वाचस्पत्यम्/दिद्यु

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३५७७

दिद्यु पु० दिद्युत् + पृषो० । १ वज्रे निघण्टुः “सृजदस्ता

धृषता दिद्युमस्मै” ऋ० १ । ७१ । ५ । “पाहि मा दिद्योः” यजु०
२ । २० । २ वाणे च “क्षत्राणां क्षत्रपतिरेध्यति दिद्यून्
पाहि” यजु० १० । १७ । दो अवखण्डने द्यन्ति खण्डयन्ति
दिद्यवो वाणाः “इषवो वै दिद्यव इषुबधमेवैनमेतदति
नयतीति” शत० व्रा० ५ । ४ । २ । २ ।

दिद्युत् त्रि० द्युत--क्विप् नि० । १ दीप्तिशोले २ वज्रे पु० निघ० ।

दिधिषाय्य न० दधात्याह्ण दम् धा--आय्य नि० द्वित्वं षुक्

च । १ मद्ये २ आरोपितवन्धुभावे ३ धारके त्रि० । “मित्र
इव यो दिधिषाय्यो भूद्देव” ऋ० २ । ४ । १ । “दिधिषाय्यो
धारयिता” भा० उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं
पठित्वा दधिपूर्वकादस्यतेराय्यः इति व्याचख्यौ ।

दिधिषु पु० दिधीं धैर्य्यम् इच्छति इष--क्विप् शकुब्ध्वा० ।

द्विरूढायाः स्त्रियाः पत्यौ पुनर्भूपतौ अमरः

दिधिषू स्त्री दधाति पापं धिष्यते वा धा--धिष--वा

ऊ अन्दूदृन्भू इत्यादिना नि० । वारद्वयविवाहितायां स्त्रियाम् ।
“ज्येष्ठाया यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा
चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता” देवलोक्तायां
ज्येष्ठाविवाहप्रागभावकालीनबिवाहयुक्तायां २ कनिष्टायां
भगिन्याञ्च ।

दिधिषूपति पु० ६ त० । “भ्रातुर्मृतस्य भार्य्यायां योऽनुरज्येत

कामतः । धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः”
मनूक्ते विधवायां भ्रातृभार्य्यायां रते भ्रान्तरे ।

दिधीषू स्त्री दिधिषू--पृषो० । दिधिषूशब्दार्थे शब्दरत्ना० ।

दिन पु० न० द्यति तमः द--खण्डने दी--क्षये वा नक् ह्रुस्वः ।

१ सूर्यकिरणावच्छिन्ने काले तद्भेदादिकं अहन् शब्दे ५७६
पृ० दृश्यम् । २ षष्टिदण्डात्मके मानुषे अहोरात्रे चान्द्रे
३ तिथिरूपे काले ४ चान्द्रमासात्मके पैत्र्ये कालभेदे
सौरवर्षरूपे ५ दैवे कालभेदे व्राह्मे ६ कल्परूपे काले च
“अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा । निशासंज्ञाः
स्मृताश्चैव शेषाश्चान्ये दिनाख्यकाः” इति ज्योतिषतत्त्वोक्ते
७ राशिभेदे । “दिने दिने त्वं तनुरेधि रेऽधिकम्” नैष०
“दिनानि दीनोद्धरणोचितस्य” “दिनेषु गच्छत्सु निता-
न्तपीवरम्” रघुः । “प्रौढ़ध्वान्तं दिनमिह जलदाः”
माघः जीमूतवाहनस्तु सूर्यकिरणावच्छिन्नं चतुर्या-
मात्मकं दिनमित्याह० “दिनं दिनेशस्य यतोऽत्र दर्शने
तमी तमोहन्तुरदर्शने सति । कुपृष्ठगानां द्युनिशं यथा
तथा पितॄणां शशिपृष्ठवासिनाम्” सि० शि० दिनमानशब्दे
दृश्यम् “तिथिश्चान्द्रमसं दिनम” सू० सि० ।

दिनकर पु० दिनं करोति कृ--ट, दिने करःकिरणोवास्य ।

१ सूर्ये २ अर्कवृक्षे च “दिनकराभिमुखा बलरेणवः”
रघुः । “ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे
दिनकरस्य करप्रसारः” सू० सि० ।

दिनकरतनय पु० ६ त० । अर्कनन्दने १ शनौ २ यमे च

“चारवशात् द्वितीयगृहगे दिनतनये” वृ० स० १० ४ अ० ।
दिनकरसुतादयोऽप्यत्र ३ कर्णे ४ सुग्रीवे ५ तपत्यां ६
यमुनायां च स्त्री ।

दिनकर्तृ पु० दिनं करोति कृ--तृच् । १ सूर्य्ये

२ अर्कवृक्षे च “दिनकर्त्ता न दृश्यते” हरिबं० १६३ अ० ।

दिनकृत् पु० दिनं करोति कृ--क्विप् । सूर्य्ये हेमच० ।

“शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः”
वृ० सं० ३० अ० । २ अर्कवृक्षे च

दिनकेशव पु० दिनस्य केशव इवान्तकत्वात् । अन्धकारे शब्दर० ।

दिनक्षय पु० दिनस्य तिथेः क्षयः । तिथिक्षये । “एकस्मिन्

सावने त्वह्नि तिथीनां त्रितयं यदा । तदा विनक्षयः
प्रोक्तस्तत्र साहस्रिकं फलम्” मलमा० त० वशिष्ठः । तिथि-
क्षयशब्दे दृश्यम् ।

दिनचर्य्या ७ त० । भावप्र० उक्ते दिने कर्त्तव्यभेदे यथा

“मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा । तमेव
कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम् । दिनचर्य्या
निशाचर्य्यां ऋतुचर्यां यथोदिताम् । आचरन् पुरुषः
स्वस्थः सदा तिष्ठति नान्यथा” । तत्र स्वस्थस्य लक्षणः
माह सुश्रुतः “समदोषः समाग्निश्च समधातुमल-
क्रियः । प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते” ।
क्रियात्र कर्म तेन समक्रियः शरीरानुरूपकर्मा । तत्र
दिनचर्य्यामाह ब्राह्मे मुहूर्त्ते बुद्ध्येत स्वस्थो
रक्षार्थमायुषः । तत्र दुःखप्रशान्त्यर्थं स्मरेद्धि मधुसू-
दनम् । दध्यन्नदर्शसिद्धार्थविल्वगोरोचनास्रजाम् ।
दर्शनं स्पर्शनं कार्य्यं प्रबुद्धेन शुभावहम् । स्वमाननं
घृते पश्येत् यदीच्छेत् चिरजीवितम् । आयुष्यमुषसि
प्रोक्तं मलादीनां विसर्जनम् । तदत्र कूजनाध्मानोदर-
गौरववारणम् । आदिशब्देन वातमूत्रादीनां ग्रहणम् ।
आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषल्य तयोर्द्ध-
वातः । पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते
नरस्य । परिकर्त्तिका गुदे परिकर्त्तनवत्पीड़ा ।
पुरीषस्य सङ्गो निराधः । ऊर्द्धवातः उद्गाढबाहुल्यम् ।
वातमूत्रपुरीषाणां सङ्गाध्माने क्लमो रुजा । जठां
वातजाश्चान्ये रोगाःस्यु वातनिग्रहात् । वस्तिमेहनयोः
शूलं मूत्रकृच्छ्रं शिरोरुजाः । विनामो वङ्क्षणानाह
स्याल्लङ्गं मूत्रनिग्रहे । विनामः शरीरस्य नम्रता वङ्क्ष
पृष्ठ ३५७८
स्नानाहः वङ्क्षणस्याकर्षणवत्पीड़ा । न वेगितोऽन्य-
कार्य्यः स्यान्न वेगान् धारयेद् बलात् । कामशोकभ-
यक्रोधान् मनोवेगान्विधारयेत् । गुदादिमलमार्गाणां
शौचं कान्तिबलप्रदम् । पवित्रकरमाख्यानमलक्ष्मीक्लि
पापहृत् । प्रक्षालणं मतं पाण्याः पादयोः शुद्धिकार-
णम् । मलश्रमहरं वृष्यं चक्षुपां राजसापहम् ।
दन्तकाष्ठविधिः भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम् ।
कनिष्ठिकाग्रवत् स्थूलभृज्वग्रन्धि तथाऽव्रणम् । एकैकं
घर्षयेद्दन्तं मृदुना कूर्चकेन तु । दन्तशोधनचूर्णेन दन्त-
मांसान्यबाधयन् । क्षौद्रत्रिकटुकाक्तेन तैलसिन्धुभवेन
वा । चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोघयेत् । तेजो-
वती (तेजवल्कल) इति लोके प्रसिद्धा । मधूको मधुरे
श्रेष्ठः करञ्जः कटुके तथा । निम्बं स्यात्तिक्तके श्रेष्ठः
कषाये स्वदिरस्तथा । समयन्तु समालोक्य दोषञ्च प्रकृतिं
तथा । यथोचितैरसैर्वीर्य्यैर्युक्तं द्रव्यं प्रयोजयेत् ।
तेनास्य मुखवैरस्यदन्तजिह्वास्यजा गदाः । रुचिवैशद्य
लघुता न भवन्ति भवन्ति च । अर्के वीर्य्यं वटे दीप्तिः
करञ्जे विजयो भवेत् । प्लक्षे चैवार्थसम्पत्तिर्वदर्य्यां
मधुराशनम् । खदिरे मुखसौगन्ध्यं बिल्वे तु
विपुलं धनम् । उदम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव
च । कदम्बे तु धृतिर्मेधा चम्पके दृढवाक्श्रुतिः ।
शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च । अपामार्गे
धृतिर्मेधा प्रज्ञाशक्तिस्तथासने । दाड़िम्यां सुन्दराकारः
ककुभे कुटजे तथा । जातीतगरमन्दारैर्दुःस्वप्नञ्च
विनश्यति । गुञ्जाकातालहिन्तालं केतकश्च वृहच्छरः ।
खर्जूरं नारिकेलञ्च सप्तैते तृणराजकाः । तृणराज
समुत्पन्नं यः कुर्य्याद् दन्तधावनम् । नरश्चाण्डालयोनिः
स्याद्यावद्गङ्गान्न पश्यति । न खादेद् गलताल्वोष्ठजिह्वा
दन्तगदेषु तत् । मुखस्य पाके शोथे च श्वासकास
वमीषु च । दुर्बलो जीर्णभुक्तश्च हिक्वामूर्च्छामदा-
न्वितः । शिरोरुजार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः ।
अर्द्दितः कर्णशूली च नेत्ररीगी नवज्वरी । वर्ज्जयेद्दन्त-
काष्ठन्तु हृदामययुतोऽपि च । अजीर्णभुक्तः न जीर्णं
भुक्तं यस्य सः । जिह्वानिर्लेखनं हैमं राजतं ताम्रजं
तथा । पाटितं मृदु तत् काष्ठं मृदुपत्रमयं तथा । तत्
काष्ठं दन्तशोधनयोग्यं काष्ठम् । दशाङ्गुलं मृदु स्निग्धं
तेन जिह्वां लिखेत् सुखम् । तज्जिह्वामलवैरस्वदुर्गन्ध
जड़ताहरम् । गण्डूषमपि कुर्वीत शीतेन पयसा
मुहुः । कफतृष्णामलहरं मुखान्तःशुद्धिकारकम् ।
मुखोष्णोदकगण्डूषः कफारुचिमलापहः । दन्त-
जाड्यहरश्चापि मुखलाघवकारकः । विषमूर्च्छागदा-
र्त्तानां शोषिणां रक्तपित्तिनाम् । कुपित्ताक्षिमलक्षीण
रूक्षाणां स न शस्यते । मुखोष्णोदकगण्डूषो यथा
“मुखप्रक्षालणं शीतपयसा रक्तथित्तजित् । मुखस्यपीड़ि-
काशोषनीलिकाव्यङ्गनाशनम् । कुर्य्याद्वापि कटूष्णेन
पयसास्यविशोधनम् । कफवातहर स्निग्धं
मुखशोबविनाशनम् । कटुतैलादि नस्यार्थे नित्याभ्यासेन
योजयेत् । प्रातः श्रेष्मणि मध्याह्णे पित्ते सायं
समीरणे । सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रियाः ।
निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः । सौवीरमञ्जनं
नित्यं हितमक्ष्खोस्ततो भजेत् । लोचने भवतस्तेन
मनोज्ञे सूक्ष्मदर्शने । सौवीरं (श्वेतसुरमा) दति लोके
प्रसिद्धम् । स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भ-
वम् । दृष्टेः कण्डूयनहरं दाहक्लेदरुजापहम् ।
अक्ष्णोरूपावहञ्चैव सहते मारुतातपौ । नेत्रे रोगा न
जायन्ते तस्मादञ्जनमाचरेत् । स्रोतोऽञ्जनं (कृष्णसुरमा)
इति लोके । विशुद्धं शोधनं विनापि । सिन्धुसम्भवम्
सिन्धुर्नाम पर्वतः तत्र सम्भवम् । रात्रौ जागरितः
श्रान्तः छर्द्दितो भुक्तवांस्तथा । ज्वरातुरः शिरःस्नातो
नाक्ष्णोरञ्जनमाचरेत् । पञ्चरात्रान्नखश्यश्रुकेशरोमाणि
कर्त्तयेत् । केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम् ।
वौष्टिकं घनमायुष्यं शौचकान्तिकरं परम् । सम्प्र-
साधनम् शोभाजनकम् । उत्पाटयेत्तु लोमानि
नासायाः न कदाचन । तदुत्पाटनतो दृष्टेर्दौर्बल्यं
त्वरया भवेत् । केशपाशे प्रकुर्वीत प्रसाधग्या प्रसाधनम् ।
केशप्रसाधनं केश्यं रजोजन्तुमलापहम् । आदर्शा-
लोकनं प्रोक्तं माङ्गल्यं कान्तिकारकम् । पौष्टिक
बल्यमायुष्यं पापालक्ष्मीविनाशनम् । लाघवं कर्म-
सामर्थ्यं विभक्तघनगात्रता । दोषक्षयोऽग्निवृद्धिश्च
व्यायामादुपजायते । व्यायामे दृढ़गात्रस्य व्याधिर्नास्ति
कदाचन । विरुद्धं वा विदग्धं वा मुक्तं शीध्रं
विपच्यते । भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः । नचैनं
सहसाक्रम्य जरा समधिरोहति । न चास्ति सदृशन्तेन
किञ्चित् स्थौल्यापकर्षकम् । स सदा गुणमाधत्ते बलिनां
स्निग्धभोजिनाम् । वसन्ते शीतसमये सुतरां स हितो
मतः । अन्यदापि च कर्त्तव्यो बलार्द्धेन यथाबलम् ।
पृष्ठ ३५७९
हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते । मुखञ्च शोषं
लभते तद् बलार्द्धस्य लक्षणम् । किं वा ललाटे नासायां
गात्रसन्धिषु कक्षयोः । यदा सञ्जायते स्वेदो बलार्द्धन्तु
तदादिशेत् । भुंक्तवान् कृतसम्भोगः कासी श्वासी कृशः-
क्षयी । रक्तपित्ती क्षती शोषी न तं कुर्य्यात् कदाचन ।
अतिव्यायामतः कासो ज्वरः छर्द्दिः श्रमः क्लमः । तृष्णा-
क्षयः प्रतमको रक्तपित्तञ्च जायते । अभ्यङ्गं कारये-
न्नित्यं सर्वेष्वङ्गेषु पुष्टिदम् । शिरःश्रवणपादेषु तं
विशेषेण शीलयेत् । सार्षपं गन्धतैलञ्च यत्तैलं पुष्प-
वासितम् । अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन ।
गन्धतैलम् गन्धद्रव्याणामगुर्वादीनामग्नियोगेन निष्का-
शितः स्नेहः । अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं
सुखम् । निद्रावर्णमृदुत्वायुः कुरुते देहपुष्टिकृत् ।
अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रियतर्पकः । दृष्टिपुष्टि-
करो हन्ति शिरोभूमिगतान् गदान् । केशानां बहुतां
दार्ढ्यं मृदुतां दीर्घतां तथा । कृष्णतां कुरुते कुर्य्या-
च्छिरसः पूर्णतामपि । न कर्णरोगान्न मलं न च मन्या-
हनुग्रहः । नोच्चैःश्रुतिर्न व्याधिर्य्यं खालित्यं कर्ण-
पूरणात् । रसाद्यैः पूरणं कर्णे भोजनात् प्राक् प्रश-
स्यते । तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ।
पादाभ्यङ्गश्च तत्स्थैर्य्यं निद्रादृष्टिप्रसादकृत् । पादसुप्ति
श्रषस्तम्भसङ्कोचस्फुटनप्रणुत् । व्यायामक्षुण्णवपुषं पद्भ्यां
समर्दितं तथा । व्याधयोनोपसर्पन्ति वैनतेयमिवोरगाः ।
लोमकूपं शिराजालं धमनीभिः कलेवरैः । तर्पयेद्बल-
माधत्ते स्नेहयुक्तावगाहने । अद्भिः संसिक्तमूलानां
तरूणाम्पल्लवादयः । वर्द्धन्ते हिं तथा नृणां स्नेह-
संसिक्तधीस्तवः । नवज्वरी अजीर्णी च नाभ्यञ्जेत
कथञ्चन । तथा विरिक्तो वान्तश्च निरूढ़ो यश्च मानवः ।
निरूढ़ः दत्तो निरूहवस्तिः यस्मै सः । पूर्वयोः कृच्छ्रता
व्याधेरसाध्यत्वमथापि वा । शोषाणां नत्विह प्रोक्ता
बह्निसादादयो गदाः । पूर्बयोः तरुणज्वरिणोऽजीर्णि-
नश्च । उद्बर्त्तनङ्कफद्वरं मेदोघ्नं शुक्रदम्परम् । बल्यं
शोणितकृच्चापि त्वकप्रमादमृदुत्वकृत् । मुखलेपात् दृढ़ं
चक्षुः पीनोगण्डस्तथाननम् । कान्तमव्यङ्गपिडकं
भवेत्कमलसन्निभम् । दीपनं वृष्यमायुष्यं स्नानमोजो
बलप्रदम् । कण्डूमलश्रमखेदतन्द्रातृड़्दाहपाकनुत् ।
बाह्यैश्च सेकैः शीताद्यैरूम्मान्तर्याति पीड़ितः । नरस्य
स्नातमात्रस्य दीप्यते तेन पावकः । शीतेन पयसा स्नानं
रक्तपित्तप्रशान्तिकृत् । तदेवोष्णेन तोयेन बल्यं
वातकफापहम् । शिरःस्नानमचक्षुष्यमत्युष्णेनाम्बुना
सदा । वातश्लेष्मप्रकोपे तु हितन्तच्च प्रकीर्त्तितम् ।
“अशीतेनाम्भसा स्नानं पयःपानन्नवाः स्त्रियः । एतद्वो
मानवा! पथ्यं स्निग्धमल्पञ्च भोजनम् ।” हरिश्चन्द्र-
स्यैतत् । यः सदामलकैः स्नानं करोति स विनिश्चितम् ।
बलीपलितनिर्मुक्तो जीवेद्वर्षशतन्नरः । स्नानं ज्वरेऽ-
तिसारे च नेत्रकर्णानिलार्त्तिषु । आध्मानपीनसाजीर्ण-
मुक्तवत्सु च गर्हितम् । स्नानस्यानन्तरं सम्यग्वस्त्रेणा-
ङ्गस्य मार्जनम् । कान्तिप्रदं शरीरस्य कण्डूत्वग्दोष-
नाशनम् । कौशेयौर्णिकवस्त्रञ्च रक्तवस्त्रन्तथैव च ।
वातश्लेष्महरन्तत्तु शीतकाले विधारयेत् । कौशेयं
पट्टाम्बरम् तसरवस्त्रञ्च । मेध्यं सुशीतम्पित्तघ्नं कषायं
वस्त्रमुच्यते । तद्धारयेदुष्णकाले तत्रापि लघु शस्यते ।
कषायं (कोमुकी) इति लोके कषायरागरक्तं वा । शुक्लन्तु
शुभदं वस्त्रं शीतातपनिवारणम् । नचोष्णन्न च वा
शीतन्तत्तु वर्षासु धारयेत् । यशस्यङ्काम्यमायुष्यं श्रीम-
दानन्दवर्द्धनम् । त्वच्यं वशीकरं रुच्यं नवं निर्मल-
मम्बरम् । काम्यं कामोद्दीपकम् । कदापि न जनैः
सद्भिर्धार्य्यम्मलिनमम्बरम् । तत्तु कण्डूकृमिकरं ग्लान्य-
लक्ष्मीकरम्परम् । अलक्ष्मीः अशोभा हारिद्र्यञ्च ।
कुङ्कुमञ्चन्दनञ्चापि कृष्णागुरु च मिश्रितम् । उष्ण
वातकफध्वंसि शीतकाले तदिष्यते । चन्दनं घनसारेण
वालकेन च मिश्रितम् । सुगन्धि परमं शीतमुष्णकाले
प्रशस्यते । घनसारः कर्पूरः बालकं ह्रीवेरम् । चन्दनं
घुसृणोपेतं मृगनाभिसमायुतम् । न चोष्णं नच वा
शीतं वर्षाकाले तदिष्यते । घुसृक्षं कुङ्कुमम् ।
मृगनाभिः कस्तूरी । अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेद-
दाहजित् । सौमाग्यतेजस्त्वग्वणप्रीत्योजोबलबर्द्धनः ।
स स्नानानर्हलोकानामनुलेपोऽपि नो हितः । सुगन्धि-
पुष्पपत्राणां धारणङ्कान्तिकारकम् । पापरक्षोग्रहहरं
कामदं श्रीविबर्द्धनम् । भूषणैर्भूषयेदङ्गं यथायोग्यं
विधानतः । शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ।
ग्रहरिष्टिहरं पुष्टिकरं दुःसप्ननाशनम् । पापदौर्माग्य-
शमनं रत्नामरणधारणम् । माणिक्यंन्तरणेः सुजात्य-
ममलं मुक्ताफलम् शीतगोर्माहेयस्य च विद्रुमोनिगदितः
सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुरा-
चार्य्यस्य वज्र शनेः नीलन्निर्मलमन्ययोश्च गदिते गोमेद-
पृष्ठ ३५८०
वैदूर्य्यके । वासःशृङ्गाररत्नानां धारणं प्रीतिवर्द्ध-
नम् । रक्षोघ्नमर्थ्यमौजस्यं सौभाग्यकरमुत्तमम् । सततं
सिद्धमन्त्रस्य महौषध्यास्तथैव च । रोचनासर्षपादीनां
माङ्गल्यानाञ्च धारणम् । आयुर्लक्ष्मीकरं रक्षोहरं
मङ्गलदं शुभम्! हिंस्नादिभयविध्वंसि वशीकरणकार-
णम् । ततो भोजनवेलायां कुर्य्यात्माङ्गल्यदर्शनम् ।
तस्य प्रदर्शनन्नित्यमायुर्धर्मविवर्द्धनम् । लोकेऽस्मिन्मङ्ग-
लान्यष्टौ ब्राह्मणो गौर्हुताशनः । पुष्पस्रक्सर्पिरादित्य
आपो राजा तथाष्टमः । पादुकारोहणङ्कुर्य्यात् पूर्बं
भोजनतः परम् । पादरोगहरं वृष्य चक्षुष्यञ्चायुषो
हितम् । शरीरे जायते नित्यं वाञ्छा नॄणाञ्चतुर्विधा ।
वुक्षुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा । भोजने-
च्छाविघातात् स्यादङ्गमर्दोऽरुचिः श्रमः । तन्द्रालोचन-
दौर्बल्यं धातुदाहो बलक्षयः । विघातेन पिपासायाः
शोषः कण्ठास्ययोर्मवेत् । श्रवणस्यावरोधश्च रक्तशोषो
हृदि व्यथा । निद्राविघाततो जृम्भा शिरोलोचनगौरवम् ।
अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव च । बुभुक्षितो न
योऽश्नाति तस्याहारेन्धनक्षयात् । मन्दीभवति कायाग्नि
र्यथा चाग्निर्निरिन्धनः । आहारं पचति शिखी दोषा-
नाहारवर्जितः । पचति दोषक्षये च धातून् धातुक्षये
च प्राणान् । आहारः प्रीणनः सद्यो बलकृद्दे हधार्तणः ।
स्मृत्यायुःशक्तिवर्णौजःसत्वशोभाविबर्द्धनः । यथोक्त-
गुणसम्पन्नं नरः सेवेत भोजनम् । विचार्य्य दोषकाला-
दीन् कालयोरुभयोरपि । उभयोः कालयोः प्रातः-
सायञ्च । तथा च । सायं पातर्मनुष्याणामशनं श्रुतिबो-
धितम् । नान्तरा भोजनङ्गुर्य्यादग्निहोत्रसमोविधिः ।
प्रातः प्रथमयामादुपरि द्वितीययामादर्वाक् । तथा च ।
“याममध्ये न भोक्तव्य यामयुग्मं न लङ्घयेत् । याममध्ये
रसोत्पत्तिर्य्यामयुग्माद् बलक्षयः” । अन्यच्च । “क्षुत् सम्भ-
वति पक्वेषु रसढोषमलेषु च । काले वा यदि वाऽकाले
सोऽन्नकाल उदाहृतः” । रसादीनां पाकज्ञानमाह
उद्गारशुद्धिरुत्साहो येगात्सर्गो यथोचितः । लघुता क्षुत्पि-
पासा च जीर्णाहारस्य लक्षणम् । स्थानमाह आहारन्तु
नरः कुर्य्यान्निर्हारमपि सर्वदा । उभाभ्यां लक्ष्म्युपेतः
स्यात् प्रकाशें हीयते श्रियाः । निर्हारो मलमूत्रोत्सगः ।
आहांरनिर्हारविहारयोगाः स देव सद्भिर्विजने विधेयाः” ।
अतः परम आहारविधिः स च आहारशब्दे सुश्रुतोक्तः
उक्तप्रायः ।
आहारानन्तर कृत्यजातञ्च भावप्रकाशे दर्शितं यथा
“एवं भुक्त्वा समाचामेद्रूक्षग्रहणपूर्वकम् । भोजने दन्त-
लग्नानि निर्हृत्याचमनं चरेत् । दन्तान्तरगतं चान्नं
शोधनेनाहरेत् शनैः । कुर्य्यादनिर्हृतं तद्धि मुखस्यांनिष्ट-
गन्धताम् । दन्तलग्नमनिर्हार्य्यं लेपं मन्येत दन्ववत् ।
न तत्र बहुशः कुर्य्यात् यत्नं निर्हरणं प्रति । आचम्य
जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत् । भुक्त्वा च
संस्मरेन्नित्यमगस्त्यादीन् सुखावहान् । विष्णुरात्मा
तथैवान्नं परिणामश्च वै यथा । सत्येन तेन मद्भुक्तं
जीर्य्यत्वन्नमिदन्तथा । अगस्तिरग्निर्वडवानलश्च भुक्तं
ममान्नं ज्वरयत्वशेषम् । सुखञ्च मे तत्परिणामसम्भवं
यच्छन्त्वरोगं मम चास्तु देहम् । अङ्गारकमगस्तिञ्च
पावकं सूर्य्यमश्विनौ । पञ्चैतान् संस्मरेन्नित्यं भुक्तं
तस्याशु जीर्य्यति । इत्युच्चार्य्य स्वहस्तेन परिमार्ज्य
तथोदरम् । अनायासप्रदायीनि कुर्य्यात् कर्म्माण्य-
तन्द्रितः । अतन्द्रितः निरन्तरं जाग्रत् तिष्ठेन्नतु स्वप्यात् ।
“भुक्तमात्रस्य तु स्वप्नाद्धन्त्यग्निं कुपितः कफः” इति
वचनात् । जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेधते ।
भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि । विदग्धं
किञ्चित् पक्वं किञ्चिदपक्वम् । ततः परं भुक्तमात्रे सञ्जा-
तस्य कफस्य प्रतीकारोपाय ताम्बूलादिभक्षणम् तत्रोक्तं
तच्च ताम्बूलशब्दे ३२०७ पृ० उक्तम् । खदिरगुणादिं च
तत्रोक्तं खदिरशब्दे २४६४ पृ० उक्तम् । ततः कृत्य-
शेषास्तत्रोक्ता यथा
“भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते । अङ्ग-
सङ्घातशैथिल्यं ग्रीवाजानुकटीमुखम् । भुक्तोपविशत-
स्तन्द्रा शयानस्य तु पुष्टता । आयुश्चङ्क्रममाणस्य मृत्यु-
र्धावति धावतः । चङ्क्रममाणस्य पदशतं शनैर्गच्छतः ।
श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे ।
ततस्तद्द्विगुणान् वामे पश्चात् स्वप्याद् यथासुखम् ।
वामदिशायामनली नाभेरूर्द्धेऽस्ति जन्तूनाम् । तस्मात्तु
वामपार्श्वे शयीत भुक्तः प्रपाकार्थम् । त्रिदोषशमनी
खट्वा तूली वातकफापहा । भूशय्या वृंहणी वृष्या
काष्ठपट्टी तु वातला । अन्यः पुनराह “भूशय्या
वातलातीव रूक्षा पित्तास्रनाशिनी । सुशय्या शयनं
हृद्यं पुष्टिनिद्राधृतिप्रदम । श्रमानिलहरं वृष्यं
विपरीतमतोन्यथा” । संवाहनं मांसरक्तत्वकप्रसादकरं
परम् । प्रीतिनिद्राकरं वृष्य कफवातश्रमापहम् ।
पृष्ठ ३५८१
प्रवातरौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत् । स्वेदमूर्च्छा-
पिपासाघ्नमप्रवातमतोऽन्यथा । सुखं प्रवातं सेवेत
ग्रीष्मे शरदि चान्तरा । निर्वातमायुषे सेव्यमारोग्याय
च सर्वदा । पूर्वोऽनिलो गुरुः सोष्णः स्निग्धः
पित्तास्रदूषकः । विदाही वातलः श्रान्तिकफशोषवतां
हितः । स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविष-
कृमीन् । सन्निपातं ज्वरं श्वासमामवातञ्च कोपयेत् ।
स्वादुर्भक्ष्यद्रव्येषु बाहुल्येन मधुररसजनकः । दक्षिणः
पवनः स्वादुः पित्तरक्तहरो लघुः । वीर्य्येण शीतलो
बल्यश्चक्षुष्यो न तु वातलः । पश्चिमः पवनस्तीक्ष्णः
शोषणो बलहृल्लघुः । मेदःपित्तकफध्वसी प्रभञ्जन-
विवर्द्धनः । उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोप-
कृत् । क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः ।
दोषप्रकोपकृत् आतुराणाम् । आग्नेयो दाहकृद्रूक्षो
नैरृतो न विदाहकृत् । वायव्यस्तु भवेत्तिक्त ऐशानः
कटुकः स्मृतः । विष्वग्वायुरनायुष्यः प्राणिनां बहुरोग-
कृत् । अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे । व्यजन-
स्यानिली दाहस्वेदमूर्च्छाश्रमापहः । तालवृन्तभवो
वातस्त्रिदोषशमको मतः । वंशव्यजनजस्तूष्णो रक्त-
पित्तप्रकोपणः । चामरो वस्त्रसम्भूतो मायूरो येत्रज-
स्तथा । एते दोषजिता वाताः स्निग्धाः हृद्याः सुपू-
जिताः । दिवास्वापं न कुर्वीत यतोऽसौ स्यात्
कफापहः । ग्रीष्मवर्ज्येषु कालषु दिवास्वप्नो निषिध्यते ।
उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम् ।
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा । व्यायाम-
प्रमदाध्ववाहनरतान् क्लान्तानतीसारिणः शूलश्वास-
वतस्तृषापरिगतात् हिक्कामरुत्पीडितान् । क्षीणान्
क्षीणकफान् शिशून् मदहतान् वृद्धान् रसाजीर्णिनो
रात्रीजागरितान्नरान्निरशनान् कामं दिवा स्वापयेत् ।
दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः ।
न तेषां स्वपतां दोषो जाग्रतां चोपजायते । स्वपतां
दिवा । जाग्रतां रात्रौ । भोजनानन्तरं निद्रा वातं
हरति पित्तहृत् । कफं करोति वपुषः पुष्टिसौख्यन्तनोति
हि । शयनं पित्तनाशाय वातनाशाय मर्द्दनम् । वमनं
कफनाशाय ज्वरनाशाय लङ्घनम् । आसीनं चूर्णितं
यत्तु नाभिष्यन्दि न रूक्षणम् । अपरानप्युदरेऽन्नस्य
संस्थापनहेतूनाह शब्दान् स्पर्शांश्च रूपाणि रसान्
गन्धान् मनःप्रियान् । भुक्तवानपि सेवेत तेनान्नं
साधु तिष्ठति । उदरे इति विशेषः । अन्नस्योदरे-
ऽस्थितिहेतूनाह शब्दः स्पर्शस्तथा रूपं रसो गन्धो
जुगुप्सितः । भुक्तमप्रयतञ्चान्नमतिहास्यञ्च वामयेत् ।
अप्रयतमपवित्रम् । अन्यदपि वर्ज्जनीयमाह शयनं
चासनञ्चाति न भजेन्न द्रवाधिकम् । नाग्न्यातपो न
प्लवनं न यानं नापि वाहनम् । प्लवनं बाहुभ्यां
जलपतरणं यानं मार्गे चलनं, वाहनमश्वादि । व्यायामञ्च
व्यवायञ्च धावनं यानमेव च । युद्ध गीतञ्च पाठञ्च
मुहूर्त्तं भुक्तवांस्त्यजेत् । परिवर्जनार्थमजीर्णस्य हेतू-
नाह अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्न-
विपर्य्ययाच्च । कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं
न पाकं भजते नरस्य । ईर्ष्याभयक्रोधसमन्वितेन लुब्धेन
रुग्दैन्यनिपीडितेन । विद्वेषयुक्तेन च सेव्यमानमन्नं
न सम्यक् पारिपाकमेति । सन्धारणात् अधोवात-
मलमूत्रादीनाम् । अध्यशनलक्षणमाह अजीर्णे
भुज्यते यत्तु तदध्यशनमुच्यते । तन्निवारयन्नाह
प्राग्मुक्ते चानले मन्दे द्विरह्नो न समाचरेत् । अस्याय-
मर्थः प्रातर्भुक्तेऽजीर्णे सति अहन्येव पुनर्न भुञ्जीत
इत्यर्थः । रात्रौ पुनस्तथापि सति भुञ्जीतैव । यत
आह सुश्रुत एव “प्रातराशे त्वजीर्णे तु सायमाशे तु
दुष्यति । पूर्वभुक्ते विदग्धेऽन्ने मुञ्जानो हन्ति
पावकम्” । अस्य त्वयमर्थः । पूर्वं भुक्ते रात्रिभुक्ते
अन्ने विदग्धे किञ्चित् पक्वे प्रातर्भुञ्जानः पावकं हन्ती-
त्यर्थः । यत आह “सायमाशे त्वजीर्णे तु प्रातर्भुक्त
विषोपममिति” । सायमाशाजीर्णे भोजनीपायमाह
भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम् ।
विचूर्णितां शीतजलेन युक्तां भञ्जीत चान्नं मितमन्नकाले ।
आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम् । अवशो
यदि सेवेत तदा ग्रीष्मवसन्तयोः । अवशः अजितेन्द्रियः ।
आस्या (स्थितिः) वर्णकफस्थौल्य सौकुमार्य्यसुखप्रदा ।
अध्वा(गतिः)वर्णकफस्थौख्यसौकुमार्य्यविनाशनः । यत्तु
चङ्क्रमणं नातिदेहपीडाकरं भवेत् । तदायुर्बलमेधाग्नि-
प्रदमिन्द्रियरोधनम । उष्णीषं कान्तिकृत् केश्यं रजोवात
कफापहम् । लघु तच्छस्यते यस्मादगुरु पित्ताक्षि-
रोगकृत् । उपानद्धारणं नेत्र्यमायुष्यं पादरागहृत् ।
सुखप्रचारमोजस्यं वृष्यञ्च परिकीर्त्तितम् । पादाग्या-
मनुपानद्भ्यां सदा चङ्कुमणं नृणाम् । अनारोग्य
सनायुष्यनिन्द्रियघ्नमदृष्टिदम् । छत्रस्य धारणं वर्षातप्
पृष्ठ ३५८२
वातरजोऽपहम् । हिमघ्नं हितमक्ष्णोश्च माङ्गल्यमपि
कीर्त्तितम् । सत्वोत्साहबलस्थैर्य्यधैर्य्यतेजोविवर्द्धनम् ।
अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम् । कर्षाच्छादन
संयुक्ता शिविका सर्ववल्लभा । तस्यामारोहणं नॄणां
त्रिदोषशमकं मतम् । वातश्लेष्मगदार्त्तानामहिता
भ्रमकृत्तरिः । पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टि-
वर्द्धनः । घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम् ।
मेदोवर्णकफघ्नञ्च हितं तद्बलिनां परम् । आतप
स्वेदमूर्च्छास्रपित्ततृष्णाक्लमश्रमान् । दाहं विवर्णतां
कुर्य्यादेतान् छाया व्यपोहति । वृष्टिर्वृष्या हिमावस्था
निद्रालस्यविधायिनी ।”

