वाचस्पत्यम्/दैवदारव

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३७५९

दैवदारव त्रि० देवदारोर्विकारः “ओरञ्” पा० अञ् ।

देवदारुवृक्षविकारे यूपादौ

दैवदीप पु० दैवेन दीप इव । नेत्रे त्रिका० । तस्य

दीपवदर्थप्रकाशकत्वात् तत्तुल्यत्वं दैवाधीनतयैवान्धत्वादिशू-
न्यत्वेन दीपतुल्यत्वमिति तस्य तथात्वम् ।

दैवन्त्यायन पु० देवन्त + बा० गोत्रे यञ् ततोयूनि फक् ।

त्र्यार्षेयगोत्रप्रवरभेदे “यास्कवाधौलमौनमौकशार्करा-
क्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्यायनानां भार्ग-
ववैतहव्यसावेतसेति” आश्व० श्रौ० १२ । १० “अयं गण”
त्र्यार्षेयः । प्रवरेषु क्वचिच्छास्त्रान्तरवशात् पदविपर्य्या-
सोवर्णविपर्य्यासो वा पदान्यत्वं वाऽस्ति न तेन प्रवरा-
न्यत्वं भवतीति मन्तव्यम्” नारा०

दैवपर त्रि० दैवं भाग्यं परं चिन्त्यं यस्य । कार्यसिद्धौ

भाग्यस्य प्रधानतया चिन्तके यद्भविष्ये हेम० “सम्प-
त्तेश्च विपत्तेश्च दैवमेव हि कारणम् । इति दैवपरो-
ध्यायन्नात्मना न विचेष्टते” काम० नी० ।

दैवप्रश्न पु० दिवि आकाशे भवः दैवः कर्म० । “नक्तं

निर्गत्य यत्किञ्चिच्छुभाशुभकरं वचः । श्रूयते तद्विदुर्घीरा
दैवप्रश्नमुपश्रुतिम्” हारा० उक्ते शुभाशुभसूचनार्थे
आकाशभवे वाक्यभेदे उपश्रुतौ आकाशवाण्याम् ।

दैवमति पुंस्त्री० देवमतस्यर्षेरपत्यम् इञ् । देवमतस्यर्षेर-

पत्ये स्त्रियां वा ङीप् । ततोयूनि फक् । दैवमतायन
तदीये यून्यपत्ये तत्र तौल्व० न फको लुक् । अत्र दैवमिति
इति तौल्वल्या० गणे पाठान्तरं स च देवमितस्यापत्ये
अन्यत् दैवमतिवत् ।

दैवयज्ञि पुंस्त्री० देवो देवार्थो यज्ञो यस्य तस्यापत्यम् इञ् ।

देवार्थयज्ञकारकस्यापत्ये स्त्रियां वा ङीप् । ततोयून्य-
पत्ये फक् । दैवयज्ञायन तदीये यून्यपत्ये । अत्र तौल्व०
न फको लुक् ।

दैवयुग न० देवस्वेदम् अण् कर्म० । दिव्ये युगे देवमानेन

द्वादशसहस्रवर्षमितकाले “यदेतत् परिसंख्यातमादावेव
चतुर्युगम् । एतत् द्वादशसाहस्रं देवानां युगमुच्यते” मनुः
“सुरासुराणामन्योऽन्यमहोरात्रो विपर्ययात् ।
तत्षष्टिः षड़्गुणा दिव्यं वर्षमासुरमेव च” सू० सि० “देव-
दैत्यानां बहुत्वाद्बहुवचनम् । अन्योऽन्यम् परस्परग्
विपर्ययात् व्यत्यासात् अहोरात्रः । अयमर्थः ।
देवानां यद्दिनं तदसुराणां रात्रिः । देवानां या रात्रि-
स्तदसुराणां दिनम् । दैत्यानां यद्दिनं तद्देवानां
रात्रिः । देत्यानां या रात्रिस्तद्देवानां दिनमिति ।
तथा च देवदैत्ययोर्दिनरात्र्योरेव व्यत्यासाद्भेदो न
मानेनेति । तयोरहोरात्रस्यैक्याद्देवाहोरात्रमानकथने-
नैव दैत्याहोरात्रमानमुक्तमिति मावः” रङ्ग० । “तद्घाशस-
हस्राणि चतुर्युगमुदाहृतम् । सूर्य्याव्दसङ्ख्यया द्वित्रि
सागरैरयुताहतैः । सन्ध्यासन्ध्यंशसहितं विज्ञेयं
तच्चतुर्युगम् । कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया”
सू० सि० ।

दैवयोग पु० दैवस्य योगः फलोन्मुखतया सम्बन्धः । भाग्यस्य फलोन्मुखतया सम्बन्धे ।

दैवराजिक त्रि० देवराजे भवादि काश्या० ठञ् ञिठ् वा ।

देवराजभवे स्त्रियां ठञि ङीप् ञिठि टाप् ।

दैवराति पुंस्त्री० देवरातस्यापत्यम् इञ् । १ देवरातस्यापत्ये

२ जनकराजपितरि च जनकस्य देवरातित्वस्य भा० शा०
३१२ अ० उक्तेः यथा “याज्ञवल्क्यमृषिश्रेष्ठं दैवराति-
र्महायशाः । पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां
वरम्” देवरातशब्दे दृश्यम् ।

दैवल पु० देवलस्यापत्यं शिवा० अण् । देवलस्यर्षेरपत्ये सच

शाण्डिल्यगोत्रस्य प्रवरर्षिभेदः यथाह आश्व० गृ० १२ । १४ ।
७ । ८ “शाण्डिलानां शाण्डिलासितदैवलेति” “कश्यपा-
सितदैवलेति वा” ।

दैवलक पु० देवं देवयोनिं लाति गृह्णाति पूज्यत्वेन

ला--क स्वार्थे कुत्सितार्थे क वा । १ भूतसेवके हारा०
देवलकस्येदम् अण् । २ देवलसम्बन्धिनि त्रि० ।

दैवलेखक पु० दैवं लिखति लिख--ण्वुल् । मौहूर्त्तिके त्रिका० ।

दैववंश पु० देवानामयम् अण् कर्म० । देवानां वंशे तद्वंश-

वर्णनञ्च वायुपु० ३१ अ० यथा “पितृवंशप्रसङ्गेन
कथाह्येषा प्रकीर्तिता । पितॄणामानुपूर्व्येण देवान् वक्ष्या-
म्यतःपरम् । त्रेतायुगमुखे पूर्वमासन् स्वायम्भुवेऽन्तरे ।
देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः । अजिता
ब्रह्मणः पुत्रा जिताजिदजिताश्च ये । पुत्राः स्वायम्भुव-
स्यैते शुक्रनाम्ना तु मानसाः । तृप्तिमन्तोगणा ह्येते
देवानान्तु त्रयः स्मृताः । छन्दोगास्तु त्रयस्त्रिंशत् सर्वे
स्वायम्भुवस्य ह । यदुर्ययातिर्द्वौदेवौ दीधयः स्रवसो
मतिः । विभासश्च क्रतुश्चैव प्रजातिर्विशतोद्युतिः ।
वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः । अभिमन्यु-
रुग्रदृष्टिः समयोऽथ शुचिश्रवाः । केवलो विश्वरूपश्च
सुपक्षो मधुपस्तथा । तुरीयो निर्हपुश्चैव युक्तोग्रावा-
शिनस्तु ते । यमिनो विश्वदेवाद्यो यविष्ठोऽमृतवानपि ।
पृष्ठ ३७६०
अजिरो विभुर्विभावश्च मृलिकोऽथ विदेहकः । श्रुति
शृणो वृहच्छुक्रोदेवा द्वादश कीर्तिताः । आसन् स्वाय-
म्भुवस्यैते अन्तरे सोमपायिनः । त्विषिमन्तो गणा ह्येते
वीर्यवन्तो महाबलाः । तेषामिन्द्रः सदा ह्यासीद् विश्व-
भुक् प्रथमो विभुः । असुरा ये तदा तेषामासन् दायाद
वान्धवाः । सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः ।
अष्टौ पितृभिः सार्द्धं ते नासत्या देवयोनयः” ।

दैववाणी स्त्री कर्म० । १ दैवप्रश्ने उपश्रुतौ २ संस्कृतवाक्ये

“संस्कृतानाम दैवी वाक्” काव्यादर्शः ।

दैवशर्मि पुंस्त्री० देवशर्मणोऽपत्यम् बाह्वा० इञ् । देवशर्मणो-

ऽपत्ये ततः गहादि० भवाद्यर्थे छ । दैवशर्मीय तेद्भवादौ त्रि०

दैवसर्ग पु० कर्म० । देवादिसर्गभेदे दैवशब्दे दृश्यम् ।

दैवसृष्टि स्त्री देवस्येयम् अण दैवी कर्म० । स्वयम्भूकृ-

तायां देवानां सृष्टौ । तत्प्रकारश्च वायुपु० ९ अ० उक्तो
यथा “सृष्ट्वा सुरांस्तु देवेशस्तनुमन्यामपद्यत । अरक्तां
सत्त्वबहुलां ततस्तां सोऽभ्ययूयुजत् । ततस्तां युञ्जतस्तस्य
प्रियमासीत् प्रभोः किल । ततो मुखे समुत्पन्ना दीव्यत-
स्तस्य देवताः । यतोऽस्य दीव्यतो जातास्तेन देवाः
प्रकीर्तिताः । धातुर्दिवीति यः प्रोक्तः क्रीड़ायां स
विभाव्यते । तस्यान्तन्वान्तु दिव्यायां जज्ञिरे तेन देवताः” ।

दैवस्थानि पुंस्त्री० देवस्थानस्यर्षेरपत्यम् इञ् । १ देवस्थान-

स्यर्षेरपत्ये स्त्रियां वा ङीप् । ततः यूनि फक् तस्य
पैला० लुक् । २ दैवस्थानि तदीये यून्यपत्ये च ।

दैवहव पु० ब० व० । दैवहव्यस्य देबहूनामकर्षेरपत्यस्य छात्राः

कण्वा० अण् यञो लुप् । दैवहव्यस्य छात्रेषु ।

दैवहीन त्रि० दैवेन भाग्येन हीनः । शुभभाग्यहीने

तदनुमापकहेतवश्च दीपिकायामुक्ता यथा “व्यसनी विनष्ट
धर्मा त्रिविधोत्पातपीड़ितोयश्च । पुरुषः स दैवहीनः
कथितो दैवान्वितोऽन्यः । दैवहीनं रिपुं जेतुं याया-
द्दैवान्वितो नृपः । योज्यो दैवान्वितामात्या दैवहीने
तथात्मनि” तत्रैव ।

दैवागारिक त्रि० देवागारे नियुक्तः “तत्र नियुक्तः” इत्य-

धिकारे अगारन्तात् ठक् । देवागारनियुक्ते देवागारिक
इति क्वचित् पाठदर्शनात् ठना निष्पन्नमित्युक्तं प्राक् ।

दैवात् अव्य० हठादित्यर्थे शब्दार्थचि० ।

दैवात्यय पु० दैवकृतोऽत्यय उत्पातः । दैवकृते उत्पाते

“अन्यत्र दैवात्ययात्” वृ० सं० २ अ० । दिव्यान्तरिक्षभूमिजेषू-
त्पातेषु यद्भावि अशुभं स दैवात्यय इत्यर्थः ।

दैवादिक पु० दिवादिगणे पठितः ठञ् । दिवादिगणे पठिते

धातौ “सेधेति शपानिर्देशो दैवादिकनिवृत्त्यर्थः” मनो० ।

दैवारिप पु० देवारीन् असुरान् पाति आश्रयदानेन पा--क

देवारिपः समुद्रस्तत्र भवः अण् । शङ्खे तस्य समुद्रजात-
त्वात् तथात्वम् “भैरवं शब्दमत्यर्थं वानरस्य च
कुर्वतः । दैवारिपाच्च बीभत्सुस्तस्मिन् दौर्य्योधने बले” भा०
वि० ५ अ० “दैवारिपात् शङ्खात् भैरवं शब्दं कुर्वतः
इत्यर्थः” नीलक० ।

दैवासुर न० देवासुरस्य वैरम् द्वन्द्वात् वैरे वुणि प्राप्ते “न वैरे

देवासुरादिभ्यः” वार्त्ति० तन्निषेघे अण् । १ देवासुरयोर्वैरे ।
देवासुरशब्दोऽस्त्यत्र अनुवाके अध्याये वा विमुक्ता० अण् ।
देवासुरशब्दयुक्ते २ अनुवाके ३ अध्याये च पु० ।

दैवाहोरात्र पु० कर्म० । देवानां स्वमानेन दिनरूपे मानुषे

वर्षात्मके काले ।

दैविक त्रि० देवस्येदम् देवानुद्दिश्य प्रवृत्तः वा० ठक् ।

देवमात्रोद्देशेन कर्तव्ये श्राद्धे । “देवानुद्दिश्य यच्छ्राद्धं
तत्तु दैविकमुच्यते । हविष्येन विशिष्टेन सप्तम्यादिषु
यत्नतः” भविष्यपु० । दैवशब्दोऽपि तत्रार्थे । “सम्पन्नमि-
त्यभ्युदये दैवे रुचितमित्यपि” मनुना देवमात्रोद्देश्यक श्राद्धे
तृप्तिप्रश्नेरुचितशब्दस्य वक्तव्यतोक्तेः दैवशब्दस्य
निरपेक्षदेवमात्रोद्देश्यकश्राद्धपरत्वावगतेः । २ देवसम्बन्धिनि
त्रि० । “अहोरात्रे विभजते सूर्य्यो मानुषदैविके ।
दैविकानां युगानान्तु सहस्रपरिसङ्ख्यया । यत् प्राक्
द्वादशसाहस्रमुदितं दैविकं युगम्” “दाशापराधत-
स्तोये दैविके नास्ति निग्रहः” इति च मनुः ।

दैवी स्त्री देवस्येयम् अण् अञ् वा । १ देवसम्बन्धिन्यां

स्त्रियां “दैवी सम्पद् विमोक्षाय” गीता । “काला मे
मातर्क्यहेतुगहना दैवी सतां यातना” शान्तिक० । २ दैववि-
वाहेनोढायां स्त्रियां “ब्राह्मीपुत्रः पुरुषानेकविंशतिं पूयते
देवीपुत्रचतुर्दश आर्षीपुत्रः सप्त” बिष्णुसं० ।

दैवोदास पु० दिवोदासे भवः अण् । १ दिवोदासभवे तस्या-

पत्यं शिवाद्यण् । २ तदपत्ये स च प्रवरभेदः यथाह
आश्व० श्रौ० १२ । १० । १२ मित्रयुवां वाध्रश्चेति “त्रिप्रवरं
भार्गवदिवोदासवाध्रश्चेति” दिवोदासेनाहूयमानः अण् ।
३ दिवोदासेनाहूयमाने वह्नौ च “दैवोदासो अग्निर्देवाँ
अच्छा न मज्मना” ऋ० ८ । १०३ । २ “दैवोदासः दिवोदा-
सेनाहूयमानोऽग्निः” भा० तस्यापत्यम् इञ् । दौवो-
दासि इत्येव स च प्रतर्द्धेन ।
पृष्ठ ३७६१

दैव्य न० देवस्येदम् “देवात् यञञौ” पा० यञ् । १ देवस-

म्बन्धिनि २ भाग्ये च “ब्रूषे नमसा दैव्यं जनम्” ऋ०
२ । ३०११ ।

दैशिक त्रि० देशेन निर्वृत्तः तस्येदम् वा ठञ् । १ देशकृते २

देशसम्बन्धिनि च स्त्रियां ङीप् । “परत्वञ्चापरत्वञ्च
द्विविधं परिकीर्तितम् । दैशिकं कालिकञ्चापि मूर्त एव
तु दैशिकम्” । परत्वं सूर्यसंयोगभूयस्त्वज्ञानतो भवेत् ।
अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् । तयोरसम-
वायी तु दिक्संयोगस्तदाश्रये । दिवाकरपरिस्पन्द पूर्वो-
त्पन्नत्वबुद्धितः । परत्वमपरत्वन्तु तदनन्तरबुद्धितः । अत्र
त्वसमवायी स्यात् संयोगः कालपिण्डयोः । अपेक्षाबुद्धि-
नाशेन नाशस्त्वेषामुदाहृतः” भाषा० । “दैशिकपरत्वं बहुतर
सूर्यसंयोगान्तरितत्वज्ञानादुत्पद्यते । एवं तदल्पीयस्त्व-
ज्ञानादपरत्वमुत्पद्यते । अत्रावधित्वार्थं द्वितीयापेक्षा ।
यथा पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः । पाटलि
पुत्रात् कुरुक्षेत्रमपेक्ष्य प्रयागोऽपर इति । तयोर्दैशिक-
परत्वापरत्वयोः । असमवायी असमवायिकारणम् ।
तदाश्रये दैशिकपरत्वापरत्वाश्रये । दिवाकरेति । अत्र
परत्वं अपरत्वञ्च कालिकं ग्राह्यम् । यस्य सूर्यपरिस्प-
न्दापेक्षया यस्य सूर्यपरिस्पन्दोऽधिकः स ज्येष्ठः यस्य
न्यूनः स कनिष्ठः । कालिकपरत्वापरत्वे जन्यद्रव्य एब ।
अत्र कालिकपरत्वापरत्वयोः । एषां कालिकदैशिकपर-
त्वापरत्वानाम्” सि० मू० ।

दैशिकविशेषणता स्त्री कर्म० । देशकृते अभावीयस्वरूपसम्बन्धभेदे ।

दैष्टिक त्रि० दिष्टं भाग्यमिति मतिर्यस्य “अस्ति नास्ति

दिष्टं मतिः” पा० ठक् । भाग्यप्रमाणके दैवपरे । “नाल-
म्बते दैष्टिकतां न निषीदति पौरुषे” माघः ।

दैहिक त्रि० देहे भवः तस्येदं वा ठक् । १ देहभवे २ देहस-

म्बन्धिनि च “दैहिकानां मलानां च शुद्धिषु द्वादश-
स्वपि । वसाशुक्रमसृङ्मज्जामूत्रविड् घ्राणकर्णविट् ।
श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः” मनुः
“एष हि ब्रह्मबन्धूनां बधो नान्योऽस्ति दैहिकः” भाग०
१ । ७ । ५६ । स्त्रियां ङीप् । “प्रजाः ससर्ज कतिधा दैहि-
कीर्मानसीर्विभुः” भाग० ३ । १० । १

दैह्य त्रि० देहे भवः ष्यञ् । देहभवे जीवे । “अथापि वत मे

दैह्यो ह्यात्मा चैवात्मना विभुः” भाग० १ । ४ । ३० “सूर्यो-
ऽग्निस्त्वं मरुद्देवः सोमः सन्ध्याहनी दिवा । कंकुः
स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः” भाग० ६ । १ । ३९ ।

दो छेदे दिवा० पर० सक० अनिट् । द्यति अदात् दितः दितिः ।

दोःशिखर न० ६ त० स्कन्धे राजनि० ।

दोःसहस्रभृत् पु० दोःसहस्रं बाहुसहस्रं बिभर्त्ति भृ--क्विप् ।

१ कार्त्तवीर्य्यार्जुने २ बाणासुरे च “सहस्रभुजभृत् श्रीमान्
कार्त्तवीर्य्योऽभवत् प्रभुः” भा० अनु० १५२ अ० कार्त्तवीर्यस्य
तथात्वमुक्तम् “अथ वीर्यमदोत्सिक्तो बाणो बाहुसह-
स्रवान्” हरिवं० १७५ अ० बाणस्य सहस्रबाहुतोक्ता ।

दोग्धृ त्रि० दुह--तृच् । १ दोहनकर्त्तरि २ गोपाले ३ वत्से

४ अर्थोपजीविनि ५ अर्के ६ दोहनशीले च मेदि० “मेरौ
स्थिते दोग्धरि दोहदक्षे” कुमा० स्त्रियां ङीप् । सा च
७ धेन्वाम् । “दोहावसाने पुनरेव दोग्ध्रीम्” रघुः
“अचला ह्यक्षया भूमिर्दोग्ध्री कामानिवोत्तमान् । दोग्ध्री
वासांसि रत्नानि पशून् ब्रीहीन् यवांस्तथा” भा० अनु०
६२ अ० । शीलार्थतृणन्तत्वान्नात्र कर्मणि षष्ठी ।

दोघ पु० दुह--अच् वेदे नि० हस्य घः । दोग्धरि “उरुं

दीघं धरुणं देवरायः” ऋ० ५ । १५ । ५ । “दोघं कामानां
दोग्धारम्” भा० ।

दोड़ी स्त्री दोल--अच् गौरा० ङीष् लस्य डः । (दाली)

फलप्रधाने वृक्षभेदे तस्याः फलम् अण् । हरीतक्या०
लुक् । दोडी तत् फलेऽपि स्त्री ।

दोध पु० दुह--घञ् बा० हस्य धः । गोवत्से “देव! सदोध

कदम्बतलस्थ! श्रीधर! तावकनामपदं मे” छन्दोम० ।

दोधक न० एकादशाक्षरपादके वर्णवृत्तभेदे “दोधकवृत्तमिदं

भभभाद् गौ” वृत्तर० ।

दोर पु० डोर + डस्य रः । (डोर) इति ख्यातायां रज्ज्वाम् ।

दोरक न० डोरक + डस्य रः । वाणावन्धनतन्तौ “ततस्तदुद्धृतं

हिरण्यं सूत्रं दोरकेण वध्नाति”

दोर्गन्तु पु० दोषा बाहुना गन्तुः कुण्ठितः । कुण्ठितहस्ते कात्या० श्रौ० ७ । ६ । ११

कार्यासमर्थवाहौ त्रिका० ।

दोर्ग्रह पु० ६ त० । १ बाहुस्तम्भे रोगभेदे । दोर्गृह्णात्यऽ-

नेन करणे घञ् । २ बलवति हारा० ।

दोर्ज्या स्त्री सू० सि० उक्तायां भुजकारज्यायाम् “दोर्ज्यान्तर-

गुणाभुक्तिस्तत्त्वनेत्रोद्धृता पुनः” मू० “दोर्ज्यान्तरगुणा
भुजज्यानयनावसरे यत् ज्यापिण्डान्तरं तेन गुणिता”
रङ्गना० ।

दोर्मूल न० ६ त० । भुजमूले कक्षे हेम० ।

पृष्ठ ३७६२

दोल पु० दुल--घञ् । दोलने श्रीकृष्णस्य स्वनामख्याते उत्स-

वभेदे स च फाल्गुनपौर्णमास्यां कर्तव्यः खण्डतिथौ
तस्य कुत्र खण्डे कर्तव्यता तच्च दोलोत्सवतत्त्वे उक्तं यथा
“यदा अरुणोदयकाले पौर्णमासीलाभस्तदा तत्रैव दाल
यात्रा । उभयदिने अरुणोदयकाले पौर्णमासीलाभे
पूर्वदिने सङ्गवमध्याह्नकालव्यापित्वात् त्रिसन्ध्यव्या-
पित्वेन तिथेर्बलवत्त्वाच्च । यदा तिथिक्षयवशादरुणोदय-
काले न पौर्णमासीलाभस्तदाः कदाचित् सहायभावेन
चतुर्दश्यादरः । एतेन पूर्वदिने अरुणोदयं विना
पूर्वाह्णे पौर्णमासीलाभः परदिने मुहूर्त्तान्यूनतिथिलाभ-
स्तदा फल्गूत्सवः पूर्वदिने युग्मवचनानुरोधादिति
निरस्तम् उभयदिने कर्मयोग्यप्रशस्तकालप्राप्ततिथिसन्देह
एव युग्मवचनप्रवृत्तेः । एवं पञ्चमीपर्यन्तासु तिथिषु
तत्करणे अनयैव दिशा व्यवस्थोन्नेयेति” दोलयात्रा-
तत्त्वम् “विशेषतः कलियुगे दोलोत्सवो विधीयते ।
फाल्गुने च चतुर्दश्या अष्टमे यामसंज्ञके । अथ वा
पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ । पूजयेद्विधिवत्
भक्त्या फल्गुचूर्णेश्चतुर्विधैः । सितरक्तैर्गौरपीतैः कर्पू-
रादिविमिश्रितैः । हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनो-
हरैः । अन्यैर्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ।
एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् । पञ्चाहानि
त्र्यहाणि स्युर्दोलोत्सवो विधीयते । दक्षिणाभिमुखं
कृष्णं दोलयानं सकृन्नराः । दृष्ट्वापराधनिचयैर्मुक्तास्ते
नात्र संशयः” पाद्मे पातालखण्डे । “जैमिनिरुवाच
फाल्गुने मासि कुर्वीत दोलारोहणमुत्तमम् । यत्र क्री-
ड़ति गोविन्दो लोकानुग्रहणाय वै । प्रत्यर्च्चां देवदेवस्य
गोविन्दाख्यान्तु कारयेत् । प्रासादं पुरतः कुर्य्यात्
षोढशस्तम्भमुच्छ्रितम् । चतुरस्रं चतुर्द्वारं मण्डपं वेदि-
कान्वितम् । चारुचन्द्रातप माल्यचामरध्वजशोभि-
तम् । भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्मितम् ।
फल्गूत्सवं प्रकुर्वीत पञ्चाहानि त्र्यहाणि वै । फाल्गुन्याः
पूर्वतो विप्राश्चतुर्दश्यां निशामुखे । वह्न्युत्सवं प्रकुर्वीत
दोलमण्डपपूर्वतः । गोविन्दानुगृहीतन्तु यात्राङ्गं
तत् प्रकीर्तितम् । आचार्यवरणं कृत्वा वह्निं निर्मथनो-
द्भवम् । भूमिं संस्कृत्य विधिवत् तृणराशिं महोच्छ्रि-
तम् । सपशुं कारयित्वा तु वह्निं तत्र विनिःक्षिपेत् ।
पूजयित्वा विधानेन कुष्माण्डविधिनाहुनेत् । गोविन्दं
पूजयित्वा तु भ्रामयेत् सप्तधा विभुम् । तस्मिन् काले
हरिं दृष्ट्वा सर्वपापैः प्रमुच्यते । यत्नात्तं रक्षयेद्वह्निं यावद्
यात्रा समाष्वते । प्रान्तयासे चतुदश्यां गोविन्दप्र-
तिमां शुभाम् । वासयित्वा हरेरग्रे पूजयेत् पुरुषोत्त-
मम् । उपचारविशिष्टैस्तु प्रत्यर्चामपि पूजयेत् । ततो
वरञ्च वसनं मालाञ्च द्विजसत्तमाः । अर्चायां विन्यसेन्
मन्त्रं परं ज्योतिर्विभावयन् । ततश्च प्रतिमा साक्षात्
जायते पुरुषोत्तमः । रत्नान्दोलिकया तां वै नयेत् स्ना-
नस्य मण्डपम् । नानातूर्य्यनिनादैश्च शङ्खध्वनिपुरः
सरम् । जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च । छत्र-
ध्वजपताकाभिश्चामरव्यजनैस्तथा । निरन्तरं दीपिकाभि-
स्तथा कुर्य्यान्महोत्सवम् । आगच्छन्ति तदा देवाः पिता-
महपुरोगमाः । द्रष्टुमृषिगणैः सार्द्धं गोविन्दस्य
महोत्सवम् । भद्रासनेऽधिवास्यैनं पूजयेदुपचारकैः । महा
स्नानस्य विधिना स्नपनं तस्य कारयेत् । पञ्चामृतैश्च वै
सर्वैः तेषामन्यतमेन वा । स्नानान्ते गन्धतोयेन श्री-
सूक्तेनाभिषेचयेत् । संप्रोक्ष्य भूषयेद्देवं वस्त्रालङ्कार-
माल्यकैः । नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत् ।
सप्तकृत्वस्ततो देवं दोलमण्डपमानयेत् । सुसंस्कृतायां
रथ्यायां पताकातोरणादिभिः । अधोदेशे मण्डपं तं
सप्तशोभ्रामयेत्ततः । ऊर्द्ध्वदेशे पुनस्तद्वत् स्तम्भवेद्यान्तु सप्त
वै । यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम् । इयं लीला
भगवतः पितामहमुखेरिता” स्कान्दे उत्कलखण्डे ।
गारुड़े “चैत्रे मासि सिते पक्षे दक्षिणाभिमुखं हरिम् ।
दोलारूढ़ं समभ्यर्च्य मासमान्दोलयेत् कलौ” तन्नित्यता
च पद्मपुराणे “ऊर्जे रथं मधौ दोलां श्रावणे तन्तुपर्व
च । चैत्रे मदनकारोपमकुर्बाणो व्रजत्यधः । विष्णुं
दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् । तस्मात् कार्य-
शतं त्यक्त्वा दोलाहे उत्सवं कुरु” । दोलोत्सवविधिः
“चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च । नित्यपूजां
विधायाथ कुर्य्याद्दोलोत्सवं व्रती । तदर्थञ्च विशेषेण नैवि-
द्यादिकमर्पयेत् । संमान्य वैष्णवांस्तैश्च गीतनृत्यादि
कारयेत् । महानीराजनं कृत्वा प्रक्षिपेदच्युतीपरि ।
गन्धानुलेपचूर्णानि विचित्राणि विभागशः । सन्तोष्य
वैष्णवांस्तैश्च गतिनृत्यादिभिः प्रभुः । नत्वाभ्यर्थ्याऽप्रमत्तः
सन् दोलामारोहयेच्छुभाम् । नीत्वा बहिर्वेदिकाया-
मुत्तुङ्गाया यथाविधि । अभ्यर्च्यान्दोलयेत् कृष्णं सर्व-
लोकावलोकितम् । एवमभ्यर्चयन यामे यामे त्वान्दोलयन्
प्रभुम् । महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः । एवं
जागरणं कृत्वा वैष्णवैः सह वैष्णवः । प्रणम्य प्रार्थ्य
निर्मञ्छ्य कृष्ण स्वालयमानयेत् । चैत्रे मासि सिते पक्षे
पृष्ठ ३७६३
तृतीयाया रमापतिम् । दोलारूढ़ं समभ्यर्च्य मासमा-
न्दोलयेत् कलौ । यत् फाल्गुनस्य राकादावुत्तरा
फल्गुनी यदा । तदा दोलोत्सवः कार्यस्तच्च श्रीपुरुषो-
त्तमे” इति हरिभक्तिविलासः ।

