्तशुभफलानां पततां रूपाणि यानि तान्युलकाः ।
धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः” ।
“उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिमिः पक्षैः” ।
“तारा फलपादकरी फलार्धदात्री प्रकीर्त्तिता धिष्ण्या”
सा च “धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽ-
न्तराभ्यधिकम् । ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा
प्रमाणेन” लक्षिता ।

धी अनादरे आराधने च दिवा० आत्म० सक० अनिट् ।

धीयते अधेष्ट । दिध्ये ओदित् धीनः । “सत्यं परं
धीमहि” भाग० १ । १ । १ कातन्त्रमतेऽस्य ओदित्त्वं नास्ति
धीत इति । वेदे तु न ओदित् “धीतः विश्वान्यश्विना-
युधं प्रधीतान्यगच्छम्” ऋ० ८ । ८ । १० “सखीयते संधीत-
मश्नुतम्” ८ । ४० । ३ । आधारे अक० इत्यन्ये ।

धी स्त्री ध्यै सम्प० भावे--क्विप् संप्रसारणञ्च । १ बुद्धौ ज्ञाने

अमरः । “प्रसीद कथयात्मानं न धियां पथि । वर्त्तसे”
कुमा० । २ मानसवृत्तिभेदे “तत्राज्ञानं धिया नश्ये-
दाभासात्तु घटः स्फुरेत्” वेदान्त० “धियो योनः
प्रचोदयात्” गायत्री सा च न्यायनये आत्मवृत्तिः ।
“बुद्ध्यादि षट्कं संख्यादिपञ्चकं भावना तथा । धर्मा-
धर्मौ गुणा एते आत्मनः स्युश्चतुर्दश” भाषा० । वेदान्तमते
पृष्ठ ३८९२
मनोवृत्तिः । “कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव” श्रुतिः ।
४ कर्मणि च “उधः स धियामुदञ्चनः” ऋ० ५ । ११ । १६ ।
“धियां कर्मणाम्” भा० “धीभिश्चन मनसा स्वेभिर-
क्षभिः” ऋ० १ । १३९ । २५ मनसि च “धीजवनोऽसि
सोम!” ऋ० ९ । ८८ । ३ “धीजवनः मनोवेगः” भा०
धीगुणशब्दे दृश्यम् ।

धीक्ष दीक्षार्थे भ्वा० आत्म० सक० सेट् । धीक्षते अधीक्षिष्ट दिधीक्षे

“स वै धीक्षते वाचे हि धीक्षते यज्ञाय हि धीक्षते यज्ञो
हि वाग् धीक्षितोह वै नामैतद्यद्धीक्षते” शत० ३ । २ । २३० ।
अयञ्च वैदिकः दीक्षसमानार्थकः । लोके तु दीक्षतेइत्यादि

धीगुण पु० ६० । “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं

तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः”
कामन्दकोक्तेषु अष्टसु बुद्धिधर्मेषु “धियां समस्तैः
स गुणैरुदारधीः” रघुः ।

धीत त्रि० धे--क्त । १ पीते धी--क्त । धीनः लोके । वेदे तु

धीतः । २ अनादृते ३ आराधिते च त्रि० ।

धीति स्त्री धे--क्तिन् । १ पाने २ पिपासायां हेमच० ।

३ अनादरे ४ आराधने च ५ अङ्गुलौ निघ० । “तमीं हिन्वन्ति
धीतयो दश व्रिशः” ऋ० १ । १४४ । ५ “धीतयो दशसंख्यका
अङ्गुलयः” भा० । “धीतिरुक्थाय शस्यते” ऋ० १ । ११० । १