दिनज्योतिम् न० ६ त० । आतपे राजनि० ।

दिनदुःखित पुंस्त्री० दिनमुद्दिश्य दुःखितः उत्कण्ठितः ।

चक्रवाके शब्दर० । स्त्रियां ङीष् । रात्रौ हि स्त्रीविर-
हेण दिनार्थमुत्कण्ठायुक्तत्वात् तस्य तथात्वम् ।

दिनप पु० दिनं पाति पा--क । १ सूर्ये हारा० २ अर्कवृक्षे

३ सूर्य्यादिषु वारेषु च “दिनाव्दमासहोराणामधिपा न
समाः कुतः” इति मयस्य प्रश्ने “मन्दादधः क्रमेण
स्युश्चतुर्था दिवसाधिपाः । वर्षाधिपतयस्तद्वत् तृतीयाश्च
प्रकीर्त्तिताः” सू० सि० । “शनेः सकाशादधः क्रमेण
चतुर्थसङ्क्याका ग्रहा दिनाधिपतयो वारेश्वरा भवन्ति यथा
शनिरविचन्द्रभौमबुधगुरुशुक्रा इति तत्क्रमः” रङ्ग०
“सूतकानां परिच्छेदो दिनमासाव्दपास्तथा । मध्यम-
ग्रहभुक्तिस्तु सावनेनैव गृह्यते” सू० सि० ।

दिनपति पु० ६ त० । १ सूर्ये २ अर्कवृक्षे च ३ वारेशसूर्य्यादौ

च दिनपशब्दे दृश्यम् दिननाथदिनेशादयोऽप्यत्र ।
४ दिनप्रवेशलग्नेशे दिनप्रवेशलग्नेश्वरादिषु मध्ये तल्लग्न
दर्शिनि अधिकबलयुक्ते ५ ग्रहभेदे च दिनप्रवेशशब्दे
दृश्यम् । “दिननाथपूर्णशशिनोरसम्भवाम्” माघः ।

दिनपात पु० दिनस्य चान्द्रदिनस्य तिथेः पातः क्षयः ।

दिनक्षये “अधिवासे दिनपाते धनुषि रवौ भानुलङ्घिते
मासि । चक्रिणि सुप्ते कुर्य्यान्न माङ्गल्यं विवाहञ्च”
भीमपराक्रमः ।

दिनपिण्ड पु० ६ त० । ज्योतिषोक्ते अहर्गणे ।

दिनप्रणी पु० दिनं प्रणयति करोति प्र + णी--क्विप् । १ सूर्ये

२ अर्कवृक्षे च ।

दिनप्रवेश पु० ताजकोक्ते मासप्रवेशवत् वर्षमाससम्बन्धि-

दिनानां प्रवेशे तत्प्रवेशकालाद्यानयनं नील० ता० उक्तं
यथा “मासार्कस्य तदासन्नपङ्क्त्यर्केण सहान्तरम् ।
कलीकृत्यार्कगत्याप्तदिनाद्येन युतोनितम् । तत्
पङ्क्तिस्थं वारपूर्वं मासार्केऽधिकहीनके । तद्वा-
राद्ये मासवेशो दिवसेऽप्येव मेव तु” । अयमर्थः
मासार्कः वर्षप्रवेशकालीन एव राश्यंशकलाविकलादि-
युक्तः सूर्यः प्रथममासार्कः द्वितीयमासार्कस्तु
तथाभूतार्क एकैकराशिमात्रयुक्तः । तस्य तदासन्नपङ्क्त्यर्केण
पाश्चात्त्यदेशप्रचलितमकरन्दानुसारितिथिपत्रिकास्थस्पष्ट-
ग्रहज्ञापकपङ्क्तिस्थेन स्फुटार्केण यदन्तरं तत्
कलात्मकं कृत्वा तद्दिवसीयरविगत्या तद्दिवसीयस्फुट
सूर्यगत्या हरणेन लब्धदिनाद्येन तत्पङ्क्तिस्थार्क!
वारादिना युतमूनितं वा कार्यं तथा सति यदि
मासार्कस्ततोऽधिको भवति तदा पूर्वोत्तरीत्या युते वारादौ
मासप्रवेशे वारादिर्भवति यदि मासार्कस्ततो हीनो भवति
तदा जनितं कार्यम् एवंकृते तथाभूते वारादिके मासप्रवेशो
भवति । दिनप्रवेशे त्वयं भेदः । वर्षप्रवेशप्रथममासप्रवेश-
कालयोरैक्यमिब प्रथमदिनप्रवेशस्यापि तत्कालैक्यम् ।
द्वितीयादिदिनप्रवेशकालस्तु इत्थम् मासार्कस्थाने दिनार्क
इति विपरिणमनीयम् तथा च मासार्के एकैकांशयोजने
द्वितीयादिदिनार्को भवति तस्य पूर्ववत् आसन्नपङ्क्तिस्थ
स्फुटार्केण यदन्तरं तत्कलात्मकं कृत्वा तद्दिवसीया-
र्थगत्या हृते लब्धेन दिनाद्येन पङ्क्तिस्थार्ककालवा-
रादिकं युतमूनितं वा कार्यं तथा सति यद् अंशादिकं
भवति तत्पङ्क्तिस्थार्ककालीनवारादिषु हीनमधिकं
कार्यं तथा कृते यद्भवति तत् द्वितीयादिदिनप्रवेशे
वारादि ज्ञेयम् तथा च तादृक्समये यस्य राशेरुदयः
तत् अंशादिसंहितं दिनप्रवेशलग्नम् इति ।
दिनेशायन च तत्रैवोक्तं यथा
“तत्र मासतनोर्नाथो मुन्थेशोजन्मपस्तथा । त्रिराशिपो
दिननिशोरवीन्दुभपतिस्तथा । अव्दप्रवेशलग्नेश एषु
वीर्याधिकस्तनुम् । पश्यन् मासपतिर्ज्ञेयस्ततो वाच्यं
शुभाशुभम् । अपरे दिनलग्नेशं तथा प्राचुर्विचक्षणाः ।
मासघस्रेशयोर्वाच्यं फलं वर्षेशवद्बुधैः” नी० क० ०इत्युप-
क्रमे दिनपतिनिर्णयस्तत्फलं च तत्रोक्तं यथा
“दिनप्रवेशकालेऽपि खेटान् भावांश्च साधयेत् । चन्द्रलग्नां-
शकाभ्यां तु फलं तत्र वदेब्बुधः । चतुष्कमिन्थिहेशादि
दिनमासाव्दलग्नपाः । एषां बली तनुं पश्यन् दिनेशः
परिकीर्त्तितः” । इन्थिहेशादिचतुष्कम् दिनमुन्येशः जन्म-
पृष्ठ ३५८३
{??}शः, दिवरात्रिभेदेन दिने दिनप्रवेशे सूर्यः, रात्रौ
दिनप्रवेशे चन्द्रः, एतच्चतुष्कं, दिनमासावदपाः
दिनप्रवेशमासप्रवेशवर्षप्रवेशलग्नेशास्त्रयः इति सप्तानां मध्ये
योऽधिकबलवान् दिनप्रवेशलग्नदर्शी च स दिनपतिरिति
बोध्यम् । इदन्त्ववधेयं मुन्या हि राश्यंशादियुतं
जन्मलग्नमेव सा च एकैकवर्षे एकैकराशिमतिक्रम्य
राश्यन्तरे गच्छति तेन तस्या मासे त्रैराशिकेन
सार्द्धद्व्यंशमोगः दिने च पञ्चकलाभोगः तदनुसारेणैव
मुन्थायाः राश्यादिकल्पनया तदघीशनिरूपणम् । “त्रिको-
णकेन्द्रायगताः शुभाश्चेच्चन्द्रात्तनोर्वा बलिनः खलास्तु ।
षडन्त्यगास्तत्र दिने सुखानि विलासमानार्थयशोयुतानि ।
षड़ष्टरिपफोपगता दिनाव्दमासेन्थिहेशाः खलखेट-
युक्तः । गदप्रदा मानयशोहराश्च केन्द्रत्रिकोणायगताः
सुखाप्त्यै । लग्नांशपः सौम्यखगैः समेतो दृष्टोऽपि वा
मित्रदृशेन्दुनापि । नैरुज्यराज्यादिशरीरपुष्टिर्मासोक्त-
वद्दुःखमतोन्यथात्वे । यदंशपः सूर्य्ययुगीक्षितो वा
स्निग्धेक्षणाद्भावजसौख्यकृत् सः । दुःखप्रदः प्रोक्तवदन्य-
थात्वे सर्वेषु भावेष्वियमेव रीतिः । षष्ठाशकः सौम्ययुतो
रोगटः पापयुक शुभः । व्ययांशः शुभयुग्दृष्टः सद्व्ययः
पापतस्त्वसन् । जायांशः सौम्ययुग्दृष्टः स्वस्त्रीसौख्य-
विलासकृत् । पापैर्ग्रहैः कलिर्दुःखं पापान्तःस्थे मृतिं
वदेत् । शुभमध्यस्थिते स्त्र्यंशे बहुलं कामिनीसुखम् ।
स्वस्यां रतिर्गुरावन्यखगेऽन्यासु रति वदेत् । मृत्यंशे
मृत्युगैः सौम्यैर्युगदृष्टे मरणं रणे । मिश्रैर्मिश्रं
खलैः सौक्यं वर्षलग्नानुसारतः । द्विद्वादशे खला हानिं
व्यये सौम्याः शुभव्ययम् । कर्त्तरी पापजा रोगं
करोति शुभजा शुभम् । लग्नेऽष्टमे वा क्षीणेन्दर्मृत्युदः
पापदृग्युतः । रोगो वा ग्रहणं वापि रिपुतः, शस्त्रभी-
रपि । चन्द्रे सभौमे निधनारिसस्थे नृणां भयं शस्त्र-
कृतं पशीर्वा पापैः सुखस्थैः पतनं गजाश्वयानात्ततः
स्याद्बहुला च पीड़ा । शुभा द्यूने विजयदा द्यूनादर्थे
सुखाबहाः । नवमे धर्मभाग्यार्थराजगौरवकीर्त्तिदाः ।
दिनप्रवेशेऽस्ति विधुरवस्थायां तु यादृशि । तदवस्था
तुल्यनसौ फलं दत्तेन संशयः । विहाय राशिं चन्द्रस्य
भागा द्विघ्नाः शरोद्धृताः । लब्धं गता अवस्थाः स्युर्भो-
ग्यायाः फलमादिशेत् । प्रबामं प्रवासोपगते रात्रिना-
थेऽर्थनाशस्तु नष्टोषगे मृत्युभींतिः । मृतावस्थिते स्या-
ज्जयायां जयस्तु विलासस्तु हास्योपगे कामिनीभिः ।
रतौ स्याद्रतिः क्रीडिता सौख्यदात्री प्रसुप्ता च निद्रां
कलिर्देहपीड़ाम् । भयं तापराशिः सुखं स्यात्तु भुक्ता
ज्वराकम्पितासु स्थितासु क्रमेष्ण” ।

दिनबन्धु पु० ६ त० । १ सूर्ये हेमच० । २ अर्कवृक्षे च

दिनबल पु० दिने बलं यस्य । १ द्विपदराशिषु । ते च राशयः

वृहज्जा० भट्टोत्पलयोरुक्ता यथा
“होरा स्वामिगुरुज्ञवीक्षितयुता नान्यैश्च वीर्योत्कटाः
केन्द्रस्था द्विपदादयोऽह्नि, निशि च प्राप्ते च सन्ध्याद्वये”
मू० “वीर्योत्कटाः इत्यनुवर्त्तते द्विपदादयो द्विपदचतुष्पद-
कीटाः यथाक्रममह्नि, निशि, प्राप्ते च सन्ध्याद्वये वीर्यो
त्कटाः भवन्ति अह्नि दिने द्विपदा बलिनः, निशिरात्रौ
चतुष्पदाः, सन्ध्याद्वये कीटाः । अत्र न केवलं वृश्चिकं
कीटः यावदाप्याः कीटग्रहणेणैव ज्ञेयाः । तत्र च श्री-
देवकीर्तिः “मिथुनतुलाकुम्भकन्या दिवावला धन्विनश्च
पूर्वार्द्धम् । अजवृषसिंहा रात्रौ मृगहययोः पूर्वपश्चार्द्धे ।
वृश्चिकमीनकुलोरा मकरान्त्यार्द्धं च सन्ध्यायामिति”
भट्टो० । एवं स्थिते शब्दक० पञ्चषष्ठादिराशीनां यद्दिन
बलमुक्तं तन्मूलं चिन्त्यम् । दिने बलं यस्य । २ सूर्यगुरु-
शुक्रेषु ग्रहेषु यथाह वृहज्जा० “निशि शशिकुजसौराः
सर्वदा ज्ञोऽह्नि, चान्ये, बहुलसितगताः ल्युः क्रूर-
सौम्याः क्रमेण” “शशिकुजसौराश्चन्द्रभौमशनयः निशि
रात्रौ वीर्यवन्तो बलिनः, बुधः सर्वदा सर्वस्मिन् काले
निशि दिने च बली, अन्ये परे रविगुरुसिता अह्नि दिने
बलिनः” भट्टो० ।

दिनमणि पु० दिने मणिरिव प्रकाशकत्वात् । १ सूर्ये हारा० ।

२ अर्कवृक्षे च “दिनमणिमण्डलमण्डन! भवखण्डन!”
गीतनी० । “महदहः किमहो रजनी तनुर्दिनमणौ
गणकोत्तरगोलगे । ननु तनुर्दिवसो त्रहती निशा वद
विचक्षण! दक्षिणदिग्गते” सि० शि०

दिनमयूख पु० दिने मयूखोऽस्य । १ सूर्ये २ अर्कवृक्षे च

दिनकिरणादयोऽप्यत्र ।

दिनमान न० दिनस्य मानम् । सूर्यदर्शनकालस्य मानभेदे

तन्मानभेदे कारणं सि० शि० उक्तं यथा
“अतश्च सौम्ये दिवसो महान् स्यात् रात्रिर्लघुर्व्यस्त-
मतश्च याम्ये । द्युरात्रवृत्तं क्षितिजादधःस्थे रात्रिर्यतः
स्याद्दिनमानमूर्द्धे । सदा समत्वं द्युनिशोर्निरक्षे नोमण्डलं
तत्र कुजाद्यतोऽन्यत् । षट्षष्टिभागाभ्यधिकाः पलांशा
तत्राय तत्रास्त्यपरो विशेषः । लम्बाधिका क्रान्तिरुदक
पृष्ठ ३५८४
च यावत् तावद्दिनं सन्ततमेव तत्र । यावच्च याम्यां
सततं तमिस्रा ततश्च मेरौ सततं समार्द्धम् । विषुवद्वृत्तं
द्युसदां क्षितिजत्वमितं तथा च दैत्यानाम् । उत्तरयाम्यौ
क्रमशो मूर्धोर्द्ध्वगतौ ध्रुवौ यतस्तेषाम् । उत्तरगोले क्षिति-
जादूर्द्ध्वं परितो भ्रमन्तमादित्यम् । सव्यं त्रिदशाः सततं
पश्यन्त्यसुरा असव्यगं याम्ये । दिनं दिनेशस्य यतोऽत्र
दर्शने तमी तमोहन्तुरदर्शने सति । कुपृष्ठगानां द्युनिशं
यथा नृणां तथा पितॄणां शशिपृष्ठवासिनाम् । दिनं
सुराणामयनं यदुत्तरं निशेतरत् सांहितिकैः प्रकीर्तितम् ।
दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्फलकीर्त-
नाय तत् । द्वन्द्वान्तमारोहति यैः क्रमेण तैरेव वृत्तैरव-
रोहतीनः । यत्रैव दृष्टः प्रथमं स देवैस्तत्रैव तिष्ठन् न
विलोक्यते किम्? । विधूर्ध्वभागे पितरो वसन्तः स्वाधः
सुधादीधितमामनन्ति । पश्यन्ति तेऽर्कं निजमस्त-
कीर्ध्वे दर्शे यतोऽस्माद् द्युदलं तदैषाम् । भार्धान्तरत्वान्न
विधोरधःस्यं तस्मान्निशीथः खलु पौर्णमास्याम् । कृष्णे
रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम् ।
यदतिदूरगतो द्रुहिणः क्षितेः सततमाप्रलयं रविमीक्षते ।
भवति तावदयं शयितश्च तद्युगसहस्रयुगं द्युनिशं विधेः ।
यो हि प्रदेशोऽपममण्डसस्य तिर्यक्स्थितो यात्युदयं
तथास्तम् । सोऽल्पेन कालेन य जर्ध्वसंस्थोऽनल्पेन
सोऽस्मादुदया न तुल्याः । य उद्गमे याम्यनता
मृगाद्याः स्वस्वापमेनापि निरक्षदेशे । याग्याक्षतस्तेऽति-
नतत्वमाप्ता उद्यन्ति कालेन ततोऽल्पकेन । कर्क्यादयः
सौम्यनता हि येऽत्र ते यान्ति याम्याक्षवशादृजुत्वम् ।
कालेन तस्माद्बहुनोदयन्ते तदन्तरे स्वं चरखण्डमेव ।
भचक्रपादास्तिथिनाड़िकाभिः पृथक् समुद्यन्ति निरक्ष-
देशे । चक्रार्धमाद्यं च तथा द्वितीयं सर्वत्र पूर्णाग्नि-
३० मितामिरेव । मेषादेर्मिथुनान्तो नाड़ीभिस्तिथिमिता-
मिरुद्वृत्ते । लगति कुजे तदधःस्थे प्रथमं ताभिश्चरो-
नाभिः । कन्यान्ताद्धनुषोऽन्तस्तिथिमितनाड़ीभिरुद्वलये ।
लगति कुजे चोर्ध्वस्थे पश्चात् ताभिश्चराढ्याभिः ।
तदहितत्रिंशद्भिः कन्यान्तो बा झषान्तो वा ।
चरखण्डैरूनाढ्यास्तेन निरक्षोदयाः स्वदेशे स्युः । क्षितिजे-
ऽजादिं कृत्वा गोलं भ्रमयन् प्रदर्शयेत् सर्वम् । उक्त-
मनुक्तं चान्यच्छिष्याणां बोधजननार्थम् । योऽभ्युदेति
समयेन येन तत्सप्तमोऽस्तमुपयाति तेन च । राशि-
रूर्द्ध्वमपमण्डलं कुजादर्धमेव सततं ततः स्थितम् ।
यत्र लम्बजलवा २४ जिनोनकास्तत्र नोदयचराद्यसुक्तवत् ।
नान्यसस्थिततयान्यथोदितं येन नैष विषयो मृगोचरः ।
यत्र लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते ।
प्राचि पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे” ।

दिनमुख न० ६ त० । अहर्मुखे प्रभाते ।

दिनमूर्द्धन् पु० दिनस्य मूर्द्धेवाद्यस्थानत्वात् । उदयाचले त्रिका० ।

दिनयौवन न० दिनस्य यौवनमिव । मध्याह्ने शब्दार्थचि०

दिनरत्न न० दिनस्य रत्नमिव प्रकाशकत्वात् । १ सूर्ये हेमच०

२ अर्कवृक्षे च ।

दिनराशि पु० ६ त० । ज्योतिषोक्ते १ अहर्गणे “यथाखभमणा

भ्यस्तो दिनराशिः कुवासरैः । विभाजितो मध्यगत्या
भगणादिर्ग्रहो भवेत्” सू० सि० । २ दिनसज्ञके वृषादौ
राशौ च राशिशब्दे दृश्यम् ।

दिनव्यास पु० दिनस्य अहोरात्रात्मककालघ्नापकवृत्तस्य व्यासः ।

सृ० सि० उक्ते अहोरात्रदृत्तव्यासे “क्रान्तौ क्रमोत्-
क्रसज्ये द्वे कृत्वा तत्रोत्क्रमज्यया । हीनात्रिज्या
दिनव्यासदलं तद्दक्षिणोत्तरम्” मू० “दिनव्यासदलमहीरात्र-
वृत्तस्य व्यासार्धम्” रङ्ग० ।

दिनांश पु० ६ त० । त्रिधा विभक्तस्य दिनस्थ १ प्रातर्मध्याह्रसा-

याह्नेषु भागेषु राजनि० । पञ्चधाविभक्तस्य दिनस्य २ प्रा-
तःसङ्गवादौ च “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव
तु । मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णस्ततःपरम् । साया-
ह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत्” तिथित० ।

दिनागम पु० ६ न० । प्रभाते “नृशब्दानुगमक्रुद्धः स

कदाचिद्दिनावगमे” हरिवं० ८१ अ० ।

दिनादि पु० ६ त० । प्रभावकाले राजनि० ।

दिनान्त पु० ६ त० । सायाह्ने “कृत्वा दिनान्ते निलयाय्

गन्तुम्” रघुः । दिनावसानादयोऽप्यत्र । “दिनावसानो-
त्सुकबालवत्सा” रघुः ।

दिनान्तक पु० दिनमन्तयति अन्त + णिच्--ण्वुल् । अन्धकारे त्रिका० ।

दिनारम्भ ६ त० । प्रभाते

दिनार्द्व पु० दिनस्य सूर्यकिरणप्रकाशात्मककालस्यार्द्धम् । दिवा-

भागस्यार्द्धे “एवं विषुवति छाया स्वदेशे या दिना-
र्द्धजा” सू० सि० ।

दिनिका स्त्री दिनं तत्रकृतं कर्महेतुतया अस्त्यत्र भृतौ

ठन् । दिने कर्मकरणभृतौ (एकदिनेरभजुरि) रत्नमाला ।

दिनेश पु० ६ त० । १ सूर्ये हेमच० । २ अर्कवृक्षे दिनप्रवेशश-

ब्दोक्ते दिनप्रवेशलग्नेशादिषु मध्येऽधिकवलयुते तल-
दर्शिनि ३ ग्रहे ४ सूर्य्यादौ वारेशे च दिनेश्वरादयोऽप्यत्र ।
पृष्ठ ३५८५

दिनेशात्मज पु० ६ त० । १ शनौ २ यमे ३ कर्णे ४ सुग्रीवे च

५ तपत्यां ६ तमुनायां च स्त्री ।

दिन्भ सघाते चु० आत्म० अक० सेट् । दिग्भयते अदिदिम्भत

दिप्सु त्रि० दन्भ--सन् उ--छान्दसः न भष् । दम्भेच्छौ ।

“न यं दिप्सन्ति दिप्सवः” ऋ० १ । २५ । १४ । “लोकेतु
धिप्सति धिप्सुः” इति भेदः ।

दिभ नीदने चु० उभ० सक० सेट् इदित् । दिम्भयति--ते अदिदिम्भत्--त ।

दिम्प संघाते चुरा० उभ० सक० सेट् । दिम्पयति ते अदिदि-

म्पत्--त ।

दिय त्रि० देय + पृषो० । देवे “भुवद्वसुर्दियानां पतिः” ऋ० ८ । १९ । ३७ ।

दिरिपक पु० कन्दुके त्रिका० ।

दिलीप पु० सूर्य्यवंश्ये १ नृपभेदे । सूर्यवंशे दिलीपौ च द्वौ

जातौ एकः अंपुमतः पुत्रः स्वट्वाङ्गापरनामा । अपरोदु-
लिदुहस्य पुत्रः रामवृद्धप्रपितामहः यथोक्तं हरिवशे
१५ अ० “सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ।
दिलीपस्तनयस्तस्य खट्वाङ्ग इति विश्रुतः । येन स्वर्गादि-
हागत्य मुहूर्त्तं प्राप्य जीवितम् । त्रयोऽनुसन्धिता लोका
बुद्ध्या सत्येन चानघ! । दिलीपक तु दायादो
महाराजो भगीरथः” । “अनमित्रसुतो राजा विद्वान् दुलि-
दुहोऽभवत् । दिलीपस्तनयस्तस्य रामस्य प्रपितामहः ।
दीर्घबाहुर्द्दिलीपस्य रघुर्नाम्नाऽभवत्सुतः । अयोध्यायां
महाराजो रघुरासीन्महाबलः । अजस्तु रघुतोजज्ञे
अजाद्दशरथोऽभवत् । रामो दशरथाज्जज्ञे धर्मात्मा
सुमहायशाः” हरिवं० १५ अ० रामस्य प्रपितामहः तस्य
वृद्धप्रमितामहः इत्यर्थः । तत्र रथुपितरि “दिलीप इति
राजेन्दुरिन्दुः क्षीरनिधाविव” रघुः ।

दिलीपराज् पु० दिलीप एव राट् राजा । दिलीपनृपे त्रिका० ।

दिलीर न० दल--वा० ईर पृषो० । शिलीन्ध्रे हारा० ।

दिव प्रीतौ भ्वा० पर० सक० सेट् इदित् । दिन्वति अदिन्वीत् ।

दिव जिगोषायां क्रीडायां च अक० पणे व्यवहारे इच्छायां

स्ततौ च सक० दिवा० पर० सक० सेट् । अस्य करणस्य वा कर्म-
संज्ञा । अक्षैरक्षान् वा दीव्यति अदेवीत् दिदेव । देवित्वा
द्यूत्वा देवनं दिदिवान् दुद्यूवान् “अदीव्यद्रौद्रमत्युग्रम्”
भट्टिः । “उवाच दीव्याव पुनर्वहुवित्तं मयाऽर्जितम्”
भा० व० ७८ अ० “दिव्यामि शकुने! त्वया” भा० स० ७४ अ०
“ततस्तु भाते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः वा० व० ६१ अ० ।
“तदाऽदेवीत् पाण्डवीऽजातशत्रुः” भा० स० ६५ अ० । आर्षे
तु क्वचित् तङ् । “प्रव्रज्यायेव दीव्येत विना दुर्द्यूतदे-
विनम्” भा० वि० १८ अ० “अक्षानुखा पुनर्द्यूतमेहि
दीव्यस्व भारत!” भा० स० ७४ अ० । “के तत्रान्ये कितवा
दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः” ५६० श्लो०
“दिवस्तदर्थस्य” पा० व्यवहारक्रीड़ार्थत्वेऽस्य कर्म्मणि
षष्ठी शतस्यदीव्यति । तदर्थस्य किं ब्राह्मणं दीव्यति स्तौती
त्यर्थः सि० कौ० । द्यूतं जिगीषायामन्यत्र आद्यूनः
जिगीषाशून्य इत्यर्थः । टिदेविषति दुद्यूषति देवयति ते
अदिदिवत् त । “तेनादुद्यूषयद्रामं मृगेण मृगलोच-
ना” भट्टिः । देदिवीति देद्योति
उपसर्गपूर्वस्य तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे ।

दिव कूजने चु० आत्म० सक० सेट् । देवयते अदिदेवत ।

दिव अर्द्दे चु० उभ० सक० सेट् । देवयति ते अदीदिवत् त ।

दिव् स्त्री दीव्यत्यत्र दिव--वा० आधारे डिवि । १ स्वर्गे

२ आकाशे च अमरः । द्यौः दिवौ दिवः द्युम्याम्
द्युषु । ३ दिने “सौरेण द्युनिशोर्वामम्” सू० सि० “मनीषितं
द्यौरपि येन दुग्धा” रघुः “य इत्थमस्वास्थ्यमहर्दिनं
दिवः” “दिवीव चक्षुराततम्” ऋ० १ । २२ । ५

दिव न० दीव्यत्यत्र घञर्थे आधारे क । १ स्वर्गे । दिवौकद्धः

त्रिदिवः । २ आकाशे मेदि० । ३ दिने ४ वने च हेमच० ।
तत्र स्नर्गे “लोकपालैर्महाभागैर्दिवं देववरैरिव” भा० व०
१६१ अ० दिने “शुशुभेऽभ्यधिकं राजन् । दिवं ज्योति
र्गणैरिव” हरिवं० ९३ अ० ।

दिवङ्गम त्रि० दिवमाकाशं स्वर्गं वा गच्छति दिव--वा० खच्

मुस् । १ आकाशगामिनि । “दिशं प्रतिष्ठमानानामस्तु
शब्दो दिवङ्गमः” भा० व० ४८ अ० । २ स्वर्गगामिनि च
“दिवङ्गमं रुरोधाथ मार्गं भीमस्य कारणात्” भा० व०
१४६ अ० ।

दिवन् न० दिव--वा० अप्रतिपूर्वादपि कनिन् उज्ज्वल० ।

स्वर्गे त्रिदिवौकसः । अस्य भत्वे उपधाऽल्लोपस्य दीर्घः
विधौ स्थानिवत्त्वाभावात् दीर्घः दीव्ना दीव्ने इत्यादि

दिवस पु० दीव्यत्यत्र दिव--असच् किच्च । “नाडीषष्टितम-

स्तत्र सावनो दिवसः स्मृतः । त्रि शभागोऽर्कराशेस्तु
दिवसः सौर उच्यते । चान्द्रस्तु तिथ्यवच्छिन्नो भौमो
भूपरिधेर्मतः” इत्युक्तेषु सावनादिषु दिनेषु । “दिवसाः
परिणामरमणीयाः” शकु० । “अयोजयत् स धर्मात्मा
दिवसे दिवरे श्र च” । भा० उ० १८२ अ० ।
पृष्ठ ३५८६

दिवसकर पु० दिवसे करोऽस्य दिवसं करोति कृ--अच्

वा । १ सूर्ये हेमच० २ अर्कवृक्षे च । “दिवसकरसचोऽस्तं
ध्यान्तमन्तर्गृहेषु” माघः । कृ--क्विप् दिवसकृदप्यत्र पु० ।

दिवस्पति पु० दिवः पतिः अलुक्ल० रोःसत्वम् । १ इन्द्रे

अमरः । “इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते!”
भा० उ० ११ अ० ।

दिवस्पुत्र पु० दिवः आकाशस्य पुत्रवत् प्रियः दिवः पुरु

त्रायते त्रै--क पृषो० वा । १ द्युलोकप्रिये २ द्युलोकपालके
वा सूर्ये । “दिवस्पुत्राय सूर्याय शंसत” यजु० ४ । ३५
“दिवस्पुत्राय द्युलोकस्य पुत्रवत् प्रियाय द्युलोकाद्धि सूर्यो
जायते दिवः पुरु त्रायते स इति दिवस्पुत्राय दिवःपाल-
कायेति” वा वेददी० ।

दिवस्पृथिवी स्त्री द्वि० व० द्यौश्च पृथिवी च “दिवसश्च पृथि

व्याम्” पा० दिव इत्येव चात् द्यावा च आदेशे
अकारोच्चारणं सकारस्य रुत्वं (क्वापि) मा भूदित्येतदर्थम्”
सि० कौ० । रोदस्योः द्यावाभूम्योः हेमच० । “तं देवा
बुध्ने रजसः सदंससं दिवस्पृथिव्योररतिम्” ऋ० २ । २ । ३

दिवस्पृश पु० स्पृशति स्पृश--क्विन् ६ त० । पादेन स्वर्ग

स्पर्शिनि १ परमेश्वरे “दिवस्पृक् सर्वदृग्व्यासः” विष्णुस० ।
“दिवःस्पर्शनाद्दिवस्पृक्” भा० “पादोऽस्य सर्वाभूतानि
त्रिपादस्यामृतं दिवि” छा० उ० तस्य पादस्य दिविस्थत्वात्
त्रिविक्रमावतारे वा तथात्वात् तत्त्वम् । २ आकाशस्पर्शिनि
शब्दादौ च ।

