सामग्री पर जाएँ

वाचस्पत्यम्/तपोमूर्त्ति

विकिस्रोतः तः
पृष्ठ ३२३४

तपोमूर्त्ति पु० तपः आलोचनभेद एव मूर्त्तिरस्य, तपः

प्रधाना मूर्त्तिरस्य वा । १ परमेश्वरे २ तपस्विनि च । रुद्र-
सावर्णिरूपतामसमन्वन्तरे सप्तर्षिमध्ये ३ ऋषिभेदे च
“ऋषयश्च तपोमूर्त्तिस्तपस्व्यग्नीध्रकादयः” भाग० ८ । १३ । १३

तपोमूल त्रि० तपो मूलमस्य । १ तपोहेतुके स्वर्गादौ तामसस्य

मनीः २ पुत्रभेदे पु० तपस्यशब्दे दृश्यम् ।

तपोरति त्रि० तपसि रतिरस्य । १ तपःपरायणे तामसमनोः

पुत्रभेदे पु० तपस्यशब्दे दृश्यम् ।

तपोरवि पु० तपसा रविरिव । १ सूर्य्यतुल्यतेजोयुक्ततपस्के

चतुर्थमन्वन्तरे पौलहे सप्तर्षिभेदे तपोधृतिशब्दे दृश्यम् ।

तपोलोक पु० तपोनाम लोकः । ऊर्द्धस्थेषु सप्तसु लोकेषु

भुवनभेदे तपःशब्दे दृश्यम् । स च भूमेस्ततुष्कोटि
योजनोपरि वर्त्तते । “चतुःकोटिप्रमाणं तु
तपीलोकोऽस्ति भूतलात् । उपरिष्टात् क्षितेरष्टौ कोटयः
सत्यमीरिमम्” काशीख० २३ अ० उक्तेः । स च विराट्-
पुरुषस्य स्तनद्वयरूपेण कल्पितः यथाह भाग० २ । ४ ।
३९ । “भूर्लोकः कल्पितः पद्भ्यां भुवोलोकोऽस्य नाभितः ।
हृदा स्वर्लोक उरसा महर्लोको महात्मनः । ग्रीवायां
जनलोकोऽस्य तपोलोकः स्तनद्वयात् । मूर्द्धभिः सत्य-
लोकस्तु ब्रह्मलोकः सनातनः” ।

तपोऽवट पु० तपसोऽवट इव । ब्रह्मावर्त्तदेशे त्रिका० ।

तपोवन न० ६ त० । १ तापससेव्ये वनभेदे, “बधूर्भक्तिमती

चैनामर्च्चितामातपोवनात्” तपोवनावृत्तिपथं गताभ्याम्”
रघुः । २ तन्नामके तीर्थभेदे च ।

तपोऽशन पु० चतुर्थमन्वन्तरे समर्षिमध्ये पौलस्त्ये १ ऋषिभेदे

तपोधृतिशब्दे दृश्यम् । २ तामसस्य मनोः पुत्रभेदे तपस्य
शब्दे दृश्यम् ।

तप्त त्रि० तप--क्त । १ दग्धे २ तापयुक्ते च हेमच० । “तप्ते

पयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति” श्रुतिः ।
“स तप्तकार्त्तस्वरभास्वराम्बरः” माघः ।

तप्तकाञ्चन न० कर्म० । अग्निसंयोगभेदेन विमले काञ्चने ।

“तप्तकाञ्चनवर्णाभां सुप्रतिष्ठां सुलोचनाम्” दुर्गाध्यानम् ।

तप्तकुम्भ पु० तप्तः कुम्भो यत्र । नरकभेदे तत्स्वरूपं यथा

“अतःपरं भीमतरं तप्तकुम्भं निवोध मे । समन्ततस्तप्त-
कुम्भो वह्निज्वालासमावृतः । ज्वलदग्निचयोद्वृत्त
तैलायश्चूर्णपूरितः” मार्क० पु० ।

तप्तकृच्छ्र न० “षट्पलन्तु पिबेदम्भस्त्रिफलन्तु पयः पिबेत् ।

पलमेकं पिबेत् सर्पिस्तप्तकृच्छ्रं विधीयते” स्मृत्युक्ते व्रत-
भेदे, “पयोघृतमुदकं वायुं तप्तं प्रतित्र्यहं पिवेत् स
तप्तकृच्छ्र इति गौतमोक्तेः पुंस्त्वमपि ।
“तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् । प्रति-
त्र्यहं पिवेदुष्णान् सछत्स्नायी समाहितः” मनुः ।
तप्तानिलपानन्तु तप्तक्षीरवाष्पपानम् । एतद्धादशाह
साध्यम् । जलादिपरिमाणमुक्तं ब्रह्मपुराणे “तप्त-
कृच्छ्रं व्रतं कुर्वन् त्र्यहं सायं पिबेच्छुचिः । षट्पलानि
सुतप्तस्य तोयस्य सुसमाहितः । प्रभाते त्रीणि दुग्धस्य
सुतप्तस्य पिबेत् त्र्यहम् । पानं घृतस्य तप्तस्य मध्याह्ने
त्रिदिनं पिबेत् । वायुभक्षस्त्र्यहं चान्त्यं निर्दहेत्
पातकं द्विजः” याज्ञवल्क्यः । “तप्तक्षीरघृताम्बूना
मेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासस्तु तप्तकृच्छ्रस्तु
साधनः” एतच्चतुरहसाध्यं तप्तकृच्छ्रम् प्रा० वि० ।

तप्तपाषाणकुण्ड पु० नरकभेदे नरकशब्दे दृश्यम् ।

तप्तमाष पु० तप्तं माषमितं सुवर्णादिकं यत्र ।

दिव्यभेदे । तद्विधिः वीरमित्रोदये दर्शितो यथा
तत्र पितामहः “तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे
शुभम् । कारयेदायसम्पात्रं ताम्रं वा षोड़शाङ्गुलम् ।
चतुरङ्गुलखातन्तु मृण्मयं वापि मण्डलम्” । कर्ष-
षोड़शांशप्रमितं मण्डलं सूर्य्यमण्डलाकारं वर्त्तुल-
मिति यावत् । एतादृशं पात्रं घृततैलाभ्यां पूरयेदि-
त्याह स एव “पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्तु
तत् । सुवर्णं माषकन्तस्मिन् सुतप्ते निःक्षिपेत्ततः ।
अङ्गुष्ठाङ्गुलिमूलेन तप्तमाषकमुद्धरेत्” इति । सुवर्णमाष-
कङ्कर्षषोड़शांशप्रमाणम् । सुवर्णग्रहणं रूप्यमाषनिवृ-
त्त्वर्थम् । तन्माषपरिमितं हिरण्यं ताम्रं वा पिण्डी-
कृत्य निःक्षिपेत् । अङ्गुष्ठाङ्गुलिमूलेन अङ्गुष्ठतर्जनीम-
ध्यमाभिरित्यर्थः । इदञ्च तप्तमाषोद्धरणम् प्राड्विवा
केन घृततैलयोस्तापे समारब्धे धर्मावाहनादिशोध्यशिरः
पत्रारीपणान्तं सर्वसाधारणं कर्म विधाय “त्वमग्ने ।
वेदाश्चत्वारः” इत्यादिना अग्निदिव्यप्रकरणोक्तेम मन्त्रे-
णाभिमन्त्र्य कारयितव्यम् शोध्यस्तु याज्ञवल्क्योक्तेन
“त्वमग्ने! सर्वभूतानामित्यादि” मन्त्रेणाभिमन्त्र्य तप्त-
माषमुद्धरेत् । अतएव वृहस्पतिः “समुद्धरेत्तैलघृतात्
सुतप्तात्तप्तमाषकमिति” । कल्पान्तरमाह स एव “सौवर्णे
राजते ताम्रे वायसे मृण्मयेऽपि वा । गव्यं घृतमुपा-
दाय तदग्नौ तापयेच्छुचिः । सौवर्णीं राजतीं ताम्री-
मायसीं वा सुशोभनाम् । सलिलेन सकृद्धौतां प्रक्षिपे-
पृष्ठ ३२३५
त्तत्र मुद्रिकाम् । भ्रमद्वोचितरङ्गाद्ये ह्यनखस्पर्शगोचरे ।
परीक्षेदार्द्रपर्णेन चटत्कारसवोषकमिति” । ततः
प्राड्विवाको धर्मावाहनादिपत्रारोपणान्तं साधारणं
कर्म कृत्वा घृतमभिमन्त्रयेत् । मन्त्रस्तु तेनैव दर्शितः
“ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् । परं पवित्रममृतं
घृत! त्वं यज्ञकर्मसु । दह पावक! पापं त्वं हिमशीतो
भवेति च” । ततः प्राड्विवाकः शोध्येन “त्वमग्ने!
सर्वभूतानामित्यादि मन्त्रेणाभिमन्त्रणं कारयित्वा
मुद्रिकां ग्राहयेदित्याह स एव “उपोषितन्ततः स्नात-
मार्द्रवासःसमावृतम् । ग्राहयेन्मुद्रिकान्तान्तु घृतमध्यग-
तान्तथा । प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः”
इति । अत्र तर्जन्यैव मुद्रिकोद्धरणं कार्य्यं तस्यां
परीक्षाभिधानात् पक्षद्वयेऽपि शुद्ध्यवधारणोपायं वृहस्प-
तिराह “कराग्रं योन धुनुयात् विस्फोटो वा न
जायते । शुद्धो भवति धर्मेण पितामहवचो यथेति” ।
कालिकापुराणेऽपि “न धुनेयुः कराग्रन्तु यस्य रक्तं
न जायते । विस्फोटाद्यैस्तथा दोषैः स शुद्धो यस्य
नोद्गतमिति” । रक्तं रक्तवर्णम् । यस्य कराग्रं विस्फो-
टाद्यैर्नोद्गतमित्यन्वयः । पितामहोऽपि “यस्य विस्फो-
टका न स्युः शुद्धोऽसावन्यथाऽशुचिरिति” ।
तण्डुलपरीक्षाशब्दे अधिकं दृश्यम् ।

तप्तमुद्रा स्त्री वैष्णवैः शरीरधार्य्येऽग्नितप्तधातुमयमुद्राकृतभग-

वदायुधचिह्ने तद्विधिः हरिभक्तिविलासे १५ विलासे ।
“आषाढ़शुक्लद्वादश्यां हरौ शिशयिषौ सति । वैष्णवः
पारणं कृत्वा तप्तमुद्राश्च धारयेत् । ब्राह्मणः क्षत्त्रियो
वैश्यः शूद्रश्चैकान्तितर्द्धये । कुर्वन्नात्मार्पणं तप्तमुद्राभि-
र्देहमङ्कयेत्” । तप्तमुद्राधारणं वाराहे तप्तमुद्राप्रसङ्गे
“चक्रादिधारणं पुंसां परं सम्बन्धवेदनम् । पातिव्रत्य-
निमित्तं हि वलयादिविभूषणमिति” । तप्तमुद्रा-
धारणफलं वायुपुराणे “अग्निनैव च सन्तप्तं चक्र-
मादाय वैष्णवः । धारयेत् सर्ववर्णानां हरिसालोक्य
सिद्धये” । ब्रह्माण्डे “कृत्वा धातुमयीं मुद्रां तापयित्वा
स्विकां तनूम् । चक्रादिविहितां भूप धारयेद्वैष्णवो नरः” ।
नारदीयपञ्चरात्रे “द्वादशारन्तु षट्कोणं वलयत्रय-
संयुतम् । हरेः सुदर्शनं तप्नं धारयेत्तु विचक्षणः ।
सौपर्णे च श्रीभगवद्गरुड़संवादे तप्तमुद्राप्रकरणे
“गरुत्मन्नविशेषेण सर्ववर्णेष्वयं विधिः । विप्रो वा
क्षत्रियोवापि वैश्यः शूद्रस्तथैव च” । पाद्मे “अग्निहीत्रं
यथा नित्यं वेदस्याध्ययनं यथा । ब्राह्मणस्य तथैवेदं
तप्तचक्रादिधारणम्” । किञ्च तत्रैवोत्तरखण्डे श्री
शिवोमासंवादे “शङ्खचक्राङ्कनं कुर्य्याद्ब्राह्मणो बाहु-
मूलयोः । हुताग्निनैव सन्तप्य सर्वपापापनुत्तये” । “चक्रं
वा शङ्खचक्रे वा तथा पञ्चायुधानि वा । धारयित्वैव
विधिवद्ब्रह्मकर्म समारभेत्” । तदकरणे निन्दा तत्रैव
“अधृत्वा विधिना चक्रं व्राह्मणः प्राकृतो भवेत् ।
न तस्य किञ्चिदश्नीयादपि क्रतुसहस्रिणः ।
र्सावेदविदोवापि सर्वशास्त्रविशारदः । अधृत्वा
विधिना चक्रं ब्राह्मणः पतितो भवेत् । तप्ते-
नैवाङ्कनं कुर्य्यात् ब्राह्मणस्य विघानतः । श्रौतस्मार्त्तादि
सिद्ध्यर्थं मन्त्रसिद्ध्यै तथैव च । हरेः पजाधिकारार्थं
चक्रं धार्य्यं विधानतः । वैष्णवत्वस्य सिद्ध्यर्थं भक्ति
सिद्ध्यै विशेषतः । उपवीतादिवद्धार्य्याः शङ्ख-
चक्रादयस्तथा । ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः” ।
श्रुतयश्च “यो हवै सुश्लोकमौलेर्धर्म्माननुतिष्ठमानोऽग्निना
चक्रं धत्ते । अग्निर्वे सहस्रारः सहस्रारो नेमिर्न्नेमिना
तप्ततनुः सायुज्यं सलोकतामाप्नोतीति” । चक्रं
बिभर्त्ति वपुषाभितप्त बलं देवानाममृतस्य विष्णोः ।
स एति नाकं दुरितं विधूय विशन्ति यद्यतयो बीतरागाः”
इति । ऋक्परिशिष्टे “अतप्ततनुर्नतदामो अश्नुतेऽश्नुता
सह इद्वहन्तस्तत् समासतेति” यजुषि ऋग्वेदीयाश्वलायन
शाखायाञ्च । “प्रतद्विष्णोरब्जचक्रे सुतप्ते जन्माम्भोधिं
वर्त्तते चर्षणीन्द्राः । मूले वाह्वोर्द्दधतेऽन्ये पुराणालिङ्गा-
न्यन्ये तप्तान्यायुधान्यर्पयन्ते” इति । छन्द ऋक्
परिशिष्टे “सहोवा च याज्ञबल्क्यस्तत् पुमानात्महिताय
प्रेम्णा हरिं भजेत् । सुश्लोकभं मौलेर्धर्म्माण्यङ्गेष्वग्नि-
नाधत्ते” इति । शतपथी श्रुतिः अथर्वपरिशिष्टे
तप्तचक्रादिप्रकरणे “देवासो एवैतेन बाहुना
सुदर्शनेन प्रयताः स्वर्गमायन्” । “येनाङ्किता
मनवो लोकसृष्टिं वितन्वते ब्राह्मणास्तद्वह-
न्तीति” । पाद्मे तप्तमुद्राप्रसङ्गे “विष्णुचक्राडितं
विप्रं पूजयेत् सर्वकर्म्मणि । विष्णुचक्रविही-
नन्तु प्रयत्नेन विवर्जयेत्” । नारदीये “तप्तमुद्रा
प्रसङ्गे “श्रीकृष्णचक्राङ्कविहीनगात्रः श्मशानतुल्यः
पुरुषोऽथ नारी, । दृष्ट्वा नरस्तं नृपते! सवासाः
स्नात्वा समर्चेद्धरिमङ्ग सद्यः” इति । वह्व्यश्च वेङ्कटाचार्य
पादप्रभृतिभिर्बुधैः । श्रुतयः स्मृतयोह्यत्र विख्याता
पृष्ठ ३२३६
लिखिताः पराः । अतएव तदनादरे दोषाः पाद्मे
“तप्तचक्राङ्कितं दृष्ट्वा ये निन्दन्ति नराधमाः । अवलोक्य
मुखं तेषां आदित्यमवलोकयेत्” । अग्निपुराणे च दशरथं
प्रति हतपुत्रविप्रावलापे । “शिलाबुद्धिः कृता किंवा
प्रतिमायां हरेर्मया । किं मया पथि दृष्टस्य विष्णुभक्तस्य
कर्हि चित् । तन्मुद्राङ्कितदेहस्य चेतसा नादरः कृतः ।
येन कर्मविपाकेन पुत्रशोको ममेदृशः” । अथ तप्तमुद्रा
धारणमाहात्म्यं सौपर्णे “अशुचिर्वाप्यनाचारः
सर्वधर्मवहिष्कृतः । प्रतप्तशङ्खचक्राभ्यामङ्कितः पङ्क्ति
पावनः” । वाराहे तप्तमुद्राधारणप्रसङ्गे “म्लेच्छदेशे
शुभे वापि चक्राङ्को यत्र तिष्ठति । योजनानि तथा
त्रीणि मम क्षेत्रं वसुन्धरे! । ब्रह्माण्डे “आयुधै-
र्वैष्णवैः सर्वैस्तापितैः स्वतनुं यदि । चिह्नयेद्वैष्णवो यस्तु
स याति परमां गतिम्” । पाद्मे च “अग्नि-
तप्नं पवित्रञ्च धृत्वा तु बाहुमूलयोः । त्यक्त्वा यमपुरं
घोरं याति विष्णोः परं पदम् । हुताग्नितप्तचक्रेण
शरीरं यस्य चिह्नितम् । तेन तीर्थानि यज्ञाश्च लभ्यन्ते
नात्र संशयः । अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमू-
लयोः । अङ्कयित्वा जपन्मन्त्रं संसारान् मोक्षभाग्भवेत् ।
अग्नितप्तेन चक्रेण बाहुमूलेषु लाञ्छिताः । ते सर्वे
पापनिर्मुक्ता यान्ति विष्णोः परं पदम्” ।
किञ्च “अप्राकृता महात्मानी विष्णु चक्रेण लाञ्छिताः ।
विष्णुचिह्नविहीनास्तु प्राकृताः पतिताः स्मृताः । इति
अत्र निषेधवचनं निर्मूलं सद्भिरनादृतम् । समूलं यच्चतत्
सम्यग्विध्यभावादिना कृततत्परम् । अथ तद्धारणप्रकारः
“तप्तमुद्राधारणार्थमुपचारैस्तु पञ्चभिः । कृष्णमभ्यर्च्च्य
संपूज्य चक्रशङ्खौ तथा तपेत् । तत्र मन्त्रः “सुदर्शन! नमस्ते
ऽस्तु पाञ्चजन्य! नमोऽस्तु ते इति । अग्निमभ्यर्च्य मूलेन
हुत्वा चाज्याहुतीः कृती । चक्रशङ्खगदादीनि शस्त्रा-
ण्यग्नौ प्रतापयेत् । तत्तन्मन्त्रैरथावाह्य तान्यभ्यर्च्य
प्रणम्य च । गुरुं कृष्णञ्च संवन्द्य भक्त्या विज्ञापयेदिदम् ।
उच्छिष्टो भोजनादेव किङ्करः शरणागतः । तप्तचक्र-
गदादीनि तवाङानीश धारये” इति । अथ चक्रादीना
मावाहनादिमन्त्रः । ॐ नतो भगवते वासुदेवाय
निर्णाशितसकलरिपुध्वजाय भगवन्नारायणकराम्भो
रुहस्पर्शदुर्ल्ललिताय । “एह्येहि त्वं सहस्रार चक्रराज!
सुदर्शन! । यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नसः ।
ॐ नमो भगवते पाञ्चजन्याय विष्णुशङ्खाय गम्भीरधीर-
ध्वन्याकुलीकृतकौरववाहिनीनाथाय त्रिरखादक्षिणावर्त्ताय
त्रिप्रशस्ताय । एह्येहि पाञ्चजन्य! त्वं नारायणकर-
स्थित! । यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ।
ॐ रं णं मं नं पाञ्चजन्याय नमः । ॐ भगवते
खड्गाय नन्दकाय त्रैलोक्यपवित्राय जविने सकल
सुरासुरसुन्दरीनेत्रोत्पलार्च्चिताय । एह्येहि खड़ग
रत्न! त्वं नन्दकाख्य सुरार्च्चित । यज्ञभागं प्रगृह्णस्य
पूजाञ्चैव नमो नमः । ॐ खड्गाय नमः । ॐ
नमी भगवत्यै कौमोदक्यै भगवद्भट्टारकवासुदेवलालि-
तायै । एह्येहि त्वं गदे! देवि! कौमोदक्यायुधेश्वरि! ।
यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमोनमः । सशराय
शार्ङ्गाय नमः । इति । अथ धारणमन्त्रः । सुदर्शन!
महाध्वान! सूर्य्यकोटिसमप्रभ! । अज्ञानान्धस्य मे नित्यं
विष्णोर्म्मार्गं प्रदर्शय । तथा । पाञ्चजन्य! निजध्यानध्व
स्तपातकसञ्चय! । पाहि मां पापिनं घोरं संसारार्णव-
पातिनम् । इत्थमुच्चारयन् मन्त्रं दक्षिणादिक्रमेण
तु । भुजयोश्चक्रपूर्वाणि कृष्णशस्त्राणि घारयेत्
कलत्रादिपरीवारान् निजान् सर्वांश्च वैष्णवः ।
भगवत्यर्पयन् तप्तमुद्राभिस्ताभिरङ्कयेत्” । तथा च वाराहे ।
“अङ्कये तप्तचक्राद्यैरात्मनोबाहुमूलयोः । कलत्रापत्य-
भृत्येषु पश्वादिषु च सम्पदे” “किञ्च आयसं विधिवत्
कृत्वा षञ्चायुधविधानतः । तत्तन्मन्त्रेण मन्त्रज्ञः
प्रतिष्ठाप्य पृथक् पृथक् । ललाटे च गदा धार्य्या
मूर्घ्नि चापं शरन्तथा । नन्दकञ्चैव हृन्मध्ये शङ्खचक्रे
भुजद्वये” । किञ्च । “दक्षिणे तु मुजे विप्रो विभृयाद्वै
सुदर्शनम् । सव्ये च शङ्क्षं विभृयादिति ब्रह्मविदो
विदुः” । अथ चक्रादिप्रतिकृति द्रव्यम् । सवप्रश्वपञ्च-
रात्रे “सौवर्ण्णं रजतं ताम्रं कांस्यमायसमेव वा ।
चक्रं कृत्वा तु मेधावी धारयेत् सुविचक्षणः इति ।
एवमेव प्रबोधन्यां द्वादश्यां भगवत्परैः । तप्तमुद्रा ध्रुवं
धार्य्या द्वारकायां विशेषतः”
तन्निषेधकवाक्यानि वैष्णवेतरविषयाणीति वैष्णवा मन्यन्ते
स्मार्त्तास्तु श्रुतिस्मृतिविरुद्धत्वात् एतत् नानुतिष्ठन्ति
विस्तरभयात् तन्निषेधवाक्यानि नोद्धृतानि ।

तप्तवालुक पु० तप्ता वालुका यत्र नरकभेदे नरकशब्दे दृश्यम् ।

तप्तरहस न० कर्म्म० अच् समा० । तप्ते रहःस्थानभेदे ।

तप्तरूपक न० नित्यकर्म० शुद्धरजते राजनि० ।

तप्तशूर्मिकुण्ड पु० तप्ता शूस्मिः सौहप्रतिना यत्र

तादृशः कुण्डी यत्र । नरकभेदे नरकशब्दे दृशृम् ।
पृष्ठ ३२३७

तप्तशूर्म्मी पु० नरकभेदे तत्प्राप्तिहेतुरुक्तः भाग० ५ । २६ । यथा

“यस्त्विह वा अगम्यां स्त्रियं पुरुषोऽगम्यं वा पुरुषं योषि-
दभिगच्छति । तावमुत्र कशया ताड़यन्तस्तिग्मया शूर्म्या
लोहमय्या पुरुषमालिङ्गयन्ति । स्त्रियं च पुरुषरूपया
शूर्म्म्या” २६ तिग्मया तप्तया शूर्म्या प्रतिमया” श्रीधरः

तप्तसुराकुण्ड पु० नरकभेदे ७ त० । नरकशब्दे दृश्यम् ।

तप्तायनी स्त्री तप्तेन अय्यतेऽत्र अय--आधारे ल्युट् ङीप् ।

भूमिभेदे “तप्तायनी मेऽसि” यजु० ५ । ९ । तप्तं पुरुषमयति
प्राप्नोतीति तप्तायनी । यो हि दरिद्रः क्षेत्ररहितोऽह-
मिति सन्तप्यते तं तापोपशात्त्यर्थं प्राप्नोषि इत्यर्थः । यद्वा
तप्तः सन्नरो यस्यामयति सा तप्तायनी नमासि” वेददी०

तप्यतु त्रि० तप--यतुत् । तापके सूर्य्यादौ । “सूर्य्यस्तपति

तप्यतुर्वृग्रा” ऋ० २ । २४ । ९ ।

तम खेदे अक० इच्छायां षक० दिवा० शभा० पर० सेट् ।

ताम्यति । इरित् अतमत्--अतनीत् । तताम तेमतुः उदित् ।
तमित्वा तान्त्वा तान्तः । “यस्ताम्यति विसंज्ञश्च शेते”
सुश्रु० । “ताम्येयुः प्रच्युताः पृथ्य्या यथा पूर्णां नदीं
नराः । अवगाढ़ाह्यपिद्धांसः” भा० शा० ९०३० श्लो० ।
“यदा वै तान्तः प्राणं लभतेऽथ संजिहीते” शत० ब्रा०
४ । ३ । ३ । ११ । “न मा तमन्न श्रमोन्नत तन्द्रत्” ऋ०
२ । ३० । ७ लुङि रूपम् ।
  • उद् + उत्कर्षेण खेदे । “तस्योत्ताम्यतो बाणमुज्जहार
बलादहम्” रामा० अयो० ६५ अ० ।
  • नि + अतिशयार्थे अक० । नितान्तम् । “नितान्तदीर्घैर्जनिता
तपोभिः” “गोरोचनाक्षेपनितान्तगौरे” कुमा० ।
  • परि + भृशं खेदे । “संतप्तवक्षाः सोऽत्यर्थं दूयनात् परिता-
म्यति” सुश्रु० ।

तम न० ताम्यत्यनेन तम--करणे घञर्थे संज्ञायां घ । १ अन्धकारे

शब्दरत्ना० । २ पादाग्रे शब्दच० । ३ तमोगुणे राजनि०
४ राहौ पु० ज्यो० ५ तमालवृक्षे पु० शब्दच० ।

तमक पु० ताम्यत्यत्र तम बा--वुन् । श्वासरोगभेदे “तृट्स्वेद-

वमथुप्रायः कण्ठघुर्घुरिकान्वितः । विशेषाद्दुर्दिने
ताम्येत् श्वासः स्यात्तमकोमतः” सुश्रुतः । “क्षुद्रः साध्यत-
मस्तेषां तमकः कृच्छ्र उच्यते । त्रयः श्वासा न सिध्यन्ति
तमको दुर्वलस्य च” सुश्रुतः ।

