वाचस्पत्यम्/ज्ञानयज्ञ

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३१५५

ज्ञानयज्ञ पु० ज्ञानं यज्ञ इवास्य । तत्त्वज्ञे । “ब्रह्माग्नायपरे

यज्ञं यज्ञेनैवोपजुह्वति” इति वाक्येन तत्त्वक्षानस्य यज्ञ०
रूपत्वमुक्तम् । अस्यार्थैः । अपरे कर्मयोगिनो विलक्षणा
संन्थासिनः ब्रह्म तत्पदार्थः अग्निरिव होमाधारत्वात्
तस्मिन् यज्ञं प्रत्यगात्मानं त्वम् पदार्थं यज्ञेनात्मनैव उपजुह्वति
त्वंषदार्थाभेदेनेव ततस्वरूपतया पश्यन्तीत्यर्थः । “महापा-
पवतां नणां ज्ञानयज्ञो न रीचते । प्रत्युत ज्ञानयज्ञे तु
प्रद्वेषो जायते स्वतः” शब्दार्थचि० धृतवाक्यम् ।

ज्ञानयोग पु० युज्यते ब्रह्मणाऽनेन युज--करणे घञ् ज्ञान-

मव योगः । ब्रह्मप्राप्तिसाधने ज्ञानार्थनिष्ठाभेदे । “लोके-
ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ! ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्” गीता ।

ज्ञानलक्षणा स्त्री ज्ञानं ज्ञानभेदो लक्षणं स्वरूपं यस्याः ।

न्यायमते अलौकिकप्रत्यक्षसाधने सन्निकर्षभेदे उपनय-
शब्दे १२१५ पृ० विवृतिः । मथुरानाथेन तु अन्यथैव
सामान्यलक्षणाज्ञानलक्षणयोर्भेदो दर्शितः यथा
“न च सामान्यप्रकारकज्ञानस्यैव सामान्यलक्षणात्वे ज्ञान-
लक्षणासाभान्यलक्षणयोः कार्य्य कारणभावे को भेदः इति
वाच्यं कारणतावच्छेदकभेदेन कार्य्यतावच्छेदकभेदेन
च भेदात् । सामान्यलक्षणायाः कार्य्यकारणभावास्तु
तत्तत्सम्बन्धावच्छिन्नघटत्वादिप्रकारिताशालिज्ञानत्वेन,
स्वरूपतस्तत्सम्बन्धावच्छिन्नघटत्वादिप्रकारिताकतत्तत्सम्ब-
न्धावच्छिन्नघटत्वाद्याश्रयताशालिमुख्यविशेष्यकप्रत्यक्षत्वेन,
यावत्त्वस्य कार्य्यतावच्छेदकाघटकत्वेऽपि विनिगमना-
विरहेण सकलघटभानम् । समवायसम्बन्धेन घटत्व-
प्रकारकज्ञानानन्तरं कालिकादिसम्बन्धेन घटत्वादिप्रका-
रकनिखिलघटविषयकप्रत्यक्षस्य समवायसम्बन्धेन घटत्व-
प्रकारेण घटत्ववतः कालादेः प्रत्यक्षस्य च वारणाय
सम्बन्धान्तर्भावः । घटत्वादिप्रकारकज्ञानं विनापि द्रव्य
त्वादिसामान्यलक्षणया जायमाने द्रव्यत्वादिप्रकारक
घटादिमुख्यविशेष्यकप्रत्यक्षे व्याभचारवारणाय कार्य्यता-
वच्छेदके घटत्वादिप्रकारिताकेति । प्रकारित्वञ्चालौकिकं
ग्राह्यं तेन घटत्वादिपकारकज्ञानं विनापि द्रव्यत्वादि-
विशिष्टबुद्ध्यात्मकघटत्वादिनिर्विकल्पकोत्तरं द्रव्यत्व
सामान्यलक्षणया जायमाने यावद्घटविशेष्यकप्रत्यक्षे-
ऽलौकिकसन्निकर्षमर्य्यादया घटत्वप्रकारकं ग व्यभिचारः ।
न च तथापि कालिकादिसम्बन्धेन स्वरूपतो घटत्वादि-
प्रकारकतुद्ध्यात्मकगवादिविशेष्यकसमवायसंसर्गकद्रव्यत्व-
प्रकारकस्मरणोत्तरं द्रव्यत्वसामान्यलक्षणया
जायमाने याबद्धटमुख्यविशेष्यकप्रत्यक्षे उपनयमर्य्यादया
समवायसम्बन्धेन स्वरूपती घटत्वप्रकारके व्यभिचार
इति वाच्यम् । यथोक्तकार्य्यकारणभावस्यैव बाधक-
त्वेन तत्र समवायसम्बन्धेन घटत्वस्याप्रकारत्वात् ।
घटत्वप्रकारकज्ञानं विनाऽपि जातित्वरूपेण गोत्वादि-
जात्यन्तरप्रकारकज्ञानाद् जायमाने जातिस्वरूपेण
घटत्वादिनिखिलजातिप्रकारकनिखिलजात्याश्रयप्रत्यक्षे
व्यभिचारवारणाय स्वरूपत इति घटत्वादिप्रकारि-
ताविशेषणं यथोक्तकार्यकारणभावस्यैव बाधकत्वेन तत्र
कथञ्चिदपि स्वरूपतो घटत्वादेरप्रकारत्वात् । कालिक-
सम्बन्धेन स्वरूपतो घटत्वादिप्रकारकस्मरणादितो
जायमाने विशेष्ये विशेषणमिति रोत्या समवायसम्बन्धे न
घटादिप्रकारकधटवदित्याद्युपनीतभाने व्यभिचारवारणाय
मुख्यविशेष्यत्वप्रवेशः । उपनीतभाने च घटो न मुख्यविशेष्यः
बहिरिन्द्रियस्थले उपनीतं विशेषणतया भासते इति
नियमात् । मुख्यविशेष्यत्वमप्यलौकिकं ग्राह्यं तेन कालि-
कसम्बन्धेन स्वरूपतो घटत्वादिस्मरणलौकिकसन्निकर्षाभ्यां
जायमाने लौकिकालौकिकोभयघटत्वप्रकारिताशाल्ययं
घट इति घटमुख्यविशेष्यकलौकिकप्रत्यक्षे न व्यभिचारः ।
अथ तथापि कालिकसम्बन्धेन स्वरूपतो घटत्वप्रकारक-
स्मरणाज्जायमाने समवायसम्बन्धेन घटत्वप्रकारकमुख्यवि-
शेष्यकमानसोपनीतभाने व्यभिचारो मानसोपनीतं विशेष-
णतयैव भासत इति नियमाभावात् तत्र कालिकसम्बन्धेन
घटत्वप्रकारेण प्रत्यक्षं न तु समवायसम्बन्धेन घटत्वप्रका-
रकमित्युक्तावपि घटवदिति घटादिस्मरणोत्तरं जायमाने
परम्परासम्बन्धेन घटत्वप्रकारकमानसोपनोतभाने व्यभि-
चारो दुर्वारः तदनभ्युपगमे तादृशस्मरणोत्तरं निखिल-
घटाश्रयसाक्षात्कारानुपपत्तेः द्रव्यत्वप्रकारकज्ञानस्याऽप्र-
त्यासत्तित्वात् इति चेन्न लाघवात् यथोक्तरूपेण कार्य-
कारणभावकल्पने यथोक्तमानसे घटादिर्न मुख्यविशेष्यः
किन्तु चक्रव्यूहवत् घटत्वपुटितो भवन्नेव भासत इत्येव
कल्प्यते यथोक्तकार्य्यकारणभावस्यैव बाधकत्वात् तत्तदुप-
नीतभानान्यत्वप्रवेशे गौरवात् सर्वत्रैव मानसोपनीतभाने
उपनीतं अवश्यं मुख्यविशेष्यतया भासते इति नियमा-
भावात् । असति बाधक एव मानसोपनीतस्य प्रकारत्व-
विशेष्यत्वलक्षणद्विविधविषयत्वाभ्युपगमात् । एवं स्वण्ठ-
शो दण्डपुरुषोभयविषयकसमूहालम्बनस्मरणानन्तरं जा-
पृष्ठ ३१५६
यमाने दण्डप्रकारकदण्डाश्रयप्रत्यक्षेऽपि पुरुषो न दण्डांशे
मुख्यविशेषतया भासते अपि तु चक्रव्यूहवत् दण्ड-
पुटितः पुरुषः पुरुषपुटितश्च दण्डो भसते इति कल्प्यते ।
न च तथापि योगजधर्माधीनविशिष्टज्ञानं प्रति विशेषण-
ज्ञानस्याहेतुत्वनये सामान्यज्ञानं विनाऽपि जायमाने सामा-
ष्यप्रकारकसामान्याश्रयमुख्यविशेष्यकप्रत्यक्षे व्यभिचारः ।
गोन्धजविशिष्टज्ञानं प्रति विशेषणज्ञानस्य हेतुत्वनयेऽपि
धोनजधर्मेण सामान्यतदाश्रये उभयविषयकनिर्विकल्पकं
त्त्वनयित्वा जनिते सामान्यप्रकारकभामान्याश्रयमुख्यवि-
शेष्यकप्रत्यक्षे व्यभिचार इति वाच्यं योगजधर्मजन्यता-
वच्छेदकतज्जात्यवच्छिन्नान्यत्वेन प्रत्यक्षविशेषणात् ।
तादृशयोगजज्ञाने सामान्याश्रयमुख्यविशेष्यतया भाने
मानाभावाच्च । अपि च चक्रव्यूहवत् स्वप्रकारीभूतसा-
मान्ये प्रकारीभूयैव भासते लाथवात्तथैव कल्पनात् । अत
एव कालिकादिसम्बन्धेन स्वरूपतो घटत्वस्मरणानन्तरं
विशेष्ये विशेषणमिति रीत्या कालिकादिसम्बन्धेनैव
घटत्वप्रकारकं घटवदित्याकारकोपनीतभानं जायते न तु
समवायसम्बन्धेन घटत्वप्रकारकैत्युक्तावेव व्यभिचार-
वारणस्सम्भवात् किं जात्यादिसामान्यलक्षणायाः कार्य-
तावच्छेदके स्वरूपतः प्रकारताघटितमुख्यविशेष्यत्व-
प्रवेशेन । न च तथाप्यत्र घटत्वमिति घटत्वविशेष्यकस्मर-
णोत्तरं जायमाने विशेष्ये विशेषणमिति रीत्या
घटवदिदमित्याद्युपनीतभाने व्यभिचारवारणाय तदवश्यं
निवेशनीयमिति वाच्यं स्वरूपतो घटत्वविशिष्टबुद्धिं प्रति-
स्वरूपतो विशेषणीभूतघटत्वविषयकज्ञानस्य हेतुतया
तादृशस्मरणोत्तरं तादृशोपनीतभानासम्भवात् घटत्वत्व-
घटकतयैव स्वरूपतो घटत्वज्ञानाभ्यु पगमेन व्यभिचार-
स्यापि विरहादित्यस्मत्कृतपूर्वपपक्षोऽपि निरस्तः ।
घटवदिति स्मरणोत्तरं जायमाने परम्परासम्बन्धेन घटत्व-
घ्रकारकमानसोपनीतभाने यथोक्तरीत्या योगजधर्मजन्ये
घटत्वप्रकारकघटविशेष्यकप्रत्यक्षे च व्यभिचारवारणाय
तत्प्रवेशस्यावश्यकत्वात् । एतेनाभावत्वाद्यखण्डोषाधिरू-
पसामान्यलक्षणाया अपि कार्य्यकारणभाबो व्याख्यातः
जात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानञ्च न प्रत्यासत्तिरिति
सामान्यपदार्थनिर्वचनावसर एव प्रतिपादितं नन्वेवंरूपेण
कार्यकारणभावे जातित्वरूपेणैकजातिमात्रप्रकारकज्ञाना-
नन्तरं जातित्वावछिन्नजातिप्रकारकनिखिलजात्या एव
प्रत्वक्षं कथं स्पाज्ज्वात्यन्तराश्रयस्य ज्ञानप्रकारीभूतजाति-
व्यक्तेराश्रयत्वाभावात् स्वरूपतो घटत्वादिप्रकारकत्वस्य
कार्यतावच्छेदकत्वाच्चेति चेन्न जातित्वरूपेण जातिप्रका-
रकलौकिकप्रत्यक्षदशायामन्ततो निर्धर्मितावच्छेदकस्यापि
परम्परासम्बन्धेन जातित्वघटकनित्यत्वादिघाटकीभूताभा-
वत्वाद्यखण्डोपाधिपकारकज्ञानस्यावश्यकत्वात् तत एव
सामान्यज्ञानात् जातित्वावच्छिन्नजातिमत्त्वरूपेण निखिल-
जात्याश्रयस्य साक्षात्कारः जात्यन्तराश्रयस्यापि परम्परा-
तम्बन्धेन तदाश्रयत्वात् । यत्र जातित्वरूपेण क्यत्किचुत्
जातिप्रकारकशाब्दस्मृत्यादिधीस्तत्रापि मध्ये परम्परा-
सम्बन्धेन ध्वं सत्वादिप्रकारकमानसोपनीतभानानन्तरमेव
जातिमतः सर्वस्य प्रत्यक्षाभ्यु पगमात् क्षणविलम्बे क्षति-
विरहात् । न च पम्परासम्बन्धेन ध्वं सत्वादिकज्ञान-
स्यैव तत्प्रयासत्तित्वे ध्वं सत्ववदित्येव तज्ज्ञानं स्यात्
न तु जातिमदिति सामान्यप्रकारज्ञानस्य मुख्यविशेष्ये
सामान्यप्रकारकज्ञानकत्वनियमादिति वाच्यं विशेषण-
ज्ञानार्थं जातित्वघटकसामान्यलक्षणायाः मध्ये
सकलजातिविशेष्यकज्ञानस्यावश्यकत्वात् ज्ञानलक्षणयैव जाति-
मदिति फलस्यापि सम्भवात् द्विविधविषयैस्यवेष्टत्वात् । एवं
तद्व्यक्तित्वादिरूपेण घटत्वादिज्ञानानान्तर जायमाने तत्त-
द्व्यक्तित्वरूपेण घटत्वादिप्रकारकत दाश्रयप्रत्यक्षेऽपि
परम्परासम्बन्धेन तद्यक्तित्वप्रकारकज्ञानमेव प्रत्यासत्तिरतो
घटत्वादिसामान्यलक्षणायाः कार्यदिशि तदसंग्रहो न
दोषाय इति भट्टाचार्य्यानुयायिनः” ।
“ज्ञानलक्षणायाः कारणतावच्छेदकन्तु सामान्यतः
संसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञानत्वं घटत्वादि-
प्रकारकज्ञानादिव घटत्वादिविषयकज्ञानादपि घटत्वादि
प्रकारकोपनीतभानोदयात् । विनश्यदवस्थलौकिकसन्निकर्ष-
जन्यघटघटत्वादिनिर्विकल्पकानन्तरमपि घटत्वादिप्रकार-
कप्रत्यक्षापत्तिवारणाय संसर्गावच्छिन्नेति विषयताविशेष-
णम् । केचित्तु ज्ञानलक्षणायाः सप्रकारकघटघटत्वादिज्ञा-
नत्वं कारणतावच्छेदकं न चैवं विनश्यदवस्थलौकिकसन्निक-
र्षजन्यद्रव्यत्वादिविशिष्टबुद्ध्यात्मकघटत्वादिनिर्विकल्पकादपि
प्रत्यक्षापत्तिरितिवाच्यम् इष्टत्वात् सर्वांशे निर्विकल्पकस्यैव
प्रत्यासत्तित्वानभ्यु पगमादित्याहुस्तदसत् तथापि सर्बांशे
निर्विकल्पकादपि इष्टापत्तेः सुकरतया कारणतावच्छेदके
सप्रकारकत्वस्य उपादानस्यवैवर्थ्यात् । सविशेष्यकत्वसंसर्ग-
कविषयतताशालित्वमादाय विनिगमनाविरहेण कार्य्य-
कारणभावस्यापत्तेः । ज्ञानलक्षणायाः कार्य्यतावच्छेद-
पृष्ठ ३१५७
कन्तु घटत्वादिप्रकारकप्रत्यक्षत्वं घटत्वादिज्ञानं विनापि
जायमाने सामान्यलक्षणाजन्यघटादिमुख्यविशेष्यकप्रत्यक्षे-
व्यभिचारवारणाय विषयत्वमपहाय प्रकारिताप्रवेशः ।
प्रकारिता चालौकिकी ग्राह्या तेन निर्विकल्पकजन्यप्राथ-
मिकतद्विशिष्टलौ किकप्रत्यक्षे न व्यभिचारः । न चैवं ज्ञान-
लक्षणासन्निकर्षो लौकिकसन्निकर्षद्वयमेव यत्र वर्त्तते तत्र
कोदृक् ज्ञानं स्यादिति वाच्यं तत्र लौकिकालौकिकोभय-
तत्प्रकारिताकज्ञानस्यैव उत्पत्तेः बिषयतायाः साङ्कर्य्य-
खादोषत्वात् । न च तत्प्रकारकज्ञानं विनापि जायमाने
योगजधर्मजतत्प्रकारकप्रत्यक्षे व्यभिचार इति वाच्यं
योगजधर्मजन्यतदवच्छेदकतज्जात्यवच्छिन्नान्यत्वेन प्रत्यक्ष-
विशेषणात् तत्प्रकारकज्ञानं, विना योगजधर्मेणापि
तत्प्रकारकप्रत्यक्षजनात् योगजधर्मस्य निर्विकल्पकाजनक्-
त्वात् । न च चक्षुःसंयोगजन्यनिर्विकल्पकसहकारेण
योगजधर्मजनिते तत्प्रकारकप्रत्यक्षे व्यभिचार इति
वाच्यम् तत्र निर्विकल्पकजनकीभूतचक्षुःसंयोगादि-
सत्त्वे तत्प्रकारकलौकिकप्रत्यक्षस्यैव उत्पत्तेः अलौकि-
कप्रत्यक्षजनकयोगजधर्मसत्त्वेऽपि यथोक्तकार्य्यकारण-
भावस्यैव वाधकत्वेनालौकिकप्रत्यक्षस्यानुत्पत्तेः । न
चैवं निर्विकल्पकोत्पत्तिकाले चक्षुःसंयोगादिनाशे
तन्निर्विकल्पकसहकारेण योगजधर्म्मात्तत्प्रकारक-
साक्षात्कारो न स्यादिति वाच्यम् इष्टापत्तेः । न चैवं
तत्प्रकारकप्रत्यक्ष एव तज्ज्ञानस्य हेतुतया इदं रजतमिति
शुक्तिविशेष्यकमानसभ्रमे शुक्तिज्ञानस्याहेतुतया शुक्ति-
ज्ञानं विनापि तादृशभ्रमापत्तिरिति वाच्यं इदं रजतमिति
शुक्तिविशेष्यकमानसभ्रमस्यापि शुक्तिज्ञानात्मकशुक्तिवि-
शिष्टधीकारणसत्त्वेन यत्र कुत्रचिद्धर्मिणि शुक्तिप्रकारक-
त्वनियमात् । शुक्तिज्ञानविरहस्थले शुक्तिप्रकारकज्ञान-
सामान्यकारणविरहादेव तदभावात् विशेषसामग्रीसहि-
ताया एव सामान्यसामग्र्याः फलोपधायकत्वात् । न चेदं
रजतमिति शुक्तिविशेषय्कमानसभ्रमस्य न शुक्तिप्रकारक-
त्वनियंमः शुक्तिप्रकारकज्ञानप्रतिबन्धकदोषसत्त्वे तत्र
तस्याः योगाप्रकारत्वादिति वाच्यं शुक्तिमुख्यविशेष्य-
कतादृशमानसभ्रमस्थले तादृशदोषे मानाभावात्
लाघवाद्यथोक्तरूपेण ज्ञानलक्षणायाः कार्य्यकारणभाव-
कल्पने फलबलेन तथैव कल्पनात् । न चैवं मातस्योपनी-
तभाने उपनीतस्य गुख्यविशेष्यतया भाने मानाभावः ।
मुख्यविशेष्यकत्वस्य कार्य्यतानवच्छेदकतया सामग्र्यास्तत्र
मानत्वासम्भवात् इति वाच्यं मुख्यविशेष्यत्वस्य कारणानि
यम्यतया वाधकासत्त्व एव मुख्यविशेष्यतया भानसम्भ-
वात्, न चैवं मानसोपनीतभानवत् बहिरिन्द्रियजोपनी-
तभानेऽप्युपनीतस्य प्रकारत्वमुख्यविशेष्यत्वलक्षणद्विविध-
विषयतापत्तिरिति वाच्यं सामान्यलक्षणालौकिकसन्नि-
कर्षन्यातिरिक्तस्य बहिरिन्द्रायिजतत्तन्मु ख्यविशेष्यकप्र-
त्यक्षस्यानुभवासिद्धतया अलीकतथा यावद्घिशेषसामग्री-
बाधादेव तदुबाधात् मानसस्य तत्तदतिरिक्तस्यापि इदं
रजतमित्यात्युपनीतविशेष्यकभ्रमस्य उपनीतशुक्त्यादि-
मुख्यविशेष्यकत्वमनुभवसिद्धमतोनालीकत्वं न च तथापि
घटघटत्वादिनिर्विकल्पकोत्तरं जायमानेऽयं घट इत्यादि-
विशिष्टप्रत्यक्षे घटत्वादेमुर्ख्यविशेष्यत्वापत्तिः लौकिक-
सन्निकर्षरूपविशेषसामग्रीसत्त्वादिति वाच्यम् तथाप्यसति-
बाधके घटाद्यंशे घटत्वादेः प्रकारत्ववन्मुख्यविशेष्यन्व-
स्यापीष्टत्वादिति । केचित्तु संसर्गावच्छिन्नतद्विषयताशालि-
ज्ञानत्वेन कारणता योगजधर्म्माजन्यसामान्यलक्षणाप्रत्या-
सत्त्यजन्यतद्विषयकप्रक्षक्षत्वेन कार्यता तद्विषयता । चालौ-
किकी ग्राह्या तेन तल्लौकिकप्रत्यक्षे न व्यभिचारः: । एवञ्च
तद्विषयकप्रत्यक्षत्वमात्रस्य कार्य्यतावच्छेदकतया इदं
रजतमिति शुक्तिमुख्यविशेष्यकमानसभ्रमोऽपि न शुक्तिज्ञानं
विना बहिरिन्द्रियजोपनीतभाने उपनीतस्य मुख्यवि-
शेष्यत्वनिरासश्चोक्तक्रमेणेत्याहुरिति संक्षेपः ।”
मीमांसकवेदान्तिभिस्तु अस्याः प्रत्यासत्तित्वं नाङ्गीकृतम् ।
यथोक्तं वेदा० प० । “न च ज्ञानं प्रत्यासत्तिः ज्ञानस्य प्रत्या-
सत्तित्वे अनुमानमात्रोच्छेदप्रसङ्गः” इति । अस्यायमा ।
शयः वह्निव्याप्यधूमवान् परवत इति परामर्शात्मकज्ञानस्य
अनुमितिहेतुतायाः सर्वैः स्वीकारात तजज्ञानस्य च
वह्निविषयकत्वेन तदुत्तरं जायमानं वह्निमान् पर्वत इति
ज्ञानमलौकिकप्रत्यक्षमेव स्वान्नानुमितिः न च समानवि-
षयस्थले अनुमितिसामग्र्याः अलौकिकप्रत्यक्षसामग्र्याः
प्रतिबन्धकत्वेन नालौकिकप्रत्यक्षमपि तु अनुमिति-
र्भबिष्यतीति चेन्न तादृशप्रतिबध्यप्रतिबन्धकभावकल्पन-
स्याप्रामाणिकत्वात् । अतएव इदं रजतमिति ज्ञान-
मनिर्वचनीयरजतविषयकं न देशान्तरस्थानुभूतरजतवि
षयकमुपनयमर्य्यादया ज्ञानमिति स्थितम् ।
पृष्ठ ३१५८

