सामग्री पर जाएँ

वाचस्पत्यम्/देवताप्रतिष्ठा

विकिस्रोतः तः
पृष्ठ ३७२१

देवताप्रतिष्ठा स्त्री ६ त० । देवताप्रतिमानां विधानेन तत्

सान्निध्यापादके अग्रे वक्ष्यमाणनिरुक्तियुक्ते संस्कार-
भेदे देवप्रतिष्ठादयोऽप्यत्र । तद्विधानादि देवप्रतिष्ठातत्त्वे
संक्षेपेणोक्तं यथा मत्स्यपु०
“सौवर्णी राजती वापि ताम्री रत्नमयी तथा ।
शैलदारुमयी वापि लौहशङ्खमयी तथा । रीतिकाधातु-
युक्ता च ताम्रकांस्यमयी तथा । शुभदारुमयी वापि
देवतार्च्चा प्रशस्यते । अङ्गुष्ठपर्व चारभ्य वितस्तिं यावदेव
तु । गृहेषु प्रतिमा कार्य्या नाधिका शस्यते बुधैः” ।
रीतिका पित्तलं शुभदारुमयी यज्ञियकाष्ठसम्भवा । अर्च्चा
प्रतिमा गृहेषु स्वगृहेषु । “प्रासादेष्वधिका शुभेति”
वचनात् तत्राधिकापि शैलजा गृहे शुभदा । तन्त्रान्तरेऽ-
प्युक्तम् “चिन्मयस्याद्वितीयस्य निष्फलस्याशरीरिणः ।
उपासकानां काय्यार्थं व्रह्मणोरूपकल्पना” । रूपक-
ल्पना रूपस्थानां देवतानां पुंस्त्र्यंशादिकल्पना ।
गौतमीयतन्त्रे “काश्मीरी ज्ञानदा प्रोक्ता स्वर्णजापि विमु-
क्तिदा । तेजोदा दारुजा चैव रैत्तिकी शत्रुनाशिनी ।
ताम्री धर्मविवृद्धिञ्च करोति बहुसौख्यदा । मुदे च मृण्-
मयी प्रोक्ता प्रतिमा शुभलक्षणा । भोगदा मोक्षदा
सा तु प्रतिमा कथिता तव” । वराहपुराणे “कुड्ये
लेख्ये च मे कश्चित् पटे कश्चिच्च मानवः । पूजयेद् यदि
वा चक्रे मम तेजोऽशसम्भवे” । कुड्ये लेख्ये भित्तौ
लिखिते तथा पटे च लिखिते । चक्रे शालग्रामचक्रे ।
मत्स्यपुराणे लिङ्गमभिधाय “एवं रत्नमयं कुर्य्यात् स्फा-
टिकं पार्थिवं तथा । शुभदारुमयं वापि यद्वा मनमि
रोचते । चैत्रे वा फालगुने वापि ज्यैष्ठे वा माधवे तथा ।
माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् । प्राप्य
पक्षं शुभं शुक्लमतीते चोत्तरायणे” । अतीते वृत्ते
“पञ्चमी च द्वितीया च तृतीया सप्तमी तथा । दशमी
पौर्णमासी च तथा श्रेष्ठा त्रयोदशी । तासु प्रतिष्ठा
विधिवत् कृता बहुफला भवेत्” । व्यवहारसमुच्चये
पृष्ठ ३७२२
“प्रतिष्ठा सर्वदेवानां केशवस्य विशेषतः । उत्तरायण-
मापन्ने शुक्लपक्षे शुभे दिने । कृष्णपक्षे च पञ्चम्याम्
अष्टम्याञ्चैव शस्यते” भुजवलभीमे “युगादावयने पुण्ये
कर्त्तव्या विषुवद्वये । चन्द्रसूर्यग्रहे वापि दिने पुण्येऽथ
पर्वसु । या तिथिर्यस्य देवस्य तस्यां वा तस्य कीर्तिता ।
गृह्यागमविशेषेण प्रतिष्ठा मुक्तिदायिनी” । पद्मपुराणे
“प्रतिपद्धनदस्योक्ता पवित्रारोहणे तिथिः । श्रियोदेव्या
द्वितीया च तिथीनामुत्तमा स्मृता । तृतीया तु
भवान्याश्च चतुर्थी तत्सुतस्य च । पञ्चमी नागराजस्य
षष्ठी प्रोक्ता गुहस्य च । सप्तमी भास्करे प्रोक्ता भैरव-
स्याष्टमी तथा । दुर्गाया नवमी प्रोक्ता दशमी वासुके-
स्तथा । एकादशी ऋषीणाञ्च द्वादशी चक्रपाणिनः ।
त्रयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्दशी । मम चैव
मुनिश्रेष्ठ! पौर्णमासी तिथिः स्मृता” । चक्रपाणिन
इति पण व्यवहारे इत्यस्माण्णिनिप्रत्ययः “महिषासु-
रहन्त्र्याश्च प्रतिष्ठा दक्षिणायने” । कल्पतरो देवी-
पुराणम् “यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोपणे ।
गर्त्तापूरशिलान्यासे शुभदस्तस्य पूजितः” । यस्य देवस्य
प्रतिष्ठा ध्वजारोपणे यः कालः शुभदस्तस्य गर्त्तापूरशिला-
न्यासे गृहारम्भे स कालः पूजित इत्यर्थः । प्रतिष्ठासमु-
च्चये “माघेऽथ फाल्गुने वापि चैत्रवैशाखयोरपि । ज्यैष्टा-
षाढकयोर्वापि प्रतिष्ठा शुभदा भवेत्” । भविष्ये “सोमो-
वृहस्पतिश्चैव शुक्रश्चैव तथा बुधः । एते सौम्यग्रहाः
प्रोक्ताः प्रतिष्ठा यज्ञकर्मणि” । एतद्वारेषु प्रतिष्ठा कर्तव्या
इत्यर्थः । मत्स्यपुराणम् “आषाढे द्वे तथा मूलमुत्त-
रात्रयमेव च । ज्येष्ठा श्रवणरोहिण्यः पूर्वभाद्रपद-
स्तथा । हस्ताश्विनी रेवती च पुष्योमृगशिरस्तथा ।
अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते” । दीपिका-
याम् “प्राजेशवासवकरादितिभाश्विनीषु पौष्णामरेज्यशशि-
भेषु तथोत्तरासु । कर्त्तुः शुभे शशिनि केन्द्रगते च जीवे
कार्य्या हरेः शुभतिथौ विधिवत् प्रतिष्ठा” । देवीपु-
राणम् “तथा द्वादशगे जीवे अष्टमे वाथ भास्करे ।
प्रतिष्ठा कारिता विष्णोर्महाभयकरी मता” । कल्पतरौ
देवीपुराणम् “चतुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः सुखा-
र्थिभिः” । कालिकापुराणम् “प्रतिमायाः कपोलौ
द्वौ स्पृष्ट्वा दक्षिणपाणिना । प्राणप्रतिष्ठां कुर्वीत तस्या
देवस्य वा हरेः । अकृतायां प्रतिष्ठायां प्राणानां प्रति-
मासु च । यथापूर्बं तथामावः स्वर्णादीनां न वि-
ष्णुता । अन्येषामपि देवानां प्रतिमासु च प्रार्थिव! ।
प्राणप्रतिष्ठा कर्तव्या तस्यां देवत्वसिद्धये” । प्रतिष्ठा ब्रा-
ह्मणद्वारैव कर्तव्या । यथा हयशीर्षपञ्चरात्रे भगवद्वाक्यं
“कर्त्तुमिच्छति यः पुण्यां मम मूर्तिं प्रतिष्ठया । अन्वे-
षणीयस्त्वाचार्यस्तेन लक्षणसंयुतः । ब्राह्मणः सर्व-
वर्णानां पञ्चरात्रविशारदः । ब्राह्मणानामभावे तु
क्षत्रियोवैश्यशूद्रयोः । क्षत्रियाणामभावे तु वैश्यः शूद्रस्य
कल्पितः । कदाचिदपि शूद्रस्तु न चाचार्यत्वमर्हति” ।
वृहन्नारदीये “नमेद् यः शूद्रसंस्पृष्टं लिङ्गं वा
हरिमेव वा । स सर्वयातनाभोगी यावदाहूतसंप्लवम्” ।
आहूतसंप्लवं प्रलयपर्यन्तम् । तथा “स्त्रीणामनुपनीतानां
शूद्राणाञ्च जनेश्वर! । स्पर्शने नाधिकारोऽस्ति विष्णौ वा
शङ्करेऽपि वा” । कर्मादौ तु नवग्रहपूजामाह सत्स्य-
पुराणम् “नवग्रहमखं कृत्वा ततः कर्म समारभेत् ।
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित्” ।
प्रतिष्ठाप्रकारस्तु विस्तरेण मत्स्यपुराणादावुक्तः । तदसम्भवे
विद्याकरवाजपेयिसम्मतोभविष्यादावुक्तो ग्राह्यः यथा
भविष्यपुराणम् “स्नपनादि यथाशक्ति कृत्वा तन्मूल-
मन्त्रकम् । विन्यसेद्धृदयाम्भोजे प्रतिष्ठा सुकृता भवेत्” ।
आदिपदात् पूजोत्सवहोमादि महाकपिलपञ्चरा-
त्रोक्तकर्म च कर्तव्यं तद्यथा “सपुष्पं सकुशं पाणिं
न्यसेद्देवस्य मस्तके । पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्त-
रम् । ततो मूलेन मूर्द्धादिपीठान्तं संस्पृशेदिति । तत्त्व-
न्यासं लिपिन्यासं मन्त्रन्यासञ्च विन्यसेत् । पूजाञ्च महतीं
कुर्य्यात् स्वतन्त्रोक्तां यथाविधि । प्राणप्रतिष्ठामन्त्रेण
प्राणस्थापनमाचरेत्” । लिपिन्यासः मातृकान्यासः ।
उक्तञ्च “जपादौ सर्वमन्त्राणां विन्यासेन लिपिं विना ।
कृतं तन्निष्फलं विद्यात् तस्मात् पूर्बं लिपिं न्यसेत्” ।
कादिमतेऽपि “मातृकायाः षडङ्गञ्च मातृकान्यासमेव
च । सर्वासां प्रथमं कृत्वा पश्चात्तन्त्रोदितं न्यसेत्” ।
एतद्वचनाच्च पूर्वं मातृकान्यासः पश्चात्तत्त्वन्यासः । क्रम-
दीपिकायामप्येवं क्रमः । मन्त्रन्यासश्च तत्तन्मन्त्रविशेषोक्त
पदवर्णन्यासः । तदभावे शिरसि मूलमन्त्रेण तत्त्व-
न्यासः । तत्त्वन्यासस्तु विष्णुविषयक एव न्यासप्रमा-
णानि शारदाक्रमदीपिकोक्तान्यनुसन्धेयानि । प्राणप्रति-
ष्ठामन्त्रस्तु शारदात्रयोविंशतिपटलोक्तः यथा “पाशाङ्कु-
शपुटा शक्तिर्वायुर्विन्दुविभूषितः । याद्याः सप्त
सकारान्ता व्योम सत्येन्दुसयुतम् । तदन्ते हंसमन्त्रः स्यात्त
पृष्ठ ३७२३
तोऽमुष्य पदं वदेत् । प्राणा इति वदेत् पश्चादिह प्राणा-
स्ततःपरम् । अमुष्य जीव इह च स्थितोऽमुष्यपदं
वदेत् । सर्वोन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः । श्रो-
त्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् । तिष्ठन्त्वग्नि-
वधूरन्ते प्राणमन्त्रोऽयमीरितः । प्रत्यमुष्यपदात् पूर्वं
पाशाद्यानि नियोजयेत् । प्रयोगेषु समाख्यातः प्राण-
मन्त्रो मनीषिभिः” । पाशाङ्कुशपुटा शक्तिरित्यनेन प्रथमं
पाशवीजं आं, ततः शक्तिवीजं ह्रीं, ततोऽङ्कुशवीजं क्र्ॐ,
वायुर्यकारः विन्दुविभूषितः तेन यं, याद्याः सप्त
सकारान्ता उद्धृतयकारानुवादेन सप्त न तु तद्भिन्नं वीजं,
पूर्वं पृथगुद्धारस्तु वर्णसप्तानामपि सविन्दु ताख्यापनाय ।
अन्यत्रापि “अङ्कुशवाय्वनलावनीवरुणवीजान्युक्तानि अत्र
वायुवीजस्यैकत्वं वीजत्वेन सर्वेषां सविन्दुत्वं व्यक्तं
राघवभट्टोऽप्येवम् । अन्यस्तु वाणीविन्दुविभूषिताः इत्युक्त्वा
नादविन्दुविभूषिता इति व्याख्याय याद्या इत्यस्य विशे-
षणं वदति । व्योम हकारः सत्यओकारः इन्दुर्विन्दुः तेन
होम् अतएव “पाशाङ्कुशान्तरितशक्तिमनोः पुरस्तादुच्चार्य
यादिमुनिवर्णगुणं सहंसमिति” प्रपञ्चसारोऽप्याह ।
गुणमित्यनेन होमिति पद्मपादाचार्य्यैर्व्याख्यातम् आग्न-
वधूः स्वाहा । तेनायं मन्त्रः आं ह्रीं क्रों यं रं लं वं शं
षं सं हों हंसः अमुष्य प्राणा इह प्राणाः । आमित्यादि
अमुष्य जीव इह स्थितः । आमित्यादि अमुष्य सर्वे-
न्द्राणि । आमित्यादि अमुष्य वाङ्मनश्चक्षुःश्रोत्रघ्राण-
प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा । अमुष्येति
षष्ठ्यन्तदेवतानामोपलक्षणम् “अदः पदं हि यद्रूपं यत्र
मन्त्रे हि दृश्यते । साध्याभिधानं तद्रूपं तत्र स्थाने
नियोजयेत्” इति नारदीयात् । वशिष्ठसंहितायाम्
“हृदि हस्तं समादाय मूलमन्त्रञ्च संजपेत्” । मूलमन्त्रं
तत्तद्देवतामन्त्रं स च वैदिकः तान्त्रिकश्च “ओङ्कारादि-
चतुर्थ्यन्तं नमस्कारान्तमीरितम् । स्वनाम सर्वसत्वानां
मन्त्र इत्यभिधीयते” इति ब्रह्मपुराणीयेन ओङ्कारा-
दिचतुर्य्यन्ततत्तद्देवतानामरूपो वा । कालिकापुराणेऽपि
“प्रतिमायाः कपीलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना । प्राण-
प्रतिष्ठां कुर्वीत तस्या देवस्य वा हरेः । वासुदेवस्य वीजेन
तद्विष्णोरित्यनेन(१)च । तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठा-
माचरेद्धरेः । तथैव हृदयेऽङ्गुष्ठं दत्त्वा शश्वच्च मन्त्रवित् ।
एभिर्मन्त्रैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत् । अस्मै प्राणाः
प्रतिष्ठन्तु अस्मै प्राणाः क्षरन्तु च । अस्मै देवत्वसंख्यायै
स्वाहेति यजुरीरयन् । अङ्गमन्त्रैरङ्गिमन्त्रैर्वेदिकैरित्यनेन
च । प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत्” । देवी-
प्रतिष्ठायाम् अस्मा इत्यत्र अस्यै देवत्वसंख्यायै इत्यूहः
सारस्वत्यां मेष्यां प्रास्मा इत्यत्र प्रास्यै इत्यूहवत् । अङ्गम-
न्त्रैरङ्गन्यासमन्त्रैः अङ्गिमन्त्रैः प्रधानमन्त्रैः वैदिकैः ॐ
मनोजूतिर्जुषतामित्यादि(२)मन्त्रैः । (यजु० २ । १३) । स्नप-
नात् पूर्वं वल्मीकमृत्तिकादिभिस्त्रिभिः क्षालनमाह
हयशीर्षपञ्चरात्रम् “वल्मीकमृत्तिकाभिस्तु गोमयेन सुभस्मना ।
क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये । स्नापयेद्गन्ध-
तोयेन शुद्धवत्या तु देशिकः । नमस्तेऽर्च्चे सुरेशानि!
प्रणीते विश्वकर्मणा । प्रभाविताशेषजगद्धात्रि! तुभ्यं
नमोनमः । त्वयि संपूजयामीशे! नारायणमनामयम् ।
रहिता शिल्पिदोषैस्तु शुद्धियुक्ता सदा भव” । तेन च
यथाशक्ति स्नपनादीतिकर्तव्यताकः प्रतिमाहृदये तन्मू-
लमन्त्रविन्यासोदेवताविशेषसन्निधिः प्रतिष्ठेति । राघव-
भट्टधृतमहाकपिलपञ्चरात्रेऽपि “प्रतिष्ठाशब्दसंसिद्धिः
प्रतिपूर्वाच्च तिष्ठतेः । बह्वर्थत्वान्निपातानां संस्कारादौ
प्रतेः स्थितिः । अर्थस्तदयमेतस्य गीयते शाब्दिकैर्जनैः ।
विशेषसन्निधेर्या तु क्रियते व्यापकस्य तु । तन्मूर्त्तौ
भावना मन्त्रैः प्रतिष्ठा सा विधीयते” । सुभस्मना गोमय-
भस्मना गन्धतोयेन चन्दनादियुक्ततोयेन । देवतास्नानीय-
द्रव्यपरिमाणमाह ब्रह्मपुराणम् “अष्टोत्तरं पलशतं
स्नाने देयञ्च सर्वदा” । पलमाह मनुः “पञ्च कृष्णल-
कोमाषस्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः” इति ।
ततश्चाष्टरत्तिकाधिकलौकिकमाषद्वयाधिकतोलकत्रयेण ।
३ । २ । ८ । वैधपलं भवति एवं तथाविधाष्टोत्तरशतपल-
परिमितेन लौकिकषष्ट्यधिकशतत्रयतोलकाः ३६० इति ।
एवं बल्मीकमृत्तिकादिक्षालने सर्वाङ्गीणजलस्पर्शनस्ना-
नरूपत्वात्तत्रापि अष्टोत्तरं शतपलमिति वदन्ति । बल्मी-
कमृदादिस्नाने मन्त्रविशेषानुपादानात् “मन्त्रानादेशे
गायत्रीति” शूलपाणिलिखितात् गायत्र्या तत्तन्मूलम-
न्त्रेण वा स्नानं कारयितव्यम् । गन्धोदकस्नाने तु शुद्ध-
वत्या (३) एतोन्विन्द्रमित्यादि ऋक्त्रयात्मिकया । देशिको
यजमानोगुरुर्वा विज्ञः । नमस्ते इत्यादि विज्ञापनमन्त्रे
देवतान्तरे च नारायणमित्यत्र तत्तद्देवतानामोहः ।
शिवलिङ्गस्यार्च्यत्वात् अर्चाविशेषणत्वात् स्त्रीलिङ्गमवि-
रुद्धम् । यमः “कृत्वा देवगृहं सर्वं प्रतिष्ठाप्य च
देवताम् । विधाय विधिवत् पूजां तल्लोकं विन्दते ध्रु-
पृष्ठ ३७२४
वम्” । नारमिंहे “प्रतिमां लक्षणोपेतां नरसिंहस्य
कारयेत् । सर्वपापानि संत्यज्य स तु विष्णुपुरं व्रजेत् ।
प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि । निष्कामो
नरशार्दूल! देहबन्धात् प्रमुच्यते । सकामो नरसिंहस्य
पुरं प्राप्य प्रमोदते । विधिवत् स्नापयेद् यस्तु
कारयित्वा जनार्दनम् । न जातु निर्गमस्तस्य विष्णुलोकात्
कथञ्च न” । नरसिंहस्य विष्णोः उपसंहारे तथा
दर्शनात् । माधवोल्लासे “देवस्य प्रतिमायास्तु यावन्तः
परमाणवः । तावद्वर्षसहस्राणि विष्णुलोके महीयते ।
राजमार्त्तण्डे “पुत्त्रोत्पत्तौ तथा श्राद्धमन्नप्राशनिके
तथा । चूड़ाकार्ये व्रते चैव नाम्नि पुंसवनेषु च ।
पाणिग्रहे प्रतिष्ठायां प्रवेशे नववेश्मनः । एतद्वृद्धिकरं
नाम गृहस्थस्य विधीयते” । वृद्धिकरं श्राद्धमित्यन्वयः ।
सूत उवाच “कलौ चैकाहसाध्येन प्रतिष्ठां मन्दवित्त-
वान् । मध्यमेनाधमेनापि प्रकुर्य्यात्तान्त्रिकोत्तमः । नित्यं
निर्वर्त्य मतिमान् कुर्य्यादभ्युदयन्ततः । विप्रान् संभो-
जयेच्चाथ ततो यागगृहं व्रजेत् । गणेशग्रहदिक्पालान्
प्रतिकुम्भेषु पूजयेत् । स्थण्डिले पूजयेद्विष्णु
परिवारगणं यजेत् । स्नापयेत् प्रथमं देवं तोयैः पञ्चविधै-
रपि । पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्पिण्डकैरपि ।
तिलतैलैस्तथा स्नेहैः कषायैरपि सत्तमः” । तथा
“जम्बुशाल्मलिवाट्यालं वदरं बकुलं तथा । एतेषां
वल्कलरसः कषायः परिकीर्तितः । पञ्चपुष्पोदकैर्वाथ
त्रिपत्रैरपि सत्तमः । तुलसीकुन्दमालूरपत्राण्याहुस्त्रि-
पत्रकम् । चम्पकाम्रशमीपद्मकरवीरञ्च पञ्चकम् ।
मृत्तिका करिदन्तस्य पर्वताश्वखुरस्य च । कुशबलमीकसम्भूतं
मृत्पञ्चकमितोरितम् । गोमूत्रं गोमयं क्षीरं दधिसर्पिः
कुशोदकम् । कुर्य्यात् प्राणप्रतिष्ठाञ्च होमं कुर्याद्
यथाविधि । दक्षिणां विधिवत् कुर्यात् पूर्णार्घ्यं तदनन्त-
रम्” । इति भविष्यपुराणे तृतीयभागे नवमोऽध्यायः ।
नरसिंहपुराणे “पञ्चगव्येन देवेशं यः स्नापयति भक्तितः ।
ब्रह्मकूर्चविधानेन विष्णुलोके महीयते” । ब्रह्मकूर्चविधा-
नेन कुशोदकयुक्तेन पञ्चगव्येन । स्नानीयानुलेपने
तदुद्वर्तने फलमाह तत्रैव “यवगोधूमजैश्चूर्णैरुद्वर्त्त्योष्णेन
वारिणा । प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात्” ।
स्मृतिः “चतुरङ्गुलविस्तारा दीर्घा हस्तद्वयावधि । पताका
लोकपालानां दशानां परिकीर्तितः” । पञ्चहस्तश्च वै
दण्डः पताकानां प्रकीर्तितः । ज्योतिषे “दुग्धं स-
शर्करञ्चैव धृतं दधि तथा मधु । पञ्चामृतमिदं प्रोक्तं
विधेयं सर्वकर्मसु” । प्रतिष्ठानन्तरं मात्स्ये “ततः सहस्रं
विप्राणामथ वाष्टशतं तथा । भोजयेच्च यथाशक्त्या पञ्चा-
शद्वाथ विंशतिम्” । षोडशोपचाराः “आसनं स्वागतं
पाद्यमर्घ्यमाचमनीयकम् । मधुपर्काचमस्नानवसनाभ-
रणानि च । गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा” ।
दशोपचारास्तु “पाद्यार्घ्यमाचमनीयं मधुपर्काचमने
अपि । गन्धादिपञ्चकञ्चेति उपचारा दशोदिताः” ।
पञ्चोपचारास्तु “गन्धादयोनैवेद्यान्ताः पूजा पञ्चोपचा-
रिका” । उपचारद्रव्याणि शारदायाम् “पाद्यं श्या-
माकदुर्वाब्जविष्णुक्रान्ताभिरीरितम्” । विष्णुक्रान्ता
अपराजिता एतद्द्रव्ययुक्तं जलमिति शेषः । “गन्धपुष्पा-
क्षतयवकुशाग्रफलसर्षपैः । सदूर्वैः सर्वदेवानामेतदर्घ्य-
मुदीरितम्” । एतद्युक्तं जलमित्यर्थः । “जातीलवङ्ग-
कक्कोलैर्जलमाचमनीयकम् । आज्यं दधि मधून्मिश्रं
मधुपर्कं निवेदयेत्” । कात्यायनः “मधुपर्कं दधिघृत-
मधु पिहितं कांस्ये कांस्येन” । मधुपर्केति स्थाने स्नानी-
येति पाठः पूर्वोक्तद्रव्ययुक्तं जलमात्रं वा “गन्धश्च-
न्दनकर्पूरकालागुरुभिरीरितः” । राघषभट्टधृतम्
“शङ्खपात्रस्थितं गन्धं मन्त्रैः कुर्यात् कनिष्ठया ।
कनिष्ठाङ्गुष्ठसंयुक्ता गन्धमुद्रा प्रकीर्तिता” । पुष्पाणि तत्तद्देव-
देयानि “अगुरूशीरगुग्गुलुमधुपर्ककुचन्दनैः ।
धूपवेदाज्यसंमिश्रैश्चूर्णैर्देवस्य देशिकः । तत्र तत्र जलं
दद्यात् उपचारान्तरान्तरे” । राघवभट्टधृतम् “सर्वोप-
चारवस्तूनामभावे भावनैव हि । निर्मलेनोदकेनाथ
पूर्णतेत्याह नारदः” । नारसिंहे “पञ्चगव्येन देवेशं यः
स्नापयति भक्तितः । ब्रह्मकूर्चविधानेन विष्णुलोके
महीयते” । ब्रह्मकूर्चविधानेन कुशोदकयुक्तेन पञ्चगव्येन ।
ब्रह्मपुराणे “देवानां प्रतिमा यत्र घृताभ्यक्तक्षमा भवेत् ।
पलानि तस्यै देयानि श्रद्धया पञ्चविंशतिम् । अष्टोत्तर-
शतं स्नाने पलं देयञ्च सर्वदा । यवगोधूमजैश्चूर्णैरुद्वर्त्त्यो-
ष्णेन वारिणा । प्रक्षाल्य देवदेवेशं वारुणं लोकमा-
प्नुयात् । पादपीठन्तु यो दद्यात् विल्वपत्रैर्निघषयत् ।
उष्णाम्बुना च प्रक्षाल्य सर्वपापैः प्रमुच्यते” देवीपुराणम्
“होमोग्रहादिपूजायां शतमष्टोत्तरं भवेत् । अष्टा-
विंशतिरष्टौ वा यथाशक्ति विधीयते” । कात्यायनः
“आज्यद्रव्यमनादेशे जुहोतिषु विधीयते” । कालिका-
पुराणम् “यद्दीयते च देवेभ्यो गन्धपुष्पादिक” तथा ।
पृष्ठ ३७२५
अर्घ्यपात्रस्थितैस्तोयैरभिषिच्य तदुत्सृजेत्” । नरसिंह-
पुराणम् “स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ।
अत्र नीराजनविधिः पूजारत्नाकरे देवीपुराणे “भक्त्या
पिष्टप्रदीपाद्यैश्चूताश्वत्थादिपल्लवैः । ओषधीभिश्च
मेध्याभिः सर्ववीजैर्यवादिभिः । नवम्यां पर्वकालेषु यात्रा-
काले विशेषतः । यः कुर्य्याच्छ्रद्धया वीर! देव्या नीरा-
जनं नरः । शङ्खभेर्यादिनिनदैर्जयशब्दैश्च पुष्कलैः ।
यावतोदिवसान् वीर! देव्यानीराजनं कृतम् । तावद्वर्ष-
सहस्राणि स्वर्गलोके महीयते । यस्तु कुर्य्यात् प्रदी-
पेन सूर्यलोकं स गच्छति” । पर्वकाले उत्सवकाले ।
देव्या इति स्त्रीत्वमविवक्षितम् । अथ प्रतिष्ठितमूर्त्तौ
कदाचित् पूजाऽभावे महाकपिलपञ्चरात्रम् “एकाहं
पूजाविहतौ कुर्य्याद्द्विगुणमर्चनम् । त्रिरात्रे तु
महापूजा संप्रोक्षणमतःपरम् । मासादूर्द्ध्वमनेकाहं
पूजनं चेद्विहन्यते । प्रतिष्ठैवोच्यते कैश्चित् कैश्चित् संप्रो-
क्षणक्रमः” । संप्रोक्षणक्रमः “संप्रोक्षणन्तु देवस्य देवस्य
त्वेति(४)पूर्ववत् । गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य
च । प्रोक्षयेत् प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ।
सपुष्पं सकुशं पाणिं न्यसेद्देवस्य मस्तके । पञ्चवारं जपेन्मू-
लमष्टोत्तरशतं तथा । ततो मूलेन मूर्द्धादि पीठान्तं चैव
संस्पृशेत्” । इति “तत्त्वन्यासं लिपिन्यासं मन्त्रन्या-
सञ्च विन्यसेत् । प्राणप्रतिष्ठामन्त्रेण प्राणस्थापनमा-
चरेत् । पूजाञ्च महतीं कुर्य्यात् स्वतन्त्रोक्तां
यथाविधि । यागहीनादिषु प्रायः संक्षेपेण विधिः स्मृतः” ।
अथास्पृश्यस्पर्शने तु बौधायनः “द्रव्यवत् कृतशौचानां
देवार्चानां भूयः प्रतिष्ठापनमिति” । देवार्चा देवता-
प्रतिमा । तासामस्पृश्यस्पृष्टानां प्रकृतिद्रव्यस्य ताम्रा-
देर्यथेष्टं शौचं कृत्वा पुनः प्रतिष्ठापनात् पूज्यत्वमि-
त्यर्थः इति । रत्नाकरे आदिपुराणे “खण्डिते
स्फुटिते दग्धे भ्रष्टे स्थानविवर्जिते । यामहीने
पशुस्पृष्टे पतिते दुष्टभूमिषु । अन्यमन्त्रार्चिते चैव पतित
स्पर्शदूषिते । दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः ।
इति सर्वगतो विष्णुः परिभाषाञ्चकार ह” । अत्र
वृद्धिश्राद्धहोमौ त्वावश्यकौ यथाशक्तीत्यभिधानात्
इति कश्चित् । तथा चाल्पधनानां यज्ञं विनाऽपि
पूजनमाह विष्णुधर्मोत्तरे प्रथमकाण्डम् “पूजाकर्म
बहिर्वेद्यां श्रद्धया भृगुनन्दन! । न त्वल्पदक्षिणैर्यज्ञैर्य-
जेतेह कदाचन । विष्णुदेवनिकायस्थं यथाश्रद्धमरि-
न्दम! । तपसा पूजयेन्नित्यं यस्मादल्पधनो नरः” । यद्यो-
काहे वास्तुयागगृहोत्सर्गौ तदा तन्त्रेण वृद्धिश्राद्धं
कुर्यात् तथा एकस्मिन्नग्नौ होमत्रयं विधेयं
एकाग्नावनेकहोमकरणे एकं परिसमूहनादिकमाह
गोभिलः । “गणेष्वेकं परिसमूहनमिध्मवर्हिः पर्य्युक्षण-
माज्यभागाविति” । पूजादिकं प्रत्येकमेव” ।
तत्र प्रतीकसूचितामन्त्राः क्रमेण यथा
  • (१) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव
चक्षुराततम्” ऋ० १ । १२६
  • (२) “मनो जूतिर्जुषतामज्यस्य वृहस्पतिर्यज्ञमिमम् तनोत्व-
रिष्टं यज्ञं समिमं दधातु विश्वे देवास इहमादय-
न्ताम्ॐ प्रतिष्ठ” यजु० २ । १२
  • (३) अत्र शुद्धवत्या शुद्धपदवत्या ताश्च तिस्र ऋचः ऋ० ८ । ९७
सूक्तास्थिता यथा
“एतोन्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । शुद्धैरुक्थैर्वा-
वृध्यासं शुद्ध आशीर्वान् ममत्तु । ७ । इन्द्र! शुद्धो न
आगहि शुद्धः शुद्धाभिरूतिभिः । शुद्धोरयिं निधारय
शुद्धो ममद्धि सोम्यः । ८ । इन्द्र! शुद्धो हि नो रथिं
शुद्धो रत्नानि दाशुषे । शुद्धो वृत्राणि जिघ्रसे शुद्धो
वाजं सिषाससि । ९ ।
  • (४) “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्वाहुभ्यां पुष्णोहस्ताभ्यां
प्रतिगृह्णामि” यजु० १ । ६
विस्तरस्तु अग्निपु० ५६ अ० आदौ उक्तो यथा
“प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः । प्रकृतिः
पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः । इच्छा-
फलार्थिभिस्तस्मात् प्रतिष्ठा क्रियते नरैः । गर्भसूत्रं तु
निःसार्य प्रासादस्याग्रतो गुरुः । अष्टषोड़शविंशान्तं
मण्डपञ्चाधमादिकम् । स्नानार्थं कलसार्थञ्च
यागद्रव्यार्थमर्द्धतः । त्रिभागेणार्द्धभागेन वेदिं कुर्य्यात्तु
शोभनाम् । कलसैर्घण्टिकाभिश्च वितानाद्यैश्च भूषयेत् ।
पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् । अलङ्कृतो
गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् । अङ्गुलीयप्रभृतिभि
र्मूर्त्तिपान् वलयादिभिः । कुण्डे कुण्डे स्थापयेच्च
मूर्त्तिपांस्तत्र पारगान्” (मूर्तिपान् मूर्तिनिर्मातृशि-
ल्पिनः) । “चतुष्कोणे चार्द्धकोणे वर्तुले पद्मस-
न्निभे । पूर्वादौ तोरणार्थन्तु पिप्पलौदुम्बरौ वटम् ।
प्लक्षं सुशोभनं पूर्वं सुभद्रं दक्षतोरणम् । सुकर्म च
सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम् । पञ्चहस्तं तु
पृष्ठ ३७२६
संस्थाप्य स्योनापृथिवि (१) पूजयेत् । तोरणस्तम्भमूले तु
कलसान्मङ्गलाङ्कुरान् । प्रदद्यादुपरिष्टाच्च कुर्य्याच्चक्रं
सुदर्शनम् । पञ्चहस्तप्रमाणन्तु ध्वजं कुर्य्याद्विचक्षणः ।
वैपुल्यं चास्य कुर्वीत पोडशाङ्गुलसम्मितम् । सप्तहस्तो-
च्छ्रितं चास्य कुर्य्यात् दण्डं समाहितः । अरुणोऽग्नि-
निभश्चैव कृष्णः शुक्लोऽथ पीतकः । रक्तवर्णस्तथा श्वेतः
कृष्णवर्णः क्रमाद ध्वजाः । कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ
वामनः । शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।
पूज्याः कोटिगुणैर्युक्ताः पूर्वाद्या ध्वजदेवताः ।
जलाढकसुपूरास्तु पक्वविम्बोपमा घटाः । अष्टाविंशाधिकशतं
कालमण्डलवर्जिताः । सहिरण्या वस्त्रकण्ठाः सोदका-
स्तोरणाद्वहिः । घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च
कोणगान् । चतुरः स्थापयेत् कुम्भानाजिघ्रेति (२) च
मन्त्रतः । कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत्
क्रमात् । इन्द्रागच्छ देवराज! वज्रहस्त!
गजस्थित! । पूर्वद्वारञ्च मे रक्ष देवैः सह नमोऽस्तु ते १ ।
त्रातारमिन्द्रमन्त्रेण (३) अर्चयित्वा यजेद् बुधः ।
आगच्छाग्ने! शक्तियुत! छागस्थ! बलसंयुत! ।
रक्षाग्नेयीं दिशं देवैः पूजां गृह्ण नमोस्तु ते । अग्नि-
र्मूर्द्धेति (४) मन्त्रेण यजेद्वा अग्नये नमः २ । महिषस्थ!
यमागच्छ दण्डहस्त! महाबल! । रक्ष त्वं दक्षि-
णद्वारं वैवस्वत! नमोऽस्तु ते । वैवस्वतं सङ्गमनमित्य-
नेन (५) यजेद् यमम् ३ । नैरृतागच्छ खड्गाढ्य!
बलवाहनसंयुत! । इदमर्घ्यमिदं पाद्यं रक्षत्वं नैरृतीं
दिशम् । एष ते इति (६) मन्त्रेण यजेदर्घ्यादि-
भिर्न्नरः ४ । मकरारूढ! वरुण! पाशहस्त!
महाबल! । आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोऽस्तु ते ।
उरुं हि राजा (७) वरुणं यजेदर्घ्यादिभिर्गुरुः ५ ।
आगच्छ वायो! सबल! ध्वजहस्त! सवाहन! ।
वायव्यं रक्ष देवैस्त्वं समरुद्भिर्न्नमोऽस्तु ते । वात (८)
इत्यादिभिश्चार्चेदोन्नमो वायवेऽपि वा ६ । आगच्छ
सोम! सबल! गदाहस्त! सवाहन! । रक्ष त्वमु-
त्तरद्वारं सकुवेर! नमोऽस्तु ते । सोमं राजान-
मिति (९) वा यजेत्सोमाय वै नमः ७ । आगच्छे-
शान! सबल! शूलहस्त! वृषस्थित! । यज्ञमण्ड-
पस्यैशीं दिशं रक्ष नमोऽस्तु ते । ईशानादस्येति (१०)
यजेदीशानाय नमोऽपि वा ८ । ब्रह्मन्नागच्छ हंसस्थ!
स्रुक्स्रुवव्यग्रहस्तक! । सलोकोर्द्ध्वां दिशं रक्ष यज्ञ-
स्याज नमोऽस्तु ते । हिरण्यगर्भेति (११) यजेन्नमस्ते
ब्रह्मणेऽपि वा ९ । अनन्तागच्छ चक्राढ्य! कूर्मस्था-
हिगणेश्वर! । अधोदिशं रक्ष रक्ष अनन्तेश!
नमोऽस्तु ते । नमोऽस्तु सर्पेति (११) यजेदनन्ताय नमोऽपि
वा” १० ५६ अ० ।
(अत्राध्याये प्रतीकसूचिता मन्त्राः क्रमेण दर्श्यन्ते यथा
  • (१) “स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छानः
शर्म सप्रथाः” यजु० ३५ । २१ । ऋग्वेदे तु पृथिवी इति पाठः
  • (२) “आजिघ्र कलसं मह्या त्वा विशन्त्विन्दवः । पुनरूर्ज्रा
निवर्तस्व सहस्रं धुक्षोरुधारा पयस्वती पुनर्मा विशता-
द्रयिः” यजु० ८ । ४२
  • (३) “त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं
शूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो
मथवा धात्विन्द्रः” यजु० २० । ५०
  • (४) “अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् । अर्पा
रेतांसि जिन्वति” यजु० ३ । १२
  • (५) “वैवस्वतं सङ्कमनं जनानां यमं राजानं हविषा
दुवस्य” ऋ० १० । १४ । १ अर्घर्चम् ।
  • (६) “एष ते निरृते! भागस्त्वं जुषस्व स्वाहा” यजु० ९ । ३५
  • (७) “उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेत
वा उ । अपदे पादा प्रतिधातवेऽकरुतोपवक्ता हृदया-
विधश्चित्” ऋ० १ । २४ । ८
  • (८) “वात आ वातु भेषजं शम्भु मयोभु नो हृदे । प्रण
आयूंषि तारिषत्” ऋ० १० । १८६ । १
  • (९) “सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । आदित्यान्
विष्णुं सूर्यं ब्रह्माणञ्च वृहस्पतिम्” ऋ० १० । १४१ । ३ ।
  • (१०) “ईशानादस्य भुवनस्य भूरेर्न वा उ । यो यद्रुद्रादसूर्यम्”
ऋ० २ । ३३ । ९ अर्द्धर्चम्
  • (११) “हिरण्यगर्भः समवर्तताग्रेभूतस्य जातः पतिरेक
आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय
हबिषे विधेम” ऋ० १० । १२१ । १
  • (१२) “नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये
अन्तरिक्षे ये च दिवि तेभ्यः सर्पेभ्यो नमः” यजु० १३ । ६)
“भूमेः परिग्रहं कुर्य्यात् क्षिपेद्व्रीहींश्च सर्षपान् ।
नारसिंहेन रक्षोघ्नन् प्रोक्षयेत् पञ्चगव्यतः । भूमिं घटे
तु संपूज्य सरत्ने साङ्गकं हरिम् । अस्त्रमन्त्रेण
कवचं तत्र चाष्टशतं यजेत् । अच्छिन्नधारया सिञ्चन्
व्रीहीन् संस्कृत्य धारयेत् । प्रदक्षिणं परिभ्राम्य कलसं
पृष्ठ ३७२७
विकिरोपरि । सवस्त्रे कलसे भूयः पूजयेदच्युतं श्रियम् ।
योगे योगेति मन्त्रेण (१) न्यसेच्छय्यान्तु मण्डले ।
कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च । विद्या-
धिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमम् । वामनं
दिक्षु वाय्वादौ श्रीधरञ्च हृषीकपम् । पद्मनाभं दामो-
दरमैशान्यां स्नानमण्डपे । अभ्यर्च्य पश्चादैशान्यां चतु
ष्कुम्भे सवेदिके । स्नानमण्डपके सर्वद्रव्याण्यानीय
निक्षिपेत् । स्नानकुम्भेषु कुम्भांस्तांश्चतुर्दिक्ष्वधिवासयेत् ।
कलसाः स्थापनीयास्तु अभिषेकार्थमादरात् । वटोदुम्ब-
रकाश्वत्थांश्चम्पकाशोकश्रीद्रुमान् । पलाशार्जुनप्लक्षांस्तु
कदम्बबकुलाम्रकान् । पल्लवांस्तु समानीय पूर्वकुम्भे
विनिःक्षिपेत् । पद्मकं रोचनां दूर्वां दर्भपिञ्जलमेव च ।
जातीपुष्पं कुन्दपुस्पञ्चन्दनं रक्तचन्दनम् । सिद्धार्थं
तगरञ्चैव तण्डुदक्षिणे न्यसेत् । सुवर्णं रजतञ्चैव
कूलद्वयमृदन्तथा । नद्याः समुद्रगामिन्या विशेषात्
जाह्नवीमृदम् । गोमयञ्च यवान् शालींस्तिलांश्चैवापरे
न्यसेत् । विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीम् ।
सहदेवीं महादेवीं बलां व्याघ्रीं सलक्ष्मणाम् ।
ऐशान्यामपरे कुम्भे माङ्गल्यान्विनिवेशयेत् । वल्मीकमृत्तिकां
सप्तस्थानोत्थामपरे न्यसेत् । जाह्नवीबाल्कातोयं विन्य-
सेदपरे घटे । वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकाम् ।
मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् । तीर्थपर्वतमृ-
द्भिश्च युक्तमप्यपरे न्यसेत् । नागकेशरपुष्पञ्च काश्मीरम-
परे न्यसेत् । वैदुर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव
च । एतान्येकत्र निःक्षिप्य स्थापयेद्देवसत्तमम् ।
नदीनदतडागानां सलिलैरपरं न्यसेत् । एकाशीतिपदे
चान्यान्मण्डपे कलसान् न्यसेत् । गन्धोदकाद्यैः सम्पूर्णान्
श्रीसूक्ते (२) नाभिमन्त्रयेत् । यवं सिद्धार्थकं गन्धं कुशाग्रं
चाक्षतं तथा । तिलान् फलं तथा पुष्पमर्ध्यार्थं पूर्वतो
न्यसेत् । पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस्तथा ।
पाद्यार्थं दक्षिणे भागे मधुपर्क्कं तु दक्षिणे । कक्कोलकं
लवङ्गं च तथा जातीफलं शुभम् । उत्तरे ह्याचमनाय
अग्नौ दूर्वाक्षतान्वितम् । पात्रं नीराजनार्थं च
तथोद्वर्त्तनमानिले । गन्धपुष्पान्वितं पात्रमैशान्यां पात्रके
न्यसेत् । मुरामांसीं चामलकं सहदेवीं निशाद्वयम् ।
षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च । शङ्खं चक्रञ्च
श्रीवत्सं कुलिशं पङ्कजादिकम् । हेमादिपात्रे कृत्वा
तु नानावर्णादिपुष्पकम्” ५७ अ०
  • (१) (“योगे योगे तवस्तरां वाजे वाजे हवामहे । सखाय
इन्द्रमूर्तये” ऋ० १ । ३० । ७)
  • (२) श्रीसूक्तं हिरण्यवर्णामित्यादि पञ्चदशर्च्चमृग्मेद
परिशिष्टोक्तं तुलादाना० १६५ पृष्ठादौ दृश्यम् ।
  • “ऐशान्यां जनयेत् कुण्डं गुरुर्वह्निञ्च वैष्णवम् ।
गायत्र्याष्टशतं हुत्वा सम्पातविधिना घटान् । प्रोक्ष-
येत् कारुशालायां शिल्पिभिर्मूर्तिपैर्व्रजेत् । तूर्यशब्दैः
कौतुकञ्च बन्धयेद्दक्षिणे करे । विष्णवे शिपिविष्टाय (१)
ऊर्णासूत्रेण सर्षपैः । पट्टवस्त्रेण कर्तव्यं देशिक-
स्यापि कौतुकम् । मण्डपे प्रतिमां स्थाप्य सवस्त्रां
पूजितां स्तुवन् । नमस्तेऽर्चे! सुरेशानि! प्रणीते!
विश्वकर्मणा । प्रभाविताशेषजगद्धात्रि! तुभ्यं नमो नमः ।
त्वयि सम्पूजयामीशे नारायणमनामयम् । रहिता
शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव । एवं विज्ञाप्य प्रतिमां
नयेत्तां स्नानमण्डपम् । शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे गां
प्रदापयेत् । चित्रं देवेति (२) मन्त्रेण नेत्रे चोन्मीलये-
त्ततः । अग्निर्ज्योतीति (३) दृष्टिञ्च दद्याद्वै भद्रपीठके ।
ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा । दूर्वां
कुशाग्रं देवस्य दद्याच्छिरसि देशिकः । मधुवातेति (४)
मन्त्रेण नेत्रे चाभ्यञ्जयेद् गुरुः । हिरण्यगर्भमन्त्रेण (५)
इमं मेति (६) च कीर्त्तयेत् । घृतेनाभ्वञ्जयेत् पश्चात् पठन्
घृतवतीं (७) पुनः । मसूरपिष्टेनोद्वर्त्य अतो देवेति (८)
कीर्त्तयन् । क्षालयेदुष्णतोयेन सप्त तेऽग्नेति (९) देशिकः ।
द्रुपदादि (१०) वेत्यनुलिम्पेदापो हि ष्ठेति (११) सेचयेत् ।
नदीजैस्तीर्थजैः स्नानं पावमानीति (१२) रत्नजैः । समुद्रं
गच्छ (१३) चन्दनैस्तीर्थमृत्कलसेन च । शन्नो देवीः (१४)
स्नापयेच्च गायत्र्याप्युष्णवारिणा । पञ्चमृद्भिर्हिरण्ये-
ति (१५) स्नापयेत्परमेश्वरम् । सिकताद्भिरिमं मेति (१६)
वल्मीकोदघटेन च । तद्विष्णीरित्यो (१७) षध्यद्भिर्या
ओषधीति (१८) मन्त्रतः । यज्ञायज्ञेति (१९) काषायैः
पञ्चभिर्गव्यकैस्ततः । पयः पृथिव्यां (२०) मन्त्रेण याः
फलिनी (२१) फलाम्बुभिः । विश्वतश्चक्षुः (२२) सौम्येन
पूर्वेण कलसेन च । सोमं राजानमित्येव (२३) विष्णो-
रराटं (२४) दक्षतः । हंसः शुचिः (२५) पश्चिमेन
कुर्यादुद्वर्तनं हरेः । मूर्द्धानन्दिवो (२६) मन्त्रेण धात्री
मांसीं च के ददेत् । मानस्तोकेति (२७) मन्त्रेण गन्ध
द्वारेति (२८) गन्धकैः । इदमापेति (२९) च घटैरेका-
शीतिपदस्थितैः । एह्येहि भगवन्! विष्णो! लोका-
पृष्ठ ३७२८
नुग्रहकारक! । यज्ञभागं गृहाणेमं वासुदेव!
नमोऽस्तुते । अनेनावाह्य देवेशं कुर्यात् कौतुकमोच-
नम् । मुञ्चामि त्वेति (३०) सूक्तेन देशिकस्यापि
मोचयेत् । पाद्यं हिरण्मयेनार्प्य (३१) मतो देवेति (३२)
चार्घ्यकम् । मधुवाता (३३) मधुपर्क्कं मयि गृह्णामि (३४)
चाचमेत् । अक्षन्नमीमदन्तेति (३५) किरेद्दूर्वाक्षतं बुधः ।
काण्डात् (३६) निर्मञ्छनं कुर्याद्गन्धं गन्धवतीति (३७) च ।
तत्त्वा यामीति (३८) माल्यञ्च इदं विष्णुः (३९) पवित्रकम् ।
वृहस्पते (४०) वस्त्रयुग्मं वेदाहमित्युत्तरीयकम् । (४१)
महाव्रतेन (४२) सकली पुष्पं चौषधयः (४३) क्षिपेत् । धूपं