धीदा स्त्री धियं ददाति दा--क । १ मनीषायां २ कन्यायां

हेम० ३ बुद्धिदायके त्रि० ।

धीन्द्रिय न० धीजनकमिन्द्रियम् । श्रोत्रादौ ज्ञानेन्द्रियशब्दे ३१५१ पृ० दृश्यम् ।

धीमत् पु० धीः प्रज्ञास्त्यस्य मतुप् । १ वृहस्पतौ २ बुद्धिमति

पण्डितादौ त्रि० । “स्वायम्भवो मनुर्धीमानिदं शास्त्र-
मकल्पयत्” भनुः स्त्रियां ङीप् ।

धीर अवज्ञायाम् नित्यमवपूर्वकोऽयम् अवधीरवत् तच्छब्दे ४२७ पृ० दृश्यम् ।

धीर त्रि० धियं राति रा--क । धियमीरयति ईर--अण् वा

उप० स० । १ पण्डिते २ धैर्य्यान्विते अचञ्चले ३ स्वैरे मेदि० ।
४ बलयुते शब्दर० । ५ मन्द्रे त्रिका० ६ विनीते संक्षिप्त० ।
६ कुङ्कुमे न० मेदि० । ८ ऋषभौषधौ पु० राजनि० । ९ बलिराजे
पु० शब्दच० । १० चिदाभासद्वारा बुद्धिवृत्तिप्रेरके चिदात्मनि
पु० । ११ मनोहरे त्रि० “धीरसमीरे यमुनातीरे वसति
वने वनमाली” गीतगो० “प्रवृद्धमन्द्राम्बुदधीरनादः”
माघः । “मृदङ्गधोरध्वनिमन्वगच्छत्” रघुः । “अवोचदेनं
गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव” रघुः ।
तत्र पण्डिते “धीरैर्धीरोद्धतः कथितः सा० द० ।
“सोपधानान्धियं धीराःस्थेयसीं खट्टयन्ति ये” माघः ।
१२ काकोल्यां १३ महाज्योतिष्मत्या स्त्री राजनि० १४
मानयुतायां मध्यायां प्रगल्भायां च नायिकायां स्त्री ।
तल्लक्षणभेदादिकं रसमञ्जर्य्यामुक्तां यथा
“मध्याप्रगल्भे मानावस्थायां प्रत्येकं त्रिबिधे धीरा
अधीरा धीराधीरा च व्यङ्ग्यकोपप्रकाशिका धीरा ।
अव्यङ्ग्यकोपप्रकाशिका अधीरा । व्यङ्गाव्यङ्गकोपप्रका-
शिका धीराधीरा । इयांस्तु विशेषः । मध्याया-
धीरायाः कोपस्य गीर्व्यञ्जिका । अधीरायाः
परुषवाक् । धीराधीरायास्तु वदनरुदिते कोपप्रकाशके ।
प्रौढ़ाया धीरायास्तु रत्यौदास्यम् । अधीरायास्तु तर्जन-
ताड़नादिः । धीराधीरायास्तु रत्यौदास्यतर्जनताड़नादि
च कोपस्य प्रकाशकम् । यत्तुधीराभेदः स्वीयायामेव न
तु परकीयायामिति प्राचीनलिखनम् तदाज्ञामात्रं
धीरत्वमधीरत्वं तदुभयं वा माननियतं परकीयाया
अपि मानश्चेत्तत्तासामप्यावश्यकम् । मानश्च स्वीयायामेव
न तु परकीयाया इति वक्तुं न शक्यते” ।
साहित्यदर्पणे तु अन्यथोक्तम् यथा
“ते धीरा चाप्यधीरा च धीराधीरेति षड्विधे” ते मध्या
प्रगल्भे तत्र । “प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा
दहेद्रुषा । धीराधीरा तु रदितैरधीरा परुषोक्तिमिः । तत्र
मध्याधीरा यथा “तदवितथमवादीर्य्यन्मम त्वं प्रि-
येति प्रियजनपरिभुक्तं यद् दुकूलं दधानः । मदधिवस-
तिमागाः, कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं
बल्लभालोकनेन” । प्रगल्भा यदि धीरा स्याच्छन्नकोपा-
कृतिस्तदा । उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः ।
तत्र प्रिये । “एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्
दूरतस्ताम्बूलानयनच्छलेन रभसाऽश्लेषो संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः” ।
प्रत्येकं ता अपि द्विधा । कनिष्ठाज्येष्ठारूपत्वान्नायकप्र-
णयं प्रति” ।

