वाचस्पत्यम्/तान

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३२६८

तान पु० तन--घञ् । १ विस्तारे अवतानः सन्तानः । “मूर्वा

गुड्चीतानैरासीव्येत्” सुश्रुतः । २ ज्ञानविषये शब्दार्थकल्प०
३ गानाङ्गभेदे । “विस्तार्य्यन्ते प्रयोगा ये मूर्च्छना
शेषसंश्रयाः । तानास्तेऽप्यूनपञ्चाशत् सप्तस्वरसमुद्भवाः ।
तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक् पृथक् ।
ते स्युः पञ्च सहस्राणि स्त्रयस्त्रिंशत् शतानि च”
सङ्गी० दा० “तानप्रदायित्वमिवोपगन्तुम्” कुमा० ।
“गाता यं यं स्वरं गच्छेत् तं तं वंशेन तानयेत्”
मल्लिनाथधृतम् । “गायन्ति दिव्यतानैस्ते भा० स० ४ अ० ।

तानव न० तनोर्भाव० पृथ्वा० पक्षे अण् । तनुत्वे “तानवं

तनुता गात्रे दौर्बल्यभ्रमणादिकृत्” उज्वलमणिः
“अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात् कुतः” अमरः ।

तानव्य पुंस्त्री तनोरपत्यं गर्गा० यञ् । तनोरपत्ये स्त्रियां

लोहि० ष्फ षित्त्वात् ङीष् । तानव्यायनी ।

तानूनप्त्र न० तानूनप्ता देवताऽस्य अण् । तनूनप्तृदेवताके

पृषदाज्ये “तानूनप्त्रं गृह्णामि कांस्ये चमसे वा”
मानवसू० । “तानूनप्त्रमेतत्” कात्या० श्रौ० ८ । १ । २४ ।
“एतदाज्यं तानूनप्त्रसंज्ञं भवति” कर्कः । “तदेतत्तानूनप्त्रं
निदानेन” शत० ब्रा० ३ । ४ । २ । ८ “तानूनप्ता च प्रजा-
पतिः वायुर्वा” तनूनप्तृशब्दे दृश्यम् ।

तानूर पु० तन--वा० उष्ण् । पयसां स्वतोभ्रमे आवर्त्ते त्रिका० ।

तान्त त्रि० तम--क्त । १ म्लाने २ क्लान्ते च । शब्दार्थकल्प० ।

“मृदुलतान्तलतान्तमलोकयत्” “रतिरभसविलासाभ्यास-
तान्तं न यावत्” माघः । “अलसतान्ततारकेण” दशकुमा० ।

तान्तव न० तन्तोर्विकारः अञ् । वस्त्रे “मणिमुक्ताप्रवालानां

लोहानां तान्तवस्य च” “सर्वञ्च तान्तवं रक्तं शाणक्षौ-
माविकानि च” मनुः ।

तान्तव्य पुंस्त्री तन्तोः सन्तानस्यापत्यं गर्गा० यञ् । तन्तो-

रपत्ये स्त्रियां लोहिता० ष्फ षित्त्वात् ङीष् । तान्तव्यायनी ।

तान्तुवायि पुंस्त्री तन्तुवायस्यापत्यं “उदीचामिञ्” पा०

इञ् । तन्तुवायस्यापत्ये । अन्यमते सेनान्तलक्षणका-
रिभ्यः” पा० ण्य । तान्तवाय्य तदर्थे ।

तान्त्रिक त्रि० तन्त्रं सिद्धन्तं वेत्ति शास्त्रमधीते वा उक्था०

ठक् । १ ज्ञातसिद्धान्ते २ शास्त्राभिज्ञे च “एवं प्रयत्नत्रैविध्यं
तान्त्रिकैः परिकीर्त्तितम्” भाषा० तन्त्रे विहितः ठक् ।
३ तन्त्रविहिते त्रि० स्त्रियां ङीप् “वैदिकी तान्त्रिकी
सन्ध्या यथानुक्रमयोगतः” तन्त्रम् । इदमर्थे ठञ् ।
४ शास्त्रसम्बन्धिनि च । अथातो धर्म्मं व्याख्यास्यामः
श्रुतिप्रमाणको धर्म्मः श्रुतिश्च द्विविधा वैदिकी तान्त्रिकी
च” हारीतः ।

तान्दुर न० तन्दुरेण पाकयन्त्रभेदेन निर्वृत्तम् अण् । तन्दूर-

पक्वे मांसभेदे तत्पाकविधिः शब्दार्थचि० धृतवाक्ये यथा
“अङ्गारपूर्णगर्त्ते यदलग्नमवलम्बितम् । संस्कृतं
पिहितं मांसं पक्वं तान्दुरमुच्यते” सुस्वादु तान्तुरन्तु ।
“पचेद्गर्त्तेऽन्तरीक्षस्थं लम्बि सम्भारसम्भृतम् । चतुर्दिङ-
मण्डलाकारं पार्श्वप्रज्वलितानले । विपक्वं सुरभि स्वादु
तान्दूरमिति कीर्त्तितम् । अन्यच्च । “कोथिकायां
सुसम्भारमलग्नमवलम्बितम् । मांसं पिधाय बाह्याग्नि-
ज्वालया स्वेदितम् वरम् । तान्दुरं रुचिदं बल्यं मृदु
पथ्यतमं स्मृतम् । सद्योहतं नवं स्थूलमन्यथा
दोषकारणमिति”

तान्व पु० तन्वाः प्राणाधिष्ठितत्वात् प्राणवत्या अयम्

“प्राणिरजतादिभ्योऽञ्” पा० अञ् संज्ञापूर्वकविधेरनित्य-
त्वात् वेदे न गुणः । तनूजे पुत्रे । “न जामये तान्वा-
रिक्थम्” ऋ० ३ । ३१ । २ । तनुनामकस्य ऋषेरपत्यम्
प्राणित्वात् अञ् पूर्ववद्गुणाभावः । २ ऋषिभेदे । “सद्यो
विदिष्ट तान्वः” ऋ० १० । ९४ । १५ । तान्वो नामर्षिः” भा० ।
तनु दशापवित्रवस्त्रम् तस्येदम् अण् पूर्ववद्गुणाभावः ।
३ दशापवित्रवस्त्रसम्बन्धिनि “जहद्धर्म्माणि तान्वा” ऋ०
९ । १४ । ४ । “तान्वा तान्वानि छान्दस आच्” भा० । स्वार्थे
अण् । ४ दशापवित्रवस्त्रे च । “गृभ्णाति रिप्र विरस्य
तान्वा” ऋ० ९ । ७८ । “तान्वा स्वकीयेन वस्त्रेण” भा०
पूर्ववत् तृतीयास्थाने आच् ।

ताप पु० तप--घञ् । क्लेशजनके उष्णादिस्पशेजन्ये १ सन्तापे

२ कृच्छ्रे च मेदि० । “निदाघकालोल्बणतापयेव”
कमा० । “करम्भवालुकातापान् कुम्भीषाकांश्च
दारुणान्” मनुः ।

तापक त्रि० तापयति तापि--ण्वुल् । १ तापकारके २ ज्वरे पु०

शब्दर० । ३ रजीगुणे च तप्यं सत्त्वं तापकं रजः सा०
शास्त्रे प्रसिद्धम् । “सत्त्वं तप्यं बद्धिभावेल वृत्तं
भावाये वा राजसास्तापकास्ते । तफा भेदग्राहिणी
तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मेति” सवद० ।
पृष्ठ ३२६९

तापत्य पुंस्त्री तपत्याः सूर्य्यकत्यायाः अपत्यम् क्षत्रियत्वात्

ण्य । कौरवे तपत्यपत्ये तपतीशब्दे दृश्यम् । तपत्या
उपाख्यान ष्यञ् । २ तपत्युपाख्याने न० । तापत्यमथ
वाशिष्ठमौर्वं चाख्यानमुत्तमम्” भा० आ० १ अ० ।
तदाख्यानं च भा० आ० चैत्ररथपर्वणि १७२ अध्याये दृश्यम् ।

तापत्रय न० ६ त० । आध्यात्मिकाधिदैविकाधिभौतिकरूपे

दुःखत्रये । “आध्यात्मिकादि मैत्रेय! ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं फलम्” विष्णुपु० ।

तापदुःख न० तापरूपं दुःखम् । “पातञ्जलोक्ते दुःखभेदे

“परिणामतापसस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव
सर्वं विवेकिनः” सू० । “ते जन्मायुर्भोगाः पुण्य-
हेतकाः सुखफलाः, अपुण्यहेतुकाः दुःखफला
इति । यथा चेदं दुःखं प्रतिकूलात्मकं एवं विषय
सुखकालेऽपि दुःखमस्त्येव प्रतिकलात्मकं योगिनः ।
कथं तदुपपद्यते” । “अथ का तापदुःखता सर्वस्य द्वेषानु-
त्रिद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति । तत्रास्ति
द्वेषजः कर्म्माशयः सुखसाधनानि च प्रार्थयानः
कायेन वाचा मनसा च परिस्पन्दते ततः परमनु-
गृह्णात्युपहन्ति वेति परानुग्रहपीड़ाभ्यां धर्म्माधर्मा-
वुपचिनोति स कर्म्माशयो लोभान्मोहाच्च भवती-
त्येषा तापदुःखतोच्यते” भा० । “ते जन्मायुर्भोगा इति
यद्यपि जन्मायुषोरेव ह्लादपरितापपूर्वभावितया
तत्फलत्वं न तु भोगस्य ह्लादपरितापोदयानन्तरभाविन-
स्तदनुभवात्मनस्तथाप्यनुभाव्यतया भोग्यतया भोगकर्म्म-
तामात्रेण भोगफलत्वमिति मन्तव्यं नन्वपुण्यहेतुका
जात्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकुलवेदनी-
यत्वात् । कस्मात्? पुनः पुण्यहेतवस्त्यज्यन्ते सुखफलाः
अनुकूलवेदनीयत्वात्, न चैषां प्रत्यात्मवेदनीयानुकूलता
शक्या सहस्रेणाप्यनुमानागमैरपाकर्त्तुं, न च ह्लाद-
परितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने-
नैव परितापोऽप्यवर्जनीयतयापतेत् तयोर्भिन्नहेतु-
कत्वाद्भिन्नरूपत्वात् चेत्यत आह यथाचेदमिति” विवरणम् ।

तापन न० तप--णिच्--भावे ल्युट् । (तापान) १ तापकरणे

हेमच० । तापि--कर्त्तरि ल्यु । २ सूर्य्ये ३ कामवाणभेदे पु०
जटाध० । ४ सूर्य्यकान्तमणौ राजनि० । ५ अर्कनामनामके
अर्कवृक्षे च । ६ तापके त्रि० । “ततोऽम्बराच्चिन्तितमात्र-
मागतं महाप्रभं चक्रममित्रतापनम्” भा० आ० १९ अ० ।
“ततस्तु राजानममित्रतापनं समीक्ष्यते तस्य नृपस्य
मन्त्रिणः” ४४ अ० ।

तापनीय न० उपनिषद्भेदे । उपनिषच्छब्दे १२२२ पृ० दृश्यम् ।

गोपालतापनीयः नृसिंहतापनीयः । तपनीयस्य स्वर्णस्य
विकारः अण् । २ स्वर्णमये त्रि० “तापनीये तथा घण्टे
कक्षोपरिविलम्बिते” हरिवं० ८७ अ० । जातरूपेभ्यः
परिमाणे अण् । ३ स्वर्णनिष्कपरिमाणे सुवर्णे न० ।

तापश्चित न० तपसि चीयते चि--क्त स्वार्थे अण् । सत्त्रभेदे

तद्विधानादि कात्या० श्रौ० २४ । ५ । १ । यथा
“तापश्चितम् दीक्षाः संवत्सरमुपसदश्च तथा सुत्याः”
सू० “तापश्चितमिति सत्रनाम तत्र दीक्षाः संवत्सरं
भवन्ति उपसदः सुत्याश्च” इदानीमहान्याह अत्र
सुत्या आह” कर्कः “गवामयनेनेयुः” २ सू० । गवामय-
नमेव कर्त्तव्यमित्यर्थः । “अग्निष्टोमेन वा” ३ सू० “ईयुः
अपूर्वश्चायमग्निष्ठोमः नैकाहिको न द्वादशाहिकः संस्था-
मात्रोपदेशात् । अग्निष्टोमसंस्थेन ज्योतिष्टोमेन पूरणं
कर्त्तव्यम्” कर्कः । शत० ब्रा० १० । २ । ५ । ३ तन्निरुक्तिर्दर्शिता
यथा “एतदुह यज्ञे तपः । यदुपसदस्तपो वा उपसद-
स्तद्यत्तपसि चीयते तस्मात् तापश्चितस्तद्वै यावदेवोपसद्भि-
श्चरन्ति तावत् प्रवर्ग्येण संवत्सरमेवोपसद्भिश्चरन्ति संवत्स-
रप्रवर्ग्येण” “यावतीरुपसदः कुर्य्यात्तावद्भिः प्रवर्ग्यैश्चरि-
तव्यम् उपसदः तापश्चिते चयने संवत्सरसंमिताः” भा० ।

तापस त्रि० तपस्तच्चरणं शीलमस्य छत्रा० ण । १ तपश्चरणशीले

स्त्रियां टाप् । तपोऽस्त्यस्य “अण् च” पा० अण् । तपो
विशिष्टे त्रि० । “तापसेष्वेव विप्रेषु यात्रिकं भैक्षमा-
चरेत्” मनुः । “सीदन्ति तापसकुलानि सगोकुलानि”
वृ० स० १९ अ० । स्त्रियां ङीप् “अब्रवीन्न स्मरामीति
कस्य त्वं दुष्टतापसि” भा० आ० ७४ अ० ।

तापसतरु पु० तापसहितस्तरुः शा० त० । इङ्गुदीवृक्षे

अमरः । तापसद्रुमादयोऽप्यत्र ।

तापसद्रुमसन्निभा स्त्री तापसद्रुमेण तुल्या निभा० नि०

स० । गर्भदात्रीक्षुपभेदे राजनि० ।

तापसपत्री स्त्री तापसप्रियं पत्रमस्याः जातित्वात् ङीष् ।

दमनकवृक्षे राजनि० ।

तापसप्रिय पु० तापसानां प्रियः छायाप्रदत्वात् । १ पियाल-

वृक्षे राजनि० । २ तापसप्रियमात्रे त्रि० ।

तापसेष्टा स्त्री तापसेन इष्टा । १ द्राक्षायां राजनि०

२ तापसाभिलषिते त्रि० ।

तापस्य न० तापसस्य धर्म्मः ष्यञ् । तापसधर्म्मे “स्त्रीधर्म-

योगं तापस्यं मोक्षं संन्यासमेव च । राज्ञश्च धर्ममखिलं
कार्य्याणां च विनिर्णयः” मनुः । “पुरा रामभयादेव तापस्यं
समुपाश्रितः” भा० व० २७६ अ० ।
पृष्ठ ३२७०

तापहर त्रि० तापं हरति हृ--ट । तापनाशके । स्त्रियां

ङीप् ङीबन्तः । २ व्यञ्जनभेदे (ताहरी) भाव० प्र०
“घृते हरिद्रासंयुक्ता मांसानां भर्जयेद्वटीः ।
तण्डुलांश्चापि निर्द्धौतान् सहैव परिभर्जयेत् । सिद्धि-
योग्यं जलं तत्र प्रक्षिप्य कुशलः पचेत् । लवणार्द्रक-
हिङ्गूनि मात्रया तत्र निःक्षिपेत् । एषा सिद्धिं
समायाता प्रोक्ता तापहरी बुधैः” । अस्या गुणाः । “भवेत्
तापहरी बल्या वृष्या श्लेष्माणमाहरेत् । वृंहणी
तर्पणी रुच्या गुर्वी तत्र गुणाः स्मृताः”

तापिक त्रि० तापे तापकाले भवं ठञ् । ग्रीष्मभवे जलादौ न० ।

तापिच्छ(ञ्ज) पु० तापिनं छादयति जयति वा छद +

जिवा ड पृषो० । १ तमालवृक्षे अमरः । “अक्ष्णोर्निक्षि-
पदञ्जनं श्रवणयोस्तापिच्छगुच्छाबलीम्” गी० गो० “प्रफुल्ल-
ताप्रिञ्छनिभैरभीषुभिः” माघः । २ धातुमाक्षिके राजनि०

तापिन् त्रि० तापयति तापि--णिनि । १ तापके तप--णिनि ।

२ तापयुक्ते त्रि० स्त्रियां वा ङीप् । ३ बुद्धदेवे पु० त्रिका०

तापी स्त्री तापयति अच् गौरा० ङीष् । विन्ध्याचलस्थे

पश्चिमवाहिनदीभेदे राजनि० । सा च माक्षिकधातू-
द्भवखनिसन्निकृष्टा । २ यमुनायां त्रिका० ।

तापीज पु० ताप्या नद्याः समीपे आकरभेदे जायते

जनड । माक्षिकधातौ “एवञ्च माक्षिकं धातुं तापीजम-
मृतोपमम् । मधुरं काञ्चनाभासमम्लं वा
रजतप्रभम् । पिबन् हन्ति जराकुष्ठमेहानाहामयक्षयान्”
सुश्रुतः तापीसम्भवताप्यताप्युद्भवादयोऽप्यत्र ।

तापेश्वर पु० तीर्थभेदे हेम० शि० पु० ।

ताम पु० ताम्यत्यनेन तम--करणे घञ् । १ भीषणे २ दोषे च

अजयपालः । ३ ग्लानिकारणे त्रि० भावे घञ् । ४ ग्लानौ पु०

तामर न० तामं ग्लानिं रवते हिनस्ति रुङ्--बधे बा० ड

१ जले २ घृते च भरतधृतरुद्रः ।

तामरस न० तामरे जले संस्ति सस--ड । १ पद्मे, ताम्यते-

ऽनेन रस्यते इति रसम् कर्म० । २ स्वर्णे ३ ताम्रे च मेदि० ।
४ धुस्तूरे, अमरः “इह वद तासरसं नजजायः” वृ० र०
उक्ते ५ द्वादशाक्षरपादके छन्दोभेदे च । “तामग्रतस्ताम-
रसान्तराभाम्” “स्वनवता नवतामरसाननः” “विकच-
तामरसा गृहदीर्घिकाः” रघुः । “नवरतममन्दराग-
तामरसदृशः” माघः । ५ पद्मिन्यां स्त्री ङीप् । “यथा
गजस्तामरसीं मदोत्कटः” भारते विराटपर्वणि ७ अ० ।

तामलकी स्त्री तम णिच्--क्विप् तान् कर्म० । भूम्यामलक्याम् ।

अमरः । “कटुकेन्द्रयवोशीरसिंहीतामलकीघनैः” सुश्रुतः

तामलिप्त पु० (तमलुक्) देशभेदे त्रिका० । स्वार्थे क ।

तत्रार्थे । स च देशः घृ० स० १४ अ० कूर्मविभागे प्राच्या-
मुक्तः “अथ पूर्वस्याम्” इत्युपक्रमे “एकपादतामलिप्त-
ककोशलकावर्द्धमानश्च” । गौरा० ङीष् तत्रार्थे स्त्री ।

तामस त्रि० तमोऽस्त्यस्य तमः, प्रधानत्वेनास्त्यस्य वा अण् ।

१ तमोगुणयुक्ते २ तमःप्रधानगुणके स्त्रियां ङीप् । ३ सर्पे
पुंस्त्री० जातित्वात् ङीष् । ४ खले त्रि० मेदि० ५ उलूके
पुंस्त्री राजनि० स्त्रियां ङीष् । ६ चतुर्थे मनौ पु० “सत्या
देवगणाश्चैव तामसस्यान्तरे मनोः । पुत्रांश्चैव प्रवक्ष्यामि
तामसस्य मनोर्नृप! । द्युतिस्तपस्यः सुतपास्तपोमूलस्त-
पोऽशनः । तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः ।
तामसस्य मनोरेते दश पुत्रा महाबलाः” हरिवं० ७ अ० ।
“चतुर्थे उत्तमभ्राता मनुर्नाम्ना च तामसः । पृथुः
भातिर्नवः केतुरित्याद्या दश तत्सुताः । सत्यका हरयो
घीरा देवास्त्रिशिखईश्वरः । ज्योतिर्धामादयः सप्त
ऋषयस्तामसेऽन्तरे । देवा वैधृतयो नाम विधृतेस्तनया
नृप! । नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ।
भाग० ८ । १ । २४ । भागवते अन्यथोक्तं कल्पभेदादविरुद्धम् ।
तमोऽधिकृत्य प्रवृत्तम् अण् तमसा कृता वा अण् ।
७ तमोगुणाधिकारेण प्रवृत्ते शास्त्रे ८ तमसाकृते च
स्त्रियां ङीप् । तामसशास्त्राणि च पद्मपुराणे
पार्वतीं प्रतीश्वरवाक्येनोक्तानि यथा
“शृणु देवि! प्रवक्ष्यामि तामसानि यथाक्रमम् ।
येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि । प्रथमं हि
मयैवोक्तं शैवं पाशुपताभिधम् । मच्छक्त्यावेशितैर्विप्रैः
संप्रोक्तानि ततःपरम् । कणादेन तु सम्प्रोक्तं शास्त्रं
वैशेषिकं महत् । गौतमेन तथा न्यायं साङ्ख्यन्तु
कपिलेन वै । द्विजन्मना जैमिनिना पूर्वं वेदमपार्थतः । निरी-
श्वरेण वादेन कृतं शास्त्र महत्तरम् । धिषणेन च संप्रोक्तं
चार्वाकमतिगर्हितम् । दैत्यानां नाशनार्थाय विष्णुना
बुद्धरूपिणा । बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादि-
कम् । मायावादमसच्छास्त्रं प्रच्छन्नं वौद्धमेव च । मयैव
कथितं देवि! कलौ ब्राह्मणरूपिणा । अपार्थं श्रुति-
वाक्यानां दर्शयल्लोकगर्हितम् । कर्मस्वरूपत्याज्यत्वमत्र
च प्रतिपाद्यते । सर्वकर्मपरिभ्रंशान्नैष्क्रर्म्यं तत्र
पृष्ठ ३२७१
चोच्यते । परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते । ब्रह्म-
णोऽस्य परं रूपं निर्गुणं दर्शितं मया । सर्वस्य जगतो-
ऽप्यस्य नाशनार्थं कलौ युगे । वेदार्थवन्महाशास्त्रं माया-
वादमवैदिकम् । मयैव कथितं देवि! जगतां नाशकारणात्”
कूर्मपुराणे केषाञ्चित्तन्त्राणां तामसत्वमुक्तं यथा
“यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानि च ।
श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां तु तामसी ।
करालभैरवञ्चापि यामलं वाममाश्रितम् । एवंविधानि
चान्यानि मोहनार्थानि तानि तु । मया सृष्टानि
चान्यानि मोहायैषां भवार्णवे” । तामस पुरणानि यथा ।
“मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।
आग्नेयञ्च षड़ेतानि तामसानि निवोघत” । सात्त्विक
पुराणानि यथा । “वैष्णवं नारदीयञ्च तथा भागवतं
शुभम् । गारुड़ञ्च तथा पाद्मं वाराह शुभदर्शने! ।
सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै” । राजस
पुराणानि यथा “व्रह्माण्डं व्रह्मवैवर्त्तं मार्कण्डेयं
तथैव च । भविष्यं वामनं ब्राह्मं राजसानि शुभानने!”
पद्म० उ० ख० ४३ अ० । “सङ्कीर्णेषु सरस्वत्याः पितृणां
व्यष्टिरुच्यते । अग्नेः शिवस्य माहात्म्यं तामसेषु दिवा-
करे । राजसेषु च माहात्म्यमधिकं ब्रह्मणः स्मृतम् ।
यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ।
तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते । सात्त्वि-
केष्वधिकं तद्वद्विष्णोर्माहात्म्यमुत्तमम् । तथैव योगसं-
सिद्धा गमिष्यन्ति परां गतिम्” मत्स्य पु० ।
तामसमुनयः पद्मपु० उ० उक्ता यथा । “कणादो
गौतमः शक्तिरुपमन्युश्च जैमिनिः । दुर्वासाश्च मृकण्डुश्च
भार्गवश्च वृहस्पतिः । जमदग्निश्च इत्येते मुनयस्तामसाः
स्मृताः” । तामसस्मृतयस्तत्रैवोक्ता यथा “वार्हस्पत्या
गोतमी च सांवर्त्ती यमनिर्म्मिता । शाङ्खी चौशनसी
चैव तामस्यः स्मृतयः स्मृताः” । तामसश्रद्धादिकं गीतायां
१७ अ० उक्तं यथा ।
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्वि
कीराजसी चैव तामसी चेति तां शृणु । यजन्ते
सात्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतागणां-
श्चान्ये यजन्ते तामसा जनाः” । तामसाहारादिक-
मपि भा० १७ अ० उक्तं यथा “यातयामं गतरसं
पूति पर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं
तामसप्रियम्” “विधिहीनमसृष्टान्नं मन्त्रहीनमद-
क्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते” ।
“मूढ़ग्राहेणात्मनो यत् पीड़या क्रियते तपः । परस्योत्
सादनार्थं वा तत्तामसमुदाहृतम्” । “अदेशकाले यद्दान
मपात्रेभ्यश्च दीयते । असत्कृतमवज्ञानं तत्तामसमुदा-
हृतम्” । किञ्च “नियतस्य तु संन्यासः कर्म्मणो नोपप-
द्यते । मीहात्तस्य परित्यागस्तामसः परिकीर्त्तितः” ।
“यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम् । अतत्त्वार्थ-
वत्ल्पञ्च तत्तामसमुदाहृतम् । अनुबन्धं क्षयं हिंसा
मनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामस-
मुच्यते” । “अयुक्तः प्राकृतस्तब्धः शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते । अधर्मं
धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरी-
तांश्च बुद्धिः सा पार्थ! तामसी” । “यथा स्वप्नं भयं शोकं
विषादं मदमेव च । न विमुञ्चति दुर्म्भेधा धृतिः सा
तामसी मता” । “यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादीत्थं तत्तामसमुदाहृतम्” १८ अ० । राजसता-
मसकर्म्माणि यथा “यत् शैवं दैवतं पैत्रं वौपदेवं
तथाध्वरम् । शाक्तं शैवं गाणपत्यं यागहोमादिकं तथा ।
पौरहित्यं याजनञ्च दैवल्यं ग्रामयाजनम् । विष्णुसेवा-
पराधश्च तथा नामापराधकः । असत्प्रतिग्रहो देवि!
सङ्कल्प आभिचारिकः । पशुजीवादिहननं पातकञ्चोप-
पातकम् । अतिपापं महापापमनुपातकमेव च ।
लोभो मोहो ह्यहङ्कारः कामः क्रोधः मदस्तथा । एतद्
यदपरं कर्म गर्हितञ्च वरानने! । राजसं तामसं प्रोक्तं
मया च मुनिभिः सदा” पद्म० उ० ख० ।
हारीतः “तामसेन तु द्रव्येण ऋत्विग्भिस्तामसै-
स्तथा । तामसं भावमास्थाय तामसो यज्ञ उच्यत ।
तामसेन तु यज्ञेन दानेन तपसा तथा । निरये जन्म
चेदाहुर्वृद्धिं विद्याच्च तामसीम्” । “तामसी वृद्धिम्लेच्छा-
धिपत्य रूपा” इति रत्नाकरः । तमसो राहोरपत्यम्
अण् । ९ राहुसुते तामसकीलः ।

तामसकील पु० तामसः राहुसुतः कील इव । वृ० स० ३ अ० उक्ते

राहुसुते केतुभेदे । तन्निमित्तोत्पातभेदस्तत्रोक्तो यथा
“तामसकीलसङ्ज्ञका राहुसुताः केतवस्त्रयस्त्रिंशत् ।
वर्णस्थानाकारैस्तान्दृष्ट्रार्के फलं ब्रूयात् । ते चार्क-
मण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः । ध्वाङ्क्षा-
कबन्धप्रहरणरूपाः पापाः शशाङ्केऽपि । तेषामुदये
रूपाण्यम्भः कलुषं रजोवृतं व्योम । नगतरुशिख-
पृष्ठ ३२७२
रविमर्दी सशर्करो मारुतश्चण्डः । ऋतुविपरीतास्त-
रवो दीप्ता मृगपक्षिणो दिशां दाहः । निर्घातम-
हीकम्पादयो भवन्त्यत्र चोत्पाताः । न पृथक् फलानि
तेषां शिखिकीलकराहुदर्शनानि यदि । तदुदयका-
रणमेषां केत्वादीनां फलं ब्रूयात्” । “यस्मिन् यस्मिन्
देशे दर्शनमायान्ति सूर्यविम्बस्थाः । तस्मिंस्तस्मिन्
व्यसनं महीपतीनां परिज्ञेयम् । क्षुत्प्रम्लानशरीरा
मुनयोऽप्युत्सृष्टधर्मसच्चरिताः । निर्मांसवालहस्ताः
कृच्छ्रेणायान्ति परदेशम् । तस्करविलुप्तवित्ताः प्रदी-
र्घनिःश्वासाकुलिताक्षिपुटाः । सन्तः सन्नशरीराः शोको-
द्भववाष्परुद्धदृशः । क्षामा जुगुप्समानाः स्वनृपतिपर-
चक्रपीडिता मनुजाः । स्वनृपतिचरितं कर्म च
पराकृतं प्रव्रुवन्त्यन्ये । गर्भेष्वपि निष्पन्ना वारि-
मुचो न प्रभूतवारिमुचः । सरितो यान्ति तनुत्वं
क्वचित् क्वचिज्जायते सस्यम् । दण्डे नरेन्द्रमृत्युर्व्या-
धिभयं स्यात् कबन्धसंस्थाने । ध्वाङ्क्षे च तस्करभयं
दुर्भिक्षं कीलकेऽर्कस्थे । राजोपकरणरूपैश्छत्रध्वजचा-
मरादिभिर्विद्धः । राजान्यत्वकृदर्कः स्फुलिङ्गधूमादि-
भिर्जनहा । एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपते-
र्विभाशाय । सितरक्तपीतकृष्णैस्तैर्बिद्धोऽर्कोऽनुवर्णघ्नः ।
दृश्यन्ते च यतस्ते रविबिम्बस्योत्थिता महोत्पाताः ।
आगच्छति लोकानां तेनैव भयं प्रदेशेन” ।
स्वार्थे क तत्रार्थे । त्रिंशत्त्र्यधिकाराहोस्ते तामस-
कीलका इति ख्याताः वृ० स० ११ अ० ।

तामसध्यान न० वटुकभैरवस्य ध्येयरूपभेदे । “तस्य ध्यानं

त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः” इत्युपक्रमे सात्त्विक-
राजसे उक्त्वा तामसध्यानमुक्तं तन्त्रसारे यथा
“ध्यायेज्रीलाद्रिकान्तं शशिशकलधरं मुण्डमालं
महेशं दिग्वस्त्रं पिङ्गलाभं डमरुमथ सृणिं शङ्खशूला-
भयानि । नागं घण्टां कपालं कररसिरुहैर्बिभ्रतं
भीमदंष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुरा-
ढ्यम्” “तामसं शत्रुशमनं कृत्याभूतगदापहम्” तन्त्रसा० ।

तामसिक त्रि० तमसा निर्वृत्तं ठञ् । तमोगुणकार्ष्ये त्रि०

तामसी स्त्री तमांसि भूम्ना सन्त्यस्यां प्रज्ञा० अण् ङीप् ।

अन्धकारबहुलायां रात्रौ २ महाकाल्यां मेदि० । ३
जटामांस्यां राजनि० । ४ तमोगुणवत्यां स्त्रियाञ्च ।