दोला स्त्री दुल--अच् अ वा टाप् । (डोली) १ यानभेदे,

२ उद्यानादौ क्रीड़ार्थं दोलनयन्त्रे च । स्वार्थे क ।
दोलिका तत्रार्थे अमरः । ३ स्वेदनार्थे यन्त्रभेदे शब्दा-
र्थचि० । दोलां करोति क्यङ् दोलायते अदोलायिष्ट
“मतिर्दोलायते न्यूनं सतामपि खलोक्तिभिः” हितो०
“दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् । रथस्थं
वामनं दृष्ट्वा पुनर्जन्म न विद्यते” स्क० पु० उत्क० ।

दोलायुद्ध न० दोलेव युद्धम् । अनियतजयपराजययुतयुद्धे ।

दोलाया यथा दोलनेनान्यतरपार्श्वे स्थितिरनियता एवं
जयपराजययोरेकतरपक्षे अनियततया स्थितिर्यत्र तादृशं
युद्धं दोलायुद्धमिति व्यवह्रियते । “दोलायुद्धं कृतगुरु-
तरध्वानमौद्धत्यभ्राजाम्” माघः ।

दोली स्त्री दोल्यतेऽनया दुल--बा० करणे इन् वा ङीप् ।

(डुली) ख्याते यानभेदे बाह्यखट्वायाम् हारा० ।

दोष पु० दुष--भावे करणे वा घञ् । १ अपकर्षप्रयोजके वस्तु-

निष्ठे धर्मभेदे । यथा काव्यदोषा श्रुतिकट्वादयः हेतु
दोषाः व्यभिचारादयः भ्रमदोषाः पित्तादयः । २ दूषणे
“दोषो विचारसुलभो यदि दुष्यते तत् व्याख्या मम
प्रथममेव न दूषणीया” महेश्वरः । “एको हि दोषोगुणस-
न्निपाते निमज्जतीन्दाः किरणेष्विवाङ्कः” कुमा० “अदाता
वंशदोषेण कर्मदोषात् दरिद्रता । उन्मादो मातृदोषेण
पितृदोषेण मूर्खता” । काव्यदोषास्तु काव्य० प्र० उक्ता यथा
“मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः” हतिर-
ककर्षः । “दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम् ।
सन्दिग्धमप्रतीतम् ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं बिरुद्धमतिकृत् समासगतमेव” । तत्र
श्रुतिकटु परुषवर्णरूपम् १ दुष्टम् । २ च्युतसंस्कृति
व्याकरणलक्षणहीनम् । ३ अप्रयुक्त” तथाम्नातमपि
कविभिर्नादृतम् । यथा दैवतशब्दः पुंस्याम्नातोऽपि न
केनचित् प्रयुज्यते । ४ असमर्थं यत्तदर्थं पठ्यते न च
तत्राऽस्य शक्तिः यथा हन्तीति गमनार्थम् । ५ निहतार्थं
यदुभयाथनप्रसिद्धेऽर्थे प्रयुक्तम् । यथा लोहितशब्द
उज्वलार्थे । ६ अनुचितार्थं यथा, पशुपदं कातरताम-
भिव्यनक्तीत्यनुचितार्थम् । ७ निरर्थकं पादपूरणमात्रप्रयो-
जनं चादिपदम् । ८ अवाचकं यथा जन्तुपदतदात-
र्य्यर्थे प्रयुक्तं न च तस्याभिधायकम् । यच्चोपसर्गसंसर्गाद-
र्थान्तरगतम् । यथा दधात्यर्थे विदधातीति पदम् ।
९ त्रिधेति व्रीड़ाजुगुप्सामङ्गलव्यञ्जकत्वात् अश्ली लम् ।
यथा साधनवायुविनाशशब्दा व्रीड़ादिव्यञ्जकाः ।
१२ सन्दिग्धं यथा बन्द्यामिति किं हठहृतमहिलायां, किं
वा नमस्यामिति सन्देहः । १३ अप्रतीतं यत् केवले शास्त्रे
प्रसिद्धम् । यथा आशयशब्दः योगशास्त्रादावेव वासनार्थो
नान्यत्र । १४ ग्राम्यं यत् केवले लोके स्थितम् ।
यथा कट्यादिशब्दाः । १५ नेयार्थम् “निरूढ़ा लक्षणाः
काश्चित् सामर्थ्यादभिधानवत् । क्रियन्ते साम्प्रतं काश्चित्
काश्चिन्नैव त्वशक्तितः” इति यन्निषिद्धं लाक्षणिकम्
यथा चपेटापाटतेन निर्जितत्वं लक्ष्यते । १६ क्लिष्टं
यत्रार्थप्रतिपत्तिर्व्यवहिता यथा अत्रिनेत्रजज्योतिरुद्गम-
भासिशब्दस्य कुमुदार्थपरत्वे क्लिष्टत्वम् । १७ अविमृष्टः
प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् । यत्र अनुवाद्य-
मनुक्त्वा प्रथमं विधेयनिर्देशः यथा न्यक्कारोह्ययमेवेत्यत्र
अनुवाद्यविधेययोरक्रमेण निर्देशो यत्र । समासान्तर्गत-
त्वेन विधेयांशस्य झटित्यबोधोऽपि यत्र । यथा तत्रैव पद्ये
वृथोच्छूनैरित्यत्र वृथात्वमुच्छूनत्वे विधेयं तच्च समासान्त-
र्गततया नाशु वोध्यते । १८ विरुद्धमतिकृत् । यथा भवानी-
पतिशब्दस्य भवान्याःपत्यन्तरप्रतीतिकारित्वम् । “अपास्य
च्युतसंस्कारमसमर्थं निरर्थकम् । वाक्येऽपि दोषाः
सन्त्येते पदस्यांशेऽपि केचन” । वाक्यमात्रगतादोषास्तु ।
“प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् ।
न्यूनाधिककथितपदम् अभवन्मतयोगमनभिहितवा-
च्यम् । अपदस्थपदसभासं सङ्कीर्णं गर्भितं प्रसिद्धिह-
तमृ । भग्नप्रक्रममक्रमम् अमतपरार्थं च वाक्यमेव
तथा” रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं
१ पतिकूलवर्णम् यथा शृङ्गारे टवर्गादि रौद्रे मधुरव-
र्णादि । २ उपहत उत्वं प्राप्तो लुप्तो वा विसर्गो यत्र
तत् एतच्च असकृत्प्रयोगे एव दोषो न सकृत्प्रयोगे ।
३ विसन्धिः सन्धेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वञ्च ।
संहितां न करीमीति स्वेच्छया सकृदपि दोषः प्रगृह्या-
दिहेतुकत्वे तु असकृत् । तत्र चलण्डामरचेष्टितमि-
त्यादौ अश्लीलता तर्वालीत्यादौ कष्टतेति बोध्यम् ।
पृष्ठ ३७६४
४ हतं लक्षणानुसरणेऽप्यश्रव्यं अप्राप्तगुरुभावान्तलघु
रसाननुगुणञ्च वृत्तं यत्र तत् हतवृत्तम् । ५ न्यूनपदं
यथा “सुचिरमुषितं वल्कलधरैरिति” वेणीसंहारपद्ये
अस्माभिरिति विशेष्यं पदं न्यूनम् । तथा तत्रैव पद्ये
“गुरुः खेदं खिन्ने मयीत्यत्र” खिन्ने इत्यस्यात् पूर्वं इत्थ-
मिति पदं च न्यूनम् । ६ अधिकं यथा स्फटिकाकृतिनिर्मल
इत्यत्राकृतिपदमधिकम् । ७ कथितपदं यथा एकत्र पद्ये
एकस्यैव लीलादिशब्दस्य द्विधा प्रयोगे । ८ पतत्प्रकर्षम् ।
यत्रादौ गाढबन्धनरूपप्रकर्षः अन्ते तु तद्धीनता तत् ।
९ समाप्तपुनरात्तम् । क्रिययैव वाक्यसमाप्तेर्नियमात्
क्रियाप्रयोगादनन्तरं यत्र तत्क्रियासापेक्षकारकान्तरा-
दिप्रयोगः तत्र समाप्त पुनरात्तत्वम् । १० द्वितीयार्द्ध-
गतैकवाचकशेषप्रथमार्द्धम् । द्वितीयार्द्धगतमेकं पदं
प्रथमार्द्धस्य समापकं यत्र तथाभूतं वाक्यं दुष्टमित्यर्थः ।
११ न भवन् मतः इष्टः योगः सम्बन्धः यत्र तत् ।
१२ अवश्यं वक्तव्यमनुक्तम् । १३ अस्थानस्थपदम् । १४
अस्थानस्थसमासञ्च । १५ संकीर्णं यत्र वाक्यान्तरस्य
पदानि वाक्यान्तरमनुप्रविशन्ति । १६ गर्भितं यत्र वाक्यस्य
मध्ये वाक्यान्तरमनुप्रविशति । १७ प्रसिद्धिमतिक्रान्तं
यथा रवो मण्डूकादिषु प्रसिद्धो, न तु सिंहादिनादे ।
१८ भग्नः प्रक्रमः प्रस्तावो यत्र तत् । १९ अविद्यमानः क्रमो
यत्र तदक्रमम् । २० अमतः प्रकृतविरुद्धः परार्थो यत्र ।
अर्थदोषास्तु । अर्थोऽपुष्टः कष्टोव्याहतपुनरुक्तदुष्क्रम
ग्राम्याः । सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ।
अनवीकृतः सनियमाऽनियमविशेषाविशेषपरिवृत्ताः ।
साकाङ्क्षोऽपदयुक्तः महचरभिन्नः प्रकाशित विरुद्धः ।
विध्यनुवादायुक्तस्त्यक्त पुनः स्वीकृतोऽश्लीलः” । यत्रातिवि-
ततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थं न वाधन्त
इत्यपुष्टास्तत्र, न त्वसङ्गताः पुनरुक्ता वा ।
रसदोषास्तु “व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः । प्रतिकूलविभा-
वादिग्रहो दीप्तिः पुनःपुनः । अकाण्डे प्रथनच्छेदौ
अङ्गस्याप्यतिविस्तृतिः । अङ्गिनोऽननुसन्धानं प्रकृतीनां
विपर्ययः । अनङ्गस्याभिधानञ्च रमे दोषाः स्युरीदृशाः” ।
चन्द्रालोके तु दोषसामान्यविशेषलक्षणान्युक्त्वा दिङ्-
मात्रमुदाहृतं यथा
“स्याच्चेतोविशता येन सक्षता रमणीयता । शब्देऽर्थे च
कृतोन्मेषं दोषमुद्धापयन्ति तम् । भवच्छ्रुतिकटुर्वर्णः श्रव-
णोद्वेजने पटुः । विख्यायते व्याकरणविरुद्धं च्युतसं-
स्कृतिः । अप्रयुक्तं दैवतादौ शब्दे पुंलिङ्गतादिकम् ।
असमर्थन्तु हन्त्यादेः प्रयोगो गमनादिषु । स हन्ति हन्त
कान्तारे कान्तः कुटिलकुन्तलः । निहतार्थं लोहितादौ
शोणितादिप्रयोगतः । एकाक्षरं विना भूभ्रूक्ष्मादिकं
खलतादिवत् । व्यनक्त्यनुचितार्थं यत्पदमाहुस्तदेव तत् ।
इयमुद्धतशाखाग्रकेलिकौतुकवानरी । निरर्थकं तुही-
त्यादि पूरणैकप्रयोजनम् । अर्थे विदधदित्यादौ दधदा-
द्यमवाचकम् । धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ।
अश्लीलं त्रिविधं व्रीडाजुगुप्साऽमङ्गलात्मना । आह्ला-
दसाधनं वायुः कान्तालाशे भवेत् कथम् । स्याद्द्व्यर्थ-
मिह सन्दिग्धं न द्यां यान्ति पतत्त्रिणः । स्यादप्रतीतं
शास्त्रैकगम्यं वीताऽनुमादिवत् । शिथिलं, शयने
लिल्ये मच्चित्तं ते शशिश्रियि । मस्तपृष्ठकटीलोष्ठ-
गल्लादि ग्राम्यमुच्यते । नेयार्थं लक्षणात्यत्तप्रसरादमनो-
हरम् । हिमांशोर्हारधिक्कारजागरे यामिकाः कराः ।
क्लिष्टमर्थो यदीयोऽर्थश्रेणितः श्रेणिमृच्छति । हरिप्रिया-
पितृवारप्रवाहप्रतिमं वचः । अविकृष्टविधेयांशः समास-
पिहिते बिधौ । विशन्ति विशिखप्रायाः कटाक्षाः
कामिनां हृदि । अपराधीन इत्यादिविरुद्धमतिकृन्मतम् ।
अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा । रसाद्यनुचिते वर्णे
प्रतिकूलाक्षरं विदुः । न मामङ्गद! जानासि रावणं
रणदारुणम् । यस्मिन्नुपहतो लुप्ती विसर्ग इह तत्तथा ।
कुसन्धिः वटवागच्छ विसन्धिः नृपती इमौ ।
हतवृत्तमनुक्तोऽपि छन्दीदोषश्चकास्ति चेत् । विशाल-
लोचने! पश्याऽम्बरं तारातरङ्गितम् । न्यूनं त्वत्खङ्ग-
सम्भूतयशः पुष्पं नभस्तलम् । अधिकं भवतः शत्रून्
दशत्त्यसिलताफणी । कथितं पुनरुक्ता वाक् श्यामाब्ज-
श्यामलोचना । विकृतं दरविकृतैरैयरुः कुञ्जराः
पुरम् । पतत्प्रकर्षहीनाऽनुप्रासादित्वे यथोत्तरम् ।
गम्भोरारम्भदम्भोलिपाणिरेष समागतः । समाप्तपुनरात्तं
स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरेत्यम्बु-
निधिवान्धवः । अर्द्धान्तरपदापेक्षि क्रीड़ानृत्येषु सस्मि-
तम् । मेघारम्भं स्तुमः शम्भुमर्द्धरम्भोरुविग्रहम् ।
अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः । येन वद्धोऽम्बु
धिर्य्यस्य रामस्यानुचरा वयम् । स एष लङ्कालङ्कारं
रावणं हन्तुसुद्यतः । द्विषां सम्पदमाच्छिद्य यः शत्रून्
समपूरयत् । अस्थानस्थसमासं नविद्वज्जनमनोरमम् ।
पृष्ठ ३७६५
मिथः पृथग्वाक्यपदैः सङ्कीर्णं यत्तदेव तत् । वक्त्रेण
भ्राजते रात्रिः कान्ता चन्द्रेण राजते । ब्रह्माण्डं
त्वद्यशः पूरगर्भितं भूमिभूषणम् । आकर्णय पयः पूर्ण-
सुवर्णकलशायते । भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता ।
अक्रमः कृष्ण! पूज्यन्ते त्वामनाराध्य देवताः ।
अमतार्थान्तरं मुख्येऽमुख्ये वार्थे विरोधकृत् । त्यक्तहारमुरः
कृत्वा शोकेनालिङ्गिताऽङ्गना । अपुष्टार्थो विशेष्ये चेन्न
विशेषोविशेषणात् । विशन्ति हृदयं कान्ताकटाक्षाः
खञ्जनत्विषः । कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसन्निभः ।
व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः । सहस्र-
पत्रमित्रं ते वक्त्रं केनोपमीयते । कुतस्तत्रोपमा यत्र
पुनरुक्तः सुधाकरः । दुःक्रमग्राम्यसन्दिग्धास्त्रयो दोषाः
क्रमादमी । त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गमेव वा ।
एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् । ब्रूत
किं मेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः । अनौचित्यं
कीर्त्तिलतां तरङ्गयति यः सदा । प्रसिद्ध्या विद्यया
वापि विरुद्धं द्विविधं मतम् । न्यस्तेयं पश्य कन्दर्प-
प्रतापधवलद्युतिः । केतकी शेखरे शम्भोर्धत्ते चन्द्रकला-
तुलाम् । सामान्यपरिवृत्तिः स्यात् कुण्डलच्छविविग्रहा ।
विशेषपरिवृत्तिः स्याद्दयिता मम चेतसि । द्वे स्तः
सहचराऽचारुविरुद्धान्योन्यसङ्गती । ध्वाङ्क्षाः सन्तश्च तनयं
स्वं परञ्च न जानते । सरोजनेत्र! पुत्रस्य मुखेन्दु-
मवलोकय । पालयिष्यति ते गोत्रमसौ नरपुरन्दरः ।
पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके । यथानु-
सारमभ्यूहेद्दोषान् शब्दार्थसम्भवान्” । ३ व्यावृत्तिव्यव-
हारान्यतरप्रयोजनविघटके धर्मभेदे स च दोषस्त्रिविधः ।
अव्याप्तिः अतिव्याप्तिः असम्भवः । ४ विध्यतिक्रमजनिते
ऽदृष्टभेदे मीमांसकाः । ५ गुरुतल्पगमनाभक्ष्यभक्षणादिज-
निते पापे मेदि० । दुष--वैकृत्ये करणे घञ् । ६ वातपित्त-
कफेषु यथाह भाव० प्र० अथ दोषाः प्रवक्ष्यन्ते इत्युपक्रमे
दोषस्वरूपमाह वाग्भटः “वायुः पित्तं कफश्चेति त्रयो
दोषाः समासतः । विकृताऽविकृता देहं घ्नन्ति ते वर्द्ध-
यन्ति च । ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्द्धसं-
श्रयाः । वयोऽहोरात्रभुक्तानामन्तमध्यादिगाः क्रमात्”
दोषशब्दस्य निरुक्तिमाह “धातवश्च मलाश्चापि दुष्य-
न्येभिर्यतस्ततः । वातपित्तकफा एते त्रयो दोषा इति
स्मृताः” दोषा इत्यत्र दुष वैकृत्ये इति दुषधातोः
दुष्यन्त्ये भिरिति वाक्ये अकर्त्तरि च कारके संज्ञाया
मित्यनेन सूत्रेण करणेऽर्थे घञ् प्रत्ययः । ७ तेषां विकारे
च । गौ० उक्ते प्रवृत्तिप्रयोजके रागद्वेषमोहात्मके ८ धर्म-
भेदे तल्लक्षणादिकं सू० भा० उक्तं यथा
“प्रवर्त्तनालक्षणा दोषाः” सू० “प्रवर्त्तना प्रवृत्तिहेतुत्वम्
ज्ञातारं हि रागादयः प्रवर्त्तयन्ति पुण्ये पाप्रे वा ।
यत्र मिथ्याज्ञानं तत्र रागद्वेषाविति प्रत्यात्मवेदनीया ही
मे दोषाः कस्मात्? लक्षणतो निर्दिश्यन्त इति कर्मल-
क्षणाः खलु रक्तद्विष्टमूढ़ाः रक्तो हि तत्कर्म कुरुते येन
कर्मणा सुखं दुःखं वा भजते, तथा द्विष्टस्तथा मूढ़ इति
दोषा रागद्वेषमोहा इत्युच्यमाने बहुनोक्तं भवतीति” भा०
विवृतमेतत् तद्वृत्तौ यथा “दोषं लक्षयति । दोषा इति
बहुवचनं रागद्वेषमोहात्मकलक्ष्यत्रयज्ञापनाय प्रवर्त्तना
प्रवृत्तिजनकत्वं तदेव लक्षणं येषाम् यद्यपीदं शरीरादृष्टे-
श्वरेच्छादावतिव्याप्तं तथापि लौकिकप्रत्यक्षसविषयत्वे
सतीति विशेषणीयं यागादिगोचरप्रमावारणाय प्रमा-
न्यत्वे सतोति विशेषयन्ति” ।
तद्भेदाश्च सू० भा० ४ अ० १ आह्निके उक्ता यथा
“तथा दोषाः” सू० “परीक्षिता इति बुद्धिसमानाश्रयत्वा-
दात्मगुणाः, प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसन्धानसामर्थ्याच्च
संसारहेतवः, संसारस्यानादित्वादनादिना प्रबन्धेन प्रव-
र्त्तन्ते, मिथ्याज्ञाननिवृत्तिस्तत्त्वज्ञानात् तन्निवृत्तौ
रागद्वेषप्रबन्धोच्छेदेऽपवर्ग इति प्रादुर्भावनिरोधधर्मका इत्ये-
वमाद्युक्तं दोषाणामिति प्रवर्त्तनालक्षणा दोषा इत्युक्तं
तथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः ते कस्मा-
न्नोपसङ्ख्यायन्ते इत्यत आह” भा० ।
“तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात्” सू० “तेषां
दोषाणां त्रयोराशयस्त्रयः पक्षाः । रागपक्षाः--कामो
मत्सरः स्पृहा तृष्णा लोभ इति । द्वेषपक्षाः--क्रोधः
ईर्ष्याऽसूया द्रोहोऽमर्ष इति । मोहपक्षाः--मिथ्याज्ञानं
विचिकित्सा मानः प्रमादः इति । त्रैराश्यान्नोपसङ्ख्यायन्ते
इति, लक्षणस्य तर्ह्यभेदात् त्रित्वमनुपपन्नम्, नानुपपन्नं
रागद्वेषमोहार्थान्तरभावात् आसक्तिलक्षणो रागः,
अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इति ।
एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम्, विजानात्ययं शंरीरी
रागमुत्पन्नम्, अस्ति मेऽध्यात्मं रागधर्म इति । विरागञ्च
विजानाति नास्ति मेऽध्यात्मं रागधर्म इति । एवमित-
रयोरपीति । मानेर्ष्याऽसूयाप्रभृतयस्तु त्रैराश्यमनु-
पतिता इति नोपसङ्ख्यायन्ते” भा० । विवृतमेतत् वृत्तौ
पृष्ठ ३७६६
“तेषां दोषाणां त्रयो राशयः त्रयः पक्षा न तु रागद्वेष-
मोहानामेकैकत्वं तेषामर्थान्तरभावात् अवान्तरभेदवत्त्वात्
तथा च भयशोकमानादीनामेष्वेवान्तर्भावान्न विभाग-
न्यूनत्वं इच्छात्वद्वेषत्वमिथ्याज्ञानत्वरूपविरुद्धधर्मवत्त्वान्न
विभागाधिक्यम् इच्छात्वादिकन्तु रागादावनुभवसिद्धं
तत्र रागपक्षः कामो मत्सरः स्पृहा तृष्णा लोभो माया
दम्भ इति कामो रिरंसा । रतिश्च विजातीयस्त्रीसंयोगः ।
नारीगताभिलाष इति तु न युक्तं स्त्रियाः कामेऽव्याप्तेः ।
मत्सरः स्वप्रयोजनप्रतिसन्धानं विना पराभिमतनिवार-
णेच्छा यथा राजकीयादुदपानान्नोदकं पेयम् इत्यादि । एवं
परगुणनिवारणेच्छाऽपि । स्पृहाधर्माविरोधेन प्राप्तीच्छा ।
तृष्णा इदं मे न क्षीयतामितीच्छा उचितव्ययाकरणे-
नापि धनरक्षणेच्छारूपं कार्पण्यमपि तृष्णाभेद एव ।
धर्मविरोधेन परद्रव्येच्छा लोभः । परबञ्चनेच्छा माया
कपटेन धार्मिकत्वादिना स्वोत्कर्षख्यापनेच्छा दम्भः ।
द्वेषपक्षाः क्रोध ईर्ष्याऽसूया द्रोहोऽमर्षोऽभिमान इति
क्रोधो नेत्रलौहित्यादिहेतुर्दोषविशेषः । ईर्ष्या साधारणे
वस्तुनि परस्वत्वात्तद्ग्रहीतरि द्वेषः यथा दुरन्तदायादा-
नाम् । असूया परगुणादौ द्वेषः द्रोहो नाशाय द्वेषः
हिंसा तु दोषजन्या । परे तु तान्द्रोहं मन्यते । अमर्षः
कृतापराधे असमर्थस्य द्वेषः अभिमानोऽपकारिण्यकिञ्चि
करस्यात्मनि द्वेषः । मोहपक्षा विपर्य्ययसंशयतर्कमान-
प्रमादभयशोकाः । विपर्य्ययो मिथ्याज्ञानापरपर्य्यायोऽय-
थार्थनिश्चयः एकधर्मिकविरुद्धभावाभावज्ञानं संशयः स
एव विचिकित्सेत्युच्यते व्याप्यारोपाद्व्यापकप्रसञ्जनं तर्कः
आत्मन्यविद्यमानगुणारोपेणोत्कर्षधीर्मानः गुणवति निर्गु-
णत्वधीरूपस्मयोऽपि मानेऽन्तर्भवति । प्रमादः पूर्वकर्त्तव्य-
तया निश्चितेऽप्यकर्त्तव्यताधीः एवं वैपरीत्येऽपि भयमनिष्ट-
हेतूपनिपाते तत्परित्यागानर्हता ज्ञानं शोक इष्टवियोगे
तल्लाभानर्हताज्ञानम्” ९ मिथ्याज्ञानजन्यवासनायां दुःख-
जन्यप्रवृत्तिदोषा मिथ्याज्ञानानामिति सूत्रवृत्तौ चरमे
दोषशब्दस्य तथार्थत्वाभिधानात् । १० वसुपुत्रभेदे द्रोणशब्दे दृश्यम्
भ्रमजनकादोषास्तु पित्तादयः भाषापरिच्छेदे उक्ता यथा
“दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्त-
दूरत्वादिरूपो दोषो नानाविधः स्मृतः ।” “अप्रमां प्रति
दोषः जनकः कारणम् । प्रमां प्रति गुणः कारणम् ।
तत्रापि पित्तादिरूपा दोषा अननुगताः । तेषां कारण-
त्वम् अन्वयव्यतिरेकाभ्यामेव सिद्धम् । गुणस्य प्रमा-
जनकत्वन्तु अनुमानात् सिद्धम् । यथा प्रमा ज्ञानसाधा-
रणकारणभिन्नकारणजन्या जन्यज्ञानत्वात् अप्रमावत् ।
न च दोषाभाव एव कारणमस्त्विति वाच्यम् पीतः
शङ्ख इति ज्ञानस्थले पित्तदोषसत्त्वाच्छङ्खत्वप्रमानुत्पत्ति-
प्रसङ्गात् । विनिगमनाविरहात् अनन्तदोषाभावस्य
कारणत्वमपेक्ष्य गुणकारणताया न्याय्यत्वात् । न च
गुणसत्त्वेऽपि पित्तप्रतिबन्धाच्छङ्खे न सैत्यज्ञानम् ।
अतः पित्तादिदोषाभावानां कारणत्वमवश्यं वाच्यं तथा
च किं गुणस्य हेतुत्वकल्पनयेति वाच्यम् तथाप्यन्वय-
व्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः । एवं भ्रमं प्रति
गुणाभावः कारणमित्यस्यापि सुवचत्वाच्च । तत्र दोषाः
के इत्याकाङ्क्षायामाह । पित्तेति । क्वचित् पीतादि-
भ्रमे पित्तं दोषः । क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे
दूरत्वं दोषः । क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जन-
मित्येवं दोषा भ्रान्तिजनका इत्यर्थः । ११ गोवत्से । स्वार्थे
क । दोषक तत्रार्थे । “वातपित्तकफा दोषाः दुष्याः स्युः
सप्त धातवः” शा० ति० दोषक्षयवृद्धिज्ञानादिकं सुश्रुते
सूत्रस्थाने १६ अ० उक्तं तत्रैव दृश्यम् । न्यायमतसिद्धहे-
त्वाभासाख्याः हेतुदोषाश्च हेत्वाभासशब्दे वक्ष्यन्ते
तत्सामान्यलक्षणं च यादृशविशिष्टविषयकत्वेन ज्ञानस्यानु-
मितितत्कारणीभूतज्ञानप्रतिबन्धकत्वं तत्त्वम् । तत्पक्षक-
तत्साध्यकानुमितौ यावन्तोदोषाः सम्भवन्ति तावदन्यत-
मत्वम् वा “दुषधातोरिवास्माकं दोषसम्पत्तये गुणः” उद्भ०

दोषग्राहिन् त्रि० दोषं गृह्णाति ग्रह--णिनि । खले

हला० । “विसृज्य सूर्पपवद्दोषान् गुणान् गृह्णन्ति
साधवः । दोषग्राही गुणत्यागी चालनीव हि दुर्जनः”
उद्भट्टः ।

दोषघ्न त्रि० दोषं वातादिविकारं हन्ति हन--टक् । धातु-

वैषम्यरूपदोषनाशके औषधादौ “दोषघ्ना ग्रहणी
पाण्डुरोगार्शः कुष्ठनाशनाः” सुश्रुतः ।

दोषज्ञ त्रि० दोषं कर्त्तव्याकरणे दोषं जानाति ज्ञा--क ।

१ पण्डिते अमरः । “अथ प्रदोषे दोषज्ञः संवेशाय विशां
पतिम्” रघुः । २ परकीयदोषज्ञातृमात्रे त्रि० ।
“अज्ञातदोषैर्दोषज्ञैः” माघः ।

दोषण्य त्रि० दोष्णि भवः दोष + यत् दोषन्नादेशः “ये

चाभावककर्मणीः” प्रकृतिवद्भावः । बाहुभवे “यक्ष्मं
दोषण्यमंसाभ्याम्” ऋ० १० । १६३ । २

दोषत्रय न० ६ त० । वातपित्तकफानां त्रिके राजनि० ।

पृष्ठ ३७६७

दोषभेद पु० ६ त० । द्विषष्टिप्रकारे दोषभेदे स च सुश्रुते

उक्तो यथा
अथातो दोषभेदविकल्पनामाध्यायं व्याख्यास्यामः ।
“द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः । कति
तत्रैकशो ज्ञेया द्विशो वाप्यथ वा त्रिशः । तस्य तद्व-
चनं श्रुत्वा संशयच्छिन्महातपाः । प्रीतात्मा नृपशा-
र्दूलः सुश्रुतायाह तत्त्वतः । त्रयो दोषा धातवश्च
पुरीषं मूत्रमेव च । देहं सन्धारयन्त्येते ह्यव्यापन्ना
रसैर्हितैः । पुरुषः षोडशकलः प्राणश्चैकादशैव ये ।
रोगाणान्तु सहस्रं यच्छतं विंशतिरेव च । शयञ्च
पञ्च द्रव्याणां त्रिसप्तत्यधिकोत्तरम् । व्यासतः कीर्त्तितं
तद्धि भिन्नदोषास्त्रयोगुणाः । द्विषष्टिधा वदन्त्येते भूयि-
ष्ठमिति निश्चयः । त्रयएव पृथक् दोषा द्विशो नव
समाधिकैः । त्रयोदशाधिकैकद्विसममध्योल्वणैस्त्रिशः ।
पञ्चाशदेवन्तु सह भवन्ति क्षयमागतैः । क्षीणमध्याधि-
कक्षीणक्षीणवृद्धैस्तथापरैः । द्वादशैवं समाख्यातास्त्रयो
दोषा द्विषष्टिधा । मिश्रधातुमलैर्दोषा यान्त्यसंख्येयतां
पुनः । तस्मात्प्रसङ्गं संयम्य दोषभेदविकल्पनैः । रोगं
विदित्वोपचरेद्रसभेदैर्यथेरितैः । भिषक् कर्त्ताथ करणं
रसा दोषास्तु कारणम् । कार्यमारोग्यमेवैकमनारोग्य-
मतोऽन्यथा” ।