धीरता स्त्री धीरस्य भावः । १ अचाञ्चल्ये २ धैर्य्ये ३ पाण्डित्येच

“सहजामप्यपहाय धीरताम्” रघुः । “प्रत्यादेशान्न खलु
भवतो धीरतां तर्कयामि” मेघ० । त्वधीरत्व तत्रार्थे न०
तच्च नायकयोर्गुणभेदे । “प्रागल्भ्यौदार्य्यमाधुर्य्यं शोभा
धीरत्वकान्तयः । दीप्तिश्चायत्नजाभावहावहेलाः स्त्रियो-
ऽङ्गजाः । अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ।
पृष्ठ ३८९३
शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता ।
औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः । पूर्वे भावादयो
धैर्य्यान्ता दश नायकानामपि सम्भवन्ति किन्तु सर्वेऽ-
प्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णन्ति”
तल्लक्षणमुदाहरण च तत्रैव । “मुक्तात्मश्लाघना धैर्य्यं
मनोवृत्तिरचञ्चला । यथा “ज्वलतु गगने रात्रौ रात्राव
खण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण
विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमला-
न्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्”

धीरपत्री स्त्री धीरं मनोहरं पत्रमस्याः ङीप् । १ धरणी-

कन्दे राजनि० २ मनोहरपत्रयुक्ते त्रि० स्त्रियां टाप् ।

धीरप्रशान्त पु० “सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः

स्यात्” सा० द० लक्षिते नायकभेदे यथा मालतीमाधवादौ
माधवादिः ।

धीरललित पु० “निश्चिन्तो मृदुरनिशं कलापरो

धीरललितः स्यात्” सा० द० १ लक्षिते नायकभेदे यथा
रत्नावल्यादौ वत्सराजादि । २ षोड़शाक्षरपादके छन्दीभेदे
स्त्री “संकथिता भरौ नरनगाश्च धीरललिता” वृ० र० टी० ।

धीरस्कन्ध पुंस्त्री धीरः अचञ्चलः स्कन्धोऽवयवोऽस्मात् ।

मस्तिष्के हेमच० ।

धीराधीरा स्त्री “धीराधीरा (मध्या) तु रुदितैरधीरा

परुषोक्तिभिः” “धीराधीरा (प्रगलभा) तु सोल्लु-
ण्ठमाषितैः खेदयेदमुम्” सा० द० उक्ते नायिकाभेदे
अमुं नायकम् यथा “अनलङ्कृतोऽपि सुन्दर! हरसि
मनो मे यतः प्रसमम् । किं पुनरलङ्कृतस्त्वं संप्रति
नखरक्षतैस्तस्याः” ।

धीरावी स्त्री धीरमवति अव--प्रीणने अण् ङीप् । शिंशपावृक्षे नैघण्टुपार० ।

धीरोदात्त पु० “अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।

स्थेयान् निगूढ़मानो धीरोदात्तो दृढ़व्रतः कथितः”
सा० द० लक्षिते नायकभेदे “अविकत्थनोऽनात्मश्लाघाकरः
महासत्त्वी हर्षशोकाद्यनभिभूतस्वभावः । निगूढ़मानो
विनयच्छन्नगर्वः । दृढ़व्रतोऽङ्गीकृतनिर्वाहकः” सा० द०
यथा रामयुधिष्ठिरादि ।

धीरोद्धत पु० “मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः ।

आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः” सा० द० लक्षिते
१ नायकभेदे यथा भीमसेनादिः । कर्म० २ धैर्य्यान्वितोद्धते
च “धीरोद्धतः पापकारी व्यसनी प्रतिनायकः” सा० द०

