वाचस्पत्यम्/जालिनी

विकिस्रोतः तः
पृष्ठ ३११७

जालिनी स्त्री जाल + अस्त्यर्थे इनि । १ चित्रशालायां हेमच०

२ कोषातकीपृक्षे राजनि० । षोषातक्यां रत्नमा० । ४ पमेह-
रोगिणां पिड़कभेदे सुश्रु० । “तत्र वसामेदोभ्यामभिपन्न-
शरीरस्य त्रिभिर्दोषेश्चानुगतधातोः प्रमेहिणो दश पिड़का
जायने । तद्यथा शराविका सर्षपिका कच्छपिका
जालिनी विनता पुत्रिणी मसूरिका अलजी विदारिका
विद्रधिका चेति । शरावमात्रा तद्रूपा निम्नमध्या
शराविका १ । गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षणे० ।
सदाहा कूर्ससंस्थाना ज्ञेया कच्छपिका ३ बुधैः । जालिनी ४
तीव्रदाहा तु मांसजालसमावृता । महती पीड़का
नीला पिड़का विनता५ स्मृता । महत्यल्पाचिता ज्ञेया
पिड़का सा तु पुत्रिणी ६ । मसूरसमसंस्थाना ज्ञेया सा
तु मसूरिका ७ । रक्ता सिता स्फोटवती दारुणा त्वलजी ८
भवेत् । विदारीकन्दवद्वृत्ता कठिना च विदारिका ९ ।
विद्रधेर्लक्षणैर्युक्ता ज्ञेया बिद्रधिका १० बुधैः” सुश्रुतः ।

जाली स्त्री जालमस्त्यस्याः अच् गोरा० ङीष् । १ ज्योत्स्न्यां

(झिङ्गा) अमरः २ पटोले राजनि० । (जालि) ३ क्षारके च ।

जाल्म त्रि० चु० जल--बा० म । १ पामरे २ क्रूरे ३ असमीक्ष्यकारिणि

च मेदि० “त्वयि पूजनं जगति जाल्म!” भाघः “क्षणं
विश्र म्यतां जाल्म! स्कन्धस्ते यदि बाधति । न तथा
वाधते स्कन्धा यथा बाधति बाधते” उड्भटः । “जनान्
योऽभिभवत्यन्यान् कर्मणा हि स वै पुप्तान् । नत्वे
वजाल्मीं कापालीं वृत्तिमेषितुमर्हसि” भा० शा० १३२ अ०
स्वार्थे क । तत्रार्थे “मित्रब्रह्मगुरुद्वेषी जाल्मकः सुवि-
गर्हितः” भा० द्रो० १९६ अ० ।

जाल्य पु० जल--ण्यत् । शिवे “मत्स्यो जलचरो जाल्यो-

ऽकलः केलिकलः कलिः” भा० शा० २८६ अ० शिवस्तुतौ ।

जावन्य न० जवनस्य भावः दृढ़ा० वा ष्यञ् । वेगे ।

पक्षे इमनिच् जवनिमनु पु०, तल् जवनता स्त्री, त्व
जवनत्व न० तत्रार्थे ।

जावायनि त्रि० जव + चतुरर्त्थां कर्णा० फिञ् । जवयुक्तदेशादौ ।

जाषक न० जाषक + पृषो० । जाषके कालीयनामगन्धद्रव्ये

अमरटीकायां संसारसुन्दरी ।

जास्कमद पुं स्त्री पक्षिभेदे । “अनिक्लवा जाष्कमदा गृध्राः

श्येनाः पतत्त्रिण” अथ० ११ । ९ । १

जास्पति पु० जायते जन--ड + जायाः दुहितुः पतिः वेदे

नि० । जामातरि “सदमिज्जास्पतिं वा” ऋ० १ । १८५ । ८ ।
“जाः पुत्र्यः तासां पतिं जामातरम्” भा० ।

जास्पत्य न० जाया च पतिश्च जायापती तयोर्भापः कर्म वा

ष्यञ् पृषो० । जायापत्योः १ कर्मणि “मंजास्पत्यं सुयममा”
ऋ० ५ २८, ३ “जास्पत्यं जायापत्योः कर्भ” भा० । २ तद्भावे च ।

जाहक पु० दह--ण्वुल् पृषो० । (थोङ्घ) इति ख्याते १ खगे,

२ मार्ज्जारे, ३ खट्टायां ४ कारुण्डिकायां मेदि० । ५ विलेशये
जन्तुभेदे राजनि० “जाहकाहिशशक्रड़गोधानां
कीर्त्तनं शुभम्” वृहत्सं० ८५ अ० ।

जाहुष पु० राजभदे “परिशिष्टं जाहुषं विश्वतः” ऋ०

१ । ११६२० । “जाहुषः कश्चित् राजा” भा० ।

जाह्नवी स्त्री जह्न + अण् ङीप् । “जानुद्वारा पुरादातां जह्नुः

संपीय कोपतः । तस्य कन्यास्वरूपा च जाह्नवी तेन
कीर्त्तिता” इत्युक्तनिर्वचनायां गङ्गायाम् । जह्नुशब्दे
३०८१ पृ० दृश्यम् “ज्यैष्ठे मासि क्षि तसुतदिमे शुक्लपक्षे
दशम्यां हस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम्”
ति० त० शङ्खः तस्यां तिथिविशेषे स्नानफलं यथा
“सामान्यदिवसस्नानसङ्कल्पं । शृणु सुन्दरि! । पुण्यं
दशगुणञ्चैव मौषलस्नानतः परम् । ततस्त्रिंशद्गुणं
पुवयं रविसंक्रमणे दिने । अमायाञ्चापि तत्तुल्यं
द्विगुणं दक्षिणायने । ततो दशगुणं पुपयं नराणाञ्चो-
त्तरायणे । चातुर्मास्यां पौर्णमास्यामनन्तं पुपयमेव
च । अक्षयायाञ्च तत्तुल्यमेतद्वेदनिरूपितम् । असंख्य
पुण्यफलदमेतेषु स्नानदानकम् । साम न्यदिवमस्नानात्
दानात् शतगुणं भवेत् । मन्वन्तरायां देवेषि! युगा-
द्यायां तथैव च । माघस्य सितसप्तयां भीष्माष्ठम्यां तथैव
च । ततोऽपि द्विगुणं पुण्यं नन्दाषां भवदुर्लभे! ।
दशहरादशम्याञ्च युगाद्यादिसमं फलम् । नन्दासमञ्च
वारुण्यां महत्पूर्बे चतुर्गुणम् । ततश्चतुर्गुणं पुण्यं
द्विमहत्पूर्वके सति! । पुण्यं कोटिगुणञ्चैव सामान्य-
स्नानतो हि यत् । चन्दोपरागसमवे सूर्य्ये दशगुर्ण
ततः । पुण्येऽप्यर्द्धोदये काले ततः शतपुणं फलम् ।
सर्वेषामेव सङ्कल्पं वैष्णवानां विपर्य्ययः” इति ब्रह्मवै०
प्रकृतिख० । “अपूरयत्सा जलबिन्न ज ह्ननी” नाधः ।

जि जो अभिभवे भ्वा० पर० सक० अनिट् । जपति अजेषीत्

जिगाय जिग्यतुः जिगयिथ जिगेथ । जेता जीयात्
जेप्यति । जापयति--ते अजीजपत् त । जिगीषति ।
जेता जयी जितः जयः । “जयत्यतिवनो राभोलक्ष्मणश्च
महाबलः । राजा जयति सुग्रीवो राधवेणानुप कितः”
रामा० बहुकृत्वः प्रयोगः । “भर्वद्रव्याणि कुप्यञ्च यो
यज्जयात तस्य तत्” मनुः । “दुर्य्योघनो द्रौपदि! त्वामगै-
पृष्ठ ३११८
षीत्” भा० स० ६५ अ० । “जिगाय तस्य हन्तारं स रामः
सार्बलौकिकः” भट्टिः “गर्जितानन्तरां घृष्टिं सौभाग्येन
जिगाय सा” कुमा० । “जीयात् पण्डितगर्वपर्वतपविः
श्रीवोपदेवकविः” मुग्धगो० अस्य तुबन्तुस्थाने तिवन्ती ।
जयति जयन्ति । “जयति जयति देवः” नाटकेषु
वहुस्थाने कञ्चुकाद्युक्तिः । “नवरसरुचिरां निर्मिति
मादधतो भारती कवेर्जयति” काव्यप्र० । जयश्च सर्वेभ्य
उत्कर्षस्तेन स्वापेक्षयाप्युत्कर्षबोधनात् तस्य नमस्कार-
व्यञ्जकता यथाह काव्यप० “जयत्यर्थेन च नमस्कार
आक्षिप्यते इति तामस्वि प्रणत इति” । अभिभव-
पूर्वकग्रहणे अयं द्विक० । दुह्याच् पज्दण्ड् रुधि प्रच्छि
चिब्रू शासु जिमन्ध् मुषाम् । कर्मयुक् स्यादकथितन्तथा
स्यान्नीहृकृष्वहाम्” इत्युक्तेः । शतं जयति देवदत्तम्” सि०
कौ० “इन्द्रं वाजं जापयत” यजु० ९ । ११ । “यदि त्यध्वर्य्यव
आजिं जापयेयुः” आश्व० । ९ । ८ । “इमाञ्च पृथिवीं कृत्-
स्मामेकाह्रा स व्यजीजपत्” भा० द्रे० ६२ अ० स्वार्थे णिच् ।
व्यजीजयत् इति षटि पुगभाव आर्षः । “गतिं जिरोषतः
मादौ रुरुहातेऽपिकामिकाम्” भाग० २ । १० । २५ । “अगा-
हताष्टादशतां जिगोषया” नैष० । जेगीयते । कर्मणि
अजीयत अजायि । “प्रागजीयत घृणा ततो मही” रघुः ।
  • अति + अतिशयेन जये “विराडियं सुपजा अत्यजैषीत्”
अथ० १४ । ३ । ७४ ।
  • वि + अति परस्परजये आत्म० । “व्यतिजिग्ये समुद्रोऽषि न धैर्य्यं तस्य गच्छतः” भट्टिः
  • अधि + आधिक्येम जये “सपत्नांश्चाधिजोयास्म” भट्टिः ।
  • अनु + अनुरूपजये पश्चाज्जये च । “कौशल्योऽन्वजयत्
महोम्” भा० शा० ३ । २४ अ० ।
  • अमि + आभिमुख्यन जये । “ते चान्द्रमसमेव लोसमभि-
जयन्ति” प्रश्नो पु० १ अधिगमे च “वेदश्रुतिभिराख्या-
नैरर्थानधिजिगोषति” भा० शा० ८४६५ ।
  • अव + अधरीकृत्य जये । “शरैर्पिध्वस्य तांश्चौरानवजित्य च
तद्धनम्” भा० आ० ७७६ । “अवजित्य सुशर्झाणं धनं
चादाय सर्वशः” भा० वि० ३३ अ० ।
  • परा + पराक्रमपूर्वकजये आत्म० । पराजयते । “खं
पराजयमानोऽसावुन्नन्या पवनात्मजम्” भट्टिः । “पराजितेनापि
कृतौ हरस्य” कुमा० । ग्लानौ अक० तत्र “पराजेरसोढ़ः”
पा० सहार्थस्यापाद्यनता । “अध्ययनात् पराजयते
ग्लायतीत्यर्थः सि० कौ० “तां पराजयुमानां सा प्रीते
रक्ष्यां दशाननात्” भट्टिः ।
  • प्रति + प्रतिरूपजये । “अजाविकं मायया प्रत्यजैषीत्”
भा० द्रो० १३५७ श्लो० । “वय प्रतिजिगोपन्तस्तत्र तान्
समभिद्रुताः” ४३७६ शो० ।
  • वि + विशेषेण जये आत्म० बिजयते । “येब देवान् मनुष्यांञ्च
पार्थो विजयते मृधे” भा० वि० १३४५ श्लो० । “जगादाद्रि-
र्विजषीष्ठाः । “दैत्यं कुलं विजिग्ये” भट्टिः

जि त्रि० ज्या + वा० कि । १ क्षयशीले २ पिशाचे पु० एकाक्षरको० ।

जिकन पु० स्मृतिनियन्धकारके विद्वद्भेदे ।

जिगत्न पु० गम--क्त्नु सन्वच्च । प्राणवायौ उज्ज्वलद० ।

जिगर्त्ति पु० गॄ--बा० ति द्वित्वञ्च । आच्छादके । “जिगर्त्ति-

मिन्द्रो अपजर्गुराणः” ऋ० ५ । वृ ९ । ४ “जिगर्त्तिं गरन्त-
माच्छादयन्तम्” भा० ।

जिगीषा स्त्री जि--सन् भावे अ । १ जयेच्छायां, २ प्रकर्षे,

३ उद्यमे च मेदि० । “वेवस्वत जगीषया” रघुः । “अगा-
हताष्टादशतां जिगीषया” नैष० ।

जिघत्नु पु० जिघांसु + पृषो० । जिघांसौ । “यो न सनुत्य

उत वा जिघत्नुः” ऋ० २ । ३० । ९ । “जिघत्नुर्जिथांसुः” भा० ।

जिघत्सा स्त्री अत्तुमिच्छा अद--सन् घसादेशः भावे अ ।

१ भोजनेच्छायां २ क्षुधायां हेमच० ।

जिघत्सु त्रि० अचुमिच्छति अद--सन्--षमादेशे उ । क्षुधितेश्वमरः ।

जिघांसु त्रि० हन--सन्--उ । हननेच्छो “प्रशान्तचेष्टं हरिणं

जिथांसुः” भा० २ रिपौ पु० हेमच० ।

जिघृक्षा स्त्री ग्रह--सन् भावे अ । ग्रहणेच्छायां “पदुरपि

प्रियकण्ठजिघृक्षया” रघुः ।

जिघ्र त्रि० घ्रा--कर्त्तरि श जिघ्रादेशः । घ्राणकर्त्तरि “स्वामी

निश्वमितेऽप्यसूयति मनोजिघ्रः सपत्नीजनः” सा० द०
“अ तिघैः पुष्पगन्धानां पतङ्गैर्ग्लपिता वयम्” भट्टिः ।