दद्याद्धूरसीति (४४) बिभ्राट्सूक्तेन (४५) चाञ्जनम् ।
युञ्जन्तीति (४६) च तिलकं दीर्घायुष्टेति (४७) माल्यकम् ।
इन्द्रं विश्वेति (४८) छत्रन्तु आदर्शन्तु विराजतः । (४९)
चामरन्तु विकर्णेन भूषां रथन्तरेण (५०) च । व्यजनं
वायुदैवत्यैर्मुञ्चामि त्वेति (५१) पुष्पकम् । वेदाद्यैः
संस्तुतिं कुर्याद्धरेः पुरुषसूक्ततः । सर्वमेतत्समं कुर्यात्
पिण्डिकादौ हरादिके । देवस्योत्थानसमये सौपर्णं (५२)
सूक्तमुच्चरेत् । उत्तिष्ठेति (५३) समुत्थाप्य शय्याया मण्डपे
नयेत् । शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना । (५४)
अतो देवेति (५५) सूक्तेन प्रतिमां पिण्डिकां तथा ।
श्रीसूक्तेन च शय्यायां विष्णोस्तु सकलीकृतिः ।
मृगराजं वृषं नागं व्यजनं कलसं तथा । वैजयन्तीं
तथा भेरीं दोपमित्प्रष्टमङ्गलम् । दर्शयेदश्वसूक्तेन (५६)
पाददेशे त्रिपादिति (५७) । उखां पिधानकं पात्र-
मन्दिकां दर्विकां ददेत् । मुषलोलूखलं दद्याच्छिलां
सम्मार्जनीं तथा । तथा भोजनभाण्डानि गृहोपक-
रणानि च । शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटम् ।
खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः” ५८ अ०
(५८ अ० प्रतीकसूचितामन्त्राः यथा
  • (१) “विष्णवे शिपिविष्टाय स्वाहा” यजु० २० । २२
  • (२) “चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्ने
राप्राद्यावा पृथिवी चान्तरिक्षं सूर्य आत्मा जगतस्त-
स्थुषश्च” ऋ० १ । ११५ । १ ।
  • (३) “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा! सूर्योज्योति-
र्ज्योतिः सूर्यः स्वाहा! अग्निर्वर्च्चोज्योतिर्वर्च्चः स्वाहा!
सूर्योर्वर्च्चोज्योतिर्वर्च्चः स्वाहा! ज्योतिः सूर्यः सूर्य्यो
ज्योतिः स्वाहा” यजु० ३ । ९
  • (४) “मधुवाता ऋतायते मधु क्षरन्ति सिन्धबः । माध्वीर्नः
सन्त्वोषधीः” यजु० १३ । २७ अश्र एकैव ऋक् पाठ्या ।
  • (५) “हिरण्यगर्भः समवर्तताग्रे इत्यादि प्राग्वत् ।
  • (६) “इमं मे वरुण! श्रुधी हवमद्या च मृडय । त्वामव-
स्युराचके” यजु० २१ । १
  • (७) “घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा”
यजु० ३४ । ४५
  • (८) अतो देवा अवन्तुव इत्यादि प्राग्वत् ।
  • (९) “सप्त तेऽग्ने! समिधः सप्त जिह्वाः सप्त ऋषयः सप्त-
धामप्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्तयो-
नीरापृणस्व घृतेन स्वाहा” यजु० १७ । ७९
  • (१०) द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव । पतं
पवित्रेणेवाज्यमापः शुद्धन्तु मैनसः” यजु० २५ । २०
  • (११) “आपोहि ष्ठा मयोभुवस्तान ऊर्जे दधातन । महे
रणाय चक्षमे” ऋ० १० । ९ । १
  • (१२) “पावमानसूक्तम् स्वादिष्ठयेत्यादि हिन्वन्तीत्यत्तम् पञ्च-
षष्ठिसूक्तात्मकम् मत्कृत तुलादानादिपद्धतौ १६७ अवधि
१८५ पृ० पर्यन्ते दृश्यम् । यजुर्वेदोक्तं पुनन्तु पितर
इत्यादि नवर्चं तत्रैव २०६ पृ० दृश्यम्
  • (१३) समुद्रं गच्छ स्वाहा । अन्तरिक्षं गच्छ स्वाहा देवं
सवितारं गच्छ स्वाहा । यजु० ६ । २१
  • (१४) “शन्नोदेवीरभीष्टय आपो भवन्तु प्रीतये । शंयोरमि-
स्रचन्तु नः” ऋ० १० । १ । ४
  • (१५) “हिरण्यगर्भः समवर्तताग्रे इत्यादि प्राग्वत् ।
  • (१६) “इमं मे गङ्गे यमुने! सरस्वति! शुतुद्रि! स्तोम
सचतापरुष्णया । असिक्न्या मरुद्वृधे वितस्तयाऽऽ-
र्जीकीये शृणुह्यासुषोमया” ऋ० १० । ७५ । ५
  • (१७) “तद्विष्णोः परमं पदं सदा पश्यन्ति शूरयः । दिवीव
चक्षुराततम्” ऋ० १ । २२ । २०
  • (१८) “याओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः । तासा
मसि त्वमुत्तमारं कामाय शं हृदे” यजु० १२ । ९२
  • (१९) “यज्ञायज्ञा वो अग्नये गिरा गिरा च दक्षसे । प्रप्र
वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्” ऋ० ६ । ४८ । १
  • (२०) “पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे
पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम्” ऋ० १८ । ३६
  • (२१) “याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
वृहस्पतिप्रसूतास्ता नोमुञ्चन्त्वंहंसः” यजु० १२ । ८९
  • (२२) “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्व-
तस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जन-
पृष्ठ ३७२९
यन् देवएकः” ऋ० १० मण्डले ८ सूक्ते । १ । २ ऋक् ।
  • (२३) सीमं राजानमित्यादि प्राग्वत् ।
  • (२४) “विष्णोरराटमसि विष्णोः श्नप्त्रेस्थः । विष्णोः
स्यूरसि विष्णोर्घ्रुवोऽसि । वैष्णवमसि विष्णवे त्वा”
यजु० ५ । २१ ।
  • (२५) “हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दूरो-
णसत् । नृषद्वरसदृतसद् व्योमसदब्जागोजा ऋतजा
अद्रिजा ऋतं वृहत्” यजु० १० । २४
  • (२६) “मूर्द्धानं किवो अरतिं पृथिव्या वैश्वानरमुत
आजातमग्निम् । कविं सम्राजमतिथिं जनानामासन्नापात्रं
जनयन्त देवाः” यजु० ७ । २४
  • (२७) “मा न स्तोके तनये मा न आयुषि मा नो गोषु
मा नो अश्वेषु रीरिषः । मा नो वीरान् रुद्र! भामिनो
बधीर्हविष्मन्तः सदामित्त्वा हवामहे” यजु० १६ । १६
  • (२८) “गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं
सर्वभूतानां तामिहोपह्वते श्रियम्” श्रीसूक्ते ९ मन्त्रः
  • (२९) “इदमापः प्रवहत यत्किञ्च दुरितं मयि । यद्वाह
मभिदुद्रोह यद्वा शेप उतानृतम्” ऋ० १ । २३ । २२
  • (३०) “मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत
राजयक्ष्मात् । याहिर्जग्राह यदि वैतदेनं तस्या
इन्द्राग्नी प्रमुसुक्तमेनम् । १ यदि क्षितायुर्यदि वा परेतो
यदि मृत्योरन्तिकं नीत एव । तमाहरामि निरृते
रुपस्थादहार्षमेनं शतशारदाय । २ सहस्राक्षेण शत
शारदेन शतायुषा हविषाहार्षमेनम् । शतं यथेमं
शरदो न यातीन्द्रो विश्वस्य दुरितस्य पारम् । ३ शतं
जीव शरदो वर्द्धमानः शतं हेमन्तान् शतमु वसन्तान् ।
शतमिन्द्राग्नी सधिता वृहस्पतिः शतायुषा हविषेमं
पुनर्दुः । ४ आहार्षं त्वाविदं त्वा पुनराग पुनर्नव ।
सर्वाङ्ग! सर्वंते चक्षुः सर्वमादृश्यतेऽविदम्” ५ ऋ० १० । १६१
  • (३१) “अतो देवा अवन्तु व इत्यादि प्राग्वत् ।
  • (३२) “हिरणमयेन पात्रेण सत्यस्यापिहितं मुखम् ।
योऽसावादित्ये पुरुषः सोऽसावहम्” यजु० ४० । १७
  • (३३) मधुवाता इत्यादि प्राग्वत् ऋगेका ।
  • (३४) मयि गृह्णाम्यग्ने! अग्निं रायस्पोषाय सुप्रजास्त्वाय
सुवीर्य्याय मामु देवताः सचन्ताम्” यजु० १३ । १
  • (३५) “अक्षन्नमीमदन्त ह्यवप्रिया अधूषत । अस्तोषत स्वभा-
नबो विप्रा न विष्टया मतीयोजान्विन्द्र! ते हरी” ऋ०
२ । ८ । २
  • (३६) “काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च” यजु० १३ । २०
  • (३७) गन्धवती गन्धद्वारामित्यादि प्राग्वत् ।
  • (३८) “तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते
यजमानो हविर्भिः । अहेडमानो वरुणस्य बोध्युरुशंस-
मा न आयुः प्रमोषीः” ऋ० १ । २४ । ११
  • (३९) “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य
पांसुरे” ऋ० १ । २२ । १७
  • (४०) “वृहस्पते! अति यदर्य्यो अर्हाद् द्युमद्विभाति क्रतु-
मज्जनेषु । यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं
धेहि चित्रम्” यजु० २६ । ३
  • (४१) “वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः
परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था-
विद्यतेऽयनाय” यजु० ३१ । १२
  • (४२) महाव्रतं यद्वर्च्चो हिरण्यस्येत्यस्यामृचि गेयं साम
  • (४३) “ओषधयः समवदन्त सोमेन सह राज्ञा । यस्मै-
कृणोति ब्राह्मणस्तं राजन् पारयामसि” यजु० १२ । ९६
  • (४४) धूरसि धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं
धूर्वामः । देवानामसि वह्नितमं सस्रितमं पप्रितमं
जुष्टतमं देवहुतम्” यजु० १ । ८
  • (४५) “बिभ्राट् सूक्तं सप्तदशर्च्चं बिभ्राड वृहत् पिबतु
सोम्यम्, इत्यादि करतां नः सुराधसः इत्यन्तम्” यजु०
३३ । ३० मन्त्रावधि ४६ मन्त्र पर्यन्तं मत्कृततुलादानादि
पद्धतौ १२२ पत्रावधि ११३ पत्रपर्यन्ते दृश्यम् ।
  • (४६) “युञ्जन्ति व्रघ्नमरुषं चरन्तं परितस्थुषः । रोचन्ते
रोचना दिवि” यजु० २३ । ५
  • (४७) दीर्घायुष्ट औषधे! खनिता यस्मै च त्वा खनाम्य-
हम् । अथो त्वं दीर्घायुर्भूत्वागत्वन् शाविरोहतम्”
यजु० १२ । १००
  • (४८) “इन्द्रं विश्वा अवीवृधन्त्समुद्रस्य व्यचसं गिरः ।
रथीतमं रथीनां राजानं सत्पतिं पतिम्” ऋ० १ । ११ । १
  • (४९) “ततो विराडजायत विराजी अधिपूरुषः । स जातो
अत्यरिच्यत पश्चाद्भूमिमथो पुरः” यजु० ३१ । ५
  • (५०) रथन्तरं साम अभि त्वा शूर इत्यस्यामृचि गेयं तच्च
मत्कृततुलादानादिपद्धतौ १९२ । ९३ पत्रे दृश्यम् ।
  • (५१) मुञ्चामि त्वा इत्यादि प्राग्वत् ऋगेका ।
  • (५२) सौपर्णं सूक्तम् ऋग्वेदप्रसिद्धम् ।
  • (५३) “उत्तिष्ठ ब्रह्मणस्पते! देवयन्तस्त्वेमहे । उपप्रयन्तु
पृष्ठ ३७३०
मरुतः सुदानव इन्द्र! प्राशूर्भवा सचा” यजु० ३४ । ५६
  • (५४) ब्रह्मरथं सामभेदः ।
  • (५५) अतो देवा इत्यादि षडृचम् ऋ० १ । २२ । तच्च
मत्कृत तुलादानादि पद्धतौ ८८ । ८९ पत्रे दृश्यम् ।
  • (५६) अश्वसूक्तम् ऋग्वेद प्रसिद्धम् ।
  • (५७) त्रिपादूर्द्ध उदैत् पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत् साशनानशने अभि यजु० ३१ । ४)
“हरेः सान्निध्यकरणमधिवासनमुच्यते । सर्वज्ञं सर्वगं
ध्यात्वा आत्मानं पुरुषोत्तमम् । ओङ्ककारेण समायोज्य
चिच्छक्तिमभिमानिनीम् । निःसार्य्यात्मैकतां कृत्वा
स्वस्मिन सर्वगते विभौ । योजयेन्मरुता पृथ्वीं वह्निवीजेन
दीपयेत् । संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ।
अधिभूतादिदेवैस्तु साध्याख्यैर्विभवैः सह । तन्मात्रपा-
त्रकान् कृत्वा संहरेत्तत्क्रमाद् बुधः । आकाशं
मनसाहत्य मनोऽहङ्करणे कुरु । अहङ्कारञ्च महति तञ्चाप्य-
व्याकृते नयेत् । अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः ।
स तामव्याकृत्वां मायामवष्टभ्य सिसृक्षया । सङ्कर्षणाख्यः
शब्दात्मा स्पर्शाख्यमसृजत् प्रभुः । क्षोभ्य मायां स
प्रद्युम्नं तेजोरूपं स आसृजत् । अनिरुद्धं रसमात्रं
व्रह्माणं गन्धरूपकम् । अनिरुद्धः स च ब्रह्मा अप
आदौ ससर्ज ह । तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत्
पञ्चभूतवत् । तस्मिन् संक्रामिते जीवे शक्तिरात्मोपसं-
हृता । प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते ।
जीवो व्याहृतिसंज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः । प्राणै-
र्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्तिकी । अहङ्कारस्ततो
जज्ञे मनस्तस्मादजायत । अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पा-
दियुतास्ततः । शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति
स्मृताः । ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु ।
त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु । पादौ
पायुस्तथा पाणी वागुपस्थश्च पञ्चमः । कर्मेन्द्रियाणि
चैतानि पञ्चभूतान्यतः शृणु । आकाशवायुतेजांसि
सलिलं पृथिवी तथा । स्थूलमेभिः शरीरन्तु सर्वाधारं
प्रजायते । एतेषां वाचका मन्त्रा न्यासायोच्यन्त
उत्तमाः । जीवभूतं भकारन्तु जीवोपाधिगतं न्यसेत् ।
हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेत् बुधः । फकारमपि
तत्रैव अहङ्कारमयं न्यसेत् । मनस्तत्त्वं पकारन्तु न्यसेत्
संकल्पसम्भवम् । शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके
न्यसेत् । स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ।
दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत् । थकारं वस्ति-
देशे तु रसतन्मात्रकं न्यसेत् । तकारं गन्धतन्मात्रं
जङ्घयोर्विनिवेशयेत् । णकारं श्रोत्रयोर्न्यस्य ढकारं
विन्यसेत्त्वचि । डकारं नेत्रयुग्म तु रसनायां ठकार-
कम् । टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ।
झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः । जकारं
पादयोर्न्यस्य छं पायौ चमुपस्थके । विन्यसेत् पृथिवीतत्त्वं
ङकारं पादयुग्मके । वस्तौ वकारं गं तत्त्वं तैजसं
हृदि विन्यसेत् । खकारं वायुतत्त्वञ्च नासिकायां निवे-
शयेत् । ककारं विन्यसेन्नित्यं खतत्त्वं भस्तके बुधः ।
हृत्पुण्डरीके विन्यस्य मकारं सूर्यदैवतम् । द्वासप्तति-
सहस्राणि हृदयादभिनिःसृताः । कलाषोडशसंयुक्तं
षकारं तत्र विन्यसेत् । तन्मध्ये चिन्तयेन्मन्त्री विन्दुं
वह्नेस्तु मण्डलम् । सकारं विन्यसेत्तत्र प्रणवेन सुरो-
त्तम! । ॐ यं परमेष्ठ्यात्मने रं नमः पुरुषात्मने ।
लं नमोविश्वात्मने न्यस्य व निवृत्त्यात्मने नमः । ॐ
शं नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः । स्थाने तु
प्रथमा योज्या द्वितीया आसने मता । तृतीये शयने
तद्वच्चतुर्थी पानकर्मणि । प्रत्यर्चायां पञ्चमी स्यात्पञ्चो-
पनिषदः स्मृताः । हकारं विन्यसेन्मध्ये ध्यात्वा मन्त्र-
मयं हरिम् । यां मूर्तिं स्थापयेत्तस्या मूलमन्त्रं न्यसे-
त्ततः । ॐ नमो भगवते वासुदेवायेति च मूलकम् ।
शिरोध्राणललाटेषु मुखकण्ठहृदि क्रमात् । भुजयोर्जङ्घ-
योरङ्घ्र्येः केशवं शिरसि न्यसेत् । नारायणं न्यसेद्वक्त्रे
ग्रीवायां माधवं न्यसेत् । गोविन्दं भुजयोर्न्यस्य विष्णुं
च हृदये न्यसेत् । मधुसूदनकं पृष्ठे वामनं जठरे
न्यसेत् । कट्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ।
हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके । दामोदरं
पादयोश्च हृदयादिषडङ्गकम् । एतत् साधारणं प्रीक्त-
मादिमूर्तेस्तु सत्तम! । अथ वा यस्य देवस्य प्रारब्धं स्था-
पनं भवेत् । तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् ।
यस्या मूर्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् । तत्
स्वरैर्द्वादशैर्भेद्य ह्यङ्गानि परिकल्पयेत् । हृदयादीनि देवेश-
मूलञ्च दशमाक्षरम् । यथा देवे तथा देहे तत्त्वानि विनि
योजयेत् । चक्राब्जमण्डले विष्णुं यजेद्गन्धादिना तथा ।
पूर्ववच्चासनं दद्यात् सपात्रं सपरिच्छदम् शुभचक्रं
द्वादशारं ह्युपरिष्टाद्विचिन्तयेत् । त्रिनाभि चक्रं द्बिनेमि
स्वरैस्तच्च समन्वितम् । पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादी-
पृष्ठ ३७३१
न्निवेशयेत् । पूजयेदारकाग्रेषु सूर्यं द्वादशधा पुनः ।
कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् । सबलं त्रितयं
नाभौ चिन्तयेद्देशिकोत्तमः । पद्मञ्च द्वादशदलं पद्ममध्ये
विचिन्तयेत् । तन्मध्ये पौरुषों शक्तिं ध्यात्वाभ्यर्च्य च
देशिकः । प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत् सुरम् ।
गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात् । द्वाद-
शाक्षरवीजैस्तु केशवादीन् समर्चयेत् । द्वादशारे मण्डले
तु लोकपालादिकं क्रमात् । प्रतिमामर्च्चयेत् पश्चाद्ग-
न्धपुष्पादिभिर्द्विजः । पौरुषेण तु सूक्तेन (१) श्रियाः
सूक्तेन (२) पिण्डिकाम् । जननादिक्रमात् पश्चाज्जनये-
द्वैष्णवानलम् । हुत्वाग्निं वैष्णवैर्मन्त्रैः कुर्य्याच्छान्त्युदकं
बुधः । तत् सिक्त्वा प्रतिमामूर्ध्नि वह्निप्रणयनं चरेत् ।
दक्षिणेऽग्निं दूतमिति (३) कुण्डेऽग्निं प्रणयेद्बुधः ।
अग्निनाग्निश्च (४) पूर्वे च कुण्डेऽग्निं प्रणयेद् बुधः ।
उत्तरे प्रणयेदग्निमग्निं दूतं हवीमभिः (५) । अग्निप्रणयने
मन्त्रस्त्वमग्ने (६) द्युभिरुच्यते । पलाशसमिधानान्तु अष्टो-
त्तरसहस्रकम् । कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादि
कैस्तथा । साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतम् ।
कुर्यात्ततः शान्तिहोमं मधुरत्रितयेन च । द्वादशार्णैः स्पृशेत्
पादौ नाभिं हृन्मस्तकं ततः । घृतं दधि पयो हुत्वा
स्पृशेन्मूर्द्धन्यथो ततः । स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः
स्थापयेन्नदीः । गङ्गा च यमुना गोदा क्रमान्नाम्ना
सरस्वती । दहेत्तु विष्णुगायत्र्या (७) गायत्र्या श्रपयेच्च-
स्म । होमयेच्च बलिं दद्यात्तदन्ते भोजयेद्द्विजान् ।
सामाधिपानां तुष्ट्यर्थं हेम गां गुरवे ददेत् । दिक्-
पतिभ्यो बलिं दत्वा रात्रौ कुर्य्याच्च जागरम् । ब्रह्मगी-
तादिशब्देन सर्वभागधिवासनात्” ५९ अ० ।
५९ अ० प्रतीकसूचितामन्त्राः यथा
  • (१) (“पौरुषसूक्तं सहस्रशीर्षेत्यादि षोडशार्च्चम्” यजु० ३१ । १--१६
  • (२) श्रीसूक्तं हिरण्यवर्णामित्यादि ऋग्वेदपरिशिष्टोक्तं
पञ्चदशर्च्चम् तुलादानां १६५ पत्ते दृश्यम् ।
  • (३) “अग्निं दूतं पुरोदधे हव्यवाहमुपब्रुवे । देवाँ
आसादयादिह” यजु० २२ । १७
  • (४) “अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्य-
याड् जुह्वास्यः” सामसं ४ । १ । १ । १
  • (५) “अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
हव्यवाह पुरुप्रियम्” ऋ० १ । १२ । २
  • (६) त्रमग्मे द्युभिस्त्वमाशुशुक्षणिस्त्वमद्ध्यस्त्वमश्मनस्परि ।
त्वं वनेभ्यस्त्वमोषधिभ्यस्त्वं नृणां नृमते! जायसे शुचिः
यजु० ११ । २७
  • (७) तद्विष्णोः परमं पदमित्यादि प्राग्वत् वैष्णवी गायत्री ।)
  • “पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा ।
विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः । देवमानु-
षपैशाचभागेषु न कदाचन । ब्रह्मभागं परित्यज्य
किञ्चिदाश्रित्य चान्तरम् । देवमानुषभागाभ्यां स्थाप्या
यत्नात्तु पिण्डिका । नपुंसकशिलायान्तु रत्नन्यासं
समाचरेत् । नारसिंहेन हुत्वाथ कुर्यात् न्यासं च
तेन वै । व्रीहीन् रत्नत्रिधातूश्च लोहादींश्चन्दना-
दिकान् । पूर्वादिनवगर्तेषु न्यसेन्मध्ये यथारुचि ।
अथ चेन्द्रादिमन्त्रैश्च गर्त्तो गुग्गुलुनावृतः । रत्न-
न्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः । सशलाकै-
र्दर्भपुञ्जैः सहदेवैः समन्वितैः । सबाह्यान्तैश्च संस्कृत्य
पञ्चगव्येन शोधयेत् । प्रोक्षयेद्दर्भतोयेन नदीतीर्थोदकेन
च । होमार्थे स्थण्डिलं कुर्यात् सिकताभिः समन्ततः ।
सार्द्धहस्तप्रमाणं तु चतुरस्रं सुशोभनम् । अष्टदिक्षु
यथान्यासं कलसानपि विन्यसेत् । पूर्वादिष्वष्टवर्णेन अग्नि-
मानीय संस्कृतम् । त्वमग्ने! द्युभिरिति च (१) गायत्र्या
समिधो हुनेत् । अष्टार्णेनाष्टशतकं साज्यं पूर्णां प्रदा-
पयेत् । शान्त्युदकमाम्रपत्रैः मूलेन शतमन्त्रितम् ।
सिञ्चेद्देवस्य तन्मूर्ध्नि श्रीश्च ते (२) ह्यनया ऋचा ।
ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते (३) । तद्वि-
ष्णोरिति (४) मन्त्रेण प्रासादाभिमुखं नयेत् । शिवि-
कायां हरिं स्थाप्य भ्रामयीत पुरादिकम् । गीतवेदा-
दिशब्दैश्च प्रासादद्वारि धारयेत् । स्त्रीभिर्विप्रैर्मङ्गलाष्ट-
घटैः संस्नापयेद्धरिम् । ततो गन्धादिनाभ्यर्च्य मूलम-
न्त्रेण देशिकः । अतो देवेति (५) वस्त्राद्यमष्टाङ्गार्घ्यं
निवेद्य च । स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति (६)
धारयेत् । ॐ त्रैलोक्यविक्रान्ताय नमस्तेऽस्तु त्रिवि-
क्रम! । संस्थाप्य पिण्डिकायान्तु स्थिरं कुर्याद्विच-
क्षणः । ध्रुवा द्यौरिति (७) मन्त्रेण विश्वतश्चक्षुरि-
त्यपि (८) । पञ्चगव्येन संस्नाप्याक्षाल्य गन्धोदकेन च ।
पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिम् । ध्यायेत्
खं तस्य मूर्तिन्तु पृथिवीं तस्य पीठिकाम् । कल्प-
येद्विग्रहं तस्य तैजसैः परमाणुभिः । जीवसावाहयि-
ष्यामि पञ्चविंशतितत्त्वगम् । चैतन्यं परमानन्दं जाग्रत्-
स्वप्नविवर्जितम् । देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जि-
पृष्ठ ३७३२
तम् । ब्रह्मादिस्तम्बपर्यन्तं हृदयेषु व्यवस्थितम् ।
हृदयात् प्रतिमाविम्बे स्थिरो भव परेश्वर! । सजीवं कुरु
विम्बं त्वं सबाह्याभ्यन्तरस्थितः । अङ्गुष्ठमात्रः पुरुषो
देहोपाधिषु संस्थितः । ज्योतिर्ज्ञानं परं ब्रह्म
एकमेवाद्वितीयकम् । सजीवीकरणं कृत्वा प्रणवेन निबो-
धयेत् । सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत् ।
सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत् । नमस्ते-
ऽस्तु सुरेशाय सन्तोषविभवात्मने । ज्ञानविज्ञानरूपाय
ब्रह्मतेजोऽनुयायिने । गुणातिक्रान्तवेशाय पुरुषाय
महात्मने । अक्षयाय पुराणाय विष्णो! सन्निहितो
भव । यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः । तत्
सर्वमेकतो लीनमस्मिन्देहे विवर्द्धताम् । आत्मानं सन्नि-
क्षीकृत्य ब्रह्मादिपरिवारकान् । खनाम्ना स्थापयेदन्या-
नायुधादीन् स्वमुद्रया । यात्रावर्षादिकं दृष्ट्वा ज्ञेयः
सन्निहितो हरिः । नत्वा स्तुत्वा स्तवाद्यैश्च जत्वा
चाष्टाक्षरादिकम् । चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चये-
द्गुरुः । अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् ।
दिगीशान् दिशि देवांश्च स्थाप्य सम्पूज्य देशिकः । विश्व-
क्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् । सर्वपार्षदके-
भ्यश्च बलिं भूतेषु चार्पयेत् । ग्रामवस्त्रसुवर्णादि गुरवे
दक्षिणां ददेत् । यागोपयोगि द्रव्याद्यमाचार्याय
नरोऽर्पयेत् । आचार्यदक्षिणार्द्धन्तु ऋत्विग्भ्यो दक्षिणां
ददेत् । अन्येभ्यो दक्षिणां दद्याद्भोजयेद् ब्राह्मणांस्ततः ।
अवारितफलान् दद्याद्यजमानाय वै गुरुः । विष्णुं
नयेत् प्रतिष्ठाता चात्मना सकलं कुलम् । सर्वेषामेव
देवानामेष साधारणो विधिः । मूलमन्त्राः पृथक् तेषां
शेषं कार्यं समानकम्” ६० अ० ।
(६० अ० प्रतीकसुचिता मन्त्रा यथा
  • (१) त्वमग्ने द्युभिरित्यादि प्राग्वत् ।
  • (२) “श्रीश्च ते लक्ष्मीश्च ते पत्न्यावहोरात्रे पार्श्वे नक्ष-
त्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुं मैषाण
सर्वलोकं मैषाण” यजु० ३१ । २२
  • (३) उत्तिष्ठ व्रह्मणापते इत्यादि प्राग्वत् ।
  • (४) तद्विष्णोः परमं पदमित्यादि प्राग्वत् ।
  • (५) अतो देवा अवन्तु व इत्यादि प्राग्वत् ।
  • (६) देवस्य त्वा इत्यादि प्राग्वत् ।
  • (७) “ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वताइमे । ध्रुवं-
विश्वमिदं जगद् ध्रुवो राजा विशामयम्” ऋ० १० । १६३ । ४
  • (८) विश्वतश्चक्षुरित्यादि ३७२८ पृष्ठे प्रदर्शितम्) ।
प्रतिष्ठामयूखादौ तत्प्रयोगो दृश्यः । प्रतिष्ठायाः पूज्यता-
प्रयोजकता कुसुमाञ्जलौ हरिदासीये च व्यवस्थापिता यथा
“कथञ्च प्रतिमादौ प्रतिष्ठादेरुपयोगः तथा च प्रतिष्ठाजन्य
शक्तिश्चाण्डालादिस्पर्शनाश्या पूज्यताप्रयोजिका स्वीकार्या
इत्यत्राह हरि० “निमित्तभेदसंसर्गादुद्भवानुद्भवादयः ।
देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा” मू० । “निमित्त-
भेदः अदृष्टभेदः । देवताः प्रतिष्ठाविधिना सन्निधानेनाह-
ङ्कारममकारादिना आराधनीयतामासादयन्ति प्रतिष्ठा-
विधिना देवतानां प्रतिमादौ अहङ्कारमभकारौ चाण्डा-
लादिस्पर्शे च तादृशाभिमानाभावः । देवताचैतन्यविवादे-
ऽपि यथार्थपूजितत्वधीः प्रतिष्ठितत्वधीश्च चण्डालादिस्प-
र्शाभावविशिष्टा पूज्यतानियामिका तत्र चोपयोगिनी
प्रतिष्ठा । वस्तुतस्तु प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शनादिसंस-
र्गाभावः प्रतिष्ठाध्वंसकालीनः पूज्यताप्रयोजकः प्रतिष्ठितं
पूजयेदितिक्तेन प्रतिष्ठाध्वंसस्यैव प्राप्तेरिति” हरिदासः ।
प्रतिमादौ प्रतिष्ठाजन्या पूज्यताप्रयोजिका शक्तिरुत्पद्यते
इति मीमांसकास्तन्मतमनुमानचिन्तामणौ शक्तिवादे
निराकृतं यथा
“अथ प्रतिमादौ प्रतिष्ठाजन्यं न यजमानादृष्टं
पूज्यत्वप्रयोजकं भोगादिना तन्नाशेऽपि पूज्यत्वात्
तत्सत्त्वेऽपि चाण्डालादिस्पर्शेनापूज्यत्वात् अन्यधर्मं
प्रत्यन्यधर्मस्यानुपयोगाच्च न प्रतिष्ठाध्वंसस्तथा, ततएव
उपजीव्यप्रतिष्ठाप्रयोजकत्वभङ्गापत्तेः । तस्मात् प्रतिष्ठा-
जन्याऽस्पृश्यस्पर्शादिनाश्या प्रतिमादिनिष्ठा शक्तिरभ्यु-
पेयेति चेत् प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधि-
रहङ्कारममकाररूपः क्रियते स्वसादृश्यदर्शिनश्चित्रादा-
विव, ज्ञानस्य नाशेऽपि संस्कारसत्त्वात् अस्पृश्यस्प-
र्शादिना तु तन्नाशः अचेतनदेवतापक्षे च यथार्थप्रतिष्ठित-
प्रत्यभिज्ञानस्यास्पृश्यस्पर्शादिविरहसहकृतस्य तथात्वं
प्रतिष्ठितं पूजयेदिति विधिबलात्तत्प्रतिसन्धानस्यावश्य-
कत्वादिति प्राञ्चः । नव्यास्तु प्रतिष्ठाविधिनैव तत्राधेय-
शक्तिवदपूर्वान्तरं जन्यते तददृष्टवदात्मसंयोगाश्रयपूज्य-
त्वम् अस्पृश्यस्पर्शेन तन्नाशे चापूज्यत्वमित्याहुः । वयन्तु
ब्रूमः प्रतिष्ठितं पूजयेदिति विधिवाक्येन प्रतिष्ठायाः
कारणत्वं न बोध्यते किन्तु भूतार्थे क्तानुशासनादतीत-
प्रतिष्ठे पूज्यत्वं बोध्यते तथा च प्रतिष्ठाध्वंसः प्रति-
ष्ठाकालीनयावदस्पृश्यादिप्रतियोगिकानादिसंसर्गाभावस-
पृष्ठ ३७३३
हितः पूज्यत्वप्रयोजकः स च प्रागभावोऽत्यान्ताभावश्च
क्वचित्” । देवप्रतिष्ठादयोऽप्यत्र
तत्र विहितनक्षत्रलग्नादिकं मु० चि० उक्तं यथा
“जलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशाङ्क-
शुक्रे । दृश्ये, मृदुक्षिप्रचरध्रुवे स्यात्पक्षे सिते स्वृक्षतिथि-
क्षणे वा । रिक्तारवर्जे दिवसेऽतिशस्ता शशाङ्कपापैस्त्रिभ-
वाङ्गसंस्थैः । व्यष्टान्त्यगैः सत्खचरैर्मृगेन्द्रे सूर्यो, घटे
को, युवतौ च विष्णुः । शिवो नृयुग्मे, द्वितनौ च
देव्यः, क्षुद्राश्चरे, सर्व इमे स्थिरर्क्षे । पुष्ये ग्रहा, विघ्न-
पयक्षसर्पभूतादयोऽन्त्ये, श्रवणे जिनश्च” ।
“देव प्रतिष्ठायां तु विशेषस्तत्र वशिष्ठः “अथ प्रतिष्ठां
कथयामि सम्यक् शिवस्य विष्णोस्त्वथ वा परेषाम् । सौम्यायने
देवगुरौ च शुक्रे सन्दृश्यमाने परिचारकाणाम्” । शिव
विष्णुग्रहणं प्राधान्यख्यापनार्थम् । अत्र सौम्यप्रकृ
तीनां देवानामुत्तरायणे स्थापनमुक्त्वा उग्रप्रकृतीनां
दक्षिणायनेऽपि कार्यं तदुक्तं वैखानससंहितायाम्
“मातृभैरववाराहनारसिंहत्रिविक्रमाः । महिसासुरहन्त्री
च स्थाप्या वै दक्षिणायने” । इति शैवसिद्धान्तशे-
खरे तु “श्रेष्ठोत्तरे प्रतिष्ठा स्यादयने मुक्तिमिच्छताम् ।
दक्षिणे तु मुमुक्षूणां मलमासे न सा द्वयोरिति” इत्यु-
क्तम् । अत्र दक्षिणे तु मुमुक्षूणामित्यपि मातृभैरवेत्या-
दिपरतया योज्यमन्यथा प्रतिपदं मासगणना वशिष्ठादिषु
न युज्येत यदाह वसिष्ठः “मासे तपस्ये तपसि
प्रतिष्ठा धनायुरारोग्यकरी च कर्त्तुः । चैत्रे महारुग्-
भयदा च शुक्रे समाधवे पुत्रधनाप्तये स्यात्” ।
नारदोऽपि “विचैत्रेष्वेव मासेषु माघादिषु च पञ्चसु” ।
वसिष्ठः “आषाढमासादिचतुष्टयेऽपि कलत्रसन्तानवि-
नाशदा स्यात् । ऊर्जे च कर्तुर्निधनप्रदा च सौम्ये
सपौषेऽखिलदुःखदा स्यात् । बलक्षपक्षः शुभदः समस्तः स
दैव तत्राद्यदिनं विहाय । अन्त्यत्रिभागं परिहृत्य कृष्ण-
पक्षोऽपि शस्तः खलु पक्षयोश्च । रिक्तावमत्यक्तदिनेष्वनि-
न्द्ययोगेषु वैनाशकवर्जितेषु । दिने महादोषविबर्जिते च
शशाङ्कताराबलसंयुते च” । वैनाशकनक्षत्राणि नारदे-
नोक्तानि “जन्मभाद्दशमं कर्म सङ्घातर्क्षञ्च षोडशम् ।
अष्टादशं सामुदयं त्रयोविंशं विनाशभम् । मानसं
पञ्चविंशर्क्षं नाचरेच्छुभमेषु तु” । इति अथ तिथीनाह
नारदः । “यद्दिनं यस्य देवस्य तद्दिने तस्य संस्थितिः ।
द्वितीयादिद्वयोः पञ्चम्यादितस्तिसृषु क्रमात् । दशम्यादि
चतसृषु पौर्णमास्यां विशेषतः । मुख्यतिथ्यसम्भवे उक्त
तिथौ स्थापनं कार्यम्” इत्यर्थः । अथ वारानाह नारदः
“कुजवर्जितवारेषु कर्त्तुः सूर्ये बलप्रदे । चन्द्रताराबलो-
पेते पूर्वाह्णे शोभने दिने” । इति प्रत्येकं वारफलमाह
वसिष्ठः “कीर्तिप्रदं क्षेमकरं कृशानुभयप्रदं वृद्धिकरं दृढं
च । लक्ष्मीकरं सुस्थिरदं त्विनादिवारेषु संस्थापनमा-
मनन्ति” । अथ देवप्रतिष्ठानक्षत्राणि “हस्तत्रये मित्र-
हरित्रये च पौष्णद्वयादित्यसुरेज्यभेषु । स्यादुत्तराधातृ-
शशाङ्कभेषु सर्वामरस्थापनमुत्तमं सत्” । अत्र षोडश-
भानि ध्रुवमृदुक्षिप्रलघुरूपाणि एवोक्तानि तत्र ग्रन्थ-
कर्त्त्रा जलाशयारामसुरप्रतिष्ठा नक्षत्राणि बहुधातुल्य-
त्वादेतानि उक्तानि द्वित्राणि तु भिन्नानि तान्युक्त
विशेषवचनेभ्योऽवमेयानि । देवताघटनमुहूर्तस्तु उच्यते
मया तत्र दीपिका “ध्रुवलघुमृदुवर्गे वारुणे विष्णुदैवे
मरुददितिधनिथे शोभने वासरे च । त्रिदशमदन-
जन्मैकादशे ३ । १० । ७ । १ । ११ । शीतरश्मौ विबुधसुकृति-
रिष्टा नाडिनक्षत्रहीने” इति । नाडिनक्षत्राणि वैना-
शिकनक्षत्राणि । अथ देवताप्रतिष्ठायां सामान्यतो लग्न
शुद्धिं देवताविशेषे च तथा । पादोनोपजातिकाभ्यामाह
शशाङ्केति । जलाशयप्रतिष्ठायामारामप्रतिष्ठायां च
सुलग्नमात्रं विचार्यं देवप्रतिष्ठायां शशाङ्कश्चन्द्रः पापाः
सूर्यभौमशनिराहुकेतवस्तैस्त्रिभवाङ्गसंस्थैस्तृतीयषष्ठैकाद-
शस्थानस्थितैरुपलक्षिते लग्ने । तथा सत्खचरैः सोमबु-
धगुरुशुक्रैर्व्यष्टान्त्यगैरष्टमद्वादशव्यतिरिक्ताखिलस्थानस्थैः
सद्भिर्देवप्रतिष्ठातिशस्ता तदुक्तं रत्नमालायाम् । “केन्द्र-
त्रिकोणभवमूर्तिषु सद्ग्रहेषु चन्द्रार्कभौभशनिषु त्रिषडा-
यगेषु । सान्निध्यमेति नियतं प्रतिमासु देवः कर्तुः
सुखार्थसुतसम्पदरोगता च । सौम्या लग्नाद्याश्रिता
मूर्तिपूर्वान् भावान् वीर्यैरुत्कटावर्द्धयन्ति । षष्ठं हित्वा-
भावमेते हि तत्र शत्रुध्वस्तिं कर्त्तुरुत्पादयन्ति” ।
शनिग्रहणं राहुकेत्वोरप्युपलक्षणं यदाह वसिष्ठः “सूर्यैन्दु-
भौमार्क्यहिकेतवश्च लग्नस्थितानैधनदाश्च भर्तुः ।
सौम्यग्रहा लग्नगतास्तदैव ह्यायुर्बलारोग्यकराश्च नूनम्” ।
अन्यच्च तत्रैव “सर्वे ग्रहानैधनदास्त्वजस्रं सौम्या
असौम्याः खलु मृत्युसंस्थाः” इति अथ प्रसङ्गान्नवांशवि-
चारः तत्र स्थिरद्विस्वभावनवांशाग्राह्या न चरांशस्त-
त्रापि तुलांशः साधीयान् यदाह वसिष्ठः “पञ्चेष्टकैः
जीवशशाङ्कसूर्यमुख्यग्रहैः सौम्यनवांशयुक्तैः लग्ने
पृष्ठ ३७३४
स्थिरे चोभयराशियुक्ते नवांशके चोभयगे स्थिरे वा” ।
उभयगे द्विस्वभावे “चरोदये लग्नगते न कार्यं संस्थापनं
नैव चरांशकेऽपि । चरोऽपि मुख्यः सतुलांशकश्च सदा
भृदुत्वात् सुरसन्निवेशे” इति मृदुत्वाच्छुभस्वामिकत्वात्
नारदोऽपि “शुभलग्ने शुभांशे च कर्तुस्तेऽनिधनोदये ।
राशयः सकलाः सेष्टाः शुभग्रहयुतेक्षिताः” इति
अथ लग्नदौष्ट्येऽपवादो वसिष्ठेनोक्तः “एकोऽपि जीवो
बलवान् तनुस्थः सितीऽपि सौम्योऽप्यथ वा बली चेत् ।
दोषानशेषान्विनिहन्ति सद्यः स्कन्दो यथा तारकदैत्य-
वर्गमिति” नारदः “गुणाधिकतरे लग्ने दोषोऽत्यल्पतरे
यदि । सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम्” ।
मृगेन्द्र इति सूर्यो मृगेन्द्रे सिंहलग्ने स्थाप्यः, तथा
कोब्रह्मा घटे कुम्भलग्ने, विष्णुर्युवतौ कन्यालग्ने ।
शिवो महादेवोनृयुग्मे मिथुनलग्नेच, पुनर्द्वितनौ
मिथुनकन्याधनुमींनलग्नेषु देव्यो दुर्गादक्षिणामूर्त्त्यादयः ।
चरे मेषकर्कतुलामकरलग्नेषु क्षुद्रादेव्यश्चतुःषष्टियोगिनी
प्रभृतयः । सर्व इमे उक्ता अनुक्ताश्च देवा इत्यर्थः । उक्ता
महादेवादयः अनुक्ता इन्द्रादयः ते स्थिरर्क्षे वृषसिंहवृ-
श्चिककुम्भलग्नेषु स्थाप्याः यदाह श्रीपतिः “सिंहोदये
दिनकरो, मिथुने, महेशो, नारायणश्च युवतौ, घटभे
विधाता । देव्यो द्विमूर्तिभवने च निवेशनीयाः क्षुद्राश्चरे
स्थिरगृहे निखिलाश्च देवाः” । इति पुष्ये ग्रहा इति
ग्रहाश्चन्द्रादयोऽष्टौ पुष्यनक्षत्रे स्थाप्या इत्यर्थः । उपलक्षणं
चैतत् तत्र सूर्यस्य हस्तनक्षत्रे स्थापनं, महादेवब्र-
ह्मणोः पुष्यश्रवणाभिजित्सु स्थापनं, कुवेरस्कन्दयोरनु-
राधायां, दुर्गाप्रभृतीनां मूले स्थापनं, सप्तर्षीणां स्वाधि-
ष्ठितनक्षत्रे लक्ष्मीव्यासबाल्मीक्यगस्त्यानामपि सप्तर्ष्य-
धिष्ठितनक्षत्रे स्थापनम् उक्तञ्च रत्नमालायां “पुष्यश्रुत्य-
भिजित्सु, चेश्वरकयोर्वित्ताधिपस्कन्दयोर्मैत्रे तिग्मरुचेः
करे, निरृतिभे दुर्गादिकानां शुभम्” । कोब्रह्मा तथा
“सप्तर्षयो यत्र चरन्ति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र
तेषाम् । श्रीव्यासबाल्मीकिघटोद्भवानां तथा स्मृता वाक्-
पतिभे ग्रहाणामिति” । सप्तर्षयस्तु कश्यपोऽत्रिर्भरद्वाजो-
विश्वामित्रोऽथ गौतमः । जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः
स्मृताः” इति स्मृतेस्ते यस्मिन्नक्षत्रे सञ्चरन्तो दृश्यन्ते
तस्मिन्नक्षत्रे तेषां स्थापनम् । श्रीव्यासबाल्मीकिघटो-
द्भवानां तथा सप्तर्ष्यधिष्ठितनक्षत्रे । ग्रहाणां वाक्प-
तिभे पुष्ये घटोद्भवोऽगस्त्यः । विघ्नपेति विघ्नपो गणेशः
यक्षो देवयोनिः सर्पा वासुक्यादयः भूतो देवयोनिः
“विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो
गुह्यकः सिद्धो भूतोऽभी देवयोनयः” इत्यभिघानात्
आदिशब्देन राक्षसासुरप्रमथसरस्वतीप्रभृतयो गृह्यन्ते ते
रेवत्यां स्थाप्याः । तथा श्रवणे श्रवणनक्षत्रे जिनो बुद्धः
स्थाप्यः । उपलक्षणं चैतत् इन्द्रकुवेरवर्जितानां
लोकपालाना घनिष्ठायां स्थापनम्, इतोऽवशिष्टानां देवताना-
न्त्र्युत्तरारोहिणीषु स्थापनं स्यादित्यर्थः एतदप्युक्तं
रत्नमालायाम् “गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथ-
फणिसरस्वत्यादिकानां च पौष्णे २७ । श्रवसि सुगतनाम्नो
वासवे लोकपानां निगदितमखिलानां स्थापनं हि
स्थिरेष्विति” । परिवृढः स्वामी! “प्रभौ परिवृढ” इति
साषुः गणपरिवृढी गणेशः! प्रमथा महादेवस्य पारि-
षदाः । श्रवसि श्रवणनक्षत्रे सुगतो बुद्धः “सर्वज्ञः सु
गतो बुद्धः इत्यमरः स्थिरेषु रोहिणीत्र्युत्तरास्वित्यर्थः”
पी० धा० ।