तामालेय त्रि० तामालवृक्षस्यादूरदेशादि सख्या० ढञ् ।

तमालवक्षस्या--दूरदेशादौ ।

तामिस्र पु० तमिस्रा तमस्ततिरस्त्यत्र अण् । नरकभेदे ।

“तामिस्रो ह्यन्धतामिस्र इत्युपक्रमे । तन्निदानरूपादि
भाग० । ५ । २६ उक्तं यथा “यस्तु परिवित्तापत्यकल-
त्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयान
कैस्तामिस्रे नरके बलान्निपात्यते” “स पर्य्यायेण याती-
मान् नरकानेकविंशतिम् । तामिस्रमन्धतामिस्रं
महारौरवरौरवौ । नरकं कालसूत्रञ्च महानरकमेव च ।
सञ्जीवनं महावीचिं तपनं सम्प्रतापनम् । संघातञ्च
सकाकोलं कुड्मलं पूतिमृत्तिकम् । लोहशङ्कुमृजीषञ्च
पन्थानं शाल्मलीं नदीम् । असिपत्रवनञ्चैव लोहदा-
रकमेव च” मनुः अत्रोपक्रमे यातीति क्रियासम्बन्धा-
पेक्षतया पन्थानं शाल्मलीं नदीमित्युत्तरत्र स्पष्टं द्विती-
याश्रवणाच्च तामिस्रादिशब्दानां द्वितीयान्ततैव नरकविशे-
षवाचित्वात्तस्य पुंस्त्वात् । शब्दकल्पद्रुमे क्लीवतोक्तिः मनु
वचने द्वितीयान्ततामिस्रशब्दे प्रथमान्तत्वभ्रान्त्यैवेति
बोध्यम् । तमिस्रया साध्यमण् । २ द्वेषे । “भेदस्तमसो-
ऽष्टविधो मोहस्य च दशविधो महामोहः । “तामिस्रो-
ऽष्टदशधा” सा० का० । “तामिस्रो द्वेषोऽष्टादशधा
शब्दादयो दशविषया रञ्जनीयाः स्वरूपतः, ऐश्वर्य्यं
त्वणिमादिकं न स्वरूपतो रञ्जनं किन्तु रञ्जनीयशब्दा-
द्युपायाः । ते च शब्दादय उपस्थिताः परस्परेणोपह-
न्यमानास्तदुपायाश्चाणिमादयः स्वरूपेणैव कोपनीया
मवन्तीति । शब्दादिभिर्दशभिः सहाणिमाद्यष्टादशधेति
तद्विषयो द्वेषस्तामिस्रोऽष्टादशविषयत्वादष्टादशधेति”
तत्त्वकौ० द्वेषमूलत्वात् भोगेच्छाप्रतिघातरूपे ३ क्रोधे
भाग० टी० श्रीधरः ।

तामु त्रि० तम--उण् । स्तोतरि निघण्टुः ।

ताम्बली स्त्री ताम्बूली + पृषो० । (पान) ताम्बूल्यां “मुञ्जका

शताम्बल्यारसानाः” गोप० ब्रा० ३ । १० । ७ ।

ताम्बूल न० तम--ऊलच् वुगागमः दीर्घश्च गौ० ङीष् तस्याः

पत्रमण् । (पान) ख्याते १ नागवल्लीदले । २ क्रमुके च मेदि० ।
“ताम्बूलं कटूतिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नं
कृमिनाशनं कफहरं दुर्गन्धनिर्नाशनम् । वक्त्रस्याभरणं
विशुद्धिकरणं कामाग्निसन्दीपनं ताम्बूलस्य सखे! त्रयो-
दश गुणाः स्वर्गेऽपि ते दुर्लभाः” अपि चाहुः “ताम्बूलं
विशदं रुच्यं तीक्ष्णीष्णं तुवरं सरम् । रस्यं तिक्तं
कटु क्षारं रक्तपित्तकरं लघु । वल्यं श्लेष्मास्यदौर्गन्ध्यमल-
वातश्रमापहम्” भाव० प्र० । “अनिधाय मुखे पर्णं पूगं
पृष्ठ ३२७३
स्वादयते नरः । मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते
हरिम्” राजनि० । भावप्र० दिनचर्य्यायामुक्तं यथा
“धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः । पूगकर्पूर
कस्तूरीलवङ्गसुमनःफलैः । फलैः कटुकषायैर्वा
मुखवैशद्यकारिभिः । ताम्बूलपत्रसहितैः सुगन्धैर्वा
विचक्षणः । धूमेन अगुर्वादिधूमेन । अपोह्य कफं
दूरीकृत्य कषायकटुतिक्तकैः फलैः कर्पूरकस्तूरीलव-
ङ्गादिभिः पूगैः क्रमुकैः सुमनःफलैः जातीफलैः
एलाहरीतक्यादिफलैः । रात्रौ सुप्तोत्यिते स्नाते भुक्ते
वान्ते च सङ्गरे । सभायां विदुषां राज्ञां कुर्य्यात्ताम्बूल
चर्वणम् । ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनन्तु परं
सरम् । तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु ।
वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् । मख
वैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् । हनुदन्तमल-
ध्वंसि जिह्वेन्द्रियविशोधनम् । मुखप्रसेकशमनं
गलामयविनाशनम् । नवं तदेव मघुरं कषायानुरसं गुरु ।
वलासजननं प्रायः पत्रशाकगुणं स्मृतम् । वङ्गदेशो-
द्भवं पर्णं परं कटुरसं सरम् । पाचनं पित्तजनकमुष्णं
कफहरं स्मृतम् । पर्णं पुराणमकटु खुल्लकन्तनु पाण्डु-
रम् । विशेषाद् गुणवद्वेद्यमन्यद्धीनगुणं स्मृतम् ।
खदिरः कफपित्तघ्नश्चूर्णं वातबलासनुत् । संयोगत
स्त्रिदोघ्नं सौमनस्यं करोति च । मुखवैशद्यसौगन्ध्य-
कान्तिसौष्ठवकारकम् । प्रभाते पूगमधिकं मध्याह्ने
खदिरं तथा । निशासु चूर्णमधिकं ताम्बूलं भक्षयेत्
सदा । आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता ।
तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत् । पर्णमूले
भवेद्व्याधिः पर्णाग्रे पापसम्भवः । जीर्णं पर्णं हरत्यायुः
सिरा बुद्धिविनाशिनी । आद्यं विषोपमं पीतं द्वितीयं
भेदि दर्जरम । तृतीयादनु पातव्य सुधातुल्य रसाय-
नम् । ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः ।
देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः । शोषः पित्ता-
निलास्र स्यादतिताम्बूलचर्वणात् । विषमूर्च्छामदा-
र्त्तानां क्षयिणां रक्तपित्तिनाम् ।
“विना पर्णं मुखे दत्त्वा गुवाकं भक्षयेद्यदि । तावद्भवति
चण्डालो यावद्गङ्गां न गच्छति” कर्मलोचनम् ।
“ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचरारिणाम् ।
तपस्विनाञ्च विप्रेन्द्र! गोमांससदृशं ध्रुवम्” इति ब्रह्म-
वै० व्र० ख० । मार्कण्डेयः “भूयोऽप्याचम्य कर्तव्यं
ततस्ताम्बूलभक्षणम्” वशिष्ठः “सुपूगञ्च सुपर्णञ्च सुचूर्णेन
समन्वितम् । अदत्त्वा द्विजदेवेभ्यस्ताम्बूलं वर्जयेद्बुधः”
“ताम्बूलद्वयमासनञ्च लभते यः कान्यकुब्जेश्वरात्” नैष०
“ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी” सा० द० ।
२ पर्णवृक्षे स्त्री गौरा० ङीष् । “ताम्बूलीनां दलैस्तत्र
रचिताः पानभूमयः” रघुः ।

ताम्बूलकरङ्क पु० ६ त० । (पानडिपा) ताम्बूलपात्रभेदे हेमच० ।

ताम्बूलद त्रि० ताम्बूलं ददाति दा--क । १ राज्ञां ताम्बूल-

दाने अधिकृते दासभेदे २ विप्रादिभ्यो ताम्बूलदातरि च
ण्वुल् । ताम्बूलदायकोऽप्युभयत्र “जलताम्बूलकुसुम-
गन्धमाल्यादिदायकाः” कामन्दकीये ।

ताम्बूलपत्र पु० ताम्बूलमिव पत्रमस्य । पिण्डालौ राजनि० ।

कर्म्म० । ताम्बूलीपत्रे न० ।

ताम्बूलपेटिका स्त्री ६ त० । ताम्बूलकरङ्के

ताम्बूलराग पु० ताम्बूलकृतो रागः शाक० त० । (पानेर

वोल) १ ताम्बूलजनिते रागे ताम्बूलस्य राग इव रागो
रक्तता यस्य । २ मसूरे हारा० ।

ताम्बूलवल्ली स्त्री ताम्बूलाख्या वल्ली । (पान) नागब-

ल्ल्याम् अमरः । स्वार्थे क अत्रैवार्थे ।

ताम्बूलिक त्रि० ताम्बूलं तद्रचनं शिल्पमस्य । ताम्बूलर-

चनाधिकृते “आदिशब्दात् मालाकररजकताम्बूलिक-
गान्धिकादयः” सा० द० ।

ताम्बूलिन् त्रि० ताम्बूलं पण्यतयाऽस्त्यस्य इनि । १ ताम्बूल-

विक्रेतरि(तामुलि)ख्याते २ जातिभेदे पुंस्त्री स्त्रियां ङीप् ।

ताम्र न० तम--रक् दीर्घः । १ धातुभेदे (ताँमा) अमरः २ कुष्ठ-

भेदे कर्म्मविपाकः । ३ रक्तवर्णे हेमच० । ४ तद्वति त्रि० ।
धातुभेदस्योत्पत्तिकारणगुणादि भावप्र० उक्तं यथा
“अथ ताम्रस्य उत्पत्तिर्नामलक्षणगुणाश्च । “शुक्रं यत्
कार्त्तिकेयस्य पतितं धरणीतले । तस्मात्ताम्रं समुत्पन्न-
मिदमाहुः पुराविदः । ताम्रमौन्दुवरं शुल्वमुदुम्बर-
मपि स्मृतम् । रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनाम-
कम् । जपाकुसुमसङ्काशं स्निग्धं मृदुधनक्षमम् ।
लोहनागोञ्झितं ताम्रं मारणाय प्रशस्यते । कृष्णं रूक्ष-
मतिस्तब्धं श्वेतञ्चापि घनासहम् । लोहनागयुतञ्चेति
शुल्वं दुष्टं प्रकीर्त्तितम् । एको दोषो विषे ताम्रे
त्वसभ्यग्मारिते पुनः । दाहः स्वेदो रुचिर्मूर्च्छा
क्लेदो रेको वमिर्भ्रमः” (रेकः विरेकः) तस्य मारणवि-
धिस्तत्रोक्तो यथा
पृष्ठ ३२७४
“सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः ।
वासरत्रयमम्लेन ततः खाते विनिःक्षिपेत् । पादांशं सूतकं
दत्त्वा याममम्लेन मर्द्दयेत् । तत उद्धृत्य पत्राणि लेपये-
द्द्विगुणेन च । गन्धकेनाम्लवेष्टेन तस्य कुर्य्याच्च
गोलकम् । ततः पिष्ट्वा च मौनाक्षीं चाङ्गेरीं वा पुनर्न-
वाम् (चाङ्गेरी चतुष्पत्राम्लालोनिकाभेदः ।) तत्कल्केन
बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम् । धृत्वा तद्गोलकं भाण्डे
सरावेण च रोधयेत् । वालुकाभिः प्रपूर्य्याथ विभूति
लवणाम्बुभिः । दत्त्वा भाण्डमुखे मुद्रां ततश्चूल्ल्यां विपा-
चयेत् । क्रमवृद्ध्याग्निना सम्यग्यावद्यामचतुष्टयम् ।
स्वाङ्गशीतं समुद्धृत्य मर्दवेच्छूरणद्रवैः । यामैकं
गोलकं तच्च निःक्षिपेच्छूरणोदरे । मृदा लेपस्तु कर्त्तव्यः
सर्वतोऽङ्गुष्ठमात्रकः । पाच्यं गजपुटे क्षिप्तं मृतं भवति
निश्चितम् । वमनं च विरेकं च भ्रमं श्वासमथारु-
चिम् । विदाहं स्वेदमुत्क्लेदं न करोति कदाचन ।
एवं मारितस्य ताम्रस्य गुणा ताम्रं कषायं मधुरं च
तिक्तमम्लञ्च पाके कटु सारकञ्च । पित्तापहं श्लेष्महरञ्च
शीतं तद्रोषणं स्याल्लघु लेखनञ्च । पाण्डूदरार्शोज्वर
कुष्ठकासश्वासक्षयान् पीनसमम्लपित्तम् । शोथं कृमिं
शूलमपाकरोति प्राहुर्बुधा वृंहणमल्पमेतत्” ।
“ताम्रमम्लेन शुद्ध्यति” मनुः । ताम्रपत्रशब्दे मोजननि-
षेधः घृतेतरोद्धृतसारगव्यभोजननिषेधश्च वक्ष्यते । रक्त-
वर्णविशिष्टे “ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य” “तपस्विने
ताम्ररुचा करेण” कुमा० “प्रचक्रमे पल्लवरागताम्रा” रघुः ।
५ द्वीपभेदे पु० । स्वार्थे क । तत्रार्थे अमरः ।

ताम्रकर्ण त्रि० ताम्रौ कर्णौ यस्य । १ रक्तकर्णयुक्ते स्त्रियां

ङीष् । ङीषन्तः २ पश्चिमदिघस्तिन्याम् अमरः ।

ताम्रकार पुंस्त्री० ताम्रं ताम्रपात्रादिकं करोति कृ--अण्

उप० स० । ताम्रोपजीविनि सङ्कीर्णजातिभेदे ।
“आयोगवेन विप्रायां जातास्ताम्रोपजोविनः” कंसकार-
शब्दे दृश्यम् । स्त्रियां जातित्वात् ङीष् ।

ताम्रकुट्ट पुंस्त्री० ताम्रं कुट्टयति कुट्ट--अण् उप० स० ।

ताम्रकारे (काँसारि) संकीर्णजातिभेदे । ण्वुल् ।
ताम्रकुट्टक तत्रार्थे अमरः ।

ताम्रकुण्ड न० कुण--ड किच्च ताम्रमयं कुण्डम् । ताम्रमये

देवजलाघारे पात्रभेदे “देवतान्यजलाधारः कुण्डं कुण्ड-
मुखा स्मृताः” “शाश्वतः उपचारात् ताम्रकुण्डम्” उज्ज्व०

ताम्रकूट पुंन० ताम्रस्य कूटमिव । रक्तवर्णनिर्यासके (ता-

माक) क्षुपभेदे “संविदा कालकूट” च ताम्रकूटं च
धुस्तुरम् । अहिफेनं खर्जूरसस्ताड़िता तरिता तथा ।
इत्यष्टौ सिद्धिद्रव्याणि यथा सूर्य्याष्टकं तथा” कुला० त० ।

ताम्रकृमि पु० कर्म्म० । इन्द्रगोपकीटे हारा० ।

ताम्रगर्भ न० ताम्रं गर्भ इवोत्पत्तिस्थानमस्य । तुत्थे (तुंते)

राजनि० । तस्य ताम्रोद्भवत्वं तुत्थशब्दे दृश्यम् ।

ताम्रचूड़ पुंस्त्री० ताम्रा रक्ता चूड़ा यस्य । १ कुक्कुटे (कुकड़ा)

ख्याते खगे अमरः स्त्रियां ङीष् । तद्रुतविशेषफलं वृ० स०
८८ अ० यथा “भीता रुबन्ति कुकुकुक्विति ताम्रचूड़ास्त्यक्त्वा
रुतानि भयदान्यपराणि रात्रौ” । कुक्कुटश्च द्विविधः नारि-
केलाकृतिः प्राच्यवाटः, वलाकाकृतिश्च प्रतीच्यवाटः । तत्र
प्राच्यवाटः बलाधिकः । तथैव वर्णितं दशकुमारे ताम्र-
चूड़युद्धाधिकारे । “कथमिव नारिकेलजातेः प्राच्य-
वाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमीक्ष्य वलाका-
जातिस्ताम्रचूड़ो बलप्रमाणाधिकस्यैवं प्रति विसृष्ट इति ।
“प्रायुध्यत चातिसंरब्धमनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठी-
रवरवं विहङ्गमद्वयम् । जितश्चासौ प्रतीच्यवाट कुक्कुटः”
दशकु० । २ कुक्कुरद्रुमे (कुकसिमा) राजनि० । तस्य रक्त-
शिखत्वात्तथात्वम् । “द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं
चान्येन पाणिना । अपरेणाग्निदायादस्ताम्रचूडं भुजेन
सः । महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्” भा० व०
२२४ अ० तत्रैव “अरुणस्ताम्रचूड़ञ्च प्रददौ चरणायुधम्” ।
३ कुमारानुचरमातृगणभेदे स्त्री “सुभगा लम्बिनी
लम्बा ताम्रचूड़ाविकाशिनी” भा० श० ४७ अ० ।
मातृगणौक्तौ ४ रक्तशिखायुक्ते त्रि० ताम्रचूड़भैरवः ।

ताम्रजाक्ष पु० सत्यभामायां कृष्णाज्जाते पुत्रभेदे । “जज्ञिरे

सत्यभामायां भीमो भीमरथः क्षूपः । रोहितो दीप्तिमां-
श्चैव ताम्रजाक्षो जलान्तकः । भानृर्भीमरिका चैव ताम्र-
पक्षा जलन्धमा । चतस्रो जज्ञिरे तेषां स्वसारौ
गरुड़ध्वजात्” हरिवं० १६२ अ० ।

ताम्रत्रपुज पु० ताम्रञ्च त्रपु च ताभ्यां जायते जन--ड ।

कांस्ये भावप्र० । तस्योभयधातुजन्यत्वात् तथात्वम् ।

ताम्रदुग्धा स्त्री ताम्रं रक्तं दुग्धं निर्यासोऽस्याः । गोरक्ष

दुग्धायां राजनि० ।

ताम्रद्वीप पुंन० । कर्म्म० । दक्षिणदेशस्थे द्वीपभेदे ।

“द्वीपं ताम्राह्वयञ्चैव पर्वतं रामकं तथा । तिमिङ्गिलञ्च
स नृपं वशे कृत्वा महामतिः” भा० स० ३० अ० ।
सहदेवदक्षिणदिग्विजये ।
पृष्ठ ३२७५

ताम्रपक्षा स्त्री सत्यभामासुतायां ताम्रजाक्षशब्दे दृश्यम् ।

ताम्रपट्ट न० ताम्रनिर्मितं पट्टम् । ताम्रमये लेखनपत्रभेदे

“दद्याद्भूमिं निबन्धं वा कृत्वा लेख्यञ्च कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः । पटे वा ताम्र-
पट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो
वंश्यानात्मानञ्च महीपतिः । प्रतिग्रहपरीमाणं
मानाच्छेदोपवर्णनम् । स्वहस्तकालसम्पन्नं शासनं
कारयेत् स्थिरम्” याज्ञ० ।

ताम्रपत्र पु० ताम्रं रक्तं पत्रमस्य । १ जीवशाके राजनि० ।

२ रक्तवर्णपत्रके वृक्षमात्रे च । कर्म्म० । ३ ताम्रमये लेखन
पत्रे । ४ रक्ते दले नवपल्लवे च न० ।

ताम्रपर्णी स्त्री दक्षिणदेशस्थे नदीभेदे ।

“ताम्रपर्णीन्तु कौन्तेय! कीर्त्तयिष्यामि तां शृणु
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे । गोकर्ण इति
विख्यातस्त्रिषु लोकेषु विश्रुतः । शीततोयो बहुजलः
पुण्यस्तात! शिवः शुभः । ह्रदः परमदुष्प्रापो मानुषैर-
कृतात्मभिः । तत्र वृक्षवृणाद्यैश्च सम्पन्नफलमूलवान् ।
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसमो गिरिः । वैदूर्य्य
पर्वतस्तत्र श्रीमान् मणिमयः शिवः । अगस्त्यस्याश्रम-
श्चैव बहुमूलफलोदकः” भा० व० ८८ अ० । तस्याः सिन्धु
सङ्गमस्थाने मुक्ताजन्म यथोक्तं “ताम्रपर्णीसमेतस्य मुक्ता-
सारं महोदधेः । ते निपत्य ददुस्तस्मै यशः स्वमिव
सञ्चितम्” रघुः “सिंहलकपारलौकिकसौराष्ट्रकताम्र-
पर्णीकपारशराः” कौवेरपाण्ड्यवाटकहैमा इत्याकरा
ह्यष्टौ” वृ० स० ८१ अ० मुक्ताकरोक्तौ । २ शिलाभेदे च ।
“ताम्रपर्णी शिला राजन्! श्रीमान् मलयपर्वतः” भा०
भी० ६ अ० ।

ताम्रपल्लव पु० ताम्राणि पल्लवानि यस्य । १ अशोकवृक्षे

राजनि० । २ रक्तपल्लवयुक्ते वृक्षमात्रे च । कर्म्म० । ३ रक्ते
पल्लवे अस्त्री ।

ताम्रपाकिन् पु० पच्यते पाकः फलपुष्पादि ताम्रः पाकः

अस्त्यस्य इनि । गर्द्दभाण्डवृक्षे । रत्नमा० ।

ताम्रपात्र न० ताम्रस्य विकारः अण् कर्म० । ताम्रमये

पात्रे तत्र तर्पणविधिस्तर्पणशब्दे उक्तः । “गृहीत्वौ-
डुम्बरं पात्रम्” इत्यादि स्मृत्या तस्य संकल्पपात्रतोक्ता
तत्र भोजननिषेधो मनुनोक्तो यथा “ताम्रपात्रे न
भुञ्जीत भिन्नकांस्ये सलाबिले । पलाशपद्मपत्रेषु गृही
भुक्त्वैन्दवं चरेत्” । तत्र घृतेतरोद्धृतसारगव्यादिभोजन-
निषेधमाह स्मृतिसागरे स्मृतिः “नारिकेलजलं कांश्ये
ताम्रपात्रे स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं मद्य-
तुल्यं घृतं विना । ताम्रपात्रधृतं मांसं यच्च गव्यं घृतेत-
रत् । आमिषन्तु गवां मांसं दधि मद्यं पयो रजः ।
द्रव्यान्तरयुतं मांसं पयसा संयुतं दधि । पयोऽनुद्धृत-
सारञ्च ताम्रपात्रे न दुष्यति” उत्तरार्द्धानुसारात् “ततश्च
संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् । अस्त्रेण क्षालिते
पात्रे नवे ताम्रमयादिके” शारदाति० वाक्यम् अनुद्धृत-
सारक्षीरविषयम उद्धृतसारस्यैव तत्र स्थितत्वे निषेधात्
पानपात्रं च ताम्रपात्रं प्रशस्तं यथाह सुश्रुतः दद्यात्
दाम्रमये पात्रे सुशीतं सुशृतं पयः” । “जलपात्र तु
ताम्रस्य तदभावे मृदो हितम्” भावप० ।

ताम्रपादी स्त्री ताम्रः रक्तेः पादो मूलमस्याः ङीष् ।

हसपद्याम् राजनि० । तस्या हंसस्येव रक्तमूलत्वात्तथात्वम् ।

ताम्रपुष्प पु० ताम्रं पुष्पं यस्य । १ रक्तकाञ्चने जटा० २ भूमि-

चम्पके शब्दच० । ३ रक्तपुष्पयुक्तमात्रे त्रि० । “ताम्रपुष्पैश्च
शिखरैर्दीप्यमानः सुतेजसा” हरिवं० २१७ अ० ।
कर्म्म० । ४ रक्ते पुष्पे न० ।

ताम्रपुष्पिका स्त्री ताम्रं पुष्पं यस्याः कप् कापि अत

इत्त्वम् । रक्तत्रिवृति (लालतेउड़ि) राजनि० ।

ताम्रपुष्पी स्त्री ताम्रं रक्तं पुष्पं यस्याः ङीष् । १ धातकी

वृक्षे २ पाटलावृक्षे च राजनि० ।

ताम्रफल पु० ताम्रं रक्तं फलमस्य । १ अक्षोटकवृक्ष । राजनि० ।

२ रक्तफलयुक्ते वृक्षमात्रे त्रि० । कर्म्म० । ३ रक्ते फले न० ।

ताम्रमूला स्त्री ताम्रं रक्तं मूलं यस्या अजादेराकृतिगण-

त्वात् टाप् । १ दुरालभायां २ लज्जालौ च राजनि० ।
३ कच्छुरावृक्षे (खिराइ)रत्नमाला । ४ रक्तमूलके वृक्षमात्रे
त्रि० । कर्म्म० । ५ रक्ते मूले न० ।

ताम्रयोग पु० चक्रदत्तोक्ते औषधभेदे तद्विधानादि तत्रोक्त

यथा “स्थाल्यां संमर्द्य दातव्यौ माषिकौ रसगन्धकौ ।
नखक्षुण्णं तदुपरि तण्डुलीयं द्विमाषिकम् । ततो नैपाल-
ताम्रादि पिधाय सुकरालितम् । पांशुना पूरयेदूर्द्ध्व
सर्वां स्थालीं ततोऽनलः । स्थाल्यधो नालिकां
यावद्देयस्तेन मृतस्य च । ताम्री ताम्रस्य रत्त्येका
त्रिफलाचूर्णरत्तिका । त्र्यूषणस्य च रत्त्येका विड़-
ङ्गस्य च तन्मधु । घृतेनालोद्ध्य लेढ़व्यं प्रथमे दिवसे
ततः । रत्तिवृद्धिः प्रतिदिनं कार्य्या ताम्रादिषु त्रिषु ।
स्थिरा विड़ङ्गरत्तिस्तु यदा भेदो विवक्षितः । तदा
पृष्ठ ३२७६
विड़ङ्गन्त्वधिकं दद्याद्रत्तिद्वयं पुनः । द्वादशाहं
योगवृद्धिस्ततो ह्रासक्रमोऽप्ययम् । ग्रहणीमम्लपित्तञ्च क्षयं
शूलञ्च० सर्वदा । ताम्रयोगो जयत्येष बलवर्णाग्निवर्द्धनः” ।

ताम्ररसायनी स्त्री ताम्ररसस्य रक्तनिर्यासस्यायनी ।

गोरक्षदुग्धायां जटाधरः ।

ताम्रलिप्त पु० देशभेदे । सोऽभिजनोऽस्य तस्य राजा बा अण् ।

तद्देशवासिनि तन्नृपे च बहुषु अणो लुक् । स च देशः
प्राचीस्थः । “ताम्रलिप्तञ्च राजानं कर्वटाधि-
पतिं तथा” भा० स० २९ अ० । भीमप्राचीदिग्विजये ।
“वङ्गाः कलिङ्गां मगधास्ताम्रलिप्ताः सपुण्ड्रकाः” भा०
स० ५१ अ० । खार्थे क । तत्रार्थे “किराताः कर्वराः सिद्धाः
वैदेहास्ताम्रलिप्तकाः” भा० भी० ७ अ० । जनपदोक्तौ ।

ताम्रवर्ण पु० ताम्रो रक्तो वर्णोऽस्य । १ पल्लिवाहवृक्षे तृणभेदे

राजनि० । २ जटायां स्त्री शब्दच० । ३ ताम्रवर्णयुतमात्रे
त्रि० । कर्म्म० । ४ रक्ते वर्णे पु० ।

ताम्रवल्ली स्त्री कर्म्म० । १ मञ्जिष्ठायाम् शब्दच० २ चित्र

कूटदेशप्रसिद्धे लताभेदे राजनि० । ३ रक्तलतामात्रे च ।

ताम्रवीज पु० ताम्रं वीजं यस्य । ३ कुलत्थे राजनि० । ३ रक्त-

वीजके वृक्षमात्रे त्रि० । कर्म० । ३ रक्ते वीजे न० । ४ कुलत्थि-
कायां स्त्री शब्दार्थचि० ।

ताम्रवृक्ष पु० कर्म्म० । १ रक्तचन्दनवृक्षे २ कुलत्थे च रत्नमा० ३ रक्तवर्णके वृक्षे पु० ।

ताम्रवृन्त पु० ताम्रं वृन्तमस्य । १ कुलत्थे, स्त्रीत्वमपि टाप्

त्रिका० । २ रक्तवृन्तके वृक्षमात्रे त्रि० । कर्म्म० । ३ रक्ते
वृन्ते न० ।

ताम्रशिखिन् पु० ताम्रा रक्ता शिखास्त्यस्य इनि । कुक्कुटे

जटाधरः । ब० व० । ताम्रशिख इत्यपि तत्र । ताम्र-
शिखायुक्ते च त्रि० ।

ताम्रसार न० ताम्रं रक्तं सारमस्य । १ रक्तचन्दनवृक्षे ।

रत्नमाला । ३ रक्तसारके वृक्षमात्रे त्रि० । कर्म्म० । ३ रक्ते
सारे पुंन० ।

ताम्रसारक पु० ताम्रो रक्तः सारोऽस्य कप् । १ खदिरे

राजनि० । ३ रक्तचन्दनवृक्षे च । २ तत्काष्ठे न० शब्दार्थचि० ।

ताम्रसारिक पु० ताम्रः सारोऽस्त्यस्य ठन् । १ रक्तखदिरे,

२ रक्तचन्दने च शब्दाष्टचि०

ताम्रा स्त्री ताम्र + टाप् । १ सैंहिल्यां २ ताम्रवल्ल्यां शब्दमा० ।

ताम्राख्य पु० उपद्वीपभेदे शब्दमाला । ताम्रद्वीपे ।

ताम्राक्ष पुंस्त्री ताम्रे अक्षिणी यस्य षच् संमा० । १ कोकिले

त्रिका० स्त्रियां षित्त्वात् जातित्वाच्च ङीष् । २ रक्तेक्षण-
युक्ते त्रि० स्त्रियां षित्त्वात् ङीष् । ३ विशाला यत्र ताम्राक्षैः
पूर्णचन्द्रसिभाननैः । वर्षाभूः कीर्य्यते” भा० क० ४६ अ० ।

ताम्राभ न० ताम्रस्य आभेवाभा यस्य । १ रक्तचन्दने शब्दच० ।

ताम्रा रक्ता आभा यस्य । २ रक्तवर्णाभायुक्ते त्रि० “रुधि-
रोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ । कबन्धैः संवृत सर्व
ताम्राभैः खमिवावृतम्” भा० द्रो० ११९ अ० ।

ताम्रारुण न० तीर्थभेदे “ताम्रारुणं समासाद्य ब्रह्मचारी

समाहितः । अश्वमेधमवाप्नोति ब्रह्मलोकञ्च गच्छति”
भा० व० ८४ अ० ।

ताम्रार्द्ध पु० ताम्रस्यार्द्धोऽशभेद उत्पादकोऽस्यं । कांस्ये त्रिका०

ताम्रावती स्त्री ताम्रमाधेयत्वेनाऽस्त्यस्य मतुप् मस्य वः

संज्ञायां दीर्घः । ताम्राकरं नैदीभेदे “ताम्रावती बेत्रवती
नद्यस्तिम्रोऽथ कौशिकी” भा० व० २२१ अ० ।

ताम्राश्मन् पु० नि० कर्म्म० । पद्मरागे “ताम्राश्मरश्मिच्छुरितै-

र्नखाग्रैः” मार्घः । “ताम्राश्मनां पद्मरागाणाम्” मल्लिना० ।

ताम्रिक त्रि० ताम्रं तत्पात्रादिनिर्माणं शिल्पमस्य ताम्रस्येदं

वा ठञ् । १ कांस्यकारे २ सङ्कीर्णजातिभेदे पुंस्त्री० स्त्रियां
ङीष् । ३ ताम्रसम्बन्धिनि त्रि० । “कार्षिके ताम्रिके पणः”
अमरः । “कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः”
मनुः । “निष्काः सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः”
माज्ञ० । ४ गुञ्जायां स्त्री टाप् राजनि० । ५ वांद्यभेदे शब्दार

ताम्री स्त्री ताम्रस्य विकारः अण् ङीप् । वाद्यभेदे० त्रिका० ।

ताय पालने विस्तारे च भ्वा० आत्म० सक० सेट् । तायते

अतायि--अतायिष्ट । तताये । ऋदित् । णिच् अतता-
यत्--त । तायितः तातिः “उभौ मायां व्यातायेताम्”
भट्टिः । “सरसि संताय्यमाने” यजु० ३९ । ५ । घञ् । तायः
वृषा० आंद्युदात्तः । ल्युट्--तायनम् “वृत्तिसर्गंतायनेषु
क्रमः” पां० ।