ज्ञानवापी स्त्री काशीस्थे वापीरूपे तीर्थभेदे तदाविर्भवादि

कथा काशी० १२ अ० ।
“घटोद्भव! महाप्राज्ञ! शृण पापापनोदिनीम्
ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाऽधुना ।
अनादिसिद्धे संसारे पुरा देवयुगे मुने! । प्राप्तः
कुतशिदीशानश्चरन् स्वैरमितस्ततः । न वर्षन्ति यदाऽभ्राणि
न प्रावर्त्तन्त निम्नगाः । जलाभिलाषो न यदा स्नान-
पानादिकर्म्मणि । क्षीरस्वादूदयोरेव यदासीज्जल-
दर्शनम् । पृथित्यां नरसञ्चारे वर्त्तमाने क्वचित् क्वचित् ।
निर्वाणकमलक्षेत्रं श्रीमदानन्दकाननम् । महाश्मशानं
सर्वेषां वीजाना परमूषरम् । महाशयनसुप्तानां जन्तूनां
प्रतिबोधकम् । संसारसागरावर्त्तपतज्जन्तुतरण्डकम् ।
यातायातातिसंखिन्नजन्तुविश्राममण्डपम् । अनेक
जन्मगुणितकर्मसूत्रच्छिदक्षरम् । सच्चिदानन्दनिलयं
परं ब्रह्म रसायनम् । सुखसन्तानजनकं मोक्षसाधन-
सिद्धिदम् । प्रविश्य क्षेत्रमेतत् स ईशानो जटिलस्तदा ।
लसत्त्रिशूलविमलरश्मिजालसमाकुलः । आलुलोके
महालिङ्गं वैकुण्ठपरमेष्ठिनोः । महाहमहमिकायां
प्रादुरास यदादितः । ज्योतिर्मयीभिर्मालाभिः परितः
परिवेष्टितम् । वृन्दर्वृन्दारकर्षीणां गणानाञ्च
निरन्तरम् । सिद्धानां योगिनां स्तोमैरर्च्यमानं निरन्तरम् ।
गीयमानञ्च गन्धर्वैः स्तूयमानञ्च चारणेः । अङ्गहारै-
रप्सरोभिः सेव्यमानमनेकधा । नीराज्यमानं सततं
नागीभिर्मणिदीपकैः । विद्याधरीकिन्नरीभिस्त्रिकालं
कृतमण्डनम् । अमरीचमरीराजिवीज्यमानमित-
स्ततः । तस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छा ह्यभवत्तढा ।
स्नपयामि महालिङ्गं कलसैः शीतलैर्जलैः । च
स्वान च त्रिशूलेन दाक्षणांशोपकण्ठतः । कुण्डं
प्रचण्डवेगेन रुद्रो रुद्रवपुर्धरः । पृथिव्यावरणाम्भांसि
निष्क्रान्तानि तदा मुने! । भूप्रमाणाद्दशगुणैर्यैरियं वसुधा
वृता । तैर्जलैः स्नपयाञ्चक्रे दुष्पृष्टैरन्यदेहिभिः ।
तुषारैर्जाद्धविनदैर्जंजपूकौ वहारिभिः । सम्भनोभि-
रिवात्यच्छैरनच्छैर्व्योमवत्मेवत् । ज्योत्स्तावदुज्ज्वल-
च्छायैः पावन्ते शम्भु नामवत् । पीयूषवत् स्वादुतरैः
सुश्चस्पर्शैर्गवाङ्गवत् । निष्पापधीरकुम्ज्भीरैस्तरलैः पापि-
शर्म्मवत् । विजिताब्जमहागन्धैः पाटलामोद-
नोदिभिः । अदृष्टपर्वलोकानां मनोनयनहारिभिः ।
अज्ञानतापसन्तप्तप्राणिप्राणैकरक्षिभिः । पञ्चामृतानां
कलसेः स्नपनातिफलप्रदैः । श्रद्धोपस्पर्शिहृदयलिङ्ग-
त्रित्यहेतुभिः । अज्ञानतिमिरार्काभैर्ज्ञानदाननिदा-
नकैः विश्वभर्त्तुरुमास्पर्शमुणातिसुखकारिभिः ।
महावभृथसुस्नातमहाशुद्धिविधायिभिः । सहस्रधाःरै
कलसैः स ईशानो घटोद्धव! । सहस्रकृत्वः स्रपया
मास संहृष्टमानसः । ततः प्रसन्नो भगवान् विश्वात्मा
विश्वलोचनः । तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम् ।
तव प्रसन्नोऽस्मीशान! कर्मणानेन सुवत! । गुरुणानन्य-
पूर्वेण ममातिप्रीतिकारिणा । ततस्त्वं जटिलेशान वरं
ब्रूहि तपोधन! । अदेयं न तवास्त्यत्र महोद्यमपरा-
यण । ईशान उवाच । यदि प्रसन्नोदेवेश! वरयोग्यो-
ऽस्म्यहं यदि । तदेतदतुलं तीर्थं तव नाम्तास्तु शङ्कर ।
श्रीविश्वेश्वर उवाच । त्रैलोक्यां यानि तीर्थानि
भूर्भुवःस्वःस्थितान्यपि । तेभ्योऽखिलेभ्यस्तीर्थेभ्यः
शिवतीर्थमिदं परम् । शिवो ज्ञानमितिब्रूयुः शिवशब्दार्थ-
चिन्तकाः । तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात ।
अतो ज्ञानोदनामैतत्तीर्थन्त्रैलोक्यविश्रुतम् । अस्य
दर्शनमात्रेण सर्वपापैः प्रमुच्यते । ज्ञानोदतीर्थसंस्पर्शा-
दश्वमेधफलं लभेत् । स्पर्शनाचमनाभ्याञ्च राजसूयाश्व-
मेधयोः । फल्गुतीर्थे नरः स्नात्वा सन्तर्ष्य च पिता-
महान् । यत् फलं समवाप्नोति तदत्र श्राद्धकर्मणा ।
गुरुपुष्यसिताष्टम्यां व्यतीपातो यदा भवेत् । तदात्र
श्राद्धकरणाद्गयाकोटिफलं भवेत् । यत् फलं समवाप्नोति
पितॄन् सन्तर्प्य पुष्करे । तत्फलं कोटिगुणितं ज्ञानतीर्थे
तिलोदकैः । सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति ।
यत्फलं पिण्डदानेन तज्ज्ञानोदे दिने दिने । पिण्ड-
निर्वपनं येषां ज्ञानतीर्थे सुतेः कृतम् । मोदन्ते
शिवलोके ते यावदाहूतसंप्लवम् । अष्टम्याञ्च चतुर्दश्यामप-
वार्सीं नरोत्तमः । प्रातः स्नात्वाऽथ पीत्वाम्भस्त्वन्तर्लिङ्ग
मयो भवेत् । एकादश्यामुपोष्याथ प्राशेदु यश्चुलुक-
त्रयम् । हृदये तस्य जायन्ते त्रीणि लिङ्गान्यसंशयम् ।
ईशानतीर्थे यः स्तायाद्विशेषात् सोश्च्रवासरे । सन्तर्प्य
देवर्षिपितॄन् दत्त्वा दानं स्वशक्तितः । ततः समर्च्च्य
श्रीलिङ्गं महासम्भारविस्तरैः । तत्रापि दत्त्वा नाना-
र्थान् कृतकृत्यो भवेन्नरः । उपास्य सन्ध्यां जानोदे यत्
पाप काललोपजम् । क्षणेन तदपाकृत्य ज्ञानवान्
जायते नरः । शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं
शुभम । तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं स्मृतम् ।
स्यरणादपि पापौघा ज्ञानोदे क्षीयते ध्रुवम् । दर्शनात्
स्पर्शनात् स्नानात् पानाद्धर्मादिसम्भवः । डाकिनी-
शाकिनीभूतप्रेतवेतानराचसाः । ग्रहकस्माण्डखेटाङ्गाः
पृष्ठ ३१५९
कालकर्णीशिशुग्रहाः । व्यरापस्मारविस्फोटतृतीयक-
चतुर्थकाः । सर्वे प्रशममायान्ति शिवतीर्थजलोक्षणात् ।
ज्ञानोदतीर्थपानीयैर्लिङ्गं यः स्नपयेत् सुधीः । सर्व-
तीर्थोदकैस्तेन ध्रुवं संस्तपितं भवेत् । ज्ञानरूपोऽह-
मेवात्र द्रवमूर्त्तिं विधाय च । जाह्यविध्वंसनं कुर्य्या-
कुर्य्यां ज्ञानोपदेशनम्” “इति दत्त्वा वरान् शम्भुस्तत्रैवा-
न्तरधीयत । कृतकृत्यमिवात्मानं सोऽप्यमंस्त त्रिशूलभृत् ।
ईशानो जटिलो रुद्रस्तत्पीत्वा परमोदकम् । अवाप्त-
वान् परं ज्ञानं येन निर्वृतिमाप्तवान्” ।

ज्ञानसाधन न० ६ त० । १ इन्द्रिये २ तत्त्वज्ञानसाधने श्रवण-

सनननिदिध्यासनादौ च ।

ज्ञानापोह पु० ६ त० । ज्ञानजसस्कारनाशजे विस्परणे ।

ज्ञानाभ्यास पु० ६ त० । १ ज्ञानसाधनश्रवणाद्यावृत्तौ “तच्चिन्तनं

तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वञ्च ज्ञाना-
भ्यासं विदुर्बुधाः” इत्युक्तलक्षणे २ मननादौ च । बोधा-
भ्यासादयोऽप्यत्र । “सर्गादावेव नात्पन्नं दृश्यं नास्त्येव
तत्सदा । इदं जगदहञ्चेति बोधाभ्यासं विदुः परम्”
वेदान्तशा०

ज्ञानासन न० “अथान्यदासनं कृत्वा मर्वव्याधिविनाशनम् ।

योगाभ्यासा भवेत् क्षिप्रं ज्ञानासनप्रसादतः । दक्षपादो-
रुमूले तु वामपादतलं तथा । दक्षपादतलं दक्षपार्श्वे
संयोज्य धारयेत् । एतज्ज्ञानासनं नाम ज्ञानविद्याप्रका-
शकम् । निरन्तरं यः करोति तस्य ग्रन्थिः श्लथा भवेत्”
इति रुद्रयामलोक्ते आसनभेदे ।

ज्ञानिन् त्रि० ज्ञानमस्त्यस्य इनि । १ ज्ञानयुक्ते ब्रह्मसाक्षात्

कारयुक्ते “चतुर्विधा भजन्ते माम्--आर्त्तो जिज्ञासुरर्था-
र्थी ज्ञानी च भरतर्षभ!” । “ज्ञानिनामपि सर्वेषां मद्ग-
तेनान्तरात्मनां” गीता २ बोधयुक्तमात्रे त्रि० ज्ञानिनो
मनुजाः सत्यं किन्तु ते न हि केवलम् । यतो हि
ज्ञानिनः सर्वे पशुपक्षिमृगादयः” देवामा० । ज्ञान + अस्त्यर्थे
मतुप् मस्य वः ज्ञानवदप्यत्रार्थे “बहूनां जन्मनामन्ते
ज्ञानवान् मां प्रपद्यते” गीता । उभयत्र स्त्रियां ङीप् ।

ज्ञानेन्द्रिय न० ज्ञायतेऽनेन ज्ञा--करणे ल्युट् ज्ञान

साधनमिन्द्रियम् कर्म० । १ ज्ञानसाधने इन्द्रिये श्रोत्रादौ
“ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाश नासिका । ज्ञाने-
न्द्रियार्था विषयाः” शा० ति० । इन्द्रियशब्दे विवृतिः ।
“एतान्याकाशादीनां सात्विकांशेभ्यो व्यस्तेभ्यः पृथक् २
क्रमेणीत्पन्नानि यथोक्तं देवीभागवते । “पञ्चभूतस्थम-
त्त्वांशैः श्रोत्रादीनां समुद्मवः । ज्ञानेन्द्रियाणा
राजेन्द्र! प्रत्येकमिति निश्चितम्” । क्रमशो दिग्वातार्क-
प्रचेतोऽश्विनो ज्ञानेन्द्रियाणां देवताः । शब्दस्पर्शरूपरस-
गन्धाश्च क्रमशो ज्ञानेन्द्रियाणां विषयाः ।

ज्ञापक त्रि० ज्ञा--णिच् ल्यु । बोधके ।

ज्ञापन न० ज्ञा--णिच्--ल्युट् । बोधने ।

ज्ञीप्सा स्त्री ज्ञप--सन्--भावे अ । ज्ञातुमिच्छायाम् ।

ज्ञीप्स्यमान त्रि० ज्ञप्र--सन्--कर्मणि शानच् । ज्ञातुमि-

मिष्यमाणे । “श्लाथह्रुङस्थाशपां ज्ञीप्स्यमानः” पा० ।

ज्ञेय त्रि० ज्ञा--कर्म्मणियत् । बोद्धव्ये । यथा व्याकरणादि

पाणिन्यादेर्ज्ञेयैकदेशार्थमपि” शा० भा० । २ ज्ञातुं योग्ये
ब्रह्मणि च । “ज्ञेयं यत् तत् प्रवक्ष्यामि यद् ज्ञात्वाऽमृ-
तमश्नुते । अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते ।
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः
श्रुतिमल्लिके सर्वमावृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं
सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं
गुणभोक्तृ च । बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ।
अविभक्तं विभक्तिषु विभक्तमिव च स्थितम् । भूतभर्त्तृ च
तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । ज्योतिषामपि तज्ज्यो-
तिस्तमसः परमुच्यते” । “ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि-
सर्वस्य धिष्ठितम्” गीता ।

ज्या जरायां क्य्रा० प्वा० पर० अक० अनिट् । जिनाति

अज्यासीत् । जिज्यौ जिज्यतुः । जिनः ।

ज्या स्त्री ज्या--अघ्न्या० यक् नि० । १ घनुर्गुणे अमरः

तस्य निरन्तराकर्षणेन धनुषो जराकरणात्तथात्वम् ।
२ वसुधायां तस्याः प्रतिक्षणं क्षीयमानत्वात् तथात्वं
३ मातरि स्वप्रसवेन तस्याः वयोहानेस्तथात्वम्
मेदि० । गोलक्षेत्रान्तर्गते धनुराकारक्षेत्रस्थकेन्द्रस्थानात्
उभयपार्श्वसंलग्ने ४ सरलरेखाभेदे । क्रमज्याशब्दे २३०३
पृ० जीवाशब्दे ३१३५ पृ० दृश्यम् । ताश्च चतुर्विं शतिसंख्यि-
कास्तत्र क्रमज्याशब्दे उक्तावशिष्टा उत्क्रमज्यामानसंख्या-
ङ्काश्च सू० सि० उक्ता यथा “मुनयोरन्ध्रयमलारसषट्का
मुनीश्वराः” । द्व्यष्टैकारूपषड्दस्राः सागरार्थहुताशनाः ।
खर्तुवेदानवाद्र्यर्थादिङ्नगास्त्र्यर्थकुञ्जराः । नगाम्बरवि-
यच्चन्द्रारूपधरणिशङ्कराः । शरार्णवहुताशैकाभुजङ्गाक्षि
शरेन्दवः । नवरूज्पमहीर्ध्रैकागजैकाङ्कनिशाकराः । गु
णाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः । वस्वर्णवार्धय-
पृष्ठ ३१६०
मलास्तुरङ्गर्तुनगाश्विनः । नवाष्टनवनेत्राणि पावकैकय-
माग्नयः । गजाग्निसागरगुणा उत्क्रमज्यार्द्धपिण्डकाः”

ज्याघातवारण न० ज्याया आधातं वारयत्यनेन वारि-

करणे ल्यु । गोधायां ज्याधातवारणार्थे धन्विनां
हस्तनिबद्धे चर्म्मभेदे अमरः ।

ज्यानि स्त्री ज्या--नि । १ वयोहानौ २ तटिन्याम् ३ जीर्णे त्रि० मेदि० ।

ज्यायस् त्रि० अतिशयेन प्रशस्यो वृद्धो वा प्रशस्य + वृद्ध + वा

ईयसुन् ज्यादेशः ईयसुनि आदेरात्त्वम् । १ अतिवृद्धे
२ जीर्णे ३ प्रशस्ते च । “ज्यायान् पृथिव्या ज्यायानन्त-
रीक्षाज्ज्यायानेभ्यो लोकेभ्यः” छा० उ० । स्त्रियां ङीप् ।
“ज्यायसी चेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन!” गीता

ज्यु गतौ न्धा० आत्म० सक० अनिट् । ज्यवते अज्योष्ट

जुज्युवे ।

ज्युत दीप्तौ भ्वा० पर० सक० सेट् । ज्योतति इरित् । अज्युतत् अज्योतीत् । जुज्योत ।

ज्युत दीप्त्तौ भ्वा० आत्म० अक० सेट् । ज्योतते अज्योतिष्ट ।

जुज्युते । ऋदित् । अजुज्योतत् त । ज्योतिः ।

ज्येष्ठ त्रि० अतिशयेन वृद्धः प्रशस्यो बा वृद्ध + प्रशस्य + वा इष्ठन्

ज्यादेशः । १ अतिवृद्धे २ प्रशस्ये ३ अग्रजे भ्रातरि ४ अग्रज-
भगिन्यां स्त्री । ५ अश्विन्यादिनक्षत्रेषु अष्टादशे नक्षते स्त्री
तद्रूपादि अश्लेषाशब्दे ४९७ पृ० दृश्यम् । ज्येष्ठानक्षत्र-
युक्ता पौर्णमासी अण् ज्यैष्ठी सास्मिन् मासे पुनरण्
संज्ञात्वात् ह्रस्वः । ६ ज्येष्ठ ज्यैष्ठमासे मेदि० । गौरा०
ङीष् । ७ गृहगोधिकायां स्त्री शब्दरत्ना० ।
तस्याः दिग्भेदे रुतफलं ति० त० उक्तं यथा
“वित्तं ब्रह्मणि कार्यसिद्धिरतुला शक्रे हुताशे
भयं याम्यामग्निभ्यं सुरद्विषि कलिर्लाभः समुद्रालये ।
वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चौत्तरे ऐशान्यां
मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने । ज्येष्ठीरुते
क्षुतेऽप्येवमूचुः केचिच्च कोविदाः” अधिकं गृहगोधिकाशब्दे
२६५७ पृ० दृश्यम् । ८ मध्यमाङ्गुलौ स्त्री हेमच० । ९ गङ्गायां
स्त्री राजनि० तस्याः पार्वत्याः प्रथमं हिमालयाज्जातत्त्वात्
तथात्वम् । ० परिणीते भर्त्तुरधिकस्नेहभाजने नायि-
काभेदे रतिमञ्जरी । लक्ष्म्याः प्रथमोत्पन्नायां ज्येष्ठभ-
गिन्याम् ११ अलक्ष्मीदेव्यां स्त्री । तदुत्पत्त्यादिकथा पद्मपु०
उत्त० ख० उक्ता यथा “मां प्रणम्य पुनर्देवा ममन्थुः क्षीर-
सागरम । तस्मिन् प्रमथ्यमाने तु मया देवैश्च भाविनि । ।
ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससावृता । उत्पन्ना
साऽब्रवीद्देवान् किं कर्त्तव्यं मयेति वै । तामब्रुवस्तदा
देवीं सर्वे देवगणा भृशम् । येषां गृहान्तरे नित्यं
कलहं संप्रवर्त्तते । तत्ते स्थानं प्रयच्छामो वासस्तत्र
शुभानने! । यस्य गेहं कपालास्थिभस्मकेशादिचिह्नितम् ।
भाषन्ते परुषं नित्यं वसन्त्यनृतवादिनः । सन्ध्याकाले
च ये पापाः स्वपन्ति मलचेतसः । तेषां वेश्मनि
संतिष्ठ दुःखदारिद्र्यदायिनी । कपालकेशभस्मास्थि
तुषाङ्गाराणि यत्र तु । तत्र ते वसतिस्थानं भविष्यति न
संशयः । अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्मतिः ।
तं भजस्व सदा देवि! कलुषेणावृता भृशम् । तृणाङ्गार
कपालाश्मवालुकायसचर्मभिः । दन्तधावनकर्त्तारो
भविष्यन्ति नराधमाः । रमख मलिना देवि! तेषां
वेश्मसु नित्यशः । तिलपिष्टञ्च नक्तञ्च कालिङ्गशिग्रु
गृञ्जनम् । छत्राकं विड्वराहञ्च विल्वकोषातकीफलम् ।
अलावुं श्रीफलं ये वै खादयन्ति नराधमाः । तेषां गृहे
तव स्यानं देवि! दारिद्र्यदे! सदा । इत्यादिश्य सुराः
सर्वे ते ज्येष्ठां कलिवल्लभाम् । पुनश्च मन्थनं चक्रुः
क्षीराब्धिं सुसमाहिताः” । १२ नवदजातायां ब्रह्मप्रकृति-
भूतायां देव्यां स्त्री “रौद्री विन्दोस्ततो नादाज्ज्येष्ठा
वीजादजायत । वामा, ताभ्यः समुत्पन्ना रुद्रब्रह्मरमा-
धिपाः” शा० ति० । १३ परमेश्वरे पु० । “ईशानः प्राणदः
प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः” विष्णुस० । १४ प्राणे
“प्राणो वा ज्येष्ठश्च श्रेष्ठश्च” छा० उ० । काशीस्थे
१५ गौरीभेदे स्त्री ज्योष्ठस्थानशब्दे विवृतिः ।

ज्येष्ठतात पु० तातस्य ज्येष्ठः राज० पूर्वनि० । पितुरग्रजे

भ्रातरि (जेटा) ।

ज्येष्ठबला स्त्री ज्येष्ठं बलं यस्याः । सहदेव्यां लतायां राजनि० ।

ज्येष्ठवर्ण पु० वर्णानां ज्येष्ठः राजद० पूर्वनि० कर्म० वा ।

ब्राह्मणे तस्य सर्ववर्ण्णश्रेष्ठत्वात् तंथात्वं । २ श्रेष्ठे
वर्णे च ।

ज्येष्ठवापी स्त्री काशीस्थज्येष्ठस्थानस्थे वापीभेदे ज्येष्ठस्थानशब्दे विवृतिः ।

ज्येष्ठश्वश्रू स्त्री ज्येष्ठा मान्या श्वश्रूरिव संज्ञात्वात् पुंव-

द्भावः । पत्न्याः ज्येष्ठभगिन्यां (वड़शाली) हेमच० ।

ज्येष्ठसामन् न० नित्यक्वर्म० । सामभेदे । तच्च साम

“मूर्द्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत अजातम-
ग्निम् । कविं सम्राजमतिथिं जनानामासन्नः पात्रं
जनयन्त देवाः” सामार्चि० १ प्र० १ अ० २ द० ५ क० ।
इत्यस्यां गोयमानम् “वामधेव्यं वृहत्साम ज्थेष्ठसाम-
रथन्तरम् । तथा पुरुषसूक्तं च रुद्रसूक्तं ततः परमम् ।
पृष्ठ ३१६१
आज्यदोहानि सामानि शान्तिकं भारुड़ानि च ।
पश्चिमे द्वारपालौ तु पठेतां सामगौ तथा” । इति
दानपारिजातधृतवाक्यम् ।

ज्येष्ठस्थान न० । काशोस्थे तीर्थभेदे तत्स्थानमाहात्म्यादि

कथा काशीख० ६३ अ० ।
“यमनेहसमारभ्य मन्दराद्रौ विनिर्यये । अद्रीन्द्र-
सुतया सार्द्धं रुद्रेणोक्षेन्द्रगामिना । तं वासरं
पुरस्कृत्य जग्राह नियमं दृढ़म् । जैगीषव्या महामेधाः
कुम्भयोने! महाकृती । विषमेक्षणपादाब्जं समीक्षिष्ये
यदा पुनः । तदाम्बुविप्रुषमपि भक्षयिष्यामि चेत्थहो ।
कुतश्चिद्धारणायोगादथ वा शम्भ्वनुग्रहात् । अनश्नन्नपिबन्
योगी जैगीषव्यः स्थितो मुने! । तं शम्भुरेव जानाति
नान्यो जानाति कश्चन । अतएव ततः प्राप्तः प्रथमं
प्रमथाधिपः । ज्यैष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः ।
तत्पर्वणि महायात्रा कर्त्तव्या तत्र मानवैः । ज्येष्ठ-
स्थानं ततः काश्यां तदाभूदतिपुण्यदम् । तत्र लिङ्गं
समभवत् स्वयं ज्येष्ठेश्वराभिधम् । तल्लिङ्गदर्शनात्
पुंसां पापं जन्मशतार्ज्जितम् । तमोऽर्कोदयमाप्येव
तत्क्षणादेव नश्यति । ज्येष्ठवाप्यां नरः स्नात्वा तर्प-
यित्वा पितामहान् । ज्येष्ठेश्वरं समालोक्य न भूयो
जायते भुवि । आविरासीत् स्वयं तत्र ज्येष्ठेश्वरसमीपतः ।
सर्वसिद्धिप्रदा गौरी ज्येष्ठा नाम समन्ततः । ज्यैष्ठे
मासि सिताष्टम्यां तत्र कार्य्यो महोत्सवः । रात्रौ
जागरणं कार्य्यं सर्वसम्प्त्समृद्धये । ज्येष्ठां गौरीं
नमस्कृत्य ज्येष्ठवापीपरिप्लुता । सौभाग्यभाजनं भूयाद्
योषा सौभाग्यभागपि । निवासं कृतवान् शम्भुस्तस्मिन्
स्थाने यतः स्वयम् । निवासेश इति ख्यातं लिङ्गं
तत्र परं तपः । निवासेश्वरलिङ्गस्य सेवनात् सर्व-
सम्पदः । निवसन्ति गृहे नित्यं नित्यं प्रैति पदं पुनः ।
कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः । ज्येष्ठां
तृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा । ज्येष्ठतीर्थेश्वरे
काश्यां दत्त्वा दानानि शक्तितः । ज्येष्ठान् स्वर्गान-
वाप्नोति नरोमोक्षञ्च गच्छति । ज्येष्ठेश्वरोऽच्च्यः प्रथमं
काश्यां श्रेयोऽर्थिभिर्नरैः । ज्येष्ठा गौरी ततोऽभ्यर्च्च्या
सर्वज्येष्ठमभीप्सुभिः” ।
तत्रत्यं ज्योतिःस्वरूपलिङ्गन्तु ज्येष्ठेश्वराभिधं महादेवस्य
नितम्बभूतम् तथोक्तं काशीख० ३२ अ० ।
“सर्वेषामपि लिङ्गानां मौलित्वं कृत्तिवाससः । अओङ्का-
कारेशः शिखा ज्ञेया लोचनानि त्रिलोचनः । गोकर्ण-
भारभूतेशौ तत्कर्णौ परिकीर्त्तितौ । विश्वेश्वरावि-
सुक्तौ च द्वावेतौ दक्षिणौ करौ । कर्णेशमणिकर्णीशौ
द्वौ करौ दक्षिणेतरौ । कालेश्वरकपद्दीर्शौ चरणा-
वतिनिर्म्लौ । ज्येष्ठेश्वरो नितम्बश्च नाभिर्वै मध्यमेश्वरः ।
कपर्दोऽस्य महादेवः शिरोभूषा श्रुतीश्वरः । चन्द्रोशो
हृदयन्तस्य आत्मा वीरेश्वरः परः । लिङ्गं तस्य तु
केदारः शुक्रं शुक्रेश्वरं विदुः । अन्यानि यानि
लिङ्गानि परःकोटिमितानि च । ज्ञेयानि नखलोमानि
वपुषो भूषणान्यपि । यावेती दक्षिणौ हस्तौ नित्यं
निर्वाणदौ हि तौ । जन्तूनाममयं दत्त्वा पततां
मोहसागरे” ।