दोषल त्रि० दोष + मत्वर्थे लच् । दोषयुक्ते “केदारं म धुरं

प्रोक्तं विपाके गुरु दोषलम् । तद्वत् पाल्वलमुद्दिष्टं
विशेषाद्दोषलन्तु तत्” सुश्रुतः ।

दोषस् स्त्री दुष--असुन् । रात्रौ “स्वस्त्यथोषसो दोषसश्च” अथ० १६ । ४ ६

दोषा अव्य० दुष्यत्यत्र दुष--बा० आधारे आ स्वरा० । १ रात्रा-

वित्यर्थे “दोषाऽपि नूनमहिमांशुरसौ किलेति” माघः
दोषापि रात्रावपीत्यर्थः । दिवाभूता रात्रिः दोषाभूतमहः
इति भाष्यप्रयोगात् असप्तम्यर्थेऽपि तस्य वृत्तिता । ततः
ष्ठ्यल् तुट् च । दोषातन रात्रिभवे त्रि० “दोषातनं
बुधवृहस्पतियोगदृश्यः” रघुः । (अभ्रवृन्दम्) अस्य
टाबन्तस्त्रीत्वमपि “घर्मकालदिवस इव क्षयितदोषः”
काद० । दोषाशब्दस्य टाबन्तत्वे एव गौणे ह्रस्वसम्भवः
अव्ययत्वे न तत्सम्भवः इति बोध्यम् । दोस् + भागुरिमते
स्त्रियां टाप् । २ बाहौ स्त्री शब्दार्थचि० ।

दोषाकर पु० दोषा रात्रौ करोऽस्य । १ चन्द्रे “यामित्रवेध

विहितानपहत्य दोषान् दोषाकरः सुखमनेकविधं
विधत्ते” ज्यो० त० । ६ त० । २ द्रोषाणामाकरे च ।

दोषाक्लेशी स्त्री दोषां बाहुं क्लिश्नाति क्लिश--अण् गौरा०

ङीष् । वनवर्वुरिकायां राजनि० ।

दोषाङ्कुश पु० दोषाणां काव्यदोषाणामङ्कुश इव निरासक-

त्वात् । चन्द्रालोकोक्ते काव्यदोषनिवारके काव्यधर्मभेदे
तल्लक्षणादि तत्रोक्तं यथा
“दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् । निवारयति
यस्त्रेधा दोषाङ्कुशमुशन्ति तम् । दोषो गुणत्वं तनुते
दोषत्वं वा निरस्यति । भवन्तमथ वा दोषं नयत्यत्याज्यता-
मसौ । मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः । अत्र
हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् । तव दुग्धाब्धिस-
म्भूतेः कथं जाता कलङ्किता । कवीनां समयाद्विद्याविरु-
द्धोऽदोषतां गतः । दधार गौरी हृदये देवं हि मकरा-
ङ्कितम् । अत्र श्लेषोदयान्नैव त्थाज्यं हीति निरर्थकम्” ।

दोषातिलक पु० दोषा रात्रेस्तिलक इव । प्रदीपे त्रिका०

दोषास्य पु० दोषा आस्यमिव प्रकृष्टदीप्तिसाधनं वा यस्य ।

प्रदीपे शब्दच० ।

दोषिक त्रि० दोषः वातादिविकारः कारणतयास्त्यस्य ठन् । रोगे शब्दच० ।

दोषिन् त्रि० दुष--णिनि । दोषयुक्ते शब्दल्पद्रुमे

दोषशब्दात् अस्त्यर्थे इनिकल्पनं “नैकाक्षरात् कृतो जातेः
सप्तम्याश्च न तौ स्मृतौ” इत्यनुशासनविरुद्धम् (तौ । इनि
ठनौ) । सति च गत्यन्तरे अभियुक्तप्रयोगे तस्य सङ्कोच-
कल्पनस्य क्वाचित्कत्वम् भाष्यकृता व्यवस्थापितम् यथा
रसिक इत्यादिप्रयोगदर्शनात् न सर्वत्र ।

दोषैकदृश् त्रि० दोषमेवैकं पश्यति दोषैकशब्दयोः कर्मधा-

रये एकशब्दस्य पूर्वकालैकेत्यादि पा० परनिपाते तत्पूर्व-
कात् दृशः क्विप् । खले अमरः । दोषे एकस्मिन् दृग्-
ज्ञानं यस्येति विग्रहं वदन् भरतः भ्रान्तएव सति गत्य-
न्तरे व्यधिकरणबहुव्रीहेरसाधुत्वनियमात् ।

दोस् पु० न० दम्यतेऽनेन दम--डोसि अर्द्धर्चा० । बाहौ “नून-

मस्मद्विनाशाय विधिना दोः प्रसारितः” रामा० लङ्का०
१२३ “दोषं तस्य तथा इधस्य भजते” मल्लिनाथधृतवाक्यम्
“ककुद्दोषणी” इति सहाभाष्यप्रयोगे अस्य क्लीवता
“तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः” रघुः । “दीर्द-
ण्डेन शराःशरैररिशिरस्तेनापि भूमण्डलम्” सुबन्धुः ।
“दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम्” कुभा० ।
अस्य भत्वे याजादौ तद्धिते च वा दोषन्नादेशः । पुंसि
दोः दोषौ दोषः क्लीवे दोः दोषणी दोष्णी दोंषि शसादौ
तु दोंषि दोषाणि दोष्णा दोषा दोषभ्यां दोर्भ्यामित्यादि ।
पृष्ठ ३७६८

दोस्थ पु० दोषि दोर्व्यापारे तिष्ठति स्था--क वा रोर्लोपः ।

१ सेवके २ क्रीड़के च त्रिका० उपचारात् ३ क्रीड़ायाम्
४ सेवायाञ्च त्रिका० ५ बाहुस्थिते त्रि० ।

दोह पु० दुह--भावे घञ् । १ दोहने “दुग्धेऽस्मै सर्वान्

कामान् यो वाचोदोहः” छा० उ० “मेरौ स्थिते दोग्धरि
दोहदक्षे” कुमा० “दोहावसाने पुनरेव दोग्ध्रीम्”
रघुः । आधारे घञ् । २ दोहनपात्रे शब्दच० । कर्मणि
घञ् । ३ दुग्धे शब्दार्थचि० ।

दोहज त्रि० दोहात् दोहनाज्जायते जन--ड । १ दोहन-

जाते २ दुग्धे न० शब्दार्थकल्प० ।

दोहड़िका स्त्री मात्रावृत्तभेदे (दोहा) तल्लक्षणादि छन्दोम०

उक्तं यथा “मात्रात्रयोदशकं यदि पूर्वं लघुकवि-
रामि । पठ पुनरेदादशकं दोहड़िका द्विगुणेन”

दोहद पु० न० दोहमाकर्षं ददाति दा--क । १ गर्भे २

लालसामात्रे ३ गर्भिण्या अभिलाषे च मे० । सुश्रुते तु
दौह(हृ)दमिति पठित्वा तदुपहत्यां दोषादिकमुक्तं यथा
“द्विहृदयाञ्च नारीं दौहृ(ह)दिनीमाचक्षते । दौहृ(ह)द-
विमाननात् कुब्जं कुणिं खञ्जं जड़ं वामनं विकृताक्षनासं
वा नारी सुतं जनयति । तस्मात् सा यद्यदिच्छेत्तत्तस्यै
दापयेत् । लब्धदौ(ह)हृदा हि वीर्यवन्तं चिरायुषञ्च पुत्रं
जनयति” । भवन्ति चात्र “इन्द्रियार्थांन्तु यान् यान् सा
भोक्तुमिच्छति गर्भिणी । गर्भाबाधभयात्तांस्तान्
भिषगाहृत्य दापयेत् । सा प्राप्तदौ(ह)हृदा पुत्त्रं जनयेत
गुणान्वितम् । अलब्धदौ(ह)हृदा गर्भे लभेदात्मनि वा
भयम् । येषु येष्विन्द्रियार्थेषु दौहृ(ह)दे वै विमानना ।
प्रजायेत सुतस्यार्त्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये । राजसन्द-
र्शने यस्या दौहृ(ह)दं जायते स्त्रियाः । अर्थवन्तं
महाभागं कुमारं सा प्रसूयते । दुकूलपट्टकौशेयभूषणादिषु
दौ(ह)हृदात् । अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते ।
आश्रमे संयतात्मानं धर्मशीलं प्रसूयते । देवताप्रति-
मायान्तु प्रसूते पार्षदोपमम् । दर्शने व्यालजातीनां
हिसाशीलं प्रसूयते । गोधामांसाऽशने पुत्रं सुषुप्सुर्धा-
रणात्मकम् । गवां मांसे च बलिनं सर्वक्लेशसहन्तथा ।
माहिषे दौ(ह)हृदाच्छूरं रक्ताक्षं लोमसंयुतम् ।
वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम् । मार्गाद्विक्रा-
न्तजङ्घालं सदा वनचरं सुतम् । सृमराद्विम्नमनसं
नित्यभीतं च तैत्तिरात् । अतोऽनुक्तेषु या नारी
त्वमभिध्याति दौ(ह)हृदम् । शरीराचारशीतैः सा
समानं जनयिष्यति । कर्मणा चोदितं जन्तोर्भवितव्य
पुनर्भवेत् । यथा तथा दैवयोगाद्दौ(ह)हृदं जनयेद्धृदि” ।
यात्रायां दिग्भेदे दोषशान्त्यर्थे ४ सेव्यपदार्थे यथाह मु० चि०
“आज्यं तिलौदनं मत्स्यं पयश्चापि यथाक्रमम् । भक्ष-
येद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत् । रसालां पायसं
काञ्जीं शृतं दुग्धं तथा दधि । पयोऽशृतं तिलान्नं च
भक्षयेद्वारदोहदम् । पक्षादितोऽर्कदलतण्डुलवारिसर्पिः
श्राणाहविष्यमपि हेमजलं त्वपूपम् । भुक्त्वा व्रजेद्रुचकमम्बु
च धेनुमूत्रं यावान्नपायसगुडानसृगन्नमुद्गान्” मु० चि०
अथ दिग्दोहदमनुष्टुभाह आज्यमिति । आज्यं घृतं
पूर्वस्याम् । तिलौदनं तिलमिश्रौदनं दक्षिणस्याम् । मत्स्यं
प्रसिद्धं पश्चिमायाम्, पयोदुग्धमुत्तरस्याम् । एतद्यथाक्रमं
दिश्यमभीष्टदिग्भवं दोहदं भक्षयेत्ततः पूर्वादिकाभाशां
जिगमिषितां दिशां व्रजेत् । यदाह श्रीपतिः “आज्यं
तिलौदनं मत्स्यं पयः प्राक्प्रभृतिक्रमात् । भुक्त्वेति शेषः
नारदेन त्वन्यथोक्तं “घृतान्नं तिलपिष्टान्नं मत्स्यान्नं
घृतपायसम् । प्रागादिक्रमशो भुक्त्वा याति राजा
जयत्यरीन्” । वसिष्ठेनापि “घृतान्नं कृसरान्नं च
मत्स्यान्नं घृतपायसम् । पूर्वादिषु क्रमाद्भुक्त्वा याता
सिद्धिमवाप्नुयात्” इति । अत्रैवं विरोधे विकल्पो
यथादेशाचारं वा व्यवस्था । अथ वारदोहदमनुष्टुभाह
रसालामिति । रसाला शर्करादधिमरीचकर्पूरैला
संसृष्टा लोके शिखरिणीति प्रसिद्धा तां रविवारे ।
पायसकाञ्ज्यौ प्रसिद्धे सोममङ्गलवारयोः । शृतं पक्वं
दुग्धं बुधे, शृतं पाक इति साधु । तत्रापि क्षीरहवि-
षोरेवेति वार्तिकात् प्रस्तुते क्षीरे साधुत्वम् । दधि प्रसिद्धं
गुरुवारे । अशृतमपक्वं दुग्धं शुक्रे, तिलान्नं
तिलमिश्रसोदनं शनौ । एतद्वारदोहदं रविबारादौ क्रमेण
भक्षयेत् । यदाह श्रीपतिः “मज्जिकां सघृतपायसं
तथा काञ्जिकं शृतपयोऽदधि क्रमात् । क्षीरमाममथ तत्
कथितं तिलौदगं वारदोहदविधिर्बुधैः स्मृतः “इति
वसिष्ठनारदाभ्यां दुग्धस्य पक्वापक्वविशेषो नाभ्यधायि
“मज्जिकां परमान्नं च काञ्जिकं च पयोदधि । क्षीरं
तिलौदनं भुक्त्वा भानुवारादिषु क्रमादिति” । मज्जिका
रसाला । “स्याद्रसाला तु मज्जिका” इत्यभिधानात् ।
गुरुस्तु विशेषनाह “सूर्यवारे घृतं पाश्यं चन्द्रवारे
पयस्तथा । गुड़मङ्गारके वारे बुधवारे तिलानपि ।
गुरुवारे दषिप्राश्य शुक्रवारे यवानपि । माषान् भुक्त्वा
पृष्ठ ३७६९
शनेर्वारे शूले गच्छन्नदोषभागिति” । अथ तिथिदोहदं
वसन्ततिलकाच्छन्दसाह पक्षादित इति । पक्षादिः प्रति-
पत्तस्याः ल्यप्लोपे पञ्चमी । प्रतिपदादिपञ्चदशतिथिषु
क्रमेण तिथिदोहदं भुक्त्वा व्रजेत् । यथा प्रतिपदि अर्कस्य
वृक्षविशेषस्य दलानि पर्णानि । द्वितीयायां तण्डुलवारि-
क्षालिततण्डुलजलम् । तृतीयायां सर्पिर्घृतम् । चतुर्थ्यां
श्राणा यवागूः । पञ्चम्यां हविष्यं मुद्गादि । षष्ठ्यां
हेमजलं प्रक्षालितसुवर्णजलम् । सप्तम्यामपूपम् । अष्टम्यां
रुचकं वीजपूरफलम् । “फलपूरी वीजपूरो रुचको
मातुलिङ्गके” इत्यमरः । नवम्यामम्बु जलम् । दशम्यां
धेनुमूत्रं स्त्रीगवीमूत्रं न तु वृषमूत्रं धेनुशब्दग्रह-
णात् । एकादश्यां यावान्नं यवविकारम् । द्वादश्यां
पायसम् । त्रयोदश्यां गुड़मिक्षुविकारं, चतुर्दश्या-
मसृक् रुधिरम् । पञ्चदश्यामन्नमुद्गानोदनमिश्रित-
मुद्गान् । यदाह वृहस्पतिः “अर्कपत्रं भवेद्यातुः
प्रथमायान्तु भक्षणम् । द्वितीयायां भवेद्यातुर्भक्ष्यं
सत्तण्डुलोदकम् । तृतीयायां तथा सर्पिर्यवागूः स्या-
त्ततः परम् । पञ्चम्यां तद्धविष्यं स्यात् षष्ठ्यां वा
काञ्चनोदकम् । अपूपभुक्तिः सप्तम्यामष्टम्यां वीजपूर-
कम् । नवम्यां तोयपानं स्याद्गोमूत्रन्तु ततःपरम् ।
एकादश्यां यवानद्यात् द्वादश्यां पायसं पिबेत् । त्रयो-
दश्यां गुड़ं लेह्यं रुधिरं स्याच्चतुर्दशे । मुद्गौदनं
भवेद्धोज्यं पञ्चदश्यां यियासतः । पक्षयोरुभयोरेवं यात्रा
योगे विधिः स्मृतः” इति । दैवज्ञमनोहरेऽपि क्वचि-
द्भेदः । यथा “अर्कदलतण्डुलोदकसर्पीषि हविष्यदधि-
सुवर्णपयः । तिलवारिवीजपूरकमध्वाज्यकमूत्रषिष्टिका-
श्चापि । तिलपिष्टकदम्बमूलानि शाकमथ शस्तवृक्षपर्णानि
प्रतिपत्प्रभृतिषु भुक्त्वा प्रस्थाता सिद्धिमाप्नोतीति” । ननु
“आलभ्यालभ्य भक्ष्यान् वा स्मृत्वा दृष्ट्वाथ तान् व्रजेत् ।
दत्त्वा वा सिद्धिमाप्नोति दुष्टभादिषु भूपतिरिति” गुरूक्तेः
दुष्टवारादिषु दोहदाभिधानं सार्थकम् । विहितेषु
पुनर्नक्षत्रतिथिवारादिषु दोहदाभिधानं व्यर्थम् ।
दोषनिवारणफलको हि दोहदस्तदभावे वैयर्थ्यप्रसङ्गात् ।
उच्यते । दुष्टभादिषु भूपतिरित्यत्र दुष्टत्वं किन्नैसर्गिकमु-
तान्यत् अहितनक्षत्रेष्वपि क्रूरग्रहसाहित्यादिर्महान् दोषः
सम्भावितोऽस्ति तदपाकरणाय दोहदाभिधानं सार्थकम्
एवं सर्ववर्णानामपि पारिघदण्डे विरुद्धताराक्रूर-
ग्रहमाहित्यादिमहादोषनिवारणाय दोहदोक्ते पार्थ-
क्याच्च । एवं विहिततिथिदोहदाभिधानं योगिन्यादि-
दोषनाशार्थम् । “सक्रूररांशेरशुभा तिथिः स्यात्” इत्ये-
तद्दोषनिवारणार्थं च । तद्दोषाभिधानं च रत्नमाला-
याम् । “आद्याश्चतस्रः क्रियपूर्वकाणां मेषाच्चतुर्णामिह
पञ्चमी स्यात् । पराः परेषां परतस्तथैव सक्रूरराशे-
रशुभा तिथिः स्यात्” इति । एवं वारदोहदोक्तिरपि
वक्रिग्रहवारशूलादिदोषहान्या सार्थिका दिग्दोहोक्ति-
रपि त्रिविधप्रतिबुधप्रतिशुक्रप्रतिभौमादिदोषहान्या
सार्थिका” पी० धा०
तत्र गर्भे “सुदक्षिणा दोहदलक्षणं दधौ” रघुः । अभिलाषे
“उदकक्रीड़ादोहदागतानाञ्च” काद० गर्भिण्यभिलाषे
“प्रजावती दोहदशंसिनी ते” रघुः ५ पुष्पोद्गमौषधे च
“कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति”
रघुः “काङ्क्षत्यन्योवदनमदिरादोहदच्छद्मनास्याः” मेघः
अशोकबकुलयोः स्त्रीपदताडनगण्डूषमदिरे दोहद-
मिति प्रसिद्धिः । “स्त्रीणां स्पर्शात् प्रियङ्गुर्विकसति
बकुलः शीधुगण्डूषसेकात् पादाघातादशोकस्तिलक-
कुरुवकौ वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्
पटुमृदुहसनात् चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्वि-
कसति च पुरोनर्तनात् कर्णिकारः” मल्लि० धृतवाक्यम्

दोहदलक्षण न० दोहदस्य गर्भस्य लक्षणं यत्र । १ वयः

सन्धौ ६ त० । २ गर्भलक्षणे च ।

दोहदवती स्त्री दोहद + अस्त्यर्थे मतुप् मस्य वः । द्रव्य-

विशेषाभिलाषवत्यां गर्भिण्याम् अमरः । दोहदान्विता-
प्यत्र हेमच० ।

दोहन न० दुह--भावे ल्युट् । १ अन्तःस्थितद्रवद्रव्यस्य

बहिर्निःसारणरूपे व्यापारे (दोओया) करणे ल्युट् ङीप् ।
२ दोहनसाधनपात्र्याम् शब्दरत्ना० ।

दोहल पु० दोहमाकर्षं लाति गृह्लाति ला--क । १ इच्छायां

२ दोहदशब्दार्थे च शब्दार्थकल्प० । “अशोक! यदि सद्यएव
मुकुलैर्न सम्पत्स्यसे सुधा वहसि दोहलं ललितकामिसा-
धारणम्” मालविका० ततः अस्त्यर्थे मतुप् मस्य वः ।
ङीप् दोहलवती १ दोहदवत्यां स्त्रियां शब्दार्थचि० ।
२ अशोकवृक्षे स्त्री राजनि० गौरा० ङीष् दोहली ।

दोहस् पु० दुह--भावे असुन् । दोदने प्रक्षारणे “वृषा कृष्णे

समूहे दोहसा दिवः” ऋ० १०११ । १ “दोहसा दोहनेन” भा०

दोहसे अव्य० दुह--तुमर्थे “सेसेनऽसेन” इत्यादि पा० ३ । ४ । ९

सू० तमर्थे असेत् । दोग्धुमित्यर्थे “मर्त्तेष्वन्यद्दोहसे”
ऋ० ६ । ६६ । १ “मक्षुन येषु दोहसे” ऋ० ६ । ६६ । ५
“दोहसे कामान् दोग्धुम्” भाष्यम् ।
पृष्ठ ३७७०

दोहा स्त्री मात्रावृत्तभेदे “षट्कलतुरगौ त्रिकलमपि विषम-

पदे विनिधेहि । समपादान्ते चैकलमिति दोहामव”
धेहि” तल्लक्षणम् ।

दोहापनय पु० दोहमपनयति स्वनिःसरणेन अप + नी--अच् । दुग्धे त्रिका० ।

दोहित त्रि० दोह + तार० इतच् । सञ्जातदोहे

दोहिन् त्रि० दुह--शीलार्थे घिनुण् । दोहनशीले स्त्रियां ङीप् ।

दोहीयस् त्रि० दोग्धृ + अतिशायने “तुश्छन्दसि” इयसुन्

तृणोलोपः । अतिशयेन दोग्धरि । स्त्रियां ङीप्
दोहीयसी एवं इष्ठन् दोहिष्ठ तत्रार्थे त्रि० स्त्रियां टाप् ।
शब्दकल्पद्रुमे अस्य दोहिन्शब्दप्रकृतिकत्वकल्पनं प्रामा-
दिकमेव ।

दोह्य त्रि० दुह--कर्मणि वा ण्यत् । १ दोहनीये २ दुग्धे ३

धेन्वादौ स्त्री । “ईडबन्धशंसदुहां ण्यतः” पा० अस्याद्युदा-
त्तता । “वीजायोबाह्यरत्न स्त्री दोह्य पुंसां परीक्षणम्”
याज्ञ० ।

दौःसाधिक पु० दुष्टः साधः तत्र नियुक्तः ठक् । द्वारपाले त्रि० ।

दौकूल पु० दुकूलेन परिवृथो रथः अण् । दुकूलेन परिवृते

रथे अमरः पृषो० दौगूल तत्रार्थे हेमच० ।

दौगर्ह पु० अश्वे निरु० ।

दौत्य न० दूतस्य भावः कर्म वा ष्यञ् । १ दूतकर्मणि २ तद्भावे

च “हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दौत्यपथः
सितीकृतः” नैष० “दौत्यं तत्कृतं घोरे विग्रहे जनमे-
जय!” हरिवं० १७४ अ० “भगवन् श्रूयतां वाक्यं
दौत्येनाहमिहागता” हरिवं० १७७ अ० ।

दौरात्म्य न० दुष्ट आत्मा यत्नः धृतिः बुद्धिः स्वभावः

शरीरं वा यस्य तस्य भावः ष्यञ् । निन्दितयत्नादौ
“दौरात्म्याद्राक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः” रघुः ।

दौर्ग न० दुर्गस्य दुर्गाया वा इदम् अण् । १ दुर्गसम्बन्धिनि २

दुर्गासम्बन्धिनि च “श्रावणी दौर्गनवमी दूर्वा चैव हुता-
शनी । पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम्” कालमा०
धृतवाक्यम् ।

दौर्गत्य न० दुर्गतस्य भावः ष्यञ् । १ दारिद्र्ये २ दुःखित्वे

च “दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत्” सा० द०
“भर्त्तुः कुर्वन्ति दौर्गत्यात् सोऽनर्थः सुमहान् स्मृतः”
भा० स० ५ अ० ।

दौर्गन्ध्य न० दुष्टो गन्धोऽस्य ततो भावे ष्यञ् । दुष्टगन्ध-

योगे । “लघु तृष्णाहरं वक्त्रक्लेददौर्गन्थ्यनाशनम्”
सुश्रुतः । गात्रे दौर्गन्ध्यकारणञ्च भृगुभारते उक्तं तक
१७६३ पृ० दर्शितम् ।

दौर्गह पु० दुर्गहस्यापत्यम् शिवा० अण् । १ दुर्गहस्यर्षेरपत्ये

पुरुकुत्से ऋषौ “सप्त ऋषयो दौर्गहे वध्यमाने” ऋ० ४ । ४२
८ । “पुरुकुत्सस्य महिषी दौर्गहे बन्धने स्थिते । पत्या-
वराजकं दृष्ट्वा राष्ट्रं पुत्रस्य लिप्सया” भा० धृतवाक्यम्
२ अश्वे निरु० दौगर्ह इत्यत्र पाठान्तरम् ।

दौर्ग्रह पु० दुःखेन ग्रहो ग्रहणमस्य अश्वस्य, तत्साध्यो यागः

अण् । अश्वमेधे “तेन ह पुरुकुत्सो दौर्ग्रहेणेजे” शत०
व्रा० १३ । ५४५ । दौर्ग्रहेणाश्वेन संहतेन क्रतुना
अश्वमेधेनेजे इत्यर्थः” भा० ।

दौर्गायण पु० दुर्गस्यापत्यं नडा० फक् । दुर्गस्यापत्ये

दौर्जन्य न० दुर्जनस्य भावः ष्यञ् । दुर्जनत्वे “तदिदं सम

दौर्जन्यं वालिशस्य महीयसि” भाग० ६ । ६८ । ५२

दौर्बल्य न० दुर्बलस्य भावः ष्यञ् । दुर्बलत्वे “अनादेयस्य

चादानात् आदेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते
राज्ञः” मनुः “पपात भूमौ दौर्बल्यात्” भा० शा०
५३ श्लो० ।

दौर्भागिनेय पुंस्त्री० दुर्भगाया अपत्यं कल्या० ढक् इनङ्

च हृद्भगेत्यादिना द्विपदवृद्धिः । दुर्भगाया अपत्ये ।

दौर्भाग्य न० दुर्भगाया दुर्भगस्य वा भावः ष्यञ् द्विपद-

वृद्धिः । दुर्भाग्यान्वितत्वे “भुक्त्वा पितृगृहे नारी पुङ्क्ते
स्वामिगृहे यदि । दौर्भाग्यं जायते तस्याः शपन्ति
कुलदेवताः” इति ज्योति० त० “यत्ते केशेषु दौर्भाग्यं
सीमन्तेषु च मूर्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु
सर्वदा” याज्ञ० “अद्य कैकेयि! दौर्भाग्यं राज्ञा ते ख्या-
पितं महत्” भा० व० २७६ अ० तत्कारणञ्च भृगुभारतोक्तम्
१७६३ पृ० दर्शितम् ।

दौर्भ्रात्र न० दुष्टोभ्राता तस्य भावः युवा० अण् । दुष्टभ्रातृत्वे ।

दौर्मनस्य न० दुष्टं मनोऽस्य तस्य भावः ष्यञ् । खेदादि-

निमित्ते चित्तस्य दौस्थ्ये दुष्टमनोयुक्तत्वे “तेषां कृते मे
निश्वासो दौर्मनस्यञ्च जायते” देवीमा० “कृतस्मृतिः
प्रोषितदौर्मनस्यम्” वृ० सं० ७८ अ० ।

दौर्वासस न० दुर्वाससा प्रोक्तम् अण् । शिवधर्माख्ये

उपपुराणभेदे उपपुराणशब्दे दृश्यम् ।

दौर्वीण न० दुर्वायाः इदम् खञ् । १ दूर्वारसे २ इष्टपर्णे च मेदि० ।

दौर्व्रत्य न० दुष्टं स्खलनोच्छलनादि व्रतं यस्य तस्य भावः

ष्यञ् । दुष्टव्रतत्वे “मित्रं सौव्रत्येन रुद्रं दौर्व्रत्येन”
यजु० ३९ । ९
पृष्ठ ३७७१

दौर्हृ(ह)द न० दुर्हृदो भावः अण् वा न द्विपदवृद्धिः ।

दोहद + स्वार्थे अण् वा । इच्छादौ दोहदशब्दार्थे
दोहदशब्दे सुश्रुतवाक्यं दृश्यम् ।

दौर्हार्द्द न० दुर्हृदो भावः युवा० अण् द्विपदवृद्धिः । शत्रुत्वे

दौर्हृदय न० दुर्हृदयस्य दुष्टहृदययुक्तस्य भावः युवा० अण्

न द्विपदवृद्धिः । दुष्टचित्तत्वे ।

दौलेय पु० दुलेरपत्यम् “इतश्चानिञः” पा० ढक् । दुलेरपत्ये कच्छपे हेमच० ।

दौल्मि पु० दुल्म + अपत्ये इञ् । इन्द्रे शब्दार्थकल्प० ।

दौवारिक पु० द्वारे नियुक्तः ठक् द्वारा० य्वाभ्यां प्राक् ऐच् ।

१ द्वारनियुक्ते २ द्वारपाले ३ प्रतीहार्य्यां स्त्री ङीप् ।
“दौवारिकी देवसरूपमेत्य” रघुः “प्रविश्य दौवा-
रिकः” शकु० । दौवारिकलक्षणं मत्स्यपु० उक्तं यथा
“प्रांशुः सुरूपोदक्षश्च प्रियवादीन चोद्धतः । चित्तग्राहश्च
सर्वेषां प्रतीहारः स उच्यते” । औशनसनीतिशास्त्रपरि-
शिष्टे तु अन्यथोक्तं यथा
“शस्त्रास्त्रकुशलो यस्तु दृढाङ्गश्च निरालसः । यथायोग्यं
समाहूयात् स ज्ञेयः प्रतिहारकः” । “ईङ्गिताकारतत्त्वज्ञो
बलवान् प्रियदर्शनः । अप्रमादी समो दक्षः स प्रती-
हार उच्यते” चाणक्यः । वृ० सं० उक्ते २ एकाशीतिपदस्थे
वास्तुदेवभेदे च “पितृदौवारिकसुग्रीवकुसुमदन्ताम्बुपत्य-
सुराः” ।