जिङ्गिनी स्त्री जिगि--गतौ णिनि । (झिङ्गी) लतायां भावप्र०

“जिङ्गिनीं मवुरोष्णा च कषाया योनिशोधिनी । कटुका
व्रणहृद्रोगवातातीसारहृत् पटुः” भावप्र०

जिङ्गी स्त्री जिगि--गतौ अच् गौरा० ङीष् । मञ्जिष्ठायामृअमरः ।

जिज्ञासा स्त्री ज्ञा--भावे अ । १ ज्ञातुमिच्छायां २ तदर्थविचारं च ।

“अथातो धर्म्मजिज्ञासा” जै० सू० । “अथातो ब्रह्मजिज्ञासा”
शा० सू० । उभयत्र विचारार्थकताकरे दृश्या “दुःख-
त्रयाभिधातात् जिज्ञासा तदवथातके हेतौ” सां० का० ।

जिज्ञासु त्रि० ज्ञातुभिच्छुः ज्ञा--सन्--उ । १ ज्ञातुमिच्छौ

२ मुनुक्षौ च “चतुर्विधा भजन्तेमाम्--“आर्त्तो जिज्ञासुर-
र्थार्थी ज्ञानी च भरतर्षभ!” गीता ।
पृष्ठ ३११९

जिज्ञास्थि न० अस्थ् । जिज्ञासा राजद० परनि० सालोपश्च ।

अस्थिजिज्ञासायाम् ।

जित त्रि० जि--क्विप् । जेतरि । “मारजित् लोकजि-

ज्जिनः” अमरः “स्वर्जिता यजेत” “विश्वजिता यजेत”
श्रुति । “यजेत वाश्वमेधेन स्वर्जिता गोषवेन वा” मनुः

जित त्रि० जि--कर्म्मणि क्त । १ एराजिते २ पराभूते । भावे

क्त । ३ जये न० । तदस्यास्ति अच् । ४ अर्हदुपासकभेदे
पु० हेमच० ।

जितकाशि पु० जितः अभ्यासपटुतया दृढ़ीकृतः काशिः

मुष्टिर्येन । दृढ़मुष्टौ योधभेदे नीलकण्ठः ।

जितकाशिन् त्रि० जितेन जयेन काशते प्रकाशते

काशणिनि । १ जिताहवे, जयिनि हेमच० । “अनिरुद्धो
रणे बाणो जितकाशी महाबलैः” हरिवं० १७७ अ० ।

जितक्रीध त्रि० जितः क्रोधो येन । १ क्रोधशून्ये ३ विष्णौ

पु० । “मनोहरो जितक्रोधो वीरबाहुर्विदारणः” विष्णुसं०
“वेदमर्य्यादां स्थापयन् असुरान् हन्ति न तु कोपवशात्”
भाष्योक्तेः तस्यास्यासुरहननाय न कोपः किन्तु वेदमर्य्या-
दारक्षार्थ एवेति न तस्य कोपशालितेति बोध्यम् ।
जितमन्युरयुभयत्र । “अनन्तरूपोऽनन्तश्रीर्जितमन्यु-
र्भयापहः” विष्णुस० ।

जितनेमि पु० जिता नेमिरत्र । आश्वत्थदण्डे हेमच०

जितलोक त्रि० जितः आयत्तीकृतः कर्म्मादिद्वारा लोकः

स्वर्गादिर्येन । इष्टापूर्त्तादिकर्म्मभिः आयत्तीकृतस्वर्गा-
दिलोके धार्म्मिके “स एकः पितॄणां जितलोकानामा-
अथ ये शतं पितॄणां जितलोकानामाननन्दः शत०
ब्रा० १४ । ७ । १ । ३३ । “पितॄणां दक्षिणमार्गानुयायिनाम्
आद्धपिण्डपितृयज्ञादिकर्मभिः पितृतोषणद्वारा जितो
लोको यैस्ते यद्वा जिता लोका येषामिति जितलोकाः”
भा० । २ अभिभूतलोके त्रि० ।

जितवत् त्रि० जि + क्तवतु । १ कृतजये स्त्रियां ङीप् सा च

उशीनरनृपस्य २ कन्यायाम् । “अस्ति मे मानुषे लोके
नरदेवात्मजा सखी । नाम्ना जितवती नाम रूपयौवन-
शालिनी । उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः ।
दुहिता कथिता लोके मानुषे रूपसम्पदा” भा० आ० ९९ अ०

जितव्रत त्रि० जितमायत्तीकृतं व्रतं येन । १ आयत्तीकृतव्रते

पृथुवंश्ये २ हविर्द्धानपुत्रभेदे पु० “हविर्धानाद्धविर्धानी
विदूरासूत षट् सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं
जितव्रतम्” भाग० ४ । २३ । ८ ।

जितशत्रु पु० जितः शत्रुर्येन । १ पराजितरिपुके रिपुजय-

कर्त्तरि । २ अर्हतां पितृभेदे पु० हेमच० ।

जिताक्षर त्रि० जितानि आयत्तीकृतानि अक्षराणि शीघ्रं

तद्वाचनपाटवादि येन । दृष्टिमात्रेण अक्षरवाचनशक्ति-
युक्ते ।

जितात्मन् त्रि० जितो वशीकृत आत्मा इन्द्रियं मनो वा येन ।

१ जितेन्द्रिये । २ श्राद्धभागार्हे देवभेदे पु० कीर्त्तिमच्छब्दे
२०६१ पृ० दृश्यम् ।

जितामित्र त्रि० जितः अमित्रो येन । १ शत्रुपराजयकर्त्तरि

२ जितकामादिरिपुके च । ३ विष्णौ पु० शब्दरत्ना० “अजो
महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः” विष्णुस०
“जिता अमित्रा आभ्यन्तरा रागद्वेषादयो बाह्या
रावणादयश्च येनासौ जितामित्रः” भा० ।

जितारि पु० जिता अरयो आभ्यन्तरा रागादयो बाह्याश्च

रिपवो येन । १ बुद्धे त्रिका० २ वृत्तार्हत्पितरि हेमच०
३ जितशत्रौ शत्रुजयकारिणि ४ कामादिरिपुजयकर्त्तरि
च त्रि० ५ अविक्षितो नृपस्य पुत्रभेदे पु० “अविक्षितः
परिक्षित्तु शबलाश्वश्च वीर्य्यवान् । आदिराजो विराजश्च
शाल्मलिश्च महाबलः । उच्चैःश्रवा भङ्गकारो जितारिश्चा-
ष्टमः स्मृतः” भा० आ० ९४ आ० ।

जिताष्टमी स्त्री आश्विनकृष्णाष्टम्यां जीमूतवाहनपूजाद्यङ्गभू-

तायां जीभूताष्टम्यां तत्र कर्त्तव्यमुक्तं चमत्कारचि०
भविष्योत्तरे “इषेमास्यसिते पक्षे अष्टमी या तिथिर्भवेत् ।
पुत्रसौभाग्यदा स्त्रीणां ख्याता सा जीवपुत्रिका ।
शालिवाहनराजस्य पुत्रो जीमूतवाहनः । तस्यां पूज्यः
स नारीभिः पुत्रसौभाग्यलिप्सया । प्रदोषसमये
स्त्रीभिः पूज्यो जीमूतवाहनः । पुष्करिणीं विधायाथ
प्राङ्गणे चतुरस्रिकाम्” । विष्णुधर्म्मोत्तरे “पूर्वेद्युर
परेद्युर्वा प्रदोषे यत्र चाष्टमी । तत्र पूज्यः सदा
स्त्रीभिः राजा जीमूतवाहनः” । तथा च यद्दिने
प्रदोषव्यापिनी अष्टमी तत्रैव व्रतम् । उभयदिने चेत्
परदिने त्रिसन्ध्यव्यापित्वात् । उभयदिने प्रदोषाव्याप्तौ
उदयगामिन्यां तदुक्तं निर्णयामृतसिन्धौ “लक्ष्मी
व्रतं चाभ्युदिते शशाङ्के यत्राष्टमी चाश्विनकृष्णपक्षे ।
तत्रोदयं वै कुरुते दिनेश! तदा भवेज्जीवितपुत्रिका
सा” इति अस्यामष्टम्यां स्त्रीभिर्न भोक्तव्यम् “आश्विम-
म्यासिताष्टम्यां याः स्त्रियोऽन्नं हि भुञ्जते । मृतवत्-
सा भवेयुस्ता वैधव्यञ्च भवद्ध्रुवम्” वचनात् ।
पृष्ठ ३१२०

जिताहव पु० जितः शत्रुराहवे येन । जितकाशिनि हेम० ।

जितेन्द्रिय त्रि० जितानि वशीकृतानीन्द्रैयाणि येन ।

यथेष्टमिन्द्रियप्रचारप्रतिरोधिनि १ वशीकृतेन्द्रिये “श्रुत्वा
स्पृष्ट्वाथ दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति
ग्लायति वा स विज्ञेयो जितेन्द्रियः” मनूक्ते हर्षविषाद-
शून्ये २ शान्ते जने । इन्द्रियजपश्च शौचकार्य्यः आत्म-
दर्शनयोग्यत्वे च हेतुः । यथोक्तं पात० सू० भा०
“सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि
च” पात० सू० । “भवन्तीति वाक्यशेषः शुचेः सत्वशुद्धिस्ततः
सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चात्मदर्शन-
योग्यत्वं बुद्धिसत्वस्य भवतीति । एतच्छौचस्थैर्य्यादधि-
गम्यत इति” भा० । २ कामवृद्धिवृक्षे पु० शब्दार्थचि० ।

जितु(त्त)म मिथुनराशौ “क्रियतावुरि जितु(त्त)म कुलीर-

लेय--पाथेय--यूककौर्पाख्याः । तौक्षिकआकोकेरो हृद्रोग-
श्चान्त्यभं चेत्थम्” ज्यो० त० मेषादिसंज्ञोक्तौ । अतिशयेन
जित् जित्तम २ अतिशयजययुक्ते त्रि० ।

जित्या स्त्री जि--क्यप् । वृहद्धले कृष्टभूमिसमीकरणार्थं काष्ठमयपदार्थभेदे

जित्वन् त्रि० जि--क्वनिप् । जयशीले । ततः कर्णा० चतुरर्थ्यां

फिञ् । जैत्वनायनि जित्वनोऽदूरदेशादौ ।

जित्वर त्रि० जि--क्वरप् । जयशीले “सुराध्वरे घस्मरजित्वरेण”

“शस्त्राण्युपायपायंसत जित्वराणि” भट्टिः “करदीकृतभूपालो
भ्रातृभिर्जित्वरैर्द्विषाम्” माघः । क्वरपः टिड्ढाण
ञित्यादि” पा० सूत्रे पाठात् स्त्रियां ङीप् । मुग्ध० मते
क्ष्वरप् षित्त्वात् ईप् इति भेदः । सा च २ काशीपूर्य्यां
त्रिका० ।

जिन पु० जि--नक् । १ बुद्धे अमरः २ अर्हन्नामबौद्धभेदे ३ विष्णौ

च हेमच० । ४ अतिवृद्धे उणा० । ५ जित्वरे त्रि० मेदि० ।
तस्येदमण् । जैन जिनसम्बन्धिनि त्रि० “हस्तिना पीड्य-
मानोऽपि न गच्छेज्जैनमन्दिरम्” । तदीयमते च तच्च
अर्हच्छब्दे ३८२ पृ० दर्शितम् ।

जिनसद्मन् न० ६ त० । जिनगृहे चैत्ये विहारे हेमच० ।

जिनेन्द्र पु० जिनानामिन्द्रः जिन इन्द्र इव वा । १ वुद्धे हला०

२ व्याकरणकारके विद्वद्भेदे च । स्वार्थे अण् । तत्रार्थे
“पाणिन्यमरजेनेन्द्राः जयन्त्यष्टादिशाब्दिकाः”
कविकल्पद्रुमः ।

जिनेश्वर पु० ६ त० । बुद्धे हेमच० ।

जिम भक्षे भ्वा० पर० सक० सेट् । जेमति अजेभात् । उदित्

जेमित्वा जान्त्वा जितः । “जेमनं लेप आहारः” अमरः

जिरि हिंसायां स्वा० पर० सक० सेट् । जिरिणोति अजिरा-

यीत् । अयं वैदिकः ।

जिल्लिक पु० दक्षिणस्थे देशभेदे, सोऽभिजनोस्य अण् ।

तस्य राजा वा अण् । जैल्लिक पित्रादिक्रमेण तद्देश-
वासिनि तन्नृपे च बहुषु तस्य लुक् । तद्देर्शवासिषु
तन्नृपेषु च ब० व० । “जिल्लिकाः कुन्तलाश्चैव सौहृ-
दाननकाननाः” भा० स० ९ अ० ।