दिवा अव्य० दिव--का । दिवसे अमरः “दिवा मातर्युष्म-

च्चरणयुगलध्याननिरनः” कर्पूरस्तवः “पश्चिमान्तु
समासीनो मलं हन्ति दिबाकतम्” मनुः ।

दिवाकर पु० दिवा करोरि कृ--ट । १ सूर्ये २ अर्कवृक्षे च

“दिवाकरकरैः पूतं दिवास्नानं प्रगस्यते” ति० त० “दिवा-
कराद्रक्षति यो गुहासु” “दिवाकराप्लुष्टविभूषणास्प
दाम्” कुमा० ।

दिवाकरसुत पु० ६ त० । १ शनौ २ यमे ३ कर्णे ४ सुग्रीवे च

५ यमुनायां तपत्यां च स्त्री । अरुणात्मजशब्दे दृश्यम् ।
“गङ्गादिवाकरसुताजलचारुहाराम्” वृ० सं० ४३ अ०

दिवाकीर्त्ति पु० दिवैव कीर्त्तिः कृत्यं यस्य रात्रौ क्षुर-

कर्मनिषेधात् । १ नापिते अमरः । २ चण्डाले हेमच० ।
तस्य दिवाचरत्वात्तथात्वं दिवाचरशब्दे दृश्यम् । “दिवा-
कीर्त्तिमुदक्याञ्च पतितं सूतिकां तथा । शवं तत्स्मृ-
ष्टिनं स्पृष्ट्वा स्नानेनैव विशुध्यति” मनुना तस्यास्पृश्यत्व-
मुक्तम् । दिवाऽकीर्त्तिर्यस्य । उलूके पेचके हेमच० ।
दिवा तस्य नामोच्चारद्वे हि तस्य भक्ष्यद्रव्ये तिक्तता जायते
इति लोकसिद्धत्वात् तन्नाम्नो न दिवाकीर्त्तनीयता ।

दिवाकीर्त्त्य न० दिवा दिवसे कीर्त्त्यं कीर्त्तनीयम् । वर्षसाध्ये

गवामयने सत्रे द्वयोर्मासषठ्कयोर्मध्ये विषुवन्नामके
एकस्मिन्नहनि गेये सामभेदे तच्च ता० ब्रा० ४ । ६ । १ दर्शितं
यथा “विषुवानेष भवति” पूर्वोत्तरयोः पक्षसोर्मध्येऽनुष्ठेयं
गवायनस्य प्रधानभूतं विषुवदाख्यमहः प्रदशयति एष
विषुवान् संवत्सरस्य मध्यतो भवतीत्युपक्रमे अस्मिन्न-
हनि सामानि विधत्ते” भा० । “दिवाकीर्त्त्यसामा भवति”
ता० ब्रा० ४ । ६ । १२ । “दिवाकीर्त्त्यानि शुक्रियाणि
सामानि तस्मिन् प्रयुज्यन्ते इति दिवाकीर्त्त्यसामा अय
विषुवान् दिवाकीर्त्त्यसामा कार्यः” भा० । तस्य प्रशंसापूर्वकं
तत्र गेयर्चः प्रतीकञ्च दर्शतं यथा
“स्वर्भानुर्बा आसुर आदित्यन्तमसाविध्यत्तस्य देवा दिवा-
कीर्त्त्यैस्तमोऽपाघ्नन् यद्दिवाकीर्त्यानि भवन्ति तम एवास्मा-
दपघ्नन्ति रश्मयो वा एत आदित्यस्य यहृवाकीर्त्यानि
रश्मिभिरेव तदादित्यं साक्षादारभन्ते” ता० ब्रा० ४ ।
६ । १३ “आसुरेण स्वर्भानुना तमसाविद्धस्यादित्यस्य वा
धकं तमोऽन्धकारं देवा दिवाकीर्त्त्यैः सामभिरपाघ्नन्
व्यनाशयन् अते यद्दिवाकीर्त्त्यान्यस्मिन् भवन्ति तेन
तम एवास्मादादित्यादपघ्नन्ति । कथमेषां साम्नां तमसो-
हननसामर्थ्यमिति चेत् उच्यते दिवाकीर्त्यसामानीति
यत् एते आदित्यस्य रश्मयो वै रश्मिरूपा एव अत
एषां युक्तमेव तमसो नाशकत्वं तत्तथासति रश्मिभि-
रेवादित्य साक्षात् प्रत्यक्षमारभन्ते ये सत्रिणो विषु-
वति दिवाकीर्त्यानि प्रयुञ्जत इत्यर्थः । दिवाकीर्त्त्य
सामभिस्तमसोऽपहननं सामान्येनोक्तं तदेव विवृणोति”
भा० “भ्राजाभ्राजे पवमानमुखे भवतो मुण्यत एवास्य
तमोऽपघ्नन्ति” ता० ब्रा० ४ । ६ । १४ । “पवमानमुस्वे माध्य-
न्दिनार्भवयोः पवमानयोर्मुखे प्रमुखे भ्राजाभ्याजे
सामनी भवतः गायत्रस्य नित्यत्वात् ततः परस्तात् क्रमेण
भवत इत्यर्थः । अस्य प्रत्नामनुद्यूतमिति तृचे गातव्यं साम
भ्राजं, तन्माध्यन्दिने पवमानमुखे, “परिस्वानोगिरिष्टा
इत्यस्मिन् गेयं साम आभ्राजं तदार्भवपवमानमुखे” भा०

दिवाचर त्रि० दिवा दिवसे चरति भक्षार्थम् चर--ट ।

पक्षिभेदे स्त्रियां ङीप् । “टिवाचरो न शर्वर्यां न च
नक्तञ्चरो दिवा” वृ० स० ८ अ० २ चण्डाले तस्य रात्रौ
ग्रामनगरे चारनिषेधेन दिवसे एव धारस्य मनुनावि-
पृष्ठ ३५८७
हितत्वात् तथात्वं यथा “रात्रौ न विचरेयुस्ते ग्रामेषु
नगरेषु च । दिवा चरेयुः कार्य्यार्थं चिह्निता
राजशासनैः” ३ श्यामाखगादौ च दिवासञ्चरशब्दे दृश्यम् ।

दिवाचारिन् त्रि० दिवा चरति चर--णिनि । दिवससञ्चा-

रिणि भूते । “स्वाहेत्यथ बलिहरणम्” इत्युपक्रमे
“सर्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा” आश्व० गृ०
१ । २ । ९ सू० ।

दिवाटन पुंस्त्री० दिवाऽटति अट--ल्यु । १ काके शब्दार्थ-

कल्प० स्त्रियां जातित्वात् ङीष् । २ दिवागतयुक्ते त्रि० ।

दिवातन त्रि० दिवा भवः द्यु तुट् च । दिवाभवे । “शशिन

इव दिवातनस्य लेखा” कुमा० । स्त्रियां ङीप् । “पङ्कजानां
दिवातनीम्” भट्टिः ।

दिवातर न० अतिशयेन दिवा प्रकाशकम् तरप् । अत्यन्तप्र-

काशके दिवसे । “यः सुदर्गतरो दिवातरात् प्रायुषे
दिवातरात्” ऋ० १ । १२७ । ५

दिवान्ध पुंस्त्री० दिवा दिवसे अन्धः । १ पेचके त्रिका० २

दिवसान्धप्राणिमात्रे च । “दिवान्धाः प्राणिनः केचित्
रात्रावन्धास्तथाऽपरे” देवीमा० ३ वल्गुलाखगे स्त्री राजनि०

दिवान्धकी स्त्री दिवान्ध--स्वार्थे क गौरा० ङीष् । छुछु-

न्दर्य्याम् पुराणम् ।

दिवाभीत पुंस्त्री दिवा दिवसे भीतः । १ पेचके “लीनं

दिवाभीतमिवान्धकारम्” कुमा० । स्त्रियां जातित्वात्
ङीप् । २ कुमुदाकरे ३ चौरे च पु० मेदि० ।

दिवाभीति पु० दिवा भीतिरस्य । १ पेचके शब्दर० ।

२ दिवसभीतियुक्ते त्रि० ।

दिवामणि पु० दिवा मणिरिव । १ सूर्ये शब्दर० २ अर्कवृक्षे च ।

दिवामध्य पु० ६ त० । मध्याह्ने हेमच० ।

दिवावासु पु० दिवा वसुः किरणोऽस्य । १ सूर्ये २ अर्कवृक्षे

च दीव्यति दिव--क्विप् द्यौः आवसुः हविरस्य
दिवमावसति आ + वस--उन् वा । १ दीप्तहविष्के २ द्युलोक
वासिनि वा इन्द्रे । “दिवं यय दिवावसो!” ऋ० ८ । ३४ । १ ।

दिवाशय पु० दिवा दिवसे शेते--शी--अच् ७ त० । १ दिवास्वा-

पयुक्ते २ दिवसेऽप्रकाशयुक्ते च “न मे दिवाशयाः पुत्रा न
रात्रौ दधिभोजिनः । गुर्विणीं नानुगच्छति न स्पृशन्ति
रजस्यलाम्” जैमि० भारतम् । “आरुरोह कुमुदाकरो-
पनां रात्रिजागरपरोदिवाशयः” रघुः ।

दिवासञ्चर त्रि० दिवा विसे सञ्चरति सम--चर--ट ।

दिवलचारिणि प्राणिभेदे तथाभूताः वृ० सं० ८८ अ० कति-
चिदुक्ता यथा “श्यामाश्येनशशघ्नवञ्चुलशिखिस्त्रीकर्ण
चक्राह्वयाश्चाषाण्डीरकखञ्जरोटकशुकध्वाङक्षाः कपोता-
स्त्रयः । भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः
फेण्टः कुक्कुटपूर्णकूटचटकाश्चोक्त दिवासञ्चराः” ।

दिवासप्न पु० दिवा दिवसे स्वप्नः । दिवानिद्रायाम । तद्दोषा-

दिंकं दिनचर्य्याशब्दे भावप्र० उक्तमुक्तम् । सुश्रुते च “सर्वर्त्तुषु
दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् । प्रतिषिद्धेष्यपि
तु बालवृद्धस्त्रीकर्षितक्षतक्षीणमद्यनित्ययानवाहनाध्व
कर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षी-
णानामजीर्णिनाञ्च मुहूर्त्तं दिवास्वप्नमप्रतिषिद्धं रात्रा-
वपि जागरितवतां जागरितकालादर्द्धमिष्यते दिवा-
स्वप्नः । विकृतिर्हि दिवाखप्नो नाम तत्र स्वपतामधर्मः
सर्वदोषप्रकोपश्च तत्प्रकोपाच्च कासश्चासप्रतिश्यायसिरा
गौरवाङ्गमर्द्दाऽरोचकज्वराग्निदौर्बल्यानि भवन्ति” ।
“मृगयाक्षी दिवास्वप्नः परीवादः स्त्रियोमदः । तौर्य-
त्रिकं वृथाट्या च कामजो दशको गणः” व्यसनोक्तौ
मनुः रसाभियुक्तमन्नं वा दिवास्वप्नञ्च सेवते ।
अपक्वान्नगते काले स्वयं दोषान् प्रकोपयेत्” भा० आश्व० १७ अ०

दिवास्वाप पु० ७ त० । १ दिवसनिद्रायाम् । दिवास्वप्नशब्दे

दृश्यम् । दिवास्वापोयस्य । २ उलूकादौ च तेषां
रात्रिचारित्वेन दिवास्वापवत्त्वात् तथात्वम् यथोक्तं वृ० सं०
८८ अ० “लोमाशिकापिङ्गलाच्छिपिकाख्यौ वल्गुल्युलूकौ
शशकश्च रात्रौ ।” २ वल्गुलीखगे स्त्री राजनि० ।

दिवि पु० दीव्यति दिव--वा० कि । चाषखगे शब्दसा०

दिविक्षित् त्रि० दिवि क्षयति वसति क्षि--क्विप् अलुक्स० ।

स्वर्गवासिनि । “सूर्य्यामासाविचरन्ता दिविक्षिता”
ऋ० १० । ९२ । १२ । “दिविक्षिता दिविवसन्तौ” भा०
औस्थान्येवेदे आच् । “गम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो
दिविक्षिद्भ्यो लोकक्षिद्भ्यः” छा० उ०

दिविज पु० दिवि जायते जन--ड अलुक्स० । द्युलोकजाते

“तामेवातिदूरे मधूकरीमिव सुमनस उपजिघ्रतीं दिविज
मनुजमनोनयनाह्लाददुषैर्गतिविहारविनयावलोकसुस्वरा-
क्षरावयवैः भाग० ५ । २ । ७ “व्युषा आवो दिविजा
ऋते नाविष्कृण्वाना” ऋ० ७ ७५ १ “जे विभाषा” पा०
पक्षे लुक् द्युजोऽप्यत्र

दिवित्मत् दीप्तिमत् + पृषो० । दीप्तियुक्ते “महाराये

दिवित्मते” ऋ० ४ । ३१ । ११ “दिवित्मते दीप्तिमते” भा० ।

दिविता स्त्री दीप--ब्रा० इतच् पृषो० । दीप्तौ “ग्रावाणो

वाचा दिविता दिवित्मता” ऋ० १० । ७६ । ६ “दिवितायां
दीप्तिमत्तायाम्” भा० ।
पृष्ठ ३५८८

दिवियज् पु० दिवि द्युनोकेस्थितानीन्द्रादीन् यजते

यजक्विप् अलुक्स० । द्युलोकस्थितदेवयाजिनि “होतारो
न दिवियजो मन्द्रतमाः” ऋ० ९ । ९७ २६ “देवानिन्द्रा-
दीन्स्तुवन्त्येवं दिवियजो दिवि द्युलोकेस्थितानिन्द्रा-
दीन् देवान् यलन्तः” भा० ।

दिविरथ पु० पौरवे भूमन्युसुते नृपभेदे “ततो दिविरथो-

नाम भूमन्योरभवत् सुतः” भा० आ० ९४ अ० २ अङ्गराजपुत्र
दधिवाहनपुत्रे नृपभेदे च “अङ्गपुत्रो महानासीद्
राजेन्द्रो दधिवाहनः । दधिवाहनपुत्रस्तु राजा दिवि-
रथोऽभवत् । पुत्रो दिविरथस्यासीच्छक्रतुल्य पराक्रमः”
हरिवं० ३१ अ० ।

दिविष(स)द् पु० दिवि सीसति सद--क्विप् अलुक्स० वा

षत्वम् । देवे अमरः । “पृथिवीसदं त्वान्तरिक्षसदं
दिविसदं देवसदं नाकसदम्” यजु० ९ । २ “मान्द्रानन्द
पुरन्दरादिदिविषद्वृन्दैरमन्दादाराद्” “दृप्यद्दानवदूयमा-
नदिविषद्दुर्वारदुःखापदाम्” गीतगो० ।

दिविष्टि त्रि० दिवमिच्छति इष--कर्त्तरि क्तिच । द्युलोके-

च्छायुक्ते “इमा उ वां दिविष्टयः” र्० ७ । ७४ । १ “दिवि-
ष्टयो दिवमिच्छन्त्यः” भा०

दिविष्ठ त्रि० दिवि तिष्ठति स्था--क अलुक्स० षत्वम् । १ अन्त-

रीक्षस्थे २ स्वर्गस्थिते च “दिविष्ठस्य भुविष्ठस्त्वं सखीभूतो
मम प्रियः” भा० आ० ६ अ० ।

दिविस्पृश् त्रि० दिवि स्पृशति क्विन् “न रपरेति” पा० पर्युदासात्

न षत्वम् । द्युलोकस्पर्शिनि “आहि स्थाथो दिविस्पृ-
शम्” ऋ० ४ । ४६ । ४ किन्नन्तत्वात् झलि पदान्ते च कुः

दिवी स्त्री दिव बा० ई । उपजिह्विकाकीटे हारा० ।

दिवेदिवे अव्य० दिव--बा० के द्वित्वञ्च । दिवसे निरु० ।

दिवोकस् पु० द्यौ स्वर्ग आकाशो वा ओकोयस्य । १ देवे

२ चातकस्वगे च मेदि० ।

दिवोजा त्रि० दिवो जायते जन--ङ । वा० अलुकस० । द्युलो-

काज्जाते “एषा स्या नो दुहिता दिवोजा” ऋ० ६ । ६५ । १

दिवोदास पु० दिवः स्वर्गात दामीदानं यस्मै । वध्रश्वस्य पुत्रभेदे

“वध्रश्वान्मिथुनं यज्ञे मेनकायामिति श्रुतिः । दिवोद्रामश्च
राजर्षिरहल्या च यशस्विनी” हरिवं० ३२ अ० ।
मनुर्वश्ये रिपुञ्जयास्व्ये २ नृपभेदे च तत्कथा काशीऋ० ४७ अ० ।
“ततश्चिन्तयता स्रष्ट्वा दृष्टो राजर्षिसत्तमः । अवि-
मुक्ते महाक्षेत्रे तपस्यन्निश्चलेन्द्रियः । ममोरन्वयजो वीरः
क्षत्रोधर्मैवीदितः । रिपुञ्जयेति विख्यातो राजा परपुर-
ञ्जयः । अथ ब्रह्मा तमासाद्य बहुगौरवपूर्वकम् । उवाच
वचनं राजन्! रिपुञ्जय! महामते! । इमां पालय
भूपाल! ससमुद्रादिकाननाम् । नागकन्यां लागराजः
पत्न्यर्थन्ते प्रदास्यति । अनङमोहिनीन्नाम्ना वासुकिः
शीलभूषणाम । दिवोऽपि देवादास्यन्ति रत्नानि कुसु-
मानि च । प्रजाप्रलनसन्तुष्टा महाराज! प्रतिक्षणम् ।
दिवोदास इति ख्यातमतो नाम त्वमाप्स्यसि ।
मत्प्रसादाच्च नृपते! दिव्यं सामर्थ्यमस्तु ते । परमेष्ठिवचः
श्रुत्वा ततोऽसौ राजसत्तमः । वेधसं बहुशः स्तुत्वा
वाक्यञ्चेदमुवाच ह । राजोवाच । पितामह ।
महामान्य! त्रिलोकीकरणक्षम! । कथन्नान्ये च राजानो
मे कथं कथ्यते त्वया । ब्रह्मोवाच त्वयि राज्यं
प्रकुर्वाणे देवोवृष्टिं विधास्यति । पापनिष्ठे च वै राज्ञि
न देवो वर्षते पुनः । राजोवाच यद्यहं पृथिवी-
नाथः सर्वलोकपितामह! । तदा दिविसदो देवा दिवि-
तिष्ठन्तु सा भुवि । देवेषु दिवि तिष्ठत्सु मयि तिष्ठति
भूतले । असपत्येन राज्येन प्रजा सौख्यमवाप्स्यति!
तथेति विश्वसृक्प्रोक्तो दिवोदासो नरेश्वरः । पटह
घोषयाञ्चक्रे दिवं देवा व्रजन्त्विति । मयि प्रशासति
क्षौणीं सुराः खस्था भवन्त्विति । नागच्छन्त्विह वै नाना
नराः सुस्था भवन्त्विति” इत्युपक्रमे
दिवोदास्यस्य काशीतो निर्वासनान्तकथा तत उत्तरैषु
अध्यायेषु दृश्या । ३ धन्वन्तरेरवतारे काशीराजभेदे
आयुर्वेदशब्दे तत्कथा ७८९ पृ० सुश्रुतप्रादुर्भावे भाव० प्र०
उक्ता दृश्या ।

दिवोद्भव त्रि० दिवे स्वेर्गे उद्भवति उद् + भू अच् । आकाश

स्वर्गयोर्जाते । २ एलायां स्त्री शब्दार्थकल्प० ।

दिवोल्का स्त्री दिवा जाता उल्का । दिवसजातायां

नभसश्च्युतायामुल्कायाम् । “सधूमा न्यपतत् सार्चिर्दिवोल्का
नभसश्च्युता” भा० उ० ३० अ० ।

दिवौकस् पु० दिवं स्वर्ग ओकोयस्य दिवा ओकोयस्येति

दिवन्शब्दे उजज्वलदत्तः । देवे “पथि व्यजृम्भन्त दिवौक-
सामपि” । “वचोनिशम्याधिपतेर्दिवौकसाम” रघुः ।
“कीर्त्तयन्निव दिवौकसां प्रियम्” माथः “तारकेश्च दिवौ-
कमः” कुमा० ।

दिवौकस पु० (ओकस्) शब्दोऽदन्मोऽभलीत्युज्ज्वलदलोक्ते

दिवमोकसोऽस्य । देवे “वसुधामिह संप्राप्तैः सर्वैरेव दिवौ-
कसैः” हरिवं० २१३ अ० ।
पृष्ठ ३५८९