तमत त्रि० तम--काङ्क्षायाम् अतच् । तृष्णापरे उज्वल० ।

तमस् न० तम--करणादौ--असुन् । त्रिगुणात्मकप्रधानस्व गुणभेदे

“सत्वं रजस्तम इति प्रकृतेर्गुणास्तैः” भाग० १ । ४ ।
भा० आश्वमेधिकपर्वणि तस्य कार्य्यभेदादिकमुक्तं यथा
“ब्रह्मोवाच । तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् ।
नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम् । एका
दशपरिक्षेपं मनोव्याकरणत्मकम् । बुद्धिस्वामिकमित्ये-
तत्पुरमेकादशं भवेत् । त्रीणि स्रोतांसि यान्यस्मिन्ना-
प्यायन्ते पुनः पुनः । प्राणेभ्यस्तिस्र एवैताः प्रवर्त्तन्ते
गुणात्मिकाः । तमो रजस्तथा सत्त्वं गुणानेतान्
प्रचक्षते । अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानु-
जीविनः । अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानु-
वर्त्तिनः । अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः ।
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।
रजसश्चापि सत्त्वं स्यात् सत्त्वस्य मिथुनं तमः । नियम्यते
तमो यत्र रजस्तत्र प्रवर्त्तते । नियम्यते रजो यत्र
सत्त्वं तत्र प्रवर्तते । नैशात्मकं तमो विद्यात् त्रिगुणं
मोहसंज्ञितम् । अधर्मलक्षणञ्चैव नियतं पापकर्मसु ।
प्रवृत्त्यात्मकमेवाहुः रजः पर्य्यायकारकम् । प्रवृत्तं
सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम् । प्रकाशः सर्वभुतेषु लाघवं
श्रद्दधानता । सात्त्विकं रूपमेवन्तु लाघवं साधु-
सम्मितम् । एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः ।
समासव्यासयुक्तानि तत्त्वतस्तान्निबोधत । संमोहो-
ऽज्ञानमत्यागः कर्मणामविनिर्णयः । स्वप्नः स्तम्भो भयं
लोभः शोकः स्वकृतदूषणम् । अस्मृतिश्चाविपाकश्च
नास्तिक्यं भिन्नवृत्तिता । निर्विशेषत्वमन्धत्वं जथन्यगुण-
वृत्तिता । अकृते कृतमानित्वमज्ञाने ज्ञानमानिता ।
अमैत्री विकृतीभावोह्यश्रद्धा मूढ़भावना । अनार्ज्जव-
मसङ्गत्वं कर्म पापमचेतना । गुरुत्वं सन्नभावत्वमव-
शित्वमवाग्गतिः । सर्व एते गुणावृत्तास्तामसाः संप्र-
कीर्त्तिताः । ये चान्ये विहिताभावा लोकेऽस्मिन्
भावसंज्ञिताः । तत्र तत्र नियम्यन्ते सर्वे ते तामसा
गुणाः । परिवादकथा नित्यं नित्यं ब्राह्मण
निन्दकाः । अत्यागश्चाभिमानश्च मोहो मन्युस्तथाऽ
क्षमा । मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते । वृथा-
रम्भा हि ये केचिद्वृथादानानि यानि च । वृथा
भक्षणमित्येतत् तामसं वृत्तमिष्यते । अतिवादोऽ-
तितिक्षा च मात्सर्य्यमतिमानिता । अश्रद्दधानता-
चैव तामसं वृत्तमिष्यते । एवंविधाश्च ये केचिल्लोके-
ऽस्मिन् पापकर्मिणः । मनुष्या भिन्नमर्य्यादास्ते सर्वे
पृष्ठ ३२३८
तामसाः स्मृताः । तेषां योनिं प्रवक्ष्यामि नियताः
पापकर्मिणाम् । अवाङ्निरयभावाय तिर्य्यङ्निरय-
गामिनः । स्थावराणि च भूतानि पशवो वाहनानि
च । क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः ।
अण्डजा जन्तवश्चैव सर्वे चापि चतुष्पदाः । उन्मत्ता
वधिरामूका ये चान्ये पापरोगिणः । मग्नास्तमसि
दुर्वृत्ताः स्वकर्मकृतलक्षणाः । अवाक्स्रोतस इत्येते
मग्नास्तमसि तामसाः । तेषामुत्कर्षमुद्रेकं वक्ष्या-
म्यहमतः परम् । यथा ते सुकृतान् लोकान् लभन्ते
पुण्यकर्मिणः । अन्यथा प्रतिपन्नास्तु विवृद्धा ये च
कर्मिणः । स्वकर्मनिरतानाञ्च ब्राह्मणानां शुभै-
षिणाम् । संस्कारेणोर्द्ध्वमायान्ति यतमानाः
सलोकताम् । स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ।
अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु । पुनरा-
वृत्तिधर्म्माणस्ते भवन्तीह मानुषाः । पापयोनिं
समापन्नाश्चाण्डालामूकचूचुकाः । वर्णान् पर्य्यायश-
श्चापि प्राप्नुवन्त्युत्तरोत्तरम् । शूद्रयोनिमतिक्रम्य ये
चान्ये तामसा गुणाः । स्रोतोमध्ये समागम्य
वर्तन्ते तामसे गुणे । अभिष्वङ्गस्तु कामेषु महामोह
इति स्मृतः । ऋषयो मुनयो देवानुह्यन्तेऽत्र सुखेप्-
सवः । तमो मोहो महामोहस्तामिस्रः क्रोध-
संज्ञितः । मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध इष्यते ।
वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः । सर्वमेत-
त्तमो विप्राः! कीर्त्तितं वो यथाविधि” ।
सांख्ये अधर्म्माज्ञानावैराग्यानैश्वर्य्याख्यास्तस्य धर्माउक्तायथा
“अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्य्यम् ।
सात्विकमेतद्रूपं तामसमस्मात् विपर्य्यस्तम्” सा० का०
“रजस्तु चलतया परितस्त्रैगुण्यं चालयद् गुरुणा वृण्वता
च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्त्यते
इति ततस्तती व्यावर्त्त्य तमोनियामकमुक्तं गुरु वरणक-
मेव तमः” सांत० कौ० । अयमंर्थः त्रयोगुणास्त्रैगुण्यं
सत्वादीनि परितः स्वकर्म्मकरणाय चालयत् प्रवर्त्तयत्
रजः गुरुणा गौरवान्वितेन वृण्वता यत्र यत्र कार्य्यजन-
नाय तस्य प्रवृत्तिस्तत्र तत्र प्रतिबन्धकेन तमसा क्वचिदेव
कार्य्ये प्रवर्त्त्यते कर्मक्षमं क्रियते इति । तथा च तस्मात्
तस्मात् कार्य्यात् व्यावर्त्त्य रजसः प्रवृत्तिं रोधयित्वा तमो
नियामकमिति । अन्योऽपि विशेषस्तत्रोक्तो यथा
“प्रीत्यपीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः” “गुणा
इति परार्थाः सत्त्वं लघुः प्रकाशकमित्यत्र च सत्त्वा-
दयः क्रमेण निर्द्देक्ष्यन्ते । तदनागतावेक्षणेन तन्त्र-
युक्त्या वा प्रीत्यादीनां यथासंख्यं वेदितव्यम् ।
एतदुक्तं भवति प्रीतिः सुखं प्रीत्यात्मकः सत्वगुणः, अप्री-
तिर्दुखं अप्रीत्यात्मको रजोगुणः, विषादो मोहः
विषादात्मकस्तमोगुण इति । ये तु मन्यन्ते न प्रीति
र्दुःखाभावादतिरिच्यते एवं दुःखमपि न प्रीत्यभावादन्य-
दिति तान् प्रत्यात्मग्रहणम् । नेतरेतराभावाः सुखादयः
अपि तु भावाः आत्मशब्दस्य भाववचनत्वात् प्रीतिरात्मा
भावो येषां ते प्रीत्यात्मानः एवमन्यदपि व्याख्येयम् ।
भावरूपता चैषामनुभवसिद्धा परस्पराभावात्मकत्वे तु
परस्पराश्रयापत्तेरेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः ।
स्वरूपमेषामुक्त्वा प्रयोजनमाह प्रकाशप्रवृत्तिनियमार्थाः
अत्रापि यथासंख्यमेव । रजः प्रवर्त्तकत्वात्सर्वत्र लघु
सत्वं प्रवर्त्तयेत् यदि तमसा गुरुणा न नियम्येत ।
तमोनियतन्तु क्वचिदेव प्रवर्त्तयति इति भवति तमोनियामकम् ।
प्रयोजनमुक्त्वा क्रियामाह अन्योन्याभिभवाश्रयजननमि-
थुनवृत्तयश्च वृत्तिः क्रिया सा च प्रत्येकमभिसम्बध्यते ।
अन्योन्याभिभववृत्तयः एषामन्यतमेनार्थवशादुद्भूतेनान्य-
दभिभूयते । तथाहि सत्त्वं रजस्तमसी अभिभूय शान्ता-
मात्मनो वृत्तिं प्रतिलभते एवं रजः सत्त्वतमसी
अभिभूय घोराम्, एवं तमः सत्त्वरजसी अभिभूय मूढ़ा-
मिति । अन्योन्याश्रयवृत्तयः । यद्यप्याधाराधेयभावेन
नाश्रयार्थो घटते तथापि यदपेक्षया यस्य क्रिया स
तस्याश्रयः तथाहि सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्त-
मसी प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्य
प्रवृत्तमितरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेत
रयोरिति । अन्योन्यजननवृत्तयः अन्यतमोऽन्यतमं
जनयति जननञ्च परिणामः स च गुणानां सदृशरूपः
अतएव न हेतुमत्त्वं तत्त्वान्तरस्य हेतोरभावात् ।
नाप्यनित्यत्वं तत्त्वान्तरे लयाभावात् । अन्योन्यमिथुन-
वृत्तयः अन्योन्यसहचराः अविनाभाववर्त्तिन इति
यावत् चः समुच्चये भवति चात्रागमः “अन्योन्यमिथुनाः
सर्वे सर्वे सर्वत्र गामिनः । रजसोमिथुनं सत्त्वं सत्त्वस्य
मिथुनं रजः । तमसश्चापि मिथुने ते सत्त्वरजसी
उभे । उभयोः सत्वरजसोर्मिथुनं तम उच्यते । नैषा-
मादिः संप्रयोगो वियोगो वोपलभ्यत” इति । सा० त० कौ०
पृष्ठ ३२३९
“गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः” । “ऊर्द्ध्वं
सत्वविशालस्तमोविशालश्च मूलतः सर्गः” । सा० का० ।
“सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्” ।
मनुः । चक्षुर्वृत्तिनिरोधके शार्वरादिके अन्धकारे
“अदस्त्वयानुन्नमनुत्तमं तमः” “आसादितस्य तमसा
नियतेर्नियोगात्” माघः । तच्च स्वपरप्रकाशकतेजः सामा-
न्याभावरूपमिति नैयायिकाः अन्धकारशब्दे २०९ दृश्यम् ।
काणादा अपि तथैवाङ्गीचक्रुस्तच्च औलुक्यशब्दे १५८८ पृ०
दर्शितम् । वेदान्तिनस्तु भावरूपं प्रतिपेदिरे यथा विवरणोप-
न्यासे । तमः प्रकाशवद्विरुद्धस्वभावयोरिति” शा० भाष्यव्या-
ख्याने “ननु तमः प्रकाशदृष्टान्ते भावाभावरूप-
त्वमुपाधिः । आलोकाभावस्तम इति नैयायिकाः । रूपद-
र्शनाभावस्तम इति प्राभाकरा इति चेत् मैवं उपचयाऽप-
चयाद्यवस्थाभेदवत्त्वेनोपलभ्यमानत्वेनाभावत्वायोगात्
नीलरूपवत्त्वेन द्रव्यत्वाच्च । ननु भावत्वपक्षे बहुला
लोकवति देशे निमीलितनयनस्य कथं तमःप्रतीतिः
बहुलालोकेन निवृत्त्यङ्गीकारात् सहावस्थानं तु
मन्दालोकेनैव पूर्वमुक्तमिति चेत् न गोलकान्त-
र्वर्त्तितमसः प्रतीत्युपपत्तेः नच नेत्रस्यान्तर्वर्त्तिवस्तु-
ग्राहकत्वासम्भवः पिहितकर्णस्यान्तरशब्दग्राहकत्व-
दर्शनात् । न चैवं गोलकान्तरस्थाञ्जनादेरपि
निमीलितनयनेन ग्रहणप्रसङ्गः । तमोव्यतिरिक्त-
रूपिण आलोकसहितचक्षुर्ग्राह्यत्वनियमात् । अथ
मतं द्रव्यत्वे सति तमसः आलोकविनाशितस्यालो-
कापगमे ह्यटिति नोत्पत्तिः कार्य्यद्रव्याणां द्व्यणु-
कादिक्रमेणैवारम्भादिति तन्न विवर्तवादितां क्रमान-
पेक्षणात् कारणं तु मूलाविद्यैव । अथापि तमो न
रूपवद् द्रव्यं स्पर्शशून्यत्वादाकाशवदिति चेत् न वायुर्न
स्पर्शवान् रूपशून्यत्वादाकाशवदित्याभाससमानयोग-
क्षेमत्वात् प्रत्यक्षविरोधस्य तुल्यत्वात् । अथालोकाभावे
समारोपितं नीलं रूपं गोचरयतीति तमःप्रत्यक्ष-
स्यान्यथा गतिरुच्येत एवमपि हेतुरनैकान्तिकः
रूपवद्द्रव्यस्यैव धूमस्य चक्षुःप्रदेशादन्यत्र स्पर्शशून्य-
त्वात् । तत्र विद्यमान एव धूमस्पर्शोऽनुद्भूत इति
चेत् तर्हि तमःस्पर्शोऽपि सन्नेव सर्वत्रानुद्भूत
इति हेत्वसिद्धिः स्यात् । नच सतः सर्वत्रानुद्भवोऽ-
सम्भावितः । आकरजे सुवर्ण्णादौ सतएव स्वपरप्रकाशक-
भास्वरूपस्योष्णस्पर्शस्य च सर्वत्रानुद्भवदर्शनात्तदेवं भाव-
रूपतमोवादे न कोऽपि दोषः । नन्वभाववादेऽपि तथा
उपचयाऽपचयाद्यवस्थानां प्रतियोग्यालोकोपाधिकत्वात्
नीलरूपस्य चारोपितत्वादिति चेत् मैवं दुर्न्निरूपत्वात्
तथाहि किमालोकमात्राभावस्तमः उत त्रैकालिकाऽ-
भावः सर्वालोकाभावो वा प्रथमद्वितीयपक्षयोः प्रागभाव
इतरेतराभावः प्रध्वंसाभावो वा तम इति दुर्मणं
सवितृकिरणसन्तते देशे प्रदोपजन्मनः प्राग् जाते वा
प्रदीपे दीपनाशे वा । तमोबुद्ध्यभावात् । तृतीये
सर्वालोकसन्निधानमन्तरेण न निवर्त्तते । रूपदर्शना-
भावस्तम इत्यप्ययुक्तं बहुलान्धकारसंवृतापवरकमध्यस्थि-
तस्य वहीरूपदर्शनान्तस्तमोदर्शनयोर्युगपदेव भावात् ।
तस्मान्नाभावस्तम इति दृष्टान्ते नास्त्युक्तोपाधिः” ।
२२ तमोवदावरके अज्ञाने अविद्यायां “सहि देवः परं
ज्योतिः तमः पारे प्रतिष्ठितम्” कुमा० । “आदित्यवर्णं
तमसः परस्तात्” श्रुतिः । “आसीदिदं तमोभूतमप्रज्ञात-
मलक्षणम्” “महाभूतादि वृत्तौजाः प्रादुरासीत्
तमोनुदः” मनुः ।
सांख्योक्ते अविद्याया २३ अष्टविधे भेदे च । “भेदस्तमसो-
ऽष्टविधः” सां० का० । “तमसोऽविद्याय्याया अष्टविधो
भेदः । अष्टास्य विधाः अव्यक्तमहङ्कारपञ्चतन्मात्रेषु
अनात्मसु आत्मबुद्धिरविद्या तस्या अष्टविधविषयत्वादष्ट-
विधत्वम्” सा० तत्वकौ० । २४ राहौ पु० न० । तस्य भूछा-
यारूपत्वात् तथात्वम् । अगुशब्दे दृश्यम् । “तमोमुखे
चेत् मुथहा तनुस्था” नील० ता० । २५ विशेषदर्शनविरो-
धिदोषे २६ कार्य्याकार्य्याविवेके च न० शब्दार्थचि० ।
समूहार्थकाण्डशब्दे परे कस्का० विसर्गस्य सः । तमकाण्डः
“क्षपातमस्काण्ड मलीमसं नमः” माघः ।
“अवसमन्धेभ्यस्तमसः” पा० अच् समा० । अवतमसं
सन्तमसम् अन्धतमसम् । तृतीयान्तेनानेन क्तान्तस्य समासे
तृतीयाया अलुक् । तमसाकृतः तमसाच्छन्न इत्यादि ।
तमसाकतस्येदं अण् । तामसाकृत तमःसम्बन्धिनि
त्रि० स्त्रियां ङीप् ।

तमस पु० तम--असच् । १ कूपे २ अन्धकारे च संक्षिप्तसारः

३ अन्धकारे ४ नगरे न० त्रिका० । ५ नदीभेदे स्त्री “संप्राप्य
तीरं तमसापगायागङ्गाम्बु सम्पर्कविशुद्धिभाजः” । “विगा-
हितुं यामुनमम्बु पुण्यम्” भट्टिः । “यस्याः स्मर-
णात् ताम्यति पापं सा तमसा” जयमङ्गलः । गङ्गाम्बुस-
म्पर्केत्युक्तेः सा गङ्गासङ्गता यमुना चास्याः सन्निकृ-
पृष्ठ ३२४०
ष्टस्था । सेयं वाल्मीकमुनेराश्रमनिकटस्था यथाह रामा०
आदि० २६ अ० “जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः” ।
“स तु तीरं समासाद्य तमसाया मुनिस्तदा । शिष्यमाह
स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् । अकर्दममिदं तीर्थं
भरद्वाज! निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्य
मनो यथा । न्यस्यतां कलसस्तात! दीयतां वल्कलं मम ।
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्” । “ददृशे तमसा
तत्र वारयन्तीव राघवम् । ततः सुमन्त्रोऽपि रथाद्वि-
मुच्य श्रान्तान् हयान् संपरिवर्त्त्य शीघ्रम् । पीतोदकां-
स्तोयपरिप्लुतांस्तानचारयद्वै तमसाविदूरे” रामा० अर०
४५ अ० । “ततस्तु तमम्वातीरं रम्यमाश्रित्य राघवः”
४६ अ० ।

तमस्काण्ड पु० ६ त० । कस्का० विसर्गस्य सः । तमः

समूहे “क्षपातमस्काण्डमलीमसं नभः” माघः ।

तमस्तति स्त्री ६ त० । अन्धकारसमूहे ।

तमस्वत् त्रि० तमस् + अस्त्यर्थे मतुप् मस्य वः सान्त

त्वात् मत्वर्थे न विसर्गः । तमोयुते स्त्रियां ङीप् सा च
२ रात्रौ स्त्री निघण्टुः ३ हरिद्रायाञ्च ।

तमस्विन् त्रि० तमोऽस्तीति विनि सान्तत्वात् मत्वर्थे न

विसर्गः । १ तमोयुक्ते स्त्रियां ङीप् । सा च २ रात्रौ
२ हरिद्रायाञ्च अमरः । “अदृश्यमानस्तस्याद्य तमस्विन्या-
मनिन्दिते” । भा० वि० २२ अ० ।

तमाल पु० तम--कालन् । स्वनामख्याते वृक्षभेदे अमरः ।

“तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः ।
कफपित्ततृषादाहश्रमश्रान्तिहरश्च सः” राजनि० ।
तत्पत्राकृतित्वात् २ तिलके ३ खड़्गभेदे ४ वरुणवृक्षे च
मेदि० । ५ कृष्णखदिरे शब्दच० ६ वंशत्वचि भरतः” ।
७ पत्रके (तेजपात) राजनि० ।
“यत्तत्तालतमालशालसरलव्यालोलवल्लीलता” गङ्गास्तवः
“अनन्ततानेकतमालतालम्” “तेनोपमीयेत तमालनीलम्”
माघः । “एकाकिन्यपि यामि सत्वरमतः स्रोतस्तमाला
कुलम्” सा० द० । तमालदले तु पर्य्युषितत्वदोषो नास्ति
यथोक्तं आ० त० योगिनीतन्त्रे “विल्वपत्रं च माघ्यञ्च
तमालामलकीदलम् । कह्लारं तुलसी चैव पद्मकं
मुनिपुष्पकम् । एतत् पर्युषितं न स्यात् यच्चान्यत्
कलिकात्मकम्” । स्वार्थे क । तमालक तत्रार्थे वंशत्वचि च
तमालवृक्षे पु० न० शब्दरत्ना० ।

तमालपत्र न० तमालपत्रस्येवाकारोऽस्त्यस्य अच् । १ तिलके

अमरः २ पत्रके (तेजपात) ३ तमालवृक्षे च पु० मेदि० । ६ त०
४ तमालवृक्षपत्रे न० । “तमालपत्रास्तरणासु रन्तुम्” रघुः ।

तमालिका स्त्री तम--कालन् संज्ञायां कन् कापि अत

इत्त्वम् । १ ताम्रवल्ल्यां २ भूम्यामलक्यां च राजनि० ।
(तमलुक) ३ देशभेदे त्रिका० ।

तमालिनी स्त्री तमालवृक्षाः बहवः सन्त्यत्र पुष्करा० देशे

इनि ङीप् । १ तमोलिप्तदेशे (तमलुक्) हेम० । तमाला-
कृतियुक्तपत्रत्वात् २ भूम्यामलक्यां राजनि० ।

तमाली स्त्री तम--कालन् गौरा० ङीष् । १ ताम्रवल्ल्यां

(पान) २ वरुणवृक्षे च राजनि० ।

तमि(मी) त्रि० तम--इन् वा ङीप् । २ रात्रौ अमरः ।

“स तमीं तमोभिरधिगम्य तताम्” माघः । २ मोहे च
तमिषीचिः ।

तमिषीचि स्त्री तमिं मोहं सिञ्चति सिच--इन् संज्ञायां

षत्वं पृषो० दीर्घः । १ अप्सरोभेदे । “याः क्लन्दास्तभिषी
चयोऽक्षकामा मनोमुहः । ताभ्यो गन्धर्वपत्नीभ्यो-
ऽप्सरोभ्योऽकरं समः” अथ० २ । २ । ५३ बलवति त्रि०
“निरत्रसन् तमिषीचीरभैषुः” ऋ० ८ । ४८ । ११ । “तमिषीची-
ललवत्यः” भा० । छाब्दसः जसः शस् ।

तमिस्र न० तमोऽस्त्यत्र ज्योत्स्नेत्यादि० नि० तमिस्रा रात्रिरा-

श्रयत्वेनास्त्यस्य अच् वा । १ अन्धकारे २ क्रोधे च मेदि० ।
३ तमःप्रधानरात्रौ स्त्री अमरः ४ दर्शरात्रौ
वाचस्पतिः । ५ अन्घकारततौ स्त्री मेदि० । “सूर्य्ये
तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं
तमस्रा” रघुः । “अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसा-
रिकाः” कुमा० “उज्झती शुचमिवाशु तमिस्रा” किरा० ।

तमिस्रपक्ष पु० तमिस्रास्त्यस्य अच् तादृशः पक्षः । कृष्णपक्षे

“तमिस्रपक्षत्रुटिकूटभक्षितम्” नैष० । “तमिस्रपक्षस्य
तिथौ भृगोः सुतः” वृ० स० ९ अ० । “प्राजेशमाषाढ
तमिस्रपक्षे क्षपाकरेणोपगतं समीक्ष्य” २४ अ० ।

तमुष्टुहीय न० तमुष्टुहि इत्यादिकर्चमधिकृत्य प्रवृत्तः गहा० छ । सूक्तभेदे ।

तमेरु त्रि० ताम्यति तम--एरु । १ ग्लानियुक्ते “अतमेरुर्यज्ञो-

ऽतमेरुर्यजमानस्य प्रजा भूयात्” यजु० । १ । २३ “यज्ञो
यागहेतुः पुरोडाशः अतमेरुर्भूयात् । तमु ग्नानौ ताम्य-
तीति तमेरुः औणादिकएरुप्रत्ययः न तमेरुः
अतमेरुः । मस्माच्छादनेन ग्लानिरहितो भवतु ।
यजमानस्य प्रजा पुत्रपौत्रादिः अतमेरुग्लानिरहिता भूयात्
यजमानस्य प्रजायाः कदापि दुःखं मास्त्वित्यर्थः” वेददी० ।
पृष्ठ ३२४१

तमोघ्न पु० तमोऽन्धकार मोहमज्ञानं वा हन्ति हन--टक् ।

१ सूर्य्ये, २ वह्नौ, ३ चन्द्रे, ४ बोधे, ५ विष्णौ, ६ शिवे च
मेदि० । मनुष्यकर्त्तृके तु न टक् किन्तु अण् ।
तमोघात अमनुष्ये तमोनाशके त्रि० तत्र सूर्य्ये
“आशुगामी तमीघ्नश्च हरिदश्वश्च कीर्त्यसे” भा० व०
३ अ० । “यथा तमांस्यभ्युदितस्तमोघ्नः पूर्वां प्रतिज्ञां
समवाप्य वीरः” भा० द्रो० १४६ अ० ।

तमोज्योतिस् पु० तमसि अन्धकारे ज्योतिरस्य । खद्योते कीटे शब्दरत्ना० ।

तमोनुद् पु० तमोनुदति खण्डयति नुद--क्विप् । १ सूर्य्ये

२ चन्द्रे ३ वह्नौ ४ दीपे च शब्दरत्ना० ५ अन्धकारनाशके त्रि०
“एवमुक्तस्तदाऽत्रिर्वै तमोनुदभवच्छशी” भा० आ० १५६ अ० ।

तमोनुद त्रि० तमोऽज्ञानमन्धकारं वा नुदति नुद--क ।

१ अन्धकारनाशके २ अज्ञाननाशके ३ ईश्वरे पु० ।
“वायोरपि बिकुर्वाणात् विरोचिष्णु तमोनुदम्”
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः” मनुः ।

तमोऽपह पु० तमोऽपहन्ति अप + इन--ड । १ सूर्य्ये २ चन्द्रे

३ वह्नौ ४ बोधे च मेदि० । ५ तमोनाशकमात्रे प्रदीपादौ त्रि०
“ग्रसते हि तमोऽपरं मुहुः” माघः । “पुत्रं तमोऽपहं
लेभे नक्तं ज्योतिरिवौषधिः” रघुः । ६ मोहनाशके
“आगमादिव तमोऽपहादितः” किरा० । बुद्धेरज्ञाननाशक-
त्वात् तथात्वम् “तत्राज्ञानं धिया नश्येत्” वेदान्तका० ।

तमोभिद् पु० तमो भिनत्ति भिद--क्विप् । १ शार्वरतमोभेदके

खद्योते शब्दर० २ तमोभेदकमात्रे त्रि० क । तमोभिदो-
ऽप्युक्तार्थे त्रि० ।

तमोमणि पु० तमसि मणिरिव । १ खद्योते त्रिका० । २

गोमेदके मणौ राजनि० ।

तमोमय त्रि० तमआत्मकम् तमःप्रचुरं वा तमस् +

मयट् । १ अन्धकारात्मके ३ अज्ञानात्मके ३ तमःप्रचुरे च ।
४ राहौ पु० “तमोमयं सैंहिकेयाख्यम्” वृ० स० ५ अ० ।
राहोश्च यथा तमोरूपत्वं तथा अगुशब्दे ४८ पृ० उक्तम् ।
“विसर्जात्मनः कायं नाभिनन्दंस्तमोमयम्” भाग० ३ ।
२० । २२ । तमोमयमन्धकारप्रचुरं रात्रिरूपं कायमित्यर्थः ।

तमोऽरि पु० ६ त० । १ सूर्य्ये २ चन्द्रे ३ वह्नौ ४ ज्ञाने च “तमो-

ऽरिविम्बप्रतिविम्बधारी रुराव कान्ते । पवनाशनाशः”
सुन्दरसमस्यापूरणम् । तमःशत्रुप्रभृतयोऽप्यत्र ।

तमोलिप्ती स्त्री तमसाऽल्पं लिप्यते स्म करणोपपदे लिप--क्त

उप० स० ङीप् । देशभेदे । (तमलुक) शब्दरत्ना० ।

तमोविकार पु० ६ त० । तमसो विलारे निद्रासस्यादौ

तमःशब्दे दृश्यम् । तमसेव विकारो यत्र । २ रोगे
राजनि० । ३ तमिस्रारात्रौ शब्दार्थचि० ।

तमोवृध् त्रि० तमसि शार्व्वरे, तमसा आवरकेणाज्ञानेन

वा बर्द्धते वृध--क्विप् ७ त० ३ त० वा । १ तमसि रात्रौ
वर्द्धमाने प्रचुरसञ्चारिणि राक्षसादौ । “न्यर्पयतं
वृषणा तमोवृधः” ऋ० ७ । १४० । १ । २ अज्ञानवृद्धे च ।

तमोहन् त्रि० तमोहन्ति हन--क्विप् । अज्ञाननाशके

“ज्योतीरयं शुक्रवर्णं तमोहनम्” ऋ० १ । १४० । १ ।
तमोहन्तरि २ सूर्य्ये ३ चन्द्रे च “तमोहा यदि पापेन त्रयेणैव
हि वीक्षितः” ज्यो० त० ।

तमोहर त्रि० तमोहरति हृ--अच् ६ त० । १ अन्धकारनाशके

२ अज्ञाननाशके च ३ सूर्य्ये ४ चन्द्रे च पु० शब्दर० “निर्गुणं
वामभागे च सव्यभागेऽद्भुता निजा । मध्येनाथ स्वयं
ज्योतिस्तज्ज्योतिर्मे तमोहरम्” शब्दार्थचि० धृतवाक्यम्

तम्पा(म्बा) तम्ब--अच् पृषो० वा । सौरभेय्याम् हेमच० ।

तम्ब गतौ भ्वा० पर० सक० सेट् । तम्बति अतम्बीत् । ततम्ब

तम्बिका स्त्री तम्ब--ण्वुल् टाप् कापि अत इत्त्वम् ।

सौरभेय्यां हेमच० ।

तम्बीर पु० तम्ब--बा० ईरन् । “बली राश्यन्तगोऽन्यर्क्षगामी

दीप्तांशकैर्मुहुः । दत्तेऽन्यस्मै कार्य्यकरस्तम्बीरोलग्न-
कार्य्ययोः” नी० ता० उक्ते योगभेदे ।

तम्र त्रि० ताम्यत्यनेन तम--करणे र । ग्लानिसाधने

“प्रतम्रा अवपत्तमांसि” ऋ० १० । ७३ । ५ ।

तय गतौ रक्षणे च भ्वा० आ० सक० सेट् । तयते अतयिष्टतेये ।

तर पु० तॄ--भावे अप् । १ तरणे “पणं यानं तरे दाप्य

पौरुषीऽर्द्धपणं तरे” “ब्राह्मणालिङ्गिनश्चैव न दाप्यास्ते
पणं तरे” मनुः कर्त्तरि अच् । २ कृशानौ पु० मेदि० ।
तरत्यनेन करणे अप् । २ आतरे पणादौ । “दीर्घाध्वनि
यथादेशं यथाकालं तरो भवेत्” मनुः ।

तरक्षु पु० तरं गतिं मार्गं वा क्षिणोति मितद्रु० डु । मृगा-

दने क्षुद्रव्याघ्रे अमरः । “श्वा कृष्णकर्णो गर्दभस्तर-
क्षुस्ते रक्षसामिन्द्राय” यजु० २४ । ४० । प्रश्वमेधे राक्ष-
सेन्द्रदेवताकपशुकथनम् । “तरक्षूनृक्षवानरान्” हरिवं०
१६५ अ० ।

तरङ्ग पु० तॄ--अङ्गच् । (ढेउ) ऊर्म्मौ वायुना जलस्य सञ्चा-

लनेन तिर्य्यगूर्द्धादिप्लवने अमरः । “समीरणोत्थेव तरङ्ग-
लेखा” रथुः २ वस्त्रे ३ हयादीनां समुत्फाले उणादि० ।
ततः तारका० इतच् तरङ्गित जाततरङ्गे त्रि० । “साग-
पृष्ठ ३२४२
रप्रतिमं घोरं वाहनोर्मितरङ्गितम्” भा० भी० ८८ अ० ।
पुष्करा० देशे इनि ङीप् तरङ्गिन् तरङ्गयुक्तदेशे त्रि० ।
नद्यां स्त्री ङीप् ।

तरङ्गिणी स्त्री तरङ्ग + पुष्करा० नदी रूपदेशे इनि ङीप् ।

नद्याम् अमरः । “तरङ्गिणीवेणिरिवायता भुवः”
माधः । “गजवाजिप्तनुष्याणां शोणितानां तरङ्गिणी”
भा० भी० ९४ अ० ।

तरङ्गित त्रि० तरङ्गः संजातोऽस्य तार० इतच् । १ जाततरङ्गे

२ चञ्चले च । तरङ्गशब्दे उदा० द्वश्यम् ।

तरण पु० तृ--करणे कर्मणि भावे वा ल्युट् । १ प्लवे (भेला)

२ स्वर्गे । ३ प्लवने ४ देशान्तरगमने १ पारगमने च
न० शब्दार्थचि० “भवति भवार्णवतरणे नौका”
मोहमुद्गरः । “स्वप्ननदीतरणाववर्षणामेध्यदर्शनप्रयाणेषु
तु सकृत्कालद्रव्यैकार्थत्वात्” कात्या० श्रौ० १ । ७१३

तरणि पु० तॄ--अनि । १ सूर्य्ये, २ भेलके, ३ अर्कवृक्षे, च अमरः

४ किरणे हेमच० ६ ताम्रे च । ७ नौकायां, ८ घृतकुमा
र्य्याम् स्त्री मेदि० । वा ङीप् नौकायां ९ तारके १० शीघ्र-
गन्तरि त्रि० । “येवा धूर्षु तरणीन् यो वहन्ति” ऋ०
७ । ६७ । ८ । “तरणींस्तारकान् शीघ्रगन्तृन् वा” भा०
११ शत्रूनुतीर्य्य वर्त्तमाने “पृत्सु तरणिर्नावा” ऋ०
३ । ४९ । ३ शत्रूनुत्तीर्य्यवर्त्तते इति तरणिः” भा०
“सोऽयं व्याकरणार्णवैकतरणिः” वोपदेवः ।

तरणिपोत पु० तरणेः पोत इव । काष्ठाम्बुवाहिन्यां जटा० ।

तरणिरत्न न० तरणिप्रियं रत्नम् । सूर्य्यप्रिये १ माणिक्ये

राजनि० तरणिमणिप्रभृतयोऽप्यत्र ग्रहयज्ञशब्दे २७६३ पृ० दृश्यम्

तरणी स्त्री तरत्यऽनया तॄ--करणे ल्युट् ङीप् । १ नौकायां

शब्दरत्ना० २ पद्मचारिणीलतायां शब्दच० । ३ घृतकुमार्य्यां
राजनि० ।

तरण्ड पु० न० । तॄ--अण्डच् । १ बड़िशीसूत्रबन्धनकाष्ठे, (छिप)

२ प्लवे पु० । ३ न्त्रैकायां स्त्री मेदि० स्त्रीत्वपक्षे गौ०
ङीष् । ४ कुम्भतुम्बीरम्भादिकृतप्लवे शब्दरत्ना० ५ देशभेदे
पु० शब्दर० ।

तरण्डक न० तरण्ड + संज्ञायां कन् । तीर्थभेदे “ततो गच्छेत

राजेन्द्र! द्वारपालं तरण्डकम् । तच्च तीर्थं सरस्वत्यां
यक्षेन्द्रस्य महात्मनः” भा० व० ८३ अ० । २ वड़िशसूत्र-
मध्यवद्धलधुकाष्ठभेदे (फाता) न० । “संसारसागरावर्त्त
पतज्जन्तुतण्डकम्” काशीख० ३३ अ० । ०३ नौकायां स्त्री
गौरा० ङीप् शब्दरत्ना० ।

तरण्डपादा स्त्री तरण्ड एव पाद इव तरणहेतुत्वात्

यस्याः । नोकाभेदे शब्दरत्ना० ।

तरण्य तरण गतौ कण्ड्वा० यक् भ्वा० प० सक० सेट् ।

तरण्यति अतरणीत् अतरण्यीत् ।

तरत्सम त्रि० तरत्समेत्यादि ऋचः सन्त्यत्र अच् । पावमान-

सूक्तानुर्गते सूक्तभेदे तरत्समन्दीयशब्दे दृश्यम् । “शुद्ध-
वत्योऽथ कुष्माण्ड्यः पावमान्यस्तरत्समाः” हेमाद्रि
श्राद्धकल्पधृतवाक्यम् ।

तरत्समन्दीय न० पावमानसूक्तान्तर्गते सूक्तभेदे । “जपं

स्तरत्समन्दीयं पूयते मानवस्त्र्यहात्” मनुः । “तरत्सम-
न्दीदीवतीत्येताः चतस्र ऋचोजपन्” कुल्लू० । ताश्च ऋचः
ऋ० ९ । ५८ । १ प्रभूतयश्चतस्रः ।