तायिक त्रि० ताये वृद्धौ साधु ठञ् । तर्ज्जिकांभिधदेशे हेमच०

तायु पु० ताय--उण् । चौरे स्तेने निघण्टुः “अपत्ये

तायवो यथा नक्षत्रां” ऋ० १ । ५० । २ ।

तार पु० तारयति स्वजापकान् संसारार्णवात् तॄ--णिच्--अच्

तार्य्यतेऽनेन वा तॄ--णिच् करणे अच् तॄ--णिच्--भावे अच्
वा । १ प्रणवे ओङ्कारे “तारयेद् यद्भवाम्भोधेः स्वजपासक्त-
मानसम् । ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत्”
काशीख० ७३ अ० । २ वानरभेदे ३ शुद्धमौक्तिके ४ मुक्ता
विशद्धौ मेदि० ५ देवीप्रणवे कूर्चवीजे (ह्रीँ) तन्त्रसा०
६ तारणे विश्व ७ महादेवे “काश्यां विश्वेश्वरोऽहं गिरि-
पृष्ठ ३२७७
पतितनयासंयुतो वामभागे शुण्डादण्डेन दक्षे त्रिपथ-
गतटिनीतीरशुद्धाम्बुभागे । मायावीजञ्च कर्णे
सुरमुनिसहितो ध्यानयुक्तं वदामि प्रीत्या लोकस्य तस्मात्
सुरमुनिगणकैरुच्यते तारनामेति” शब्दार्थचि० धृतवाक्यम्
८ रूप्ये न० राजनि० । ९ नक्षत्रे न० स्त्री० मेदि० “विपत्तारे गुड़ं
दद्यात्” ताराबलादिन्दुरथेन्दुवीर्य्यात्” ज्योति० त० सां०
त० उक्ते अध्ययनरूपे प्रथमे १० गौणसिद्धिभेदे । “ऊहः
शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृतप्राप्तिः । दानञ्च
सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः” सा० का० ।
“विहन्यमानस्य दुःखस्य त्रित्वात् तद्विघातास्त्रय
इति इमा मुख्याः तिस्रः सिद्धयस्तदुपायतया
त्वितरा गौण्यः पञ्च सिद्धयस्तत्रापि हेतुमत्तया तिस्रः
हेतुतया पञ्च व्यवस्थिताः । तास्वाद्या अध्ययनादिलक्षणा
सिद्धयो हेतवः मुख्यास्तु हेतुमत्यः । विधिंवद्गुरुमुखाद-
ध्यात्मविद्यानामक्षरस्वरूपग्रहणमध्ययनं प्रथमसिद्धिस्तार-
मुच्यते” त० कौ० ११ विष्णौ पु० “अशोकस्तारणस्तारः शूरः
शौरिर्ज्जनेश्वरः” भा० अनु० १४९ अ० सहस्रनामकथने ।
१२ उच्चशब्दे पु० । १३ तद्वति त्रि० मेदि० । १४ स्फुरितकिरणे
१५ निर्मले त्रि० धर० । दिक्शब्दात् परम् तीरस्य
तारादेशः । १६ तीरे । दक्षिणतारं दक्षिणतीरमित्यर्थः
१७ उच्चैस्तरे त्रि० १८ नेत्रकनीनिकायां न० स्त्री० “मत्तयेव
घूर्णितमन्दतारया” काद० । “तारैर्बभूवे परभागलाभतः”
माघः शुद्धमुक्ताफले । “तारहेममहारत्नविमानशत-
शोभितम्” भाग० ४ । ६ । २७ । प्रणवे “तारो मायारमा-
योगो मनोर्दीपनमुच्यते” । (ॐ श्रीं ह्रीँ) दी० त०
“तारं व्योमाग्निमनुयुग्दण्डी ज्योतिर्मनुर्मतः” दी
त० । “हारममलं तरलतारमुरसि दधतम्” जयदेवः ।
“उरसि निहिततारोहारः” अमरुः । “तारलोलबलयेन
करेण” सा० द० ।

तारक त्रि० तारयति तॄ--णिच्--ण्वृल् । १ तारयितरि । “तत्र

हि जन्तोः पाणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्मव्याचष्टे”
जावालोप० । स्त्रियां कापि अतं इत्त्वम् । २ दैत्यभेदे
तत्कथा शिवपुराणे दृश्या । ३ कर्णे ४ भेलके च मेदि० ।
तारैव स्वार्थे क । “तारका ज्योतिषि” पा० अजादि०
टाप् न अत इत्त्वम् । तारका । ५ नेत्रकनीनिकायां स्त्री ।
६ चक्षुषि न० स्त्री० मेदि० । “तस्मिन् विप्रकृताः काले
तारकेण दिवौकसः” कुमा० । “अभिभाव्यतरिकम-
दृष्टहिमद्युतिविम्बमस्तमितभानु नभः” माघः “कुमार-
स्तुतिषु तारकोद्धरणम्” काद० । न दण्ड्यानां नेत्रो-
त्पाटनमिति ध्वन्यर्थः । “पतनं तारकादीनाम्” सुश्रु०
“तनुप्रकाशेन विचेयतारका” रघुः । “तारकावर्षमिव
धर्म्मविनाशपिशुनम्” “क्वापि विहृत्य दिवावसाने
लोहिततारका” काद० । “त्र्यधिकदशयतिर्ननौ रौ
भवेतां ररौ तारका, वृत्तरत्नाकरोक्ते अष्टादशाक्षरपा-
दके ७ छन्दोभेदे च ।

तारकजित् पु० तारकं दैत्यं जयति जि--क्विप् । कार्त्तिकेये तत्कथा शिवपु० दृश्या ।

तारकाक्ष पु० तारकासुरस्य ताराक्षापरपर्य्याये पुत्रभेदे

“निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः । ताराक्षः
कमलाक्षश्च विद्युन्माली च पार्थिव!” इत्युपक्रमे
“काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः । राजतं
कमलाक्षस्य विद्युन्मालिन आयसम्” भा० क० ६ त० ।
२ कुमारानुचरभेदे “महाजठरपादाङ्गास्तारकाक्षाश्च
भारत!” भा० ग० ४६ अ० ।

तारकब्रह्म न० कर्म्म० । रामस्य (ॐ रामाय नमः)

षडक्षरे मन्त्रे । “षड़क्षरं महामन्त्रं तारकब्रह्म-
उच्यते । रामाय नम इत्येतत् प्रणवादि षड़क्षरम्”
इति अन्योऽपि मन्त्रः पद्मपुर० उक्तो यथा । “मुमूर्षो-
र्मुनिकर्ण्यान्तु अर्द्धोदकनिवासिनः । अहं दिशामि ते
मन्त्रं तारकं ब्रह्मवाचकम् । ॐ श्रीरामरामेत्येत-
न्मन्त्रं तारकमुच्यते । अतस्त्वं जानकोनाथ । परं ब्रह्म
विनिश्चितम्” ।

तारकादि संजातार्थे इतच् प्रत्ययनिमित्ते पा० गण सू०

उक्ते शब्दगणे स च गणो यथा
“तारका, पुष्प, कर्णक, मञ्जरी, ऋजीष, क्षण,
सूत्र मूत्र, निष्क्रमण, पुरीष, उच्चार, प्रचार, विचार,
कुद्मल, कण्टक, मुसल, मुकुल, कुसुम, कुतूहल, स्तवक,
किसलय, पल्लव, खण्ड, वेग, निद्रा, मुद्रा, बुभुक्षा,
धेनुष्यां, पिपासा श्रद्धा, अभ्र, पुलक, अङ्गारक, वर्णक,
द्रोह, दोह, सुख, दुःख, उत्कण्ठा, भर, व्याधि,
वर्मन्, व्रण, गौरव, शास्त्र, तरङ्ग, तिलक, चन्द्रक,
अन्धकार, गर्व, मुकुर, हर्ष, उत्कर्ष, रण, कुवलय,
गर्ध, क्षुध्, सीमन्त, ज्वर गर, रोग, रोमाञ्च, पण्डा,
कज्जल, तृष्, कोरक, कल्लोल, स्थपुट, फल, कञ्चुक०
शृङ्गार, अङ र, शैवाल, बकुल, श्वभ्र, आराल,
क्वलङ्क, कर्दम, कन्दल, मूर्च्छा, अङ्गार, हस्तक, प्रतिविम्ब,
विघ्न, तन्त्र, प्रत्यय, दीक्षा, गर्ज, (गर्भादप्राणिनि) “तदस्य
पृष्ठ ३२७८
संजातं तारकादिभ्य इतच्” पा० इतच् तारकित अस्य
आकृतिगणत्वात् अन्येऽपि शब्दा यथाप्रयोगमत्रावधेयाः ।

तारकायण पु० विश्वामित्रपुत्रभेदे “औदुम्बरा ह्यविष्णाता-

स्तारकायणचञ्चुलाः” हरिवं० २७ अ० । विश्वामित्र-
पुत्रकथने ।

तारकारि पु० ६ त० । कार्त्तिकेये हेमच० । तारकशत्रुप्रभृतयोऽप्यत्र ।

तारकित न० तारका संजाता अस्य तार० इतच् ।

नक्षत्रयुक्ते आकाशे “सितनिशादृषदि स्फुटनिष्पतत्कणग-
णाधिकतारकिताम्बरः” नैष० ।

तारकिणी स्त्री तारकाः सन्त्यत्र इनि ङीप् । १ नक्षत्रयुक्तायां

रात्रौ राजनि० २ तारकायुक्ते त्रि० स्त्रियां ङीप् ।

तारकोपनिषद् स्त्री तारयति ज्ञानदानेन तारि--ण्वुल् ।

तारिका उपनिषत् । उपनिषद्भेदे उपनिषच्छब्दे दृश्यम् ।

तारक्षिति पु० तारा उच्चा क्षितिर्यत्र । देशभेदे स च देशः

वृ० स० १४ अ० प्रतीच्यामुक्तः “अपरस्यां मणिमान्”
इत्युपक्रमे “पञ्चनदमठपारावततारक्षितिशृङ्गवैश्यकन-
कशकाः” कर्म्म० । २ उच्चभूमौ स्त्री ।

तारण पु० तारयत्यनेन ल्युट् । १ भेलके रत्ना० । कर्त्तरि ल्यु ।

२ तारयितरि त्रि० ३ विष्णौ पु० । “अशोकस्तारणस्तारः”
विष्णुस० । ४ भावे ल्युट् । ५ तारणकरण ६ उद्धारणे
च न० “तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै” भा०
अ० १३ अ० । भावे युच् । तारणा ७ तरणप्रापणे स्त्री
“तारणा पारणं चैव तद्व्रतं सर्वकामिकम्” हरिवं० १४०
अ० । षष्टिवर्षमध्ये अष्टादशे ८ वर्षभेदे । “अति-
वृष्टिश्च जायेत धान्यस्याथ प्रपीड़नम् । शस्यं भवति
सामान्यं तारणे सुरवन्दिते!” ज्यो० त० । “तारणं तदनु
भूरिवारिदं शस्यवृद्धिमुदितञ्च पार्थिवम्” वृ० स० ८ अ०

तारणि(णी) स्त्री तार्य्यतेऽनया तॄ--णिच्--अणि । १ नौकायां

हारा० वा ङीप् । ङीवन्तः २ काश्यपपत्नीभेदे याजोप-
याजयोरृष्योर्मातरि तस्या अपत्यम् ढक् । तारणेय
तदपत्ये । “तथैव च महाभागः सोऽपश्यच्छंसितव्रतौ ।
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ । संहिता-
ध्ययने युक्तौ गोत्रतश्चापि काश्यपौ । तारणेयौ युक्त-
रूपौ ब्राह्मणावृषिसत्तमौ” भा० आ० १६७ अ० ।

तारतण्डुल पु० तारः शुद्धमौक्तिकमिव शुभ्रस्तण्डुलोऽस्य ।

धवलयवनाले राजनि० ।

तारतम्य न० तरतमयोर्भावः ष्यञ् । १ न्यूनाधिकत्वे “निर्धनं

निधनमेतयोर्द्वयोस्तारतम्यविधिमुक्तचेतसाम् । वोधनाय
विधिना विनिर्म्मिता रेफ एव जयवैजयन्तिका” इत्युद्भटः ।
“अहो तारतम्यं नराणाम्” मृच्छक० तरतमशब्दे उदा० ।

तारतार न० तारयतीति तारं तत्प्रकारः प्रकारे द्वित्वम् ।

सां० त० उक्ते गौणतृतीयसिद्धिभेदे तारशब्ददर्शिते “ऊहः
शब्दोऽध्ययनम्” इत्यादिवाक्ये “ऊहस्तर्कः आगमावि-
रोधिन्यायेनागमार्थपरीक्षणम् संशयपूर्वपक्षनिराकरणे-
नोत्तरपक्षव्यवस्थापनं तदिदं मननमाचक्षते आगमिनः ।
सा तृतीया सिद्धिस्तारतारमुच्यते” त० कौ० ।

तारदी स्त्री तरद्येव स्वार्थे अण् ङीप् । तरदीवृक्षे

राजनि० तारटीति पाठान्तरं तत्रार्थे ।

तारपुष्प पु० तारं रजतमिव पुष्पमस्य । कुन्दवृक्षे । राजनि० ।

तारमाक्षिक न० तारं रूप्यमिव माक्षिकम् उपधातुभेदः ।

रजततुल्ये उपधातुभेदे । “तारमाक्षिममन्यत्तु तद्भवे-
द्रजतोपमम् । किञ्चिद्रजतसाहित्यात् तारमाक्षिकमी-
रितम् । अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः ।
न केवलं रूप्यगुणावर्त्तन्ते तारमाक्षिके । द्रव्यान्तरस्य
संसर्गात् सन्त्यन्येऽपि गुणा यतः । स्यात् तारमाक्षिकं
स्वादु तिक्तं वृष्यं रसायनम् । चाक्षुष्य वस्तिरुक्कुष्ठ-
पाण्डुमेहविषोदरम् । अर्शः शोथं क्षयं कण्डूं त्रि-
दोषमपि नाशयेत् । मन्दानलत्वं बलहानिमुग्रां विष्ट-
म्भितां नेत्रगदान् सकुष्ठान् । तथैव मालां व्रणपूर्विकाञ्च
करोत्यशुद्धं रजताख्यमाक्षिकम्” । शोधनन्तु । “कर्कोटी
मेषशृङ्ग्युत्थैर्द्रवैर्जम्बीरजैर्दिनम् । भावयेदातपे तीव्रे
विमला शुद्ध्यति ध्रुवम् । विमला तारमाक्षिकम् ।
मारणन्तु “कुलत्थस्य कषायेण घृष्टा तैलेन वा पुटेत् । तैलेन
वाऽजमूत्रेण म्रियते तारमाक्षिकम्” भावप्र० ।

तारल पु० तरल एव अण् । १ तरले २ विटे च शब्दार्थचि० ।

तारवायु पु० कर्म्म० । अत्युच्चशब्दयुक्ते पवने ।

तारविमला स्त्री तारोरजतमिव विमला । तारमाक्षिके

उपधातुभेदे शब्दार्थचि० ।

तारशुद्धिकर न० तारस्य रजतस्य शुद्धिं धात्वन्तरयोगात्

जातमलशुद्धिङ्करोति कृ--ट । सीसके तत्सम्पर्काद्धि
रजतस्य मलशुद्धिर्लोकसिद्धा राजनि० ।

तारसार पु० उपनिषद्भेदे उपनिच्छब्दे दृश्यम् ।

तारहार पु० तारनिर्मितो हारः । १ स्थूलमुक्ताहारे “संव-

र्द्धितोरःस्थलतारहारः” रघुः ।
पृष्ठ ३२७९

तारा स्त्री तारयति संसारर्णवात् भक्तान् तॄ--णिच्--अच् ।

१ दशमहाविद्यान्तर्गते द्वितीयमहाविद्याभेदे । २ नक्षत्रे च
तत्र नक्षत्रादीनां लिङ्गभेदा यथा “हस्ता स्वाती
श्रवणा अक्लीवे मृगशिरो नपुंसि स्यात् । पुंसि पुनर्वसु-
पुष्यौ मूलं त्वस्त्रो स्त्रियः शेषाः अधिकमृक्षशब्दे १४०० पृ०
दृश्यम् । “काली तारा महाविद्या षीड़शी भुबनेश्वरी”
इत्यादि तन्त्रसा० “तारकत्वात् सदा तारा सुखमोक्षप्रदा-
यिनी । उग्रापत्तारिणी यस्मादग्रतारा ततः स्मृता”
तन्त्रसा० तन्नामनिरुक्तिः । ३ बुद्धदेवताभेदे ४ वृहस्पतिभा-
र्य्यायाम् मेदि० । ५ सुषेणवानरकन्यायां वालिभार्य्यायाञ्च
६ चिड़ानामगन्धद्रव्ये ७ मुक्तायाञ्च राजनि० ।
“वृहस्पतेः स वै भार्य्यां तारां नाम यशस्विनीम् ।
जहार तरसा सर्वानवमत्याङ्गिरःसुतान् । स (चन्द्रः)
याच्यमानो देवैश्च तथा देवर्षिभिः सह । नैव व्यसर्जयत्
तारां तस्मायाङ्गिरसे तदा” “ददावङ्गिरसे तारां स्वय-
मेव पितामहः । तामन्तःप्रसवां दृष्ट्वा तारां प्राह वृह
स्पतिः । मदीयायां न ते योनौ गर्भो धार्य्यः
कथञ्चन । अयोनावुत्सृजत्तं वै कुमारं दस्युहन्तमम् । ईषी
कास्तम्बमासाद्य ज्वलन्तमिव पावकम् । जातमात्रः
स भगवान् देवानामक्षिपद्वपुः । ततः संशयमापन्नास्ता-
रामुचुः सुरोत्तमाः । सत्यं ब्रूहि सुतः कस्य
सोमस्याथ वृहस्पतेः । पृच्छ्यमाना यदा देवैर्नाह सा
साध्वसाधु वा । तदा तां शप्तुमारब्धः कुमारो दस्युह-
न्तमः । तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ।
यदत्र तथ्यं तद् ब्रूहि तारे! कस्य सुतो ह्ययम् । सा
प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं शनैः । सोमस्येति महा
त्मानं कुमारं दस्युहन्तमम्” हरिवं० २५ अ० । “सुषेणा
दुहिता चेयमर्थसूक्ष्मविनिश्चये । औत्पातिके च विविधे
सर्वतः परिनिष्ठिता । यदेषा साध्विति व्रूयात् कार्य्यं
तन्मुक्तसंशयम् । न हि तारा मतं किञ्चदन्यथा
परिवर्त्तते” रामा० कि० २३ अ० । सा च पश्चात् वालिनी
मरणानन्तरं सुग्रीवभार्य्या “तारया सहितः कामी सक्तः
कपिवृषस्तदा” ३१ अ० “अहल्या द्रौपदी कुन्ती तारा
मन्दोदरी तथा । पञ्च कन्याः स्मरेन्नित्यं महापातक-
नाशनम्” तत्र मुक्तायां “तारावलीविकरणैर्व्यरुचन्
निवासाः” माघः कनीनिकायां “लुलितनयनताराः क्षाम-
वक्त्रेन्दुविम्बाः” माघः ।
ताराश्च अश्विनादयः । ज्यो० त० ताः तद्विशेषादिक-
ञ्चोक्तं यथा
“अश्विनी भरणी चैव कृत्तिका रोहिणी तथा । मृग-
शीर्षं तथा चार्द्रा पुनर्वसुकपुष्यकौ । अश्लेषा च मघा
पूर्वफल्गुन्युत्तरफल्गुनी । हस्ता चित्रा तथा स्वाती
विशाखा चानुराधिका । ज्येष्ठा मूलं तथाषाढ़े पूर्वो-
त्तरपदादिके । श्रवणा च धनिष्ठा च शतभिषाद्यभा-
द्रिका । उत्तरादिभाद्रपदा रेवती भानि च
क्रमात्” । “अश्वियमदहनकमलजशशिशूलभृददितिजी-
वफणिपितरः । योन्यर्य्यमदिनकृत्त्वष्णृपवनशक्राग्नि-
मित्राः । शक्रोनिरृतिस्तोयं विश्वविरञ्ची हरिर्वसु-
र्वरुणः । अजपादोऽहिर्बुध्नः पूषा चेतीश्वरा भानाम्”
विशाखायाः शक्राग्न्योर्मिलितदैवतत्वम् अभिजितोभिन्न-
त्वेन अष्टाविंशतिरिति तच्च वक्ष्यते इति नक्षत्राधिपाः
“उग्रः पूर्वमघान्तका ध्रुवगणस्त्रीण्युत्तराणि स्वभूर्वाता-
दित्यहरित्रयं चरगणः पुष्याश्विहस्ता लघुः । चित्रा
नित्रमृगान्त्यभं मृदुगणस्तीक्ष्णोऽहिरुद्रेन्द्रयुक् । मिश्रोऽग्निः
सविशाखभः शुभकराः सर्वे स्वकृत्ये गणाः । “शशाङ्कतारयोः
शुद्धिर्विचार्य्या सर्वकर्म्मसु । ग्रहाणामपि सर्वेषां तच्छुद्धौ
फलदातृता” । श्रीपतिसमुच्चये “ताराचन्द्रबले प्राप्ते दोषा-
श्चान्ये भवन्ति ये । ते सर्वे विलयं यान्ति सिंहं दृष्ट्वा
गजा इव । जन्मसम्पत् विपत्क्षेमं प्रत्यरिः साधको-
बधः । मित्रं परममित्रञ्च जन्मभाच्च पुनःपुनः । सर्व-
मङ्गलकार्य्याणि त्रिषु जन्मसु कारयेत् । विवादश्राद्ध-
भैषज्ययात्राक्षौरादि वर्जयेत् । यात्रायां पथि बन्धनं
कृषिविधौ सर्वस्य नाशोभवेत् । भै ज्ये मरणं तथा सुनि-
यतं दाहोगृहारम्भणे । क्षौ रोगसमागमोबहुविधः
श्राद्धेऽर्थनाशस्तथा वादे बुद्धिविनाशनं युधि भयं प्राप्नो-
त्ययं जन्मभे । पापाख्या तु त्रिविधा पञ्चचतुर्दशबिंशति-
स्त्रियुत्ता । सिद्धिफला वृद्धिकरी विनाशसंज्ञा क्रमात्
कथिता” । “जन्माद्यं कर्म्म ततोपि दशमं सांघातिकं
षोड़शकम् । समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ।
आद्यात्तु पञ्चविंशम् मानसमेवं नरः षडृक्षः स्यात् ।
नवनक्षत्रोनृपतिः स्वजातिदेशाभिषेकर्क्षैः” । जात्यर्क्षन्तु ।
“पूर्वात्रयं मानलमग्रजानां राज्ञान्तु पौष्णेन सहोत्त-
राणि । सपौष्णमित्रं पितृदैवतञ्च प्रजापतेर्भञ्च कृषीव-
लानाम् । आदित्यहस्ताभिजिदश्विभानि तान्यन्त्यजातेः-
प्रभविष्णुतायाम्” । (देशभं देशनामर्क्षम्) । नाड़ीनक्ष-
त्राणि । “ईहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते ।
कर्म्मर्क्षे कर्म्मणां हानिः पीड़ा मनसि मानसे । मूर्त्तिद्र-
विणबन्धूनां हानिः सांघातिके तथा । संतप्ते सामुदयिके
पृष्ठ ३२८०
मित्रभृत्यार्थसंक्षयः । वैनाशिके विनाशः स्यात्
देहद्रविणसम्पदाम्” । नाड़ीनक्षत्रफलम् । “जातिभे
कुलनाशः स्याद्बन्धनञ्चाभिषेकभे । देशभे देशभङ्गः स्यात्
क्रूरैरेवं शुभैः शुभम् । यस्मिन्राजाभिषिक्तोभवति तदाभि-
षेचनिकभम् अ इ उ ए कृत्तिका ओ ववि वु रोहिणी-
त्यादिदेशभम् (चक्रशब्दे १२४८ पृ० शतपदचक्रे दृश्यम्) ।
उग्रादिगणादिकार्य्यभेदः मु० चि० उक्तो यथा
“उत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम् । तत्र स्थिरं
वीजगेहशान्त्यारामादिसिद्धये । स्वात्यादित्ये श्रुतेस्त्रीणि
चन्द्रश्चापि चरं चलम् । तस्मित् गजादिकारोही वाटि-
कागमनादिकम् । पूर्वात्रयं याम्यमघे उग्रं कूरं
कुजस्तथा । तस्मिन् घाताग्निशाठ्यानि विषशस्त्रादिसिध्यति ।
विशाखाग्नेयभे सौम्यो मिश्रं साधारणं स्मृतम् । तत्रा-
ग्निकार्य्यमिश्रं च वृषोत्सर्गादिसिद्धये । हस्ताश्विपुष्पाभि-
जितः क्षिप्रं लघु गुरुस्तथा । तस्मिन् पण्यरतिज्ञानं भूषा-
शिल्पकलादिकम् । मृगान्त्यचित्रामित्रर्क्षमृदु मैत्रं भृगु-
स्तथा । तत्र गीताम्बरं क्रीड़ा मित्रकार्य्यविभूषणम् ।
मूलेन्द्रार्द्राहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम् । तत्राभि-
चारघातोग्रभेदाः पशुदमादिकम् । मूलाहिमिश्रोग्रमधो-
मुखं भवेदूर्ध्वास्यमार्द्रेज्यहरित्रयं ध्रुवम् । तिर्यङ्मुखं
मैत्रकरानिलादितिज्येष्ठाश्विनानीदृशकृत्यमेषु” ।

ताराकूट न० दम्पत्योर्विवाहशुभाशुभज्ञापके कूटभेदे

उपयमशब्दे १२४८ पृ० दृश्यम् । “वर्णो वश्यस्तथा तारा
योनिश्च ग्रहमैत्रकम् । गणमित्रं भकूटञ्च नाडी चेते
गुणाधिकाः” मुहु० चि० ।

ताराक्ष पु० तारकाक्षापरपर्य्यायके तारकासुरस्य पुत्रे दैत्यभेदे तारकाक्ष्यशब्दे दृश्यम् ।

ताराचक्र न० तन्त्रोक्ते दौक्षणोयमन्त्रशुभाशुभज्ञानार्थे चक्र-

मेद तास्वरूपादि चक्रशब्दे० ८०९ पृ० नक्षत्रचक्रे दृश्यम् ।

ताराचमन न० तारायाः पूजाद्यङ्गमाचमनम्” शा० त० ।

तारादवीपजाद्यङ्गे आचमनभेदे तच्च भैरवतन्त्रे उक्तं
यथा “तारामेदेस्त्रिभिः पीत्वा मायया क्षालयेत् करम् ।
हुँ ओष्ठौ तु द्बिरुत्मृज्य फट्कारैः क्षालयेत् करम् ।
आस्यं नासे दृशौ श्रात्रे नाभिवक्षः श्रिरोभुजान् ।
वैरोचनादिभिः स्पृष्ट्वा सर्वपापैः प्रमुच्यते । आचम्य
भैरवो भूत्वा वत्सरात्तां प्रपश्यति” । ताराभेदैरिति ।
उग्रतारैकजटानीलसरस्वतीभेदैः । वैरोचनादयस्तु ।
बैरोचन, शङ्ख, पाण्डर, पद्मनाभ नामक, मामक,
पाण्डव, तारकाऽसिताङ्ग, यमान्तक, विघ्नान्तक, नरा-
न्तकाः, सचतुर्थीप्रणवादिनमोऽन्तकाः” कृष्णानन्दतन्त्रसा० ।

ताराधिप पु० ६ त० । १ चन्द्रे २ शिवे ३ वृहस्पतौ ४ वालिवानरे ५ सुग्रीवे

च । “ततार ताराधिपखण्डधारी” कुमा० । “ताराधिपे
लिनि लग्नगतेऽथ वास्मिन्” ज्यो० त० । तारापतितारा-
नाथादयोऽप्यत्र । “कठोरतारापतिलाञ्छनच्छविः” माघः ।
६ नक्षत्राधिपेषु अश्विनीकुमारादिषु ताराशब्दे दृश्यम् ।

तारापथ पु० ताराणां पन्थाः अच् समा० । आकाशे हला०

तारापीड़ पु० ताराणामापीड़ः भूषणमिव । चन्द्रे त्रिका० ।

ताराप्रमाण न० अश्विन्यादिनक्षत्राणां स्वरूपावेदकसंख्या-

विशेषे स च वृ० स० ९८ अ० सप्रयोजनमुक्तो यथा
“शिखिगुणरसेन्द्रियानलशशिविषयगुणर्तुपञ्चवसु-
पक्षाः । विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः ।
भूतशतपक्षवसवो द्वात्रिं शच्चेति तारकामानम् । क्रम-
शोऽश्विन्यादीनां कालस्ताराप्रमाणेन । नक्षत्रजमुद्वाहे
फलमव्दैस्तारकामितैः सदसत् । दिवसैर्ज्वरस्य नाशो
व्याधेरन्यस्य वा वाच्यः” ।

ताराभूषा स्त्री तारा भूषा यस्याः । रात्रौ राजनि० ।

ताराभ्र पु० तारो निर्मलः जलशून्यः अभ्रो मेघ इव शुभ्र-

त्वात् कर्पूरे राजनि० ।

तारामण्डल न० ताराणां मौक्तिकानां मण्डलं यत्र । ईश्वर-

मण्डपभेदे शब्दरत्ना० । ६ त० । २ नक्षत्रमण्डले च ।

तारामृग पु० तारारूपः मृगः मृगशिरः । मृगशिरोनक्षत्रे

“अन्वधावन् मृगं रामो रुद्रस्तारामृगं यथा” भा० व० २७७
अ० “तारारूपं मृगम् तारामृगं, प्रजापतिः स्वां दुहितरं
मृगो भूत्वा जगाम तस्य रुद्रः शिरोऽच्छिनत् तदेव
मृगशिरो नक्षत्रम्” नीलक० । “एष चैव मृगः श्रीमान्
यश्च दिव्यो नभश्चरः । उभावेतौ मृगो दिव्यौ तारा-
मृगमहीमृगौ” रामा० अर० ४३ । २ । स० ।

तारारि पु० ६ त० । विटमाक्षिके उपधातुभेदे हेमच० ।

तारावती स्त्री ककुत्स्थराजभार्य्यायां मनोन्यथिन्यां जातायां

दुर्गावतारभूतायां कन्यायां शिवावतारचन्द्रशेखरपत्न्याम् ।
तत्कथा कालिकापु० ४७ अ० यथा ।
“काकुत्स्थो भार्य्यया सार्द्धमत्यन्तमुदितोऽभवत् ।
सहजेनाथ हारेण भूषिता सा ककुत्स्थजा । ववृधे
मन्दिरे तस्य वर्षास्विव सुरापगा । तेनैव हारचिह्नेन
तस्यास्तारावतीति वै । नामाकरोत् पिता काले यथोक्ते
नृपसत्तम!” । “पतिं पूर्ववरं पुत्री राज्ञस्तारावती सती ।
खयं सा पार्वती देवी वत्रे च चन्द्रशेखरम् । वैवाहि-
पृष्ठ ३२८१
केन विधिना स राजा चन्द्रशेखरः । तारावतीं तदा
भार्य्यां ककुत्स्थनृपतेः सुताम् । संस्कृत्य ज्ञापयामास
देवेभ्यो वैदिकैर्मखः”

ताराषोढ़ा स्त्री ६ त० । तारापूराङ्गे षोढ़ान्यासभेदे

तन्त्रसारे ताराप्रक० दृश्यम् । “इति षोढ़ा च कथिता
तारायाः सर्वसिद्धिदा” तन्त्रसा० ।