दौवालिक पु० देशभेदे तत्रत्यराजादिषु ब० व० । “दौवा-

लिकाः सागरकाः पत्रोर्णाः शैशिरास्तथा । कर्णप्रावर-
णाश्चैव बहवस्त्वत्र भारत! । तत्रस्था द्वारपालैस्ते
प्रोच्यन्ते राजशासनात् । कृतकालाः सुबलयस्ततो द्वार-
मवाप्स्यथ” भा० स० ५१ अ० ।

दौश्चर्म्म्य न० दुश्चर्म्मणो भावः व्यञ् । स्वभावतोऽनावृत

मेढ्रत्वे “ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः” मनुः ।

दौष्क त्रि० दोषा चरति “दोष उपसंख्यानम्” वार्त्ति० ठण्

“इणः षः” पा० षत्वम् । बाहुभ्यां चारिणि ।

दौष्कुल दुष्टं कुलमस्य दुष्कुलः स्वार्थे अण् । दुष्टकुलयुक्ते

“न दुर्जने दौष्कुलो वा व्रतैर्यो वा न संस्कृतः” भा० शा०
३६ अ० ।

दौष्कुलेय पु० दुष्कुलस्यापत्यं तत्र भवो वा “दुष्कुलाड्ढक्”

पा० पक्षे ढक् । दुष्कुलजाते “कुलेजाताश्च क्लिश्यन्ते
दौष्कुलेयवशानुगाः” भा० व० १९३ अ० ।

दौष्कुल्य त्रि० दुष्कुल + स्वार्थे ण्यत् । दुष्टकुलयुक्ते

“दौष्कुल्या व्याधिबहुलाः दुरात्मानोऽप्रतापिनः” भा० व०
१८३ अ० ।

दौष्ठव न० दुष्ठोः अविनातस्य भावः उद्गा० अण् । अविनीतत्वे

दौष्पुरुष्य न० दुष्टः पुरुषः तस्य भावः स्वार्थे वा व्राह्मणा०

ष्यञ् । १ दुष्टे पुरुषे २ तद्भावे च ।

दौष्मन्त(न्ति) पु० दुष्मन्तस्यापत्यम् शिवा० अण् इञ् वा ।

दुष्मन्तनृपस्यापत्ये भरते “दौष्मन्तं भरतं चापि भृतं
सृञ्जय! शुश्रुमः” भा० द्रो० ६७ अ० । “भरतञ्चैव दौष्मन्तिं
मृतं सृञ्जय! शुश्रुमः” भा० शा० २९ अ० । अस्य विसर्गम-
ध्यता मशून्यतापि “तेन हैतेन भरतो दौःषन्तिरीजे”
शत० व्रा० १३ । ५ । ४८ अत्र पृषो० मस्य लोप इति बोध्यम्
यमध्यो दौष्यन्तिरित्यप्यत्र “रूपौदार्य्यगुणोपेतं दौष्यन्तिं
जनमेजय!” भा० आ० ७४ अ० ।

दौष्यन्त्य त्रि० दुष्मन्तस्यायम् ण्य । दुष्मन्तसम्बन्धिनि “सत्य-

वत्यचिन्तयन्मा दौष्मन्त्यो वंश उच्छेदं व्रजेदिति” भा०
आ० ९५ अ० ।

दौस्त्र न० दुष्टा स्त्री तस्याः भावः युवा० अण् । दुष्टस्त्रिया भावे ।

दौहिक दोहं नित्यमर्हति ठञ् । नित्यं दोहार्हे

दौहित्र पुंस्त्री० दुहितुरपत्यम् विदा० अञ् । दुहितुरपत्ये

स्त्रियां ङीप् । “पौत्रदौहित्रयोर्लोके विशेषो नास्ति
कश्चन । तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः”
मनुः “दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवत् ।”
मनुः । २ खड्गादौ न० । “दौहित्रं खड्गमित्याहु-
रपत्यं दुहितुस्तिलाः । कपिलायाघृतं चैव दौहित्र-
मिति चोच्यते” मार्कण्डेयपु० “त्रीणि श्राद्धे प्रशस्तानि
दौहित्रं कुतुपस्तिलाः” तत्रैव । “त्रीणि श्राद्धे
पवित्राणि दौहित्रः कुतुपस्तिलाः । व्रतस्थमपि दौहित्रं
श्राद्धे यत्नेन भोजयेत् । कुतपञ्चासने दद्यात् तिलैश्च
विकिरेन् महीम्” मनुः “कुतपं नेपालकम्बलम्” इति
कुल्लूकभट्टः । “ब्राह्मविवाहेनोढायाः कन्याया पुत्रो-
त्पत्तिं विना तद्गृहभोजने दोषोऽभिहितः” वह्निपु० ।
“कन्यायां व्रह्मदेयायामभुञ्जन् सुखमश्नुते । अथ
भुञ्जीत यो मोहात् भुक्त्वा स नरकं व्रजेत् । अप्रजायाञ्च
कन्यायां न भुञ्जीयात् कदाचन । दौहित्रस्य मुखं
दृष्ट्वा किमर्थमनुशोचंसि । महासत्त्वसमाकीर्णात् नास्ति
ते नरकाद्भयम् । नीर्णस्त्वं सर्वदुःखेभ्यः परं स्वर्ग-
मवाप्स्यसि । दौहित्रस्य तु दानेन नन्दन्ति पितरः
सदा । यत्किञ्चित् कुरुते दानं तदानन्त्याय कल्पते”
पृष्ठ ३७७२

दौहित्रायण पुंस्त्री० दुहितुरपत्यं युवा विदा० अञि

अञन्तत्वात् यूनि हरिता० फक् । दुहितुर्यून्यपत्ये ।

द्यविद्यवी स्त्री दिवसे निरु० ।

द्यावाक्षमा स्त्री द्वि० ब० । द्यौश्च क्षमा च दिवो द्यावादेशः ।

स्वर्गपृथिव्योः हेमच० । एवं द्यावापृथिवीद्यावाभूमि
शब्दावपि तत्रार्थे द्वि० व० “द्यावापृथिवीयम्” शत० ब्रा०
११ । ५२ द्यावापृथिव्योरिदम् वैश्वदेवं तत्सम्बन्धि इत्यर्थः ।
“द्यावापृथिवी इह ज्यैष्ठे” शत० १३ । ५ । १ । ११ “आर्षत्वात्
एकवचनान्तता । “द्यावाभूमी जनयन् देव एक आस्ते
विश्वस्य कर्त्ता भुवनस्य गोप्ता” अनुमानचिन्तामणिधृतश्रुतिः ।

द्यु अभिसर्पणे अदा० पर० सक० अनिट् । द्यौति अद्यौषीत् ।

दुद्याव । “गुहाया निरगात् बाली सिंहो मृगमिव
द्युवन्” भट्टिः ।

द्यु न० दिव--उन् किच्च बा० वलोपश्च । १ दिने २ गगने ३ स्वर्गे

च विश्वः ४ अग्नौ पु० मेदि० ।

द्युक्ष त्रि० दिवि द्युनि क्षयति क्षि--निवासे ड । १ स्वर्गलोक-

वासिनि त्रिका० “द्युक्षो राजा गिरामक्षितोतिः”
ऋ० ६ । २४ । १ “द्युक्षो द्युलोक निवासी” भा० २ दीप्तियुक्ते
च “द्युक्षमर्यमणं भगम्” ऋ० १ । १३६ । ६ “द्युक्षं दीप्ति-
मन्तम्” भा० ।

द्युग पुंस्त्री० द्युनि दिवि वा आकाशे गच्छति गम--ड ।

१ पक्षिणि राजनि० । स्त्रियां जातित्वात् ङीष् ।
२ आकाशगामिमात्रे त्रि० स्त्रियां टाप् ।

द्युगण पु० द्यूनां दिवां वा दिनानां गणः । ग्रहाणां मध्य-

गतिसाधनाङ्गे दिनवृन्दे अहर्गणशब्दे ५७७ पृ० तदान-
यनादि दृश्यम् । “रविदिनान्तगताधिकमासकैः कृतदिनैः
सहितो द्युगणो विधोः” सि० शि० ।

द्युगत् न० द्यु + गम--क्विप् । शीघ्ने निरु० “अतस्त्वा गीर्भि-

र्द्युगदिन्द्र!” ऋ० ८ । ८६ । ४

द्युचर त्रि० दिवि द्युनि वा आकाशे चरति चर--ढ ।

१ ग्रहे २ पक्षिणि च “द्यौश्चचाल तदा राजन्! द्युचराश्च
सहस्रशः” हरिवं० १३२ अ० ।

द्युज्या स्त्री ६ त० । द्युवृत्तस्याहोपात्रवृत्तस्य द्रलरूपायां ज्या-

याम् । “क्रान्तेः क्रमोत्क्रमज्ये द्वे कृत्वा तत्रोत्क्रम-
ज्यया । हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्”
सू० सि० “स्पष्टक्रान्तेः क्रमोत्क्रमज्ये द्वे अपि प्रसाध्य
तत्र तन्मध्ये क्रान्त्युत्क्रमज्यया त्रिज्या हीना, दिनव्या-
सदलमहोरात्रवृत्तस्य व्यासार्द्धं द्युज्येद्येत्यर्थः” रङ्ग० ।
“क्रान्तिज्या भुजः त्रिज्या कर्णस्तद्वर्गान्तरपदमहोरात्र
वृत्तस्यार्द्धं सैव द्युज्या” सि० शि० व्याख्यायां प्रमिता० ।

द्युत दीप्तौ भ्वा० अक० आत्म० सेट् । द्योतते ॡदित्त्वात् अङि

प० अद्युतत् अद्योतिष्ट । दिद्युते । द्योतनः “अद्युतच्चन्द-
माभृशम्” भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्ते
द्योतने । “व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी”
माघः । “विदुद्युते बाडवजातवेदमाम्” माघः २ शोभायाञ्च
“पद्मैरनन्वीतबधूमुखद्युतः” माघः णिचि द्योतयति
प्रकाशने व्यञ्जनावृत्त्या बोधने च द्योत्यार्थः व्यङ्ग्यर्थे

द्युत पु० द्युत--क्विप् । १ किरणे हेमच० । २ द्योतमाने त्रि० “स

हि द्युता विद्युता वेति साम” ऋ० १० । ९९ । २ । “द्युता
द्योतमानेन” भा० ।

द्युत त्रि० द्युत--क । द्योतमाने सैवचरति क्विप् द्युतति

अद्युतीत् । “द्युतद्यामानं वृहतीमृतेन” ऋ० ५ । ८० । १

द्युतान त्रि० द्युत--शानच् वेदे गणव्यव्ययात् शपोलुक् ।

द्योतनशीले “द्युतानस्त्वा मारुतो मिनोतु” यजु० ५ । २७
“द्युतानः दीप्यमानः” वेददी० ।

द्युति स्त्री द्युत--इन् । १ दीप्तौ २ शोभायाम् “सुवर्णपुङ्खद्यु-

तिरञ्जिताङ्गुलिः” रघुः । “रूपयौवनलालित्य भोगाद्यै-
रङ्गभूषणम् । शोभा प्रोक्ता सैव कान्तिर्मन्मथा-
प्यायिता द्युतिः । कान्तिरेवातिविस्तीर्णा दीप्तिरित्य-
भिधीयते” सा० द० तत्सामान्यावान्तरभेदकथनेन स्त्रीणां
सात्विकालङ्कारतया उक्ते ३ अर्थे । “देहजा कान्ति-
र्द्युतिरित्याचार्य्या मन्यन्ते ।

द्युतित न० द्युत--भावे क्त वा न गुणः । १ दीप्तौ पक्षे गुणः

द्योतितमप्यत्र । २ कर्तरि क्त । २ दीप्तियुते त्रि० ।

द्युतिधर पु० द्युतिं देहगतां कान्तिं धारयति अन्तर्भूतण्यर्थे

धृ--अच् । विष्णौ “तेजो वृषो द्युतिधरः” विष्णुसं०
“द्युतिमङ्गगतां कान्तिं धारयन् द्युतिधरः” भा०
“ओजस्तेजो द्युतिधरः” विष्णुसं० नामान्तरं तद्व्युत्पत्ति-
र्भाष्येऽन्यथा दर्शिता यथा “ज्ञानलक्षणां दीप्तिं
धारयन् द्युतिधरः” इति । तेनोभयविधयोगार्थवत्त्वात् तस्य
नामद्वयमित्यपौनरुक्त्यम् ।

द्युतिमत् त्रि० द्युतिः प्रशंसायामस्त्यर्थे मतुप् । १ प्रशस्तकान्ति-

युक्ते “यस्येतिहासो द्युतिमान्” भा० आ० ९९ अ० “द्युति-
मतां निकरेण महास्वनाम्” किरा० । स्त्रियां ङीप् ।
स्वायम्भ वस्य मनोः २ पुत्रभेदे पु० । तदुपक्रमे “ज्योति-
पृष्ठ ३७७३
ष्मान् द्युतिमान् हव्यः सवर्णापुत्र एव च” हरिवं० ७ अ० ।
मेरुसावर्णमन्वन्तरे ३ सप्तर्षिभेदे च । तदुपक्रमे “ज्योति-
ष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा” तत्रैवाध्याये ।
मद्रराज ४ नृपभेदे “सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां
नामोपयेमे मद्रराजस्य द्युतिमतोदुहितरम्” भा० आ०
९५ अ० । ५ शाल्वदेशनृपभेदे च “नाम्ना च द्युतिमान्नाम
शाल्वराजः प्रतापवान्” भा० शा० २३४ अ० । ६ मदिराश्व-
नृपपुत्रे च “मदिराश्वस्य पुत्रोऽभूत् द्युतिमान्नाम
पार्थिबः । पुत्रोद्युतिमतस्त्वासीद्राजा परमधार्मिकः”
भा० अनु० २ अ० ।

द्युतिला स्त्री द्युतिं लाति ला--क । औषधिभेदे रत्नमाला

द्युधुनि स्त्री ६ त० । स्वर्गनद्यां गङ्गायाम् “सिद्धैर्नुतो द्युधुनि

पातशिवस्वनासु” भाग० ३ । २३ । ३७ द्युनद्यादयोऽप्यत्र ।

द्युन न० लग्नावधिके सप्तमस्थाने “द्युनं द्यूनं तथास्ताख्यं

षट्कोणं रिपुमन्दिरम्” ज्यो० त० ।

द्युनिवास पु० दिवि द्युनि वा निवासोऽस्य । देवे “शोका-

ग्निनाऽगात् द्युनिवासभूयम्” भट्टिः ।

द्युपति पु० ६ त० । १ इन्द्रे हेमच० । २ दिनपतौ सूर्ये ३ अर्कवृक्षे च ।

द्युम त्रि० द्यु + अस्त्यर्थे म । दिनादिविशिष्टे

द्युमणि पु० दिवः स्वर्गस्य मणिरिव । १ सूर्ये अमरः । २ अर्कवृक्षे च ।

द्युमत्सेन पु० शाल्वमहीपतिभेदे सत्यवतः पितरि “द्युम-

त्सेनसुतं वीरं सत्यवन्तमनिन्दिता” भा० वि० २० अ० ।
“आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः । द्यु-
मत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह । विनष्ट
चक्षुषस्तस्य बालपुत्रस्य धीमतः । सामीप्येन गतं राज्यं
छिद्रेऽस्मिन् पूर्ववैरिणा । स वालवत्सया सार्द्धं भार्यया
प्रहितोवनम् । महारण्यं गतश्चापि तपस्तेपे
महाव्रतः । तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने । सत्यवा-
ननुरूपो मे भर्तेति मनसा वृतः” भा० व० २९३ अ० सावि-
त्र्युक्तिः ।

द्युमत् त्रि० द्यौः कान्तिरस्यास्ति दिव--मतुप् दिव उत्त्वम् ।

कान्तियुक्ते “वीतिहोत्रं त्वा कवे! द्युमन्तम्” यजु०
२ । ४ “द्युमत्तमा सुप्रतीकस्यसूनोः” २७ । ११

द्युमद्गान न० सामगानभेदे ।

द्युमयी स्त्री विश्वकर्मकन्यायां सूर्यभार्य्यायाम् “स्वरेणु-

र्द्युमयी त्वाष्ट्री प्रिये चैते विभावसोः” त्रिका० ।

द्युम्न न० दिवं दीप्तिं मनति म्ना--क । १ घने अमरः ।

२ बले निघण्टुः । प्रत्युंन्तः ।

द्युलोक पु० द्यौरेव लोकः दिव उत्त्वम् । स्वर्गलोके

द्युवन् पु० द्यु--कनिन् उवङ् । सूर्य्ये उज्ज्वल० ।

द्युष(स)द् पु० दिवि सीदति सद--क्विप् पूर्वपदात् छन्दसि

षत्वम् लोकेऽषत्वम् । १ देवे २ ग्रहे च “मनःसु येषां
द्युसदां न्यधीयत्” माघः ।

द्यू त्रि० दिव्यति दिव--क्विप् ऊठ् । देवके अक्षद्यूः ।

द्यूत न० दिव--भावे क्त ऊठ् अर्द्धर्चा० । १ देवने क्रीड़ाभेदे

२ विवादपदभेदे च तत्स्वरूपादिकं वीर० मि० निरूपितम्
“अक्षबध्नशलाकाद्यैर्देवनं जिह्मकारितम् ।
पणक्रीड़ा वयोभिश्च पदन्द्यूतसमाह्वयमिति” नारदः ।
अक्षाः पाशाः । बध्नश्चर्मपट्टिका । शलाका दन्तादिमय्यो
दीर्घचतुरस्राः । आद्यग्रहणाच्चतुरङ्गादिक्रीड़ासाधनं
करितुरगादिकं गृह्यते । तैरप्राणिभिर्य्या
पणपूर्विका क्रीड़ा । तथा वयोभिः पक्षिभिः पाराव-
तादिभिः चशब्दान्मल्लमेषादिभिश्च प्राणिभिर्या पण
पूर्विका क्रीड़ा क्रियते तदुभयं यथाक्रमन्द्यूतसमा-
ह्वयाख्यं व्यवहारपदमित्यर्थः । द्यूतञ्च समाह्वयश्च
द्यूतसमाह्वयम् । अतएव मनुः । “अप्राणिभिर्यत्-
क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियमाणस्तु
स विज्ञेयः समाह्वयः” इति । तत्र सभिकं प्रत्याह
नारदः “सभिकः कारयेद्द्यूतन्देय” दद्याच्च
तत्कृतम् । दशकन्तु शतं वृद्धिस्ततः स्याद्द्यूतकारिता ।
अथ वा कितवो राज्ञे दत्त्वा लाभं यथोदितम् । प्रका-
शन्देवनं कुर्य्यादेवं दोषो न विद्यत” इति । तस्य वृत्ति-
माह याज्ञवल्क्यः “ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं
शतम् । गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतमिति” ।
परस्परं सम्प्रतिपत्त्या कितवः परिकल्पितः पणोग्लह-
स्तत्र ग्लहे तदाश्रया शतपरिमिता तदधिकपरिमिता वा
वृद्धिर्यस्यासौ शतिकवृद्धिस्तस्मात्कितवात्पञ्चकं शतं जितस्य
ग्लहस्यात्मवृत्त्यर्थं विंशतितमं भागं गृह्णीयादित्यर्थः ।
पञ्चकं शतं पञ्चवणा आयो यणिन् शते तत्पञ्चकं “तदस्मिन्
वृद्ध्येति” पा० कन् १ सभापतिस्तु कल्पिताक्षादिनिखिलक्री-
ड़ीपकरणस्तदुपचितद्रव्योपजीवी इतरस्मादपूर्णशतवृद्धेः
कितवाद्दशकं शतञ्जितस्य दशमभागं गृह्णीयादित्यर्थः ।
एवं कॢप्तवृत्तेः समिकस्य यत्कर्त्तव्यं तदाह स एव
“स सम्यक्पालितो दद्यात् राज्ञे भागं यथाकृतम् ।
जितमुद्ग्राहयेज्जेत्वे दद्यात्सत्यं वचः क्षमीति” । यः
कॢप्तवृत्तिर्द्यूताथिकारी स राज्ञा धूर्त्तकितवेभ्योरक्षित-
पृष्ठ ३७७४
स्तस्मै राज्ञे यथाप्रतिपन्नमंशं दद्यात् । तथा जितं
द्रव्यं पराजितसकाशादासेधादिना उद्धृत्य जेत्रे जयिने
दद्यात् । तथा क्षमी भूत्वा द्यूतकारिणोऽतिविश्वासार्थं
सत्यं वचो वदेदित्यर्थः । नारदोऽपि “सभिकः कारयेत्
द्यूतं देयं दद्याच्च तत्कृतमिति” । वृहस्पतिरपि “सभिको
ग्राहकस्तत्र दद्याज्जेत्रे नृपाय वेति” द्यूतपराजितकित-
वानां बन्धनादिना पणग्राहको भवेत् । पणग्रहणात्
प्रागेव स्वकीयं द्रव्यं जेत्रे नृपाय च यथाभागं सभिको
दद्यादित्यर्थः । तथा च कात्यायनः “जेतुर्दद्यात् स्वकं
द्रव्यं जितं ग्राह्यं त्रिपक्षिकम् । सद्यो वा कितवेनैव
सभिकात्तु न संशयः” इति । त्रिपक्षिकमित्यनेन यथा
सामर्थ्यमा त्रिपक्षात्कालो देय इति दर्शितमिति स्मृति-
चन्द्रिकायाम् । यदा तु जेत्रे जितं द्रव्यं सभिको
दापयितुमशक्तस्तदा राजा दापयेदित्याह याज्ञ-
वल्क्यः “प्राप्ते नृपतिना भागे प्रसिद्धे धूर्त्तमण्डले ।
जितं ससभिके स्थाने दापयेदन्यथा न त्विति” प्रसिद्धे
अन्यथा प्रच्छन्ने सभिकरहितेऽदत्तराजभागे द्यूते जित
पणे जेत्रे न दापयेदित्यर्थः । प्राणिद्यूते प्राणिनां
जयपराजयौ तत्स्वामिनोरित्याह वृहस्पतिः “द्वन्वयुद्धेन
यः कश्चिदवसादमवाप्नुयात् । तत्स्वामिना पणो देयो
यस्त्वत्र परिकल्पितः” इति । पणपरिकल्पनं कृताकृत-
मित्याह नारदः “परिहासकृतं यच्च यच्चाप्यविदितं
नृपे । तत्रापि नाप्नुयात्काममथ वाऽनुमतं तयोरिति” ।
काम्यत इति कामः पणः । अत्र जयपराजयविप्रति-
पत्तौ निर्णग्रप्रकारमाह याज्ञवल्क्यः “द्रष्टारो व्यव-
हाराणां साक्षिणश्च त एव हीति” । द्यूतव्यवहाराणां
द्रष्ठारः सभ्याः त एव कितवा एव नियोक्तव्या राज्ञा ।
न तत्र श्रुताध्ययनसम्पन्ना इत्याद्युक्तनियमोऽस्ति ।
साक्षिणोऽपि त एव द्यूते द्यूतकरा एव कार्य्याः न
तत्र स्त्रीबालवृद्धकितवेत्यादिसाक्षिनिरूपणोक्तनिषेधोऽस्ती-
त्यर्थः । विष्णुरपि “कितवेष्येव तिष्ठेरन् कितवाः संशयं
प्रति । य एव तत्र द्रष्टारस्त एवैपान्तु साक्षिणः” इति ।
त्वाक्षिणां परस्परविरोधे आह वृहस्पतिः “उभयोरपि
सन्दिग्धे कितवाः स्युः परीक्षकाः । यदा विद्वेषिणस्ते
तु तदा राजा विचारयेदिति ।” अनियुक्तद्यूतकारिणो
दण्डमाह नारदः “अनिर्दिष्टस्तु यो राज्ञा द्यूतं
कुर्वीत मानवः । न स तं प्राप्नुयात्कामं विनयञ्चैव
त्वोऽर्हतीति” । ये तु कूटं द्यूतं कुर्वन्ति तेषां दण्डमाह
याज्ञवल्क्यः “राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधि
देविनः” इति । कूटैरक्षादिभिः उपधिना मणिमन्त्रादिना
मतिवञ्चनेन च ये दीव्यन्ति तान् श्वपदादिनाऽङ्कयित्वा
राजा स्वराष्ट्रान्निर्वासयेदित्यर्थः । निर्वासने विशेषमाह
नारदः “कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् ।
कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः” इति ।
दण्डने विशेषमाह विष्णुः । “द्यूते कूटाक्षदेविनां
करच्छेदः उपधिदेविनामाच्छेदः” इति । यानि तु
द्यूतनिषेधकानि मनुवचनानि “द्यूतं समाह्वयञ्चैव
यः कुर्य्यात्कारयेत वा । तान् सर्वान् घातयेद्राजा
शूद्रांश्च द्विजलिङ्गिनः । प्रकाशमेतत्तास्कर्य्यं यद्देवन
समाह्वयौ । तयोर्न्नित्यं प्रतीघाते नृपतिर्यत्नवान्
भवेत् । द्यूतं समाह्वयञ्चैव राजा राज्ये निवारयेत्”
इत्यादीनि तानि कूटाक्षदेवनविषयतया राजाध्यक्ष
सभिकरहिततया वा योज्यानि । अतएव वृहस्पतिः
“द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् । अभ्यनुज्ञा-
तमन्यैस्तु राजभागसमन्वितम् । सभिकाधिष्ठितं कार्यं
तस्करज्ञानहेतुकम्” इति । याज्ञवलक्योऽपि “द्यूत-
मेकमुखं कार्य्यं तस्करज्ञानकारणादिति” राज्ञा द्यूतम्
एकं मुखं प्रधानं यस्य तत् तथोक्तं कार्य्यम् । राजा-
ध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः । तस्करज्ञान-
कारणात् । ल्यव्लोपे पञ्चमी । तस्करज्ञानरूपं प्रयो-
जनं पर्य्यालोच्येत्यर्थः । प्रायशश्चौर्य्यार्जितधना एव
कितवा भवन्त्यतश्चौरविज्ञानार्थमेकमुखं कार्य्यमित्याशयः”

द्यूतकर त्रि० द्यूतं करोति कृ--ट । (जुयारी) द्यूतकारके

शब्दर० ।

द्यूतकार त्रि० द्यूतं करोति कृ--अण् कारयति कारि--अण्

वा । १ द्यूतकरे द्यूतस्य कारयितरि २ सभिके च अमरः
स्वार्थे क । कारि ण्वुल् वा । द्यूतकारक तत्रार्थे त्रि० ।

द्यूतकृत् त्रि० द्यूतं करोति कृ--क्विप् । द्यूतकरे त्रिका० ।

द्यूतपूर्णिमा स्त्री द्यूतार्था पूर्णिमा । कोजागरपूर्णिमाया

माश्विनपौर्णमास्यां त्रिका० कोजागरशब्दे तत्र द्यूत-
विधानमुक्तम् । द्यूतपौर्णमासी तत्रार्थे ।

द्यूतप्रतिपद्(दा) द्यूतार्था प्रतिपद् वा टाप् । कार्त्तिक-

शुक्लप्रतिपदि तत्र द्यूतविधानं ति० त० यथा ब्रह्म० पु०
“शङ्करश्च पुरा द्यूतं ससर्ज्ज सुमनोहरम् । कार्त्तिके-
शुक्लपक्षे तु प्रथमेऽहनि भूपते! । जितश्च शङ्करस्तत्र जयं
सेभे च पार्वती । अतोऽर्थाच्छङ्करो दुःखी गौरी नित्यं
पृष्ठ ३७७५
सुखोषिता । तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र
मानवैः” । “द्यूतप्रतिपदा नाम तव भावी महोत्सवः”
ति० त० धृतं बलिं प्रति भगवद्वाक्यम् ।

द्यूतवीज न० द्यूतस्य वीजं साधनम् । कपर्दके (कडि) त्रिका० ।

द्यूतवृत्ति पु० द्यूतं वृत्तिर्जीविका यस्य । सभिके तस्य यथा

द्यूतोपजीवित्वं तथा द्यूतशब्दे उक्तम् “मित्रध्रुक् द्यू-
तवृत्तिश्च पुत्राचार्य्यस्तथैव” मनुना तस्य हव्यकव्यदाना-
ऽयोग्यतोक्ता ।

द्यून न० लग्नात् सप्तमस्थाने द्युनशब्दे दृश्यम् “द्यूनजन्म-

रिपुलाभखत्रिगश्चन्द्रमाः शुभफलप्रदस्तथा” ज्यो० त०

द्यै न्यक्करणे भ्वा० सक० अनिट् । द्यायति अद्यासीत् दद्यौ

द्यो स्त्री द्योतन्ते देवा अत्र द्युत--बा० आधारे डो । १ स्वर्गे

२ आकाशे च अमरः । “धरावियद्द्योसलिलेषु विश्रुतम्”
भा० क० ९० अ० द्योषद् द्योभूमिः । सर्वनामस्थाने परे
तस्य ओरौत् द्यौः द्यावौ द्यावः ।

द्योकार त्रि० द्योतुल्यान् प्रासादादीन् करोति कृ--अण् ।

प्रासादादिकरे शिल्पिभेदे “एवं क्षत्रियदायादास्तत्र तत्र
परिश्रुताः । द्योकारहेमकारादिजातिं नित्यं समाश्रिताः”
भा० शा० ४९ अ० तत्र व्योकारेति ज्वाकारेति वा पाठान्त-
रम् । व्योकारः लोहकारः ज्याकारो धनुष्कार इत्यर्थः ।

द्योत पु० द्युत--भावे घञ् । १ प्रकाशे २ आतपे अमरः ।

खद्योतः “चन्द्रार्ककिरणद्योतम्” हरिवं० ४३ अ० “विद्यु-
द्द्योतनिकाशेन मुकुटेनार्कवर्चसा” हरिवम्० २४१ अ० ।
उत्कृष्टो द्योत् उद्द्योतः “निरवद्यविद्योद्द्योतेन द्योति-
तस्तत्त्वतोऽयमर्थः” दायभा०