देवतामय त्रि० देवतात्मकं देवता + मयट् । १ देवतात्मकेस्त्रियां

ङीप । २ हिरण्यगर्भरूपे देवताभेदे च स्त्री ङीप् “या
प्राणेन सम्भवत्यदितिर्देवतामयो । गुहां प्रविश्य
तिष्ठन्ती या भूतेभिर्व्यजायत” कठोप० । ४ । ७ । “या देवता-
मयी सर्वदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद्
ब्रह्मणः सम्भवति शब्दादीनामदनात् अदितिस्तां पूर्व-
वत् गुहां (सर्वपाणगुहां हृदयाकाशम्) प्रविश्य
तिठन्तीमदितिम् । या भूतेभिर्भूतैः समन्विता व्यजायत
उत्पन्नेत्यर्थ” भा० ।

देवतायतन न० ६ त० । देवगृहे “सीमासन्धिषु कार्य्याणि

देवतायतनानि च” मनुः “रूपेणाग्र्येण सम्पन्नां
(रुक्मिणी) देवतायतनान्तिके” हरिवं० ११७ अ०
देवतालयादयोऽप्यत्र “उद्यानदेवतालयपितृवनवल्मीक
मार्गचितिजाताः” वृ० सं० ४३ अ०

देव(वा)तिथि पु० पुरुवंश्ये अक्रोधनपुत्रे नृपभेदे “अक्रो-

धनः खलु कालिङ्गीं करग्भां नामोपयेमे तस्यामस्य
जज्ञे देव(वा)तिथिः” भा० आ० ९५ अ० “ततश्चाक्रो-
धनस्तस्मात् देव(वा)तिथिरमुष्य च” भाग० ९ । २२ । ९
देवातिथिरित्येव पाठः बहुषु पुस्तकेषु क्वचित् देवतिथि
रिति पाठः ।
पृष्ठ ३७३५

देवत्रा अव्य० देवाय देयं करोति सम्पद्यते वा “देये त्रा च”

पा० क्रादियोगे त्रा । करणादिविषये देवाय १ देये २ तदधीने
च । देवं बन्दे देवे रमे वा द्वितीयान्तात् सप्तम्यन्तात् वा
देवशब्दात् त्रा । ३ वन्दनादिकर्मणि देवे ४ रमणविषये देवे
च “देवत्रा यन्तमवसे” यजु० ६ । २० “देवान् प्रति वन्तं
गच्छन्तम्” वेददी० उक्ते ५ देवतां प्रतीत्यर्थे च “ता देवीर्देव
त्रेयं यज्ञं नयत” यजु० ६ । ३४ देवान् त्रायते त्रा--क ।
६ देवरक्षके त्रि० “देव एव सविता श्रपयति वर्षिष्ठेऽधि-
नाक इति देवत्रो एतदाह” शत० ब्रा० १ । २ । २ । १४

देवदण्ड स्त्री देवात् मेघात् दण्डो यस्याः । नागबलायां

राजनि० ।

देवदत्त पु० देवा एनं देयासुः संज्ञायां क्त । संज्ञाशब्दप्रति-

पाद्ये १ नरभेदे “ब्राह्मणार्थो यथा नास्ति कश्चित् ब्राह्मण
कम्बले । देवदत्तादयो वाक्ये तथैव स्युर्निरर्थकाः” हरिः
३ त० । २ देवेन दत्ते त्रि० “देवदत्तां पतिर्भार्य्या विन्दते नेच्छ-
यात्मनः । तां साध्वीं विभृयान्नित्यम् देवानां प्रियमा-
चरन्” मनुः “मगोऽर्यमा सविता पुरन्ध्रिर्मही वोढुर्गार्ह-
पत्याय देवाः” इत्यादि मन्त्रलिङ्गात् या देवदत्ता भार्य्या
तां पतिर्लभते न तु स्वेच्छया तां सतीं देवानां प्रियं कुर्वन्
विभृयात्” कुल्लू० ३ बुद्धानुजे पु० त्रिका० ४ अर्जुनशङ्खे
शब्दार्थकल्पतरुः । “पाञ्चजन्यं हृषीकेशो देवदत्तं
धनञ्जयः” गीता । ५ देहस्थे जृम्भणकरे वायुभेदे “विजृ
म्भणे देवदत्तः शुद्धस्फटिकसन्निभः” शारदातिलक-
टीकायां राघवभट्टधृतवाक्यम् । देवाय दत्तम् । ६ देवार्थोत्-
सृष्टे ग्रामादौ त्रि० ।

देवदत्तक पु० देवदत्तो मुख्य एषाम् “स एषां ग्रामणीः”