तरतम त्रि० तरेति तमेति प्रत्ययार्थो बोध्यतयाऽस्त्यत्र अच् ।

नूनाधिकभावेन वर्त्तमाने तरतमौ हि प्रत्ययौ न्यूना-
धिकभाववोधकाविति तदर्थकत्वादस्य तथात्वम् । “तरत-
मयीगयुक्तांश्च भावानतिरूक्षानतिसिग्धानत्युष्णानति-
शीतानित्येवमादीन् विवर्जयेत्” सुश्रु० । तस्य भावः
ष्यञ् । तारतम्य न्यूनाधिकभावे न० “तारतम्येन वर्त्त-
मानः” शा० भा० ।

तरद् स्त्री तॄ--करणे अदि । १ प्लवे भेलके । कर्त्तरि अदि ।

२ कारण्डवखगे च मेदि० ।

तरदी स्त्री तरेण तरणेन दीयते खण्ड्यते दो--खण्डने

घञर्थेक गौरा० ङीष् । कण्टकयुक्तवृक्षभेदे । राजनि० ।
“तरदी मधुरा तिक्ता गुर्वी बल्या कफापहा” राजनि० ।
टाप् तरदाप्यत्र तरटीति पाठान्तरम् ।

तरद्वटी स्त्री पक्वान्नभेदे “घृतेन मर्दितां दध्ना फेनिक्या

मेलयेत्ततः । विधाय वटिकास्तस्या घृते मन्दाग्निना पचेत् ।
प्रलिप्ताः खण्डपाकेन कर्पूरेण विमिश्रयेत् । तत एताः
समरिचास्तरद्वट्यस्तु ताः स्मृताः । बल्या पुष्टीकरी
हृद्या वृष्या पित्तानिलापहा । सुस्निग्धा कफदा ऽत्यर्थं
किञ्चित् सन्धानकृद्धिता” शब्दार्थचि० वाक्यम् ।

तरन्त पु० तॄ--झच् । १ समुद्रे, २ प्लवे, ३ भक्ते, ४ राक्षसे च

५ नौकायां स्त्री गौरा० ङीष् । उणादिको० ।

तरन्तुक न० कुरुक्षेत्रस्थानभेदे । “तरन्तुकारन्तुकयोर्यदन्तरं

रामह्रदानां च मचक्रुकस्य च । एतत् कुरुक्षेत्रसमन्तपञ्चकं
पितामहस्योत्तरवेदिरुच्यते” भा० व० ८३४ अ० ।

तरपण्य न० तरस्य नद्यादिपारयानस्य पण्यं शुल्कम् ।

नद्यादेः पारयानार्थे देये शुल्के आतरे (भाड़ा) अमरः ।
पृष्ठ ३२४३

तरबालिका स्त्री करपालिका + पृषो० । खड़्गभेदे हेमच० ।

तरम्बुज न० मध्यजलके फलभेदे कालिङ्गशब्दे २९७ पृ०

तद्गुणादि दृश्यम् ।
“ज्यैष्ठे मासि महेशानि! पौर्णमास्यां निशार्द्धके ।
तृष्णातुरा महाकाली भ्रमन्ती पितृकानने । तज्ज्ञात्वा
ब्रह्मणा तस्यै फलं दत्तं तरम्बुजम् । तत्फलभक्षणा-
त्तृप्ता वरदापि हरप्रिया । यो मे दद्यात् फलं रम्यं
स चिरायुश्चतुर्युगम्” । उत्तरकामाख्यातन्त्रम् ।

तरल पु० तॄ--अलच् । १ हारमध्यस्थे मणौ, अमरः २ हारे, ।

३ तले मेदि० । ४ चपले, ५ कामुके, ६ विस्तीर्णे, ७ भास्वरे,
८ मध्यशून्ये--द्रव्ये, ९ द्रवीभूते पदार्थे च त्रि० हेमच० ।
१२ हीरके रत्ने १० यवाग्वाम्, ११ सुरायाञ्च स्त्री घरणिः
तत्र भास्वरे “तारावितानतरला इव यामवत्यः” किरा०
“व्याधानुसार्य्यमाणतरलतारामृगा” काद० । “उत्क-
ण्ठितासि! तरले” सा० द० । “तारापतिस्तरलविद्युदिवा
भ्रवृन्दम्” रघुः । “वैरायितारस्तरलाः” माघः ।
हारमध्यमणौ “प्रवालमुक्तास्तरलाश्च हाराः” भा० क० ९४ अ०
१४ अ० । “हारांस्तरलविद्धाश्च सूर्य्यभासा विभूषिताः
हरिवं० १५२ अ० । भृशा० अभूततद्भावे क्यङ् । तरलायते
“तथापि तरलायते चेतः” उद्भटः ।