द्योतन त्रि० द्युत--शीलार्थे युच् । १ द्योतनशीले

“विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनोऽवदत्” भट्टिः
२ दीपे पु० । ३ ऊषसि स्त्री निरु० । भावे ल्युट् । ४ प्रकाशे
न० “द्योतनाद्देवः” इति कुल्लू० द्युत--णिच--ल्यु ।
५ प्रकाशके त्रि० । भावे ल्युट् । ६ प्रकाशने न० ।

द्योतनि त्रि० द्युत--णिच्--अनि । प्रकाशके “आ द्यो-

तनिं वहति शुभ्रयाम्” ऋ० ३ । ५८ । १ “द्योतनिं प्रकाशकं
सूर्यम्” भा०

द्योतिरिङ्गण पु० ज्योतिरिङ्गण + पृषो० । खद्योते हेमच० ।

द्योभूमि पु० द्यौराकाशो भूमिर्गतिस्थानं यस्य । १ पक्षिणि

शब्दच० । द्यौश्च भूमिश्च द्व० । २ द्यावापृथिव्यीः स्त्री द्वि० ब०

द्योषद् पु० द्यवि सीदति सद--क्विप् षत्वम् । देवे शब्दरत्ना० ।

ग्रहादौ अषत्वम् द्योसदित्येव ।

द्यौत्र न० “दिवेर्द्युश्च” उणा० दिव--ष्ट्रन् द्युरादेशः वृद्धिश्च ।

ज्योतिःपदार्थे उज्ज्वलदत्तः ।

द्यौर्लोक पु० द्यौरेव लोकः द्योलोक + पृषो० । द्युलोके स्वर्गे

“किं ताभिर्जयति पृथिवीलोकमेव पुरोऽनुवाक्यया
जयत्यन्तरिक्षलोकं याज्यया द्यौर्लोकं शस्यया” शत० व्रा०

द्रगड़ पु० द्रेति गडति गड--अच् । वाद्यभेदे (दगड़ काड़ा)

त्रिका० ।

द्रङ्क्षण न० तोलके शब्दमाला ।

द्रङ्ग पु० पुरीभेदे हेमच० । स च “कर्वटादधमोद्रङ्गः पत्तनादु-

त्तमश्च सः” वाचस्पत्युक्तलक्षणः ।

द्रढ़ि नामधातुः दृढ़ं करोति दृढ़ + कृतौ णिच् ऋतो रः दृढी-

करणे सक० उभ० सेट् । द्रढ़यति ते । द्रढ़यन् द्रढयितुम्

द्रढ़िमन् पु० दृढस्य भावः इमनिच् ऋतो रः । दृढ़त्वे “बधाम्

द्रागेव द्रढ़िमरमणीयं परिकरम्” गङ्गालहरी ।
“हृदयमरिबधोदयादुदूढद्रढ़िम दधातु पुनःपुरन्दरस्य”
माघः ।

द्रधस् स्त्री रोदस्योः “द्वे द्रधसी सतती वस्त एकः केशी

विश्वा भुवनानि विद्वान्” तैत्ति० स० ३ । २ । २ । २

द्रप्स न० दृप्यति कफोऽनेन दृप--बा० क्स ऋतो रः । घनेतर-

दध्नि(जलोदै) अमरः पृषो० द्रप्स्य द्राप्स इत्येते अपि
तत्रार्थे अमरटीकायां भरतः । २ रसे पु० । “भुवनानामू-
र्मिर्द्रप्सो अपामसि” यजु० १४ । ५ “द्रप्सो रसः” वेददी०
“यस्ते द्रप्स स्कन्दति यस्ते अंशुरिति यो स्तोकः ।
स्कन्दति स द्रप्सस्तत्तमाह यस्ते अंशुरिति तदंशुमाह
ग्रावच्युतः” शत० ब्रा० ४ । २ । ४ । २ “सोऽष्टौ द्रप्सान्
गर्भ्यभवत्तेऽष्टौ वसवोऽसृज्यन्त तानस्यामुपादधात्” शत०
ब्रा० ६ । १ । २ । ६ । ३ द्रुतगतियुक्ते च “अनुद्रप्सास इन्दवः”
ऋ० ९ । ६ । ४ “द्रप्सासः द्रुतगतयः” भा०

द्रम गतौ भ्वा० पर० सक० सेट् । द्रमति अद्रमीत् द्रद्राम “वान

रा दद्रमुश्चाथ संग्रामं च शशंसिरे” भट्टिः यङि
दंद्रम्यते “दंद्रम्यमाणः परियन्ति मूढाः” कठोप० । दंद्रमणः

द्रमिल पु० देशभेदे । तत्र भवः अण् । द्रामिल चाणक्ये पु०

तत्र भवे त्रि० हेम० ।

द्रम्म पु० लीला० उक्ते षोडशपणे “वराटकानां दशकद्वयं

यत् सा काकिणी ताश्च पणचतस्रः । ते षोडश द्रम्म
इहापि कीर्तितो द्रस्मैस्तथा षोडशभिश्च निष्कः”
पृष्ठ ३७७६

द्रव पु० द्रु गतौ भावे अप् । १ द्रवणे २ पलायने ३ परीहामे

अमरः । ४ गतौ ५ आसवे । ६ वेगे च द्रु--अच् । ७ क्षरण
युक्ते त्रि० । ८ द्रवत्वगुणयुक्तमात्रे त्रि० “आक्षिप्य
काचिद्द्रवरागमेव” कुमा० “द्रवः सङ्घातकठिनः” कुमा०
“सर्वाणि द्रवाणि उदङ्मुखेन जुहोति” श्रुतिः “गण्ड-
स्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलयः”
“मदोदकद्रवकटभित्तिसङ्गिभिः” माघः न्यायोक्ते ९ द्रवत्व-
रूपे गुणभेदे “द्वयोर्नैमित्तिकोद्रवः” भाषा० द्रवत्वशब्दे
दृश्यम् ।

द्रवक त्रि० द्रु--शीलार्थे अक मुग्ध० । १ पलायनशीले २ क्षरणशीले च ।

द्रवज पु० द्रवाज् जायते जन--ड । १ गुडे राजनि० । २ द्रव-

जातमात्रे त्रि० ।

द्रवत्पत्री स्त्री द्रवत् पत्रं यस्याः गौरा० ङीप् । शिमुड़ीवृक्षे राजनि० ।

द्रवत् उपभोगे अक० पर० सेट् द्रवस् इत्यत्र गणरत्ने कण्ड्वा०

गणे पाठान्तरम् । द्रवत्यति । अद्रवत्यीत् ।

द्रवत् त्रि० द्रु--शतृ । १ क्षरणयुक्ते २ शीघ्रे न० निरु०

द्रवत्व न० द्रवस्य भावः । न्यायोक्ते संग्राहके गुणभेदे भाषा०

“सांसिद्धिकद्रवत्वं स्यान्नैमित्तिकमथापरम् । सांसिद्धि-
कन्तु सलिले द्वितीयं क्षितितेजसोः । परमाणौ जले नित्य-
मन्यत्रानित्यमुच्यते । नैमित्तिकं वह्नियोगात्तपनीयघृता-
दिषु । द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत्” भाषा०
“द्रवत्वन्निरूपयति सांसिद्धिकमिति । द्रवत्वं द्विविधं
सांसिद्धिकं नैमित्तिकञ्चेति । द्वितीयं नैमित्तिकं
परमाणावेवेति । जलपरमाणौ द्रवत्वं नित्यम् । अन्यत्र
पृथिवीपरमाण्वादौ जलद्व्यणुकादौ च अनित्यम् ।
कुत्रचित्तेजसि कुत्रचित् पृथिव्याञ्च नैमित्तिकं द्रवत्वम् ।
तत्र को वा नैमित्तिकस्तद्दर्शयति नैमित्तिकमिति ।
वह्नीतिपदन्तेजोऽर्थकम् । तथा च तेजःसंयोगादग्निसं-
योगजन्यं नैमित्तिकं द्रवत्वम् । तच्च सुवर्णादिरूपे
तेजसि घृतजतुप्रभृतिपृथिव्यां च वर्तत इत्यर्थः । द्रवत्वं
स्यन्दने हेतुरिति असमवायिकारणमित्यर्थः । संग्रहे
सक्तुकादिसंयोगविशेषे तद्द्रवत्वं स्नेहसहितमिति बोद्ध-
व्यम्” मुक्ता० । तल् द्रवताप्यत्र स्त्री “न च न द्रवता
द्रवता परितो हिमहानकृता न कृता क्वचन” भट्टिः ।

द्रवद्रव्य न० द्रवतीति द्रवं कर्म० । १ दुग्धदध्याज्यतक्रासवजल

तैलादिषु २ दैहिकमूत्रादिषु च ।

द्रवन्ती त्रि० द्रु--शतृ ङीप् । १ द्रवयुक्तस्त्रियां सा च

२ स्रवन्त्यां नद्यां ३ मूषिकपर्ण्यां च राजनि० ।

द्रवरस त्रि० द्रवयुक्तो रसो यस्य । १ सार्द्ररसे २ लाक्षायां

स्त्री राजनि० ।

द्रवस् उपभोगे कण्ड्वा० पर० सेट् । द्रवस्यति अद्रवस्यीत् ।

द्रवाधार पु० ६ त० । १ द्रवद्रवस्याधारे २ चुलुके च शब्दार्थक०

द्रवाय्य त्रि० द्रु--आय्य । द्रुतिशोले मुग्धबो० ।

द्रवि त्रि० द्रावयति अन्तर्भूतण्यर्थे द्रु--इन् । स्वर्णादिद्रावके

स्वर्णकारे “द्रविर्न द्रावयति दारु धक्षत्” ऋ० ६ । ३ । ५

द्रविड पु० स्वनामख्याते देशभेदे स चं देशः वृ० सं० कूर्मवि-

भागे १४ अ० नैरृत्यामुक्तः “नैरृत्यां दिशि देशाः” इत्यु-
पक्रमे “हेमगिरिसिन्धुकालकरैबत कसुराष्ट्रवादर द्रविडाः”
तेषां राजा सोऽभिजनोऽस्य वा अण् । द्राविड तद्देश-
नृपे पित्रादिक्रमेण तत्रवासिनि च । वहुषु अणो लुक् ।
२ ब्राह्मणभेदे सच “आन्ध्राः कर्णाटकाश्चैव गुर्जरा द्रवि-
डास्तथा । महाराष्ट्रा इति ख्याताः पञ्चैते द्रविडाः
स्मृताः” वागुरसंहिता । ३ सवर्णायां व्रात्यक्षत्रियजाते
क्षत्रियभेदे यथाह मनुः “झल्लोमल्लश्च राजन्यात्
व्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड
एव च” । जामदग्न्यभयेन क्षत्रियधर्मत्यागेन
वृषलत्वं प्राप्ते तद्देशीये ४ क्षत्रिये च यथाह भा० आश्व० २९
अ० “ततस्तु क्षत्रियाः केचिज्जामदग्न्यभयार्दिताः ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव । तेषां
स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् । प्रजा वृषलतां
प्राप्ता ब्राह्मणानामदर्शनात् । एवं ते द्रविडाभीराः
पुण्ड्राश्च शवरैः सह । वृषलत्वं परिगता व्युत्थानात्
क्षत्रधर्मिणः” ४ रागिणीभेदे स्त्री गौरा० ङीष् ।

द्रविण न० द्रु--इनन् । १ धने २ काञ्चने मेदि० । ३ बले ४

पराक्रमे च निथ० “द्रविणं परिमितमधिकव्ययिनं
जनमाकुलीकुरुते” उद्भ० “ज्ञातिभ्यो द्रविणं दत्त्वा कन्यार्थे
चैव शक्तितः” मनुः । “तेषां सदश्वभूयिष्ठास्तुङ्गाद्रविणराश-
यः” रघुः । ५ पृथुनृपपुत्रभेदे पु० वैन्यस्तु वीर्यमहतामि-
त्युपक्रमे “पुत्रानुत्पादयामास पञ्चार्च्चिष्मान् प्रशंसितान् ।
विजिताश्वं धूम्रकेशं हर्यश्वं द्रविणं वृकम्” भाग० ४ ।
२२ । ५० तत्र बले “बलेः पुत्रो महावीर्य्यो वाणोद्रविण
वत्तरः” हरिवं० १६१ अ० पराक्रमे “बभूवतुस्ततस्तस्य पक्षौ
द्रविणवत्तरौ” भा० उद्यो० ११२ अ० । ५ वाञ्छिते च
द्रविणप्रदशब्दे दृश्यम् । ६ क्रौञ्चद्वीपस्थे वर्षपुरुषभेदे
पु० “क्रौञ्चद्वीपस्थवर्षनदीना मम्भः पवित्रममल-
मुपयुञ्जानाः पुरुषर्षभद्रविणदेवक संज्ञाः” भाग०
५ । २० । १६

द्रविणक पु० १ वसुसुताग्नेः पुत्रभेदे “अग्नेर्भार्य्या वसोर्धारा

पुत्रो द्रविणकादयः” भाग० ६ । ६ । १२ श्लो० द्रविण + स्वार्थे
क । २ द्रविणशब्दार्थे न० ।
पृष्ठ ३७७७

द्रविणनाशक न० द्रविणं नाशयति नाशि--ल्यु । शोभाञ्जने

शब्दरत्ना० तत्सेबने धननाशकत्वात्तस्य तथात्वम् अतः
स्मृतौ शोभाञ्जनभक्षणनिषेधोदृष्टफलक एव ।

द्रविणप्रद त्रि० द्रविणं प्रददाति प्र + दा--क । १ धनदायके

२ विष्णौ पु० । तस्य वाञ्छितप्रदत्वात् तथात्वम् “सुधन्वा
खण्डपरशुर्दारुणो द्रविणप्रदः” विष्णुस० वाञ्छितप्रदत्वेन
तस्य तथात्वम् भाष्ये उक्तम् ।

द्रविणस् त्रि० द्रविणमिच्छति लालसायां क्यचि सुक् द्रवि-

णस्यति ततः सम्प० भावे क्विपि अतो लोपे क्वौ लुप्ते
न स्थानिवद्भवतीति यलोपः । धनेच्छायाम् “द्रविणोदा
द्रविणसः ग्रावहस्तासः” ऋ० १ । १५ । ७ भाष्ये च उक्ता
व्युत्पत्तिर्दर्शिता । “द्रविणस्वन्त इह सन्त्विन्दवः” ऋ०
९ । ८५ । १ “द्रविणस्वन्तो धनवन्तः” इति भाष्योक्तेः द्रवि-
णश्शब्दात् कर्मसाधनात् धनवचनात् मतुप् ।

द्रविणस्यु त्रि० द्रविणमात्मनो लालसयेच्छति क्यचि सुक्

द्रविणस्य--उन् । लालसया घनकामिनि “द्रविणस्युर्द्रवि-
णसश्चकानः” ऋ० १० । ६५ । १६ “छन्दस्येव द्रुवरस्युद्रविणस्युः”
इत्यादिना पा० क्यचि निपातनम् । लोके तु द्रवि-
णीयुरित्येव ।

द्रविणोदस् त्रि० १ धनदातरि “द्रविणोदाः धनप्रदम्” ऋ० १ ।

१५ । ७ “धनप्रदोऽग्निः सोमं पिबत्विति शेषः । तमेतं मन्त्रं
यास्क एवं निर्वक्ति । नि० ८ । १ “द्रविणोदाः कस्माद्धनं
द्रविणमुच्यते यदेनदभिद्रवन्ति वलं वा द्रविणं यदेने
नाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति ।
द्रविणोदा द्रविणस” इत्यादि । सोऽयं यास्कोक्तो निर्व-
चनप्रपञ्चस्तस्मिन्नेव ग्रन्थेऽवगन्तव्यः । द्रविणोदाः ।
“द्रुदक्षिभ्यामिनन्” उ० २ । ५१ । नित्त्वादाद्युदात्ती द्रविण
शब्दः । तद्ददातीति द्रविणोदाः । “क्विप् चेति” पा०
क्विप् । पूर्वपदस्य संकारोपजनश्छान्दसः सत्वोत्त्वे । कृदु-
त्तरपदप्रकृतिस्वरत्वम् । देवविशेषणत्वेनैकवाक्यतापक्षे
द्वितीयायाः स्यादेशः । अथ वा द्रविणमात्मन इच्छन्ति
द्रविणस्यन्ति । सुप आत्मनः क्यच् । “सर्वप्रातिपदिके-
भ्यो लालसायां सुग्वक्तव्यः” वार्ति० क्यचि परतः
सुगागमः । द्रविणस्यतेः सम्पदादित्वाद्भावे क्विप् ।
अतोलोपः । “क्वौ लुप्तं न स्थानिवद्भवति” पा० इति
तस्य स्थानिवत्त्वप्रतिषेधाद्यलोपः । एवं द्रविणस् शब्दो
धनेच्छावचनः । द्रविणेच्छां दस्यति यथेष्टधनप्रदा-
नेनोपक्षपयतीत्यर्थे दसु उपक्षये इत्यस्मादन्तर्भावितण्य-
र्थात् “क्विप् चेति” पा० क्विप् । एवं द्रविणोदःशब्दः
सकारान्तो भवति । तथा द्राविणोदसाः प्रवादा
भवन्तीति नैरुक्तो व्यवहार उपपद्यते । अतो द्रवि-
णोदस् शब्दो भिन्नवाक्यत्वे स्यार्थे प्रथमा एकवाक्यत्वे
तु व्यत्ययेन द्वितीया भवति । द्रविणस इत्यत्रापि-
वाक्यभेदपक्षे द्रविणसः सोमस्येत्यर्थे न उकारोपजन
श्छान्दसः । आद्युदात्त त्वं तु नियमेन स्थितम् ।
ऋत्विग्विशेषणत्वेनैकवाक्यत्वपक्षे तु क्यजन्तात् क्विप् ।
अतो लोपादि पूर्ववत् । अत्र द्रविणोदाशब्दोऽपि
तत्रार्थे । २ अग्नौ च “द्रविणं धनमित्युक्तं बलञ्च द्रविणं
स्मृतम् । ददाति तद्भवानेव द्रविणोदास्ततोभवान्”
वराहपु० ।

द्रवित्नु त्रि० द्रु--गतौ इत्नु । गतिशीले “शविष्टस्य द्रवित्नवः”

ऋ० ८ । ७४ । १४ । “रथममृतस्य द्रवित्नुम्” ऋ० १० । ११ । ९

द्रव्य न० द्रोर्विकारः द्रोरिति यत् “द्रव्यञ्च भव्ये” पा० निपा० ।

१ पित्तले २ वित्ते ३ पृथिव्यादिषु नवसु । ४ विलेपने न०
५ भेषजे ६ द्रुमविकारे ७ तत्सम्बन्धिनि च त्रि० मेदि० ।
८ जतुनि ९ विनये न० हेम० । १० मद्ये न० राजनि० ।
द्रव्यलक्षणमौलुक्यशब्दे १५८६ पृ० उक्तं तद्भेदाश्च नव
“पृथिव्यापस्तेजो वायुराकाशं कालोदिगात्मा इति
द्रव्याणि” कणा० सू० “इदानीमपवर्गभागितया सर्व
पदार्थाश्रयतया च प्रथमोद्दिष्टस्य द्रव्यपदार्थस्य विभागं
विशेषोद्देशञ्च कुर्तन्नाह पृथिव्याप इति इतिकारोऽबधा-
रणार्थः तेन नवैव द्रव्याणि नाधिकानि न न्यूनानि
वेत्यर्थः । ननु विभागबलादेव नूनाधिकसङ्ख्याव्यवच्छेद-
सिद्धौ किमितिकारेणेति चेत् उद्देशमात्रपरतयाऽपि
सूत्रसम्भवे विभागतात्पर्य्यस्फोरणार्थतयैवेतिकाराभिधा-
नात् सुवर्णादीनामीश्वरस्य चात्रैवान्तर्भावात् अन्ध-
कारस्य चाधिकत्वेनाशङ्क्यमानस्याभावत्वव्युत्पादनादेत-
दध्यवसेयम् । असमासकरणन्तु सर्वेषां प्राधान्यप्रदर्श-
नाय” उप० वृ० । वैद्यके तु तस्य पञ्चविधतोक्ता यथा
“रसोगुणस्तथा वीर्य्यं विपाकः शक्तिरेव च । पञ्चानां यः
समाहारस्तद्द्रव्यमिति कीर्त्त्यते” इति भिषग्वराः । प्रका-
रान्तरेण च पञ्चविसम् अत्यन्तकठिनकठिनार्द्रकोल्वणद्रवद्र-
व्यभेदात् । द्रव्यभेदानां गुणवत्तावधिश्च वैद्यकोक्तः यथा
“गुणहीनं भवेद्वर्षादूर्द्ध्वं तद्रपमौषधम् । मासद्वयात् तथा
पृष्ठ ३७७८
चूर्णं लभते हीनवीर्य्यताम् । हीनत्वं गुटिका लेहो लभते
वत्सरान् परम् । हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिका-
स्तथा । घृततैलाद्या इति यागविशेषणम् । चतुर्मासा-
धिकाः संवत्सरादुपरि चत्वारोमासा अधिका येषां
ते । “घृतमव्दात् परं पक्वं हीनवीर्य्यत्वमाप्नुयात् ।
तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम् । तदपि
षोड़शमासाभ्यन्तरे पक्वतैलं गुणाधिकं बोद्धव्यम् ।
“ओषध्यो लघुपाकाः स्युर्निर्वीर्य्या वत्सरात्परम्” ।
ओषध्यो धान्यादयः । लघुपाकाः शीघ्रपाकाः “निर्वीर्य्याः
स्युर्गुणैर्युक्ता आसवा धातवोरसाः” ।
सामान्यतो वैद्यकेऽभिनवानामेव गुणवत्ता घृतादीनां
पक्वानामपि केषाञ्चित् गुणवत्ता उक्ता यथा “द्रव्याण्य-
भिनवान्येव प्रशस्तानि क्रियाविधौ । ऋते गुडघृतक्षौद्र-
धान्यकृष्णाविडङ्गतः” रसादिमध्येऽपि द्रव्यस्यैव सुश्रुते
प्रधानत्वमुक्तं यथा
“अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्या-
ख्यास्यामः । केचिदाचार्य्या ब्रुवते द्रव्यं प्रधानं कस्मा-
द्व्यवस्थितत्वादिह खलु द्रव्यं व्यवस्थितं न रसादयो
यथाऽऽमे फले ये रसादयस्ते पक्वे न सन्ति । नित्यत्वाच्च
नित्यं हि द्रव्यमनित्या गुणा यथा कल्कादिप्रविभागः
स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति ।
स्वजात्यवस्थानाच्च यथा हि पार्थिवं द्रव्यमन्यभावं न
गच्छत्येवं शेषाणि । पञ्चेन्द्रियग्रहणाच्च पञ्चभिरिन्द्रि-
यैर्गृह्यते द्रव्यं न रसादयः । आश्रयत्वाच्च द्रव्यमाश्रिता
रसादयो भवन्ति । आरम्भसामर्थ्याच्च द्रव्याश्रित
आरम्भो यथा विदारिगन्धादिमाहृत्य सङ्क्षुद्य विपचेदित्ये-
वमादिषु न रसादिष्वारम्भः । शास्त्रप्रामाण्याच्च शास्त्रे
हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा मातुलुङ्गा-
ग्निमन्थौ चेति न रसादय उपदिश्यन्ते । क्रमापेक्षित-
त्वाच्च रसादीनां रसादयो हि द्रव्य क्रममपेक्षन्ते यथा
तरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति । एकदेशसाध्य-
त्वाच्च द्रव्याणामेकदेशतोऽपि व्याधयः साध्यन्ते यथा
महावृक्षक्षीरेणेति तस्माद्द्रव्यं प्रधानं द्रव्यलक्षणन्तु
क्रियागुणवत्समवायिकारणमिति । नेत्याहुरन्ये
रसास्तु प्रधानं कस्मादागमादागमोहि शास्त्रमुच्यते
शास्त्रे हि रसा अधिकृता यथा रसायत्त आहार इति
तस्मिंश्च प्राणाः । उपदेशाच्चोपदिश्यन्ते हि रसा यथा
मधुराम्ललवणा वातं शमयन्ति । अनुमानाच्च रसेन
ह्यनुमीयते द्रव्यं यथा मधुरमिति । ऋषिवचनाच्च
ऋषिवचनं वेदो यथा किञ्चिदिज्यार्थं मधुरमाहरेदिति ।
तस्माद्रसाः प्रधानं रसेषु गुणसंज्ञा । रसलक्षणमन्यत्रो-
पदेक्ष्यामः । नेत्याहुरन्ये । वीर्य्यं प्रधानमिति
कस्मात्तद्वशेनौषधकर्म्मनिष्पत्तेः । इहौषधकर्म्माण्यूर्द्ध्वा-
धोभागोमयभागसंशोधनसंशमनसंग्रहणाग्निदीपनप्रपी-
ड़नलेखनवृंहणरसायनवाजीकरणश्वयथुकरणविलयनद-
हनदारणदाहनप्राणघ्नविषप्रशमनानि वीर्य्यप्राधान्या-
द्भवन्ति । तच्च वीर्य्यं द्विविधमुष्णं शीतं चाग्नीषोमी-
यत्वाज्जगतः । केचिदष्टविधमाहुरुष्णं शीतं स्निग्धं
रूक्षं विशदं पिच्छिलं मृदु तीष्णंचेत्येतानि
वीर्य्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्व्वन्ति यथा
तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयेदुष्ण-
वीर्य्यत्वात् तथा कुलत्थः कषायः कटुकः पलाण्डुः स्नेह-
भावाच्च । मधुरश्चेक्षुरसो वातं वर्द्धयति शीतवीर्य्य-
त्वात् । कटुका पिप्पली पित्तं शमयति मृदुशीत-
वीर्य्यत्वादम्लमामलकं लवणं सैन्धवञ्च । तिक्ता
काकमाची पित्तं वर्द्ध त्युष्णवीर्य्यत्वान्मधुरा मत्स्याश्च ।
कटुकं मूलकं श्लेष्माणं वर्द्धयति स्निग्धवीर्य्यत्वात् । अम्लं
कपित्थं श्लेष्माणं शमयति रूक्षवीर्य्यत्वान्मधुरं क्षौद्रञ्च ।
तदेतन्निदर्शनमात्रमुक्तम्” भवन्ति चात्र “ये रसा
वातशमना भवन्ति यदि तेषु वै । रौक्ष्यलाघवशैत्यानि न
ते हन्युः समीरणम् । ये रसाः पित्तशमना भवन्ति यदि
तेषु वै । तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्म्मकारिणः ।
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै । स्नेहगोर-
वशैत्यानि वलासं वर्द्धयन्ति ते” तस्माद्वीर्य्यं प्रधानमिति ।
नेत्याहुरन्ये । विपाकः प्रधानमिति कस्मात् सम्यङ्-
मिथ्याविपाकत्वादिह सर्वद्रव्याण्यभ्यवहृतानि सम्यक्
विपक्वानि गुणं दोषं वा जनयन्ति । तत्राहुरन्ये
प्रतिरसं पाक इति । केचित्त्रिविधमिच्छन्ति मधुरमम्लं
कटुकं चेति तत्तु न सम्यक् भूतगुणादागमाच्चाम्लो
विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्द-
त्वात् । यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्लेष्मा
हि विदग्धो लवणमुपैति मधुरो मधुरस्याम्लोऽम्लस्यैवं
सर्वेषामिति केचिदाहुर्दृष्टान्तं चोपदिशन्ति यथा तावत्
क्षीरस्थालीगतमभिपच्यमानं मधुरमेव स्यात्तथा शालियव-
मुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति
तद्वदिति । केचिद्वदन्त्यबलवन्तो बलवतां वशमायान्ती-
पृष्ठ ३७७९
त्येवमनवस्थितिस्तस्मादसिद्धान्त एष । आगमे हि
द्विविध एव पाको मधुरः कटुकश्च तयोर्मधुराख्यो गुरुः
कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां
द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्या-
पश्च गुर्व्यः शेषाणि लघूनि तस्माद्द्विविध एव पाक
इति । भवन्ति चात्र । द्रव्येषु पच्यमानेषु येष्वम्बु-
पृथिवीगुणाः । निर्वर्त्त्यन्तेऽधिकास्तत्र पाको मधुर
उच्यते । तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु ।
निर्वर्त्त्यन्तेऽधिकास्तत्र पाकः कटुक उच्यते । पृथक्त्व-
दर्शिनामेष वादिनां वादसंग्रहः । चतुर्णामपि सामर्थ्य-
मिच्छन्त्यत्र विपश्चितः । तद्द्रव्यमात्मना किञ्चित्किञ्चि-
द्वीर्य्येण सेवितम् । किञ्चिद्रसविपाकाभ्यां दोषं हन्ति
करोति वा । पाको नास्ति विना वीर्य्याद्वीर्य्यं नास्ति
विना रसात् । रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठमतः
स्मृतम् । जन्म तु द्रव्यरसयोरन्योऽन्यापेक्षकं स्मृतम् ।
अन्योऽन्यापेक्षकं जन्म यथा स्याद्देहदेहिनोः । वीर्य्य-
संज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः । रसेषु
न वसन्त्येते निर्गुणास्तु गुणाः स्मृताः । द्रव्ये द्रव्याणि
यस्माद्धि विपच्यन्ते न षड्रसाः । श्रेष्ठं द्रव्यमतो ज्ञेयं
शेषा भावास्तदाश्रयाः । अमीमांस्यान्यचिन्त्यानि प्रसि-
द्धानि स्वभावतः । आगमेनोपयोज्यानि भेषजानि
विचक्षणैः । प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः ।
नौषधीर्हेतुभिर्विद्वान् परीक्षेत कथञ्चन । सहस्रेणापि
हेतूनां नाम्बष्ठादिर्विरेचयेत् । तस्मात्तिष्ठेत्तु भतिमा-
नागमेन तु हेतुषु” । “वस्तूपलक्षणं यत्र सर्वनाम प्रयु-
ज्यते । द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन व्यवस्थितः”
हरिणा परिभाषिते ११ वस्तुपदार्थे च । “स्वार्थो द्रव्यञ्च
लिङ्गञ्च संख्या कर्मादिरेव च” हरिः लिङ्गसंख्यान-
न्वयित्वेन सत्वरूपतया च तस्य तथात्वम् । “क्रिया
न युज्यते लिङ्गक्रियानाधारकारकैः । असत्वभूतता
तस्या इयमेवावधार्य्यताम्” हरिः । क्रियानाधारकार-
कत्वैर्न युज्यते इत्यर्थः । तेन लिङ्गसंख्याकारकत्वशून्यत्वं
सत्वत्वमेव द्रव्यत्वम् । “कृदभिहितो भावो द्रव्यवत् प्रका-
शते” इति भाष्यम् । द्रव्यविशेषहस्तादौ उच्छिष्टदोषादि-
शुद्धिभेद उक्तः कूर्मपु० “उच्चावचान्नपानेषु द्रव्यहस्तो
भवेन्नरः । भूमौ निःक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ।
तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः । भूमौ
निःक्षिप्य तद्दव्यमाचम्याभ्युक्षयेत्तु तत् । यद्यद्द्रव्यं करे
धृत्वा भवेदुच्छेषणान्वितः । आनिधायेतरद्द्रव्यमाचान्तः
शुचितामायात् । वस्त्रादिषु विकल्पः स्यात् न तत्स्पृष्ट्वा-
चमेदिह । अरण्येऽनुदके रात्रौ चौरव्याध्राकुले
पथि । कृत्वा मूत्रपुरीषं वा दुष्टहस्तो न दुष्यति” ।