ज्येष्ठामूलीय पु० ज्येष्ठां मूलं वा नक्षत्रमर्हति पौर्णमा-

स्याम् छ । ज्यैष्ठे मासि तन्मासीयपौर्णमास्यां हि ज्ये-
ष्ठामूलयोरन्यतरस्य योगसम्भवात्तस्य तथात्वम् । यथा च
तस्य तथात्वं तथा कार्त्तिकशब्दे १९४८ पृ० दर्शितम् ।

ज्येष्ठाम्बु न० नि० कर्म्म० । तण्डुलप्रक्षालने जले वैद्यकप०

तस्यातीव श्रेष्ठगुणत्वात्तथात्वम् ।

ज्येष्ठाश्रम पु० ज्येष्ठ आश्रमो यस्य । “यस्मात् त्रयोऽप्या-

श्रमिणो ज्ञानेनान्नेन चान्वहम् । गृहस्थेनैव धार्य्यन्ते
तस्मात् ज्येष्ठाश्रमो गृही” मनूक्ते १ गार्हस्थ्याश्रमयुक्ते
कर्म० । २ गृहस्थश्रमे च “गृहस्थो ब्रह्मचारी च
बानप्रस्थोऽथ भिक्षुकः । चत्वारश्चाश्रमाः प्रोक्ता सर्वे
गार्हस्थ्यमूलकाः इत्युक्तेस्तस्य सर्वाश्रमपोषकत्वेन श्रेष्ठ-
त्वात्तथात्वम् । ततः इनि । गृहस्थाश्रमीत्यप्यत्र ।

ज्यैष्ठ पु० ज्यैष्ठी पूर्णिमास्मिन् मासे अण् । ज्येष्ठानक्षत्र-

युक्तयोगार्हपौर्णमासीधटिते वृषस्थरव्यारब्धे शुक्लप्रतिप-
दादिदर्शान्तरूपे १ चान्द्रे मासे “ज्यैष्ठे मासि क्षितिसुत-
दिने जाह्नवी मर्त्यलोके” ति० त० । तथाभूतेऽर्द्धमासा-
त्मके २ पक्षे । ज्येष्ठामूलानक्षत्रयोरन्यतरनक्षत्रे पर्वान्त-
काले गुरोरुदयास्तोपलक्षिते ३ वार्हस्पत्ये वर्षभेदे च
कार्त्तिकशब्दे १९४९ पृ० विवृत्तिः । “ज्यैष्ठे संवत्सरे चैव
ज्यैष्ठमासस्य पूर्णिमा । ज्येष्ठाभेन समायुक्ता महाज्यैष्ठी
प्रकीर्त्तिता” राजमार्त्त० । ज्यैष्ठसंवत्सरश्च । “ज्येष्ठा-
मूलोपगे जीवे वर्षं स्यात् शाक्रदैवतम्” विष्णुधर्म्मोत्त-
रोक्तः ग्राह्यः” ति० त० । वृषस्थरविके सौरे ४ मासभेदे च ।
पृष्ठ ३१६२

ज्यैष्ठी स्त्री ज्येष्ठानक्षत्रेण तत्समीपस्थमूलानक्षत्रेण वा

युक्ता पौर्णमासी अण् ङीप् । १ ज्येष्ठामूलानक्षत्रान्य-
तरनक्षत्रयुक्तपौर्णमास्याम् ज्येष्ठेव स्वार्थे अण् ङीप् ।
२ गृहगोधिकायाञ्च । वल्लीशब्दे दृश्यम् ।

ज्यैष्ठिनेय पुंस्त्री ज्येष्ठायाः स्त्रियाः अपत्यम् ढक् इनङ् ।

ज्येष्ठाया अपत्ये । “ज्योष्ठो ज्यैष्ठिनेयः स्तुवीत” ता०
ब्रा० २ । १ । २ । “कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयो विवा-
सितः” भट्टिः ।

ज्यैष्ठ्य न० ज्येष्ठस्य भावः ष्यञ् । १ श्रेष्ठत्वे २ वयसा अग्र-

जत्वे च । “विप्राणां ज्ञानतो ज्यैष्ट्यक्षत्रियाणान्तु
बीर्य्यतः । वैश्यानां धान्यधनतः शूद्राणामव जन्मतः” मनुः

ज्यो नियते उपनये व्रतोपदेशे ब्र भ्वा० आत्म० सक० अनिट् ।

ज्यवते अज्यास्त । जुज्ये ।

ज्योक् अव्य० ज्यो--बा० उकुन् । १ कालभूयस्थे २ प्रश्ने ३

शीघ्रार्थे ४ सम्प्रत्यर्थे शब्दार्थचि० ५ उज्ज्वलत्वे च “सर्वमायु-
रेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति” छा०
उ० “ज्योगुज्ज्वलं जोवति” भा० ।

ज्योतिरात्मन् पु० ज्योतिरात्माऽस्य । सूर्य्यादौ “यथाह्ययं

ज्योतिरात्मा विवस्वान्” श्रुतिः ।

ज्योतिरादित्य पु० ज्योतिषि सावित्रे मण्डले आदित्यः ।

परमेश्वरे “आदित्यो ज्योतिरादित्यः” विष्णुस०

ज्योतिरिङ्ग पु० ज्योतिरिव इङ्गति इगि--गतौ अच् ।

खद्योते शब्दरत्ना० युच् । ज्योतिरिङ्गणोऽप्यत्र अमरः ।

ज्योतिर्गणेश्वर पु० ज्योतिर्गणानामीश्वरुः । १ परमेश्वरे

“खक्षः साङ्गः शतानन्दो नन्दिर्ज्योतिर्गुणेश्वरः” विष्णु सं० ।
“तमेव भान्तमनुभाति सर्वम् तस्य भासा सर्वमिदं
विभाति” इति श्रुत्या तस्यैव सर्वज्योतिर्गणानामवभासनस्य
प्रतिपादनात्तथात्वम् ।

ज्योतिर्ग्रन्थ पु० ज्योतिषां ग्रहनक्षत्रादीनां गत्यादिसाधनं ग्रन्थः । ज्योतिःशास्त्रे ।

ज्योतिर्मय त्रि० ज्योतिरात्मकः प्राचुर्य्ये वा मयट् ।

१ ज्योतिरात्मके ज्योतिःस्वरूपे २ ज्योतिःप्रचुरे च ।
“ऋषीन् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः”
कुमा० “न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मया-
ण्यपि” रघुः ।

ज्योतिर्विद् पु० ज्योतिषां सूर्य्यादीनां गत्यादिकं वेत्ति विद्-

किप् । ज्योतिःशास्त्राभिज्ञे । “दृष्ट्वा ज्योतिर्विदो
वैद्यान् दद्याद्गां काञ्चनं महीम्” याज्ञ० । ज्योति-
र्विदाभरणम् ।

ज्योतिर्विद्या स्त्री ज्योतिषां सूर्य्यादीनां गत्थादिज्ञानसा-

धनं विद्या । ज्योतिःशास्त्रे ।

ज्योतिर्वीज न० ज्योतिषो गगने प्रकाशस्य वीजमिव । १ स्वद्योते त्रिका० ।

ज्योतिर्लोक पु० ज्योतिषां लोकः आश्रयः । कालचक्र-

प्रवर्त्तकध्रुवलोके २ तदधिपे परमेश्वरे च तल्लोकस्थिति-
वर्णनं भाग० ५ । २३ अ० ।
“अथ तस्मात् परतस्त्रयोदशलक्षयोजनान्तरतो यत्त-
द्विष्णोः परमं पदमभिवदन्ति । यत्र महाभागवतो
ध्रुव औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन धर्मेण
च समकालयुग्भिः सहवहुमानं दक्षिणतः क्रियमाण
इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्य
महानुभाव उपवर्णितः । सहिं सर्वेषां ज्योतिर्गणानां
ग्रहनक्षत्रादीनाम् अनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्व-
दवभासते । यथा मेधीस्तम्भ आक्रमणपशवः संयोजिता-
स्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्तिः एवं
भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र
आयोजिता ध्रुवमेवालम्ब्य वायुंनोदीर्य्यमाणा आकल्पान्तं
परितः क्रामन्ति । नभसि यथा मेघाः श्येनादयो
वायुवशाः कर्म्मसारथयः परिवर्त्तन्ते । एवं ज्योतिर्गणाः
प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भिवि न
पतन्तिं । केचिदेतत् ज्योतिरनीकं शिशुमारसम्स्थानेन
भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति । यस्य
पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितः
तस्य लाङ्गुले प्रजापतिरिग्निरिन्द्रो धर्मैति । पुच्छ-
मूले धाता विधाता च कट्यां सप्तर्षयः यस्य दक्षिणावर्त्त
कुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे नक्ष-
त्राणि उपकल्पयन्ति । दक्षिणानि तु सव्ये यथा
शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्य-
वयवाः समसंख्यां भवन्ति । पृष्टे त्वजवीथी आकाशगङ्गा
चोदरतः । पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्रा-
श्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तराषाढ़े
दक्षिणवामपार्श्ववध्रिषु युञ्जीत । तथैव मृगशीर्षादीन्यु-
दगयनानि दक्षिणपार्श्वे प्रातिलोम्येन प्रतियुञ्जीत ।
शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् । उत्त-
राहनावगस्त्यः अधराहनौ यमः मुख्ये चाङ्गारकः
शनैश्चर उपस्थे वृहस्पतिः ककुदि वक्षस्यादित्यो हृदये
नारायणो मनसि चन्द्रो नाभ्यामुशनास्तनयोरश्रिनौ
बुधः प्राणापानयोरार्हुगले, केतवंः सर्वाङ्गेषु, रोमसु
सर्वे तारागणाः । एतदुहैव भगवतो विष्णोः सर्वदेवता-
पृष्ठ ३१६३
मयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्ष्य-
माण उपतिष्ठेत् । नमो ज्योतिर्लोकाय कालायनाय
अनिमिषां मतयो महापुरुषाभिधीमहीति” ।

ज्योतिर्हस्ता स्त्री “हस्तं शरीरमित्याहुर्हस्तञ्च गगनं

तथा । ज्योतिश्च ग्रहनक्षत्रं ज्योतिर्हस्ता ततः स्मृता”
देवीपु० ४५ अ० उक्तनिरुक्तियुक्तायां दुर्गायाम् ।

ज्योतिश्चक्र न० ज्योतिभिर्नक्षत्रैर्थटितं चक्रम् । १ भचक्रे

“सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितिवायुगम् । तदर्कांशो
भवेद्राशिर्नवर्क्षचरणाङ्कितः” ति० त० उक्ते अश्विन्यादि-
भिर्नक्षत्रैर्थटिते मण्डलाकारे राशिचक्रे । स्तिमितवायु-
गमित्यनेन तस्य नाधःपतनमात्रं विवक्षितं न गत्यभावः
प्रवहवायुना तस्या प्रतिदिनं प्रत्यग्गतेः सूर्य्य सिद्धान्तादा-
वुक्तत्वात् खगोलशब्दे २४१६ पृष्टादौ दृश्यम् ।

ज्योतिः(श्शा)शास्त्र न० ज्योतिषां सूर्य्याद्येनां गत्यादि

ज्ञापकं शास्त्रम् वा शत्वम् । सूर्य्यदिग्रहगत्यादिबोधके
कालज्ञाने वेदाङ्गे शास्त्रभेदे । “वेदास्तावद्यज्ञकर्मप्रवृत्ता-
यज्ञाः प्रोक्तास्ते तु कालांश्रयेण । शास्त्रादस्मात्
कालवोधो यतः स्यादु वेदाङत्वं ज्योतिषस्योक्तमस्मात् ।
शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोत्रभुक्तं निरुक्तं च
कल्पः करौ । या तु शिक्षास्य वेदस्य सा नासिका
पादपद्मद्वयं छन्द आर्य्यैबुधैः । वेदचक्षुः किलेदं स्मृतं
ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते । संयुतोऽपो-
तरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चित्करः ।
तस्माद्द्विजैरध्यनीयमेतत् पुण्यं रहस्यं परमं च
तत्त्वम् । यो ज्योतिषं वेत्ति नरः म सम्यग् धर्मार्थकामान्
लभते यशश्च” । “ज्योतिःशास्त्रमनेकभेदविपयम्” पृ० स०
१ अ० । अस्य भेदादि अङ्गशब्दे ७३ पृ० दृश्यम् ।

ज्योतिष न० ज्योतिः सूर्य्यादिगत्यादिकं प्रतिपाद्यतया-

ऽस्त्यस्य अच् । १ ज्योतिःशास्त्रे ज्योतिषं नयनं विदुः”
शिक्षा । ज्योतिःशास्त्रशब्दे उदा० । “ज्योतिषमागमशास्त्रं
विप्रतिपत्तौ न योग्यमस्माकम्” वृ० स० ७ अ० । २ तारायां
स्त्री गौरा० ङीष् । ज्योतिषं ज्ञेयत्वेनास्त्यस्य इनि ।
ज्योतिषिन् । ज्योतिःशास्त्राभिज्ञे त्रि० स्त्रियां ङीप् ।

ज्योतिषिक त्रि० ज्योतिरधीरे उक्थादि० ठक् संज्ञा-

पूर्वकविधेरनित्वात् न वृद्धिः । ज्योतिःशास्त्रभ्ध्येतरि ।

ज्योतिष्क पु० ज्योतिरिव कायति कै--क । १ चित्रकवृक्षे

“एतान्योवावाप्य क्षारकल्पेन निस्रुतेपालाशे क्षारे ततो
विपाच्य फाणितमिव सञ्जातमवतार्य्यलेपयेत् । ज्यो-
तिष्क फललाक्षामरिचपिप्पलीसुमनःपत्रैर्वा” सश्रु० ।
२ मेथिकावीजे च राजनि० । ३ गणकारिकावृक्षे रत्नमा० ।
४ ग्रहतारानक्षत्रादौ ब० व० “तदीशभागे तस्याद्रेः शृङ्ग
मादित्यसन्निभम् । यत्तत् ज्योतिष्कमित्याहुः सदा
पशुपतेः प्रियम्” इत्युक्ते ५ मेरोः शृङ्गभेदे न०!

ज्योतिष्टोम पु० ज्योतीषि त्रिवृदादयः स्तोमायस्य षत्वम् ।

१ स्वनामख्याते अग्निष्टोमस्वं स्थारूपे यज्ञभेदे तद्विधानादि
ताण्ड्य० ब्रा० ४ । १ । ६ ।
“यज्ज्योतिष्टोमो भवति यज्ञमुखन्तटाध्नुवन्ति यदुक्थो
यज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्तै” मू०
“अथ षोड़शिकोऽयमतिरात्र इत्युक्तं, कॢप्तो ज्योति-
ष्टोमोऽतिरात्रः स षोड़शिक इति । अथ तद्व्यतिरिक्ता-
भिस्तिसृभिः संस्थाभिरवयुज्य स्तूयते । षद्यपि सर्वेषा-
मपि ज्योतिष्ठोमत्वमस्ति तथापि उक्थातिरात्रसंस्थयोः
पृथग्वक्ष्यमाणत्वात् अग्निष्टोमसंस्थैव ज्योतिष्टोमशब्दे-
नोच्यते । ज्योतीषि त्रिवृदादयः स्तोमा यस्य स
ज्योतिष्टोमः । तथा च तैत्तिरीयकं त्रिवृत्पञ्चदश सप्तदश
एकविंश एतानि ज्योतींषि यत एतस्य स्तोमा इति ।
यज्जोतिष्टोमोऽग्निष्टोमो द्वादशस्तोत्रात्मको भवति ज्यो-
तिष्टोमस्य हि अग्निष्टोमसंस्था मुख्या, “एष वाच प्रथमो
यज्ञानामिति” श्रुतेः । तत्तेन यज्ञमुखं यज्ञानां मुखभूतम-
ग्निष्टोमं प्राप्य आध्नुर्वन्ति सत्रिणः समृद्धा भवन्ति तथा
तस्मिन्नतिरात्रे उक्थः पञ्चदशस्तुतशस्त्रसाध्यः क्रतरन्त-
र्भवतीति यत् तत् यज्ञक्रतोः संपूर्णस्य यज्ञस्य अनन्तर-
याय अपरित्यागाय भवति उक्थसंस्थायां हि क्रतुः
संपूर्णो भवति यथा पूर्वयोः सवनयोः पञ्चदश पञ्चदश
स्तात्राणि तथा तृतीयेऽपि स्तोत्रपञ्चकसद्भावात् । अग्नि-
ष्टोमस्त्वसंपूर्णः क्रतुः उक्तहेतोरभावात्” भा० ।
तस्य च अग्निष्टोमसंस्थत्वेन ज्योतिष्टोमनामताहेतु-
रुक्तो यथा “यदेतानि सर्वाणि सह दुरुपापानि
कैतेषामुपाप्तिरिति ज्योतिष्टोम एवाग्निष्टोमेनैवाग्निष्टो-
मेन यजेत । तम्य वा एतस्य ज्योतिष्टोमस्या-
ग्निष्टोमस्य त्रिवृद्बहिष्पवमानं तदुव्रतस्य शिरः, पञ्च
दशसप्तदशा उत्तरौ पवमानौ तौ पक्षौ, पञ्चदशं होतु-
राज्यं सप्तदशं पृष्टमेकविंशं यज्ञायज्ञियं तत् पुच्छम्”
शत० ब्रा० १० । १ । २ । ७ । “अधुनां प्रथमसंस्थारूपज्योति-
ष्टोमाग्निष्टोमं महाव्रतयज्ञात्मना स्तोतुं तत्रैवाग्निचय-
नादित्रयस्योपादानाद् ब्रह्मवादिप्रश्नोत्तराभ्यां दर्शयति ।
पृष्ठ ३१६४
सह युगपत् दुरुपापानि आप्तुमशक्यानि सर्वेषां महाव्र-
तयज्ञानुष्ठाने प्रयोगबाहुल्येनऋत्विक्सम्पादनादेः दुष्कर-
त्वेन चानधिकारात् तत्राम्बिष्टोम इति पदेनाग्निस्तव-
नोक्तेरग्निचयनमुक्तमिति मन्तव्यम् । पक्ष्याकारस्य
महाव्रतसाम्नो हि शिरःपक्षमध्यपुच्छात्मकाः पञ्चावयवाः
शिरो नायत्रं, रथन्तरं दक्षिणः पक्षः वृहदुत्तरः पक्षः
भद्रमस्य पुच्छं राजनसाम ह्यात्मेति तत्सर्वमग्निष्टोमे
सम्पादयति तस्य वा इति ऋकत्रयात्मकमेक सूक्तं तादृ-
शानि त्रीणि सूक्तानि त्रिवृतोऽवयवायस्य स्तोमस्य तदिदं
त्रिवृदु बहिष्पवमानम् प्रातःसवनिकं तृचं सूक्तत्रयात्मकं
वहिष्पवमानं महाव्रतस्य शिरो भवति बहिष्पवमान
मपि गायत्रीच्छन्दस्कैस्तृचैर्गातव्यम् माध्यन्दिनः पञ्चदश
स्तोत्रियात्मकः पवमानः, तृतीयंसवने सप्तदशस्तोत्रिया-
त्मकः आर्भवः षवमानः पक्षस्थानीयौ होत्रानुशंसनीयं
प्रथममाज्यस्तोत्र” सप्तदशस्तोत्रियात्मकं पृष्ठनामकं
होतुः प्रथमं स्तोत्रम् तदुभयं मध्यात्मरूपम् । एकविं-
शत्यावृत्तिरूपं “यज्ञायज्ञा वो अग्नयः” इत्यत्रोत्पन्नं साम
पुच्छस्थनीयम्” भा० २ सोमयागे च “ज्योतिष्टोम
धर्मा एकाहद्वादशाहयोस्तदुगुणदर्शनात्” कात्या० श्रौ०
१२ । १ । १ “ज्योतिष्टोमशब्देन उपांश्वादिहारियोस्रनप
र्य्यन्तो ग्रहयज्ञाभ्यासोऽभिधीयते ज्योतींषि यम्य
स्तोमाः स ज्योतिष्टोमः स्तोमैर्ह्यसौ द्योत्यत इति ते च
सोमयागस्य स्तोमाः तस्मात् ज्योतिष्ठोमशब्देन
सोमयागोऽभिधीयते” कर्कः ।

ज्योतिष्मत् त्रि० ज्योतिरस्त्यत्र मतुप् । १ ज्योतिर्युक्ते

२ प्रकाशयुक्ते ३ लताभेदे स्त्री । सा च (मालकाङ्गनी)
इति ख्याता लता । “ज्योतिष्मतो कटुस्तिक्ता सरा
कफममीरजित् । अत्युष्णा वामनी तोक्ष्णा वह्निबुद्धिस्मृतिप्रदा”
राजनि० ४ रात्रौ राजनि० । ५ योगशास्त्रोक्ते सत्त्वप्रधाने
चित्तवृत्तिभेदे च । “विशोका वा ज्योतिष्मती” पात० सू० ।
प्रिवृत्तिरुत्पन्ना चित्तस्य स्थिति--निवन्धिनीति वाक्यशेषः ।
ज्योतिःशब्देन सात्त्विकः परिश्चाम उच्यते स प्रशस्तो
भूयानतिशयश्च विद्यते यस्याम्” भोजवृत्तिः “प्रसी
टतु ते विशोका ज्योतिष्मती नाम चित्तवृत्तिः” महावी०
“ज्योतिष्मतः पथो रक्ष धिया कृतान्” ऋ० १० । ५३ । ६
“ज्योतिष्मतो दीप्तिमतः” भा० ६ अग्निपुर्य्याम् अर्चिष्मत्यां
तत्कथा अग्निभोकशब्दे ५९ पृ० दृश्यम् ।
योऽयमस्य यथाऽनेन प्रापि ज्योतिष्मती पुरी” काशी० ।
७ सूर्य्ये प्लक्षद्वीपस्थे ८ पर्वतभेदे च शब्दार्थचिन्तामणिः ।

ज्योतिस् पु० द्योतते द्युत्यतेऽनेन वा द्युत--इसुन् आदेर्दस्य-

जः ज्युतं--दीप्तौ बा इसुन् । १ सूर्य्ये २ अग्नौ, मेदि०
३ मेथिकावृक्षे राजनि० च । नेत्रकनीनिकामध्यस्थे
४ दर्शनसाधने, पदार्थे, शब्दार्थचि० ५ नक्षत्रे, ६ प्रकाशे,
शब्दच० ७ स्वयंप्रकाशे, सर्वावभासके चैतन्थे च न० ।
८ अग्निष्टोमयागस्य संस्थाभेदे यथोक्तं ताण्ड्य० ब्रा० ४ । १ । ७
“स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरितीमे वै
लोका एते स्तोमा अंयमेव ज्योतिरयं मध्यमो गौरसा-
वुत्तम आयुः” मू० ।
“स पुर्वोक्तः प्रजापतिः एतान् स्तोमान् स्तोमशब्देन
त्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते । तानि ज्योतिर्गौ
रायुरिति एतन्नामकान्थपश्यत् । तत्र ज्योतिरग्निष्टोम-
संस्थः गौरायुषी उक्थसंस्थे ज्योतिष इयं स्तोमकॢप्तिः ।
त्रिवृद्बहिष्पवमांनं पञ्चदशान्याज्यानि पञ्चदशो माध्य-
न्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव
एकविंशोऽग्नीष्टोमसामेति । अथ गोष्टोमस्थ पञ्चदशो
बहिष्पवमानः त्रिवृदाज्यानि सप्तदशं माध्यन्दिनं
सवनमेकविंशं तृतीयसवनम् । अथायुष्ठोमस्य त्रिवृद्बहिष्प-
वमानं पञ्चदशान्याज्यानि सप्तदशं माध्यन्दिनं सवनमेक-
विंशं तृतीयसवनसिति । एते उक्ताः स्तोमा इमे लोका
वै भूरादिकाः खलु कः कतमो लोक इति बुभुत्सायामाह
अयमेव लोको ज्योतिः । अयम्मध्यमः अन्तरीक्षलोको
गौः असावुत्तमस्तृतीयः स्वर्लोक आयुः । स्तोमत्रयस्य
लोकत्रयेण सह संख्यासाम्यात् तच्छब्दता एतैः त्रिभिः
स्तोमैः साधनैस्त्रीन् लोकान् प्राजनयदिति शेषः” भा० ।
९ विष्णौ “विहायसगत्तिर्ज्योतिः सर्वविद् हुतभुग् विभुः”
विष्णुस० स्वयंद्योतनात् तस्य तथात्वम । “अथ यदतः परो
दिवो ज्योतिर्दीप्यते । विश्वतः पृष्ठेषु सवेतः पृष्ठेष्वनु-
त्तयेषूत्तयेषु लोकेषु । इदं वाव तद्यदिदमन्तःपुरुषे
ज्योतिः” छा० उ० । एतासधिकृत्य “ज्योतिःशब्दस्य
परब्रह्मपरत्वं शा० सू० भा० व्यवस्थापितं यथा “ज्योति
श्चरणाभिधानात्” १ । ११ । २४ सूत्रभाष्यादौ दृश्यम् । “चक्षु-
र्वृत्तेर्तिरोधकं शार्वरादिकं तमः । तस्या एवानुग्राहकमा-
दित्यादिकं ज्योतिरिति” शा० भा० । १० तेजोद्रव्यमात्रे
तस्य प्रकाशवत्वात्तथात्वं तदपितत्रैव भाष्ये दृश्यम् ।
“ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते” । “ज्ञानं
ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् । योऽन्तःसुखो-
पृष्ठ ३१६५
ऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं
ब्रह्मभूतोऽधिगच्छति” गीता । “हिमक्लिष्टप्रकाशानि
ज्योतिंषीव मुखानि वः” “स हि देवः परं ज्योति-
स्तमःपारे प्रतिष्ठितम्” कुमा० । ज्योतिःसारः ज्योति
स्त्वत्त्वम् ज्योतिःसिद्धान्तः ।