दिव्य त्रि० दिवि भवः यत् । १ स्वर्गभवे २ आकाशभवे ३

उत्पातभेदे पु० “संसूचयन्ति दिव्यान्तरीक्षभौमास्तदुत्पाताः”
वृ० सं० उक्तम् उत्पातशब्दे ११२३ पृ० दृश्यम् । ४ यमे ५ गुग्-
गुलौ च पु० राजनि० । कालीविलासतन्त्रोक्ते ६ भावभेदे
“शृणु भावत्रयं देवि! दिव्यवीरपशुक्रमात् । दिव्यस्तु
देववत्प्रायो वीरंश्चोद्धतमानसः । सत्यत्रेतार्द्धपर्यन्तं
दिव्यभावविनिर्णयः । त्रेताद्वापरपर्यन्तं वीरभाव
इतीरितम् । मद्यं मत्स्यं तथा मांसं मुद्रां मैथुनमेव
च । श्मशानसाघनं भद्रे! चितासाधनमेव च । एतत्ते
कथितं सर्वं दिव्यवीरमतं प्रिये । दिव्यवीरमतं नास्ति
कस्विकाले सुलोचने!” । ७ नायकभेदे रसमञ्जरी इन्द्रादयो
दिव्यनायकाः । ८ लवङ्गे न० मेदि० ९ हरिचन्दने न०
राजनि० । १० गङ्गाजलादिस्पर्शपूर्वकशपथभेदे “ब्राह्मणो
वचनं श्रुत्वा ज्ञानेशोज्ञानिनां वरः । गङ्गातोयं करे कृत्वा
स्वीकारञ्च चकार सः । गङ्गातोयमुपस्पृश्य मिथ्या यदि
व्रदेज्जनः । स याति कालसूत्रञ्च यावद्वै ब्रह्मणोवयः” ।
ब्रह्म० वै० प्र० ख० । “तथा गङ्गोदकं ताम्रं गोमयं गोरज-
स्तथा । सत्यं वा यदि वाऽसत्यं यदि दिव्यं करोति यः ।
कर्त्ता । च गौरवं याति तथा कारयित्वा प्रिये! । उभयोः
पुनरावृत्तिनरयोनिषु नास्ति वै । तस्यास्ति पुनरावृत्ति-
र्व्याघशूकरयोनिषु । दिव्यं कर्तुः कारयितुर्जपपूजा वृथा
तथा । गायत्रीरहितस्यापि नरकञ्चोत्तरोत्तरम्” इति
गायत्रीतन्त्रे ५ पट० । व्यवहारे प्रतिज्ञातार्थसाधनाय
वादिप्रतिवादिनोरन्यतराभ्यां कर्त्तव्ये ११ लौकिकसाक्ष्या-
दिप्रमाणासद्भावे तुलादिपरीक्षाभेदे । तद्भेदादिः तत्र
त्यसामान्यविधिच्च वीरमि० दिव्यमातृकायां दर्शितो यथा
“तत्र दिव्यन्नाम मानुषप्रमाणाभावे यन्निर्णायकं
यत् तदुच्यते । यत्तु स्मृतितत्त्वे एवकारस्थले अपिशब्द
दत्त्वा मानुषप्रमाणसत्त्वेऽपि यत्र दिव्याङ्गीकारस्तत्रापि
तद्भवतीति प्रयोजनमुक्त तदयुक्तम् “एषामन्यतमाभावे
दिव्यान्यतममिति” वदता याज्ञवल्क्येन “प्रमाणहीने वादे
तु निर्दोषा दैविकी क्रियेति” वदता वृहस्पतिना च
“युक्तिष्वप्यसमर्थासु शपथैरेनमर्दयेदिति” नारदेनापि मानुष-
प्रमाणासत्त्वे एव दिव्यस्य विधानात् । तत्र० वृहस्पतिः
दिव्यवेदानाह “घटोऽग्निरुदकर्ञ्चैव विषं कोषस्तु
पञ्चमः । शरन्तु तण्डुलाः प्रोक्ताः सप्तमन्तप्तमाषकम् ।
अष्टमं फालमित्युक्तं नवमन्धर्मजन्तथा । दिव्यान्येतानि
सर्वाणि निर्दिष्टानि स्वयम्भुवेति” । नारदः “युक्ति-
ष्वप्यसमर्थासु शपथैरेनमर्दयेत् । अर्थकालबलापेक्ष
मग्न्यम्बुसुकृतादिभिः । धटोऽग्निरुदकं चैव विषं कोशस्तु
पञ्चमः । उक्तान्येतानि दिव्यानि विशुद्ध्यर्थं
महात्मभिः । सन्दिग्धेऽर्थेऽभियुक्तानां परीक्षार्थं महात्म-
नाम् । प्राक्तानि नारदेनेह सत्यानृतविशुद्धये” इति ।
अर्दयेत्पीड़येत् । अर्थापेक्षत्वं सिसाधयिषितार्थस्याल्पत्व-
महत्त्वानुरूपमित्यर्थः । नन्वेषामपि शपथानां मानुष-
प्रमाणाभाव एव निर्णायकत्वेन दिव्यत्वात् कथं दिव्यानि
नवेत्यभिधानम् । तथा च शङ्खः “तत्र दिव्य नाम
तुलाधारणं विषाशनमप्सु प्रवेशो लोहधारणमिष्टापूर्त्त-
प्रदानमन्यांश्च शपथान् कारयेदिति” । तांश्च शपथानाह
वृहस्पतिः “सत्यवाहनशस्त्राणि गोवीजकनकानि च ।
देवव्राह्मणपादांश्च पुत्रदारशिरांसि च । एते च शपथाः
प्रोक्ताः स्वल्पार्थे सुकराः सदेति” । नारदोऽपि “सत्य-
वाहनशस्त्राणि गोरीजकनकानि च । देवतापितृ-
पादांश्च दत्तानि सुकृतानि च । स्पृशेच्छिरांसि पुत्राणां
दाराणां सुहृदान्तथा । अभियोगेषु सर्वेषु कोशपान-
मथापि वा । इत्येते शपथाः प्रोक्ता मनुना स्वल्प-
कारणे” इति । सत्यम् । अत्र समनन्तरभाविनिर्णय-
निमित्तस्य दिव्यत्वेन विवक्षितत्वात् । तादृशत्वञ्च
घटादीनामेव न तु शपथानान्तेषां कालान्तरभाविनिर्णय-
निमित्तत्वात् । नन्वेवं कोशस्य कथन्तेषु ग्रहणमिति
चेत् सत्यम् । तस्य तेषु पाष्ठोमहाभियोगविषयकत्व-
साम्यात् सावष्टम्भाभियोगविषयत्वसाम्याच्च । वस्तुतस्तु
शपथानामपि मारदादिवचनानुसाराद्गोबलीवर्दन्यायेन
दिव्यत्वाभ्युपगमेन नवशब्दस्योपलक्षणत्वात् । तथाच
नारदः “युक्तिष्वप्यसमर्थासु शपथैरेनमदेयेत् । अर्थ-
कालबलापेक्षमग्न्यम्बुसुकृतादिभिः । घटोऽग्निरुदक-
ञ्चैव विषं कोशश्च पञ्चमः । उक्तान्येतानि दिव्यानि
विशुद्ध्यर्थं महात्मभिः” । दिव्यं नाम तुलारोहणम् ।
विषाशनमप्सु प्रवेशो लोहधारणमिष्टापूर्त्तप्रदानमन्यास
शपथान् कारयेत् । मनुः “असाक्षिकेषु त्वर्थेषु मिथो
विवदमानयोः । अविदंस्तत्त्वतः सत्य शपथेनापि लम्भ-
येत् । अग्निं वाहारवेदेनमप्सु चैनन्निमज्जयेत् ।
पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक् । यस्मा-
द्देवैः पयुक्तानि पुष्करार्थे महात्मभिः । परस्मरविशुद्ध्यर्थं
पृष्ठ ३५९०
तस्माद्दिव्यानि नामतः” । असाक्षिकेष्विति मानुषप्रमाष्ण-
रहितेष्वित्यर्थः । उद्दिष्टानां दिव्यानां षध्ये तुलादीनि
महाभियोगे प्रयोक्तव्यानि तथा च याज्ञवल्क्यः
“तुलाग्न्यापो विषं कोगो दिव्यामीह विशुद्धये ।
महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि । रुच्चा
वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः” । अत्राम्बिशब्देन
तप्तायापिण्डादयो गृह्यन्ते । णीर्षकं लक्षणया
जयपराजयनिमित्तो दण्डः तत्प्रयुक्तदण्डभागित्वं वा रुच्या
इच्छया । इतरः अभियुक्ताभियोक्त्रोरन्यतरः । इतरः
शिरोवर्त्तयेत् दण्डं स्वीकुर्यादित्यर्थः । ननु “कोश-
मल्पेऽपि दापयेत्” इति स्वल्पाभियोगेऽपि कोशस्य
विधानात् कथं महाभियोगेष्वेतानीति चेन्न तस्य तुला-
दिषु पाठोऽवष्टम्भाभियोगेऽपि प्राप्त्यर्थः । न तु
महाभिवोगेष्वेवेति नियमार्थः । “अन्यथा कोशस्य शङ्का-
भियोग एव प्राप्तिः स्यात् । “अवष्टम्भाभियुक्तान-
धटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोशश्च शङ्का-
स्वेतौ नियम्य चेति पितामहस्मरणात् । अवष्टम्भः
शीर्षकस्थः । अवष्टम्भोऽत्र निश्चय इति स्मृतितत्त्वे ।
यदा शीर्षकस्थोऽभियोक्ता न स्यात्तदा एतानि दिव्यानि
न स्यादिति तथा च नारदः “शिरोवर्त्ती यदा न
म्यात्तदा दिव्यं न दीयते” इति । दिव्यदाने
नियममाह पितामहः “अभियोक्ता शिरःस्थाने
दिव्येषु परिकीर्त्त्यते । अभियुक्ताय दातव्यं दिव्यं
श्रुतिनिदर्शनात्” । कात्यायनोऽपि “न कश्चि-
दभियोक्तारं दिव्येषु विनियोजयेदिति” । अभियुक्ताय
दातव्यमित्यस्यापवादं रुच्यावान्यतर इत्यनेनाह याज्ञ-
वल्क्यः । नारदोऽपि “परियोक्ता शिरःस्थाने सर्व
त्रैकः प्रकल्पितः । इच्छया त्वितरः कुर्य्यादितरो वर्त्तये-
च्छिरः” इनि । क्वचिद्विषयविशेषे शिरोविनापि दिव्यं
देयमित्याह याज्ञवल्क्यः “विनापि शीर्षकात् कुर्य्या-
न्नृपद्रोहेऽथ पातके” इति । शीर्षकाद्विनापि पराजय-
प्रयुक्तदण्डभागिनोऽभियोक्तुरभावेऽपि । पातके ब्रह्म-
हत्यादौ । कात्यायनोऽपि “पार्थिवैः शङ्कितानाञ्च
निर्दिष्टानाश्च दस्युमिः । आत्मशुद्धिपराणाञ्च दिव्यं
देयं शिरो विनेति” । कालिकापुराणेऽपि “परदाराभि-
शामे च चोर्य्यागम्यागमेषु च । महापातकशस्ते च
स्थाद्दिव्य नृरसाहमे । पिप्रतिपत्तौ विवादेऽवर्णस्य
स्यापने कृते । तत्रैव स्थापयेद्दिव्यं शिरःपूर्बं मही-
पतिः । परदाराभिमर्षे च बहवो यत्र वादिनः ।
शिरोहीनम्भवेद्दिव्यमात्मनः शुद्धिकरणादिति” । विप्रति-
पत्तौ परदारगमनाद्यभियोगरूपायां, विवादे
ऋणादानादिविषये अवर्णोऽवबादः । परदाराभिमर्षे चेति
चौर्य्यादीनानप्युपलक्षणम् । विष्णुः “राजद्रोहे साहमे
च विना शीर्षप्रवर्त्तनादिति” । विषयविशेषेषु दिव्य-
विशेषानाह संग्रहकारः “धटादीनि विषन्तानि गुरु-
ष्वर्थेषु दापयेत्” । पितामंहोऽपि “अवष्टम्भाभि-
युक्तानां धटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोशश्च
शङ्कास्वेतौ नियोजयेत् इति” । कात्यायनः “शङ्का-
विश्वाससन्धाने विभागे रिक्थिनां सदा । क्रियासमू-
हकर्तृत्वे धटादीनि विनिर्दिशेत्” । क्रियासमूह
कर्त्तृत्वे सम्भूयैकक्रियाकारित्वे । पितामहोऽपि
“विश्रम्भे सर्वशङ्कासु सन्धिकार्य्ये तथैव च । एषु
कोशः प्रदातव्यो नित्यं चित्तविशुद्धवे । शिरःस्थापि
विहीनानि दिव्यादीनि विवर्द्धयेत् । धटादीनि विषा-
न्तानि कोश एकः शिरः स्मृतः” इति । तण्डुलानां
विपयं स एवाह “चौर्य्ये तु तण्डुला देया नान्य-
त्रेति विनिश्चयः” इति । अन्यत्र स्त्रीसंग्रहादौ न तु
दत्तापह्नवे “तदर्द्धार्द्धस्य तण्डुला” इति वक्ष्यमाण-
कात्यायनवचनेन तण्डुलदिव्यस्य विधानात् । एतदल्प-
चौर्य्यशङ्कायां वेदितव्यम् । “चौर्य्येऽभिशङ्कायुक्तानां
तप्तमाषो बिधीयते” इति महाचौर्य्यशङ्कायां तप्त-
माषस्य तेनैव विधानात् । द्रव्यसङ्ख्यया दिव्यविशेषा-
नाह विष्णुः “अथ शपथक्रिया राजद्रीहादिषु
यथाकामनिक्षेपर्णस्तेयेष्वर्थप्रमाणादिति” । शपथो दिव्यम् ।
राजद्रोहादिषु यथाकामं राजेच्छानुरोधाद्दिव्यं निक्षे-
पादिषु धनतारतम्यादित्यर्थः । वस्त्रादिविषयविवादे तु
तन्मूल्यद्रव्यपरिमाणं ग्राह्यम् । वृहस्पतिराप “विष
सहस्रेऽपहृते पादोने च हुताशनः । त्रिभागोने च
सलिलमर्द्धे देयो धटः सदा । धनुःशतावियोगे तु
दातव्यस्तप्तमाषकः । त्रिशते तण्डुला देयाः कोशश्चैव
तदद्धके । शतहृतेऽपह्नुते च दातव्यं धर्मशोधनम् ।
गोचरस्य प्रदातव्यं सद्यः कालावलेहनम् । एवा सङ्ख्या
निकृष्टानां मध्यानां द्विगुणा स्मृता । चतुर्गुणोत्तमा-
नाञ्च कल्पनीया परीक्षकैरिति” । धर्मशोधनम् । धर्मज
दिव्येन शोधनम् । निकृष्टानां जातिगणधर्मैः मध्य-
मत्वमुत्तमत्वञ्च तैरेव । यत्तु “नाहस्तादुद्धरेत् फालन्न
पृष्ठ ३५९१
विषं न तुलां तथेति” याज्ञ्यवल्क्यवचनं तन्मध्यमोत्तम-
पुरुषविषयम् । यत्तु “सहस्ने तु धटं दद्यात् सहस्रार्द्धे
तथायसम् । अर्द्धस्यार्द्धे तु सलिलं तस्यार्द्धे तु विषं
स्मृतमिति” पितामहवचनं तद्यत्राल्पद्रव्यापहारे
पातित्यं भवति तद्विषयम् । एतत्स्तेयसाहसविषयम्
दत्तापह्नवे तु कात्यायनः “दत्तस्यापह्नवो यत्र प्रमाणं तत्र
कल्पयेत् । स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ।
सर्वद्रव्यप्रमाणन्तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाण-
युक्तन्तु तदा दिव्यं प्रयोजयेत् । ज्ञात्वा सङ्ख्यां
सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशेऽथ
दद्याच्चैव हुताशनम् । षष्ट्या नाशे जलं देयं चत्वा-
रिंशति वै धटम् । विंशद्दशविनाशे तु कोशपानं विधी-
यते । पञ्चाधिकस्य वा नाशे तदर्द्धार्द्धस्य तण्डुलाः ।
ततीऽर्द्धार्द्धविनाशे हि स्पृशेत्पुत्रादिमस्तकान् ।
ततोऽर्द्धार्द्धविनाशे तु लौकिकस्य क्रिया स्मृता । एवं
विचारयन् राजा धर्मार्थाभ्यां न हीयत” इति । अत्र
सुवर्णशब्दः षोड़शमाषात्मकः । नाशोऽपह्नवः । विंश-
द्दशविनाशे त्रिंशद्विनाशन इति स्मृतिचन्द्रिका ।
पञ्चाधिकस्य पञ्चभ्योऽधिकस्य षट्प्रभृतेरिति यावत् ।
तदर्द्धार्द्धस्य सुवर्णप्रभृतेः । ततोऽर्द्धार्द्धस्य अष्टमाषोन
सुवर्णार्द्धप्रभृतेः । ततोऽर्द्धार्द्धस्य विनाशे सार्द्धसप्तमाषो
नसुवर्णार्द्धप्रभृतेर्विनाशे । लौकिकाश्च क्रियाः ।
अपह्नवे तव दशगुणो द्रव्यनाशो भविष्यतीत्यादिकाः ।
चशब्दः स्मार्त्तशपथसंग्रहार्थः । अतएवाह विष्णुः
“सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत् । तत्र च
कृष्णलोने शूद्रं दूर्वाकरं शापयेत्, द्विकृष्णलोने
तिलकरम्, त्रिकृष्णलोने जलकरं चतुःकृष्णलोने सुवर्णकरम्,
पञ्चकृष्णलोने सीरोद्धृतमहीकरम्, तत्र सुवर्णार्द्धोने
कीशो देयः शूद्रस्य ततःपरं यथार्हं धटाग्न्युदकविषा-
णामन्यतमं द्विगुणार्थे यथाभिहिता समयक्रिया ।
बैश्यस्य त्रिगुणेऽर्थे, राजन्यस्य कोशवर्जञ्चतुर्गुणेऽर्थे ब्रा-
ह्मणस्य कोशन्दद्यात् अन्यत्रागामिकालसमयनिबन्धन-
क्रियातः कोशस्थाने ब्राह्मणं सीरोद्धृतमहीकरमेव
शापयेत् । प्राग्दृष्टदोषं स्वल्पेऽप्यर्थे दिव्यानामम्यतम-
मेव कारयेत् । सत्सु प्रथितं सच्चरितं न महत्यर्थेऽ-
पीति” । सीरोद्धृतमहीकरं लाङ्गलोद्धृतलोष्टहस्तमि-
त्यर्थः । ऊनग्रहणमधिके शापनिवृत्त्यर्थं शापे तु विशे-
षमाह मनुः “सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैरिति” यद्यह-
मर्थापह्नवी स्यात् तदा सत्याभिधानधर्मो मम निष्कलः
स्यादिति शप कारिणं ब्राह्मणं वाचयेत् । एवं क्षत्रिया-
दीनां वाहनादीनि निष्फलानि स्युरित्यादीत्यर्थः ।
पादस्पर्शादीनां विशेषः स्मृत्यन्तरे दशितः “निष्के तु
सत्यवचनं द्विनिष्के पादलम्भनम् । ऊनत्रिके तु पुष्पं
स्यात् कोशपानमतःपरम्” इति । अत्र निष्कशब्देन
कर्षचतुर्थांशो मुद्रामुद्रितः प्रतिपाद्यते क्वचिद्देशे तत्रापि
निष्कव्यवहारात् न तु मनूक्तो निष्कः तस्य
राजतपलात्मकत्वेन मूलकाञ्चनकर्षादधिकत्वात् तत्र सत्यव-
चनविधौ चतुर्गुणेऽर्थे ब्राह्मणस्येति विरोधः स्यात् ।
दिव्ये दण्डे च मनूक्तं परिमाणम् ग्राह्यमिति
वृहस्पतिराह “सङ्ख्या रश्मिरजोमूला मनुना समुदा-
हृता । कार्षापणान्ता सा दिव्ये नियोज्या विनये तथेति” ।
संख्या परिमाणं रश्मिरुजीमूला त्रसरेण्वादिका । विनये
दण्डे । तच्च परिमाणं प्रतिज्ञापूर्वकं मनुराह “लोकसं
व्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसु-
वर्णानां ताः प्रवक्ष्याम्यशेषतः । जालान्तरगते भानौ
यत् सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानान्त्र्यसरे-
णुम्पचक्षते । त्र्यसरेणवोऽष्टौ विज्ञेया लिक्षैका
परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ।
सर्षपाः षड्यवो मध्यस्त्रियवन्त्वेककृष्णलम् । पञ्चकृष्णलको
माषस्ते सुवर्णस्तु षोडश । पलं मुवर्णाश्चत्वारः पलानि
धरणन्दश । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ।
ते षोडश स्याद्धरणं पुराणश्चैव राजतः । धरणानि
दश ज्ञेयः शतमानस्तु राजतः । कार्षापणस्तु विज्ञेयः
कार्षिकस्ताम्रिकः पणः । चतुःसौवर्णिको निष्को विज्ञे-
यस्तु प्रमाणतः” इति । अत्र ताम्ररूप्यसुवर्णानामिति
ताम्ररूप्ययोरल्पत्वात् प्राक्प्रयोगो न तु क्रमप्रदर्शनार्थः ।
पलानि धरणन्दशेत्यन्तं सुवर्णपरिमाणाभिधानात् ।
चतुःसौवर्णिकी निष्क इत्युक्तं रूप्यपरिमा-
णाभिधानम् । अवशिष्टेन ताम्रपरिमाणाभिधानम् ।
जालान्तरप्रविष्टे सूर्यरश्मौ यत् सूक्ष्मं रजो दृश्यते तत्
त्र्यसरेणुसंज्ञकम् अष्टौ त्र्यसरेणवो लिक्षा तास्तिस्रः
राजसर्षपः । त्रयो राजसर्षपाः गौरसर्षपः । षड्गौर-
सर्षपा मध्यमो यवो न सूक्ष्मो न स्थूल इति । मध्यम-
यवस्य परिमाणमुक्तं मिताक्षरायाम् मध्यशब्दः
पादपूरणार्थः । तथा च संपूर्णयवपरिमाणमुक्तमिति मनु-
पृष्ठ ३५९२
भाष्ये । त्रयो यवाः कृष्णलम् । माषः पञ्च कृष्णलानि
सुवर्णः षोडश माषाः । पलं सुवर्णाश्चत्वारः । धरणन्दश
पलानि । सूप्यमाषो द्वे कृष्णले । रजतस्य धरणं
षोडश रूप्यमाषाः । अस्य च पुराण इति संज्ञान्तरम् ।
राजतः शतमानः राजतदशधरणानि राजतपलसंज्ञा-
प्यस्य भवति । “शतमानन्तु दशभिर्धरणैः पलमेव त्विति”
याज्ञवल्क्यस्मरणात् । पूर्वोक्तसुवर्णचतुष्टयपरिमिति एकी
राजतनिष्कः । कार्षिकः कर्षसंमितः ताम्रिकस्ताम्र-
विकारः कार्षापणो विज्ञेयः । पण इति च संज्ञा
अस्यैव विज्ञेयेत्यर्यः । चशब्दोऽध्याहार्यः । अतएव
वृहस्पतिः “निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः” ।
ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः । स एव
चन्द्रिका प्रोक्ता ताश्चतस्रस्तु धानकाः । ता द्वादश
सुवर्णस्तु दीनाराख्यः स एव तु” । इति कर्षः पलचतु-
र्थांशः । “ते षोडशाक्षः कर्षोऽस्त्री पलङ्कर्षचतुष्टयम्
इत्यमरसिंहेनाभिधानात् । ते माषाः षोडशाक्षः कर्ष इति
च संज्ञेत्यर्थः । तेनाक्षकर्षशब्दयोः सुवर्णपरिमाणवचन-
त्रमित्यवगम्यते । याज्ञवल्क्यः पले विकल्पमाह
“पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम्” । इति
तस्य चतुर्थोऽंशो विंशतिर्माषा तत्परिमितः कार्सा-
पणः । अतएव कात्यायनः “माषो विंशतिभागस्तु ज्ञेयः
कार्षापणस्य तु । काकिणी तु चतुर्भागा माषकस्य पणस्य
चेति” । राजतोऽपि कार्षापणोऽस्तीत्याह नारदः
“कार्षापणो दक्षिणस्यान्दिशि रौप्यः प्रवर्त्तत” इति । व्यासस्तु
निष्कस्य प्रमाणमाह “पलान्यष्टौ सुवर्णस्तु ते सुवर्णाश्च-
तुर्दश । एतत् निष्कप्रमाणन्तु व्यासेन परिकीर्त्तितम्”
वर्णभेदेन दिव्यव्यवस्थामाह नारदः “ब्राह्मणस्य
धटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं देयं
शूद्रस्य विषमेव तु । साधारणः समस्तानां कोशः प्रोक्तो
मनीषिभिः । विषं विना ब्राह्मणस्य सर्वेषां वा तुला
स्मृता” इति । अनित्या चेयं व्यवस्था “राजन्येऽग्नि-
धटं विप्रेवैश्ये तोयं नियोजवेत् । सर्वेषु सर्वदिव्यं
वा विषवर्जं द्विजोत्तमे” इति कात्यायनस्मरणात् ।
व्यवस्थापक्षे वयोविशेषादिना व्यवस्थापनीयम् तदाह
नारदः “क्लीवातुरान् अत्वहीनान् परितश्चार्दितान्न-
रान् । बालवृद्धातुरांस्त्रीश्च परीक्षेत धटं सदा । स्त्री-
णान्तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
धटकोशादिभिस्तासामन्तस्तत्त्वं विथ्रारयेत् । नार्त्तानान्तीय
शद्धिः स्यात् न विषं पित्तरोगिणाम् । श्वित्र्यन्धकुन-
खादीनां नाग्निकर्म विधीयते । न मज्जनीयाः स्त्री-
बाला धर्म्मशास्त्रविचक्षणैः । रोगिणो ये च वृद्धाः स्युः
पुमांसो ये च दुर्बलाः । निरुत्साहान् व्याधिक्लिष्टा-
न्नार्तांस्तीये निमज्जयेत् । सद्यो म्रियन्ते मज्जन्तः
स्वल्पप्राणा हि ते स्मृताः । साहसेऽप्यागतानेतान्नैव
तोये निमज्जयेत् । न चापि हारयेदग्निन्न विषेण विशो-
धयेत्” याज्ञवल्क्यः “तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्म-
णरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य
चेति” । स्त्रीमात्रजातिवयोऽवस्थाविशेषानादरेण ।
बाल आषोडशाद्वर्षाज्जातिविशेषानादरेण । वृद्धोऽ-
शीतिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादवि-
कृतः । ब्राह्मणीजातिमात्रम् । रोगी व्याधितः ।
एतेषां शोधनार्थं सर्वदिव्यसाधारणेषु मार्गशीर्षशेत्रवै-
शाखेषु स्त्र्यादीनां सर्वदिव्यप्रसक्तौ तुलैवेति नियम्यते न तु
सर्वकालं स्त्रीणां तुलानियमः कोशादिविधानात् । अग्नि
फालस्तप्तमाषश्च क्षत्रियस्य । जलमेव वैश्यस्य । यवा
एवार्थे शूद्रस्य विषस्य सप्तेव यवा उक्तप्रमाणलक्षणा
भवन्तीत्यर्थः । ब्राह्मणस्य तुलाविधानात् अग्निर्जलं
वेति क्षत्रियवैश्यविषयमित्यवगम्यते । अतएव पिता-
महः “ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत्” इति ।
कात्यायनोऽपि “न लोहशिल्पिनामग्निः सलिलं नाम्बु-
सेविनाम् । मन्त्रयोगविदाञ्चैव विषं दद्यात्तु न क्वचित् ।
तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणाम्” इति ।
व्रतिनं पयोब्रतादिनियमस्थम् । हारीतोऽपि “कुष्ठिनां
वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां
नित्यं विषंच परिवर्जयेत्” इति ।
विष्णुरपि “न श्लेष्मकारिणां व्याधितानां भीरूणां
श्वासकासिकानामम्बु सेविनामुदकं हेमन्तशिशिरयोश्चेति”
पितामहोऽपि “कुष्ठिनां वर्जयेदग्निं सलिलं श्वास-
कासिनाम् । पित्तश्लेष्मवतां नित्यं विषन्तु परिवर्जयेत् ।
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च । कोशः प्राज्ञै
र्न दातव्यो ये च नास्तिकवृत्तयः” इति । यत्तु पिताम-
हेनोक्तम् “सव्रतानां भृशार्त्तानां व्याधितानां तपस्वि-
नाम् । स्त्रीणाञ्च न भवेद्दिव्यं यदि धर्मस्त्ववेक्ष्यते”
इति तुलेतरविषयं तदिति केचित् तदयुक्तम् ।
“धटकोशादिभिस्तासामन्तस्तत्त्व विचारयेदिति पूर्वोदाहृत-
पृष्ठ ३५९३
नारदवचनेन स्त्रीणां कोशादेर्विधानात् । तदग्न्यम्बु-
विषयमित्युक्तं विद्यारण्यश्रीपादैः । विज्ञानेश्वराचार्यास्तु
पुंस्त्रियोर्विवादे रुच्या वान्यतरः कुर्यादित्यनेन पक्षे
स्त्रीणामपि दिव्यप्रसक्तौ पुरुषस्यैव दिव्यं न स्त्रीणा-
मित्येतत्परमिदम् । अन्यथा सर्वथा तासां दिव्यनिषेधे
धटकोशादिभिस्तासामन्तस्तत्त्वं विचारयेदित्यनेन विरोधः
स्यादिति पाहुः । कात्यायनः “गोरक्षनान् बाणिजकां-
स्तथा कारुकुशीलवान् । प्रेष्यान् वार्द्धुषिकांश्चैव ग्राहये-
च्छूद्रवद्द्विजान्” । कालिकापुराणेऽपि “वर्णान्त्यस्य सदा
देयं माषकं तप्तहेमजमिति” । वर्णानामन्त्यः प्रत्यन्तः
तस्येत्यर्थः । नारदोऽपि “महापराधे निर्द्धर्मे कृतघ्ने
क्लीवकुत्सिते । नास्तिके दृष्टदीषे च शप्तानां तु
विवजयेत्” इति । कात्यायनोऽपि “मातापितृद्विज-
गुरुवृद्धस्त्रीबालधातिनाम् । महापातकयुक्तानां नास्ति-
कानां विशेषतः । लिङ्गिनां प्रमदानाञ्च मन्त्रयोग-
क्रियाविदाम् । वर्णसङ्करजातानां पापाभ्यासप्रवर्त्ति-
नाम् । एतेष्वेवाभियोगेषु निन्द्येष्वेवं प्रवर्त्तितः ।
दिव्यं प्रकल्पयेन्नैव राजा धर्मपरायणः । एतैरेव
नियुक्तानां साधूनां दिव्यमर्हति । न सन्ति साधवो यत्र
तत्र शोध्याः स्वकैर्नरैरिति” । साधूनां दिव्यमर्हति
राजा कल्पयितुमिति शेषः । प्रतिनिधिद्वारा एतैर्दिव्यं
कारणीयमिति द्रढ़यितुमाह स एव “महापातक-
युक्तेषु नास्तिवेषु विशेषतः । न देयं तेषु दिव्यन्तु
पापाभ्यासरते भृगुः । येषु पापेषु दिव्यानि कर्त्त-
व्यानि प्रयत्नतः । तारयेत्सज्जनैस्तानि नाभिशस्तं
त्यजेन्नर इति” । तारयेत् शोधयेत् । अभिशोधनं
प्रतिनिधिद्वारा शीधनमकारयित्वा न त्यजेदित्यर्थः ।
यत्तु तेनैवोक्तम् “अस्पृश्याधसदासानां म्लेच्छानां
पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयी न तु
राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशे-
दिति” । तत्तैर्नियुक्तानां साधूनामभावे विज्ञेयम् ।
तत्प्रसिद्धानि घटादीनि इति स्मृतितत्त्वे । साधूनामप्य-
सामर्थ्ये प्रतिनिधिमभ्युपजानाति स एव “काल-
देशाविरोधे तु यथायुक्तं प्रकल्पयेत् । अन्येन हारये-
द्दिव्यं विधिरेषु विपर्ययः” । सामर्थ्याभावे सर्ववर्णविषये
विशेषमाह हारीतः, “राजन्येऽग्निं धटं विप्रे वैश्ये
तोयन्नियोजयेत् । न विषं ब्राह्मणे दद्याद्विषं वर्णान्तरे
स्मृतम् । कोशतण्डुलधर्मास्तु धर्मसम्भवमेव च ।
पुत्रदारादिशपथान् सर्ववर्णे प्रयोजयेत्” इति ।
अथ दिव्यकालः तत्र पितामहः “यो यस्य विहितः कालो
विधिर्यस्य च यो यथा । तं प्रवक्ष्यामि तत्त्वेन वादि-
नश्च बलाबलम् । चैत्रो मार्गशिराश्चैव वैशाखश्च तथैव
च । एते साधारणा मासा दिव्यानामविरोधिनः ।
धटः सर्वर्त्तुकः प्रोक्तो वाते वाति विवर्जयेत् । अग्निः
शिशिरहेमन्तवर्षासु परिकीर्त्तितः । शरद्ग्रीष्मे च
सलिलं हेमन्ते शिशिरे विषमिति” । विष्णुरपि स्त्री-
ब्राह्मणविकलाऽसमर्थरोगिणां न तुला देया न वाति
वायौन कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः शरद्ग्रीष्मयोश्च
न कुष्ठिपैत्तिकब्राह्मणानां विषं देयं प्रावृषि च । न
श्लैष्मिकाणां व्याध्यर्दितानां भीरूणां श्वासकासिना-
मम्बुजीविनामुदकं हेमन्तशिशिरयोश्चेति । हेमन्त-
निषेधोऽत्र पौषमासविषय एव न तु मार्गशीर्षविषयो-
ऽपि । मार्गशीर्षस्य “चैत्रो मार्गशिरा इति पूर्वोदाहृत
पितामहवचनेन सकलदिव्यसाधारणत्वाभिधानात् ।
नारदोऽपि “विचार्य्य धर्मनिपुणैर्धर्मशास्त्रविशारदैः ।
धर्मं सर्वर्तुकं प्रोक्तं पण्डितैर्धटधारणम् । वर्षासु
समये वह्निर्हेमन्तशिशिरे तथा । ग्रीष्मे सलिलमित्युक्तं
विषं काले तु शीतले । न शीते तोयशुद्धिः स्यान्नीष्ण-
कालेऽग्निशोधनम् । न प्रावृषि विषं दद्यात् प्रवाते न
तुलां तथा । नापराह्णे न सन्ध्यायां न मध्याह्ने
कदाचनेति” । मध्याह्ने दिव्यनिषेधो जलव्यतिरिक्तविषयः ।
अतएव पितामहः “पूर्वाह्णेऽग्निपरीक्षा स्यात् पूर्वाह्णे
च धटो भवेत् । मध्याह्ने तु जल देयं धर्मतत्त्वमभी-
प्सता । दिवसस्य तु पूर्वाह्णे कोशशुद्धिर्विधीयते ।
रात्रौ तु पश्चिमे भागे विषं देयं सुशीतलमिति” । अत्र
विषस्य वर्षासु निषेधात् सिंहरवावेव परीक्षामात्र
निषेधाच्च दिव्यान्तरं सिंहेतरवर्षाष्वपि कुर्वन्ति । अतः
“याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेदित्यस्य न
विषयः । तथा च ज्योतिषे “सिंहस्थे मकरस्थे च जीवे
चास्तमिते भृगौ । मलमासे न कर्त्तव्या परीक्षा
जयकाङ्क्षिणा” । तथा “रविशुद्धौ गुरौ चैव न शुक्रे-
ऽस्तगते पुनः । सिंहस्थे च रवौ नैव परीक्षा शस्यते
बुधैः । नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे ।
न परीक्षाधिवासश्च शनिभौमदिने भवेत्” । रविशुद्धौ
गुरौ चेदित्यत्र शस्यत इति शेषः तथा च दीपिकायाम्
“न शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्टमेऽव्दे
पृष्ठ ३५९४
विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारासु
चाथ । नाड़ीनक्षत्रहीने गुरुरविरजनीनाथताराविशुद्धौ
प्रातः कार्य्या परीक्षा द्वितनुचरग्रहांशोदये शस्तलग्ने” ।
इति । यद्यपि दिव्ये वारविशेषविधानाभावस्तथापि
शिष्टाचारादादित्यवारे दिव्यानि दातव्यानीति मिताक्ष-
रायाम् । अथ द्रिव्यदेशाः तत्र पितामहः । “प्राङ्मुखो
निश्चलः कार्यः शुचौ देशे धटः सदा । इन्द्रस्थाने
सभायां वा राजद्वारे चतुष्पथे” इति । धटग्रहणं
दिव्यान्तरस्याप्युपलक्षणम् । इन्द्रस्थानग्रहणञ्च प्रसिद्ध-
देवतायतनान्तरस्याप्युपलक्षणम् । अतएव दिव्यमात्र-
मुपक्रम्य नारदः “सभाराजकुलद्वारे देवायतनचत्वरे” ।
विषयविशेषे इन्द्रस्थानादीनां व्यवस्थामाह । कात्यायनः
“इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् । प्रातिलोम्यप्रसू-
तानां दिव्यं देयञ्चतुष्पथे । अतोऽन्येषु तु कार्य्येषु
सभामध्ये विदुर्बुधा” इति । इन्द्रस्थाने इन्द्रध्वजपूर्व-
स्थाने । दिव्यदेशानादरे दिव्यं विसंवदतीत्याह, नारदः
“अदेशकालदत्तानि बहिर्वासकृतानि च । व्यभिचारं
सदर्थेषु कुर्वन्तीह न संशयः” । वासो जननिवासस्तस्मा-
द्वहिष्कृतानि निर्जनप्रदेशकृतानीति यावत् । अतएव
पितामहः “प्रत्यक्षं दापयेद्दिव्यं राजा वाधिंकृतोऽपि
वा । ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव चेति” ।
ब्राह्मणानां प्रकृतयोऽमात्यास्तेपाञ्चेत्यन्वयः ।
अथ दिनव्यसाधारणविधिस्तत्र वृहस्पतिः “स्नेहात्
क्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः । विधिदत्तस्य
दिव्यस्य न भेदो जायते क्वचिदिति” । विधिश्च पितामहेन
दर्शितः “दिव्येषु सर्वकार्य्याणि प्राड्विवाकः
समाचरेत् । अध्वरेषु यथाध्वर्युः सोपयासो नृपाज्ञया ।
तत आवाहयेद्देवान् विधिनानेन धर्मवित् । वादित्र
तूर्यघोषैश्च गन्धमाल्यानुलेपनैः । प्राङ्मुखः प्राञ्जलि-
र्भूत्वा प्राड्विवाकस्ततो वदेत् । एह्येहि भगवन्धर्म!
अस्मिन्दिव्ये समाविश । सहितो लोकपालैश्च वस्वा-
दित्यमरुद्गणैः । आवाह्य तु धटे धर्मं पश्चादङ्गानि
विन्यसेत्” । सर्वकार्य्याणि साधारणानि असाधारणानि
च ततस्तदुपयोगिसामग्रीसम्पादनानन्तरमित्यर्थः ।
धटग्रहणमत्र दिव्यमात्रोपलक्षणम् । अस्मिन्दिव्य इति
मन्त्रलिङ्गादेतेषां धर्माणां दिव्यमात्रसाम्यस्य । “इमं
मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् । आवाहनञ्च
देवानां तथैव परिकल्पयेत्” इत्युपसंहरता तेनैवोक्त-
त्वाच्च । अङ्गानि कानीत्याकाङ्क्षायां स एवाह, “इन्द्रं
पूर्वे तु विन्यस्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे
भागे कुवेरं चोत्तरे तथा । अग्न्यादिलोकपालांश्च
कोणभागेषु विन्यसेत् । इन्द्रः पीतो यमः श्यामो
वरुणः स्फटिकप्रभः । कुवेरस्तु सुवर्णाभः अग्निश्चैव
सुवर्णभः । तथैव निरृतिः श्यामो वायुर्धूम्रः प्रश-
स्यते । ईशानस्तु भवेद्रक्त एवं ध्यायेत्क्रमादिमान् ।
इन्द्रस्य दक्षिणे पार्श्वे वसूनास्थापयेद्बुधः । धरोध्रुव-
स्तथा सोम आपश्चैवानलोऽनिलः । पत्यूषश्च प्रभा-
तञ्च वसवोऽष्टौ प्रकीर्त्तिताः । देवेशेशानयोर्मध्ये
आदित्यानां तथाऽयनम् । धातार्यमा च मित्रश्च वरुणांशो
भगस्तथा । इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः
स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ।
इत्येते द्वादशादित्या नाममिः परिकीर्त्तिताः । अग्नेः
पश्चिमभागे तु रुद्रा एकादश स्मृताः । वीरभद्रश्च
शम्भुश्च गिरिशश्च महायशाः । अजैकपादहिर्बुघ्न्यः
पिनाकी चापराजितः । भुवनाधीश्वरश्चैव कपाली च
विशाम्पतिः । स्थाणुर्भवश्च भगवान् रुद्रास्त्वेकादश
स्मृताः । प्रेतेशरक्षोमध्ये च मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही
चैव माहेन्द्री चामुण्डा गणसंयुता । निरृतेरुत्तरे
भागे गणेशायतनं विदुः । वरुणस्योत्तरे भागे मरुतां
स्थानमुच्यते । पवनः स्पर्शनो वायुरनिलो मरुतस्तथा ।
प्राणाः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्त्तिताः ।
घटस्योत्तरभागे तु दुर्गामावाहयेद्बुधः । एतासां देवता-
नान्तु स्वनाम्ना पूजनं विदुः । भूषावसानं धर्माय दत्त्वा-
चार्घादिकं क्रमात् । अर्घादि पश्चादङ्गानां भूषान्तमुप-
कल्पयेत् । गन्धादिकां निवेद्यान्तां परिचर्य्यां प्रकल्पयेत् ।
चतुर्दिक्षु तथा होमः कर्त्तव्यो वेदपारगैः । आज्येन
हविषा चैव समिद्भिर्होमसाधनैः । सावित्र्या प्रणवे-
नाथ स्वाहान्तेनैव होमयेत्” । अङ्गानाम् इन्द्रादि-
दर्गान्तानाम् अर्थाद्युपकल्पनञ्च न काण्डानुसमयेन ।
तथात्वे प्रयोगवचनावगताङ्गसहभावबाधापत्तेः । किन्तु
पदार्थानुसमयेन तथा च दुर्गायै भूषण दत्त्वा धर्मास्येन्दा-
दिदुर्गान्तानाञ्च गन्धादिपरिचयं विप्रकल्पयेदिति । गायत्रीं
प्रणवाद्रिकामुच्चार्य्य पुनः प्रणवं स्वाहाकारान्तमुच्चार्य्य
समिदाज्यचरुभिः प्रत्येकमष्टोत्तरशतं जुहुयात् ।
पृष्ठ ३५९५
“अनुक्तसङ्ख्या यत्र स्यात् शतमष्टोत्तरं स्मृतमिति” स्मर-
णादित्यर्थः । होमानन्तरकर्त्तव्यं स एवाह “यमर्थम-
भियुक्तः स्याल्लिखित्वा तन्तु पत्रके । मन्त्रेणानेन
सहितन्तत् कार्यञ्च शिरः क्रमात्” । मन्त्रश्च “आदित्यचन्द्रा-
वनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च
रात्रिश्च उभेच सन्ध्ये धर्मश्च जानाति नरस्य वृत्तमिति”
एतत् सर्वं पूर्बाह्णे कर्त्तव्यम् तस्य प्रधानकालत्वात्
तथा च नारदः “अहोरात्रोषिते स्नाते आर्द्रवाससि
मानवे । पूर्वाह्णे सर्वदिव्यानां प्रदानमनुकीर्त्तितमिति” ।
एतत् प्राड्विवाकेनोपवासादिनियमपूर्वकं कर्त्तव्यम् तथा
च नारदः “प्राड्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः ।
श्रुतवृत्तोपसम्पन्नः शान्तचित्तो विमत्सरः । सत्यसन्धः
शुचिर्दक्षः सर्वप्राणिहिते रतः । उपोषितश्चार्द्रवासाः
कृतदन्तानुधावनः । सर्वासां देवतानाञ्च पुजां कृत्वा
यथाविधि” । कर्तुरुपवासादिकमाह “त्रिरात्रो-
पोषितोयः स्यादेकरात्रोपोषितस्तु वा । नित्यं देयानि
दिव्यानि शुचये सार्द्रवाससे” इति । याज्ञवल्क्योऽपि
“सचेलं स्नातमाहूय सूर्य्योदय उपोषितम् । कारयेत्-
सर्वदिव्यानि नृपव्राह्मणसन्निधाविति” । अत्र सूर्य्योदय-
पदेन पूर्वाह्ण एव ग्राह्यः “पूर्वाह्णे सर्वदिव्यानां
प्रदानमनुकीर्त्तितमिति” नारदवचनानुरोधात् । त्रिरा-
त्रैकरात्रीपवासयोः शक्ताशक्तविषयत्वेन व्यवस्था ज्ञेया ।
दिव्यप्रयोगानन्तरं दक्षिणादानम् उक्तेन विधिना दिव्य-
प्रयोगं कारयितुः राज्ञः फलञ्चाह पितामहः “सिद्भिः
परिवृतो राजा शुद्धिमेतां प्रपूजयेत् । ऋत्विक्पुरी-
हिताचार्य्यान् दक्षिणाभिस्तु तोषयेत् । एवं कारयिता
राजा भुक्त्वा भोगान्मनोरमान् । महतों कीर्त्तिमाप्नोति
ब्रह्मभूयाय कल्पते” इति । अयञ्च विधिः सर्वदिव्य-
साधारण इत्याह स एव “इमं मन्त्रविधिं कृत्स्नं सर्व-
दिव्येषु योजयेत् । आवाहनञ्च देवानां तथैव
परिकीर्त्तितमिति” । सर्वदेवावाहनादि संशोध्यशिरसि पत्रा-
रोपणान्तं सर्वदिव्यसाधारणमित्यर्थः” दिव्यमातृका ।
१२ जलभेदे । “दिव्यं चतुर्विधं प्रोक्तं धाराजं करकाभवम् ।
तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम्” भाव० प्र० ।
१३ स्नानभेदे न० “असामर्थ्याच्छरीरस्य कालशक्त्याद्यपे-
क्षया । मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः ।
मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च । वारुणं
मानसञ्चैव सप्तस्नानं प्रकीर्तितम् । “आपोहिष्ठेति” वै
मान्त्रं, मृदालम्भन्तु पार्थिवम् । आग्नेयं भस्मना स्नानं,
वायव्यं गोरजः स्मृतम् । यत्तु सात पवर्षेण स्नानं
तद्दिव्यमुच्यते । वारुणञ्चावगाह्यञ्च, मानस विष्णुचि-
न्तनम् । समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेण तु ।
कालदोषादसामर्थ्यात् सर्वं तस्य फलं स्मृतम्” योगि-
याज्ञवल्क्यः । दिवि द्योतात्मके आदित्ये परमव्योम्नि वा
ब्रह्मणि स्वस्वरूपे भवः यत् । “दिव्यश्च देवताप्रायः
शुद्धान्तःकरणः सदा । द्वन्द्वातीतो वीतरागः सर्वभूत-
समः क्षमी” इत्युक्ते १४ तत्त्ववेत्तरि पु० १५ आमलक्यां
स्त्री मेदि० । १६ बन्ध्याकर्कोटक्याम् १७ शतावर्य्याम्
१८महामेदायाम् १९ व्राह्म्याम् २० स्थूलजीरके २१ श्वेत
दूर्वायाम् २२ हरीतक्याम् २३ पुरायाम् २४ गन्धवत्याञ्च
स्त्री राजनि० । २५ दैवे दिने २६ नदीये माने च न०
दिव्यदिनदिव्यमानशब्दयोर्दृश्यम् । २७ द्युलोकाज्जाते
२८ मनोज्ञे २९ लोकातीते दिव्यदर्शी दिव्यचक्षुः त्रि० ।