द्रव्यक त्रि० द्रंव्यं हरति वहति आवहति वा द्रव्य + कन् ।

१ द्रव्यहारके २ तद्वाहके ३ द्रव्यावाहके च ।

द्रव्यकल्क पु० “द्रव्यकल्कः पञ्चधा स्यात् कल्कं चूर्णं

रसस्तथा । तैलमष्टिः क्रमाज्ज्ञेयं यथोत्तरगुणं प्रिये! वैद्य-
कोक्ते कल्कादिपञ्चके ।

द्रव्यगण पु० । ६ त० । सुश्रुतोक्ते ओषधिविशेषाणा

सप्तत्रिंशन्मितानां गणभेदे ते च तत्र दर्शिता यथा
“द्रव्यसंग्रहणीयमध्यायं व्याख्यास्यामः
अथातः समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति । तद्यथा ।
विदारीगन्धा विदारी सहदेवा विश्वदेवा श्वदंष्ट्रा पृथक्-
पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ
महासहा क्षुद्रसहावृहत्यौ पुनर्नवैरण्डो हंसपदो
वृश्चिकाल्यृषभी चेति । “विदारीगन्धादिरयं गणः पित्ता-
निलापहः । शोषगुल्माङ्गमर्दोर्द्ध्वश्वासकासविनाशनः १ ।
आरग्बधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्वे-
न्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रक-
शार्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ।
आरग्बधादिरित्येष गणः श्लेष्मविषापहः । मेहकुष्ठज्व-
रवमीकण्डूघ्नो व्रणशोधनः २ । वरुणार्त्तगलशिग्रुत-
र्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरीयकद्वय-
विम्बीवसुकवसिरचित्रकशतावरीविल्वाजशृङ्गीदर्भा
वृहतीद्वयञ्चेति । वरुणादिर्गणोह्येष कफमेदोनिवारणः ।
विनिहन्ति शिरःशूलं गुल्माभ्यन्तरविद्रधीन् ३ । वीरत-
रुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्ममैदकाग्नि-
मन्थमोरटावसुकवसिरभल्लूककुरुण्टकेन्दीवरकपोतवङ्क्याः
श्वदंष्ट्वा चेति । वीरतर्वादिरित्येष गणो वातविकारनुत् ।
अश्मरीशर्करामुत्रकृच्छ्राघातरुजापहः ४ । सालसारा-
जकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गीतिनिशच-
न्दनशिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीका-
श्वकर्णागुरूणि कालीयकञ्चेति । सालसारादिरित्येष
गणः कुष्ठविनाशनः । मेहपाण्ड्वामयहरः कफमेदो-
विशोषणः ५ । रोध्रसावररोध्रपलाशकुटन्नटाशोकफञ्जी-
कट्फलैलवालुकसल्लकीजिङ्गिनीकदम्बसालाः कदली
चेति । एष रोध्रादिरित्युक्तो मेदःकफहरो गणः
पृष्ठ ३७८०
योनिदोषहरः स्तम्भी व्रण्यो विषविनाशनः ६ । अर्कालर्कक-
रञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहा-
श्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति । अर्कादिको गणो
ह्येष कफमेदोविषापहः । कृमिकुष्ठप्रशमनो विशेषाद्-
व्रणशोधनः ७ । सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृण-
सुगन्धकसुमुखकालमालकासमर्द्दक्षवकखरपुष्पाविडङ्गकट्-
फलसुरसीनिर्गुण्डीकुलाहलोक्षोन्दुरुकर्णिकाफञ्जीप्राची-
बलाकाकमाच्यो विषमुष्टिकश्चेति । सुरसादिर्गणो ह्येष
कफहृत् कृमिसूदनः । प्रतिश्यायारुचिश्वासकासघ्नो व्रण-
शोधनः ८ । मुष्ककपलाशधवचित्रकमदनवृक्षशिंशपावज्रवृ-
क्षास्त्रिफला चेति । मुष्ककादिर्गणो ह्येष मेदोघ्नः
शुक्रदोषहृत् । मेहार्शःपाण्डुरोगघ्नः शर्कराश्मरिना-
शनः ९ । पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचह-
स्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्षपमहा-
निम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि
कटुरोहिणी चेति । पिप्पल्यादिः कफहरः प्रतिश्याया-
निलारुचीः निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः १० ।
एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुका-
व्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टकचोचचोरकबालक-
गुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाऽगुरुस्पृक्कोशीरभद्रदारुकु-
ङ्कुमानि पुन्नागकेशरञ्चेति । एलादिको वातकफौ
निहन्याद्विषमेव च । वर्णप्रसादनः कण्डूपिडकाकोठनाशनः ११ ।
वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरञ्चेति १२ ।
हरिद्रादारुहरिद्राकलशीकुटजवोजानि मधुकं चेति १३ ।
एतौ वचाहरिद्रादी गणौ स्तन्यविशोधनौ । आमातीसा-
रशमनौ विशेषाद्दोषपाचनौ १२ । १३ । श्यामामहाश्यामा-
तृवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपत्रश्रेणीगवा-
क्षीराजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः
सुवर्णक्षीरी चेति । उक्तः श्यामादिरित्येष गणो गुल्म-
विषापहः । आनाहोदरविड्भेदी तथोदावर्त्तनाशनः १४ ।
वृहतीकण्टकारिकाकुटजफलपाठा मधुकञ्चेति ।
पाचनीयो वृहत्यादिर्गणः पित्तानिलापहः । कफारोचक-
हृल्लासमूत्रकृच्छ्ररुजापहः १५ । पटोलचन्दनकुचन्दनमूर्वा-
गुडूचीपाठाः कटुरोहिणी चेति । पटोलादिर्गणः
पित्तकफारोचकनाशनः । ज्वरोपशमनो व्रण्यश्छर्दिक-
ण्डूविषापहः १६ । काकोलीक्षीरकाकोलीजीवकर्षभकमुद्ग-
पर्णीमाषपणींमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षी-
रोपद्मकप्रपौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकञ्चेति ।
काकोल्यादिरयं पित्तशोणितानिलनाशनः । जीवनो
वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा १७ । ऊषकसैन्धवशिला-
जतुकाशीसद्वयहिङ्गूनि तुत्थकञ्चेति । ऊषकादिः कफं
हन्ति गणो मेदोविशोषणः । अश्मरीशर्करामूत्रकृच्छ्र-
गुल्मप्रणाशनः १८ । सारिवामधुकचन्दनकुचन्दनपद्मक-
काश्मरीफलमधूकपुष्पाण्युशीरञ्चेति । सारिवादिः पिपा-
साघ्नो रक्तपित्तहरो गणः । पित्तज्वरप्रशमनो विशे-
षाद्दाहनाशनः १९ । अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलो-
त्पलनलदनलिनकेशराणि मधुकञ्चेति । अञ्जनादिर्गणो
ह्येष रक्तपित्तनिवर्हणः । विषोपशमनो दाहं
निहन्त्याभ्यन्तरं तथा २० । परूषकाद्राक्षाकट्फलदाडिमराजा-
दनकतकफलशाकफलानि त्रिफला चेति । परूषकादि-
रित्येष गणोऽनिलविनाशनः । मूत्रदोषहरो हृद्यः
पिपासाघ्नो रुचिप्रदः २१ । प्रियङ्गुसभङ्गाधातकीपुन्नागर-
क्तचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भीकस्रोतोऽञ्जनपद्म-
केसरयोजनवल्ल्यो दीर्घमूला चेति २२ । अम्बष्ठाधातकी-
कुसुमसमङ्गाकद्वङ्गमधुकविल्वपेशिकारीध्रसावररोध्रपलाश-
नन्दीवृक्षपद्मकेशराणि चेति २३ । “गणौ प्रियङ्ग्वम्बष्ठादी
पक्वातीसारनाशनौ । सन्धानीयौ हितौ पित्ते व्रणा-
नाञ्चापि रौपणौ २२ । २३ । न्यग्रोधोडुम्बराश्वत्थप्लक्षमधूक-
कपीतनककुभाम्रकोशास्रचोरकपत्रजम्बूद्वयपियालमधुक-
रोहिणीवञ्जुलकदम्बवदरीतिन्दुकोसल्लकीरोध्रसावररोध्र-
भल्लातकपलाशा नन्दीवृक्षश्चेति । न्यग्रोधादिर्गणो व्रण्यः
संग्राही भग्नसाधकः । रक्तपित्तहरो दाहमे दोघ्नो
योनिदोषहृत् २४ । गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्म-
कञ्चेति । एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः ।
हृल्लासारोचकवमीपिपासादाहनाशनः २५ । उत्पल-
रक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकञ्चेति ।
उत्पलारिरयं दाहपित्तरक्तविनाशनः । पिपासाविष-
हृदोगच्छर्दिमूर्च्छाहरो गणः २६ । मुस्ताहरिद्रादारुहरि-
द्राहरीतक्यामलकविभीतककुष्ठहैमवतीवचापाठाकटुरोहि-
णीशार्ङ्गष्टातिविषाद्राविडीभल्लातकानि चित्तकश्चेति ।
एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः । योनि-
दोषहरः स्तन्यशोधनः पाचनस्तथा २७ । हरितक्यामल-
कविभीतकानि त्रिफला । त्रिफला कफपित्तघ्नी मेहकुष्ठ-
विनाशिनी । चक्षुष्यादोपनी चैव विषमज्वरना शिनी २८ ।
पिप्पलीमरिचशृङवेराणि त्रिकटुकम् । त्र्यूषणं
कफमेदोघ्नं मेहकुष्ठत्वगामयान् । निहन्याद्दीपनं गुलम-
पृष्ठ ३७८१
पीनसाग्न्यल्पतामपि २९ । आमलकीहरीतकीपिप्पल्यश्चि-
त्रकश्चेति । आमलक्यादिरित्येष गणः सर्वज्वरापहः ।
चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ३० । त्रपुसीसता-
म्ररजतकृष्णलोहसुवर्णानि लोहमलञ्चेति । गणस्त्र-
पादिरित्येष गरक्रिमिहरः परः । पिपासाविषहृद्रोग-
पाण्डुमेहहरस्तथा ३१ । लाक्षारेवतकुटजाऽश्वमारकट्-
फडहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा चेति ।
कषायस्तिक्तमधुरः कफपित्तार्त्तिनाशनः । कुष्ठक्रिमि-
हरश्चैव दुष्टव्रणविशोधनः ३२ । पञ्च पञ्चमूलान्यत ऊर्द्ध्वं
वक्ष्यामः । तत्र त्रिकण्टकवृहतीद्वयपृथक्पर्ण्यो विदा-
रीगन्धा चेति कनीयः १ । कषायतिक्तमधुरं कनीयः
पञ्चमूलकम् । वातघ्नं पित्तशमनं वृंहणं बलवर्द्धनम् ३२ ।
विल्वाग्निमन्थटुण्टुकपाटलाकाश्मर्यश्चेति महत् २ । “स
तिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम् । मधुरानुरस-
ञ्चैव पञ्चमूलं महत् स्मृतम् ३३ । अनयोर्दशमूलमुच्यते ।
“गणः श्वासहरोह्येष कफपित्तानिलापहः । आमस्य
पाचनश्चैव सर्वज्वरविनाशनः ३४ । विदारीसारिवारजनी-
गुडूच्योऽजशृङ्गी चेति वल्लीसंज्ञः ३ । करमर्दत्रिकण्टकसै
रीयकशतावरीगृध्रनख्य इति कण्टकसंज्ञः ४ । रक्तपि-
हरौ ह्येतौ शोफत्रयविनाशनौ । सर्वमेहहरौ चैव शुक्र-
दोषविनाशनौ ३५ । ३६ कुशकाशानलदर्भकाण्डेक्षुका इति
तृणसंज्ञकः ५ । मूत्रदोषविकारश्च रक्तपित्तं तथैव च ।
अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् । एषां
वातहरावाद्यावन्त्यः पित्त विनाशनः । पञ्चकौ श्लेष्मशमना-
वितरौ परिकीर्तितौ” ३७ त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ।
“समासेन गणा ह्येते प्रोक्तास्तेषान्तु विस्तरम् । चिकित्-
सितेषु वक्ष्यामि ज्ञात्वा दोषबलाबलम् । एभिर्लेपान्
कषायञ्च तैलं सर्पींषि पानकान् । प्रविभज्य यथान्यायं
कुर्वीत मतिमान् भिषक् । धूमवर्षानिलक्लेदैः सर्वर्तुष्वन-
भिद्रुते । ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसंग्रहम् ।
समीक्ष्य दोषभेदांश्च गणान् भिन्नान् प्रयोजयेत् । पृथङ्-
मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम्” ।

द्रव्यगुण पु० द्रव्यस्य गुणः प्रतिपाद्यतया यत्र । द्रव्याणां

ज्ञापके ग्रन्थभेदे यथा भावप्र० द्रव्याणां गुणन्नापक-
भाग इत्यादि ।

द्रव्यपति पु० द्रव्यभेदानां पतिः । वृ० सं० ४१ अ० उक्ते

द्रव्यभेदानां महार्घतादिप्रयोजके पत्यौ मेषादिराशौ
यथा “ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः ।
मुनिभिः शुभाशुभार्थं तानागमतः प्रवक्ष्यामि । वस्त्रा-
विककुतुपानां मसूरगोधूमरालकयवानाम् । स्थलसम्भ-
वौषधीनां कनकस्य च कीर्तितो मेषः । गवि वस्त्रकुसु-
मगोधूमशालियवमहिषसुरभितनयाः स्युः । मिथुनेऽपि
धान्यशारदवल्लीशालूककर्पासाः । कर्किणि कोद्रवकद-
लीदूर्वाफलकन्दपत्रचोचानि । सिंहे तुषधान्यरसाः
सिंहादीनां त्वचः सगुडाः । षष्ठेऽतसीकलायाः
कुलत्थगोधूममुद्गनिष्पावाः । सप्तमराशौ माषा गोधूमाः
सर्षपाः सयवाः । अष्टमराशाविक्षुः सैक्यं लोहान्य-
जाविकं चापि । नवमे तु तगरलवणाम्बरास्त्रतिल-
धान्यमूलानि । मकरे तरुगुल्माद्यं सैक्ये क्षुसुवर्णकृष्ण-
लोहानि । कुम्भे सलिलजफलकुसुमरत्नचित्राणि
रूपाणि । मीने कपालसम्भवरत्नान्यम्बूद्भवानि वज्राणि ।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च । राशेश्च-
तुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः । द्व्येकादशदशप-
ञ्चाष्टमेषु शशिजश्च वृद्धिकरः । षट्सप्तमगो हानिं
वृद्धिं शुक्रः करोति शेषेषु । उपचयसंस्थाः क्रूराः
शुभदाः शेषेषु हानिकराः । राशेर्यस्य क्रूराः पीडास्था-
नेषु संस्थिता बलिनः । तत्प्रोक्तद्रव्याणां महार्घता
दुर्लभत्वं च । इष्टस्थाने सौम्या बलिनो येषां भवन्ति
राशीनाम् । तद्द्रव्याणां वृद्धिः सामार्ध्यमदुर्लभत्वं च ।
गोचरपीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः ।
पीडां न करोति तथा क्रूरैरेवं विपर्यासः” ।

द्रव्यमय त्रि० द्रव्य + प्राच्युर्ये मयट् । साधनतया द्रव्यप्रचुरे

यज्ञे द्रव्यसाधनके यज्ञादौ “द्रव्ययज्ञास्तपोयज्ञा ज्ञान-
यज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च इत्युपक्रमे “श्रे-
यान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप! । सर्वक-
र्माखिलं पार्थ! ज्ञाने परिसमाप्यते” गीता ।

द्रव्यविशेष पु० सुश्रुतोक्ते धर्मविशेषेण द्रव्याणां पार्थिव-

त्वादिविशेषे यथा
“अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ।
पृथिव्यप्तेजीवाय्वाकाशानां समुदायाद्द्रव्याभिनिर्वृत्ति-
रुत्कर्षस्त्वभिव्यञ्जको भवतीदं पार्थिवमिदमाप्यमिदं
तैजसमिदं वायव्यमिदमाकाशीयमिति । तत्र स्थूलसा-
रसान्द्रमन्दस्थिरखरगुरुकठिनगन्धबहुलमीषत्कषायं प्रा-
यशो मधुरमितिपार्थिव तत् स्थैर्य्य बलसङ्घातोपचयकरं
विशेषतश्चाधोगतिस्वभावमिति । शीतस्तिमितस्निग्ध-
गुरुसरसान्द्रमृदुपिच्छिलरसबहुलमीषत्कषायाम्ललबणं म-
पृष्ठ ३७८२
धुररसप्रायमाप्यं तत् स्नेहनप्रह्लादनक्लेदनबन्धनविष्य-
न्दनकरमिति । उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं
रूपगुणबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्द्ध-
गतिस्वभावमिति तैजसं तद्दहनपचनधारणतापनप्रका-
शनप्रभावर्णकरमिति । सूक्ष्मरूक्षखरशिशिरलघुविशदं
स्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयं
तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति । श्लक्ष्ण-
सूक्ष्ममृदुव्यवायिविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयं
तन्मार्दवशौषिर्य्यलाघवकरमिति” ।

द्रव्यशुद्धि स्त्री ६ त० । द्रव्याणां प्रक्षालनादिना मलादेरपन-

यने । द्रव्यविशेषस्य शुद्धिभेदा ३७६ पृष्ठादौ दृश्याः
“प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च” मनुः

द्रष्टव्य त्रि० दृश--तव्य । साक्षात्कर्त्तव्ये “आत्मा वा अरे

द्रष्टव्यः श्रोतृव्यो मन्तव्यो निदिध्यासितव्यः” वृ० उ० ।

द्रष्टृ त्रि० दृश--तृच् । १ दर्शके २ साक्षात्कारके ३ प्रकाशके च

“नान्योतोऽस्तिद्रष्टा” श्रुतिः “द्रष्टारोव्यवहाराणां
साक्षिणश्च तएव हि” याज्ञ० । “दृश्यद्रष्टृसंयोगो
हेयहेतुः” योगसू० “चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभा-
सिका । दृष्टिरित्युच्यते द्रष्टा दृष्टिकर्त्तेति चोच्यते शब्दा-
थचि० धृतवाक्यम् ।
सांख्यमते यथा पुरुषस्य द्रष्टृत्वं तथा सां० सू० निरणायि
यथा “द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणाम्” द्रष्टृ-
त्वादिपञ्चकं वक्तृत्वादिपञ्चकं सङ्कल्पयितृत्वं चात्मनः
पुरुषस्य, दर्शनादिवृत्तौ करणत्व त्विन्द्रियाणामित्यर्थः ।
ननु द्रष्टृत्वश्रोतृत्वादिकं कदाचिदनुभवे पर्यवसानात्
पुरुषस्याविकारिणोऽपि घटतां वक्तृतादिकं क्रियामात्रं
तत्कथं कूटस्थस्य घटतामिति चेन्न अयस्कान्तवत्
सान्निध्यमात्रेण दर्शनादिवृत्तिकर्तृत्वस्यैवात्र द्रष्टृत्वादि-
शब्दार्थत्वात् । यथा हि महाराजः स्वयमव्याप्रिय-
माणोऽपि सैन्येन करणेन योद्धा भवत्याज्ञामात्रेण प्रे-
रकत्वात् तथा कूटस्थारपि पुरुषश्चक्षुराद्यखिलकरणै-
र्दष्टा वक्ता सङ्कल्पयिता चत्येवमादिर्भवति संयोगा-
ख्यसान्निध्यमात्रेणैव तेषां प्रेरकत्वादयस्कान्तमणिवदिति ।
कर्तृत्वं चात्र कारकचक्रप्रयोक्तृत्वं करणत्वं क्रिया-
हेतुव्यापारवत्त्वं तत्साधकतमत्वं वा कुठारादिवत् । यत्
तु शास्त्रेषु पुरुषे दर्शनादिकर्तृत्वं निषिध्यते तदनु-
कूलकृतिमत्त्वं तत्तत्क्रियावत्त्वं वा । तथा चोक्तम्
“अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम् । निरि-
च्छत्वादकर्त्तासौ कर्त्ता सन्निधिमात्रतः” इति अतएव
कारकचक्रप्रयोक्तृताशक्तेरात्मस्वरूपतया द्रष्टृत्ववक्तृत्वा-
दिकमात्मनो नित्यमिति श्रूयते । “न द्रष्टुर्द्दृष्टेर्विपरि-
लोपो विद्यते न श्रोतुःश्रुतेर्विपरिलोपो विद्यत इत्या-
दिनेति” । ननु प्रमाणविभागे प्रत्यक्षादिवृत्तीनामेव
करणत्वमुक्तमत्र कथमिन्द्रियस्योच्यत इति चेन्न अत्र
दर्शनादिरूपासु चक्षुरादिद्वारकबुद्धिवृत्तिष्वेवेन्द्रियाणां
करणत्ववचनात् । तत्र पुरुषनिष्ठे बोधाख्यफले वृत्तीनां
करणत्वस्योक्तत्वादिति” प्र० भाष्यम् ।
सा० का० तत्त्वकौमुद्योस्तथैव व्यवस्थापितं यथा
“तस्माच्च विषर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं
माध्यस्थ्यं द्रष्टृत्वमर्थिभावश्च “तत्र चेतनत्वेन
अविषयत्वेन च साक्षित्वद्रष्टृत्वे दर्शिते चेतनोहि द्रष्टा
भवति नाचेतनः । साक्षी च दर्शितविषयो भवति यस्मै
प्रदर्श्यते विषयः स साक्षी यथा हि लोके अर्थिप्रत्य-
र्थिनौ विवादविषयं साक्षिणे दर्शयतः एवं प्रकृतिरपि
स्वचरितं विषयं पुरुषाय दर्शयतीति पुरुषः साक्षी ।
न चाचेतनोविषयो वा शक्योविषयं दर्शयितुमिति
चैतन्यादविषयत्वाच्च भवति साक्षी अतएव द्रष्टापि भवति”
त० कौ० न्यायमते च दर्शनादिज्ञानाश्रयत्वादात्मनोद्रष्टृत्वं
सुव्यक्तमिति भेदः ।

द्रह पु० ह्रद + पृषो० । अगाधजले ह्रदे हेमच० ।

द्रह्यत् त्रि० दृंह--शतृ वेदे निपा० । दृढ़ीकुर्वति । “तृषत्

सोमं पाहि दृह्यदिन्द्र!” ऋ० २ । ११ । १५ “दृह्यत् दृंहते
रिदं रूपं दृढ़ीकुर्वत्” भा० ।

द्रा स्वप्ने पलायने अदा० अक० अनिट् । द्राति अद्रासीत् ।

दद्रौ पलायनं बहुलायासेन गतिः तत्र सक० । “मतयो-
दस्म दद्रुः” ऋ० १ । ६२ । ११ । द्रापयति “एष वै तं द्रापयति
यं दिद्रापयिषति” शत० ब्रा० ९ । १ । १ । २४ । अप +
अपसरणे “अप द्राह्यवीरहः” अथ० ६ । १४ । ३ “माप द्रा-
न्त्वरातयः” ६ । १२९ । १
नि + मेध्यानाड़ीसंयोगरूपनिद्रायाम् अक० । “तदा
निदद्रावुपपल्वलं खगः” नैष० ।
प्र + प्रकर्षेण पलायने प्रद्राणः

द्राक् अव्य० द्रा--बा० कु । द्रुते शीघ्रे झटितीत्यर्थे अमरः

“द्राक्पर्यस्तकपालसम्पुटमिलदित्यादि” वीरच० “धनस्य
द्राग्वियुक्तता” कामन्द० “साक्षात्कृति कृतिषु निरस्ता-
नन्दमिन्द्रादिषु दाक” नैष० ९ स० ।
पृष्ठ ३७८३

द्राक्ष काङ्क्षायां भ्वा० पर० सक० सेट् इदित् । द्राङ्क्षति अद्रा-

ङ्क्षीत् । दद्राङ्क्ष दद्राङ्क्षतुः ।

द्राक्षा स्त्री द्राक्षि--अ बा० नलोपः । मृद्वीकायां गोस्तन्यां

(किसमिस) अमरः । “द्राक्षा पक्वा सरा शीता चक्षुष्या
वृंहिणी गुरुः । स्वादुपाकरसा स्वर्या तुवरा सृष्टमूत्र-
विट् । कोष्ठमारुतकृद् वृष्या कफपुष्टिरुचिप्रदा । हन्ति
तृष्णाज्वरश्वासवातवातास्रकामलान् । कृच्छ्रास्रपित्तसम्मो-
हदाहशोषमदात्ययान् । आमा साऽल्पगुणा गुर्वी
सैवाम्ला रक्तपित्तकृत् । वृष्या स्याद् गोस्तनी द्राक्षा गुर्वी
च कफपित्तहृत् । अवीजान्या स्वल्पतरा गोस्तनीसदृशी
गुणैः । द्राक्षा पर्वतजा लघ्वी साऽम्ला श्लेष्माम्लपित्तकृत् ।
द्राक्षा पर्वतजा यादृक् तादृशी करमर्दिका” इति भावप्र०
तस्याः फलम् अण् हरीत० लुप् । तत्फलेऽपि स्त्री ।
“द्राक्षे! द्रक्ष्यन्ति के त्वाममृत! मृतमसि” गीतगो०
“आस्तीर्णाजिनरत्नासु द्राक्षाबलयभूमिषु” रघुः “पुन्ना-
गतालीबहुलं द्राक्षारसघनं क्वचित्” हरिवं० ११४ अ०
अप्राणिषष्ठ्यन्तात् परस्य द्राक्षाशब्दस्य तत्पुरुषे चूर्णा०
आद्युदात्तता । प्रस्थशब्दे परे मालादित्वात् पूर्वपदमाद्यु-
दात्तम् द्राक्षाप्रस्थः । यवा० मतोर्मस्य न वः । द्राक्षामान्

द्राक्षाघृत न० द्राक्षामिश्रणेन पक्वं घृतम् । “पुराणसर्पिषः

प्रस्थो द्राक्षार्द्धप्रस्थसाधितः । कामलागुल्मपाण्ड्वर्त्तिज्व-
रमेहोदरापहः” चक्रदत्तोक्ते घृतभेदे

द्राख शोषणे सक० अलमर्थे अक० भ्वा० पर० सेट् । द्राखति

अद्राखीत् । ऋदित् णिचि चङि अदद्राखत् त । दद्राख
अयं बधेऽपि ।

द्राघ आयासे शक्ता भ्रमे च भ्वा० पर० अक० सेट् । द्राघति

अद्राघीत् । ऋदित् णिचि चङि अदद्राघत् त । दद्राघ
केचित् अस्य इदित्त्वमपीच्छन्ति द्राङ्घति अद्राङ्घीत् ।

द्राघि नामधातुः दीर्घीकरणे दीर्घं करोति दीर्घ + कृतौ णिच्-

द्राघादेशः सक० उभ० सेट् । द्राघयति ते अदिद्राघत्
त । “द्राघयन्ति हि मे शोकं स्मर्यमाणागुणास्तव” भट्टिः

द्राघिमन् पु० दीर्घस्य भावः इमनिच् द्राघादेशः । दीर्घत्वे

“वासांसि च दाघिमवन्त्युदूहुः” भट्टिः “वर्षिमा च मे
द्राघिमा च मे” यजु० १८ । ४

द्राघिष्ठ त्रि० अतिशयेन दीर्घः इष्ठन् द्राघादेशः । अतिदीर्घे

ईयसुन् द्राघीयस् तत्रार्थे त्रि० स्त्रियां ङीप् ।

द्राघिमन् पु० द्राघिमन् + वेदे पृषो० इकारस्याकारः । दीर्घत्वे

“दोघं द्राषम्ना सुरभि भूरस्मे” ऋ० १० । ७० । ४ तृतीया-
स्थाने आच् अनोऽल्लोपे रूपसिद्धिः द्राघम्ना द्राघिम्ना
इत्यर्थः ।

द्राड विभेदे भ्वा० आ० सक० सेट् । द्राड़ते अद्नाडिष्ट । दद्राडे

द्राण त्रि० द्रा--कर्त्तरि क्त तस्य नः । १ सुप्ते २ पलायिते च ।

भावे क्त । ३ स्वप्ने पलायने च न० अमरः ।

द्राप पु० द्रा--णिच्--पुक् अच् । १ पङ्के २ आकाशे ३

कपर्दिनि ४ मूर्खे च शब्दकल्पतरुः ।

द्रापि त्रि० द्रापयति कुत्सितां गतिं प्रापयति पापिनम्

द्रा--णिच् पुक् इन् । कुत्सितगतिप्रापके रुद्रे “द्रापे!
अन्धसन्तते! दरिद्र! नीललोहित!” यजु० १६ । ४७ ।
२ कवचेच “विद्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णि-
जम्” ऋ० १ । २५ । १३ “द्रापिं कवचम्” भा०

द्रामिल पु० द्रमिलो देशोऽभिजनोऽस्य अण् । १ चाणक्ये हेमच०

२ पित्रादिक्रमेण तद्देशवासिनि त्रि० बहुत्वे अणो लुक् ।
द्रमिलाः ।

द्राव पु० द्रु--गतौ स्रुतौ भावे घञ् । १ गतौ २ द्रवणे ३ अनुतापे च ।

द्रावक पु० द्रवति चन्द्रकरसम्पर्कात् द्रु--ण्वुल् । १ चन्द्रकान्त-

मणौ २ विदग्धे ३ मोषके च मेदि० । ४ षिड्गे जारे शब्द-
माला । द्रावयति द्रु--णिच् ण्वुल् । ५ ट्रवकारके ६
हृदयग्राहिणि त्रि० धरणिः । ७ रसभेदे टङ्कने पु० शब्द-
माला । ८ लालायां स्त्री टापि अत इत्त्वम् शब्दरत्ना०
९ प्लीहाद्यौषधभेदे पु० । ०१ सिक्थके न० राजनि० ।