ज्योतोरथ पु ज्योतिषां सूर्य्यादीनां रथ इवाधारत्वात् ।

ध्रुवनक्षत्रे त्रिका० तदाधारतयैव ज्योतिश्चक्रस्थ
समवस्थानात् तस्य तद्रथत्वम् ।

ज्योत्स्ना स्त्री ज्योतिरस्त्यस्याम् न उपधालोपश्च । १ कौमु-

द्याम् चन्द्रकिरणे अमरः २ रेणुकानामगन्धद्रव्ये
रत्नमा० । ३ दुर्गायां “प्रभा प्रसादशीलत्वात् ज्योत्स्ना
चन्द्रार्कमालिनी” देवी० पु० ४५ अ० । “रौद्रायै
नमो नित्थायै गौर्य्यै धात्रौ नमो नमः । ज्योत्स्नायै
चेन्दुरूपिण्यै सुखायै सततं नमः” देवीमा० । ततः मत्वर्थे
अण् ज्यौत्स्त तद्युक्ते त्रि० स्त्रियां ङीप् ज्यौत्स्नी ।

ज्योत्स्नाकाली स्त्री सोमस्य कन्यायां वरुणात्मजपुष्कर-

पत्न्याम् “एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः ।
रूपवान् दर्शनीयश्च सोमपुत्र्या वृतः पतिः । ज्योत्स्ना-
कालीति यामाहुर्द्वितीयां रूपतः श्रियम्” भा० उ० ९७ अ०

ज्योत्स्नादि पु० मत्वर्थे अण्प्रत्ययप्रकृतिभूते पा० ग० सू०

पठिते शब्दगणे स च गणः “ज्योत्स्ना तमिस्वा कुण्डल
कुतुप विसर्प विपादिका” ।

ज्योत्स्नाप्रिय पुंस्त्री ज्योत्स्ता प्रियास्य । चकोरे स्त्रियां

जातित्वेऽपि योपधत्वात् टाप् ।

ज्योत्स्नावृक्ष पु० ज्योत्स्ताया दीपप्रकाशस्याधारः वृक्षः ।

दीपाधारे (पिलसुच) त्रिका० ।

ज्योत्स्नी स्त्री ज्योत्स्नाऽस्त्यस्य अण् संज्ञापूर्वकवृद्धेरनि-

त्यत्वात् न वृद्धिः ङीप् । १ ज्योत्स्तायुक्तरात्रौ (झिङ्गा)
२ पटोलिकायाञ्च अमरः । ३ रेणुकानामगन्धद्रव्ये शब्दच० ।
स्वार्थे क । ज्योत्स्तिका तत्रार्थे ।

ज्यौतिषिक त्रि० ज्योतिषमधीते वेद वा उक्थादि० ठक् ।

१ ज्योतिषशास्त्राभिज्ञे २ तदध्येतरि च अमरः ।

ज्यौत्स्न त्रि० ज्योत्स्ता अस्त्यस्य अण् । १ ज्योत्स्नायुक्ते

स्त्रियां ङीप् सा च २ चन्द्रिकायुक्तरात्रौ रायमुकुटः ।

ज्रि अभिभवे भ्वा० पर० सक० अनिट् । ज्रयति अज्रौषीत् ।

जिज्राय जिज्रियतु “आ भानुना पार्थिवानि जृयांसि
महस्तोदस्य धृषता ततन्थ” ऋ० ६ । ६६ । “जिगादुपज्र-
यति सोरपीच्यं पदं यदस्य मतुथा अजीजनन्” ६ । ७१ । ५ ।