धीरोष्णिन् विश्वदेवभेदे । “शैलाभः परमक्रोधी धीरोष्णी

भूपतिस्तथा” भा० अनु० ९१ अ० । विश्वदेवनामोक्तौ

धीर्य्य त्रि० धीरे भवः “भवे छन्दसीति” पा० यत् । कातरे

माषवः “पाक्या चिद्वसवो धीर्य्याः” ऋ० २ । २७ । ११ ।
“धीर्य्याः कातराः” इति भाष्यम् ।

धीलटि स्त्री लट--बाल्योक्तौ इन् धिया कर्मणा लटिः ।

कर्मणा बाल्योक्तियुतायाम् । दुहितरि हारा० ।

धीवत् त्रि० धीरस्त्यस्य मतुप् वेदे मस्य वः । बुद्धियुक्ते

“धीवती धीवतः सखा” ऋ० ६ । ५५ । ३ “धिया धीवन्तो
असपन्त तृत्सवः” ऋ० ७ । ८३ । ८ ।

धीवन् त्रि० ध्यै--क्वनिप् संप्रसारणम् । १ ध्यानयुक्ते २ कर्मयुते

उणादिकोषः । स्त्रियां “वनो र च” पा० ङीप् रश्चा-
न्तादेशः । धीवरी बहुव्रीहौ ङीप् रश्च वा । बहुधी-
वरी बहुधीवा ।

धीवर पुंस्त्री दधाति मत्स्यान् जित्वरेत्यादिना नि० ।

१ कैवर्त्ते २ तद्भार्य्यायां स्त्री ङीष । सा च बुद्धिकर्मभ्यां
युतस्त्रियाम् धीवरशब्दे दृश्यम् ।

धीशक्ति स्त्री ६ त० बुद्धेर्गुणे अमरः धीगुणशब्दे दृश्यम् ।

धीसचिव पु० धियि बुद्धौ मन्त्रणादौ सचिवः धीप्रधानः

सचीवो वा शाकत० । मन्त्रणानिपुणे मन्त्रिणि धीसखा
धीसहायादयोऽप्यत्र ।

धु कम्पने अक० चालने सक० स्वादि० उभ० अनिट् । धुनोति धुनुते

पर० सिचि इट् मुग्ध० । अधावीत् पा० निट् दुधाव दुधुविथ
दुधोथ दुधुविव दुधुवे । धोष्यति “धूनोति चम्पकवनानि
धुनोत्यशोकम्” कविरहस्यम् । अयं दीर्घान्तोऽपि स
वेट् प० सिचि नित्येट् पा० अधावीत् अधविष्ट अधोष्ट
क्त्यादिनियमात् किति लिठि नित्यमिट् दुघु-
विव । थलि तु दुधविथ दुधोथ । धविष्यति ते धोष्यति
ते । उमयोः धू(धु)तः । “धून्वन् सर्वपथीनं खे वितानं
पक्षयोरसौ” “तानधावीत् समारूढ़ान्” मट्टिः ।
“अधं धुन्वन्ति कार्तस्न्येन” भाग० ६ । १ । १५ । णिचि
धावयति दीर्धान्तस्य धूनयति “आ धेनवो धुनयन्ता-
मशिश्वीः” ऋ० ३ । ५५ । १६ । “ह्रस्वश्छान्दसः” भा०
“निशान्तनारीपरिधानधूननस्फुटागसाऽप्यूरुषु लोलचक्षुषः”
माघः । दोधूयते तत्र कस्पने चलने “दोधूयमानाश्च
महापताकाः” भा० भी० ६० अ० ।
उपसर्गपूर्वकस्तु तत्तदुपसर्गद्योत्यार्थयुते कम्पने चालने च