तारिका स्त्री ताड़िका डस्य रः । तालरसजाते मद्यभेदे । ताड़िकाशब्दे दृश्यम् ।

तारिन् त्रि० तारयति तॄ--णिच्--णिनि । १ तारके । स्त्रियां

ङीप् । सा च दशसु महाविद्यासु २ द्वितीयविद्यायाम्
तद्भेदाः तन्त्रसारे उक्ता यथा “तारा चोग्रा महोग्रा च
वजा काली सरस्वती । कामेश्वरी च चामुण्डा इत्यष्टौ
तारिणी गणाः । अथ भेदान् प्रवक्ष्याभि तारिण्याः सर्व-
सिद्धिदान् । येषां विज्ञानमात्रेण जीवन्मुक्तो हिसाधकः”
इत्युपक्रमे तासामभिधानम् । ३ बुद्धदेवताभेदे त्रिका० ।

तारुक्ष्य पु० तरुक्षस्यर्षेरपत्यं गर्गा० यञ् । तरुक्षर्षेरपत्ये ।

स्त्रियां लोहिता० ष्फ । तारुक्ष्यायणी । यूनि तु
तारुक्ष्यायण फक् । यूनि तदपत्ये स च गोत्रप्रव-
रान्तर्गतः ।

तारुण पुंस्त्री तरुणस्यापत्यम् उत्सा० अञ् । तरुणस्यापत्ये स्त्रियां ङीप् ।

तारुण्य न० तरुणस्य भावः ष्यञ् । यौवने अमरः । “स्म-

रान्धा गाढ़तारुण्याः समस्तरतकीविदाः” सा० द० । “ततः
स राजा तारुण्यादौरसेन बलेन च” भा० शा० १२५ अ० ।

तारेय पु० ताराया अपत्यम् ढक् । अङ्गदे १ बालिपुत्रे । “करि-

ष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः” रामा० कि० २२ सर्गः ।
२ वृहस्पतिभार्य्यायास्तारायाश्चन्द्रजे पुत्रे बुधे च ।

तार्कव त्रि० तर्कोर्विकारः कोपधत्वात् अण् । तर्कुविकारे

सि० कौ० ।

तार्किंक त्रि० तर्कं वेत्ति तच्छास्त्रमधीते वा ठञ् । १ तर्कवेत्तरि २ तर्कशास्त्राभिज्ञे च ।

तार्क्ष पु० तृक्ष एव स्वार्थे अण् । कश्यपे ऋषौ । “प्रमथ्य तरसा

राज्ञः शांल्लादींश्चैद्यपक्षगान् । पश्यतां सर्वलोकानां
तार्क्षपुत्रः सुधामिव” भाग० । २ पातालगरुड़लतायां
स्त्री राजनि० गौरा० ङीष् ।

तार्क्ष्य पु० तृक्षस्य गोत्रापत्यं गर्गा० वृक्षेत्यत्रंतृक्षेति पाठान्त-

रात् यञ् । १ वृक्षमुनेर्गोत्रापत्ये स्त्रियां लोहि० ष्फ ।
तार्क्ष्यायणी । २ गरुड़ाग्रजे अरुणे ३ गरुड़े ४ अश्वे ५ सर्पे
पुंस्त्री० ६ रसाञ्जने च मेदि० । ७ शालवृक्षे ८ स्वर्णे च
शब्दर० ९ अश्वकर्ण्णवृक्ष १० स्यन्दने हेमच० । ११ पर्वतभेदे
१२ विहृसमात्रे । “अयमुत्तरात् संयद्वसुस्तस्य तार्क्ष्य-
श्चारिष्टनेमिश्च सेनानीग्रामण्यौ” यजु० १५ । १८ । “तीक्ष्णे-
ऽन्तरीक्षे क्षिपति पक्षौ तार्क्ष्यः” वेददी० पृषो० । तत्र
गरुडे “आरुह्य तार्क्ष्यं नभसीव भूतले” माघः “भवन्ति
निर्विषाः सर्पाः यथा तार्क्ष्यस्य दर्शनात्” पञ्चत० ।
“त्रस्तेन तार्क्ष्यात् किल कालियेन” रघुः । “दशरात्र-
मुपयुज्य सर्वं तरतिं किल्विषं तार्क्ष्यदर्शनमुपपद्यते”
सुश्रुतः । तार्क्ष्यस्येव दर्शनं दूरात् दर्शनमित्यर्थः ।
सर्पे “त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दष्ट्राः विषाणिनः”
भा० भी० ३ अ० ।

तार्क्ष्यज न० तार्क्ष्ये पर्वते जायते जन--ड । रसाञ्जने शब्दार्थचि० ।

तार्क्ष्यध्वज पु० तार्क्ष्यो ध्वजीऽस्य । गरुड़ध्वजे विष्णौ हेमच०

तार्क्ष्यकेतनादयोऽप्यत्र ।

तार्क्ष्यनायक पु० ६ त० । गरुडे राजनि० तार्क्ष्यनाथादयोऽप्यत्र

तार्क्ष्यप्रसव पु० तार्क्ष्यः शैलः प्रसवोऽस्य । अश्वकर्णवृक्षे राजनि०

तार्क्ष्यशैल न० तार्क्ष्यशैले भवम् अण् । रसाञ्जने राजनि०

“सिन्धूद्भूतं चक्रमर्दस्य वीजमिक्षूद्भूतं केशरं तार्क्ष्यशै-
लम्” । “लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्य्याः
कृष्णवर्णास्तिलाश्च” सुश्रुतः ।

तार्क्ष्यसामन् न० सामभेदे लाट्या० १ । ६ । १९ ।

तार्क्ष्यायण पुंस्त्री० तृक्षस्य ऋषेरपत्यं युवा गर्गा० वृक्षेत्यत्र

तृक्षेति पाठान्तरात् यञ् यूनि फक् अनातीत्युक्तेराप-
त्यस्य यस्य लोपो न । तृक्षर्षेर्यून्यपत्ये ।

तार्क्ष्यी स्त्री तार्क्ष्यस्य खगस्य प्रिया अण् । वनलताभेदे शब्दरत्ना० ।

तार्ण त्रि० तृणस्येदं शिवा० अण् । १ तृणसम्बन्धिनि २

तृणजन्ये वह्नौ पु० । “तार्णातार्णोभयं नास्तीत्यत्र
तार्णत्वमतार्णत्वञ्च वह्नित्वव्याप्यो जातिभेदः इति नव्य
नैयायिकाः । तृणात् तद्विक्रयात् स्थानादागतः आयस्थान-
त्वात् शुण्डिका० अण् । ३ तृणविक्रयरूपार्थस्थानजे करे त्रि० ।

तार्णक त्रि० तृणानि सन्त्यस्मिन् छण् कुक् च तार्णकीयास्तस्मिन्

भवः विल्वका० छमात्रस्य लुक् । तृणयुक्तदेशभवे ।

तार्णकर्ण पुंस्त्री० तृणकर्णस्यापत्यं शिवा० अण् । तृणकर्ण-

स्यर्षेरपत्ये ।

तार्णायन पुंस्त्री तृणस्यर्षेर्गोत्रापत्यम् नडा० फक् । तृणनामकर्षेर्गोत्रापत्ये ।

तार्त्तीय त्रि० तृतोय एव स्वार्थे अण् । तृतीये “प्रथमस्य

तूत्तरस्याह्नस्तार्त्तीयं तृतीयं सवनम्” आश्व० श्रौ० १ । १ । ४

तार्त्तीयीक त्रि० तृतीय एव तृतीय + स्वार्थ ईकक् । तृतीये

“तार्त्तीयोकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः”
मालतीमाधवम् ।
पृष्ठ ३२८२

तार्य्य त्रि० तॄ--कर्मणि ण्यत् । तरणीये । “नौतार्य्यां तां

गदीं तरेत्” भा० शा० १२४६ श्लो० “नाव्यं त्रि-
लिङ्गं नौतार्य्यम्” अमरः । तरे देयम् ष्यञ् । २
तरणार्थे देवे शुल्के च । “भाण्डपूर्णाणि यानानि तार्य्यं
दाप्यानि सारतः” मनुः ।

ताल पु० तल एव अण् । १ करतले शब्दार्थचि० । ताड्यते

तड--आघाते कर्मणि अच् डस्य लः । १ हरिताले
२ तालीशपत्रे न० राजनि० ३ दुर्गासिंहासने न० हेमच०
तालस्येदम् अण् तस्य लुक् । ४ तालफले न० । अङ्गुष्ठमध्य-
म भ्यां मिते ५ परिमाणे ६ करास्फालने ७ कांस्यनि-
र्मितवाद्यभेदे (करताल) ८ त्सरौ खड़गमुष्टौ च पु०
मेदि० ९ स्वनामख्याते वृक्षभेदे भावप्र० ।
“पक्वं तालफलं पित्तरक्तश्लेष्मविवर्द्धनम् । दुर्जरं
बहुमूत्रञ्च तन्द्राऽभिष्यन्दशुक्रदम् । तालमज्जा तु तरुणः
किञ्चिन्मदकरो लघुः । श्लेष्मलो वातपित्तघ्नः सस्नेहो मधुरः
सरः । तालमज्जा तालफलवीजमज्जा । तालजं तरुणं
तोयमतीव मदकृन्मतम् । अम्लीभूतं तदा तत् स्यात्
पित्तकृतद्वातदोषहृत्” भावप्र० । “तालो द्वादशभिर्जानु-
परिणाहपरिभ्रमैरिति” उक्ते १० मानविशेषे । हस्तेन
जानुमण्डलपरिभ्रमणं यावत्याकालमात्रया क्रियते
तावतीभिर्द्वादशभिस्तालाख्यः कालांशो ज्ञेयः इत्यर्थः ।
११ गीतकालक्रियामाने । अयं स्वर इयत्कालं गेयः
इयत्कालं विलम्बित इयत्कालं द्रुतम् इयत्कालं मध्य-
मिति बोधयितुं ईदृशैर्हस्तैरङ्गुल्याकुञ्चनप्रसारणाक्रिया-
भिर्नर्त्तितव्यं गातव्यञ्चेति कालक्रिययोः प्रमाणं
तालः । इदमियत्कालं गेयमिति कालेनाङ्गुल्याद्याकु-
ञ्चनादिक्रियामानं ताल इति यावत् । “कालस्य एकद्वि-
त्रिमात्राद्युच्चारणनियमितस्य क्रियायाः परिस्पन्दात्मि
कायाः परिच्छेदहेतुस्तालम्” इति मधुसू० । “कालेन नर्त्तन
गलवादनक्रियाणां मानं तालः ताराद्येककालमेषां
विरामस्ताल इत्यन्थे” इत्यमरटीकायां भरतः ।
तन्निरुक्तिस्तु गौरीहरयोर्नृत्येन तालो बभूव ।
तथा हि । हरनृत्यस्य ताण्डवं गौर्य्यानृत्यस्य
लास्यम् इति संज्ञा पुरुषन्यृत्यस्य ताण्डवं नार्य्या-
नृत्यस्य लास्यमिति नियमात् । ताण्डवस्याद्याक्ष-
रेण लास्यस्याद्याक्षरेण च मितित्वा ताल इति
संज्ञा जाता इति” संगीतशास्त्रे तस्य भेदा यथा “चर्च्चत्
पुट १ श्चारु पुटः २ ३ घट्टितापुत्रकस्तथा । ४ उद्घट्टकः
५ सन्निपातः ६ कङ्खणः ७ कोकिलारवः । ८ राजकोलाहलो
९ रङ्गविद्याधर १० शचीप्रियौ । ११ पार्वतीलोचनो १२ राज
चूड़ामणि १३ जयश्रियौ १४ वादकाकल १५ कन्दर्प १६
नलकूवर १७ दर्पणाः । १८ रतिलीलो १९ मोक्षपतिः
२० श्रीरङ्गः २१ सिंहविक्रमः । २२ दीपको २३ मल्लिकामोदो
२४ गजलीलश्च २५ चर्च्चरी । २६ कुहक्को २७ विजयानन्दो
२७ वीरविक्रम २८ टेङ्किके । २९ रङ्गाभरण ३० श्रीकीर्त्ति
३१ वननालि ३२ चतुर्मुखाः । ३३ सिंहनन्दन ३४ नन्दीश
३५ चन्द्रविम्ब ३६ द्वितीयकाः । ३७ जयमङ्गल ३८ गन्धर्व
३९ मकरन्द ४० त्रिभङ्गयः । ४१ रतितालो ४२ वसन्तश्च
४३ जगझम्प्रो ४४ऽथ मारुतिः । ४५ कविशेखर ४६ घोषौ
च ४७ हरवल्लभ ४८ भैरवौ ४९ । गतप्रत्यागतो ५० मल्लतालो
५१ भैरवमस्तकः ५२ । सरस्वतीकण्ठाभरणः ५३ क्रीड़ा
५४ निःसारुरेव च । ५५ मुक्तावली ५६ रङ्गराज ५७ भरता-
नन्दा ५८ऽऽदितालकाः ५९ । सम्पक्वेष्टक ६० इत्यादि ताला
भरत संमताः । संक्षेपतो निगदिता अथैषां ल णं
तथा । अर्द्धमात्रं द्रुतं ज्ञेयमेकमात्र लघु स्मृतम् ।
द्विमात्रन्तु गुरुज्ञेयं त्रिमात्रन्तु प्लुतं मतम् ताले चर्च्चत्
पुटे ज्ञेयं गुरु द्वन्द्वं लघुः प्लुतः १ । गुरर्लघुः प्लुतश्चैव
भवेच्चारुपुटाभिधे २ । गलागलगलाश्चैव षट्टिता
पुत्रके मताः ३ । उद्घट्टके तु गमनाः ४ सन्निपाते गुरुर्मतः ५ ।
चतुर्विधः परिज्ञेयस्तालः कङ्कणनामकः ६ । पूर्णः
खण्डः समश्चैव विषमश्चैव कथ्यते । लचतुष्कं गणौ
पूर्णे खण्डे विन्दुद्वयं गुरुः । यगणस्तु समे ज्ञेय
स्तगणो विषमे भवेत् । खचतुष्कं सयत्यन्तं गुरुर्विन्दु
चतुष्टयम् । सयत्यन्तं लघुश्चैव तालोऽयं कोकिलारवः ७
लचतुष्कं सयत्यन्तं खत्रयं खत्रयं लघुः । लघुर्विन्दु-
द्वयञ्चेति राजकोलाहलाभिधे ८ । खद्वयं द्वौ प्लुतौ
यत्र रङ्गविद्याधरः स तु ९ । लघूनि त्रीणि यत्र स्युर्गु-
रूणि त्रीणि यत्र वै । प्लुतद्वयञ्च यत्रास्ति स तालः
स्याच्छचीप्रियः १० । खद्वयं गुरुलौ विन्दुर्गौ प्लुतौ
गौ प्लुतौ पुनः । यत्र तालः स विज्ञेयः पार्वतीलोचना-
भिधः ११ । राजचूड़ामणौ विन्दुर्लश्च विन्दुर्लगौ मतौ १२ ।
रगणोनो गुरुश्चैव जयश्रीरिति कथ्यते १३ । प्लुतौ
लघुचतुष्कञ्च मौ नौ द्रुतयुगं लघुः । लचतुष्कं विना-
शब्दं तालः स्याद्वादकाकलः १४ । द्रुतद्वयं यकारश्च
कन्दर्पेऽपि प्रकीर्त्तितः १५ । चत्वारो गुरवो यत्र चत्वार
प्लुतका अपि । लष्वक्षराणि चत्वारि तालीऽयं नलकू
पृष्ठ ३२८३
वरः १६ । विन्दुद्वयं गुरुश्चैव भवेद्यत्र स दर्पणः १७ ।
रतिलोले विधातव्यं लघुद्वन्द्वं गुरुद्वयम् १८ । आदौ
षोड़श गुरुवो द्वात्रिंशल्लघवस्ततः । चतुःषष्टिर्द्रुता यत्र
सोऽयं मोक्षपतिर्मतः १९ । श्रीरङ्गसंज्ञके ताले मगणाल्लः
प्लुतौ मतौ २० । सिंहविक्रमताले तु मगणो नखगाः
खगौ २१ । प्लुतो नश्च प्लुतश्चैव ताले दीपकनामनि २२
ताले स्यान्मल्लिकामोदे लद्वयं खचतुष्टयम् २३ । लचतुष्कं
विरामान्तं गजलीले प्रकीर्त्तितम् २४ । अष्टकृत्वस्तु चर्च्चर्य्यां
विरामान्ते द्रुतौ लघुः २५ । द्रुतद्वन्द्वं भवेत्ताले
कुहक्काख्ये लघुद्वयम् २६ । भवेच्च विजयानन्दे लत्रयञ्च लघुत्र-
यम् २७ । वीरविक्रमताले तु द्रुतौ लगौ ततः प्लुतः २८ ।
टेङ्किका रगणेन स्यादेकेनैव कृतास्पदे २९ । भगणो ग
प्लुतौ स्यातां रङ्गाभरणनामके ३० । श्रीकीर्त्तिसंज्ञके ताले
गुरुद्वन्द्वं लघुद्वयम् ३१ । चतुर्द्रुता लघू द्वौ तु द्रुतो गो
वनमालिनि ३२ । चतुर्मुखाभिधे ताले यगणानन्तरं प्लुतः ।
३३ । भश्च प्लुतो लगौ विन्दुद्वयं गौ नः प्लुतस्तथा ।
लघुः प्लुतो द्रुतश्चैको लघुद्वयमथापि च । निःशब्दं ल
चतुष्कञ्च ताले स्यात् सिंहनन्दने ३४ । गो लघुर्गौ लघुः
प्लतस्ताले नन्दीश्वरे मतः ३५ । गो द्रुतौ नौ प्लतद्वन्द्वं
चन्द्रविम्बे प्रकीर्त्तितम् ३६ । द्र तद्वन्द्वं लघुश्चैकस्ताले
स्यात्तु द्वितीयके ३७ । सकारश्च यकारश्च जयमङ्गल-
नामनि ३८ । चत्वारो गुरवो विन्दुश्चत्वारश्च प्लुता अपि ।
विन्दवो दश षट् लाश्च ताले गान्धर्वसंज्ञके ३९ । मकरन्दे
द्रुतद्वन्द्वं लघुद्वन्द्वमथो गुरुः ४० । गुरुर्लघुः प्लुतश्चैव
त्रिभङ्गिः परिकीर्त्तिता ४१ । गुरुद्वयं लघुद्वन्द्वं रतिताले
प्रकीर्त्तितम् ४२ । वसन्तताले कर्त्तव्यो नगणो मगण
स्तथा ४३ । जगझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम् ४४ ।
गप्लुतौ लौ द्रुतौ लश्च प्लुतो मारुतिनामनि ४५ । कविशै-
खरे प्लुतः शून्यं नगौ लश्च ततो लघुः ४६ । खचतुष्कं
विना शब्दं यत्र घोषः स उच्यते ४७ । हरवल्लभताले च
प्लुतो लो गौं च खद्वयम् ४८ । भगणः प्लुतौ गणौ गयौ
प्लुतौ लघुश्च भैरवे ४९ । गतप्रत्यागते ताले लो मौ गौ नौ
प्रकीर्त्तितौ ५० । चतुर्लघु मल्लताले विरामान्तं द्रुतद्वयम् ५१ ।
लगौ गौ मो नगौ गश्च खद्वयं लद्वयं पुनः । नचतुष्कं
विना शब्दं ताले भैरवमस्तके ५२ । सरस्वतीकण्ठाभरणे गौ
लघुश्च द्रुतद्वयम् ५३ । एक एव प्लुतो यत्र क्रीड़ातालः
स उच्यते ५४ । द्रुतद्वयं विरामान्तं ताले निःसारके
मतम् ५५ । खत्रयं सविरामान्तं नौ पुनः खत्रय-
न्तथा । प्लुतौ गः खयुगं गश्च यत्र मुक्तावली तु सा ५६ ।
लगौ विन्दुयुगं गौ लौ रङ्गराजे प्रकीर्त्तितः ५७ ।
खद्वयं सविरामान्तं गुरुः प्लुतद्वयं लघुः । यत्र ताले स
विज्ञेयो भरतानन्दसंज्ञकः ५८ । आदिताले लघुश्चैक
इत्याह भरतो मुनिः ५९ । भगणश्च प्लुताद्यन्तःसंपक्वे-
ष्टकतालके ६० । एकाधिकशते ताले षष्टिर्मुख्यतमा इमे” ।
अथ प्लुतादिमात्राभेदेन तालघातनम् । “ताले निष्णात-
हस्तः प्लुतमनुघटयेद्घातमेकं सशब्दं तत्पश्चात् द्वौ च घातौ
निनदविरहितौ दर्शयेदूर्द्ध्वतोऽधः । शुन्यत्वात् पक्कता-
लाविति जगति पुनः सूत्रसिद्धौ सनन्दा विल्वं घातत्रयं
तत् त्रिफलतनुवहिर्बर्द्धयेद्दुर्लकारम । एको घातः
सशब्दो द्विकल इह गुरौ शब्दहीनस्तथान्यः सोऽप्यूर्द्ध्वं
याति लीलावलयवलयितोत्तानहस्ताङ्गुलीभिः । किञ्चो-
च्चैकैकमात्रा समुदयिनि लघौ घात एको निनादी घात्यो
मात्रार्द्धभाजि द्रुतवपुषि लघोरर्द्धनादेन घातः” ।
संगी० दा० ३ स्तवकः ।
“आदावष्टस्तथा रुद्रो ब्रह्म इन्द्रश्चतुर्दशः । दशावतारवन्धा-
दिनृत्यनाट्यं ततः परम् ।”
  • अथष्टतालभेदाः । “आडः १ दोजः २ ज्योतिः ३ चन्द्रशेखर ४
गञ्जनं ५ पञ्चतालः ६ रूपकं ७ समतालः ८ ।”
  • तत्र रुद्रतालस्य भेदाः । बीरविक्रमः १ । विषमसमुद्रः २
धरणं ३ वीरदशकः ४ मण्डूकः ५ कन्दर्पः ६ डाँशपाहिड़ः ७
ध्रुवचरणं ८ दशकोषी ९ गजेन्द्रगुरुः १० छुटका ११ ।”
  • अथ ब्रह्मतालभेदाः “ब्रह्म १ विरामब्रह्म २ षट्कला ३ सप्तमात्रा ४”
  • अथेन्द्रतालभेदाः । “देवसारः १ देवचाली २ मदनदोला ३ गुरु-
गन्धर्वः ४ पञ्चाली ५ इन्द्रभाषः ६ ।”
  • अथ चतुर्द्दशतालभेदाः । “चिह्नतालः १ चन्द्रमात्रा २ देवमात्रा ३
अर्द्धज्योतिः ४ स्वर्गसारः ५ क्षमाष्टः ६ धराधारा ७
वसन्तवाक् ८ काककला ९ कीरशब्दा १० ताण्डवी ११
हर्षधारिका १२ भाषा १३ अर्द्धमात्रा १४ ।”
  • क्रमेणैषां लक्षणादि तत्रापि अष्ट तालभेदस्य लक्षणानि यथा
“एकतालस्ततः शून्यं यगलं तालिका परे । सङ्गीते
प्रथमः सार आड़तालः प्रकीर्त्तितः १ । एकतालञ्च
शून्यञ्च क्रमेणापि त्रिधा भवेत् । शेषशून्यं कलाभेदे
दोजाख्यश्च भवेत् पृथक् ३ । प्रथमं युगलं तालं
एक एकस्तथा परे । कलाभेदे गानमेवं ज्योतिश्च
परिकीर्त्तितम् ३ । चन्द्रश्चन्द्रस्तथा युग्मं तथा चन्द्र-
स्तथा परे । षट् तालानि भवन्त्येवं चन्द्रशेखर-
पृष्ठ ३२८४
भाषितः ४ । एकतालो भवेत् श्रेष्ठः क्रमेणापि चतुष्ट-
यम् । शेषशून्यं गञ्चनञ्च सर्वतो मुनिभाषितम् ५ । प्रथमं
युगलञ्चैव तत्परं तालमेककम् । शेषे युग्मं तथा शून्यं
पञ्चतालं प्रकीर्त्तितम् ६ । युगलं प्रथमं तालं तत्परन्त्वेक-
शून्यकम् । शेषे च युगलं त लं रूपकं परिकीर्त्तितम् ७ ।
एकतालं तथा शून्यं क्रमेण द्विविधं भवेत् । शेषे
युगलतालञ्च समतालं भवेत् परम् ८ ।”
  • रुद्रतालभेदलक्षणादि “एकतालं तथा शून्यं क्रमेण
त्रिविधं भवेत् । तत्परं युगलं ताल इत्येव वीरविक्रमः १ ।
युग्मतालं तथा शून्यं तत्परं द्वयतालकम् । शेषे च युगलं
तालं समुद्रविषमं स्मृतम् २ । युग्मतालञ्च शून्यञ्च
एकतालञ्च तत्परे । शेषैकत्र त्रिशून्यञ्च विषमं धरणं
भवेत् ३ । एकतालं तथा शून्यं क्रमेणापि त्रिघा
भवेत् । युगलं युगलं पश्चात् स वीरदशकः स्मृतः ४ ।
प्रथममेकतालञ्च तत्परं शून्यमेककम् । शेषैकत्र त्रिता-
लञ्च मण्डूकस्य गतिर्यथा ५ । समतालं यथा दृष्टं तथा
कन्दर्पसंज्ञितम् । समताले भवेत् शून्यं कन्दर्पे नास्ति,
तत्पुनः ६ । पञ्चतालात् परं शून्यं डाँशपाहिड़मुत्त-
मम् । अत्यूर्द्ध्वञ्च भवेत् त्रस्तं संग्रामस्य यथा गतिः ७ ।
एकतालं तथा शून्यं क्रमेणापि द्विधा भवेत् । शेषैकत्र
त्रितालञ्च घ्रुवचरणभाषितम् ८ । एकतालं एकशून्य-
मित्येवञ्च भवेत् क्रमात् । विरामे एकतालञ्च वाग्भेदे
दशकोषिका ९ । युगलं युगलं पश्चात् तदन्तेप्येकताल-
कम् । शेषे च युग्मं शून्यञ्च गजेन्द्रगुरुभाषितम् १०
युग्मशून्यं विरामे च एकतालं भवेत् क्रमे । छुटका-
ख्यानकं धीरं सङ्गीतपरिनिष्ठितम् ११ ।”
  • ब्रह्मतालभेदलक्षणानि । “युगञ्च त्रस्तं प्रथमैकतालं
किञ्चिद्विरामे पुनरेकतालम् । ब्रह्माख्यतालञ्च सुगीत-
मध्ये यथा कपोती हि करोति शब्दम् १ । युम्म-
तालं भवेद्त्रस्तं एकतालञ्च तत्परे । शेषे द्वितीयशून्ये
च विरामब्रह्मतालकम् २ । प्रथमञ्चैकतालञ्च युग्मशून्यं
तथा परे । शेषैकत्र त्रितालेति षट्कला खलु कथ्यते ३ ।
आदौ युग्मं तथा युग्मं त्रितालञ्च तथा परे । सप्त-
मात्रा भवत्येषा व्रह्मतालान्तरे शुभे ४ ।”
  • इन्द्रतालभेदलक्षणानि “सविरामं त्रितालञ्च एकशून्यन्तथा-
परे । शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते १ । द्वितीय-
शून्यं विरामे भवति ततश्च त्रितालानि । शेषेण द्विशून्य-
मित्येवं देवचाली २ । प्रथममेव युग्मतालं तत्पश्चादेक
शून्यविरामे । शेषे त्रितयतालं भवतीति मदन
दोलेति । युग्मतालं समारभ्य पञ्चतालं भवेत्तथा ।
अत्यूर्द्ध्वञ्च तथा त्रस्तं गुरु गन्धर्व ईरितः ४ । श्रावणस्य
यथा धारा तथा तालो भवेद्घनः । पञ्चतालान्तराणीति
पञ्चालीति प्रकीर्त्तिता ५ सविरामं चतुस्तालं त्रितालं
शून्यमन्ततः । मेघारम्भे यथा केका रूयन्ते इन्द्रभा-
सितः ६ ।”
  • चतुर्दशतालभेदलक्षणानि “एकतालञ्च शून्यञ्च क्रमेण
त्रितयं ततः । शेषे चतुष्टयं त्रस्तं चिह्नताल इतीर्य्यते १ ।
एकचन्द्रस्तथा युग्मं तालं प्रत्येकतस्त्रयम् । शेषे त्रीणि
च शून्यानि चन्द्रमात्रा भवेत्परा २ । प्रथमं षट्कतालञ्च
अत्यूर्द्ध्वन्तु भवेत् क्रमात् । शेषे युग्मं तथा शून्यं देवमात्रा
च सोव्यते ३ । चन्द्रशून्यं त्रितालञ्च विरामेण क्रमेण तु ।
अत्युर्द्ध्वन्तु भवत्येवमर्द्धज्योतिरिति स्थितिः ४ । एकैक-
तालान्तंरयुग्मतालात् शून्यत्रयं तत्परमेकतालम् ।
कलाभिदा शून्यभिदा समाख्या स स्वर्गसाराख्यनवीन-
तालः ५ । युग्मशुन्यं विरामेण देवतालमिति क्रमात् ।
क्षमाष्टाख्योऽन्तरे शून्यमिति सर्वत्र भाषितम् ६ । नवाम्बुदे
रासिनि शीघ्रयानं तथा सुखंवद्धसुतानभानम् ।
युम्मं सत्रस्तं क्रमतश्च तालं शेषे त्रितालञ्च घराध-
राख्या ७ । एकतालञ्च शून्यञ्च क्रमेणापि चतुष्टयम् ।
क्रमात्तालत्रयञ्चैव वसन्तवागुदाहृता ८ । सविरामं द्वयं
तालं युग्मतालं तथा परे । शेषैकत्र त्रितालञ्च भवेत्
काककलेति सा ९ । त्रितालञ्च भवेद् त्रस्तं तत्परं त्वेकता-
लकम् । शेषेऽपि च त्रितालञ्चेत् कीरशब्दा प्रचक्ष्यते १० ।
युग्मं युग्मं तथा युग्मं तालन्त्वेकं भवेत् क्रमात् ।
शेषे शून्यं कलाभेदे ताण्डवीति भवेत् पृथक् ११ ।
सविरामं द्वयं तालं युग्मशून्यञ्च तत्परम् । शेषोर्द्ध्वन्तु त्रिता-
लञ्च हर्षधारा प्रकीर्त्तिता १२ । चन्द्रशून्यं विरामेण द्वयं
तालं भवेत् क्रमात् । अत्यूर्द्ध्वन्तु भवेद् त्रस्तं भाषाख्यं
तालमुत्तमम् १३ । अत्यूर्द्ध्वन्तु त्रितालञ्च द्वयं तालं विरा-
मकम् । इत्यर्द्धमात्रा विज्ञेया सङ्गीता भुवि सर्वतः” १४
सङ्गीतदामोदरे ४ स्तवकम्” ।
तालस्येदम् उत्सा० अञ् । “पानसं द्राक्षमाघुकं खार्जुरं
तालमैक्षवम्” प्रा० वि० पुलस्त्योक्ते ११ मद्यभेदे न०

तालक न० चु० तड--घञ् संज्ञायां क डस्य लः । हरिताले

राजनि० २ द्वारकपाटरोधनयन्त्रे (ताला) हेमच० ।
३ तुवरिकायां (अरहर) शब्दर० । स्वार्थे क । ४ ताले वृञ्चदौ
पृष्ठ ३२८५

ताल(लि)कट पु० देशभेदे स च देशः वृ० स० १४ अ०

कूर्मविभागे दक्षिणस्यामुक्तः । अथ दक्षिणेनेत्युपक्रमे
“कालाजिनसौरिकीर्णताल(लि)कटाः” ।

तालकन्द न० तालस्येव कन्दमस्य । तालमूल्याम् “कसेरु

कोविदारश्च तालकन्दं तथामिषम्” प्रा० त० वायुपु० ।
“तालकन्दं तालमूलीति प्रसिद्धम्” रघु० ।

तालकाभ पु० तालकस्येवाभा यस्य । १ हरितवर्णे हेम०

२ तद्वति त्रि० ।

तालकी स्त्री तालकस्येयम् अण् ङीप् । तालजमद्यभेदे (ताड़ी)