ज्री वयोहानौ वा चुरा० उभ० पक्षे क्य्रा० प्वा० प० अक०

अनिट् । ज्राययति ते ज्रिणाति अजिज्रयत् त अज्रैषीत्

ज्वर रोगे भ्वा० पर० अक० सेट् । ज्वरति अज्वारीत् ।

मित् । ज्वरयति ते ।

ज्वर पु० ज्वर + भावे थ । स्वनामख्याते रोगभेदे । ज्वरस्योद्भव

निदानादि भावप्र० उक्तं यथा ।
“दक्षायमानसंक्रुद्धरुद्रनिःश्वाससम्भवः । ज्वरोऽष्टधा
पृथग्द्वश्वसङ्घातागन्तुजः स्मृतः । अस्थायमर्थः । दक्ष-
कर्तृको योऽपमानस्तेन संक्रुद्धो यो रुद्रस्तस्य यो
निःश्वासस्तस्मात्सम्भव ऊत्पत्तिर्यस्य स ज्वरः । क्रुद्धरुद्रनिः-
श्वाससम्भूतत्वेन ज्वरः स्वभावात्पैत्तिक इति बोध्यते ।
यत उक्तं चरकेण, क्रोधात्पित्तमित्यादि तेन सर्वज्वरेषु
पित्तोपशमकारिणो चिकित्सा कर्तव्या अतएव वाग्भटः
“उष्मा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना ।
तस्मात्पित्तविरुद्धानि त्यजेत्पित्ताधिकेऽधिकम्” रुद्र-
सम्भूतत्वेन ज्वरस्य देवतात्मकत्वात् पूजार्हत्वं चोपदर्शि-
तम् अतएव वैदेहः “ज्वरः संपूनैवार्पि
सहसैवोपशाम्यतीति” । मूर्त्तिरप्यस्योक्ता सुश्रुतेन “रुद्र-
कोपाग्निसंमूतः सर्वभूतप्रतापनः । त्रिपाद्भस्मप्रहरणस्त्रि-
शिराः सुमहोदरः । वैयाघ्रचर्मवसनः कपिलो माल्य-
विग्रहः । पिङ्गेक्षणो ह्रस्वजङ्घो बीभत्स्यो बलवान्म-
हान् । पुरुषो लोकनाशर्थमसौ ज्वर इति स्थितः ।
तैस्तैर्नामभिरन्येषां सत्वानां परिकीर्त्त्यते । जन्मादौ
निधने चैव प्रायोविशति देहिनम् । ऋते देवमनुष्याभ्यां
नान्यो विषहते हि तम्” तस्य ज्वरस्य संख्यारूपां संपा-
प्तिमाह ज्वरोऽष्टधेति । अष्टत्वं विवृणोति पृथगिति
वातिकः पैत्तिकः श्लैष्मिकशैति त्र्यः । द्वन्यजाश्च त्रयः
वातपैत्तिकः वातश्लैष्मिकः पित्तश्लैष्मिकश्चेति । सङ्घातजः
सन्निपातिक एकः । “द्व्युस्यणैकोस्त्वणैः षट् स्थुहीऽनमध्या-
धिकैश्च षट् । समश्चैको विकारास्ते सन्निपातास्त्रयोदश”
इति चरके त्रयोदश सन्निपाता उक्तास्ते यथा ।
वातोल्वणः पित्तोल्वणः । कफोल्वणः । वातपित्तो-
ल्वणः । वातश्लेष्मोल्वणः पित्तश्लेष्मोल्वणः । एवं षट् ।
अधिकवातो मध्यपित्तो हीनकफः । अधिकवातो मध्य-
कफो हीनपित्तः । अधिककफो मध्यपित्तो हीनवातश्चेति
षट् । त्र्युलवण एकः एवं त्रयोदश । अत्र तु त्रिदोष-
जत्वेन साम्यात्सान्निपातिक एक एव गणितः । आगन्तुज
इति । अत्रागन्तुशब्देनाभिधातादयो हेतव उच्यन्ते ।
पृष्ठ ३१६६
कुत्रचिद्व्याधयः कार्थकारणयोरभेदोपचारात्
आगन्तुजा अभिधाताद्यनेककारणयोगादनेक भवन्ति ।
तथाप्यागन्तुजत्वेन साम्यादागन्तुजोऽप्यत्रैक एव गणितः ।
नन्वागन्तुजेऽपि ज्वरे वातादिलक्षणदर्शनादागन्तुजः कथं
दोषजाद्भिन्नः उच्यते, उत्तरकालं दोषोत्पत्तेः । तथा
च चरके “आगन्तुजो हि व्यथापूर्वं जायते पश्चाद्भि-
न्नैर्दोषैरनुबध्यते” इति । अथ ज्वरस्य विप्रकृष्टकारणक-
थनपूर्बिका अम्प्राप्तिमाह “मिथ्याहारविहाराभ्यां दोषा
ह्यामाशयाश्रयाः । वहिर्न्निरस्य कोष्टाग्निं ज्वरदाः स्थूर-
सानुगाः” । मिथ्याहारविहाराभ्यां अनुचिताहारचे-
ष्टाभ्यां हेतुभूताभ्यां दोषाः वातपित्तकफाः आमाशया-
श्रयाः आमाशयं गता रसानुगाः रसदूषकाः बहिर्नि-
रस्य कोष्टाग्निं कोष्टगताग्नेरूष्माणम् न तु समस्त-
वग्निं तदा दोषपाकासम्भवः स्यात् । बहिः प्रक्षिप्य
ज्वरदाः स्युर्ज्वरकांरिणो भवेयुरित्यर्थः । अथ ज्वरस्य
सामान्यं विशिष्टञ्च पूर्वरूपमाह “श्रमोऽरतिर्विवरणत्वं
वैरस्यं नयनप्लवः । इच्छाद्वेषो मुहुश्चापि शीतवाता-
तपादिषु । जृम्भाऽङ्गमर्द्दो गुरुता रोमहर्षोऽरुचिस्तमः ।
अप्रहर्षश्च शीतञ्च भवन्त्युत्पत्स्यति ज्वरे । सामान्यतो
विशेषात्तु जृम्भात्यर्थं समीरणात् । पित्तान्नयनयोर्द्दाहः
कफान्नान्नाभिनन्दनम्!” श्रमो व्यापार’ विनैव, अरति-
रस्वस्थचित्तत्वम् विवर्णत्वं म्लानगात्रता । वैरस्यं मुख्य-
स्याऽप्रकृतरसता । नयनप्लवः नयनयोरश्रुपूर्णत्वम् ।
शीतवातातपादिषु मुहुरिच्छाद्वेषौ । आदिशब्दाज्ज्वलने
जले च । यत उक्तं चरकेण “ज्वलनातपवातेषु भक्ति-
द्वेषावनिश्चिताविति” । शयनादिष्वित्यन्ये । अङ्गमर्द्दोऽङ्ग-
मोटनम् । गुरुता गात्रस्य । तोमहर्षः रोमाञ्चता ।
अरुचिर्भोज्ये, तमः तमोमग्नस्येव ज्ञानम् । अप्रहर्षः
हर्षाभावः । शीतं लगति चकाराद्वलहानिः उपदेश-
द्वेषादयोऽपि भवन्ति । तृतीयश्लोकस्थम् सामान्यत इति
पूर्वश्लोकाभ्यां सम्बन्धनीयम् । तेन सामान्यतो ज्वर उत्प-
त्स्थति भविष्यति श्रमादयः पूर्वमेव भवन्तीत्यर्थः ।
उत्पत्स्थतीत्यात्मनेपदिनोऽपि तङभाव आर्षत्वात् ।
विशेषात् उच्यते । समीरणात् ज्वरे उत्पत्स्यति अतिशयेन
जृम्भा भवति । पित्तज्वरे उत्पत्स्यति अत्यर्थनयोर्दाहो
भवति । कफज्वरे उत्पत्स्यति अत्थर्थेन नान्नाभिनन्दनम्
अन्नाकाङ्क्षा न भवति । जृम्भादयो भवन्ति यतः सामा-
न्यधर्माक्रान्तो विशिंष्टोधर्मोभवति । द्वन्द्वजपूर्वरूपमाह,
“रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्दजं विदुः । अन्यतराभ्यां
जृम्भानेत्रदाहाभ्याम् । जृम्भान्नारुचिभ्यां नेत्रदाहान्ना-
रुचिभ्यां वा संसृष्टैरूपैः श्रमादिभिः द्वन्द्वजं द्विदोषजं
पूर्वरूपं विदुः । त्रिदोषजपूर्वरूपमाह, “सर्वलिङ्गसमा-
वायः सर्वदीषप्रकोपजे । सर्वरूपजे सर्वरूपे सर्वलिङ्गसम-
वायः । अतिशयितजृम्भानेत्रदाहान्नारुचिसहितानां
श्रमादीनां समवायो भवति । अथ ज्वरस्य सामान्यलक्षण-
माह, “स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा ।
युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते । ताप इति
वक्तव्ये सन्तापाभिधानं देहेन्द्रियमनसां सन्तापबोधना-
र्थम् । यत उक्तं चरकेण ज्वरविशेषणम् । “देहेन्द्रिय-
मनस्तापीति” । तत्र देहसन्तापो देहेन्द्रियोष्णता । इन्द्रि-
यसन्ताप इन्द्रियवैकृत्यम् । यत उक्तम् “इन्द्रियाणां तु
वैकृत्यं यत्र सन्तापलक्षणम् । वैचित्त्यमरतिर्ग्लानिर्म्मनः-
सन्तापलक्षणम् इति” । सर्वाङ्गग्रहणम् सर्वेषामङ्गानां
वेदनया ग्रहणं सर्वाण्यङ्गानि स्तम्भनगृहीतानीव वा
भवन्ति । युगपदिति । मिलितमेतल्लक्षणम् । प्रत्येकस्य
व्यभिचारात् । यथा स्वेदावरोधः कुष्ठपुर्वरूपे । तथा
सन्तापो दाहव्याधौ । तथा सर्वाङ्गग्रहणं सर्वाङ्गरो-
गाख्यवातव्याधौ । प्रस्वेदानिर्गमनपक्षे कारणमाह ।
“रुणद्धि चाप्यपां धातुं यस्मात्तस्माज्जरातुरः । भवत्य-
त्युष्णगात्रश्च स्विद्यते न च सर्वशः । तस्माज्ज्वरोऽत्र
भवति सर्वशः स्विद्यते न च” ।
सुश्रुते उत्तरतन्त्रे च तत्र विशेष उक्तो यथा
“ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम् । कर्मणा
लभते यस्माद्देवत्वं मानुषादपि । पुनश्चैव च्युतः स्वर्गा-
न्मानुष्यमनुवर्त्तते । तस्मात्ते देवभागेन सहन्ते मानुषा
ज्वरम् । शेषाः सर्वे विपद्यन्ते तैर्य्यग्योना ज्वरार्दिताः ।
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा । विकारा
युगपद्यस्मिन् ज्वरह् स परिकीर्तितः । दोषैः पृथक्
समस्तैश्च द्वन्द्वैरागन्तुरेव च । अनेककारणोत्पन्नः स्मृतस्त्वष्ट-
विधो ज्वरः । दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रको-
पनैः । व्याप्य देहमशेषेण ज्वरमापादयन्ति हि । दुष्टाः
स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा । सहिता रसमागत्य
रसस्वेदप्रवाहिणाम् । स्रोतसां मार्यमावृत्त्य मन्दीकृत्य
हुताशनम् । गिरस्य वहिरूष्माणम् पक्तिस्थानाच्च केवलम् ।
शरीरं समाभव्याप्य स्वकालेषु ज्वरागमम् । जनयन्त्यथ
वृद्धिश्च स्ववर्णञ्च त्वगादिषु । मिथ्यातियुक्तैरपि च
पृष्ठ ३१६७
स्नेहाद्यैः कर्मभिर्नृणाम् । विविधादभिघाताच्च रोगो-
त्थानात् प्रपाकतः । श्रमात् क्षयादजीर्णाच्च विषात्
सात्म्यर्त्तुपर्य्ययात् । अओषधीपुष्पगन्धाच्च शोकान्नक्षत्र-
पीड़नात् । अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया ।
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः । स्तन्याव-
तरणे चैव ज्वरो दोषैः प्रवर्त्तते । तैर्वेगवद्भिर्बहुधा
समुद्भ्रान्तैर्विमार्गकैः । विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु
बहिश्चरः । रुणद्धि चाप्यपान्धातुं यस्मात्तस्माज्ज्वरा-
तुरः । भवत्यत्युष्णगात्रश्च न च स्विद्यति सर्वशः ।
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः । इच्छाद्वेषौ
मुहुश्चापि शीतवातातपादिषु । जृम्भाङ्गमर्दो गुरुता
रोमहर्षोऽरुचिस्तमः । अप्रहर्षश्च शीतञ्च भवत्युत्पत्स्यति
ज्वरे । सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् ।
पित्तान्नयनयोर्दाहः कफान्नाभिनन्दनम् । सर्वलिङ्ग-
समावायः सर्वदोषप्रकोपजे । द्वयोर्द्धयोस्तु रूपेण संसृष्टं
द्वन्द्वजं विदुः । वेपथुर्विषमो वेगः कण्ठोष्ठमुखशोषणम् ।
निद्रानाशः क्षवः स्तम्भो गात्राणां रौक्ष्यमेव च । शिरो-
हृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता । जृम्भाध्मानं तथा
शूलं भवत्यनिलजे ज्वरे । वेगस्तीक्ष्णोऽतिसारश्च निन्द्रा-
ल्पत्वं तथा वमिः । कण्ठौष्ठमुखनासानां पाकः स्वेदश्च
जायते । प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा ।
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च । गौरवं
शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता । स्रोतोरोधो
रुगल्पत्वं प्रसेको मधुरास्यता । नात्युष्णगात्रता च्छर्दिरङ्ग-
सादोऽविपाकता । प्रतिश्यायोऽरुचिः कासः कफजेऽ-
क्ष्णोश्च शुक्लता । निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ता-
ङ्गताऽरुचिः । तृष्णा मोहो मदः स्तम्भो दाहः शीतं
हृदिव्यथा । पक्तिश्चिरेण दोषाणामुन्मादः श्यावद-
न्तता । रसना परुषा कृष्णा सन्धिमूर्द्धास्थिजा रुजः ।
निर्भुग्नकलुषे नेत्रे कर्णौ शब्दरुगन्वितौ । प्रलापः
स्रोतसां पाकः कूजनं चेतनाच्युतिः । स्वेदमूत्रपुरोषा-
णामल्पशः सुचिरात् सृतिः । सर्वजे सर्वलिङ्गानि विशेष-
ञ्चात्र मे शृणु । नात्यु ष्णशीतोऽल्पसंज्ञो भ्रान्तप्रेक्षी
हतस्वरः । खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः ।
सास्रनिर्भुग्नहृदयो भक्तद्वेषी हतप्रभः । श्वसन्
निपतितः शेते प्रलापोपद्रवैर्युतः । तमभिन्यासमित्याहु-
र्हतौजसमथापरे । सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः ।
निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम् । संन्यस्त-
गात्रं संन्यासं विद्यात्सर्बात्मके ज्वरे । ओजोविस्रंसते
यस्य पित्तानिलसमुच्छ्रयात् । स गात्रस्तम्भशीताभ्यां
शयने स्यादचेतनः । अपि जाग्रत् स्वपतु जन्तुस्तन्द्रालुश्च
प्रलापवान् । संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः ।
ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक् । सप्तमे
दिवसे प्राप्ते दशमे द्वादशेऽपि वा । पुनर्धोरतरो भूत्वा
प्रशमं याति हन्ति वा । द्विदोषोच्छ्रायलिङ्गास्तु द्वन्वजा-
स्त्रिविधाः स्मृताः । जृम्भाध्मानमदोत्कम्पपर्वभेदपरि-
क्षयाः । तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके ।
शूलकासकफोत्क्लेशशीतवेपथुपीनसाः । गौरबारुचि-
विष्टम्भा वातश्लेष्मसहृद्भवे । शीतदाहारुचिस्तम्भस्वेद-
मोहमदभ्रमाः । कासाङ्गसादहृल्लासा भवन्ति
कफपैत्तिके । क्षामाणां ज्वरमुक्तानां मिथ्याहारविहारि-
रिणाम् । दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ।
सन्ततान्येद्युषत्र्याख्यचातुर्थान् सप्रलेपकान् । कफस्थान-
विभागेन यथासङ्घ्यं करोति हि । अहोरात्रादहो-
रात्रात् स्थानात् स्थानं प्रपद्यते । ततश्चामाशयं प्राप्य
घोरं कुर्य्याज्ज्वरं नृणाम् । तथा प्रलेपको ज्ञेयः शोषिणां
प्राणनाशनः । दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोष-
कृत् । कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा ।
विपर्य्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् । परो
हेतुः स्वभावो वा विषमे कैश्चिदीरितः । आगन्तुश्चानु-
बन्धो हि प्रायशो विषमज्वरे । वाताधिकत्वात् प्रवदन्ति
तज्ज्ञास्तृतीयकञ्चापि चतुर्थकञ्च । औपात्यके मद्यसमु-
द्भवे च हेतु ज्वरे पित्तकृतं वदन्ति । प्रलेपकं वातबला-
सकञ्च कफाधिकत्वेन वदन्ति तज्ज्ञाः । मूर्च्छानुबन्धा-
विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु । त्वक्स्थौ
श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे । तयोः प्रशा-
न्तयोः पित्तमन्ते दाहं करोति च । करोत्यादौ तथा
पित्तं त्वक्स्थं दाहमतीव च । तस्मिन् प्रशान्ते त्वितरौ
कुरुतः शीतमन्ततः । द्वावेतौ दाहशीतादी ज्वरौ
संसर्गजौ स्मृतौ । दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमः
स्मृतः । प्रसक्तश्चाभिधातोत्थश्चेतनाप्रभवस्तु यः ।
रात्र्यह्नोः षट्सु कालेषु कीर्त्तितेषु यथा पुरा । प्रसह्य
विषमोऽभ्येति मानवं बहुध ज्वरः । स चापि विषमो
देहं न कदादिद्विमुञ्चति । ग्लानिगौरवकाश्र्येभ्यः स
यस्मान्न प्रमुच्यते । वेगे तु समतिक्रान्ते गतोऽयमिति
लक्ष्यते । धात्वन्तरस्थो लीनत्वान्न सोक्ष्म्यादुपलभ्यते ।
पृष्ठ ३१६८
अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः । दोषोऽ-
ल्पोऽनिलसंभूतो ज्वरोत्सृष्टस्य वा पुनः । धातुमन्यतमं
प्राप्य करोति विषमज्वरम् । सन्तरं रसरक्तस्थः सोऽन्येद्युः
पिशिताश्रितः । मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः
पुनः । कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् । केचिद्
भूताभिषङ्गोत्थं ब्रुवतेविषमज्वरम् । सप्ताहं वा दशाहं
वा द्वादशाहमथापि वा । सन्तत्या योऽविसर्गी स्यात्
सन्ततः स निगद्यते । अहोरात्रे सन्ततको द्वौ कालाषनु-
वर्तते । अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते । तृतीय-
कस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः । वातेनोद्धूयमानस्तु
यथा पूर्येत सागरः । वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै
ज्वरान् । यथा वेगागमे वेलां छादयित्वा महोदधेः ।
वेगहानौ तदेवाम्भस्तत्रैवान्तर्निधीयते । दोषवेगोदयं
तद्वदुदीर्येत ज्वरोऽस्यवै । तेमहानौ प्रशाम्येत यथाम्भः
सागरे तथा । विविधेनाभिधातेन ज्वरो यःसंप्रवर्तते ।
यथा दोषप्रकोपन्तु तथा मन्ये त तं ज्वरम् । श्यावास्यता
विषकृते दाहातीसारहृद्ग्रहाः । अभक्तरुक्पिपासा
च तोदो मूर्च्छा बलक्षयः । अओषधौगन्धजे मूर्च्छा शिरो-
रुक्क्षवथुस्तथा । कामजे चित्तविभ्रंशस्तन्द्रालस्यमभक्त-
रुक । हृदये वेदना चाशु गात्रञ्च परिशुष्यति ।
भयात् प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः । अभिचारा-
भिशापाभ्यां मोहस्तृष्णाभिजायते । भूताभिषङ्गादु-
द्वेगहास्यकम्पनरोदनम् । श्रमक्षयाभिघातेभ्यो देहिनां
कुपितोऽनिलः । पूरयित्वाखिलं देहं ज्वरमापादयेद्-
भृशम् । रोगाणां तु समुत्थानाद्विदाहागन्तुतुस्तथा ।
ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः । दोषाणां स
तु लिङ्गानि कदाचिन्नातिवर्तते । गम्भीरस्तु ज्वरो ज्ञेयो
ह्यन्तर्दाहेन तृष्णया । आनद्धत्वेन चात्यर्थं श्वास-
कासोद्गमेन च । हतप्रभेन्द्रियं क्षमं दुरात्मानमुप-
द्रुतम् । गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत् ।
हीनमध्याधिकैर्दोषैस्त्रिसप्तद्धादशाहिकः । ज्वरवेगो
भवेत्तीव्रो यथापूर्बं सुखक्रियः । इति ज्वराः समाख्याता
कर्मेदानीं प्रवक्ष्यते” ।
ज्वरभेदे क्रियाभेदः सुश्रु० उ० त० उक्तो यथा
“ज्वरस्य पूर्वरूपेप्रुवर्त्तमानेषु बुद्धिमान् । पाययेत घृतं
ज्वच्छं ततः स लभते सुखम् । विधिर्मारुतजेष्वेष
पत्तिकेष विरेचनम । मृदु प्रच्छर्दनं तद्वत्कफजेषु विधी-
यते । सर्बं द्विदोषजेषूक्तं यथादोषं विकल्पयेत् ।
अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना ।
रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत् । प्रव्यक्तरूपेषु
हितमेकान्तेनापतर्पणम् । आमाशयस्थे दोषे तु सोत्-
क्लेशे वमनं परम् । आनद्धः स्तिमितैर्द्दोषैर्य्यावन्तं
कालमातुरः । कुर्य्यादनशनं तावत्ततः संसर्गमाचरेत् । न
लङ्घयेन्मारुतजे क्षयजे मानसे तथा । अलङ्घ्याश्चापि
ये पूर्बं द्विव्रणीये प्रकोर्त्तिताः । अनवस्थितदोषाग्नेर्ल्ल-
ङ्घनं दोषपाचनम् । ज्वरघ्नं दीपनं काङ्क्षारुचिलाघव-
कारकम् । सूष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं
लघुम् । प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम् ।
बलक्षयस्तृषाशोषस्तन्द्रानिद्राभ्रमक्लमाः । उपद्रवाश्च
श्वासाद्याः सम्भवन्त्यतिलङ्घनात् । दीपनं कफविच्छेदि
पित्तवातानुलोमनम् । कफवातज्वरार्त्तेभ्यो हितमुष्णाम्बु
तृट्च्छिदम् । तद्धि मादवकृद्दोषस्रोतसां शीतमन्यथा ।
सेव्यमानेन तोयेन ज्वरः शीतेन वर्द्धते । पित्तमद्यविषो-
त्थेषु शीतलं तिक्तकैः शृतम् । गाङ्गेयनागरोशीरपर्प-
टोदीच्यचन्दनैः । दीपनी साचनी लध्वी ज्वरार्त्तानां
ज्वरापहा । अन्नकाले हिता पेया यथास्वम्पाचनैः
कृता । बहुदोषस्य मन्दाग्नेः सप्तरात्रात्परं ज्वरे ।
लङ्घनान्ते यवागूभिर्यदा दोषो न पच्यते । तदा तं
मुखवैरस्यतृष्णारोचकनाशनैः । कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः
समुपाचरेत् । पञ्चमूलीकषायन्तु पाचनं पवनज्वरे ।
सक्षौद्रं प्रैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् । पिप्पल्यादि-
कषायन्तु कफजे परिपाचनम् । द्वन्द्वजेषु तु संसृष्टं
दद्यादथ विवर्जयेत् । पीताम्बुर्लङ्घितोभुक्तो जीर्णी
क्षीणः पिपासितः । मृदौ ज्वरे लघौ देहे प्रचलेषु
मलेषु च । पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ।
दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम् । हृदयोद्वेष्टनं
तन्द्रालालास्रुतिररोचकम् । दोषाप्रवृत्तिरालस्यं
विबन्धो बहुमूत्रता । गुरूदरत्वसस्वेदो न पक्तिः
शकृतोऽरतिः । स्वापः स्तम्भो गुरुत्वस्य गात्राणां वह्निमा-
र्दवम् । मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवान् ज्वरः ।
लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः । सप्तरात्रात्परं
केचिन्मन्यन्ते देयमौषधम् । दशरात्रात्परं केचिद्दातव्य-
मिति निश्चिताः । पौत्तिके वा ज्वरे देयमल्पकालसमु-
त्थिते । अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः । भोषजं
ह्यामदोषस्य भूयो ज्वलयति ज्वरम् । शोधनं शमनीयन्तु
करोति विषमज्वरम् । च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं
पृष्ठ ३१६९
सदा । अतिप्रवर्त्तमानञ्च माधयेदतिसारवत् । यदा
कोष्ठानुगाः प्रक्वाविबद्धाः स्रोतसां मलाः । अचिरज्वरि-
तस्यापि तदा दद्याद्विरेचनम् । पक्वोह्यनिर्हृतोदोषो
देहे तिष्ठन् महात्ययम् । विषमं वा ज्वरं कुर्य्याद्बल-
व्यापदमेब च । तस्मान्निर्हरणं कार्य्यं दोषाणां वमना-
दिभिः । प्राक्कर्म्म वमनं चास्य कार्य्यमास्थापनं तथा ।
विरेचनं तथा कुर्य्याच्छिरसश्च विरेचनम् । क्रमेण
बलिने देयं वमनं श्लैष्मिके ज्वरे । पित्तप्राये विरेकस्तु
कार्य्यः प्रशिथिलाशये । सरुजेऽनिलजे कार्य्यं सोदा-
वर्त्ते निरूहणम् । कटीपृष्ठग्रहार्त्तस्य दीप्ताग्नेरनुवा-
सनम् । शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम् । कफाभि-
पन्ने शिरसि कार्य्यं मूर्द्धविरेचनम् । दुर्बलस्य समाध्मा-
तमुदरं सरुजं दिहेत् । दारुहैमवतीकुष्ठशताह्वाहिङ्गु-
सैन्धवैः । अम्लपिष्टैः सुखोष्णैश्च पवने तूर्द्ध्वमागते ।
रुद्धमूत्रपुरीषाय गुदे वर्त्तिं निधापयेत् । पिप्पलीपि-
प्पलीमूलयवानीचष्यसाधिताम् । पाययेत यवागूं वा
मारुताद्यनुलोमनीम् । शुद्धस्योभयतो यस्य ज्वरः शान्तिं
न गच्छति । सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् ।
कृशञ्चैवाल्पदोषञ्च शमनीयैरुपाचरेत् । उपवासैर्बलस्थन्तु
ज्वरे सन्तर्पणोत्थिते । क्लिन्नां यवागूं मन्दाग्निं तृषार्त्तं
पाययेन्नरम् । तृट्च्छर्दिदाहघर्मार्त्तं मद्यपं लाजतर्प-
णम् । सक्षौद्रमम्भसा पश्चाज्जीर्णे यूषरसौदनम् ।
उपपासश्रमकृते क्षीणे वाताधिके ज्वरे । दीप्ताग्निं मोजये-
त्प्राज्ञो नरं मांसरसौदनम् । मुद्गयूषौदनञ्चापि हितं
कफसमुत्थिते । स एव सितया युक्तः शीतः पित्त-
ज्वरे हितः । दाडिमामलमुद्गानां युषश्चानिलपैत्तिके ।
ह्रस्वमूलकयूषेण भोजयेत्कफवातिके । पटोलनिम्बयूषस्तु
पथ्यः पित्तकप्रात्मके । दाहच्छर्दियुतं क्षामं निरन्नं
नृष्णयार्दितम् । सिताक्षौद्रयुतं लाजतर्पणं पाययेत च ।
कफपित्तपरीतस्य ग्रोष्मेऽसृक्पित्तनस्तथा । मद्यनित्यस्य
न हिता यवाहूस्तमुपाचरेत् । यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा
रसैर्हितैः । मद्यं पुराणं मन्दाग्वेर्य्यवान्नोपहितं
हितम् । सव्योषं वितरेत्तक्रं कफारोचकपीड़िते । कृशोऽल्प-
दोषो दीनश्च नरो जीर्णज्वरार्दितः । विबद्धः सृष्टदोषश्च
रूक्षः पित्तानिलज्वरी । पिपासार्त्तः सदाहो वा षयसा
स सुखी भवेत् । तदेव तु पयः पीतं तरुणे हन्ति
मातवम् । सर्वज्वरेषु सप्ताहं मात्रावद्भोजनं हितम् ।
वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्द्धनम् । ज्वरितो
हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् । अन्नकाले ह्यभुञ्जानः
क्षीयते म्रियतेऽथ वा । गुर्वभिष्यन्द्यकाले च ज्वरी
नाद्यात्कथञ्चन । न तु तस्याहितं भुक्तमायुषे वा सुखाय
वा । सततं विषमं वापि क्षीणस्य सुचिरोत्थितम् । ज्वरं
संभोजनैः पथ्यैर्लघुभिः समुपाचरेत् । मुद्गान्मसूरांश्च-
णकान् कुलत्थान् समकुष्ठकान् । आहारकाले यूषार्थं
ज्वरिताय प्रदापयेत् । लाबान् कपिञ्जलानेणान् पृषतान्
शरभान् शशान् । कालपुच्छान् कुरङ्गांश्च तथैव मृगमा-
त्रकाम् । मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत् ।
सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरीस्तथा । गुरूष्ण-
त्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः । ज्वरितानां
प्रकोपन्तु यदा याति समीरणः । तदैतेऽपि हि शस्यन्ते
मात्राकालोपपादिताः । परिषेकावगाहांश्च स्नेहान्
संशोधनानि च । स्तानाभ्यङ्गदिवास्नप्नशीतव्यायामयो-
षितः । न भजेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् ।
त्यक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः । प्रत्यापन्नो
दहेद्देहं शुष्कं वृक्षमिवानलः । तस्मात्कार्य्यः परीहारो
ज्वरमुक्तेन जन्तुना । यावन्न प्रकृतिस्थः स्याद्दोषतः
प्राणतस्तथा । ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः ।
निषण्णं भोजयेत् तस्मान्मूत्रोच्चारौ च कारयेत् ।
अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु । शान्तज्वरोऽपि
शोध्यः स्यादनुबन्धभयान्नरः । न जातु तर्पयेत् प्राज्ञः
सहसा ज्वरकर्शितम् । तेन सन्दूषितो ह्यस्य पुनरेव
भवेज्ज्वरः । चिकिस्तेच्च ज्वरान् सर्वान्निमित्तानां
विपर्य्ययैः । श्रमक्षयाभिघातोत्थे मूलव्याधिमुपात्तरेत् ।
स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः । तत्र
संशमनं कुर्य्याद्यथादोषं विधानवित्” ।
अत्र विशेषो गरुड़ पुरा० १५२ अ० उक्तो यथा ।
“ज्वरोरोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः ।
क्रोधाद्दक्षाध्वरध्वंसो रुद्रोर्द्धनयनोद्भवः । तत्सन्तापो
ग्रोहमयः सन्तापात्माऽपचारजः । विविधैर्नामभिः क्रूरो
नानायोनिषु वर्तते । पाकलो गजेष्वभितापो वाजिष्व-
लर्कः कुक्कुरेषु । ईन्द्रमदो जलदेऽप्सु नीलिका ज्योति-
रौषधिषु भूस्यामूषरो नाम । हृल्लासश्छर्दनं कासः
स्तम्भः शैत्यं त्वगादिषु । अङ्गेषु शीतपिड़कामात्रो
दर्दः कफोद्भवे । काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव
वा । निदानोक्तानुपशयो विपरीतोपशायिता ।
अरुचिश्चाविपाकश्च स्तम्भमालस्यमेव च । हृद्दाहश्च विपा-
पृष्ठ ३१७०
कश्च तन्द्राङ्कालस्य मेव च । वस्तिर्विसर्गविलया दोषा-
णामप्रवर्तनम् । लालाप्रसेको हृल्लासः क्षुन्नाशो रसदं
मुखम् । यच्च सुष्ठुगुरुत्वञ्च गात्राणां बहुमूत्रता । न
विजीर्णा न वा ग्लानिर्ज्वरस्यामस्य लक्षणम् । क्षुत्-
क्षामता लघुत्वञ्च गात्राणां ज्वरमार्दवम् । दोषप्रवृत्ति-
रष्टाहो निरापज्वरलक्षणम् । यथास्वलिङ्गं संसर्गे
ज्वरसंसर्गजोऽपि बा । शिरोऽर्तिमूर्छावमिदेहदाहकण्ठास्य
शोषारुचिपर्वभेदाः । उन्निद्रता संभ्रमरोमहर्षा जृम्भाति
वाक्त्वं पवनात् स पित्तात् । तापहान्थरुचिपर्वशिरो-
रुक् पीनसश्वसनकासविबन्धाः । शीतजाड्यतिमिर-
भ्रमितन्द्राः श्लेष्मवातजनितज्वरलिङ्गम् । शीतस्तम्भ
स्वेददाहव्यवस्था तृष्णाकासः श्लेष्मपित्तप्रवृत्तिः ।
मोहस्तन्द्रालिप्नतिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्त-
ज्वरस्य । सर्वजो लक्षणैः सर्वैर्द्दाहोऽत्र च मुहुर्मुहुः ।
तद्वच्छीतं महानिद्रा दिवा जागरणं निशि । सदा वा
नैव वा निद्रा महास्वेदोऽति नैव वा । गीतनर्तन-
हास्यादिप्रकृतेहाप्रवर्तनम् । साश्रुणी कलुषे रक्ते
मग्ने लुसितपश्गणी । अक्षिणी पिण्डिका पार्श्वमूर्द्ध-
पर्व्वास्थिरुग्म्भ्रमः । सस्वनौ सरुजौ कर्णौ महास्वेदोऽति
नैव वा । परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्निभा ।
रक्तपित्तकफे जिह्वा लोचने शिरसोऽतितृट् । कीटानां
श्यावरक्तानां मुण्डलानाञ्च दर्शनम् । हृद्व्यथा मलसंसर्गः
प्रवृत्तिरल्पशोऽति वा । स्निग्धास्यता बलभ्रंशः स्वरसादः
प्रलापिता । दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम् ।
सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम् । वायुना
कफरुद्धेन पित्तमन्तः सुपीड़ितम् । व्यवायित्वाच्च
सौख्याच्च बहिर्मार्गं प्रपद्यते । तेन हारिद्रनेत्रत्वं
सन्निपातोद्भवे ज्वरे । दोषे पिवृद्धे नष्टेऽग्नौ सर्व-
संपूर्णलक्षणः । असाध्यः सोऽन्यथा कृच्छ्रो
भवेद्वैकल्पदोऽपि वा । अन्यश्च सन्निपातोत्थो यत्र
पित्तं पृथक् स्थितम् । त्वचि कोष्ठे च वा दाहं
विदधाति पुरोऽनु वा । तद्वद्वातकफौ शीतं दाहादि-
र्दुस्तरस्तयोः । शीतादौ तत्र पित्तेन कफे स्थन्दित-
शोषिते । शीते शान्तेऽष्टके मूर्च्छा मदस्तृष्णा च
जायते । दाहादौ पुनरन्ते स्थुस्तन्त्रास्वेदवमिक्रमाः ।
आगन्तुरभिघाताभिषङ्गशापाभिचारतः । चतुर्द्धा तु
कृतच्छेदोदाहाद्यैरभिघातजः । श्रमाच्च तस्मिन् पवनः
प्रायो रक्तं प्रदूपयन् । सव्यथाशोकवैवर्ण्यं सरुजं
कुरुते ज्वरम् । ग्रहावेशौषधिविषक्रोधभीशोककामजः ।
अभिषङ्गाद् ग्रहेणास्मिन्नकस्मात्त्रासरोदने ।
औषधी गन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः । विषात् मूर्च्छा-
तिसारास्यश्यावता दाहतृड्भ्रमः । क्रोधात् कम्पः
शिरोरुक् च प्रलापो भयशोकजे । कामाद्भ्रमोऽरु-
चिर्द्दाहो ह्रीनिद्राधीधृतिक्षयः । ग्रहादौ सन्नि-
पातस्य रूपादौ मरुतस्तयोः । कोपः कोपेऽपि पित्तस्य
यौ तु शापाभिचारजौ । सन्निपातज्वरौ धोरौ
तावसह्यतमौ मतौ । तत्राभिचारिकैर्मन्त्रैर्हूषमानस्य
तप्यते । पूर्वञ्चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः ।
सदाहमूर्च्छैर्ग्रस्तस्थ प्रत्यहं वर्द्धते ज्वरः । इति ज्वरो-
ऽष्टधा दृष्टः समासाद्विविधस्तु सः । शारीरो मानसः
सौम्यस्तीक्ष्णोऽन्तर्वहिराश्रयः । प्राकृतो वैकृतः साध्यो
ऽसाध्यः सामो निरामकः । पूर्वं शरीरे शारीरे तापो
मनसि मानसे । पवने योगवाहित्वाच्छीतं श्लेष्मयुते
भवेत् । दाहः पित्तयुते मिश्रं मिश्रेऽन्तःसंश्रये पुनः ।
ज्वरोऽधिकं विकाराः स्थुरन्तःक्षोभो मलग्रहः ।
वहिरेव वहिर्वेगे तापोऽपि च सुसाधितः । वर्षा
शरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् । वैकृतोऽन्यः
मृदुः साध्यः प्रायश्च प्राकृतोऽनिलात् । वर्सासु मारुतो
दुष्टः पित्तश्लेष्मान्वितो ज्वरम् । कुर्य्यात् पित्तञ्च शरदि
तस्य चानुबलः कफः । तत् प्रकृत्या निसर्गाच्च तत्र
नानशनाद्भयम् । कफो वसन्ते तमपि वातपित्तं भवेदनु ।
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः । सर्वथाविकृति
ज्ञाने प्रागसाध्य उदाहृतः । ज्वरोक्पद्रवतीक्ष्णत्वमग्लानि-
र्बहुमूत्रता । न प्रवृत्ति र्न विजीर्णा न क्षुत् सामज्वरा-
कृतिः । ज्वरवेगेऽधिका तृष्णा प्रलापः श्वसनं भ्रमः ।
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् । जीर्णता-
मविपर्य्यासात् सप्तरात्रञ्च लङ्घनात् । ज्वरः पञ्चविधः
प्रोक्तोमलकालबलाबलात् । प्रायशः सन्निपातेन भूयसा-
ऽप्युपदृश्यते । सन्ततः सततोऽन्योद्युस्तृतीयकचतुर्थकौ ।
धातुमूत्रशकृद्वाहिस्रोतसाव्यापिनो मलाः । तापयन्त-
स्तनूं सर्वां तुल्यदृष्थादिबर्द्धिताः । बलिनो गुरवस्तद्व-
द्विशेषेण रसान्विताः । सततं निष्प्रतिद्वन्द्वा ज्वरं कुर्य्युः-
सुदुःसहम् । मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपये-
त्ततः । सर्वाकाररसादीनां शुद्ध्याऽशुद्ध्यापि वा क्रमात् ।
वातपित्तकफैः सप्तदशद्वादशवासरान् । प्रायोऽनुयाति
मर्य्यादां मोक्षय च बधाय च । इत्यग्निवेशस्य मतं
पृष्ठ ३१७१
हारीतस्य पुनः स्मृतिः । द्विमुण । सप्तमी (चतुर्दशी) या च
नवम्येकादशी तथा । एषा त्रिदोषमर्य्यादा मोक्षाय
च बधाय च । शुद्ध्यशुद्द्यै ज्वरः कालं दीर्घमप्यत्र वर्तते ।
कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम् ।
अल्पोऽपि दोषो दुष्ट्यादेर्लब्धान्यतमतो बलम् । स प्रत्यनीको
विषमं यस्माद्वृद्धिक्षयान्वितः । सोऽरिपक्षो ज्वरं कुर्य्या-
द्विषमक्षयवृद्धिभाग् । दोषः प्रवर्तते तेषां स्वे काले
ज्वरयन् बली । निवर्तते पुनश्चैव प्रत्यनीकबलाबलः ।
क्षीणदोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते ।
लीनत्वात् कार्श्यवैवर्ण्यजाड्यादीनादधाति सः । आसन्न
विवृतास्यत्वात् स्रोतसां रसवाहिनाम् । आशु सवैस्य
वपुषो व्याप्तिर्द्दोषेण जायते । सन्ततः सततस्तेन
विपरीतो विपर्य्ययात् । विषमो विषमारम्भः क्षपाकालेन
सङ्गवान् । दोषो रक्ताशयः प्रायः करोति सन्ततं
ज्वरम् । अहोरत्रस्य सन्धिः स्यात् सकृदन्येद्युराश्रितः ।
तस्मिन्मासवहा नाड़ी मेदोनाड़ी तृतीयके । ग्राही-
पित्तानिलान् मूर्द्ध्नस्त्रिकस्य कफपित्ततः । स पृष्ठस्या-
निलकफात् स चैकाहान्तरः स्मृतः । चतुर्थको
मलैर्मेदोमज्जास्थ्यन्यतरस्थिते । मज्जामूत्ररैत्यपरः प्रभा-
वमनुदर्शयेत् । द्विविधं कफेन जङ्वाभ्यां सपूर्वं
शिरसोऽनिलात् । अस्थिमज्जोरूपगते चातुर्थकविप-
र्य्ययः । तिधा त्र्यहं ज्वरयति दिनमेकञ्च मुञ्चति ।
बलाबलेन दोषाणामनुचेष्टादिजन्मनाम् । पक्वानामवि-
पर्य्यासात् सप्तरात्रन्तु लङ्घयेत् । ज्वरः स्यात्
मनसस्तद्वत् कर्मणश्च तदा तदा । गम्भीरधातुचारित्वात् सन्नि-
पातेन सम्भवात् । तुल्यो भूयिष्ठदोषाणां दुश्चिकित्स्य
श्चतुर्थकः । सूक्ष्मात् सूक्ष्मतरास्येषु दूराद्दूरतरेषु च ।
दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् । याति देहञ्च
नाशेषं सन्तापादीन् करोत्यतः । क्रमो थत्नेन विच्छिन्नः
सन्तापो लक्ष्यते ज्वरः । विषमो विषमारम्भः क्षपाका-
लानुसारवान् । यथोत्तरं मन्दमतिर्मन्दशक्तिर्यथायथम् ।
कालेनांप्नोति सदृशान् स रसादींस्तथा तथा । दोषो ज्वर-
यति क्रुद्धश्चिराच्चिरतरेण च । भूमौ स्थितं जलैः सिक्तं
कालमेव प्रतीक्षते । अङ्कुराय यथा वीजं दोषवीजं
भवेत्तथा । वेगं कृत्वा विषं यद्वदाशये नीयते बलम् ।
कुप्यत्याप्तबलं भूयः काले दोषविषं तथा । एवं ज्वराः
प्रवर्त्तन्ते विषमाः सन्ततादयः । उत्क्लेशो गौरवं दैन्यं
भङ्गोऽङ्गानां विजृम्भणम् । अरोचको वमिः श्वासः सर्व-
स्मिन्रसगे जवरे । रक्तनिषोदलं तृष्णा अक्ष्णोस्तु पिड़लो-
द्गमः । दाहरागभ्रममदप्रलावो रक्तसंश्रिते । तृङ्ग्लानि-
स्पष्टवर्च्चस्कमन्तर्द्दाहो भ्रमस्तथा । दौर्बल्यं गात्रविक्षेपो
मांसस्थे मेदसि स्थिते । स्वेदोऽतितृष्णा वमनं दौर्गन्ध्यं
चासहिष्णुता । प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेड-
नम् । दोषप्रवृत्तिरूर्द्धाधःश्वासाङ्गक्षेपकूजनम् । अन्त-
र्द्दाहो बहिःशैत्यं श्वासो हिक्का च मज्जगे । तमसो
दर्शनं मर्म्मच्छेदनं स्तब्धमेढ्रता । शुक्रप्रवृत्तिर्मृत्यु व
जायते शुक्रसंश्रये । उत्तरोत्तरदुःसाध्याः पञ्चान्ये
ते विपर्य्यये । प्रलिम्पन्निव गात्राणि श्लेष्मणा
गौरवेण च । मन्दज्वरः प्रलापस्तु स शीतः स्यात् प्रलेपकः ।
नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण गच्छति ।
स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकः । हरिद्राभेदवर्णा-
भस्तद्वल्लेपः प्रमेहति । स वै हारिद्रको नाम ज्वरभे-
दोऽन्तकः स्मृतः । कफवातौ समौ यत्र हीनपित्तस्य
देहिनः । तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजो
ज्वरः । दिवकरापितवले व्यायापामाच्च विशोषिते । शरीरे
नियतस्थाता ज्वरः स्यात् पौर्वरात्रिकः । आमाश्ये
यदा दुष्टे श्लेष्मपित्ते ह्यधःस्तिते । तदार्द्धं शीतलं
देहे त्वर्द्धं चोष्णं प्रजायते । काये पित्तं यदा दुष्टं
श्लेष्मा चान्ते व्यवस्थितः । उष्णत्वं तेन देहस्य शीतत्वं
करपादयोः । रसरक्ताश्रयः साध्यो मांसमेदोगतश्च यः ।
अस्थिमज्जागतः कृच्छ्रस्तैस्तैः साङ्गैर्हतप्रभः ।
विसंज्ञो ज्वरवेगार्त्तः सक्रोध इव वीक्ष्यते । सदोष्णशब्दञ्च
शकृदुद्रवं मुञ्चति वेगवत् । देहो लघुर्व्यपगतक्लभमीह-
तापः पाको मुखे करणसौष्ठबमव्यथत्वम् । स्वेदः क्षपः
प्रकृतिगामिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वर-
लक्षणानि” ।
माधवकरनिदाने वातिकादीनां लक्षणभेद उक्तस्तत्र
वातिकस्य लक्षणं यथा
“वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम् । निद्रानाशः क्षवः-