धु स्त्री धु--कम्पने बा० भावे डु । कम्पने एकाक्षरकोषः ।

पृष्ठ ३८९४

धुक्ष सन्दीप्तौ क्लेशे जीवने च अक० आत्म० । धुक्षते अधु-

क्षिष्ट दुधुक्षे । णिचि धुक्षयति ते “निर्वाणभूयिष्ठमथास्य
वीर्यं संधुक्षयन्तीव वपुर्गुणेन” “करेण भानोर्बहुलावसाने
संधुक्ष्यमाणेव शशाङ्कलेखा” कुभा० “सत्वं समदुधुक्षच्च”
भट्टिः ।

धुङ्क्ष पु० धुक्ष--अच् पृषो । पक्षिभेदे अजादेराकृतिगणत्वात्

स्त्रियां टाप् । “दिशां कङ्को धुङ्क्षाग्नेयी” यजु० २४ । ३१

धुत त्रि० धु--क्त । १ त्यक्ते २ विधूते च मेदि० ।

धुन त्रि० धूनयति धूनि अच् पृषो० । कम्पके । “धुनेतयः सुप्र

केतम्” ऋ० ४ । ५० । २

धुनि(नी) स्त्री धुनोति वेतसादीन् धु--निक् धूनयति

वेतसान् धूनि--इन् पृषो० ह्रस्वो वा ङीप् वा ।
१ नदीमात्रे अमरः । “दिवे दिवे धुनयो यन्त्यर्थम्”
ऋ० २ । ३० । २ “धुनयोनद्यः” भा० । “स्वर्धून्यभून्नभसि सा
पतती निमार्ष्टि” भाग० ८ । २१ । ६ २ असुरभेदे पु०
“स्वप्नेनाभ्युप्य चुमुरिं धुनिञ्च” २ । १५ । ९ । “चुमुरिं
धुनिम् एतन्नामासुरौ” भा० ३ कम्पके त्रि० ४ जलप्रति-
रोधके असुरभेदे पु० “त्वं धुनिरिन्द्र! धुनिमतीः” ऋ० १ ।
१७५ । ९ “हे इन्द्र! त्वं धुनिः कम्पयिता शत्रूणामसि अतो
धुनिमतीः कम्पनोपेततरङ्गवती । अथ वा धुनिर्नाम
जलप्रतिरोधकार्यसुरः स एव प्रतिरोघकतयास्ति यासां
तादृशीरपः” भा० तरङ्गस्य कम्पनवत्त्वात् धुनित्वम् ।
धूनयति धू--णिच्--नुक् इन् पृषो० ह्रस्वः । सप्तानां मरुतां
मध्ये ५ मरुद्भेदे । ते च मरुतः “उग्रश्च १ भीमश्च २
धान्तश्च ३ धुनिश्च ४ । सासह्वां ५ श्चाभियुग्वा ६ च विक्षिपः ७
स्वाहा” यजु० ३९ । ७ उक्ताः ।