पा० कन् । १ देवदत्तप्रधानकेषु ब० व० अनुकम्पितो देवदत्तः ।
बह्वचो मनुष्यनाम्नष्ठजुवा घनिलच्च” पा० ठच् घन्
इलच् पक्षे कन् । २ अनुकम्पिते देवदत्ते “ठाजादावूर्द्धं
द्वितीयादचः” पा० द्वितीयादचः परं सर्वं लुप्यते इति
देविक देविथ देविल इति रूपत्रयं तत्रार्थे तेषाम-
जादित्वात् कनस्तु तदभावात् न लोपः । “अजादौ
च विभाषा लोपोवक्तव्यः” बा० देवक इत्यपि तत्रार्थे
“लोपः पूर्वपदस्य च” बा० दत्तिक दत्तिल दत्तिय दत्तक
इत्येतेऽपि तत्रार्थे ।

देवदत्ताग्रज पु० ६ त० । बुद्धे त्रिका० ।

देवदर्श त्रि० देवं पश्यति दृश--अण् उप० स० । १ देवतादर्शके

देवं दृष्ट्वेत्यर्थे णमुल् । देवदर्शम् देवं दृष्ट्वेत्यर्थे अव्यय०

देवदर्शन त्रि० देवं पश्यति दृश--ण्वुल् । १ देवदर्शके २ ऋषिभेदे

पु० तेन प्रोक्तमघीयते शौनका० णिनि । दैवदर्शनिन् तत्-
प्रोक्ताध्यायिषु ब० व० दृश--भावे ल्युट् ६ त० । ३ देवतानां
दर्शने न० ।

देवदानी स्त्री देवानामिव दानं शुद्धिरस्याः दैप्--शोधे

भावे ल्युट् गौरा० ङीष् । हस्तिघोषलतायां
रत्नमा० ।

देवदारु न० देवानां दारु तत्प्रियं काष्ठं चन्दनमस्य ।

स्वनामख्याते वृक्षभेदे अमरः । अस्य पुंस्त्वमपि “अमुं पुरः
पश्यसि देवदारुम्” रघुः “पारिजातान् कोविदारान्
देवदारुद्रुमांस्तथा” भा० व० १५८ अ० । “वाढा मुहुः
कम्पितदेवदारुः” कुमा० “देवदारु लघु स्निग्धं तिक्तोष्णं
कटुपाकि च । विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्र-
जित् । प्रमेहपीनसश्लेष्मश्वासकण्डूसमीरनुत्” भावप्र० ।

देवदालिका स्त्री देवदालीव कायति इवार्थे कन् केऽणो

ह्रस्वः । महाकालवृक्षे राजनि० ।

देवदाली स्त्री देवेन मेघशब्देन दालोदलनमस्या गौरा०

ङीष् । (घघरवेल) ख्याते लताभेदे “देवदाली रसे
तिक्ता कफार्शःशोफपाण्डुताः । नाशयेद् वमनी तिक्ता
क्षयहिक्काकृमिज्वरान् । शीता परा खरस्पर्शा विषघ्नी
गरनाशनी” भावप्र० । देवदालीफलं तिक्तं कृमिश्लेष्म
विनाशनम् । स्रंसनं गुल्मशूलघ्नमर्शोघ्नं बातजित्
परम् । देवदालीदलं तक्रे स्वेदितं खण्डितं भृशम् ।
वेसवारयुते साज्ये भर्जितं हिङ्गुना दृढम्” तत्रैव ।

देवदास पु० ६ त० । देवानां दासे स्त्रियां ङीप् ।

देवदासी स्त्री देवमिन्द्रियं दास्नोति दास--बधे अण् । १

वनवीजपूरके राजनि० । देवाय क्रीड़ायै दासीव । २ वेश्यायाञ्च
शब्दार्थकल्प० । ६ त० । ३ देवानां परिचारिकायाम् ।

देवदीप पु० देवार्थो दीपः । १ देवार्थे दीपे देवं दीप्तशील-

मालोकसंयुक्तं दीपयति दीप--णिच्--अण् उप० स० ।
२ लोचने शब्दरत्ना० ।

देवदुन्दुभि पु० देवानां दुन्दुभिरिव हर्षप्रदत्वात् । १ रक्त-

तुलस्याम् । ६ त० । २ देवढक्कायाम् रत्नमा० । “देवदुन्दु-
भयो नेदुःर्ननृतुश्चाप्सरोगणाः” भूरिप्रयोगः ।

देवदूती स्त्री देवा इन्द्रियाणि दूयन्ते खिद्यन्तेऽनया

दूक्तिच् ङीष् । वनवीजपूरके राजनि० ।

देवदेव पु० देवेषु मध्ये दीव्यति दिव--अच् । १ महादेवे

“अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं
शशाक” कुमा० २ व्रह्मणि च शब्दरत्ना० देवानां देवः
स्वामी ३ विष्णौ । “द्रौपद्याः सङ्कटं ज्ञात्वा देवदेवी
जगत्पतिः । पार्श्वस्थां रुक्मिणीं त्यक्त्वा केशवः शयने
प्रभुः” भा० व० २६२ अ० ।
पृष्ठ ३७३६

देवदेवेश पु० देवप्रकारः देवदेवः तस्येशः । महादेवे

“यदि मे भगवान् प्रीतः सर्वलोकनमस्कृत! । स्वयं मां
देवदेवेश! याजयस्व सुरेश्वर!” भा० आ० २२३ अ० ।

देवदोल पु० दैवैः द्रष्टव्यो दोलः । प्रातःकरणीये दोलो-

त्सवे दोलशब्दे दृश्यम् ।

देवद्यम्न पु० भरतवंश्ये देवाजितोऽपत्ये नृपभेदे “अथा

सूर्यां तत्तनयो देवद्युम्नः” भाग० ५ । १५ । ३

देवद्रोणी स्त्री ६ त० । १ देवयात्रायां हारा० । २ स्वयम्भूलिङ्गा-

द्यवस्थानगह्वरे च “देवद्रोण्यां विहारे च कूपेष्वाय-
तनेषु च । एषु गोषु विपन्नासु प्रायश्चित्तं न विद्यते”
संवर्तः । “देवद्रोणी स्वयम्भूलिङ्गाद्यवस्थानगह्वरम्”
प्रा० त० रघु० ।

देवद्र्यञ्च् त्रि० देवमञ्चति पूजयति अन्च--क्विन् देवस्य टेः

अद्र्यादेशः । १ देवपूजके अमरः । गत्यर्थाञ्चतेस्तु
नलोपः । देवद्र्यच् देवगन्तरि । सर्वनामस्थाने परे
उभयत्र देवद्र्यङ् देवद्र्यञ्चौ अन्यत्राजादौ देवद्रीचः
देवद्र्यञ्च इत्यादिर्भेदः ।

देवधन न० देवार्थं धनम् । १ देवोद्देशेनोत्सृष्टे धने

देवतानां चेतनत्वपक्षे २ देवस्वामिके धने च ।

देवधानी स्त्री देवा धीयन्तेऽस्याम् धा--आधारे ल्युट् ङीप् ।

इन्द्रपुर्य्यां “तस्मिन्नैन्द्री पूर्वस्मान्मेरोर्देवधानी नाम”
भाग० ५ । २१ । १०

देवधान्य न० देवानां योग्यं धान्यम् । (देधान) धान्यभेदे । हेमच० ।

देवधूप पु० देवानां प्रियो धूपः । गुग्गुलौ रत्नमा० ।

देवन् पु० दिव--बा० अनि । पत्त्युरनुजाते भ्रातरि हेम० ।

देवन पु० दीव्यत्यनेन दिव--करणे ल्युट् । १ पाशके । भावे

ल्युट् । २ क्रीडायां ३ दीप्तौ ४ व्यवहारे ५ जिगीषायां ६ स्तुतौ
च न० । दीव्यत्यत्र दिव--आधारे ल्युट् । ७ लीलोद्याने
८ पद्मे च ।

देवनदी स्त्री ६ त० । गङ्गायाम् अमरः । “असंवाधा

देवनदी स्वर्गसम्पादिनी शुभा” भा० आदि० चैत्ररथपर्व । “इरा-
वती वितस्ता च सिन्धुर्देवनदी तथा” भा० आ० ९ अ० ।
“स्नातुं गतान् देवनद्यां दुर्वासःप्रभृतीन् मुनीन्” भा०
व० २६२ ण० २ देवखातनदीमात्रे च “सरस्वतीदृषद्वत्यो-
र्देवनद्योर्यदन्तरम्” मनुः ।

देवनन्दिन् पु० देवं शक्रं नन्दयति नन्दि--णिनि । इन्द्रद्वारपाले हेमच० ।

देवनल पु० देव इव श्रेष्ठत्वात् नलः । महानले स्थूलदण्डे

नलभेदे राजनि० ।

देवनामन् पु० कुशद्वीपपतिहिरण्यरेतसः पुत्रभेदे कुशद्वीप-

शब्दे २१४५ पृ० दृश्यम् ।

देवना स्त्री चु० दिव--भावे युच् । १ क्रीडायां शब्दरत्ना० । २ विलापे च ।

देवनामक पु० देवेति नाम यस्य कप् । देवयोनौ विद्याधरादौ

हेमचन्द्रे देवनारक इति पाठः नरएव नारा ततः स्वार्थे
क देवरूपनरः । देवजन इति तस्यार्थः सोऽपि तत्रार्थे ।

देवनाल पु० नलएव नालः स्वार्थे अण् देव इव श्रेष्ठत्वात्

नालः । नलोत्तमे राजनि० ।

देवनिद् त्रि० देवं निन्दति निन्द--क्विप् ६ त० । देवनिन्दके

“देवनिदोऽप्रथमा अजुर्यन्” ऋ० १ । १५२ । २

देवनिर्मित त्रि० ६ त० । १ देवै रचिते । “द्वीपेषु दिक्षु

पूर्वादि नगर्य्यो देवनिर्मिताः” सू० सि० । २ गुडुच्याम् स्त्री
शब्दार्थचि० ।

देवपति पु० ६ त० । इन्द्रे हेमच० ।

देवपत्नी स्त्री देवः पतिर्यस्याः । मपूर्वत्वात् वा नुक् ङीष् च ।

१ देवभार्य्यायाम् । “उत ग्रा व्यन्तु देवपत्नीः” ऋ० ५ । ४६ । ८
“देवपत्न्यो देवकन्या देवमातर एव च” भा० अनु० १४ अ०
२ शब्दार्थचि० मध्वालुके ।

देवपथ पु० ६ त० । १ छायापथे आकाशस्थिते छायाकारे पथि

देवपथ इव कन् तस्य देवपथादि० लुक् । २ तत्सदृशे च
३ देवमाने अर्चिरादिमार्गे च । देवयानशब्दे दृश्यम् ।
देवस्थानगमनार्थः पन्थाः । ४ देवस्थानगमनार्थे मार्गे च ।
स च अन्यैर्नरैर्गन्तुमशक्य इति हनुमता तस्य द्वारनि-
रोधः कृतः यथाह भा० व० १४८ अ० ।
“अयञ्च मार्गो मर्त्यानामगम्यः कुरुनन्दन! । ततोऽहं
रुद्धबान् मार्गं तवेमं देवसेवितम् । धर्षयेद्वा शपेद्वापि
मा कश्चिदिति भारत । दिव्यो देवपथोह्येष नात्र
गच्छन्ति मानुषाः” ।

देवपथादि पु० “इवे प्रतिकृतौ” पा० कनो लुग् निमित्ते शब्द

गणे सच गणः पा० ग० सू० उक्तो यथा
देवपथ हसपथ वारिपथ रथपथ स्थलपथ करिपथ
अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपथ सिद्धिगति
उष्ट्रग्रीव वायरज्जु हस्त इन्द्रदण्ड पुष्प मत्स्य ।

देवपर त्रि० देवः परोऽस्य । यद्भविष्ये देवायत्तसिद्धिचिन्तके

आपदुद्धारार्थं पौरुषचेष्टारहिते ।

देवपर्ण न० देवप्रियं पर्णमस्य । सुरपर्णे राजनि० ।

पृष्ठ ३७३७

देवपशु पु० देवाय उत्सृष्टः पशुः । देवोद्देशेन उत्सृष्टे

पशौ । “अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा ।
सपालान् वा विपालान् वा न दण्ड्यान् मनुरब्रवीत्” मनुः ।
भिन्नत्वेन २ देवोपासके च । “अथ योऽन्यां देवतामुपास्ते
अन्योऽसावन्योऽहमस्मि न स वेद यथा पशुरेव स देवा-
नाम्” इति श्रुतौ तस्य देवोपकरणतुल्यतया पशुत्वप्र-
तिपादनात्तथात्वम् ।

देवपात्र न० ६ त० । देवैः पीयतेऽत्र पा--आधारे ष्ट्रन् ।

अग्नौ “आस्पात्रं जूहुर्देवानामिति देवपात्रं वा एष
यदग्निस्तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति” शत० ब्रा०
१ । ४ । २ । १० “आस्यरूपं पात्रमास्पात्रम् । अग्नौ प्रक्षि-
प्तस्य हविषो देवैरद्यमानत्वादग्नेर्देवपात्रत्वम्” भा०

देवपान पु० देवैः पीयतेऽनेन पा--करणे ल्युट् । चमसे

सोमपानपात्रभेदे “चमसो देवपान इति चमसेन
ह वा एतेन भूतेन देवा भक्षयन्ति तस्मादाह चमसो
देवपान इति” शत० ब्रा० १ । ४ । २ । १४

देवपाल पु० शाकद्वीपस्य वर्षपर्वतभेदे । शाकद्वीपोपक्रमे

“एतस्य वर्षमर्य्यादागिरयो नद्यश्च सप्त सप्तैव । ईशान-
उरुशृङ्गो बलभद्रः शतकेसरः सहस्त्रस्रोता देवपालो
महानसः” इतिभाग० ५ । २० । १९

देवपालित त्रि० देवेन गेघाम्बुना पालितः । १ देवमात्रके

देशे २ सुररक्षिते च । देवाएनं पाल्यासुः आशिषि
संज्ञायां क्त । ३ संज्ञाभेदे तत्र च “कारकाद्दत्तश्रुतयो-
राशिषि” पा० दत्तश्रुतयोरेवेति नियमात् न अन्तोदात्तता

देवपीयु पु० देवान् पीयति हिनस्ति पीय--उन् । देवद्वेष्टरि

असुरे । “अपेतोयस्तु गणयोऽशुम्नां देवपीयवः” यजु०
३५ । १ “देवपीयवः देवद्विषः” वेददीपः

देवपुत्र पु० ६ त० । १ देवकुमारे “देवपुत्रोपमौ वीरौ बालाविव

हुताशनौ” हरिवं० ८४ अ० देवस्य पुत्रीव प्रियत्वात् ।
२ एलायां स्त्री जटाधरः । ६ त० । ३ देवकन्यायाञ्च स्त्री
स्वार्थे क । देवपुत्रिका तत्रार्थे राजनि० स्त्री

देवपुर् स्त्री ६ त० समासान्तविधेरनित्यत्वात् न अप् ।

अमरावत्याम् पुरशब्देन ६ त० स० । देवपुर तत्रार्थे न० ।

देवपुरी स्त्री पुरीशब्देन ६ त० स० अमरावत्याम् ।

देवपूज्य पु० ६ त० । सुराचार्ये वृहस्पतौ ।

देवप्रतिकृति स्त्री ६ त० । १ देवप्रतिमायाम् देवलानां जीबि-

कार्थे २ देवप्रतिमायाञ्च ।

देवप्रतिमा स्त्री ६ त० । देवमूर्त्तौ देवतामूर्त्तिशब्दे दृश्यम् ।

देवप्रश्न पु० देवानुद्दिश्य प्रश्नः । देवान् प्रति शुभाशुभविषय-

प्रश्ने उपश्रुतौ हेमच० । उपश्रुतिशब्दे दृश्यम् ।

देवप्रस्थ पु० सेनाविन्दुनृपपुरे । “स देवप्रस्थमासाद्य सेना-

विन्दो पुरं प्रति” भा० स० २६ अ०

देवप्रिय पु० ६ त० । १ पीतभृङ्गराजे २ वकवृक्षे च राजनि० ।

तत्पुष्पस्य देवप्रियत्वात् तथात्वम् ।

देवबधू पु० ६ त० । अप्सरःसु ।

देवबला स्त्री देवानामिव बलं यस्या ५ त० । १ सहदेव्यां २ त्रा-

यमाणामाञ्च राजनि०

देवबलि पु० देवार्थं बलिः वर्ण--इत् बल्यादेशः । देवार्थे

उपहारे ।

देवबाहु पु० यदुवंश्ये हृदीकपुत्रभेदे “निमिस्तस्मात् स्वयं

भोजो हृदीकस्तत्सुतो मतः । देवबाहुः शतधनुः
कृतवर्मेति तत्सुताः” भाग० ९ । २४ । २६ ऋषिभेदे च “गार्ग्यैः
पृथुस्तथैवाग्र्यो जान्यो वामन एव च । देववाहुर्यदु-
ध्रश्च पर्जन्यश्चैव सोमजः” हरिबं० २६१ अ० ।

देवब्रह्मन् पु० देव इव ब्रह्मा । नारदे त्रिका० ।

देवब्राह्मण पु० देवपूजकः ब्राह्मणः । देवले देवोपजीवके

उपजीविकाथं देवपूजके ।

देवभवन न० देवानां भवनमिव । १ अश्वत्थवृक्षे । ६ त० । २ स्वर्गे

शब्दच० । ३ देवप्रतिमालये च ।

देवभाग पु० ६ त० । सू० सि० उक्ते लवणसमुद्रात् उत्तरस्थिते

उत्तरगोलरूपे पदार्थे “ततः समन्तात् परिधिः क्रमे-
णायं महार्णवः । मेखलेव स्थितो धात्र्या देवासुरनि-
भागकृत्” सू० सि० “तेन समुद्रादुत्तरं भूगोलस्यार्द्धं
जम्बूद्वीपं देवानां, समुद्राद्दक्षिणं समुद्रातिरिक्तं भूगोल-
स्यार्द्धं षड्द्वीपषट्समुद्रोभयात्मकं दैत्यानामिति सिद्धम्
मेरुदण्डानुवद्धभूगोलमध्ये परिधिरूपो
लवणसमुद्रोऽस्ति । उत्तरगोलार्द्धं दक्षिणभूगोलार्धान्तर्गत
समुद्रस्य प्रान्तपरिधिस्पृष्टमिति मेखलाया कट्यधःस्थित
त्वेन तात्पर्य्यार्थः” रङ्ग० ।
“मेषादौ देवभागस्थो देवानां याति दर्शनम् । देवभागे
सुराणां च हेमन्ते मन्दतान्यथा । धनुर्मृगस्थः सविता
देवभागे न दृश्यते । देवभागेऽसुराणां तु वृषाद्ये भचतु-
ष्टये । भूमण्डलात् पञ्चदशे भागे दैवेऽथ वाऽऽसुरे” सू० सि० ।
देवाय देयो भागः । देवार्थं देवे २ धनादिभागभेदे च ।

देवभीति स्त्री ५ त० । १ देवेभ्यो भवे । ६ त० । २ देवानां भवे

च अत्र पूर्वपदप्रकृतिस्वरः ।
पृष्ठ ३७३८

देवभू स्त्री ६ त० । १ स्वर्गे देवं देवत्वं भवते भू--प्राप्तौ क्विप् ।

२ देवत्वप्राप्तरिभावे क्विप् । तदेवत्वप्राप्तौ शब्दर० ।

देवभूति स्त्री देवेषु भूतिः प्राप्तिरस्याः । १ मन्दाकिन्याम्

शब्दरत्ना० । ६ त० । २ देवानामैश्वर्ये च ।

देवभूमि स्त्री ६ त० । १ स्वर्गे । २ देवप्रियभूमौ च

देवभूय न० भू--भावे क्यप् ६ त० । देवभावे देवत्वे अमरः ।

देवभृत् पु० देवं बिभर्ति पालयति भृ--क्विप् । १ इन्द्रे २ विष्णौ च

“देवेशो देवभृद्गुरुः” विष्णुसं० । “देवभृत् शक्रस्तस्य गुरुः
शास्तेति” भाष्यम् एकनाम । नामद्वयपक्षे तु भिन्नं
पदम् देवभृद् गुरुः ।

देवभ्राज् पु० देवेषु भ्राजते भ्राज--क्विप् । सूर्यवंश्ये

देवभेदे “पुरा विवस्वतः सर्वे मह्यस्तेषां तथावरः । देवभ्राट्
तनयस्तस्य सुभ्राडिति ततः स्मृतः” भा० आ० १ अ०

देवमणि पु० देव इव मणिः देवप्रियो वा मणिः देवेषु

मणिरिव वा । १ सूर्ये २ कौस्तुभमणौ ३ अश्वरोमावर्तभेदे च
मेदि० । “सम्पन्नदेवमणयो भृतरन्ध्रभागाः” माघः ।
“सम्पन्नाः समग्राः देवमणयो निगालावर्त्ताः कौस्तुभादि
दिव्यमणयश्च येषान्ते “आवर्त्ती रोमजो देवमणिस्त्वेष
निगालजः” मल्लिनाथधृतकोषः ।

देवमत त्रि० ६ त० । १ देवसम्मते । २ ऋषिभेदे पु० “अत्राप्युदाह-

रन्तीममितिहासं पुरातनम् । नारदस्य च संवादमृ-
षेर्देवमतस्य च” भा० आश्व० २४ अ० ।

देवमातृ स्त्री ६ त० । १ सुराणां मातरि “देवकन्या

देवपत्न्यो देवमातर एव च” भा० अनु० १४ अ० । २ अदित्यां
च । ३ दाक्षायण्यां मत्स्यपु० ।

देवमातृक पु० देवः मेघवर्षः मातेव पालकत्वात् यस्य कप् ।

१ वर्षाम्बुसम्पन्नव्रीहिपालिते देशे अमरः । तदुपल-
क्षिते २ कृष्यादौ च “कच्चिद्राष्ट्रे तडागानि पूर्णानि च
वृहन्ति च । भागशो विनिविष्टानि न कृषिर्देवमा-
तृका” भा० स० ५ अ० ।

देवमान न० देवानां मानं कालपरिच्छेदभेदः । १ दिव्यमाने

मानुषसौरवर्षात्मके एकस्मिन् दैवे दिने तत्त्रिंशन्मिते तदीये
“मासे तद्रीत्या तेषां वर्षे च “संक्रान्त्र्या सौर उच्यते । मा
सैर्द्वादभिर्वर्षं दिव्यं तदशहरुच्यते । सुरासुराणामन्योन्यम-
होरात्रं विपर्ययात् । तत् षष्टिषड्गुणा दिव्यं वर्षमासुर-
मेव च” सू० सि० । “ब्राह्म्यं दिव्यं तथा पित्र्यं प्राजापत्यं
गुणस्तथा । सौरञ्च सावनं चान्द्रमार्क्षं मानानि वै नव”
सू० सि० “द्वितीयं दिव्यं देवमानम् । तच्च पूर्वोक्तम्”
रङ्गना० । देवेषु मानोऽस्य रमणीयत्वात् । २ देवयोग्ये
गृहादौ च “वेश्म परिष्कृतं देवमानेव चित्रस” ऋ०
१० । १०७ । १० देवमानेव देवमानमिव रमणीयमिति भा०
प्रथमास्थाने आकारादेशश्छान्दसः ।

देवमानक पु० देवेषु मानोऽस्य कप् संज्ञायां कन् वा ।

कौस्तुभमणौ देवमणौ शब्दरत्ना० ।

देवमाया स्त्री ६ त० । अविद्यायाम् बन्धहेतौ परमेश्वरमाया-

याम् “ते दुस्तरामतितरन्ति च देवमायाम्” भाग० २ । ७ । ४०

देवमार्ग पु० देवोपलक्षितो मार्गः । अर्चिराद्यभिमानिदेवा-

धिष्ठिते देवयाने पथि । १ देवाधिष्ठितपथमात्रे च ।
“ते (वानरा) विकृष्टास्तु बाहुभ्यां देवमार्गं च दर्शिताः”
रामा० सु० ६१ । ४

देवमास पु० दीव्यत्यत्र दिव--आधारे घञ् कर्म० । गर्भाव-

धिके अष्टमे मासि त्रिका० तत्र हि स्मृतेरोजसश्च
प्रादुर्भावात् गर्भस्य देवनावत्त्वात्तस्य तथात्वं यथाह याज्ञ०
“सप्तमे चाष्टमे मासि त्वङ्मासस्मृतिमानपि ।
पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति । अष्टमे मास्यतो
गर्भोजातः प्राणैर्वियुज्यते” “अनेनौजःस्थितिरेव जीवन
हेतुरिति दर्शयति तत्स्वरूपञ्च स्मृत्यन्तरे दर्शितम् “हृदि
तिष्ठति यत् शुद्धमीषदुष्णं सपीतकम् । ओजः शरीरे
संख्यातं तन्नाशान्नाश उच्यते” मिता० ६ त० । २ देवानां
मासे सौरत्रिंशद्वर्षात्मके मासे च ।

देवमित्र पु० देवो मित्रमस्य । संज्ञाभेदयुक्ते मनुष्यादौ

“संज्ञायां मित्रामित्रयोः” पा० बहु० अन्तोदात्तता । कुमा-
रानुचरमातृभेदे स्त्री “कण्डूतिः कालिका चैव
देवमित्रा च भारत!” भा० शल्य० ४७ अ० मातृगणोक्तौ

देवमीढ पु० यदुवंश्ये नृपभेदे “यदोरभूदन्ववाये देवमीढ

इति श्रुतः । यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः ।
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः” भा० द्रो० १४४ अ०

देवमीढुष पु० हृदीकस्य पुत्रभेदे “तस्यापि (हृदीकस्यापि)

कृतवर्मशतधनुर्देवमीढुषाद्याः पुत्रा बभूवु” श्रीधरधृत
पराशरः । २ देवमीढे वसुदेवपितामहे च “अश्मक्यां
जनयामास शूरं वै देवमीढुषः । महिष्यां जज्ञिरे शूरा-
द्भोज्याषां पुरुषा दश । वसुदेवो महाबाहुः पर्वमानक
दुन्दुभिः” इत्यादि हरिवं० ३५ अ० ।
क्रोष्टुवंश्ये ३ नृपभेदे “गान्धारी चैव माद्री च क्रोष्टो-
र्भार्य्ये बभूवतुः । गान्धारी जनयामास अनासत्रं
महाबलम् । माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढु-
षम् । तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्द्धनः”
हरिवं० ३५ अ० ।
पृष्ठ ३७३९

देवमुनि पु० देव इव मुनिः । देवर्षौ नारदादौ । १ तुराख्ये

ऋषौ च “एतेन वै तुरो देवमुनिः सर्वामृद्धिमार्ध्नोत्”
पञ्चभीष्मव्रा० २५ । १४

देवयज् पु० देवा इज्यन्तेऽत्र यज--आधारे क्विप् । देवयजन

योग्ये वह्निभेदे “अपाग्ने! अग्निमामादम् हि निष्क्र-
व्यादं सेध आ देवयजं वह” यजु० १ । १७ “तत्र त्रयो-
ऽग्नयः सन्ति । एकः आमात् । आममपक्वमत्तीत्यामा-
ल्लौकिकोऽग्निः । द्वितीयः क्रव्यात् शवदाहे क्रव्यं
मांसमत्तीति क्रव्यात् चिताग्निः । तृतीयो यागयोग्यः ।
तथाविधांस्त्रीनङ्गारान् गार्हपत्यात् प्राग्भागे पृथक्
कृत्य तेषां मध्ये यागयोग्यताहीनौ द्वावग्नी आमात्-
क्रव्यात्संज्ञौ त्याजयितुं गार्हपत्यं प्रत्युच्यते” वेददी०

देवयजन न० देवा इज्यन्तेऽत्र यज--आधारे ल्युट् ।

वेदिस्थाने “अपावरुं पृथिव्यै देवयजनाद् बध्यासम्”
यजु० १ । १५ २ पृथिव्यां स्त्री ङीप् । “पृथिवि! देव
यजन्योषध्यास्ते मूलं मा हिंसिषम्” १ । २४ हे
देवयजनि हे पृथिवि इत्यर्थः । ३ यागाधिकरणस्थानमात्रे
च “स यदस्यै पृथिव्या अनामृतं देवयजनमासीत्तच्चन्द्र-
मसि न्यदधत तदेतच्चन्द्रमसि कृष्णं तस्मादाहुश्चन्द्रमस्यस्यै
पृथिव्यै देवयजनमित्यपि ह वा अस्यै तस्मिन् देवयजन
इष्टं भवति तस्माद्वै प्रतिमार्ष्टि” शत० व्रा० १ । २ । ५ । १८
“वेदीमार्जनप्रशंसार्थमितिहासमाह । आ समन्तात् मृतं
सर्वदा नश्वरमामृतं तद्विपरीतं यद्देवयागाधिकरणभूतं
स्थानम्” भा० तत् स्थानं विशिनष्टि कात्या० श्रौ० २० । ४
१४ “नित्योदकं देवयजनं पुरस्तात्” सू० “पुरस्तात् प्राच्यां
दिशि नित्यं सदा स्थाय्युदकं यत्र तद् देवयजनमध्यव
सेयम्” कर्कः ।

देवयजि पु० देवं यजते यज--इन् । देवयाजके “अद्मो

द्विजान् देवयजीन् निहन्मः” भट्टिः ।

देवयज्ञ पु० ६ त० । देवानां यज्ञे पञ्चयज्ञान्तर्गते होमरूपे

गृहस्थनित्यकर्त्तव्येयज्ञभेदे । “अथातः पञ्च यज्ञाः” देवयज्ञो
भूतयज्ञः पितृयज्ञो ब्रह्मयज्ञो मनुष्ययज्ञ” इति ।
“तद्यदग्नौ जुहोति स देवयज्ञो यद्वलिङ्करोति स
भूतयज्ञो यत् पितृभ्यो ददाति स पितृयज्ञो यत् स्वाध्याय
मधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुष्य-
यज्ञ इति” आश्वा० गृ० सू० ३ । १, २, ३, “अध्यापनं
व्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो
नृयज्ञोऽतिथिपूजनम् । पञ्चैतान् यो महायज्ञान् न
हापयति शक्तितः । स गृहेऽपि वसन्नित्यं शूनादोषैर्न
लिप्यते” मनुः । तत्र होमस्य देवता मनुनोक्ता यथा
“आभ्यः कुर्य्याद्देवताभ्यो ब्राह्मणो होममन्वहम् ।
अग्नेः सोमंस्य चैवादौ तयोश्चैव समस्तयोः । विश्वेभ्य-
श्चैव देवेभ्यो धन्वन्तरय एव च । कुह्वै चैवानुमत्यै च
प्रजापतयएव च । सह द्यावापृथिव्योश्च तथा स्विष्ट-
कृतेऽन्ततः” । “तत्र च यज्ञशब्दो महच्छब्दश्च गौणः”
इति कुल्लू० ।

देवयज्य स्त्री देवानां यज्यः यागः । “छन्दसि निष्टर्क्ये-

त्यादि” नि० य । देवार्थयागक्रियायाम दर्शादि-
कायाम् । “दैव्याय कर्मणे शुन्धध्वम् देवयज्यायै” यजु० ।
१ । १३ । “देवयज्यायै देवसम्बन्धिन्यै यागक्रियायै दर्शादि
कायै” वेददी० । “अश्याम ते समुतिं देवयज्यया” ऋ०
१ । ११४ । ३ “वयं देवयज्यया देवयागेन तद्दैवत्येन यज्ञेना-
श्याम” भा० ।

देवयाजिन् पु० देवं यजते यज--णिनि । आत्मभेदेन

देवार्थयागकारके । “अथ ह स देवयाजी यो वेद
देवानेवाहमिदं यजे देवान्त्सपर्यामीति स यथा
श्रेयसे पापीयान् बलिं हरेद्वैश्यो वा राज्ञे वलिं
हरेदेवं स ह न तावन्तं लोकं जयति यावन्तमितरः”
शत० ब्रा० ११ । २ । ६ । १४ आत्माभेदेन याज्यपेक्षया तस्य निकृ-
ष्टत्वमुक्तम् आत्मयाजी श्रेयान् देवयाजी इत्युपक्रम्य तथा
वर्णनात् । २ कुमारसैन्यभेदे च “यज्ञबाहुः प्रबाहुश्च
देवयाजी च सोमपाः” भा० शल्य० ७६ अ० तत्सैन्योक्तौ

देवयात त्रि० देवं देवत्वं यातः । देवत्वप्राप्ते तस्य विषयो

देशः राजन्या० वुञ् । दैवयातक तस्य विषये देशे । अत्र
दैवयातव इति पाठान्तरं देवं देवत्वं याति या--तुन्
देवयातुः स्वार्थे अण् । दैवयातव देवत्वप्राप्तरि ततः
राजन्या० बुञ् । दैवयातवक तस्य विषये देशे ।