स्तम्भो गात्राणां रौक्ष्यमेब च । शिरोह्वद्गात्ररुग्वक्लवैरस्यं
गाढ़विट्कता । शूलाध्माने जृम्भणञ्च भवत्यनिलजे ज्वरे ।
पैत्तिकस्य लक्षणं यथा
“वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः । कण्ठौष्ठ
सुखनासाना पाकः स्वेदस जायते । प्रलापो वक्त्रकटुता
मूर्च्छा दाहो मदस्तृषा । पीतविण्मूत्रनेत्रत्वं पैत्तिके
भ्रम एव च” ।
पृष्ठ ३१७२
कफनिमित्तजस्य माधवकरनिदानोक्तं लक्षणं यथा
“स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता । शुक्ल-
मूत्रपुरीषत्वं स्तम्भस्तप्तिरथापि च । गौरवं शीतमुत्क्लेदो
रोमहर्षोऽतिनिद्रता । प्रतिश्यायोऽरुचिः कासः कफजे-
ऽक्ष्णोश्च शुक्लता” ।
वातपैत्तिकस्य लक्षणं यथा “तृष्णा मूर्च्छा भ्रमो दाहः
स्वप्ननाशः शिरोरुजा । कण्ठास्यशोषो वमथूरोमहर्षो-
ऽरुचिस्तमः । पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः ।
वातश्लैष्मिकस्य लक्षणं यथा
“स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च । शिरोग्रहः
प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम् । सन्तापो मध्यवेगश्च
वातश्ले ष्मज्वराकृतिः” ।
पित्तश्लैष्मिकस्य लक्षणंयथा
“लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा । मुहु-
र्दाहो मुहुःशीतं पित्तश्लेष्मज्वराकृतिः” ।
सान्निपातिकस्य लक्षणं यथा
“क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा । सास्रावे
कलुषे रक्ते निमग्ने चापि लोचने । स्वखनौ
सरुजौ कर्णौ कण्ठः शूकैरिवावृतः । तन्द्रा मोहः
प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः । परिदग्धा
खरस्पर्शा जिह्वा त्रस्ताङ्गता परम् । ष्ठीवनं रक्तपित्तस्य
कफेनोन्मिश्रितस्य च । शिरसो लोटनं तृष्णा निद्रा-
नाशो हृदि व्यथा । खेदमूत्रपुरीषाणां चिराद्दर्शन-
मल्पशः । कृशत्वं नातिगात्राणां सततं कण्ठकूजनम् ।
कीटानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् । मूकत्वं
स्रोतसां पाको गुरुत्वमुदरस्य च । चिरात् पाकश्च
दोषाणां सन्निपातज्वराकृतिः” ।
असाध्यस्य सान्निपातिकस्य तस्य लक्षणं यथा
“दोषे विरुद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः । सन्नि-
पातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा । सप्तमे दिवसे
प्राप्ते दशमे द्वादशेऽपि वा । पुनर्घोरतरोभूत्वा प्रशमं
याति हन्ति वा । सप्तमी द्विगुणा (चतुर्द्दशी) चैव
नवम्येकादशी तथा । एषा त्र्दोषमर्य्यादा मोक्षाय च
बधाय च । सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः ।
शोथः संजायते तेन कश्चिदेव प्रमुच्यते” ।
जीर्णस्य लक्षणं यथा
“त्रिसप्ताहव्यतीतस्तु ज्वरोयस्तनुतां गतः । प्लीहाग्नि-
सादं कुरुते स जीर्ण इति उच्यते” ।
आमन्तोर्लक्षणं यथा “अभिघाताभिचाराभ्यामभिषङ्गा
भशापतः । आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत्” ।
विषभक्षणजागन्तुकस्य तस्य लक्षणं यथा
“श्यवास्यता विषकृते तथातीसार एव च । भक्तारुचिः
पिपासा च तोदश्च सह मूर्च्छया” ।
ओषधीगन्धजस्य कामजस्य च तस्य लक्षणं यथा ।
“औषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा । कामजे चित्त
विभ्रं शस्तन्द्रालस्यमभोजनम्” ।
भवादिजस्य लक्षणं यथा “भयात् प्रलापः शोकाच्च
भवेत् कोपाच्च वेपथुः । अभिचाराभिशापाभ्यां
मोहस्तृष्णा च जायते । भूताभिषङ्गादुद्वेगो हास्यरोदन
कम्पनम् । कामशोकभयाद्वायुः क्रोधात् पित्तं त्रयो-
मलाः । भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः” ।
विषमज्वरस्य संप्राप्तिर्यथा
“दोषोऽल्पिऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः । धातु-
मन्यतमं प्राप्य करोति विषमज्वरम्” ।
सन्ततादिज्वराणां प्रतिनियतं धातवोदूष्यास्तथा हि
“सन्तती रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः । मेदोगत
स्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः । कुर्याच्चातुर्थकं
घोरमन्तकं रोगसङ्करम् । सप्ताहं वा दशाहं वा द्वाद-
शाहमथापि वा । सन्तत्या योऽविसर्गी स्यात् सन्ततः
स निगद्यते । अहोरात्रे सन्ततको द्वौ कालावनुव-
र्त्तते । अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्त्तते । तृतीयक
स्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः । केचिद्भूताभिषङ्गोत्थं
ब्रुवते विषमज्वरम् । कफपित्तात् एकग्राही पृष्ठाद्वात
कफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात्
तृतीयकः । चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः ।
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः । विषम-
ज्वर एवान्यश्चातुर्थकविपर्य्ययः । मध्ये अहनी ज्वरय-
त्यादावन्ते च मुञ्चति” ।
वातबलासकलक्षणं
“नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति । स्तब्धाङ्गः
श्लेष्मभूयिष्ठो नरो वातबलासकी” ।
प्रलेपकलक्षणं यथा
“प्रलिम्पन्निव गात्राणि धर्मेण गौरवेण वा । मन्दज्वरो
विलेपी च सशीतः स्यात् प्रलेपकः” ।
विषमज्वरविशेषाः ।
“विदग्धेऽन्नरसे देहे श्लेद्मपित्ते व्यवस्थिते । तेनार्द्धं
पृष्ठ ३१७३
शीतलं देहे चार्द्धञ्चोष्णं प्रजायते । काये दुष्टं यदा
पित्तं श्लेष्मा चान्ते व्यवस्थितः । तेनोष्णत्वं शरीरस्य
शीतत्वं हस्तपादयोः” अत्र मतान्तरम् । “काये श्लेष्मा
यदा दुष्टः पित्तञ्चान्ते व्यवस्थितम् । शीतत्वं तेन गात्रा-
णामुष्णत्वं हस्तपादयोः” ।
शीतपूर्वोज्वरो यथा ।
“त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे ।
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च” ।
दाहपूर्वो ज्वरो यथा ।
“करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च ।
तस्मिन् प्रशान्ते हीतरौ कुरुतः शीतमन्ततः । द्वावेतौ
दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ ।
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः” ।
वातादिज्वराणां धातुविशेषदुष्यतया रसादिगतदोषज
ज्वराणां लक्षणानि
“गुरुता हृदयोत्क्लेशः सदनं छर्द्यऽरोचकौ । रसस्थे
न्यज्ज्वरे लिङ्गं दैन्यञ्चास्योपजायते” १ । रक्तनिष्ठीवनं
दाहो मोहश्छर्दनविभ्रमौ । प्रलापः पिड़का तृष्णा
रक्तप्राप्ते ज्वरे नृणाम् २ । पिण्डकोद्वेष्टनं तृष्णा दुष्टमूत्र-
पुरीषता । ऊष्मान्तर्दाहविक्षेपौ ग्लानिःस्यान्मांसगे ज्वरे ३ ।
भृशं स्वेद स्तृषा मूर्च्छा प्रलापश्छर्दिरेव च । दौर्गन्ध्या-
रोच कौ ग्लानिर्मेदःस्थे चासहिष्णुता ४ । भेदोऽस्थ्नां
कूजनं श्वासो विरेकश्छर्दिरेव च । विक्षेपणञ्च गात्राणा
मेतदस्थिगते ज्वरे ५ । तमः प्रवेशनं हिक्का कासः शैत्यं
वमिस्तथा । अन्तर्द्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ६ ।
मरणं प्राप्नुयात् तत्र शुक्रस्थानगते ज्वरे ७ । शेफसः
स्तब्धतामोक्षा शुक्रस्थे तु विशेषतः” ।
ऋतुभेदे प्राकृतादिज्वरविशेषो यथा
“वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् ।
वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः । वर्षासु
मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् । कुर्य्यात्
पित्तञ्च शरदि तस्य चानुबलः कफः । तत् प्रकृत्या
विदध्याच्च तत्र नानशनाद्भयम् । कफो वसन्ते तमपि
वातपित्तं भवेदनु । काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा ।
अन्तर्वेगज्वरलक्षणम् ।
“अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः । सन्ध्यस्थि-
शूलमस्वेदो दोषवृद्धौ विनिग्रहः । अन्तर्वेगस्य लिङ्गानि
ज्वरस्यैतानि लक्षयेत्” ।
बहिर्वेगज्वरलक्षणम् “सन्तापोऽभ्यधिको वाह्यस्तृष्णादीनाञ्च
मार्दवम् । बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च” ।
आमज्वरलक्षणम्
“लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः । तन्द्रालस्या-
विपाकास्यवैरस्यं गुरुगात्रता । क्षुन्नाशो बहुमूत्रत्वं
स्तब्धता बलवान् ज्वरः । आमज्वरस्य लिङ्गानि न दद्यात्
तत्र भेषजम् । भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ।
पच्यमानज्वरस्य लक्षणं यथा
“ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः । मलप्र-
वृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्” ।
पक्वज्वरस्य लक्षणम्
“क्षुत्क्षामता लघुत्वञ्चगात्राणां ज्वरमार्दवम् ।
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्” ।
साध्यज्वरस्य लक्षणं यथा
“बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः” ।
असाध्यज्वरलक्षणं यथा ।
“हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः । ज्वरः
प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः । ज्वरक्षीणस्य शूनस्य
गम्भीरो दैर्ध्यरात्रिकः । असाध्यो वलवान् यश्च
केशसीमन्तकृज्ज्वरः” ।
गम्भीरस्य लक्षणं यथा “गम्भीरस्तु ज्वरो ज्ञेयोह्यन्तर्दाहो
न तृष्णया । आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेव च ।
आरम्भाद्विषमो यस्तु यश्च वा दैर्घ्यरात्रिकः । क्षीणस्य
चातिरूक्षस्य गम्भीरोयस्य हन्ति तम् । विसंज्ञस्ताम्यते
यस्तु शेते निपतितोऽपि वा । शीतार्दितोऽन्तरुष्णश्च ज्वरेण
म्रियते नरः । यो हृष्टरोमा रक्ताक्षो हृदिसंधातशूलवान् ।
वक्त्रेण चैवोच्छसिति तं ज्वरो हन्ति मानवम् । हिक्का-
श्वासतृषायुक्तं मूढ़विम्रान्तलोचनम् । सन्ततोच्छ्वासिनं
क्षीणं नरं क्षपयति ज्वरः । हतप्रभेन्द्रियक्षाममरोचक-
निपीडितम् । गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्जयेत्” ।
ज्वरस्योपद्रवा रक्षितोक्ताः यथा
“श्वासोमूर्च्छाऽरुचिश्छर्दिस्तृष्णातीसारविड्ग्रहाः ।
हिक्काकासोऽङ्गमेदश्च ज्वरस्योपद्रवा दश” ।
ज्वरमुक्तिपूर्वरूपम् । “दाहः स्वेदो भ्रमस्तष्णा कम्प-
विड़भिसंज्ञिता । कूजनञ्चास्यवैगन्ध्यमाकृतिर्ज्वरमोक्षणे” ।
“ज्वरमुक्तलक्षणं “स्वेदो लघुत्वं शिरसः कण्डूपाकोमुखस्य
च । क्षवथुश्चान्नलिप्सा च ज्वरमुक्तस्य लक्षणम्” ।
सुश्रुतगारुड़ाद्युक्ताद् विशेषज्ञापनाय पृथगुपन्यासः ।
पृष्ठ ३१७४
ज्वरितस्य वर्ज्याबर्ज्यानि भावप्र० उक्तानि यथा
“सामान्यतो ज्वरी पूर्वं निर्वाते निलये वसेत् । निर्वात-
मायुषो वृद्धिमारोग्यं कुरुते यतः । व्यजनस्यानिल
स्तृष्णास्वेदमूर्च्छाश्रमापहः । तालवेत्रभबो
वातस्त्रिदोषशमनो मतः । वंशव्यजनजः सोष्णो रक्तपित्त
प्रकोपनः । चामरो वस्त्रसंभूतो मायूरो वेत्रजस्तथा ।
एते दोषजिता वाताः स्तिग्धा हृद्याः सुपूजिताः ।
नषज्वरी भवेद्यत्नाद्गुरूष्णवसनावृतः । यथर्तुपक्वपानीयं
पिवेत् किञ्चिन्निवारयन् । विनापि भेषजैर्व्याधिः पथ्यादेव
निवर्तते । न तु पथ्यविहीनस्य भेषजानां शतैरपि ।
ततो ज्वरे वर्जनीयान्याह सुश्रुतः “परिषेकान् प्रदे-
हांश्च स्नेहान् संशोधनानि च । दिवास्वप्नं व्यवायञ्च
व्यायामं शिशिरं जलम् । क्रोधप्रवातभोज्यांश्च वर्जये-
त्तरुणज्वरी” । परिषेकः स्तानादिः, प्रदेहोऽनुलेपना-
भ्यङ्गादिः । परिषेकादिसेवने दोषमाह तत्रैव
“शोषं छर्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम् ।
प्राप्तोत्युपद्रवानेतान् परिषेकादिसेवनात्” ।
आदिशब्देन प्रदेहादयो गृह्यन्ते । हारीतेन प्रत्येकं सेवने
कलसुक्तञ्च “व्यायामज्ज्वरसंवृद्धिर्त्यवायात स्तम्भमूर्च्छनम् ।
मृतिश्च स्नेहपानाद्यैर्मूर्च्छा छर्दिर्मदोऽरुचिः । गुर्वन्नभो-
जनात् स्वप्नाद्विष्टम्भो दोषकोपनम् । अग्निसादः
खरत्वञ्च स्रोतसां च प्रवर्तनम्” । मृतिरिति व्यवायादित्यत्र
संवध्यते । स्वप्नात् दिवास्वापात्, ज्वरमुक्तावपि वर्ज्यमाह ।
“सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च ।
असात्म्यान्नानि पानानि विरुद्धाध्यशनानि च । व्यायाम-
मतिचेष्टां वाऽभ्यङ्गं स्नानञ्च वर्जयेत् । तेन ज्वरः शमं
याति शान्तश्च न पुनर्भवेत्” । ज्वरी लङ्घनं कुर्य्यादित्याह
चरको वाग्भटश्च “आमाशयस्थो हत्वाग्निं सामो
मार्गान् पिधापयन् । विदधाति ज्वरं दोषस्तस्माल्लङ्घन-
माचरेत्” । तथा “ज्वराद्रौ लङ्घनं प्रोक्तं ज्वरमध्ये
तु पाचनम् । ज्वरान्ते भोषजं दद्याज्ज्वरमुक्ते विरे-
चनम् । त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत् ।
दोषेऽपि लङ्घनं पथ्य मध्ये लङ्घनपाचनम् । प्रभूते
शोभनं तच्च मूलादुन्मूलयेन्मलान्” । चक्रदत्तश्च “तरुणं
तु ज्वर पूर्वं लङ्घनेन क्षयं नयेत् । आमदोषमलिङ्गाद्वा
लङ्घयेत्तं यथाविधि, । अन्यच्च “वातः पचति सप्तहात्
पित्तं तु दशमिर्दिनैः । श्लेष्माद्वादशभिर्धस्रैः पच्यते
वदतां वर! । “लङ्घनं लङ्घनीयस्तु कुर्य्याद्दोषानुरूपतः ।
त्रिरात्रमेकरात्रं वाऽहोरात्रमथ वा ज्वरे । निर्वात-
सेवनात् स्वेदाल्लङ्घनादुष्णवारिणः । पानादामज्वरे
क्षीणे पश्चादौषधमाचरेत्” । आत्रेयेणोक्तम् “ज्वरादौ
लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम् । ज्वरान्ते भेषजं
दद्याज्ज्वरमुक्ते विरेचनम् । दोषशेषस्य पाकार्थमग्नेः
सन्धुक्षणाय च । लङ्घितश्चाप्यदोषश्चेत् यवागूपानमा-
चरेत् । शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत् ।
पञ्चकोलेन संसिद्धां यवागूं मध्यलङ्घने । अत्यर्थं
लङ्घितं दृष्ट्वा तस्य सन्तर्पणे हितम् । द्राक्षादाड़िम
खर्जूरपियालैः सपरूषकैः । तर्पणार्हस्य कर्तव्यन्तर्पणं
ज्वरशान्तये” । अत्र लङ्घनशब्देनानशनमुच्यते । यत
आह सुश्रुतः “अनद्धःस्तिमितैर्दोषैर्यावन्तं कालमातुरः ।
तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत्” । आनद्धःस्तिमितै-
र्दोषैः सम्बन्द्धः । संसर्गं औषधान्नादिप्रसङ्गम् । यत्र
आह चरकः “चतुःप्रकारा संशुद्धिः पिपासारोध-
प्तारुतो । पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् ।
चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम् । निरूहणं
च वस्तिश्च शिरोविरेचनं तथा । तत्वनुवासनं कार्य्यं तस्य
वृंहणत्वात् । अत्र लङ्घनं कर्शनमित्यर्थः । तथा च सुश्रुतः
“शरीरलाघवकरं यद्द्रव्यं कर्म वा पुनः । तं लङ्घन-
मिति ज्ञेयं वृंहणं तु पृथग्विधम्” । लङ्घनात्कर्शनादन्यत्
शरीरपोषकमित्यर्थः । ननु “आनद्धः स्तिमितैर्दोषैरित्यादि
पूर्वोक्तमुश्रुतवचनात्सामान्यतो ज्वरिणा यथाऽनशगरूपं
लङ्घनं क्रियते । तथा चतुःप्रकारा संशुद्धिः इत्यादि
चरकवचनाद्वमनादिरूपं लङ्घनं सर्वैर्ज्वरिभिः कथं न
क्रियते । तत्रोच्यते वमनादिकमंवस्थाविशषषु क्रियते
नतु सर्वज्वरेषु तथा च सुश्रुतः “सोत्क्लेशे बलेने देयं
वमनं श्लैष्मिकज्वरे । पित्तप्राये विरेकस्तु कार्यः प्रशि-
थिलाशये । सरुजे नीरुजे कार्य्यं सोदावर्त्ते निरूहणम्-
कफाभिपन्ने शिरसि कार्य्यं मूर्द्धविरेचनम्” । अपिच
सर्वज्वरिभिः पिपासानिग्रहो न कार्य्यः । यत आह
हारीतः । “तृष्णा गरीयसी धोरा सद्यः प्राणविना-
शिनी । तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम्” ।
अतोऽवस्थाविशेष एव पिपासासहनं ज्वरिभिर्मारुतसेवनं
न कार्य्यम् सुश्रुतेन प्रवातसेवनस्य सर्वथा निषिद्ध-
त्वात् । अतो मारुतसेवनमप्यवस्थाविशेष एव युक्तम् ।
लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते । तदा तु
मुखवैरस्यतृष्णारोचकनाशनैः । ज्वरघ्नैः पाचनैर्हृद्यैः
पृष्ठ ३१७५
कषायैः समुपाचरेत्” इत्यत्र लङ्घनपाचनयोः स्फुट
एव भेदः । व्यायामोऽपि न कार्य्यस्तस्यातिनिषिद्ध-
त्वात् अवस्थाविशेषे पुनः पार्श्वपरिवर्तनादिरूपः
सोऽपि कर्त्तव्यः तस्माच्चतुःप्रकारा संशुद्धिरित्यादिश्लोके
लङ्घनपदं कर्शनपर्य्यायमिति निर्णीतम् । अनशनरूपस्य
लङ्घनस्य फलमाह “लङ्घनेन क्षयं नीते दोषे सन्धु-
क्षितेऽनले । विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते” ।
लङ्घनेन अनशनेन प्रवृद्धे दोषे क्षयन्नीते । यत आह
“आहारं पचति शिखी दोषानाहारवर्जितः” । पचतीति
सन्धुक्षितेऽनले आच्छादकदोषे क्षीणेऽग्नौ प्रदीप्ते
यथोक्तसंप्राप्तिसामग्रीविघटनात् विज्वरत्वं शरीरस्य गौरवा-
भावेन लघुत्वम् । क्षुत् बुभुक्षा च जायते इत्यर्थः ।
अन्यच्चाह सुश्रुतः “अनवस्थितदोषाग्नेर्लङ्घनं
दोषपाचनम् । ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारणम्” ।
अनवस्थितदोषाग्नेः स्वस्थानादितो गतोदोषोऽग्निश्च
यस्य तस्य ज्वरिणः काङ्क्षा अन्नाभिलाषः, रुचिः लङ्घने-
नामपाकान्मु खशोषादिनाशे मुखस्य यत्प्रकृतत्वं सैव
रुचिः शोभा । “रुचिः स्त्री दीप्तिशोभायामभीष्टार्था-
भिलाषयोरिति” मेदिनीकारः” सम्यक्वृतस्य लङ्घनस्य
लक्षणमाह “वातमूत्रपूरीषाणां विसर्गे गात्रलाघवे ।
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते । स्वेदे जातेऽ
रुचौ चापि क्षुत्पिपासासहोदये । कृतं लङ्घनमाद्देश्यं
निर्व्यथे चान्तरात्मनि” । हृदयस्य शुद्धिरनवरोधः उद्गार-
शुद्धिः सधूमाम्लोद्गाराभावः । कण्ठस्य शुद्धिः कफानव-
लिप्तत्वम् । आस्यशुद्धिः मुखस्य प्रकृतरसत्वम् । तन्द्राक्लमे
तन्द्रा च क्लमश्च तस्मिं स्तन्द्रा निद्रा क्लमोऽत्र ग्लानिः ।
क्षुत्पिपासासहोदये क्षुत्पिपासयोः सह युगपदुदये,
अन्तरात्मनि मनसि । एतानि लक्षनानि मिलितन्येव
सम्यक्कृतं लङ्घनं बोधयन्ति नतु प्रत्येकम् । हीनस्य
लङ्घनस्य लक्षणमाह “कफोत्क्लेशः सहृल्लासष्ठीवनं
च मुहुर्मुहुः । कण्ठस्य हृदयाशुद्धिस्तन्द्रा स्याद्धीन
लङ्घने” । उपस्थितवमनत्वमिव कफोत्क्लेशः कफस्य
वमनायोपस्थितिः । हृल्लासष्टीवनं हृदयात्कफनिर्गमः ।
अतिशयितस्य लङ्घनस्य लक्षणमाह “पर्वभेदोऽङ्गमर्दश्च
कासः शोषो मुखस्य च । क्षुत्प्रणाशोऽरुचिस्तृष्णा
दौर्बल्यं श्रोत्रनेत्रयोः । मनसः संभ्रमोऽभीक्ष्णमूर्द्धवात-
स्तमो हृदि । देहाग्निर्बलहानिश्च लङ्घनेऽतिकृते भवेत् ।
अरतिर्बलहानिश्च लङ्घनेऽतिकृते भवेत्” । कर्णनेत्रयोः
दौर्बल्यं स्वविषयग्रहणासामर्थ्यम् । मनसः संभ्रमः
भ्रान्तिः । ऊर्द्धवातः उद्गारबाहुल्यम् । हृदि तमः
अन्धकारप्रविष्टस्येवाज्ञानम् । वलरक्षणेन लङ्घनं
कारयेदित्याह “वलाविरोधिना चैनं लङ्घनेनोपादयेत् ।
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः” अयमर्थः ।
एनं रोगिणं वलाविरोधिना अनतिबलक्षयकारिणा
लङ्घनेन उपपादयेत् कुत इति चेत्तत्राह । यदर्थ-
मस्मै आरोग्याय अयं क्रियाक्रमः चिकित्सोपक्रमः ।
तत आरोग्यं बलाधिष्ठानं बलाश्रयमित्यर्थः । केषा-
ञ्चिदनशनस्य निषेधमाह सुश्रुतः” “तद्धि मारुततृष्णा-
क्षुत्सुखशोषभ्रमान्वितैः । न कार्य्यं गुर्विणीबालवृद्ध
दुर्बलभीरुभिः । न क्षयाध्वश्रमक्रोधकामशोषचिर-
ज्वरी” । तत् अनशनम् उल्वणमारुतयुक्तेन ज्वरिणा
न कार्य्यं सारुतोऽत्र निरामोबोद्धव्यः । सामे मारुते
लङ्घनं कार्य्य मेव यत आह तन्त्रान्तरे “अवश्यमेब
कुर्वीत ज्वरी सामे समीरणे । लङ्घनं ह्यामपाकार्थं न
तदूर्द्ध्वं यथा कफे” । तदूर्द्ध्वं आमपाकादूर्द्ध्वम् ।
अतएवोक्तम् “कफपित्ते द्रवौ धातू सहेते लङ्घनं बहु ।
आमक्षयादूर्द्ध्वमपि वायुर्न सहते क्षणम्” । आमस्य
लक्षणमाह “आहारस्य रसः सारो यो न पक्वोऽग्नि-
लाघवात् । आमसंज्ञाज्ञ लभते बहुव्याधिसमाश्रयः” ।
तन्त्रान्तरे तु “आममन्नरसं केचित् केचित्तु
मलसञ्चयम् । प्रथमं दोषदुष्टिं वा केचिदामं प्रचक्षते ।
अविपक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम् । सादनं सर्व-
गात्राणामाममत्यामशब्दितः । तेनामेन समायुक्ताः दोषा
दुष्याश्च तादृशाः । तदुद्भवा आमयाश्च साम इति बुधैः
स्मृताः” । तत्र सामस्य वातस्य लक्षणमाह, “वायुः
सामो विबद्धान्तिः सादतन्द्रान्त्रकूजनैः । वेदनाशोथ
निस्तोदैः क्रमशोऽङ्गानि पीड़येत् । विचरेद्युगपच्चापि
गृह्णाति कुपितो भृशम् । स्नेहाद्यैर्वृद्धिमायाति मेघः
सूर्य्योदये निशि” । विचरेदु युगपत् वायुरामश्चैककालं
विचरेत् कुपितः सामो वायुः भृशमतिशयेन
गृह्णात्यङ्गानीत्यर्थः । वातस्य तस्यैव निरामस्य लक्षण-
माह “निरामो विशदो रूक्षो निर्गन्धोऽत्यल्पवेदनः ।
विपरीतगुणैः शान्तिः स्तिग्धैर्जातिविशेषतः” ।
अथ प्रसङ्गात्सामस्य पित्तस्य लक्षणमाह “पित्तं सामं
भवेदम्लं दुर्गन्धं हरितं गुरु । अम्लिकाकण्ठहृद्दाहकरं
श्यावं तथा स्थिरम्” । अम्लिका अम्बिलता (चुकीति)
पृष्ठ ३१७६
लोक । पित्तस्य तस्य निरामस्य लक्षणमाह । “निरामं
पित्तमाताम्रमत्युष्णं कटुकं सरम् । दुर्गन्धि रुचिकृद्वह्निब-
जवर्द्धनमीरितम्” ।
अथ सामकफस्य लक्षणमाह “आलस्यतन्द्राहृद-
याविशुद्धिर्दोषाप्रवृत्त्या विड़्मूत्रतामिः । गुरूदर-
त्वास्नचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति ।
आमञ्जयेल्लङ्घनकोष्णपेयालध्वन्नसूपौदनतिक्तयूषैः । विरूक्ष-
णस्वेदनपाचनैश्च संशोधनैरूर्द्ध्वमधस्तथैव । तद्धि मारु-
नतृष्णायां लङ्घनं कार्य्यमेव च” । तथा मुखशोष-
भ्रमावपिनिरामयोरेव विवक्षितौ सामयोस्तु तयोर्ल्लङ्घनं
कार्य्यमेव, गुर्विणीबालवृद्धादिभिरपि निरामैरेव नैव
लङ्घनं कार्य सामैः पुनस्तैरपि लङ्घनं कार्य्यमेव ।
“क्षये धातुक्षये राजयक्ष्मणि च वातजे ज्वरे लङ्घनं न
कार्य्यम् । ज्वरी लङ्घनेऽपि जलं पिबेदित्याह सुश्रुतः ।
“तृषितो मोहमायाति मोहात् प्राणान्विमुञ्चति । अतः
सर्वास्ववस्थासु न क्वचिद्वारि वर्जयेत्” । हारीतेनोक्तम्
“तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी । तस्मा-
द्देयं तृषार्त्ताय पानीयं प्राणधारणम्” । अवश्यं
पेयमपि जलं ज्वरी किञ्चिद्वारयन् पिवेत् । यत आह सुश्रुत
एव । “जीविनां जीवनं जीवो जगत्सर्वं तु तन्मयम् ।
अतोऽत्यन्तनिषेधेन न क्वचिद्वारि वारयेत्” । जीवनं जलं
क्वचिन्न वारयेदेव तथा च, “ज्वरे नेत्रामये कुष्ठे
मन्देऽग्नावुदरे तथा । अरोचके प्रतिश्याये प्रसेके श्वयथौ
क्षये । व्रणे च मधुमेहे च षानीयं मन्दमाचरेत्” ।
मुखप्रसेके अल्पं पिवेत् मन्दमाचरेत् पिबेत् । यत
आह “अतियोगेन सलिलं तृष्यतोऽपि प्रयोजितम् ।
प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः” । तच्च जलं
नवज्वरी शीतलं न पिबेदित्याह सुश्रुतः “नवज्वरे
प्रतिश्याये पार्श्वशूले गलग्रहे । सद्यःशुद्धौ तथाऽऽ-
ध्माने व्याधौ वातकफोद्भवे । अरुचिग्रहणीगुल्मश्वास-
कासेषु विद्रधौ । हिक्कायां स्नेहपाने च शीतं वारि
विवर्जयेत्” । अन्यच्च वर्ज्यमाह स एव “सेव्यमानेन शीतेन
ज्वरस्तोयेन वर्द्धते” । अत्र शीतं जलं अक्वथितं निषिद्ध्वम् ।
तथा सति क्वथितमायातम् । तत्र क्वथितस्य विधिर्गु-
णश्च “क्वाय्यमानं तु निर्वेगं निष्फेनं निर्मलं च
यत् । तत्तोयं क्वथितं ज्ञेयं दोषघ्नं पाचनं लघु” ।
शनैः क्वथितस्य विधानमाह सुश्रुतः “वातश्लेष्मज्वरार्त्ताय
हितमुष्णाम्बु तृष्यते । दीपनं स्यात्तु कफजे वातपि-
त्तानुलोमनम् । तद्धि मार्दवकृद्दोषस्रोतसां शीतम-
न्यथा” । वाग्भटश्च “तृष्णायां प्राप्तमुष्नाम्बु
पिबेद्वातकफज्वरे । तत्कफं विलयं नीत्वा तृष्णामाशु
निवर्त्तयेत् । उदीर्य्य चाग्निं स्रोतांसि मृदूकृत्य विशो-
धयेत् । वातपित्तकफस्वेदशकृण्मूत्राणि सारयेत् ।
अथोष्णोदकस्य लक्षणं गुणाश्च “क्वाथ्यमानन्तु निर्वेगं
निष्फेनं निर्मलं तथा । अर्द्धावशिष्टं यत्तोयं तदुष्णो-
दकमुच्यते । ज्वरकासकफश्वासपित्तवाताममेदसाम् ।
नाशनं पाचनञ्चैव पथ्यमुष्णोदकं सदा” ।
अथर्त्तुभेदे जलस्य पाकभेदः । “त्रिपादशेषं सलिलं
ग्रीष्मे शरदि शस्यते” । “अन्ये तु निदाधे त्वर्द्ध्वपादोनं
पादहीनन्तु शारदम् । हिमेऽर्द्धशेषं शिशिरी तथा
वर्षावसन्तयोः । शिशिरे च वसन्ते च हिमे चार्द्धावशे-
षितम् । अष्टमांशावशेषन्तु वारि वर्षासु शस्यते ।”
ज्वरविषये कश्चिदस्यावर्ज्यादिगेदः चक्रदत्त उक्तो यथा
“ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लधु । श्लेष्म-
क्षये विवृद्धोष्मा बलवाननलस्तदा । गुर्वभिष्यन्द्यकाले
च ज्वरी नाद्यात् कथञ्चन । न हि तस्याहितं भुक्त-
सायुषे वा सुखाय वा । लङ्घनं स्वेअनं काये यवाग्व-
स्तिक्तको रसः । पाचनान्यविपक्वानां दोषाणां तरुणे
ज्वरे । आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः । मध्यं
द्वादशरात्रन्तु पुराणमत उत्तरम् । पाचनीयं शमनीयं
कषायं पाययेत् तु तम् । ज्वरितं षड़हेऽतीते
लध्वन्नं प्रतिभोजयेत् । सप्ताहात् परतोऽस्तब्धे सामे
स्यात् पाचनं ज्वरे । निरामे शमनं लब्धे सामे नौषध-
माचरेत् । लालाप्रसेको हल्लासहृदयाशुद्ध्यरोचकाः ।
तन्त्रालस्याविपाकास्यवैरस्यं गुरुगात्रता । क्षुन्नाशो
बहुमूत्रं च स्तब्धता बलवान् ज्वरः । आमज्वरस्य लिङ्गानि
न दद्यात् तत्र भेपजम् । भेषजं ह्यामदोषस्य भूयो
ज्वलयति ज्वरम् । मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु
च । पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम्” ।
तेन ज्वरो नानाविधः ऐकाहिकादिः नवज्वरः जीर्ण-
ज्वरः विषमज्वरादिश्च उक्तवाक्येभ्योज्ञेयः ।
नक्षत्रभेदे ज्वरोत्पत्तौ मृत्युतद्भोगकालभेदाः महुर्त्तचि०
पी० धा० उक्ता यथा
“स्वातीन्द्रपूर्वाशिवसर्पभे मृतिर्ज्वरेऽक्न्त्यमैत्रे स्थिरता
मवेद्रुजः । याम्यश्रवोवारुणतक्षभे शिवाघस्रा हि पक्षो द्व्य-
धिपार्कवासवे । मूलाग्निदास्रे नव पित्र्यभे नखा बुध्न्या-
पृष्ठ ३१७७
र्यमेज्यादितिधातृभे नगाः” मासोऽब्जवैश्वेऽथ यमाहि
मूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः । मु० चि०
“स्वातीति । इन्द्रो ज्येष्ठा पूर्वास्तिस्रः शिव आर्द्रा
सार्पभम् अश्लेषा । एषु भेषु ज्वरे पुंसः स्त्रियो वा ज्वरो-
त्पत्तौ मृतिरेव स्यात् उक्तञ्च वसिष्ठेन” “पूर्वात्रयस्वाति-
भुजङ्गरौद्रसुरेश्वरर्क्षेषु च यस्य रोगः । स्याद्रक्षितुं
देवचिकित्सकोऽपि क्षिताबशक्तः स्वलु रोगिणं तम्”
देवचिकित्सको देववैद्यो धन्वन्तरिः । अथान्त्यमैत्रे रेवत्य-
नुराधयोर्ज्वरोत्पत्तौ रुजो रोगस्य स्थिरता भवेत्
बहुकालेन रोगनिवृत्तिः स्यादित्यर्थः । तथा भरण्यादिन-
क्षत्रचतुष्के शेवा एकादश घस्रादिवसाः रोगस्थैर्यं
स्यात्तदनन्तरं रोगमुक्तिरिति सर्वत्र व्याख्येवम् । द्व्यधिपं
विशाखा अर्को हस्तः वासबं धनिष्ठा एषु त्रिषु भेषु
पक्षः पञ्चदश दिवसा रोगस्थैर्यस्य । मूलाग्निदास्रे
मूलकृत्तिकाश्विनीषु त्रिषु नव दिवसाः पित्र्यभे मघायां
नखा विंशतिर्दिवसाः नामैकदेशै नामग्रहणमिति न्या-
येन बुध्न्योऽहिर्बुध्न्य उत्तराभाद्रपदा अर्यमोत्तरा-
फाल्गुनी । ईज्यादितिधातृमानि प्रसिद्धानि एषु पञ्चसु
भेषु नगाः सप्त दिवसाः । अब्जवैश्वे मृगोत्तराषाढ़योर्द्वयो-
र्मासस्त्रिंशद्दिनानि रोगस्थैर्यं ततो रोगनिवृत्तिः यदाह
“कृच्छ्रात् स्फुटं प्राणिति मित्रपौष्णे धिष्ण्ये चमासाच्छ-
शिविश्वधिष्ण्ये । रोगस्य मुक्तिः पितृदेवधिष्ण्ये वारैर्भवे-
द्विं शतिभिश्च नूनम्” प्राणिति जीवतीत्यर्थः । “पक्षाद्वसुद्वी-
शकरेषु भेषु मूलाश्विनाग्नित्रितये नवाहात् । तोयेश
चित्रान्तकविष्णुभेषु नैरुज्यमेकादशभिर्दिनैश्च । पुष्ये
त्वहिर्बुध्न्य पुनर्वसौ च ब्रध्न्यार्यपक्षेषु च सप्तरात्रात् ।
अत्र शीघ्रं रोगविमिक्तये संक्षिप्ता शान्तिरप्यभिहिता
वसिष्ठे न “ऋक्षिशरूपं कनकेन कृत्वा तल्लिङ्गमन्ध्वैश्च
सुगन्धिपुष्पैः । वस्त्राक्षतैर्गुग्गुलुधुपदीपनैवेद्यताम्बूल-
फलैश्च सम्यक् । पूजां च कृत्वामयनाशनाय द्विजाय
दद्यादतुलं शिवाय” आमयो रोगः । अतुलममरिमित-
द्रव्यम् प्रत्येकनक्षत्रशान्तिर्विशदा नक्षत्रशान्त्यध्याये
वसिष्ठेनोक्ता सा तत एव सम्यबधार्य्या” ।
भैषज्यर० अन्यथा तद्भोगकाल उक्तो यथा
“कृत्तिकायां यदा व्याधिरुत्पन्नो भवति स्वयम् । नवरात्रं
भवेत् पीड़ा त्रिरात्रं रोहिणीषु च । मृगशीर्षे पञ्च-
रात्रमार्द्रायां मुच्यतेऽसुभिः । पुनर्वसौ तथा पुष्यै सप्त-
रात्रेण मोचनम् । नवरात्रं तथाऽश्लेषे श्मशानान्तं
मघासु च । द्वौ मासौ पूर्वफल्गुन्यामुत्तरासु त्रिपञ्च-
कम् । हस्ते च सप्तमे मोक्षश्चित्रायामर्द्धमासकम् ।
मासद्वयं तथा स्वात्यां विशाखे दिनविशतिः । मित्रे
चैव दशाहानि ज्येष्ठायामर्द्धमासकम् । मूलेन जायते
मोक्षः पूर्वाषाढ़े त्रिपञ्चकम् । उत्तरे दिनविंशत्या द्वौ
मासौ श्रवणे तथा । धनिष्ठायामर्द्धमासो वारुणे च
दशाहकम् । पूर्वभाद्रपदे देवि! ऊनविंशतिवासरान् ।
त्रिपक्षञ्चाहिव्रध्न्ये च रेवत्यां दशरात्रकम् । अहोरात्रं
तथाश्विन्यां भरण्यान्तु गतायुषः । एवं क्रमेण जानी-
यान्नक्षत्रेषु यथोचितम्” ।
रोगिणस्ताराशुद्ध्यिशुद्धिभ्यां भोगकालभेदव्यवस्था ।
तिथिनक्षत्रवारयोगभेदे ज्वरोत्पत्तौ मु० चि० मृत्यु-
रुक्तो यथा ।
“रौद्राहिशाक्राम्बुपयाम्यपूर्वाद्विदैववस्वग्निषु
पापवारे । रिक्ताहरिस्कन्ददिने च रोगे शीघ्रं भवेद्रोगि-
जनस्य मृत्युः” मु० चि० ।
“रौद्रादीनि भानि प्रसिद्धानि पापवाराः सूर्यभौम-
शनयः रिक्ताः प्रसिद्धाः हरिर्द्वादशी सकन्ददिनं षष्ठी
एतास्तिथयः एवंविधे विशिष्टयोगे यस्य रोगोत्पत्ति-
र्भवेत्तस्य रोगिजनस्य शीघ्रं मृत्युर्भवेत् । उक्तं च दैबज्ञ
मनोहरे “उरगवरुणरुद्रावासवेन्द्रत्रिपूर्वायमदहनवि-
शाखाः पापवारेण युक्ताः । तिथिषु नवमिषष्ठीद्वादशी
वा चतुर्थी सहजमरणयोगो रोगिणां कालहेतुः” इति
चतुर्थीग्रहणं चतुर्दश्युपलक्षकं मत्वा मूले रिक्ताग्रहणं
कृतम् अतएवाह वसिष्ठः “अश्लेषार्द्रात्रिपूर्वायमवरुणम-
रुच्छक्रतारानलाः स्थुर्द्वादश्यां स्कन्दरिक्तातिथिषु च
रविजार्कारवारेषु येषाम् । रोगः संजायते ते यमुपुर-
मचिरात् प्राप्नुवन्त्येव चन्द्रे जन्मन्यष्टाख्यबन्धुव्ययभवन-
गते मृत्युलग्ने च राशाविति” पी० धा०!
अस्य प्रतिप्रसवः “यद्यत्र चन्द्रस्तस्यैव गोचरे चाशुभप्रदः ।
तदा नूनं भवेन्मृत्युः सुधासंसिक्तदेहिन” । इति दीपि-
काटीकाधृतवाक्यम्
२ ज्वराधिष्ठातृदेवभेदे च रौद्रज्वरदेवस्य वैष्णवज्वरदेवेन
युद्धादिकथा हरिवं० १८१ अ०
“भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात् । ज्वरस्त्रि-
पादस्तिशिराः षड्भुजो नवलोचनः । भस्मप्रहरणो
रौद्रः कालान्तकयमोपमः । नदन्मेघसहस्रस्य तुल्यो
निर्वातनिस्वनः । निश्वसन् जृम्भमाणश्च निद्रान्विततनुर्भृ-
पृष्ठ ३१७८
शम् । नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन् भ्रमन्मुहुः ।
संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन् । हलायुध-
मभिक्रुद्धः साक्षेपमिदमब्रवीत्” । तेन बलरामस्याभिभवे
ततस्तस्य कृष्णेन सह युद्धे पराजयकथा १८२ अ०
“मृत इत्यभिविज्ञाय ज्वरं शत्रुनिसूदनः । कृष्णो
भुजबलात्तन्तुचिक्षेपाथ महीतले । मुक्तमात्रस्तु बाहुभ्यां
कृष्णदेहं विवेश सः । अमुक्त्व विग्रहन्तस्य कृष्णस्याप्रति-
मौजसः । स ह्याविष्टस्तदा तेन ज्वरेणाप्रतिमौजसा ।
कृष्णः स्खलन्निव मुहुः क्षितौ गाढ़ं व्यवर्त्तत । जृम्भते
श्वसते चैव स्खलते च पुनः पुनः । रोमाञ्चोत्थितगात्रस्तु
निद्रया चाभिभूयते । ततः स्थैर्य्यं समालम्ब्य कृष्णः
परपुरञ्जयः । विकुर्वाणो महायोगी जृम्भमाणः पुनः पुनः ।
ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः । सोऽसृजज्ज्वर-
मयं तु पूर्वज्वरविनाशनम् । धोरं वैष्णवमत्युग्रं सर्वप्रा-
णिभयङ्करम् । स सृष्टमात्रस्ते जस्वी बलवान् भीमवि-
क्रमः । कृष्णज्वरो ज्वरं पूर्वं गृहीत्वा स्वेन तेजसा ।
कृष्णाय हृष्टः प्रायच्छत्तं जग्राह ततो हरिः । ततस्तं
परमक्रुद्धो वासुदेवो महाबलः । स्वगात्रात् स्वज्वरेणैव
निरक्रामयत् वीर्य्यवान् । आविध्य भूतले चैनं शतधा
कर्त्तुमुद्यतः । व्याधोषयज्ज्वरस्तत्र भोः परित्रातुमर्हसि ।
आविध्यमाने तस्मिंस्तु कृष्णेणामिततेजसा । अशरीरा
ततो वाणी तमुवचान्तरीक्षगा । कृष्ण! कृष्ण!
महाबाहो! यदूनां नन्दिवर्द्धन! । मा बधीर्ज्वरमेतं तुरक्ष-
णीयस्त्वयाऽनथ! । इत्येवमुक्ते वचने तं मुमोच हरिः
स्वयम् । भूतभव्यभविष्यस्य जगतः परमो गुरुः । कृष्णस्य
पादयोर्मूर्ध्ना शरणं स गतो ज्वरः । प्रणम्य च हृषी-
केशं ज्वरो वाक्यमथाब्रवीत् । शृणुष्व मम गोविन्द!
विज्ञाप्यं यदुनन्दन! । यो मे मनोरथो देव! तं त्वं कुरु
महाभुज! । अहमेको ज्वरस्तात! नान्यो लोके ज्वरो
भवेत् । त्वत्प्रसादाद्धि देवेश! वरमेतं वृणोम्यहम् । देव
उवाच । एवम्भवतु भद्रं ते यथा त्वं ज्वर! काङ्क्षसे ।
वरार्थिनां वरो देयो भवांश्च शरणागतः । एक एव ज्वरो
लोकेभवानस्तु यथा पुरा । योऽयं मया ज्वरः सृष्टो मय्ये-
वैष प्रलीयताम् । वैशम्पायन उवाच । एवमुक्ते तु वचने
ज्वरं प्रति महायशाः । कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्य-
मुवाच ह । कृष्ण उवाच । शृणुष्व ज्वर! सन्देशं यथा
लोके चरिष्यसि । सर्वजातिषुविन्यस्तस्तथा स्थावरजङ्गमे ।
त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे । चतुष्प-
दान् भजैकेन द्वितीयेन च स्थावरान् । तृतीयो यश्च ते
भागी मानुषेषुपपत्स्यते । त्रिधाभूतं वपुः कृत्वा पक्षिषुत्वं
भवज्वर! । चतुर्थो यस्तृतीयस्य भविष्यति च तेध्रुवम् ।
एकान्ततश्चतुर्भागः खोरकश्च चतुर्थकः । मानुषेष्वेकपादेन
वस त्वं प्रविभज्य वै । जातिष्वथावशेषेषु निवस त्वं
शृणुष्व मे । वृक्षेषु कीटरूपेण तथा सग्कोचपत्रकः ।
पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव च । पद्मिनीषु
हिमं भूत्वा पृथिव्यामपि चोषरः । अपान्तु नीलिकां
भूयाः शिखोद्भेदश्च वर्हिणाम् । गैरिकः पर्वतेष्वेव
मत्प्रसादाद्भविष्यसि । गोष्वपस्मारको भूत्वा खोरकश्च
भविष्यसि । एवं विविधरूपेण भविष्यसि महीतले ।
दर्शनात् स्पर्शनाच्चैव प्राणिनां बधमेष्यसि । ऋते
देवमनुष्यांश्च नान्यस्त्वां विषहिष्यते” ।
ज्वराश्च नानादेवसृष्टा यथोक्तं हरिवं० १६८ अ० “पिता-
महमुखोद्भूता रौद्रा रुद्राङ्गसम्भवाः । कुमारस्कन्दजा-
श्चैव ज्वरावै वैष्णवादयः” “स्वेद्यमामज्वरं प्राज्ञः
कोऽम्भसा परिषिञ्चति” माघः ।