धुनीनाथ ६ त० समुद्रे राजनि० । धुनीपत्यादयोऽप्यत्र ।

धुन्धु पु० मधुराक्षसस्यापत्ये “उतङ्क उवाच । भवता रक्षणं

कार्य्यं तत्तावत् कर्तुमर्हसि । निरुद्विग्नस्तपश्चर्तुं न
हि शक्नोमि पार्थिव! । ममाश्रमसमीपे वै समेषु
मरुधन्वसु । समुद्रो वालुकापूर्ण उज्जानक इति श्रुतः ।
देवतानामबध्यश्च महाकायो महाबलः । अन्तर्भूमि-
गतस्तत्र बालुकान्तर्हितो महान् । राक्षसस्य मधोः
पुत्रो धन्धुर्नाम महासुरः । शेते लोकविनाशाय तप
आस्थाय दारुणम् । संवत्सरस्य पर्य्यन्ते स निश्वासं
विमुञ्चति । यदा तदा भूश्चलति सशैलवनकानना ।
तस्य निश्वासवातेन रज उद्धूयते महत् । आदित्य-
पथमावृत्य सप्ताहं भूमिकम्पनम् । सविस्फुलिङ्गं
साकारं सधूममतिदारुणम् । तेन तात! न शक्नोमि
तस्मिन् स्थातुं स्व आश्रमे । तं मारय महाकामं
लोकानां हितकाम्यया । लोकाः सुस्था भवन्त्वद्य तस्मिन्
विनिहते त्वया । त्वं हि तस्य बधायैकः समर्थः पृथिवी-
पते! । विष्णुना च वरो दत्तो मह्यं पूर्वयुगेऽनघ! ।
यस्तं महासुरं रौद्रं हनिष्यति महाबलम् । तस्य त्वं
वरदानेन तेज आप्याययिष्यसि । न हि धुन्धुर्महा-
तेजास्तेजसाऽल्पेन शक्यते । निर्दग्धुं पृथिवीपाल!
दिव्यवर्षशतैरपि । वीर्य्यं हि सुमहत्तस्य देवैरपि सुरा-
सदम् । स एवमुक्तो राजर्षिरुतङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात्तस्मिन् धन्धुविवर्हणे” हरिवं० ११ अ०

धुन्धुमार पु० धुन्धुं मारयति मारि--अण् उप० स० ।

राजभेदे “राजा हि वीर्य्यवांस्तात! इक्ष्वाकुरपराजितः ।
वृहदश्व इति ख्यातो भविष्यति महीपतिः । तस्य पुत्रः
शुचिर्दान्तः कुबलाश्व इति श्रुतः । स योगबलमास्थाय-
मामकम् पार्थिवोत्तमः । शासनात्तव विप्रर्षे! धुन्धु-
मारो भविष्यति” भा० व० २०० अ० ।
“वृहदश्व उवाच । भगवन्! न्यस्तशस्त्रोऽहमयन्तु
तनयो मम । भविष्यति द्विजश्रेष्ठ! धुन्धुमारो न
संशयः । स तं व्यादिश्य तनयं राजर्षिर्द्धुन्धुमारणे ।
जगाम पर्वतायैव तपसे संशितव्रतः । कुबलाश्वस्तु पुत्राणां
शतेन सह पार्थिवः । प्रायादुतङ्कसहितो धुन्धोस्तस्य
निवर्हणे । तमाविशत्तदा विष्णुस्तेजसा भगवान् प्रभुः ।
उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया । तस्मिन्
प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् । एष श्रीमान-
सह्योऽद्य धुन्धुमारो भविष्यति । दिव्यैर्माल्यैश्च तं देवाः
समन्तात् समवाकिरन् । देवदुन्दुभयश्चैव प्रणेदुर्भरत-
र्षभ! । स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान् ।
समुद्रं स्वानयामास बालुकापूर्णमव्ययम । नारायणेन
कौरव्य! तेजसाऽप्यायितस्तदा । स वभूव महातेजा भूयो
बलसमन्वितः । तस्य पुत्रैः स्वनद्भिश्च बालुकान्तर्हितस्तदा ।
धुन्धुरासादितो राजन्! दिशमावृत्य पश्चिमाम् ।
मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव । वारि सुस्राव
वेगेन महोदधिरिवोदये । सोमस्य, भरतश्रेष्ठ! धारोर्मि-
कलिलं महत् । तस्य पुत्रशतं दग्धं त्रिभिरूनन्तु
रक्षसा । ततः स राजा कौरव्य! राक्षसं तं महाव-
लम् । आससाद महातेजा धुन्धुं धुन्धुनिवर्हणः ।
तस्य वारिमयं वेगमपिबत् स नराधिपः । योगी
योगेन वह्निं स शमयामास वारिणा । निहत्य तं महा-
पृष्ठ ३८९५
कायं बलेनोदकराक्षसम् । उतङ्कं दर्शयामास कृतकर्मा
नराधिपः” हरिवं० ११ अ० २१४१ पृष्ठे कुबलाश्वशब्दे
अस्य चरितानीति यत् लिखितं तत् प्रमादात्
किन्तु धुन्धुमारशब्द तच्चरितानि इत्येव तत्र पाठो
बोध्यः । एतच्छब्दे च हरिवं० तच्चरितादिकथाऽत्रोक्ता
२ शक्रगोपे ३ गृहधूमे ४ पदालिके च मेदि० ।