दिव्यकट न० प्रतीचीस्थे पुरभेदे “कृत्स्नं पञ्चनदञ्चैव तथैवा-

मरपर्वतम् । उत्तरज्योतिषञ्चैव तथा दिव्यकटं
पुरम्” भा० स० ३१ अ० नकुलप्रतीचीजये ।

दिव्यकुण्ड न० कामरूपपीठस्थक्षोभकशैलपूर्वभागस्थे कुण्ड-

विशेषे । “यथा तद्दक्षिणे महाशैलः क्षोभकोनामना-
मतः । तस्मिन् गिरौ शिलापृष्ठवक्त्रेदेवी व्यवस्थिता ।
पञ्चपुष्करिणी नाम्ना प्रञ्चयोनिस्वरूपिणी । एकत्र
पञ्चभिर्दुर्गा योनिभिः पञ्चवक्त्रकम् । स्थिता रमयितुं
तत्र नित्यमेव हिमाद्रिजा । तच्छैलपूर्वभागात्तु कान्ता
नाम महानदी । दक्षिणं सागरं याति प्रथमां चोत्तर-
स्रवा । दिव्यकुण्डं महाकुण्डं तच्छैलोपत्यकागत्म ।
संस्थितस्तत्र स्नात्वा तु तां देवीं परिपूजयेत् । दिव्य-
कुण्डे नरः स्नात्वा पञ्चपुष्करिणीं शिवाम् । यः पूजये-
न्महाभागः स योनौ न हि जायते” । कालि० पु० ८१ अ०

दिव्यगन्ध पु० कर्म० । १ मनोज्ञे गन्धे । दिव्योगन्धोऽस्य ।

२ गन्धके ३ लवङ्गे च न० ४ स्थूलैलायां महाचञ्च शाके
च स्त्री राजनि० ।

दिव्यगायन पु० कर्म्म० । गन्धर्वे अमरः ।

दिव्यचक्षुस् पु० दिव्यं चक्षुर्यस्मात् ५ ब० । १ मर्कटे शब्दमाला ।

(चसमा) ख्याते २ पदार्थे च ३ सुगन्धभेदे ४ सुलोचने च ।
दिव्यमन्तरीक्षभूतं चक्षुरस्य । ५ अन्धे त्रि० मेदि० । कर्मधा० ।
५ अलौकिकपदार्थदर्शनयोग्ये नेत्रे न० “न च वा शक्यते
द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः फस्य मे
पृष्ठ ३५९६
योगमैश्वरम्” गीता । दिव्यमलौलिकार्थदर्शनसाधनं
चक्षुरस्य । ७ तथाभूतनेत्रयुक्ते त्रि० “त्वया नियम्या ननु
दिव्यचक्षुषा” रघुः “नमस्तुभ्यं विरूपाक्ष! नमस्ते
दिव्यचक्षुषे” नीलकण्ठस्तवः ।

दिव्यतेजस् स्त्री दिव्यं तेजो यस्याः ५ ब० । १ ब्राह्मीलता-

याम् । २ अद्भूततेजस्के त्रि० ।

दिव्यदर्शिन् त्रि० दिव्यमलौकिकपदार्थं पश्यति दृश--णिनि ।

अतीन्द्रियार्थदर्शके । “व्याजहार सभामध्ये दिव्य-
दर्शी महातपाः” भा० आश्र० २० अ० । दृश--क्विप् ।
दिव्यदृगप्यत्र ।

दिव्यदिन न० दिवि भवम् यत् कर्म० । दैवे दिने “मासैर्द्वा-

दशभिर्वर्षं दिष्यं तदहरुच्यते” सू० सि० तन्मानमुक्तम् ।

दिव्यदोहद न० “यत् दीयते तु देवेभ्यो मनोराज्यस्य

सिद्धये । उपयाचितकं दिव्यदोहदं तद्विदुर्बुधाः” हारा०
उक्ते अभीष्टसिद्धये देवेभ्यो देये द्रव्ये ।

दिव्यनदी स्त्री कर्म० । आकाशगङ्गायाम् ।

दिव्यनारी स्त्री अप्सरःसु स्वर्वेश्यायाम् दिव्यस्त्री प्रभृतयो-

ऽप्यत्र । “दिव्यस्त्रीकरचारुचामरवरैः संवीज्यमानः
कदा” गङ्गास्तवः ।

दिव्यपञ्चामृतम् न० पञ्चानाममृतानां तत्तुल्यस्वादूनां समा

हारः कर्म० । मिलितगव्याज्यदधिक्षीरमधुसितात्मके
पदार्थे राजनि० ।

दिव्यपुष्प पु० दिव्यं मनोज्ञंपुष्पमस्य । १ करवीरे २ महाद्रोणायां

राजनि० संज्ञायां कन् कापि अतैत्त्वम् । दिव्यपु-
ष्पिका रक्तपुष्पकार्कवृक्षे स्त्री रत्नमाला ।

दिव्यप्रश्न पु० कर्म० । अनागतज्ञापके प्रश्ने । “उच्चावचं

दैवयुक्तं रहस्यं दिव्यप्रश्नाः मृगचक्रामुहूर्त्ताः । क्षयं महान्तं
कुरुसृञ्जयानां निवेदयन्ते पाण्डवानां जयञ्च” भा० उ०
४७ अ० ।

दिव्यमान न० कर्म० । दैवे माने “सुरासुराणामन्योन्य-

महोरात्रं विपर्ययात् । यत् प्रोक्तं तद्भवेद्दिव्यं भानो
र्भगणपूरणात्” । “युगानां त्रिघनं यातं तथा कृतयुगं
त्विदम् । प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसं-
ख्यया” । “व्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरो-
स्तथा । सौरं च सावनं चान्द्रमार्क्षं मानानि वै नव”
सू० सि० ।

दिव्ययमुना स्त्री नित्यकर्म० । कामरूपपीठस्थदमनिकाया

नद्याः पूर्वभागस्थे नदीभेदे यथा “तस्या नद्याः पूर्वभाने
गङ्गेव फलदायिनी । माघन्तु सकलं मासं तस्यां
स्नात्वा नरोत्तमः । तथा दमनिकायाञ्च परं निर्वाण
माप्नुयात् । ततः पूर्वे परा देवी नाम्ना सा सरिदु-
त्तमा । महती दिव्ययमुना यमुनावत्फलप्रदा ।
दक्षिणाद्रिसमुद्भूता दक्षिणोदधिगामिनी । तस्यान्तु
कार्तिकं मासं स्नात्वा मोक्षमवाप्नुयात्” कालि० पु० ८१ अ०

दिव्यरत्न न० कर्म० । चिन्तामणौ मणौ शब्दार्थक० ।

दिव्यरथ पु० कर्म्म० । व्योमयाने विमाने शब्दरत्ना० ।

दिव्यरस पु० नित्यर्म्म० । १ पारदे राजनि० । २ मनोज्ञे

रसे पु० । दिव्योरसीऽस्य । ३ रुचिररसयुक्ते त्रि० ।

दिव्यलता स्त्री कर्म्म० । १ मूर्वालतायाम् राजनि० । २ मनोज्ञे

लतामात्रे च ।

दिव्यवस्त्र पु० दिव्यं वस्त्रं यस्मात् । १ सूर्यप्रकाशे शब्दरत्ना० ।

६ त० । २ भास्वरवस्त्रयुक्ते त्रि० कर्म० । ३ मनोज्ञे वसने न०

दिव्यसरित् स्त्री कर्म्म० आकाशगङ्गायाम् “व्योम्नि दिव्यस-

रिदम्बुपद्धतिः” माघः ।

दिव्यसानु पु० १ विश्वदेवभेदे “विश्वे चाग्निमुखा देवाः” इत्यु-

पक्रमे “पार्ष्णिक्षेमासमूहश्च दिव्यसानुस्तथैव च”
भा० आनु० ९१ अ० विश्वदेवोक्तौ । २ दिव्यसानुके गिरौ च ।

दिव्यसार पु० दिव्यः सारोऽस्य । शालवृक्षे राजनि० ।

दिव्यादिव्य पु० दिव्यश्चादिव्यश्च कर्म० । नायकभेदे

रसमञ्जरी यथा अर्जुनादयः । २ नायिकाभेदे स्त्री यथा द्रौ-
पद्यादयः । ३ उपदेवीभेदे स्त्री शब्दार्थचि० ।

दिव्यासन न० “अथ दिव्यासन वक्ष्ये पृष्ठं हस्तेन बन्ध-

येत् । एकहस्तमध्यदेशं भूमिहस्तञ्च नासया” रुद्रजा
उक्ते आसनभेदे ।

दिव्येलक पु० सर्पभेदे “त्रयाणां वैकरञ्जानां पुनर्दिव्येलक-

लोध्रपुष्पकराजिचित्रिकाः पोटगलः पुष्पाभिकीर्णो
दर्भपुष्पोवेल्लितकः सप्त तेषामाद्ययोराजिलवत् शेषा मण्ड-
लिवत्” सुश्रु० ।

दिव्योदक न० कर्म० । १ अन्तरीक्षभवे जले दिव्यशब्दे भाव०

प्र० वाक्ये तद्भेदादि दृश्यम् । अम्बुशब्दे विवृतिः ।

दिव्योपपादुक पु० उपपद्यते मातृपित्रादिदृष्टकारणमनपे-

क्ष्यैव अदृष्टसहकृताणुभ्य एव उत्पद्यते उप + पद--उकञ्
कर्म० पिशाचादिव्यावृत्तये दिव्य इति विशेषणं तेषाञ्च
मातृपित्रादिदृष्टकारणापेक्षाभावेऽपि दिव्यत्वाभावान्न
तथात्वम् । देवे अमरः ।
पृष्ठ ३५९७

दिव्यौघ पु० तन्त्रोक्ते गुरुभेदे । “महादेवो महाकालस्त्रि-

पुरश्चैव भैरवः । दिव्यौघा गुरुवः प्रोक्ताः सिद्धौघान्
कथयामि ते” । इति शक्तिरत्नाकरतन्त्रम् । “अथ तारा-
गुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् । ऊर्द्धकेशो व्योमकेशी
नीलकण्ठोवृषध्वजः । दिव्यौघान् सिद्धिदान् वत्स!
शृणुष्वावहितो मुदा” । “शृणु वत्स! महादेव!
गुरून् दुर्गामनूद्भवान् । परमात्मा परानन्दः परमेष्ठी
शुभोदयः । कृष्णकाल! कालनाथो दिव्यौघा भैरवादि-
काः” तन्त्रसारे देवताभेदात्तद्भेदा उक्ता २ रुचिरौषधौ च

दिव्यौषधि स्त्री नित्यकर्म० । १ मनःशिलायाम् शब्दार्थचि० ।

दिश दाने आज्ञापने कथने च तु० उभ० सक० अनिट् । दिशति

ते अदिक्षत् त दिदेश देष्टा दिष्टः दिष्टिः । दिष्ट्वा आदिश्य
“साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः”
मनुः । दाने “इष्टां गतिं तस्य सुरा दिशन्ति” भा०
आनु० १८४३ श्लो० आज्ञापने “महादेवेन दिष्टं ते पुत्रजन्म
नराधिप!” भा० व० १०६ अ० । “दिदेश तस्मै प्रयतां
तनूजाम्” कुमा० ।
  • अति + स्वविषयमुल्लङ्घ्यान्यविषये उपदेशे सक० अतिदेशशब्दे
१०० पृ० दृश्यम् । “यथाकालोपपाते तद्दैवते तद्दैवतं
हुत्वा तद्वातिदिश्यानेन जुहुयात्” कात्या० श्रौ० २५ ।
२ । ४ उपदेशे च । “इत्यर्चितः स भगवानतिदिश्यात्मनः
पदम्” भाग० ४ । ९ । २८ ।
  • अनु + पश्चात्कथने । “यज्ञं देवेभ्योऽनुदिशति” तैत्ति०
स०१ । ५ । ४ । ३ “रामश्चाप्यनुदिश्यताम्” रामा० लङ्का० ८९ स०
  • अप + छलने यथार्थाह्नवे अपदेशशब्दे दृश्यम् । “पश्चिम-
क्रतुविदा पुरोधमा रोगशान्तिमपदिश्य मन्त्रिणः ।
सम्भृते शिखिनि गूढमादधुः” “तस्य निर्दयरतिश्रमा-
लसाः मित्रकृत्यमपदिश्य पार्श्वगाः” रघुः ।
  • वि + अप + संज्ञाभेदे “भ्रातरं राजराजानं महेश्वरसखं
प्रभुम् । धनेश्वरं व्यपदिशन्” भा० व० २८० अ० । “मित्रं च
मां व्यपदिशस्यपरं च यासि” मृच्छक० “ईश्वर इति
व्यपदिश्यते” वेदा० सा० “निमित्तसद्भावाद्विशिष्टोऽपदे-
शोऽमुख्यव्यवहारोव्यपदेशः” परिभाषेन्दुशेखरोक्तेऽर्थे ।
  • अभि + अभिमुखीकृत्योपदेशे । “यां यामभ्यदिशत् सैनमकाम-
यत” पञ्चभीष्मब्रा० १२ । ११ ।
  • आ + आज्ञायाम् उपदेशे “अथात आदेशो नेति” वृ० उ०
“आदिक्षदादीप्तकृशानुकल्पम्” भट्टिः । आदेशशब्दे
२१९ पृ० उक्ते अर्थे च “धातोः स्थाने इवादेशम्”
रघुः ।
  • अनु + आ + पश्चादादेशे उपदेशे च अन्वादेशशब्दे २१९ पृ०
उक्ते अर्थे च ।
  • प्रति + आ + निराकरणे “प्रत्यादेशो निराकृतिः” अमरः “ऋजु
प्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा” “अन्तः
शरीरेष्वपिंयः प्रजानां प्रंत्यादिदेशाविनयं विनेता”
रघुः “किमहमेतं जलधरममयं न प्रत्यादिशामि” विक्र०
  • वि + आ + विशेषेणादेशे । “समीरणः प्रेरयिता भवेति
व्यादिश्यते केन हुताशनस्य” कुमा०
  • सम् + आ + सम्यगादेशे । “समादिदेशैकवधूर्भवित्री” कुमा० ।
  • उद् + स्वरूपकथने “उद्देशीलक्षणं विभागः परीक्षा चेति”
न्यायसमयः । उद्देशशब्दे ११७० उक्तेऽर्थे च । तच्छब्दे
उदा० प्रश्ने उद्देशकशब्दे दृश्यम् ।
  • उप + अनुशासने उपदेशशब्दे १२१० पृ० उक्तेऽर्थे च ।
“उपदिशति कामिनीनां यौवनमद एव ललितानि” सा० द०
“उपदिष्टमिहेच्छामि तापस्यं वीतकलमषाः” भा० उ० १७४ अ०
  • प्रति--उप + उपदेशस्य प्रतिरूपोपदेशे “व्याघिं प्रति प्रत्युपदे-
क्ष्यामः” सुश्रु० “यद्यत्प्रयोगविषये भाविकमुपदिश्यते
मया तस्यै । तत्तद्विशेषकरणात् प्रत्युपदिशतीव मे
वाला” माला० मि
  • निर् + निर्णयेन देशने कथने च “अतुषत् पीठमासन्ने
निरदिक्षच्च काञ्चनम्” भट्टिः उच्चांरणे च “निर्दिश्यमान-
स्यादेशा भवन्ति” व्या० परिभाषा “षष्ठ्यन्तं निर्दिश्यमा-
नमुच्चार्यमाणम्” नागेशभट्टः ।
  • प्रति + निध + प्रकृतानुरूपनिर्देशे । “तदिति प्रकृतं भावलक्षणं
प्रतिनिर्दिश्यते” । येन पदेन उद्देशस्तेनैव पदेन
पनःकथने । उद्देश्यप्रतिनिर्द्देश्ययोरेकपटप्रतिपाद्यत्वेऽपि न
कथितपदत्वदोषः अन्यपदेन निर्द्देशे तु प्रत्युत भग्नप्रक्रम-
तादोषः यथाह सा० द० “एवमुक्तो मन्त्रिमुख्यैरावणः
प्रत्यभाषत” अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव
वक्तुमुचितं तेन रावणः प्रत्यवोचतेति पाठो युक्तः ।
एवञ्च सति न कथितपदत्वदोषः तस्योद्देश्यप्रति-
निर्देश्यव्यतिरिक्तविषयत्वात् । इह हि वचनप्रति-
वचनयोरुद्देश्यप्रतिनिर्देश्यत्वं यथा
“उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र ।
यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योऽर्थ इव
प्रतिभासमानः प्रतीतं स्थगयति । यथा वा
“ते हिमालयमामन्त्र्य पुनःप्रेक्ष्य च शृलिनम् । सिद्ध-
ञ्चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः” अत्र अश्मै-
पृष्ठ ३५९८
इति इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःश-
ब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन । यथा वा
“उद्वन्वच्छिन्ना भूः स च पतिरपां योजनशतम्” अत्र
“मिता भूः पत्यापां स च पतिरपामिति” युक्तः पाठः ।
  • प्रति + प्रतिरूपदेशने । “भुजगगतिप्रतिदेशितात्मकृत्यः” भा०
शा० ३६७ अ०
  • सम् + सम्यक्कथने सम्यक्तयादेशे वाचा कथने च “अभिदूति
काचिदिति संदिदिशे” माथः “ननु सन्दिशेति सुदृशो-
दितया त्रपया न किञ्चन किलाभिदधे” माघः “ददौ
स दयितां भ्रात्रे मालाञ्चाग्र्यां हिरण्मयीम् । राज्यं
सन्दिश्य भोगांश्च ममार व्रणपीडितः” भट्टिः “अथ
विश्वात्मने गौरी सन्दिदेश मिथः सखीम्” कुमा० ।

दिश् स्त्री दिशति ददात्यवकाशं दिश--क्विन् । १ आशायाम्

प्राच्यादिव्यवहारहेतौ काष्ठायाम् । “कृत्वैकमवधिं
तस्मादिदं पूर्वञ्च पश्चिमम् । इति निर्दिश्यते देशो
यया सा दिगिति स्मृतेति” उक्तेस्तस्या दैशिकपरत्वाप-
रत्वा समवायिकारणत्वम् । सा चैका नित्या विभ्वी चेति
“कालखात्मदिशां सर्वगतत्वं परमं महत्” भाषा० ।
दिक्परीक्षा च कलाद सूत्रोपस्करयोर्यथा
“इत इदमिति यतस्तद्दिश्यं लिङ्गम्” सू० । “काल-
लिङ्गप्रकरणं समाप्य इदानीं दिग्लिङ्गप्रकरणमारभ-
माण आह । दिश इदं दिश्यं दिगनुमापकम्
इतोऽल्पतरसंयुक्तसंयोगाश्रयादिदं बहुतरसंयुक्तसंयोगाधि-
करणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिदं
सयुक्तसंयोगाल्पीयस्त्वाधिकरणमपरमिति नियतदिग्दे-
शयोः समानकालयोः पिण्डयोर्यतो द्रव्याद्भवति सा
दिगित्यर्थः । न हि तादृश द्रव्यमन्तरेण भूयसां संयुक्त-
संयोगानामल्पीयसां वा पिण्डयोरुपनयनायकमन्यदस्ति
न च तदुपनयमन्तरेण तत्तद्विशिष्टबुद्धिः न च तामन्त-
रेण परत्वापरत्वयोरुत्पत्तिः न च तदुत्पत्तिं विना तद्वि-
शिष्टप्रत्ययव्यवहारौ । न च काल एव संयोगोपनाय-
कोऽस्तु किं द्रव्यान्तरेणेति वाच्यं कालस्य नियतक्रियोप-
नायकत्वेनैव सिद्धेः, अनियतपरधर्मोपनायकत्वकल्पना-
यान्तु काश्मीरकुङ्कुमपङ्करागं कार्णाटकामिनीकुचकलसं
प्रत्युपनयेत् आकाशात्मनोरपि तथा परधर्म्मोपसंक्रा-
मकत्वे म एव प्रसङ्गः, दिशस्तु अनियतपरधर्म्मोपसंक्रा-
सकतयैव सिद्धत्वान्नातिप्रसङ्गः एवञ्च क्रियोपनायकात्
कालात् संयोगोपनायिका दिक् पृथगेव । किञ्चास्मात्
पूर्वमिदम् अस्माद्दक्षिणमिदम् अस्मात्पश्चिममिदम् अस्मा-
दुत्तरमिदम् अस्माद्दक्षिणपूर्वमिदम् अस्माद्दक्षिणपश्चिम-
मिदम् अस्म त्पश्चिमोत्तरमिदम् अस्मादुत्तरपूर्वमिदम्
अस्मादधस्तादिदम् अस्मादुपरिष्टादिदम् इत्येते प्रत्यया
इत इदमितीत्यनेन संगृहीताः एतेषां प्रत्ययानां निमि-
त्तान्तरासम्भवात् । किञ्च नियतोपाध्युन्नायकः कालः
अनियतोपाध्युन्नायिका दिक्, भवति हि यदपेक्षया यो
वर्त्तमानः स तदपेक्षया वर्त्तमान एव, दिगुपाधौ तु नैवं
नियमः यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याः
प्रतीचीत्वात् एवमुदीच्यादिष्वपि वाच्यम्, यदपेक्षया
सूर्य्योदयाचलसन्निहिता या दिक् सा तदपेक्षया प्राची
यदपेक्षया सूर्य्यास्ताचलसन्निहिता या दिक् सा
तदपेक्षया प्रतीची, सन्निधानन्तु संयुक्तसंयोगाल्पीयस्त्वं ते
च सूर्य्यसंयोगा अल्पीयांशो भूयांसो वा दिगुपनेयाः ।
एवं प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्ना दिगुदीची,
तादृशपुरुषदक्षिणभागावच्छिन्ना दिक् दक्षिणा, वामत्व-
दक्षिणत्वे तु शरीरावयववृत्तिजातिविशेषौ । गुरुत्वा-
समवायिकारणकक्रियाजन्यसंयोगाश्रयोदिक् अधः ।
अदृष्टवदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयोदिगूर्द्ध्वा ।
एवञ्चेन्द्राग्नियमनिरृतिवरुणवायुसोमेशाननागब्रह्माधि-
ष्ठानोपलक्षिता दश दिश इति व्यपदेशान्तरं प्राच्यादि-
व्यपदेशात्” उप० वृ० । “द्रव्यत्वनित्यत्वे वायुना व्याख्याते”
सू० । दिशो द्रव्यत्वं नित्यत्वञ्च वायुपरमाणुवदित्याह ।
“गुणवत्त्वाद्द्रव्यत्वम् अनाश्रितत्वाच्च नित्यत्वमित्यर्थः” वृ० ।
एकत्वमतिदिशन्नाह । “तत्त्वम्भावेन” सू० । “दिग्-
लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च सत्त्वावदेकत्वं तदनुवि-
धानादेकपृथक्त्वम्” वृ० । ननु यद्येकैव दिक् कथं तर्हि
दश दिशं इति प्रतीतिव्यवहारावित्यत आह । “कार्य्य-
विशेषेण नानात्वम्” सू० । “कार्य्यविशेषः कार्य्यभेदस्तेन
नानात्वोपचार इत्यर्थः” वृ० । तमेव कार्य्यभेदं दर्शय-
न्नाह । “आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची”
सू० । “प्राक् अस्यां सविता अञ्चतीति प्राची तथाच
यस्यां दिशि मेरुप्रदक्षिणक्रमेण भ्रमत आदित्यस्य प्रथमं
संयोगो भूतपूर्वो भविष्यन् वा सा दिक् प्राची अत्र पुरु-
षाभिसन्धिभेदमाश्रित्य कालत्रयोपवर्णनम्, भवति हि
कस्यचित्पूर्वेद्युः प्रातरस्यां दिशि आदित्यसंयोगः प्रथमं
वृत्त इतीयं प्राचीति प्राचीव्यवहारः कस्यचिदपरेद्युरस्यां
आदित्यसंयोगः प्रथमं भावीत्यभिसन्धाय प्राचीव्यवहारः
पृष्ठ ३५९९
कस्यचिदिदानीं अस्याम् आदित्यसंयोगो भवन्नस्तीत्यभि-
सन्धाय प्राचीव्यवहारः, भूतादिति आदिकर्म्मणि क्तप्र-
त्ययः तेनाभिसन्धेरनियमात् यदाप्यादित्यसंयोगो नास्ति
रात्रौ मध्याह्नादौ तत्रापि प्राचीव्यवहारानुगमः सिद्ध्य-
तीति भावः” उप० वृ० । दिगन्तरव्यवहारेऽपीममेव प्रकार-
मतिदिशन्नाह “तथा दक्षिणा प्रतीची उदिची च” सू० ।
“तद्वदेव दक्षिणदिग्वर्त्तिनगादिना सहादित्यसंयोगाद्भूत-
पूर्वाद्भविष्यतो भूताद्वा दक्षिणव्यवहारः एवं प्रतीच्युदि-
च्योरपि व्यवहार उन्नेयः । वामत्वदक्षिणत्वे निरुक्ते
एव” उप० वृ० । दिगन्तरालव्यवहारेऽपीममेव प्रकार-
मतिदिशन्नाह “एतेन दिगन्तरालानि व्याख्यातानि” सू० ।
“प्राचीदक्षिणयोर्दिशोर्लक्षणसाङ्कर्य्येण दक्षिणपूर्वादिगिति
व्यवहारः एवं दक्षिणपश्चिमा पश्चिमोत्तरोत्तरपूर्वेत्यूह्यम्
एते चादित्यसंयोगा येन विभुना द्रव्येणोपनीयन्ते सा
दिगिति कणादरहस्ये व्युत्पादितं विस्तरतः” उप० वृ० ।
झलि पदान्ते च कुः । दिक् । “दिग्दक्षिणा गन्धवहं मुखेन” ।
“प्रसन्नदिक् पांशुविविक्तवातम्” कुमा० । सा चोपाधिभेदात्
दशधा “पूर्वाग्नेयी दक्षिणा च नैरृती पश्चिना तथा ।
वायवी चोत्तरैशानी ऊर्द्धा चाधोदिशोदशेति” वराह-
पुराणम् । आशाशब्दे तत्सत्त्वे प्रमाणं प्राच्यादिभेदे
उपाधिस्वरूपञ्च८३५ पृ० दृश्यम् । “यया दिशा धावति वेधसः
स्पृहा” नैष० “परस्परालापमिवामला दिशः” किरा०
भागुरिमते वा टाप् दिशाप्यत्र । दिशागज दिशापाल-
शब्दे दृश्यम् दिशाञ्च यात्राद्युपपयोगिसंज्ञाभेदः ज्यो० त०
उक्तो यथा “अङ्गारिणी दिग्रविविप्रयुक्ता यस्यां
रविस्तिष्ठति सा प्रदीप्ता । प्रधूमिता यास्यति यां
दिनेशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः” । “यत्र
पूर्वादिकाष्ठायां वृषराश्यादिगोरबिः । सा दिगस्तमिता
ज्ञेया शेषास्तिस्रः सदोदिताः । यात्रा युद्धं विवादश्च द्वारं
प्रासादहर्म्ययोः । न कर्तव्यं शुभं चान्यदस्ताशाभिमुखं
नरैः” । “अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम् ।
स आर्त्तः सर्वकार्येषु ज्ञेयोदैवहतो नरः” ज्योति० त०
दिक्करशब्दोक्ते २ दन्तक्षते च वैजयन्ती ३ दशसंख्यायाम्
४ तत्संख्यान्विते च । “दिग्भिर्गुणैरष्टयमैः शरैवैः” नील०
ता० । ५ श्रोत्राधिष्ठातृदेवताभेदे “दिग्वातार्कप्रचेतोऽश्वि
ब्रह्मेन्द्रोपेन्द्रमृत्युकाः” शारदातिलकम् । कः प्रजापतिः
दिशि भवं दिगा० यत् । दिश्य दिग्भवे त्रि० । दिशा निर्वृ-
त्तम् ठञ् । दैशिक दिक्कृते त्रि० दैशिकपरत्वापरत्वे ।

दिश त्रि० दिशति दिश--क । १ देशके । २ विष्णौ पु० । “चतुरस्वी

गभीरात्मा विदिशो व्यादिशो दिशः” विष्णुस० ।

दिशम् स्त्री दिश--बा० कसुन् । दिशि रमानाथः ।

दिशागज पु० दिशायां स्थितो गजः । दिग्गजे “नागान्

दिशागजसुतान् दिव्यानपि च भारत!” हरिवं० १४५ अ०

दिशाचक्षुस् पु० गरुड़ात्मजभेदे । “वातवेगो दिशाचक्षु-

र्निमिषोऽनिमिषस्तथा” भा० उ० १०० गरुड़पुत्रोक्तौ ।

दिशापाल पु० दिशां पालयति पालि--अण् उप० स० । इन्द्रादौ

१ दिक्पाले २ ब्रह्मनियोजिते वैराजादिप्रजापतिसुते दिशां
पालकभेदे च । दिग्भेदेन तेषां नियोजनकथा हरिव० ४
अ० यथा “एवं विभज्य राज्यानि क्रमेण स पितामहः ।
दिशापालानथ ततः स्थापयामास भारत! । पूर्वस्यां दिशि
पुत्रन्तु वैराजस्य प्रजापतेः । दिशापालं सुधन्वानं
राजानं सोऽभ्यषेचयेत् । दक्षिणस्यां महात्मानं कर्दमस्य
प्रजापतेः । पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयेत् ।
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं
महात्मानं राजानं सोऽभ्यषेचयेत् । तथा हिरण्य-
रोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्द्धर्षं
राजानं सोऽभ्यषेचयेत् । तैरियं पृथिवी सर्वा सप्तद्वीपा
सपत्तना । यथाप्रदेशमद्यापि धर्मेण परिपाल्यते” ।

दिशोदण्ड पु० दिशमनादृत्य दण्डः अलुक् स० । दिशो-

ऽनादरेण दण्डे सि० कौ० ।

दिश्य त्रि० दिशि भवः दिगा० यत् । दिशि भवे । “ये

सर्पाः पार्थिवा य आन्तरिक्षा ये दिव्या ये दिश्यास्तेभ्य
इमं बलिमहार्षम्” आश्व० गृ० २ । १ । ९ ।

दिष्ट त्रि० दिश--कर्म्मणि क्त । १ उपदिष्टे २ कथिते । संज्ञायां

कर्त्तरि क्त । ३ भाम्ये न० अमरः । “न दिष्टमिष्टं कुरुते
न तिष्ठति तु पौरुषे” विष्णु पु० । ४ काले पु० अमरः ।
५ वैवस्वतमनोः पुत्रभेदे । “नरिष्यन्तोऽथनाभागः सप्तमी
दिष्ट उच्यते” भाग० ८ । १३ । ३ वैवस्वतमनुपुत्रकथने ।
६ दारुहरिद्रायां शब्दमाला

दिष्टान्त पु० ६ त० । १ भाग्यसमाप्तौ तदुपलक्षिते २ मरणे च ।

“ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्” भा० आ०
४९ अ० “दिष्टान्तमाप्स्यति भवानपि पुत्रशोकात्” रघुः

दिष्टि स्त्री दिश--भावे क्तिन् सज्ञायां कर्त्तरिं क्तिच् वा ।

१ हर्षे २ परिमाणे च मेदि० । ३ कथने उपदेशे
४ उत्सवे “तथाचास्य दिष्टिवृविभिव शुश्राव” काद० ।
५ भाग्ये च “राजकुले दिष्टिवृद्धिसग्प्रु मीमहानभूत्” काद० ।
पृष्ठ ३६००

दिष्ट्या अव्य० दिश--सम्पदा० मावे क्विप् दिशं देशनं स्त्यायति

स्त्यै--ष्ट्यै--वा क्विप् अघ्न्यादि० नि० वा । १ हर्षे २ मङ्गले
भाग्यार्थकदिष्टिशब्दस्य तृतोयान्तस्य रूपमित्यन्ये तेन
३ भाग्येनेत्यर्थे । “अन्योऽन्यगतसौहार्दा दिष्ट्यादिष्ट्येति
चात्रुवन्” भा० आ० १२९ अ०

दिष्णु त्रि० दा--गिष्णु । दातरि उणादि० ।

दिह लेपने अदा० उभ० सक० अनिट् । देग्धि दिग्धे

अधिक्षत् अधिक्षत--अदिग्ध अधिक्षन्त अदिहत । । दिदेह
दिदिहे । देग्धा धेक्ष्यति दिग्धः । “अदिहंश्चन्दनैः
शभैः” भट्टिः । “स चन्दनोशीरमृणालदिग्धः” भट्टिः ।
उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तलेपने । प्रणिदेग्धि
“दन्तास्तपसाभिदिग्धाः” अथ० ५ । १८ । ८ “दन्तरजसाव-
देग्धि” कौ० त० ब्रा० ३१ “कवचैः शोणितादिग्धैः” भा० भी०
३३८४ श्लो० “ऊर्जं वा एतं रसं पृथिव्या उपदीका
उद्दिहन्ति यद्बल्मीकम्” तै० आ० ५ । २ । ८ “लोहानां च
मणीनां च मलपङ्कोपदिग्धता” काम० नी० “शिरोगलं
कफोपदिग्धम्” सुस्रु० “यथाधो भूमौ निदिग्धं तदमुया
स्यादेवं तत्” शत० ब्रा० १ । ७ । २ । १३

दी क्षये दि० आत्म० अक० अनिट् । दीयते अदास्त । दिग्ये

ओदित् दीनः । उपसर्गपूर्वकस्य तत्तदुपसर्पद्योत्यार्थक्षये
“अध श्येनो जवसा निरदीयम्” ऋ० ४ । २७ । १ “आपी
नप्त्रे वृतमन्नं वहन्तीः स्वयमत्कैः परिदीयन्ति यह्वीः”
ऋ० २ । ३५ । १४

दीक्ष मौण्ड्ये यागे उपनयने नियमब्रतयोरादेशे च भ्वा०

आ० सक० सेट् । दीक्षते अदीक्षिष्ट । दिदीक्षे दीक्षि-
ष्यते । “दीक्षस्व सह रामेण त्वरितं तुरगाध्वरे” भट्टिः
“यज्ञादुह वा एष पुनर्जायते यो दीक्षते” ऐत० व्रा० २ । २२
“कथं नोमध्येऽदीक्षिष्ट” ऐत० ब्रा० २ । १९ “ब्रह्मसत्रेण
दीक्षिष्यमाणः” भाग० ३ । १ । ६ क्वचित् वेदे पदत्ययः
“ते ह देवयजनं दिदीक्षुः पञ्चमी० ब्रा० २४ । १८ णिच् ।
दीक्षयति “राजानं दीक्षयामासुः सर्पसत्रात्यये तदा” भा०
आ० २०१७ श्लो० ।