ज्वरकालकेतुरस पु० ज्वरस्य कालकेतुरिब कर्म्म० ।

“रसं विषं गन्धकताम्रकञ्च मनः शिलारुष्करताल-
कञ्च । विमर्द्द्य वज्रीपयसा समांशं गजाह्वयं तत्र
पुटं विदध्यात् । द्विगुञ्जमस्यैव मधुप्रयुक्तं ज्वरं निहन्त्य-
ष्टविधं महोग्रम् । पुरा भवान्यै कथितो भवेन नृणां
हिताय ज्वरकालकेतुः” भैषज्यर० उक्ते औषधभेदे ।

ज्वरकुञ्जरपारीन्द्ररस पु० ज्वर एव कुञ्जरस्तस्य पारीन्द्रः

सिंह इव हिंसकत्वात् तादृशो रसः । भैषज्यर० उक्ते
ज्वरनाशके औषधभेदे । तल्लक्षणं तत्रोक्तं यथा
“मूर्च्छितं रसकर्षैकं तदर्द्धं जारिताभ्रकम् । तारं ताप्यञ्च
रसजं रसकं ताम्रकं तथा । मौक्तिकं विद्रुमंलौहं गिरिज
गैरिकं शिला । गन्धकं हेमसारञ्च पलार्द्धञ्च पृथक्
पृथक् । क्षीरावी सुरवल्ली च शोथघ्नी गणिकारिका । झाटा-
मला ज्योत्स्निका च सतिक्ता तु सदर्शना । अग्निजिह्वा
पूतितैला शूर्पपर्णी प्रसारिणी । प्रत्येकस्वरसं दत्त्वा
मर्दयेत् त्रिदिनावधि । भक्षयेत् पर्णखण्डेन चतुर्गुञ्जा-
प्रमाणतः । महाग्निकारको रोग सङ्करघ्नः प्रयोगराट् ।
सततं सन्ततान्येद्युस्तृतीयकचतुर्थकान् । ज्वरान् सर्वान्
निहन्त्याशु भास्करस्तिमिरं तथा । कासं श्वासं प्रसेहञ्च
सशोथं पाण्डुकामलाम् । ग्रहणों क्षयरोगञ्च सर्वोप-
द्रवसंयुतम् । ज्वरकुञ्जरपारीन्द्रः प्रथितः पृथिवीतले”
पृष्ठ ३१७९

ज्वरकेशरिन् पु० ज्वरस्य तद्रूपगजस्य केशरीव हन्तृत्वात् ।

“शुद्धसूतं विषं व्योषं गन्धं त्रिफलमेव च । जयपाल-
समं कृत्वा भृङ्गतोयेन मर्द्दयेत् । गुञ्जामात्रा वटी कार्य्या
बालानां सर्षपाकृतिः । सितया च समं पीता पित्त-
ज्वरविनाशिनी । मरिचेन प्रयुक्ता सा सन्निपातज्वरा-
पहा । पिप्पलीजीरकाभ्याञ्च दाहज्वरविनाशिनी ।
ज्वरकेशरिनामायं रसो ज्वरविनाशनः” भैषज्यर०
उक्ते औषधभेदे ।

ज्वरघ्न पु० ज्वरं हन्ति हन--अमनुष्यकर्त्तरिटक् । १ गुडूच्याम्,

२ वास्तूके ३ ज्वरनाशके त्रि० शब्दार्थ० । ४ मञ्जिष्ठायां स्त्री
ङीप् । राजनि० ।

ज्वरधूमकेतुरस पु० ज्वरस्य घूमकेतुरग्निरिव दाहकत्वात्

कर्म० । “भवेत् समं सूतसमुद्रफेनं हिङ्गूलगन्धं
परिमर्द्य यत्नात् । नवज्वरे वल्लमितं त्रिघस्रमार्द्राम्बु-
नाऽयं ज्वरघूमकेतुः” भैषज्यर० उक्ते औषधभेदे ।