धुर् स्त्री धुर्व--क्विप् वा टाप् । १ चिन्तायाम्, २ रथाद्यग्रभागे,

३ यानमुखे ४ भारे च अमरः “धुर्य्याणां च धुरो मोक्षम्”
रघुः । ५ अग्रे न० “अपांशुलानां धुरि कीर्तनीया” रघुः ।
“गौरिव गुरुणा नित्यं धूर्षु नियोज्यमानः” भा० आ०
२३ अ० “तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे” रघुः ।
समासे अ समा० “न गर्दभा वाजिधुरां वहन्ति” मृच्छ० ।
“अत्रस्नुभिर्युक्तधुरं तुरङ्गैः” रघुः । नञ्समा० न
अ समा० । “न मामधुरि राजेन्द्र! नियोक्तुं त्वमिहा-
र्हसि” भा० व० ३२ अ० । अक्षस्य तु न अ समा० । अक्षधूः ।
“प्रतिगृह्याक्षधुरावनक्ति” का० श्रौ० ३८ । ३ । ३२ । ५ हिंसके
त्रि० । “दश धुरो दशयुक्तम् वहद्भ्याम्” ऋ० १० । ९४ । ७
“धुरोधूर्भिर्हिंसितृभिः तृतीयार्थे प्रथमा” भा० असंज्ञाया-
मपि टावन्तस्य क्वचित् तत्पुरुषे ङ्यापोरिति ह्रस्वः ।
“तार्क्ष्यं मारुतं रहोभिर्वाजिभि धुरवाहिभिः” भा० द्रो०
९९ अ० भावे क्विप् । ६ पीड़ायां च ।

धुरन्धर त्रि० धुरां धारयति खच् खचि ह्रस्वः । १

भारवाहके वृषादौ “यस्माद्देवगणाः सर्वे स्थावराणि चराणि
च । धुरन्धराङ्गे तिष्ठन्ति तस्मात् भक्तिः शिवेऽस्तु मे”
हेमा० दा० । २ धववृक्षे पु० मेदि० । ३ तत्तत्कर्मनिर्वाहरूप
भारवाहे च । “सन्त एव सतां नित्यमापदुद्धरण-
क्षमाः । गजानां पङ्कमग्नानां गजा एव धुरन्धराः”
हितो० । ४ श्रेष्ठे च । “धुरन्धरः पुण्यकृदेष तापसः”
भा० उ० ३७ अ० ।