तरललोचना स्त्री तरलं चञ्चलं लोचनं यस्याः । चञ्चलनय-

नायां स्त्रियां हेमच० २ चञ्चलनेत्रयुक्तमात्रे त्रि० कर्म० ।
३ चञ्चले नेत्रे न० ।

तरलित त्रि० तरल इवाचरति तरलं करोति तरल + क्विप्--णिच्

वा क्त । १ आन्दो लिते, २ कम्पिते, ३ धूते, ४ लुलिते च हेम० ।

तरवारि पु० तरं शत्रूणां गतिं वारयति वृ--णिच्--इन् ।

खड़्गभेदे । (तरवार) इति भाषा । हेमच० असिशब्दे
५५१ पृ० तल्लक्षणादिकमुक्तं युक्तिकल्पतरावत्र विशेष उक्तो
यथा “अङ्गं रूपं तथा जातिर्नेत्रारिष्टे च भूमिका ।
ध्वनिर्म्मानमिति प्रोक्तं खड़्गज्ञानाष्टकं शुभम् । अभिन्ने
दृश्यते यादृक् विभिन्ने घटिते तथा । यदेव दृश्यते
चिह्नं तदङ्गं संप्रचक्षते । नीलकृष्णादिकं खड़्गे
रूपमित्यभिधीयते । तेनैव यत् प्रतीतं स्यात् तज्ज्योति-
रिति गद्यते । अङ्गातिरिक्तं यज्जातिस्तन्माहात्म्योप-
सूचकम् । तन्नेत्रमिति जानीयात् खडगे खड़्गविशा-
रदाः । अङ्गातिरिक्तं खड़्गादि यच्छुद्धत्वोपसूचकम् ।
तदरिष्टमिति प्राहुर्भूमिरङ्गादिधारणम् । यः खड़्गे
जायते शब्दो दण्डदन्तादिना हते । स ध्वनिस्तुलना
मानं ज्ञानमष्टविधन्त्विदम् । पञ्चाद्या निपुणेः खड़्गे
सम्भाव्यन्तेऽपि कृत्रिमाः । अन्त्यावकृत्रिमौ ज्ञेयौ
तावेव सहजाविति । शतमङ्गानि चत्वारि रूपाणि
जातयस्तथा । त्रिंशन्नेत्राणि जानीयादरिष्टानां तथैव
च । भूमिश्च द्विविधा ज्ञेया ध्वनिरष्टविधो मतः ।
मानन्तु द्विविधं प्रोक्तमित्येषां संग्रहो मतः” । खड्गस्य
शताङ्गनामानि लौहार्णवे “रूप्यस्वर्णगजोरुवूकद-
मनस्थूलाङ्गकृष्णारुणश्वेताम्भोजगदातिलानलकणाग्रन्थि-
स्थिरातैत्तिराः । मालाजीवकषट्पदोर्द्ध्वमरिचव्यालाश्वब-
र्हाञ्जनक्षौद्रक्षुद्रकमक्षिकातुषयवव्रीहिक्षुमासर्षपाः ।
सिंहीतण्डुलगोसिराशिवनखग्राहाक्षिकेशोपलद्रोणीकाकक-
पालपत्रतुवरीविम्बीफलीसर्षपाः । नीलीरक्तवचारसोनसु-
मनाजिङ्गीशमीरोहितप्रोष्ठीमारिषभार्गवीखुरतड़िन्मेघाद्रि-
गुञ्जाशराः । दूर्व्वाविल्वमसूरटुण्टुकशठीमार्ज्जारिकाके-
तकीमूर्व्वावज्रकलायचम्पकबलान्यग्रोधवंशासनाः । ज्येष्ठी-
जालपीपिलिकानलरजःकुष्माण्डरोमस्नुहीकर्कन्धूबकुला-
रनालमहिषस्वच्छर्जुवक्रा इति । प्रोक्ता
लौहविशारदेन मुनिना खड्गस्य भेदाः क्रमात्” ।
तस्य चत्वारि रूपाणि । “नीलः कृष्णश्च
पिङ्गश्च धूम्रश्चेति चतुर्विधः । वर्णप्रकर्षः खड़्गानां
कथितो मुनिपुङ्गवैः” । चतस्रो जातयः । “व्राह्मणः
क्षत्रियो वैश्यः शूद्रश्चेति चतुर्विधः । जातिभेदे विनि-
र्दिष्टः खड़्गानां मुनिपुङ्गवैः” । त्रिंशन्नेत्राणि ।
“चक्रं पद्मं गदा शङ्खो डमरुर्द्धनुरङ्कुशः । छत्रं
पताका वीणा च मत्स्यलिङ्गध्वजेन्दवः । कुम्भः शूलञ्च
शार्द्दूलः सिंहः सिंहासनं गजः । हंसो मयूरो
जिह्वा च दशनः खड़्ग एव च । पुत्रिका चामरं
शैलः पुष्पमाला भुजङ्गमः । त्रिंशदेतानि नेत्राणां
खड़्गानां कथितानि वै” । त्रिंशदरिष्टानि “छिद्रं
काकपदं रेखाभिन्नं भेकश्च मूषिकः । विड़ालः शर्करा
नीली मशको भृङ्गसूचिके । त्रिविन्दुः कालिका दारी
कपोतः काक एव च । खर्परः शकली क्रोड़ी कुशपत्रक
जालिके । करालकङ्कखर्जूरशृङ्गपुच्छखनित्रकम् ।
लाङ्गलं वड़िशाख्यञ्च मुनिना तत्त्ववेदिना । प्रोक्तान्ये-
तान्यरिष्टानि खड़्गानां त्रिंशदेव हि” । द्विविधा
भूमिः “दिव्यभौमविभागेन भूमिस्तु द्विविधा भवेत्” ।
अष्टधा ध्वनिः । “हंसकांस्याभ्रढक्कानां काकतन्त्री
खराश्मनाम् । ध्वनयोऽष्टविधाः प्रोक्ता नागार्जुन
पृष्ठ ३२४४
मुनेर्मताः” । द्विविधं मानम् । “उत्तमाधमभेदेन
मानं तद्द्विविधं भवेत् । इति प्रोक्तानि सूत्राणि
खड़्गानां ज्ञानहेतवे । एतानि तत्त्वतो ज्ञात्वा
भवेन्नृपतिपूजितः” सूत्राध्यायः । “तत्र प्रथमतो-
ऽङ्गानां लक्षणानि निवोधत” । लौहदीपे “रूप्यपत्र-
समां भूमिरङ्गं श्वेतं प्रतीयते । ऊर्द्धं तत्तु
महामूल्यं रूप्यवज्रमुशन्ति तम् । एष खड़्गवरो दद्या-
ल्लक्ष्मीमायुर्यशो बलम् १ । स्वर्णरेखाबली तन्वी
यद्भूमौ निकषोपमा । स्वर्णवज्रमिति प्राहुरायुर्लक्ष्मी
जयप्रदम् २ । गजशुण्डाकृतिर्भूमौ कृष्णायामङ्ग-
सम्भवः । गजवज्रमिति प्राहूरक्तस्पर्शे तु तद्विशेत् ।
ज्वरादिव्याधिशमनं तस्य प्रक्षालनाम्भसा ।
अपिक्षीणोपि भूपालस्तद्वीर्य्यात् साधयेन्महीम् ३ । एरण्ड-
वीजप्रतिममङ्गं भूमिः सितेतरा । उर्वारुकमिदं
नाम्ना शत्रुदर्पक्षयङ्करः । एतस्य स्पर्शमात्रेण नरः
सम्यग्विमुच्यते । महिषाख्यमिदं वज्रं केचिदाहुर्मनी-
षिणः ४ । अङ्गं दमनपत्राभं खड़्गे यस्मिन्
प्रतीयते । विद्याद्दमनवज्रञ्च तज्ज्ञेयं द्बिविधं बुधैः ।
नीला शुभ्रा भवेद्भूमिस्तत्र नीला गरीयसी । तस्मिन्
पर्य्युषित तोयं गन्धे दमनकोपमम् । तत्प्रभावान्
महीपालः कृत्स्नां पृथ्वीं हि साधयेत्” ५ । शार्ङ्ग-
धरीये “एका स्थूला सिता रेखा भूमिर्न्नीला दृढ़ा
यदि । स्थूलाङ्गमङ्ग वज्रं तद्विद्याल्लक्ष्मीयशःप्रदम् ।
एतत्क्षते भवेच्छोथः स्थूलश्चिरतरस्थितिः । एतं
महान्तमपरे वदन्ति स्वड़्कोविदाः ६ । घृष्टायां
दृश्यते भूमौ अङ्गञ्च प्रतिविम्बितम् । अङ्गवज्रं
भवेत्तस्य द्विधा भूमिः सिताऽसिता ७ । लौहप्रदीपे
“निरङ्गं रूप्यपत्राभमीषन्मणिनिभञ्च यत् । दुर्लभं
तन्महामूल्यं कांन्तलौहं प्रचक्षते । कृष्णा भूमिर्भवेत्
स्वच्छा पीता वज्राङ्गसंङता । कृष्णवज्रमिति प्राहु-
स्तत्क्षते मोह उच्यते । कृष्णा भूमिः सुवर्ण्णाभमी-
षच्छुक्लाङ्गसङ्गतम् । डाहुलीवज्रकं विद्यात्
कालसंज्ञमथापरे ८ । अरुणं सूक्ष्ममूर्द्धञ्चेदङ्गं भूमिः
सितेतरा । अरुणाख्यमिदं वज्रं शत्रुदर्पनिसूदनम् ।
सूर्य्यांशुस्पर्शमात्रेण वह्निरूपां वहेत् शिखामु तस्य
स्पर्शनमात्रेण पद्मकोषः स्फुटेन्निशि । दुर्ल्लमं तन्मनु-
ष्याणां भाग्यैः कुत्रापि लभ्यते । तदयाजनसहस्रस्या-
रिष्टं नाशयति ध्रुवम् ९ । श्वेतास्तिस्रो यदा रेखा
आमूलादुपलक्षिताः । श्वेताङ्गमिति तद्विद्याद्यशोलक्ष्मी
बलप्रदम् १० । अम्भोजदलसङ्काशमङ्गं भूमिः सिते-
तरा । अम्भोजवज्रं तज्ज्ञेयं कथितं मुनिपुङ्गवैः ११ ।
अङ्गं यस्य गदाकारं भूमिश्चैव सितेतरा । गदावज्रमिदं
ब्रूयात् तत्क्षते शूलसम्भवः १२ । अङ्गं कृष्णतिला-
कारं भूमिश्चैव सिताऽसिता । तिलवज्रमिदं ज्ञेयं
लक्ष्मीबलयशःप्रदम् । तत्क्षते तिलतैलाभा वसा
प्रच्यवतेऽधिकम् १३ । धूम्रवर्णा भवेद्भूमिरङ्गं
वह्निशिखोपमम् । अग्निवज्रमिदं ज्ञेयं शत्रूणां
दाहकारकम् । अत्र शीतोदकं न्यस्तं तप्तं भवति च
क्षणात् । शाणे वह्निं वमेद् यस्तु तथा सूर्य्यांशु
सङ्गमात् । तत्क्षते बलवान् दाहो दग्धवच्च व्रणो
भवेत् । एतत् परमभाग्येन लभ्यते धरणीतले १४ ।
भूमिः सिताऽसिता वापि अङ्गञ्चेत् पिप्पलीप्रभम् ।
कणावज्रमिदं ज्ञेयमन्तर्दाहस्तु तत्क्षते १५ । कृष्णा
भूमिर्यदीयाङ्गे दृश्यते ग्रन्धिसञ्चयः । ग्रन्थिवज्रमिदम्
ज्ञेयं वैरिपक्षविनाशनम् । तत्क्षते बलवान् दाह
स्तृषा च ज्वर एव च १६ । शालपर्णी दलाकार-
मङ्गं कृष्णासिपुत्रिका । स्थिरावज्रमिदं प्राहुस्तत्क्षते
वेपथुर्भवेत् १७ । यदा तित्तिरिपक्षाभमङ्गं भूमिः
सितेतरा । एतत्तित्तिरिवज्रं स्यात् तत्क्षते
बहुधेर्म्मकम् १८ । वनमालासमा यस्मिन् माला खड़्गे
प्रदृश्यते । मालाङ्गवज्रं तद्विद्यात्तत्तोयं गन्धवद्भवेत् ।
अत्र तप्तोदकं न्यस्तं शीतं भवति तत्क्षणात् । एष
दाहपरीतानामतिपित्तहतात्मनाम् । भवेत् परमभैषज्यं
भाग्येनैतद्धि लभ्यते १९ । यदा जीवकसङ्काशमङ्गं
भूमिः सिताऽसिता । एतज्जीवकवज्रं स्यात् तत्क्षते
तत्क्षणाज्ज्वरः २० । भूमिः सिताऽसिता क्षेत्रे स्वाङ्गं
भृङ्गाभमिष्यते । तत्र चेन् मधु विन्यस्तं शोषामाप्नोति
केवलम् । एतद्भ्रमरवज्रं स्यात्तत्क्षते स्याद्विसूचिका २१ ।
ऊर्द्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते । ऊर्द्ध्ववज्रमिदं
प्राहुर्विषवेगनिसूदनम्” । लौहप्रदीपे “ऊर्द्ध्वगं
कपिलाभासमङ्गं यस्मिन् प्रतीयते । लाङ्गलाङ्गन्तु
तद्विद्यात् स्पर्शे तस्याऽहिनाशनम् २२ । अङ्गं मरीच-
सङ्काशं भवेद्भूमिः सितेतरा । मरिचाङ्गमिदं वज्रं
तत्क्षते कटुरक्तता । तत्प्रक्षालनतोयेन नश्यन्ति
पीनसादयः २३ । यदा सर्पफणाकारमङ्गं भूमिस्तु
निर्मला । भुजङ्गवज्रं तद्विद्यात्तत्क्षते विषबद्रुजा ।
पृष्ठ ३२४५
तस्य स्पर्शनमात्रेण भेकः प्राणैर्विमुच्यते । एकस्यास्य
प्रसादेन कृत्स्नां शास्ति महीं नृपः २४ । यदाऽश्वखुर-
सङ्काशमङ्गं भूमिस्तु निर्मला । अश्वाङ्गमिति तं विद्यात्
खड़्गं परमदुर्लभम् । तस्य संयोगमात्रेण वाजी-
मन्दीऽपि धावति । तस्य क्षालनतोयेन हयानां
रोगनाशनम् । एतत्क्षते भृशं मूर्च्छा दाहश्च भ्रम एव
च २५ । मयूरपिच्छसदृशमङ्गं भूमिः सितेतरा ।
बर्हाङ्गमिति तं विद्यात्तत्क्षते वान्तिरिष्यते । सर्पाणा-
मिह सर्वेषामस्य स्पर्शासहिष्णुता । एतदेव नृपतिभि-
र्भाग्यैः कुत्रापि लभ्यते २६ । भूमिरञ्जनशुङ्काशा-
धारा चास्य सिता भवेत् । अञ्जनाख्यमिदं प्रायः सर्व-
दैवोपलभ्यते” । लौहप्रदीपे “धारा शुभ्रा
भवेद्यस्य भूमिः कज्जलसन्निभा । कृष्णमङ्गैश्चितं वापि
विद्यात् कज्जलवज्रकम् । मधुवर्णसमा भूमिरङ्गं
वा मधुविन्दुवत् । क्षौद्राख्यमिति जानीयात्
जयलक्ष्मीयशःप्रदम्” । शार्ङ्गधरीये “निम्नकक्षो
भवेद् यत्र रात्रिन्दिवविलेपितः । मधुरो मधुवर्णाभः
स खड़्गो देववल्लभः । विशेषाच्चात्र रज्यन्ति सततं
मक्षिकादयः” । “आसीमकोणिका यस्य क्षुद्राङ्गं
कुण्डलीकृतम् । क्षुद्रवज्रकनामानं प्राह नागार्जुनो
मुनिः । इदं कुण्डलवज्रञ्च प्राह लौहार्णवे मुनिः ।
अस्य क्षतेषु वलवान् दाहो मदविशेषितः २९ ।
यदङ्गं मक्षिकाकारं भूमिश्चैव सिताऽसिता । स्नेहं
शुष्यति वैवात्र मक्षिकाङ्गं तमादिशेत् ३० । अङ्गं
यदा तुषाकारं या च भूमिः सिताऽसिता । तुषबज्र-
मिदं ख्यातं प्राह नागार्जुनो मुनिः ३१ । अङ्गं
यवफलाकारं भूमिः कृष्णा सिता तथा । यवाङ्गमिति
तं विद्यात्तत्स्पर्शे कण्डुसम्भवः । एष खड़्गाधम-
स्त्याज्यो यदीच्छेद्भूतिमात्मनः ३२ । अङ्गं व्रीहि
प्रसूनाभं भूमिर्ध्रूम्रा क्षते ऽतिरुक् । तद्व्रोहिवज्रं
जानीयाच्छत्रूणां भयबर्द्धनम् ३३ । अतसीफलसङ्काश-
मङ्गं भूमिः सिताऽसिता । अतसीवज्रमाहुस्तं तत्क्षते
शिरसोरुजा ३४ । यदा सर्षपवीजाभमङ्गं भूमिः
सिताऽसिता । खरधारः खरस्पर्शः सर्षपाङ्गः
सदुर्ल्लभः ३५ । सिंह्याकारं भवेद्यस्य भूमिर्यस्य सिताऽसिता ।
सिंहीवज्रन्तु तद्विद्यात्तत्क्षते प्रलपेन्नरः । एतद्धावन-
तोयेन कासरोगापनाशनम् ३६ । अङ्गं तण्डुल-
सङ्काशं भूमिर्ध्रुम्रा सिताऽसिता । तण्डुलाङ्गमिमं
विद्याद्यशःश्रीबलवद्धनम् । एतत्पर्य्युषितं तोयं
तण्डुलोदकसन्निभम् । अस्य प्रभावान्मनुजोभ्रष्टां
हि लभते श्रियम् ३७ । अङ्गञ्चेद्गोक्षुराकारं भूमि-
राघातनिःसहा । खड़्गाधममिदं विद्याद्गोवज्रं
नाम नामतः ३८ । स्थूला दीर्घाः सिराः कृष्णा भूमि-
श्चैव सिताऽसिता । सिराङ्गमिति तं ब्रूयादेनं
खड़्गाधमं बुधाः ३९ । शिवलिङ्गाकृतिश्चाङ्गे धारा-
चैव सिताऽथवा । शिवाङ्गमिति तं ब्रूयाच्छत्रूपक्ष-
निसूदनम् ४० । यदा व्याघ्रनखाकारमङ्गं भुमिस्तु
पिङ्गला । नखवज्रमिदं विद्यात् तत्क्षते श्वयथुर्भवेत् ।
एतदामिषसंस्पर्शात् प्रविशेत् स्वयमेव हि ४१ । ग्राह
पुच्छीपमन्त्वङ्गं भूमिर्धूम्रा खराकृतिः । ग्राहाङ्गमिति
जानीयाच्छत्रुवंशोपनाशनम् । अस्य स्पर्शनमात्रेण
जीवन्मत्स्या जहत्यसून् ४२ । यदा मनुजनेत्राभ-
मङ्गं भूमिः सिताऽसिता । नेत्राङ्गमिति जानीयात्
संग्रामे विजयप्रदम् । एतद्धावनतोयेन नूनमन्धोऽपि
पश्यति ४३ । अङ्गं केशसमं यस्य भूमिर्धूम्रा सिताऽ-
सिता । केशाङ्गमिति जानीयात् क्लेशदुःखभया-
पहम् ४४ । निरङ्गं स्थूलप्रकृतिमुपलाङ्गं विदुर्वुधाः ।
एतद्धि प्रायशो लोके दृश्यते द्विजसत्तम”! ४५ । पद्म-
पुराणे “निरङ्गा निशिता धारा शाणे वह्निं
वमत्यपि । द्रोणीवज्रमिदं ज्ञेयं पृथिव्यां नातिदुर्लभम् ४६ ।
अङ्गं काकपदाकारं भूमिराघातनिःसहा । एष
खड़्गाधमस्त्याज्यो काकाक्षो भूतिमिच्छता ४७ । यदा
कपालमङ्गेषु दृश्यते स्पर्शतः खरम् । एतद्धि दुःख-
जनकं कपालाङ्गं बुधस्त्यजेत् ४८ । तन्वी पत्रा
बलीतुल्या सुवर्ण्णाङ्गाऽसिपुत्रिका । पत्रवज्रकमाहुस्तमा
युर्वेदविदो जनाः” । लौहार्णवे “सुपर्णसन्निभा
भूमिरङ्गं कालं प्रतीयते । तत् पत्रवज्रं काकस्य
सुपर्णमुपजायते ४९ । तुवरीदलसङ्काशमङ्गं यस्मिन्
प्रतीयते । तुवरीवज्रमाहुस्तं तत्क्षते शिरसो भ्रमः ।
एष खड़गाधमस्त्याज्यो यदीच्छेज्जीवनं निजम् ५०
वेम्बीदलसमा भूसिरङ्गं विम्बीफलोपमम् । विम्बी-
बज्रन्तु तद्विद्यात्तज्जलं तिक्तमुच्यते । पित्तश्लेष्मविका-
राणां प्रशमाय प्रयुज्यते ५१ । प्रियङ्गुसदृशन्त्वङ्गं
भूमिश्च कपिलाकृतिः । फलीवज्रमिदं प्रोक्तं शाणे धूम्रं
वमत्यपि ५२ । अङ्गं सर्षपपुष्पाभं भूमिश्चैव सिताऽ-
सिता । एतत् सर्षपवज्रं स्यात् शाणे वह्निं वमत्यपि ।
पृष्ठ ३२४६
अपि कुण्डलिकां याति एतदत्यन्तकोमलम् । एतत्-
प्रसादात् क्षितिपः कृत्स्नां साघयते महीम् ५३ ।
नीलीरससमा भूमिरङ्ग नीलीतरङ्गवत् । नीलोवज्र-
मिदं दृष्टं शाणे वह्निशिखां वमेत् । एष खड़्ग-
वरोनृणामरिष्टभयनाशनः ५४ । रक्तास्तिस्रो महारेखा
भूमिश्चैव सिताऽसिता । रक्ताङ्गमिति जानीयाद्वैरिपक्ष
विनाशनम् । शाणेन यस्तु रक्तां वा नीलां वा वमते
शिखाम् । रक्तस्पर्शनमात्रेण स्वयमेव निकृन्तति ।
क्षतेऽस्य रक्त थुस्तृषा दाहश्च जायते ५५ । अङ्गं
वचादलसमं भूमिश्चैव सिताऽसिता । वचावज्रमिदं
ज्ञेयं तत्क्षताद्विषनाशनम् । एष खड्वरो राज्ञा
साधनीयः प्रयत्नतः ५६ । रसोनादुत्तमं ह्यङ्गं भूमिस्तस्य
दलोपमा । रसोनवज्रं जानीयात् शाणे वह्निं
बमत्यपि । अस्य धावनतोयेन आमवातविनाशनम् ५७ ।
निरङ्गा निर्मला भूमिर्द्धारा तीक्ष्णा खरः स्वरः । सुमना
वज्रमेतत् स्याद्भुवि नात्यन्तदुर्लभम् ५८ । जिङ्गिनी
सदृशी दीर्घा यस्या रेखा सुविस्तरा । जिङ्गीवज्रमिदं
नाम सर्वकामार्थसाधनम् ५९ । अङ्गं शमीपत्रसमं
भूमिर्धूम्रा सिताऽसिता । शमीवज्रमिदं ज्ञेयं शनैश्चर
मुदावहम् । शाणेषु वमते वह्निं सहते वह्निपीड़-
नम् ६० । रोहितशल्कसदृशमङ्गं भूमिः सिताऽसिता
वापि । धूम्रा गम्भीरस्वरयुक्ता धारा तीक्ष्णाऽसिता
भवेद्रेखा । रोहिताख्यमिदं वज्रं सर्वारिष्टविनाशनम् ।
वह्निसंस्पर्शमात्रेण किञ्चिच्चिमिचिमायते । इत्ययं
दुर्लभः खड्गो देवानामपि कथ्यते ६२ । शफरीवल्क-
लाकारमङ्गं भूमिः सिताऽसिता । प्रोष्ठीवज्रमिदं प्रोक्तं
न्यस्तं तरति वारिणि । एष खड्गोत्तमो राज्ञां
विपक्षकुलनाशकः । कदाचिल्लभ्यते भाग्यैर्लभ्यते तेन वै
मही ६२ । अङ्गं मारिषपत्राभं भूमिः स्याद्विषम-
च्छविः । इत्ययं मारिषाङ्गः स्यात् पृथिव्यां नाति-
दुर्लभः ६३ । भृङ्गराजस्य पुष्पाभमङ्गं भूमिर्दलप्रभा ।
आघातं सहते नैव एष खड्गाधमो मतः ६४ । घारा
तीक्ष्णा खुराकारा भूमिरङ्गविवर्जिता । आघातं सहते
घोरं शाणे वह्निं वमत्यपि । खुराङ्गमिति जानीयात्
पृथिव्यां नातिदुर्लभम् ६५ । निर्मला सरला भूमिर्भवे-
च्चैव कदा कदा । मन्दा तीब्रा भवेद्धारा तड़िद्वज्रस्य
लक्षणम् ६६ । नीलाञ्जनसमा भूमिरङ्गं जलतरङ्ग-
वत् । मेघाङ्गभिति जानीयाच्छाणे शीतं भवत्यपि ।
एष खड़्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः । भर्त्तुः
प्रतापं शमयेद्रविविम्बं यथा घनः ६७ । मन्दा धारा
भृशं गाढ़ा भूमिरङ्गविवर्जिता । पर्वताङ्गमिदं नाम
सर्वत्रैवोपलभ्यते ६८ । अङ्गं गुञ्जाफलसमं भूमि-
र्मीनदलोपमा । गुञ्जावज्रमिदं पृष्ठं तप्तं भवति
घर्षणे । शाणे सिन्दूरसङ्काशं रजोवमति चासकृत् ।
एष खड़्गवरो राज्ञा भाग्यादेवोपलभ्यते । अस्य
प्रभावात्तन्नास्ति यन्न साधयते नृपः ६९ । अङ्गं तनु
शराकारं भूमिश्चैव सिताऽसिता । धारा तीक्ष्णा
च वमति शाणे वह्निसमाः शिखाः । शरवज्रमिदं ज्ञेयं
राज्ञां बाञ्छितसिद्धये ७० । दूर्व्वादलनिभा भूमिर्धारा
तीक्ष्णा खरः स्वरः । शाणेन वमते वह्निं दूर्व्वावज्रं
सुदुर्लभम् ७१ । अङ्गं विल्वदलाकारं भूमिश्चैव सिता-
ऽसिता । विल्ववज्रमिदं शाणे नीलपीते वमेच्छिखे ।
एष खड़्गवरः प्रोक्तः शत्रूणां कुलनाशनः ७२ ।
मसूरदलसङ्गाशा भूमिरङ्गं मसूरवत् । मसूराङ्गमिदं
शाणे रजो वमति चारुणम् ७३ । शणपुष्पनिभा
रेखा दीर्घा भूमिः सितेतरा । शणाङ्गमिति जानी-
यात् खड़्गं परमदुर्लभम् ७४ । शटीदलसमा भूमि
रङ्गं तत्कुसुमोपमम् । शटीवज्रमिदं प्रायो लभ्यते
गुणवत्तरम् ७५ । मार्जाररोमसदृशमङ्गं भूमिः सिते-
तरा । मार्जाराङ्गमिदं नाम्ना रोगशोकभयावहम् ।
एष खड़्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः ७६ ।
केतकीपत्रसदृशमङ्गं यस्मिन् प्रतीयते । विद्यात् केतक-
वज्रं तत् वाराणससमुद्भवम्” ७७ । लौहप्रदीपे “अङ्गं
मूर्वातन्तुनिभं भूमिर्मूर्वादलच्छविः । शाणेन वमते
शुक्लां शिखां मौर्वी भवेत्ततः । मौर्व्यङ्गमिदमुत्कृष्टं
यशःकीर्त्तिबलावहम् ७८ । लिङ्गं तीक्ष्णं खरं गाढ़ं
शाणे वह्नेर्वमेत् कणम् । छिनत्त्यन्यविधं लौहं वज्राङ्ग-
मिति तद्वदेत् ७९ । कलायपुष्पसदृशमङ्गं भूमिः
सिताऽसिता । कलायवज्रं जानीयात् तत्क्षते पाक
इष्यते ८० । अङ्गं चम्पकपुष्पाभं भूमिः कृष्णा तथा
सिता । शिखां शाणे वमेच्छीतं तिक्तं तस्य जलं मवेत्
इदं चम्पकवज्रं स्यात् सर्वत्र विजयप्रदम् ८१ । अङ्गं
बलादलसमं भूमिः शुक्ला तथेतरा । बलावज्रमिदं
ज्ञेयं नानाभावं भद्वेद्रुतम् । इत्ययं वातरोनाणां नाशने
परमौषधम् ८२ । अङ्ग वटारोहसमं भूमिर्वटदल-
च्छविः । वटवज्रमिदं ज्ञेयं खरं खड़्गाधमं बुधैः ।
पृष्ठ ३२४७
एतस्य स्पर्शमात्रेण नरोमुच्येत सम्पदा ८३ । वंशनीली
समा भूमिः खरधारा सिताकृतिः । वंशाङ्गमिति
जानीयाद्वंशवृद्धिकरं परम् ८४ । भूमिःसालदलाकारा
अङ्गं लघु सितासितम् । सालाङ्ग एष खड़्गः स्यात्
पूज्यः सर्वार्थदायकः । अयं शाणे वमेद्वह्निं धारा
चाप्यथ वा भवेत् ८५ । भूमिः सिताऽसिता वापि अङ्गं
ज्येष्ठीसमं लघु । ज्येष्ठीवज्रमिदं निन्द्यं न स्पृश्यं
वा हितेच्छुभिः ८६ । पुराणजालसदृशमङ्गं भूमिः
सिताऽसिता । जालवज्रमिदं पूज्यं शत्रूसम्पत्तिनाशनम् ।
यदि शाणे वमेन्नीलां शिखां वह्निं वमेच्च वा । तदैष
दुर्लभः खड़्गो ह्यन्यथा भयहेतुकः ८७ । अङ्गं
पिपीलिकाकारं भूमिर्धूम्रा तथा सिता । पिपीलिकाङ्ग
इत्येष तत्क्षते कण्डुसम्भवः । स्वयं यदि
भवेद्धूम्रः शाणे पूज्यतमस्तदा ८८ । नलपत्रसमा
भूमिरङ्गन्तत्कुसुमोपमम् । नलाङ्गमिति जानीयाद्भर्तुः
सर्वार्थसाधकः ८९ । निरङ्गा निर्मला भूमिर्वृष्टं
घृष्टं वमेद्रजः । दृढ़ा धारा भृशं स्थूला-
आघातं सहते न च । रजोवज्रमिदं निन्द्यं शत्रूणां
विजयावहम् ९० । कुष्माण्डवीजसदृशमङ्गं भूमिः
सिताऽसिता । कुष्माण्डवज्रं जानीयात्तत्क्षते वेगनि-
ग्रहः ९१ । अङ्गं नृरोमसदृशं भूमिर्धूम्रा सितासिता ।
रोमाङ्गमिति जानीयात्तत्क्षते पिड़कोद्गमः ९२ । भूमिः
स्नुहीदलाकारा अङ्गं तत्कण्टकोपमम् । धारा तीक्ष्णा-
रवस्तीक्ष्णो लघु मानं खरा स्पृशा । स्नुह्यङ्गः खड्ग
इत्येष तत्क्षते दाहतृड्भ्रमः । मुखाक्षिकर्णनासानां
दाहः पाकश्च जायते । अयं यदि च सर्पाणां
फणासूपरि विश्यते । फणा विदारमाप्नोति सर्पोलोटयते शिरः ।
अस्य धावनतोयेन कुष्ठरोगविनाशनम् ९३ । कर्कन्धू
दलपृष्ठाभा भूमिरङ्गन्तु तत्समम् । कर्कन्धूवज्रं
जानीयात् तत्क्षते दाहनाशनम् । एष खड्गाधमस्त्याज्यो
जेतव्या यदि विद्विषः ९४ । अङ्गं बकुलपुष्पाभं भूमि-
स्तत्फलसन्निभा । वकुलाङ्गमिदं पुण्यं शाणे सुरभि-
गन्धवत् । तन्नास्ति जगतीमध्ये यदनेन न साध्यते ९५ ।
अङ्गं सम्मिश्रितं यस्मिन्न किञ्चिद्व्यक्तमीक्ष्यते । सर्वेषां
दर्शनं वापि तीक्ष्णा धारा खरः स्वरः । एष काञ्जिक-
वज्रः स्याद्यत्नादेवोपलभ्यते । नैनं प्राप्यापि वर्द्धन्ते
शेषाश्चित्रादयोपि च ९६ । भूमिः कृष्णा निरङ्गा चेद्धारा
तीक्ष्णा दृढ़ापि च । आघातं सहते घोरं रक्तं स्पर्शेन या
विशेत् । शाणेन वह्निं वमति ध्रुवं वाप्यतिघर्षणात् वा
महिषाङ्गः स वै खड्गः पृथिव्यां नातिदुर्लभः ९७ ।
अत्यन्तनिर्मला भूमिः शरीरं प्रतिविम्बितम् । धारा
तीक्ष्णा स्वरस्तीक्ष्णः स्वच्छाङ्गं तद्विनिर्दिशेत् ९८ ।
तस्मिन् यदा भवेद्रेखा ऋज्वी ऋज्वाख्यकं तदा ९९ ।
अस्मिन्नपि भवेद्वक्रा रेखा वक्राभिधन्तु तत् १०० ।
एतच्छतकमुद्दिष्टं खड़्गानां प्रवरं बुधैः । प्रायशो लभ्यते
लोके यदि सर्वगुणावहम् । इतीदं निखिलं प्रोक्तं
वज्राणां लक्षणं मया । प्रयत्नैर्लिखितं व्यक्त सर्वेषां
हितकाम्यया । इतः परन्तु लौहानां लक्षणं यत्र
लक्ष्यते । तस्य दासो भवाम्येष प्रतिज्ञेति कृता मया ।
द्विलिङ्गमिश्रमालोक्य मिश्राङ्गमिति निर्द्दिशेत् । सर्वेषा
मङ्गमालोक्य सर्वाङ्गमिति निर्दिशेत्” । अङ्गाध्यायः ।
खड़्गस्य रूपाणि यथा । “नीलीकलायकुसुमच्छविगृञ्ज-
नाभा या चेन्द्रनीलमणिकाचमणिप्रभा च । भूमिश्च
या मरकतप्रतिमावभासा खड़्गस्य नीलमिति रूपमिदं
वदन्ति । तत्र चेन्निन्दितान्यङ्गान्यरिष्टानि बहून्यपि ।
दृश्यन्ते बहुदोषाश्च तथापि गुणवत्तरम् १ ।
या कालकाम्बुदमसीरसकालसर्पगाढ़ान्धकारकचभा-
रसमा विभाति । भूमिश्च या भ्रमरबन्धुसमा-
वभासा खड्गस्य कृष्णमिति रूपमिदं वदन्ति ।
अत्र नेत्राणि सम्पत्त्यै अरिष्टान्यशुभाय च ।
साधारणमिदं रूपं प्राह नागार्जुनो मुनिः २ । या
प्रावृषेण्यनवभेकसमानवर्णा गोमेदरत्नसदृशी च तु यस्य
भूमिः । खड़्गस्य पिङ्गमिति रूपमिदं वदन्ति भर्त्तु-
र्यशोबलधनक्षयकारणाय ३ । या मन्दधूमसदृशी च
शिरीषपुष्पतुल्या विभाति मलिनापि च खड़्गभूमिः ।
नागार्जुनो वदति धूम्रमिदं हि रूपं भर्त्तुर्यशोबल-
धनावलिवर्द्धनाय ४ । द्विरूपं मिश्रितं कृत्वा सङ्करं
प्रवदेद्बुधः । त्रिभीरूपैः समेतन्तु खड़्गं त्रिपुरसंज्ञितम् ।
रूपैश्चतुर्भिः संयुक्तं चतुरं खड्गमुत्तमम्” । रूपाध्यायः
“जातिश्चतुर्विधा प्रोक्ता खड्गानां या पुरा मया ।
सम्प्रत्यपि प्रयत्नेन तासां लक्षणमुच्यते । शुद्धाङ्गः
शुद्धवर्णश्च सुनेत्रः सुस्वरश्च यः । मृदुस्पर्शः सुसन्धेय-
स्तीक्ष्णधारो महागुणः । खड़्गं व्राहणजातिं तं
प्राह नागार्जुनो मुनिः । अस्य क्षते भवेच्छोथो थोरः
सर्वाङ्गगोचरः । मूर्च्छा पिपासा दाहश्च ज्वरा मृत्युश्च
जायते । अघृष्टं त्रिफलाकलकमर्द्धरात्रिन्दिवोषि-
पृष्ठ ३२४८
तम् । मलिनत्वं न सन्धत्ते निर्मलं कुरुते परम् ।
तरुणादित्यकिरणस्पर्शादेव तृणे स्थितः । दहेत् सर्वं
न तु करं पुरुषस्य हि धारिणः । गायत्र्युच्चारमात्रेण
खरतां व्रजति स्फुटम् । एष खड़्गवरः सर्व-
मरिष्टं नाशयेद्ध्रुवम् । अस्य प्रसादात् पुरुषस्त्रिलोक-
मपि साधयेत् । तस्मादेष मनुष्याणां सुलभो न हि
भूतले । दृश्यते प्रायशः स्वर्गे कुशद्वीपे हिमालये १ ।
धूम्रवर्णं महासारं तीक्ष्णधारं खरस्वरम् । सर्वा-
घातसहं सर्वनेत्रवर्णस्वराकरम् । खड़्गं क्षत्त्रिय-
जातिं तं जानीयात् खड़्गकोविदः । अस्य क्षते
भवेद्दाहस्तृषा दाहो ज्वरो भ्रमः । मृत्युश्च जायते शाणे
वमेद्वह्निकणान् बहून् । संस्कारे चाप्यसंस्कारे
नैर्मल्यं तस्य लक्ष्यते । शाणेऽप्यशाणे खरता मूर्द्ध्नि
चात्यन्ततीक्ष्णता । रक्तस्पर्शनमात्रेण विशेदन्तरमन्तरम् ।
अयं खड्गवरः पूज्यो मनुष्यैरपि लभ्यते २ ।
नीलवर्णः कृष्णवर्णः संस्कारे निर्मलो भवेत् । शाणेन खरता
चास्य खाततुल्यं निकृन्तति । वैश्यजातिरयंखड़्गः क्षते
त्वङ्मात्रदर्शनम् । नात्युत्कृष्टो नातिहीनः सर्वत्रै-
वोपलभ्यते ३ । सजलाम्भोदसङ्काशः स्थूलधारो मृदु-
स्वरः । संस्कारे चैव मलिनः शाणे चापि खरेतरः ।
शूद्रजातिरयं खड़्गः क्षते नाल्पाऽपि वेदना । दूरा-
देषोऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः । प्रायशः
सर्वलोकेषु ह्ययमेवोपदृश्यते ४ । द्वयोर्लक्षणमालोक्य जारजं
खड़्गमादिशेत् । त्रयाणां लक्षणेनैव त्रिजातिं खड़्ग-
मादिशेत् । चतुर्णां लक्षणेनैव जातिसङ्कर उच्यते” ।
अथ त्रिंशन्नेत्राणां लक्षणानि “चक्राकारं यदा नेत्रं
खड़्गस्याङ्गे प्रदृश्यते । तं चक्रनेत्रं जानीयात्
भर्त्तुः सर्वार्थसाधनम् । अनेनैकेन खड़्गेन कृत्स्नां
साधयते महीम् १ । प्रफुल्लपद्मसङ्काशं नेत्रं पद्म-
दलोपमम् । यदि वा दृश्यते खड़्गे पद्मनेत्रं
समादिशेत् । अयं खड़्गवरो यत्र तत्रैव कमलालया २ ।
ऊर्द्ध्वा स्थूला यदा रेखा गदाकारा प्रतीयते । गदानेत्र-
मिटं विद्धि सर्वशत्रुनिसूदनम् ३ । शङ्खाकारं यदा
नेत्रं खड़्गमध्येऽभिदृश्यते । शङ्खनेत्रमिदं सर्वदेवाना-
मपि दुर्लभम् ४ । डमरुप्रतिमं नेत्रं यस्य भूमौ प्रतीयते ।
सर्व्वार्थसाधकं खड़्गं तं विद्यात्विजयप्रदम् ५ । धनुः-
स्वस्यपं यन्नेत्रं धनुर्नेत्रमुशन्ति तम् । तस्य स्पर्शनमात्रेण
मन्दोऽपि प्रमुखायते । अयं निशीथे विजने खड़्गो
झनझनायते ६ । यन्नेत्रमङ्कुशाकारं तं विद्याद्गुणव-
त्तरम् । खड़्गमङ्कुशनेत्राख्यं भर्त्तुः सर्वार्थसाधकम् ।
अलक्ष्मीपापरक्षोघ्नं कृत्याग्रहनिवारणम् ७ । छत्रा-
कारं यदा नेत्रं छत्रनेत्रं वदन्ति तम् । अस्य प्रभावात्
क्षीणोऽपि सार्वभौमो भवेन्नृपः । दीनोऽपि च सुखी
भूयात् सुखी भूयान्महेश्वरः । महेश्वरोऽपि सचिवः
सचिवो मण्डलेश्वरः । मण्डलेशश्चक्रवर्त्ती भवेदत्र न
संशयः ८ । पताकाकृति नेत्रञ्चेत् सर्वसम्पत्तिकारकम् ।
पताकानेत्रमाहुस्तं संग्रामविजयप्रदम् ९ । नेत्रं
वीणाकृति यदा वीणानेत्रमुशन्ति तम् । निशीथे विजने
खड़्गो वीणावत् स्वनमावहेत् । अस्य प्रभावात्
स्वर्वेश्या अपि वश्या भवन्ति हि १० । मत्स्याकृति
यदा नेत्रं मत्स्यनेत्रमिमं विदुः । अस्य प्रभावात्
क्षितिपः कृत्स्नां साधयते महीम् ११ । शिवलिङ्गसमं
नेत्रं लिङ्गनेत्रमिमं विदुः । मर्त्तुः सर्वार्थसंसिद्ध्यै शत्रूणां
नाशनाय च । वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथा
रणे १२ । ध्वजाकारं तु यन्नेत्रं ध्वजनेत्रं वदन्ति तम् ।
अस्य प्रभावात् भूपालः समग्रां लभते श्रियम् १३ ।
यस्यार्द्धचन्द्रप्रतिमं नेत्रं स त्वर्द्धचन्द्रदृक् । तस्य
धारणतो भूपोधरां कृत्स्नां लभते वै १४ । यन्नेत्रं
कलसाकारं कलसाख्यं तमादिशेत् । तस्य प्रभावात् सकलां
भूमिं भूपो लभेत वै १५ । शूलाकृति यदा नेत्रं शूलनेत्रं
वदन्ति तम् । सर्वार्थसाधकः सर्वारिष्टाऽनिष्टप्रणा-
शनः १६ । शार्दूलनेत्रं तं विद्यात् शार्दूलाकृति-
नेत्रतः । शत्रुश्रेणीविनाशाय संग्रामे विजयाय
च १७ । सिंहाकृति यदा नेत्रं सिंहनेत्रमिमं विदुः ।
अस्य प्रभावात् क्षीणीऽपि कृत्स्नां साधयते महीम् १८ ।
तत् सिंहासननेत्रं स्यात् नेत्रे सिंहासनोपमे । अस्य
प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् १९ ।
गजाकृति यदा नेत्रं गजनेत्रं वदन्ति तम् । अस्य
प्रभावात् क्षिणोऽपि लभते राजसम्पदम् २० । नेत्रं
हंसाकृति यदा हंसनेत्रं वदन्ति तम् । अस्य प्रभा-
वात् भूपालो यशः प्राप्नीत्यनुत्तमम् २१ । मयूराकृतिके
नेत्रे तन्नेत्रमिति निर्दिशेत् । अस्य प्रभावान्
मनुजः सर्पदर्पान्निसूदयेत् २२ । जिह्वाकारं यदा
नेत्रं जिह्वानेत्रं वदन्ति तम् । संग्रामखर्परेष्वेवं पिवे-
द्वैरिशिरोरजः २३ । दन्ताकारं यदा नेत्रं दन्तनेत्रं
वदन्ति तम् । अयं रिपुगणं मूर्द्ध्वि चर्वयत्यति
पृष्ठ ३२४९
भैरवम् २४ । खड़्गाकारं यदा नेत्रं खड़्गनेत्रं वदन्ति
तम् । अस्य प्रभावान्मनुजस्त्रिलोकीं वशयेदपि २५ ।
मनुष्यपुत्रिकाकारं पुत्रिकानेत्रमुच्यते । अयं सशैलां
सद्वीपां कृत्स्नां साधयते क्षितिम् । न चेयं पुत्रिका
किन्तु जयलक्ष्मीरिह स्वयम् । तस्मान्नायं मनुष्याणा-
मल्पभाग्येन लभ्यते २६ । चामराकृतिनेत्रत्वात्तन्नेत्र-
मिति निर्दिशेत् । अस्य प्रभावात् जायन्ते चामरो-
द्धृतसम्पदः २७ । एकाऽनेकशिखे शैलनेत्रे तन्नेत्र-
संज्ञकम् । अपि राष्ट्रभये युद्धे विषमे वैरिसङ्कटे । स्थिरी-
करीति धरणीं धरणीं पर्वतो यथा २८ । पुष्पमाला-
समं नेत्रं पुष्पनेत्रं वदन्ति तम् । अस्य प्रभावात्तु-
ष्यन्ति ग्रहाः सर्वाश्च देवताः २९ । भुजङ्गमसमे
नेत्रे सर्पनेत्रमिदं मतम् । अयं शत्रूगणं हन्ति यथा
मर्त्त्यं भुजङ्गमः ३० । सवर्णमसवर्णञ्च तत् सर्वं
द्विविधं भवेत् । सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथा
परम् । द्वयोरेकत्र पृष्ठे च तत् पुनः द्विविधं भवेत् ।
एकं लोके सुखं, नेत्रं ददाति द्विविधं द्वयोः ।
मूलमध्याग्रसंस्थानात् तत् पुनस्त्रिविधं मतम् । अग्रे चाग्र्य-
फलं ज्ञेयं मध्ये मध्यफलं मतम् । मूले फलं
जघन्यं स्यात् प्राह नागार्जुनो मुनिः । एकं द्वे
त्रीणि नेत्राणि नात्र संख्याव्यतिक्रमः । एकं धर्मं,
स्वर्गकामौ द्वेः त्रीणि च त्रिवर्गकम् । तत् फलानि
प्रयच्छन्ति प्राह नागार्जुनो मुनिः । द्विनेत्रमिति
जानीयात् स्वसंज्ञां नेत्रयोर्द्वयोः । त्रिनेत्रञ्च त्रिभि-
र्ज्ञेयं बहुनेत्रमतः परम् । यथोत्तरं गुणवहं खड़्गमा-
हुरनुत्तमम् । दिङ्मात्रमिति निर्दिष्टं नेत्राणां शुभदा-
यिनाम् । तीव्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम् ।
यथा नेत्रस्य संस्थानं तथाऽरिष्टस्य लक्षयेत् । नेत्रेषु
स्थाननियमो नारिष्टे स्थाननिर्णयः । प्रशस्ताङ्गोऽपि
यः खड्गोऽरिष्टेनैकेन निन्दितः” । अथ त्रिंशदरि-
ष्टानां लंक्षणानि “छिद्रवद्दृश्यते खड्गे स्वभावेन च
लक्ष्यते । छिद्रारिष्टमिदं विद्धि भर्त्तुर्वीर्य्यबलापहम् १ ।
यदा काकपदाकारमरिष्टं दृश्यते क्वचित् । अयं काक
पदारिष्टः सर्व्वाभीष्टविनाशनः २ । रेखाकारं
यदारिष्टमूर्द्ध्वं वा तिर्य्यगेव वा । रेखारिष्टमिदं विद्धि
भर्त्तुवीर्य्यबलापहम् ३ । भिन्नभ्रान्तिकरं पापं
भिन्नारिष्टमिदं विदुः । भर्त्तुः कुलं यशो राष्ट्रं नाहत्वा
त व्रजेत् स्वयम् ४ । यदा भेकशिरोरूपमरिष्टं दृश्यते
क्वचित् । भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् ५ ।
अरिष्टे मुषिकाकारे मुषिकारिष्टमुच्यते । अयं खड़्गा-
धमः कुर्य्यात् पत्युः पातालसङ्गमम् ६ । विड़लनयना-
कारो विन्दुरेकोऽतिविस्तरः । विड़ालारिष्टमेतत्
स्यात् भर्त्तुः सर्वार्थनाशनम् ७ । अरिष्टं शर्कराकारं
यदा स्पर्शेन बुध्यते । शर्करारिष्टमेतत् स्याद्धनबुद्धि-
विनाशनम् ८ । यदा नीलीरसाभासमरिष्टं दृश्यते
क्वचित् । नील्यरिष्टमिदं ज्ञेयं यशोलक्ष्मीविनाश-
नम् ९ । अरिष्टे मशकाकारे मशकारिष्टमुच्यते । भर्त्तुः
कुलं यशो बुद्धिं धृतिं प्रीतिञ्च नाशयेत् १० । भृङ्गम
प्रतिमो विन्दुरेकोऽनेकोऽथ वा यदा । भृङ्गमारिष्ट
इत्येष धृतिस्मृतिविनाशनः ११ । सूचीरूपमरिष्टञ्चे-
दूर्द्धं वा तिर्य्यगेव वा । सूच्यरिष्टमिदं नाम भर्त्तुः
कुलविनाशनम् १२ । त्रयश्चेद्विन्दवो राजन्! पङ्क्तयो
विषमेण वा । उपर्य्युपरि वाधोऽधस्त्रिविन्द्वाख्यमरि-
ष्टकम् । तस्य स्पर्शनमात्रेण सचेलः स्नानमाचरेत् १३ ।
कालिकारिष्टमित्येतद्धि धीधृतिस्मृतिनाशनम् १४ । एकत्र
यदि नह्येष प्रयत्नेनापि संवृतः । दारीनाममहारिष्टं
सर्वाभीष्टविनाशनम् । अनेकगुणसम्पन्नः खड़्गोलोकैर्न
गृह्यते १५ । कपोतपक्षप्रतिममरिष्टञ्चेत्तदाह्वयम् ।
भर्त्तुः कुलं यशो विद्यां बलं बुद्धिञ्च नाशयेत् १६ ।
काकाकृति यदा रिष्टं काकारिष्टं तदोच्यते । अनेन
भर्त्तुः संग्रामे भङ्ग एवोपजायते १७ । अरिष्टे खर्परा-
कारे खर्परारिष्टमुच्यते । भर्तुर्यशो बलं वीर्य्यं बुद्धिं
प्रीतिञ्च नाशयेत् १८ । यदान्यल्लोहशकलं लग्नं स्यादिव
लक्ष्यते । शकलीति स वै खड़्गः सर्वाभीष्टनिसू-
दनः १९ । क्रीड़ीमुखसमाकारं यस्यारिष्टं प्रदृश्यते ।
क्रोड्यरिष्टमिदं नाम भर्त्तुः सर्वार्थनाशनम् २० ।
कुशपत्रसमाकारं यत्रारिष्टं तु लक्ष्यते । कुशपत्रा-
रिष्टमिदं भर्त्तुर्दुःखाय कीर्त्तितम् २१ । यस्मिन्नि-
म्नमिवाभाति मध्ये वा दृश्यते क्वचित् ।
जलारिष्टमिदं नाम भर्त्तुः कुलधनापहम् २२ । एकैक-
रेखा दीर्घाग्रा यदा पल्लविनी भवेत् । स्पर्शे नखे
करेणेदं करालारिष्टमुच्यते । अयं हि क्षितिपालानां
दृष्टियोग्यो भवेन्न हि । दर्शनादेव नश्यन्ति यशोलक्ष्मी
जयादयः २३ । अरिष्टे कङ्कपत्राभे कङ्कारिष्टं
तदुच्यते । अस्य स्पर्शनमात्रेण नश्यत्यायुर्यशो बलम् २४ ।
खर्जूरवृक्षप्रतिमं यदाऽरिष्टन्तु लक्ष्यते । खर्जूरारिष्ट-
पृष्ठ ३२५०
मेतत् स्याद्भर्त्तुः कुलधनापहम् २५ । गोशृङ्गाभ-
मरिष्टञ्चेत् शृङ्गारिष्टं तदोच्यते । अनेन भर्तुर्नश्यन्ति
लक्ष्मीबलकुलादयः २६ । गोपुच्छाकृति चेत् स्वड़्गे
अरिष्टं संप्रवीक्ष्यते । पुच्छारिष्टमिदं नाम भर्तुः
सर्वार्थनाशनम् २७ । खनित्राभमरिष्टञ्चेत् खनित्रा-
रिष्टमुच्यते । शूराणामपि संग्रामे भङ्गमेतत् प्रय-
च्छति २८ । अरिष्टे लाङ्गलाकारे लाङ्गलारिष्टमुच्यते ।
अयं पापात् पापतरः प्रेक्षणीयो न भूभुजा । अयमायुः
श्रियं हन्ति विद्यां बलमशेषतः २९ । अरिष्टं वड़िशा-
कारं वड़िशारिष्टमुच्यते । करोति कुटिलं सर्वं भर्त्तुः
कुलनिकृन्तनम् ३० । इत्यरिष्टानि प्रोक्तानि नाना-
तन्त्रात् प्रयत्नतः । विचार्य्येतानि मतिमान् खड़्गं
कोशे निधापयेत् । दिङ्मात्रमिदमुद्दिष्टमरिष्टानां हिता-
त्मनाम् । अमङ्गलानां मन्दानां दर्शनञ्चाशुभावहम् ।
अरिष्टमेकमेव स्याद्द्विररिष्टं शुभावहम् । अन्योन्य-
मशुभं हन्याद्विषस्य हि विषं यथा । एकमारभ्य
सप्रान्तमरिष्टं प्राह नान्यथा । यथोत्तरं द्विगुणितं
फलमाहुर्मनीषिणः । अरिष्टाध्यायः । अथ द्विवि-
धभूमिः । “दिव्यभौमविभागेन सभूमिर्या द्विविधा
मता । दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ।
तल्लक्षणमशेषेण लिख्यते तन्निबोधत । देवदान-
वयोर्मध्ये खड़्गसृष्टिरभूत् पुरा । ते खड़्गाः
पुण्यदेशेषु केषु केषु प्रतिष्ठिताः” । दिव्यलक्षणं यथा
“ये खड़्गाः स्थूलधारा भृशमतिलघवो निर्मलाङ्गाः
सुनेत्रा येऽरिष्टान्यस्वरूपाः सुविमलतनवश्चाप्यसंस्कार-
योगात् । दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते
दाहपाकौ ते दिव्याः कुर्वतेऽमी कुलधनविजयश्रोयशो
बुद्धिमाशु” १ । अथ भौमलक्षणम् । वृहद्धारीते
“पूर्वं महेशेन विषाणि यानि भुक्तानि तेषां पतितास्तु
विन्दवः । पुरामृतं क्षीरसमुद्रमध्यादुत्पाद्य संगृह्य
पपुः सुरेन्द्राः । तद्विन्दवो यत्र निपेतुरेष शुद्धायसा
साकरतां जगाम । ये विषोत्था भृशं कालाः खराङ्गाः
सम्भवन्ति हि । मूर्च्छादाहज्वरानाहशोकहिक्का
वमीकराः । येऽमृतोत्थाः कंर्वुराङ्गा मन्दाङ्गाः
सम्भवन्ति च । बलीपलितमालिन्यजराव्याधिविना-
शनाः । यत्रैव पतितं यत्तु तत्तदाकरतां गताः” । तद्यथा
“वाराणसीमगधसिंहलभूमिभागे नेपालभूमिषु तथाङ्ग-
कलिङ्गदेशे । सौराष्ट्रिकेऽन्यतमधन्यमहीविभागे शुद्धायसां
कृतिवराः प्रवदन्ति जन्म” । तथा । “वाराणसेयाः
सुस्निग्धाः तीक्ष्णधाराः सदङ्गिनः । लघवः सुखसन्धेया
ज्ञेयाश्चाभेद्य शालिनः । मागधाः कर्कशाः स्थूलधारा
गूढ़तराङ्गिनः । गुरवो दुःखसन्धेयाः स्वड़्गा ज्ञेया
विचक्षणैः । नेपालदेशप्रभवा निरङ्गा निश्चलाश्च ये ।
ज्ञेयाः सदङ्गा मलिना लघवः स्थूलधारिणः । कालिङ्गा
गुरवः स्वच्छा व्यक्ताङ्गास्तन्तुहेतवः । सौराष्ट्रा निर्मलाः
स्निग्धाः सुव्यक्ताङ्गा भृशं खराः । सिंहलद्वीपजातानां
चतुर्द्धा भेद उच्यते । केचित् सदङ्गा गुरवः कर्कशाः
स्निग्धधारिणः । केचित् सदङ्गा लघवः सुस्निग्धा
स्थूलधारिणः । एषां रूपेण मिश्रेण ज्ञेया हि द्विज-
जातयः । सामान्यात् द्विगुणञ्चौड्रं कलिर्दशगुणस्ततः ।
कलेः शतगुणं भद्रं भद्राद्वज्रं सहस्रधा । वज्रात् षष्टि-
गुणः पाण्डिर्निरविर्दशभिर्गुणैः । ततः कोटिसह-
स्रेण ह्ययस्कान्तः प्रशस्यते । आसान्तु लौहजा-
तीनां वज्रं खड़्गाय युज्यते । ये खड़्गास्तीक्ष्ण-
धारा भृशमतिगुरवः षड़्गुणाढ्याः सुभेद्याः केचित्
साङ्गा निरङ्गाः कतिचन समला निर्मलाः केचिदेव । ते
भौमाः कुर्वतेऽमी धनविजयबलं षड़्गुणा निर्गुणा ये
ते दुःखं शोकमुग्रं दधति बलकुलश्रीयशीनाशनास्ते” ।
अथाष्टधा ध्वनिः । “ध्वनिरष्टविधः प्रोक्तो यः पूर्वं
सूत्रसंग्रहे । तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम्” ।
तद्यथा । “पूर्वे चत्वारः शुभदाः परे निन्दास्पदास्तथा ।
विचार्य्य खड़्गमानञ्च कर्त्तव्यं खड़्गकोविदैः ।
धीरस्तार इति ख्यातो द्विविधः खड़्गकोविदैः ।
घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः । यत्र
हंसरवस्येव खड़्गे नखहते ध्वनिः । हंसध्वनिरयं
खड्गः सकलार्थप्रसाधनः १ । कांस्यशब्द
इवाभाति यस्मिन् खड़्गे हते ध्वनिः । कांस्य-
ध्वनिरयं खड़्गः प्राह नागार्जुनो मुनिः २ ।
मेघशब्द इवालक्ष्यो यत्र खड़्गे हते ध्वनिः । अभ्र-
ध्वनिरयं खड़्गो भर्त्तुः सौभाग्यदायकः । ढक्का
शब्द इवाभाति यस्मिन् खड़्गे हते ध्वनिः । ढक्का
ध्वनिरयं खड़्गः सर्वशत्रुनिसूदनः ४ । काकस्वर
इवाभाति यस्मिन् खड़्गे हते ध्वनिः । काकस्वरोऽयं
खड़्गः स्यात् श्रीयशःकुलनाशनः ५ । तन्त्रीस्वरसमो
यस्मिन् भवेत् खड़्गे हते ध्वनिः । तन्त्रीध्वनिरयं
खड़्गः कुलश्रीधननाशनः ६ । खरस्येव ध्वनिर्यत
पृष्ठ ३२५१
खरध्वनिरयं मतः । श्रीयशोज्ञानविज्ञानजयतेजो
विनाशनः ७ । प्रस्तरस्येव यस्येह हतस्य ध्वनिरुद्भवेत् ।
प्रस्तरध्वनिनामायं स निन्द्यः खड़्गलक्षणे ८ । गभीरतार-
ध्वनिता खड़्गस्याशुभलक्षणम् । उत्तानमन्द्रध्वनिता
खड़्गस्य शुभलक्षणम् । अप्यङ्गनेत्रहीनोऽपि खड़्गः
सुध्वनिरुत्तमः । अन्धः कुरूपो मनुजो यथा भुवि सुगा-
यनः । सर्वलक्षणसम्पन्नः खड़्गो यो ध्वनिवर्जितः । स
निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवर्जितः । नखेन
वाऽथ दन्तेन तथा लौहशलाकया । लोष्टेन शर्कराभिर्वा
ध्वनिविज्ञानमुच्यते” । अथ द्विविधमानम् । “यन्मानं
द्विविधं प्रोक्तं तस्य लक्षणमुच्यते । उत्तमाधमभेदेन भेदो
हि द्विविधो मतः । उत्तमं यद्विशालं स्याल्लघुमानं
प्रकीर्त्तितम् १ । अधमं तच्च यत् खर्वं गुरुमानं प्रकी-
र्त्तितम् २ । तत् पुनस्त्रिविधं प्रोक्तमादिमध्यान्त-
भेदतः । यो मुष्टिविंशतिसमायततीव्रधारो भर्त्तु-
र्भवेत् प्रसरतोऽपि षड़ङ्गुलीभिः । मानेन चाष्टपलिकः
स हि खड़्गमध्येनातिप्रकृष्टमतिकष्टफलं ददाति । यो
द्वादशाष्टनवमुष्टिभिरायतः स्यात् मन्दो भवेत् प्रसर-
तोऽपि चतुर्थभागः । तावत् पलैः परिमितस्तु ततोऽ-
धिको वा खड़्गाधमो धनयशःकुलनाशनाय” । नागा-
र्जुनोऽपि “यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा ।
प्रसरे तच्चतुर्थांशमिति वै मानमुत्तमम् । यावत्यो मुष्टयो
दैर्घ्ये प्रसरे तत्त्रिभागिकः । पलैस्तदर्द्धैस्तुलितः स
खड़्गो मध्य उच्यते । यावत्यो मुष्टयो दैर्घ्ये तुर्य्यांशः
प्रसरे तु तत् । अधमः कोर्त्तितः खड़्गस्तत्समोवाधिकः
पलैः । भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः” ।
भोजस्तु “दीर्घता लघुता चैव खड़्गविस्तीर्णता तथा ।
दुर्भेद्यता सुघटता खड़्गानां गुणसंग्रहः । खर्वता गुरुता
चैव मन्दता तनुता तथा । सुभेद्यता दुर्घटता खड़्गानां
दोषसंग्रहः । इति निखिलमुदारमुक्तमत्र बहुतन्त्रेषु
निकृष्य खड़्गयष्टेः । नृपतिरिति विचिन्त्ययो विधत्ते
स चिरतरां श्रियमुच्छ्रितां लभेत” युक्तिकल्पतरुः ।