जिव प्रीणने भ्वा० पर० सक० सेट् इदित् । जिन्वति

अजिग्वीत् जिजिन्व इदित्त्वात् नोपधालोपः जिन्व्यते ।
“भूभिं पर्ज्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः” ऋ० १ ।
१६४ । ५१ । “इन्द्रेण जिन्वितो मणिरागमन्” अथ०
९ । ३१ । ७ । “रश्मिरसि क्षयस्य क्षयं जिन्व सवितृ-
प्रसूती” ताण्ड्य० ब्रा० १ । ९ । “अपां रेतांसि जिन्वति”
ऋ० ८ । ४४ । १६ । “यदा त्वं प्राण! जिन्वसि” ११ । ४ ।
१४ । वृद्धौ च अक० । वेदे अस्य क्वचित् आत्म० “स
जिन्वते जठरेषु प्रजज्ञीरन्” ऋ० ३ । २ । ११ । “जिन्वते
वर्द्धते” भा० । वेदे नमध्यस्यैव प्रयोगात् शब्दकल्पद्रुमे
अन्त्यस्थवान्तस्थले तस्य निवेशनात् जिम्बतीति प्रयोग-
दर्शनाच्च अओष्ठ्यत्वभ्रान्त्या मत्कृतशब्दस्तोममहानिधौ
जिम्बतीति औष्ठ्यान्ततया रूपप्रदर्शनं प्रामादिकमेब ।
कविकल्पद्रुमे अन्तःस्थवान्तमध्यं पाठात् धिविधातोरिव
न मध्यत्वस्योचितत्वात् ।

जिवाजिव पुंस्त्री जीवञ्जीव + पृषो० । चकोरखगे शब्दर०

जातित्वात् स्त्रियां ङीष् ।

जिव्रि पु० जॄ--रिक् रस्यवः । १ समये २ खगे च सि० कौ० ।

जिष सेके भ्वा० पर० सक० सेट् । जेषति अजेषीत् ।

उदित् जेषित्वा जिष्ट्वा । जिष्टः ।

जिष्णु पु० जिष--ग्स्नु । १ विष्णौ हेमच० २ इन्द्रे २ अर्ज्जुने

च ३ जेतरि त्रि० मेदि० । तत्रार्ज्जुने जयशीले च ।
“यमुनाह्रदोपरिगंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्ण-
वारणम्” “भूभुजश्च परलोकजिष्णवः” माघः “अहं
दुरापो दुर्द्धर्षो दमनः पाकशासनिः । तेन
देवमनुष्येषु जिष्णुनामाऽस्मि विश्रुतः” भा० वि० ४४ अ० ।
इन्द्रे “जयंश्च जिष्णुश्चामित्राँआ जयतामिद्रमेदिनौ” अथ०
११ । ९ । १८ । विष्णौ “विष्णुर्विक्रमणाद्देवो जयनात्
जिष्णुरुच्यते” भा० उ० ६९ अ० । जिष्णुनामनिरुक्तौ ।
पृष्ठ ३१२१

जिह्म त्रि० हा--मन् सन्वत् आलोपश्च । १ कुटिले २ मन्दे ३

तगरवृक्षे न० मेदि० । “सस्मितजिह्मवीक्षितैः” ऋतुसं० ।
“जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्थेन कारयेत्” याज्ञ० ।
“सुहृदर्थमाहितमजिह्मधियाम्” माघः ४ कपटे न० । “तदाशु
कर्त्तुं त्वयि जिह्ममुद्यते” किरा० “जिह्मं कपटम्”
मल्लि० । ५ पिहिते त्रि० “जिह्मवारमपोर्णुत” ऋ० ८ । ४ । ५ ।
“जिह्मवारं पिहितद्वारम्” भा० । ६ अधस्ताद्वर्त्तमाने
च । “उच्चाबुध्नं चक्रतुर्जिह्मवारम्” ऋ० १ । १११६ । ११ ।
“जिह्ममधस्ताद्वर्त्तमानम्” भा० । ७ अप्रसन्ने च । “विधि-
समयनियोगाद्दीप्तिसंहारजिह्मम्” किरा० “जिह्मम-
प्रसन्नम्” मल्लि० ।

जिह्मग पुंस्त्री जिह्मं कुटिलं मन्दं वा गच्छति गम--ड ।

१ सर्पे स्त्रियां जातित्वात् ङीष् । २ मन्दगे त्रि० मेदि०
स्त्रियां टाप् । “व्रतं चक्रे विनाशाय जिह्मगानां
धृतव्रतः” “स दृष्ट्वा जिह्मगान् सर्वांस्तीब्रकोपसमन्वितः”
भा० आ० ९ अ० ।

जिह्ममेहन पुंस्त्री जिह्मं मन्दं मेहति मिह--ल्यु । भेके शब्दर० स्त्रियां जातित्वात् ङीष् ।

जिह्मशल्य पु० जिह्मं कुटिलं शल्यमस्मात् । खदिरवृक्षे जटा०

जिह्माशिन् त्रि० जिह्मं मन्दमश्नाति अश--णिनि । मन्द-

भोजिनि ततः अपत्ये शुभ्रा० ढक् । जैह्माशिनेय
तदपत्ये प० स्त्री ।

जिह्वल त्रि० ह्वल--अच् बा० सन्वच्च जिह्वं जिह्वाव्यापारं

लाति ला--क वा । भोजनलोलुपे । “श्राद्धं कृत्वा
परश्राद्धे भुञ्जते ये च जिह्वलाः । एतन्ति नरके घोरे लुप्त-
पिण्डोदकक्रियाः” श्रा० त० ।

जिह्वा स्त्री लेढ्यनया लिह--स्वादे व “शेवयह्वजिह्वेत्यादिना”

नि० । १ रसास्वादकरणे इन्द्रियभेदे २ तदधिष्ठाने गोलके
(जिव) ख्याते पदार्थे च । तदिन्द्रियस्य जलीयत्वं
मि० मु० समर्थितं यथा “रसनं जलीयं गन्धाद्यव्य-
ञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसव्यञ्जकोदकवत्
रसनसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वे सतीति विशे-
षणीयम् । तस्याधिष्ठातृदेवता च प्रचेताः “दिग्यातार्कप्रचे-
ऽश्वीत्यादि” शा० ति० उक्तेः । अग्नेर्जिह्वाश्च सप्त तन्ना-
मानि “काली कराली च मनोजवा च सुलोहिता या
च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लोलाय
माना इति सप्त जिह्वाः” मुण्डकोप० । “तस्याः कफादि-
दोषात् लक्षणादिकं भाव० प्र० दर्शितं यथा “शाकपत्रप्रभा
रूक्षा स्फुटिता रसनाऽनिलात् । रक्ता श्यामा भवेत्
पित्ताल्लिप्तार्द्रा धवला कफात् । परिदग्धा खरस्पर्शा कृष्णा
दोषत्रयेऽधिके । सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा”
अस्य क्लीवत्वं भरत आह स्म । जिह्वलः । इन्द्रिय
प्ररत्वे तथात्वमिति तु युक्तम् । ३ वाक्ये निघण्टुः

जिह्वाजप पु० जिह्वया जपः । “जिह्वाजपः स विज्ञेयो

केवलं जिह्वया बुधैः” तन्त्रसारोक्ते जपभेदे । “उच्चैर्जपा-
द्विशिष्टः स्यादुपांशुर्दशंभिर्गुणैः । जिह्वाजपः शतगुणः
साहस्रो मानसः स्मृतः” तन्त्रसा० तत्फलमुक्तम् ।

जिह्वानिर्लेखन न० जिह्वा निर्लिख्यतेऽनेन निर् +

लिखकरणे ल्युट् । (जिव आचड़ान) द्रव्यभेदे तल्लक्षणं यथा
“जिह्वानिर्लेखनं हैम राजतं ताम्रजं तथा ।
पाटित मृदु तत्काष्ठं मृदुपत्रमयं तथा । तत्काष्ठं
दन्तधावनयोग्यकाष्ठम् । दशाङ्गुलं मृदु स्निग्धं तेन
जिंह्वां लिखेत् सुखम् । तज्जिह्वामलवैरस्यदौर्गन्ध्य
जड़ताहरम्” भाव० प्र० ।

जिह्वाप पु० स्त्री जिह्वया पिबति पा--क । १ कुक्वुर २ व्याघ्रे

३ विड़ाले ४ भल्लूके च शब्दरत्नावली ५ चित्रकव्याघ्रे
विश्वः । स्त्रियां जातित्वात् सर्वत्र ङीष् ।

जिह्वामल ६ त० । जिह्वास्थितमले कुलुके त्रिका० ।

जिह्वामूल न० ६ त० । जिह्वाया मूले । तत्र भवः छ ।

जिह्वामूलीय अयोगवाहान्तर्गतवर्णभेदे । “जिह्वामूली-
यस्य जिह्वामूलम्” सि० कौ० । स च कखयोः परयोः
विसर्गस्थाने जातः । कवर्गे च “जिह्वामूले तु कुः प्रोक्तः”
शिक्षायां कवर्गस्य जिह्वामूलस्थानत्वोक्तेस्तथात्वम् ।

जिह्वारद पु० स्त्री० जिह्वा रद इव यस्य । पक्षिणि हारा०

तस्य जिह्वाया एव दन्तकार्य्यकारित्वात्तथात्वम् । स्त्रियां
जातित्वात् ङीष् ।

जिह्वारोग पु० मुखरोगान्तर्गतजिह्वागतरोगभेदे । तल्लक्ष-

णादि भावप्र० उक्तं यथा ।
“वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः । उपाज-
ह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः । तत्र वातजस्य
लक्षणमाह । जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च
शाकच्छदनप्रकाशा । स्फुटिता मनाग्विदीर्णा । प्रसुप्ता
रसानभिज्ञतया सुप्तेव । शाकच्छदनप्रकाशा शाको मरुभूमि
जातो द्रुमः तद्वत् कण्टकाचिता । पित्तजमाह ।
पित्तात् सदाहैरुपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च ।
कफजमाह । कफेन गुर्वी बहुलाचिता च मांसोच्छ्रयैः
शालमलिकण्टकाभैः । बहुला स्थूला । मांसोच्छयैः
मांसजकण्टकैः । अलासमाह । जिह्नास्थले यः श्वयथुः
प्रगाढ़ः सोऽलाससंज्ञः कफरक्तमूर्त्तिः । जिह्वां सरुक
पृष्ठ ३१२२
स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ।
प्रगाढ़ः प्रकर्षेण गाढ़ो दारुणः । कफरक्तमूर्त्तिः
कफरक्ताभ्यां मूर्त्तिर्यस्य स कफरक्तज इत्यर्थः । जिह्मा-
स्तम्भेन वायुरत्र बोद्धव्यः । भृशं पाकेनेति पित्तञ्च
अतस्त्रिदोषजोऽयम् । असाध्यत्वञ्चास्य । उपजिह्विका-
माह । जिह्वाग्ररूपः श्वयथुश्च जिह्वामुन्नाम्य जातः
कफरक्तयोनिः । प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसा-
वुपजिह्विकेति । जिह्वाग्ररूपः जिह्वाग्राकृतिः” भावप्र० ।
“पक्रान्नहरणाच्चैव जिह्वारोगः प्रजायते” शातात० ।

जिह्वाशल्य पु० जिह्वायाः शल्यमिवास्त्यस्य अच् । खदिरवृक्षे

राजनि० ।

जिह्वावत् पु० यजुर्वेदीयवंशान्तगतर्षिभेदे । “अथ वंश”

इत्युपक्रमे । “जिह्वावतो बाध्योगाज्जिह्वावाँ बाध्योगः”
शत० ब्रा० १४ । ९ । ४ । ३३ । २ जिह्वायुक्ते त्रि० । स्त्रियां ङीप् ।

जिह्वास्वाद पु० जिह्वया स्वादः । लेहने (चाटा) हेमच० ।

जीति स्त्री जि--क्तिन् वेदे दीर्घः । जये “अजीतयेऽहतये

परस्य स्वस्तये” ऋ० ९ । ९६ । ४ । “अजीतये अजयाय”
भा० । लोके तु ज्या--क्तिन् सम्प्रसारणे “अचः” इति
पा० सम्प्रसारणस्य दीर्घः । २ हानौ स्त्री ।