द्रावककन्द पु० द्रावकः कन्दोऽस्य । तैलकन्दे राजनि० ।

द्रावकर न० द्रावं द्रवं करोति स्वर्णादिकं स्वसम्पर्केण

कृ--ताच्छील्ये ट । श्वेतटङ्कने राजनि० अण् । द्रावकार
द्रवकारके त्रि० ।

द्रावण न० द्रावयति जलमलं स्वसंयोगात् द्रु--णिच् युच् ।

१ कतकफले (निर्माल्य) रत्नमाला । २ पलायनकारके
त्रि० । “त्रैलोक्यद्रावणं क्रूरं दुराचारं महाबलम्”
(रावणम्) हरिवं० ४ अ० ।

द्रावयित्नु, त्रि० द्रु--णिच्--इत्नुच् त्नुकरणेनैवेटिरूपसिद्धौ

इत्नुच्करणं बा० अन्योभ्यापि इत्नुच् भवतीति ज्ञापितम् ।
द्रावणशीले “सूर्यस्येव रश्मयो द्रावयित्नवः” ऋ० ९ ।
६९ । ६ ।

द्राविड त्रि० द्रविडोदेशीऽभिजनोऽस्य अण् । पित्रादिक्रमेण

द्रविडदेशवासिनि । बहुषु अणो लुक् । द्रविडाः क्वचिदार्षे
न लुक् । “कर्णाटाश्चैव तैलङ्गा गुर्जरा राष्ट्रवासिनः ।
आन्ध्राश्च द्राविडाः पञ्च विन्ध्यदक्षिणवासिनः” स्कन्दपु० ।
पृष्ठ ३७८४

द्राविडक न० द्रविडे भयः अण् संज्ञायां कन् । १ विड्लवणे

(ज्जियतषष्ठी) ख्याते २ वेधमुख्यके पु० अमरः ।

द्राविड़भूतिक पु० द्राविडी भूतिरुत्पत्तिर्यस्य कप् । विड्-

लवणे शब्दरत्ना० ।

द्राविडी स्त्री द्रविडे भवा अण् ङीप् । एलायां राजनि० ।

द्राह जागरे भ्वा० आत्म० अक० सेट् । द्राहते अद्राहिष्ट

दद्राहे ऋदित् णिच् चङि अदद्राहत् त ।

द्राह्यायण पु० द्रहस्यर्षेर्गोत्रापत्यं युवा यङ्यूनि फक् ।

सामगानां कल्पसूत्रकारके ऋषिभेदे ।

द्रु गतौ भ्वा० पर० सक० अनिट् । द्रवति स्वार्थे चङ्

अदुद्रवत् । णिचि चङि तु अदि(दु)द्रवत् त । दुद्रवे ।
गतिश्चेह संयोगानुकूलव्यापारः द्रवद्रव्याणां दूरप्रसरण-
रूपं स्यन्दनं च “द्रवत्वात् स्यन्दनम्” कणा० सूत्रम्
“स्यन्दनं द्रव्यत्वादसमवायिकारणादुत्पद्यते । तथा हि
पतितानामपां विन्दूर्ना परस्परं संयोगेन महत्
जलस्रोतोयज्जायते तस्य यत् स्यन्दनं दूरप्रसरणं तत्
द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणाद-
प्सु समवायिकारणेषु” उप० वृत्तिः णिचः सनि दि(दु)-
द्रावयिषति । तत्र गतौ “समुद्रमेवाभिमुखा द्रवन्ति”
गीता “ततः किरीटी सहसा पाञ्चालान् समरेऽद्रवत्”
भा० आ० ५४ ७८ श्लो० “तं दुद्रावाद्रिणा कपिः” भट्टिः

द्रु अनुतापे स्वा० पर० सक० अनिट् । द्रुणोति अद्रौषीत् ।

बध च “स भस्मसात् चकारारीन् दुद्राव च कृतान्तवत्”
भट्टिः ।

द्रु पु० द्रवत्यूर्द्धं द्रु--बा० डु । १ वृक्षे २ शाखायाञ्च । ३ गतौ

स्त्री । “अदादीताथ षड्भागं द्रुमांसमधुसर्पिषाम्” मनुः
द्रुघणः । ४ वृक्षविकारे न० “द्रुण इद्भूतिमूदिम” ऋ० १ ।
१६१ । १ “द्रुणो द्रुमविकारस्य” भा० विकारे प्रकृति-
शब्दः ततश्च तत्रस्थः तच्छब्द इति च तत्र न्यायोक्तिः ।
५ द्रवयुक्ते त्रि० । “द्रुणा सधस्थमासदत्” ऋ० ९ । १ । २
“द्रुणा द्रोणकलसेन” भा० तत्र पुस्त्वमपि “आ तू षिञ्च
हरिनीं द्रोरुपस्थे” ऋ० १० । १०१ । १० “द्रोर्द्रुमविका-
रस्य” भा०

द्रुकिलिम न० किलति किल--श्वैत्यक्रीड़नयोः बा० किमच् । कर्म० । देवदारुवृक्षे अमरः ।

द्रुघण पु० द्रुः वृक्षः ससारगतिर्वा हन्यतेऽनेन द्रु--हन

करणे अप् घनादेशो णत्वञ्च । १ मुद्गरे लौहमुद्गरे सूत्र-
घारादीनां मुद्गराकारे लौहमयास्त्रभेदे २ कुठारे ३ ब्रह्मणि
च मेदि० ४ भूमिचम्पकेशब्दचान्द्रका पूर्वपदात् संज्ञाया-
मिति णत्वे विहिते शब्दकल्पद्रुमे दन्त्यमध्यतोक्तिः
प्रामादिकी ५ द्रुममये घने च “काष्ठाया मध्ये द्रुघणं
शयानम्” ऋ० १० । १०२ । ९ “द्रुघणं द्रुममयघणम्” भा०
छान्दसोऽसंज्ञात्वेऽपि णत्वम् ।

द्रुड मज्जने तु० कु० पर० सक० सेट् । द्रुडति अद्रोडीत् । दुद्रोड । द्रुडः ।

द्रुण कुटिलीभवने तु० पर० अक० सेट् कुटादि । द्रुणति

अद्रुणीत् । दुद्रोण । गतौ कुटिलीचरणे हिंसा-
याञ्च सक० पा० ।

द्रुण न० द्रुणति हिनस्ति कुटिलीभवति वा द्रुण--क ।

धनुषि २ खड़्गे च हेमच० ३ वृश्चिके ४ भृङ्गे च पुंस्त्री०
स्त्रियां जातित्वात् ङीष् । ५ पिशुने त्रि० शब्दमाला ।

द्रुणस त्रि० द्रुरिव दीर्घा नासिकाऽस्य अच् समा० नसादेशः

पूर्वपदात् संज्ञायां णत्वम् । दीर्घनासायुक्ते शब्दस्तोमे
द्रुणस् इति हलन्ततोक्तिः मुद्रादोषात् ।

द्रुणह पु० द्रुणं खड्गं जहाति स्वावकाशस्थानतोऽप-

सारणात् हा--क । खड्गपिधाने हारा० ।

द्रुणा स्त्री द्रुण्यते कुटिलीक्रियतेऽनया द्रु--घञर्थे क ।

ज्यायां मौर्व्याम् हेमच० ।

द्रुणि स्त्री द्रोणी--पृषो० । १ द्रोण्यां भरतः वा ङीप् । २ कर्ण-

जलौकसि ३ कच्छप्यां ५ काष्ठाम्बुवाहिन्याञ्च भरतः ।

द्रुत त्रि० द्रु--क्त । १ जातद्रवे घृतसुवर्णादौ “द्रुतं द्रुतं

वह्निसमागतं गतम्” भट्टिः “द्रुतशातकुम्भनिभमंशुमतः”
माघः । २ शीघ्रे न० ३ शीघ्रतायुक्ते त्रि० । “ससम्भ्रमेन्द्र-
द्रुतपातितार्गलाः” काव्यप्र० “द्रुतपदमिति मा वयस्य!
यासीः” माघः । ४ विडाले मेदि०

द्रुतपद न० द्रुतं शीघ्रगामि पदम् । १ शीघ्रगामिपदे । ६ ब० ।

२ तद्युक्ते त्रि० । “द्रुतपदं भवति नभनयाश्चेत्” वृत्तर-
उक्ते द्वादशाक्षरपादके वर्णवृत्तभेदे ।

द्रुतमध्या स्त्री “भत्रयमोजगतं गुरुणी चेद् युजि च नजौ

ज्ययुतौ द्रुतमध्या” छन्दो० उक्ते अर्द्धसमाख्ये वर्णवृ-
त्तभेदे ।

द्रुतविलम्बित न० “द्रुतविलम्बितमाह नभौ भरौ” वृत्तर०

उक्ते द्वादशाक्षरपादके १ वर्णवृत्तभेदे “किञ्चित् द्रुतञ्च
विलम्बितञ्च किञ्चित् । २ किञ्चिच्छीघ्रे किञ्चिद्विलम्बिते
च “तरणिजा पुलिने नववल्लवीपरिषदा सह केलि-
कुतूहलात् । द्रुतविलम्बितचारुविहारिणं हरिम हं
हृदयेन सदा वहे” । छन्दोमञ्जरी ।

द्रुति स्त्री द्रु--भावे क्तिन । १ दवे २ नतौ च ।

पृष्ठ ३७८५

द्रुनख पु० द्रीर्नख इव न संज्ञात्वेऽपि णत्वम् । १ कण्टके त्रिका०

द्रुपद पु० पञ्चालानामधिपे यज्ञसेनापरनामके नृपभेदे

“गच्छताद्यैव पाञ्चालान् द्रुपदस्य निवेशने । स्वयंवरो
महांस्तत्र भविता सुमहाधनः । एवमुक्ताः प्रयातास्ते
पाण्डवा जनमेजय! । राज्ञा दक्षिणपाञ्चालान् द्रुपदे-
नाभिरक्षितान्” भा० आः १८४ अ० स च मरुद्गणांशा-
ज्जातः यथाह भा० आ० ६७ अ० “सात्यकिः सत्यसन्ध्यश्च
योऽसौ वृष्णिकुलोद्भवः । पक्षात् स जज्ञे मरुतां देवाना
मरिमर्दनः । द्रुपदश्चापि राजर्षिस्तत एवाभवद्ग-
णात् । मानुषे नृपलोकेऽस्मिन् सर्वशस्त्रभृतांवरः”
स च भरद्वाजसखस्य पृषतनृपस्य पुत्रः यथोक्तं भा०
आ० १३० अ० “भरद्वाजसखा चासीत् पृषतो नाम
पार्थिवः । तस्यापि द्रुपदो० नाम तदा समभवत् सुतः ।
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः । चिक्री-
डाध्ययनञ्चैव चकार क्षत्रियर्षभः । ततो व्यतीते पृषते
स राजा द्रुपदोऽभवत् । पाञ्चालेषु महाबाहुरुत्तरेषु
नरेश्वर!” तस्य द्रोणेन वालसख्येऽपि पश्चात् वैरं
जातं यथोक्तं भा० आ० १३१ अ० “ततो द्रुपदमासाद्य
भारद्वाजः प्रतापवान् । अब्रवीत् पार्थिवं राजन्! सखायं
विद्धि मामिह । इत्येवमुक्तः सख्या स प्रीतिपूर्वं
जनेश्वरः । भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत् ।
सक्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः । ऐश्वर्यमद-
सम्पन्नो द्रोणं राजाऽब्रवीदिदम् । द्रुपद उवाच । अकृ
तेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यन्मां व्रवीषि
प्रसभं सखा तेऽहमिति द्विज । न हि राज्ञामुदीर्णा-
नामेवं भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मन्! श्रिया
हीनैर्धनच्युतैः । सौहृदं मे त्वया ह्यासीत् पूर्वं
सामर्थ्यबन्धनम् । न सख्यमजरं लोके हृदि तिष्ठति
कस्यचित् । कालोह्येनं विहरति क्रोधो वैनं
हरत्युत । मैवं जीर्णमुपास्स्वं त्वं सख्यं भवत्यपाकृधि ।
आसीत् सख्यं द्विजश्रेष्ठ! त्वया मेऽर्थनिबन्धनम् ।
दरिद्रो न वसुमतो नाविद्वान् विदुषः सखा । न शूरस्य
सखा क्लीवः सखिपूर्वं किमिष्यते । ययोरेव समं वित्तं
ययोरेव समं श्रुतम् । तयोर्विवाहः सख्यञ्च न तु पुष्ट
विपुष्टयोः । नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः
सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ।
वैशम्पायन उवाच । द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रताप-
वान् । मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः ।
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । जगाम
कुरुमुख्यानां नगरं नागसाह्वयम्” द्रोणश्चार्जुनादीन्
शिष्यान् कृत्वा तद्द्वारा द्रुपदं पराजित्य वशमानाय्य
राज्यार्द्धहरणपूर्वकं द्रुपदेन पुनः सख्यं यथास्थित-
मकरोत् यथाह भा० आ० १३९ अ० “ते यज्ञसेनं द्रुपदं
गृहीत्वा रणमूर्द्धनि । उपाजह्रुः सहामात्यं द्रोणाय
भरतर्षभ! । भग्नदर्पं हृतधनं तं तथा बशमागतम् ।
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमव्रवीत् । विमृद्य
तरसा राष्ट्रं पुरन्ते मृदितो मया । प्राप्य जीवं रिपुवशं
सखिपूर्वं किमिष्यते । एवमुक्त्वा प्रहस्यैवं किञ्चित् स
पुनरब्रवीत् । मा भैः प्राणभयाद्वीर! क्षमिणो ब्राह्मणा
वयम् । आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह ।
तेन संवर्द्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ! । प्रार्थयेयं
त्वया सख्यं पुनरेव जनाधिप! । वरं ददामि ते राजन्!
राज्यस्यार्द्धमवाप्नु हि । अराजा किल नो राज्ञः
सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन!
मया तव । राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ।
सखायं मां विजानीहि पाञ्चाल! यदि मन्यसे । द्रुपद
उवाच । अनाश्चर्यमिदं ब्रह्मन्! विक्रान्तेषु महात्मसु ।
प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाथतीम् । वैशम्पायन
उवाच । एवमुक्तः स तं द्रोणो मोक्षयाभास भारत! ।
सत्कृत्य चैनं प्रीतात्मा राज्यार्द्धं प्रत्यपादयत् ।
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीन-
मनाः काम्पिल्यञ्च पुरोत्तमम् । दक्षिणांश्चापि पाञ्चा-
लान् यावच्चर्मण्वतीं नदीम् । द्रोणेन चैवं द्रुपदः
परिभूयाथ पालितः । क्षात्रेण च बलेनास्य नापश्यत् स
पराजयम् । हीनं विदित्वा चात्मानं व्राह्मेण स
बलेन तु । पुत्रजन्म परीप्सन् वै पृथिवीमन्वसञ्चरत् ।
अहिंच्छत्रञ्च विषयं द्रोणः समभिपद्यत । एवं राजन्न
हिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन
द्रोणाय प्रतिपादिता” ६ त० । २ द्रोःकाष्ठस्य देशभेदे
“आदित्यं द्रुपदेषु वद्धम्” ऋ० १ । २४ । १३ “द्रोः काष्ठस्य
पदेषु यूपस्य प्रदेशविशेषेषु” भा० द्रुमयं काष्ठभयं पदम् ।
३ काष्ठपादुकायाम् “द्रुपदादिव मुमुचानः” यजु० २० । २०
“द्रुस्तरुस्तन्मयं पदं पादुका तस्मात् मुमुचानः पृथग्-
भवन् । यथा पादुकादोषैरसम्बद्धोभवति” वेददी० द्रुपदं
तच्छब्दोऽस्त्यस्थामृचि अच् । ४ द्रुपदशब्दयुक्तायामृचि
स्त्री “गायत्र्यष्टसहस्नं तु द्रुपदां वा शतं जपेत्”
पृष्ठ ३७८६
आ० त० । साच ऋक् “द्रुपदादिव मुमुचानः” इत्यादिका
यजु० २० । २० “द्रुपदान्तु ततोजप्त्वा जलमादाय पाणिना”
काशी० ३५ अ०

द्रुपदात्मज पु० ६ त० । १ द्रुपदस्य राज्ञो नन्दने शिखण्डिनि

२ धृष्टद्युम्ने ३ याज्ञसेन्यां स्त्री । शिखण्डी च स्त्रीरूपेण
पूर्यं जातः पश्चात् स्थूणयक्षवरेण पुंस्त्वमाप तत्कथा
भा० उद्यो० १९२ । ९३ अ० दृश्या “रवमेव महाराज!
स्त्रीपुमान् द्रुपदात्मजः । स सम्भूतः कुरुश्रेष्ठ!
शिखण्डी भरतर्षभ!” इत्यन्त ग्रन्थे द्रुपदशब्दे दर्शिते
द्रोणद्रुपदयो वैरे जाते तन्मूलनिर्वेदात् द्रुपदस्य द्रोणा-
न्तकपुत्रेच्छया याजोपयाजाभ्यां यज्ञस्य करणे अग्निम-
ध्यात् धृष्टद्युम्न कृष्णयोरुत्पत्तिकथा भा० आ० १६७ अ०
“द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् । द्रोणा-
न्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत् कर्म कुरु मे
याज! वितराम्यर्वुदं गवाम् । तथेत्युक्त्वा तु तं याजो
याज्यार्थमुपकल्पयन् । गुर्वर्थ इति चाकाममुपयाजमचो-
दयत् । याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ।
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौ
कर्म वैतानं तदा पुत्रफलाय वै । स च पुत्रो महावीर्य्यो
महातेजा महाबलः । दृष्यते यद्विधो राजन्! भविता
ते तथाविधः । भारद्वाजस्य हन्तारं सोऽभिसन्धाय
भूपतिः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये । या
जस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा । प्रैहि मां राज्ञि
पृषति! मिथुनं त्वामुपस्थितम् । राज्ञ्युवाच । अवलिप्त
मुखं ब्रह्मन्! दिव्यान गन्धान् बिभर्म्मि च । सुतार्थे
नोपलब्धास्मि तिष्ठ याज मम प्रिये । याज उवाच ।
याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम् । कथं कामं
न सन्दध्यात् सा त्वं विप्रेहि तिष्ठ वा । ब्राह्मण
उवाच । एवमुक्त्वा तु याजेन हुते हविषि सत्कृते ।
उत्तस्थौ पावकात्तस्मात् कुमारो देवसन्निभः । ज्वाला-
वर्णो घोररूपः किरीटी वर्म्म चोत्तमम् । बिभ्रत सं०
खड्गः सशरो धनुष्मान् विनदन्मुहुः । सोऽध्यारोह-
द्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाः
प्रहृष्टाः साधु साध्विति । हर्षाविष्टांस्ततश्चैतान्नेयं सेहे
वसुन्धरा । भयापहो राजपुत्रः पाञ्चालानां यशस्करः ।
राज्ञः शोकापहो जात एष द्रोणबधाय वे । इत्युवाच
महद्भूतमदृश्यं खेचरं तदा । कुमारी चापि पाञ्चाली
येदीमध्यात् समुत्थिता । सुभगा दर्शनीयाङ्गी स्वसिता-
यतलोचना । श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्द्धजा ।
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा । मानुषं विग्रहं
कृत्वा साक्षादमरवर्णिनी । नालोत्पलसमो गन्धो यस्याः
क्रोशात् प्रधावति । या विभर्त्ति परं रूपं यस्या नास्त्यु-
पमा भुवि । देवदानवयक्षाणामीप्सिता देवरूपिणी ।
ताञ्चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयो-
षिद्वरा कृष्णा निनीषुः क्षत्त्रियान् क्षयम् । सुरकार्य्य-
मियं काले करिष्यति सुमध्यमा । अस्या हेतोः
कौरवाणां महदुत्पत्स्यते भयम् । तं श्रुत्वा सर्वपाञ्चालाः
प्रणेदुः सिंहसङ्घवत् । न चैतान् हर्षसम्पूर्णानियं
सेहे वसुन्धरा । तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुता-
र्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ।
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्च
नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः । धृष्टत्वादतिधृष्णु-
त्वाद्द्युम्नादुत्सम्भवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुप-
दस्य भवत्विति । कृष्णेत्येवाब्रुवन् कृष्णां कृष्णाभूत् सा
हि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ।
धृष्टद्युम्नन्तु पाञ्चाल्यमानीय स्वं निवेशनम् । उपाकरो-
दस्त्रहेतोर्भारद्वाजः प्रतापवान् । अमोक्षणीयं दैवं हि
भावि मत्वा महामतिः । तथा तत् कृतवान् द्रोण
आत्मकीर्त्त्यनुरक्षणात्” । द्रुपदसुतादयोऽप्यत्र ।

द्रुपदी स्त्री द्रुरिव दीर्घः पादोऽस्याः कुम्भपद्या० ङीषि

पद्भावः । द्रुमतुल्यपादयुक्तायां स्त्रियाम् ।

द्रुपदादित्य पु० काशीस्थे द्रौपद्याः स्थापिते आदित्यलिङ्ग-

भेदे तदाविर्भवकथा काशीख० ४९ अ०
“आकर्णय मुने । पूर्वं पञ्चवक्त्रो हरेः स्वयम् ।
पृथिव्यां पञ्चधा भूत्वा प्रादुरासीज्जगद्धितः । उमापि च
जगद्धात्री द्रुपदस्य महीभुजः । यजतो वह्निकुण्डाच्च
पादुश्चक्रेऽतिसुन्दरी । पञ्चापि पाण्डुतनयाः साक्षाद्रुद्र-
वपुर्द्धराः । अवतेरुरिह स्वर्गाद् दुष्टसंहारकारिणः ।
नारायणोऽपि कृष्णत्वं प्राप्य तत्साहचर्य्यकृत् । दुर्वृत्त-
वृत्तशमनः सद्वृत्तस्थितिकारकः । प्रतपन्तः पृथिव्यान्ते
पार्थाश्चेरुः पृथक् पृथक् । उदयानुदयौ तस्मिन् सम्पदां
विपदामपि । कदाचित्ते महावीरा भ्रातृव्यप्रति-
पादिताम् । विपत्तिमाप्य महतीं बभूवुः काननौकसः ।
पाञ्चाल्यपि च तत्पत्री पतिव्यसनकर्षिता । घर्म्मज्ञा
प्राप्य तन्वङ्गी व्रध्नमाराधयद्भृशम् । आराधितोऽथ
सविता तया द्रुपदन्यया । सदर्वीं सपिधानाञ्च
पृष्ठ ३७८७
स्थालिकामक्षयान्ददौ । उवाच च प्रसन्नात्मा भास्करो
द्रुपदात्मजाम् । आराधयन्तीं भावेन सर्वत्र शुचिमान-
साम् । स्थाल्यैतया महाभागे! यावन्तोन्नार्थिनोजनाः ।
तावन्तस्तृप्तिमाप्स्यन्ति यावच्च त्वं न भोक्ष्यसे । भुक्तायां
त्वयि रिक्तैषा पूर्णभक्ता भविष्यति । रसवद्व्यञ्जननिधिं-
रिच्छाभक्ष्यप्रदायिनी । इत्थं वरस्तया लब्धः काश्या-
मादित्यतो सुने! । अपरश्च वरो दत्तस्तस्यै देवेन भास्वता ।
रविरुवाच । विश्वेशाद्दक्षिणे भागे यो मां त्वत्पुरत-
स्थितम् । आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति ।
अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते! । तपसा
परितुष्टेन तं निशामय वच्मि ते । प्राग्रवे! त्वां समाराध्य
यो मां द्रक्ष्यति मानवः । तस्य त्वं दुःखतिमिरमपा-
नुद निजैः करैः । अतो धर्मप्रिये! नित्यं प्राप्य विश्वे-
श्वराद्वरम् । काशीस्थितानां जन्तूनां नाशयाम्यघ
सञ्जयम् । ये मामत्र भजिष्यन्ति मानवाः श्रद्धयान्विताः ।
त्वद्वरोद्यतपाणिञ्च तेषां दास्यामि चिन्तितम् । भवतीं
मत्सभीपस्थां युधिष्ठिरपतिव्रताम् । विश्वेशाद्दक्षिणे भागे
दण्डपाणेः समीपतः । येऽर्च्चयिष्यन्ति भावेन पुरुषा
वा स्त्रियोऽपि वा । तेषां कदाचिन्नो भावि भयं प्रिय-
वियोगजाम् । न व्याधिजं भयं क्वापि न क्षुत्तृट्श्लेष्म-
सम्भवम् । द्रौपदीक्षणतः काश्यां तव धर्मप्रियेऽनघे! ।
इति दत्त्वा वरान्देव आदित्यः सर्वदः सताम् । शम्भुमा-
राधयामास धर्मं द्रौपद्युपाययौ । आदित्यस्य कथामेतां
द्रौपद्याराधितस्य वै । यः श्रोष्यति नरो भक्त्या तस्यै-
नः कथमेध्यति । स्कन्द उवाच । द्रौपदादित्यमाहात्म्यं
संक्षेपात् कथितं मया । मयूखादित्यमाहात्म्यं शृण्वि
दानीं घटोद्भव!” “चतुर्थो द्रुपदादित्यः” काशीख०
४६ अ० द्रौपदादित्योऽप्यत्र । “इदानीं द्रौपदादित्यं
कथयिष्यामि तेऽनघ” तत्र ।

द्रुम पु० द्रुः शाखास्त्यस्य म । १ वृक्षे अमरः । २ पारिजाते

३ कुवेरे च मेदि० । “बद्धप्रल्लवपुटाञ्जलिं द्रुमम्” रघुः ।
“तस्य तद्वर्द्धते नित्यं सिच्यमान इव द्रुमः” मनुः
४ किम्पुरुषाधीशभेदे “द्रुमः किम्पुरुषेशश्च उपास्ते
धनदेश्वरम्” भा० स० ४१० श्लो० “किंपुरुषाधिराज्यमिव
मुनिजनगृहीतजलकलशपरिषिच्यमानद्रुमम्” काद०
कृष्णमहिलायां रुक्मिण्यां जाते ५ पुत्रभेदे “प्रद्युम्नः प्रथमं
जज्ञे शंवरान्तकरः सुतः । द्वितीयश्चारुदेष्णश्च वृष्णि-
सिंहो महारथः । चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव
च” हरिवं० १६२ अ० । शिविनामदैत्यांशजाते द्वापरयुगीये
६ नृपभेदे “यस्तु राजञ्छिविर्नाम दैत्येशः परिकीर्तितः ।
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः” भा० आ०
६७ अ० प्राचीने नृपवरभेदे “उशीनरः शतरथः कङ्को
दुलिदुहो द्रुमः” भा० आ० १ अ० प्राचीननृपोक्तौ ।

द्रुमनख पु० द्रुमस्य नख इव संज्ञात्वेऽपि न णत्वम् ।

कण्टके शब्दरत्ना० ।

द्रुममय पु० नि० । द्रुम + विकारे मयट् । वृक्षविकारे यूपादौ

द्रुममर पु० द्रुमोम्रियतेऽनेन मृ--करणे अप् । कण्टके हारा० ।

द्रुमव्याधि पु० द्रुमस्य व्याधिरिव । द्रुमामये १ लाक्षायाम्

राजनि० । ६ त० । २ वृक्षरोगे च

द्रुमशीर्ष न० द्रुमस्य शीर्षमिव शीर्षमग्रमस्य । वृक्षतुल्या-

ग्रयुक्ते कुट्टिमभेदे “कपिशीर्षं द्रुमशीर्षं तथा चाखोट
शीर्षकम् । इति कुट्टिमभेदांः स्युः शाब्दिकैः समुदाहृताः”
शब्दर० । ६ त० । २ वृक्षाग्रे न० ।

द्रुमश्रेष्ठ पु० द्रुमेषु श्रेष्ठः । १ प्रधानवृक्षे २ तालवृक्षे च शब्दार्थक० ।

द्रुमषण्ड न० द्रुमाणां समूहः द्रुम + षण्डच् । वृक्षसमूहे

“जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि । पङ्कजै र्द्रुम-
षण्डैश्च सर्वतः प्रतिभूषितम्” हरिवं० ९७ अ०

द्रुमसेन पु० राजभेदे सच गविठासुरांशाज्जातः द्वापरयुगीयो

नृपभेदः “गधिष्ठस्तु महातेजा यः प्रख्यातो महासुरः ।
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः” भा० आ०
६७ अ० ।

द्रुमामय पु० द्रुमस्यामय इव । लाक्षायां अमरः । ६ त० । वृक्षस्य रोगे च ।

द्रुमारि पु० ६ त० । १ हस्तिनि गजे राजनि० २ वृक्षनाशकमात्रे च

द्रुमाश्रय त्रि० द्रुम आश्रयो यस्य । १ वृक्षाश्रिते २ सरटे

पुंस्त्री० राजनि० । स्त्रियां जातित्वात् ङीष् ।

द्रुमिणी स्त्री द्रुमाणां समूहः खला० समूहे इनि ङीप् ।

वृक्षसमूहे ।

द्रुमेश्वर पु० द्रुमेषु ईश्वर इव श्रेष्ठत्वात् । १ तालवृक्षे

शब्दार्थक० । २ द्रुमाणां श्रेष्ठे च “स्वर्गादिहानयित्वा च
पारिजातं द्रुमेश्वरम्” हरिवं० १२६ अ० । ३ ओषधीशे चन्द्रे च