देवयात्रा स्त्री देवानां यात्रा । देवोत्सवादौ देवप्रतिमानां

स्थानान्तरनयनरूपगतौ ।

देवयात्रिन् पु० दानवभेदे “सोमपो देवयात्री च प्रवरो वीर

मर्द्दनः” हरिवं० २४० अ० ।

देवयान न० यायतेऽनेन या--करणे ल्युट् ६ त० । १ सुराणां

गतिसाधने रथभेदे विमाने । देवो परेशः यायतेऽनेन
मार्गेण या--करणे ल्युट् । २ अर्चिरादिमार्गरूपे पथिभेदे
पृष्ठ ३७४०
पु० अर्च्चिरादिमार्गशब्दे ३६४ पृ० दर्शितछान्दोग्य
वाक्यम् । “स एनान् ब्रह्म गमयतीत्येष देवयानः पन्थाः
देवपथो ब्रह्मपथ इत्यपि तत्र स्थानान्तरे पाठः ।
तत्र सन्निवेशाद्यधिष्ठातृदेवभेदादिकं शा० सू० भा० दर्शितं यथा
“अर्चिरादिना तत्प्रथितेः” शा० सू० ।
“आसृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम् । सृतिस्तु
श्रुत्यन्तरेष्वनेकधा श्रूयते । नाड़ीरश्मिसम्बन्धेनैका
“अथैतैरेव रश्मिभिरूर्द्ध्व आक्रमते, इति । अर्चिरा-
दिकैका “तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः” इति । “स
एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति” इत्यन्या ।
“यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति”
इत्यपरा । “सूर्यद्वारेण ते विरजाः प्रयान्ति” इति
चापरा । तत्र संशयः किं परस्परं भिन्ना एताः सृतयः
किं वैकैवानेकविशेषणेति । तत्र प्राप्तं तावद्भिन्ना एवैताः
सृतय इति, भिन्नप्रकरणस्थितत्वाद्भिन्नोपासनशेषत्वाच्च ।
अपि च “अथैतैरेव रश्मिभिः” इत्यवधारणमर्चि-
राद्यपेक्षायामुपरुध्येत, त्वरावचनञ्च पीद्ध्येत “स यावत्
क्षिप्येन्मनस्तावदादित्यङ्गच्छति” इति तस्मादन्योन्य-
भिन्ना एवैते पन्थान इत्येवं प्राप्तेऽभिदध्महे । अर्चि
रादिनेति । सर्वो ब्रह्मप्रेप्सुरर्चिरादिनैवाध्वना
रंहतीति प्रतिजानीमहे । कुतः? तत्प्रथितेः । प्रथितो
ह्येष मार्गः सर्वेषां विदुषाम् । तथाहि पञ्चाग्नि-
विद्याप्रकरणे “ये चामी अरण्ये श्रद्धां सत्यमुपासते”
इति विद्यान्तरशीलिनामप्यर्चिरादिका सृतिः श्राव्यते ।
स्यादेतत् यासु विद्यासु न क्राचिद्गतिरुच्यते तास्वेवेय-
मर्चिरादिकोपतिष्ठताम् यासु त्वन्याऽन्या श्राव्यते तसु
किमर्चिराद्याश्रयणम्? इति । अत्रोच्यते, भवेदेतदेवं यद्य-
त्यन्तभिन्ना एवैताः सृतयः स्युः, एकैव त्वेषा सृति-
रनेकविशेषणा व्रह्मलोकप्रतिपादनी क्वचित् केनचि
द्विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञा-
नादितरेतरविशेषणविशेष्यभावोपपत्तेः । प्रकरणभेदे-
ऽपि तु विद्यैकत्वे भवतीतरेतरविशेषणोपसंहारवद्गति-
विशेषणानामप्युपसंहारः । विद्याभेदेऽपि गत्येकदेश-
प्रत्यभिज्ञानाद्गन्तव्याभेदाच्च गत्यभेद एव । तथाहि
“ते तेषु व्रह्मलोकेषु पराः परावतो वसन्ति” “तस्मिन्
वसति शाश्वतीः समाः” “सा या ब्रह्मणो जितिर्या
व्यष्टिस्तां जितिं जयति तां व्यष्टिं व्यश्नुते” “तद्य
एवैतं ब्रह्मलोकं ब्रह्मचर्यणानुविन्दति” इति तत्र
तत्र च तदेवैकं फलं व्रह्मलोकप्राप्तिलक्षणं प्रद-
र्श्यते । यत्त्वेतैरवेत्यवधारणमर्चिराद्याश्रयणे न स्या-
दिति । नैष दोषः, रश्मिप्राप्तिपरत्वादस्य । न ह्येक
एवशब्दो रश्मींश्च प्रापयितुमर्हति, अर्चिरादींश्च
व्यावर्तयितुम् । तस्माद्रश्मिसम्बन्ध एवायमवधार्यते
इति द्रष्टव्यम् । त्वरावचनं त्वर्चिराद्यपेक्षायामपि
क्षैप्रार्थत्वान्नोपरुध्यते यथा निमिषमात्रेणात्रागम्यत
इति । अपि च “अथैतयोः पथोर्न कतरेण
चेति” मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा
पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं
पन्थानं प्रथयति । भूयांसि चार्चिरादिश्रुतौ मार्गप-
र्वाणि, अल्पीयांसि त्वन्यत्रं, भूयसाञ्चानुगुण्येनाल्पी-
यसाञ्च नयनं न्याय्यमित्यतोऽपि अर्चिरादिना
तत्प्रथितेरित्युक्तम्” भा० ।
“वायुमव्दादविशेषाविशेषाभ्याम्” सू० ।
“केन पुनः सन्निवेशविशेषेण गतिविशेषाणामितरेतर-
विशेषणविशेष्यभाव? इति तदेतत् सुहृद्भूत्वाऽऽचार्यो
ग्रथयति “स एतं देवयानं पन्थानमापद्याग्निलोकमा-
गच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं
स प्रजापतिलोकं स व्रह्मलोकं इति कौषि-
तकिनां देवयानः पन्थाः पठ्यते । तत्रार्चिर-
ग्निलोकशब्दौ तावदेकार्थौ ज्वलनवचनत्वादिति नात्र
सन्निवेशक्रमः कश्चिदन्वेष्टव्यः, वायुस्त्वर्चिरादिवर्त्मन्य-
श्रुतः कतमस्मिन् स्थाने सन्निवेशयितव्य इति । उच्यते,
“तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाण-
पक्षमापूर्य्यमाणपक्षाद्यान् षडुदङ्ङेति मासां-
स्तान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यम्
इत्यत्र संवत्सरात् पराञ्चमादित्यादर्वाञ्चं वायुमभि-
सम्भवन्ति, कस्मात् अविशेषविशेषाभ्याम् । तथाहि
“स वायुलोकम् इत्यत्राविशेषोपदिष्टस्य वायोः श्रुत्य-
न्तरे विशेषोपदेशो दृश्यते “यदा वै पुरुषोऽस्मांल्लो-
कात् प्रैति स वायुमागच्छति तस्मै स यत्र विजि-
हीते यथा रथचक्रस्य खण्डेन स ऊर्द्ध्व आक्र-
मते स आदित्यमागच्छति” इति एतस्मादा-
दित्याद्वायोः पूर्वत्वदर्शनाद्विशेषादव्दादित्यनयोरन्तराले
वायुर्निवेशयितव्यः । कस्मात् पुनरग्नेः परत्वदर्शना-
द्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते । नैषोऽस्ति
विशेष इति । वदामः । ननूदाहृता श्रुतिः “स एतं
पृष्ठ ३७४१
देवयानं पन्थानमापद्याग्निलोकमागच्छति, स वायुलो-
कम् इति । उच्यते, केबलोऽत्र पाठः पौर्वापर्येणा-
वस्थितो नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति ।
पदार्थोपदर्शनमात्रं ह्यत्र क्रियते “एतञ्चैतञ्च स गच्छति”
इति उत्तरत्र पुनर्वायुप्रत्तेन रथचक्रमात्रेण छिद्रेणोर्द्ध्व
आक्रम्यादित्यभागच्छतीत्यवगम्यते क्रमः तस्मात् सूक्त-
मविशेषविशेषाभ्यामिति । वाजसनेयिनस्तु “मासेभ्यो
देवलोकं देवलोकादादित्यम्” इति समामनन्ति, तत्रा-
दित्यानन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः । वायुमब्दा-
दिति तु छान्दोग्यश्रुत्यपेक्षयोक्तम् । छान्दोग्यवाज-
सनेययोस्त्वेकत्र देवलोको न विद्यते परत्र संवत्सरः,
तत्र श्रुतिद्वयप्रत्ययादुभावप्युभयत्र ग्रथितव्यौ, तत्रापि
माससम्बन्धात् संवत्सरः पूर्वः पश्चिमो देवलोक इति
विवेक्तव्यम्” भा० ।
“तड़ितोऽधिवरुणः सम्बन्धात्” सू० ।
“आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्” इत्यस्यां विद्युत
उपरिष्टात् वरुणलोकमित्ययं वरुणः सम्बध्यते ।
अस्ति हि सम्बन्धो विद्युद्वरुणयोः । “यदा हि
विशाला विद्युतस्तीव्रस्तनितनिर्घोषाः जीमूतोदरेषु प्रनृ-
त्यन्ति अथापः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति
वा” इति च ब्राह्मणम् । अपाञ्चाधिपतिर्वरुण इति
श्रुतिस्मृतिप्रसिद्धिः । वरुणाच्चाधीन्द्रप्रजापती स्थाना-
न्तराभावात् पाठसामर्थ्याच्चागन्तुकत्वादपि वरुणादी-
नामन्त एव निवेशः । वैशेषिकस्थानाभावात् विद्युच्चा-
न्त्याऽर्चिरादौ वर्त्मनि भा० ।
“आतिवाहिकास्तल्लिङ्गात्” सू० ।
इत्यादि सूत्रभाष्यन्तु आतिवाहिकशब्दे ६५२ पृ० दर्शितम्
“कार्यं वादरिरस्य गत्युपपत्तेः” सू० । “स एनान् ब्रह्म
गमयति” इत्यत्र विचिकित्स्यते, किं कार्यमपरं
ब्रह्म गमयति आहोस्विन् परमेवाविकृतं मुख्यं
व्रह्मेति । कुतः संशयः, ब्रह्मशब्दप्रयोगात् गतिश्रुतेश्च ।
तत्र कार्यमेव सगुणमपरं ब्रह्म नयत्ये तानमानवः
पुरुष इति वादरिराचार्य्यो मन्यते । कुतः? अस्य
गत्युपपत्तेः । अस्य हि कार्यव्रह्मणो गन्तव्यत्वमुपप-
द्यते प्रदेशवत्त्वात्, न तु परस्मिन् ब्रह्मणि गन्तृत्वं
गन्तव्यत्वं गतिर्वाऽवकल्पते सर्वगतत्वाद् प्रत्यगात्मत्वाच्च
गन्तृणाम्” भा० ।
“विशेषितत्वाच्च” सू० । “ब्रह्मलोकान् गमयति” “ते तेषु
ब्रह्मलोकेषु पराः परावतो वसन्ति” इति श्रुत्यन्तरे
विशेषितत्वात् कार्यब्रह्मविषयैव गतिरित्यवगम्यते । न हि
बहुवचनेन विशेषणं परस्मिन् ब्रह्मण्यवकल्पते । कार्ये
त्ववस्थाभेदोपपत्तेः सम्भवति बहुवचनम् । लोकश्रुति-
रपि विकारगोचरायामेव सन्निवेशविशिष्टायां
भोगभूमावाञ्जसी, गौणी त्वन्यत्र “ब्रह्मैव लोक एष
सम्राट्” इत्यादिषु । अधिकरणाधिकर्तव्यनिर्देशोऽपि
परस्मिन् ब्रह्मणि नाञ्जसः स्यात्, तस्मात् कार्यविष-
यमेवेदं नयनम्” भा० ।
“ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते समस्तस्य
हि जगतो जन्मादिकारणं ब्रह्मेति प्रतिष्ठापितमित्यत्रो-
च्यते” । “सामीप्यात्तु तद्व्यपदेशः” सृ० ।
“तुशब्द आशङ्काव्यावृत्त्यर्थः । परब्रह्मसामीप्यादपरस्य
ब्रह्मणस्तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते ।
परमेव हि ब्रह्म विशुद्धीपाधिसम्बन्धात् क्वचित्
कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिरुपासनायोपदिश्यमानम-
परमिति स्थितिः । ननु कार्य्यप्राप्तावनावृत्तिश्रवणं न
लभ्यते । न हि परस्मात् ब्रह्मणोऽन्यत्र क्वचित्
नित्यता सम्भवति । दर्शयति च देवयानपथप्रस्थिता-
नामनावृत्तिं “एतेन प्रतिपद्यमाना इमं मानव-
मावर्तं नावर्तन्ते” इति । “तेषामिह न पुनरा-
वृत्तिरस्ति तयोर्द्ध्वमायन्नभृतत्वमेतीति” चेति । अत्र
ब्रूमः” भा० ।
“कार्य्यात्यये तदध्यक्षेण महातः परमभिधानात्” सू० ।
“कार्यव्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैवोत्पन्नसम्यग्-
दर्शनाः सन्तस्तदध्यक्षेण हिरण्यगर्भेण सहातः परं
परिशुद्धं विष्णोः परं पदं प्रतिपद्यन्त इति । इत्थं क्रम-
मुक्तिरनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या । न ह्यञ्ज-
स्यैव गतिपूर्विका परप्राप्तिः सम्भवति इत्युपपादितम्” भा०
“स्मृतेश्च” सू० । “स्मृतिरप्येतमर्थमनुजानाति ब्रह्मणा
सह ते सर्वे संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः
प्रविशन्ति परं पदम्” इति । तस्मात् कार्यब्रह्मविषया
गतिः श्रूयत इति सिद्धान्तः” शा० भाष्यम् ।

देवयानी स्त्री शुक्राचार्यस्य कन्यायां सा हि कचशापात्

क्षत्रियेन ययातिनोढा तत्कथा भा० आ० ७५ । ७७ अ० ।
“देवयान्याश्च संयोगं ययातेर्नाहुषस्य च” । देवयानीञ्च
दयितां सुतां तस्य महात्मनः । देवयान्यामजायेतां
यदुस्तुर्वसुरेव च” ७५ अ० ।
पृष्ठ ३७४२

देवयावन् त्रि० देवं याति या--वनिप् । देवं प्रति गन्तरि

“द्रवद्दूतो देवयावा वनिष्ठः” ऋ० ७ । १० । २

देवयितृ त्रि० चु० दिव--परिदेवने तृच् । परिदेवके

देवयु त्रि० देवं याति या--मृगय्वा० नि० कु । १ धार्मिके ।

देवं द्योतनस्वभावे विष्णुभावमात्मन इच्छति क्यच्--तत
उन् । २ आत्मनो द्योतनस्वभावेच्छौ च “नरो यत्र
देवयवोमदन्ति” ऋ० १ । १४५ । ५ । ३ लोकयात्रिके मेदि० ४ देवे पु०
देवं यौति यु--मिश्रणे क्विप् अनित्यमागमानुशासनमिति
न तुक् । ४ यज्ञादिना देवानां मिश्रीकारके “सुधातुं यज्ञपतिं
देवयुवम्” यजु० १ । १२ छान्दस उवङ् ।

देवयुग पु० देवप्रियं युगम् । सत्ययुगे “पुरा देवयुगे ब्रह्मन्

प्रजापतिसुते शुभे आस्तां भगिन्यौ “ते भार्य्ये कश्यप-
स्यास्तां कद्रूश्च विनता तथा” भा० आ० १६ अ० । “पुरा देवयुगे
तात! देवेन्द्रेषु महात्मनः” भा० अनु० ८३ अ० ।

देवयोनि पु० देवानामिव कामिचारित्वात् योनिः यस्य ।

१ विद्याधरादौ ते च अमरोक्ता यथा “विद्याधरोऽप्सरो
यक्षोरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतो
ऽमी देवयोनयः” । ३ देवजातौ स्त्री “द्वे बै योनी इति ब्रू-
यात् देवयोनिरन्यो मनुष्ययोनिरन्यः” शत० ब्रा० ७ । ४ । २ । १०

देवयोषा ६ त० । अप्सरस्सु । “मुमुचुर्देवयोषाश्च पुष्पवर्ष-

मनुत्तमम्” भा० शल्य० ४७ अ० । “शुभे कुन्ती च माद्री च
देवयोषोपमे भुवि” हरिवं० ५४ अ०

देवर पु० दीव्यतेऽनेन दिव--करणे अरच् । भर्त्तुरनुजे

भ्रातरि । “पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे” उद्भटः
पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा “मनुः २ भर्तुर्भ्रातृ
मात्रे च “देवराद्वा सपिण्डाद्वा स्त्रिया सम्यग्नियुक्तया”
मनुः अत्र देवरशब्दः भर्तुः ज्येष्ठकनिष्ठोभयपरः ।
उत्तरत्र “विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि ।
गुरुवच्च स्नुषावच्च वर्त्तेयाताम् परस्परम्” कनिष्ठस्य पूर्वज
पत्नीत्वेन गुरुतुल्यत्वस्य ज्येष्ठस्य च कनिष्ठपत्न्याः स्नुषा-
तुल्यत्वस्योक्तेः । स्वार्थे क तत्रार्थे । “देवा देवरकोमतः”
उज्ज्वलद० धृतकोषः ।

देवरक्षित त्रि० ६ त० । १ देवेन २ रक्षिते देवकनृपपुत्रभेदे पु०

तत्कन्यायां स्त्री “देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशो-
पमाः । देववानुपदेवश्च संदेवो देवरक्षितः । कुमार्यः
सप्त चास्यासन् वसुदेवाय ता ददौ । देवकी शान्तिदेवी
च सन्देवा देवरक्षिता । वृकदेव्युपदेवी च सुनाम्नी चैव
सप्तमी” हरिवं० ३८ अ०

देवरथ न० देवस्यादित्यस्य रथः । सूर्यरथे “द्वात्रिंशत वै

देवरथाह्नन्यम्” शत० व्रा० १४ । ६ । ३ । २ देव “आदि-
त्यस्तस्य रथो देवरथः तस्य गत्या एकेनाह्ना यावद्देश-
परिमाणं परिच्छिद्यते तदेकं देवरथाह्नन्यम् तद् द्वा-
त्रिंशद्गुणितम् तावत् परिमाणोऽयं लोकः” भा०
२ प्रवरान्तर्गतर्षिभेदे ततः फिञ् । दैवरथायनि तदपत्ये
पुंस्त्री । ३ देवानां याने विमाने च

देवरहस्य न० देवानामपि रहस्यम् । अतिगोप्ये “श्रुतं

देवरहस्यं ते नारदाद्देवदर्शनात्” भा० आश्र० ३६ अ०

देवराज् पु० देवेषु राजते राज--क्विप् । इन्द्रे “वृत्रं

हत्वा देवराट् श्रेष्ठभाग् वै” भा० अनु० १ अ०

देवराज पु० देवानां राजा--टच् समा० । सुरराजे इन्द्रे

“यस्त्वासीद्देवको नाम देवराजसमद्युतिः” भा० आ० ६७ अ०
“देवराजः सहानुजः” वृ० सं० ४० अ० “ततः कुलालादि०
वुञ् । देवराजक तत्कृते त्रि० ।

देवरात पु० देवात्रनं रायासुः संज्ञायां क्त । १ विष्णुना देवेन

रक्षिते परिक्षिते नृपे परिक्षितशब्दे तत्कथा दृश्या
२ विश्वामित्रपुत्रभेदे “विश्वामित्रस्य च सुता देवरातादयः
स्मृताः” हरिवं० २७ अ० । “पार्थिवा देवराताश्च शालङ्क्या-
यनवङ्कनम्” हरिवं २७ अ० । ३ द्वापरयुगोद्भवे राजभेदे च
“चानूरुर्देवरातश्च भोजी भीमरथश्च यः” उपासते सभायां
तु कुन्तीपुत्रं युधिष्ठिरम्” भा० सभा० ४ अ० उपसंहारे युधि-
ष्ठिरसभासत्त्वेन तस्योक्तेः न तस्य परिक्षितादिरूपत्वम् ।
ततः काश्यादि० ठञ् ञिठ् च । दैवरातिक तदपत्यादौ
त्रि० । ठञि स्त्रियां ङीप् इति भेदः ।

देवर्षि पु० देव इव ऋषिः देवानामपि ऋषि पूज्यत्वात् ।

१ नारदादौ न्यायादिकर्तरि कणादादौ च “देवर्षिरचितं
गार्ग्य! कृष्णात्रेयचिकित्सितम् । न्यायतन्त्राण्य-
नेकानि तैस्तैरुक्तानि वादिभिः” भा० शा० २१० अ०
“आब्रह्म भुवनात् लोका देवर्षिपितृमानवः । तृप्यन्तु
पितरः सर्वे मातृमातामहादयः” तर्पणमन्त्रः ।

देवल पु० देव--वृषा० कलच् । १ धार्मिके २ देवद्रव्योपजीविनि

व्राह्मणे च “चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा ।
विपणेन च जीवन्तोवर्ज्याः स्युर्हव्यकव्ययोः” मनुः
“देवलः देवप्रतिमापरिचारकः वर्तनार्थत्वेनैतत्कर्मणोऽयं
निषेधः न धर्मार्थं “देवकोषोपजीवी च नाम्ना देवलको
भवेत्” देवलस्मरणात्, कुल्लू० । प्रत्यूषवसुपुत्रे ३ ऋषिभेदे
“प्रत्यूषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम्” हरिवं०
पृष्ठ ३७४३
३ अ० । आसतमुनेरपत्ये ४ ऋषिभेदे । स च रम्भाशापेना-
ष्टावक्रतया बभूव व्रह्मवै० पु० “असितपुत्रत्वात् तत्सहकार-
स्थले “असितो देवलो व्यासः” इत्यादौ तस्यैव बोधः ।
स च स्मृतिकर्त्ता यथाह हेमा० ब्र० ख० मनुः ।
“विष्णुः पराशरो दक्षः संवर्त्तव्यासहारिताः । शाता-
तपो वसिष्ठश्च यमापस्तम्बगौतमाः । देवलः शङ्खलि-
खितौ भरद्वाजोशनोऽत्रयः । शौनको याज्ञवल्क्यश्च
दशाष्टौ स्मृतिकारिणः” । ५ धौम्यर्षेरग्रजभ्रातरि च “यवी-
यान् देवलस्यैष वने भ्राता तपस्यति । धौम्य उत्कोचके
तीर्थे तं वृणीध्वं यदीच्छथ” भा० आ० १८३ अ० तस्य
धौम्याग्रजतोक्ता । ६ नारदमुनौ त्रिका० ७ देवरे शब्द-
रत्ना० । देवं लाति ला--क । जीविकार्थं देवप्रतिमायाः
८ स्थानान्तरनायके च । स्वार्थे क । देवलक तत्रार्थे ।

देवलता स्त्री देवप्रिया लता शा० त० । १ नवमल्लिकायाम्

शब्दच० । देवलस्य भावः तल् । २ देवलत्वे उपजीविकार्थं
देवपूजने स्त्री ।

देवलाङ्गुलिका स्त्री देवयत्यनया चु० देव--परिदेवने करणे

अच कर्म० । वृश्चिकालिकायां (विछाति) राजनि० ।

देवलाति स्त्री देवानां तत्प्रतिमानां लातिः ग्रहणम्

६ त० । देवप्रतिमाग्रहणे तस्य दासीभारादित्वात्
तत्पुरुषे पूर्वपदप्रकृतिस्वरत्वम् ।

देवलोक पु० देवानां लोकः । १ स्वर्गे त्रिका० । “आचार्य्यो

ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । अतिथिस्त्विन्द्र-
लोकेशो देवलोकस्य चर्त्विजः” मनुः । भूर्लोकोऽथ
भुवर्लोकः स्वर्लोकोऽथ महर्जनः । तपः सत्यञ्च सप्तैते
देवलोकाः प्रकीर्तिताः” मत्स्यपु० उक्तेषु २ भूर्लोकादिषु च

देववक्त्र न० देवानां वक्त्रं मुखमिव । वह्नौ तत्र हुतस्यैव

देवैरदनात् तस्य तन्मुखत्वम् ।

देववर्त्मन् ६ त० । सुरवर्त्मनि आकाशे हेमच० ।

देववर्द्धकि पु० ६ त० । विश्वकर्मणि हेमच० ।

देववर्द्धन पु० देवकनृपपुत्रभेदे “चत्वारो देवकात्मजाः ।

देववानुपदेवश्च सुदेवो देववर्द्धनः” भाग० ९ । २१ । १२

देववल्लभ त्रि० ६ त० । १ देवानामिष्टे २ सुरपुन्नागे पु० अमरः ।

देववात पु० देवैर्वातः वा--गतिगन्धयोः कर्मणि क्त

३ त० । देवैरिष्यमाणतया प्राप्ते ऋषिभेदे ।
“अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम्”
ऋ० ३ । २३ । २ ।

देववायु पु० द्वादशमनोः पुत्रभेदे “देववायुरहरश्च देवश्रेष्ठो

विदूरथः । मित्राविन्मित्रदेवश्च मित्रसेनश्च मित्रकृत् ।
मित्रवाहः सुवर्चाश्च द्वादशस्य मनोः सुताः” हरिवं०
७ अ० ।

देववाहन पु० देवान् हवींषि वाहयति प्रापयति

वहणिच्--ल्यु । १ वह्नौ “वृषो अग्निः समिध्यते अश्वो न
देववाहनम्” ऋ० ३ । २७ १४ ६ त० । २ देवानां वाहने न० ।

देवविद्या स्त्री देवज्ञानार्था विद्या । निरुक्तविद्यायाम्

“नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ
इतिहासपुराणपञ्चमो वेदानां वेदः पित्र्यो राशि-
र्दैवं निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या
भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैत-
न्नामोपास्वेति” छा० उ० “ऋग्वेदं भगवोऽध्येमि स्मरामि ।
यद्वेत्थेति विज्ञानस्य स्पृष्टत्वात्तथा यजुर्वेदं सामवेदमा-
थर्वणं चतुर्थवेदं वेदशब्दस्य प्रकृतत्वादितिहासपुराणं
पञ्चमं येषां वेदानां तत् पञ्चमानां वेदानां वेदं व्याकर-
णमित्यर्थः व्याकरणेन हि पदादिविभागश ऋग्वेदादयो-
ज्ञायन्ते पित्र्यं श्राद्धकल्पम् । राशिर्गणितं दैवमुत्-
पातज्ञानं निधिं महाकालादिनिधिशास्त्रम् । वाको
वाक्यं तर्कशास्त्रम् । एकायनं नीतिशास्त्रं देवविद्यां
निरुक्तं, ब्रह्मण ऋग्यजुः सामाख्यस्य विद्या ब्रह्मविद्या
शिक्षाकल्पछन्दश्चितयस्ताः । भूतविद्यां भूततन्त्रम् ।
क्षत्रविद्यां धनुर्वेदम् । नक्षत्रविद्यां । ज्योतिषं सर्पविद्यां
गारुड़म् । देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्य-
शिल्पादि विज्ञानानि । एतत् सर्वं हे भगवोऽध्येमि” भा०

देवविश् स्त्री ब० व० देवानां विशः । देवमनुष्येषु मरुत्सु ।

“मारुतस्तु सप्तकपालो विशो वै मरुतो देवविशस्ता
हेदमनिषेद्ध्रा इव चेरुस्ताः प्रजापतिं यजमानमुपेत्योचुर्विवैते
मथिष्यामह इमाः प्रजा या एतेन हविषा स्रक्ष्यसे”
शत० ब्रा० २ । ५ । १ । १२ । अजादि वा टाप्

देववी त्रि० देवं वेति कामयते वी--कान्त्यादिषु क्विप् ।

देवकामे । “स वह्निः सोम! जागृविः पवस्व
देववीरति” ऋ० ९ । ३६ । २ ।

देववीति स्त्री वी--खादने क्तिन् ६ त० । देवानां भक्षणे ।

“देववीतये त्वा गृह्णामि” यजु० १ । १५ । देवानां भक्षणा-
येत्यर्थः ।

देववृक्ष पु० देवप्रियो वृक्षः शाक० । १ मन्दारवृक्षे २ गुग्गुलौ ३ सप्तपर्णवृक्षे च मेदि० ।

देववृत्ति स्त्री देवकृता उणादिसूत्रस्य वृत्तिः । उणादि-

सूत्रवृत्तिभेदे ३ । ९८ । १०१ सू० उज्ज्वलदत्तीये दृश्यम् ।
पृष्ठ ३७४४

देवव्यचस् त्रि० वि + अन्च गतौ कसुन् ३ त० । देवैर्व्याप्ते

“स्तृणीमहि देवव्यचा विबर्हिः” ऋ ३ । ४ । ४ ।

देवव्रत पु० १ भीष्मे त्रिका० “गाङ्गं देवव्रतं नाम पुत्रं

सोऽजनयत् प्रभुः । स तु भीष्म इति ख्यातः कौरवाणां
पितामहः” हरिवं० ३ अ० । २ अधिपते इत्यस्यामृचि गेये
सामभेदे च तानि तदादीनि त्रीणि सामानि । ६ त० ।
३ देवत्वसाधने व्रते न० ।

देवव्रतिन् त्रि० देवतार्थं व्रतमस्त्यस्य इनि । देवार्थव्रतयुक्ते

“देवव्रती स्यादृषभप्रदाने” भा० आनु० ७१ अ० ।

देवशत्रु पु० ६ त० । १ देवारौ असुरे “स देवशत्रूनिव

देवराजः” भा० द्रो० १४६ अ० । २ सुश्रुतोक्ते देवगणग्रह-
भेदे तदाविष्टनरलक्षणं तत्रोक्तं यथा “संस्वेदी द्विज
गुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः ।
सन्तुष्टो भवति च न चान्नपानजातैर्दुष्टात्मा भवति च
देवशत्रुजुष्टः” ।

देवशर्म्मन् पु० देव इव शर्मा अशुभनाशकः, कर्म० वा । १ ब्राह्म-

णस्योपनामनि “ततश्च नाम कुर्वीत पितैव दशमेऽहनि ।
देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम्” बिष्णुपु० । “नरमा-
चष्टे नराख्यं नरनाम । देवपूर्वं देवात् पूर्वं तच्च विशिष्टं
शर्मयुतं तच्चान्ते” शृणाति हिनस्त्यशुभ शॄ--मनिन् शर्मा ।
देवपदं हि विप्राणां नाममात्रसम्बद्धम्” शु० त० । “शर्मा
देवश्च विप्रस्य शर्मा त्राता च भूभुजः । भृतिर्दत्तश्चवैश्यस्य
दासः शूद्रस्य कारयेत्” यमवचने शर्म्मदेवयोः क्रमेण
निर्देशेऽपि “शर्म्मान्तं व्राह्मणस्य स्यात् वर्म्मान्तं क्षत्रियस्य
तु” शातातपोक्तेः शर्म्मान्ततैव नामनि ज्ञेया अतएव
तर्पणप्रयोगे “अमुकगोत्रः पिता अमुकदेवशर्मा तृप्यतामे-
तत्तिलोदकं तस्मै स्वधेति” आ० त० । “शर्म्मन्नर्घादिके
कार्य्ये शर्म्मा तर्पणकर्मणि” गोभिलेन च शर्मान्तता
उक्ता । २ ऋषिभेदे “देवशर्म्मा च धौम्यश्च हस्तिकाश्यप
एव च” भा० अनु० १६५ ।

देवशस् अव्य० देव + बा० शस् । देवेष्वेत्यर्थे “त्वचि प्रति तान्

देवशो विहि” ऋ० ३ । १ । ५ ।

देवशिल्पिन् पु० ६ त० । विश्वकर्म्मणि ।

देवशुनी स्त्री देव इव प्रभावान्विता शुनी । देवतुल्यप्रभावा-

न्वितायां शुन्यां सरमायाम् । “पणिभिरसुरैर्निगूढ़ागा
अन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितामयुग्भिः पणयो
मित्रीयन्तः प्रोचुरिति” ऋ० १ । ६ । ५ भा० धृता श्रुतिः
“तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्त्ता तत्सत्रमुपाग-
च्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घं सत्रमुपास्ते । स
तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किञ्चिदपराध्यति
नावेक्षते हवींषि नावलेढ़ि किमर्थमभिहत इति । न
किञ्चिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनप-
कारी तस्माददृष्टन्त्वां भयमागमिष्यतीति” भा० आ० ३ अ० ।

देवशेखर पु० दीव्यतीति देवः शेखरोऽस्य । १ दमनकवृक्षे ६ त० ।

२ देवानां शेखरे पु० न० ।

देवश्रवस् पु० १ विश्वामित्रपुत्रभेदे “देवश्रवाः कतश्चैव

यस्मात्कात्यायनाः स्मृताः” हरिवं० २० अ० विश्वामित्र
पुत्रकथने । २ वसुदेवभ्रातरि “वसुदेवं देवभागं देवश्रव-
समानकम् । सृञ्जयं श्यामकं कङ्कं समीकं वत्सकं
वृकम्” भाग० ९ । २४ । १७ । “कंसवत्यां देवश्रवंसः
सुवीर इषुमांस्तथा” २३ श्लो०

देवश्री पु० देवान् श्रयति हविर्दानेन सेवते श्री--क्विप् ।

यज्ञे “दैव्याय धर्त्रे जोष्ट्रे देवश्रीः” यजु० १७ । ५६ ।
६ त० । २ देवानां लक्ष्म्यां स्त्री ।

देवश्रुत् त्रि० देवेषु श्रूयते श्रु--क्विप् तुक् । देवेषु

विख्याते । “देवश्रुतौ देवेष्वाथोषतम्” यजु० ५ । १७
“निग्राभ्या स्थ देवश्रुतस्तर्पयत मा” यजु० ६ । ३०

देवश्रुत पु० देवेषु श्रुतः विख्यातः । १ ईश्वरे २ नारदे ३ शास्त्रे

च शब्दार्थकल्प० । ४ जिनभेदे हेमच० । “स्वयंप्रभश्च
सर्वानुभूतिदेवश्रुतौ च यौ” । अवसर्पिण्यां जिनोक्तौ ।

देवश्रेणी स्त्री देवानां श्रेणीव । १ मूर्वालतायां राजनि०

६ त० । २ देवतापङ्क्तौ च ।

देवश्रेष्ठ पु० द्वादशमनोः पुत्रभेदे । “देववायुरहरश्च देवश्रेष्ठो

विदूरथः” हरिवं० ७ अ० । तत्सुतोक्तौ ।

देवसदन त्रि० सीदत्यत्र सद--आधारे ल्युट् । देवानामा-

धारे । “बहिर्देवसदनम्” श्रुतिः । “अश्वत्थो देवसदन-
स्तृतीयस्यामृतो दिवि” अथ० ५ । ४ । ३ ।