जीन त्रि० ज्या--क्त सम्प्रसा० दीर्घः । जोर्णे अमरः “जीन-

कार्मुकवस्त्रादीन् पृथक् दद्यात् विशुद्धये” मनुः ।

जीमूत पु० जयति नभः, जीयतेऽनिलेन वा । जि--क्त ।

“जेर्मुट् चोदात्तः दीर्घश्च” । जीवनस्योदकस्य मूतं
बन्धो यस्येति वा जीवनं जलं मूतं बद्धमनेन ।
मूङ् वन्धने कर्म्मणि क्तः पृषोदरादित्वात् साधु ।
ज्यानं जीर्णं ज्या--सं० क्विप्, जिया वयोहान्या
मूतो बद्ध इति वा जीवनं मुञ्चति वा पृषो० ।
१ पर्वते २ मेधे ३ मुस्तायां ४ देवताड़वृक्षे च अमरः ५ इन्द्रे
६ भृतिकरे ७ घोषकलतायां च हेम० । मेघे “यथा जीमूत-
शब्देन स्त्रीणां त्रासोऽभिजायते” दुन्दुभिपूजामन्त्रः ।
“जीमूतैरपिहितसानुरिन्द्रकीलः” किरा० । “जीमूतस्येव
भवति प्रतीकम्” ऋ० ६ । ७५ । १ “प्रतिचरणविवृद्धरेफाः
स्युरर्णार्णबव्यालजीमू तलीलाकरोद्दामशङ्खादयः” वृ० र०
उक्ते ८ दण्डकभेदे तथा च एकादशभीरगणैः रचितो
जीमूताख्यो दण्डकः । स्वार्थे क । जीमूतक तेष्वर्थेषु ।

जीमूतकूट पु० जीमूतो मेघः कूटेऽस्ये । पर्वते हारा० ।

जीमूतकेतु पु० विद्याधरपतौ राजभेदे जीमूतवाहन

पितरि । नागानन्दे दृश्यम् ।

जीमूतमूल पु० जीमूतस्य मुस्तकस्य मूलामव मूलमस्य । शट्यां

शब्दरत्ना० ।

जीमूतवाहन पु० जीमूतो मेधो वाहनमस्य । मेधवाहने

१ इन्द्रे शालिबाहनपुत्रे २ नृपभेदे जिताष्टमीशब्दे
दृश्यम् । जीमूतकेतोः विद्याधरस्य ३ पुत्रे च तत्कथा
नागानन्दे दृश्या ।

जीमूतवाहिन् पु० जीमूतं मेघमुद्दिश्य वहति ऊर्द्ध्वं

गच्छति वह--णिनि । धूमे हेमच० । मेघानां धूमादेवा-
विर्भावात् तस्य तथात्वम् ।

जीर पु० ज्या--रक् संप्र० दीर्घः । १ जीरके, २ खड्गे, ३ अणौ च ।

मेदि० जोरी रक् च” उणा० सौ० जु--रप्रत्ययः ईश्चान्ता-
देशः । ४ जवशीले ५ क्षिप्रे च उज्ज्वल० जीरदानुः । “उत नः
सुद्योत्मा जीराश्वः” ऋ० १ । १४१ । १२ । “जीराश्वः क्षिप्राश्वः”
भा० । संज्ञायां कन् । (जीर) ख्याते पदार्थे मेदिनि० ।
मदनपालनिघण्टौ तस्य क्लीवता तद्भेदा गुणा-
श्चोक्ता यथा “जीरकं दीर्घकं शुक्लमजाजीकण-
जीरकम् । जीरकं जरणं कृष्णं वर्षकाली सुगन्धिकम् ।
कालिका वाष्पिका कुञ्चिकारवी चोपकुञ्चिका । पृथ्वीका
सुखवी पृथ्वी स्थूलजाप्युपकालिका । जीरकत्रितयं
रूक्षं कटूष्णं दीपनं लघु । संग्राहि पित्तलं मेध्यं
गर्भाशयविशुद्धिकृत् । चक्षुष्यं पवनाध्मानगुल्मच्छर्दि-
बलासजित्” मदनपालः ।

जीरण पु० जीरक + पृषो० । जीरके राजनि० ।

जीरदानु पु० जीरं क्षिप्रं० जवशीलं वा ददाति दा--नु । १

जवशीलदाने, २ क्षिप्रदातरि च “विद्यामेषं वृजनं जीरदा-
नुम्” ऋ० १ । १६६ । १५ “जीरदानुं जपशीलदानम्”
भा० “जीरदानूरेतो दध्यत्योषधीषु गर्भम्” ५ । ८३ । १
“जीरदानुः क्षिप्रदानः” भा० ।

जीरि पु० जीर्य्यति जॄ--बा० रिक् । १ मनुष्ये “रक्षन्ति जीरयो

वनानि” ऋ० ४ । ५१ । ६ “जीर्य्यन्ति इति जीरयो मनुष्याः”
भा० जॄ--अन्तर्भू तण्यर्थे रिक् । २ जारके ३ अभिभावके
च त्रि० “प्रजीरयः सिस्रते सध्र्यक् पृथक्” ऋ० २ । १७ । ३
“जीरयो जरयितारः” भा० ।

जीर्ण त्रि० जॄ--क्त । १ जरायुक्ते २ पुरातने च अमरः “वासांसि

जीर्णानि यथा विहाय” गीता । “जीर्णमन्नं प्रशंसीयात्
शस्यञ्च गृहमागतम्” चाणक्यः । २ शैलजे न० राजनि० ।
३ उदराग्निना कृतपाके त्रि० । “अजीर्णे भेषजं वारि जीर्णे
वारि बलप्रदम्” वैद्यकम् ।
पृष्ठ ३१२३
द्रव्यभेदे जीर्णतासाधनद्रव्यभेदा जीर्णमञ्जर्य्यामुक्ता यथा
“नारीकेलफलेषु तण्डुलमथ क्षीरं रसाले हितं जम्बीरो-
त्थरसो घृते समुचितः सर्पिस्तु मोचाफले । गोधूमेषु च
कर्कटी हिततमा मांसात्यये काञ्जिकं नारङ्गे गुड़-
नक्षणञ्च कथितं पिण्डारके कोद्रवः । पिष्टान्ने सलिलं
पियालफलजे पथ्या सिता माषजे खण्डं क्षीरभवे तु
तक्रमुचितं कोष्णाम्बु कोलम्बजे । मत्स्ये चूतफलं
त्वजीर्णशमनं मध्वम्बुपानात्यये तैलं पौष्करजे कटूप्रशमनं
शेषांस्तु बुद्ध्या जयेत् । पनसे कदलं कदले च घृतं
घृतपाकविधावपि जम्बुरसः । तदुपद्रबशान्तिकरं लवणं
लवणेषु च तण्डुलवारि वरम् । नारिकेलफलतालवीजयोः
पाचनं य इह तण्डुलं विदुः । ते वदन्ति मुनयोऽथ
तण्डुलान् क्षीरवारि परिपाचयत्यपि । दाड़िमाम-
लकतालतिन्दुकीवीजपूरलवलीफलान्यपि । बाकुलेन
च फलेन पाचयेत् पाकमेति बकुलं स्वमूलतः । मधूक-
मालूरनृपादनानां परूषखर्ज्जूरकपित्थकानाम् । पाकाय
पेयं पिचुमर्दवीजं घृतेऽपि तक्रं प्रवदन्ति पथ्यम् ।
गोधूममाषहरिमन्थसतीनमुद्गपाको भर्वेदिति च मातु-
लपत्रकेण । खर्ज्जूरिका विसकशेरुसितासु शस्तं
शृङ्गाटके मधुफलेष्वपि भद्रमुस्तम् । पिशितपनसयोः
स्यादाम्रवीजेन पाकः कृशरमहिषयोषित्क्षीरयोः
सैन्धवेन । चिपिटपरिणतिः स्यात् पिप्पलीदीपिकाभ्या
मपहरति तुषाम्भो वैदलानामजीर्णम् । कर्पूरपूगीफल
नागवल्लीकाश्मीरजातीफलजातिकोशम् । कस्तूरिका
सिह्लकनारिकेलजलं पचत्याशु समुद्रफेनः । श्यामाक
नीवारकुलत्थषष्टिनिष्पाबकङ्गू दधिमस्तकस्तु । चिन्वा-
कुलत्थौ तिलतैलयोगात् जटाब्दनादस्य निहन्त्यथाम्रम् ।
कशेरुशृङ्गाटमृणालमृद्वी खर्ज्जूरखण्डा अपि
नागरेण । पलाशभस्माम्बु तथार्द्रजो बा रसो निहन्या-
द्रसमिक्षुजातम् । अम्लेन केनाप्यथ व्योषणेन कोष्णा-
म्बुना वा घृतसेति पाकम् । तिलादितैलान्यपि
काञ्जिकेन सर्ज्जस्य मज्जा पनसामलक्यौ । किमत्र चित्रं
बहुमांसमत्स्यभोजी सुखी स्यात् परिपीय शुक्तम् । इत्य-
द्भुतं केवलवह्निपक्वमांसेन मत्स्यं परिपाकमेति ।
कपोतपारावतनीलकण्ठककपिञ्जलानां पिशितानि जग्ध्वा ।
काशस्य मूलं परिपेयमुष्णं सुखी भवेन्ना बहुशो न
भूतम् । व्योषैः रसाला सुरभीयबस्तुमण्डेन
कोष्णेन विपाकमेति । शङ्खस्य चूर्णेन हयारिगारी-
पयोदधिक्षीरमुपैत्रि पाकम् । वटो वेसवाराल्लवङ्गेन
फेनी शमं पर्पटः शिग्रुबीजेन याति । कणामूलतो
लड्डुका पूपकादेर्विपाको भवेच्छस्कुलीमण्डयोश्च ।
श्वाविद्गोधागण्डकाश्चित्रतैलाद् यावत् क्षारात्
कोलकूर्तादयोऽपि । जीर्य्यान्त्येवं पायसो मुद्गयूषात् सामु-
द्रादप्यारनालं सुखाय । तप्तं तप्तं हेम वा तारमग्नौ
तोये क्षिप्तं सप्तकृत्वस्तदम्भः । पीत्वावश्यं दीर्घकालो-
पपन्नमम्भो जीर्णं शीघ्रमेवं जहाति । पालङ्किका
केमुककारवेल्ली वार्त्ताकुवंशाङ्कुरमूलकानाम् । उपोद
कालाबुपटोलकानां सिद्धार्थको मेधवरस्य पक्ता ।
शुण्ष्ठीसतीनस्य च नागरङ्गजम्बीरयोः कोद्रबको
निहन्ता । जरामिरागेरिकचन्दनाम्यामभ्येति शीघ्रं
बहुशो न मूतम् । पटोलवंशाङ्कुरकारवेल्लीफलान्य
लाबूनि बहूनि जग्ध्वा । क्षारोदकं ब्रह्मतरोर्निपीय
भोक्तुं पुनर्वाञ्छति तावदेव । विपच्यते शूरणको गुडेन
तथालुकं तण्डुलतोयपानात् । जम्बीरनीरेण निशा-
रसोनं मुस्तेन तूर्णं परिपाकमेति । चञ्चूकसिद्धार्थक
वास्तुकानां गायत्रिसारक्वथितेन पाकः । शाकानि
सर्व्वाण्युपयान्ति पाकं क्षारेण सद्यस्तिलनालजेन ।
आम्रातकोदुम्बरपिप्पलीनां फलानि च प्लक्षवटादि-
कानाम् । स्युः, शामनं पर्य्युषितोदकेन पियालमज्जा च
कदुष्णकेन । स्नेहाजीर्ण रोगिणां मुद्गचूर्णं ज्वालां
मुस्तो हन्ति वैरेचकानाम् । माषो भूयान्निम्बमूलेन
पाकश्चिञ्चा मुञ्चत्यम्लतां चूर्णयोगात् । उष्णेन शीतं
शिशिरेण चोष्णमम्लेन च क्षारगणो गुणाय । स्तेहेन
वीक्ष्णं वम्कनातियोगे सिता हिता स्यादिति काशिराजः ।
ताम्बूलमध्वस्थितचूर्णकेन संदह्यते यस्य मुख्वं नरस्य ।
तैलेन वा केवलकाञ्जिकेन । सुखाय गण्डूषमसौ
विदध्यात् । शीतोदकं नस्यजरोगहारि नारीपयश्चाञ्जन-
रुग्विनाशि । एलोदकं धूमगदे प्रशस्तं धात्रीप्रलेषो-
ऽतिविरेचनेषु । मृगस्य मांसं श्रमजेऽनुकूलं प्रवातसुप्तिः
सुरतावसाने । क्षीरोषणा सैन्धवसाधितन्तु छागाण्ड-
मुक्तं सुरतातिरेके । श्रवणपूरणजे तिलतैलतः श्रवण-
पूरणमेव सुखं बिदुः । कवलजेषु गदेष्वथ कारयेत्
कवलमार्द्र कऊद्रवजं पुनः” ।

जीर्णक त्रि० जीर्णप्रकारः स्थूला० कन् । जीर्णप्रकारे ।

पृष्ठ ३१२४

जीर्णज्वर पु० कर्म्मधा० । द्वादशाहाधिककालोत्पन्ने ज्वरे

तल्लक्षणादिकं भावप्रका० उक्तं यथा ।
“यो द्वादशभ्यो दिवसेभ्यः ऊर्द्धं दोषत्रयेभ्यो द्वि-
गुणेभ्य ऊर्द्ध्वम् । नॄणां तनौ तिष्ठति मन्दवेगो भिषग्-
भिरुक्तो ज्वर एष जीर्णः” । जीर्णज्वरस्यैव विशेषं
वातवलासकमाह । नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण
सिध्यति । स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी ।
वातबलासकी नर ईदृग्भवेत् । शूनः शोथी । श्लेष्मभूथिष्ठो
बहुश्लेष्मकः । जीर्ण्णज्वरी नरः कुर्य्यान्नोपवासं कदाचन ।
लङ्घनात् स भवेत् क्षीणो ज्वरस्तु स्याद्बली यतः ।
पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा । लङ्घयेत्
तत्र तत्पश्चात् पूर्वामेवाचरेत् क्रियाम्” तथा पूर्ववत् ।