तालकेतु पु० तालस्तालचिह्नितः केतुरस्य । भीष्मे । “तासां

प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत” भा० उ० १४९ अ० ।

तालक्षीर पु० तालजातं क्षीरमिव शुभ्रत्वात् । (तालेर चिनि)

शर्कराभेदे राजनि० । स्वार्थे क । तालक्षीरक । तत्रार्थे ।

तालगर्भ पु० ६ त० । (तालेर मेति) तालमज्जनि । “झष

पित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः” वृ०
स० ५० अ० ।

तालङ्क पु० ताड़ङ्ग + डस्य लः । ताड़ङ्के भूषणे शब्दार्थचि० ।

तालचर पु० १ देशभेदे २ तद्देशवासिषु ३ तन्नृपेषु ब० व० ।

अन्ध्रास्तालचराश्चैव चुचुपा रेणुपास्तथा” भा०
उ० १३९ अ० ।

तालजङ्घ पु० ताल इव जङ्घा यत्र । १ देशभेदे २ तद्देशवासिषु

३ तन्नृपेषु च ब० व० । “स हैहयान् समुत्साद्य तालजङ्घांश्च
भारत!” भा० व० १०६ अ० । “हैहयानामुदावर्त्तो
नीपानां जनमेजय! । वहुलस्तालजङ्घानां क्रथाना-
मुद्धतो वसुः” भा० उ० ७३ अ० । “तालजङ्घं
महाक्षत्रमौर्वेणैकेन नाशितम्” भा० अनु० १५३ अ० । ४ ग्रह-
भेदे “निर्मांसास्तालजङ्घाश्च व्यादितास्याः भयङ्कराः”
इत्युपक्रमे “एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः”
हरिवं० १६८ अ० । “कण्ठपृष्ठग्रीवाजङ्घञ्च” पा० अस्या-
द्युदात्तता ।

तालजटा स्त्री तालस्य जटेव । तालवृक्षस्य जटाकारे पदार्थे तालप्रलम्बे शब्दार्थचि० ।

तालध्वज पु० तालः ध्वजोऽस्य । बलदेवे “सरस्वत्या-

स्तटे जातं नगं तालध्वजो बली” भा० श० ३८ अ० ।
“नातिदूरं ततो गत्वा नगं तालध्वजो बली” ५५ अ० ।
“अस्ति तालध्वजा नाम नगरी त्रिदशोपमेति” पद्मपु०
क्रियायोगसारीक्ते २ पुरीभेदे स्त्री ।

तालनवमी स्त्री तालोपहारा नवमी शा० त० । भाद्र-

शुक्लनवस्यां “मासि भाद्रपदे या स्यान्नवमी बहुलेतरा ।
तस्यां संपूज्य वै दुर्गामश्वमेधफलं लभेत्” । संवत्सरकौ०
धृतगरुड़पुराणवचनम् इयमेव तालनवमी ख्याता

तालपत्र न० तालस्य पत्रमिव । १ कर्णभूषणभेदे ताड़ङ्के ।

अमरः । ६ त० । २ तालस्य पत्रे च । “क्वचित् विधवयेव
उन्मुक्ततालपत्रया” काद० ।

तालपत्रिका स्त्री तालस्य पत्रमिव पत्रमस्याः ङीप् संज्ञायां

कन् ह्रस्वः । तालमूलीवृक्षे राजनि० ।

तालपत्री स्त्री तालस्य पत्रमिव पत्रमस्याः ङीप् । मूषिकपर्ण्याम्

राजनि० । “अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला” सुश्रु०

तालपर्ण न० स्त्री० ताल इव खड्गमुष्टिरिव पर्ण्णमस्य ।

१ मुरानामद्रव्ये शब्दच० । स्त्रीत्वपक्षे पाककर्णेति ङीप् ।
सा च २ मधुरिकायां जटाधरः ।

तालपुष्पक न० तालःखड्गमुष्टिरिव पुष्पमस्य कप् । १ प्रपौ-

ण्डरीके शब्दर० । ६ त० । २ तालवृक्षकुसुमे च ।

तालप्रलम्ब न० ताले वृक्षे प्रलम्बते प्र + लम्ब--अच् ।

तालवृक्षस्य जटायाम् राजनि० । तथा “तालप्रलम्बञ्च भङ्ग-
क्षतरुजापहम” राजनि० ।

तालभृत् पु० तालं ध्वजरूपेण बिभर्त्ति भृ--क्विप् ६ त० । बलदेवे त्रिका० ।

तालमर्द्दल पु० तालस्य तालार्थं मर्द्दल इव । १ वाद्यभेदे हारा०

तालमूली स्त्री० तालस्य मूलमिव मूलमस्याः ङीप् । मुषल्याम् ।

स्वार्थे क । तालमूलिका २ दीर्घकन्दायायाम् ।
मुसल्याम् । “तालमूलो तु विद्वद्भिर्मुषलीति निगद्यते ।
मुसली मधुरा वृष्या वीर्य्योष्णा वृंहणी गुरुः । तिक्ता
रसायनी हन्ति गुदजान्यनिलं तथा” “क्रौञ्चोष्ट्ररासभा-
स्थीनि श्वदंष्ट्रातालमूलिका । अजमोदा कदम्बस्य
मूलं नागरमेव च” सुश्रु० ।

तालयन्त्र न० सुश्रुतोक्ते शल्योद्धारणार्थे यन्त्रभेदे ।

“तलियन्त्रे द्वादशाङ्गले मत्स्यतालवदेकतालद्वितालके
कर्ण्णनासानाड़ीशल्यानामाहरणार्थम्” सुश्रु० ।

तालरेचनक पु० तालेन रेचयति चु० रिच--ल्यु स्वार्थे क ।

नटे शब्दर० । तालवेचनकेति तत्र पाठान्तरम् तत्रार्थे ।

ताललक्षण पु० तालो लक्षणं ध्वजोऽस्य । बलराभे हे ७ च०

तालवन न० ६ त० । वृन्दावनस्थे तालप्रचुरे वनभेदे

“गोवर्द्धनस्योत्तरती यमुनातीरमाश्रितम् । ददृशति ततो
वीरौ रम्यं तालवन महत्” हरिवं ७० अ० । २ तालानां
वने च । “मुण्डतालवनानीव स चकार रथव्रजान्”
भा० भी० ११७ अ० ।
पृष्ठ ३२८६

तालवृन्त न० ताले करतले वृन्तं बन्धनमस्य, तालस्येव वृन्त-

मस्य वा । व्यजने हेमच० (पाका) “तालवृन्तेन किं कार्य्यं
लब्धे मलयमारुते” उद्भटः । अस्य वायोर्गुणा यथा ।
“त्रिदोषशमनोवायुर्लघुरः श्रकीर्त्रितः” भावप्र० “ताल-
वृन्तभवो वायुस्त्रिदोषजयनो लघुः” राजनि० । “न वाति
वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम्” कुमा० । स्वार्थे क ब०
व० कप् वा । तालवृन्तक तत्रार्थे अमरः ।

तालव्य त्रि० तालुनि भवः देहावयवत्वात् यत् । तालू-

च्चार्य्येषु “इचुयशानां तालु” इत्युक्तेषु वर्णभेदेषु ।

तालाकट पु० दक्षिणस्थे देशभेदे । तालाकटस्य राजा

अण् सोऽभिजनोऽस्य वाऽण् । २ तद्देशवासिजने ३ तन्नृपे
च बहुषु अणो लुक् । “ततः शूर्पारकं चैव तालाकटम-
थापि वा । वशेचक्रे महातेजा दण्डकांश्च महाबलम्”
भा० स० ३० । सहदेवदक्षिणदिग्विजये । अयमेव देशः
तालकटत्वेन वृ० स० १४ अ० उक्तः तालकटशब्दे दृश्यः ।

तालाख्या स्त्री तालं तत्पत्रमिवाख्यायते आ + ख्या घञर्थे

कर्म्मणि क । मुरानामगन्धद्रव्ये शब्दच० ।

तालाङ्ग पु० तालस्तालचिह्नितः अङ्कः ध्वजोऽस्य । वलदेवे । अमरः ।

तालादि पु० “तालादिभ्योऽण् वा” पा० विकारार्थे अण्प्रत्यय-

निमित्ते शब्दसमूहे । स च गणः पा० गणसू० उक्तो यथा
(तालाद्धनुषि) वार्हिण इन्द्रालिश इन्द्रादृश इन्द्रायुध
चय, श्यामाक पीयूक्षा” । तालं धनुः पक्षे अञ्मयटौ ।
तालं तालमयं वा मद्यम् ।

तालावचर पु० तालेनावचरति अव + चर--अच् । नटे त्रिका०

तालि स्त्री तल--प्रतिष्ठायां णिच्--इन् । भूम्यामलक्यां वा

ङीप् । तत्रार्थे (ताड़ियात्) २ ख्याते वृक्षे भरतः ।
“वर्मभिः पवनोद्भूतराजतालीवनध्वनिः” रघुः ।

तालिक पु० तालेन करतलेन निर्वृत्तः ठक् । चपेटे (चापड़)

(हाततालि) । ताली + स्वार्थे क । २ तालमूल्याम् स्त्री
हेमच० । ३ लिखितस्य निवन्धने च शब्दर० । ४ चपेटे
स्त्री शब्दर० । ५ ताम्रवल्यां स्त्री राजनि० । “स्वैरं
हसन्त्यद्य विधाय तालिकाम्” काशी० ५ अ० ।
“उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभि-
रेषः” नैषधम् ।

तालित न० चुरा० तड़--क्त डस्य लः । १ तुलितपटे २ वाद्यभाण्डे ३ गुणे च अजयपालः ।

तालिन् पु० त० व० । तलेनर्षिणा प्रीक्तमधीयते शौनका०

णिनि । तलोक्ताध्येतृषु । तालो वाद्यत्वेनास्त्यस्य इनि ।
२ दत्तताले त्रि० ३ शिवे पु० “वैणवी पणवी ताली खली
कालङ्कटः कटः” भा० अनु० १७ । शिवनामोक्तौ ।

तालिश न० चु० तल--श न शित्त्वम् । पर्वते उणादिको० ।

ताली स्त्री तालेन तन्निर्यासेन निर्वृत्ता अण् । (ताड़ी)

१ तालजातसुरायाम् । तल--ण्यन्तात् अच् गौरा० ङीष् ।
(ताड़ियात्) २ वृक्षभेदे, अमरः । ३ तालमूल्याम्,
(भूइआमला) ४ वृक्षभेदे राजनि० । ५ आढ़कक्याम्,
(अहर) शब्दरत्ना० । ६ तालीशपत्राख्ये वृक्षे, रत्नमाला ।
७ तालकोद्वाटनयन्त्रे (काटि) कुञ्जिकायाञ्च । हेमच० ।
८ ताम्रवल्यां ९ त्र्यक्षरपादके छन्दोभेदे यथा “ताली सा
निर्दिष्टा । उद्दिष्टो मो यत्र” यथा “ज्ञानी ते जानीते ।
सारूप्यं वैरूप्यम्” छन्दोमञ्जर्य्याम् । अस्य नारीव्यपि
संज्ञोक्ता ।

तालीपत्र न० ताल्या इव पत्रमस्य । तालीशपत्रे राजनि० ।

तालीश न० तालीव रीगान् श्यति शो--ड । स्वनामख्याते

वृक्षे राजनि० “तालीशं लघु तिक्तोष्णं श्वासकासकफा-
निलान् । निहन्त्यरुचिगुल्मामवह्निमान्द्यक्षयामयान्”
भावप्र० २ भूम्यामलक्यां मेदि० ।

तालीशपत्र न० तालीशं रोगनाशकं पत्रं यस्य । १ स्वनाम-

ख्याते वृक्षे, २ भूम्यामलक्याञ्च राजनि० ।

तालीशाद्यमोदक पु० चक्रदत्तोक्ते मोदकभेदे यथा “ताली-

शपत्रं मरिचं नागरं पिप्पली शुभा । यथोक्तसंभाग-
वृद्ध्या त्वगेले चार्द्धभागिके । पिप्पल्यष्टगुणा चात्र प्रदेया
सितशर्करा । श्वासकासारुचिहरं तर्पणं दीपनं परम् ।
हृत्पाण्डुग्रहणीरोगप्लीहशोषज्वरापहम् । छर्द्यतीसार-
कासघ्नं मूढ़वातानुलोमनम् । कल्पयेद् गुड़िकां चैतच्चूर्णं
पक्वासितोपलाम् । गुड़िका ह्यग्निसंयोगाच्चूर्णाल्लघुतरा
स्मृता । पैत्तिके ग्राहयन्त्येके शुभाय वंशलोचनम्” ।

तालु न० तरन्त्यनेन वर्णाः तॄ--ञुण् रस्य लः । जिह्वे-

न्द्रियाधिष्ठाने (तेलो) स्थानभेदे । “मुखतस्तालु
निर्भिन्नं जिह्वा तत्रोपजायते । ततो नानारसो
जज्ञे जिह्वया योऽधिगम्यते” भाग० । “निर्मिन्नं
तालु वरुणो लोकपालोऽविशद्धरेः । जिह्व-
यांशेन च रसान् ययासौ प्रतिपद्यते” भाग० ३ । ६ । १४ श्लो०
तालुनि चैकमस्थि तच्च कपालाकारं यथोक्तं सुश्रुते
अस्थीनीत्युपक्रमे “एतानि पञ्चविधानि मवन्ति । तद्यथा
कपालरुचकतरुणबलयनलकसंज्ञानि । तेषां जानुनितम्बां-
सगण्डतालुशङ्खशिरस्मु कपालानि” अस्थिसंख्यामेदोक्तौ च
तत्रैव । तालुनि चैकमित्युक्तम् । “तृषा महत्या परिशु-
ष्कतालवः” ऋतुसं० । स्वार्थे यावा० कन् । तालुकमप्यत्र अमरः ।
पृष्ठ ३२८७

तालुक्ष्य पुंस्त्री० तलुक्षर्षेर्गोत्रापत्यं गर्गा० यञ् । तलुक्ष-

र्षेरपत्ये स्त्रियां लोहि० ष्फ षित्त्वात् ङीष् । तालु-
क्ष्यायणी ।

तालुजिह्व पुंस्त्री तालु एव जिह्वा यस्य । १ कुम्भीरे हेम० ।

तस्य जिह्वाशून्यत्वेऽपि तालुनैव रसास्वादनात्तथात्वम् ।
स्त्रियां टाप् ।

तालुपाक पु० सुश्रुदोक्ते तालुगते रोगभेदे ।

तालुगतास्तु गलशुण्डिका तुन्दिकेर्य्यऽध्रुषो मांसकच्छ-
पोऽर्वुदं मांससङ्घातस्तालुपुष्पुटस्तालुशोषस्तालुपाक
इति । “श्लेष्मासृग्भ्यां तालुमूलात्प्रवृत्तो दीर्घः शोफो
ध्मातवस्तिप्रकाशः । तृष्णाकासश्वासकृत् सम्प्रदिष्टो व्याधि-
र्वैद्यैः कण्ठशुण्डीति नाम्ना । शोफःस्थूलस्तीददाहप्र-
पाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु । शोफः स्तब्धो
लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषोरुग्ज्वराढ्यः ।
कूर्म्मोत्सन्नोऽवेदनोऽशीघ्रजन्मा रक्तो ज्ञेयः कच्छपः
श्लेष्मणा स्यात् । पद्माकारं तालुमध्ये तु शोफं विद्या-
द्रक्तादर्बुदं प्रोक्तलिङ्गम् । दुष्टं मांसं श्लेष्मणा नीरु-
जञ्च ताल्वन्तस्थं मांससङ्घातमाहुः । नीरुक् स्थायी
कोलमात्रः कफात्स्यान्मेदोयुक्तात्पुष्पुटस्तालुदेशे । शोषोऽ-
त्यर्थं दीर्य्यते चापि तालु श्वासो वातात्तालुशीषः
स पित्तात् । पित्तं कुर्य्यात्पाकमत्यर्थघीरं तालुन्येनं
तालुपाकं वदन्ति” तेषां लक्षणान्युक्तानि ।

तालुपुप्पुट पु० सुश्रुतोक्ते तालुगतरोगभेदे तालुपाकशब्दे दृश्यम् ।

तालुशीष पु० सुश्रुतोक्ते तालुरोगभेदे तालुपाकशब्दे दृश्यम् ।

तालूर पु० चु० तल--बा० ऊर । आवर्त्ते हेमच० ।

तालूषक न० तल--बा० ऊषक । तालुनि । “अक्षतालूषके

श्रोणीफलके च विनिर्दिशेत्” याज्ञ० “तालूषकं ककु
दम्” मिता० ।

तावक त्रि० तवेदम् युष्मद् + अण् एकवचने तवकादेशः । त्वत्-

सम्बन्धिनि स्त्रियां ङीप् । “मृगं तत्ते तावकेभ्यो
रथेभ्यः” ऋ० १ । ९४ । ११४ । “तपः क्व वत्सेः! क्व च
तावकं वपुः” कुमा० ।

तावकीन त्रि० तवेदम् युष्मद् + खञ् एकवने तवकादेशः । त्वत्सम्बन्धिनि ।

तावच्छस् अव्य० तावत् + संख्यासंज्ञत्वात् वीप्सार्थे + शस् ।

तावत्तावत्प्रकारे “यावच्छो वै रसः सिक्तस्य त्वष्टा
रूपाणि विकरीति तावच्छो वै तत्प्रजायते” तै० स० ।

तावत् अव्य० तद् + बा० डावत् । १ साकल्ये २ अवधौ ३ माने

४ अवधारणे अमरः ५ प्रशंसायाम् ६ पक्षान्तरे शब्दरत्ना०
७ संग्रामे ८ अधिकारे च मेदि० । ९ तदेत्यर्थे शब्दार्थचि० ।
“भर्त्तापि तावत् क्रथकौशिकानाम्” रघुः तावत् तदेत्यर्थः ।
साकल्ये “तावत्प्रकीर्णाभिनवोपचारम्” अवधौ “वल्गुं
न सम्भावित एव तावत्” रघुः “तावत् आलोकमार्ग-
प्राप्तिपर्य्यन्तम्” मल्लि० । मानार्थे “त्वमेव तावत्
परिचिन्तय स्वयम्” कुमा० तावत् इति मानार्थे “यावन्मात्रं
विचारणीयं तावन्मात्रमित्यर्थः” मल्लि० । अवधारणे
“इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः” माघः ।
“मा कारि तावत् न क्रियतामेवेत्यर्थः” मल्लि० ।
तत्परिमाणमस्य तद् + वतुप् “आ सर्वनाम्नः” पा० । आ । १०
तत्परिमाणविशिष्टे त्रि० । “यावानर्थ उदपाने सर्वतः
संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजा-
नतः” गीता “जम्बुद्वीपोऽयं तावत्प्रमाणविस्तार-
स्तावता क्षीरोदघिना वेष्टितः” भाग० ५ । २० । २ ।
क्रियाविशेषणत्वे न० । “पुरोऽस्य यावन्न भुवि
व्यलीयत । गिरेस्तड़ित्वानिव तावदुच्चकैः” माघः ।
स्त्रियां ङीप् “यावती संभवेद्वृत्तिस्तावती दातुमर्हति”
मनुः । अस्य वत्वन्तत्वात् संख्यावत् कार्य्यं तावच्छः
तावत्कः तावतिकः ।

तावतिक त्रि० तावता क्रीतः संख्यात्वात् कन् “वतोरिड्

वा” पा० वा इट् । तत्परिणवता क्रीते । पक्षे इडभावे
तावत्क तत्रार्थे ।

तावतिथ त्रि० तावतां पूरणः डट् । “वतोरिथुक्” पा०

इथुक् । तावतां पूरणे । “यावत् सामिधेनि वेददमहं
तावतिथेन वज्रेणेति” कात्या० श्रौ० ३ । १ । ९ ।

ताविष पु० “तवेर्णिद्वा” उणा० टिषच् । स्वर्गादौ तविषशब्दार्थे

तविषशब्दे दृश्यम् ।

तावुरि पु० वृषराशौ कौर्पशब्दे २२७८ पृ० दृश्यम् ।

तासुन पु० तस--बा० उनण् । शणवृक्षे । तस्येदम् अण् ।

तासुन तत्सम्बन्धिनि स्त्रियां ङीप् । “मुञ्जकाशतासुन्यो
रसनाः” ज्यो० त० गोमिलः । “मुञ्जः शरः तासुनः
शणस्तद्भवा रसना मेखला तासुनी” ।

ति अव्य० इति + वेदे पृषो० । इतिशब्दार्थे । “सहोवाचा-

स्तीह प्रायश्चित्तिरित्यस्तीति का ति पिता ते वेदेति”
शत० ब्रा० ११ । ६ । १ । ३ । का प्रायश्चित्तिस्ति इति प्रश्नः ।

तिक गतौ भ्वा० आत्म० सक० सेट् । तेकते अतेकिष्ट ऋदित्

णिच् अतितेकत् त । तितेके ।

तिक आस्कन्दे बधे च भ्वा० पर० सक० सेट् । तिक्लोति अतेकीत् । तितेक ।

पृष्ठ ३२८८

तिक पु० तिक--क । ऋषिभेदे । तस्य गोत्रापत्यम् तिका०

फिञ् । तैकायनि तद्गोत्रापत्ये पुंस्त्री० । तस्य
तिककितवादित्वात् द्वन्द्वे गोत्रप्रत्ययस्यं लुक् बहुत्वार्थे ।
तिककितवाः तिककितवयोर्गोत्रापत्येषु । उत्कर्षा०
चतुरर्थ्यां छ । तिकीय तत्सन्निकृष्टदेशादौ त्रि० ।

तिककितवादि पु० “तिककितवादिभ्यो द्वन्द्वे” पा० उक्ते द्वन्द्वे

बहुत्वे गोत्रप्रत्ययलुग्निमित्ते शब्दगणे । स च गणः
पा० गणसू० उक्तो यथा “तिककितवा वङ्खरभण्डीरथाः ।
उपकलमकाः । पफकनरकाः वकनणगुदपरिणद्धाः
उब्जककुभाः लङ्कशान्तमुखाः उत्तरशलङ्कटा कृष्णाजिन-
कृष्णसुन्दराः भ्रष्टककपिष्टलाः अग्निवेशदशेरुकाः” ।

तिकादि पु० गोत्रे फिञ् प्रत्ययनिमित्ते शब्दसमूहे स च

गणः पा० ग० सू० उक्तो यथा “तिक, कित, संज्ञा, बाला,
शिखा, उरस्, शाट्य, सैन्धव, यमुना, रूप्य, ग्राम्य,
नील, अमित्र, गौकक्ष्य, कुरु, देवरथ, तैतल, औरस,
कौरव्य, भौरिक, भौलिकि, चौपयत, चैटयत, शीक
यत, क्षैतयत, पाजवत, चन्द्रमस्, शुभ, गङ्गा, वरेण्य,
सुपामन्, आरद्ध, वह्यका, खल्यका, वृष, लोमक, उदज्ञ,
यज्ञ” । “तिकादिभ्यः फिञ्” पा० उक्ते “तिक इत्येव
मादिभ्योऽपत्येऽर्थे फिङ् स्यात् तैकायनिः कैतवायनिः ।

तिक्त पु० तेजयति तिज--बा० कर्त्तरि क्त । रसभेदे

(तेत) अमरः । २ पर्पटकोषधौ न० हेमच० । ३ सुगन्धे
मेदि० । ४ कुटजवृक्षे पु० शब्दच० । ५ वरुणवृक्षे शब्द-
माला । एतेषां तिक्तरसाधिक्यात्तषात्वम् । ६ तिक्तरस-
युक्ते अमरः । “षड्विधस्तु रसस्तत्र” भाषोक्तेर्यद्यपि
तिक्तस्य पार्थिवगुणत्वं तथापि वायोरुपष्टम्भवशादेव
पार्थिवे तिक्तरसस्य सम्भवः तदेतत् सुश्रुते न्यरूपि यथा
“आकाशयवनदहनतोयभूनिषु यथासङ्ख्यमेकोत्तरपरि-
वृद्धाः शब्दस्पर्शरूपरगन्धाः तस्मादाप्यो रसः परस्यरसं-
सर्गात्परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां
सान्निध्यमस्त्युत्कर्षापककर्षात्तु ग्रहणम् । स खल्वाप्यो
रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते । तद्यषा ।
मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति । ते च
भूयःपरस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते । तत्र भूम्बम्बु-
गुणबाहुल्यान्मधुरः । भूम्यग्निगुणबाहुल्यादम्लः ।
तोयाग्निगुणवाहुल्याल्लवणः । वाय्यम्मिगुणवाहुल्यात्क-
टुकः वाय्वाकाशगुणबाहुल्यात्तिक्तः । पृथिव्यनिलगुण-
बाहुल्यात्कषाय इति । तत्र मधुराम्ललवणा वातघ्नाः ।
मधुरतिक्तकषायाः पित्तघ्नाः । कटुतिक्तकषायाः श्ले-
ष्मघ्नाः । तत्र वायुरात्मनैवात्मा पित्तमाग्नेयं श्लेष्मा
सौम्य इति त एव रसाः स्वयोनिवर्द्धना अन्ययीनिप्रश-
मनाश्च । केचिदाहुरग्नोषोमीयत्वाज्जगतो रसा द्विविधाः
सौम्या आग्नेयाश्च तत्र मधुरतिक्तकषायाः सौम्याः ।
कट्वम्ललवणा आग्नेयाः । मधुराम्ललवणाः स्निग्धा
गुरवश्च । कटुतिक्तकषाया रूक्षा लघवश्च । सौम्याः
शीता आग्नेयाश्चीष्णाः” ।
“सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं
विशेषतः कषायमिति वायवीयं तद्वैशद्यलाघवग्लपन-
विरूक्षणविचारणकरमिति” ।
तिक्तरसलक्षणं तत्रोक्तं यथा “यो गले चोषमुत्पादयति
मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षञ्च स
तिक्तः । “तिक्तः शीतस्तृषामूर्च्छाज्वरपित्तकफान्
जयेत् । रुच्यः स्वयमरोचिष्णुः कण्टस्तन्यास्यशोधनः ।
वातलोऽग्निकरो नासाशोषणो रूक्षणो लघुः” । रुच्यः
अन्येषु वस्तुषु रुचिमुत्पादयति । स्वयमरोचिष्णुः यथा
निम्बः स्वयन्न रोचते । अन्येषु रुचिं करोति (अति-
युक्तस्य तिक्तस्य गुणाः) सोऽतियुक्तः शिरः शूलमन्या-
स्तम्भश्रमार्त्तिकृत् । कम्पमूर्च्छावृषाकारी बलशुक्रक्षयप्रदः”
भावप्र० “तिक्तः पित्तकफच्छेदी विषकुष्ठज्वरापहः ।
दीपनः पाचनो रुक्षः कण्डु कृमिहरो लघुः” आह्नि-
कत० । “पित्तेन दूने रसने सितापि तिक्तायते हंसकुला-
वतंस!” नैष० सुगन्धे । “नादातुमन्यकरिमुक्तमदाम्बु-
तिक्तम्” रघुः तिक्तं सुरभि “कटुतिक्तकषायास्तु
सौरभेऽपि प्रकोर्तिताः” केशवः मल्लि० “चूताङ्कुरस्वाद-
कषायकण्ठः” मधुरकण्ठ इत्यर्थः । “तस्यास्तिक्तैर्वनगज-
मदैर्वासितं वान्तवृष्टिः” मेघ० । “तिक्तैः सुगन्धिभिस्तिक्त-
रसवद्भिश्च” मल्लि० । “तोयक्रोड़ानिरतयुवती घ्राणति-
क्तैर्मरुद्भिः” मेघ० ।

तिक्तक पु० तिक्त + संज्ञायां कन् । १ पटोले अमरः २ चिरतिक्ते

(चिराता) शब्दर० । ३ कृष्णखदिरे शब्दमा० । ४ इङ्गुदी-
वृक्षे भावप्र० । एतेषां तिक्तरसत्वात्तथात्वम् स्वार्थे क ।
तिक्तरसे पु० तद्वति त्रि० स्त्रियां कापि अत इत्त्वम् तिक्तिका

तिक्तकन्दिका स्त्री तिक्तः कन्दोऽस्याः कप् कापि अतैत्त्वम ।

गन्धपत्रायां राजनि० ।

तिक्तका स्त्री तिक्तेन रसेन कायति कै--क । कटुतुम्ब्यां शब्दार्थचि० ।

तिक्तगन्धिका स्त्री तिक्तो गन्धो लेशोऽपि यस्याः । वराह-

क्रान्तायाम् अमरः । तस्याः सर्वत्र तिक्तत्वात् तथात्वम्
पृष्ठ ३२८९

तिक्तगुञ्जा स्त्री गुञ्जेव तिक्ता राजदन्ता० । करञ्जे हारा०

तिक्तघृत न० सुश्रुतोक्ते घृतभेदे तत्पाकविधिस्तत्रोक्तो यथा

“त्रिफलापटोलपिचुमर्द्दाटरूषककटुरोहिणीदुरालभात्राय
माणापर्पटकाश्चैतेषां द्विपलिकान् भागान् जलद्रोणे
प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि
भेषजान्यर्द्धपलिकानि त्रायामाणामुस्तेन्द्रयवचन्दनकि-
राततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समावाप्य
विपचेदेतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वर्गुल्मार्शो-
ग्रहणीदोषशोफपाण्डुरोगविसर्पपाण्ड्यशमनं चेति ।
“त्र्यहात् त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्त-
घृतं प्रशस्तम्” सुश्रु० । तिक्तसर्पिरादयोऽप्यत्र न० ।

तिक्ततण्डुला स्त्री तिक्तस्तण्डुलोऽन्तःशस्यं यस्याः । पिप्प-

ल्ल्याम् राजनि० ।

तिक्ततुण्डी स्त्री कर्म० । कटुतुम्बीलतायां राजनि० ।

तिक्ततुम्बी स्त्री कर्म्म० । कटुतुम्ब्याम् (तितलाउ) रत्रमा० ।

तिक्तदुग्धा स्त्री तिक्तं दुग्धं निर्यासो यस्याः । १ क्षोरिण्याम्,

राजनि० । २ स्यर्णक्षीर्य्याम् जटा० ।

तिक्तधातु पु० कर्म्म० । पित्ते धातौ राजनि० ।

तिक्तपत्र पु० तिक्तं पत्रनस्य । (काकरोल) १ कर्कोटके । २ तिक्त-

पत्रके वृक्षमात्रे त्रि० कर्म्म० । ३ तिक्ते पत्रे न० ।

तिक्तपर्वन् स्त्री तिक्तं पर्व ग्रन्थिर्यस्याः । १ ग्रन्थिदूर्वायाम्

जटा० । २ हिलभीच्यां ३ गुडूच्यां ४ वष्टिमधुलतायाञ्च मेदि० ।

तिक्तपुष्पा स्त्री तिक्तानि पुष्पाण्यस्याः । (आकनादी) १ पाठा-

याम् राजनि० । २ तिक्तपुष्पके वृक्षमात्रे त्रि० । कर्म्म० ।
३ तिक्ते पुष्पे न० ।

तिक्तफल पु० तिक्तानि फलानि अस्य । १ कतकवृक्षे (निर्माल्य)

राजनि० । २ यवतिक्तायां शब्दार्थचि० ३ तिक्तफलके वृक्ष-
मात्रे त्रि० । ४ बार्त्ताक्यां ५ षड्भुजायाञ्च स्त्री टाप्
राजनि० । कर्म्म० । ६ तिक्ते फले न० ।