देवसभा स्त्री ६ त० । १ देवानां सभायां सुधर्म्मायाम् अमरः ।

२ राजसभायाञ्च ।

देवसभ्य त्रि० देवनं देवः क्रीड़ा तस्य सभा तत्र सीदति यत् ।

क्रीड़ार्थसभागते सभिके त्रिका० ।

देवसर्षप पु० दीव्यति द्योतते दिव--अच् नित्यक० । अश्वाक्षे

रक्तमूलके सूक्ष्मपत्रे वृक्षभेदे राजनि० ।

देवसह न० देवं सहते सह--अच् । १ भिक्षासूत्रभेदे

२ दण्डोत्पलोषधौ स्त्री विश्वः । ३ सोमाकरे पर्वतभेदे पु०
“हिमवत्यर्बुदे सह्ये महेन्द्रमलये तथा । श्रीपर्वते देव
पृष्ठ ३७४५
गिरौ गिरौ देवसहे तथा । पारिपात्रे च विन्ध्ये च
देवसुन्दे ह्रदे तथा । उत्तरेण वितस्तायाः प्रवृद्धाये
महीधराः । यश्च तेषामधोमध्ये सिन्धुर्नाम महानदः ।
हठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः” सुश्रुतः ।

देवसात् अव्य० देवाधीनं करोति कात्र्स्न्येन सम्प-

द्यते क्रादियोगे, देये वा देव + साति । १ कात्र्स्न्येन
देवाधीने सम्पन्ने २ देवाय देये च । “हता वा देवसात्
भूत्वा लोकान् प्राप्स्यथ पुष्कलान्” भा० द्रो० १९० अ०

देवसायुज्य न० युज--सम्प० भावे क्विप् युक् योगः

तया सह वर्त्तते सहशब्दस्य सादेशे सयुक् तस्य भावः
ष्यञ् ६ त० । देवत्वे अमरः ।

देव(वेद)सावर्णि पु० मनुभेदे स च त्रयोदशो मनुः ।

यथा “मनुस्त्रयोदशो भव्यो वेद (देव) सावर्णिरात्म-
वान् । चित्रसेनविचित्राद्या वेद (देव) सावर्णि
देहजाः । सुकर्मसूत्रामसंज्ञा देवा इन्द्रो दिवस्पतिः ।
निर्मोहतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा । देवहोत्रस्य
तनय उपहर्ता दिवस्पतेः । योगेश्वरो हरेरंशो वृहत्यां
संभविष्यति” भाग० ८ । १३ । १४

देवसुन्द पु० सोमाकारह्रदभेदे सुश्रुतः देवसहशब्दे दृश्यम् ।

देवसुषि पु० देवैः प्राणादित्यादिभिः रक्ष्यमाणः सुषिः

द्वारम् । प्राणादित्यादिभिः रक्ष्यमाणे हृदयस्य द्वार-
भेदे । स च पञ्चसंख्याकः छा० उ० न्यरूपि यथा
“तस्य ह वा हृदयस्य पञ्च देवसुषयः स योऽस्य प्रा-
ङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्ना-
द्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद”
“अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छोत्रं स
चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वी
भवति य एवं वेद” “अथ योऽस्य प्रत्यङ्सुषिः
सोऽपानः सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसमग्नाद्यमि-
त्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति य एवं वेद” “अथ
योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यः तदेत-
त्कीर्त्तिश्च व्युष्टिश्चेत्युपासीत कीर्त्तिमान् व्युष्टिमान्
भवति य एवं वेद” “अथ योऽस्योर्द्ध्वः सुषिः स उदानः
स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीत
ओजस्वी माहस्वान् भवति य एवं वेद” “ते वा
एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स
य एतानेव पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोलस्य द्वार
पान् वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्ग
लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य
द्वारपान् वेद” “तस्य ह वा इत्यादिना गायत्र्याख्यस्य
ब्रह्मण उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थ-
मारभ्यते । तस्येति प्रकृतस्य हृदयस्येत्यर्थः ।
एतस्यानन्तरनिर्दिष्टस्य । पञ्च पञ्चसंख्याका देवानां
सुषयो देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवैः
प्राणादित्यादिभीरक्ष्यमाणानीत्यतो देवसुषयस्तस्य स्वर्ग-
लोकभवनस्य हृदयस्यास्य यः प्राङ्सुषिः पूर्वाभि-
मुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः हृत्स्थस्तेन
द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति
प्राणः । तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुस्तथैवादित्यः
“आदित्यो ह वै बाह्यप्राण इति श्रुतेः” “चक्षूरूपप्रति-
ष्ठाक्रमेण हृदि स्थितः । “स आदित्यः कस्मिन्
प्रतिष्ठित इति चक्षुषीत्यादि” वाजसनेयके । प्राणवायु-
देवतैव ह्येका चक्षुरादित्यश्च सहाश्रयेण । वक्ष्यति
च “प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति” ।
तदेतत्प्राणाख्यं स्वर्गलोकद्वारत्वाद्ब्रह्म” “स्वर्गलोकं
प्रतिपित्सुस्तेजस्व्येतच्चक्षुरादित्यस्वरूपेणान्नादत्वाच्च
सवितुस्तेजीऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत । ततस्ते-
जस्व्यन्नादश्चामयावित्वरहितो भवति य एवं वेद तस्यै-
तद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्गलो-
कप्राप्तिहेतुर्भवतीति मुख्यञ्च फलम्” “अथ योऽस्य
दक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्य्यवत्कर्म कुर्व-
न्विगृह्य वा प्राणापानौ नाना वाऽनितीति व्यानस्त-
त्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियं तथा स चन्द्रमाः”
“श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्चेति” श्रुतेः । सहाश्रयं
पूर्ववत्तदेतच्छ्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्न हेतु
त्वमतस्ताभ्यां श्रोत्रज्ञानान्नवतश्च यशः ख्यातिर्भव
तीति यशोहेतुत्वाद्यशस्त्वमतस्ताभ्यां गुणाभ्यामुपासी
तेत्यादि समानम्” “अथ योऽस्य प्रत्यङ्सुषिः पश्चिम
स्तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन्नधोऽनिती
त्यपानः सा तथा सा वाक्” “तत्सम्बन्धात्तथाग्निस्तदेतद्
ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम्
अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य । अन्नग्रसनहेतुत्वादपा-
नस्यान्नाद्यत्वम् । समानमन्यत् । अथो योऽस्योदङ्सुषि-
रुदङ्गतः सुषिस्तत्स्थो वायुविशेषः सोऽशितपीते समं
नयतीति समानः । तत्सम्बद्धं मनोऽन्तःकरणं स पर्जन्यो
वृष्ट्यात्मको देवः, पर्जन्यनिमित्ताश्चापः” इति । “मनसा
पृष्ठ ३७४६
सृष्टा आपश्च वरुणश्चेति” श्रुतेस्तदेतत्कीर्त्तिश्च मनसो
ज्ञानस्य कीर्तिहेतुत्वात् । आत्मपरोक्षं विश्रुतत्वं कीर्ति-
र्यशः स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देह-
गतं लावण्यम् । ततश्च कीर्त्तिसम्भवात्कीर्त्तिश्चेति ।
समानमन्यत्” “अथ योऽस्योर्द्ध्वः सुषिः स उदान
आपादतलादारभ्योर्द्ध्वमुत्क्रमणादुत्कर्षाच्च कर्म कुर्वन्नित्युदानः
स वायुस्तदाधारश्चाकाशस्तदेतत् । वाय्वाकाशयोरोजो-
हेतुत्वादोजो बलं महत्त्वाच्च महः इति । समानम-
न्यत् । ते वै एते यथोक्ताः पञ्च सुषिसम्बन्धात्पञ्च
व्रह्मणो हार्दस्य पुरुषा राजपुरुषा इव द्वारस्थाः
स्वर्गस्य हार्द्दस्य लोकस्य द्वारपालाः । एतैर्हि चक्षुः-
श्रोत्रवाङ्मनःप्राणैर्वहिर्मुखप्रवृत्तैर्व्रह्मणो हार्दस्य
प्राप्तिद्वाराणि निरुद्धानि । प्रत्यक्षं ह्येतदजितकरणतया
वाह्यविषयासङ्गामृतप्ररूढ़त्वान्न हार्दब्रह्मणि मनस्ति-
ष्ठति । तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य
लोकस्य द्वारपा इति । अतः स य एतानेवं यथोक्तगुण-
विशिष्टान् स्वर्गस्य लोकस्य द्वारपान्वेदोपास्ते उपासनया
वशीकरोति स राजद्वारपालानिवोपासनेन वशीकृत्य
तैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दं
ब्रह्म । किञ्चास्य विदुषः कुले वीरः पुत्री जायते
वीरपुरुषसेवनात् । तस्य चर्ण्णापाकरणेन ब्रह्मोपासनप्रवृत्ति-
हेतुत्वम् । ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्य्येण
भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम्” भाष्यम् ।

देवसू पु० सुवन्ति अनुजानन्ति सू--क्विप् देवाश्च ते

सुवश्चेति कर्म० । अनुज्ञाकर्त्तृदेवभेदे । “स वै दीक्षते ।
स उपवसथेऽग्नीषोमीयं पशुमालभते तस्य वपया प्रच-
र्याग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपति तदनु-
देवसुवां हवींषि निरुप्यते” शत० व्रा० ५ । ३ । ३ । १ “देवसुवां
हवींषि विधित्सुस्तेषामग्नीषोमीयपशुपुरोडाशानन्तर-
भावित्वं वक्तुमाह उपवसथ इति उपवसथः सुत्यादि-
वसात् पूर्वमहः । तदनु देवसुवां हवींषि निर्वपति
सुवन्त्यनुजानन्तीति सुवः देवाश्च ते सुवश्चेति देवसुवः तेषां
देवसुवाम् “ओः सुपीति” पा० यण्णदेशः । प्रसवितृत्वं चैषा
माम्नायते “देवसुवामेतानि हवींषि भवन्ति एतावन्तो
वै देवानां सवाः त एवास्मै सवान् प्रयच्छन्ति त एनं सुवत
इति” भा० तत्तत्कर्मणि आधिपत्यादिकरणायानुज्ञाकर्त्ता-
रश्च सवित्रादयो वरुणान्ता अष्टौ देवा यथाह यजु० ९ । ३९
“सविता त्वा सवानां सुवतामग्निर्गृहपतीनां सोमो
वनस्पतीनाम् । वृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः
पशुभ्योमित्रः सत्यो वरुणो धर्मपतीनाम्” “सविता
सवानां प्रसबानामाज्ञानामाधिपत्ये हे यजमान! त्वा
त्वां सुवतां प्रेरयतु सर्वेषामाज्ञादानेऽधिकारी भवेत्यर्थः ।
अग्निः गृहपतीनां गृहस्थानामाधिपत्ये त्वां सुवताम् ।
सोभो वनस्पतीनां वृक्षाणामाधिपत्ये त्वां सुवतां वृक्षाः
सर्वे तवोपकारकाः भवन्त्वियर्था । वृहस्पतिर्वागर्थं त्वां
सुवतां पाण्डित्याय प्रेरयतु यद्वा षष्ठ्यर्थे चतुर्थी वाच
आधिपत्ये सुवताम् । इन्द्रोदेवो ज्यैष्ठाय ज्येष्ठभावाय
त्वां सुवताम् । रुद्रः त्वां सुवताम् । मित्रो देव सत्यः
सुपां सुलुगित्यादिना पा० चतुर्थ्याः सु आदेशः सत्याय
सत्यवाक्याय सत्यं वदितुं त्वां सुवताम् । वरुणो धर्म-
पतीनां धर्मेश्वराणां धर्मशीलानामाधिपत्ये त्वां
सुवताम् । सवित्रादयोऽष्टौ देवसूहविषां देवास्त्वां
नानाधिपत्यानि ददत्विति वाक्यार्थः” वेददी० ।

देवसृष्ट त्रि० ३ त० । देवेन सृष्टे “देवसृष्टो वा एषेष्टिर्यदा-

ग्रयणेष्टिरनया” शत० ५ । २ । ३ । ९ देवसृष्टा उ इति च्छेदः
“देवसृष्टी वा एषेष्टिर्यत् सौत्रामाण्यनया” ५ । ५ ।
४ । १४ मदिरिकायां स्त्री हेमच० ।

देवसेना स्त्री ६ त० । १ सुराणां सैन्ये । “देवसेनां दानवैर्हि

भग्नां दृष्ट्वा महाबलः” भा० व० २२२ अ० । २ प्रजापतेः कन्या-
भेदे सा च स्कन्दस्य भार्य्या षष्ठीति प्रथिता तत्कथा
भा० व० २२३ अ० “अहं प्रजापतेः कन्या देवसेनेति विश्रुता ।
भगिनी मे दैत्यसेना सा पूर्वं केशिना हृता”
“सदैवावां भगिन्यौ तु सखीभिः सह मानसम् ।
आगच्छावेह रत्यर्थमनुत्ताप्य प्रजापतिम् । नित्यञ्चावां
प्रार्थयते हर्त्तुं केशी महासुरः । इच्छत्येनं दैत्यसेना
न चाहं पाकशासन । सा हृताऽनेन भगवन्! मुक्ताहं
त्वद्बलेन तु । त्वया देवेन्द्र! निर्द्दिष्टं पतिमिच्छामि
दुर्जयम्” इन्द्र उवाच “मम मातृष्वसेया त्वं माता
दाक्षायणी मम । आख्यातन्त्वहमिच्छामि स्वयमात्मबलं
त्वया” कन्योवाच “अबलाऽहं महावाहो! पतिस्तु
बलवान्मम । वरदानात् पितुर्भावी सुरासुरनमस्कृतः”
इन्द्र उवाच “कीदृशन्तु बलं देवि! पत्युस्तव भविष्यति ।
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते!” कन्योवाच
“देवदानवयक्षाणां किन्नरोरगरक्षसाम् । जेता यो
हृष्टदैत्यानां महावीर्य्यो महाबलः । यस्तु सर्वाणि
भूतानि त्वया सह विजेष्यति । स हि मे भविता
पृष्ठ ३७४७
भर्त्ता ब्रह्मण्यः कीर्तिवर्द्धनः” मार्कण्डेय उवाच “इन्द्र-
स्तस्य वचःश्रुत्वा दुःखितोऽचिन्तयद्भृशम् । अस्या देव्याः
पतिर्नास्ति यादृशं संप्रभाषते” । इत्युपक्रमे व्रह्मण उपदे-
शेन स्कन्दस्य तत्पतित्वावधारणे स्कन्दोत्पत्तिमुपवर्ण्योक्तं
“सम्मार तां देवसेनां या सा तेन विमोक्षिता । अयं
तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् । इति
चिन्त्यानयामास देवसेनामलङ्कृताम् । स्कन्दं प्रोवाच
बलभिदियं कन्या सुरोत्तम! । अजाते त्वयि निर्दिष्टा
तव पत्नी स्वयम्भुवा । तस्मात्त्वमस्या विधिवत् पाणिं
मन्त्रपुरस्कृतम् । गृहाण दक्षिणं देव्या पाणिना
पद्मवर्चसा । एवमुक्तः स जग्राह तस्याः पाणिं
यथाविधि । वृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च ।
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः । षष्ठीं यां
ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम् । सिनीवालीं
कुहूञ्चैव सद्वृत्तिमपराजिताम । यदा स्कन्दः
पतिर्लब्धः शाश्वतो देवसेनया । तदा तमाश्रयल्लक्ष्मीः स्वयं
देवी शरीरिणी । श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीप-
ङ्कमी स्मृता । षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात् षष्ठी
महातिथिः” भा० व० २२८ अ० ।

देवसेनापति पु० ६ त० । कार्त्तिकेये शब्दार्थ० । तस्य तत्प-

तित्वकथा देवसेनाशब्दे दृश्या “देवसेनापतिः स्कन्दो
मातरो लोकमातरः” यजमानाभिषेकमन्त्रः ।

देवस्थान पु० देवानां स्थानमिव स्थानमस्य । ऋषिभेदे

“द्वैपायनी नारदश्च देवलश्च महानृषिः । देवस्थानश्च
कण्वश्च तेषां शिष्याश्च सत्तमाः” भा० शा० १ अ० । ६ त० ।
२ स्वर्गे न० ।

देवस्यत्वक पु० देवस्यत्वेति आद्यशब्दोऽस्त्यत्रानुवाके अध्याये

वा गोषदा० वुन् । देवस्यत्वेत्याद्यप्रतीकयुक्ते अध्याये
अनुवाके च ।

देवस्व न० ६ त० । देवप्रतिमार्थमुत्सृष्टे धने । “ब्रह्म-

स्वञ्च गुरोर्द्रव्यं देवस्वञ्च हरेत्तु यः । कन्यां ददाति
शुल्केन स प्रेतो जायते मृतः” भा० पञ्चप्रेतोपाख्याने
“देवस्वं व्राह्मणस्वं च लोभेनोपहिनस्ति यः” मनुः
“यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः” मनूक्ते
३ यज्ञशीलधने च ।

देवहविस् न० ६ त० । पशौ “आपो देवीः स्वदन्तु स्वात्तं चित्सद्देवहविः” यजु० ६ । १०

देवहव्य पु० देवाय हव्यं यस्य । ऋषिभेदे “संवर्त्तो

देवहव्यश्च विष्वक्सेनश्च वीर्यवान्” भा० स० ७ अ० शक्रसभ्योक्तौ ।

देवहित त्रि० ६ त० । १ देवानां हिते ३ त० । २ देवैः स्थापिते

च “नाना हि वा देवहितं सदस्कृतम्” यजु०
१९ । ७

देवहू स्त्री देवाह्वयन्तेऽत्र ह्वे--सम्प० भावे क्विप्, कर्त्तरि वा

क्विप् । १ देवाह्वाने “देवहूर्यज आ च वक्षत्” यजु०
१८ । ६२ । २ देवाह्वानकर्त्तरि त्रि० “यक्ष्मा हि
देवहूतमाँ अश्वाँ अग्ने रथीरिव” ऋ० ८ । ४ । १ । ४ ३ यज्ञार्थे
व्रीहिपूर्णे शकटे च “पप्रितमं जुष्टतमं देवहू-
तमम्” यजु० १ । ८ देवानामतिशयेनाह्वातृ यज्ञार्थं
ब्रीहिपूर्णं शकटं दृष्ट्वा देवा आहूता इव शीघ्र-
मागच्छन्ति” वेददी० । ४ वामकर्णे “आपणो व्यव-
हारोऽत्र चित्रमन्धी बहूदनम् । पिवृहूर्दक्षिणः
कर्णः उत्तरो देवहूः स्मृतः” भाग० ४ । २९ । १३ । ५ ऋषिभेदे
ततः गर्गा० यञ् । दैवहव्य तदपत्ये पुंस्त्री०

देवहूति स्त्री स्वायम्भु वमनोर्मध्यमायां कन्यायाम् “यस्तु

तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट् । स्त्री-
यासीत् शतरूपाख्या महिष्यस्य महात्मनः । तदा भिथुन
धर्मेण प्रजा ह्येधांबभूविरे । स चापि शतरूपायां
पञ्चापत्यान्यजीजनत् । प्रियव्रतोत्तानपादौ तिस्रः
कन्याश्च भारत! । आकूतिर्देवहूतिश्च प्रसूतिरिति
सत्तम! । आकूतिं रुचये प्रादात् कर्टमाय तु मध्यमाम्”
भाग० ३ । १२ । ३८ सा च कपिलरूपस्य भगवतीमाता
यथाह तत्रैव
“जज्ञे च कर्दमगृहे द्विज! देवहूत्यां स्त्रीभिः समं
नवभिरात्मगतिं स्वमात्रे । ऊचे यमात्मशमलं गुणसङ्ग
पङ्कमस्मिन् विधूय कपिलस्य गतिं प्रपेदे” भाग० २ । ३ । ४
तदुपदेशप्रकारश्च कपिलशब्दे भागवतवाक्योक्तः १६६३
पृष्ठादौ दर्शितः ।

देवहूय पु० देवा हूयन्तेऽसुरैः यत्र आधारे बा० क्यप् ।

१ देवासुरसंग्रामे “स्पर्द्धन्ते वा उ देवहूये” ऋ० ७ । ८५ । २ ।
भावे क्यप् । २ देवानामाह्वाने न० “ते वा एत ऋतवः ।
देवाः पितरः समो हैव विद्वान्देवाः पितरः इति
ह्वयत्याहास्य देवा देवहूयं गच्छन्त्या पितरः पितृहूय-
मवन्ति हैनं देवा देवहूयेऽवन्ति पितरः पितृहूये य
एवं विद्वान् देवाः पितर इति ह्वयति” शत० ब्रा० २ । १ । ३ । २
“ऋत्वादीनां देवपित्रात्मनां द्वेधा विभागमाह वसन्त
इत्युपक्रम्य य एवमृतूनां देवत्वं पितृत्वं च विद्वांस्तानृ-
तून् देवाः पितर इति ह्वयति व्यवहरेत् अस्याह्वातुः
देवहूयं देवह्वानं प्रति देवा आगच्छन्ति आगताश्च ते
स्वसम्बद्धे कर्मणि एनमवन्ति” भा०
पृष्ठ ३७४८

देवहेडन न० हेल--भावे ल्युट् ६ त० लस्य डः । देवाना-

मवहेलनरूपे अपराधे “यद्देवा देवहेडनं देवासश्चकृमा-
वयम्” यजु० २० । १४

देवहोत्र पु० त्रयोदशे मन्वन्तरे योगेश्वररूपस्य हरेरंशस्य

पितरि । त्रयोदशमनूपक्रमे “देवहोत्रस्य तनय उपहर्त्ता
दिवस्पतेः । योगेश्वरो हरेरंशो वृहत्यां संभविष्यति”
भाग० ८ । १३ । १४

देवह्रद पु० श्रीपर्वतस्थे तीर्थभेदे “श्रीपर्वते महादेवो देव्या

सह महाद्युतिः । न्यवसत् परमप्रीतो व्रह्मा च
त्रिदशैः सह । तत्र देवह्रदे स्नात्वा शुचिः प्रयतमा-
नसः । अश्वमेधमवाप्नोति परां सिद्धिञ्च गच्छति” भा०
व० ८५ अ० ।

देवा स्त्री दिव--अच् । १ पद्मचारिण्यां लतायाम् २ असनपर्ण्याञ्च शब्दच० ।

देवाक्रीड़ पु० देवा आक्रीड़न्त्यत्र आ + क्रीड--आधारे घञ्

६ त० । १ देवोद्याने इन्द्रारामे “देवराजाभ्यनुज्ञातो रत्नैश्च
प्रतिपूजितः । वैनतेयं समारुह्य सहितः सत्यभामया ।
देवाक्रीड़ं परिक्रामन् पूज्यमानः सुरर्षिभिः । स ददर्श
महाबाहुराक्रीडं वासवस्य च” हरिवं० १२३ अ०

देवागारिक त्रि० देवागारे नियुक्तः अगारान्तत्वात् ठन् ।

देवागारे परिचरणार्थं नियुक्ते ।

देवाची स्त्री देवानञ्चति वेदे बा० नलोपः नाद्र्यादेशश्च ङीप् ।

१ देवान् प्रति गन्त्र्यां २ देवानां पूजिकायां च “देवान्
प्रत्यक्तया कृपेति” यास्कोक्तेः देवान् प्रत्यक्ततया
सामर्थ्यलक्षणायां २ कृपायाञ्च “य ऊर्द्धया स्वध्वरो देवाच्या
कृपा” ऋ० १ । १२७ । १ “कृपा कृपयेति” भा०

देवाजीव त्रि० देवं देवप्रतिमाद्रव्यमाजीवति जीव--अण्

उपस० । (पूजारी) देवले । णिनि देवाजीवोत्यप्यत्र ।

देवाट त्रि० देवा अटन्त्यत्र अट--आधारे घञ् । देवगत्या-

धारे पाटलिपुत्रादुत्तरस्यां गङ्गापारे वर्तमाने १ हरिह-
रक्षेत्रे “यदा नन्दी शूलपाणिर्गोधनेन पुरस्कृतः । स्थि-
तवान तद्दिनादेव क्षेत्रं हरिहरात्मकम् । देवानामट-
नाच्चैव देवाट इति संज्ञितम्” वराहपु० । देवान-
टन्ति अट--अण् उप० स० । देवान् प्रति २ गन्तरि त्रि० ।

देवातिथि पु० पोरवनृपभेदे “ततश्चाक्रोधनस्तस्माद्देवातिथि

रभून्नृपः” भाग ९ । २२ । ९

देवातिदेव पु० देवानतिक्रम्य दीव्यति अति + दिव--अच् ।

विष्णौ “देवातिदेवो भगवान् प्रसूतिरंशे हरिर्यस्य
जगत्प्रणेता” हरिवं० १५४ अ० ।

देवात्मन् पु० देव आत्मा यस्य । १ अश्वत्थवृक्षे अश्वत्थशब्दे

दृश्यम् कर्म० । २ देवस्वरूपे च ।

देवाधिदेव पु० देवानामधिदेवः । १ सर्वेश्वरे परमेश्वरे

२ महादेवे च ३ जिनदेवभेदे हेमच० ।

देवाधिप पु० देवानामप्यधिपः । १ सर्वनियन्तरि परमेश्वरे २ द्वा-

परयुगीयनृपभेदे स च निकुम्भासुरांशात् द्वापरे भूमा-
ववततार यथाह भा० आ० ६७ अ० “निकुम्भादजितः संख्ये
महामतिरजायत । भूमौ भूमिपतिश्रेष्ठो देवाधिप
इति स्कृतः” । ३ इन्द्रे च “वलिं बद्धा महादैत्यं शक्रो
देवाधिपः कृतः” भा० उ० ९ अ०

देवानांप्रिय त्रि० ६ त० । “देवानां प्रिय इति च भूर्खे” वा०

अलुक्स० । १ मूर्खे “पशवो हि देवानां प्रीतिं जनयन्ति
इति तेषां प्रियास्तथा च तत्प्रियत्वेन पशुतुल्यता प्रती-
थते इत्यतः पशुवन्मूर्ख इति तदर्थः” तत्त्वबो० । २ छागे
पुंस्त्री त्रिका० ।

देवानीक पु० सावर्णस्य तृतीयमनोः पुत्रभेदे “संवर्त्तनः

सुशर्मा च देवानीकः पुरूवहः” हरिवं० ७ अ० तत्पु-
त्रोक्तौ । सगरवंश्ये २ नृपभेदे च “क्षेमधन्वसुतस्त्वासीत्
देवानीकः प्रतापवान्” हरिवं० १५ अ० । ६ त० । ३ देवानां
सैन्ये न० “उग्रं तच्च महानादं देवानीकं महाप्रभम्”
भा० व० २२६ अ० ।

देवानुक्रम पु० वैदिकमन्त्राणां देवताज्ञापनायानुक्रमो यत्र ।

वैदिकमन्त्राणां देवताज्ञापके ग्रन्थभेदे । सामान्यतः
छन्दोविशेषाणां देवताभेदाः सर्वानुक्रमणिकायामुक्ताः
तच्च देवताशब्दे ३६८२ पृ० “गायत्र्या अग्निरुष्णिहः
सवितेत्यादि” वाक्यम् दर्शितम् ।

देवानुचर त्रि० देवाननुचरति अनु + चर--ट । १ देवपश्चाद्गा

मिनि विद्याधरादौ उपदेवे “निशम्य देवानुचरस्य वाचं
मनुष्यदेवः पुनरप्युवाच” रघुः । देवानुयायिन्देवानुग
प्रभृतयोऽप्यत्र ।

देवान्तकं पु० ६ त० । १ राक्षसभेदे २ दैत्यभेदे च ।

देवान्धस् न० देवानामन्ध इव दर्शनेन प्रीतिकरम् । १ अमृते

हेमच० देवान्नादयोऽप्यत्र । देवयोग्यमन्धः । २ देवनैवे
द्यार्थे ३ कल्पितेऽन्ने च “अनुपाकृतमांसानि देवान्नानि
हवींषि च” मनुः ।
पृष्ठ ३७४९

देवापि पु० पौरवे प्रतीपराजपुत्रे नृपभेदे “प्रतीपस्य

त्रयः पुत्रा जज्ञिरे भरतर्षभ! । देवापिः शान्तनुश्चैव
बाह्लीकश्च महारथः । देवापिश्च प्रवव्राज तेषां धर्महिते-
ऽप्सया” भा० आ० ९४ अ० “ऋक्षस्तस्य दिलीपोऽभूत्
प्रतीपस्तस्य चात्मजः । देवापिः शान्तनुस्तस्य बाह्लाक
इति चात्मजाः । पितृराज्यं परित्यज्य देवापिस्तु वनं
गतः” भाग० ९ । २२ । ११ “देवापिर्योगमास्थाय कलाप-
ग्राममास्थितः । सोमवंशे कलौ नष्टे कृतादौ स्थाप-
यिष्यति” तत्रैव

देवाभीष्ट त्रि० ६ त० । १ देवानामभिलषिते २ ताम्बूल्यां स्त्री शब्दच० ।

देवायतन न० ६ त० । देवप्रतिमालये “न देवायतनं

गच्छेत् कदाचिद्वाऽप्रदक्षिणम् । न पीड़येद्वा वस्त्राणि
न देवायतनेष्वपि” कूर्मपु० “न जीर्णदेवायतने न
वल्मीके कदाचन” मनुना तत्र मूत्रोत्सर्गः प्रतिषिद्धः ।

देवायुध न० ६ त० । इन्द्रधनुषि सूर्यप्रतिकूलदिशि

सजलजलधरयुक्ते गगने सूर्यकिरणप्रतिविम्बेन जाते धनु
राकारे पदार्थे हेम० इन्द्रायुधशब्दे ९५४ पृ० दर्शितं
तदुत्पत्तिकारणं दृश्यम् । ६ त० । २ देवानामायुधे वज्रादौ च ।

देवायुस् न० ६ त० अच् समा० । देवानां जीवनकाले “मन्त्रे-

णाहवनीये निर्वपति ह्रसीयसा गार्हपत्ये द्राघीयो
हि देवायुषम्” शत० ब्रा० ७ । ३ । १ । १०

देवारण्य न० देवप्रियं देवभूयिष्ठं वा अरण्यम् । १ तीर्थभेदे

“प्रयागे देवरमणे देवारण्येषु चैव ह । भोगवत्यां
महाराज! कौशिकस्याश्रमे तथा” भा० उ० १८७ अ० ।
६ त० । २ देवनामारामे च “अलमुद्योतयामासुर्देवार-
ण्यमिवर्तवः” रघुः ।

देवारि पु० ६ त० । १ असुरे “येन देवारयः सर्वे महायुधि

निपातिताः” भा० द्रो० ८१ अ० ।

देवार्पण न० देवेषु अर्पणम् । देवोद्देशेन देयद्रव्यस्य

तद्दानजन्यफलस्य वा १ त्यागे । देवेभ्योऽर्प्यन्ते यैः अर्पि-
करणे ल्युट् । २ ऋग्वेदादौ “पृथग्भूतानि चान्यानि
यानि देवार्पणानि वै” भा० अनु० ८६ त० । “देवार्पणानि
ऋग्यजुःसामानि० पृथग्भूतानि मूर्तिमन्तीत्यर्थः” नीलक० ।

देवार्य्य पु० अहद्गणभेदे “अरिष्टनेमिस्तु नेमिर्वीरश्च-

रमतीर्थकृत् । महावीरो वर्द्धमानो देवार्यो ज्ञातनन्दनः ।
गणा नवास्यर्षिसंघा एकादश गणाधिपाः” हेमच० ।

देवार्ह त्रि० देवानर्हति दाने अर्ह--अण् उप० स० । १ देवाय

दानयोग्ये २ सुरपर्णे न० राजनि० ।

देवालय न० ६ त० । १ स्वर्गे २ देवप्रतिमाभवने च शब्दार्थ-

कल्प० । ३ सहदेवीलतायां स्त्री राजनि० ।

देवाला स्त्री देव इवालति अल--अच् । रागिणीभेदे हला० ।

देवावास पु० ६ त० । १ अश्वत्थवृक्षे त्रि० । २ स्वर्गे ३

देवप्रतिमालये ४ सुमेरौ च “देवावासः शुभः पुण्यो गिरि-
राजो हिरण्मयः” हरिवं० २३६ अ०

देवावी पु० देवानवति अव--प्रीणने औणादिक ई । १

देवतर्पके सोमे “देवेभ्यस्त्वा देवाव्यं गृह्णामि” यजु०
७ । २२ । देवा अव्यन्ते तर्प्यन्तेऽस्मिन् आधारे ई ।
२ देवतर्पणाधारे यज्ञे च “इमं नो देव! मवितर्यज्ञं प्रणय
देवाव्यम्” यजु० ११ । ८ ।

देवावृध् पु० देवा वर्द्धन्तेऽत्र वृध--क्विप् पूर्वपददीर्धः । पर्वत

भेदे “देवावृत् पर्वतश्चैव तथा वै बालुको गिरिः”
हरिवं० २३६ अ० ।

देवावृध पु० देवा वर्द्धन्तेऽनेन वृध--घञर्थे क दीर्घः । सात्वते

नृपभेदे “सात्वतान् सत्वसम्पन्नान् कोशल्या सुषुवे
सुतान् । भजिनं भजमानञ्च दिव्यं देवावृधं नृपम्”
हरिवं० ३८ अ० “छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपत-
द्दिवम्” भा० शा० २३४ अ०