जीर्णदारु पु० नित्यक० । वृद्धदारकवृक्षे (विधारा) राजनि०

जीर्णपत्र पु० जीर्णं पत्रमस्य । पट्टिकालोध्रे शव्दार्थ० ।

२ जीर्णपत्रयुक्ते त्रि० । बहु० कप् कापि अत इत्त्वम ।
जीर्णपत्रिका २ वंशपत्रीतृणे स्त्री राजनि० ।

जीर्णपर्ण पु० जीर्णानि पर्णान्यस्य । १ कदम्बे । २ पुरातनपत्र-

युक्ते त्रि० । कर्म्म० । २ पुरातनपत्रे न० । ४ पुरातन-
ताम्बूले च । “पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः ।
जीर्णपर्ण्णं हरेदायुः सिरा बुद्धिप्रणाशिनी” वैद्यकम् ।

जीर्णफञ्जी स्त्री नित्यक० । वृद्धदारके वृक्षे (विधारा) राजनि० ।

जीर्णबुध्न पु० जीर्ण्णं बुध्नं मूलमस्य । पट्टिकालोध्रे राजनि०

तदिव कायति कै--क । जीर्णबुध्नक । (केओटा मुथा)
ख्याते मुस्तकभेदे ।

जीर्णवज्र न० जीर्णं पुरातनं वज्रं हीरकमिव । वैक्रान्तमणौ राजनि० ।

जीर्णवस्त्र न० कर्म० । पुरातनवस्त्रे पटच्चरे अमरः ।

जीर्णा स्त्री जॄ--क्त । स्थू लजीरके राजनि० ।

जीर्ण्णास्थिमृत्तिका स्त्री । कृत्रिममृत्तिकाभेदे ।

“अथ वक्ष्ये तु जीर्णास्थिमृत्तिकाकरणं प्रिये! ।
शिलाजतुस्थले कुर्य्याद् दीर्घं गर्त्तं मनोहरम् ।
निःक्षिपेत् तत्र नानास्थिसञ्चयं द्विचतुष्पदाम् । सर्जिक्षारं
महाक्षारं मृत्क्षारं लवणानि च । गन्धकोष्णजलं
क्षेप्यं नानामूत्राणितत्र च । एवं कृत्वा मासषट्कं दद्यात्
पाषाणमृत्तिकाम् । कङ्कास्थ्यूर्द्ध्वं तदूर्द्ध्वन्तु कुर्य्याद्वह्नी-
ष्टकां शुभाम् । त्रिवर्षाज्जायते सर्वमेकीभूतं दृषत्-
समम् । ततो निष्कास्य तच्चूर्णं कृत्वा पात्राणि निर्म-
मेत् । प्रशस्तं भोजनं तत्र सूचयेदन्नदूषणम् ।
महाविषस्यंसंयोगात् तस्य भङ्गः प्रजायते । दूषीविषादि-
संयोगात् पात्रे स्फोटा भवन्ति हि । तत्र क्षिप्तं क्षुद्र-
विषं पात्रं कृष्णं प्रजायते । एवं ज्ञात्वा तत्र दद्यान्न
कदाचिद्विपादिकमिति रावणः” शब्दार्यचिन्तामणिः ।

जीर्णि स्त्री जॄ--क्तिन् । जीर्णतायाम् । अमरः ।

जीर्णोद्धार पु० जीर्णस्य पूर्वप्रतिष्ठापितलिङ्गादेरुद्धारः ।

१ पूर्वप्रतिष्ठापितलिङ्गादेः भग्नतादौ स्वस्थानादुद्धारे
तद्विधानम् अग्निपु० ६७ अ० उक्तं यथा ।
“भगवान् उवाच । जीर्णोद्धारबिधिं वक्ष्ये भूषितां
स्नपयेद् गुरुः । अचलां बिन्यसेद् गेहे अतिजीर्णां
परित्यजेत् । व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्व-
वत् । संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः ।
सहस्रं नरसिहेन हुत्वा तामुद्धरेद् गुरुः । दारबीं दाहये-
द्वह्नौ शैलजां प्रक्षिपेज्जले । धातुजां रत्नजां वापि अगतधे
वा जलेऽम्बुधौ । यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रा-
दिना नयेत् । वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ।
यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेत् पुनः ।
कूपवापीतड़ागादेर्जीर्णोद्धारे महाफलम्” नि० सि० विशेषो यथा
“अथ जीर्णोद्धारः स च लिङ्गादौ दग्धे भग्ने चलिते
वा कार्य्यः । अयं चानादिसिद्धप्रतिष्ठितलिङ्गादौ भङ्गा-
दिदुष्टेऽपि न कार्यः । तत्र तु महाभिषेकं कुर्य्यादिति
त्रिविक्रमः । कर्त्ताऽमुकदेवस्य जीर्णोद्धारं करिष्ये इत्युक्त्वा
पुण्याहं वाचयित्वा आचार्य्यमृत्विजश्च वृत्वा लिङ्गे
ॐ व्यापकेश्वरहृदयाय नमः ॐ व्यापकेश्वरशिरसे
स्वाहेत्येवं षड़ङ्गं कृत्वाऽघोरमन्त्रं शतं जप्त्वाऽग्निं
प्रतिष्ठाप्याधोरेण घृतसर्षपैः सहस्रं हुत्वा इन्द्रादिभ्यो
नाम्ना वलिं दत्त्वा जीर्णदेवं प्रणवेन संपूज्य ब्रह्मादि-
मण्डलदेवतानां होमं पूर्वोक्तं कृत्वा देवं प्रार्थयेत ।
“जीर्णभग्नमिदं चैव सर्वदोषावहं नृणाम् । अस्योद्धारे
कृते शान्तिः शास्त्रेऽस्मिन् कथिता त्वया । जीर्णोद्धार-
विधानञ्च नृपराष्ट्रहितावहम् । तदधस्तिष्ठतां देव! प्रह-
रामि तवाज्ञयेति” । ततः क्षीराज्यमधुदूर्वाभिः समिद्भिश्चा-
ष्टोत्तरसहस्रं शतं वा देवमन्त्रेण हुत्वाऽङ्गानां दशांशेन
लिङ्गचालनार्थं सहस्रं शतं वा पायसेन हुत्वा लिङ्गं
प्रार्थयेत । “लिङ्गरूपं समातत्य येनेदं समधिष्ठितम् ।
यायास्त्वं संमितं स्थानं सन्त्यज्यैव शिवाज्ञया । अत्र
स्थाने च या विद्या सर्वविद्यैश्वरैर्युता । शिवेन सह
संतिष्ठेति” मन्त्रितजलेनाभिषिच्य विसर्जयेत् । ततोऽस्त्र-
मन्त्रितेन स्वनित्रेण खात्वा लिङ्गमानीय नद्यादौ
वामदेवेन लिङ्गं प्रणवेन मूर्त्तिं क्षिपेत् । दारुजन्तु मधुना-
ऽभ्यज्याधोरेण दहेत् । हेमरत्नादिमयन्तु दग्धं चलितं
पृष्ठ ३१२५
वा पुनस्तत्रैव स्थापयेत । ततः शान्त्यै अघोरेण तिलैः
सहस्रं हुत्वा प्रार्थयेत । “भगंवान् भूतभव्येश!
लोकनाथ! जगत्पते! । जीर्णलिङ्गसमुद्धारः कृतस्तवाज्ञया
मया । अग्निना दारुजं दग्धं क्षिप्तं शैलादिकं जले ।
प्रायश्चित्ताय देवेश! अघोरास्त्रेण तर्पितम् । ज्ञान-
तोऽज्ञानतो वापि यथोक्तं न कृतं यदि । तत्सर्वं
पूर्णमेवास्तु त्वत्प्रसादान्महेश्वरेति” । ततो यजमानः
पार्थयेत । “गोविप्रशिल्पिभूतानामाचार्य्यस्य च यज्वनः ।
शान्तिर्भवतु देवेश! अच्छिद्रं जायतामिदम्” । मूर्त्तौ
तु विशेषः । “त्वत्प्रसादेन निर्विध्नं देहं निर्माप-
यत्यसौ । वासं कुरु सुरश्रेष्ठ! तावत्त्वं चाल्पके गृहे ।
वसन् क्लेशं सहित्वेह मुर्त्तिं वै तव पूर्बवत् । यावत्
कारयेत् भक्तः कुरु तस्य च वाञ्छितमिति” । ततो नवां
मूर्त्तिं लिङ्गं वा कृत्वोक्तविधिना स्थाषयेत् ।
भग्नमन्दिरादेः २ संस्कारे च स च विष्णुधर्मोत्तरे तृतीय-
काण्डे उक्तो यथा “यस्य राज्ञस्तु विषये देववेश्म विशी-
र्य्यते । तस्य सीदति तद्राज्यं देववेश्म यथा तथा ।
कृत्वा जीर्णस्य संस्कारं तथा देवेशवेश्मनि । द्विगुणं
फलमाप्नोति नात्रं कार्थ्या विचारणा” । विष्णुरहस्ये
“पतितस्य च यः कर्त्ता पतमानस्य रक्षिता । विष्णोरा-
यतनस्येह स नरो विष्णुलोकभाक्” अग्निपुराणे
“पतितं पतमानन्तु तदार्द्धस्फुटितं नरः । समुद्धृत्य
हरेर्धाम द्विगुणं फलमाप्नुयात्” देवीपुराणे “मूला-
च्छतगुणं पुण्यं प्राप्नुयाज्जोर्णकारकः । तस्मात् सर्व-
प्रयत्नेन जीर्णस्योद्धारमाचरेत्” । हयशीर्षपञ्चरात्रे
“वापीकूपतड़ागानां सुरधाम्नां तथानघ! । प्रतिमानां
समानाञ्च संस्कर्त्ता यो नरो भुवि । पुण्यं शतगुणं
तस्य भवेन्मूलान्न संशयः । प्रतिष्ठाया विधिः कार्य्य-
स्तथा मन्दिरनिर्मिते । प्रायः श्रीहयशीर्षोक्तेरनुसारेण
वैष्णवैः । देवालयप्रतिष्ठा च ख्याता तल्लिखनेन किम् ।
श्रीमूर्त्तिस्थापनेनैवं संपूर्णा सा विशेषतः । देवगृहं
देवतायाः प्रतिष्ठाविधिना सदा । संस्काय्यं मनुजा-
नान्तु समुदायोऽस्य कर्म्मणा” हरिभक्ति० २० विलासः ।

जीर्वि पु० जृ--क्विन् । कुठारे उज्ज्वलदत्तः ।

जीव प्राणने असुधारणे भ्वा० अक० प० सेट् । जीवति अजीवीत्

जिजीव । ऋदित् अजिजीवत् त जीवितं जीवनम् जीवः
जीविका । “संशयं पुनरारुह्य यदि जीवति पश्यति”
हितो० “यातः परमपि जीवेज्जीवितनाथो भवेतस्याः”
सा० द० “ज्योग् जीवति” छा उ० । “शतं जीवन्तु शरदः”
ऋ० १० । १८ । १ । प्राणधारणञ्च प्राणधारणोयोगोपवृत्ति
धारणमपि “नक्षत्रैर्यश्च जीवति” मनुः । करणे सक० ।
“जीवेद्वैश्यस्य जीविकाम्” मनुः । जीवेत् कुर्य्यात्
  • अति + अतिक्रम्य जीवने सक० । “अत्यजीवदमरालकेश्वरौ” रघुः ।
  • अनु + पश्चाज्जीवने अनुरूपजीवने च सक० । “जीवन्तं त्वानु-
जीवन्तु प्रजाः सर्वा युधिष्ठिर!” भा० उ० ४५३५
श्लो० “यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे । अद्य
तामनुजीवामः” भा० द्रो० ४११ श्लो० ।
  • आ + वृत्तिकरणे उपभोगे च सक० । “आजीवन् स्वेच्छया
दण्ड्यो दाप्यस्तञ्चापि सोदयम्” याज्ञ० । “आजीवनुप-
भुञ्जानः” भिता० । “ययाजीवन्ति पुरुषं सर्वभूतानि
सञ्जय!” भा० उ० १३२ अ० ।
  • उद् + उच्छ्वासने अक० । “उदजीवत् सुमित्राभूर्भ्राताऽश्लिष्यत्त-
मायतम्” भट्टिः ।
  • प्रति + उद् + प्रतिरूपोज्जीवने ।
  • उप + आश्रित्य वर्त्तने सक० । “पूर्वयसे पुत्राः पितर-
मुपजीवन्ति उत्तरवयसे पुत्रान् पिता” शत० ब्रा० १२ । २ ।
३ । १ । “शेषास्तमुपजीवेयुर्यथैव पितरं तथा” मनुः ।
उपजीवी उपजीव्यः ।