ज्वरनागमयूरचूर्ण न० ज्वर एव नागः सर्पस्तस्य मयूर

इव हिम्सकत्वात् कर्म० ।
“लौहाभ्रटङ्गनं ताम्रं तालकं वङ्गमेव च । शुद्ध-
सूतं गन्धकञ्च शिग्रुवीजं फलत्रिकम् । चन्दनातिविषा
पाठा वचा च रजनीद्वयम् । उशीरं चित्रकं देवकाष्ठञ्च
सपटोलकम् । जीवकर्षभकाजाज्यस्तालीशं वंशलोचना ।
कण्टकारीफलं मूलं शटीपत्रं कटुत्रयम् । गुड़ूची
सत्वधन्याकं कटुका क्षेत्रपर्पटी । मुस्तकं बालकं विल्वं
यष्ठीमधुसमं समम् । भागाच्चतुर्गुणं देयं कृष्णजीरस्य
चूर्णकम् । तत्समं तालपुष्पञ्च चूर्णं दण्डोत्पलाभ-
वम् । कैरातं तत्समं देयं तत्समं चपलाभवम् ।
एतच्चूर्णं समाख्यातं ज्वरनागमयूरकम् । प्रतिकर्षमितं-
खाद्यं युक्त्या वा रुचिवर्द्धनम् । सन्ततादिज्वरं हन्ति-
साध्यासाध्यं न संशयः । क्षयोद्मवञ्च धातुस्थं कामशी-
कोद्भवं ज्वरम् । भूतावेशज्वरञ्चैवमभिचारसमुद्भवम् ।
दाहशीतज्वरं घोरं चातुर्थ्यादिविपर्य्ययम् । जीर्णञ्च
विषमं सर्वं प्लोहानमुदरं तथा । कामलां पाण्डुरोगञ्च
शोथं हन्ति न संशयः । भ्रमं तृष्णाञ्च कासञ्च शूला-
नाहौ क्षयं तथा । यकृतं गुल्मशूलञ्च आमवातं निहन्ति
च । त्रिकपृष्ठकटीजानुपार्श्वानां शूलनाशनम् । अनुपानं
शीतजलं न देयमुष्णवारिणा” भैषज्यर० उक्ते औषधभेदे

ज्वरबलि पु० ज्वरशान्त्यै देयो बलिः शाक० ।

भैषज्यर० उक्ते ज्वरनाशके वलिमेदे तत्प्रकारो यथा
“ज्वरामयगृहोतस्य मुष्टिभिर्नवभिः कृतम् । तण्डुलै
रोदनं तेन कुर्य्यात् पुत्तलकं शुभम् । तं हरिद्रावलि-
प्ताङ्गं चतुःपितध्वजान्वितम् । हरिद्रारसपूर्णाभिः
पुटिकाभिश्चतसृभिः । मण्डितं गन्धपुष्पाद्यैरवकीर्य्य
विसर्जयेत् । एवं दिनत्रयं कुर्य्यात् ज्वररोगोपशान्तये”
(ओदनेन पुत्तलं निर्म्माय वीरणचाचिकायां संस्थाप्य
हरिद्राभिरवलिप्य चतुःपितपताकाभिरलङ्कृत्य नन्ध-
पुष्पाद्यैरवकीर्य्य हरिद्रारसपूर्णाश्चतस्रः पुटिकाश्चतुः-
कोणे संस्थाप्याः) । पुटिका अश्वत्थपत्ररचितठोङ्गा ।
अन्योऽपि प्रकारो विधानपारिजातादौ दृश्यः ।

ज्वरभैरवचूर्ण न० ज्वरस्य भैरव इवनाशकत्वात् कर्म० ।

“नागरं त्रायमाणा च पिचुमर्द्दो दुरालभा । पथ्या
मुस्तं वचा दारु व्याघ्री शृङ्गीशतावरी । पर्पटंपिप्प-
लीमूलं विशाला पुष्करं शटी । मूर्वा कृष्णा हरिद्रेद्वे
लोघ्रचन्दनमुष्ककम् । कुटजस्य फलं वल्कं यष्टीमधुक-
चित्रकम् । शोभाञ्जनं बला चातिविषा च कटुरोहिणी ।
मूषली पद्मकाष्ठञ्च यमानी शालपर्णिका । मरिचं
चामृता विल्वं बालं पङ्कस्य पर्पटी । तेजपत्रं त्वचं धात्री
पृश्निएर्णी पटोलकम् । गन्धकं पारदं लौहमभ्रकञ्च
मनःशिला । एतेषां समभागेन चूर्णमेव विनिर्दिशेत् ।
तदर्द्धं प्रक्षिपेत्तत्र चूर्णं भुनिम्बसम्भवम् । मात्रामस्य प्रयु-
ञ्जीत दृष्ट्वा दोषवलाबलम् । चूर्णं भैरवसंज्ञन्तु ज्वरान्
हन्ति न संशयः । पृथग्दोषांश्च विविधान् समस्तान्
विषमज्वरान् । द्वन्द्वजान् सन्निपातोत्थान् मानसानपि
नाशयेत् । प्राकृतं वैकृतञ्चैव सौम्यं तीक्ष्णमथापि वा ।
अन्तर्गतं बहिःस्थञ्च निरामं साममेव च । ज्वरमष्टविधं
हन्ति साध्यासाध्यं न संशयः । नानादेशोद्भवञ्चैव वारि-
दोषभवं तथा । विरुद्धभेषजभवं ज्वरमाशु व्यपोहति ।
अग्निमान्द्र्यं यकृत् प्लीहा पाण्डुरोगमरोचकम् ।
उदरान्यन्त्रवृद्धिञ्च रक्तपित्तं त्वगामयम् । श्वयथुञ्च शिरः-
गूलं वातामयरुजां जयेत् । ज्वरभैरवसंज्ञन्तु भैरवेण कृतं
शुभम्” भैषज्यर० उक्ते औषधभेदे ।

ज्वरभैरवरस पु० ज्वरे भैरव इव नाशकत्वात् कर्म्म० ।

“त्रिकटु त्रिफला टङ्कविषगन्धकपारदम् । जैपालञ्च समं
मर्द्यं द्रोणपुष्पोरसैर्दिनम् । ताम्बूलेन समं खादेदर्द्धगुञ्जा-
मितां वटीम् । मुद्गयूषं शिखरिणी पथ्यं देयं प्रयत्नतः ।
नवज्वरं त्रिदोषोत्थं जीर्णञ्च विषमज्वरम् । दिनैकेन
निहन्त्याशु रसोऽयं ज्वरभैरवः” भैषज्यर० उक्ते औषधभेदे ।
पृष्ठ ३१८०

ज्वरमातङ्गकेशरिरस पु० ज्वर एव मातङ्गो गजस्तत्रकेश-

रीव कर्म्म० ।
“पारदं गन्धकं चैव हरितालं समाक्षिकम् ।
कटुत्रयं तथा पथ्या क्षारौ द्वौ सैन्धवं तथा । निम्बस्य
विषमुष्टेश्च वीजं चित्रकगेव च । एषां माषमितं भागं
ग्राह्यं प्रति सुसंस्कृतम् । द्विमाषं कानकफलं विषञ्चापि
द्विमाषिकम् । निर्गुण्डीस्वरसेनैव शोषयेत्तत् प्रयत्नतः ।
सार्द्ध रत्तिप्रमाणेन वटी कार्य्या सुशोभना । सर्वज्वरहरी
चैषा भेदिनी दोषनाशिनी । आमाजीर्णप्रशमनी कामला
षाण्डुरोगहा । वह्निदीप्तिकरो चैषा जठरामयना-
शिनी । उष्णोदकानुपानेन दातव्या हितकारिणी ।
भाषितो लोकनाथेन ज्वरमातङ्गकेशरी” भैषज्यर० उक्ते
औषधभेदे ।

ज्वरमुरारिरस पु० ज्वरो मुर इवासुरभेदस्तस्यारिः कर्म्म० ।

“शुद्धसूतं शुद्धगन्धं विषञ्च दरदं पृथक् । कर्षप्रमाणं
कर्षार्द्धं लवङ्गं मरिचं पलम् । शुद्धं कनकवीजञ्च
पलद्वयमितं तथा । त्रिवृत कर्षमेकञ्च भावयेद्दन्तिकाद्रवैः ।
सप्तधा च ततः कार्य्या गुड़ीगुञ्जामृता शुभा । ज्वर-
मुरारिनामायं रसोज्वरकुलान्तकः । अत्यन्ताजिर्ण-
पूर्णे च ज्वरे विष्टम्भसंयुते । सर्वाग्रहणीगुल्मे
चामवातेऽम्लपित्तके । कासश्वासे यक्ष्मरोगेऽप्युदरे सर्वस-
म्भवे । गृध्रस्यां सन्धिमज्जस्थे वाते शोथे च दुस्तरे ।
यकृति प्लीहरोगे च वातरोगे चिरोत्थिते । अष्टादश
कुष्ठरोगे सिद्धो गुहविनिर्म्मितः” भैषज्यर० उक्ते
औषधभेदे ।

ज्वरशूलहररस पु० ज्वरस्य शूलंवेदनां हरति हृ--अच्कर्म०

“रसगन्धकयोः कृत्वा कज्जलीं भाण्डमध्यगाम् ।
तत्राधोवदनां ताम्रपात्रीं संरुध्य शोधयेत् । पादाङ्गुष्ठ-
प्रमाणेन चूल्ल्यां ज्वालेन तां दहेत् । यामद्वयं ततस्तत्स्थं
रसपात्रं समाहरेत् । चूर्णयेद्रत्तियुगलं तृतीयं वा
विचक्षणः । ताम्बूलीदलयोगेन दद्यात् सर्वज्वरेष्वमुम् ।
जीरसैन्धवसंलिप्तवक्त्राय ज्वरिणे हितम् । स्वेदोद्गमो
भवत्येव देवि! सर्वेषु पाप्मसु । चातुर्थकादीन्
विषमान् नवमागामिनं ज्वरम् । साधारणं सन्निपातं
जयत्येष न संशयः । ज्वरशूलहरो नाम रसोऽयं समुदा-
हृतः” भैषज्यर० उक्ते औषधभेदे ।

ज्वरसिंहरस पु० ज्वरस्य तद्रूपगजस्य सिंह इव हन्तृत्वात्

कर्म० । भैषज्यरत्नावल्युक्ते औषधभेदे । तल्लक्षणं यथा
“पारदं गन्धकं तालं भल्लातकमथैव च । वज्रीर्क्षार
समायुक्तमेकत्र च विमएदयेत् । मृत्तिकाभाजने स्थाप्य
मुद्रितव्यं विचक्षणैः । अग्निं प्रज्वालयेत्तत्र प्रहरद्वय
संख्या । शीतलं खलयेत्तत्र भावना च प्रदीयते ।
भृङ्गराजरसैरत्र गण्डदूर्वाभवै रसैः । चित्रकस्य
रसेनापि भावना दीयते पुनः । पश्चात्तच्चूर्णयेद् यत्नात्
कूपिकायाञ्च धारयेत् । ज्वर उत्पद्यते यस्य चतुर्थे चापरे
पुनः । माषैकञ्च रसं देयं तत्क्षणान्नाशयेज्ज्वरम् ।
ज्वरशान्तेः परं पथ्यं देयं मुद्गौदनः पयः । ज्वरसिंह-
रसो नाम सर्वज्वरविनाशनः” ।

ज्वरहन्तृ त्रि० ज्वरं हन्ति हन्--तृच् । ज्वरनाशके

स्त्रियां ङीप् । सा च २ मञ्जिष्ठायां राजनि० ।

ज्वराग्नि पु० ज्वरः अग्निरिव सन्तापकत्वात् । आधिमन्यौ हारा० ।

ज्वराङ्कुशरस पु० ज्वरस्य गजरूपस्य अङ्कुश इव प्रति-

रोधकत्वात् कर्म्म० । भैषज्यर० उक्ते औषधभेदे स च
नानाविधो यथा
“शुद्धं सूतं विषं गन्धं धूर्त्तवीजं त्रिभिः समम् ।
चतुर्णां द्विगुणं ब्योषं चूर्णं गुञ्जाद्वयं हितम् । जम्बीरस्य
च मज्जाभिरार्द्रकस्य रसैर्युतम् । ज्वराङ्कुशो रसी
नाम्ना ज्वरान् सर्वान् निहन्ति वै । (व्योषं मिलित्वा
द्विगुणम् ।) (अयं भेदि ज्वराङ्कु शो नाम्ना ख्यातः ।)
अन्योऽपि तत्रैव उक्तो यथा “रसस्य द्विगुणं गन्धं गन्ध-
तुल्यञ्च टङ्कनम् । रसतुल्यं विषं योज्यं मरिचं पञ्चधा
विषात् । कट्फलं दन्तिवीजञ्च प्रत्येकं मरिचोन्मितम् ।
ज्वराङ्कुशो रसोह्येष चूर्णयेदतिचिक्कणम् । माषैकेन
निहन्त्याशु ज्वरं जीर्णं त्रिदोषजम्” । अत्रानुरूपमात्रां
शर्करादीनां निपीय गिलित्वा किञ्चिज्जलं पिवेत् ।
अन्यविधोऽपि तत्रैवोक्तो यथा
“ताम्रकाद् द्विगुणं तालं मर्दयेत् सुषवीद्रवैः । प्रपुटेद्
भूधरे शीते वज्रीक्षीरेण मर्दयेत् । प्रपुटेत् भूधरे पश्चात्
प्रञ्चगुञ्जामितं भवेत् । आर्द्रकस्य रसेनैव सर्वज्वरनिकृ-
न्तनः । ऐकाहिकम् द्व्याहिकञ्च त्र्याहिकं चातुरा-
हिकम् । विषमञ्चापि शीताद्यं ज्वरं हन्ति ज्वराङ्कुशः”
अन्यविधोऽपि तत्रैव “शुद्धसूतं तथा गन्धं कर्षमानं नयेद्
बुघः । महौषधं टङ्कनञ्च हरितालं तथा विषम् ।
रसार्द्धं मर्दयेत् खल्ले भृङ्गराजरसेन तु । त्रिदिनं
भावनां दत्त्वा चतुर्थे वटिकां ततः । कुर्य्याच्चणकमात्राञ्च
पिप्पलीमधुसम्युताम् । एष ज्वराङ्कुशो नाम विषम-
पृष्ठ ३१८१
ज्वरनाशनः” महौषधादीनाम् चतुर्णां प्रत्येकं
रसार्द्धम् । अन्यविधोऽपि “मरिचं टङ्कनं शङ्घचूर्णं पारदग-
न्धकम् । शोधितं ब्रह्मपुत्रञ्च भागमेकं विनिःक्षिपेत् ।
गुञ्जामात्रा प्रदातव्या नागवल्लीदलैः सह । ज्वराङ्कुशो
रसोह्येष ज्वरमष्टविधं जयेत्” अन्यविधोऽपि “त्रि-
भागतालेन हतञ्च ताम्रं रसञ्च गन्धञ्च समोनमायुः ।
विषं समं तदुद्विगुणञ्च ताम्रं त्रिसप्तवारञ्च दिवाकरातपे ।
संमर्द्य निम्बुस्वरसेन चूर्णं गुञ्जाप्रमाणं सितया
समेतम् । ज्वराङ्कुशोऽयं विबिधप्रभावो ज्वरं निहन्त्यष्टविधं
समग्रम्” मीनमायुः मत्स्यपित्तम् ।

ज्वराङ्गा स्त्री ज्वरस्तदुबाधनमङ्गमस्याः ङीष् । भद्रदन्तिकायां राजनि० ।

ज्वरातिसार पु० । ज्वरयुक्तोऽतिसारः । ज्वरयुक्ते

अतिसाररोगे तत्स्वरूपादि भैषज्यर० उक्तो यथा । “पित्तज्वरे
पित्तमवोऽतिसारस्तथातिसारे यदि वा ज्वरः स्यात् ।
दोषस्य दुष्यस्य समानभावाज्ज्वरातिसारः कथितो
भिषग्भिः” । “ज्वरातिसारयोरुक्तमन्योन्यं भोषजं पृथक् । न
तन्मिलितथोः कुर्य्यादन्योन्यं वर्द्धयेद् यतः । प्रायोज्वर
हरं भेदि, स्तम्भनन्त्वतिसारनुत् । अतोऽन्योन्यविरुद्ध-
त्वाद् वर्द्धनं तत्परस्परम् । ज्वरातिसारिणामादौ कुर्य्यात्
लङ्घनपाचने । प्रायस्तावामसम्बन्धं विना न भवतो
यतः । ज्वरातिसारे पेयादिक्रमः स्याल्लङ्धिते हितः ।
ज्वरातिसारी पेयां वा पिवेत् साम्लां शृतां नरः” ।

ज्वरान्तक पु० ज्वरस्यान्तक इव ज्वरमन्तयति वा अन्ति-

ण्वुल् वा ६ त० कर्म्म० । आरम्बधेनेपालनिम्बे (सोंदाल)
राजनि० । ज्वरान्तकरसः ।

ज्वरान्तकरस पु० ज्वरस्यान्तकः कर्म० ।

“भास्करोगन्धकः सर्जो देवी विहङ्गतीक्ष्णकम् ।
शीणितं गगनञ्चैव पुष्करञ्च महेश्वरम् । भूनि-
म्बादिगणैर्भाव्यं मधुना गुड़िका दृढ़ा । चातुर्थकं
तृतीयञ्च ज्वरं सन्ततकं तथा । आमज्वरं भूतकृतं सर्व-
ज्वरमपोहति” भैषज्यर० उक्ते औषधधेदे । अत्र
सर्जोरसः, देवी सौराष्ट्रमृत्तिका, विहङ्गं स्वणेमाक्षिकं,
मुष्करं रसाञ्जनं, महेश्वरं सुवर्णम् अन्यत् सुगमम् ।
ताम्रादीनां समभागचूर्णं भूनिम्बादिक्वार्थन भावयेत् ।
भूनिम्बाद्यष्टादशद्रव्याणि सर्वद्रव्यतुल्यानि अष्टावशिष्टं
क्वाथं कृत्वा दिनत्रयं विभाव्य विशोष्य मधुना विमर्द्य
अनुरूपं लिहेत्”

ज्वरापहा स्त्री० ज्वरमपहन्ति अप + हन--ड ६ त० । (वेलशुँठ)

१ विल्वशुण्ठ्याम्, २ विल्वपत्र्याञ्च । ३ ज्वरनाशके त्रि० ।
शब्दच० ।

ज्वरार्य्यभ्र पु० ज्वरस्वारिः कर्म्म० ।

“अभ्रं ताम्रं रसं गन्धं विषञ्चेति
समंसमम् । द्विगुणं धूर्त्तवीजञ्च व्योषं पञ्चगुणं मतम् ।
जलेन वटिकां कुर्य्याद् यथा दोषानुसारतः । अभ्रं
ज्वरारिनामेदं सर्वज्वरविनाशनम् । वातिकान् पैत्ति-
कांश्चैव श्लैष्मिकान् सान्निपातिकान् । विषमाख्यान् द्वन्द्व-
जांश्च धातुस्थान् विषमज्वरान् । नाशयेन्नात्र सन्देहो
वृक्षमिन्द्राशनिर्यथा । प्लीहानं यकृतं गुल्ममग्निमान्द्यं
सशोथकम् । कासं श्नासं तृषां कम्पं दाहं शीतं वमिं
भ्रमिम्” भैषज्यर० उक्ते औषधभेदे ।

ज्वरारिरस न० ज्वरस्यारिः कर्म्म० ।

“दरदबलिरसानां शुल्वनागाभ्रकाणाम्
शुभविटकशिलानां सर्वमेकत्र योज्यम् । विपिननृपद-
लोत्थैर्भावितं शोषयेत्तम् दिवसदशसमाप्तौ रत्तिकैकाञ्च
कुर्य्यात् । एकैकां भक्षेयदस्य चार्द्रकस्य रमैर्युताम् ।
दत्तमात्रं ज्वरं हन्ति ज्वरारिः स निगद्यते । सर्वशूल-
विनाशी च कफपित्तविनाशनः” । भैषज्यर० उक्ते
औषधभेदे । सर्वं (स्ॐदाली) पत्ररसेन दशदिनं
भावयित्वा गुञ्जाप्रमाणमार्द्रकरसेन देयम्” ।

ज्वराशनिरस पु० ज्वरस्थाशनिरिवनाशकत्वात् कर्म० ।

“रसं गन्धं सैन्धवञ्च विषं ताम्रं समं भजेत् । सर्व-
चूर्णसमं लौहं तत्समं चूर्णमभ्रकम् । लौहे च
लौहदण्डे च निर्गुण्ड्याः स्वरसेन च । मर्दयेत् यत्नतः
पश्चान्मरिचं सूततुल्यकम् । पर्णेन सह दातव्यो रसो
रत्तिकसन्मितः । कासं श्वासं महाधोरं विभ्रमाख्यं
ज्वरं वमिम् । धातुस्थं प्रवलं दाहं ज्वरदोषं चिरोद्भवम् ।
यकृद्गुल्मोदरप्लीहश्वयथुञ्च विनाशयेत्” भैषज्यर० उक्ते
औषधभेदे ।

ज्वरित त्रि० ज्वरः संजातोऽस्थ तारका० इतच् । १ क्ज्वरयुक्ते ज्वरशब्दे उदा० ।

ज्वरिन् त्रि० ज्वरोऽस्त्यस्य इनि । ज्वरयुक्ते स्त्रियां ङीप् ।

ज्वल दीप्तौ चलने च भ्वा० पर० अक० सेट् । ज्वलति

अज्वालीत् । घटा० ज्वलयति । ज्वला० ज्वलः
ज्वालः । “जज्वाल लोकस्थितये स राजा” भट्टिः ।
“जागर्त्ति लोको ज्वलति प्रदीपः सखीगणः पश्यति
कौतुकेन । मुहूर्त्तमात्रं कुस् नाथ! धर्य्यं बुभुक्षितः
कि द्विकरेण भुङ्क्ते” उद्भटः ।
उदादिपूर्वकस्य तत्तदुपसर्गद्योत्यार्थ्युक्तदीप्तौ । उज्ज्वलः ।
पृष्ठ ३१८२

ज्वल त्रि० ज्वल--दीप्तौ वा अच् । दीप्तिविशिष्टे ।

ज्वलका स्त्री ज्वलतीति ज्वल--बा० वुन् । अग्निशिखायां हेम० ।

ज्वलति पु० ज्वल--भावे श्तिप् । ज्वलनक्रियायाम् । “भ्रा-

जते” इत्याद्युपक्रम्य एकादश ज्वलतिकर्माणः निघ०
२ । ६ । उक्तम् ।

ज्वलन त्रि० ज्वल--ताच्छील्यादौ युच् । १ दीप्तिशीले, २ वह्नौ

३ चित्रकवृक्षे च पु० अमरः ।

ज्वलनाश्मन् पु० नित्यकर्म० । सूर्य्यकान्तमणौ राजनि० ।

ज्वलित त्रि० ज्वल--क्त । १ दग्धे २ दीप्ते च ।

ज्वलिनो स्त्री ज्वल--बा० इनि ङीप् । मूर्वालतायां राजनि०

ज्वाल पुंस्त्री ज्वल--ण । १ अग्निशिखायाम् अमरः । २ दीप्ति-

युक्ते त्रि० । ३ दग्धान्ने स्त्री शब्दच० । भावे घञ् ।
४ दीप्तौ पु० ।

ज्वालखरगद पु० ज्वालगर्धभाख्ये रोगे राजनि० ।

जालगर्दभशब्दे दृश्यम् ज्वालागर्दभामयोऽप्यत्र राजनि० ।

ज्वालाजिह्व पु० ज्वाला शिखैव जिह्वा यस्यदाह्यवस्तुलेह-

नसाधनत्वात् । १ वह्नौ हेम० तन्नामनामके चित्रके च ।

ज्वालामालिनी स्त्री ज्वालानां शिखानां मालाऽस्त्यस्य इनि

ङीप् । देवीभेदे । तन्मन्त्रादिकं तन्त्रसारे उक्तं यथा “ॐ
नमो भगवति! ज्वालामालिनि! गृध्रगणपरिवृते! हुं
फट् स्वाहा” । तत्राङ्गन्यासः । “ॐ नमो हृदयं प्रोक्तं
भगवतीति शिरः स्मृतम् । ज्वालामालिनीति च शिखा
गृध्नगणपरिवृते ततः । वर्म स्वाहास्त्रमित्युक्तं जाति-
युक्तं न्यासेत्तनौ । प्रयोगस्तु ॐ नमो हृदयाय नम
इत्यादि “अभुक्तो नियतञ्चैव जपेन्मन्त्रं जपाज्जयी ।
जपेदष्टसहस्रन्तु त्रयोविंशतिवासरान् । प्रत्यहं साधने
सिद्धिमाददाति न संशयः । स्मृतिमात्रेण वै मन्त्री
रिपून् सर्वान् विनाशयेत्” ।

ज्वालामुखी स्त्री पीठस्थानभेदे । “ज्वालामुख्यां महाजिह्वा

देव! उन्मत्तभैरवः । अम्बिका सिद्धिदानाम्री स्तनौ
जालन्धरे ममेति” तन्त्रम् । २ विद्याभेदे “ज्वालामुखीक्रमं
वक्ष्ये सा पूज्या मध्यतः शुभे । नित्यारुणा मदनान्तरा
मदमोहापकृष्यसिः । कमला श्रीभारती च आकर्षणी
महेन्द्र्यपि । ब्रह्माणी चैव माहेशी कौमारी वैष्णवी-
तथा । वाराही चैव माहेन्द्री चामुण्डेति च पूजयेत् ।
विजया चाजिता चैव मोहिनी चापराजिता ।
स्तम्भनी जयनी पूज्या कालिका पद्मबाह्यतः । ज्वाला-
मुखी च संपूज्या विषादिहरणं भवेत्” । गारुड़० पु ।
२०४ अ०

ज्वालावक्त्र पु० ज्वालेन वक्त्रमस्य । शिवे ब्रह्मपु० ।

ज्वालिन् पु० ज्वल--णिनि । १ शिवे “शिखी मुण्डी जटी

ज्वाली मूर्त्तिजोमूर्द्धगो बली” भा० अनु० १७ अ० ।
२ शिखायुक्तमात्रे ३ दीप्तियुक्ते च त्रि० स्त्रियां ङीप् ।

ज्वालेश्वर पु० मत्स्यपु० उक्ते तीर्थभेदे ।

  • इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यनिर्म्मिते
वाचस्पत्ये जकारादिशब्दार्थसङ्कलनम् ।