तिक्तभद्रक पु० भद्रं करोति णिच्--ण्वुल् तिक्तोऽपि भद्रकः

कर्म्म० । पटोले शब्दच० ।

तिक्तमरिच पु० तिक्तः मरिच इव । कतकवृक्षे राजनि० ।

तिक्तयवा स्त्री तिक्तः यव इन्द्रयवरसोऽस्त्यत्र अच् ।

शङ्खिन्थां षारस्करगृह्यम् ।

तिक्तरोहिणी स्त्री तिक्ता सती रोहति रुह--णिनि कर्म० ।

कटुकायाम् (कट्की) स्वार्थे क ह्रस्वः । तिक्तरोहिणिका ।
तत्रार्थे राजनि० ।

तिक्तवल्ली स्त्री कर्म्म० । १ मूर्वालतायाम् रत्नमा० । २ तिक्ते

लतामात्रे च ।

तिक्तवीजा स्त्री तिक्तानि वीजानि बस्याः । १ कटुतुम्ब्याम्

राजनि० । २ तिक्तवीजके वृक्षमात्रे त्रि० । कर्म्म० ।
३ तिक्ते वीजे न० ।

तिक्तशाक पु० तिक्तः शाकोऽस्य । १ वरुणद्रुमे, २ खदिरवृक्षे

३ पत्रसुन्दरवृक्षे च मेदि० । कर्म्म० । ४ तिक्ते शाके न० ।

तिक्तसार पु० तिक्तः सारो निर्यासोऽस्य । १ खदिरे रत्नमा० ।

२ दीर्घरोहिषतृणे न० रत्नमा० । ३ तिक्तसारके वृक्षभात्रे
त्रि० । कर्म्म० । ४ तिक्ते सारे अस्त्री ।

तिक्ता स्त्री तिक्तो रसोऽस्त्यस्य अच् । १ कटुरोहिण्यां मेदि०

२ पाठायां रत्नमा० ३ यवतिक्तालतायां ४ षड्भुजायां
राजनि० ५ छिक्कन्यां भावप्र० ।

तिक्ताख्या स्त्री तिक्तेति आख्या यस्याः । कटुतुम्ब्यां

राजनि० तिक्ताह्वयेत्यत्र ।

तिक्ताङ्गा स्त्री तिक्तनङ्गमस्त्यस्य अच् । पातालगरुड़ीलतायाम् राजनि० ।

तिक्तिका स्त्री तिक्ता स्वार्थे संज्ञायां वाक ह्रस्वेअत इत्त्वम् ।

कटुतुम्ब्याम् शब्दार्थचि० ।

तिग हिंसायाम् आस्कन्दे च भ्वा० पर० सक० सेट् । तिन्नोति

अतेगीत् । तितेग । “अग्निं र्जम्भैस्तिगितैरत्ति” ऋ०
१ । १४३ । ५ । “तिगितैर्निशितैः” भा० ।

तिग्म न० तिज--गक् जस्य गः । १ तीक्ष्णे स्पर्शे २ तद्वति त्रि० ।

अमरः । ३ वज्रे निघन्ण्टुः । “तिम्मवीर् विषाह्येते
दन्दशूका महाबलाः” भा० आ० ३० अ० ।

तिग्मकर पु० तिन्यः करः किरणो राजग्राह्यो वाऽस्य ।

२ सूर्य्ये त्रिका० । ३ उग्रराजग्राह्यके नृपे च । कर्म्म० ।
४ तिन्मे करे पु० ।

तिग्मदीधिति पु० तिग्मा दीधितिरस्य । तिन्मांशौ सूर्य्ये ।

तिग्ममन्यु त्रि० तिग्मो मन्युरस्य । १ उग्रक्रोधके । २ शिवे

पु० “अहश्चरो नक्तचरस्तिन्ममन्धुः सुवर्चसः” भा०
अनु० १७ अ० ।

तिग्मरश्मि पु० तिग्भारश्मयोऽस्य । १ सूर्य्ये । २ खररश्मिके

त्रि० । कर्म्म० । ३ खरे रश्मौ पु० ।

तिग्मांशु पु० तिग्मा अंशवो यस्य । १ सूर्य्ये जटाधरः

“तिन्मांशुरस्तंगतः” जयदेव० । “तिन्मांशुरश्मिच्छुरि-
तान्यदूरात्” भट्टिः । २ स्वरकिरणके त्रि० । कर्म्म० ।
३ खरे किरणे पु० ।

तिघ घातने भ्वा० पर० सक० सेट् । तिघ्नोति अतेधीत् । तितेघ ।

पृष्ठ ३२९०

तिज तीक्ष्णीकरणे, चुरा० उभ० सक० सेट् । तेजयति ते

अतीतिजत् त । “कुसुमचापमतेजयदंशुभिर्हिमकरः” रघुः
“तेजयित्वा तु तत्सेव्यम्” रामा० अर० ३१ स० ।
“तेजिता बलदर्पाभ्याम्” हरिवं० ५२०८ । “सा मयोक्तेन
तेजिता” ९६४४ श्लो० । तेजः ।

तिज क्षान्तौ क्षमायां स्वार्थे सन् निशाने न सन् भ्वा० आत्म०

सक० सेट् । तितिक्षते तेजते । अतितिक्षिष्ट अतेजिष्ट ।
“आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत!” गीता
“हिमं घृणिं तितिक्षिष्यते” शत० ब्रा० ३ । १ । २ । १४ ।
“अतिवादांस्तितिक्षेत” मनुः “आपस्ते पादं तितिक्षन्ता-
मलमापस्तितिक्षितुम्” भा० शा० ८१७० अ० “तिति-
क्षन्ते अभिशस्तिं जना नाम” ऋ० ३ । ३० । १ ।

तिजिन पु० तिज--इनच् किच्च । चन्द्रे उणा० ।

तिणिश पु० तिल्वकवृक्षे लोध्रदुमे । “न्यग्रोधाश्वत्थतिल्वक-

हरिद्रुमयोः” कात्या० श्रौ० सूत्रे “तिल्वकस्तिणिशः”
कर्कः ।

तिण्टी स्त्री त्रिवृति (तेओड़ो) शब्दच० ।

तितउ पु० तन--डउ सन्वच्च डउ इति निर्देशात् न सन्धिः ।

१ चालन्याम् अमरः । २ छत्रे न० उज्ज्वलदत्तः । “क्षुद्रच्छिद्र-
समोपेतं चालनं तितउ स्मृतमित्युक्तेरस्य क्लीवत्वमपि ।
“सक्तुमिव तितउना पुनन्तः” ऋ० १० । ७१ । २ । “इमामृच-
मधिकृत्य” निरु० ४ । ९ । “तितउ परिपवनं भवति
ततवद्वा तुन्नवद्वातिलमात्रतुन्नमिति वा” अन्यथा निरुक्तिरुक्ता
क्लीवत्वञ्चोक्तम् ।

तितिक्ष त्रि० तिज--स्वार्थे सन्--अच् । १ शीतोष्णादिद्वन्द्वसो-

ढरि २ ऋषिभेदे पु० तस्य गोत्रापत्यं गर्गा० यञ् ।
तैतिक्ष्य तद्गोत्रापत्ये यून्यपत्ये यूञन्तत्वात् फक् । तैति-
क्ष्यायण तद्गोत्रजे यून्यपत्ये पुंस्त्री० ।

तितिक्षा स्त्री तिज--स्वार्थे सन् भावे अ । १ क्षमायां शीतो-

ष्णादिद्वन्द्वसहने “सहनं सर्वदुःखानामप्रतीकारपूर्वकम् ।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते” विवेकचू० ।
सा संजाताऽस्य तार० इतच् । तितिक्षित, क्षान्ते
सोढरि जटाधरः ।

तितिक्षु त्रि० तिज--स्वार्थे सन्--उ । तितिक्षाशीले । “शान्तो

दान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वा आत्म-
न्यात्मानमवलोकयेत्” वेदा० सा० धृता श्रुतिः । “अक्रोधनः
क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः”
भा० आ० ८७ अ० ।

तितिभ पु० तितीति भणति भण--ड । इन्द्रगोपकीटे खद्योते

हेमच० ।

तितिर पुंस्त्री० तित्तिरि + पृषो० । तित्तिरिखगे राजनि० स्त्रियां जातित्वत् ङीष् ।

तितिल न० तिल--क बा० द्वित्वञ्च । १ नन्दके (नान्दा) मृण्मये

पात्रभेदे २ तैतिलकरणे ३ तिलपिच्चटे च अजयपालः

तित्तिर पुंस्त्री तित्ति इति शब्दं रौति रु--बा० ड ।

(तितिर) खगभेदे शब्दर० । स्त्रियां जातित्वात् ङीष् ।
“कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः” “तस्माद्वक्त्रा-
द्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव!” भा० उ० ८ अ० ।

तित्तिरि पु० तित्ति इति शब्दं रौति रु--वा० डि । (तितिर)

खगभेदे अमरः । स्त्रियाममनुष्यजातित्वात् “इतोऽमनु-
ष्यजातेः” पा० ङीप् । तित्तिरिः कृष्णवर्णः स्यात् स तु
गौरः कपिञ्जलः । तित्तिरिर्वर्णदो ग्राही हिक्का-
दोषत्रयापहः । श्वासकासज्वरहरस्तस्माद्गौरोऽधिवो
गुणैः” भाव० प्र० । तित्तिरिरूपग्रहणेन याज्ञवल्क्य-
वान्तयजुर्ग्राहिणि मुनिभेदे तत्कथा “वैशम्पायनशिष्या
वै चरकाध्वर्य्यवोऽभवन् । यच्चेरुर्ब्रह्महत्याऽंहक्षपर्ण
स्वगुरोर्व्रतम् । याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन!
कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ।
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्राव-
मन्त्रा शिष्येण मदधीतं त्यजाश्विति । देवरातसुतः
सोऽपि छर्दित्वा यजूषां गणम् । ततो गतोऽथ मुनयो
ददृशुस्तान् यजुर्गणान् । यजूंषि तित्तिरा भूत्वा तल्लो-
लुपतयाऽऽददुः । तैत्तिरीया इति यजुःशाखा आसन्
सुपेशालाः । भाग० १२ । ६५८ ।
तित्तिरिणा प्रोक्तमधीयते छण् । तैत्तिरीय तित्तिरिप्रोक्त-
च्छन्दोब्राह्मणाध्येतृषु ब० व० । तित्तिरिणा अधीता
अण्, ङीप् । तैत्तिरी कृष्णयजुःशाखायां स्त्री ।

तित्तिरीक न० तित्तिरेः पक्षदाहेन जातम् वा० ईक । तित्ति-

रिपक्षदाहेन जाते अञ्जनभेदे । “अञ्जनं तित्तिरीकञ्च
नलदं पत्रमुत्पलम्” सुश्रु० । अत्र तिन्तिड़ीकमिति पाठा-
न्तरम् । दग्धतिन्तिड़ीकजातेऽञ्जने इति तदर्थः ।