जीव पु० जीव--कर्त्तरि क । १ प्राणिनि २ जीवन्तीवृक्षे ३

वृहस्पतौ च मेदि० । ४ कर्णे ५ क्षेत्रज्ञे त्रिका० । भावे घञ् ।
६ असुधारणे अमरः करणे घञ् । ७ वृत्तौ आजीविकायां
मेदि० । मनुष्यादिकीटपर्यन्ते ८ प्राणिमात्रे ९ कार्य्यकारण-
सङ्घाते । अनेकान्तवादिनां जीवास्तिकायसंज्ञया
परिभाषिते १० पदार्थभेदे । त्रिविधश्चासौ अनादिसिद्धमुक्त-
बद्धभेदात् । अत्रानादिसिद्धोऽर्हन् जीवास्तिकायाख्यः ।
व्यपेतमोहादिबन्धो मुक्तः । मोहाद्यावृतस्तु बद्ध इति ।
११ उपाधिप्रविष्टे वाङ्मनःप्राणकरणग्रामानुप्रविष्टे
ब्रह्मणि । घटावच्छिन्नाकाशवत्शरीरत्रितयावच्छिन्ने
१२ चैतन्ये । दर्पणस्थमुखप्रतिविम्बवद् बुद्धिस्थे १३ चैतन्य-
प्रतिविम्बे । १४ साभासाहङ्कारे चित्प्रतिविम्बे । प्राणा-
दिकलापस्य १५ धारयितरि “प्राणान् क्षेत्रज्ञरूपेण
धारयन् जीव उच्यते” इत्यभियुक्तोक्तेः १६ लिंङ्गदेहे । “एवं
पञ्चविधं लिङ्गं त्रिवृत् षोड़श विस्तृतम् । एष
चेतनया युक्तो जीव इत्यभिधीयते” इति श्रीभानवतम् ।
पञ्चविधं पञ्चतन्मात्रात्मकम् । त्रिवृत् त्रिगुणम् । षोडश
विकारात्मना विस्तृतमित्यनाद्यभिमानित्वेन इहलोक
पृष्ठ ३१२६
परलोकगामी व्यवहारिको जीव उच्यते । “यालाग्रशत
भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः
स चानन्त्याय कल्पते” श्रुतिः । “बालाग्रशतशोभागः
कल्पितस्तु सहस्रथा । तस्यापि शतशोभागो जीवः
सूक्ष्म उदाहृतः” शङ्खः । “जीवो नाम देहादिव्यतिरि-
क्तस्तत्साक्षी त्वम्पदार्थो योऽयं विज्ञानमयः योऽयं संसरति
योऽयं संसारी नतु देहादिर्जीवः तस्य दृश्यस्य द्रष्टृ-
त्वानुपपत्तेः । “अस्ति देवि! परं ब्रह्मस्वरूपी निष्कलः
शिवः । सर्वज्ञः सर्वकर्त्ता च सर्वेशो निर्मलोऽव्ययः ।
स्वयं ज्योतिरनाद्यन्तो निर्विकारः परात्परः । निर्गुणः
सच्चिदान्दस्तदंशा जीवसंज्ञकाः । अनाद्यविद्योपहिता
यथाग्नौ विस्फुलिङ्गकाः । देवाद्युपाधिसम्भिन्नास्ते
कर्मभिरनादिभिः । सुखदुःखप्रदैः पुण्यपापरूपैर्निय-
न्त्रिताः । तत्तज्जातियुतं देहमायुर्भोगञ्च कर्मजम् ।
प्रतिजन्म प्रपद्यन्ते तेषामप्यपरं पुनः । सूक्ष्मं लिङ्ग-
शरीरं तदामोक्षादक्षयं प्रिये!” कुलार्ण० । १७ विष्णौ,
“जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः”
विष्णु० सह० । तत्र वृहस्पतौ
“जीवः सप्तनवद्विपञ्चमगतः” “जीवार्किभानुज्येज्यानां
क्षेत्राणि स्युरजादयः” ज्योति० १८ पुष्यनक्षत्रे च । तस्य
जीवाधिष्ठातृकत्वात् तथात्वम् अश्लेषाशब्दे ४९८ पृ०
दृश्यम् । घटसंवृत आकाशे नीयमाने यथा घटे । घटो
नीवेत नाकाशं तद्वत् जीवो नभोपमः” । आर्हतमतसिद्ध-
जीवभेदाश्च अर्हच्छब्दे ३८४ पृ० दृश्याः । स च जीवो
विभुरिति साङ्ख्यनैयायिकवैशेषिकपातञ्जलवेदान्तिनः ।
अणुप्ररिमाण इति रामानुजादयः । मध्यमपरिमाणः
इति माध्यमिका । आत्मन्शब्दे ६७२ पृ० दृश्यम् “हन्ता-
हमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य
नामरूपे व्याकरवाणि” छा० उ० । “भावनाख्यस्तु
संस्कारो जीववृत्ती त्विमौ गुणौ” भाषा० जीव--क
१९ जीवनयुक्ते त्रि० । “कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमि-
शयान् बहून् । जीवानन्यांश्च सुबहूंस्तत्र किं प्रतिभाति
ते । धान्यवीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम! ।
सर्व्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते । अध्या-
क्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च । वृक्षांस्तथौ-
षधीश्चापि छिन्दन्ति पुरुषा द्विज! । जीवाहि बहवो
ब्रह्मन्! वृक्षेषु च फलेषु च । उदके बहवश्चापि तत्र किं
प्रतिभाति ते । सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विज-
सत्तम! । प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति
ते । चंक्रम्यमाणा जीवांश्च धरणीसंश्रितात् बहून् ।
पद्भ्यां घ्नन्ति नरा विप्र! तत्र किं प्रतिभाति ते ।
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः । ज्ञानविज्ञानवन्तश्च
तत्र किं प्रतिभाति ते । जीवैर्ग्रस्तमिदं सर्वमाकाशं
पृथिवी तथा । अविज्ञानाच्च हिंसन्ति तत्र किं पतिभाति
ते । अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा । के न
हिंसन्ति । जीवान् वै लोकेऽस्मिन् द्विजसत्तम! ।” भा०
व० २०७ अ० । अत्र जीवस्य हिंसा देहवियोजनम् ।

जीवक पु० जीवयति जीव + णिच्--ण्वुल् । १ अष्टवर्गात्वर्गते

१ ओषधिभेदे “जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ ।
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ । जीवकः
कूर्चकाकार ऋषभो वृषशृङ्गवत्” तदभावे विदारी-
मूलं प्रतिनिधितया देयमिति” । “जीवकर्षभकौ बल्यौ
शीतौ शुक्लकफप्रदौ । मधुरौ पित्तदाहार्शःकार्श्य-
वातक्षयापहौ” भावप्र० २ पीतसालवृक्षे ३ क्षपणके
च पु० । जीव--ण्वुल् । ४ प्राणधारके त्रि० मेदि० । ५ सेवके
६ वृद्ध्याजीविनि त्रि० ७ अहितुण्डिके पु० मेदि० ।

जीवकाद्यतैल न० चक्रदत्तोक्ते तैलभेदे । तच्च तैलं द्विविधं

लघुवृहद्भेदात् यदाह तत्रैव “जीवकर्षभकौ द्राक्षा-
सिता यष्टी बलोत्पलैः । तैलं नस्यं पयः पक्वं वातपित्त-
शिरोगदे” । लघु । “जीवकर्षभकौ द्राक्षा मधूकं मधुकं
वला । नीलोत्पलं चन्दनञ्चविदारी शर्करा तथा ।
तैलप्रस्थं पचेदेभिः शनैः पयसि षड्गुणैः । जाङ्गलस्य तु
मांसस्य तुलार्द्धस्य रसेन तु । सिद्धमेतद्भवेन्नस्यं तैलम-
र्द्धावशेषकम् । बाधिर्य्यं कर्णशूलञ्च तिमिरं गलशुण्ठि-
काम् । वातिकं पैतिकञ्चैव शीर्षरोगं नियच्छति ।
दन्तचालं शिरः शूलमर्द्दितञ्चापकर्षति” वृहत् । चक्रद० ।

जीवघन पु० जीब एव घनो मूर्त्तिरस्य । हिरण्यगर्भे

तस्य सर्व जीवसमष्टिरूपत्वात् तथात्वं यथाह प्रश्नोप० भा० ।
ओम् शब्दे २५६० पृ० तद्वाक्यम् दृश्यम् । “स एतस्मा-
ज्जीवघनात् परात् परम्” ।

जीवजीव पुंस्त्री जीवञ्जीव + पृषो० । चकोरखगे शब्दर०

स्त्रियां जातित्वात् ङीष् । स्वार्थे क । तत्रार्थे । “हृत्वा
रक्तानि वासांसि जायते जीवजीवकः” मनुः ।

जीवञ्जीव पुंस्त्री जीवं जीवयति विषगाशकत्वात् जीव--षा०

खच् । चकोरपक्षिणि अमरः स्त्रियां जातित्वात् ङीष् ।
“जीवञ्जीविकसङ्घाश्चाप्यनुगच्छन्ति पण्डितान्” भा० उ०
पृष्ठ ३१२७