धुरीण त्रि० धुरं वहति सर्वधुरादित्यत्र पा० योगविभा-

गात् ख । १ भारवाहके अमरः । २ श्रेष्ठे शब्दच० ।

धुरीय त्रि० धुरमर्हति छ । वृषे राजनि० ।

धुर्य्य त्रि० धुरं वहति “धुरो यड्ढवौ” पा० यत् ।

तद्धितयपरत्वान्न दीर्घः । १ धुर्वहे वृषादौ २ कार्य्यनिर्वाहके
“प्रागल्भमात्मा धुरि धुर्य्यवाग्मिनम्” किरा० । “धुर्य्यः
कर्मनिर्वाहकः” मल्लि० । “समस्तकार्य्येषु गतेन
धुर्य्यताम” माघः । ३ भारवाहके अमरः । ४ श्रेष्ठे
शब्दार्थचि० । ५ वृषभे ६ ऋषभौषधौ च पु० राजनि०
वृषादौ “नाविनीतैर्व्रजेद्धुर्य्यैः” मनुः । “येनेदं ध्रियते
विश्वं धुर्य्यैर्यानमिवाध्वनि” कुमा० । “रात्रिर्गता
मतिमतां वर! मुञ्च शय्यां धात्रा द्विधैव ननु धूर्ज-
गतो विभक्ता । तामेकतस्तव विभर्त्ति गुरुर्विनिद्रो
यस्या भवानपरधुर्य्यपदावलम्बी” रघुः । ७ विष्णौ पु० ।
“स्कन्दः स्कन्दधरो धुर्य्यः” विष्णु० । समस्तजन्तुजन्मा-
दिलक्षणकार्य्यनिर्वाहकत्वात्तस्य तथात्वम् भाष्ये उक्तम् ।

धुर्व हिंसे भ्वा० पर० सक० सेट् । धूर्वति अधूर्वीत् । दुधूर्व ।

ईदित् धूर्त्तः । “अधूर्वन् भूधरैर्भृशम्” भट्टिः ।

धुवक त्रि० धू--क्वुन् । १ गर्भमोचके उज्जल० । (धुया)

ख्यातायां २ गीतिभेदे स्त्री । क्षिपका० पाठान्तरे न टापि
अत इत्त्वम् । ततः चतुरर्थ्यां प्रेक्ष्यादि० इनि धुवकिन् ।
तत्सन्निहितदेशादौ त्रि० । ततः पिच्छा० अस्त्यर्थे
इलच् । धुवकिल धुवकयुक्ते त्रि० ।

धुवन पु० धु--धू--वा क्युन् । १ वह्नौ उज्जलद० “ये यज्ञे धुवनं

तन्वते” शत० ब्रा० १३ । २ । ८ । ५ । २ चालकमात्रे त्रि० ।
“अयमञ्चति पञ्चशरानुचरो नवनीपवनीधुवनः पवनः”
सा० द० टी० ।

धुवित्र न० धूयते अनेन कुटा० धु--विधूनने इत्र । वह्नि-

संधुक्षणाय मृगचर्मादिरचिते याज्ञिकानां १ व्यजने
२ तालवृन्तके अमरः ।

धुस्तु(स्तू)र पु० धूस्तूर + पृषो० । (धुतरा) ख्याते वृक्षे अमरः

धू कम्पने भ्वा० उभ० सक० वेट् । धवति ते अधावीत् अधौषीत्

मुग्ध० पा० मते प० सिचि नित्येटितिभेदः अधमविष्ट अधोष्ट ।
दुधाव । “यत् कानने धवति चन्दनञ्जरीश्च” कविर० ।

धू कम्पने वा० चुरा० उभ० पक्षे तुदा० कु० पर० सक० सेट् ।

धूनयति ते धुवति अदूधुनत् अधुवीत् । धूनयाम् बभूव
आस चकार दुधाव । दुधुविथ “चूतं धुनाति धुवति
स्फुरितातिमुक्तम् । वायुर्विधूनयति केशरपुष्परेणून्”
कविरहस्यम् ।

धू कम्पने स्वा० क्य्रादि० प्वादिश्च उभ० सक० वेट् । धूनोति

धूनुते धुनाति धुनीते । अधावीत् अधौषीत् अधविष्ट
अधोष्ट “धूनोति चम्पकवतानि धुनोत्यशोकं चूत
धुनाति धुवति स्फुरितातिमुक्तम्” कविरहस्यम् ।

धू स्त्री धू--क्विप् । विधूनने मेदि० ।

धूः पति पु० धुरः पतिः अहरादित्वात् पत्यादौ षत्वरत्वो-

पाध्मानीया वा । भारपतौ भारसहे पक्षे धुष्पति र्धूपति
पति तत्रार्थे
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/धर्मसेतु&oldid=57785" इत्यस्माद् प्रतिप्राप्तम्