तरस् न० तॄ--करणादौ यथायथम् असुन् । १ बले २ वेगे, ३ तीरे,

४ वानरे च । ५ रोगे शब्दार्थचि० । “वन्धाय चिच्छिदु-
रिभास्तरसात्मनैव” “कुचयोर्युगेन तरसा कलिताम्”
“तरसाकृष्य करोति काश्चन” इति च माघः । “कैलास-
नाथं तरसा जिगीषुः” रघुः ।

तरस न० तॄ--असच् । मांसे अमरः । “तरसमयाः पूर्वोक्त-

मागाः” कात्या० श्रौ० २४ । ५ । २० । “तरसमयाः
मांसमयाः” कर्कः । तरस् + अस्त्यर्थे अच् । २ वेगयुक्ते त्रि०

तरसत् पुंस्त्री० तरस इवाचरति तरस + क्विप् शतृ ।

मृगभेदे स्त्रियां ङीप् । “अपस्ममत्तरसन्ती न भुज्युः”
ऋ० १० । ९५ । ८ । “तरसन्नाममृगस्तस्य पत्नी” मा० ।

तरसान पु० तरत्यनेन तॄ--आनच् सुट् च । नौकायां उज्वलद०

तरस्थान न० ६ त० । आतर (पारेर भाड़ा) ग्रहणस्थाने जटा०

तरस्वत् त्रि० तरोऽस्त्यत्र वा मतुप् मस्य वः मत्वर्थे । सान्त-

त्वात् १ वेगयुक्ते भत्वम् २ रोगिणि च । स्त्रियां ङीप् ।
३ चतुर्थमनोः पुत्रभेदे । “तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव
च” हरिवं० ७ अ० ।

तरस्विन् पु० तरस् + अस्त्यर्थे विनि सान्तत्वात् भत्वम् । १ वायौ

२ गरुड़े राजनि० ३ वेगवति, ४ शूरे च त्रि० अमरः ।
“असकृदेकरथेन तरस्विना” “निर्जितेषु तरसा
तरस्विना” रघुः । स्त्रियां ङीप् । “कौमोदकी विष्णुगदा
तरस्विनी” भाग० ८ । १० । २३ ।

तरान्धु पु० तरे तरणे अन्धुरिव गभीरत्वात् । नौकाभेदे वहित्रे त्रिका० ।

तरालु पु० तराय तरणाय अलति पर्य्याप्नोति अल--उन् ।

नौकाभेदे हारा० ।

तरि(री) स्त्री तॄ--करणे इ । १ नौकायाम्, २ वसनपेटके,

इवसनदशायाञ्च हेमच० । “जीर्णा तरिः सरिदतीव गभीर-
नीरा” उद्भटः । “संसारसागररवावर्त्ततरिकाष्ठाय विष्णवे”
भा० अनु० ४७ अ० । वा ङीप् । “तरीषु तत्रत्यमफल्गु
भाण्डम्” माघः ।

तरिक पु० तराय तरणाय हितः बा० ठन् । १ प्लवे त्रिका०

२ नौकायां स्त्री हारा० । तरे तरणार्थं देयशुल्कग्र-
हणेऽधिकृतः ठन् । ३ तरणशुल्कग्रहणाधिकारिणि ।
“तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश”
याज्ञ० । “तीर्य्यतेऽनेन तरो नावादिस्तज्जन्यम्
शुल्कं तद्ग्रहणेऽधिकृतस्तरिकः” मिता० ।

तरिणी स्त्री तरस्तरणं कार्य्यतयास्त्यस्याः इनि ङीप् । नौका-

याम् हेमच० ।

तरिण्य तरिण + गतौ कण्ड्वा० यक् प० सक० सेट् ।

तरिण्यति अतरण्यी(णी)त् ।

तरिता स्त्री तरो जातोऽस्याः तारका० इतच् । १ तर्जन्यां

शब्दच० । २ गृञ्जने । (गाँजा) तन्त्रम् “संविदा
कालकूटञ्च ताम्रकूटञ्च धुस्तुरम् । अहिफेनं खर्जुरसस्ताड़िका
तरिता तथा” कुलार्णवतन्त्रम् ।
पृष्ठ ३२५२

तरित्र न० तरत्यनेन तॄ--ष्ट्रन् । तरणसाधने नौकादौ ।

“अतरित्रानिव जले बाहुभिर्मामका रणे । पश्यन्तस्ते
परांस्तत्र” भा० उ० ६२ अ० ।

तरिरथ पु० तरेः रथ इव चालकत्वात् । अरित्रे हारा० ।

तरी स्त्री तरि + ङीप् । १ तरिशब्दार्थे २ धूमे च त्रिका०

३ द्रोण्यां जटाधरः । ४ वस्त्रदशायां मेदि० ।

तरीयस् त्रि० अतिशयेन तरीता ईयमुन् तृणो लोपः ।

अतिशयेन तारके “स नभस्तरीयानिषरः परिज्मा” ऋ०
५ । ४१ । १२ । स्त्रियां ङीप् इष्ठन् । तरिष्ठोऽप्युक्तार्थे त्रि० ।

तरीष पुंन० । तॄ--ईषन् । १ शुष्कगोमये २ नौकायाञ्च उज्वलद०

३ शोभनाकारे भेले ४ व्यवसाये उणा० ५ समुद्रे ६ समर्थे च
संक्षिप्तसा० । ७ स्वर्गे पु० ८ इन्द्रकन्यायां स्त्री मेदि० ।

तरीषन् पु० तॄ--ईषन् छन्दसि नकारस्य नेत्त्वम् । तरणे

“विश्वा आशास्तरीषणि” ऋ० ५ । १० । ६ “तरीषणि तरणे”
भा० “बहुलवचनात्नानोऽल्लोपः” माधवः ।

तरु पु० तरन्त्यनेन नरकमारोपकाः तॄ--उन् । १ वृक्षे अमरः ।

“तरवोऽभिनेदुः” भाग० १ । २ । ३ “मुनिर्वनतरुच्छायां देव्या
तया सह शिश्रिये” रघुः ।
“तरुषु चुचुवुरुच्चैः पक्षिणश्चानुकूलाः” भट्टिः ।
“उपरिजतरुजानि याचमानाः” माघः । २ तारके त्रि०
“भूर्भुवःस्वस्तरुस्तारः” विष्णुस० भूर्भुवःस्वस्तरुः
लोकत्रयतारकः” भा० ३ तरुविकारे च । “संजर्मुराणस्तरुभिः
सुते गृभम्” ऋ०५ । ४४ । ५ “तरुभिस्तरुविकारैर्ग्रहैः” ।

तरुकूणि पु० तरौ कूणयति कूणि--इन् ७ त० । वाग्गुद

खगे त्रिका० ।

तरुक्ष त्रि० तॄ--वा० उक्षन् । १ तारके २ गवाश्वादीनां पालना-

धिकृते च । “विप्रस्तरुक्ष आददे” ऋ० ८ । ४६ । ३२ । “तरुक्षे
गवाश्वादीनां तारके गवाद्यधिकृते वा” भा० ।

तरु(ष)खण्ड पु० तरूणां समूहः तरु + ख(ष)ण्ड । वृक्षसमूहे

एवं वृक्षख(ष)ण्डादयोप्यत्र । “द्रुम(ष)खण्डवनं दृष्ट्वा
रामः सुग्रीवमब्रवीत् । एष मेघ इवाकाशो वृक्षख-
(ष)ण्डः प्रकाशते” रामा० कि० १२ अ० । “तरुख(ष)-
ण्डमध्ये” पञ्चत० । कदलीख(ष)ण्डः । भा० वा०

तरुजीवन न० जीव्यतेऽनेन जीव--क्ररणे ल्युट् ६ त० ।

वृक्षमूले शब्दच० ।

तरुण न० तृ--उनन् । १ कुब्जपुष्पे (सेओति) मेदि० २ स्थूल-

जीरके ३ एरण्डवृक्षे पु० राजान० । ४ यूनि ५ नवे च त्रि०
मेदि० “स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा”
भा० वि० ३३ अ० । “तरुणं सर्षपशाकं नवोदनं पिच्छि-
लानि च दधीनि” छन्दोम० । “वासो वसाना तरुणार्क-
रागम्” कुमा० । “स्मृताऽपि तरुणातपं करुणया
हरन्ती नृणाम्” रसगङ्गा० । “तरुणशकलमिन्दोर्वि-
भ्रती शुभ्रकान्तिः” सरस्वतीध्यानम् । तरुणस्य भावः
इमनिच् । तरुणिमन् तरुणभावे पु० । “वतेन्दुवदना-
तनौ तरुणिमोद्गमो मेदते” काव्यप्र० । त्व तरुणत्व न० ।
तल् तरुणता स्त्री ष्यञ् तारुण्य न० तत्रार्थे । “तारु-
ण्यस्य विलासः” सा० द० ।

तरुणज्वर पु० कर्म्म० । “आसप्तरात्रं तरुणं ज्वरमायुर्मनी-

षिणः” इति चक्रद० उक्ते सप्तरात्रमध्यजाते ज्वरे ।

तरुणदधि न० कर्म्म० । सद्योजाते दधनिं । “शुष्कं

मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं
निद्रा सद्यःप्राणहराणि षट्” चाणक्यम् ।

तरुणाय अतरुणस्तरुणो भवति भृशा० अभूततद्भावे क्यङ्

अतरुणस्य तरुणताप्राप्तौ अक० आत्म० सेट् । तरुणायते
अतरुणायिष्ट । “उडुम्बररसं पीत्वा वृद्धोऽपि तरुणायते”
सुश्रुतः । “वसुदेवो जरां त्यक्त्वा वृद्धोऽपि तरुणायते”
हरिवं० २७ अ० ।

तरुणी स्त्री तरुण + मध्यमवयोवाचित्वात् ङीष् । १ युबत्यां

स्त्रियां “व्याकीर्णमाल्यकवरां कवरीं तरुण्याः” ।
“स्तनौ तरुण्यः परिवव्रुरेनम्” माघः । २ घृतकुमार्य्यां
३ दन्तीवृक्षे ४ चिडानामगन्धद्रव्ये ५ कुब्जवृक्षे (सेउती) च
राजनि० ।

तरुणीकटाक्षमाल पु० तरुणीनां कटाक्षाणां माला यत्र

प्रियत्वात् । १ तिलकवृक्षे राजनि० । ६ त० । २ तरुणी-
कटाक्षाणां श्रेणौ च स्त्री ।

तरुतल न० ६ त० । १ वृक्षमूले । “नोच्चैर्यदा तरुतलेषु

ममुस्तदानीम्” माघः । २ तरुस्वरूपे च ।

तरु(रू)तृ त्रि० तॄ--तृच् “ग्रसितस्कभितेत्यादिना” पा० नि०

उट् ऊट् वा । तारके । “सहाबालं तरुतार रथानाम्”
“तरुतारं तारयितारम्” सिरु० १० । ८ । “यो विप्रै-
र्वाजं तरुता” १ । १२९ । २ ।

तरुतु(तू)लिका स्त्री तरौ तोलयति दोलयति वा तनुम्,

तुल--उन्मितौ दुल--उत्क्षेपे वा ण्वुल् टाप् कापि
अतइत्त्वम् पृषो० । (वादुड) खगभेदे हारा० । तस्य वृक्षे
स्वदेहस्य तो(दो)लनात् तथात्वम् ।

तरुत्र त्रि० तॄ--बा० उत्र । तारके । “साहवास्तरुत्रो

अत्यन्निकृष्टीः” ऋ० ४ । २१ । २ “तरुत्रस्तारकः” भा० ।
पृष्ठ ३२५३

तरुनख पु० तरोर्नख इव क्षतसाधनत्वात् । कण्टके हारा०

तरुभुज् पु० तरुं भुङ्क्ते भुज--क्विप् ६ त० । (परगाछा)

वन्दाके राजनि० ।

तरुमृग पु० स्त्री तरौ मृग् इव तत्र धावकत्वात् । वानरे

शब्दच० स्त्रियां जातित्वात् ङीष् ।

तरुराग न० तरूणां रागोरक्तता यस्मात् ५ ब० । नवपल्लवे हारा० ।

तरुराज पु० तरूणां राजा उच्चत्वात् टच् समा० ।

१ तालवृक्षे राजनि० । २ तरुश्रेष्ठवृक्षमात्रे च । “देवोप-
भोग्यमेतद्धि तरुराजसमुद्भवम्” हरिवं० १२६ अ० ।
आर्षे क्वचित् न टच् । “पारिजातस्य भद्रं ते
तरुराज्ञोमहात्मनः” हरिवं० १२६ अ० ।

तरुरुहा स्त्री तरुषु रोहति रुह--क । १ वन्दाके (परगाछा)

राजनि० । २ वृक्षरोहिमात्रे त्रि० ।

तरुरोहिणी स्त्री तरौ रोहति रुह--णिनि ङीप् । १ वन्दाके

२ वृक्षरोहिमात्रे त्रि० । स्त्रियां ङीप् ।

तरुवल्ली स्त्री तरोर्वल्लीव । वन्दाके राजनि० ।

तरुविलासिनी स्त्री तरोर्विलासिनीव । नवमल्लिकायाम् । शब्दार्थचि० ।

तरुश त्रि० तरुः अस्त्यत्र लोमा० श । तरुयुक्ते

तरुशायिन् त्रि० तरौ शेते शी--णिनि । खगमात्रे हारा० स्त्रियां ङीप्

तरुष त्रि० तॄ--बा० उषन् । तारके । “भूरर्यः पतस्यान्तरस्य

तरुषः” ऋ० ६ । १५ । ३ । “तरुषंस्तरीता” भा० ।

तरुष हिंसायां बधकर्म्मसु “वनुष्यति तरुष्यति” निघण्टूक्तेः

दिवा० प० सक० सेट् । तरुष्यति अतरोषीत् । “त्वं तूर्य्य
तरुष्यतः” ८ । ९९ । ५ । “तरुष्यतो बाधकान्” भा० ।
“वनुष्यतिः हन्तिकर्मा तरुष्यतिरप्येवंकर्मा” निरु० ५ । २
“इन्द्रेण युजा तरुषेम वृत्तमित्यपि निगमो भवति”
निरुक्तधृतश्रुतिः वेदे गणव्यत्ययः ।

तरुष् न० तरुष्यति हिनस्त्यत्र तरुष--आधारे क्विप् । युद्धे

“तनूरुचा तरुषि यत् कृण्वैते” ऋ० ६ । २५ । ४ “तरुषि
युद्धे” भा० ।

तरुस् त्रि० तॄ--उसि । तारके । “कृत्वा दग्धश्च तरुधः” ऋ० ३ । २ । ३ “तरुषस्तारकः” भा०

तरुसार पु० ६ त० । १ कर्पूरे हारा० । ६ त० २ वृक्षसारमात्रे

च । “सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसार-
मयाणि” सुश्रु० ।

तरुस्था स्त्री तरौ तिष्ठति स्था--क । वन्दाके (परगाछा) राजनि० ।

तरूट पु० तरोः उट इव । उत्पलकन्दे “तरूदो गुरविष्टम्भी

शीतलश्च मतो बुधैः” राजबल्लभः ।

तरूषस् त्रि० तॄ--बा० ऊषस् । १ तरणकुशले २ आपदुद्धारके

च । “त्वं न इन्द्र राया तरूषसोग्रम्” ऋ० १ । १२९ । १०
“तरूषसा तरणकुशलेनास्मानापद्भ्य उत्तरीतुंशक्तेन” भा०

तर्क दीप्तौ अक० आकाङ्क्षायाञ्च वितर्के सक० चुरा० उभ० सेट् ।

तर्कयति ते अतितर्कत् त “एतत्तर्कय चक्रवाकहृदयाश्वा-
साय” प्रसन्नरा० । “तथा तर्कयामि यथानेनाचिरप्रव्रजि-
तेन भवितव्यम्” मृच्छ० । “दक्षिणेनाथ वामेन कतरेण
स्विदस्यति । इति मां सङ्गताः सर्वे तर्कयिष्यन्ति
शत्रवः” भा० वि० ६१ अ० ।
  • वि + उत्प्रेक्षायां “तन्नूनं मृत्युमाप्स्यतीति वितर्कयामि”
पञ्चत० ।