जीवत्तोका स्त्री जीवत् तोक यस्याः । जीवत्पुत्रिकायां

स्त्रियां । (जेॐत् पोयाती) हेमच० ।

जीवत्पति स्त्री जीवन् पतिर्यस्याः सपूर्वत्वात् वा न ङीपौ ।

सधवायां स्त्रियाम् । हेमच० ।

जीवत्पितृक पु० जीवन् पिता यस्य कप् । विद्यमान-

पितृके जने । “अमास्नानं गयाश्राद्धं दक्षिणामुखभो-
जनम् । न जीवत्पितृकः कुर्य्यात् कृते तु पितृहा भवेत्”
ति० त० । तत्र जीवत्पितृकस्य श्राद्धविशेषेऽधिकारः
निर्णयसिन्धौ व्यवस्थापितो यथा ।
“जीवत्पितृकस्य साग्नेरेव वृद्धिश्राद्धेऽधिकारः न तु
निरग्नेः “न जीवत्पिवृकः कुर्य्याच्छ्राद्धमग्निमृते द्विजः ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः । पितामहे-
ऽप्येवमेव कुर्य्याज्जीवति साग्निकः । साग्निकोऽपि न
कुर्व्वीत जीवति प्रपितामहे” इति चन्द्रिकायां सुमन्तूक्ते-
रित्याहुः प्रयोगपारिजातेऽप्यनाहिताग्निर्न कुर्य्यादि-
तीदं व्याख्यातम् तन्न “अनग्निकोऽपि कुर्वीत जन्मादौ
वृद्धिकर्मणि । येभ्य एव पिता दद्यात्तानेवोद्दिश्य तर्प-
येदिति” हारीतोक्तेः सौमन्तवन्तु वृद्धिश्राद्धभिन्नश्राद्ध-
परमित्युक्तं मदनरत्ने । श्राद्धपदं पिण्डपितृयज्ञपरमिति
पृथ्वीचन्द्रोदयः । निर्णयामृते तु हारीतीयेऽनग्निको-
नाहिताग्निरभिप्रेतः पूर्ववचने तु साग्निः श्रौताग्निः
स्मार्त्ताग्निश्चोच्यते । तेनोभयाग्निहीनस्य नेत्युक्तं तन्न
पूर्वोक्तदिशा गतिसम्भवेनाग्निपदस्य स्मार्त्ताग्निपरत्वे
मानाभावात् वक्ष्यमाणनित्यानित्यसंयोगविरोधात् “पितरो
जनकस्येज्या यावद्व्रतपनाहितम् । समाहितव्रतः पश्चात्
स्वान् यजेत पितामहानिति, पृथ्वीचन्द्रोदये यमवचो
विरोधाच्च । अपरार्केऽपि समावर्त्तने व्रह्मचारी स्वयमेव
नान्दीश्राद्धं कुर्य्यादित्याहुः अतः पूर्वमेव साधु वोपदे-
वोऽप्येवमाह । यत्तु मतं जीवत्पितृकस्य पुत्रनामकर्म्मादौ
न वृद्धिश्राद्धम् हारीतीये जन्मादावित्यादिशब्देन
तत्प्राप्तावपि “उद्वाहे पुत्रजनने पुत्र्येष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षेडेते जीवतः पितुरिति” मैत्र-
परिशिष्टे उद्वाह एव तस्योपसंहारात् एवं यत्र तु
संस्कारादिपदं तदप्युद्वाहादिपरमेवेति तन्न उद्वाहपदस्य
स्वविवाहपरत्वस्यापि सम्भवात् पुत्रविवाहपरत्वे माना-
भावात् “नामकर्मणि बालानां चूड़ाकर्म्मादिके तथा”
इत्यादिभिर्नित्यश्राद्धस्य चौलाद्यङ्गत्वावगतौ नित्यानित्य-
संयोगविरोधाच्च अतो जन्मादाविति सर्वसंस्कारसंग्रहः ।
तथा च कात्यायनः “स्वपितृभ्यः पिता दद्यात् सुतसंस्कार-
कर्भसु । पिण्डानोद्वाहनात्तेषां तस्थाभावे तु तत्क्रमात्” ।
सुतानां चौलादिसंस्कारेषु पिता स्वपितृभ्यः पिण्डान्
श्राद्धम् । “पिण्डदोऽशहरश्चैषामिति” र्दशनात् औद्वहना-
द्विवाहपर्य्यन्तं दद्यात् विवाहश्च प्रथमः “नान्दीश्राद्धं
पिता कुर्य्यादाद्ये पाणिग्रहे बुधः । अत ऊर्द्ध्वं प्रकुर्व्वीत
स्वयमेव तु नान्दिकमिति” स्मृतेः तस्य पितुरभावे तत्क्र-
मात् “असंस्कृतास्तु संस्कार्य्या भ्राषृभिः पूर्वसंस्कृतैरिति”
यः कर्तृक्रमः तेन क्रमेण ज्येष्ठभ्रात्रादिर्दद्यादिति
चन्द्रिकादयः । हेमाद्रिस्तु तस्य पितुरभावे यः पितृव्य
मातुलादिः संस्कुर्य्यात् स तत्क्रमात् संस्कार्य्यपितृ-
क्रमाद्दद्यान्नतु स्वपितृभ्य इति व्याचख्यौ । समावर्तनस्यापि
विवाहप्राचीनसुतसंस्कारत्वात्पितैव नान्दीश्राद्धं कुर्य्यात्
तदभावे ज्येष्ठभ्रात्रादिः तदभावे स्वयमेव कुर्य्यात् ।
उपनयनेन कर्म्माधिकारस्य जातत्वात् एवमाद्यविवाहे-
ऽपीति पृथ्वीचन्द्रोदयन्वन्द्रिकादयः । मदनरत्नेऽप्येवम् ।
यदा तु पितरि संन्यस्ते प्रोषिते पतिते वा धर्म्मार्थं तत्पुत्र-
मन्यः संस्कुर्य्यात्तदा संस्कार्य्यपितुः पित्रादिभ्यो दद्यात्
“पितरो जनकस्येज्या यावद्व्रतमनाहितम् । समाहित-
व्रतः पश्चात्स्वान् यजेत पितामहानिति” पृथ्वाचन्द्रोदये
यमोक्तेः जीवत्पितृकस्य विशेषमाह कात्यायनः “वृद्धौ
तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता
दद्यात्तेभ्यो दद्यात्स्वयं सुतः” इति । तीर्थ इव प्राय-
श्चिताङ्गश्राद्धेऽपि तस्याधिकारः ।
“पितरि जीवति यः श्राद्धं कुर्य्यात् स येषां पिता-
कुर्य्यात्तेषां कुर्य्यात् । पितरि पितामहे च जीवनि येषां
पितामहः कुर्य्यात् तेषां कुर्य्यात् त्रिषु जीवत्सु नैव कुर्य्यात्”
विष्णु० स० “जीवत्पितृकोऽपि” कात्या० श्रौ० सू०
पिण्डपितृयज्ञेऽघिक्रियते च । “जीवान्तर्हितेऽपि” कर्कसू०
“जोवपितृकस्य जीवेन पित्रादिना अन्तर्हितेऽपि व्यवहि-
तेऽपि पितामहादेः पिण्डदानं भवति सोमादाविव “येभ्य
एव पिता दद्यात्तेभ्यो दद्यात्तथा सुतः” इति कर्कस्मृतेः ।
“जीवपितृकस्य होमान्तमनारम्भो वा” सू० ।
“जोवपितृकस्य यजमानस्य होमान्तमेव पिण्डपितृयज्ञ-
संज्ञं कर्म भवति अथवाऽनारम्भ एव पिण्डपितृयज्ञस्य
वाशब्दः पूर्वपक्षनिरासार्थः । अत्रानारम्भपक्ष एव युक्तः
यतः पिण्डदानं प्रधानम् । तदभावे होमस्याङ्गभूतस्या-
नुष्ठानं न घटते । एवं जीवान्तर्हितेऽपीति पक्षं दूप-
पृष्ठ ३१२८
यित्वा जीवत्पितृकस्य होमान्तमित्यत्रोपपत्तिमाह” कर्कः ।
“न व्यवेते जातूकर्ण्यो न जीवन्तमति ददातीति” सू० ।
“जीवपितृकस्य होमान्तकर्म्म कुर्वतः यतोजातूकर्ण्य
आचार्य्यो न व्यवेते जीवता पित्रा व्यवहिते पितामहादौ
पिण्डदानं न भवतोत्याह कुतो न भवतीत्यत्र हेतुः “न
जीवन्तमति ददातीति” शाखान्तरे श्रवणात् अतःप्रधाने
पिण्डदाने जीवत्पितृकस्य निषिद्धे अनारम्भ एव घटते
न होमान्तता । आपस्तम्बः “यदि जीवत्पिता न दद्यादा
होमात् कृत्वा विरमेदिति” मानवे च “यदि दद्याद्येभ्य
एव पिता दद्यात्तेभ्यो दद्यादिति” काठके “पितापुत्रौ
चेदाहिताग्नी स्यातां येभ्यः पिता तेभ्यः पुत्रो दद्यात्
पिता प्रेतः स्यात् पितामहो जीवेत् पित्रे पिण्डं
निधाय पितामहात्पराभ्यां द्वाभ्यां दध्यादिति” कर्क०
जीवपुत्रोऽप्यत्र । समासान्तविधेरनित्यत्वात् न कप् ।
जीवपितृ इत्यपि तत्रार्थे ।

जीवथ पु० जीव--अथ । १ कूर्मे २ प्राणे ३ मयूरे ४ मेधे च

५ चिरायुष्के ६ धार्मिके च ७ जीवनविति त्रि० । उणादिको०

जीवद पु० जीवं जीवनं ददाति द्यति वा दा--दो--वा क ।

१ वैद्ये २ रिपौ ३ ग्रन्थिपर्णवृक्षे च मेदि० ४ जीवनदातरि
त्रि० । ५ जीवन्तीवृक्षे स्त्री राजनि० ।

जीवदातृ त्रि० जीवं ददाति दा--तृच् । १ जीवनदायिनि

स्त्रियां ङीप् सा च २ अद्धिनामोषधौ ३ जीवन्तीवृक्षे च
राजनि० ।

जीवदानु त्रि० जीवं ददाति दा--बा० नु । १ जीवनदातरि

“विरिप्सन्नुदादाय पृथिवीं जीवदानुम्” यजु० १ । २८ ।

जीवदृष्टा स्त्री जीवाय जीवनाय दृष्टा । जीवन्तीवृक्षे राजनि०

जीवधन न० जीव एव धनम् । गवादिजन्तुरूपे धने त्रिका०

जीवधानी स्त्री जीवा धीयन्तेऽस्याम् धा + अधि--करणे ल्युट्

ङीप् । पृथिव्याम् । “ददर्श गां तत्र सुषुप्सुरग्रे यां
जीवधानीं स्वयमभ्यधत्त” भाग० २ । १३ । २ । “जीवधानीं
सर्वजीवाधारभूतां महीम्” श्रीघरः ।

जीवन न० जीव--मावे ल्युट् । १ वृत्तौ २ प्राणघारणे ।

करणे ल्युट् । ३ जले मेदि० । जलं विना प्राण-
धारणासम्भवात्तस्य जीवनकरणत्वम् अत एव “अन्नमयं
हि सौम्य! मन आपोमयः प्राणः” छान्दोग्ये प्राणानां
जलमयत्वसुक्त्वा तस्य तथात्वं श्चमर्थितं यथा ।
“आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो
धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स
प्राणः” “अपांसौम्य! पीयमानानां योऽणिमा स ऊर्द्ध्वः
समुदीषति स प्राणो भवति” “षोड़शकलः सौम्य! पुरुषः
पञ्चदशाहानि माशीः काममपः पिवापोमयः प्राणो, न
पिबतो विच्छेत्स्यते” इति छा० उ० । ४ जीवनसाधने त्रि०
“सर्वोऽर्च्यो जीवनः प्राता” मुग्धबो० । ५ हैयङ्गवीने शब्दच० ।
सद्योघृतस्यायुर्वृद्धिकरत्वेन जीवनहेतुत्वात् तथात्वम् ।
६ मज्जनि राजनि० ७ वाते ८ जीवकौषधौ च पु० राजनि० ।
९ क्षुद्रफलवृक्षे पु० शब्दच० । १० प्रत्रे पु० हेमच० । जीवयति
जिव--णिच्--कर्त्तरि--ल्यु । ११ परमेश्वरे पु० “वीरहा
रक्षणः सन्तो जीवनः पर्य्यवस्थितः” विष्णु स० । “सर्वाः
प्रजाः प्राणरूपेण जीवयन् जीवनः” भा० । “प्रवृत्तिश्च
निवृत्तिश्च तथा जीवनकारणम्” माषा० “जीवनं जीवनं
हन्ति प्राणान् हन्ति समीरणः । किमाश्चर्य्यं क्षारदेशे
प्राणदा यमदूतिसा” उद्भटः । वृत्तौ १२ जीविकायाम् ।
“कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः । सेवा
रूपं नृपो भैक्षमापत्तौ जीवनानि तु” याज्ञ० “विद्या
शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः । धृति-
र्भैक्षं कुसीदञ्च दश जीवनहेतयः” मनुः । १३ जीवदातरि
“शीतस्तत्र ववौ वायुः सुगन्धिं जीवनः शुचिः” भा०
व० १६८ अ० ।

जीवनक न० जीवन + संज्ञायां कन् । अन्ने हेमच० ।

कलौ प्राणस्यान्नगतत्वोक्त्या तस्य तथात्वम् ।

जीवनयोनि स्त्री ६ त० । न्यायोक्ते देहे प्राणसङ्खाचार-

कारणे अतीन्द्रिये १ यत्नभेदे । “यत्रो जीवनयोनिस्त्रु
सर्वदातीन्द्रियो भवेत् । शरीरे प्राणसञ्चारकारणं
परिकीर्त्तितम्” भाषापरि० । “जीवनयोनिर्यत्नो
यावज्जीवनमनुवर्त्तते स चातीन्द्रियः । तत्र प्रमाणमाह
शरीरे प्राणसञ्चारकारणं परिकीर्त्तितमिति । प्राण-
सञ्चारो हि अधिकः श्वासादिः प्रयत्नतः साध्यः । इत्था
प्राणसञ्चारस्य यत्नसाध्यत्वानुमानात् प्रत्यक्षयत्नस्य बाधा-
च्चातीन्द्रिययत्नसिद्धिः । स एव जीवनयोनिप्रयलः” सुक्ता०

जीवना स्त्री जीवयति जीव--णिच्--ल्यु । मेदोषधौ

मेदि०

जीवनाघात न० जीवनस्याघातो यस्मात् । विषे शब्दच० ।

जीवनावास पु० जीवनं जलमावालोऽस्य । वरुणे शब्दच० ।

६ त० । २ प्राणायतने देहे च ।

जीवनी स्त्री जीवत्यनेन जीव--करणे ल्युट् ङीष् । १

काकोल्यां २ डोध्यां ३ मेदायां ४ महामेदायां ५ जोषन्त्याञ्च
राजनि० । ६ यूथ्यां शब्दच० । संज्ञायां कन् । जीवनिका
हरितक्याम् राजनि० ।
पृष्ठ ३१२९

जीवनीय न० जीव--बा० करणे अनीयर् । १ जले हेमच० ।

२ जीवन्तीवृक्षे स्त्री अमरः । कर्मणि अनीयर् । ३ उपजीव्ये
त्रि० । भावे अनीयर् । वर्त्तनीये । ४ विद्याशिल्पमित्यादिम-
नुव्याख्यायाम् । “एभिर्दशभिरापदि जीवनीयम्” कुल्लूक० ।

जीवनीयगण पु० औषधभेदे “अष्टवर्गश्च पर्णि न्यौ जीवन्ती

मधुकं तथा । जीवनीयगणः प्रोक्तो जीवनन्तु पुनस्तथा”
वैद्यकम् ।

जीवनेत्री स्त्री जीवं नयति नी--वृच् ङीप् । सैंहल्याम् । राजनि०

जीवनौषध न० जीवनस्य जियमाणप्राणस्य रक्षणार्थमौ-

षघम् । जीवातौ म्रियमाणस्य प्राणरक्षके औषघे अमरः ।

जीवन्त पु० जीव--कर्त्तरि झ । १ प्राणे, २ आयुर्विशिष्टे त्रि० ।

जीव--णिच्--क्त । ३ औषधे च उणा० ।

जीवन्तिका स्त्री जीव--जीव--णिच्--वा झ--संज्ञायां कन् ।

१ वन्दायां वृक्षोपरिजातनुतायां २ गुडूच्यां ३ जीवाख्यशाके
मेदि० ४ जीयन्त्यां ६ हरीतक्यां च राजनि० ।

जीवन्ती स्त्री जीव--झ गौरा० ङीष् । (जीवै) ख्याते

(जियाता) ख्याते १ वृक्षे । “जीवन्ती शीतला स्वादुः
स्निग्धा दोषत्रयापहा । रसायना बलकरी चक्षुष्या
ग्राहिणी लघुः । जीवन्त्याः कोमलं पत्रं स्निन्नं तक्र-
सुभर्ज्जितम् । हिङ्गुना संयुते तैले तक्रं क्षिप्त्वा प्रले-
हयेत्” भावप्र० । “कृशरेणाथ जीवन्त्या हविष्येण च
सर्वशः” भा० स० ४ अ० । (चोड़ी) ख्याते गुर्जरदेश-
प्रसिद्धे २ लताभेदे ३ शयां ४ गुड़ूच्यां ५ वन्दायां ६ डीद्यां
७ हरितक्याम् राजनि० । सा च “हरितकी जीवन्ती
खर्णवर्णिनी” इत्युक्तलक्षणा ।