दीक्षण न० दीक्ष--भावे ल्युट् । यज्ञाद्यर्थनियमभेदे । “बन्ध

मीक्षमखदीक्षणेष्वपि” राजमार्त्तण्डः ।

दीक्षणीय न० दीक्षणाय हितादि छ । दीक्षासाधने

हविर्भेदे । “यो दीक्षते आग्नावैष्णवं ह्यदो दीक्षणीयं
हविर्भवति” शत० व्रा० ३ । ३ । ४ । २१ । १ इष्टिभेदे स्त्री “दीक्षणी-
यापायणीयातिथ्यदेवता” कात्या० श्रौ० ५ । ४ । १० “दीक्षणी-
यादीनां सकलानामिष्टीनां सदेवताकानामुपांशुत्वम्”
कर्कः “वागन्तेन वा दीक्षणीयां, नीचैस्तरांनीचैस्तरः-
मितरे” कात्या० श्रौ० ७ । २ । ३१ “अथ वा वागन्तेन उत्त-
मया वाचा उच्चैर्दीक्षणीयां कुर्युः इतरे द्वे इष्टी प्राय-
णीयातिथ्ये नीचैस्तरां कर्तव्ये, दीक्षणीया उच्चैस्तरां,
प्रायणीया तदपेक्षया नीचैस्तरां, तदपेक्षया नीचैस्तरा-
मातिथ्येति” कर्कः । ३ सौमिके इष्टिभेदे हेम० । ४
वाजपेयाङ्गभूते इष्टिभेदे । “वाजपेयाङ्गभूतानां यजतीनां
दीक्षणीयाप्रायणीयादीनामादिषु सकृद्गृहीतमाज्यं
जुहोति” यजु० ९ । ५ । वेददी० ।

दीक्षा स्त्री दीक्ष--भावे अ । १ नियमे २ उपनयनसंस्कारे

“दीयते विमलं ज्ञानं क्षीयते कर्मवासना । तेन दीक्षेति
सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः” इति तन्त्रोक्ते ३ अभीष्ट-
देवभन्त्रग्रहणे ४ तदुपदेशे । यागाङ्गदीक्षा च द्वादशसंख्या
अपरिमिता वा यथाह कात्या० श्रौ० ७ । १ । २९ सू० “द्वादश
दीक्षाः” “अत्राग्निष्टोमे भवन्ति” कर्कः । “अपरमिता
वा” द्वादशसंख्यातोऽतिशयेनाधिकसंख्या वा दीक्षा
भवन्ति “अपरिमितं प्रमाणाद्भूय इति” परिशिष्टकारः
अतश्चत्वारो दीक्षापक्षाः, “एका दीक्षा, तिस्रो दीक्षा,
द्वादशदीक्षा अपरिमिता वा दीक्षेति” शाखान्तरादेते
दीक्षापक्षाः । आपस्तम्बः “दशाहमवरार्ध्यं दीक्षितो
भवति मासं सवत्सरं वा यदा कृश स्यादित्यपरं विज्ञा-
यते च यद्रा वै दीक्षितः कृशो भवत्यथ मेध्यो मवति
यदास्मिन्नन्तर्न किं चन भवत्यथ मेध्यो भवति यदास्य
कृष्णं चक्षुषोर्नश्यत्यथ मेध्यो भवति यदास्य त्वचास्थि
संधीयतेऽथ मेध्यो भवति पीवा दीक्षेत कृशो यजेत
यदस्याङ्गानां हीयते जुहोत्येव तदिति विज्ञायते” इति ।
कर्कः “पुण्याहे दीक्षा क्रयः प्रसव उत्थानम्” ३१ सू०
“तान्यत्र दीक्षा सोमक्रयः प्रसवः सुत्या उत्थानं समाप्तिः
पुण्याहे विष्ठिव्यतीपातादिज्योतिःशास्त्रनिषेधवर्जिते
सुदिने भवन्ति यतएवं स्मरन्ति “आभ्युदयिकः पदार्थः
पुण्येऽहनि कर्त्तव्यः एतानि चाभ्युदयिकानीति” कर्कः ।
तान्त्रिकमन्त्रदीक्षाकालादि मल० त० उक्त यथा
“अथ दीक्षाकालः सा च मलमामे न कार्य्या
यथाऽगस्त्यसंहितायाम् “यदा ददाति सन्तुष्टः प्रसन्नवदनी
मनुम् । अयमेव तथा चैवमिति कर्त्तव्यताक्रमः ।
विशुद्धदेशकालेषु शुद्धात्मा नियतो गुरुः । सङ्कल्प्यो
पोष्य कर्त्तव्यमङ्कुरारोपणं मुने! । कुर्य्यान्नान्दीमुखं
पृष्ठ ३६०१
न्नाद्धमादौ च स्वस्तिवाचनम् । स्वगृह्योक्तप्रकारेण
तदेतद्विदधीत वै । मधुमासे भवेद्दुःखं माधवे रत्न-
सञ्चयः । मरणं भवति ज्यैष्ठे आषाढ़े बन्धुनाशनम् ।
समृद्धिः श्रावणे नूनं भवेद्भाद्रपदे क्षयः । प्रजानामा-
श्विने मासि सर्वतः शुभमेव हि । ज्ञानं स्यात् कार्त्तिके
सौख्यं मार्गशीर्षे भवत्यपि । पौवे ज्ञानक्षयो माघे
भवेन्मेधाविवर्द्धनम् । फालगुनेऽपि विवृद्धिः स्यान्मलमासं
विवर्जयेत् । गुरौ रवौ दिने शुके कर्त्तव्यं बुधसो-
मयोः । अश्विनी भरणी स्वातिविशाखाहस्तभेषु च ।
ज्येष्ठोत्तरत्रयेष्वेवं कुर्य्यान्मन्त्राभिषेचनम् । शुक्लपक्षे च
कृष्णे वा दीक्षा सर्वसुखावहा । पूर्णिमा पञ्चमी चैव
द्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्ता
सर्वकामदा । पञ्चाङ्गशुद्धदिवसे सोदये शशितारयोः ।
गुरुशुक्रोदये शुद्धे लग्ने द्वादशशोधिते । चन्द्रतारानु-
कूले च शस्यते सर्वकर्मसु । सूर्य्यग्रहणकालेन समानो
नास्ति कश्चन । तत्र यद्यत् कृतं सर्वमनन्तफलदं भवेत् ।
न मासतिथिवारादिशोधनं सूर्य्यपर्वणि । ददातीष्टं
गृहीतं यत्तस्मिन् काले गुरोर्नृषु । सिद्धिर्भवति मन्त्रस्य
विनायामेन सेव्यतः” । मनुं मन्त्रम् । अङ्कुरारोपणमा-
गमप्रमिद्धम् । शुद्धकालत्वं दर्शयति मधुमासे इत्यादि ।
पञ्चाङ्गशुद्धदिवसे तिथिवारनक्षत्रकरणयोगशुद्धदिवसे ।
तथाच महाकपिलपञ्चरात्रम् “एवं नक्षत्रतिथ्यादौ
करणे योगवासरे । मन्त्रोपदेशा गुरुणा साधकस्य शुभा-
वहःँ । सोदये शशितारयोरिति जन्मचन्द्राद्यतारयोरानु-
कूल्यसहिते गुरुशुक्रोदये गुरुशुक्रानस्तमये । एतत्तु
समयशुद्ध्यन्तरोपलक्षणम् । (अकालशब्दीक्ते “गुरीर्भृ-
गोरस्तवाल्ये” इत्यादिके वचने “परीक्षारामकूपांश्च
पुरश्चरणदीक्षणे” इत्यादिना अशुद्धकाले तस्यावर्ज्यत्व-
मुक्तम्) । द्वादशशोधिते द्वादशांशशोधिते । ज्ञानमा-
लायाम् “रविसंक्रमणे चैव सूय्यस्य ग्रहणे तथा” ।
तथा “तत्र लग्नादिकं किञ्चिन्न विचार्य्यं कथञ्चन” ।
दीक्षातत्त्वे “यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ।
न तिथिर्न व्रतं होमो न स्नानं न जपः क्रिया ।
दीक्षायाः कारणं किञ्चित् स्वेच्छयाप्ते तु सद्गुरौ” ।
सदुगुरौ सिद्धमन्त्रगुरौ । दीपिकायाम् “ध्रुवमृदु-
नक्षत्रगणे रविशुमवासरेपु सत्तिथौ सद्गुरौ दीक्षा ।
स्यिरलग्ने शुभचन्द्रे केन्द्रे कोणे शुभे गुरौ धर्मे” ।
ध्रुवाणि त्रीण्युत्तरप्रणि रोहिणी च । मृदनि चित्रा-
नुराधामृगशिरोरेवत्यः । केन्द्रं लग्नचतुर्यसप्तदशकम् ।
कोणं नवपञ्चकम् । धर्म्मो नवमः । वीरतन्त्रे “रोहिणी
अवणार्द्रा च धनिष्ठा चोत्तरात्रयम् । पुष्यः
शतभिषगकौ च दीक्षामक्षत्रमिष्यते” । अर्को हस्तः ।
रत्नावल्याम् “योगाश्च प्रीतिरायुष्मान् सौभाग्यः शोभनो
धृतिः । वृद्धिर्ध्रुवः सुकर्म्मा च साध्यः शुक्रश्च हर्षणः ।
वरीयांश्च शिवः सिद्धो ब्रह्मा इन्द्रश्च षोड़श” । तथा ।
शुभानि करणानि स्युर्दीक्षायाञ्च विशेषतः । शकुन्यादीनि
षिष्टिञ्च विशेषेण विवर्जयेत्” । शकुन्यादीनि शकुनिना
गचतुष्पदकिन्तुध्नानि । कृष्णेऽष्टम्यां चतुर्दश्यां पूर्वप-
ञ्चदिने तथा” । कृष्णे कृष्णपक्षे । कालोत्तरे “भूतिकामैः
सिते सदा” म० त० दीक्षायां प्रतिप्रसवः “राघवभट्टधृतसा
रसंग्रहे शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने ।
सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः । भन्त्रदीक्षां प्रकु-
र्वाणो मासर्क्षादीन् न शोधयेत्” । तन्तुपर्व परमेश्वरोपवीत
दानतिथिः श्रावणी पूर्णिमा । दामनपर्व दमनभञ्जनति-
थिश्चैत्रशुक्लचतुर्दशी । कूर्म्मपुराणे हिमालयं प्रति देवी-
वाक्यम् “यानि शास्त्राणि द्वश्यन्ते लोकेऽस्मिन् विवि-
धानि च । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि ताममी ।
करालभैरवञ्चापि यासलं वाममाश्रितम् । एवंविधानि
चान्यानि मोहनार्थानि तानि तु । मया सृष्टानि
चान्यानि मोहायैषां भवार्णवे” । तस्मात् सद्भिः श्रुतिस्मृति-
विरुद्धे वर्त्मनि न कदाचित् पदं न्यस्तव्यम् । अर्य्यादि-
दुष्टमन्त्रप्रतीकारस्तु “एषु दोषेषु सर्वत्र मायां
काममथापि वा । क्षिप्त्या चादौ श्रिथं दद्यात् तद्दूषण-
विमुक्तये । तारसंपुटिती वापि दुष्टमन्त्रो विशुध्यति ।
यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्य सिद्ध्यति । भुवने-
श्वरीपारिजातेऽपिं “मायावीजसमायुक्तः क्षिप्रं सिद्धि-
प्रदो भवेत् । पिण्डस्तु केवलो मन्त्रो मायावीजोज्ज्वली-
कतः । मायावीजात् भवेत् प्राणीवीजञ्चैतन्यवीर्य्यवत्” ।
नारदीये “यदृच्छया श्रुतं मन्त्रं छद्मनापि हठेन वा ।
पत्रेक्षितं वा गायाञ्च तसुपेत्य त्वनर्थकृत् । प्रविश्य
विधिवद्दीक्षामभिवेकावसानिकाम्” । अधिकं तत्त्रासा-
रोक्तं देशाद्यनुपदं वत्यते
तन्त्रसारे दीक्षाशब्दस्य व्युत्पत्तिप्रदर्शनपूर्वं कलावावशप्र
कता दर्शिता यथा
“दीक्षां विना जपस्य दुष्टत्रात पथमं सा निन्म
प्यते “दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्व संक्ष-
पृष्ठ ३६०२
यम् । तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ।
दीयते ज्ञानसंभारः क्षालनात् पापसन्ततेः । ततो
दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः” । सर्वाश्रमेषु
दीक्षाया आवश्यकत्वम् तथा च “दीक्षामूलं जपं सर्वं
दीक्षामूलं परन्तपः । दीक्षामाश्रित्य निवसेत् यत्र कुत्रा-
श्रमे वसन्” । शूद्रस्य निषेधमाह तन्त्रान्तरे “प्रणवाद्यं
न दातव्यं मन्त्रं शूद्राय सर्वथा । आत्ममन्त्रं गुरोर्मन्त्रं
मन्त्रञ्चाजपसंज्ञकम् । स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं
ददद्विजः । शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधीग-
तिम्” । नृसिंहतापनीये “सावित्रीं प्रणवं यजुर्लक्ष्मीं
सत्री शूद्रो यद्विजानीयात् स मृतोऽधोगच्छति” । लक्ष्मीं
लक्ष्मीमन्त्रम् । विशेषमाह वाराहीतन्त्रे “गोपालस्य
मनुर्देयो महेशस्यापि पादजे । तत् पत्न्याश्चापि सूर्यस्य
गणेशस्य मनुस्तथा” ।
अदीक्षितस्य निन्दामाह तन्त्रसारे
“अदीक्षिताये कुर्वन्ति जपपूजादिकाः क्रियाः ।
न भवन्ति श्रियै तेषां शिलायामुप्तवीजवत् । देवि! दीक्षावि-
हीनस्य न सिद्धिर्न च सद्गतिः । तस्मात् सर्वप्रयत्नेन
गुरुणा दीक्षितो भवेत् । अदीक्षितोऽपि मरणे रौरवं नरकं
व्रजेत् । तस्माद्दीक्षां प्रयत्नेन सदा कुर्य्याच्च तान्त्रिकात् ।
कल्पे दृष्ट्वा तु मन्त्रं वै यो गृह्णाति नराधमः । मन्वन्तर
सहस्रेषु निष्कृतिर्नैव जायते । नादीक्षितस्य कार्य्यं
स्यात् तपोभिर्नियमव्रतैः । न तीर्थगमनेनापि न च
शारीरयन्त्रणैः” । अतः सद्गुरोराहितदीक्षः सर्वक-
र्माणि साधयेत् । गोविन्दवृन्दावने “अदीक्षितस्य
मरणे प्रेतत्वं न विमुञ्चति” । नवरत्नेश्वरः “सर्वासामपि
दीक्षाणां मुक्तिः फलमखण्डितम् । अविरोधाद्भवन्त्येव
प्रासङ्गिक्यस्तु भुक्तयः” । दीक्षा काम्या च यथा कुलार्णवे
“उपपातकलक्षाणि महापातककोटयः । क्षणाद्दहति
देवेशि! दीक्षा हि विधिना कृता । दीक्षाह्यागमोक्ता-
गमपदार्थमाह गामले “आगतः शिववक्त्रेभ्यो गतश्च
गिरिजानने । मग्नस्तस्या हृदम्भोजे तस्मादागम उच्यते ।
आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः । न
हि देवाः प्रसीदन्ति कलौ चान्यविधानतः । पञ्चवर्णैर्भ-
वेद्दीक्षा ह्यागमोक्तैः शृणु प्रिये! । यां कृत्वा कलिकाले
च सर्वाभीष्टं नभेन्नरः” तन्त्रसा०
दीक्षाप्रकारश्च कलावतीशब्दे १७९२ पृ० दृश्यः
अन्यत्र च दीक्षाशब्दव्युत्पत्त्यादिकमुक्तं यथा


रुद्रजामले “ददाति शिवतादात्म्यं क्षिणोति च
मलत्रयम् । अतो दीक्षेति संप्रोक्ता दीक्षातन्त्रार्थवे-
दिभिः” । लघुकल्पसूत्रे च “दीयते परमं ज्ञानं क्षीयते
पापपद्धतिः । तेन दीक्षोच्यते तन्त्रे स्वागमार्थबलाव-
लात्” । योगीनीतन्त्रे तृतीयभागे षष्ठपटलेऽपि “दीयते
ज्ञानमत्यर्थं क्षीयते पाशबन्धनम् । अतो दीक्षेति
देवेशि! कथिता तत्त्वचिन्तकैः । मनसा कर्मणा वाचा
यत् पापं समुपार्जितम् । तेषां विश्लेषकरणी परमज्ञान-
दा यतः । तस्माद्दीक्षेति लोकेऽस्मिन् गीयते शास्त्रवेदकैः ।
विज्ञानफलदा सैव द्वितीया लयकारिणी । तृतीया
मुक्तिदा चैव तस्माद्दीक्षेति गीयते” । विश्वसारतन्त्रे
द्वितीयपटले च “अथ दीक्षां प्रवक्ष्यामि शृणुष्व
कमलानने! । यस्य विज्ञानमात्रेण देवत्वं लभते नरः ।
दिव्यज्ञानं यतो दद्यात् कुर्यात्पापक्षयं यतः । तस्माद्दी-
क्षेति सा प्रोक्ता सर्वतन्त्रस्य सम्मता” । अथ दीक्षामा-
हात्म्यम् सद्रजामले पूर्वखण्डे तृतीयपटले “देवि!
दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः । तस्मात् सर्व
प्रयत्नेन गुरुणा दीक्षितो भवेत् । अदीक्षितोऽपि मरणे
रौरवं नरकं व्रजेत् । तस्माद्दीक्षां प्रयत्नेन सदा कुर्याच्च
तान्त्रिकीम्” पञ्चदशपटले “अदीक्षिता ये कुर्वन्ति
जपपूजादिकाः क्रियाः । न भवन्ति प्रिये! तेषां शिलायामुप्त
वीजवत्” कल्पसूत्रटीकाधृतकुलार्णवतन्त्रे “रसेन्द्रेण यथा
विद्धमयः सुवर्णतां व्रजेत् । दीक्षाविद्धस्तथैवात्मा शिवत्वं
लभते प्रिये! दीक्षाग्निदग्धकर्मासौ पाशाद्विच्छिन्नबन्धनः ।
गतस्तस्य कर्मबन्धो निर्जीवश्च शिवो भवेत् । गतं शूद्रस्य
शूद्रत्वं विप्रस्यापि च विप्रता । दीक्षासंस्कारसंमिन्ने
जातिभेदो न विद्यते । शिवलिङ्गे शिलाबुद्धिं कुर्वन्
यत् पापमाप्नुयात् । दीक्षितस्यापि पूर्वत्वं स्मरन् तत्
पापमाप्नुयात् । दार्वश्मलौहमृद्रत्नजाति “लङ्गं प्रति-
ष्ठितम् । यथोच्यते तथा शुद्धाः सर्वे वर्णाश्च दीक्षिताः ।
येन पूजितमात्रेण चाब्रह्मभुवनान्तकम् । पूजितं
तेन सर्वं स्याद्दीक्षितेन न संशयः । नादी क्षतस्य कार्यं
स्यात्तपोभिर्नियमव्रतैः । न तीर्थगमनेनापि न च
शारीरयन्त्रणैः” पञ्चमखण्डे षष्ढोल्लासेऽपि “गवां
सर्पिः शरीरस्थं न करोत्यात्मपोषणम् । स्वकर्म चरितं
दत्त पुनस्तामेव पोषयेत् । एवं सर्वशरीरस्थं सर्पिर्वत्
परमेश्वरी । विना चोपासनाद्देवि! न ददाति फलं
नृणाम” । पुरश्चरणरसोल्लासे प्रथमपटले “न च दीक्षा-
पृष्ठ ३६०३
परं ज्ञानं न च दीक्षापरं तपः । न च दीक्षापरं
कालं तस्माद्दीक्षा गीरयसी”
तत्र देशकालादि तन्त्रसारे निर्णीतं यथा
“वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके । चन्द्र-
तारानुकूले च कुर्य्याद्दीक्षाप्रवर्त्तनम् । स्थिरलग्नं
विष्णुमन्त्रे शिवमन्त्रे चरः शुभः । द्विःस्वभावगतं
लग्नं शक्तिमन्त्रे प्रशस्यते । त्रिषडायगताः पापाः
शुभाः केन्द्रा त्रिकोणगाः । दीक्षायान्तु शुभाः सर्वे
रन्ध्रस्थाः सर्वनाशकाः” । शुक्लपक्षे भवेद्दीक्षा कृष्णे-
ऽप्या पञ्चमाद्दिनात्” । निषिद्धमासेऽपि तत्तद्विशेषो मुनि-
भिरुदितः रत्नावल्याम् “षष्ठी भाद्रपदे मासि तथा
कृष्णा चतुर्दशी । कार्त्तिकं नवभी शुक्ला मार्गे शुक्ल
तृतीयिका । पौषे च नवमी शुक्ला माघे शुक्लचतुर्थिका ।
फाल्गुने नवमी शुक्ला चैत्रे कामचतुर्दशी” । त्रयोदशीति
केचित् । “वैशाखे साऽक्षया चैव ज्यैष्ठे दशहरा तिथिः ।
आषाढ़े नवमी शुक्ला श्रावणे कृष्णपञ्चमी । एतानि
देवपर्वाणि तीर्थकोटिफलं लभेत् । अत्र दीक्षा
प्रकर्त्तव्या न मासञ्च परीक्षयेत् । न वारं न च नक्षत्रं
न तिय्यादिकदूषणम् । न योगकरणञ्चैव शङ्करेण
च भाषितम्” । अन्यच्च । “चैत्रे त्रयोदशी शुक्ला
वैशाखैकादशी सिता । ज्यैष्ठे चतुर्दशी कृष्णा आषाढ़े
नागपञ्चमी । श्रावणैकादशी भाद्रे रोहिणीसंयुता-
ष्टमी । आश्विने च महापुण्या महाष्टम्यप्यभीष्टदा ।
कार्त्तिके नवमी शुक्ला मार्गशीर्षे तथा सिता । षष्ठी
चतुर्दशी पौषे माघेऽप्येकादशी सिता । फाल्गुने च
सिता षष्ठी चेति कालविनिर्णयः” । योगिनीतन्त्रे
“अयने विषुवे चैव ग्रहणे चन्द्रसूर्य्ययोः ।
रविसंक्रान्तिदिवसे युगाद्यायां सुरेश्वरि! । मन्वन्तरासु सर्वासु
महापूजादिमे तथा । चतुर्थी पञ्चमी चैव चतुर्दश्यष्टमी
तथा । तिथयः शुभदाः प्रोक्ताः” इत्यादिवचनात्
चतुर्दश्यष्टमीति शक्तिविषयम् चतुर्थीति गणेशविषयम्
तत्तत्कल्पोक्तत्वात् “निन्दितेष्वपि कालेषु दीक्षोक्ता ग्रहणे
शुभा । सूर्य्यग्रहणकालस्य समानो नास्ति भूतले ।
विशेषतो महादेवि! दीक्षाग्रहणकर्मणि । तत्र यद्यत्-
कृतं सर्वमनन्तफलदं भवेत् । रविसंक्रमणे चैव सूर्य्यस्य
ग्रहणे तथा । तत्र लग्नादिकं किञ्चिन्न विचार्य्यं
कथञ्चन । रविसंक्रमणे चैव नान्यदन्वेषितं भवेत् ।
न वारतिथिमासादिशोधनं सूर्य्यपर्वणि” । एवं चन्द्रग्रहणे-
ऽपि तथा च रुद्रयामले “न कुर्य्याच्छाक्तिकी दीक्षामुप-
रक्ते विभावसौ । न कुर्य्याद्वैष्णवीं तान्तु यदि चन्द्र-
मसो ग्रहः” । एतच्च गोपालश्रीविद्येतरविषयम ।
“अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्य्ययोरिति” गौतमी-
यात् । सूर्य्यग्रहणकाले तु नान्यदन्वेषितं भवेत्”
इति योगिनीहृदयाच्च । वस्तुतस्तु “श्रीपराकालीवी-
जानि लोपादौर्गश्च यो मनुः । सूर्य्यस्योपग्रहे लब्धे
नृणां शीघ्रफलप्रदः” उक्तवचनानुरोधात् पूर्ववचने
शक्तिमन्त्रपदं श्रीविद्याद्यतिरिक्तशक्तिमन्त्रपरमिति
साम्प्रदायिकाः । “अमावास्या सोमवारे भौमवारे
चतुर्थिका । सप्तमी रविवारे च सूर्यग्रहशतैः समा । शिष्या-
नाहूय गुरुणा कृपया दीयते यदि । तदा लग्नादिकं
किञ्चिन्न विचार्यं कथञ्चन । तथा “सर्वे वारा ग्रहाः सर्वे
नक्षत्राणि च राशयः । यस्मिन्नहनि सन्तुष्टो गुरुः सर्वे
शुभावहाः” । योगिनीतन्त्रे “ग्रहणे च महातीर्थे
नास्ति कालस्य निर्णयः” । अथ वक्ष्यामि दीक्षायाः
स्थानं तन्त्रानुसारतः । गोशालायां गुरोर्गेहे देवागारे
च कानने । पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्र-
वित् । धात्रीविल्वसमीपे च पर्वताग्रगुहासु च । गङ्गाया
स्तु तटे वापि कोटिकोटिगुणं भवेत्” । दीक्षायां
निषिद्धदेशमाह “गयायां भास्करक्षेत्रे विरजे चन्द्रपर्वते ।
चण्डाले च मतङ्गे च तथा कन्याश्रमेषु च । न
गृह्णीयात्ततो दीक्षां तीर्थेष्वेतेषु पार्वति!” । वाराहीतन्त्रे
“शुक्रोऽस्तो यदि वा वृद्धो गुर्वादित्यो भवेद्यदि ।
मेषवृश्चिकसिंहेषु तदा दोषो न विद्यते” । महाविद्यासु
सर्वासु कालादिविचारो नास्ति तदुक्तं मुण्डमालातन्त्रे
“कालादिशोधनं नास्ति न चामित्रादि दूषणम्” ।
५ कर्मणि च “विवाहदीक्षां निरवर्त्तयत् गुरुः” “विवाह-
दीक्षातिलकं चकार” रघुः नियमे “एताश्चान्याश्चरेदेव
दीक्षा विप्रो वने वसन्” मनुः ।

दीक्षागुरु पु० दीक्षायां गुरुरुपदेष्टा । मन्त्राद्युपदेष्टरि ।

दीक्षान्त पु० दीक्षायाः प्रधानयागस्य अन्तः अन्तोपलक्षितः

तत्समापको यागभेदः । अवभृथस्नानरूपे यागभेदे अमरः ।

दीक्षापति पु० ६ त० । दीक्षापालके सोमे । “दीक्षां मे

दीक्षापतिर्मन्यतामनु” यजु० ५ । ६ । “दीक्षायाः पतिः
पालकः सोमः” वेददी० । दीक्षापालादयोऽत्यत्र ।

दीक्षायूप पु० न० दीक्षाङ्गं यूपः । दीक्षाङ्गपश्वादिमारणार्थ

काष्ठमये पदार्थभेदे “रणयज्ञदीक्षायूपेन” काद०
पृष्ठ ३६०४

दीक्षित त्रि० दीक्ष--कर्त्तरि क्त दीक्षा जाताऽस्य तार० इतच्

वा । १ सोमादियागाङ्गव्रतभेदधारिणि २ संजाततन्त्रीक्त
दीक्षे च दीक्षाशब्दे उदा० । “वर्णानां ब्राह्मणश्चासि विप्रेण
दीक्षितो द्विजः” भा० अनु० ९१८ श्लो० “अवाच्यो दीक्षितो
नाम्ना यवीयानपि यो भवेत् । भोभवत्पूर्वकन्त्वेनम-
मिभाषेत धर्मवित्” “नाक्रामेत् कामतश्छायां वभ्रुणो
दीक्षितस्य च” मनुः । ३ काम्पिल्लनगरस्थविप्रभेदे तत्कथा
“आसीत् काम्पिल्लनगरे सोमयाजिकुलोद्भवः ।
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः । वेदवेदाङ्ग
वेदार्थवेदोक्ताचारचञ्चुरः । राजमान्यो बहुधनो वदान्यः
कीर्तिभाजनम् । अग्निशुश्रूषणरतो वेदाध्ययनतत्परः”
काशीख० १३ अ० । स दीक्षितः अयनं यस्याः गौरा०
ङीष् । दीक्षितायनी तत्पत्न्यां स्त्री “महापतिव्रतां सम्यक्
पत्नीं प्रोवाच तामथ । दीक्षितायनि! कुत्रासि क्व ते
गुणनिधिः सुतः । अथ तिष्ठतु किन्तेन क्व सा मम
शुभोर्मिका । अङ्गोद्वर्तनकाले या त्वया मेऽङ्गुलितो
हृता । नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे । इति
श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी” काशीख०
१३ अ० यज्ञमात्रे ४ संजातदीक्षे च । “संग्रामाध्वर-
दीक्षितो नरपतिः पत्नी गृहीतव्रता” वेणीसं० “दीक्षितो
न ददाति” श्रुतिः ।

दीक्षितृ त्रि० दीक्ष--शीलार्थे युचं बाधित्वा तृच् । दीक्षाशीले

दीति स्त्री दीप--क्तिन् वेदे पलोपः । दीप्तौ “सुदीतिरस्या-

दित्येभ्यः” ता० ब्रा० १९ । ११ “सुदीतिः सुदीप्तिरसि” भा० ।

दीदि पु० दीप बा० दि--पृषो० । द्योतमाने । “अश्विना

पिबतं मधु दीद्यग्नी शुचिब्रता” ऋ० १ । १५ । १० दीद्यग्नी
द्योतमानाग्नियुक्तौ” भा०

दीदिवि पु० दिव--क्विन् अभ्यामे तस्य दीर्घः वलि वलोपः ।

१ स्वर्गे २ भक्ष्ये च उज्ज्वल० । ३ अन्ने अस्त्री अमरः । पुनः-
पुनर्भृशं वा दीव्यति दिव--यङ्लुक् इन् न गुणः
अभ्यासदीर्घः । ४ पुनःपुनर्भृशं वा द्योतने त्रि० “राज-
न्तमध्वराणां गोपामृतस्य दीदिविम्” ऋ० १ । १ । ८ “दीदि-
विम् पुनःपुनर्भृशं वा द्योतकम” भा०

दीधिति स्त्री दीधी--क्तिन् ग्रहादित्वादिद “यीवर्णयोर्दीर्धि-

वेव्योः” पा० इकारलोपश्च । १ किरणे “सलिलमये
शशिनि रवेर्दीधितयो मूच्छितास्तमोनैशम् । क्षपयन्ति
दर्पणीदरनिहिता इव मन्दिरस्यान्तः” वृ० सं० “पुपोष
वृद्धिं हरिदशदीधितेः” रघुः “अमृतदीधितरेष विदर्भजे!”
नैष० । “स्वाधःसुधादीधितिमानन्ति” सि० शि० २ रघुनाथ-
शिरोमणिकृते चिन्तामणिटीकाभेदे ३ अङ्गुलौ निघण्टुः ।

दीधितिकृत् पु० दीधितिं कृ--क्विप् । चिन्तामणिटीकाभेद-

कारके रघुनाथशिरोमणिपण्डिते

दीधितिमत् पु० दीधितयः भूम्ना सन्त्यस्य मतुप् । १ सूर्ये

“सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव” । “शरद्द्व-
नात् दीधितमानिवोक्ष्णः” कुमा० । २ अर्कवृक्षे च ।

दीधी देवने दीप्तौ च अदा० जक्षा० आत्म० अक० सेट् ।

दीधीते अदीधिष्ट । दीध्ये दीध्याञ्चक्रे । दीधिता
दीधिष्यते दीधितिः । “दीधीवेवीसमः कश्चिद्गुणवृद्ध्यो-
रभाजनम्” सा० द० ।

दीन त्रि० दी--क्त तस्य नः । १ दुःखिते अमरः । २ भीते च ।

३ तगरपुष्पे न० ४ मूषिकायां स्त्री मेदि० । “यद्वासुदेवे-
नादीनमनादीनवमीरितम् माघः । “दिनानि दीनो-
द्धरणोचितस्य” रघुः ।

दीनदयालु पु० दीने दयालुः । दुःखिते १ दयालौ “दीनद-

यालुतयाऽवनिपालः” नैष० ।

दीननाथ ६ त० । दुःखितजनभर्त्तरि ।

दीनार पु० दी--आरक् नुट् च । १ स्वर्णभूषणे २ मुद्रायां ३ सुवर्ण-

कर्षद्वये ४ निष्कमाने अमरभरतौ । “दीनारोरोपकैर-
ष्टाविंशत्या परिकीर्त्तितः । सुवर्णसप्ततितमोभागोरोपक
उच्यते” विष्णुगुप्तोक्ते सप्तमांशाधिकहेमरत्तिकारूप-
रोपकैरष्टाविंशत्या परिसिते ५ द्वात्रिंशद्रत्तिकामिते
हेम्नि च प्राय० त० रधुः ।

दीप दीप्तौ दि० आत्म० अक० सेट् । दीप्यते अदीपि--अदीपिष्ट ।

दिदीपे दीप्तः । णिच् अदीदिपत्--त अदिदीपत् त ।
दीप्तिः । दीपनं दीपकः दीप्रः । “दीप्यमानः स्वतेजसा”
मनुः । “पुनर्दिदीपे मददुर्द्दिनश्रीः” रघुः “देवाहवेष्व-
दीपिष्ट” “सधूमदीप्ताग्निरुचीनि रेजुः” भट्टिः “ततः
शकुनयो दीप्ताः मृगाश्च क्रूरभाषिणः” हरिवं० १७१ अ० ।
“हिंस्रेषु दीप्रास्त्रधरः कुमारः” भट्टिः “यावत् कर्माणि
दीप्यन्ते तावत् संसारवासनाः” कुलार्ण० । उपसर्गपूर्वकस्य
तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे “आदिक्षदादीप्तकृशा-
नुकल्पम्” भट्टिः “यस्य यद्रेतसः प्रथममुददीप्यत” ऐत० ब्रा
३ । ३४ “क्रुध्यन्ति परिदीप्यन्ति भूमिजस्याधिष्ठिते” भा०
शा० २०३६ श्लो० आर्षः पदव्यत्ययः । “ते शराः
खसमुत्थेन प्रदीप्ताश्चित्रभानुना” भा० उ० १८१ अ०
पृष्ठ ३६०५