तर्क पु० तर्क--भावे अच् । १ आकाङ्क्षायां २ व्यभिचारशङ्कानिव-

र्त्तके ऊहभेदे अविज्ञातेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थे
ऊहे ३ व्याप्यारोपात् व्यापकप्रसञ्जने । ४ आगमा-
विरोधिन्याये ५ आगमार्थपरीक्षणे ६ मीमांसारूपविचारे ।
७ मानसज्ञानभेदे । ८ स्वबुद्ध्योहमात्रे “अचिन्त्याः खलु ये
भावाः न तांस्तर्केण योजयेत् । नाऽप्रतिष्ठिततर्केण गम्भी-
रार्थस्य निश्चयः” वेदान्तप्र० । “आर्षं धर्मोपदेशञ्च धर्मशा-
स्त्राविरोधिना । यस्तर्केणानानुसन्धत्ते स धर्मं वेद
नेतरः” मनुः “तर्काप्रतिष्ठानात्” शा० सू० । करणे घञ् ।
८ न्यायशास्त्रे “प्रायस्तर्कमधीते तनुते कुतर्कान्निबन्धम-
प्यत्र” दीधितिः “सुहृदस्तर्काः समस्ताः स्थमे” कुल्लू० ।
“यत्काव्यं मधु वर्षिधर्षितपरास्तर्केषु यस्योक्तयः” नैष० ।
“तर्के वा मृशकर्कशे मम समं लीलायते भारती” प्रसन्नरा० ।
“गदाधरविनिर्म्मिता विषमदुर्गतर्काटवी” गदा० ९ मीमां-
साशास्त्रे १० अर्थवादे कर्कः । “अक्ताः शर्करा उपदधातीति
विधिः श्रूयते । तत्राञ्जनसाधनं घृतं तैलं वा तन्मध्ये
केनाक्ता इति संशये तेजो वै घृतमित्यर्थवादात् घृतेनाक्ता
इति निर्णीयते । अतस्तर्कोऽर्थवादः । तर्को मीमांसेति
कल्पतरुकारः तर्कलक्षणं गौ० सू० भाष्ये उक्तं
यथा “अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञा-
नार्थमूहस्तर्कः” गौ० सू० ।
“अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज्जायते जानीये-
ममर्थमिति, अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्भौ
विभागेन विमृशति किं स्विदित्यमाहो स्विन्नेत्थमिति
विमृश्यमानयोर्धर्मयोरेकं कारणोपपत्त्याऽनुजानाति सम्भ-
वत्यस्मिन् कारणं प्रमाणं हेतुरिति, कारणोपपत्त्या
स्यादेवमेतन्नेतरदिति तत्र निदर्शनम् योऽयं ज्ञात्वा
पृष्ठ ३२५४
ज्ञातव्यमर्थं जानीते तञ्च भो जानीयेति जिज्ञासा,
स किमुत्पत्तिधर्मकोऽनुत्पत्तिधर्मक इति विमर्शः, विमृश्य-
मानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुप-
पद्यते तमनुजानाति, यद्ययमनुत्पत्तिधर्मकस्ततः स्वकृ-
तस्य कर्मणः फलमनुभवति ज्ञाता, दुःखजन्यप्रवृत्ति-
दोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणमुत्तरो-
त्तरापाये तदनन्तराभावादपवर्ग इति स्यातां संसाराप-
वर्गौ, उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम्, उत्पन्नः खलु
ज्ञाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति नास्येदं
स्वकृतस्य कर्मणः फलम् उत्पन्नश्च भूत्वा न भवतीति तस्या-
विद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो
नास्ति, तदेवमेकस्यानेकशरीरयोगः शरीरादिवियोग-
श्चात्यन्तं न स्यादिति । यत्र कारणमनुपपद्यमानं पश्यति
तत्रानुजानाति, सोऽयमेवंलक्षण ऊहस्तर्क इत्युच्यते ।
कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति
अनवधारणात् अनुजानात्ययमेकतरं धर्मं कारणोपपत्त्या
न त्ववधारयति न व्यवस्यति न निश्चिनोति एवमेवेद-
मिति । कथं तत्त्वज्ञानार्थ इति, तत्त्वज्ञानविषयाभ्यनुज्ञा-
लक्षणानुग्रहोद्भावितात् प्रसन्नादनन्तरप्रमाणसामर्य्यात्
तत्त्वज्ञानमुत्पद्यत इत्येव तत्त्वज्ञानार्थ इति । सोऽयं
तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात्
प्रमाणसहितो वादे उपदिष्ट इत्यविज्ञाततत्त्वमनुजाना-
तीति यथा सोऽर्थो भवति तस्य यथाभावस्तत्त्वमविपर्य्यय
यथातथ्यम्” वात्स्यायनभाष्यम् ।
विश्वनाथवृत्तौ चान्यथा सूत्रमिदं व्याख्यातं यथा
“तर्क इति लक्ष्यनिर्देशः कारणोपपत्तित ऊह इति
लक्षणम् अविज्ञाततत्त्वेऽर्थे तत्त्वज्ञानार्थमिति प्रयोजन-
कथनम् कारणं व्याप्यं तस्योपपत्तिरारोपस्तस्मात् ऊह
आरोपः अर्थाद्व्यापकस्य, तथाच व्यापकाभाववत्त्वेन
निर्णीते व्याप्यस्याहार्य्यारोपाद्योव्यापकस्याहार्य्यारोपः स
तर्कः । यथा निर्वह्नित्वारोपान्निर्धूमत्वारोपः निर्वह्निः
स्यान्निर्धूमः स्यादित्यादिः । ह्रदो निर्वह्निः स्यान्निर्धूमः
स्यादित्यादिवारणाय व्यापकाभाववत्त्वेन निर्णीत इति ।
निर्वह्निः स्यात् अद्रव्यं स्यादित्यादिवारणाय व्यापस्येति
तद्व्याप्यारोपाधीनस्तदारोप इत्यर्थलाभाय व्यापकेति ।
न चानुमानादितोऽर्थसिद्धेस्तर्कोव्यर्थ इति वाच्यम् अप्रयो-
जकत्वादिशङ्काकलङ्कितेन हेतुनार्थस्य साधयितुमशक्य-
त्वात्तदेतदुक्तमविज्ञाततत्त्वेऽर्थे तत्त्वज्ञानार्थमिति तत्त्व-
निर्णयार्थमित्यर्थः । यत्र नाप्रयोजकत्वाद्याशङ्का तत्र
नापेक्ष्य एवेति भावः । परे तु ऊह इत्येव लक्षणं
ऊहत्वञ्च मानसत्वव्याप्योजातिविशेषस्तर्कयामीत्यनुभवसिद्धः ।
तर्कः किं स्वत एव निर्णायकः परम्परया वेत्यत आह
कारणेति कारणस्य व्याप्तिज्ञानादेरुपपादनद्वारेणेत्यर्थः
तथा च धूमो यदि वह्निव्यभिचारी स्यात् वह्निजन्यो न
स्यादित्यनेन व्यभिचारशङ्कानिरासे निरङ्कुशेन व्याप्ति-
ज्ञानेनानुमितिरिति परस्परयैवास्योपयोग इत्याहुः । स
चायं पञ्चविधः आत्माश्रयान्योन्याश्रयचक्रकानवस्थात-
दन्यवाधितार्थप्रसङ्गभेदात् । स्वस्य स्वापेक्षित्वेऽनिष्टप्रसङ्ग
आत्माश्रयः स च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा यथा
यद्ययं घट एतद्घटजन्यः स्यात्तदैतद्घटानधिकरणक्षणोत्तर-
वर्त्ती न स्यात्, यद्ययं घट एतद्घटवृत्तिः स्यात् एतद्-
घटव्यापो न स्यात् यद्ययं घट एतद्घटज्ञानाभिन्नः
स्यात् ज्ञानमामग्रीजन्यः स्यात् एतद्घटभिन्नः स्यादिति
वा सर्वत्रापाद्यम् तदपेक्षापेक्षित्वनिबन्धनोऽनिष्टप्रसङ्गो-
ऽन्योन्याश्रयः सोऽपि पूर्ववत्त्रेधा । तदपेक्ष्यापेक्ष्यापेक्षि-
त्वनिबन्धनोऽनिष्टप्रसङ्गःचक्रकं चतुःकक्षादावपि स्वस्य
स्वापेक्ष्यापक्ष्यापेक्षित्वसत्त्वान्नाधिक्यम् । अस्यापि पूर्वव-
त्त्रैविध्यम् । अव्यवस्थितपरम्परारोपाधीनानिष्टप्रसङ्गो-
ऽनवस्था यथा यदि घटत्वं घटजन्यत्वव्याप्यं स्यात्
कपालसमवेतत्वव्याप्यं न स्यात् । तदन्यबाधितार्थप्रसङ्गस्तु धूमो
यदि बह्निव्यभिचारी स्याद्वह्निजन्यो न स्यादित्यादिः ।
प्रथमोपस्थितत्वोत्सर्गविनिगमनाविरहलाघवगौरवादिकन्तु
प्रसङ्गानात्मकत्वात् न तर्कः किन्तु प्रमाणसहकारि-
त्वरूपसाधर्म्यात्तथा व्यवहार इति संक्षेपः” ।
तर्कगन्थे जगदीशोक्तं तर्कविभागलक्षणादिकं यथा ।
“स चायं तर्कः पञ्चविधः आत्माश्रयान्योऽन्याश्रयचक्र-
कानवस्थाप्रमाणबाधितार्थकप्रसङ्गभेदादित्याचार्य्याः । तत्र
स्वापेक्षापादकः प्रसङ्ग आत्माश्रयः । अपेक्षा च
ज्ञप्तावुत्पत्तौ स्थितौ च ग्राह्या तत्राद्या, यथा एतद्घट-
ज्ञानं यद्येतद्घटज्ञानजन्यं स्यादेतद्घटज्ञानभिन्नं स्यादिति ।
द्वितीया घटोऽयं यद्येतद्घटजनकः स्यात् एतद्घट-
भिन्नः स्यादिति तृतीया चायं घटो यद्येतद्घटवृत्ति-
स्यत्तथात्वेनोपलभ्येतेति स्वापेक्षापेक्षितत्वनिबन्धनः
प्रसङ्गोऽन्यान्याश्रयः यथा चायं घटो यद्येतद्घटजन्यः
स्यादेतद्घटभिन्नः स्वात् इति उपत्तौ स्थितौ च स्वयमुदा-
हार्य्यम् । स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः
पृष्ठ ३२५५
प्रसङ्गश्चक्रकः पूर्वोक्त एवापादके जन्यपदान्तरमन्तर्भाव्योदा-
हरणम् । अपेक्षा त्वत्र साक्षात्परम्परासाधारणी ग्राह्या ।
अनवस्था पुनरप्रामाणिकी न तु प्रवाहमूलकप्रसङ्गः ।
यथा घटत्वं यदि यावद्घटहेतुवृत्ति स्यात् घटजन्य-
वृत्ति न स्यादित्यर्थः । उक्तचतुष्कान्यः प्रसङ्गः प्रमाण-
बाधितार्थकप्रसङ्गः सोऽपि द्विविधो व्याप्तिग्राहको
विषयपरिशोधकश्च तत्राद्यो यथा घूमो यदि वह्नि
व्यभिचारी स्यात्तदा वह्निजन्यो न स्यादिति द्वितीयस्तु
पर्वतो यदि निर्वह्निः स्यान्निर्धूमःस्यादित्यादिः ।”
धूमादेर्व्यभिचारशङ्कानिवृत्तिद्वारा विषयस्य वह्न्यादेः
निश्चायकत्वेन परिशोधकत्वमित्यवधेयम् ।
सोऽयं तर्क एकादशविध इति प्राचीननैयायिकाः स्वीचक्रुः
तदनुसारेण सर्व० स० उक्तम् “स चैकादशविधः व्याघातात्मा-
श्रयेतरेतराश्रयचक्रकानवस्थाप्रतिवन्दिकल्पनालाघवकल्पना
गौरवोत्सर्गापवादवैजात्यभेदात्” इति व्याघातादीना-
मप्रसञ्जनरूपत्वात् न तर्करूपत्वमिति किन्तु पञ्चविध-
त्वमिति नव्याः । एतन्मतानुसारेणैव वृत्तौ इतरेषां मुख्य-
तर्कत्वनिरासेन भाक्तर्कत्वमुक्तम् द्रष्टव्यम् ।
तर्कस्य च व्यभिचारशङ्कानिवर्त्तकतयानुमानाङ्गत्वं तच्च
खण्डनखण्डखाद्ये निराकृतं यथा
“नापि विपक्षे वाधकस्तर्को वाच्यः तर्कस्य व्याप्तिमूलत्वा-
भ्युपगमे अनवस्थाप्रसङ्गात् । तदनभ्युपगमे
मूलशैथिल्येन तर्काभासत्वापातात् । अथ ब्रूषे न शक्यमिदं
वक्तुं तथा ह्यग्निधूमव्यभिचारशङ्कायां बाधकस्तर्कोऽय-
मभिधीयते यदि धूमोऽग्निं व्यभिचरेदकारणकः सन्नित्यः
स्यात् न स्यादेव वा स चायमनुत्तरस्तर्कः तत्र शङ्कायां
व्याघातापत्तेः । तदेव ह्याशङ्क्यते यस्मिन्नाशङ्क्यमाने
स्वक्रियाव्याघातादयोदोषा नावतरन्तीति लोकमर्य्यादा
एवं सर्वत्रानुत्तरस्तर्को बाघकोऽभिधेय इति चेत् मैवम्
किमित्येवं शङ्कितव्यं तद्धेतुफलभाव एव न भविष्यति ।
एवं तु शङ्कितव्यम् अग्निं विहायान्यस्मादपि हेतोरय-
मुदेष्यतीति । न च वाच्यमेवं हि सति धूमस्यैक-
जातित्वं न स्यादिति क्वचिदिन्द्रियजन्यत्वे क्वचिदनु-
मानादिजन्यत्वेऽपि ज्ञानैकजात्यवत्तदुपपत्तेः । तत्रे-
न्द्रियादोनामवान्तरसामान्ये साक्षात्कारित्वादौ प्रयो-
जकत्वं न ज्ञानतायामिति चेन्न ज्ञानत्वस्याकस्मिकत्वपरि-
हारार्थं तत्कारणस्यानुगतस्य भवतावश्यं वक्तव्यत्वात् ।
धूमेऽपि वह्नेर्विशेष एव प्रयोजकत्वस्य तद्वच्छङ्कितुं शक्य-
त्वात् । न दृश्यते तावदग्निप्रयोज्यो धूमे विशेष
इति च न वाच्यम् एवं हि सति तददर्शनस्यापाततो
हेत्वन्तरप्रयोज्यावान्तरजात्यदर्शनेनायोग्यतया विकल्प्यत्वा
दुपपत्तेः । यदा तु हेत्वन्तरप्रयोज्यो धूमस्य विशेषो
द्रक्ष्यते तदासौ विकल्पिष्यत इति सम्भावनायादुर्निवा-
रत्वात् । अस्त्यात्ममनोयोगोऽनुगतं कारणं ज्ञानोत्-
पत्ताविति चेन्न यद्यात्ममनोयोगादुत्पद्यमानं ज्ञानं
स्यादिच्छादयोऽपि ज्ञानं प्रसज्येरन् । यदि त्वदृष्टवि-
शेषो वा शक्तिभेदो वा ज्ञानत्वजातिर्वा ज्ञानप्रागभावो वा
तत्रानुगतं कारणमुच्यते तदा तदितरत्रापि वह्नि-
व्यभिचारे धूमस्यैकजात्यप्रयोजकतया शक्यत एव शङ्कि-
तुम् दृष्टे व्यभिचारे युक्तमदृष्टादेरैकजात्यपरिकल्पनमिति
चेत् अस्तु दृष्टे तन्निश्चयः अत्रापि व्यभिचारो न द्रक्ष्यत
इत्यत्र नियामकाभावात् शङ्किष्यते एवं शङ्कमानस्य
भवतो न क्वचिदनुमानं स्यादिति प्रतिवाद्यात्माद्यनुमाना-
दिव्यतिरेकेण कथायामेव प्रवृत्त्यनुपपत्त्या स्वयं स्वीकर्त-
व्येष्वनुमानेष्वेतादृशशङ्काक्रमणात् सएव व्याघात इति
चेन्न धूमवद्वह्नेरपि वह्निकारणविशेषानुमानस्यैव सति
सदनुमानत्वप्रसङ्गात् सामग्रीसाम्येन प्रमाऽप्रमावैचि-
त्र्य्यानुपपत्तेः । साधारणधर्मदर्शनविशेषादर्शनानां
सत्यपि शङ्कायाश्चानुदये सामग्र्यां सत्यामपि कार्य्यानु-
दयात्परप्रतिपत्त्युत्पादानार्थं वचनादिरूपां प्रतिपत्ति-
सामग्रीमुत्पादयितुं यतमानस्य भवतोऽपि स्वक्रियाव्याघात
स्तुल्यः । व्याघातस्यैव विशेषत्वात् तद्दर्शनेन शङ्कासाम-
ग्र्येव नास्ति प्रत्यक्षे कुतो व्याघातसाम्यमिति चेन्न तद्धि
न तावत् आहार्य्यादिकारणाज्जायमानमेष्टव्यं
कूटविषयस्य तस्यातिप्रसञ्जकत्वात् । कूटभिन्नः प्रसञ्जकः
प्रमितस्यैव स्यादिति चेन्न तस्य तर्कावसरे निरस्यत्वात् ।
तस्माद्यदैतद्व्याघातरूपस्य विशेषस्य दर्शनं शङ्काप्रतिपक्ष-
भूतमुच्यते तत् किं? प्रमाणात् कुतश्चिदुपजायमानं वक्त-
व्यम् तर्काद्वा । यदि प्रथमः शङ्कास्तित्वमपि तेनैव प्रमाणे-
नोपेयं शङ्कायां सत्यां व्याघातात् यदि च शङ्कां विनापि
व्याघातः तदा शङ्क्यमानाशङ्क्यमानयोर्व्याघातस्य साम्यं
सिद्धमेव । भवतु शङ्कायामपि तत्प्रमाणं किमेतावता
प्रथमोपजातशङ्कामवलम्ब्यावस्थितस्य व्याघातरूपस्य विशे-
षस्य दर्शनात्तु शङ्कान्तरं नोत्पद्यत इति चेन्न व्याघात-
सत्त्वकाले तदवलम्बिकया शङ्कयैव शङ्क्यमानव्यभिचारता
तस्याः शङ्कायाव्युपरमे च तदवलम्बिनो व्याघातरूपस्य
पृष्ठ ३२५६
निशेषस्याभावात् कः शङ्कान्तरोत्पत्तेर्वारयितेति वक्तव्यम
मा नामास्तु तदा व्याघातात्मा विशेषस्तदवगमस्तदाहितो
वा संस्कारस्तावदस्ति । विशेषावगमतत्संस्कारौ च
शङ्काविरोधिनौ । ननु स्वरूपेण क्वचिदपि विशेषस्याव-
स्थानं तथेति चेन्न अयावदाश्रयभाविनो विशेषस्य पूर्व-
स्थितस्य यद्दर्शनं तदाहितो वा संस्कारः तस्य कालान्तरे
तत्प्रतिधर्मसंशयविरोधित्वे अवयविपाकपक्षे कुम्भस्य
परमाणुपाकपक्षे परम्परया तदारम्भकस्य परमाणोः
पूर्वं श्यामतया ज्ञातस्य कालान्तरे सम्भवितया कस्य
पाकजन्यरूपविशेषवत्तायां संशयो न स्यात् । यदि च
शङ्कायां व्याघातस्तदा शङ्काश्रयस्य विशेषरूपस्य व्याघातस्य
दर्शनाच्छङ्कायां शङ्कान्तरं मा भूत् । यदि तु व्यभिचारा-
श्रयस्तदा व्यभिचारः स्यादेव व्याघाताश्रयस्य व्यभिचार-
स्यापि प्रमित्यापत्तेः । अनादिसिद्धव्याप्तिकास्ते तर्का
इति चेन्न तद्बुद्धेः प्रमितित्वासिद्धेः शरीरे स्वात्म-
प्रत्ययस्य तादृशस्यात्मप्रमात्वोपगमात् अनादित्वासिद्धे-
श्चोभयत्राविशेषात् । नापि यद्यत्र व्यभिचारः शङ्क्येत
तदा व्याघातः स्यादित्येवं रूपात्तर्काद्व्याधातावगमः
व्याघातप्रतिपादकस्य तर्कस्य मूलशथिल्ये तर्काभासत्वा-
पातात् तादृशस्यापि व्याघातोपनायकत्वे व्याघातापत्तेश्च
साम्यं शक्यत एव तर्काभासाद्भवतोऽपि व्याघात उपनेतुम् ।
अथ तर्कस्य व्याप्तिर्मूलभूताभ्युपगम्यते तत्रापि व्यभिचार-
शङ्कायां पुनरनवस्थैव तत्रापि व्याघातापादने पुनरित्य-
नवस्थैव । “तस्मादस्माभिरप्यस्मिन्नर्थे न खलु दुष्पठा ।
त्वद्गाथैवान्यथाकारमक्षराणि कियन्त्यपि । व्याघातो
यदि शङ्कास्ति न चेच्छङ्का ततस्तराम् । व्याघाता-
वधिराशङ्का तर्कः शङ्कावधिः कुतः ।” अव्यभिचार-
श्चैकपरित्यागव्यवच्छेदेनापरान्वयः समकालदृष्टे नष्टे-
ऽदृष्टः शङ्क्यत इत्याहुः” ।
तर्कस्य यथा व्याप्तिनिश्चयोपयोगिता तथा अनु० चि०
पूर्वपक्षीकृत्य न्यरूपि यथा
“अत्रोच्यते व्यभिचारज्ञानविरहसहकृतं सहचार-
दर्शनं व्याप्तिग्राहकम् ज्ञानं च निश्चयः शङ्का च सा च
क्वचिदुपाधिसन्देहात् क्वचिद्विशेषादर्शनसहितसाधा-
रणधर्मदर्शनात् तद्विरहश्च क्वचिद्विपक्षबाधकतर्कात्
क्वचित् स्वतः सिद्धएव । तर्कस्य व्याप्तिग्रहमूलकत्वेनानव-
स्थेति चेत् न यावदाशङ्कं तर्कानुसरणात् यत्र च
व्याघातेन शङ्कैव नावतरति तत्र तर्कं विनैव व्याप्तिग्रहः
तथाहि घूभो यदि वह्न्यसमवहिताजन्यत्वे सति
वह्निसमवहिताजन्यः स्यान्नोत्पन्नः स्वादित्यत्र किं घूमोऽ-
वह्नेरेव भविष्यति क्वचिद्वह्निं विनापि भविष्यति अहेतु-
कएव वोत्पत्स्यत इति शङ्का स्यात् सर्वत्र स्वक्रियाव्या-
धातः स्यात् यदि हि गृहीतान्वयव्यतिरेकं हेतुं विना
कार्य्योत्पत्तिं शङ्केत तदा स्वयमेव घूमार्थं वह्नेः, तृप्त्यर्थं
भोजनस्य, परप्ररिपत्त्यर्थं शब्दस्य चोपादानं नियमतः
कथं कुर्य्यात् तेन विनापि तत्सम्भवात् तस्मात्तत्तदुपादान-
मेव तादृशशङ्काप्रतिबन्धकं, शङ्कायां न नियतोपादानं,
नियतोपादाने च न शङ्का तदिदमुक्तं “तदेव ह्याशङ्क्यते
यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातो न भवतीति” नहि
सम्भवति स्वयं वह्न्यादिकं धूमादिकार्य्यार्थं नियमत
उपादत्ते तत् कारणं तन्नेत्याशङ्क्यते चेति एतेन
व्याधातो विरोधः सच सहानवस्थाननियत इति तत्राप्य-
नवस्थेति निरस्तं स्वक्रियायाएव शङ्काप्रतिबन्धकत्वात्
अतएव “व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम् ।
व्याधातावधिराशङ्का तर्कः शङ्कावधिः कुतः” इति खण्डन-
कारमतमप्यपास्तम् । नहि व्याघातः शङ्काश्रितः किन्तु
स्वक्रियैव शङ्काप्रतिबन्धिकेति न वा विशेषदर्शनात् क्कचित्
शङ्कानिवृत्तिरेव स्यात् न चैतादृशतर्कावतारो भूयोदर्शनं
विनेति भूयोदर्शनादरः नतु स स्वतएव प्रयोजकः
अतएव न तदाहितसंस्कारो न मानान्तरं तर्कस्याप्रमात्वात्
तच्च न प्रत्यक्षं व्याप्तिज्ञाने हेतुः तदभावेऽपि शब्दानुमा-
नाभ्यां तद्ग्रहात् । ननु सहचारदर्शनव्यभिचारादर्शनव-
द्व्यभिचारशङ्काविरहानुकूलतर्कयोर्ज्ञानं व्यभिचारिसाधा-
रणमिति न ततोऽपि व्याप्तिनिश्चयः इति चेन्न स्वरूपस-
तोरेव तयोर्व्याप्तिग्राहकत्वात् सत्तर्काद्व्याप्तिप्रमा तदाभा-
सात्तदप्रमा विशेषदर्शनसत्यत्वासत्यत्वाभ्यां पुरुषज्ञानमिव ।
अपरे तु यत्र तर्के व्याप्त्यनुभवोमूलं तत्र नर्कान्तरा-
पेक्षा यत्र तु व्याप्तिस्मरणं हेतुः तत्र न तर्कान्तरापेक्षेति
नानवस्था अस्ति च जातमात्राणामिष्टानिष्टसाधनतानु-
मितिहेतुव्याप्तिस्मरणं तदानीं व्याप्त्यनुभावकाभावात्
तन्मूलानुभवमूला चाग्रेऽपि व्याप्तिस्मरणपरम्परेति ।
यत्त्वनादिसिद्धकार्य्यकारणभावविरोधादिमूलाः केचित्तर्का
इति तन्न तत्र प्रमाणानुपयोगेऽनुमान एव पर्य्यवसानात् ।
नच व्याप्तिग्रहान्यथानुपपत्त्यैव तर्कस्यानादिसिद्धव्याप्ति-
कत्वज्ञानमिति वाच्यम् अनुपपत्तेरप्यनुमानत्वात् । अन्ये
तु विपक्षवाधकतर्कादनौपाधिकत्वग्रह एव तदधीनो
पृष्ठ ३२५७
व्याप्तिग्रह इति तदपि न तर्कंस्याप्रमाणत्वात् । व्यभि-
चारादिशङ्कानिरासद्वारा प्रत्यक्षादिसहकारी स इति
चेन्न अनवस्थाभयेन तर्कं विना व्याघातात् यत्र शङ्का-
विरहस्तत्र व्याप्तिग्रहे तर्कस्य व्यभिचारात् । यत्तु
योग्यानामुपाधीनां योग्यानुपलब्ध्याभावग्रहः
अयोग्यानान्तु साध्याव्याप्यत्वसाधनव्यापकत्वसाधनादभावग्रह
इत्यनौपाधिकत्वं सुग्रहमिति तत्तुच्छम् अनुमानेन
तत्साधनेऽनवस्थानात् प्रमाणान्तरस्याभावात् । ये चानु-
कूलतर्कं विनैव सहचारादिदर्शनमात्रेण व्याप्तिग्रहं
वदन्ति तेषां पक्षेतरत्वस्य साध्यव्यापकत्वग्रहेऽनुमान-
मात्रमुच्छिद्येत अनुमानमात्रोच्छेदकत्वादेव पक्षेतरोनो-
पाधिरिति चेत भ्रान्तोऽसि नहि वयमुपाधित्वेन तस्य
दोषत्वमाचक्ष्महे साध्यव्यापकत्वेन तद्व्यतिरेकात् पक्षे
साध्यव्यावर्तकतया व्यापकव्यतिरेके व्याप्यव्यतिरेकस्य
वज्रलेपाच्च । अपि च करवह्निसंयोगः शक्त्यतिरिक्ताती-
न्द्रियधर्मसमवायी जनकत्वादित्यत्राप्रयोजकत्वान्न साधकं
तत्र व्याप्तस्य पक्षवर्मत्वे किमप्रयोजकं नाम? तस्माद्विपक्ष-
बाधकतर्काभावान्न तत्र व्याप्तिग्रह इत्यप्रयोजकत्वमिति” ।
तर्कं वेत्त्यषीते वा ठञ् । तार्किक तर्कवेत्तरि तर्कशास्त्रा-
ध्येतरि च । “तार्किकशिरोमणिस्तनुते” दीधितिः ।

तर्कक त्रि० तर्क--ण्वुल् । १ तर्ककारके । २ याचके हेम० ।

“काभैः सन्तर्पयामास कृपणांस्तर्ककानपि” भा० शा० ४५ अ०

तर्कग्रन्थ पु० तर्काधिकृतः ग्रन्थः शाक० त० कर्म० वा ।

तर्कप्रधाने ग्रन्थे “तर्कग्रन्थार्थरहितो नैव गृह्णात्यप-
ण्डितः” सुश्रुतः ।

तर्कण न० तर्क--भावे ल्युट् । तर्कशब्दार्थोक्ते ऊहभेदे

“परक्रौर्य्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम्” सा० द०

तर्कमुद्रा स्त्री “तर्जन्यङ्गुष्ठयोरग्रे मिथः संयोज्य चाङ्गुलीः ।

प्रसार्य्यबन्धनं प्राहुस्तर्कमुद्रेति तान्त्रिकाः” इत्युक्ते मुद्रा-
भेदे “बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया” भाग०
४ । ६ । ३३ ।

तर्कविद्या स्त्री ६ त० । गौतमोक्तानां प्रमाणप्रमेयादीनां

षोड़शानां पदार्थानां विद्यायां, कणादोक्तषट्पदा-
र्थ्यादिविद्यायाञ्च । “आन्वीक्षकी तर्कविद्यामनुरक्तो
निरर्थिकाम्” भा० अनु० ३७ अ० ।

तर्कारी स्त्री तर्कमृच्छति ऋ--अण् ङीप् । जयन्तीवृक्षे । अमरः ।

तर्किन(ल) तर्क--बा० इन(ल) वा । चक्रमर्दवृक्षे रत्नमाला

तर्किन् त्रि० तर्क--णिनि । तर्ककारके पण्डितभेदे । “त्रैवेद्यो-

हैतुकस्तकीं नैरुक्तोधर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे
परिषत् स्याद्दशावरा” मनुः ।

तर्कु पु० कृत--उ नि० । (टेको) इति ख्याते यन्त्रभेदे ।

त्रिका० । स्वार्थे क । तर्कुक तत्रार्थे ।

तर्कुट न० कृत--च्छेदने बा० भावे उट पृषो० । १ (काटनाकाटा)

सूत्रकर्त्तनभेदे त्रिका० । करणे उट । २ तर्कौ स्त्री
हारा० गौरा० ङीष् ।

तर्कुपिण्ड पु० ७ त० । तर्कुस्थितमृत्पिण्डे (टेकोर वाँटुल)

जटाधरः ।

तर्कुपीठी स्त्री स्वल्पः पीठः ङीप् पीठी ६ त० । तर्कुपिण्डे हारा० ।

तर्कुलासक पु० तर्कुं लासयति चालयति लस--णिच्--ण्वुल् ।

तर्कुचालके यन्त्रे (चरका) । हारा० ।

तर्कुशाण पु० ६ त० । (टेकोरशाण) सामके त्रिका० ।

तर्क्षु पु० तरक्षु + पृषो० । मृगादने व्याघ्रभेदे शब्दरत्ना० ।

तर्क्ष्य पु० तृक्ष--यत् बा० गुणः । यवक्षारे रत्नमा० ।

तर्ज भर्त्सने भ्वा० पर० सक० सेट् । तर्जति अतर्जीत् ततर्ज ।

तर्ज भर्त्सने चुरा० आ० सक० सेट् । तर्जयते अततर्जत । तर्जा

तर्जना “सीतामभ्यर्थ्य तर्जितः” “तया तु तर्जिताः सर्वा मुखै-
र्भीमा यथागतम्” । “राक्षसोऽतर्जयत्सूतं पुनश्चाढ़ौक-
यद्रथम्” भट्टिः । बालं पुनर्गात्रसुखं गृह्णीयान्न चैनं तर्ज-
येत्” सुश्रुतः । आर्षत्वात् पदव्यत्ययः ।

तर्जन न० तर्ज--भावे ल्युट् । भर्त्सने “तरुलताङ्गुलतर्जन-

विभ्रमाः” माघः । चु० तर्ज--युच् । २ भर्त्सने स्त्री
“यन्ता क्रमेण परिसान्त्वनतर्जनाभिः” माघः । “मधुर-
वचनैः सम्रूभङ्गैः कृताङ्गुलितर्जनैः” सा० द० ।

तर्जनी स्त्री तर्ज्यतेऽनया तर्ज--करणे ल्युट् ङीप् । प्रदेशिन्यां

वृद्धाङ्गुष्ठसमीपस्थे अङ्गुलिभेदे । “तर्जन्यङ्गुष्ठयीर्मध्यं
पितृतीर्थं प्रचक्षते” स्मृतिः । तर्कमुद्राशब्दे उदा० ।
मुद्राशब्दे भूरि उदा० ।

तर्जनीमुद्रा स्त्री “वाममुष्टिं विधायाथ तर्जनीमध्यमे ततः ।

प्रसार्य्य तर्जनीमुद्रा निर्द्दिष्टा शूलपाणिना” तन्त्रोक्ते
मुद्राभेदे ।

तर्जिक पु० तर्जस्तर्जनमस्त्यत्र ठन् । देशभेदे हेमच० ।

तर्ण पु० तृण--अच् । वत्से । ण्वुल् । तर्ण्णक {??}वत्से, अमरः

“कृष्णसनाथा तर्णकपङ्क्ति” छन्दोम० । सद्योजाते २ शिशौं
च हेम० ।

तर्णि पु० तरत्याकाशपद्धतिं तॄ--नि करणे नि वा । १ सूर्य्ये २ प्लवे (भेला) शब्दार्थकल्पतरुः ।

तर्तरीक न० तॄ--करणे ईक फर्फरीका० नि० । २ नौकाभेदे

कर्त्तरि ईक । २ पारगे त्रि० मेदि० ।
पृष्ठ ३२५८

तर्द्द हिंसायां भ्वा० पर० सक० सेट् । तर्दति अतर्द्दीत् ।

ततर्द्द । “सेहे कपो रथाश्वांश्च रिपोस्ततर्द शाखिना” ।
“सुग्रीवः प्रघसं नेभे बहून्रामस्ततर्द च” भट्टिः ।

तर्दू स्त्री तर्द--तृद--वा ऊ । काष्ठनिर्मितायाम् दर्व्याम् अमरः ।

तर्द्मन् पु० तर्द्द--तृद वा मनिन् । १ चषालच्छिद्राग्रवेधे “द्व्यङ्गुलं

त्र्यङ्गुलं वा तर्द्मातिक्रान्तं यूपस्य” कात्या० श्रौ० ६ । १ । ३० ।
“तर्द्मातिक्रान्तं चषालच्छिद्राग्रवेधादतिक्तान्तम्” कर्कः ।
आधारे मनिन् । २ तर्दनप्रदेशे च ।
“तर्द्मसमूते पश्चाद्भवतस्तदिमावेव” शत० ब्रा० ३ । २ । १ । २
तर्द्मसमूते इति यथोभयोर्मांसप्रदेशयोः सम्बन्धी भवति
यथा च तर्दनप्रदेशेषु पश्चाद्भागे ऊते परस्परं स्यूते भवतः
तस्यैकस्योपर्यपरमास्तृणुयात्” भा०