देवाश्व पु० देवस्य शक्रस्याश्वः । उच्चैः श्रवसि अश्वे

देवाहार पु० देवयोग्य आहारः । १ देवार्हे आहारे ६ त० ।

२ अमृते हेमच० ।

देवाह्वय पु० नृपभेदे “देवाह्वयः सुप्रतिमः सुप्रतीको

वृहद्रथः” भा० आ० १ अ० नानानृपोक्तौ

देविक पु० अनुकम्पितो देवदत्तः मनुष्यनामवह्वच्कत्वेन ठन् ।

द्वितीयादचः परस्य लोपः । १ अनुकम्पिते देवदत्ते ।
दीव्यति दिव--ण्वुल् कापि अतैत्त्वम् । २ नदीभेदे स्त्री
“अर्द्धयोजनबिस्तारां पञ्चयोजनमायताम् । एतावद्दे-
विकामाहुर्देवर्षिपरिषेविताम्” पद्मपु० । ३ धुस्तूरे भावप्र०
देविकायां भवः अण् । एत आत् दाविक तत्र भवे त्रि० ।

देविन् त्रि० दिव--णिनि । क्रीडाकारके “राज्ञा सचिह्नं

निर्वास्याः कूटाक्षोपधिदेविनः” याज्ञ० ।

देविय पु० अनुकम्पितो देवदत्तः वह्वच्कमनुष्यनामत्वात्

घ द्वितीयादचः परस्य लोपः । अनुकम्पिते देवदत्ते ।

देविल त्रि० देवृ देवने इल्च् । १ धार्मिके । अनुकम्पितो

देवदत्तः इलच् देवियवत् । २ अनुकम्पिते देवदत्ते पु०

देवी स्त्री देवयति प्रवृत्तिनिवृत्त्युपदेशेन यथाधिकारं व्यव-

हारयति सर्वान् देव--णिच् अच् ङीप्, दीव्यति
दिवअच् पचादौ देवट् इति निर्देशात् टित्त्वात् ङीप्
पृष्ठ ३७५०
देवस्य पत्नी ङीष वा । १ देवपत्न्यां “देवीनां दक्षि-
णायने” स्मृतिः । देवसेनाशब्दे उदा० दृश्यम् ।
२ दुर्गायाञ्च धरणी “नमोदेव्यै महादेव्यै शिवायै सततं
नमः” “देव्या यया ततमिदं जगदात्मशक्त्या” इति च
देवीमाहात्म्यम् । “सकृत् कृत्वा महा पूजां देवी-
पादजलं पिबन् । न जातु जननीगर्भे गच्छेदिति
विनिश्चयः” दीवीभागव० “अपराधं परं कृत्वा देवी-
भक्तस्य को नरः । सुखं लभेत यदपि भवेत् त्राता शिवः
स्वयम्” इति देवीभाग० ३ कृताभिषेकायां राजमहिष्याम्
अमरः । ४ मूर्वायां ५ पृक्कायां च मेदि० । ६ द्विजस्त्रीणा-
मुपाधिभेदे “देव्यन्ताश्च स्त्रियः सर्वा दास्यन्ताः शूद्रयोनयः”
कर्मविपाकः । ७ आदित्यभक्तायां ८ लिङ्गिन्यां ९ बन्ध्या-
कर्कोटक्यां १० शालपर्ण्यां ११ महाद्रोण्यां १२ पाठायां
१३ नानरमुस्तायाम् । १४ मृगेर्वारुकायां १५ हरीतक्याम्
१६ अतस्यां १७ श्यामानामखगे च स्त्री राजनि० । १८
रविसंक्रान्तौ तत्कालस्य यथा देवीस्वरूपत्वम् तथा एकादशीत०
निरणायि यथा “अतीतानागतो भोगो नाड्यः पञ्च-
दश स्मृताः । सान्निध्यन्तु भवेत् तत्र ग्रहाणां संक्रमे
रवेः । व्यवहारो भवेल्लोके चन्द्रसूर्योपलक्षितः । काले
विकल्पते सर्वं ब्रह्माण्डं सचराच रम् । पूण्यपापविभा-
गेन फलं देवी प्रयच्छति । एकाधिककृतं तस्मिन्
कोटिकोटिगुणं भवेत् । धर्माद्विवर्द्धते ह्यायूराज्यं पुत्रसु-
खादि च । अधर्माद्व्याधिशोकादि विषुवायणसन्निधौ ।
विषुवेषु च यद्दत्तं जप्तं भवति चाक्षयम् । एवं विष्णु-
पदे चैव षड़शीतिमुखेषु च” देवीपु० । “भोगोव्याप्तिः
सूक्ष्मसंक्रमणकालसन्निधाने पुण्यतमत्वमिति यावदिति
कल्पतरुः । वस्तुतस्तु भुज्यत इति भोगो भोग्यः
रविसंक्रमणे अतीतानागतः कालो भोग्यस्तन्निमित्तपुण्य-
पापजननयोग्य इति यावत् । अतएव पुण्यपापविभा-
गेन फलमित्युपसंहृतम् । स कालः कियानित्याह ।
नाड्यः पञ्चदशेति उभयतः पञ्चदशदण्डपुण्यत्वं दिवा
विष्णुपदीविषयमिति तिथितत्त्वे वक्ष्यते । सान्निध्य-
मित्यादिना तस्यैव कालस्य स्तुतिः । विकल्पते स्वभावात्
प्रच्यवते । देवी संक्रान्तिकालस्वरूपा संक्रान्त्युपक्रमे
देवीपुराण एव “समायनमृतुर्मासः पक्षोहश्च क्रमेण
तु । स्थूलसूक्ष्मविभागेन देवी सर्वगता विभो!” ।
इत्यभिधानात् “कलाकाष्ठादिरूपेण परिणामप्रदायिनी”
इति मार्कण्डेयपुराणाच्च” रघु० । तत्र कृताभिषेकायां
राजमहिष्याम् “स्नातोऽनुलिप्तः सुरभिः स्रग्वी रुचिर-
भूषणः । स्नातां विशुद्धवसनां गच्छेद्देवीं सुभूष-
णाम् । न हि देवीगृहं गच्छेदात्मीयात् सन्निवेश-
नात् । अत्यर्थवल्लभोऽपीह विश्वासं स्त्रीषु न व्रजेत् ।
देवीगृहगतं भ्राता भद्रसेनममारयत् । मातुःशय्यान्तरे
लीनं कारूषञ्चौरसं सुतम् । लाजान् विषेण संयोज्य
मधुनेति विलोडितः । देवी तु काशीराजेन्द्रं निजधान
रहोगतम्” काम० नीति० ।

देवीकोट पु० शोणितपुरे वाणासुरपुरे त्रिका० ।

देवीन्धियक पु० देवीं धिया इत्याद्यप्रतीकशब्दोऽस्ति अत्र

अनुवाके अध्याये वा गोषदा० वुन् । देवीं धियेत्याद्यप्रती-
कयुक्ते अनुवाके अध्याये च ।

देवीपुराण न० देव्यामाहात्म्यादियुक्ते उपपुराणभेदे

देवीभागवत न० देव्या माहात्म्यावेदकं भागवताख्यं पुरा-

णम् । पुराणभेदे तच्चोपपुराणं कल्पान्तरे महापुराणं
वेति उपपुराणशब्दे निर्णीतं तत्र दृश्यम् ।

देवीमाहात्म्य न० ६ त० । मार्कण्डेयपुराणान्तर्गते

“सावर्णिः सूर्यतनय इत्यादिके सावर्णिर्भविता मनुरित्यन्ते
त्रयोदशाध्यायात्मके ग्रन्थभेदे “श्रोष्यन्ति चैव ये भक्त्या
देवीमाहात्म्यमुत्तमम्” मत्स्यापु० ।

देवीरापसक पु० देवीराप इत्याद्यप्रतीकमस्त्यत्रानुवाक्ये

अध्याये वा गोषदा० युन् । देवीराप इत्याद्यप्रतीकयुक्ते
अध्याये अनुवाके च ।

देवीसूक्त न० देव्याः तद्देवताकं सूक्तमृकसमुदायः । ऋग्वेदे

शाकलसंहितायामतिप्रसिद्धे देवीदेवताके १ सूक्तभेदे
“रात्रिसूक्तं जपेदादौ मध्ये सप्तशतीं जपेत् । प्रान्ते तु
जपनीयं वै देवीसूक्तमिति क्रमात्” मरीचिकल्पः । तत्रैव
पुरश्चरणप्रकरणे “कृष्णाष्टमीं समारभ्य यावत्
कृष्णचतुर्दशीम् । वृद्ध्यैकोत्तरमाजाप्यं पूर्वसंपुटितं तत् ।
एवं देव्या यथा प्रोक्तः पौरश्चरणिकः क्रमः । तदन्ते
हवनं कुर्यात् प्रतिश्लोकेन पायसम् । रात्रिसूक्तं प्रति
ऋचं तथा देव्याश्च सूक्तकम् । हुत्वान्ते प्रजपेत् स्तोत्र-
मादौ पूजादिकं मुने!” अत्र गुप्तवतीकारा आहुः ।
“पूर्वसंपुटितम् पूर्वाभ्यां पूर्वोक्ताभ्यां रात्रिसूक्तदेवीसू-
क्ताभ्यां संपुटितम्” प्रतिश्लोकेनेति मन्त्रविभागोपलक्ष-
णम् कात्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य
हवनादिविधिं प्रति वाक्यशेषत्वेन तेनैव बैधपदार्थनिर्ण-
यावश्यमभावात् । रात्रिसूक्तदेवीसूक्ते च ऋग्वेदे
पृष्ठ ३७५१
शाकलसंहितायां प्रसिद्धे । तथेत्यनेन जपे कॢप्तक्रमः
संपुटाकारो निर्दिश्यते तच्छब्दस्य पूर्वपरामर्शित्वात् ।
तस्य श्लोकपूरणमात्रार्थत्वं तुन न्याय्यम् । द्वाभ्यामपि
सूक्ताभ्यां त्रिरावृत्तसप्तशतीहोमोत्तरमेव पाठक्रमानु-
सारेण होमः । “विश्वेश्वरीं जगद्धात्रीमिति” स्तवो
रात्रिसूक्तम् । “नमोदेव्यै महादेव्यै इति” स्तवो देवी-
सूक्तमिति कश्चित् तन्न “प्रतिश्लोकं प्रतिऋचमिति”
प्रतिनियतनिर्देशविरोधात् ऋक्सूक्तादिशब्दानां
वैदिकमन्त्रेष्वेव रूढत्वप्रसिद्धेः । मत्स्यसूक्तमित्यादि
क्वाचित्कतान्त्रिकव्यवहारस्य केवलयौगिकत्वेनोपपत्तेः ।
तेन ऋक्पदस्य श्लोके लक्षणेत्युक्तिरपि साहसमात्रम् ।
समुद्रमनोध्यानादिविधौ वृहद्रथन्तरपदयोः प्रतिनियत-
निर्देशबलादेव लक्षणाव्यवस्थाया इव प्रकृते
कॢप्ताया एव शक्तेर्व्यवस्थादार्ढ्यस्य कैमुतिकन्यायेनैव
सिद्धेः । यदि त्वेवमालोच्यते “विश्वेश्वर्य्यादिकं सूक्तं
दृष्टं तद्ब्रह्मणा पुरा । स्तुतये योगनिद्राया मम देव्याः
पुरन्दर! । महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तथा ।
देव्या ययादिकं दिव्यं दृष्टं देवैः सहर्षिभिः ।
देवि! प्रपन्नार्त्तिहरे! प्रसीदेत्यादिकं तथा ।
नारायणीस्तुतिर्नाम सूक्तं परमशोभनम् । अमुष्याः
स्तुतये दृष्टं व्रह्माद्यैः सकलैः सुरैः । नमो देव्यादिकं
सूक्तं सर्वकामफलप्रदम्” इति विशफलितवेषेण
पाञ्चरात्रलक्ष्मीतन्त्रे व्यवहारदर्शनादेतेषां स्तोत्राणा
मपौरुषेयत्वस्य सिद्धान्तितत्वाच्च सूक्तत्वव्यवहारो युज्यत
एवेति । तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लो-
कात् पूर्वं ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पा-
ठाच्च । त्वं स्वाहेत्यारभ्यैव स्तोत्रारम्भः तस्य च
योगनिद्रात्मकरात्रिदैवतत्वात् मरीचितन्त्रे रात्रि-
सूक्तपदेन निर्देश इति समाधेयं परं त्वेतत्तन्त्रमनु-
सरता विश्वेश्वरीमिति श्लोकेऽङ्गहोमदशायां न
होतव्यम् । स्तोत्रान्तिमश्लोकस्य द्वेधा विभागोऽपि न
कार्यः । देवीसूक्तेऽपि त्रेधा विभागोऽङ्गहोमे न
विधेयः प्रधानविधिशेषस्याङ्गविधावन्वयेन प्रतिऋच-
मिति पदे लक्षणाकल्पने मानाभावादित्यवधेयम्” ।
२ नमोदेव्यै महादेव्यै इत्यादिके देवीमाहात्म्यस्य पञ्च-
माध्यायस्थे देव्याः स्तुतिरूपे मालामन्त्रे च “स च
वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्” देवीमाहा० तत्र
गुप्तवतीकारा आहुः “देवीसूक्तं बह्वृचेष्वतिप्रसिद्ध-
मेकं । विश्वेश्वरीमित्यादीत्येके श्रीसूक्तमाथर्वणप्रसिद्ध
मित्यन्ये । वस्तुतस्तु देवीसूक्तं नमोदेव्या इत्यादिक
पञ्चमाध्यायस्थं स्तुतिरूपं तच्च सर्वदेवताकूटस्थाया
महालक्ष्म्याः स्तोत्रं शुम्भादिवधार्थिभिर्ब्रह्मादिभिर्देवै-
र्दृष्टं सर्वक्लेशपरिहारैश्वर्य्यादिफलकं तत्कामाभ्यां ताभ्यां
जप्तम् अनुपदं श्रुतत्वात् बुद्धिसन्निहितत्वाच्चेदमेव देवी-
सूक्तपदेनात्र गृहीतुमुचितं लक्ष्मीतन्त्रसम्मतश्चायमर्थः
इति प्रागेव निरूपितमित्यपरे “प्राणाधः संस्थितं वीजं
व्योम वीजं हुताशनः । त्रिकोणविन्दुनादाढ्यं प्रण-
वादि नमोऽन्तकम् । अम्बिकासिद्धिदं ज्ञेयं देवीसूक्तं
परं स्मृतम्” इति क्वचित्पठिते ३ मन्त्रभेदे च ।

देवृ पु० दिव--ऋ । देवरे स्वामिनः कनिष्ठभ्रातरि अमरः ।

देवेज् पु० देवं यजते यज--क्विप् । देवयष्टरि

देवेज्य पु० देवानामिज्यः पूज्यः । सुराचार्य्ये जीवे शब्दर० ।

देवेन्द्र पु० ६ त० । सुरेन्द्रे शक्रे “त्वमेव देवेन्द्र! सदा

निगद्यसे” रघुः ।

देवेश पु० ६ त० । १ देवनियन्तरि परमेश्वरे २ महादेवे च

“भगवांश्चापि देवेशो यत्र देवी च कीर्त्त्यते” भा० आ०
६२ अ० । ३ तत्पत्न्यां स्त्री ङीष् । “देवेशि! भक्तिसुलभे ।
परिवारसमन्विते! । यावत्त्वां पूजयिष्यामि तावत्त्वं
सुस्थिरा भव” तन्त्रसारः । ४ विष्णौ पु० “देवेशो
देवभृद्गुरुः” विष्णुस० देवेश्वरादयोऽप्यत्र ।

देवेशय पु० देवे अधिष्ठातृतया शेते शी--अच् अलुक्स० ।

देवेषु अधिष्ठातृतया वासिनि १ परमेश्वरे २ विष्णौ च
“अमृतेशय! हिरण्येशय! देवेशय! कुशेशय!”
भा० शा० ३४० अ० ।

देवेष्ट त्रि० देवानामिष्टः । १ देवानामभिलषिते २ महामेदायां ३ गुग्गुलौ च पु० राजनि० ।

देवोद्यानं न० ६ त० । देवानामुद्याने तद्भेदश्च नन्दनं चैत्र-

रथं वैभ्राजं सर्वतोभद्रमिति चत्वारि, त्रिकाण्डे तु
वैभ्राजं मिश्रकं सिध्रकावणं चैत्ररथमिति उक्तानीति भेदः ।

देवौकस् न० ६ त० । देवस्थाने सुमेरौ “राक्षसालयदे-

वौकःशैलयोर्मध्यसूत्रगाः । रोहितकमवन्ती च तथा
सन्निहितं सरः” सूर्यसि० ।

देव्य न० देवस्य भावः ष्यञ वेदे बा० न वृद्धिः । देवत्वे

“महत्तद्वोदेव्यस्य प्रवाचनम्” ऋ० ४ । ३६ । १ “देव्यस्य
देवत्वस्य प्रवाचनं प्रख्यापकम्” भा० ।

देश पु० दिशति दिश--अच् । भूगोलान्तर्गते विभागभेदे

जनपदशब्दे विवृतिः । विस्तरस्तु देशावलीग्रन्थस्य प्रामाण्ये
तत्र दृश्यः ।
पृष्ठ ३७५२

देशक त्रि० दिश--कर्त्तरि ण्वुल् । १ उपदेष्टरि

अनुशास्तरि हेमच० । देश + स्वार्थे क । २ देशशब्दार्थे

देशकारा(री) स्त्री रागिणीभेदे सङ्गीतशास्त्रम् । इयं च

मेघरागस्य भार्य्या

देशधर्म्म पु० देशानुरूपः धर्मः । देशोचितधर्मे स च

“यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः” मनूक्तः
“देशधर्मान् जातिधर्मात् कुलधर्मांश्च शाश्वतान् ।
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः” मनुः
शास्त्रविरोधस्थले देशधर्मः परित्याज्यः यथाह आ० गृ०
सू० १ । ७१ नारयणोपाध्यायः “वैदेहेषु सदाएव व्यवा-
योदृष्टः गृह्ये तु “व्रह्मचारिणौ त्रिरात्रमिति” ब्रह्मचर्यं
विहितं तत्र गृह्योक्तमेव कर्म कुर्य्यात् न देशधर्ममिति” ।

देशना स्त्री दिश--णिच्--युच् । नियोगे विध्यादौ “एको-

द्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादि देशना” ति० त० व्यासः ।

देशपरिच्छिन्न त्रि० ३ त० अधिकरणैकदेशवर्तिनि सर्वा-

व्यापिनि । यथा संयोगादि ।

देशभाषा स्त्री देशप्रचलिता भाषा शा० त० । तत्तद्देशेषु प्रचु-

लितभाषायाम् मातृभाषायाम् । “कुशला देशभाषासु
जल्पन्तोऽन्योन्यमीश्वराः” भा० श० ४६ अ० ।

देशराजचरित न० गद्यपद्यमयात्मके चम्पूभेदे सा० द०

देशरूप न० दिश--कर्मणि घञ् देशस्य दिश्यमानस्य

उचितस्य रूपम् । उचिते समञ्जसे अमरः “लघुना देशरू-
पेण ग्रन्थयोगेन भारत!” भा० शा० १०७ अ० । देश + प्रशं-
सायाम् रूपप् । २ प्रशंसिते देशे च ।

देशाखो स्त्री रागिणीभेदे सा च हिन्दीलरागस्य द्वितीय

भार्य्या संगीतशास्त्रम् ।

देशान्तर न० अन्योदेशः मयूर० स० । १ देशभेदे तच्च स्मृतौ

परिभाषितं यथाह वृद्धमनुः
“वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः ।
महानद्यन्तरं यत्र तद्देशान्तरमुच्यते । देशनामनदी-
भेदान्निकटोऽपि भवेद् यदि । तत्तु देशान्तरं प्रोक्तं
स्वयमेव स्वयम्भुवा । दशरात्रेण या वार्त्ता न श्रूयेता-
थवा पुनः । वृहस्पतिः “देशान्तरं वदन्त्येके षष्टियो-
जनमायतम् । चत्वारिंशद्वदन्त्येके त्रिंशदेके तथैव च”
“इत्युक्तमुनिद्वयवचनोक्तवागादियोजनादिभेदसामञ्जस्या-
र्थमेवं व्याख्यायते त्रितयवैशिष्ट्ये त्रिंशद्
योजनाभ्यन्तरे, द्वितीयवैशिष्ट्ये तदुपरि, एकवैशिष्ट्ये
चत्वारिंशद्योजनोपरि, वाणीगिरिमहानद्यन्तरितत्वभेदा-
भावेऽपि षष्टियोजनोपरि, वैदेश्यमिति शुद्धिचिन्ता-
मणिः” शु० त० रघु० । “देशान्तरगते प्रेते” शु० त० “क्लीवे
देशान्तरगते पण्डिते भिक्षुकेऽपि वा । योगशास्त्राभि-
युक्ते च न दोषः परिवेदने” उ० त० शातातपः
भूगोलस्थमध्यरेखातः पूर्वापरस्थे उत्तरदक्षिणस्थे वा
योजनविशेषान्तररूपे चरसंज्ञके २ पदार्थे तत्स्वरूपं
सि० शि० उक्तं तच्च चरशब्दे ८९८ पृ० दर्शितम् ।
अधिकमत्र सि० शि० उक्तं तत्रादर्शितं दर्श्यते
“यल्लङ्काज्जायनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत्
सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः” मू०
“अत्रोपपत्तिर्गोले इदानीं देशान्तरमाह” प्रमिता० “यत्र
रेखापुरे स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितैर्योजनैः ।
खेटभुक्तिर्हता स्पष्टभूवेष्टनेनोद्धृता प्रागृणं स्वं तु पश्चाद्
ग्रहे” मू० “अत्रोपपत्तिस्त्रैराशिकेन गोलेऽभिहिता च ।
इदानी देशान्तरघटिका आह” प्रमि० “प्राग्भूविभागे
गणितोत्थकालादनन्तरं प्रग्रहणं विधोः स्यात् । आदौ
हि पश्चाद्विवरे तयोर्या भवन्ति देशान्तरनाडिकास्ताः ।
तद्घ्नं स्फुटं षष्टिहृतं कुवृत्तं भवन्ति देशान्तरयोजनानि ।
घटीगुणा षष्टिहृता द्युभुक्तिः स्वर्णं ग्रहे चोक्तवदेव
कार्यम् । अर्कोदयादूर्द्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां
दिनपप्रवृत्तिः । ऊर्द्ध्वं तथाधश्चरनाडिकाभी रवावुदग्-
दक्षिणगोलयाते” मू० । “यः किल मध्यरेखाया अपरिज्ञा-
नात् ततः प्राक् पश्चाद्वा स्थितोऽस्मीति न वेत्ति तेनैवं
ज्ञातव्यम् । विधुग्रहणदिने घटिकायन्त्रेण स्पर्शकाले
रात्रिगतं ज्ञेयम् । अथ च गणितेन स्पर्शकालो ज्ञेयः ।
गणितोत्थकालादनन्तरं प्रग्रहणं यदि दृष्टं तदा द्रष्टा
रेखातः प्राग्भूविभागे । यतो द्रष्टा यथा यथा रेखातः
प्राग्व्रजति तथा तथा रेखोदयात् प्रागेवार्कोदयं
पश्यति । इतोऽन्यथा चेत् तदा पश्चाद् द्रष्टा । दृग्ग्र-
हणप्रग्रहणकालयोरन्तरं देशान्तरघटिकास्ताभिर्गुणं
षष्ट्या हृतं स्पष्टभूवेष्टनम् एवमनुपाताद्देशान्तरयोज-
नानि । अथ वा किं योजनैः । यदि घटीषष्ट्या
गतिर्लभ्यते तदा देशान्तरघटीभिः किमिति । एवं यत्
फलमुत्पद्यते तत् प्रागृणं पश्चाद्धनमिति युक्तमुक्तम् ।
तथा प्राच्यां ताभिर्घटीमिर्दिनवारप्रवृत्तिरर्कोदयादूर्द्ध्वं
भवति । प्रतीच्यां तु तस्मादधः । यतो लङ्कोदये
वारादिः । अतएव च रवावुत्तरगोलस्थे चरार्द्धघटिका-
भिरूर्द्ध्वम् । यतस्तदोन्मण्डलं क्षितिजादूर्द्ध्वम् । दक्षिणे
त्वधोऽतस्तत्रोदयादधो वारप्रवृत्तिरिति सर्वं निरवद्यम्”
प्रमि० ।
पृष्ठ ३७५३

देशिक त्रि० देशे प्रसितः टन् । १ पथिके हेमच० । देश

उपदेशः तत्र प्रसितः । २ गुर्वादौ “धर्माणां देशिकः
साक्षात् स भविष्यति धर्मभाक्” भा० अ० १४७ अ० ।

देशिन् त्रि० दिशति दिश--णिनि । १ देशके स्त्रियां ङीप् सा

च २ तर्ज्जन्यां शब्दच० “कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य
च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” याज्ञ०

देशी स्त्री रागिणीभेदे सा च दीपकरागस्य भार्य्या

देशीय त्रि० देशे भवः गहा० छ । देशभवे “इति पाश्चात्त्य

देशीयाः पठन्ति” रघु० “सुरते कर्णमूलेषु यच्च देशीय
भाषया । दम्पत्योर्जल्पितं मन्दं मन्मनं तद्विदुर्बुधाः”
कामशास्त्रम् ।

देशित त्रि० दिश--णिच् कर्मणि क्त । उपदेशप्रेरिते

“काकेभ्यो रक्ष्यतामन्नमिति वालोऽपि देशितः । उपघातप्र-
धानत्वान्न श्वादिभ्योऽपि रक्षति” मीमांसाकारिका ।

देशीयवराडी पु० रागिणीभेदे “देशीयवराडीरूपक

तालेन गीयते” गीतगो०

देश्य त्रि० दिश--कर्मणि ण्यत् । १ उपदेश्ये २ पूर्वपक्षे न०

शब्दरत्ना० देशे भवः दिगा० यत् । ३ दशभवे त्रि० अस्य
अकर्मधारये तत्पुरुषे उत्तरपदस्थस्य वर्ग्या० आद्युदात्तता ।

देष्ठ त्रि० अतिशयेन दाता दातृ + अतिशायने इष्ठन् तृणोलोपे

गुणः । दातृतमे “वसुदेष्ठः सुन्वते भुवः” ऋ० ८ । ६६ । ६

देष्णु त्रि० दा--इष्णुच् गुणः । दातरि उज्ज्वल०

देह पु० न० दिह--घञ् । १ शरीरे स च स्थूलसूक्ष्मकारण-

भेदात् त्रिविधः । अङ्गशब्दे गात्रशब्दे च विवृतिः
सूक्ष्मदेहस्यैव भोगो ब्रह्मवैवर्त्तपु० दर्शितो यथा
तत्र यमं प्रति सावित्रीप्रश्नः “स्वदेहे भस्मसाद्भूते यान्ति
लोकान्तरं नराः । केन देहेन वा भोगं भुञ्जते च
शुभाशुभम् । देहो वा किंविधो ब्रह्मन्! तन्मे व्या-
ख्यातुमर्हसि” तत्र यमस्योत्तरम् “शृणु देहविवरणं
कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति
स्फुटम् । देहिनां देहवीजञ्च स्रष्टुः सृष्टिविधौ
परम् । पृथिव्यादिपञ्चभूतैर्यो देहो निर्मितो भवेत् ।
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह । वृद्धाङ्गुष्ठप्रमा-
णञ्च यो जीवः पुरुषः कृतः । बिभर्त्ति सूक्ष्मदेहन्तं
तद्रूपं भोगहेतवे । स देहो न भवेद्भस्म ज्वलदग्नौ
यमालये । जलेन नष्टी देहो वा प्रहारे सुचिरे कृते ।
न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा ।
तप्तद्रवे तप्तलौहे तप्तपाषाण एव च । प्रतप्तप्रतिमाश्ले-
षेऽप्यत्यूर्द्धपतनेऽपि च । न च दाधो न भग्नश्च भुङ्क्ते
सन्तापमेव च । कथितं देहवृत्तान्तकारणञ्च यथागमम्”
स्थूलश्च नश्वरः । “अन्तवन्त इमे देहा नित्यस्योक्ताः
शरीरिणः” गीता । सूक्ष्मादित्रैविध्यं सां० का० त० कौ०
“सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः
स्युः । सूक्ष्मास्तेषां नियताः मातापितृजा निवर्तन्ते”
सा० का० “त्रिधा विशेषाः स्युः । तान् विशेषप्रकारानाह
सूक्ष्मा इत्यादि सूक्ष्मदेहाः परिकल्पिताः (१) मातापि-
तृजाः षाट्कौशिकाः तत्र मातृतो लोमलोहितमांसानि,
पितृतस्तु स्नाय्वस्थिमज्जान इति षट्कोगणः । प्रकृष्टानि
महान्ति भूतानि प्रभूतानि तैः सह सूक्ष्मशरीरमेकोवि-
शेषः मातापितृजो द्वितीयः महाभूतानि तृतीयः ।
महाभूतवर्ग च घटादीनां निवेशः इति । सूक्ष्ममा-
तापितृजयोर्देहयोर्विशेषमाह सूक्ष्मास्तेषां विशेषाणां
मध्ये ये, ते नियताः, नित्याः मातापितृजा निवर्तन्ते
रसान्ता वा भस्मान्ता वा विड़न्ता वेति सूक्ष्मशरीरं
विभजते” त० कौ०
“पूर्वोत्पन्नम(श)सक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” सां० का०
प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् अस(श)म-
व्याहतं शिलामप्यनुविशति नियतम् आ वादिसर्गात् आ
च महाप्रलयादवतिष्ठते । महदादिसूक्ष्मपर्यन्तं
महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्यन्तम् एषां समुदायः
सूक्ष्मशरीरं शान्तघोरमूढैरिन्द्रियैरन्वितत्वाद्विशेषः । नन्व-
स्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन
षाट्कौशिकेन शरीरेणेत्यत आह संसरतीति उपात्तमु
पात्त षाट्कौशिकं शरीरं जहाति हायं हायं चोपादत्ते
कस्मात्? निरुपभोगं यतः, षाटकौशिकं शरीरं विना
सूक्ष्मं शरीरं निरुपभोगं, तस्मात्संसरति । ननु धर्मा-
धमनिमित्तः संसारः न च सूक्ष्मशरीरस्यास्ति यद्योगः,
तत्कथं संसरतीत्यत आह भावैरधिवासितं धर्माधर्म-
ज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वय्यर्य्याणि भावास्तदन्विता
बुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवासितं
यथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामोदवासितम्भवति
तस्माद्भावैरेवाधिवासितत्वात्संसरति । कस्मात्पुनः प्रधा-
नमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह
पृष्ठ ३७५४
लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्ग-
त्वमिति भावः” त० कौ० । परिकल्पिना इत्यस्य अनुमिता
इत्यर्थः तत्प्रयोगश्च परलोके कर्मफलभोगः सूक्ष्मदेहं
विनाऽनुपन्नः भोगत्वात् स्थूलस्वदेहारब्धकृष्यादिजनि-
तस्य शस्यस्य स्वदेहेनैव भोगवत् यद्यत् स्वदेहारब्ध कर्म-
फलं तत्तत् स्वदेहेनैव भोग्यं नेतरेण अन्यथा कृतहान्य-
कृताभ्यागमप्रसङ्ग इत्यादि तर्कश्चात्रानुसन्धातव्यः ।
“किन्तु देहमयोनिजम्” भाषा० “देहात्मप्रत्ययो यद्वत्
प्रमाणत्वेन कल्पितः” शा० भा० कारिका “देहिनाऽस्मिन्
यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिः”
गीता । उत्पत्तिस्थानभेदेवः देहश्चतुर्विधः “देहश्चतुर्विधोज्ञेयो
जन्तोरुत्पत्तिभेदतः । उद्भिज्जः स्वेदजोऽण्डोत्थश्चतुर्थश्च
जरायजः” राघवभट्टधृतवाक्यम् । ज्योतिषोक्ते २ लग्ने
च “देहाधीशः स्वगेहे बुधगुरुकविभिः संयुतो
वीक्षितो वा” जातका० । दिह--भावे घञ् । ३ लेपने पु०

देहकर्त्तृ त्रि० देहं करोति कृ--तृच् । १ देहकारके पृथिव्या-

दिभूते २ ईश्वरे ३ सूर्ये च पु० कर्मसाक्षित्वात्तयोस्तथात्वम्
“देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः” भा० व०
३ अ० । सूर्यनामोक्तौ ।

देहकृत् त्रि० देहं करोति कृ--क्विप् । १ देहकारके पृथि-

व्यादिभूते । २ परमेश्वरे पु० “स एष भगवान् देवः” इत्यु-
पक्रमे “देहकृत् देहभृत् देही” भा० अनु० १६ अ०
ईशस्तुतिः ।

देहकोष पु० देहस्य कोष इव । देहावरके खगानां पक्षे (पाखा) शब्दच० ।

देहक्षय पु० देहस्य क्षयो यस्मात् । १ रोगे शब्दच० । ६ त० ।

२ देहस्य नाशे च ।

देहज पु० देहात् जायते जन--ड । १ तनुजे पुत्रे “द्वैपायना-

दनवरो महित्वे तस्य देहजः” । २ पुत्र्यां स्त्री । ३
देहजातमात्रे त्रि० “अहितो देहजो व्याधिर्हितमारण्यमौष-
धम्” उद्भट्टः ।