दीप पु० दीपयति स्वं परञ्च दीप--णिच्--अच् । स्वपर-

प्रकाशके तैलादिस्नेहयोगेन १ वर्तिकादाहकशिखान्विते
प्रदीपे कार्त्तिके तद्दानप्रशंसा पाद्मे उत्तरख०
यथा “शृणु दीपस्य माहात्म्यं कार्तिके च हरिप्रिय! ।
यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत् । सूर्य्यग्रहे
कुरुक्षेत्रे नर्मदायां शशिग्रहे । तुलादानस्य यत् पुण्यं
तदूर्जे दीपदानतः । घृतेन दीपकं यस्तु तिलतैलेन
वा पुनः । ज्वालयेन्मुनिशार्दूल! अश्वमेधेन तस्य किम् ।
तेनेष्टं क्रतुभिः सर्वं कृतं तीर्थावगाहनम् । दीपदानं
कृतं येन कार्त्तिके केशवाग्रतः । तावद्गर्जन्ति पापानि
देहेऽस्मिन्मुनिसत्तम! । यावत् कार्त्तिकमासे न दीपदानं
कृतं भवेत् । तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये
रसातले । यावत्तु ज्वलते दीपः कार्तिके केशवाग्रतः ।
श्रूयतेऽत्रापि पितृभिर्गाथा गीता महामुने! ।
भविष्यन्ति कुलेऽस्माकं कदाचित्ते सुता भुवि । कार्त्तिके
दीपदानैर्ये तोषयिष्यन्ति केशवम् । अपि नस्ते
भविष्यन्ति कुले सुचरिता गुणैः । दीपदानं कार्त्तिके ये
दीप्यन्ति हरितुष्टिदम् । गयायां पिण्डदानेन कृतं
नः प्रीणनं मुतेः । यैश्चापि कार्त्तिके दत्तो दीपस्तुष्टि
करो हरेः । दीपं दास्यन्ति ये पुत्रास्तुष्ट्यर्थं चक्रपा-
णिनः । कार्त्तिके तैर्मुनिश्रेष्ठ! नरकादुद्धृता वयम् ।
मन्त्रहीनं क्रियाहीनं शुद्धिहीनं जनार्दन! । व्रतं सम्पूर्ण-
तां यातु कार्त्तिके दीपदानतः । अनेनैव हि मन्त्रेण
दीपं सङ्कल्पयेन्मुने! । मधुसूदनतुष्ट्यर्थं कार्तिके मुनि
पुङ्गव!” । वामनपुराणे च “दास्यते देवदेवाय
दीपपुष्पानुलेपनम् । अपि नः स कुले भूयादेकादश्यां
तिथौ नरः । करिष्यत्युपवासन्तु सर्वपातकहानिदम् ।
इत्थं पितॄणां वचनं श्रुत्वा नृपतिसत्तमः । ददौ च
दीपान् विधिवत् विष्णीरायतने वलिः । सुगन्धतैल-
संपूर्णान् दीपान् सघृततैलकान् । सर्षपस्य सुतैलेन
मधुकातसिसम्भवैः । दोपप्रदानान्नरकानन्धतामिस्रसंज्ञ-
कान् । तीर्त्वा स भार्यया ब्रह्मन्! विष्णुलोकमगात्ततः”
वराहपुराणे दीपं स्पृष्ट्वा वैधकर्मकरणे दोष उक्तो यथा
“दीपं स्पृष्ट्वा तु यो देवि! मम कर्माणि कारयेत् ।
तस्यापराधाद्वै भूमे! पापं प्राप्नोति मानवः । तच्छृणुष्व
महाभागे! कथ्यमानं मयानघे! । जायते षष्टिवर्षाणि
कुष्ठी गात्रेपरिप्लुतः । चाण्डालस्य गृहे तत्र एवमेव
न संशयः । एवं भुक्त्वा तु तत्कर्म मम क्षेत्रे मृतो
यटि । मद्भक्तश्चैव जायेत शुद्धे भागवते गृहे । प्राय-
श्चित्तं प्रवक्ष्यामि दीपस्य स्पर्शनाद्भुवि । तरन्ति मनुजा
येन कष्टं चाण्डालयोनिषु । यस्य कस्यापि मासस्य
शुक्लपक्षे च द्वादशी । चतुर्थभक्तमाहारमाकाशशयने
स्वपेत् । दीपं दत्त्वापराधाद्वै तरन्ति मनुजा भुवि ।
शुचिर्भूत्वा यथान्यायं मम कर्मपथे स्थितः । एतत्ते
कथितं देवि! स्पर्शनात् दीपकस्य तु । संसारशोधनञ्चैव
यत् कृत्वा लभते शुभम्” । वर्त्तिस्थज्वलदग्निशिक्षा हि
दीपः तदङ्गम्नेहादिनियमो यथा वह्निपुराणे “घृतं तैलञ्च
दीपार्थे स्नेहान्यन्यानि वर्जयेत्” । दीपभेदास्तस्द्दशाभेदाश्च
कालिका० पु० ६८ अ० उक्ता यथा “पुरश्चरणकृत्याञ्च दीपं
शृण्विह भैरव! । दीपेन लोकान् जयति दीपस्तेजो-
मयः स्मृतः । चतुर्वर्गप्रदोदीपस्तस्माद्दीपैर्यजेत् श्रिये”
इत्युपक्रम्य “घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः ।
सार्षपः फलनिर्यासजातो वा राजिकोद्भवः । दधिज-
श्चाणुजश्चैव प्रदीपाः सप्त कीर्त्तिताः । पद्मसूत्रभवा दर्भ
गर्भसूत्रभवाऽथ वा । शणजा वादरी वापि फलकोषो-
द्भवाऽथ वा । वर्तिका दीपकृत्येषु सदा पञ्चभिदाः स्मृताः ।
तैजसं दारवं लौहं मार्त्तिक्यं नारिकेलजम् ।
तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते । दीपवृक्षाश्च कर्तव्या
तैजसाद्यैश्च मैरव! । वृक्षेषु दीपोदातव्यो न तु भूमौ
कदाचन । सर्वंसहा वसुमती सहते न त्विदं द्वयम् ।
अकार्य्यपादघातञ्च दीपतापं तथैव च । तस्माद् यथा
तु पृथिवी तापं नाप्नोति वै तथा । दीपं दद्यान्महादेव्यै
अन्येभ्योऽपि च भैरव! । कुर्वन्तं पृथिवीतापं यो दीप
सुत्सृजेन्नरः । स ताम्रतापं नरकमाप्नोत्येव शतं समाः ।
सुवृत्तवर्त्तिसस्नेहपात्रेऽभग्ने सुदर्शने । मृण्मये
वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः । लभ्यते यस्य
तापस्तु दीपस्य चतुरङ्गुलात् । न स दीप इति ख्याती
ह्योघवह्निस्तु स स्मृतः । नेत्राह्लादकरः सार्चिर्दूरताप
विवर्जितः । सुशिखः शब्दरहितो निर्धूमी नाति
ह्रस्वकः । दक्षिणावर्त्तवर्तिस्तु प्रदीपः श्रीविवृद्धये ।
दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते । दक्षिणावर्तवर्त्त्या
तु चारुदीप्तः प्रदीपकः । उत्तमः प्रोच्यते पुत्र! सर्वतुष्टि
प्रदायकः । वृक्षेण वर्जितो दीपो मध्यमः परिकी-
र्त्तितः । विहीनः पात्रतैलाभ्यामधमः परिकीर्त्तितः ।
शार्ण वा वादरं वास्त्रं जीर्णं मलिनमेव वा ।
उपयुक्तन्तु नो दद्यात् वर्तिकार्थन्तु साधकः । उपादद्यान्
नूत्रमेव सततं श्रीविवृद्धये । कोषजं रोमजं वस्त्रं
पृष्ठ ३६०६
वर्तिकार्थं न चाददेत् । न मिश्रीकृत्य दद्यात्तु दीपं
स्नेहान् घृतादिकान् । कृत्वा मिश्रीकृतं स्नेहं
तामिस्रं नरकं व्रजेत् । वसामज्जास्थिनिर्यासैः स्नेहैः
प्राण्यङ्गसम्भवैः । प्रदीपं नैव कुर्य्यात्तु कृत्वा पङ्के
विषीदति । अस्थिपात्रेऽथ वा गव्ये दुर्गन्धाद्युपवासिनि ।
नैव दीपः प्रदातव्यो विबुधैः श्रीविवृद्धये । नैव निर्वा-
पयेद्दीपं कदाचिदपि यत्नतः । सततं लक्षणोपेतं
देवार्थमुपकल्पितम् । न हरेज्जनतो दीपं तथा
लोभादिना नरः । दीपहर्त्ता भवेदन्धः काणो निर्वापको
भवेत् । उद्दीप्तदीपप्रतिमः काष्ठकाण्डसमुद्भवः । विल्वे-
ध्मोद्भवमेवाथ दीपालाभे निवेदयेत् । उल्मूकं नैव
दीपार्थे कदाचिदपि चोत्सृजेत् । प्रसन्नार्थन्तु तं दद्या-
दुपचाराद्बहिः कृतः । एवं वां कथितो दीपो धूपञ्च
शृणुतं सुतौ!” । श्राद्धे वस्त्रवर्तियुक्तदीपनिषेधो यथा
“दीपं वर्जत् वस्त्रवर्त्तिप्रत्यक्षं तैलमेव च” । योगिनी० त०
२ य भागे ५ पटलः ।
पुरुषस्य दीपनिर्वापणे दोषो यथा । “दीपनिर्वापणात्
पुसः कुष्माण्डच्छेदनात् स्त्रियः । अचिरेणैव कालेन
वंशनाशो भवेद्ध्रुवम्” ति० त० । देवदत्तदीपस्य तु निर्वा-
पणम् विधानपारिजाते उक्तं यथा “स्वयं निर्वापितं
दीपमाजिघ्रन्ति सुरारयः । तस्मान्निर्वापयेद्दीपं देवानां
घ्राणतुष्टये” । कार्त्तिककृष्णचतुर्दश्यां नरकनिवृत्तये
दीपदानं यथा “नरकाय प्रदातव्यो दीपः संपूज्य देवताः”
तिथितत्त्वधृतलिङ्गपुराणम् ।
“स्नाने धूमे तथा दीपे नैवेद्ये भूषणे तथा । घण्टानादं
प्रकुर्वीत तथा नीराजनेऽपि च । विधानपारिजातोक्तः
दीपदाने घण्टानादोविधेयः । शिवालये दीपोद्दीपनमा-
हात्म्यं काशीख० १३ अध्याये दृश्या दिङ्मात्रमत्रोच्यते “स
दीपवासनायोगात् बहून् दीपान् प्रदीप्य वै । अलकायाः
पतिरभूद्रत्नदीपशिखाश्रयः” । दीपवर्तिश्च कर्पूरगर्भिणी
कार्य्या “वर्त्त्या कर्पूर गर्भिण्या सर्पिषातिलजेन वा ।
आरोप्य दर्शयेद्दीपानुच्चैः सौरभशालिनः” शारदाति० ।
तन्त्रसारे “कर्पूरादियुता वर्त्तिः सा च कार्पास ।
निर्मिता । सप्तावृत्ता सुसंकॢप्तो दीपः स्याच्चतुरङ्गुलः”
कार्त्तवीर्य्यप्रियार्थदीपविशेषस्तु कार्त्तवीर्यदीपशब्दे १९८४
पृ० उक्तः । दीपदानफलादिकम् भा० अनु०९८ अ० उक्तं यथा
“दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् । यथा
येन यदा चैव प्रदेया यादृशाश्च ते । ज्योतिस्तेजः प्र-
काशं वाऽप्यूर्द्धगञ्चापि वर्ण्यते । प्रदानं तेजसां तस्मा-
त्तेजो वर्द्धयते नृणाम् । अन्धन्तमस्तमिस्रञ्च दक्षि-
णायनमेव च । उत्तरायणमेतस्माज्ज्योतिर्दानं प्रश-
स्यते । यस्मादूर्द्ध्वगमेतत्तु तमसश्चैब भैषजम् । तस्मा-
दूर्द्ध्वगतेर्दाता भवेदत्रेति निश्चयः । देवास्तेजस्विनो
यस्मात् प्रभावन्तः प्रकाशकाः । तामसा राक्षसाश्चैव
तस्माद्दीपः प्रदीयते । आलोकदानाच्चक्षुष्मान् प्रभायुक्तो
भवेन्नरः । तान् दत्त्वा नोपहिंसेत न हरेन्नोपनाश-
येत् । दीपहर्त्ता भवेदन्धस्तमोगतिरसुप्रभः । दीपप्रदः
स्वर्गलोके दीपमालेव राजते । हविषा प्रथमः कल्पी
द्वितीयश्चौषधीरसैः । वसामेदोऽस्थिनिर्य्यासैर्न कार्यः
पुष्टिमिच्छता । गिरिप्रपाते गहने चैत्यस्थाने
चतुष्पथे । दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ।
कुलोद्योतो विशुद्धात्मा प्रकाशत्वञ्च गच्छति । ज्योतिषा-
ञ्चैव सालीक्यं दीपदाता नरः सदा” दीपस्य शुभाशुभ-
लक्षणम् वृ० सं० ८४ अ० उक्तं यथा
“वामावर्त्तो मलिनकिरणः सस्फुलिङ्गोऽल्पमूर्त्तिः क्षिप्रं
नाशं व्रजति विमलस्नेहवर्त्त्यन्वितोऽपि । दीपः पापं
कथयति फलं शब्दवान् वेपनश्च व्याकीर्णार्चिर्विशलभम-
रुद् यश्च नाशं प्रयाति । दीपः संहतमूर्त्रिरायततनुर्नि-
र्वेपनो दीप्तिमान् निःशब्दोरुचिरः प्रदक्षिणगतिर्वैदूर्य
हेमद्युतिः । लक्ष्मीं क्षिप्रमभिव्यनक्ति रुचिरं यश्चोद्यतं
दीप्यते शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः”
“प्रवर्तितो दीप इव प्रदीपात्” निशीथदीपाः सहसा
हतत्विषः” रघुः । दीपयत्यर्थान् वा । २ प्रकाशके
यथा चित्रदीपादयः पञ्चदश्याम् ।

दीपक पु० त्रि० दीपयति स्वं परञ्चार्थं दीपि--ण्वुल् । स्वपरप्र-

काशके स्त्रियां टाप् अतैत्त्वम् दीपिका । षट्कर्मदीपिका
ज्योतिषदीपिका २ प्रदीपे पु० ३ अलङ्कारभेदे अलङ्कारशब्दे
३९९ पृ० दृश्यम् । ४ यमान्यां रत्नमाला ५ लोचमस्तके वृक्षे
शब्दरत्ना० अनयोरग्निदीपकत्वात् तथात्वम् ६ कुङ्कुमे
न० । ७ खगग्राहिणि(वाज) (सिकरा) प्रसिद्धे खगे पुंस्त्री
हेमच०८ मात्रावृत्तभेदे “तुरगैकमुपधाय सुनरेन्द्रमबधाय ।
इह दीपकमवेहि लघुमन्तवधेहि” तल्लक्षणम् । ९ रागभेदे
पु० स च हनूमन्मते द्वितीयोरागः सूर्यनेत्रान्निर्गतः
पड्जस्वराश्रयः ग्रीष्मर्त्तौ मध्याह्ने गेयः । क्षुद्रोदीपःङीप् ।
स्वार्थे--क ह्रस्वः । दीपिका क्षुद्रदीपे “स शंवरारेर्वलि-
दीपिका इव” नैष० ।
पृष्ठ ३६०७

दीपकलिका स्त्री दीपस्य कलिकेव । १ दीपशिखायां

शूलपाणिकृते २ याज्ञवल्क्यसंहिताटीकाभेदे च ।

दीपकिट्ट न० ६ त० । कज्जले शब्दार्थकल्पतरुः ।

दीपकूपी स्त्री दीपस्य कूपीव । दीपवर्त्तिकायाम्

दीपदशायाम् शब्दमा० ।

दीपखोरी स्त्री खोर--गत्याघाते णिच--अच् गौरा० ङीष् ।

६ त० । दीपवर्त्तिकायां (शल्ते) शब्दमाला ।

दीपध्वज पु० दीपस्य ध्वज इव । कज्जले जटाध० ।

दीपन त्रि० दीपयति वह्निम् दीप--णिच्--ल्यु । १ तगरमूले

रत्नमा० २ कूङ्कुमे त्रिका० । ३ मयूरशिखावृक्षे ४ शालि-
ञ्चशाके च पु० शब्दच० ५ कासमर्दे ६ पलाण्डौ च पु०
राजनि० । ७ दीघकमात्रे त्रि० । भावे ल्युट् । ८ प्रकाशने
न० ९ ग्राह्यमन्त्रसंस्कारभेदे च “मन्त्राणां दश कथ्यन्ते
संस्काराः सिद्धिदायिनः । जननं जीवनं पश्चात्ताडनं
बोधनं तथा । अथाभिषेको विमलीकरणाप्यायने
तथा । तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ।
“तारमायारमायोगो मनोर्दीपनमुच्यते” शारदाति० ।
दीप्यतेऽनया दीपि--करणे ल्युट् ङीप् । दीपनी १० मेथि-
कायां ११ पाठायां १२ यवान्याञ्च स्त्री राजनि० । १३
दीपनसाधने त्रि० स्त्रियां ङीप् । “त्रिफला कफपित्तघ्नी
मेहकुष्ठविनाशिनी । चक्षुष्या दीपनी” “निहन्याद्दीपनं
गुल्मपीनसाग्न्यल्पतामपि” । “कटुकोदीपनः पाचनो
रोचनः शोधनः” इति च सुश्रु० ।

दीपनीय पु० दीपनाय जठरानलोद्दीपानाय हितः छ ।

१ यवान्यां राजनि० औषधवर्गभेदे “पिप्पली पिप्पली-
मूलं चव्यचित्रकनागरम् । दीपनीयः स्मृतो वर्गः
कफानिलगदापहः” चक्रपाणिदत्तः । दीप--णिच--अनीयर् ।
३ ज्वालनीये त्रि० ।

दीपपादप पु० दीपस्य पादप इव आश्रयत्वात् । (पिलसुज)

दीपाधारे शब्दार्थकल्प० दीपवृक्षादयोऽप्यत्र ।

दीपपुष्प पु० दीपः तत्कलिकेव पुष्पमस्य । चम्पके राजनि० ।

दीपभाजन न० ६ त० । दीपपात्रे तज्ज्वालनतैलाधारे

पात्रे “वामनार्चिरिव दीपभाजनम्” रघुः ।

दीपमाला स्त्री दीपानां माला । श्रीणीभूते प्रदीपसंघे

“उद्बुद्धां च जगद्धात्रीं पूजयेद्दीपमालया” ति० त० ।

दीपवत् त्रि० दीप + अस्त्यर्थे मतुप् मस्य वः । १ दीपयुक्ते

गृहादौ स्त्रियां ङीप् ङीबन्तः २ कामख्यापीठस्थे
नदीभेदे “शाश्वती कथिता या तु नदी मत्स्यध्वजा सिता ।
तस्याः पूर्वे समाख्याता नदी दीपवती मता । एषा
च हिमवज्जाता छिन्दन्ती दीपवत्तमः । तेन देवम-
नुष्येषु नदी दीपवती स्मृता । दीपवत्याः पूर्वतस्तु
शृङ्गाटोनाम पर्वतः” कालिका० पु० ८२ अ०

दीपशत्रु पु० ६ त० । कीटभेदे (जोनाकीपोका) पारस्करनि०

दीपशिखा पु० ६ त० । १ प्रदीपज्वालायाम् उपचारात् तज्जाते

२ कज्जले च शब्दार्थचन्द्रिका ।

दीपशृङ्खला स्त्री दीपानां शृङ्खलेव । दीवावल्यां हारा०

दीपान्वित त्रि० ६ त० । १ दीपयुक्ते गृहादौ श्मशानचत्व-

रादिषु देयदीपयुक्तायां मुख्याश्विनस्व गौणकार्त्तिकस्य
२ अमावास्यायाम् स्त्री तत्कर्त्तव्यादि यथा
भविष्यपुराणे “येयं दीपान्विता राजन् । ख्याता पञ्च-
दशी भुवि । तस्यां दद्यान्न चेद्दत्तं पितॄणां वै
महालये । प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् ।
दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि । चतुष्पथे
श्मशानेषु नदीपर्वतसानुषु । वृक्षमूलेषु गोष्ठेषु हत्वरेषु
गृहेषु च । वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रय-
भूमयः । दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम ।
ब्राह्मणान् भोजयित्वादौ विभज्य च बुभुक्षितान् ।
अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना । स्निग्धैर्मुग्धै-
र्विदग्धैश्च बान्धवैर्भृतकैः सह” तिथित० ।
निर्णयसिन्धौ तत्र विशेष उक्तो यथा
कालादर्शे “प्रत्यूष अश्वयुग्दर्शे कृताभ्यङ्गादिमङ्गलः ।
भक्त्या प्रपूजयेद्देवीमलक्ष्मीविनिवृत्तये” अस्य व्याख्याने
आदिशब्दात्पञ्चत्वगुदकस्नानादेरुपसंग्रहः तदुक्तं पद्मपु-
राणे “स्वातिस्थिते रवाविन्दुर्यदि स्वातिगतो भवेत् । पञ्च-
त्वगुदकस्नायी कृताभ्यङ्गविधिर्नरः । नीराजितो महाल-
क्ष्मीमर्चयन् श्रियमश्नुते । अश्वयुग्दर्श इति दर्शशब्दः
प्रत्यूषे स्वातियुक्ततिथिपरः तदुक्तं व्राह्मे “ऊर्जे
शुक्लद्वितीयायां तिथिषु स्वातिऋक्षगे । मानवो मङ्गल-
स्नायी नैव लक्ष्म्या वियुज्यते” । तत्रैव “इषेभूते च दर्शे
च कार्त्तिकपथमे दिने । यदा स्वाती तदाभ्यङ्गम्नानं
कुर्याद्दिनोदये” । कश्यपमंहितायां तु दीपाबलिदर्शं प्रकम्य
“इन्दुक्षयेऽपि संक्रान्तौ रवौ पाते दिनक्षये । तत्राभ्यङ्गो
न टोषाय पातः पापापनुत्तये” इति । स्वातियोगं विना-
प्यभ्यङ्ग उक्तः । मात्स्ये “दीपैर्नाराजनादत्र सैषा
दीपाबली स्मृता” । अत्र विशेषो हेमाद्रौ भविष्ये “दिवा
तत्र न भोक्तव्यमुते वालातुराज्जनात् । प्रदोषसमये
पृष्ठ ३६०८
लक्ष्मीं पूजयित्वा ततः क्रमात् । दीपवृक्षाश्च दातव्याः
शक्त्या देवगृहेषु च” तत्रैवाभ्यङ्गमभिधाय “एवं प्रभा-
तसमये त्वमावास्यां नराधिप! । कृत्वा तु पार्वणश्राद्धं
दधिचोरघृतादिभिः । दीपान् दत्त्वा प्रदोषे तु लक्ष्मीं
पूज्य यथाविधि । स्वलङ्कृतेन भोक्तव्यं सितवस्त्रोपशो-
भिना” । अयं प्रदोषव्यापी ग्राह्यः “तुलासंस्थे
सहस्रांशौ प्रदीषे भूतदर्शयोः । उल्काहस्ता नराः कुर्युः
पितॄणां मार्गदर्शनम्” इति ज्योतिषोक्तेः “दिनद्वये
तस्य सत्त्वे परः “दण्डैकरजनीयोगे दर्शः स्यात्तु
परेऽहनि । तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका”
इति तिथतत्त्वे ज्योतिर्वचनात् । दिवोदासीये तु प्रदोषस्य
कर्मकालत्वात् “अर्द्धरात्रे भवत्येव लक्ष्मीराश्रयितुं
गृहान् । अतः स्वलङ्कृता लिप्ता दीपैर्जाग्रज्जनोत्सवाः ।
सुधाघवलिताः कार्याः पुष्पमालोपशोभिताः” इति ब्राह्मो-
क्तेश्व । प्रदोषार्द्धरात्रव्यापिनी मुख्या, एकैकव्याप्तौ परैव ।
प्रदोषस्य मुख्यत्वादर्धरात्रेऽनुष्ठेयाभावाच्च । यत्तु
“अपराह्णे प्रकर्त्तव्यं श्राद्धं पितृपरायणैः । प्रदोषसमये
राजन्! कर्त्तव्या दीपमालिका” इति क्रमः स सम्पूर्णति-
थावेव प्राप्तेरनुवादो न विधिः । तत्तत्कर्मकालव्याप्तेर्बल
सत्त्वात् सम्पूर्ण्णितिथौ प्राप्त्या खण्डतिथावप्राप्त्या विध्य-
नुवादविरोधाच्चेत्युक्तम् । अत्रैव दर्शेऽपररात्रेऽलक्ष्मी
निःसारणमुक्तं मदनरत्ने भविष्ये “एवं गते निशीथे
तु जने निद्रार्द्रलोचने । तावन्नगरनारीभिः शूर्पडि-
ण्डिमवादनैः । निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहा-
ङ्गणात्” । दीपाबली (देओयार्ला) इति ख्याता तत्रार्थे

दीपीय त्रि० दीप + अपूपा० हितार्थे पक्षे छ । दीपहिते

पक्षे यत् । दीप्य तत्रार्थे त्रि० ।

दीपोत्सव पु० दीपैरुत्सवः । १ दीपहेतुके उत्सवे उपचारात्

२ दीपान्वितामावास्यायाञ्च भविष्यपु० ।

दीप्त त्रि० दीप--क्त । १ प्रकाशान्विते २ समुज्वलिते च मेदि० ।

“समिद्धशरणा दीप्ता देहे लङ्का मतेश्वरा” भट्टिः । ३ स्वर्णे
४ हिङ्गुनि च न० राजनि० । ५ निम्बूके पु० ६ सिंहे पुंस्त्री०
राजनि० स्त्रियां जातित्वात् ङीष् । ७ ज्योतिष्मत्यां
(शातला) स्त्री रत्नमाला ८ लाङ्गलिवृक्षे स्त्री टाप् । “शुण्ठी
पादमिता कणार्णवमिता दीप्तायमान्योःक्रमात्” वैद्यकम् ।
१० नामारोगभेदे पु० “नासा प्रदीप्तेव च यस्य जन्तो-
र्व्याधिन्तु तं दीप्तमुदाहरन्ति” सुश्रुतः नासारोगभेदोक्तौ ।
“दोप्ते रोगे पैत्तिकं संविधानं कुर्य्यात् सर्वं स्वादु यच्छी-
तलञ्च” सुश्रुतः स्वार्थे क । दीप्तक स्वर्णे न० राजनि० ।

दीप्तकीर्त्ति त्रि० दीप्ता कीर्त्तिर्यस्य । १ प्रकाशमानयशस्के

२ कार्त्तिकेये पु० । “आग्नेयश्चैव स्कन्दश्च दीप्तकीर्त्तिर-
नामयः” भा० व० २३१ अ० कार्तिकनामोक्तौ । कर्म० ।
३ दीप्ते यशसि स्त्री ।

दीप्तकेतु पु० १ नृपभेदे । “धृष्टवेतुर्वृहत्केतुर्दीप्तकेतुर्निरा-

मयः” भा० आ० १ अ० नानानृपोक्तौ । २ दक्षसावर्णि-
मनुपुत्रभेदे । “नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः । धृष्ट-
केतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप!” । भाग० ८ । १२ । ९
२ दीप्तः केतुरस्य । ३ दीप्तध्वजके त्रि० कर्म० । ४ दीप्ते
ध्वजे पुंन०

दीप्तजिह्वा स्त्री दीप्ता जिह्वा अस्याः । उल्कामुख्यां

शृगाल्यां हारा० तस्या रात्रौ जिह्वातोऽग्नेः स्वतः स्फुर-
णात्तथात्वम् ।

दीप्तपिङ्गल पुंस्त्री दीप्तं स्वर्णमिव पिङ्गलः जटायाम् ।

स्वर्णपिङ्गलजटायुक्तत्वात् सिंहे राजनि० स्त्रियां जाति-
त्वात् ङीष् ।

दीप्तमूर्त्ति त्रि० दीप्ता मूर्त्तिरस्य । १ प्रकाशान्वितमूर्त्तिके

२ विष्णौ पु० । “बिश्वमूर्त्तिर्महामूर्त्तिर्दीप्तमूर्त्तिरमूर्त्तिमान्”
विष्णुस० “ज्ञानमयी स्वेच्छया वा तैजसी मूर्त्तिरस्येति”
भा० ।

दीप्तरस पु० दीप्तो रसोऽस्य । किञ्चुलके शब्दच० तदसस्य रात्रौ स्वयं ज्वलनात्तस्य तथात्वम् ।

दीप्तरोमन् पु० विश्वदेवभेदे । “जितात्मा मुनिवर्यश्च दीप्त-

रोमा भयङ्करः” भा० अनु० ९१ अ० विश्ववदेवीक्तौ ।

दीप्तलोचन पुंस्त्री० दीप्तं लोचनं यस्य । विड़ाले राजनि० ।

स्त्रियां जातित्वात् ङीष् ।

दीप्तलोह न० नित्यकर्म्म० । १ कांस्ये राजनि० कर्म० । २ ज्वलिते ३ लोहे च ।

दीप्तवर्ण त्रि० दीप्तं स्वर्णमिव वर्णोऽस्य । १ स्वर्णतुल्य

वर्णके २ कार्त्तिकेये पु० “शिशुः शीघ्रः शुचिश्चण्डो दीप्त-
वर्णः शुभाननः” भा० व० २३१ अ० कार्त्तिकनामोक्तौ ।

दीप्तशक्ति त्रि० दीप्ता शक्तिरस्य । १ प्रकाशमानसामार्थ्ये

दीप्ता शक्तिरस्त्रविशेषोऽस्य । २ कार्त्तिकेये पु० । “दीप्त-
शक्तिः प्रशान्तात्मा भद्रकृत् कूटमोहनः” भा० व० २३१ अ०
स्कन्दनामोक्तौ ।

दीप्तांशक पु० कर्म० । ताजकोक्ते सूर्य्यादेरंशभेदे । “तिथ्य-

र्काष्टनगाङ्कशैलखचराः सूर्य्यादिदीप्तांशकाः” नील० ता०
र १५ । च १२ । म ८ । बु ७ । वृ ९ शु ७ । श ९ । सूर्य्यादेः
एतदशमध्यवर्त्तिनि ग्रहान्तरे इत्थशालादियोगः, लिप्तार्द्धा-
न्तराले तु पूर्णेत्थशालः तदूर्द्ध्वं त्रैराशिकेन फलकल्पना ।
पृष्ठ ३६०९

दीप्तांशु पु० दीप्ता अंशवोस्य । १ सूर्ये “यथा हि दिवि

दीप्तांशुः प्रभासयति तेजसा” भा० आ० १७१ अ० ।
२ अर्कवृक्षे च ।

दीप्ताक्ष पुंस्त्री० दीप्ते अक्षिणी अस्य षच् । १ विडाले त्रिका०

स्त्रियां ङीष् । २ दीप्तलोचनान्विते नृपराक्षसादौ त्रि० ।
“वाहुः मुन्दरवंश्यानां दीप्ताक्षाणां पुरूरवाः” भा० उ०
७३ अ० स्त्रियां ङीष् । “एताश्चान्याश्च दीप्ताक्ष्यः करभो-
त्कटमूर्द्ध्वजाः” भा० व० २७९ अ०

दीप्ताग्नि पु० दीप्तोऽग्निरस्य । १ अगस्त्वे मुनौ त्रिका० तेन

भुक्तपीतमात्रेण वातापिसमुद्रयोर्जठरानलेन जारणात्
तस्य तथात्वम् । २ दीप्तजठरानलयुक्ते त्रि० “बलिनः
खरभक्ष्या ये ये च दीप्ताग्नयो नराः” । “सात्म्यतोऽल्पतया
वापि दीप्ताग्नेस्तरुणस्य च” सुश्रु० कर्म० । ३ दीप्ते वह्नौ
पु० “सधूमदीप्ताग्निरुचीनि रेजुः” मट्टिः “शब्दान् दीप्ता-
ग्निसङ्काशान्” भा० व०१७ अ० ।

दीप्ताङ्ग त्रि० दीप्तमङ्गमस्य । १ दीप्तिवुक्तदेहके । २ मयूरे पुंस्त्री

शब्दच० स्त्रियां जातित्वात् ङीष् ।

दीप्ति स्त्री दीप--भावे क्तिन् । १ त्विषि प्रभायाम् “एवं दीप्त्या

योजनं भाति सन्ध्या” वृ० सं०३१ अ० २ अभिव्यक्तौ च
ज्ञानाभिव्यक्तिरूपदीप्तेः कारणानि पात० सू० भाष्ययोरु-
क्तानि यथा
“योगाङ्गानुष्ठानदशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः” सू०
“योगाङ्गान्यष्टावभिधायिष्यमाणोनि तेषामनुष्ठानात् पञ्च
पर्वणो विषयस्याशुद्धिरूपस्य क्षयोनाशस्तत्क्षये सम्यग्ज्ञान-
स्याभिव्यक्तिर्यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा
तनुत्वमशुद्धिरापद्यते यथा यथा च क्षीयते तथा तथा
चक्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्द्धते सा खल्वे
षा पिवृद्धिः प्रकर्षमनुभवति आ विवेकख्यातेरा
गुणपुरुषस्वरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुद्धेर्वि-
योगकारणं यथा परशुः छेद्यस्य, विवेकख्यातेस्तु प्राप्ति-
कारणं यथा धर्मः सुखस्य, नान्यकारणम् । कति चैतानि
कारणानि शास्त्रे भवन्ति नवैवेत्याह तद् यथा
“उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः । वियोगान्य-
त्वधृतयः कारणं नवधा स्मृतम्” इति । तत्रोत्पत्ति-
कारणं मनोभवति ज्ञानस्य स्थितिकारणं मनसः पुरु-
षार्थता शरोरस्येवाहार इति अभिव्यक्तिकारणं यथा
रूपस्यालोकस्तथा रूपज्ञानम् । विकारकारणं मनसो
विषयान्तरम् यथाग्निः पाक्यस्थ, प्रत्ययकारणं धूमज्ञान-
मग्निज्ञानस्य, प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः
वियोगकारणं तदेवाशुद्धेः अन्यत्वकारणं, यथा सुवर्ण-
कारः सुवर्णस्य, एवमेकस्य प्रत्ययस्याविद्यामूढत्वे द्वेषो,
दुःखत्वे रागः, सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये, धृति-
कारणं शरीरमिन्द्रियाणां, तानि च तस्य महाभूतानि
शरीराणां तानि च परस्परं सर्वेषाम् । तैर्य्यग्यौनमा-
नुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि
तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि” भा०
स्त्रीणां यौवने अयत्नसाध्ये गुणभेदरूपे ३ सत्वजेऽलङ्कारे
च “यौवने सत्वजास्तासामष्टाविंशतिसंख्यकाः ।
अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः । शोभा कान्तिश्च
दीप्तिश्च माधुर्यञ्च प्रगल्भता” इत्युपक्रमे “रूपयौवम
लालित्यभोगाद्यैरङ्गभूषणम् । शोभा प्रोक्ता, सैव
कान्तिर्मन्मथाप्यायिता दुतिः । कान्तिरेवातिविस्तीर्णा
दीप्तिरित्यभिधीयते” सा० द० लक्षयित्वा उदाजहार यथा
“तारुण्यस्य विलासः समधिकलावण्यसम्पदोहासः ।
धरणितलस्याभरणं युवजनमनसोवशीकरणम्” ।
दीपकर्त्तरि संज्ञायां क्तिच् । ४ लाक्षायां ५ कांस्ये च
राजनि० । विश्वदेवभेदे पु० “उष्णीनाभो नभोदश्च
विश्वायुर्दीप्तिरेव च” भा० अनु० ९१ अ० विश्वदेवोक्तौ ।