तर्पण न० तृप--णिच् वा ल्युट् । १ तृप्तौ २ प्रीणने च अमरः

३ यज्ञकाष्ठे हेमच० । स्नातकादिभिःप्रत्यहं कर्तव्ये पञ्चमहा-
यज्ञान्तर्गते ४ महायज्ञभेदे स च पितृयज्ञः । पितॄणां
तृप्तिहेतुत्वादस्य तथात्वम् तत्प्रकारः आ० त० उक्तो यथा
“तद्द्विविधं प्रधानमङ्गञ्च । तत्राद्यमाह शातातपः
“तर्पणन्तु शुचिः कुर्य्यात् प्रत्यहं स्नातको द्विजः ।
देवेम्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम्” । विधवामधि-
कृत्य काशीखण्डम् “तर्पणं प्रत्यहं कार्य्यं भर्त्तुः
कुशतिलोदकैः । तत्पितुस्तत्पितुश्चापि नामगोत्रादि-
पूर्वकम्” । द्वितीयन्तु ब्रह्माण्डपुराणीयम् “नित्यं
नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते । तर्पणन्तु
भवेत्तस्य अङ्गत्वेन व्यवस्थितम्” । तर्पणाकरणे दोषमाह
योगियाज्ञवल्क्यः “नास्तिक्यभावाद्यश्चापि न तर्पयति
वै सुतः । पिवन्ति देहरुधिरं पितरो वै जलार्थिनः” ।
तर्पणमधिकृत्य ब्रह्मपुराणम् “तस्मात् सदैव कर्त्तव्य-
मकुर्वन् महतैनसा । युज्यते ब्राह्मणः कुर्वन् विश्वमेत-
द्बिभर्त्ति हि” । शङ्खलिखितौ “नेष्टकारचिते
स्थाने पितृंस्तर्पयेत्” । मार्कण्डेयपुराणम् “यच्च
सर्व्वाय नोत्सृष्टं यच्चाभोज्यनिपानजम् । तद्वर्ज्यं
सलिलं तात! सदैव पितृकर्मणि” । विष्णुः “स्रात-
श्चार्द्रवासा दैवपितृतर्पणमम्भःस्थ एव कुर्य्यात् ।
परिवर्त्तितवासाश्चेत्तीर्थमुत्तीर्य्य” । अत्रापि तीर्थे विशेष-
माह मत्स्यपुराणे “तिलोदकाञ्जलिर्देयो जलस्थै-
स्तीर्थवासिभिः । सदा न हस्तेनैकेन गृहे श्राद्धं
समिष्यते” । अत्र जलस्थैरित्यनेन स्थलस्थानामपि
जलस्थत्वं नियम्यते । ततश्च “अन्तरुदक आचान्तोऽन्तरेव
पूतो भवति । बहिरुदके आचान्तो बहिरेव पूतो भवति
तस्मादन्तरेकं वहिरेकञ्च पादं कृत्वा आचामेत् सर्वत्र
शुद्धो भवति” इति पैठीनसिवचनात् जलस्थैक-
चरणकृताचमनेनोभयकर्म्मार्हत्वात् तर्पणकाले तीर्थे
जलैकचरणेन भवितव्यम् अन्यत्र त्वनियमः । तद्रूपाणां
जले तर्पणमनिषिद्धमिति । स्थलस्थतर्पणे आग्नेय-
पुराणम् “प्रागग्रेषु सुरांस्तृप्येन्मनुष्यांश्चैव मध्यतः ।
पितॄंश्च दक्षिणाग्रेषु दद्यादिति जलाञ्जलीन्” ।
अशुचिदेशे तु विष्णुः “यत्राशुचिस्थलं वा स्यादुदके देवता-
पितृन् । तर्पयेत्तु यथाकाममप्सु सर्वं प्रतिष्ठितम्” ।
वृहस्पतिः “ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्याञ्चाध्यात्मिकीं
जपेत् । जप्त्वाथ प्रणवं वापि ततस्तर्पणमाचरेत्” ।
एतच्च तर्पणं ब्रह्मयज्ञानन्तरं छन्दोगेतरपरम् । तेषान्तु
वैश्रवणाय चोपजाय इत्यन्तसूर्य्योपस्थानानन्तरं गोभि-
लेन तर्पणाभिघानात् । “आप्लवने तु संप्राप्ते तर्पणं
तदनन्तरम्” । “गायत्रीञ्च जपेत् पश्चात् स्वाध्यायञ्चैव
शक्तितः” । आप्लवने तु संप्राप्ते गायत्रीं जपतः पुरा ।
तर्पणं कुर्वतः पश्चात् स्नानमेव वृथा भवेत्”
इतिगोभिलीयवचनाभ्याञ्च । दक्षः “प्रादेशमात्रमुद्धृत्य
सलिलं प्राङ्मुखः सुरान् । उदङ्मनुष्यांस्तृप्येत
पितृन् दक्षिणतस्तथा । अग्रैस्तु तर्पयेद्देवान् मनुष्यान्
कुशमध्यतः । पितृंस्तु कुशमूलाग्रे विघिः कौशो
यथाक्रमम्” । एवञ्च “गोशृङ्गमात्रमुद्धृत्य जलमध्ये
जलं क्षिपेत्” इति यमवचनस्थगोशृङ्गपदं प्रादेश-
मात्रपरम् । उद्धृतोदके तु हारीतः “पात्राद्वा
जलमादाय शुचौ पात्रान्तरे क्षिपेत् । जलपूर्णेऽथ वा
गर्त्ते न स्थाने तु विवर्हिषि” । अत्र यद्धि यदुपक्रम्य
श्रुतं यच्च येन समं समभिव्याहृतं तदेव तत्रैवाङ्गं नान्य-
दिति बोध्यं तदङ्गं इतरत्समभिव्याहारप्रकरणाभ्या-
मिति गोतमसूत्रात् तेन पद्मपुराणीयस्नाने तदुक्तमेव
तर्पणम् । “तद्यथा व्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं
प्रजापतिम् । देवायक्षास्तथा नागा गन्धर्वाप्सरसोऽ-
सुराः । क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भगाः खगाः ।
विद्याधरा जलाधारास्तथैवाकाशगामिनः निराहाराश्च
ये जीवाः पापे धर्मेरताश्च ये । तेषामाप्यायनायैतद्दीयते
सलिलं मया” । एतेनैकाञ्जलिरिति सर्वेषां मतम् ।
“कृतोपवीती देवेभ्यो निवीती च भवेत्ततः । मनुष्यां
स्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा । सनकश्च सनन्दश्च
पृष्ठ ३२५९
तृतीयश्च सनातनः । कपिलश्चासुरिश्चैव वोढ़ुः पञ्च-
शिखस्तथा । सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना
सदा । मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च । देवान् सर्वानृ-
षीन् सर्वांस्तर्पयेदक्षतोदकैः । अपसव्यं ततः कृत्वा
सव्यं जानु च भूतले । अग्निष्वात्तांस्तथा सौम्यान्
हविष्मतस्तथोष्मपान् । सुकालिनो बर्हिषद आज्यपांस्तर्प-
येत्ततः । तर्पयेच्च पितृन् भक्त्या सतिलोदकचन्दनैः ।
दर्भपाणिस्तु विधिना हस्ताभ्यां तर्पयेत्ततः” । अत्र केचित्
पितृधर्म्मातिदेशात् दिव्यपितॄणामपि अञ्जलित्रयदानम् ।
तदसत् “कव्यवालं नलं सौम्यं यममर्य्यमणन्तथा । अग्नि-
ष्वात्ताः सोमपाश्च वर्हिपदः सकृत् सकृत्” इति
कृन्दोगपरिशिष्टेन विशिष्टैकाञ्जलिविधानात् । “पित्रा-
दीन्नामगीत्रे च तथा मातामहानपि । सन्तर्प्य भक्त्या
विधिवदिमं मन्त्रमुदीरयेत् । येऽबान्धवा बान्धवा वा
येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु ये
चास्मत्तोयकाङ्क्षिणः” । अत्र ब्रह्मादिचतुर्षु तर्पणप्र-
योगाकाङ्क्षायां गोभिलयाज्ञवल्क्योक्तप्रयोगविधिर्ग्राह्यः ।
स च “अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । तृप्य-
तामिति वक्तव्यं नाम्ना तु प्रणवादिना” । अन्वारब्धेन
पश्चाल्लग्नेन अस्मादेव वचनात् तर्पणाभिलापे प्रणवा-
दित्वं तृप्यतामिति च लभ्यते । ततश्च ॐ ब्रह्मा तृप्य-
तामिति प्रयोगः । देवा इत्यादि मयेत्यन्तेन मन्त्रलिङ्गा-
देकाञ्जलिः । तथा सनक इत्यादि सदा इत्यन्तेनैका-
ञ्जलिः एवं पुनरपि । “एकैकमञ्जलिं दत्त्वा द्वौ द्वौ तु
सनकादयः । अर्हन्ति पितरस्त्रींस्त्रीन् स्त्रियस्त्वेकैक-
मञ्जलिम्” इति व्यासगोभिलसूत्रवचनात् । नतु
द्वौ द्वाविति वीप्साश्रुतेः सनकादिप्रत्येक एव द्व्यञ्जलि-
रिति वाच्यं प्रत्येकपक्षे द्वौ द्वौ समुदायपक्षे तृप्त्यनु-
रोधेन तथैव युक्तत्वात् । अत्राञ्जलिपदं प्रागुक्ता-
न्वारब्धेनेति श्रवणात्तथाविधहस्तद्वयपरम् तद्वै-
कल्पिकाञ्जलिपरं वा देवादिपक्षे । पितृपक्षे तु “तौ
युतावञ्जलिः पुमान्” इत्येतत्परं पद्मपुराणीयतर्पणपक्षे
तु पितृपक्ष एव हस्ताभ्यामिति श्रुतेस्तथैबाञ्जलिः ।
अन्यत्र नाञ्जलिरित्यवगम्यते । आचारमाधवीये प्रचेताः
“मातृमुख्यास्तु यास्तिस्नस्तासां दद्यात्रिरञ्जलीन्” ।
इति । पराशरभाष्ये सनकादिदिव्यमनुष्याणां तर्पणादिकं
सामगेन प्राङ्मुखेन तदितरेणोदङ्मुखेन कर्त्तव्यं
तथा च परिशिष्टधृतं सामवेदीयषट्त्रिंशद्व्राह्मणं
“मनुष्याणामेषा दिक् या च प्रतीचीति” । तथाच
ज्योतिष्टोमे श्रूयते प्राचीं देवा अभजन्त, दक्षिणां
पितरः, प्रतीचीं मनुष्याः उदीचीमसुराः अपरेषामु-
दीचीं मनुष्याः” । यत्तु “कृतजप्योऽन्तर्जानुरुदङ्मुखाः ।
दिव्येन तीर्थेन देवानुदकेन तर्पयेत्” इति शङ्ख-
लिखितसूत्रं देवतर्पणे उदङ्मुखत्वविधायक तच्छ्रुति-
विरोधात् शाख्यन्तरीयम् अशक्तविषयकम् । उदकेनेति-
श्रवणात् यवादीति फलाधिक्यार्थं व्यवहारोऽपि तथा ।
यत्तु “निवीती हन्तकारेण मनुष्याँस्तर्पयेदथ । कुशस्य
मध्यदेशेन नृतीर्थेन उदङ्मुखः” लघुविष्णुनाहन्त-
प्रयोगेण जलदानमुक्तं तत् सनकादिप्रत्येकतर्पणे यथा
“सनकस्तृप्यतां तस्यैतदुदकं हन्त” इत्यादौ न तु पद्म-
पुराणीयमिलिततर्पणे “दत्तेनाम्बुना” अनेन दत्तस्य
पुनस्त्यागासम्भवात् । नृतीर्थेन कनिष्ठाङ्गुलिमूलेन
“प्राजापत्येन तीर्थेन मनुष्यांस्तर्पयेत् पृथक्” इति
विष्णुपुराणीयैकवाक्यत्वात् । गरीच्यादि ऋषितर्पणन्तु
अङ्गुल्यग्रेण “अङ्गुल्यग्रमार्षम्” इति यमवचनात्
एवञ्चार्षदेवतीर्थयोरङ्गुल्यग्ररूपैकदेशत्वसाधर्म्येण ।
मरीच्यादिंतर्पणे तु दिगाद्याकाङ्क्षायां देववदिति । अतएव
योगियाज्ञवलक्यवचने सनकानित्यत्र मनुष्यानिति
विशेषणं दत्तम् । ब्रह्माद्यानित्यत्र देवानिति विशे-
षणं दत्तमिति व्यवहारोऽपि तथा । मरीचिः “सौवर्णेन
तु पात्रेण ताम्ररूप्यमयेण वा । औडुम्बरेण खड़्गेन
पितॄणां दत्तमक्षयम् । विना रूप्यसुवर्णेन विना
ताम्रमयेण वा । विना तिलैश्च दर्भैश्च पितॄणां
नोपतिष्ठते” । एतच्च समग्राभावे बोव्यं नतु एकस्याभावे
शङ्खः । “सौवर्णेन तु पात्रेण राजतेनौ-
डुम्बरेण च । खड़्गपात्रेण शङ्कुना वाप्युदकं
पितृतीर्थं स्पृशन् दद्यात्” । शङ्कुः सुवर्णकीलकः ।
“अक्षतोदकैर्यवाद्भिस्तर्पयेद्देवान् सतिलाभिः पितृंस्तथा”
इति छन्दोगपरिशिष्टेनापि पितृपक्षे तिलोदकमात्र-
विधानात् । पद्मपुराणे चन्दनविधानं फलाधिक्यार्थम् ।
अपसव्यं प्राचीनावीतित्वम् । उपवीतित्वम् प्राचीना-
वीतित्वञ्चाह गोभिलः “दक्षिणं बाहुमुद्धृत्य शिरो-
ऽवधाय सव्येऽंसे प्रतिष्ठापयति दक्षिणं कक्षमवलम्बनं
भवति एवं यज्ञोपवीती भवति । सव्यं बाहुमुद्धृत्य
शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति सव्यकक्षमवलम्बनं
पृष्ठ ३२६०
भ्वति एवं प्राचीनावीती भवति” इति । प्रतिष्ठापयति
यज्ञोपवीतमिति शेषः । तथाचामरसिंहोऽपि
“उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीना-
वीतमन्यस्मिन्निवीतं कण्टलम्बितम्” इति । “सावित्री
ग्रन्थिसंयुक्तं उपवीतं तवाच्युत” इति ब्रह्मपुराणीय
पूजादर्शनात् । गायत्रीमन्त्रेण उपवीतं कर्तव्यमिति
प्रतीयते । लौकिकास्तु सावित्रीग्रन्थिरिति वदन्ति
प्रवरसंख्यया वेष्टितग्रन्थिरिति लौकिकव्यवहारः ।
विद्याकरधृतं “यथा यज्ञोपवीतम्” । इत्यादिवाक्यात्
उत्तरीयमपि यज्ञोपवीतवत् सव्यापसव्यत्वादिना धार्य्यं
विवृतं शुद्धितत्त्वे । पित्रादीत्यादिना मातामहादि
त्रयपरिग्रहः । तथाच विष्णुपुराणे “त्रिरपः
प्रीणनार्थाय देवानामपवर्जयेत् । ऋषीणाञ्च यथान्थायं
सकृच्चापि प्रजापतेः । पितॄणां प्रीणनार्थाय त्रिरपः
पृथिवीपते! । पितामहेभ्यश्च तथा प्रीणयेत् प्रपिता-
महान् । मातामहाय तत् पित्रे तत्पित्रे च
समाहितः । दद्यात् पित्रेण तीर्थेन काम्यञ्चान्यत् शृणुष्व
मे” । स्मृतिसारे धृतम् “वामहस्ते तिलान् दत्त्वा
जलमध्ये तु तर्पयेत् । स्नानसाट्यञ्चले पात्रे रोमकूंपे
न कुत्रचित्”! जलतर्पणे रोमरहितप्रदेशे “वामवाहौ
वस्त्राच्छादिते तिलान् संस्थाप्य मुद्रारहितदक्षिणहस्त-
तर्ज्जन्यङ्गुष्ठयोरन्यतरेण तिलान् गृहीत्वा वामहस्त-
तलेन स्थापयित्वा तर्पयेदिति मदनपारिजातः ।
अतएव मरीचिः “मुक्तहस्तञ्च दातव्यं न मुद्रां
दर्शयेत् क्वचित् । वामहस्ते तिला ग्राह्या मुक्तहस्तञ्च
दक्षिणम्” । मुक्तहस्तं प्रसारितहस्तं यथा स्यात् ।
एवं मुद्रा प्रदेशिन्यङ्गुष्ठयोगे सन्दंशरूपः । मुक्तहस्तञ्च
दक्षिणम्” इति दक्षिणहस्तं तिलरहितं कुर्य्यात्
इति नैयतकालीनकल्पतरुः । तथाच नारदीये
“अङ्गुष्ठानामिकाभ्यान्तु दक्षिणस्येतरस्थितान् ।
तिलान् गृहीत्वा पात्रस्थान् ध्यात्वा संतर्पयेत् पितॄन्” ।
देवलः । “रोमसंस्थान् तिलान् कृत्वा यस्तु संतर्पयेत्
पितॄन् । पितरस्तर्षितास्तेन रुधिरेण मलेन च” ।
वृष्टिजलसम्पर्के तर्पणनिषेधमाह वायुपुराणम्
“मेघे वर्षति यः कुर्य्यात् तर्पणं ज्ञानदुर्बलः । पितॄणां
नरके घोरे गतिस्तस्य भवेद्ध्रुवम्” । तथा “शूद्रोदकैर्न
कुर्वात तथा मेघादिनिःसृतैः” । इति मेघादि दर्शनादिति
लौमुदी । योगियाज्ञवल्क्यः “यद्युद्धृतं जलञ्चेत्तु
तिलान् संमिश्रयेज्जले । अतोऽन्यथा तु सव्येन तिला-
ग्राह्या विचक्षणैः” । अत्र शेषार्द्धं मनदपारिजाते
लिखितम् । “अन्यथा वामहस्तेन” ततस्तर्पणमाचरे-
दिति” । वायुपुराणम् । “तिलदर्भैस्तु संयुक्तं श्रद्धया
यत् प्रदीयते । तत्सर्वममृतं भूत्वा पितृणामुपतिष्ठते” ।
स्मृतिः “रविशुक्रदिने चैव द्वादश्यां श्राद्धवासरे ।
सप्तम्यां जन्मदिवसे न कुर्य्यात्तिलतर्पणम्” । मत्स्य-
पुराणे “संक्रान्त्यां निशि सप्तम्यां रविशुक्रदिने
तथा । श्राद्धे जन्मदिने चैव न कुर्य्यात्तिलतर्पणम्” ।
श्राद्धे आमावास्यातिरिक्तश्राद्धे “नीलषण्डविमोक्षेण
आमावास्यां तिलोदकैः । वर्षासु दीपदानेन पितॄणा-
मणृणो भवेत् । अमावास्यान्तु ये मर्त्याः प्रयच्छन्ति
तिलोदकम् । पात्रमौडुम्बरं प्राप्य मधुमिश्रं
तपोधनाः! । कृतं भवति तत् श्राद्धं रहस्यञ्च सदा भवेत् ।
विशेषतश्च जाह्नव्यां सर्वदा तर्पयेत् पितॄन् । न
कालनियमस्तत्र क्रियते सर्वकर्मसु” । बौधायनः “न
जीवत्पितृकः कृष्णैस्तिलैस्तर्पणमाचरेत् । सप्तम्यां
रविवारे च जन्मर्क्षदिवसेषु च” । स्मृतिः “निषिद्ध-
दिनमासाद्य यः कुर्य्यात्तिलतर्पणम् । रुधिरं तद्भवे-
त्तोयं दाता च नरकं व्रजेत्” । प्रतिप्रसवमाह स्मृतिः
“अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च । उपाकर्मणि
चोत्सर्गे युगादौ मृतवासरे । सूर्य्यशुक्रादिवारेऽपि न
दोषस्तिलतर्पणे । तीर्थे तिथिविशेषे च कार्य्यं प्रेते च
सर्वदा” । स्कन्दपुराणम् “तोर्थमात्रे तु कर्तव्यं
तर्पणं सतिलोदकैः । योऽन्यथा तर्पयेन्मूढ़ः स विष्ठायां
भवेत् कृमिः । विशेषतस्तु जाह्नव्यां सर्वदा तर्पयेत्
पितॄन्” । एतत्तु निषिद्धदिनतर्पणविधायकम् ।
“तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके । निषिद्धेऽषि
दिने कुर्य्यात्तर्पणं तिलमिश्रितम्” इति
मदनपारिजातविद्याकरराजपेयिधृतमरीचिवचनात् । तिला-
भावे पितृतीर्थेन प्रतिनिधिना तर्पणम् “तिलाना-
भप्यभावे तु सुवर्णरजतान्वितम् । तदभावे निषिञ्चेत्तु
दर्भैस्तोयैर्न चान्यथा” इति याज्ञवल्क्यात् । सुवर्ण-
रजतान्वितं सुवर्णरजतस्पृष्टम् । अतएव “सुलभं
सकलं पुण्यं यज्ञदानादिजं फलम् । गङ्गातोयैश्च
सतिलैर्दुर्लभं पितृतर्पणम्” इति भविष्यपुराणे
गङ्गातोयस्य दुर्लभत्वमुक्तम् न च तदभावात्तर्पणाभावः
शातातपः “पितृणां पितृतीर्थेन जलं सिञ्चद्यथो-
पृष्ठ ३२६१
विधि । दक्षिणेनाथ गृह्णीयात् पितृतीर्थे समीपतः” ।
गोभिलः “गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्य
कर्मणि । गोत्रस्तु तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति ।
सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्मणि । पितुरक्षय्य-
काले तु अक्षयां तृप्तिमिच्छता । शर्मन्नर्घ्यादिके कार्य्यं
शर्म्मा तर्पणकर्मणि । शर्मणोऽक्षय्यकाले तु पितॄणां
दत्तमक्षयम्” । कार्ष्णाजिनिः “नाभिमात्रे जले
स्थित्वा चिन्तयेदूर्द्ध्वमानसः । आगच्छन्तु मे पितर इमं
गृह्णन्त्वपोऽञ्जलिम्” । योगियाज्ञवल्क्यः “नाम-
गोत्रस्वधाकारैस्तर्प्याः स्युरनुपूर्वशः” । तेन अमुकगीत्रः
पिता अमुकदेवशर्म्मा तृप्यतामेतत्तिलोदकं तस्मै स्वधेति
प्रयोगः सिध्यति । एवं मातामहादौ । एष चासम्बु-
द्धिप्रयोगो वाजसनेयीतरपरः । तेषान्तु सम्बुन्ध्यन्तता-
माह ब्राह्मणसर्वस्वे जातूकर्ण्यः “प्रमीतपितृकस्तू-
शन्त्वस्त्वेत्यावाह्य नामगोत्रमुदाहृत्य यावता पितृका-
र्य्यमसावेतत्ते उदकमिति पितृन् पितामहान् प्रपि-
तामहान् । एकैकस्मै त्रींस्त्रीन्दद्यात्” । अत्र
चासाविति नाम गृह्णातीति कात्यायनोक्तस्य नाम्नः ते
इति युष्मत्प्रयोगात् सम्बुद्ध्व्यन्तता प्रतीयते तस्य सम्बु-
द्ध्यमानात्मवाचित्वात् । असम्बुद्धिप्रथमान्तत्वेऽनन्व-
यापत्तेः । ततश्चामुकगोत्र! पितरमुकदेवशर्म्मँस्तृप्य-
स्वैतत्ते तिलोदकं स्वधेति प्रयोगः सिध्यति । एवं
मातामहानामपि । ततो मात्रादीनां षण्णां तर्पणानि ।
द्वादशानां मध्ये यो जीवति तं विहाय वृद्धप्रपिता-
महादीत् गृहीत्वा पूरयेत् । एवं प्रव्रजतिते पतिते
च । ततो विमातृज्येष्ठभ्रातृपितव्यमातुलादींस्तर्पयेत् ।
शङ्खः “वान्धवानां कृत्वा सुहृदां तर्पयेत्” सुहृदो
मित्रादयः । मित्रायाप्यसवर्णाय जलं न देयम् ।
“सवर्णेभ्यो जलं देयं नान्यवर्णेभ्य एव च” इति
याज्ञवल्कीयात् । भीष्मायासवर्णायापि भीष्माष्टम्यां
तर्पणं कार्य्यम् “ब्राह्मणाद्यास्तु ये वर्णादद्युर्भीष्माय नो
जलम् । संवत्सरकृत तेषां पुण्यं नश्यति सत्तम!”
इत्यादि वचनात् । मन्त्रस्तु “वैयाघ्रपद्यगोत्राय इत्यादि ।
ब्राह्मणेनैतत् पितृतर्पणानन्तरं कार्य्यम् अन्येन पितृतर्प-
णात् पूर्वम् । अत्र वीजं वर्णज्यैष्ठ्यमिति हलायुधः ।
अपसव्येन दक्षिणामुखेन सतिलोदकेन सकृत् कर्त्त-
व्यम् । ततः कृताञ्जलिः” “भीष्मः शान्तनवोवीर” इत्यादि
पठेत् । ततो येऽवान्धवा बान्धवा वा इत्यादिना एका-
ञ्जलिर्देयः । योगियाज्ञवल्क्यः “निष्पीड़यति यः
पूर्वं स्नानवस्त्रञ्च तर्पणात् । निराशाः पितरस्तस्य यान्ति
देवाः सहर्षिभिः । तथा “अन्नप्रकरवत्तस्य अपसव्येन
पीड़नम् । अन्नप्रकरवत् श्राद्धोच्छिष्टसमीपान्नविकरणवत्
तस्याधोवस्त्रस्य “स्नानशाट्यान्तु दातव्या मृदस्तिस्रो विशु-
द्धये” इति वशिष्ठवचने अधोवस्त्रस्य दुष्टस्यैव शुद्धये
मृद्दानं प्रतीयते । योगियाज्ञवल्क्यः “वस्त्रनिष्पी-
ड़ितं तोयं स्नातस्योच्छिष्टभागिनः । भागधेयं श्रुतिः
प्राह तस्मान्निष्पीड़येत् स्थले” । अत्र मन्त्रमाह
गोभिलः “ये चास्माकं कुले जाता अपुत्रागोत्रिणो
मृताः । ते तृप्यन्तु मया दत्तं वस्त्रनिष्पीड़नोदकम्” ।
अशक्तौ शङ्खः । “आब्रह्मस्तम्बपर्य्यन्तं जगत्तृप्यत्विति-
क्रमात् । अञ्जलित्रितयं दद्यात् एतत्संक्षेपतर्पणम्” ।
“आब्रह्मस्तम्बपय्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु सर्वे
पितरो मातृमातामहादयः । अतीतकुलकोटीनां
सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनाल्लोकादिदमस्तु
तिलोदकम्” ।
जन्माष्टम्यां तर्पणस्य फलं यथा “तस्यां तिथौ
वारिमात्रं पितॄणां यः प्रयच्छति । गयाश्राद्धं
कृतं तेन शताव्दं नात्र संशयः” ब्रह्म० वै० श्रीकृष्णजन्म
खण्डः । तर्पणञ्च देवर्षिपितृमनुष्यणं जलाञ्जलिदानेन
तृप्तिसम्पादनम् । यथा “एवं स्नात्वा पितृन् देवान्
मनुष्यांस्तर्पयेन्नरः । नाभिमात्रे जले स्थित्वा चिन्तये
दूर्द्ध्वमानसः । आगच्छन्तु मे पितर इमं गृह्णन्त्वपो-
ऽञ्जलिम् । त्रींस्त्रीञ्जलाञ्जलीन् दद्यादाकाशे
दक्षिणे तथा । वसित्वा वसनं शुक्लं स्थले चास्तीर्ण-
वर्हिषि । विधिज्ञास्तर्पणं कुर्य्युर्न पात्रे तु कदाचन ।
यदपां क्रूरमध्यं तु यदमेध्यन्तु किञ्चन । अशान्तं
मलिनं यच्च तत्सर्वमपगच्छतु । गृहीत्वानेन मन्त्रेण
तोयं सव्येन पाणिना । प्रक्षिपेद्दिशि नैरृत्यां रक्षोप
हतये द्रुतम् । अनाह्निकन्तु यद्भुक्तं पापाद् यच्च
प्रतिग्रहम् । दुस्कृतं यच्च मे किञ्चिद्वाङ्मनःकायक-
र्म्मभिः । पुनातु मे तदिन्द्रस्तु वरुणः स वृहस्पतिः ।
सविता च भगश्चैव मुनयः सनकादयः । आब्रह्म स्तम्बप-
र्य्यन्तं जगत् तृप्यत्विति ब्रुवन् । क्षिपेदपोऽञ्जलींस्त्रींस्तु
कुर्वन् सङ्क्षेपतर्पणम्” गारुड़े २१५ अ० । तर्पण
विशेषस्तु गारुड़े २१९ अ० वह्निपुराणे नित्या ह्नक
स्नानविधाननामाध्याये च द्रष्टव्यः । जीवत्पितृकस्य
पृष्ठ ३२६२
तर्पणनिषेधो यथा “दर्शस्नानं गयाश्राद्ध्वं विलैस्तर्पण-
मेव च । न जीवत्पितृको भूप! कुर्य्यात् कृत्वाघमा-
प्नुयात्” कालिका० पु० ८९ अ० ।
कर्त्तरि ल्यु । ५ तृप्तिकारके त्रि० । “सुरभिर्घ्राणतर्पणः”
अमरः । “सन्तर्पणो नाकसदां वरेण्यः” भट्टिः ।

तर्पणी स्त्री तृप--णिच--करणे ल्युट् ङीप् । गुरुस्कन्दवृक्षे

शब्दमा० ।

तर्पणेच्छु पु० तर्पणमिच्छति इष उ० नि० २ त० । १ भीष्मे

शब्दर० । २ तर्पणेच्छुमात्रे त्रि० ।

तर्पिन् त्रि० तृप--णिच्--णिनि । १ तर्पके प्रीणयितरि स्त्रियां

ङीप् सा च २ पद्मचारिणीलतायाम् स्त्री शब्दच० ।

तर्पिली स्त्री तृप--बा० इल गौरा० ङीष् । पञ्चचकारि-

ण्याम् । कपिलका० रस्य वा लः । तल्पिलीतिरूपान्तरं
तत्रार्थे । स्वार्थे क । तर्पिलिका तत्रार्थे । तत्रापि वा
रस्य लः । तल्पिलिकापि तत्रार्थे ।

तर्ब गतौ भ्वा० पर० सक० सेट् । तर्बति अतर्बीत् । ततर्ब ।

तर्बट पु० तर्बति सततं गच्छति तर्ब--अटन् । १ वत्सरे २ चक्र-

मर्दवृक्षे च राजनि० ।

तर्म्मन् न० तॄ--मनिन् । यूपाग्रभागे अमरः ।

तर्य पु० ऋषिभेदे । “सदापृणो यजते वि द्विषो बधीद्वाहुवृक्तः

श्रुतवित्तर्य्यः” ऋ० ५ । ४४ । १२ “सदापृणादयः पञ्चर्षयः”
इति भाष्योक्तेः ।

तर्ष पु० तृष--भावे घञ् । १ अभिलाषे २ तृष्णायाञ्च अमरः ।

“निवृत्ततर्षैरुपगीयमानात्” भाग० १ । ८ तर्षच्छेदो न भवति
पुरुषस्येह कल्मषात् । निवर्त्तते तदा तर्षः पापमन्तर्गतं
यदा” भा० शा० २०४ अ० । तॄ--कर्मणि करणे--वा स ।
३ समुद्रे ४ भेलके च उज्वल० ।

तर्षण न० तृष--भावे ल्युट् । पिपासायां जटाधरः ।

तर्षित त्रि० तषों जातोऽस्य तार० इतच् । तृषिते पिपासौ त्रिका० ।

तर्षुल त्रि० तृष--बा० उलच् । तृष्णायुक्ते “ज्ञानेन्द्रियाणी-

न्द्रियार्थान् नोपसयन्त्यतर्षुलम्” भा० २१३ अ० ।

तर्ष्यावत् त्रि० तृषावत् वेदे पृषो० । तृष्णायुक्ते । “निरुद्ध-

चिन्महिषस्तर्ष्यावान् गोधा” १० । २८ । १० । “तर्ष्यावान्
तृषावान्” भा० ।

तर्हि अव्य० तद् + र्हिल् । तस्मिन् काले इत्यर्थे । “रक्षांसि

वा एनं तर्ह्यालभन्ते यर्हि न जायते” ऐत० ब्रा० ।
“यर्हि वाव वो मयार्थो भविता तर्ह्येव वोऽहं पुनरा-
गन्तास्मि” तै० स० ।

तल प्रतिष्ठायां वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् ।

तालयति ते तलति । अतीतलत् त अतालीत् ।
तालयाम् बभूय आस चकार । तताल तेलतुः तलम् ।

तल पु० न० तल--अच् । स्वरूपे “शैलेयनद्धेषु शिलातलेषु”

कुमा० । “हिमधाम्नि दर्पणतले च मुहुः” माघः ।
“विदाङ्गुर्वन्तु महतस्तलं विद्विषदम्भसः” “तलं स्वरूपं
प्रमाणं वेति” मल्लिना० । २ ज्याघातवारणे । ३ कानने
४ कार्य्यवीजे न० मेदि० । ५ गर्त्ते पु० त्रिका० । ६ पादतलस्य
मध्ये हेमच० । “इदं रसातलं नाम सप्तभं पृथिवी
तलम्” भा० वि० ३६० अ० । “भुवस्तलमिव व्योम कुर्वन्
व्योमेव भूतलम्” रघुः । ७ तालवृक्षे पु० ८ चपेटे (चड़)
९ त्सरौ १० खड़्गमुष्टौ ११ सव्यहस्तेन तन्त्रोवादने पु०
मेदि० । १२ गोधायां पु० हेमच० ।

तलक न० तल--बा० वुन् । पुष्करिण्याम् (तलाओ) हारा० ।

तलकीट पु० वृक्षभेदे “तलकोटस्य वीजेषु पचेदुत्कारिकां

शुभाम्” सुश्रुते श्वासचिकित्सायाम् ।

तलताल पु० तलेन करतलेन ताड्यते ताड--कर्मणि घञ्

डस्य लः । करतलेन वादनोये वाद्यभेदे “आक्षेटयन्
खेलयँश्च तलतालं च वादयन्” भा० व० १७८ अ० ।

तलत्राण न० तलं करतलं त्रायते त्रै--ल्यु करणे ल्युट् वा ।

करतलत्राणकारके करतलरक्षके चर्ममये गोधाभेदे
“यत्रैते सतलत्राणाः सुयोधनपुरोगमाः” भा० द्रो० ११९
अ० । “विबद्धासितलत्राणः क्षात्रधर्ममनुव्रतः” भा०
व० ६७ अ० ।

तलप्रहार पु० तलेन चपेटेन प्रहारः प्र + हृ--घञ् ३ त० । (चापड़-

मारा) चपेटाधाते । “तलप्रहारमशनेः सदृशं भीमनिस्व-
नम्” रामा० ल० ७६ अ० ।

तलमीन पु० तले जलनिम्ने स्थितो मीनः । (चिङ्गुड़ि) नलमीने अमरे पाठान्तरम् ।

तलयुद्ध न० तलस्य चपेटस्याघातेन युद्धम् । चपेटाघातेन युद्धे

(चड़ाचड़ि) “बालानां तलयुद्धे संग्रामः सतृयुद्धे वा”
वृ० स० ४७ अ० तलशब्दे इति पाठान्तरम् ।

तललोक पु० तलस्थो निम्नस्थः भूमेस्तलस्थो लोकः । पाताले

“खर्लोकपालान् खगलोकपालान्नृलोकपालांस्तललोक-
पालान्” भाग० २ । ४६ । ४३ अ० ।

तलव त्रि० तलं हस्तादितलं वाति निहन्ति ताड़यति

वागतिहिंसनयोः क । तलवाद्यवादके । “तान्नृत्तायान-
न्दाय तलवम्” यजु० ३० । २० । “तलवं तलवाद्र्यवाद-
नम्” वेददी० ।
पृष्ठ ३२६३

तलवकार पु० सामवेदशाखाभेदे “छान्दोग्ये तवलूकारा-

(तल्वकारा) दिशाखाभेदेषु विलक्षणागीतिहेतवोऽक्षर-
विकारादय आम्नायन्ते” सा० स० भाष्यम् । तस्यैवो-
पनिषत् । “केनेषितं पततीत्यादि” ।

तलवारण न० तले बाहुतले वारयति ज्याघातम् वारि-

ल्यु । ज्याघातवाणार्थे हस्ततले वद्धे (चामाटी) वर्मभेदे

तलसारक न० तले वक्षःस्थलाधोभागे सारोबलं यस्मात् कप् ।

अश्वस्य वक्षोऽधोभागे बद्धरज्जुभेदे (तङ्) हेमच० ।

तलहृदय न० तलस्य हृदयमिव । पादतलस्य मध्यस्थाने हेम०

तला स्त्री तलं ज्याघातवारणार्थत्वेनास्त्यस्याः अच् ।

१ ज्याघातवारणार्थे हस्तबद्धे चर्ममये पदार्थे (चामाटी)
अमरे पाठान्तरम् तलाऽस्त्यस्य इनि । २ गोधायुक्ते त्रि० ।
“ततः कवचधारी च तली खड़्गी शरासनी” भा०
उद्यो० १५७ अ० ।

तलाची स्त्री तलमञ्चति अन्च्--क्विप् ङीप् अञ्चतेरल्लोपे

पूर्वाणो दीर्घः । नलनिर्म्मितकटे (दडमा) हारा० ।

तलातल न० सप्तसु अधोभुवनेषु पातालभेदे “ततोऽधस्ता-

त्तलातले मयोनाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरा-
रिणा त्रिलोक्याः संचिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्
प्रसादाल्लब्धपदो मायाविनामाचार्य्यो महादेवेन
परिरक्षितो विगतसुदर्शनभयो महीयते” भाग० ५ । २४ । ३८
“अतलं वितलं सुतलं तलातलं महातलं
रसातलं पातालभिति” भाग० ५ । २४ । ११ । पातालकथने ।

तलिका स्त्री तलं वक्षःस्थलतलं बन्धनस्थानत्वेनास्त्यस्य

बा० ठन् । अश्वहृदयस्थरज्जुभेदे(तड्)हेमच० ।

तलित् स्त्री तड़ित् + डस्य लः । विद्युति शब्दार्थचि० ।

तलित न० तल + तारका० इतच् । भृष्टमांसभेदे । यथा “शुद्ध-

मांसविधानेन मांसं सम्यक् प्रसाधितम् । पुनस्तदाज्ये
संभृष्टं तलितं प्रोच्यते बुधैः । अस्य स्तणाः । “तलितं
बलमेधाग्निमांसौजःशुक्रवृद्धिकृत् । तर्पणं लघु
सुस्निग्धं रोचनं दृढ़ताकरम्” भा० प्र० ।

तलिन न० तल--इनन् । १ शय्यायां हारा० । २ विरले

३ स्तोके ४ स्वच्छे त्रि० मेदि० ५ दुर्बले त्रि० हेम० ।

तलिम न० तल--बा० इमन् । १ कुट्टिमे (छात) २ शय्यायां

३ खड़्गे ५ वितानके च मेदि० ।

तलुन पु० तल--उनन् । १ वायौ २ यूनि त्रि० स्त्रियां ङीष् ।

तलेक्षण पुंस्त्री तले ईक्षणमस्य । शूकरं शब्दार्थकल्प०

स्त्रियां जातित्वात् ङीष् ।

तलोदरी स्त्री तलं निम्नमुदरमस्या बह्वच्कत्वेऽपि

नासिकोदरेत्यांदिविशेषोक्तेः ङीष् । कृशोदर्य्यां भार्य्यायां
शब्दार्थकल्पतरुः ।

तलोदा स्त्री तले उदकं यस्या उदकस्य उदादेशः । नद्यां हारा० ।

तल्क न० तल--वा० कन् न कित्त्वम् । वने त्रिका० ।

तल्प पुंन० तल--पक् । १ शय्यायाम्, २ अट्टालिकायां, ३ दारेषु

च अमरः । “स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा”
मनुः । “औदुम्बरस्तल्पो भवति” तैत्ति० १ । २ । ६ । ५ “सपदि
विगतनिद्रस्तल्पमुज्झाञ्चकार” रघुः । “यत्रातपे दातु-
मिवाधितल्पम्” माघः । “सख्युः पुत्रस्य च स्त्रीषु
गुरुतल्पसमं विदुः” । “गुरुतल्पोऽभिभाष्यैनस्तप्ते
सुप्यादयीमये” मनुः । “गुरोस्तल्पं तल्पं कलत्रं यस्य”
प्राय० वि० । “आचार्याणीं स्वां च सुतां गच्छंस्तु गुरु-
तल्पगः” याज्ञ० । “पितृव्यदारगमने भ्रातृभार्य्यागमे
तथा । गुरुतल्पव्रतं कुर्य्यान्नान्या निष्कृतिरुच्यते” र्सवर्त्तः
“स गृहे गूढ़ उत्पन्नस्तस्य स्याद्यस्य तल्पजः” “यस्तल्पजं
प्रमीतस्य क्लीवस्य व्यधितस्य वा” मनुः । तल्पे भवः यत्
तल्प्य रुद्रभेदे पु० “नमस्तल्प्याय गेह्याय” यजु० १६ । ४४ ।
तल्पे साधुः यत् । तल्प्य शय्यासाधौ त्रि० “शतं तल्प्या
राजपुत्रा आशापालाः” शत व्रा० १३ । १ । ६ । २ ।