देहद पु० देहं दायति शोधयति देहं देहपुष्टिं ददाति

रसायनेन वा दै--शोधने दा--दाने वा क । १ पारदे
राजनि० । २ देहदातरि त्रि० ।

देहधारक न० देहं धारयति धारि--ण्वुल् । १ अस्थ्नि

देहधारिणि २ शरीरिमात्रे त्रि० । णिनि । देहधारिन्
तत्रार्थे स्त्रियां ङीप् । “संस्थिता परमा माया देहिनां
देहधारिणी” ति० त० स्क० प्रभा० ख० ।

देहधि पु० देहोधीयतेऽत्र धा--आधारे कि । देहाधारे

खगानां देहावरके पक्षे (पाखा) शब्दचन्द्रिकाकोषः ।

देहधृज् पु० धृज--गतौ क्विन् । प्राणवायौ “वायुर्यो वक्त्र-

सञ्चारी स प्राणो नाम देहधृक्” सुश्रु० । २ देहधारक
मात्रे मनुष्यादौ त्रि० ।

देहभुग् त्रि० देहे भुङ्क्ते कर्मफलानि भुज--क्विन् । १

देहाभिमानिनि जीवे । देहं भुङ्क्ते भोजयति कर्मसाक्षि-
त्वात् भुज--अन्तर्भूतण्यर्थे क्विन् । २ सूर्य्ये पु० “देह-
भुग् देहिनां गतिः” भा० अनु० १६ अ० सूर्यनामोक्तौ ।

देहभृत् पु० देहं विभर्त्ति स्वकर्म्मानुसारेण भृ--क्विप् ।

स्वस्वकर्म्मानुसारेण देहाधिष्ठातरि कर्म्मात्मनि १ जीवे ।
“कर्म्मात्मा त्वपरी योऽसौ बन्धमोक्षैः संयुज्यते” सा० प्र०
भा० धृतवाक्ये तस्य कर्मयोगेन देहसम्बन्धरूपस्य बन्धस्यो-
क्तेस्तथात्वम् । “धिगिमां देहभृतामसारताम्” रघुः ।
“मनुष्योऽहं व्राह्मणोऽहं गृहस्थोऽहमित्त्याद्यभि-
मानेनाबाधितेन देहं कर्माधिकारहेतुं वर्णाश्रमा-
दिरूपं कर्त्तृत्वभोक्तृत्वाद्याश्रयं स्थूलसूक्ष्मशरीरे-
न्द्रियसङ्घातं बिभर्त्ति अनाद्यविद्यावासनावशात्
व्यवचारयोग्यत्वेन, कल्पितमसत्यमपि सत्यतया
स्वभिन्नमपि स्वाभिन्नतया पश्यन् धारयति पोषयति
वेति देहभृत् । २ विवेकज्ञानशून्ये अविद्यावति कर्त्तृ-
त्वाभिमानिनि । स च त्रिविधः । रागादिदोषप्राव-
ल्यात् काम्यनिषिद्धादियथेष्टकर्मानुष्ठायी मोक्षशास्त्रा-
नधिकार्येकः १ । अपरस्तु यः प्राकृतः सुकृतवशात्
किञ्चित् प्रक्षीणरागादिदोषः सर्वाणि कर्माणि त्यक्तु-
मशक्नुवन् निषिद्धानि काम्यानि च परित्यज्य नित्यानि
नैमित्तिकानि च कर्माणि फलाभिसन्धित्यागेन सत्त्व-
शुद्ध्यर्थमनुतिष्ठन् गौणसन्न्यासी मोक्षशास्त्राधिकारी
द्वितीयः २ । ततो नित्यनैमित्तिककर्मानुष्ठानेनान्तःकरण
शुद्ध्या समुपजातविविदिषः श्रवणादिना वेदनं मोक्ष
साधनं सम्पिपादयिषुः सर्वाणि कर्माणि विधितः
परित्यज्य ब्रह्मनिष्ठं गुरुमुपसर्पति विविदिषासन्यासि-
समाख्यस्तृतीयः ३ ।

देहम्भर त्रि० देहं बिभर्त्ति भृ--बा० खच् मुम् च । देहपो-

षके “जनेषु देहम्भरवार्तिकेषु” भाग० ५ । ५ । ४

देहयात्रा स्त्री देहस्य लोकान्तरे यात्रा, देहरक्षार्थं यात्रा

उद्यमादि वा । १ यमपुर्य्यादिगमने मरणे २ देहरक्षार्थं
भोजनादौ च मेदि० “अयं देहयात्रामात्रार्थमिच्छानि-
च्छापरेच्छाप्रापितानि सुखदुःखलक्षणान्थारब्धफलान्य-
पृष्ठ ३७५५
नुभवन्” वेदान्तसा० “अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रू-
षया चार्षया देहयात्रया” भाग० ४ । २३ । १७ आर्षः टाप् ।

देहला स्त्री देहं भुविलेपं राति ददाति सेवनात् रा--क

रस्य लः । मद्ये शब्दच० ।

देहलि(ली) स्त्री देहं लेपनं लाति गृह्णाति आधारत्वेन

ला--बा० कि वा ङीप् । द्वारपिण्ड्याम् (देओयाल)
शब्दर० । “विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः”
मेघदू० । अमरादौ ह्रस्वान्तपाठः स च पु० ।

देहवत् त्रि० देह + अस्त्यर्थे मतुप् मस्य वः । देहात्माभि-

मानिनि जीवे “अव्यक्ता हि गतिर्दुःखं देहवद्भिरवा-
प्यते” गीता ।

देहवायु पु० देहस्थो वायुः । प्राणादिवायुपञ्चके त्रिका० ।

देहसाम्य न० ६ त० । अङ्गानां समत्वे । तल्लक्षणमुक्तं यथा

“अङ्गानां समतां विद्यात् समे ब्रह्मणि लीयते । नो चेन्नैव
समानत्वमृजुत्वं शुष्कवृक्षत्रत्” शब्दार्थचि० धृतवाक्ये ।

देहसार पु० ६ त० । मज्जनि धातौ राजनि० ।

देहातीत पु० देहं देहाध्यासमतीतः । घटादिवत् देहस्य

द्रष्टृत्वेन तदभिमानशून्ये विदुषि ।

देहात्मवादिन् पु० देहमात्मानं वदति वद--णिनि ।

चार्वाके तस्य यथा देहात्मवादित्वं तथा चार्वाकशब्दे २९२१
पृ० दर्शितम् ।

देहात्मप्रत्यय पु० देहस्यात्मतया प्रत्ययः । देहे आत्मत्वेन

अभिमाने “देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्” शा० भा० धृ०
कारिका

देहाध्यास पु० देहस्य तद्धर्मस्य वा आत्मतया तद्धर्मतया वा

अध्यासः भ्रमः । देहधर्मस्य मनुष्यत्वादेरात्मधर्मतया
बोधे । यथा मनुष्योऽहं कृशोऽहं गौरोऽहमित्यादि
देहधर्मस्य आत्मनि भ्रमः ।

देहिका स्त्री दिह--ण्वुल् । कीटभेदे उपजिह्विकायां त्रिका०

देहिन् स्त्री देहाः सर्वे भूतभविष्यद्वर्त्तमाना जगन्मण्ड-

लवर्तिनोऽस्य सन्तीति इनि । १ देहतादात्म्याध्यासापन्ने
जीवे । एकस्यैव विभुत्वेन सर्वदेहयोगित्वाल्लिङ्गदेहोपा-
धिरात्मा देहीत्युच्यते । २ देहाभिन्नात्मदर्शिनि च ।
जीवश्च विद्वांश्चेत् प्रवासीव परगेहे तत्पूजापरिभवादि-
भिरप्रहृष्यन्नविषीदन्नहङ्कारममकारशून्यस्तिष्ठति । अज्ञो
हि देहतादात्म्याभिमानाद् देहमात्मतयाऽभिमन्यमानः
देहाधिकरणमेवात्मनोधिकरणं मन्यमानो गृहे भूमा-
वासने वाहमासे इति मन्यते न तु देहे आसे इति
“देहिनामदहद्योगमंहसाम्” माघः ।

दै शोधने भ्वा० पर० सक० शुद्धौ अक० अनिट् पित् तेन न

घुसंज्ञा । दायति अदासीत् ददौ दायात् दायते दातः ।
दातिः ।
  • अव + श्वेतीभावे अक० आवदाय्ति शुक्लीभवति “अवदातः सितौ गौरः” अमरः ।

दैतेय पुंस्त्री दितेरपत्यं ढक् । दितेरपत्ये असुरे अमरः ।

“देतेयाश्चाप्यदैतेयाः परस्परजयैषिणः” हरिवं० २१४
अ० । स्त्रियां ङीप् । “दैतेयी चासुरी प्रजा” भा० शा०
२३७ अ० ।

दैत्य पु० दितेरपत्यं ण्य । दितेरपत्ये अमरः । “दैत्यदानव-

यक्षाणां गन्धर्वोरगरक्षसाम्” मनुः । योपधत्वात् जातावपि
स्त्रियां टाप् ।

दैत्यगुरु पु० ६ त० । शुक्राचार्ये अमरः । “शत्रुक्षयान् दैत्यगुरुस्तृतीये” वृ० सं० १०४ अ० ।

दैत्यदेब पु० ६ त० । १ वरुणे त्रिका० । ३ वायौ हेम० ।

दैत्यद्वीप पु० गरुडात्मजभेदे “दैत्यद्वीपः परिद्वीपः मारसः

पद्मकेतनः” भा० उ० १०० अ० गरुडात्मजोक्तौ

दैत्यधूमिनी स्त्री तारादेव्यर्चनाङ्गे मुद्राभेदे “तारार्चने

विशेषास्तु कथ्यन्ते पञ्च मुद्रिकाः । योनिश्च भूतिनी चैव
वीजाख्या दैत्यधूमिनी । लेलिहानेति संप्रोक्ताः पञ्च
मुद्रा विलोकिताः” तन्त्रसारे उद्दिश्य “दानवधूम-
केत्वपरनामतया सा लक्षिता यथा “परिवर्त्त्य करौ स्पष्टौ
कनिष्ठाकृष्टमध्यमे । अनामायुगलं चाधस्तर्ज्जनीयुगलं
पृथक् । अन्योऽन्यं निविडां बद्ध्वाङ्गुष्ठाग्रेऽनामिकां ततः ।
दानवधूमकेत्वाख्या मुद्रैषा कथिता प्रिये!” ।

दैत्यनिसूदन पु० दैत्यान् निसूदयति हिनस्ति नि + सूदि-

णिच्--ल्यु । विष्णौ तस्य दानवारित्वात्तथात्वम् ।

दैत्यपति पु० ६ त० हिरण्यकशिपौ । “प्राणच्छिदां दैत्य०

पतेर्नखानाम्” माघः ।

दैत्यपुरोधस् पु० ६ त० । शुक्राचार्ये हारा० “जिगीषया

ततो देवावव्रिरेऽङ्गिरसं मुनिम् । पौरोहित्येन याज्यार्थे
काव्यं तूशनसं परे” भा० आ० ७६ अ० तस्यासुरपौर-
हित्यवरणमुक्तम् । दैत्यपुरोहितादयोऽप्यत्र ।

दैत्यपूज्य पु० ६ त० । शुक्राचार्ये “कनकनिकषगौरे व्या-

धयो दैत्यपूज्ये” वृ० स० ९ अ० ।

दैत्यमातृ स्त्री ६ त० । कश्यपर्षेः कलत्रे १ दितो उपचारात्

तेषां विमातृषु २ अदित्यादिषु तत्कलत्रेषु च “अदिति-
र्दितिर्दनुश्चैव सिंहिका दैत्यमातरः” हरिवं० १६८ अ० ।
पृष्ठ ३७५६

दैत्यमेदज पु० दैत्यस्य म्दाज्जायते जन--ड । १ गुगगुलौ

२ पृथिव्यां स्त्री राजनि० मधुकैटभमेदजातत्वात्तस्यास्तथात्वम्

दैत्ययुग न० ६ त० । दैवयुगवत् द्वादशसहस्रमितवर्षेषु शब्दा-

र्थकल्पतरुः । दैवयुगशब्दे दृश्यम् ।

दैत्या स्त्री दितेरियम् ण्य टाप् । १ सुरायां त्रिका० २ मुरा-

नामगन्धद्रव्ये अमरः । ३ चण्डोषधौ मेदि० योपधत्वात्
जातावपि टाप् । ३ दैत्यजातिस्त्रियाम् ।

दैत्यारि पु० ६ त० । १ विष्णौ अमरः । २ देवतामात्रे च मेदि० ।

दैत्याहोरात्रं पु० ६ त० । मानुषे वर्षे शब्दार्थकल्पतरुः तन्मा-

नस्य देवमानतुल्यत्वात्तथात्वम् ।

दैत्येज्य पु० ६ त० । दैत्यगुरौ शुक्राचार्ये ।

दैन न० दीनस्य भावः । १ दीनत्वे दिने भवः अण् । २ दिनभवे त्रि० ।

दैनन्दिन त्रि० दिनं दिनं भवः वीप्सायां द्वित्वम् अत्यन्त-

संयोगे द्वितीया ततो भवार्थे अण् अणि परे द्वितीय
विभक्तेर्लुक मध्यस्थायास्तु प्रत्ययपरत्वाभावान्न लुक् ।
दिने दिने भवे प्रत्यहं भवे “एष दैनन्दिनः सर्गो ब्राह्म-
स्त्रैलोक्यवर्तनः । तिर्य्यङ्नृपितृदेवानां सम्भवोयत्र
कर्मभिः” भाग० ३ । ११ । २७ ।

दैनन्दिनप्रलय पु० ६ त० । ब्रह्मणः स्वमानानुसारेण प्रतिदि-

नावसाने सर्वसृष्टवस्तूनां क्षये प्रलयविशेषे “चतुर्दशेन्द्राव-
च्छिन्नं ब्रह्मणो दिनमुच्यते । तावती ब्रह्मणो रात्रिः सा
च ब्राह्मी निशा नृप! । कालरात्रिश्च सा ज्ञेया वेदेषु
परिकीर्तिता । एवं सप्तकल्पजीवी मार्कण्डेयो महातपाः ।
ब्रह्मलोकादधः सर्वे लोका दग्धाश्च तत्र वै । उत्थितेनैव
सहसा सङ्कर्षणमुखाग्निना । चन्द्रार्कव्रह्मपुत्राश्च ब्रह्म
लोकं गता द्रुतम् । ब्रह्मरात्रे व्यतीते तु पुनश्च ससृजे
विधिः । तस्य ब्राह्म्यां निशायाञ्च क्षुद्रप्रलयसम्भवः ।
एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव च । वर्षं द्वादश-
मार्सश्च ब्रह्मसम्बन्धि चैव हि । एवं परिमिताव्दे च गते
च व्रह्मणो नृप । दैनन्दिनस्तु प्रलयो वेदेषु परिकी-
र्तितः । अहोरात्रश्च स प्रोक्तो वेदविद्भिः पुरातनैः ।
तत्र सर्व प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः । आदित्या-
वसवो रुद्रा मन्विन्द्रा मानवादयः । ऋषयो मुनयश्चैव
गन्धर्वा राक्षसदायः । मार्कण्डेयो लोमशश्च पेचक-
श्चिरजीविनः । इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः ।
नाडीजङ्घो वकश्चैव सर्वे नष्टाश्च तत्र वै । ब्रह्मलोका-
दधः सर्वे लोका नागालयास्तथा । ब्रह्मलोकं ययुः
सर्व ब्रह्मलोकादवस्तथा । गते दैनन्दिने ब्रह्मा लोकांश्च
ससृजे पुनः । एवं शतायुःपर्यन्त परमायुश्च ब्रह्मणः”
व्र० वै० प्र० ।

दैनिक त्रि० दिने भवः “कालाट ठञ्” पा० ठञ् । दिनभवे

स्त्रियां ङीप् । सा च दिने क्रियमाणकर्मभृतौ शब्दमा० ।

दैर्घवरत्र पु० दीर्घवरत्रेण निर्वृत्तः कूपः अण् । दीर्घरज्ज्वा-

कृष्टदण्डखननेन निष्पादिते कूपे ।

दैर्घ्य न० दीर्घस्य भावः व्यञ् । दीर्घतायाम् ।

दैन्य न० दीनस्य भावः ष्यञ् । १ दीनत्वे, कार्पण्ये च ।

“दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादि कृत्” सा० द०
उक्ते २ व्यभिचारिगुणभेदे च “दैन्यचिन्ताश्रुनिश्वासवैवर्ण्यो-
च्छ्वसितादिकृत्” सा० द० “इन्दोर्दैन्यं त्वदनुसरणक्लिष्ट
कान्तेर्विभर्त्ति” मेघ० ।

दैलीपि पु० दिलीपस्यापत्यम् इञ् । दिलीपापत्ये ततः

तौल्वल्या० युवप्रत्ययस्य फको न लुक् । दैलीपायन-
स्तदीय युवापत्ये ।

दैव त्रि० देवादागतः अण् । १ भाग्ये फलोन्मुखे

शुभाशुभकर्मणि “दैवाधीनं जगत्सर्वं जन्मकर्म
शुभाशुभम् । संयोगाञ्च वियोगाश्च न च दैवात् वरं
बलम् । कृष्णायत्तञ्च तद्दैवं स दैवात् परतस्ततः ।
भजन्ति सततं भक्ताः परमात्मानमीश्वरम् । दैवं वर्द्ध-
यितुं शक्तुं क्षयं कर्तुं स्वलीलया । न दैवबद्धस्तद्भक्त-
श्चाविनाशी च निर्गुणः” इति ब्र० वै० गणे० । मनुरुवाच ।
“दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे । अत्र मे
संशयो देव! छेत्तुमर्हस्यशेषतः” मत्स्य उवाच
“स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात्
पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः । प्रतिकूलं तथा दैवं
पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थान
शीलिनाम् । येषां पूर्वकृतं कर्म सात्विकं मनुजोत्तम! ।
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् । कर्मणा
प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्मणा
विद्धि तामसस्य तथा फलम् । पौरुषेणाप्यते राजन्!
मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः पौरुष
वर्जिताः । तस्माद्धि कालसंयुक्तं दैवेन सफलं भवेत् ।
पौरुषं दैवसम्पत्त्या काले फलति पार्थिव! । दैवं पुरुष
कारश्च कालश्च मनुजोत्तम! । त्रयमेव मनुष्यस्य
पिण्डितं स्यात् फलावहम् । कृषेर्वृष्टिसमायोगात् दृश्यन्ते
फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ।
तस्मात् सदैव कर्तव्यं सधर्मपौरुषं नृभिः । एवन्ते
पृष्ठ ३७५७
प्राप्नुवन्तीह परलोके फलं ध्रुवम् । नालसाः प्राप्नु-
वन्त्यर्थान्न च दैवपरायणाः । तस्मात् सदैव यत्नेन
पौरुषे यत्नमाचरेत् । त्यक्तालसान् दैवपरान् मनुष्या-
नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्नाद्-
वृणुते नृपेन्द्रं तस्मात् सदोत्थानवता हि भाव्यम्”
मत्स्यपु० १९५ अ० “तृणं वज्रायते नूनं वज्रं चैव तृणायते ।
बलवान् बलहीनश्च दैवस्य गतिरीदृशी” “उद्योगिनं
पुरुषसिंहमुपैति लक्ष्मीर्देवेन देवमिति कापुरुषा वदन्ति”
नीतिमाला “दैवायत्तं कुले जन्म ममायत्तं हि पौरुषम्”
वेणीसं० देवस्येदम् देवाद्यञञौ पा० अञ् । २ देवसम्बन्धिनि
स्त्रियां ङीप् । “दैवी ह्येषा गुणमयी मम माया दुरत्यया”
गीता । “देवी विचित्रा गतिः” उद्भटः । ३ गीतोक्ते
सम्पद्भेदे स्त्री “अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तपआर्जवम् । अहिंसा
सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलो-
लुखं मार्द्दवं ह्रीरचापलम् । तेजः क्षमा धृतिः शौच
मद्रोहोनाभिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य
पाण्डव! । दैवी सम्पद् विमोक्षाय निबन्धायासुरी
मता” गीता देवस्येवायम् अञ् । ४ मनूक्ते विवाहभेदे पु०
“ब्राह्मो दैवस्तथैवार्तः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो
राक्षसश्चैव पैशाचश्चाष्टमोऽधमः” इत्युद्दिश्य “यज्ञे तु
वितते सम्यगृत्विजे कर्म कुर्वते । अलङ्कृत्य सुतादानं
दैवं धर्मं प्रचक्षते” इति लक्षितम् “सुतादानं तन्निमित्त
ग्रहणमिति तात्पर्य्यार्थः । विवाहानां ब्रह्मदेवादिदेवता-
कत्वाऽभावेन इवार्थगर्भितार्थकता कुल्लूकभट्टेनोक्ता । देवो
देवताऽस्य अञ् । ५ मनूक्ते अङ्गुल्यग्ररूपे आचमनाङ्गे
तीर्थभेदे आचमनोपक्रमे “अङ्गुष्ठमूलस्यतले ब्राह्मं तीर्थं
प्रचक्षते । कायमङ्गुलिमूलेऽग्रे दैवतीर्थं तयोरधः”
कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृ-
ब्रह्म दैवतीर्थान्यनुक्रमात्” याज्ञबल्क्यैकवाक्यत्वात् अङ्गु-
ल्यग्रस्यैव तथात्वम् । इदमर्थे अञ् । ६ देवसम्बन्धिनि
देवसर्गरूपे सर्गभेदे दैवसर्गश्चाष्टविधो “विबुधाः १ पितरो २
ऽमुराः ३ गन्धर्वाप्सरसः सिद्धा ४ यक्षरक्षांसि चारणानि ५
भूतप्रेतपिशाचाश्च ६ विद्याधूः ७ किन्नरादयः ८ भाग० ३ ।
९० । २६ उक्तः साङ्ख्यतत्त्वकौमुद्यान्तु अन्यबिधैवाष्ट-
विधतोक्ता यथा “अष्टविकल्पो दैवस्तिर्य्यग्योनश्च पञ्चधा
भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः”
सा० का० “ब्राह्मप्राजापत्यैन्द्रगान्धर्वराक्षसपैशाच इत्य-
ष्टविधो दैवः सर्गः” त० कौ । देवोदेवभेदो देवताऽस्य
अञ् । ७ श्राद्धभेदे देवताभेदोद्देशेन कर्तव्ये श्राद्धभेदे न० ।
तस्य पितृश्राद्धात् पूर्वं कर्त्तव्यता मनुनोक्ता यथा
“देवकार्य्यात् द्विजातीनां पितृकार्यं विशेष्यते । दैवं हि
पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् । तेषामारक्ष-
भूतं तु पूर्वं दैवं नियोजयेत् । रक्षांसि हि विलुम्पन्ति
श्राद्धमारक्षवर्जितम् । दैवाद्यन्तं तदीहेत पैत्राद्यन्तं
न तद्भवेत् । पेत्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति
सान्वयः” । देवलोऽपि “यत्तत्र क्रियते कर्म पैतृके ब्राह्म-
णान् प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेविकपूर्विकम्”
आसनगन्धादिदाने दैवपूर्वकतां पैत्र्यश्राद्धे विधत्ते स्म ।
श्राद्धभेदे देवताभेदाश्च नि० सि० निरूपिताः कस्यचि-
च्छ्राद्धस्य चादैवपूर्वकता चोक्ता यथा
हेमाद्रौ शङ्खवृहस्पती “इष्टिश्राद्धे क्रतुदक्षौ सत्यो
नान्दीमुखे वसुः । नैमित्तिके कामकालौ काम्ये च
घुरिलोचनौ । पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ”
तत्रैव “उत्पत्तिं नाम चैतेषां न विदुर्ये द्विजातयः ।
अयमुच्चारणीयस्तैः श्लोकः श्राद्धासमन्वितैः । आगच्छन्तु
महाभागा विश्वेदेवा महाबलाः । ये यत्र विहिताः
श्राद्धे सावधाना भवन्तु ते” इति । इष्टिश्राद्धं प्रतिरुचि-
विहितमित्युक्तमिति कल्पतरुः । आधानादिकर्माङ्गमि-
त्यन्ये । नैमित्तिकमेकोद्दिष्टम् “एकोद्दिष्टन्तु यच्छ्राद्धं
तन्नैमित्तिकमुच्यते” भविष्योक्तेः एतद् यद्यपि “एकोद्दिष्टं
दैवहीनमिति” तत्र वैश्वदेवनिषेधस्तथापि “नवश्राद्धे
द्वादशमासिके च कामकाकालौ ज्ञेयौ “नवश्राद्धं
दशाहानि नवमिश्रन्तु षड्क्रतून् । अतःपरं पुराणं वै त्रिविधं
श्राद्धमुच्यते । यस्मिन्नेव पुराणे वा विश्वेदेवा न लेभिरे ।
आसुरं तद्भवेच्छ्राद्धं वृषलं मन्त्रवर्जितम्” इति बह्वृ-
चपरिशिष्टात् । एतच्च बह्वृचानामेव । तेन तेषाने-
वोक्तेः अन्येषां तु नात्र विश्वेदेवा कात्यायनोक्तेस्तन्निषेध
एवेति पृथ्वीचन्द्रोदयः । अन्ये तु नैमित्तिकं सपिण्डी-
करणमाहुः । भविष्ये यद्यप्येकोद्दिष्टं तच्छब्देनोक्तं
तथापि “तदप्यदैवं कर्तव्यमयुग्मान् भोजयेद्द्विजानिति”
तत्रैव विश्वेदेवनिषेधात् । यद्यपि सपिण्डीकरणेऽशत
एकोद्दिष्टत्वं तथापि “सपिण्डीकरणं श्राद्धं देवपूर्वं नियो-
जयेदिति” वचनात्तत्परत्वम् । हेमाद्रावादित्यपुराणे
“विश्वेदेवौ क्रतुर्दक्षः सर्वास्विष्टिषु कीर्त्तितौ । नित्यं
नान्दीमुखे श्राद्धे वसुसत्यौ च पैतृके । नवान्नलम्भने देवौ
पृष्ठ ३७५८
कामकालौ सदैव हि । अपि कन्यागते सूर्ये काम्ये
च धुरिलोचनो । पुरूरवार्द्रवौ चैव विश्वेदेवौ तु
पार्वणे” । क्वचित् विश्वेदेवापवादमाह हेमाद्रौ शातातपः
“नित्यं श्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । मातुः
श्राद्धं च युग्मेः स्याददैवं प्राङ्मुखैः पृथक् । योजये-
द्दैवपूर्वाणि श्राद्धान्यन्यानि यत्नतः” नान्दीश्राद्धे भिन्न-
प्रयोगपक्षे मातुः श्राद्धमदैवमिति हेमाद्रिः । तत्र
देवसम्बन्धिनि । “होमोदैवो बलिर्भौतो नृयज्ञोऽतिथिपूज-
नम्” मनुः । दिवि भवः अण् । ८ आकाशभवे त्रि० ।

दैवक पु० देवएव दैबः स्वार्थे क । १ देवे “सर्वभूतानि

सदैवकानि प्रस्थेऽजयत् खाण्डवे सव्यमाची” भा० व० ४० अ०
देवकस्यापत्यं स्त्री अण् ङीप् । २ देवकनृपस्यापत्यस्त्रियां
वसुदेवपत्नीभेदे श्रीकृष्णस्य मातरि स्त्री ।

दैवकीनन्दन पु० ६ त० । वासुदेवे श्रीकृष्णे दैवकीसुतादयोऽप्यत्र ।

दैवकोविद त्रि० दैवे शुभाशुभज्ञापकहेतौ कोविदः । दैवज्ञे

शब्दरत्ना० स्त्रियां टाप् ।

दैवक्षत्रि पु० क्रोष्टुवंश्ये देवक्षत्रस्यात्मजे नृपभेदे “तस्मात्

करम्भः कारम्भिर्देवरातोऽभवन्नृपः । देवक्षत्रः सुतस्तस्य
दैवक्षत्रिर्महायशाः” हरिवं० ३७ अ० ।

दैवचिन्तक पु० दैवं लक्षणेन शुभाशुभं चिन्तयति चिन्ति-

ण्वुल् । दैवज्ञे तल्लक्षणादिकं वृ० सं० २ अ० उक्तं तच्च
२५०० पृ० गणकशब्दे दर्शितम् दैवविदादयोऽप्यत्र ।

दैवज्ञ त्रि० दैवं जानाति ज्ञा--क । १ दैवचिन्तके प्रश्नादिना

शुभाशुभनिरूपिण्यां विप्रश्निकायां २ स्त्रियां स्त्री २ सङ्की-
र्णजातिभेदे गणकशब्दे २५०२ पृ० दृश्यम् तज्जातिप्राप्ति
हेतुश्च ब्रह्मवै० प्र० खण्डे उक्तो यथा
“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ।
स याति नागवेष्टञ्च नागैर्वेष्टित एव च । वसेत् स्वलोम
मानावदं तत्रैव नागदंशितः । ततो भवेत् स गणको
वैद्यश्च सप्तजन्मसु । गोपश्च चर्मकारश्च रङ्गकारस्ततः
शुचिः” स च अपकृष्टव्राह्मणः “अव्राह्मणो भट्टदैवज्ञादि”
प्रा० वि० अब्राह्मणशब्दे दृश्यम् तस्य च नक्षत्रसूचकत्व-
दोषेण दूषितत्वादपकृष्टत्वम् ।

दैवत न० देवतैव स्वार्थे अण् । देवतायां “दैवतैरपकृष्यन्ते

सुदूरमतिवेगिताः” सू० सि० “किमेकं दैवतं लोके”
विष्णुसं० “व्राह्मणो दैवतं महत्” मनुः “व्राह्मणाः
सम्भवेनैव देवानामपि दैवतम्” मनुः । अस्य अमरे
पुंनपुंसकतोक्तावपि कविभिः पुंस्त्वेनाप्रयुक्तत्वात् तत्-
प्रयोगे अप्रयुक्ततारूपः काव्यदोष इति काव्यप्र० आह स्म
यथा “यथायं दारुणाचारः सर्वदैव विभाव्यते ।
तथामन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा” अत्र दैवतशब्दः
“दैवतानि पुंसि वा” इत्याम्नातोऽपि न केनचित् प्रयु-
ज्यते । “आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च”
इत्युद्देशे योगियाज्ञ० “यस्य यस्य तु मन्त्रस्य उद्दिष्टा
देवता तु या । तदाकारं भवेत्तस्य दैवत देवतोच्यते”
अथातो दैवतम् तद्यानि नामानि प्राधान्यस्तुतीनां
देवतानां तद्दैवतमित्याचक्षते” निरु० देवतामधिकृत्योकृतः
ग्रन्थः अण् । निरुक्तस्य ३ तृतीये काण्डे तस्य देवता-
धिकारेण कृतत्वात् । “आद्यं नैघण्टुकं काण्डं द्वितीयं
नैगमं तथा । तृतीयं दैवतञ्चेति समाम्नायस्त्रिधा मतः”
यास्कोक्तः तच्च “अग्न्यादिदेवपत्न्यन्तं देवताकाण्डमुच्यते”
इति तत्रोक्तम् । देवतानां समूहः अण् । ४ देवतासमूहे
न० देवताया इदम् अण् । ५ देवतासम्बन्धिनि प्रतिमादौ
“मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षि-
णानि कुर्वीत प्रज्ञातांश्च वनस्पतीन्” मनुः ।

दैवतन्त्र त्रि० दैवं भाग्यं तन्त्रं प्रधानं यस्य । भाग्याधीने

“किञ्च पुरा हरिश्चन्द्ररामचन्द्रमुख्या महीन्द्रा ऐश्वर्य्योप-
मितमहेन्द्रा दैवतन्त्रं दुःखयन्त्रं सग्यगनुभूय पश्चादनेक
कालन्निजराज्यमकुर्वन्” दश० कु० ।

दैवतरस पु० प्रवरर्षिभेदे श्रौमतकामकायनानां वैश्वामित्र

दैवश्रवस दैवतरसेति” आश्व० श्रौ० १२ । १४ । ३

दैवतरेय पुंस्त्री० देवतरस्य श्रेष्ठदेवस्यापत्यं शुभ्रा० ढक् ।

श्रेष्ठदेवस्यापत्ये स्त्रियां ङीप् ।

दैवति पुंस्त्री दैवतस्यापत्यम् इञ् । देवतापत्ये ततः यूनि

फक् । दैवतायन तस्य यून्यपत्ये तौल्वल्या० तस्य न लुक् ।

दैवत्य त्रि० देवता स्वार्थे ष्यञ् । देवतायाम् “आर्षं छन्दश्च

दैवत्यम्” याज्ञ० “ऋग्वेदो देवदैवत्यः यजुर्वेदस्तु मध्यमः”
मनुः ।

दैवदत्त त्रि० देवदत्तस्य छात्रा “वा नामधेयस्य वृद्धसंज्ञा

वक्तव्याः” वार्त्ति वृद्धत्वाभावपक्षे अण् । १ देवदत्तच्छा-
त्रादौ । देवदत्तः भक्तिरस्य अचित्तत्वाभावात् न ठक्
किन्तु अण् । २ देवदत्तभक्तियुक्ते त्रि० अपत्ये तु इञ्
दैवदत्ति तदपत्ये पुंस्त्री भवार्थे काश्या० ठञ्ञिठौ
दैवदत्तिक तद्भवार्थे । स्त्रियां ठञि ङीप् ञिठि टाप ।

दैवदर्शनिन् पु० ब० व० । देवदर्शनेनर्षिणा दृष्टमधीयते

शौनका० णिनि । देवदर्शनप्रोक्तछन्दोऽध्यायिषु ।