तिथ पु० तिज--थक् नि० जलोपः । १ वह्नौ २ कामे च सि० कौ०

३ काले त्रिका० । ४ प्रावृट्माले संक्षिप्तसा० ।

तिथि(थी) पुंस्त्री० अत--इथिन् पृषो० वा ङीप् । १ प्रञ्चदशसु

चन्द्रकलाक्रियारूपासु प्रतिपदादिषु, अमरः २ पञ्चदश-
सङ्क्यायाञ्च । अस्य निरुक्त्यादिकं कालमाधवीये उक्तं यथा
“अथ तिथयोनिर्णीयन्ते । तत्र तिथिशब्दस्तनोतेर्द्धा-
पृष्ठ ३२९१
र्न्निष्पन्नः । तनोति विस्तारयति वर्द्धमानां क्षीयमाणां
वा चन्द्रकलामेकां यः कालविशेषः सा तिथिः । यद्वा
यथोक्तकलया तन्यत इति तिथिः । तदुक्तं सिद्धान्त-
शिरोमणौ “तन्यते कलया यस्मात्तस्मात्तास्तिथयः
स्मृताः” इति । एतदेवाभिप्रेत्य स्कान्दे पठ्यते “अमा-
षोड़शभागेन देवि! प्रोक्ता महाकला । संस्थिता परमा
माया देहिनां देहधारिणी । अमादिपौर्णमास्यन्ता
या एव शशिनः कलाः । तिथयस्ताः समाख्याताः
षोड़शैव वरानने!” इति । अयभर्थः । या महामाया
आधाररूपा देहिनां देहधारिणी संस्थिता या सा
चन्द्रमण्डलस्य षोड़शभागेन परिमिता चन्द्रदेहधारि-
ण्यमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या
तिथिसंज्ञिकैव । इतरा अपि पञ्चदश कला दिवसव्यव-
हारोपयोगिन्यः क्षयोदयवत्यः पञ्चदश तिथयो भवन्तीति
तिथयः षोड़शैवेत्यविरुद्धं वचनमिति । श्रुतिस्त्वस्मि-
न्नेवार्थे पक्षनिर्णय एवोदाहृतः । “तस्य रात्रयः पञ्च-
दश कला ध्रुवैषास्य षोड़शी कलेति” । एवं सत्यत्र
सामान्यविशेषरूपेण तिथिद्वैविध्यमुक्तं भवति । तत्र
येयममेत्युक्ता क्षयोदयवर्जिता ध्रुवा षोड़शी कला
तद्युक्तः कालस्तिथिमासान्यम् । यास्त्ववशिष्टा वृद्धिक्षयो-
पेताः पञ्चदश कलास्ताभिर्विशिष्टाः कालविभागास्तिथि-
विशेषाः । तासां पञ्चदशानामेकैकां कलां वह्न्यादयः
प्रजापत्यन्ताः पञ्चदश देवताः क्रमेण पिबन्ति । तत्र
वह्निना कला प्रथमं पीयत इति प्रथमेत्युच्यते । तया
युक्तः कालविशेषः प्राथम्यवाचिना प्रतिपच्छब्देनाभि-
धीयते । एवं द्वितीयादीनां पञ्चदश्यन्तानां तिथीनां
नामान्यवगन्तव्यानि । ता एताः कृष्णपक्षतिथयो
भवन्ति । पुनश्च ताः पीताः कला अनेनैव क्रमेण तत्तत्
पातृवह्न्यादिदेवताभ्यो निर्गत्य चन्द्रमण्डलं पूरयन्ति ।
ताभिर्युक्ताः कालविशेषाः शुक्लपक्षगताः प्रतिपदाद्या-
स्तिथयो भवन्ति । वह्न्यादिदेवतानां कलापानं सोमो-
त्पत्तौ पठ्यते । तथाहि “प्रथमां पिबते वह्निर्द्वितीयां
पिवते रविः । विश्वे देवास्तृतीयान्तु चतुर्थीं सलिला-
धिपः । पञ्चमीं तु वषट्कारः षष्ठीं पिवति वासवः ।
सप्तमीमृषयो दिव्या अष्टमीमजएकपात् । नवमीं
कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् । दशमीं पिबते
वायुः पिबत्येकादशीमुमा । द्वादशीं पितरः सर्वे
समं प्राश्नन्ति भागशः । त्रयोदशीं धनाध्यक्षः कुवेरः
पिबते कलाम् । चतुर्दशीं पशुपतिः पञ्चदशीं प्रजा-
पतिः । निपीतः कलया शेषश्चन्द्रमा न प्रकाशते ।
कलाषोड़शिका या सा त्वपः प्रविशते सदा । अमायान्तु सदा
सोम औषधीः प्रतिपद्यते । तमोषधिगतं गावः
पिवन्त्यम्बुगतञ्च यत् । तत्क्षीरममृतं भूत्वा मन्त्रपूतं
द्विजानिभिः । हुतमग्निषु यज्ञेषु पुनराप्यायते शशी ।
दिने दिने कलावृद्धिः पौर्णमास्यान्तु पूर्यते” । ज्योतिः-
शास्त्रे तु शिद्धान्तशिरोमणिकारेण तिथिरेवं प्रदर्शिता ।
“अर्काद्विनिसृतः प्राचीं यद्यात्यहरहः शशी ।
तच्चन्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिरिति” ।
अयमर्थः । सूर्य्यमण्डलस्य अधःप्रदेशवर्त्ती शीघ्रगामी
चन्द्र ऊर्द्ध्वप्रदेशवर्त्ती मन्दगामी सूर्य्यस्तथा सति
तयोर्गतिविशेषवशात् दर्शे चन्द्रमण्डलमन्यूनमनतिरिक्तं
सूर्य्यमण्डलस्याधोभागे व्यवस्थितं भवति तदा सूर्य्य-
रश्मिभिः साकल्येनाभिभूतत्वाच्चन्द्रमण्डलमीषदपि न
दृश्यते । उपरितने शीघ्रगत्या सूर्य्याद्विनिःसृतः शशी
प्राचीं याति । त्रिंशदंशोपेतराशौ द्वादशभिरंशैः सूर्य्य-
मुल्लङ्घ्य गच्छति । तथा चन्द्रस्य पञ्चदशसु भागेषु प्रथम-
भागो दर्शनयोग्यो भवति । सोऽयं भागः प्रथमकलेत्य-
भिधीयते । तत्कलानिष्पत्तिपरिमितः कालः प्रति-
पत्तिथिर्भवति । एवं द्वितीयादितिथिष्ववगन्तव्यमिति ।
तदेतद्विष्णुधर्म्मोत्तरे विस्पष्टमभिहितम् “चन्द्रार्क
गत्या कालस्य परिच्छेदो यदा भवेत् । तदा तयोः
प्रवक्ष्यामि गतिमाश्रित्य निर्णयम् । भगणेन समग्रेण
ज्ञेया द्वादश राशयः । त्रिंशांशश्च तथा राशेर्भाग
इत्यभिधीयते । आदित्याद्विपकृष्टस्तु भागद्वादशकं यदा ।
चन्द्रमाः स्यात्तदा राम! तिथिरित्यभिधीयते” इति । सेयं
द्वादशभिर्भागैः सूर्य्यमुल्लङ्घितवती प्रथमा चन्द्रकला शृङ्ग-
द्वयोपेतसूक्ष्मरेखाकारा शौक्ल्यमीषदुपयाति । उत्तरो-
त्तरदिनेषु सूर्य्यमण्डलविप्रकर्षतारतम्यानुपारेण शोक्ल्य-
मुपचीयते । अनयैव रोत्या सन्निकर्षतारतम्येन
मेचकत्वमुपचीयते । तदेतदुक्तं सिद्धान्तशिरोमणौ
“उपचयमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं व्रजतश्च
मेचकत्वम् । जलमयमण्डलस्य गोलकत्वात् प्रभवति तीक्ष्ण-
विषाणरूपताऽस्येति” । सूर्य्याचन्द्रमसोर्यौ सन्निकर्षविप्रकर्षौ
तयोरवसानं दर्शपूर्णिमयोः सम्पद्यते । तदाह गोभिलः
“यः परो विप्रकर्षः सूर्य्याचन्द्रमसोः सा पौर्णमासी ।
यः परः सन्निकर्षः साऽमावास्येति” नन्वत्र चन्द्रकलानां
पृष्ठ ३२९२
सूर्य्यप्रवेशनिर्गमौ प्रतीयेते सोमोत्पत्तौ तु वह्न्यादिदेव-
तासु । नायं दोषः अस्मदादिदर्शनापेक्षया ज्योतिःशास्त्रस्य
प्रवृत्तत्वात् । सोमोत्पत्तौ तु वह्न्यादिदेवतानां तत्तत्कला-
प्रयुक्ता तृप्तिर्विवक्षिता । यदि सूर्य्ये प्रवेशनिर्गमौ
यदि वा वह्न्यादिदेवतासु, सर्वथापि कलाप्रयुक्ता एव
प्रतिपदादितिथयः । ननु सावनदिनेषु सौरदिवसेषु च
निर्णयमुपेक्ष्य चान्द्रतिथिष्वेव कुतो निर्णयोद्यम इति
चेत् । सन्देहसद्भावादिति व्रूमः । न खलु सौरसावना-
दिदिवसयोः सन्देहसद्भावोऽस्ति नियतपरिमाणत्वात् ।
तच्च ब्रह्मसिद्धान्तेऽभिहितम् “सावनं स्यादहोरात्र-
मुदयादोदयाद्रवेः । रवेस्त्रिंशस्तु राश्यंशस्तिथिसम्भोग
ऐन्दवमिति” । एकस्मिन् राशौ यावन्तं कालं
रविर्वर्त्तते तावतः कालस्य त्रिंशो योऽयमंशः स सौरो दिवसः
तिथिरेका कला तत्सम्भोग इन्दोर्यावता कालेन निष्पद्यते
तदैन्दवं दिनम् । न चात्र सौरसावनयोरिव चान्द्रेऽपि
दिने सन्देहाभावः शङ्कनीयः ह्रासवृद्धिवशेन सन्देह-
सद्भावात् । ह्रासवृद्धी च गर्गेण दर्शिते “खर्वो
दर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम् । धर्माधर्मवशा-
देवं तिथिस्त्रेधा विवक्षितेति” । खर्वा समतिथिः । दर्पा
वृद्धियुक्ता हिंस्रापक्षययुक्ता । तस्यैतस्य त्रैविध्यस्य
विपरिवर्तनविशेषेण तिथिः संपूर्णा खण्डा चेति द्वैविध्य-
मापद्यते । तत्र संपूर्णा स्कन्दपुराणे दर्शिता “प्रतिपत्-
प्रभृतयः सर्वा उदयादोदयाद्रवेः । संपूर्णा इति
विख्याता हरिवासरवर्जिताः” इति । हरिवासर
एकादशी । या तु नोक्तलक्षणा सा स्वण्डतिथिः । तत्र
संपूर्णायां विधिनिषेधयोर्नास्ति सन्देहः । स्वण्डतिथौ
तु विधिनिषेधव्यवस्थामाह गार्ग्यः । “निमित्तं
कालमादाय वृत्तिर्विधिनिषेधयोः । विधिःपूज्यतिथौ तत्र
निषेधः कालमात्रके । तिथीनां पूज्यता नाम कर्मानुष्ठान-
योग्यता । निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते” इति ।
एवञ्च सति खण्डतिथौ पूज्यत्वं निर्णेतव्यं भवति ।
तत्र प्रतिपदमारभ्य पञ्चशश्यन्तास्तिथयः क्रमेण
निर्णीयन्ते ।”
कालमाधवीयग्रन्थे विस्तरोद्रष्टव्यः । कारिकाभिश्च
माधवेन तत्तत्तिथिभेदेषु खण्डविशेषग्राह्यता प्रसङ्गाग-
तमासादिनिरूपणपूर्वकं दर्शिता यथा
“व्याख्याय माधवाचाय्यो धर्मान् पाराशरानथ । तदनु-
ष्ठानकालस्य निर्णयं वक्तुमुद्यतः । अर्थोऽनुक्रम्यते
श्लोकैरखिलो निर्णनीषितः । तावतैवानुतिष्ठासुर्निःस-
न्देहं प्रबर्त्तताम् । ततो मीमांसुचित्तस्य
समाधानाय तत् पुनः । विवरिष्ये यथान्यायं श्रुतिस्मृति
वचोवलात् । पञ्च प्रकरणान्यत्र तेषूपोद्घातवत्सरौ ।
प्रतिपच्छिष्टतिथयो नक्षत्रादिरिति क्रमः । १ उपोद्वाते
कालसत्त्वं तस्य निर्णययोग्यता । ईश्वरो नित्यका-
लात्मा चिन्तनीयः स कर्म्मसु । जन्यकालेऽव्दमुख्यत्व
मुक्तमेतच्चतुष्टयम् । अव्दायनर्त्तुमासाश्च पक्षः प्रकर-
णान्तरे २ । अव्दः पञ्चविघश्चान्द्रो व्रतादौ तिलका-
दिके । सुजन्मादिव्रते सौरो गोसत्रादिषु सावनः ।
त्रयोप्याचार्य्यसेवादौ विकल्प्यन्ते निजेच्छया । आयुर्दाये
तु नाक्षत्री वार्हस्पत्योऽधिवत्सरः । चान्द्राणां प्रभवादीनां
पञ्चके पञ्चके युगम् । संपरीदादन्वित्येच्छब्दपूर्वास्तु
वत्सराः । तिलो यवो वस्त्रधान्ये रजर्त दीयतेऽत्र तु ।
उग्रे कर्म्मणि शान्ते च स्तोऽयने दक्षिणोत्तरे । वसन्ता-
द्यृतवो द्वेधा चान्द्राः सौराश्च चान्द्रकाः । चैत्राद्या
अथ मीनाद्या मेषाद्या वा विवस्वतः । तेष्वाधानादय-
स्तद्वत् षण्मूर्त्तिव्रतपूजनम् । मासास्तु सावनः
सौरश्चःन्द्रो नाक्षत्र इत्यमी । दर्शान्तः पूर्णिमान्तो वा
चान्द्रोऽसौ विप्रवैश्ययोः । सौरोराज्ञः सावनस्तु यज्ञे
ज्यौतिषिके परः । माघादिमासभेदेषु तिलदानादयः
स्मृताः । चान्द्रोऽधिमासोऽसंक्रान्तः सोन्तर्भवति चोत्तरे ।
असंक्रान्तावेकवर्षे द्वौ चेत्संसर्पआदिमः । क्षयमासो
द्विसंक्रान्तः स चाहर्पतिसंज्ञकः । एतौ त्याज्यौ विवा-
हादौ संसर्पाहर्पती उभौ । शुद्धौ श्रौते तथा स्मार्त्ते
मलमासो विविच्यते । काम्यारम्भं तत्समाप्तिं मलमासे
विवर्जयेत् । आरब्धं मलमासात् प्राक्कृच्छ्रसत्रादिकं
च यत् । तत्समाप्यं सावनस्य मासस्यानतिलङ्घनात् ।
आरम्भस्य समाप्तेश्च मध्ये चेत् स्यात् मलिम्लुचः । प्रवृत्त-
मखिलं काम्यं तदानुष्ठेयमेव तु । कारीर्यादि तु यत्
काम्यं तस्यारम्भसमापने । कार्य्यकालविलम्बस्य प्रती-
क्षाया असम्भवात् । अनन्यगतिकं नित्यमग्निहो-
त्रादि न त्यजेत् । गत्यन्तरयुतं नित्यं सोमयागादि
वर्जयेत् । अगति ग्रहणस्नानं जातेष्टि, र्गतिसंयुतम् ।
द्वयं गैमित्तिकं तस्य व्यवस्था नित्यवन्मता । शुद्धमास
मृतानां स्यान्मलिने प्रथमाव्दिकम् । मलमासमृता-
नान्तु मले स्यादाविद्कान्तरम् । दैवे मुख्यः शुक्लपक्षः
कृष्णः पित्र्ये विशिष्यते । तृतीये तु ३ प्रकरणे
पृष्ठ ३२९३
षर्णिता प्रतिपत्तिथिः । प्रतिपन्नाम विज्ञेया चन्द्रस्य
प्रथमा कला । शुक्लपक्षे विशेच्चन्द्रं कृष्णपक्षे विनिः-
सरेत् । शुद्धा विद्धा तिथिः शुद्धा हीनातिथ्यान्ययाहनि ।
उदये पूर्वया तिथ्या विध्यते त्रिमुहुर्त्तकैः । सायन्तूत्तर-
या तद्वन्न्यूनया तु न विध्यते । वेध्यापि त्रिमुहूर्त्तैव
न न्यूना वेधमर्हति । शुद्धायां नास्ति सन्देहो दैवे पित्र्ये
च कर्म्मणि । उपवासश्चैकभक्तं नक्तं चायाचितं
व्रतम् । दानञ्च षड्विधं दैवं क्रमादत्र विविच्यते । एकोद्दिष्टं
पार्वणञ्च पित्र्यं द्विविधमीर्यते । शुक्लपक्षे दर्शविद्धा
कृष्णे विद्धा द्वितीयया । उपोष्या प्रतिपच्छुक्ले मुख्या
स्यादापराह्णिकी । तदभावे तु सायाह्णव्यापिनी
परिगृह्यताम् । प्रातःसंगवमध्याह्नापराह्णाः सायमि-
त्यसौ । अत्राह्नां पञ्चधा भागो मुख्यो द्वित्र्यादिभागतः ।
अभावेऽपि प्रतिपदः संकल्पः प्रातरिष्यते । तिथिस्त्रिया-
मतोऽर्वाक् चेत् तिथ्यन्ते पारणं भवेत् । वह्न्युत्सवं च
पूर्वेद्युरुपवासवदाचरेत् । मुख्यतिथ्यन्तराये तु तिथिशे-
षोऽपि गृह्यताम् । शुद्धाऽधिका तु कृष्णापि पूर्वा संपूर्त्ति-
संभवात् । ग्रहीतव्या त्वेकभक्ते मध्याह्नव्यापिनी तिथिः ।
परेद्युरेव पूर्वेद्युरेव व्याप्तिर्दिमद्वये । नोभयत्रोभयत्रांशे
साम्यं वैषम्यमित्यमी । षट् पक्षास्तेषु चैकैकव्याप्तौ
सैवात्र गृह्यताम् । द्विनद्वयेऽपि तद्व्याप्तावव्याप्तौ
चैकदेशतः । समव्याप्तौ च पूर्वैव वैषम्ये त्वधिकेष्यताम् ।
अन्याङ्गस्यैकभक्तस्य कालस्त्वङ्ग्यनुसारतः । उपवास
प्रतिनिधेस्तिथिः स्यादुपवासवत् । प्रदोषव्यापिनी नक्ते
तिथिर्व्याप्तिर्दिनद्वये । अव्याप्तिर्वाथवांशेन व्याप्तिः स्यात्
सर्वथोत्तरा । सौरनक्ते तु सायाह्नव्यापिनी न प्रदो-
षगा । अयाचिते तु तिथयः स्वीकार्य्याः उपवासवत् ।
सोदयत्रिमुहूर्त्तायां कुर्याद्दानं व्रतानि च । उभयत्र
तथात्वे तु पूर्वेद्युस्तदनुष्ठितिः । परत्रैव तथात्वं चेत्
पूर्वा ग्राह्या तिथिक्षये । तिथेः साम्ये च वृद्धौ च
गृह्यतां तिथिरुत्तरा । अस्पर्शे चैकदेशस्य व्याप्तौ पूर्वैव
गृह्यताम् । एकोद्दिष्टे तु मध्याह्नयुक्ता स्यादेकमक्त-
वत् । एकदेशे समव्याप्तौ क्षये पूर्वाऽन्यथोत्तरा । कुतपाद्य
पराह्णस्य व्याप्तिराव्दिक उत्तमा । तदभावेऽपराह्णस्य
व्यापिका गृह्यतां तिथिः । क्षये पूर्वोत्तरा वृद्धौ व्याप्तिश्चे-
दपराह्णयोः । न ग्राह्यतिथिगौ वृद्धिक्षयावूर्द्ध्वतिथेस्तु
तौ । साम्ये त्वर्द्धतिथेर्ग्राह्या परविद्धैव वृद्धिवत् । न
स्पृशत्यपराह्णौ चेत् पूर्वा स्यात् कुतपो वृथा । वैष-
म्येणैकदेशस्य व्याप्तौ ग्राह्या महत्त्वतः । साम्येन चेत् क्षये
पूर्वा परा स्याद्वृद्धिसाम्ययोः । वृद्धिसाम्यक्षया ग्राह्य
तिथिगा नोर्द्ध्वगा इह । ४ द्वितीयाद्यास्तु पर्वान्तास्तुर्य्य-
प्रकरणोदिताः । सञ्चारणीयः सामान्यतिथिषु प्रति-
पन्नयः । क्वचित् क्वचिद्विशेषोऽस्ति सोऽयमत्राभिधीयते ।
पूर्वेद्युरसती प्रातः परेद्युस्त्रिमुहूर्त्तगा । सा द्वितीया
परोपोष्या पूर्वविद्धा ततोऽन्यथा । रम्भातृतीया पूर्वा-
स्यादुत्तरा स्याद् व्रतान्तरे । परेऽह्नि नास्ति चेत् पूर्व-
विद्धाप्यस्तु व्रतान्तरे । मुहूर्तमात्रसत्त्वेऽपि दिने गौरी-
व्रतं परे । शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ।
चतुर्थी तु परोपोष्या गणनाथव्रतस्य तु । मध्याह्नव्या-
पिनी पूज्या तद्वन्नागचतुर्थ्यपि । परेद्युरेव मध्याह्न-
व्याप्तौ विघ्नस्य सोत्तरा । अन्यथा पूर्वविद्धैव मातृयोग-
प्रशस्तितः । पूर्वेद्युरेव तद्व्याप्तौ पूर्वा सर्पप्रिया तिथिः ।
नो चेत् सर्पस्य पञ्चम्या योगेऽत्यन्तं प्रशस्यते । गौर्याः
शुद्धाजयायुक्ता, नागविद्धा निषिद्ध्यते । सर्वत्र पञ्चमी पूर्वा
ग्राह्या स्कन्दव्रते परा । नागविद्धा स्कन्दषष्ठी सा निषिद्धा
व्रतान्तरे । उत्तरस्या अलाभे तु नागविद्धापि गृह्यताम् ।
विनाशाद्वा परेऽभावात् नागविद्धा न दोषकृत् । सप्तमी
पूर्वविद्धैव व्रतेषु निखिलेष्वपि । अलाभे पूर्वविद्धायाः
परविद्धापि गृह्यताम् । व्रतमात्रेऽष्टमी कृष्णा पूर्वा शुक्ला-
ष्टमी परा । दूर्वाष्टमी तु शुक्लापि पूर्वविद्धा विधीयते ।
पक्षद्वयेऽप्युत्तरैव शिवशक्तिमहोत्सवे । ज्येष्ठर्क्षयोगे पूर्वैव
ग्राह्या ज्येष्ठाव्रते तिथिः । मध्याह्नादूर्द्ध्वमृक्षं चेत्
परेद्युः सा प्रशस्यते । ज्येष्ठर्क्षभानुवाराभ्यां युक्ताष्टम्पति-
दुर्लभा । जयन्त्याख्यं व्रतं भिन्नं कृष्णजन्माष्टमीव्रतात् ।
शुद्धा च सप्तमी विद्धेत्येवं जन्माष्टमी द्विधा । सप्तमी
चेन्निशीथात्प्राग्विद्धा शुद्धान्यथा भवेत् । शुद्धायां नास्ति
सन्देहो विद्धा च त्रिविधेष्यते । निशीथयोगः पूर्वेद्युः
परेद्युर्वा द्वयोरुत । पूर्वैव प्रथमे पक्षे परैवोत्तरपक्षयोः ।
अष्टमी रोहिणी शुद्धा जयन्ती सा चतुर्विधा । शुद्धा
शुद्धाधिकेत्येवं विद्धाविद्धाधिकेति च । शुद्धायामपि
विद्धायां न सम्भाव्योत्तरा तिथिः । शुद्धाधिकायां
योगः स्यादेकस्मिन्वा दिनद्वये । नैकयोगेऽस्ति सन्दे हो
द्वियोगे प्रथमं दिनम् । सदा निशीथे पश्चाद्वेत्युत्तमो
मध्यमोऽधमः । योगस्त्रिधापि पूर्वेद्युः सम्पूर्णत्वादुपो-
षणम् । विद्धाधिकायामप्येकदिनयोगे स गृह्यताम् ।
द्वयोर्योगस्त्रिधा भिन्नो निशीथे वृत्तिभेदतः । तद्वृत्ति-
पृष्ठ ३२९४
र्दिन एकस्मिन्नुभयोर्नौमयोरिति । एकस्मिंश्चेत् तद्दिनं
स्यात् पक्षयोरन्त्ययोः परा । बुधे सोमे जयन्ती चेद्वारे
सातिफलप्रदा । तिथ्यृक्षयोर्द्वयोरन्ते उत्तमं पारणं
भवेत् । एकस्यान्ते मध्यमं स्यादुत्सवान्तेऽधमं स्मृतम् ।
यस्मिन् वर्षे जयन्त्याख्यो योगो जन्माष्टमी तदा । अन्त-
र्भूता जयन्त्यां स्यादृक्षयोगप्रशस्तितः ।
नवमी पूर्वबिद्धैव पक्षयोरुभयोरपि । मध्याह्ने रामनवमी
पुनर्वसुसमन्विता । ग्राह्या नैवाष्टमीयुक्ता सनक्षत्वापि
वैष्णवैः । कृष्णा पूर्वोत्तरा शुक्ला दशम्येव व्यवस्थिता ।
जयन्तीव्रतवन्नित्यं काम्यं चैकादशीब्रतम् । अरुणोदयवेधोऽत्र
वेधः सूर्य्योदये तथा । उक्तौ द्वौ दशमीवेधौ वैष्णव-
स्मार्त्तयोः क्रमात् । कलाकाष्ठादिवेधोऽपि ग्राह्योऽत्र त्रि-
मुहूर्त्तवत् । वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि
वैष्णवः । विद्धा त्याज्या वैष्णवेन शुद्धाप्याधिक्यसम्भवे ।
एकादशी द्वादशी वाधिका चेत्त्यज्यतां दिनम् । पूर्वं त्याज्य
मुत्तरं स्यादिति वैष्णवनिर्णयः । एकादशी द्वादशी चेत्यु-
भयं वर्द्धते यदा । तदा पूर्बदिनं त्याज्यं स्मार्त्तैर्ग्राह्यं
परं दिनम् । एकादशीमात्रवृद्धौ गृहियत्योर्ध्यवस्थितिः ।
उपोष्या गृहिभिः पूर्वा यतिभिस्तूत्तरा तिथिः । द्वा-
दशीमात्रवृद्धौ तु शुद्धाविद्धे व्यवस्थिते । शुद्धा पूर्वो-
त्तरा विद्धा स्मार्तनिर्णय ईदृशः । श्रवणेन युता चेत्
स्याद्द्वादशी सा हि वैष्णवैः । स्मार्त्तैश्चोपोषणीया स्यात्-
त्यजेदेकादर्शी तदा । उपवासव्रतादन्यव्रते सार्द्धमुहूर्त्तकैः ।
सप्तभिर्दशमीविद्धामेतामेकादशीं त्यजेत् । द्वादशी पूर्व-
विद्धैव निखिलेषु व्रतेष्वपि । शुक्लत्रयोदशी पूर्वा परा
कृष्णत्रयोदशी । अलाभे सापि पूर्वैव पराऽनङ्गत्रयोदशी ।
या शुक्ला गृह्यते पूर्वा गृह्यतां सापराहिणकी ।
चतुर्दश्युत्तरा शुक्ला पूर्वा कृष्णचतुर्दशी । उदये द्विमुहू-
र्त्तापि ग्राह्यानन्तव्रते तिथिः । शुक्लापि रात्रियुक्ता
स्याच्चैत्रश्रावणमासयोः । शुक्ला सर्वापि पूर्वैव यदि स्या-
दापराहिणकी । प्रदेषे वा निशीथे वा द्वयोर्वा यास्ति
सा भवेत् । शिवरात्रिव्रते तत्र द्वयोः सत्ता प्रशस्यते ।
तदभावे निशीथेकव्याप्तापि परिगृह्यताम् । तस्याश्चास-
म्भवे ग्राह्या प्रदोषव्यापिनी तिथिः । तिथ्यन्ते पारणं
यामत्रयादर्वाक् समापने । अन्यथा पारणं प्रातरन्य-
तिथ्युपवासवत् । पूर्वविद्धैव सावित्रीव्रते पञ्चदशी तिथिः ।
नाड्योऽष्टादश भूतस्य स्युश्च तत्र परेऽहनि । व्रतान्तराणि
सर्वाणि परेऽहन्येव सर्वदा । श्राद्धेऽपराह्णकालीनो दर्श
आव्दिकवन्मतः । दिनद्वयेऽप्येकदेशवृत्तौ ग्राह्यो
महत्त्वतः । तुल्यत्वं चेदेकदेशक्षये पूर्वोऽन्यथोत्तराः ।
कृत्स्नव्याप्तौ द्वयोरह्नोरुत्तरस्तिथिवृद्धितः । साग्न्यनग्नि-
व्यवस्था स्यान्न चेत् स्यादपराह्णयोः । पूर्वेद्युः
साग्निकः कुर्य्यादुत्तरेद्युर्निरग्निकः । पर्वप्रतिपदोः सन्धिर्म-
ध्याह्ने वा ततः पुरा । अन्वाधानं पूर्वदिने यागः
सन्धिदिने भवेत् ॥ ऊर्द्ध्वं मध्याह्नतः सन्धावन्वाधानं
तु तद्दिने । इष्टिं परदिने कुर्य्यादन्यो वाजसनेयिनः ।
यस्तु वाजसनेयी स्यात्तस्य सन्धिदिनात् पुरा । न क्वाप्य-
न्वाहितिः किन्तु सदा सन्धिदिने हि सा । सन्धिश्चेत्
सङ्गवादूर्द्ध्वं प्राक्चेदावर्त्तनाद्रवेः । सा पौर्णमासी विज्ञेया
सद्यस्कालविधौ तिथिः । वृद्धिः प्रतिपदोयास्ति तदूर्द्ध्वं
पर्वणि क्षियेत् । क्षयस्यार्द्धं तथा हित्वा सन्धिर्निश्ची-
यतां तदा । वौधायनमते दर्शश्राद्धं चेष्टिर्विशिष्यते ।
द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद् चापराह्णिकी । अन्वा-
धानं चतुर्दश्यां दर्शस्यान्तेऽपि वर्त्तयेत् । दर्शश्राद्धं तथा
कार्य्यमिति वौधायनोदितम् । इष्ट्यादिविकृतिः सर्वा
पर्वण्येवेति निर्णयः” ५ प्रकरणे नक्षत्रनिर्णयो विस्तर-
भयान्न दर्शितः ।
दर्शादिश्राद्धेऽन्यत्र चोक्तं यथा
“दर्शो यत्रापराह्णं स्पृशति स दिवसः श्राद्धकालोद्व-
योश्चेद्यत्रानल्पो यदासौ यदि भवति समः क्षीयमाणे
तु पूर्वः । वृद्धौ साम्ये त्वनग्नेर्युवतिवृषलयोश्च श्व
एवाहिताग्नेः पूर्वो न क्वापराह्णं स्पृशति
कुतपसंस्पर्शतोऽयं विधिः स्यात् । सायन्तन्यपरत्र चेन्मृ-
ततिथिः सैवाव्दिके मासिके ग्राह्या सा द्व्यपराह्ण-
योर्यदि तदा यत्राधिका सा मता । तुल्या चेदुमयाप-
राह्णसमये पूर्वा न चेत् सङ्गये पूर्वैव त्रिमुहूर्त्तगास्त-
समये नो चेत् परैवोचिता” ।
तिथिविशेषकृत्ये खण्डतिथिविशेषग्रहणं तंत्तच्छब्दे उक्तं
वक्ष्यते च । तिथितत्त्वादौ दृश्यम् ।
प्रतिपदातिथिविशेषाणामुभयदिनव्याप्त्यादौ निर्णयः
निर्णयसिन्धौ दर्शितो यथा
“शुक्लप्रतिपदपराह्णव्यापित्वे पूर्वा ग्राह्या युग्मवा-
क्यात् प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकीति”
स्कान्दोक्तेः “शुक्ला स्यात् प्रतिपत्तिथिः प्रथमतश्चेत्
सापराह्णे भवेदिति” दीपिकोक्तेश्च । अपराह्णश्च
पञ्चधा भक्ते दिने चतुर्थो भागः । तदभावे सायाह्नव्या-
पृष्ठ ३२९५
पिनी ग्राह्या “तदभावे तु सायाह्नव्यापिनी परिगृह्यता-
मिति” माधवोक्तेः कृष्णा तु परा “कृष्णा तूत्तरतो-
ऽखिलेति” दीपिकोक्तेः कृष्णापि पूर्वैवेत्यनन्तभट्टाः ।
द्वितीया तु कृष्णा पूर्वा शुक्लोत्तरा इति हेमाद्रिः, कृष्णा
द्वितीयादिमा “पूर्वाह्णे यदि सा सिता तु परतः सर्वा” इति
दीपिकोक्तेः माधवानन्तभट्टमते तु सर्वापि द्वितीया परा
तथा च माधवः “पूर्वेद्युरसती प्रातः परेद्युस्त्रिमुहूर्त्तगा ।
सा द्वितीया परोपोष्या पूर्वविद्धा ततोऽन्यथा” इति
तृतीया तु सर्वमते रम्भाव्यतिरिक्ता परैव तेन युग्म-
वाक्यं रम्भाव्रतविषयम् “रम्भाख्यां वर्जयित्वा तु तृतीयां
द्विजसत्तम! अन्येषु सर्वकार्य्येषु गणयुक्ता प्रशस्यत
इति ब्रह्मवैवर्तात् गौरीव्रते तु विशेषमाह माधवः
“मुहूर्त्तमात्रसत्त्वेऽपि दिने गौरीव्रतं परे । शुद्धाधि-
कायामप्येवं गणयोगप्रशंसनादिति” ।
चतुर्थ्यपि सर्वमते गणेशव्रतातिरिक्ता परैव युग्मवा-
क्यात् “एकादशी तथा षष्ठी अमावास्या चतुर्थिका ।
उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः” इति
माधवीये वृहद्वसिष्ठोक्तेश्च
नागचतुर्थी तु मध्याह्नव्यापिनी पञ्चमीयुता च ग्राह्या
इति निर्णयामृते माधवीये चोक्तम् “युगं मध्यंदिने यत्र
तत्रोषोष्य फणीश्वरान् । क्षीरेणाप्याय्य पञ्चम्यां पूजयेत्
प्रयतो नरः । विषाणि तस्य नश्यन्ति न तान् हिंसन्ति
पन्नगाः” इति माधवीये देवलोक्तेः युगं चतुर्थी । पूर्वत्र
मध्याह्नव्याप्तौ पूर्वा अन्यपक्षेषु परैव पञ्चम्यां पूजोक्तेः
गणेशव्रते तृतीयायुतैव चतुर्थी “चतुर्थी तु तृतीयायां
महापुण्यफलप्रदा । कर्तव्या व्रतिभिर्वत्स! गणनाथ
सुतोषिणी” इति हेमाद्रौ व्रह्मवैवर्त्तात् । माधवोये तु
गणेशव्रते “मध्याह्नव्यापिनी मुख्या” चतुर्थी गणनाथस्य
मातृविद्धा प्रशस्यते । मध्याह्नव्यापिनी चेत् स्यात्
परतश्चेत् परेऽहनि” इति वृहस्पतिवचनात् “प्रातः शुक्ल-
तिलैः स्नात्वा मध्याह्ने पूजयेन्नृप!” इति “तत्कल्पेऽभि-
धानाच्च तेन परदिने तथान्वे परा अन्यथा पूर्वेत्युक्तम् वस्तु-
तस्तु यत्र भाद्रशुक्लचतुर्थ्यादौ गणेशव्रतविशेषे मध्याह्न-
पूजोक्ता तद्विषयाण्येव प्रागुक्तवचनानि न तु सार्वत्रि-
काणि । संकष्टचतुर्थ्यादौ बहूनां कर्मकालानां बाधापत्तेः
तेन सर्वत्र गणेशव्रते पूर्वैवेति सिद्धम् । संकष्टचतुर्थी तु
चन्द्रोदयव्यापिनी ग्राह्या दिनद्वये तथात्वे मातृयोगस्य
सत्त्वात् पूर्वेति केचित् । अन्ये तु मुहूर्त्तत्रयादिरूपस्य
तृतीयायोगस्याभावात्परदिने माधवोक्तमध्याह्नव्यापिस-
त्त्वात् संपूर्णत्वाच्च परेत्याचक्षते । दिनद्वये तदभाते तु परैव ।
गौरीव्रते तु पूर्वैव । “गणेशगौरीबहुलाव्यतिरिक्ताः
प्रकीर्त्तिताः । चतुर्थ्यः पञ्चमीविद्धा देवतान्तरयोगतः” इति
मदनरत्ने ब्रह्मवैवर्त्तात्
पञ्चमी तु माधवमते सर्वापि पूर्वा “चतुर्थीसं-
युता कार्या पञ्चमी परया न तु । दैवे कर्मणि
पित्र्ये च शुक्लपक्षे तथा सितेति” हारोतोक्तेः
हेमाद्रिमते तु कृष्णा पूर्वा सिता परा “कृष्णा पूर्वयुता
सिता परयुता स्यात् पञ्चमी” इति दीपिकोक्तेः वस्तुतस्तु
हारीतोक्तिरुपवासविषया “प्रतिपत्पञ्चमी चैव सावित्री-
भूतपूर्णिमा । नवमी दशमी चैव नोपोष्याः परसंयुताः”
इति व्रह्मवैवर्तात् यत्तु “पञ्चमी तु प्रकर्तव्या षष्ठ्या युक्ता
तु नारद!” इत्यापस्तम्बीयम् तत् स्कन्दव्रतपरम् “स्क-
न्दोपवासे स्वीकार्या पञ्चमी परसंयुता” इति वाक्यशेषा-
दिति माधवः तन्नागपूजाविषयमित्यनन्तभट्टनिर्णयामृता-
दयः । चमत्कारचिन्तामणौ च “पञ्चमी नागपूजायां
कार्या षष्ठीसमन्विता । तस्यान्तु तुषिता नागा इतरा
सचतुर्थिका” इति तेन नागपूजादौ परैव । यत्तु
मदनरत्नदिवोदासीययोः श्रावणपञ्चम्यतिरिक्ता पूर्वेत्युक्तं
“श्रावणे पञ्चमी शुक्ला संप्रोक्ता नागपञ्चमी । तां
परित्यज्य पञ्चम्यश्चतुर्थीसहिता हिताः” इति संग्रहोक्तेः,
“गणेशस्कन्दयोगाभ्यां क्रमान्नागः शुभाशुभः । मित्रा-
मित्रे तयोः पत्रे नागानामाखुबर्हिणौ” इति षट्त्रिंश-
न्मताच्च श्रावणपञ्चम्यतिरिक्तायाः नागपञ्चम्याश्चतुर्थीयुत-
त्वमुक्तं तदुपवासादिविषयम् । पत्रे वाहने ।
षष्ठी सर्वमते स्कन्दव्रतातिरिक्ता परैव युग्मवाक्यात्
“नागविद्धा न कर्तव्या षष्ठी चैव कदाचन” इति स्कान्दाच्च
निर्णयामृते “षष्ठी च सप्तमी चैव वारश्चेदंशुमालिनः ।
योगोऽयं पद्मको नाम सूर्य्यकोटिग्रहैः समः” ।
सप्तमी पूर्वैव युग्मवाक्यात् “षष्ठ्या युता सप्तमी च
कर्तव्या तात! सर्वदा” इति स्कान्दाच्च ।
अष्टमी तु सर्वमते कृष्णा पूर्वा सिता परा “व्रत-
मात्रेऽष्टमी कृष्णा पूर्वा शुक्लाष्टमी परा” इति
माधवोक्तेः “परयुक् शुक्लाष्टमी पूर्वयुक् कृष्णा” इति
दोपिकोक्तेश्च शिवशक्त्युत्सवे तु कृष्णाप्युत्तरा
“पक्षद्वयेऽप्युत्तरैव शिवशक्तिमहोत्सवः” इति
माधवोक्तेः दिवोदासीये भविष्ये “यदा यदा सिताष्टम्या
पृष्ठ ३२९६
बुधवारो भवेत् क्वचित् । तदा तदा हि सा ग्राह्या
एकभक्ताशने नृप! । सन्ध्याकाले तथा चैत्रे पसुप्ते च
जनार्दने । बुधाष्टमी न कर्तव्या हन्ति पुण्यं पुरातनम्”
अन्त्यं पद्यं हेमाद्रौ न धृतम् ।
नवमी तु सर्वमते पूर्वा युम्मवाक्यात् “न कुर्य्या-
न्नवमीं तात! दशम्या तु कदाचन” इति स्कान्दाच्च ।
दशमी पूर्वा परा वेति हेमाद्रिः “कृष्णा पूर्वोत्तरा
शुक्ला दशम्येवं व्यवस्थिता” इति माधवः वस्तुतस्तु
मुख्या नवमीयुतैव ग्राह्या “दशमी तु प्रकर्तव्या
सदुर्गा द्विजसत्तम!” इत्यापस्तम्बोक्तेः यत्तु “संपूर्णा
दशमी कार्या पूर्वया परयाऽथ वा” इत्यग्निरसोक्तं
तन्नवमीयुक्ताऽलाभे औदयिकी ग्राह्येत्येवं नेयम्” ।
एकादशीनिर्णयस्तु कालमाधवीयानुसारेण एकादशीशब्दे
१४८८ पृ० उक्तः । महाद्वादश्यादिनिर्णयः नि० सि० यथा
“अथाष्टौ महाद्वादश्यः तत्र शुद्धाधिकैकादशीयुक्ता द्वादशी
उन्मीलिनी १ संज्ञा द्वादश्येव शुद्धाधिका वर्द्धते चेत्सा
वञ्जुली २ वासरत्रयस्पर्शिनी त्रिस्पृशा ३ अग्रे पर्वणः संपू-
र्णाधिकत्वे पक्षवर्द्धिनी ४ । पुष्पर्क्षयुता जया ५ श्रवणयुता
विजया ६ पुनर्वसुयुता जयन्ती ७ रोहिणीयुता पापनाशिनी ८
एताः पापक्षयमुक्तिकाम उपवसेत् । अत्र मूलं हेमाद्रौ ज्ञे-
यम् । एकादशीद्वादश्योरेकाहे तन्त्रेणोप्रवासः, पार्थक्ये
तु शक्तस्योपवासद्वयम् “एकादशीमुपोष्यैव द्वादशीं
समुपोषयेदिति विष्णुरहस्यात् अशक्तौ तु द्वादश्यामेव
“एवमेकादशीं त्यक्ता द्वादशीं समुपोषयेत् । पूर्ववासरजं
पुण्यं सर्वं प्राप्नोत्यसंशयमिति” तत्रैवौक्तेः । यदा त्वल्पा
द्वादशी तदोक्तं मात्स्ये “यदा भवति स्वल्पापि द्वादशी
पारणादिने । ऊषःकाले द्वयं कुर्य्यात्प्रातर्माध्याह्निकं तदा ।
नारदीयेऽपि “अल्पायामथ विप्रेन्द्र! द्वादश्यामरुणोदये ।
स्नानार्चनक्रियाः कार्य्या दानहोमादिसंयुताः” इति सङ्कटे
तु माधवीये देवलः “सङ्कटे विषमे प्राप्ते द्वादश्यां पारयेत्-
कथम् । अद्भिस्तु पारणात् कुर्य्यात् पुनर्भुक्तं न
दोषकृदिति” । सङ्कटे त्रयोदशीश्राद्धप्रदीषादौ । अत्र केचिदाहुः
अपकर्षवाक्यान्यनाहिताग्निविषयाणि अग्निहोत्रादीनां
श्रौतत्वेनापकर्षायोगादिति । द्वादश्यां च प्रथमपादम-
तिक्रम्य पारणं कार्य्यम् “द्वादश्याः प्रथमः पादो
हरिवासरसंज्ञितः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः”
इति निर्णयामृते मदनरत्ने च विष्णुधर्मोक्तेः । अत्र
केचित् सङ्गिरन्ते यदा भूयसी द्वादशी तदापि प्रातर्मु-
हूर्त्तत्रये पारणं कार्य्यम् “सर्वेषामुपवासानां प्रातरेव हि
पारणमिति” वचनादिति । अस्मद्गुरवस्तु बहूनां कर्म्म-
कालानां विना कारणं बाधापत्तेः प्रागुदग्वचनैश्च अल्प-
द्वादश्यामेवापकर्षविघानादपराह्ण एव कार्य्यम् । प्रातः
शब्दस्तु “सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति”
वदपराह्णवाचित्वेऽप्युपपन्नः न च वाक्यवैयर्थ्यं
पुनर्भोजनसायंपारणनिवृत्त्यर्थत्वात्तस्येत्याहुः । प्रमादेन
एकादश्युपवासातिक्रमे अपरार्के वाराहे “एकादशी विप्लुता
चेद्द्वादशीपरतः स्थिता । उपोष्या द्वादशी तत्र
यदीच्छेत्परमं पदमिति” कैश्चित्तु वैष्णवं पदमिति
पठितम् अत्राविरोधिनो नियमाः सर्वव्रतेषु बोद्धव्याः ।
अन्ये च नवरात्रे वक्ष्यन्ते इति दिक् ।
द्वादशी तु पूर्वैव युग्मवाक्यात् द्वादशी तु प्रक-
र्त्तव्या एकादश्या युता प्रभो!” इति स्कान्दाच्च ।
त्रयोदशी तु सर्वमते शुक्ला पूर्वा, कृष्णोत्तरा “त्रयो-
दशतिथिः पूर्वः सितोऽथाऽसितः पश्चादिति” दीपिकोक्तेः
“शुक्ला त्रयोदशी पूर्वा परा कृष्णा त्रयोदशीति” माधवीयाच्च
चतुर्दशी सर्वमते कृष्णा पूर्वा, शुक्लोत्तरा, उपवासे
तु द्वय्यपि परेति मदनरत्ने ।
पौर्णमास्यमावास्ये तु सावित्रीव्रतं विना परे ग्राह्ये
“भूतविद्धे न कर्त्तव्ये दर्शपूर्णे कदाचन । वर्जयित्वा
मुनिश्रेष्ठ! सावित्रीव्रतमुत्तममिति” ब्रह्मवैवर्त्तात्
“अमायां योगविशेषमाहाऽपरार्के शातातपः “अमा-
वस्यां भवेद्वारो यदा भूमिसुतस्य वै । जाह्नवीस्नान-
मात्रेण गोसहस्रफलं लभेत्” ।
“अमा वै सोमवारेण रविवारेण सप्तमी । चतुर्थी
भौमवारेण विषुवत्सदृशं फलम्” तत्रैव व्यासः “सिनीवाली
कुहूर्वापि यदि सोमदिने भवेत् । गोसहस्रफलं दद्यात्
स्नानं वै मौनिना कृतम्” । हेमाद्रौ वृहन्मनुः “श्रवणाश्वि
धनिष्ठार्द्रानागदैवतमस्तके । यद्यमा रविवारेण व्यती
पातः स उच्यते” । नागदैवतम् अश्लेषा मस्तको
मृगशिरः । प्रथमपाद इत्यन्ये स च सर्वेषाम्” ।
सर्वतिथिषु वर्ज्यान्याह मुहूर्त्तदीपिकायाम्
“कुष्माण्डं वृहतीफलानि लवणं वर्ज्यं तिलाम्लं तथा
तैलं चामलकं दिवं प्रवसता शीर्षं कपालान्त्रकम् । निष्पा-
वांश्च मसूरिकान् फलमथो वृन्ताकसंज्ञं मधु द्यूतं स्त्रीग-
मनं क्रमात् प्रतिपदादिष्वेवमाषोड़शात्” “शीर्षं नारिके-
लम्, कपालम् अलाबु, अन्त्रं पटोलकम्” भूपालः “कुष्माण्डं-
पृष्ठ ३२९७
वृहतीक्षारं मूलकं पनसंफलम् । धात्री शिरः कपालान्त्रं
नखचर्म्मतिलानि च । क्षुरकर्माङ्गनासेवां प्रतिपत्प्रभृति
त्यजेत् । नखं शिम्बी चर्म मसूरिका प्रतिपदादितिथिषु
कुष्माण्डादिभक्षणफलं चोक्तं तिथितत्त्वे स्मृत्या यथा
“कुष्माण्डे चार्थहानिः स्याद्वृहत्यां न स्मरेद्धरिम् ।
बहुशत्रुः पटोले स्याद् धनहानिस्तु मूलके । कलङ्की
जायते विल्वे तिर्य्यग्योनिश्च निम्बके । ताले शरीर-
नाशः स्यात् नारिकेले च मूर्खता । तुम्बी गोमांसतुल्या
स्यात् कलम्बी गोबधात्मिका । शिम्बी पापकरी प्रोक्ता
पूतिका ब्रह्मघातिका । वार्त्ताकौ सुतहानिः स्यात्
चिररोगी च माषके । महापापकरं मांसं प्रतिपदादिषु
वर्जयेत्” ।
प्रसङ्गात्तिथिसाधनप्रकारः सि० शि० उक्तो दर्श्यते यथा
“रवि १२ रसै ६ र्विरवीन्दुलवाहृताः फलमितास्तिथयः
करणानि च । कुरहितानि च तानि बवादितः
शकुनितोऽसितभूतदलादनु । ग्रहकलाः सरवीन्दुकला
हृताः खखगजै ८०० श्च भयोगमितिः क्रमात् । अथ
हृता स्वगतैष्यविलिप्तिक्ताः स्वगतिभिश्च गतागतनाड़िकाः”
मू० । “व्यर्केन्दोर्भागा द्विष्ठाः । एकत्र रवि १२ भिर्भा-
ज्यास्तत्र फलं गतास्तिथयः । अन्यत्र रसै ६ र्भाज्याः ।
फलं गतकरणानि । तानि त्वेकोनानि बवादितो
भवन्ति । कृष्णचतुर्दश्यर्द्धादुपरि यान्यवशिष्यन्ते त्रीणि
चतुर्थं प्रतिपत्प्रथमार्धे च । एतानि चत्वारि शकुनितः ।
शकुनिचतुष्यादनागकिन्तु(किंस्तु)घ्नानीति शेषः । यस्य
ग्रहस्य नक्षत्रं ज्ञातुमिष्यते तस्य कलाः कार्य्याः । तथा
चन्द्रार्कयोगस्य कलाः कार्य्याः । उभयत्र शताष्टकेन ८००
हृते प्रथमस्थाने गतभानि द्वितीयस्थाने गतयोगाः ।
अथ यान्यवशिष्टानि तानि गतानि । तानि स्वस्वह-
रच्युतानि गम्यानि स्युः । तेषां गतानां सम्बन्धिन्यो
विकलाः स्वस्वगतिभिर्भाज्याः । यल्लभ्यते ता
गतघटिका भवन्ति । यद्येष्याणां विकला भक्तास्तदैष्या
घटिका भवन्ति । अत्रोपपत्तिः । यदि व्यर्केन्दोश्चक्रांशै
३६० स्त्रिंशत् तिथयी लभ्यन्ते तदैभिः किमिति ।
अत्र त्रिंशतापवर्तिते हरे जातो द्वादश हरः । अथ
यदि चक्रांशैः ३६० षष्टिः ६० करणानि लभ्यन्ते
तदैभिः किमिति । अत्रापि षष्ट्यावर्तिते जातो हरः
षण्मितः । अथ यदि चक्रकलाभिः २१६०० सप्तविंश-
तिर्भानि लभ्यन्ते योगा वा तदेभिः किमिति । अत्रापि
सप्तविंशत्यापवर्तने कृते जातोऽष्टशती हर उभयत्र ।
अथ घटीकरणार्थमनुपातः । यदि गतिकलाभिः षष्टि-
घटिका लभ्यन्ते तदा गतैष्याभिः कलाभिः किमिति
फलं गतैष्या घटिकाः । अथ कलाः षष्ट्या गुणिता
विकलाः स्युरित्यतः उक्तम् अथ हृताः स्वगतैष्यवि-
लिप्तिका इति सर्वमुपपन्नम्” प्रमि० ।
सू० सि० तिथ्याद्यानयनप्रकार उक्तो यथा
“मभोगोऽष्टशतीलिप्ताः खाश्विशैलास्तथा तिथेः । ग्रह-
लिप्ता भभोगाप्ता भानि भुक्त्या दिनादिकम्” सू० सि० ।
“अष्टशतमिताः कला नक्षत्रभोगः । प्रसङ्गात् तिथि-
भोगमाह । खाश्विशैला इति । तिथेर्विशत्यधिकस-
प्तशतमिताः ७२० कलास्तथा भोग इत्यर्थः । यस्य ग्रहस्य
नक्षत्रज्ञानमिष्टं तस्य ग्रहस्य राशयस्त्रिंशद्गुण्या
अंशा योज्यास्ते षष्टिगुणिताः कला योज्या इति
परिभाषया कला नक्षत्रभोगभक्ताः फलं ग्रहस्य
गतनक्षत्राणि शेषं वर्तमाननक्षत्रस्य गतकलास्तस्मात् तस्य
गतदिनाद्यानयनमाह भुक्त्येति । ग्रहस्य कलात्मिकया
गत्या शेषदिनादिकं गतं भागहरणेन साध्यमेवं शेषो-
नाद्भोगाद्गतिकला भागेनैष्यदिनादिकं साध्यम् । अत्रोप-
पत्तिः । भचक्रभोगेण सप्तविंशतिनक्षत्राण्यश्विन्यादीनि
ग्रहो भुनक्त्यतः सप्तविंशतिनक्षत्राणां चक्रकलाः
षट्शतयुतैकविंशतिसहस्रमिता २१६०० भोगस्तदै-
कनक्षत्रस्य क इत्यनुपातेनाष्टशतकलाभोगः । एवं
तिथेश्चान्द्रमासत्रिंशांशाच्चान्द्रमासस्य सूर्य्यचन्द्रान्तरैक-
भगणसिद्धत्वाच्च । त्रिंशत्तिथीनां चक्रकलाभोगस्तदैकतिथेः
क इत्यनुपातेन विंशत्यधिकसप्तशतकलाभोगः ७२० ।
अथाष्टशतकलाभिरेकं नक्षत्रं तदा ग्रहकलाभिः
किमित्यनुपातेन फलमश्विन्यादीनि ग्रहभुक्तानि शेषकला
ग्रहाधिष्ठितनक्षत्रस्य गतं भोगाद्धीनं तस्यैष्यम् । यदि
ग्रहगत्यैकं दिनं तदाभीष्टकलाभिः किमित्यनुपातेन तस्य
गतैष्यदिवसाद्यं भवति । एवं चन्द्राद्दिननक्षत्रं
ज्ञेयम्” रङ्गना० । “रवीन्दुयोगलिप्ताभ्यो योगा
भभोरभाजिताः । गता गम्याश्च षष्टिघ्ना भुक्तियोगाप्तना-
ड़िकाः” सू० सि० “सूर्य्यचन्द्रयोगस्य राश्यादिकस्य परिभा-
षया याः कलास्ताभ्यो योगा विष्कम्भादयो भभोग-
भाजिता भभोगेन पूर्वोक्तेन विभक्ता भवन्ति ।
एकैकयोगस्य भभोगमितौ भोगः स प्रत्येकं ताभ्योऽपनीय
यन्मिताः शुद्धास्तन्मिता योगा गताः । यस्य भोगो
पृष्ठ ३२९८
न शुद्ध्यति स वर्त्तमान इत्यर्थः । कला भभोगभक्ता
गता योगास्तदग्रिमो वर्त्तमान इति तात्पर्य्यम् । तस्य
शेषं गतं भोगात् पतितमेष्यं ताभ्यां घटिकाद्यानयन-
माह । गता इति । गता एष्याः । चः समुच्चये ।
कलाः षष्टिगुणिताः कार्य्यास्ताम्यो भुक्तियोगाप्तनाड़िका
रविचन्द्रकलात्मकग योर्योगेन भजनाल्लब्धा घटिका
गतैष्या भवन्ति । अत्रोपपत्तिः । सूर्य्यचन्द्रयोगमि-
तस्य ग्रहस्य नक्षत्राणि विष्कम्भादिसञ्ज्ञानि योगो-
त्पन्नत्वाद्योगा अतस्तदानयनं पूर्वोक्तवत् । अतएव
सूर्य्यचन्द्रगतियोगतुल्यतद्गत्या षष्टिसावनघटिकास्तदा
गतैष्या कलाभिः का इत्यमुपातेन गतैष्यघटिकानयनं
युक्तमुक्तम्” रङ्गना० । “अर्कोनचन्द्रलिप्ताभ्यस्तिथयो
भोगभाजिताः । गता गम्याश्च षष्टिघ्ना नाद्ध्यो भुक्त्य-
न्तरोद्धृताः” सू० सि० । “पूर्वार्धव्याख्यानं पूर्वश्लोक-
पूर्वार्द्धरीत्या ज्ञेयमुत्तरार्द्धं स्पष्टम् । अत्रोपपत्तिः ।
“तिथिभीगकलाभिरेका तिथिस्तदा सूर्य्योनचन्द्रकलाभिः
का इत्यनुपातेन फलं गततिथयो वर्त्तमानतिथेर्गतैष्ये
शेषशेषोनभोगकले ताभ्यां गत्यन्तरकलाभिरनुपातेन
गतैष्यटिकाः पूर्ववत्” रङ्गना० ।
कल्पे तिथिमानमुक्तं सि० शि० यथा
“विधिदिने दिनकृद्दिवसाः करेन्द्रियशरेषुभुवोऽर्वुद
संगुणाः । नवनवाङ्ककराभ्ररसेन्दवः प्रयुतसंगुणिता
विधुवासराः” १६०२९९९००००००० । अत्रोपपत्तिः,
रविवर्षाणि दिनीकृतानीति सुगमम् । चन्द्रार्कयोर्यावन्तः
कल्पे योगास्तावन्तः किल शशिमासाः । ते तु योगा
भगणान्तरतुल्याः स्युः । उभयोरपि प्राग्गमनात् ।
अतो मगणान्तरतुल्याः शशिमासा भवन्ति । ते त्रिंश-
द्गुणाः शशिदिवसा भवन्तीत्युपपन्नम् ।
युगे तिथिसंख्या सू० सि० उक्ता यथा ।
युग इत्युपक्रमे चान्द्रदिनप्रमाणमाह
“चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः” सू० सि० ।
“अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिता युगे सूर्य्यसा-
वनदिवनाः । चान्द्रा दिवसा युगतिथय इत्यर्थः ।
अशीतिशून्यचतुष्कत्रिखनृपा एते त्रिंशद्भक्ताश्चान्द्रमासा
उक्तप्रायाः । अनेनैव चान्द्रदिवसानामुपपत्तिः सूर्य्य-
चन्द्रयोर्भगणयोरन्तरूपचान्द्रमासास्त्रिंशद्गुणिता इति
स्पष्टीकृताः” रङ्गना० ।
तिथिभेदे देवभेदपूजा पीयू० धा० धृतवाक्ये नीक्ता यथा
तत्र नारदः “यद्दिनं यस्य देवस्य तद्दिने तस्य संस्थितिः”
अग्निपुराणेऽपि “प्रतिपद्यग्निपूजा स्यात् द्वितीयायाञ्च
वेधसः । दशम्यामन्तकस्यापि षष्ट्यां पूजा गुहस्य च ।
चतुर्य्यां गणनाथस्य गौर्य्यास्तत्पूर्ववासरे । सरस्वत्या
नवम्याञ्च । सप्तम्यां भास्करस्य च अष्टम्याञ्च चतुर्द्दस्यामेका-
दश्यां शिवस्य च । द्वादश्याञ्च त्रयोदश्यां हरेश्च मदनस्य
च । शेषादीनां फणीशानां पञ्चम्यां पूजनं भवेत् । पर्वणी-
न्दोस्तिथिष्वासु पक्षद्वयगतास्वपीति” ।
पञ्चदशसंख्यायां सू० सि० उदा० ।
स्त्रीत्वे “वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना”
कुमा० । पुंस्त्वे “निखिलान् निशि पूर्णिमा तिथीनुपतस्थे-
ऽतिथिरेकिका तिथिः” नैष० ।