तल्पकीट पु० तल्पे खट्टायां जातः कीटः शा० त० । (छार-

पोका) कीटभेदे शब्दार्थचि० ।

तल्पक पु० तल्पे तत्संस्कारेऽधिकृतः बा० कन् । शय्या-

रचनायामधिकृते दासभेदे । “सूपव्यञ्जनकर्त्तारस्तल्पका
व्ययकास्तथा । प्रसाधका भोजकाश्च गात्रसंवाहका
अपि” कामन्दकीयनीतौ चरभेदकथने ।

तल्पन न० तल्प इवाचरति तल्प + क्विप्--कर्त्तरि ल्यु ।

१ करिपृष्ठे २ पृष्ठवंशस्य मांसे च हारा० ।

तल्पल न० तल्पं तथाकारं लाति ला--क । करिपृष्ठवंशे

“सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षाः” माघः “तल्पलाः
पृष्ठवंशाः” मल्लि० हारावल्यां तल्पनेत्यत्र तल्पलेति वा
पाठः माघे तल्पनेति वा पाठः । अन्थतरपाठः लिपिकर-
प्रमादकृत इत्यवधेयम ।

तल्ल त्रि० तस्मिन् लीयते ली--ड । १ तस्मिन् लीने “तज्जला-

निति शान्त उपासीत छान्दोग्योप० तल्लानित्यस्य भाष्ये
“तज्जत्वात् तल्लत्वात् तदनत्वाच्चेत्युक्तम् २ विले त्रिका०
३ जलाधारविशेषे (तलाओ हिन्दिभाषा) मेदि० ।
पृष्ठ ३२६४

तल्लज पु० तत् प्रसिद्धं यथा तथा लजति लज--कान्तौ अच् ।

प्रशस्ते अयन्तु उत्तरपदस्थः “पशंसावचनैश्च” पा० कृष्ण-
सर्पन्नित्यं समस्तः अजहल्लिङ्गश्च कुमारीतल्लज इत्यादि ।

तल्लिका स्त्री तस्मिन् लीयते ली--ड संज्ञायां कन् कापि

अत इत्त्वम् (ताली) कुञ्जिकायां शब्दार्थचि० ।

तल्ली स्त्री तत् प्रसिद्धं यथा तथा लसति लस--ड गौरा०

ङीष् । १ तरुण्याम् मेदि० ।

तल्वकार पु० सामवेदस्य शाखाभेदे तलवकारशब्दे दृश्यम् ।

तवक्षीर न० तु--अच् नित्यकर्म्म० । (तिखुर) ख्याते

पदार्थे “तवक्षीरन्तु मधुरं शिशिरं दाहपित्तहृत् ।
क्षयकासकफश्वासास्रदोषं हन्ति सेवनात्” २ गन्धलतायां
स्त्री राजनि० ।

तवराज पु० तु--अच् तवः पूर्णः सन् राजते राज--अच् । यवामशर्कराभेदे राजनि० ।

तवराजोद्भव पु० तवराजादुद्भवति उद् + भू--अच् ।

यवासशर्कराजाते खण्डभेदे । “तवराजोद्भवः खण्डो
दाहतृष्णाविनाशनः । मूर्च्छामोहस्य तापस्य श्वासस्य च
निवारकः । इन्द्रियतर्पणः शीतः सदा मधुर एव च”
राजनि० ।

तवर्ग पु० त + वर्ग । त थ द ध न रूपेषु वर्णेषु । तत्र भवः

वर्गान्तत्वात् छ । तवर्गीय तत्र भवे वर्णे ।

तवस् न० तु--असुन् । १ वृद्धे २ महति ३ बले च निघण्टुः ।

“अल्पादचिन्तं तवसा जघन्यः” ऋ० ३ । ३० । ८ “तवसा वलेन”
भा० । “तवस्तमस्तवसां वज्रवाहो!” ऋ० २ । ३३ । ३ ।
“प्रवाहिनां तवसं जग्मुरग्र्यम्” ऋ० १० । २८ । ७ ।
तवसे बलाय हितं--यत् । तवस्य वलहिते बलसाधने
च त्रि० “तस्मै तवस्यमनुदाति” ऋ० २ । २० । ८ । तवोऽस्त्यस्य
मतुप् मस्य वः सान्तत्वात् मत्वर्थे न विसर्गः । तवस्वत्
बलयुक्ते त्रि० “वीर उशते तवस्वान्” ऋ० ९ । ९७ । ४६ ।
पक्षे विनि तवस्विन् तत्रार्थे त्रि० उभयत्र स्त्रियां ङीप् ।

तवागा त्रि० तवसा वलेन गीयते गै--कर्म्मणि क्विप् पृषो० ।

प्रवृद्धबलयुक्ते “सृष्टिः स सुव स्पविरं तवागाम्” ऋ०
४ । १८ । १० “तवागाम् प्रवृद्धवलम्” भा० ।

तविपुला स्त्री चतुर्थवर्णात् परं तगणपूर्वके विपुलाछन्दोभेदे

“तोऽब्धेस्तत्पूर्वान्या भवेत्” वृ० र० । अब्धेश्चतुर्थाक्षरात्
परं तगणश्चेत् तपूर्वा तविपुलानाम छन्दः इति तदर्थः ।

तविष पु० सौ० तव--“तवेर्णिद्वा” उणा० टिषच् । १ स्वर्गे २ समुद्रे

च “तविषताविषावब्धिं त्रिदिवं चाहतुः क्वचित्” । “३
देवकन्यायां ४ भूमौ ५ नद्याञ्च स्त्री उज्ज्व० टित्त्वात् ङीप् ।
६ वृद्धे ७ महति त्रि० निघण्टुः । ८ शक्तौ ९ व्यपसाये पु०
सि० कौ० १० बलवति च त्रि० । “घनो वृत्राणां तविषो
बभूथ” ऋ० ८ । ९६ । १८ “तविषः प्रवृद्धो बलवान्वा” भा०
“अहं ह्युग्रस्तविषस्तुविष्मान्” १ । १६५ । ६ मेदिन्यां
तवीषेति दीर्घमध्यपाठो लिपिकरप्रमादकृतः ह्रस्वम-
ध्यपाठस्यैव प्रयोगदर्शनात् उणादिसूत्रे तथैव ष्युत्-
पादितत्वाच्च ।

तष्ट त्रि० तक्ष--क्त । १ तनूकृते २ द्विधाकृते, च । ३ ताड़िते ४ गुणिते च ।

तष्टि स्त्री तक्ष--क्तिच् । तक्षणे ।

तष्टृ पु० तक्ष--तृच् । १ त्वष्टरि (छुतार) २ जातिभेदे

३ विश्वकर्म्मणि ४ आदित्यभेदे च रमानाथः ।

तस अलङ्कारे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्

इदित् । तंसयति ते तंसति अततंसत्--त अतंसीत् ।
ततंस “प्रतिजानामीति ते पिता गर्भे मुष्टिमतंसयत्” यजु०
२३ । २४ अवतंसः उत्तंसः । भ्वादित्वपक्षे अस्य आत्मने-
पदित्वं केचिदिच्छन्ति तंसते अतंसिष्ट ।

तस उत्क्षेपे दिवा० पर० सक० सेट् । तस्यति इरित्

अतसत् अतसीत् अतासीत् । ततास तेसतुः । उदित्
तसित्वा तस्त्वा । तस्तः “यस्य तस्य विना षष्ठीं
तेनेति करणं विना” उद्भटः ।

तसर पु० तन्--क्सरन् । (गुटिपोकार सुता) सूत्रभेदे उणा०

तस्कर त्रि० तत् करोति कृ--टच् “तद्वृहतोः

करपत्योः” पा० मुट् दलोपश्च । १ चौरे २ पृक्काशाके
(पिड़िङ्) शाकभेदे पु० रत्नभा० । ३ मदनवृक्षे पु० जटा०
४ श्रवणे “व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता”
रघुः “तस्करः कर्णचौरयोरिति” रघुटीकाधृतकोषा-
न्तरं मल्लिनाथेन तु अस्य न कर्णार्थकतां स्वीचकार
किन्तु तस्य श्लोकस्यार्थान्तरमाह स्म यथा “तस्करता
चौर्य्यं परस्वेभ्यः परधनेभ्यः सविषयभूतेभ्यः व्यावृत्ता
सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता अपहार्य्या-
भावात् तस्करशब्द एव अपहृतः इत्यर्थः” । ५ कोपनायां
नार्य्यां स्त्री शब्दार्थकल्प० टित्त्वात् ङीप् ।

तस्करस्नायु पु० तस्करस्य पृक्काशाकस्येव स्नायुरिव नाड़िका

अस्याः । काकनासालतायाम् राजनि० ।

तस्थिवस् त्रि० स्था--क्वसु । स्थितवति “स पाटलायां गवि

तस्थिवांसम्” “तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधि-
तस्थुषि” रघुः ।

तस्थु त्रि० स्था--बा० कु द्वित्वञ्च । स्थावरे “देहञ्च सर्व-

संघातो जगत् तस्थुरिति द्विधा” भाग० ७ । ७२ । श्लो० ।
पृष्ठ ३२६५

तस्थुस् पु० ब० व० स्था--बा० कुसि द्वित्वञ्च । मानवे निघण्टुः ।

ताक्षण्य पुंस्त्री तक्ष्णोऽपत्यं कारित्वात् ण्य । तक्ष्णोऽपत्ये ।

पक्षे “तक्ष्णोऽण उपसंख्यानम्” पा० अण् षपूर्वत्वादनो-
ऽल्लोपः । ताक्ष्ण तत्रार्थे पुंस्त्री० ।

ताच्छीलिक पु० तच्छीलार्थे विहितः ठञ् । तच्छीलार्थ-

विहिते प्रत्यये । “ताच्छीलिकेषु वा सरूपविधिर्नास्ति” पा०
“ताच्छीलिकेणेऽण् कृतानि भवन्ति” व्या० प० ।

ताच्छील्य न० तत् शीलमस्य तस्य भावः ष्यञ् । नियततत्स्वभावे ।

ताज(जि)क न० नीलकण्ठादिप्रणीते वर्षलग्नज्ञानादिनिरू-

पके ज्योतिषग्रन्थभेदे । “न स्याच्छुभं क्वचन ताज(जि)-
कशास्त्रगीतम्” नील० ता० ।

ताजत् त्रि० तन्ज--सङ्कोचे बा० अदि वृद्धिनलोपौ । शीघ्रे निघण्टुः ।

ताट(ड)ङ्क पु० ताड्यते ताडः पृषो० वा डस्य टः तथाभूतो-

ऽङ्कः चिह्नं यस्य शक० । कर्णभूषणभेदे द्विरूपको० ।

ताटस्थ्य न० तटस्थस्य भावः ष्यञ् । १ औदासीन्ये २ नैकट्ये च

ताड पु० चु० तड--भावे अच् । १ ताड़ने २ गुणने च कर्म्मणि

अच् । ३ शब्दे ४ मुष्टिमेयतृणादौ मेदि० ५ पर्वते हेमच० ।

ता(ट)ड़का स्त्री । राक्षसीभेदे । तस्या उत्पत्तिकथा रामा०

बा० २५ अ० ।
“पूर्वमासीन् महायक्षः सुकेतुर्नाम वीर्य्यवान् । अनपत्यः
शुभाचारः स च तेपे महत्तपः । पितामहस्तु सुप्रीतस्तस्य
यक्षपतेस्तदा । कन्यारत्नं ददौ राम! ताड़(ट)कां नाम
नामतः । ददौ नागसहस्रस्य बलं चास्याः पितामहः ।
न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः ।
तान्तु बालां विवर्धन्तीं रूपयौवनशालिनीम् । जम्भ
पुत्राय सुन्दाय ददौ भार्य्यां यशस्विनीम् । कस्य
चित्त्वथ कालस्य यक्षी पुत्रं व्यजायत । मारीचं नाम
दुर्धर्षं यः शापाद्राक्षसोऽभवत् । सुन्दे तु निहते
राम! अगस्त्यमृषिसत्तमम् । ता(ट)ड़का सह पुत्रेण
प्रधर्षयितुमैच्छत । भक्षार्थं जातसंरम्भा गर्जन्ती
साभ्यधावत । आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवा-
नृषिः । राक्षसत्वं भजस्वेति मारीचं व्याजहार
सः । अगस्त्यः परमामर्षस्ता(ट)ड़कामपि शप्तवान् ।
पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपं
विहायाशु दारुणं रूपमस्तु ते । सैषा शापकृता-
ऽमर्षा ता(ट)ड़का क्रोधमूर्च्छिता । देशमुत्सादयत्येन
मगस्त्याचरितं शुभम् । एनां राघव । दुर्वृत्तां यक्षीं
परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपरा-
क्रमाम्” । “ताड़का चलकपालकुण्डला” रघुः ।
“तां ताड़काख्यां निजघान रामः” भट्टिः ।

ताड़काफल न० तारकेव फलमस्याः रस्य ड । वृहदेलायां रत्नमा० ।

ताड़कारि पु० ६ त० । रामचन्द्रे तस्य ताड़काहननकथा ।

रामा० अयो० २६ अ० । “तामापतन्तीं वेगेन विक्रान्ता-
मशनीमिव । शरेणोरसि विव्याध पपात च ममार च” ।

ताड़केय पु० ताड़काया अपत्यम् ढक् । मारीचे “मारीचः

सुन्दपुत्रश्च ताड़कायां व्यजायत” हरिवं ३ अ० ।

ताड़कायन पु० विश्वामित्रपुत्रभेदे । “महानृषिश्च कपिल-

स्तथर्षिस्ताड़कायनः” भा० आनु० ४ अ० । विश्वामित्र
पुत्रकथने ।

ताड़घ पु० तालं हन्ति हन + टक् नि० उप० स० । तालवादके

शिल्पिभेदे अशिल्पिनि तु अण् । ताड़घात इत्येव ।

ताड़न न० चु० तड--भावे ल्युट् । १ आघाते । “लालने बहवो

दोषास्ताड़ने बहवो गुणाः” चाणक्यम् । “अवतंसोत्
पलताड़नानि वा” कुमा० । २ दीक्षाङ्गे दीक्षणीय-
मन्त्रसंस्कारभेदे च । “मन्त्रवर्णान् समालिख्य ताड़येच्च-
न्दनाम्भसा । प्रत्येकं वायुना मन्त्री ताड़नं तदुदाहृतम्”
शार० ति० । वायुना यंवीजेन । ३ गुणने च ।

ताड़नी स्त्री ताड्यतेऽनया ताड़ि--करणे ल्युट् ङीप् ।

अश्वादेस्ताड़नसाधने कशायां (चावुक) अमरः ।

ताड़पत्र न० तालस्य पत्रमिव लस्य डः । कर्णभूषणभेदे

ताड़ङ्गे हेमच० ।

ताड़ाग त्रि० तड़ागे भवम् अण् । तड़ागभवे जलादौ अप्सु

स्त्री “ताड़ागं वातलं स्वादु कषायं कटुपाकि च ।
हेमन्ते सारसं ताड़ागं वा सेवेत” सुश्रुतः ।

ताड़ि स्त्री चु० तड़ इन् । (ताड़ियात) १ पत्रप्रधाने वृक्षे

भरतः वङीप् तत्रार्थे स्त्री मेदि० । ३ आभरणभेदे
दुर्गसिंहः । “प्रक्रीड़ितचपलकपिलकपिकुलकरतल
ताड़नतरलितताड़ीपुटैः” काद० ।

ताडुल पु० चु० तड़--उल । ताड़के संक्षिप्तसा० ।

ताड्यमान त्रि० चु० तड़--कर्मणि शानच् । १ ताडनकर्मणि

“श्रोतुर्वितन्त्रीरिव ताड्यमाना” कुमा० । २ पटहे पु०
त्रिका० ।

ताण्ड न० तण्डिना मुनिना कृतम् अण् । नृत्यशान्ते ताण्डवशब्दे दृश्यम् ।

ताण्डव न० तण्डिकृतं ताण्डं नृत्यशास्त्रं तत् प्रतिपादक-

तयास्त्यस्य व, तण्डुना (नन्दिना) प्रोक्तम् अण् इति
क्षीरस्वामी । नृत्ये अमरः “पुंनृत्यं ताण्डवं प्रोक्तं
पृष्ठ ३२६६
स्त्रीनृत्यं लास्यमुच्यते” शब्दार्थचि० धृतवाक्योक्ते २
पुंनृत्ये च “गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे
शूलपाणेः” मालतीमा० । २ उद्धतनृत्ये ३ तृणभेदे च मेदि० ।

ताण्डवतालिक पु० ताण्डवे तालस्तद्दानं शिल्पमस्य ठञ् ।

शिवद्वारपालके नन्दीश्वरे त्रिका० ।

ताण्डवप्रिय पु० ताण्डवं प्रियमस्य । १ शिवे शब्दमां० २ नृत्यप्रियमात्रे त्रि० ।

ताण्डवित त्रि० ताण्डव + कृतौ ञि कर्म्मणि क्त । नर्त्तिते ।

“अतिप्रांशुवंशकाण्डताण्डवितधौतसितसूक्ष्माम्बरसह-
स्रम्” “विकटललाटतटताण्डवितभ्रूकुटिना क्रुद्धेन
महामोहेन” प्रबोधच० ।

ताण्डिन् पु० ब० व० । ताण्ड्येन प्रोक्तमधीयते वैशम्पायना-

न्तेवासित्वात् इनि--यलोपः । तण्डिमुनिपुत्रताण्ड्य
प्रोक्तशाखाध्यायिषु । तस्य छात्रः अण् संयोगपूर्वाकेनो
न टिलोपः । ताण्डिन तस्य छात्रे । स च यजुर्वेदस्य
कल्पसूत्रकर्त्ता तण्डिशब्दे ३२०७ पृ० दृश्यम् ।

ताण्ड्य पु० तण्डिमुनेरपत्यम् गर्गा० यञ् । तण्डिमुनेर-

पत्ये स्त्रियां ङीष् यलोपः । ताण्डी ।

तात पु० तन--क्त दीर्घश्च । पितरि अमरः । “ईषदी-

षदनधीतविद्यया तातमातृमुदमाविवर्द्धयन्” कुसुमाञ्जलौ
हरिदासः “हा तातेति क्रन्दितमाकर्ण्य विषण्णः” रघुः ।
२ अनुकम्प्ये मेदि० । “नाहंगृह्णामि वस्ताता! दृष्टीर्नास्मि-
रुषान्विताः” भा० आ० १७९ अ० । “स तात इति
विप्रर्षिं वशिष्ठं प्रत्यभाषत । मातुः समक्षं कौन्तेय!
अपश्यन्त्याः परन्तप! । तातेति परिपूर्णार्थं तस्य तन्मधुरं
वचः । अपश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह ।
मा तात! तात! तातेति ब्रूह्येनं पितरं पितुः ।
रक्षसा भक्षितस्तात! तव तातो वनान्तरे । मन्यसे
यन्तु तातेति नैष तातस्तवानघ! । आर्य्य एष पिता
तस्य पितुस्तव यशस्विनः” भा० आ० १७८ अ० “ज्येष्ठ-
स्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः” भा० आ०
२३२ अ० । ३ पूज्ये त्रि० शब्दरत्ना० । “तस्मान्मुच्ये यथा
तात! संविधातुम् तथार्हसि” रघुः । पूज्यं वसिष्ठं प्रति
दिलीपसम्बोधनम् ।

तातगु पु० तातस्येव गौर्वाचकशब्दो यस्य गवान्तत्वात्

गौण्ये ह्वस्वः । पितुर्भ्रातरि पितृष्ये । २ जनकहिते
शब्दार्थचि० त्रि० ।

ताततुल्य पु० ३ त० । पितृसमाने हेमच० । तातसमादयोऽप्यत्र

तातन पुंस्त्री तातं प्रशस्तं नृत्यति नृत--ड । खञ्जनखगे

त्रिकाण्डशेषः स्त्रियां जातित्वात् ङीष् तातनी ।

तातल पु० तापं लाति ला--क पृषो० । १ रोगे २ पाके ३

लौहकूटे ४ मनोजवे च० मेदि० । ५ तप्तमात्रे त्रि० अजयपालः ।

ताति पु० ताय--क्तिच् । १ पुत्रे जटाधरः । ताय--भावे क्तिन् ।

२ वृद्धौ स्त्री “तदत्रभवता निष्पन्नाशिषां काममरिष्टतातिम्
आशास्महे” वी० च० । तातिल्प्रत्ययान्तः अरिष्टताति
शब्दैत्यन्ये ।

तात्कालिक त्रि० तस्मिन् काले भवः काश्या०

आपदादिपूर्वकात्कालान्तात् ठञ् ञिठ् वा । तत्कालभवे
तत्र ठञि स्त्रियां ङीप् ञिठि टाप् इति भेदः “कर्त्तु-
स्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः” शु० त० शङ्खः ।
“भवेत् तात्कालिको ग्रहः” ज्यो० । तात्कालिकस्वरच-
क्रम् चक्रशब्दे दृश्यम् “अहर्गणोत्पन्नग्रहस्य तात्का-
लिकत्वात्” सू० सि० रङ्गना० ।

तात्पर्य्य न० तत्परस्य भावः ष्यञ् । १ वक्तुरिच्छायाम्,

२ अभिप्राये ३ तत्परतायाञ्च । तात्पर्य्यशब्दार्थनिरूपणेन
तात्पर्य्यज्ञानस्य शाब्दवोधजनकत्वमनुमानचि० समर्थितं
यथा “तात्पर्य्याधीनं शब्दप्रामाण्यम् । तत्र तत्परत्वं न
तत्साध्यकत्वम् । पदार्थतत्संसन्धयोः शब्दासाध्य-
त्वात् । अथ तद्गोचरप्रवृत्तिनिवृत्तिसाध्यकत्वं तत्परत्वं
तच्च भव्यार्थस्य साक्षात्, भूतार्थस्य तु प्रशंसानिन्दावाक्यस्य
प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारा लाक्षणिकस्य
लक्षणीयविषयप्रवृत्तिनिवृत्तिजनकत्वेन तत्परत्वमिति चेत्
न तत्परत्वेऽङ्गीकृते तज्ज्ञानं जनयित्वा तत्र प्रवर्त्तकत्वं
तत्प्रवर्त्तकत्वे च तत्परत्वमिति परस्पराश्रयात् लाक्ष-
णिकस्याननुभावकत्वेऽपि लक्षणीयपरत्वात् काव्यादेः
स्वरूपाख्यानमात्रपर्य्यवसानाच्च । ननु तद्बुद्धिज-
नकत्वं तत्परत्वं प्रशंसानिन्दावाक्यमपि प्रशस्तनिन्दित-
स्वार्थधीहेतुत्वेन तत्परार्थकं तच्च ज्ञानं प्रशस्ते सर्वः
प्रवर्त्तते निन्दिताच्च निवर्त्तत इति स्वविषये प्रवृत्तिनि-
वृत्ती जनयतीति तत्परमुच्यत इति चेत् न गौणलाक्ष-
णिकयोरननुभावकत्वात् । तद्बुद्धिजनने तत्परत्वमित्य-
न्योन्याश्रयाच्च तज्जननयोग्यत्वमिति चेत् तथैकत्रोच्चा-
रणेन नानार्थे नानार्थपरत्वं लक्षणायाञ्च तुल्यार्थपरत्वं
स्यात् योग्यतासत्त्वात् नापि तत्प्रतिपदाद्यकत्वं तात्प-
र्य्यं विना न तथेत्यन्योन्याश्रयात् प्रशंसादिवाक्यस्य प्रवृ-
त्त्याद्यप्रतिपादकत्वात् लाक्षणिकस्याप्रतिपादकत्वाच्च ।
अथ गङ्गापदं स्वार्थाविनाभावे तीरं प्रतिपादयत् तत्पर-
पृष्ठ ३२६७
मिति चेत् न मञ्चाः क्रोशन्तीत्यत्र तेन विनापि पुरुषे
तात्पर्य्यात् गङ्गादिपदं मत्स्यादिपरं मुख्यतीरपरञ्च स्यात्
अविनाभावस्य तदेव स्यात् मुख्ये बाधके सतीति चेत् ।
तर्हि मुख्यार्थपरतैव न स्यात् । मापि गच्छ गच्छसी-
त्यत्र गमनाभावपरत्वम् । उच्यते । तत्प्रयोजनकत्वं
तत्परत्वं तदर्थप्रतीतिः प्रवृत्तिनिवृत्ती च । प्रयोजनत्वञ्च
न साध्यत्वं अन्योन्याश्रयात् नापि प्रतिपाद्ये स्वविष-
यत्वं यस्य यदिच्छाविषयस्तं प्रति तत्परत्वापत्तेः तदर्थ-
साध्यसाधनत्वेनेच्छानियम इति चेत् । न इह धूम इत्यत्र
जन्यज्ञाप्यभेदेन साध्यस्य वस्तुभेदतया वाक्यभेदप्रसङ्गात्
पुभिच्छाया नियन्तुमशक्यत्वात् । किन्तु प्रतिपादकेच्छाविष-
यत्वं तत्परत्वं यः शब्दो वक्त्रा यदिच्छया प्रयुक्तः स
तत्परः सा च प्रतिपाद्यधोः प्रवृत्तिनिवृत्तिविषययोः
तत्परत्वं नानार्थात् श्लिष्टादनेकपदार्थान्वितैकक्रियाप-
रान्मुख्यसाक्षणिकपदादनावृत्त्या क्रमेणानेकार्थज्ञानं, न
त्वेकदैव सकृदर्थपरत्वनियमेनैकत्रोच्चारणेऽनेकपरत्वाभावा-
दिति सकलतान्त्रिकैकबाक्यतया वदन्ति तत्र ब्रूमः ।
अनेकार्थप्रतीतीच्छयैकमुच्चारणं भवत्येव पुमिच्छाया
नियन्तुमशक्यत्वात् यदि तदुच्चारणमेकार्थपरं तदा आवृत्ति-
रपि न स्यात् तात्पर्य्यनिर्वाहार्थमावृत्तिकल्पनात् ।
अन्यथैकपरेऽपि तदापत्तेः । अतएव तदुच्चारणस्योभयपर-
तायामावृत्तिकल्पनं, तस्मात्तुल्यवदनेकार्थोपस्थितौ तात्प-
र्य्यादिज्ञाने युगपदनेकान्वयबोधो भवत्येव सामग्र्यास्तु-
ल्यत्वात् प्रथममेकस्यान्वयबोधो न तदन्यस्येति नियन्तु-
मशक्यत्वाच्च” ।
“आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य्यं परिकीर्त्तितम्” भाषा०
“तात्पर्य्यं निर्वक्ति वक्तरिच्छेति । यदि तात्पर्य्यज्ञानं
कारणं न स्यात् तदा सैन्धवमानयेत्यादौ क्वचिदश्वस्य
क्वचिल्लवणस्य बोधो न स्यात् । न च तात्पर्य्यग्राहक-
प्रकरणादीनामेव शाब्दवोधे कारणत्वमस्त्विति । तात्-
पर्य्यज्ञानजनकत्वेन तेषामगुगमे तु तात्पर्य्यज्ञानमेव
लाघवात् कारणमस्तु । इत्यञ्च वेदस्थलेऽपि तात्पर्य्य-
ज्ञानार्थमीश्वरः कल्प्यते । न च तत्राध्यापकतात्पर्य्य-
ज्ञानं कारणभिति वाच्यम् सर्गादावध्यापकाभावात्
न च प्रलय एव नास्तीति कुतः सर्गादिरिति वाच्यम्
प्रलयस्यागमप्रतिपाद्यत्वात् । इत्यञ्च शुकवाक्येऽपि ईश्व-
रीयतात्पर्य्यज्ञानं कारणम् । विसंवादिशुकवाक्ये तु
शिक्षयितुरेव तात्पर्व्यस्य ज्ञानं कारणम् । अन्ये तु
नानार्थादौ क्वचिदेव तात्पर्य्यज्ञानं कारणम् । तथा च
शुकवाक्ये विनैव तात्पर्य्यज्ञानं शाब्दवोधः । वेदे तु
अनादिमीमांसापरिशोधिततर्क्वैरर्थावधारणमित्याहुः । मुक्ता०
“ननु मामूदाप्तोक्तत्वस्य निश्चयानुरोधेन सिद्धसाधनं
तात्पर्य्यस्य तु स्यात् तन्निश्चयस्यान्वयधीहेतुत्वात् अन्यथा
घटकर्म्मत्वादिपरत्वाभावस्य घटकर्म्मत्वाद्यन्यमात्रपर-
त्वस्य वा निश्चयेऽपि घटमित्यादिवाक्यात् कर्म्मत्वं
घटीयमित्याद्यन्वयबोधापत्तेरिति चेन्न कर्म्मताधर्म्मि-
कघटाद्यन्वयधीपरत्वाभावनिश्चयदशायां प्रमेयत्वादि
प्रकारेण घटकर्म्म त्वादिपरत्वस्य निश्चयेऽपि घटीयं कर्म्म-
त्वमित्यन्वयमतेरनुत्पत्त्या कर्म्मताधर्म्मिकघटान्वयबोध-
परत्वप्रकारकनिश्चयत्वेनैव तात्पर्य्यधियस्तस्यां कारण-
त्वेन वाक्यार्थस्य तत्रानिवेशात् । वस्तुतः समानानु-
पूर्वीकस्यैव वाक्यान्तरस्य तस्यैव वा कालान्तरमन्तर्भाव्य
घटीयकर्म्मत्वादिपरत्वनिश्चयसत्त्वेऽपि श्रूयमाणवा-
क्यव्यक्ताविदानीमन्तर्भावेण तत्परत्वस्यानिश्चयेऽभावे वा
घटीयं कर्म्मत्वमित्याद्यन्वयमतेरनुत्पादाद्विशिष्यैव
तत्तद्वाक्यव्यक्तिधर्म्मिकस्य घटकर्म्मत्वादिपरत्वनिश्च-
यस्य तत्तदन्वयबोधहेतुत्वमुपेयं तथा च तत्तद्धेतुभू-
तानां प्रकरणज्ञानाभिधानामेव विज्ञानव्यक्तीनान्तथा-
त्वमुचितम् अवश्यं कॢप्तपूर्ववर्त्तिताकत्वात् । अतएव
सैन्धवमानय इत्यादावपि लवणपरत्वधीर्न लवणाद्य-
न्वयबुद्धौ हेतुः किन्तु तदर्जकत्वेनाभिमतं भोजना-
दिप्रकरणस्य प्रतिसन्धानमिति न्यायसिद्धान्तः” शब्द० प्र० ।

तादर्थ्य न० तदर्थ + चतुर्व० ष्यञ् । तदुद्देश्यकत्वे ।

तादात्म्य न० तदात्मनोभावः ष्यञ् । अभेदे तदात्मशब्दे दृश्यम् ।

तादीत्ना अव्य० तदानीम् + पृषो० । तदानीमित्यर्थे “आत्सूर्य्य

जनयन् द्यामुषासं तादीत्ना शत्रुम्” ऋ १ । ३२ । ४
“तादीत्ना तदानीमित्यस्य पृषीदरादित्वाद्वर्णविपर्य्ययः ।

तादृक्ष त्रि० तस्येव दर्शनमस्य तद् + दृश--क्स सर्वनामटेर-

त्त्वम् उप० स० । तत्तुल्यदर्शने ।

तादृश त्रि० तस्येव दर्शनमस्य तद् + दृश--ट उप० स० । तत्तुल्य-

दर्शने “क्व तद्विधं प्रेम पतिश्च तादृशः” कुमा०
“निजुह्नुवे तादृशमेव वृंहितम्” माघः । स्त्रियां
ङीप् । “यादृशी भावना यस्य सिद्धिर्भवति तादृशी”
उद्भटः ।

तादृश् त्रि० तस्येव दशनमस्य तद् + दृश--क्विप् उप० स० ।

तत्तुल्ये “तादृग्गुणा सा भवति समुद्रेणेव निम्नगा”
“तादृग्रोहति तत्तस्मिन् वीजं स्वैर्व्यञ्जितं गुणैः” मनुः ।