द्रुमोत्पल पु० द्रुमे उत्पलमिव पुष्पमस्य । कर्णिकारवृक्षे अमरः

द्रुम्म गतौ भ्वा० पर० सक० सेट् निघण्टुः । द्रुम्मति अद्रु-

म्मीत् दद्रुम्म । निघण्टौ द्रम्मेति पाठान्तरम् ।

द्रुवय पु० “द्रोश्च माने वयः” पा० द्रु + माने वय । माने अमरः ।

द्रुसल्लक पु० द्रुषु सल्लक इव । पियालवृक्षे शब्दर० ।

पृष्ठ ३७८८

द्रुह अनिष्टचिन्तने दिवा० पर० सक० वेट् । द्रुह्यति अद्रोहीत्-

अध्रुक्षत् । द्रोहिता द्रोग्धा द्रोढा द्रोहिष्यति ध्रोक्ष्यति ।
ध्रुक् ध्रुट् । “क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः”
पा० कोपविषयस्य सम्प्रदानता । शत्रवे द्रुह्यति । उपसृ-
ष्टस्य तस्य सम्प्रदानस्य कर्मता भृत्यमभिद्रुह्यति । “न
यजमानाय द्रुह्यति” शत० ब्रा० २ । ३ । ४ । ३८ । “मा द्रुमेभ्यो
महाभाग! दीनोभ्यो द्रोग्धुमर्हसि!” भाग० ६ । ४ । ७ “नाभि
द्रुह्यति भृत्येभ्यः” भाग० ४ । २० । ३ आर्षत्वात् न कर्मता ।
“मातरञ्चाभिद्रुह्यन्ति मनसा कर्मणा च ये” भा० शा०
“भवांस्तानभिद्रुह्येत” कामन्दकी० अत्र तङ् असाधुः ।

द्रुह त्रि० द्रुह--क्विप् । द्रोहकारके मित्रध्रुक्ट् ।

द्रुह त्रि० द्रुह--कर्तरि क । १ द्रोहकारके “द्रुहा तन्वं

गूहमाना” ऋ० ७ । १०४ । १७ । २ पुत्रे शब्दार्थकल्प० । पुत्रस्य वित्ताश
या पितुरनिष्टचिन्तनस्य प्रायशः सम्भावनात् तथात्वम् ।
३ दुहितरि स्त्री ङीष् शब्दार्थकल्प० ।

द्रुहण पु० द्रुं संसारगतिं हन्ति--हन अच् “पूर्वपदात्

संज्ञायाम्” पा० णत्वम् । ब्रह्मणि । द्रुहणेन निर्वृत्तादि
अरीणादि० वुञ् । द्रौहणक तन्निवृत्तादौ त्रि० ।

द्रुहिण पु० द्रुह्यति कामक्रोधादिभ्यो दुष्टेभ्यो वा द्रुह-

बा० इनन् किच्च । चतुर्मुखे ब्रह्मणि अमरः “दुरा-
लभा दानशीला द्राविणी द्रुहिणस्तुता” काशीख० २९ अ०
गङ्गासहस्रनाम । २ विष्णौ च “महादेव! देवस्तुत!
द्रुहिण! अनन्त! विश्वकर्मन् नस्तायस्वेति” हरिवं०
२५९ अ० ।

द्रुह्य त्रि० शिवादिगणेद्रुह्येति पाठात् द्रुह--न ण्यत् किन्तु

क्यप् । द्रोहविषये तस्यापत्यम् शिवा० अण् द्रौह्य तदपत्ये
बहुषु यस्कादि० अणो लुक् । द्रुह्या इत्येव ।

द्रुह्यु पु० ययातेर्नृपस्य शर्मिष्ठायां जाते पुत्रभेदे तुर्वसुशब्दे

दृश्यम् । तस्मै ययातिशापकथा “ययातिरुवाच “द्रुह्यो!
त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं
मे यौवनं स्वन्ददस्व च । पूर्णे वर्षसहस्रे तु पुनर्दा-
स्यामि यौवनम् । स्वं चादास्यामि भूयोऽहं पाप्मानं
जरया सह । द्रुह्युरुवाच । न गजं न रथं नाश्वं जीर्णो
भुङ्क्ते न च स्त्रियम् । वाग्भङ्गश्चास्य भवति तां जरां
नाभिकामये । ययातिरुवाच । यत्त्वं मे हृदयाज्जातो
वयः स्वं न प्रयच्छसि । तस्माद्रुह्यो! प्रियः कामो न ते
सम्पत्स्यते क्वचित् । यत्राश्वरथमुख्यानामश्वानां स्याद्गतं
न च । हस्तिनां पीठकानाञ्च गर्दभानान्तथैव च ।
वस्तानाञ्च गवाञ्चैव शिविकायास्तथैव च । उद्भुपप्लवस-
न्तारो यत्र नित्यं भविष्यति । अराजभाजशब्दन्तं
तत्र प्राप्स्यसि सान्वयः” भा० आ० ८४ अ० ।

द्रू गतौ बधे च स्वा० क्य्रा० च उ० सक० सेट् । द्रूणोति द्रूणुते

द्रूणाति द्रूणीते अद्रावीत् अद्रविष्ट । दुद्राव । दुद्रविथ ।
द्रविता द्रविष्यति ।

द्रू पु० द्रू--क्विप् । हिरण्ये उज्ज्वद० ।

द्रूघण पु० द्रुघण + पृषो० दीर्घः । मुद्गरे द्विरूपकोषः ।

द्रूण पु० द्रू--हिंसायाम् बा० नक् । वृश्चिके शब्दार्थकल्प० ।

द्रेक स्वने उत्साहे च भ्वा० आत्म० अक० सेट् । द्रेकते अद्रे-

किष्ट । ऋदित् णिचि चङि अदिद्रेकत् त ।

द्रेक्क पु० द्रेक्काण + पृषो० । द्रेक्काणे राशेस्तृतीयांशे ।

द्रेक्काण पु० “स्वपञ्चनवमानां ये राशीनामधिपा ग्रहाः । एते

द्रेक्काणपाराशौ द्रेक्काणास्त्नय एव हि” ज्यो० त० उक्ते
राशेस्तृतीयाभागे तदधिपाश्च उक्तदिशाज्ञेयाः ।
दृक्काणशब्दे दृश्यम् ।

द्रेश्य त्रि० दृश--कर्मणि क्यप् वेदे पृषो० । दृश्ये “यत्तद-

द्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रम्” मुण्डको० ।
“अद्रेश्यम् अदृश्यं सर्वेषां बुद्धीन्द्रियाणामगम्यमित्ये-
तत् दृशेर्बहिःप्रस्थितस्य पञ्चेन्द्रियवाचकत्वात्” भा०

द्रेष्काण पु० द्रेक्काण + पृषो० । द्रेकाणे राशेस्तृतीये भागे ।

द्रोघ त्रि० द्रुह्--कर्मणि घञ् बा० वेदे कुत्वम् । द्रोहविषये

“हेषसा द्रोघमित्रान्” ऋ० १० । ८९ । १२ “द्रोघमित्रान्
द्रुग्धानि मित्राणि यैः ते द्रोघमित्राः” भा० । करणे घञ् ।
द्रोहसूचकवाक्यादौ “द्रोघाय चिद्वचस आनवाय”
ऋ० ६ । ६२ । ९ “द्रोघायातिद्रोहात्मकाय वचसे” मा०
“द्रोघवाचस्ते निरृथं सचन्ताम्” ऋ० ७ । १०४ । १४

द्रोण पु० द्रोणः कलशः उत्पत्तिस्थानत्वेनास्त्यस्य अच् ।

भारद्वाजे कौरवाणां धनुर्वेदाचार्ये तदुत्पत्तिकथा
“गङ्गाद्वारं प्रति महान् बभूव भगवान् ऋषिः ।
भरद्वाज इति ख्यातः सततं शंसितव्रतः । सोऽभिषेक्तु
ततो गङ्गां पूर्वमेवागमन्नदीम् । महर्षिभिर्भरद्वाजो
हविर्द्धाने चरन् पुरा । ददर्शाप्सरसां साक्षात् घृताची
साप्लुतामृषिः । रूपयौवनसम्पन्नां मददृप्तां मदालसाम् ।
तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत । व्यपकृष्टाम्बरां
दृष्ट्वा तामृषिश्चकमे ततः । तत्र संसक्तमनसो भरद्वाजस्य
धीमतः । ततोऽस्य रतश्चस्कन्द तदृषिर्द्रोण आदधे ।
ततः समभवद्द्रोणः कलशे तस्य धीमतः । अध्यगीष्ट
स वेदांश्च वेदाङ्गानि च सर्वशः । अग्निवेशं महाभागं
पृष्ठ ३७८९
भारद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रमस्त्र
विदां वरः । अग्नेस्तु जातः स मुनिस्ततो मरतस-
त्तम! । भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्” भा०
आ० १३० अ० । (डाँडकाक) २ दण्डकाके पुंस्त्री०
स्त्रियां ङीष् मेदि० ३ वृश्चिके राजनि० । चतुःशतधनुः
परिमिते ४ जलाशये “शतेन धनुर्भिः पुष्करिणी त्रिभिः
दीर्घिका चतुर्भिद्रोणः” जला० त० । द्रुण--क द्रु--न
किद्वा । ५ मेघनायकभेदे तदानयनादि ज्यो० त०
यथा “त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् ।
आवर्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम् । आवर्त्तो
निर्जलो मेघः संवर्तश्चरणोदकः । पुष्करो दुष्करजलो
द्रोणः शस्यप्रपूरकः” । “कोऽयमेवंविधे काले
कालपाशस्थिते मयि । अनावृष्टिहते शस्ये द्रोणमेघ
इवोत्थितः” मृच्छ० “केयमभ्युद्यते शस्त्रे मृत्युवक्त्रगते
मयि । अनावृष्टिहते शस्ये द्रोणवृष्टिरिवागता” मृच्छ०
(घलघचिया) ६ पुष्पप्रधाने वृक्षे । “ब्रह्मविष्णुशिवा-
दीनां द्रोणपुष्पं सदा प्रियम्” दुगार्च्चाप्रयोगः ।
७ आढके पु० न० ८ आढकचतुष्टये च (३२ सेर) “द्रोणस्तु
खार्य्याः खलु षोडशांशः” लीला० उक्ते ९ खार्य्याः
षोड़शभागे । आढकशब्दे ६५६ पृ० दृश्यम् । “धान्यद्रोणस्तु
मासिकः” मनुः “दशद्रोणा भवेत् खारी कुम्भोऽपि द्रोण
विंशतिः” १० उक्तमाने “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ
तु पुष्कलम् । पुष्कलानि च चत्वारि आढकः परिकी
र्तितः । चतुराढको भवेत् द्रोण इत्येतन्मानलक्षणम्”
कल्पतरौ द्वासशप्रसृतिभिः कुड़वस्तच्चतुर्गुणोत्तरप्रस्था-
ढकद्रोण इत्युक्तं कुडवचतुर्गुणादष्टाचत्वारिंशत्प्रसृ-
तिभिः प्रस्थस्तच्चतुर्गुणाद्द्विनवत्यधिकशतेन प्रसृतिभि-
राढकः । तच्चतुर्गुणादष्टषष्ठ्यधिकसप्तशतप्रसृतिभिर्द्रोणः”
प्रा० त० रघु० । गोपथब्राह्मणञ्च “द्वात्रिंशत् पलिकं प्रस्थ-
मुक्तं स्वयमथर्वणा । आढकस्तु चतुःप्रस्थश्चतुर्भिर्द्रोण
आढकैः” एषां । कार्यविशेषे परिमाणभेदाव्यवस्थाप्याः ।
मानार्थे अयमर्द्धर्च्चादिः । ११ द्रुमे वृक्षमात्रे । द्रोणस्य
गोत्रापत्यम् वा--फक् पक्षे इञ् । द्रौणायन द्रौणि तदपत्ये
“अनादिरिह द्रोणः अश्वत्थाम्न्यनन्तरे तूपचारात्” सि०
कौ० एतच्च पाणिनेर्द्रोणात् प्राचीनत्वस्थापनायोक्तं वस्तुतः
कुर्वादि वृष्ण्यन्धकादीनां बहूलां पा० सूत्रे कीर्तनात्
ततोऽर्वाचीनत्वं पाणिनेर्व्यक्तं प्रतिमाति सर्वत्रानादित्व
कत्पने मानाभावात् इत्यवधारितं सरलाख्यव्याख्यानोप-
क्रमेऽस्माभिः “द्रौण्यस्त्रविप्लुष्टमिदं यदङ्गम” भाग० ।
कुशद्वीपस्थे १२ वर्षपर्वतभेदे “चतुर्थः पर्वतो द्रोणो
यत्रौषध्यो महागिरौ । विशल्यकरणी चैव मृतसञ्जीवनी
तथा” मत्स्यपु० १२१ अ० स्वार्थे क । द्रोणक तत्रार्थे ।

द्रोणकलश पुं० द्रोण इव कलशः । द्रुममये यज्ञपात्रभेदे

“आहवनीयं गच्छन्त्यादाय ग्रावद्रोणकलशसोमपा-
त्राणि” कात्या० श्रौ० ८ । ७ । ५ । पञ्चग्रावाणोऽभिषवार्थाः
ते च पूर्वमभिषवणे स्थापिता अपि वचनात्तत आनीयन्ते
संस्कारार्थं द्रोणकलशः द्रुममयः कलशाकारोवैकङ्कतः
यस्योपरिधाराग्रहा गृह्यन्ते” कर्कः । यज्ञपात्रभेदे
“स्रुचश्च मे चमसाश्च च मे वायव्यानि च मे द्रोणकल-
शश्च मे” यजु० १८ । २१ ।

द्रोणकाक पुंस्त्री० कर्म० । (दाँडकाक) ख्याते दण्डकाके

काकभेदे अमरः ।

द्रोणक्षीरा स्त्री द्रोणमितं क्षीरमस्याः । द्रोणमितदुग्धवत्यां गवि अमरः ।

द्रोणगन्धिका स्त्री द्रोणस्य तन्नामपुष्पस्य गन्ध इव गन्धो

यस्याः कप् अत इत्त्वम् । रास्नायां जटा० ।

द्रोणघा स्त्री द्रोणदुघा + पृषो० । द्रोणमितदुग्धवत्यां गवि शब्दच० ।

द्रोणचित् पु० यज्ञिये अग्निभेदे “एतया विकृत्यान्यां चितिं

चिन्वन्ति द्रोणचिद्रथचक्रचित्कङ्कचित्प्रौगचिदुभयतः
समुह्य पुरीषः” कात्या० श्रौ० १६ । ५ । ९ । “एते अग्निवि-
शेषाः” कर्कः “तं हैके एतया विकृत्याभिमन्त्र्यान्यां चितिं
चिन्वन्ति द्रोणचितं वा रथचक्रचितं वा कङ्कचितं वा
प्रौगचितं वा” शत० व्रा० ६ । ७ । २ । ८

द्रोणदुग्धा स्त्री द्रोणमितं दुग्धं यस्याः । द्रोणमितक्षीरायां

द्रोणदुघायां गवि हेमच० ।

द्रोणदुघा स्त्री द्रोणमितं दोग्धि दुह--कः घश्चान्तादेशः । द्रोणमितदुग्धायां गवि अमरः ।

द्रोणपदी स्त्री द्रोण इव पादोऽस्याः कुम्भपद्या० ङीषि

पादोऽन्त्यलोपे पद्भावः । द्रोणतुल्यपादयुक्तायां स्त्रियाम् ।

द्रोणपर्णी स्त्री द्रोणस्य वृक्षभेदस्य पर्णमिव पर्णमस्याः

जातित्वात् ङीष् । भूमिकदल्याम् शब्दार्थ० ।

द्रोणपुष्पी स्त्री द्रोणस्य पुष्पमिव पुष्पमस्याः जातित्वात्

ङीष् । (गुमक) इति ख्याते १ क्षुपभेदे “द्रोणपुष्पी गुरुः
स्वादू रूक्षोष्णा वातपित्तकृत् । स क्षारलबणा स्वादु-
पाका कट्वी च भेदिनी । कफायकामलाशोथतमक
श्वासजन्तुजित्” भावप्र० । २ द्रोणवृक्षे रत्नमाला । “द्रोण-
पुष्पीदलं स्वादु रूक्षं गुरु च पित्तकृत् । भेदकं
कामलाशोथमेहपूयहरं कट्” वैद्यकम् ।
पृष्ठ ३७९०

द्रोणमाना स्त्री द्रोणो मानं दुग्धेऽस्याः । द्रोणदुघायां गवि

शब्दच० । द्रोणो मानं यस्याः । द्रोणमिते द्रव्यादौ त्रि०

द्रोणमुखम् न० चतुःशतग्राममनोहरग्रामे हारा० ।

द्रोणशर्म्मपद न० तीर्थभेदे “शरस्तम्भे कुशस्तम्भे द्रोण-

शर्मपदे तथा । अपां प्रपतनासेवी सेव्यते सोऽप्सरो
गणैः” भा० अनु० २५ अ० ।

द्रोणसाच त्रि० द्रोणं द्रोणकलशं सचते सच--अण् । द्रोण-

कलशसेवके । “एवा पतिं द्रोणसाचमचेतसम्” ऋ० १० ।
४४ । ४ “द्रोणसाचं द्रोणकलशस्य सेवितारम्” भा०

द्रोणा स्त्री १ द्रोण्याम् २ द्रोणपुष्पायां शब्दार्थ० ।

द्रोणाचार्य्य पु० कर्म० । कौरवाणां शस्त्रशिक्षके भारद्वाजे

द्रोणाहाव पु० आह्वयन्त्यत्र पानार्थं बलीवर्द्धान् आहावो

जलाधारः जलाशयभेदः द्रोणमयः द्रुममयः आहावः ।
द्रुममये जलाधारभेदे “द्रोणाहावमवतमश्वचक्रम्” ऋ० १० ।
१०१ । ७ ।

द्रोणि(णी) स्त्री द्रवति गच्छति जलम् द्रु--नि वा ङीप् ।

१ काष्ठाम्बुवाहिन्याम् अमरः । (डोङ्गा) २ जलाधारे
कदलीत्वगादि निर्मिते पात्रभेदे “तैलपूर्णे कटाहे
वा द्रोण्यां वा शायवेत् नृपम्” सुश्रुतः “भरद्वाजस्य च
स्कन्नं शुक्रं द्रोण्यामवर्द्धत” भा० आ० ६३ अ० ४ काष्ठमये
स्नानपात्रे ५ पर्वतानाममन्तरे देशभेदे च “शैलानामन्तरे
द्रोण्यः सिद्धचारणसेविताः” शब्दार्थचि० धृतवाक्यम् ।
“पूर्यन्तां पयसा नद्यो द्रौण्यश्च विपुलायताः” हरिवं०
७४ अ० । द्रोणस्य पत्नी ङीष् । ७ द्रोणपत्न्यां स्त्री ८ द्वि-
सूर्पपरिमाणे वैद्यकभाषा ९ कदल्यां मेदि० । १० नीलीवृक्षे
शब्दरत्ना० ११ शैलसन्धौ हेमच० १२ इन्द्रचिर्भट्यां १३ द्री-
णोजलबणे च राजनि० १४ नदीभेदे उणादिकी० १५ द्रुते च

द्रोणीदल पु० द्रोणीव दलमस्य । केतकीवृक्षे हारा०

द्रोणीलवण न० द्रोण्यां भवं लबणम् । उपकर्णाटदेशभवे

लबणे राजनि० । “विज्ञेयं द्रोणीलबणं पाके नात्युष्णतां
गतम् । अविदाहि भेदकञ्च स्निग्धं शूलविनाशनम् ।
अल्पपित्तकरं चैव भिषग्भिः समुदाहृतम्” राजनि० ।

द्रोण्य त्रि० द्रोणं द्रुममयं यूपमर्हति यत् । द्रुममययूपार्हे

पश्वादौ “द्रववद् द्रोण्यः पशुः” ऋ० ५ । ५० । ४ । “द्रोण्यः
यूपार्हः पशुः” भा०

द्रोण्यश्व त्रि० द्रोणिं द्रुतमश्नुते अश--व्याप्तौ बा० व । द्रुत-

व्यापके “द्रोण्यश्वास ईरन्ते घृतं वा” ऋ० १०९९ । ४
“द्रोण्यश्वासः द्रुतव्यापनाः” भा० ।

द्रोमिल पु० चाणक्ये मुनौ हेमच० द्रामिल इति वा तत्र

पाठः । अन्यतरस्य प्रामादिकत्वं मुद्रादोषात् ।

द्रोह पु० द्रुह--भावे घञ् । १ अनिष्टचिन्तने २ छद्मबधे ३ हिंसा

मात्रे च । “पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजञ्च पारुष्यं क्रोधजीऽपि गणोऽष्टकः” मनुः
द्रोहश्छद्मबधः” कुल्लू० “द्रोहो जिघांसा” म० त० रघु०
“विनापि शीर्षकात् कुर्य्यात् नृपद्रोहे तु पातके” मनुः
अत्र हन्तुमिच्छा अनिष्टचिन्तनं वा द्रोहपदार्थः ।
“द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम्”
काव्यप्र० द्रोहः जातोऽस्य तारका० इतच् । द्रोहित
जातद्रोहे त्रि० ।

द्रोहचिन्तन न० द्रोहार्थं चिन्तनम् । परानिष्टचिञ्चने अमरः ।

द्रोहाट त्रि० द्रोहेणाटति अट--अच् । १ वैड़ालव्रतिके छद्मना

परहिंसार्थं व्रतधारिणि २ मृगलुब्धके ३ वेदशाखाप्रभेदे
पु० मेदि० ।

द्रौण त्रि० द्रोणं सम्भवति अवहरति पचति वा अण् पक्षे

ठन् । द्रोणमितधान्यादेः स्वस्मिन् १ समावेशके २ तदपहा-
रके ३ तत्पाचके च स्त्रियां ङीप् । पक्षे ठनि द्रोणिक
तत्रार्थे स्त्रियां टाप् । तत्रार्थे द्रौणिक इति शब्दक-
ल्पनं प्रामादिकमेव ठनि वृद्धेरप्रसक्तेः ।

द्रौणीज न० द्रोण्यां जायते जन--ड । १ द्रोणीजाते लबणे

राजनि० । २ द्रोण्यां जाते द्रोणाचार्य्ये द्रोणस्य पत्नी
ङीष् द्रोणी तस्यां जाते ३ अश्वत्थाम्नि च ।

द्रौणायन पु० अश्वत्थाम्नि द्रोणशब्दे दृश्यम् द्रौणिरप्यत्र ।

द्रौणायनि पु० द्रोणस्थापत्यं बा० फिञ् । अश्वत्थाम्नि “सकर्ण

दुर्य्योधनशाल्वशल्यद्रौणायनिक्राथसुनीथवक्राः” भा० आ०
१८७ अ० । “द्रौणायने! अलमत्यर्थमात्मानं शोका-
नले प्रक्षेप्तुम्” वेणीसं०

द्रौणिक त्रि० द्रोणस्य वापः क्षेत्रम् ठञ् । द्रोणमितवीज-

वपनयोग्ये १ क्षेत्रादौ अमरः । तेन क्रीतमित्याद्यर्थे
असमासे ठक् । २ द्रोणक्रीतादौ, समासे तु निष्का० ठञ् ।
स्वरे भेदः ।

द्रौपद पुंस्त्री० द्रुपदस्यापत्यं शिवा० अण् । १ द्रुपदराज-

पुत्रे तत्कन्यायां २ कृष्णाय्यां स्त्री । द्रुपदात्मजशब्दे दृश्यम्
“द्रौपद्या च महातेजास्तथैवच सुभद्रया” हरिवं० १३५ अ०
“द्रौपदी त्वथ संजज्ञे शचीभागादनिन्दिता । नातिह्रस्वा
न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी
स्वक्रिताञ्चितमूर्द्धजा । सर्वलक्ष्मणसम्पूर्णा वैदूर्य्य
पृष्ठ ३७९१
मणिसन्निभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः”
भा० आ० ६७ अ० तस्याः पञ्चपतिकत्वकारणं भा० आ०
१९८ । ९९ अ० उक्ता दिङ्मात्रमत्रोच्यते तत्र द्रौपद्याः
पूर्ववृत्तान्तकथनेन पञ्चपतिकत्वनिरूपणाय “व्यास उवाच
आसीत्तपोवने काचिदृषो कन्या महात्मनः । नाध्य-
गच्छत् पतिं सा तु कन्या रूपवती सती । तोषयामास
तपसा सा किलोग्रेण शङ्करम् । तामुवाचेश्वरः प्रीतो
वृणु काममिति स्वयम् । सैवमुक्ताऽब्रवीत् कन्या देवं
वरदमीश्वरम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः ।
पुनः । ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः
पञ्च ते पतयो भद्रे! भविष्यन्तीति शङ्करः । सा प्रसाद-
यती देवमिदं भूयोऽभ्यभाषत । एकं पतिं गुणोपेतं
त्वत्तोऽर्हामीत्यथ शङ्कर! । तां देवदेवः प्रीतात्मा पुनः प्राह
शुभं वचः । पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः ।
तत्तथा भविता भद्रे! वचस्तद्भद्रमस्तु ते । देहमन्यं
गतायास्ते सर्वमेतद्भविष्यति । द्रौपद्येषा हि सा जज्ञे सुता
वै देवरूपिणी । पञ्चानां विहिता पत्नी कृष्णा पार्षत्य-
निन्दिता । स्वर्गश्रीः पाण्डवार्थन्तु समुत्पन्ना
महामखे । सेह तप्ता तपो घोरं दुहितृत्वं तवागता । सैषा
देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनेह कर्मणा ।
सृष्टा स्वयं देवपत्नी स्वयम्भुवा राजन्! द्रुपदेष्टं कुरुष्व” ।
ब्रह्मवैवर्त्ते तु जन्मखण्डे ११५ अ० अन्यथा वर्णितं यथा
“वह्निरुवाच शृणु राम! महाभाग! सीतासंगोपनं
कुरु । सप्ताहाभ्यन्तरे चैव रावणो दुष्टराक्षसः । दुर्नि-
वार्य्यः प्राक्तनेन जानकीञ्च हरिष्यति । राम उवाच ।
सीतां गृहीत्वा त्वं गच्छ च्छायात्रैव तु तिष्ठतु । कलत्र
वर्जनं कर्म सर्वेषाञ्च जुगुपसितम् । सीतां गृहीत्वा प्रययौ
रुदन्तीञ्च हुताशनः । सीतायाः सदृशी छाया तस्थौ
श्रीरामसन्निधौ । सा च छाया हृता पूर्वं रावणेन
बलीयसा । समुद्दधार तां रामो निहत्य तं सबान्ध-
वम् । वह्नौ परीक्षाकाले च छाया वह्नौ विवेश ह ।
अग्निश्छायाञ्च संरक्ष्य ददौ रामाय जानकीम् । सा च
छाया तपश्चक्रे नारायणसरोवरे । तपश्चकार दिव्यञ्च
शतवर्षञ्च शूलिनः । वरं वृणुष्व भद्रे! त्वमुवाच शङ्करश्च
ताम् । उवाच तां शिवं व्यग्रा भर्तुर्दुःखेन दुःखिता ।
पतिन्देहि पञ्चधा सा वरं वव्रे त्रिलोचनम् । सर्वस-
म्पत्प्रदस्तुष्टस्तस्यै शर्वो वरं ददौ । महादेव उवाच ।
साध्वि! त्वं पञ्चधा ब्रूषे पतिन्देहीति व्याकुला ।
पञ्चेन्द्राश्च हरेरंशा भविष्यन्ति प्रियास्तव । ते च सर्वे
च पञ्चेन्द्राश्चाधुना पञ्च पाण्डवाः । सा च छाया द्रौ-
पदी च यज्ञकुण्डसमुद्भवा । कृते युगे वेदवती त्रेतायां
जनकात्मजा । द्वापरे द्रौपदी च्छाया तेन कृष्णा त्रि-
हायणी । वैष्णवी कृष्णभक्ता च तेन कृष्णा प्रकीर्तिता ।
स्वर्गलक्ष्मीर्महेन्द्राणां सा च पश्चाद्भविष्यति । राजा
ददौ फाल्गुनाय कन्यायाश्च स्वयंवरे । पप्रच्छ मातरं
वीरो वस्तु प्राप्तं मयाधुना । तमुवाच स्वयं माता
गृहाण भ्रातृभिः सह । शम्भोर्वरेण पूर्वञ्च परत्र
मातुराज्ञया । द्रौपद्याः स्वामिनस्तेन हेतुना पञ्च-
पाण्डवाः । चतुर्द्दशानामिन्द्राणां पञ्चेन्द्राः पञ्चपा-
ण्डवाः” “अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा ।
पञ्च कन्याः स्मरेन्नित्यं महापातकनाशनम्” प्रातःस्मर-
णीयकीर्त्तने ।

द्रौपदायनि त्रि० द्रुपदेन निर्वृत्तादि कर्णा० फिञ् । द्रुपदेन निर्वृत्तादौ ।

द्रौपदेय पु० द्रौपद्या अपत्यम् ढक् । युधिष्ठिरादीनां द्रौ-

पद्यासुत्पन्ने प्रतिविन्ध्यादौ ते च विश्वदेवगणांशेनोत्पन्नाः
यथाह भा० आ० ६७ अ० । “द्रौपदेयाश्च ये पञ्च बभुवु-
र्भरतर्षभ! । विश्वान् देवगणान् विद्धि सञ्जातान्
भरतर्षभ! । प्रतिविन्ध्यः सुतसोमः श्रुतकर्मा तथा परः ।
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान् । पाञ्चा-
ल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा । लेभे पञ्च सुतान्
वीरान् श्रेष्ठान् पञ्चाचलानिव । युधिष्ठिरात् प्रतिविन्ध्यं
सुतसोमं वृकोदरात् । अर्जुनाच्छ्रुतकर्माणं शतानीकञ्च
नाकुलिम् । सहदेवाच्छ्रुतसेनमेतान् पञ्च महार-
थान् । पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ।
शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रा युधिष्ठिरम् । परप्रहरण
ज्ञाने प्रतिविन्ध्यो भवत्वयम् । सुते सोमसहस्रे तु
सोमार्कसमतेजसम् । सुतसोमं महेष्वासं मुषुवे
भीमसेनतः । श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना ।
जातः सुतस्तथेत्येवं श्रुतकर्मा ततोऽभवत् । शतानीकम्य
राजर्षेः कौरवस्य महात्मनः । चक्रे पुत्रं सनामानं
नकुलः कीर्तिवर्द्धनम् । ततस्त्वजीजनत् कृष्णा नक्षत्रे
वह्निदैवते । सहदेवात् सुतं तस्मात् श्रुतसेनेति यं
विदुः । एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः” भा०
आ० २२२ अ० ।

द्रौहिक त्रि० द्रोहं नित्यमर्हति छेदा० ठञ् । नित्यं द्रोहार्हे ।

द्रौह्य त्रि० द्रुह्यस्यापत्यं शिवा० श्वण् । द्रह्यस्यापत्ये

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/दैवदारव&oldid=57781" इत्यस्माद् प्रतिप्राप्तम्