तिथिकृत्य न० ७ त० । तिथिविहिते कार्य्ये “तिथिकृत्ये च

कृष्णादिर्व्रते शुक्लादिरेव च । विवाहादौ स्मृतः सौरः
शेषेषु सावनो मतः” मल० त० । तिथिविशेषे कृत्यानि
च तिथितत्त्वे कालमाधवीयनिर्णयसिन्धुग्रन्थप्रभृतिनिव-
न्धेषु दृश्यानि ।
तिथिभेदेषु कृत्याकृत्यानि पी० धा० वसिष्ठोक्तानि यथा
“नोद्वाहयात्रोपनयप्रतिष्ठासीमन्तचौलाखिलवास्तुकर्म्म ।
गृहप्रवेशाखिलमङ्गलाद्यं कार्य्यं हि । मासाद्यतिर्थ
कदाचित्” । मासाद्यतिथौ शुक्लपक्षपतिपदि अतए
कृष्णपक्षप्रतिपद्येतानि कर्म्माणि सुखेन भवन्तीत्यर्थः
यद्येषोऽभिप्रायोऽसम्मतः स्यात्तदा पक्षाद्यतिथाविति-
ब्रूयात् । “सप्ताङ्गचिह्नानि नृपस्य वास्तुव्रतप्रतिष्ठाखिल-
मङ्गलानि । यात्राविवाहाखिलभूषणाद्यं कार्य्यं द्विती-
यादिवसे सदैव । सङ्गीतविद्याखिलशिल्पकर्म्मसीमन्त-
चौलान्नगृहप्रवेशम् । कार्य्यं द्वितीयादिवसे यदुक्तं सदा
गृतीयादिवसेऽपि कार्य्यम् । रिक्तासु विद्युद्बधबन्धशस्त्र-
विषाग्निघातादि च याति सिद्धिम् । यन्मङ्गलन्तासु कृतं
विमूढैर्विमाशमायाति तदाशु नूनम्” । रिक्तासु चतुर्थीन-
वमीचतुर्दशीषु ४ । ९ । १४ । “शुभानि कार्य्याणि चरस्थिराणि
चोक्तान्यनुक्तान्यपि यानि तानि । सिद्धिं प्रयान्त्याशु
ऋणप्रदानं विनाशदं नागतिथौ विधेयम् । अभ्यङ्गयात्रा-
पितूकर्म्मदन्तकाष्ठं विना पौष्टिकमङ्गलानि । षष्ठ्यां
विधेयानि रणीपयोग्यशिल्पानि वस्त्वम्बरभूषणानि ।
द्वितीयायां तृतीयायां पञ्चम्यां कथितान्यपि । तानि
सिघ्यन्ति कार्य्याणि सप्तम्यां निखिलान्यपि । संग्रामयो-
ग्याखिलवास्तुशिल्पनृपप्रमोदाखिललेखनानि स्त्रीरत्न-
पृष्ठ ३२९९
कार्य्याखिलभूषणानि कार्य्याणि कार्य्याणि महेशति-
थ्याम् । द्वितीयायां तृतीयायां पञ्चम्यां सप्तमीतिथौ ।
उक्तानि यानि सिध्यन्ति दशम्यां तानि सर्वदा । व्रतो-
पवासाऽखिलधर्मकृत्यं सुणोत्सवाद्याऽखिलवास्तुकर्म्म ।
संग्रामयोग्याखिलवास्तुकर्म्म विश्वे तिथौ सिध्यति
शिल्पकर्म्म । पृथिव्यां यानि कर्म्माणि घर्म्मपुष्टिः शुभानि
च । चरस्थिराणि द्वादश्यां यात्रां नवगृहं विना ।
विधातृगौरीभुजगभान्वन्तकदिनेषु च । उक्तानि तानि
सिध्यन्ति त्रयोदश्यां विशेषतः । यज्ञक्रियापौष्टिकम-
ङ्गलानि संग्रामयोग्याखिलवास्तुकर्म्म । उद्वाहशिल्पाऽ-
खिलभूषणाद्यं कार्य्यं प्रतिष्ठा खलु पौर्णमास्याम् ।
सदैव दर्शे पितृकर्म्ममुक्त्वा नान्यद्विधेयं शुभपौष्टिकाद्यम् ।
मूढैः कृतं तत्र शुभोत्सवाद्यं विनाशमायात्यचिराद्भृशं
तत्” पी० धा० वसिष्ठवचनम् ।

तिथिक्षय पु० तिथीनां तिय्युपलक्षितचन्द्रकलानां क्षयः क्षया-

रम्भो यस्मिन् । दर्शे अमावास्यायाम् शब्दार्थकल्प० ।
६ त० । तिथीनां नाशे अवमे अवमशब्दे ४३१ पृ० दृश्यम्
दिनक्षयादयोऽप्यत्र । “कौर्मे पाद्मेऽपि “द्वौ तिथ्य-
न्तावेकवारे यत्र स स्याद्दिनक्षयः” वशिष्ठः “एकस्मिन्
सावने त्वह्नि तिथीनां त्रितयं यदा । तदा दिनक्षयः
प्रोक्तस्तत्र साहस्रिकं फलम्” । साहस्रिकं फलमिति
माङ्गल्येतरवैदिककर्मपरम् । “अधिमासे दिनपाते धनुषि
रवौ भानुलङ्घिते मासि । चक्रिणि सुप्ते कुर्य्यान्नो
माङ्गल्यं विवाहञ्च” इति भीमपराक्रमात् दिनपाते दिनक्षये
रघु० तिथिक्षयानयनञ्च सू० सि० उक्तं यथा
“सावनाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः”
सू० सि० । “चान्द्रेभ्यो द्युभ्यो वक्ष्यमाणचान्द्रदिवसेभ्यः
सकाशादित्यर्थः । तिथिषु चान्द्रदिनेषु सावन-
दिनानामवशेषतुल्यः क्षयो न्यूनत्वम् । यद्वा तिथिश-
ब्देन सावनो दिवसस्तस्य चान्द्रदिवसात् क्षय इति
स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम्” रङ्गना० ।
युगे तत्संख्या सू० सि० उक्ता यथा युग इत्युपक्रमे
“तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः” १५०८२१५२
एतन्मिता इत्यर्थः ।

तिथिपति पु० तिथिविशेषाणां पतयः । तिथीनाम-

धिपतौ स च मु० चि० उक्तो यथा
“तिथीशावह्निकौ गौरी गणेशोऽहिर्गुहोरविः ।
शिवोदुर्गान्तको विश्वे हरिः कामः शिवः शशी” मु० चि०
एतन्मूलं पीयूषधारायां धृतवसिष्ठवचनं यथा
“वह्निर्विघाताद्रिसुता गणेशः सर्पो विशाखोऽदितिजो
महेशः । दुर्गा यमो विश्वहरिश्च कामः शर्वो निशेशश्च
पुराणदृष्टाः इति स्वामिन इति शेषः” ।
तिथिपतयश्च वृ० सं० ९९ अ० अन्यथोक्ता यथा “कमल-
जविधातृहरियमशशाङ्कषड्वक्त्रशक्रवसुभुजगाः । धर्मेश-
सवितृमन्मथकलयो विश्वे च तिथिपतयः । पितरोऽमा-
वास्यायां संज्ञासदृशाश्च तैः क्रियाः कार्य्याः । नन्दा
भद्रा जया रिक्ता पूर्णा च तास्त्रिविधाः । यत्र कार्य्यं
नक्षत्रे तद्दैवत्यासु तिथिषु तत्कार्य्यम्” । वसिष्ठवराह-
वचनाभ्यामुक्तदेवानां तत्तथिषु पुजेति न विरोधः ।

तिथिप्रणी पु० तिथिं प्रणयति प्र + नी--क्विप् । चन्द्रे त्रिका०

तिथियुग्म न० तिथ्योस्तिथिविशेपयोर्युग्मम् । द्वितीयादितिथि-

सप्तकयोगरूपे युग्मे तानि च सप्त युगमानि निगमे उक्तानि
यथा “युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण
द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा! प्रतिपदाप्यमा-
वास्या तिथ्योर्युग्मं महाफलम् । एतद्व्यस्तं महादोषं
हन्ति पुण्यं पुराकृतमिति” । युग्मं द्वितीया । अग्नि-
स्तृतीया । युगं चतुर्थी । भूतं पञ्चमी । षड् षष्ठी ।
मुनिः सप्तमी । वसुरष्टमी । रन्ध्रं नवमी । रुद्र
एकादशी । अत्र युग्माग्न्यादिषु सप्तसु युग्मेषु पूर्वतिथि-
रुत्तरविद्धा ग्राह्या उत्तरा तु पूर्वविद्धेत्युक्तं भवति ।
वेधश्चात्र त्रिमूर्त्तयोरेव तदुक्तं कालमा० “अत्र तिथीनां
वेधः पैठीनसिना दर्शितः । “पक्षद्वयेऽपि तिथयस्तिथिं
पूर्वां तथोत्तराम् । त्रिमिर्मूहूर्त्तैर्विध्यन्ति सामान्योऽयं
विधिः स्मृतः” इति पूर्वेद्युरुदयानन्तरममावास्या त्रिमुहूर्त्ता
चैत् सा प्रतिपदं विध्यति । परेद्युरस्तमयात् प्राक्
द्वितीया त्रिमुहूर्त्ता चेत् सापि पूर्वां प्रतिपदं विध्यति
त्रिमुहूर्त्तव्याप्तिः स्कन्दपुराणे दर्शिता । “यां तिथिं
समनुप्राप्य यात्यस्तं पद्मिनीप्रियः । सा तिथिस्तद्दिने
प्रोक्ता त्रिमुहूर्त्ता च या भवेदिति” । शिवरहस्यसौर-
पुराणयोरपि “या प्राप्यास्तमुपैत्यर्कः सा चेत् स्यात्
त्रिमुहूर्त्तिका । धर्मकृत्येषु सर्वेषु संपूर्णान्तां विदुर्बुधाः”
इति । वृहद्वसिष्ठोऽपि “यस्यां तिथावस्तमियात्
सूर्य्यस्तु त्रिमुहूर्त्तकैः । यागदानजपादिभ्यस्तामेवोपक्र-
मेत्तिथिमिति” । एवं पैठीनस्यादिवाक्ये त्रिमुहूर्त्तत्वेनैव
वेधस्थितेः वङ्गानां योगमात्रेणैव वैधोक्तिः साहस-
मात्रम् । वेधकतिथेस्त्रिमूहूर्त्तत्वेऽपि विद्धतिथेर्मुहूर्त्ता-
पृष्ठ ३३००
दिव्यापित्वेऽपि ग्राह्यता कालमाधवीये निर्णीता यथा ।
“देवलः “यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिः सकला ज्ञेया स्नानदानजपादिष्विति” ।
व्यासोऽपि “उदयन्नेव सविता यां तिथिं प्रतिपद्यते ।
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मस्विति” ।
भविष्योत्तरपुराणेऽपि “व्रतोपवासनियमे घटिकैका
यदा भवेत् । सा तिथिः सकला ज्ञेया पित्र्यर्थे चाऽप-
राह्णिकीति” पद्मपुराणेऽपि “व्रतोपवासनियमे
घटिकैका यदा भवेत् । उदये सा तिथिस्तत्र विपरीता
तु पैतृके” इति स्कन्दपुराणेऽपि “व्रतोपवासदा-
नादौ घटिकैका यदा भवेत् । उदये सा तिथिर्ग्राह्या
विपरीता तु पैतृके” इति विष्णुधर्म्मोत्तरेऽपि “व्रतो-
पवासस्नानादौ घटिकैका यदा भवेत् । उदये सा
तिथिर्ग्राह्या श्राद्धादावस्तगामिनीति” बौधायनोऽपि
“आदित्योदयवेलायां याल्पापि च तिथिर्भवेत् । पूर्णा
इत्येव मन्तव्या प्रभूता नोदयं विनेति” नन्वस्त्वेवं कृत्स्न-
दिवसाभ्यनुज्ञा तथाप्युत्तरविद्धायास्तिथेर्ग्रहणे कियत्-
परिमाणमुदये अपेक्षणीयमिति विवेचनीयम् । तत्र
बौधायनेनाल्पापीत्यभिधानात् निमेषमात्रं प्रति-
भाति तथा व्यासवाक्येऽपि प्रतिभाति “उदयन्नेवे-
त्यभिधानात् । भविष्योत्तरपुराणादिवचनेषु घटिका-
मात्रं प्रतीयते । वचनान्तरे तु विष्णुधर्मोत्तरबौधा-
यनप्रोक्ते घटिकाचतुष्टयं भासते । तथा च पठ्यते
“उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ । द्विमुहूर्त्तं
त्रिरह्नश्च सा तिथिर्हव्यकव्ययोरिति” । अस्यार्थः ।
भानावुदिते सत्य्त्तरकालेऽह्नो मुहूर्त्तद्वयं दैवतम् ।
तस्मिंश्चास्तमिते ततः पूर्वकालीनमह्नो मुहूर्त्तत्रयं पितृ
दैवत्यम् । अतस्तावत्कालव्यापिनी या तिथिर्भवति
सैव क्रमेण हव्यकव्ययोर्ग्राह्या । अत्रोच्यते । पौर्वा-
ह्णिकी इति वचनेन दैवे पूर्वाह्णव्याप्त्यभिधानात् ।
पूर्वाह्णस्य पञ्चधा विभक्तस्य मुख्यत्वादुदिते भानौ
त्रिमुहूर्त्ता तिथिर्ग्रहीतव्या । यत्तु दक्षेणीक्तम् । त्रिमु-
हूर्त्ता न कर्त्तव्या या तिथिः क्षयगामिणी “द्विमुहू-
र्त्तापि कर्त्तव्या या तिथिर्वृद्धिगामिनीति” । तन्न त्रिमु-
हूर्त्तव्याप्तेर्वाधकं प्रत्युतोपोद्वलकमेव । तथा हि प्रति-
षेधः सर्वत्र प्रसक्तिपूर्वकः प्रसक्तिश्चात्र यथोक्तरीत्या
पौर्वाहणिकवाक्यात् त्रिमुहूर्त्तविधायिपठीनसिवाक्याद्वा
भवति । तच्च प्रसक्तं त्रिमुहूर्त्तत्वं समतिथौ वाधका-
भावात्तथैव व्यवतिष्ठते । तिथिक्षये त्वधिकव्याप्तिविधित्-
सया प्रतिषिध्यते । अतस्तत्र चतुर्थमुहूर्त्तस्पर्शिनी तिथि
र्ग्राह्या । तिथिसाम्यवत्तिथिवृद्धावपि मुहूर्त्तत्रयमेव
मुख्यम् । मुहूर्त्तद्वयं त्वनुकल्पः । अतएवं सूचयितुं
द्विमुहूर्त्तापीत्यपिशब्दः पठ्यते ।” अत्राप्येक मुहूर्त्तव्याप्ति-
र्निकृष्टेत्यर्थसिद्धम्
“द्वितीयादिकयुग्मानां पूज्यता नियमादिषु” व्यासः । अत्र
प्रतिसवः । “भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः ।
रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता” । “युगाद्या वर्ष-
वृद्धिश्च सप्तमी पार्वतीप्रिया । रवेरुदयमीक्षन्ते न
तत्र तिथियुग्मता” ति० त० ।

तिथिसन्धि पु० तिथ्योः सन्धिः । तिथ्योः पूर्वापरयोः

सन्धौ तन्मानानयनं सि० शि० यथा “शशितनुविक-
लाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवरकलाभिर्भूय
एताभिरेव । पृथगथ गतियुत्या नाड़िका सन्धिराप्ता
तिथिकरणयोगानां फलं तत्र मिश्रम्” ।
एवं शशिविम्बकलाभ्यो या घटिका उत्पद्यन्ते ता
भतिथिकरणयोगानां सन्धिघटिकाः स्युः । सन्धौ मिश्रफल-
मित्यर्थः । अत्र सन्धिरुभयतोऽपि विम्बस्य स्थितत्वात् ।
उपपत्तिरप्यत्र सुगमा” । प्रमिता०

तिथ्यर्द्ध न० ६ त० । करणे । करणशब्दे १६९० पृ० दृश्यम् ।

तिनाशक पु० तिनिश + पृषो० । तिनिशवृक्षे शब्दरत्ना० ।

तिनिश पु० अतिशयेन नेशति अति + निश--क पृषो० अतेर-

कारलोपः । (सादन) ख्याते वृक्षे अमरः । “तिनिशः
श्लेष्मपित्तास्रमेदःकुष्ठप्रमेहजित् । तुवरः श्वित्रदाहघ्नो
व्रणपाण्डुकृमिप्रणुत्” भावप्र० ।

तिन्तिड़ पु० तिन्तिड़ी + पृषो० । १ वृक्षाम्ले (तेँतुल) विश्वः २ दैत्यभेदे पु० हेमच० ।

तिन्तिड़ी स्त्री तिन्तिड़ीक + पृषो० । (तेंतुल) वृक्षभेदे

राजनि० स्वार्थे क । तिन्तिड़िका तत्रार्थे शब्दरत्ना० ।
“अम्लिका चुक्रिकाम्ली च चुक्रा दन्तशठापि च । अम्ला
च विचिका चिञ्चा तिन्तिड़ीका च तिन्तिड़ी । अम्लि-
काऽम्ला गुरुर्वातहरी पित्तकफास्रकृत् । पक्वा तु दीपनी
रूक्षा सरोष्णा कफवातनुत्” भावप्र० । “अम्लिकायाः
फलं पक्वं मर्दितं वारिणा दृढ़म् । शर्करा
मरिचोन्मिश्रं लवङ्गेन्दुसुवासितम् । अम्लिकाफल-
संभूतं पानकं वातनाशनम् । पित्तश्वेष्मकरं किञ्चित्
सुरुच्यं वह्निबोधकम्” भावप्र० ।

तिन्तिड़ीक पु० तिम--ईक अनीका० नि० । (तेँतुल) वृक्षभेदे अमरः ।

पृष्ठ ३३०१

तिन्तिड़ीद्यूत न० तिन्तिद्या तद्वीजेन द्यूतम् । तिन्तिड़ी-

वीजेन क्रीड़ने (काँइवीजेरखेला) त्रिका० ।

तिन्तिड़ि(लि)का स्त्री तिन्तिडीः + स्वार्थे क ह्रस्वः वा डस्य

लः । (तँतुल) तिन्तिद्याम् शब्दमा० । काभावे तिन्ति-
लीत्यप्यत्र ।

तिन्दिश पु० ढिण्डिशवृक्षे (ढाँड़श) राजनि० ।

तिन्दु पु० तिज--कु--मृगय्वादि० नि० । (तँदु) १ ख्याते वृक्षे

संज्ञायां कन् । तिन्द क (गाव) इति ख्याते २ वृक्षे पुंस्त्री
शब्दरत्ना० । स्त्रीत्वे गौ० ङीष् । ३ कर्षमाणे वैद्यकशरिभाषा
पुंन० । “स्यादामं तिन्दुकं ग्राहि वातलं शीतलं
लघु । पक्वं पित्तप्रमेहास्रश्लेष्मघ्नं मधुरं गुरु । तत्सारं
तु भवेद् हृद्यं कर्षुलं चिररोगजित् । विश्वतिन्दुकमप्येवं
विशेषात् ग्राहि शीतलम्” राजनि० ।

तिन्दुकि स्त्री तिन्दुकी + पृषो० ह्रस्वः । तिन्दुके वृक्षे शब्दर०

तिन्दुकिनी स्त्री तिन्दुकस्तदाकारः फलेऽस्त्यस्या इनि

ङीप् । आवर्त्तक्याम् राजनि० ८२८ दृश्यम् ।

तिन्दुल पु० तिन्दुक + पृषो० कस्य लः । तिन्दुकवृक्षे शब्दर०

तिप रक्षणे भ्वा० आत्म० सक० सेट् । तेपते अतेपिष्ट अतिप्त ।

तितेपे । ऋदित् अतितेपत्--त ।

तिम आर्द्रीमावे भ्वा० पर० अक० सेट् । तेमति अतेमीत् । तितेम ।

तिम आर्द्रीकरणे दिवा० पर० सक० सेट् । तिम्यति अतेमीत् ।

तितेम । “वानरान् तिम्यतोऽवलोक्य” हितो०
“तिमिताश्चाभवन् सर्वे तत्र ते हरियूथपाः” रामा० सुन्द०
१ स० । “नद्यश्च तिमितोदकाः” रामा० अर० ५४ स० ।
तेमनम् ।

तिमि पु० तिम--इन्--तम--इन्--इच्च वा । १ समुद्रे

त्रिका० । तद्भवे २ मत्स्यभेदे पुंस्त्री० स्त्रियां वा ङीप् ।
“अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः”
भरतधृतवाक्यम् । “अस्ति मत्स्यस्तिमिर्नाम तथा चास्ति
तिमिङ्गिलः । तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति
लक्ष्मणः” शब्दार्थचि० धृतरामा० वाक्यम् । “अम्मे
शिरोभिस्तिमयः सरन्ध्रैरूर्द्ध्वं वितन्वन्ति जलप्रवाहान्”
रघुः । “अत्र नानाषिधाकारास्तिमयोनैकरूपिणः” भा० उ०
९८ अ० । शब्दकल्पदुमेऽस्य स्त्रीत्वोक्तिः प्रामादिकी
अमी तिमय इति नैकरूपिण इति पुंस्येव प्रयो-
गात् कृदिकारान्तत्वात् वा स्त्रियां ङीप् । २ तज्जाति-
स्त्रियां स्त्री भेदः ।

तिमिकोष पु० तिमेः कोष इव । समुद्रे त्रिका० ।

तिमिङ्गिल पु० गिरति--गॄ--मूलवि० क रस्य लः “गिलेऽगि-

लस्य” पा० मुम् । महामत्स्यभेदे । तिमिशब्दे उदा० दृश्यम् ।
“तिमिङ्गिलाः कच्छंपाश्च तघा तिमितिमिङ्गिलाः” भा० व०
१९६ अ० ।

तिमिङ्गिलगिल पु० तिमिङ्गिलं गिलति गॄ--मूल० क रस्य लः

अगिलस्वेति पर्य्युदासात् न मुम् । अतिवृहन्मत्स्यभेदे
तिमिशब्दे उदा० ।

तिमिङ्गिलाशन पु० तिमिङ्गलो मत्स्यः अश्यते यत्र

अशआधारे ल्युट् । दक्षिणस्थे देशभेदे “बलदेवपट्टनं दण्ड-
कावनतिमिङ्गिलाशनाभद्राः” वृ० स० १४ अ० कूर्मविभागे
दक्षिणस्थदेशोक्तौ । सोऽभिजनोऽस्य तस्य राजा वा अण् ।
तस्य वहुषु लुक् । २ तद्देशवासिषु ३ तन्नृपेषु च ब० व० ।
एकवचने तु तैमिङ्गिलाशन इति भेदः ।

तिमिज न० तिमितो जायते जन--ड ५ त० । मुक्ताभेदे

“तिमिजं मत्स्याक्षिनिभं वृहत्पवित्रं बहुगुणञ्च” वृ० स०
८ १ अ० । मुक्ताभेदकथने ।

तिमित त्रि० तिम--कर्त्तरि क्त । १ निश्चले, धरणी । २ क्लिन्ने

(भिजे) अमरः । “ह्रद इव तिमिनागसंवृतः स्तिमि-
तजलोमणिशङ्खशर्करः” रामा० अयो० ८१ स० ।

तिमिर पुं न० तिम--किरच् अर्द्धर्चा० । १ अन्धकारे २ नेत्ररोग-

भेदे च । “तिमिराखयः स वै दोषश्चतुर्थपटलं गतः । रुणद्धि
सर्वतो दृष्टिं लिङ्गनाशमतःपरम्” माधवः अक्षिपटलशब्दे
४३ पृ० दृश्यम् । “सामानाधिकरण्यं हि तेजस्तिमिरयोः
कुतः” । “पतिते घनतिमिरमुषिः” माघः ।

तिमिरनुद् पु० तिमिरं नुदति खण्डयति नुद--क्विप् ६ त० ।

सूर्य्ये “तिमिरनुदो मण्डलं यदि स लेहः” वृ० स० ५ अ० ।
तिमिरभिदादयोऽप्यत्र । २ अन्धकारनाशके त्रि० ।

तिमिररिपु पु० ६ त० । १ सूर्य्ये हला० । तिमिरारिप्रभृत-

योऽप्यत्र “तिमिरारिस्तमोहन्ति प्रातःस्वबधभीरवः ।
वयं काका वयं काका इति जल्पन्ति वायसाः”
उद्भटः । २ अन्धकारनाशके त्रि० ।

तिमिरि पु० तिमीति शब्दं वाचकत्वेन राति रा--बा० डि ।

तिमिमत्स्ये राजनि० ।

तिमिष पु० तिम--इसक् । १ ग्राम्यकर्कट्याम्, त्रिका० २ नाटाम्ले

च शब्दार्थचि० ।

तिरश्ची स्त्री तिर्य्यक् जातिः स्त्री ङीप् । पशुपक्षिणां स्त्रियाम् ।

तिरश्चीन त्रि० निर्य्यगेव स्वार्थे ख । तिर्य्यग्भूते । “गतं

तिरश्चीनमनूरुसारथेः” माघः “तिरश्चीनो विततो
रश्मिरेषामधः” ऋ० १० । १२९ । ५ । २ वक्रे च “ईक्षमाणः
पापेन तिरश्चीनेन चक्षुषा” भाग० ७ । ८ । ४ ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/तान&oldid=57764" इत्यस्माद् प्रतिप्राप्तम्