दीप्तिक स्त्री दीप्त्या कायति कै--क । दुग्धपाषाणवृक्षे

राजनि० ।

दीप्तिमत् पु० दीप्तिरस्त्यस्य मतुप् । दीप्तियुक्ते “तद्व्योम्नि

शतधा भिन्नं ददृशे दीप्तिमन्मुखम्” रघुः । उदक्स्थो
दीप्तिमान् स्थूलो जयी याम्येऽपि यो बली” सू० सि०
“दिवश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौरमलप्रदीप्तैः”
भा० क०९४ अ० । कृष्णस्य सत्यभामायां जाते २ पुत्रभेदे
पु० कृष्णस्येत्युपक्रमे “जज्ञिरे सत्यभामायां भानुर्भी-
मवरः क्षुपः । रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जला
न्तकः” हरिवं० १६२ अ० ।

दीप्तोद न० दीप्तमुदकं यत्र उदकस्योदादेशः । तीर्थभेदे

“गच्छ पुत्र! नदों पुण्यां वधूसरकृताह्वयाम् । तत्रोप
स्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि । दीप्तोदं नाम तत्तीर्थं
यत्र ते प्रपितामहः । भृगुर्देवयुगे राम! तप्तवानुत्तमं
तपः । तत्तथा कृतवान् रामः कौन्तेय! वचनात् पितुः”
भा० व० ९९ अ०

दीप्तोपल पु० दीप्तः सूर्यकरसंसर्गात् ज्वलितः उपलः । सर्यकान्तमणौ (आतर्सा) राजनि० ।

पृष्ठ ३६१०

दीप्त्य त्रि० दीप्ताय दीपनाय हितम् गवा० यत् । दीप्तिहिते ।

दीप्य पु० दीपाय अग्निदीपनाय हितम् अपूपा० पक्षे यत् ।

१ यमान्यां २ जीरके च राजनि० । ३ रुद्रजटायाम् अमरः
४ प्रदीपहितादौ त्रि० ।

दीप्यक पु० दीप्य + संज्ञायां कन् स्वार्थे क वा । १ अजमोदायां

२ यमान्यां ३ मयूरशिखायां रुद्रजटायाञ्च मेदि० ।

दीप्र त्रि० दीप--र । दीप्तिशीले “हिंस्रेषु दीप्रास्त्रधरः कुमारः”

“ब्रातीनव्यालदीप्रास्त्रः सुत्वनः परिपूजयन्” भट्टिः

दीर्घ पु० दॄ--विदारे बा० घङ् घस्य नेत्त्वम् । १ आयते (लम्बा)

परिमाणभेदयुते दीर्घत्वञ्च परिमाणभेदे इति
कणादाः महत्त्वावान्तरभेद इति सांख्याः । तथा हि
कणाद सू० उपस्क रवृत्तौ च परिमाणसत्तां व्यवस्थाप्य
मकारणं महत्त्वादिकं व्यवस्थापितं यथा
“अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते” सू० ।
“नित्ये इति विषयेण विषयिणं नित्यत्वप्रतिपादकं
चतुर्थाध्यायमुपलक्षयति उपलब्ध्यनुपलब्धी इति यथायोगम-
न्वयः “येन यस्याभिसम्बन्धो दूरस्थस्यापि तस्य सः” न्यायात्
तदेवं स्थूलो नीलः कलस इति प्रात्यक्षिकप्रत्यये यथा
नीलं रूप विषयस्तथा परिमाणमपि तेन च परिमाणेन
परमाणुपर्य्यन्तं परिमाणमुन्नीयते द्रव्यत्वाच्च किञ्च द्रव्य-
पत्यक्षतायां रूपवत् परिमाणमपि कारणं न हि
महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं भवति तथाच द्रव्यप्रत्यक्ष-
कारणत्वेन स्वयञ्च प्रत्यक्षतया परिमाणं गुणोऽस्तीति
निश्चीयते, यदि हि घटादिस्वरूपं परिमाणं स्यात् तदा
महदानयेत्युक्ते घटमात्रमानयेत् तथा च प्रैषसंप्रतिपत्ती
विरुद्ध्येयातामु एवं घटपदात् परिमाणं प्रतीयेत
परिमाणपदाद्वा घट इति । मानव्यवहारासाधारणकारणत्वं
द्रव्यसाक्षात्कारकारणविषयनिष्ठसामान्यगुणत्वंवा भहत्त्वत्वं
मानव्यवहारोऽत्र हस्तवितस्त्यादिव्यवहारो न तु
पलसङ्ख्यादिव्यवहारः । तच्च परिमाणञ्चतुर्विधं महत्त्वमणुत्वं
दीर्घत्वं ह्रस्वत्वञ्च, तत्र परममहत्त्वपरमदीर्घत्वे विभु-
चतुष्टयवर्त्तिनी परमाणुत्वपरमह्रस्वत्वे परमाणुवर्त्तिनी
अवान्तराणुत्वावान्तरह्रस्वत्वे द्व्यणुकवर्तिनी त्रसरेणुमारभ्य
महावयविपयेन्तं महत्त्वदीर्घत्वे, । एवञ्च सर्वाण्यपि
द्रव्याणि परिमाणद्वयवन्ति । विल्वामलकादावणुत्वव्यव-
हारःसमिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारोभाक्तः,
भक्तिश्चात्र प्रकर्षभावाभावः । आमलके यः प्रकर्षभावस्त-
स्याभावः कुबले, विल्वे यः प्रकर्षभावस्तस्याभाव आम-
लके, स च गौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः
दीर्घत्वह्रस्वत्वे नित्ये न वर्तेते इत्येके, परिमाणे एव
ते न भवत इत्यपरे, महत्सु दीर्घमानीयतामितिवत्
महत्सु वर्तुलं त्रिकोणञ्चानीयतामिति निर्धारणबला-
द्वर्तुलत्वादीनामप्यापत्तेरिति तेषामाशयात् । इदानीं
परिमाणकारणानि परिसञ्चष्टे” उप० वृ० । “कारणबहुत्वाच्च”
सू० “चकारोमहत्त्वप्रचयौ समुच्चिनोति, परिमाणमुत्पद्यते
इति सूत्रशेषः, तत्र कारणबहुत्वं केवलं त्र्यणुके
महत्त्वदीर्घत्वे जनयति महत्त्वप्रचययोस्तत्कारणेऽभावात् तच्च
वहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्बुद्धेरनेकविषयत्वेऽप्य-
दृष्टविशेषोपग्रहोनियामकः । एवं परमाणुद्वयगतं द्वित्वं
द्व्यणुके परिमाणोत्पादकं वक्ष्यते द्वाभ्यां तन्तुभ्यामप्रचि-
ताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायिकारणं बहु
त्वप्रचययोस्तत्राभावात् । यत्र च द्वाभ्यां तूलकपिञ्जाभ्यां
तूलकपिञ्जारम्भस्तत्र परिमाणोत्कर्षदर्शनात् प्रचयः
कारणं बहुत्वस्याभावात् महत्त्वस्य सत्त्वेऽपि परिमाणो-
त्कर्षं प्रत्यप्रयोजकत्वात् । एवञ्च सति यदि महत्त्वं तत्र
कारणं तदा न दोषः तदुक्तम् “द्वाभ्यामेकेन सर्वैर्वा”
इति । प्रचयश्च आरम्भकः संयोगः, स च स्वाभिमुख-
किञ्चिदवयवासंयुक्तत्वे सति स्वाभिमुखकिञ्चिदवयवसं-
योगलक्षणः, स चावयवसंयोगः स्वावयवप्रशिथिलसंयो-
गापेक्षः परिमाणजनकः गुणकर्मारम्भे सापेक्ष इति
वचनात्” उप० वृ० ।
“एतेन दीर्घत्वह्रस्वत्वे व्याख्याते” सू० “अणुत्वमहत्त्व-
प्रक्रियां दीर्घत्वह्रस्वत्वयोरतिदिशति । ह्रस्वत्वदीर्घत्वे
अपि न ह्रस्वत्वदीर्घत्ववती । महत्त्वोत्पादकमेव दीर्घत्वो-
त्पादकमणुत्वोत्पादकमेव ह्रस्वत्वोत्पादकम्, कारणैक्यात्
कथं कार्य्यभेद इति चेन्न प्रागभावभेदेन पाकजवदुपपत्तेः
यत्रैव महत्त्वं तत्र दीर्घत्वं यत्राणुत्वं तत्र नित्यं ह्रस्वत्व-
मित्याद्यतिदेशार्थः” उप० वृ० । “अनित्येऽनित्यम्” सू० ।
“इदानीं विनाशकमाह एतच्चतुर्विधमपि परिमाणं
विनाशिनि द्रव्ये वर्त्तमानमाश्रयनाशादेव नश्यति न तु
विरोधिगुणान्तरात् । घटे सत्यपि तत्परिमाणं विनश्यति
कथमन्यथा कम्बुभङ्गेऽपि स एवायं घट इति प्रत्यभि-
ज्ञेति चेन्न आश्रयनाशेन तत्र वटनाशावश्यकत्वात्
न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुके नष्टे
तदाश्रितस्य त्रसरेणोस्तदाश्रितस्य चूर्णशर्करादेरविनाश इति
युक्तिरभ्युपगमो वा, कथं तर्हि प्रत्यभिज्ञेति चेत्,
पृष्ठ ३६११
सैवेयं दीपकलिकेति प्रत्यभिज्ञानवद्भ्रान्तित्वात् । प्रदी-
पप्रत्यभिज्ञाऽपि प्रमैव, ह्रस्वत्वदीर्घत्वे परमुत्पादविनाश
शालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुप-
पत्तेरुक्तत्वात् । तत् किं पार्थिवपरमाणुरूपादिवत्
परमाणुगतमणुत्वं शब्दबुद्ध्यादिवदाकाशादिगतं महत्त्व-
मपि नश्यतीत्यत आह उप० वृ० । “नित्ये नित्यम्” सू०
“नित्येष्वाकाशादिषु परमाणुषु च यत् परिमाणं
तन्नित्यंविनाशकाभावात्” उप० वृ० ।
सांख्यसूत्रभाष्ययोस्तु परिमाणद्वैविध्यं व्यवस्थापितं यथा
“न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात्” सू० ।
“अणु महद्दीर्घं ह्रस्वमिति परिमाणचातुर्विध्यं नास्ति ।
द्वैविध्यं तु वर्त्तत एव द्वाभ्यां तद्योगात् द्वाभ्या-
मेवाणुमहत्परिमाणाभ्यां चातुर्विध्यसम्भवादित्यर्थः ।
महत्परिमाणस्यावान्तरभेदावेव हि ह्रस्वदीर्घौ । अन्यथा
क्रवादिरूपैः परिमाणानन्त्यप्रसङ्गादिति । तत्रास्मन्नयेऽ-
णुपरिमाणमाकाशस्य कारणं गुणविशेषं वर्जयित्वा भूते-
न्द्रियाणां मूलकारणेषु सत्त्वादिगुणेषु मन्तव्यम् । अन्यव
यथायोग्यं मध्यमादिपरममहत्त्वान्तपरिमाणानि तानि
च महत्त्वस्यैवावान्तरभेदा इति” ।
दीर्घत्वे कारणञ्च पार्श्वतीयोजितायवबाहुल्यादिकम् स्थूलत्वे
तु ऊर्द्धाधःस्थितावयवबाहुल्यादिकमिति भेदः । कालस्य
दीर्घत्वप्रजोजकं तदुपाधेर्बहुकालस्थायित्वं तदभिप्रेत्यैव
“दीर्घकालनैरन्तर्य्यादरसेवितात्” योगशास्त्रे “दीर्घयामा
त्रियामा” इति काव्ये च प्रयोगः । २ व्याकरणपरिभाषिते
द्विमात्रकालेनोच्चार्ये (आ ई ऊ) प्रभृतौ वर्णे च ।
“ऊकालोऽजह्रस्वदीर्घप्लुतः” पा० “एकमात्रो भवेद्
ह्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो
ज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” शिक्षा । “गुहानिवद्ध-
प्रतिशब्ददीर्घम्” रघौ शब्दस्य गुणत्वेऽपि दीर्घत्वं
बहुकालस्थायित्वेन भाक्तम् । एवं “हृदयकुसुमशोषी
दारुणोदीर्घशोकः” “सा दीर्घं रोदिति विक्षिपत्यत इतः
क्षामा भुजाबल्लरीम्” सा० द० शोकरोदनयोर्दीर्घत्वं
बहुकालस्थायित्वाद् भाक्तमेव । ३ लताशालवृक्षे ४ इत्कटे पु०
रत्नमाला । ५ रामशरे पु०६ उष्ट्रे पुंस्त्री० राजनि० स्त्रियां
जातित्वात् ङीष् । “वृश्चिककन्यामृगपतिबणिजो दीर्घाः”
ज्यो० त० उक्तेषु ७ सिंहकन्यातुलावृश्चिकराशिषु पु० ।

दीर्घकणा स्त्री नित्यकर्म० । श्वेतजीरके राजनि० ।

दीर्घकण्टक पु० दीर्घः कण्टको यस्य । वर्वुरे (वावला) राजनि०

दीर्घकण्ठ पुंस्त्री० दीर्घः कण्ठो यस्य । १ वके शब्दच०

स्त्रियां जातित्वात् ङीष् । २ दानवभेदे पु० ३ आयतक
ण्ठकमात्रे त्रि० “विक्षरोदीर्घकण्ठश्च मद्यपो मारुताशनः
हरिवं० २४० अ० कर्म० । ४ आयते कण्ठे पु० । व कप् ।
दीर्घकण्ठक । वकखगे शब्दच०

दीर्घकन्द न० दीर्घः कन्दोऽस्य । १ मूलके । दीर्घः कन्दो यस्याः

कप् अत इत्त्वम् । दीर्घकन्दिका २ मषल्याम् स्त्री
राजनि० ।

दीर्घकन्धर पुंस्त्री दीर्घः कन्धरोऽस्य । १ वकखगे राजनि० ।

स्त्रियां ङीष् । २ दीर्घकन्धरयुक्ते त्रि० कर्म० । ३ दीर्घे
कन्धरे पु० ।

दीर्घकाण्ड पु० दीर्घः काण्डोऽस्य । १ गुण्डतृणे २ पातालग-

रुडीलतायां ३ तिक्ताङ्गायां स्त्री राजनि० ।

दीर्घकील पु० दीर्घः कीलो यत्र । १ अङ्कोटके वृक्षे वा कप् ।

दीर्घकीलक तत्रैवार्थे कर्म० । २ दीर्घे कीले पु० न० ।

दीर्घकूर न० दीर्घं कूरम् । आन्ध्रदेशोद्भवे शालिभेदे राजान्ने

राजनि०

दीर्घकेश पुंस्त्री० दीर्घः केश इव लोमास्य । १ भल्लूके राजनि०

स्त्रियां जातित्वात् ङीष् । २ आयतकेशयुते त्रि० स्त्रियां
स्वाङ्गत्वात् वा ङीष् । “दीर्घकेशी सुमध्या” वृहन्नाटकम्
वृ० सं० १४ अ० कूर्म्मविभागे उक्ते पश्चिमोत्तरदिक्स्थे ३ देशभेदे
च यथा “एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च” ।

दीर्घकोशि(षि)का स्त्री दीर्घः को(शो)षो यस्याः कप्

अतैत्त्वम् (झिनुक) दुर्णामायाम् अमरः । तालव्यम-
ध्योऽपि भरतः ।

दीर्घगति पु० दीर्घा गतिरस्य । १ उष्ट्रे राजनि० तस्य

पादविक्षेपस्य बहुदेशान्तरितत्वात्तथात्वम् ।

दीर्घग्रन्थि पु० दीर्घो ग्रन्थिः पर्व यस्य । गजपिपल्याम् । राजनि० ।

दीर्घग्रीव पुंस्त्री० दीर्घा ग्रीवा यस्य । १ उष्ट्रे राजनि० २

नीलक्रौञ्चे हेमच० । स्त्रियां जातित्वात् ङीष् । ३ पश्चिमो-
त्तरदिक्स्थे देशभेदे पु० दीर्घकेशशब्दे दृश्यम् ।

दीर्घघाटिक पुंस्त्री० दीर्घा घाटाऽस्त्यस्य ठन् । १ उष्ट्रे शब्दमाला ।

दीर्घचञ्चु पु० दीर्घा चञ्चुरस्य । खगभेदे पारस्करनि० ।

दीर्घच्छद पु० दीर्घाश्छदा यस्य । १ इक्षौ शब्दार्थचि० । ३ दीर्घ-

च्छदके त्रि० कर्म्म० । ३ दीर्घे छदे पु० ।

दीर्घजङ्गल पुंस्त्री० नित्यकर्म० । भङ्गानमत्स्ये (भाङन)

शब्दमाला स्त्रियां ङीष् ।
पृष्ठ ३६१२

दीर्घजङ्घ पुंस्त्री० दीर्घा जङ्घा यस्य । १ उष्ट्रे जटाध०!

२ वके त्रिकाण्ड० स्त्रियां ङीष् । ३ दीर्घजङ्घायुक्ते
असुरादी त्रि० कर्म० । ४ दीर्घायां जङ्घायाम् स्त्री

दीर्घजिह्व पुंस्त्री० दीर्घा जिह्वा यस्य । १ सर्पे हेमच० स्त्रियां

ङीष् । ३ दानवभेदे पु० “गविष्ठश्च वनायुश्च दीर्घजिह्वश्च
दानवः” भा० आ० ६५ अ० ४ राक्षसभेदे स्त्रियां टाप् ।
“द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम्”
भा० व० २७९ अ० । ५ कुमारानुचरमातृगणभेदे “जाटा-
लिका कामचरी दीर्घजिह्वा बलोत्कटा” भा० श० ४७ अ०
“दीर्घजिह्वी च छन्दसि” पा० नि० पुंस्यपि ङीष् ६ कक्वुरे
च “अप श्वानं श्लथिष्ट न सखायो दीर्घजिह्व्यम्” ऋ०
९ । १०१ । १ ।

दीर्घजीविन् त्रि० दीर्घं बहुकालं जीवति जीव--णिनि ।

बहुकालजीविनि । “तत्र कालेन जायन्ते मानवा दीर्घ-
जीविनः” मनुः ।

दीर्घतन्तु पु० दीर्घास्तन्तवः स्तुतयोऽस्य । प्रभूतस्तुतिके देवादौ

“दीर्घतन्तुर्वृहदुक्षा यमग्निः” ऋ० १० । ६९ । ७२ दीर्घ-
कालव्यापिसन्तानके । कर्म० । ३ दीर्घे तन्तौ पु० ।

दीर्घतपम् त्रि० दीर्घं बहुकालव्यापकं तपोऽस्य । १

बहुकालव्यापकतपस्के २ आयुवंश्ये नृपभेदे पु० “काश्यस्य
काश्यपः पुत्रो राजा दीर्घतपास्तथा । धन्वस्तु दीर्घतपसो
धन्वात् धन्वन्तरिः सुतः” हरिवं० २९ अ०
आयुवंशोक्तौ ।

दीर्घतमस् पु० उतथ्यर्षेः पुत्रे गुरुशापात् अन्धतां प्राप्ते

ऋषिभेदे तत्कया उतथ्यशब्दे १०७५ पृ० उक्ता दृश्या
“म वै दीर्घतमा नाम शापादृषिरजायत । वृहस्पतेर्वृ-
हत्कीर्त्तेर्वृहस्पतिरिवौजसा । जात्यन्धो वेदवित् प्राज्ञः
पत्नीं लेमे स विद्यया” भा० आ० १०४ अ० “ऋषिर्दीर्घतमा
नाम जात्यन्धो गुरुशापतः । त्वत्प्रसादाच्च चक्षुष्मां-
स्तेन सत्येन मोक्षय” हरिवं० २६३ अ० “दीर्घतमा-
मामतेयो जजुर्वान् दशमे युगे” ऋ० १ । १५८ । ६

दीर्घतरु पु० नित्यकर्म० । तालवृक्षे शब्दार्थकल्प० । २ दीर्घे

वृक्षमात्रे च ।

दीर्घतिमिष स्त्री तिम--बा किषन् नित्यकर्म० । कर्कट्याम् शब्दमाला ।

दीर्घतुण्डा स्त्री दीर्घं तुण्डमस्याः । १ छुछुन्दर्यां भावप्र० ।

२ दीर्घमुखयुक्ते गजादौ पुंस्त्री० । कर्म० । ३ दीर्घे तुण्डेन०

दीर्घतृण पु० दीर्घं तृणमत्र । १ पल्लिवाहे राजनि० कर्म्म० ।

२ दीर्थे तृणे न०

दीर्घदण्ड पु० दीर्थो दण्ड इव काण्डेन । १ एरण्डवृक्षे २ गो-

रक्ष्यां स्त्री भावप्र० गौरा० ङीष । ३ गोरक्षीवृक्षे स्त्रीटाप्
राजनि० ।

दीर्घदर्शिन् पु० दीर्थं दीर्थात् वा पश्यति दृश--णिनि ।

१ भाविकार्य्यज्ञे २ पण्डिते च अमरः । ३ गृध्रे पु० शब्द-
रत्ना० । ४ भल्लूके राजनि० । ५ दूरात् दर्शके त्रि० ।
“स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्” भा० स०
४८ अ०

दीर्घदृष्टि पु० दीर्घा दृष्टिरस्य । १ पण्डिते । दीर्घा दूरतो दृष्टिर्येन ३ ब० ।

२ दूरवीक्षणे यन्त्रभेदे हला०

दीर्घद्रु पु० नित्यकर्म० । १ तालवृक्षे शब्दच० कर्म्म० । २ दीर्घे वृक्षे

दीर्घद्रुम पु० नित्यकर्म० । शाल्मलिवृक्षे (शिमुल) राजनि० ।

दीर्घनाद पु० दीर्घो दूरगामित्वात् विस्त्रीर्णो नादोऽस्य

क्षुभ्रा० न णत्वम् । १ शङ्खे राजनि० २ बहुकालस्थायि-
शब्दयुक्ते घण्टादौ त्रि० । कर्म्म० । ३ आयते शब्दे पु० ।

दीर्घनाल पु० दीर्घं नालं यस्य । १ यावनाले हेमच० गुण्ड-

तृणे २ दीर्घरोहिषके न० राजनि० ।

दीर्घनास त्रि० दीर्घा नासाऽस्य । १ दीर्घनासिकान्विते ।

“वकघाती दीर्घनासो दद्यात् गां घवलप्रभाम्” शातातपेन
तत्कर्मविपाक उक्तः । कर्म्म० । २ दीर्घायां नासायां स्त्री

दीर्घनिद्रा स्त्री नित्यकर्म० । १ मरणे कर्म० । २ चिरकालव्या-

पिन्यां निद्रायाञ्च “अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा
भवान् । रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः” रघुः ।

दीर्घपक्ष पु० दीर्घौ पक्षौ यस्य । १ कलिङ्गखगे शब्दच० ।

२ दीर्घपक्षयुक्ते खगमात्रे पुंस्त्री० ।

दीर्घपटोलिका स्त्री कुत्सिता पटली कन् कर्म० । (धुँधुल)

ख्यातायां लतायाम् राजवल्लभः ।

दीर्घपत्र पु० दीर्घं पत्रं यस्य । १ राजपलाण्डौ २ विष्णुकन्दे

३ हरिदर्भे ४ कुन्दरे ५ तालवृक्षे च राजनि० ६ कुपीलौ
भावप्र० कप्संज्ञायां कन् बा । दीर्घपत्रक ७ रक्तलशुने
८ एरण्डे ९ हिज्जले १० वेतसे च राजनि० । ११ करीरवृक्षे
शब्दच० १२ जलजमधूके जटाध० १३ लशुने हेमच० कापि
अत इत्त्वम् । दीर्घपत्रिका १४ श्वेतवचायां १५ शालपर्ण्यां
१६ घृतकुमार्य्याञ्च स्त्री राजनि० ।

दीर्घपत्रा स्त्री दीर्घं पत्रं यस्याः । १ चित्रपर्णिकायां (चाकु-

लिया) भेदे ३ ह्रस्वजम्बुवृक्षे रत्नमाला ३ गन्धपत्रायां
४ केतक्यां ५ टोरीवृक्षे च राजनि० । गौरा० ङीष दीर्घपत्री
६ पलाशीलतायां ७ महाचञ्च शाके स्त्री राजनि० ।

दीर्घपर्णी स्त्री दीर्घं पर्णं यस्याः गौरा० ङीष् । पृश्निप-

र्ण्याम् राजनि० ।
पृष्ठ ३६१३

दीर्घपल्लव पु० दीर्घः पल्लवोऽस्य । १ शणवृक्षे राजनि० २ आयत

पत्रयुक्ते त्रि० । कर्म० । ३ आयते पल्लवे पुंन० ।

दीर्घपाद् पु० दीर्घः पादोऽस्य अन्त्यलोपः समा० । कङ्कप-

पक्षि शब्दर० समासान्तविधेरनित्यत्वात् दीर्घपादीऽप्यत्र
हेमच० २ दीर्घपादयुक्ते त्रि० ।

दीर्घपादप पु० नित्यकर्म० । १ तालवृक्षे २ पूगे च राजनि० । कर्म० । ३ दीर्घे वृक्षे पु० ।

दीर्घपृष्ठ पुंस्त्री० दीर्घं पृष्ठमस्य । सर्पे अमरः स्त्रियां ङीष् ।

दीर्घप्रज्ञ पु० १ द्वापरयुगीये वृषपर्वासुरावतारे नृपभेदे “वृष-

पर्वेति विख्यातः श्रीमान् यस्तु महासुरः । दीर्घप्रज्ञ
इति ख्यातः पृथिव्यां सोऽभवन्नृपः!” । भा० आ०६७ अ०
“अभितौजसे तथोग्राय हार्द्दिक्यायाहुकाय च । दीर्घ-
प्रज्ञाय शूराय रोचमानाय वा विभी!” भा० उ० ३ अ० ।
२ दूरदर्शिनि त्रि० “काममूर्तिधरः क्रूरः कालकल्पीव्य
दृश्यत । तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः” भा०
व० ११ अ० ।

दीर्घफल पु० दीर्घाणि फलान्यस्य । १ आरग्वधे (सोन्धाल)

संज्ञायां कन् । दीर्घफलक । अगस्त्यवृक्षे पु० । वा कप्
कापि अत इत्त्वम् । दीर्घफलिका १ कपिलद्राक्षायां,
२ जतुकायाञ्च स्त्री राजनि०

दीर्घबाली स्त्री दीर्घः बालः केशो यस्याः स्वाङ्गत्वात् ङीष् । चमर्य्यां राजनि० ।

दीर्घबाहु पु० । दीर्घौ बाहू यस्य । १ शिवानुचरभेदे “तस्याग्रे

समपद्यन्त भूतसंघाः सहस्रशः” इत्युपक्रमे “दीर्घरोमा
दीर्घभुजो दीर्घबाहुर्निरञ्जनः” हरिवं० २७७ अ० ।
२ धृतराष्ट्रपुत्रभेदे “दीर्घवाहुर्महावाहुर्व्यूढोरुः कनका-
ङ्गदः” भा० आ० ६७ अ० । ३ आयतबाहुयुक्ते त्रि० “दीर्घ-
बाहुर्द्दिलीपस्य रघुर्नाम्नाऽभवत् सुतः” हरिवं०१५ अ०

दीर्घभुज पु० दीर्घौ भुजौ यस्य । १ शिवानुचरभेदे दीर्घबाहु

शब्दे दृश्यम् । २ दीर्घवाहुयुक्ते त्रि० कर्म० । ३ दीर्घे भुजे पु० ।

दीर्घमारुत पुंस्त्री दीर्घो मारुतो वेगवायुरस्य । गजे त्रिका०

स्त्रियां जातित्वात् ङीष् ।

दीर्घमूल पु० दीर्घं मूलं यस्य । १ मोरटालतायां, २ विल्वभेदे

च राजनि० । ३ लामज्जके न० । कर्म० संज्ञायां कन् । ४
मूलके राजनि० । ५ श्यामालतायां शालपर्ण्याञ्च स्त्री टाप्
रत्नमाला । ६ दुरालभायां स्त्री ङीप् शब्दमाला ।

दीर्घयज्ञ त्रि० दीर्घः बहुकालव्यापको यज्ञो यस्य । १ बहुका-

लव्यापकयज्ञकारिणि । २ द्वापरयुगीये अयोध्याधिप
राजभेदे पु० “अयोध्यायान्तु धर्मज्ञं दीर्घयज्ञं महावलम् ।
अजयत् पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा” भा० २९ अ० ।

दीर्घयाथ त्रि० या--कर्मणि थ । दीर्धकालेन याथः गन्तव्यः ।

दीर्घकालेन गन्तव्ये “वृथाऽसृजत् पथिभिर्दीर्घयाथैः”
ऋ० २ । १८ । ३ । “दीर्घायाथैर्दीर्घकालेन गन्तव्यैः” भा० ।

दीर्घरद पुंस्त्री० दीर्घो रदोऽस्य । १ शूकरे त्रिका० स्त्रियां

ङीष् । २ दीर्घदन्तयुते त्रि० कर्म० । ३ दीर्घे दन्ते पु० ।

दीर्घरसन पुंस्त्री० दीर्घा रसना जिह्वास्य । सर्पे शब्दच०

स्त्रिषां ङीष् ।

दीर्घरागा स्त्री दार्घो बहुकालस्थायी रागो रञ्जनं यस्याः ५ ब० । हरिद्रायाम् राजनि० ।

दीर्घरात्र न० दीर्घा बह्व्यो रात्रयः सन्त्यत्र अर्शआ० अच् ।

१ चिरकाले त्रिका० कर्म० । मुग्धबोधमते अ समा० । २
दीर्घायां रात्रौ “रात्राह्राहाः पुंसि” पा० उक्तेः पुंस्त्वम् ।

दीर्घरोमन् पु० दीर्घाणि रोमाण्यस्य । १ भल्लूके शब्दार्थकल्प० ।

२ शिवानुचरभेदे दीर्वबाहुशब्दे दृश्यम् । ३ धृतराष्ट्रपुत्रभेदे
च “प्रमथश्च प्रमाथो च दीर्घरोमा च वीर्यवान्” भा० आ०
११७ अ० अत्र सर्वे नान्ता अदन्ताः स्युरित्युक्तेरदन्तताप्यस्य

दीर्घरोहिषक न० नित्यकर्म० । कत्तृणे सुगन्घतृणभेदे राजनि०

दीर्घलोचन त्रि० दीर्घमायतं लोचनमस्य । १ आयतनेत्रके

२ शिवानुचरभेदे पु० “एते चान्ये च वहवो दीर्घास्या दीर्घ
लोचनाः” हरिवं०२७ अ० ३ धृतराष्ट्रपुत्रभेदे पु० “अनाधृष्यः
कुण्डभेदी विरावी दीर्घलोचनः” भा० आ० ६७ अ० ।
धृतराष्ट्रपुत्रोक्तौ । कर्म० । ४ आयते नेत्रे न०

दीर्घवंश पु० दीर्घो वंश इव । नलतृणे राजनि० कर्म्म० ।

२ सन्तते कुले च ।

दीर्घवक्त्र पुंस्त्री० दीर्घं वक्त्रमस्य । १ गजे शब्दमा० स्त्रियां

जातित्वात् ङीष् । २ आयतमुखयुक्ते त्रि० स्त्रियां स्वाङ्ग-
त्वेऽपि टाप् कर्म० । ३ आयते मुखे न०

दीर्घवच्छिका स्त्री दीर्घवत् दीर्घेण तुल्यं शीकते सिञ्चति

शीक--क पृषो० ह्रस्वः । कुम्भीरे शब्दार्थकल्प० ।

दीर्घवर्षाभू पुंस्त्री० नित्यकर्म० । श्वेतपतर्णवायाम् पारस्करनि०

दीर्घवल्ली स्त्री नित्यकर्म्म० । १ पलाश्यां, २ पातालगरुडील-

तायां ३ माहेन्द्रवारुण्याम् राजनि० कर्म० । ४ आयतायां
लतायाञ्च

दीर्घवृक्ष पु० नित्यकर्म० । १ शालवृक्षे २ तालवृक्षे च पारस्करनिघण्टुः ।

दीर्घवृन्त(क) पु० दीर्घं वृन्तमस्य । श्योनाके वृक्षे । वा

कप् । तत्रार्थे । २ इन्द्रचिर्भट्यां स्त्री टाप् अमरः ।
संज्ञायां कन् अत इत्त्वम् दीर्ववृन्तिका । एलापर्ण्याम्
स्त्री रत्नमाला ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/दिद्यु&oldid=57774" इत्यस्माद् प्रतिप्राप्तम्