जीवन्त्याद्यघृत न० चक्रदत्तोक्ते पक्वघृतभेदे “जीवन्तीं मधुकं

द्राक्षां फलानि कुटजस्य च । शठीं पुग्फरमूलञ्च व्याघ्रीं
गोक्षुरकं वलाम् । नीलोत्पलं चामलकीं त्रायमाणां दुरा-
लभाम् । पिप्पलीञ्च समं पिष्ट्वा घृतं वैद्यो विपाचयेत् ।
एतद्व्याघिसमूहस्य रोगे शस्यसमुत्वितम् । रूपमेकादश-
विधं सर्पिरग्र्यं व्यपोहति” ।

जीवन्मुक्त त्रि० जीवन्ने व सुक्तः जीवन्येवात्जज्ञानेन बन्धरहिते

“जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञान
बाघनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते अज्ञान
कार्यसञ्चितकर्मसंशयविपर्दयादीनाचपि बाधितत्वादणिल-
बन्धरहितो ब्रह्ममिष्ट” इति वेदालला० । नञ्च जीवन्मुक्तो
व्यवहरतिंन वा । आद्ये तस्य बद्धान्न विलक्षणता, द्वितीये
देहस्यानुपयोगात् सद्यः पातप्रसङ्ग इत्यत आह ।
“अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन
शरीरेण आन्ध्यमान्द्यपटुत्वादिभाजनेनेन्द्रियग्रामेण
अशनायापिपासाशोकमोहादिभाजनेन चान्तःकरणेन
पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि
ज्ञानाविरुद्धान्यारब्धफलानि च पश्यन्नपि बाधितत्वात्
परमार्थतो न पश्यतीति” वे० सा० । दृष्टान्ते नोक्तमर्थं स्पष्ट-
यति । “यथेन्द्रजालमिति ज्ञानवान् तदिदमिन्द्रजालं
पश्यन्नपि परमार्थमिदमिति” न पश्यति । उक्तञ्च “सुषुप्ति-
वज्जाग्रति यो न पश्यति द्वयन्तु पश्यन्नपि चाऽद्वयत्वतः ।
तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह
निश्चयः” इति वेदन्तासा० । “वेदविद्याकृतं ज्ञानं देशिकस्क
मुखात् स्वयम् । गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजो-
त्तमाः । प्रारब्धक्षयपर्य्यन्तं जीवन्मुक्ता भवन्ति ते”
तन्त्रम् । अष्टोत्तरशतमुपनिषदाम् । २ कौलिके च “धन्या-
माहेश्वराः स्वार्थप्रत्यभिज्ञानशालिनः । स्वपरिज्ञानमा-
त्रेण जीवन्मुक्ता भवन्ति हि । महामन्त्रप्रभावेण
कुलाचारप्रभावतः । स्वेच्छाचारा निर्विकल्पा जीवन्मुक्ता-
हि कौलिकाः” तन्त्रशास्त्रम् “योऽन्तर्व्योमवदत्यच्छः
जीवन्मुक्त० उच्यते” कुलार्णवे ।
वेदान्तपरिभाषायां विशेष सुक्तो यथा ।
“निर्गुणब्रह्मसात्कारवतस्तु न लोकान्तरगमनं “न तस्य
प्राणा उत्क्रामन्तीतिश्रुतेः किन्तु यावत्प्रारब्धकर्मक्षयं
सुखदुःखे अनुमूय पश्चादपवृज्यते । ननु “क्षीयन्ते चास्य
कर्माणि तस्मिन् दृष्टे परावरे” इत्यादिश्रुत्या “ज्ञानाग्निः
सर्वकर्म्माणि भस्मसात् कुरुतेऽर्जु नेत्यादि” स्मृत्या च
ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्म्मावस्था-
नमनुपपन्ननिति चेन्न तस्य “तावदेव चिरं यावन्न विमो-
क्ष्येऽथ सग्पत्स्ये कैवल्येनेत्यादि” श्रुत्या “नाभुक्तं क्षीयते
कर्मकल्पकोटिशतैरपीत्यादि” स्मृत्या च उत्पादितकार्य्यक-
कर्मव्यतिरिक्तानां सञ्चितकर्म्मणामेव ज्ञानयिनाश्यत्वाव-
गमात् । सञ्चितं द्विविघं सुकृतं दुष्कृतञ्च । तथाच
श्रुतिः “तस्य पुत्रादायमुपयन्ति सुहृदः साघुकृत्यां द्विषन्तः
पापकृत्यामिति” । ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ
तत्कार्य्यप्रारव्यकर्म्म ओऽपि निवृत्तेः कथं ज्ञानिनां
देहधारणमुपपद्यत इति चेन्न अपतिबद्धज्ञानस्यैवाज्ञाननिव-
र्त्तकतया प्रारव्वकर्म्मरूपप्रतिवन्धकदशायामज्ञाननिवृश्वे-
पृष्ठ ३१३०
रनङ्गीकारात् । “नन्वेवमपि तत्त्वज्ञानादेकमुक्तौ सर्व्व-
मुक्तिः स्यात् अविद्याया एकत्वेनैतन्निवृत्तौ क्वचिदपि-
संसारायोगादिति चेन्न इष्टापत्तेरित्येके । अपरे त्वेत-
द्दोषपरीहारायैव “इन्द्रोमायाभिरिति” वहुवचनश्रुत्यनु
गृहीतमविद्यानानात्वप्रङ्गीकर्त्तव्यमित्याहुः । अन्ये त्वेकै-
वाविध्या तस्याश्चाविद्याया जीवभेदेन ब्रह्मस्वरूपावरण-
शक्तयो नाना तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपा-
वरणशक्तिविशिष्टाविद्यानाशः नत्वन्यं प्रति व्रह्मस्वरूपा-
वरणशक्तिविशिष्टाविद्यानाश इत्यभ्यु पगमान्नैकमुक्तौ सर्व-
सुक्तिः । अतएव “यावदधिकारमवस्थितिराधिकारिकाणाम्
इत्यस्मिन्नधिकरणे अधिकारिपुरुषाणामुत्पन्नतत्त्वज्ञाना-
नामिन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्य अधिकारा-
षाटकप्रारब्धकर्म्म समाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धा-
न्तितम् । तदुक्तमाचार्य्यवाचस्पतिमिश्रैः “उपासनादिसं-
सिद्धितोषितेश्वरचोदितम् । अधिकारं समाप्यैते प्रवि-
शन्ति परम्पदमिति” । एतच्चैकमुक्तौ सर्ब्बमुक्तिरिति पक्षे
नोपपद्यते । तस्मादेकाविद्यापक्षेऽपि प्रतिजीवमावरणभे-
दोपगमेन व्यवस्थोपपादनीया” ।
शा० सू० भाष्ययोश्च जाततत्त्वज्ञानानामपि यावत्
प्रारब्धकर्मसमाप्तिस्तावद्देहादिसम्बन्धः समर्थितो यथा
“यावदधिकारमवस्थितिराधिकारिकाणाम्” ३ । ३ । ३२ सू० ।
“विदुपो वर्त्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न
वेति चिन्त्यते । ननु विद्यायाः साधनभूतायाः सम्पत्तौ
कैवल्यनिर्वृत्तिः स्यान्न वेति नेयं चिन्तोपपद्यते । न हि
पाकसाधनसम्पत्तावोदनो भवेत् न येति चिन्ता सम्भ-
वति, नापि भुञ्जानस्तृप्येत् न वेति चिन्त्यते । उपपन्ना
त्वियं चिन्ता, ब्रह्मविदामपि केपाञ्चित् इतिहासपुराण-
योर्देहास्तरोत्तिदर्शनात् । तथा ह्यपान्तरतमानाम
वेदाचार्थः पुराणर्षिर्विष्णुनियोगात् कलिद्वापरयोः
सन्धो कृणद्वैपायतः सम्बभूवेति स्मरणं, वसिष्ठश्च
ब्रह्मणो मानसं पुत्त्रः सन्निमिशापादपगतपूर्वदेहः
पुनब्रह्मादेशात् मित्रावरुणाभ्यां सम्वभूवेति । भृग्वादीना-
मपि ब्रह्मण एव मानसानां पुत्त्राणां वरुणे यज्ञे
पुनरुत्पत्तिः स्मर्यते । सनत्कुमारोऽपि ब्रह्मण एव मानसः
पुत्त्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव ।
एवमेव दक्षनारदप्रभृतीनाभपि भूयसी देहान्तरो-
त्पत्तिकथा तेन तेन निमित्तेन भवति स्मृतौ श्रुतावपि
मन्त्रार्थवादयाः प्रायेणोपलक्ष्यते । ते च केचित् पतिते
पूर्वदेहे देहान्तरमाददते केचित्तु स्थित एव तस्मिन् योगै-
श्वर्यवशादनेकदेहागमन्यायेन, सर्वे चैते समधिगतसकल-
वेदार्थाः स्मर्यन्ते । तदेतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं
ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेत्यत
उत्तरसुच्यते । न, तेषामपान्तरमःप्रभृतीनां वेदप्रव-
र्त्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानां
अधिकारतन्त्रत्वात् स्थितेः । यथासौ भगवान् सविता
सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदया-
स्तमयवर्जितं कैवल्यमनुभवति, “अथ ततऊर्द्ध, उदेत्य
नैवोदेता नास्तमेतैकल एव मध्ये स्थाता” इति श्रुतेः ।
यथा च वर्त्तमाना ब्रह्मविदः प्रारब्धमोगक्षये कैवल्यमनु-
भवन्ति “तस्य तावदेव चिरं यावत् न विमोक्ष्येऽथ सम्प-
त्स्ये” इति श्रुतेः । एवमपान्तरतगःप्रभृतयोऽपीश्वराः
परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि
सम्यग्दर्शने कैवल्यहेतावक्षीणकर्णो यावदधिकारम-
वदिष्ठन्ते तदवसाने चापवृज्यन्त इत्यविरुद्धम् । सकृत्-
प्रवृत्तमेव हि तेऽधिकारफलदानाय कर्माशयमतिवाह-
यन्तः ख्वातन्त्र्येण गृहादिब गृहान्तरमन्यमन्यं देह्रं
सञ्चरन्तः स्वाथिकारनिर्वर्तनायापरिमुषितस्मृतय एव
देहेन्द्रियप्रकृतिवशित्वात् निर्म्माय देहान् युगपत्क्रमेण
वाधितिष्ठन्ति । न चैते जातिस्मरा इत्युच्यते, तएव ते,
इति स्मृतिप्रसिद्धेः । यथा “सुलभा ब्रह्मवादिनी
जनकेन विवदितुकामा व्युदस्य स्वं देहं जानकं देहमाविश्य
व्युद्य तेन पश्चात्तं स्वमाविवेश” इति स्मर्यते । यदि ह्युप-
युक्ते सकृत्प्रवृत्ते कर्मणि कर्म्मान्तरं देहान्तरारम्भकार-
णमाविर्भवेत् ततोऽन्यदप्यदग्धवीजं कर्म्मान्तरं तद्वदेव
प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं
वा शङ्क्येत, न त्वियमाशङ्का युक्ता ज्ञानात् कर्मवीज-
दाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् । तथा च श्रुतिः--
“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते
चास्य कर्म्माणि तस्मिन् दृष्टे परावरे” इति “स्मृति-
लम्भे सर्वग्रन्थीनां विप्रमोक्षः । इति चैवमाद्या । स्मृति-
रपि “यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन! ।
ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुते तथा” ।
इति“वीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञान-
दग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः” इति--चैव-
माद्या । न चाविद्यादिक्लेशदाहे सति क्लेशवीजस्य
कर्म्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते, न
पृष्ठ ३१३१
ह्यग्निदग्धस्य शालिवीजस्यैकदेशप्ररोहो दृश्यते । प्रवृत्त-
फलस्य तु कर्म्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः
“तस्य तावदेव चिरम्” इति शरोरपातक्षेपकरणात् ।
तस्मादुपपन्ना यावदधिकारमाधिकारिकाणामवस्थितिः, न
च ज्ञानफलस्यानैकान्तिकता । तथा च श्रुतिरविशेषेणैव
सर्वेषां ज्ञानान्मोक्षं दर्शयति “तद्यो देवानां प्रत्यबुध्यत स
एव तदभवत्तथर्वीणां तथा मनुष्याणाम्ं इति । ज्ञाना-
न्तरेषु चैश्वर्य्यादिफलेष्वासक्ताः स्युर्महर्षयः ते पश्चादैश्वर्य-
क्षयदर्शनेन निर्विण्णाः बरमात्महा ने परिनिष्ठाय कैवल्यं
ययुरित्युपपद्यते । “ब्रह्मणा सह ते सर्वे संप्राप्ते प्रति-
सञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्”
इति स्मरणात् । प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहा-
शङ्कानुपपत्तिः । कर्मफले हि स्वर्गादावनुभवानारूढ़े
स्यादपि कदाचिदाशङ्का भवेद्वा न वेति, अनुभवारूढ़न्तु
ज्ञानफलं “यत्साक्षादपरोक्षाद्व्रह्म” इति श्रुतेः, “तत्त्वमसि”
इति च सिद्धवदुपदेशात् । न हि “तत्त्वमसि” इत्यस्य
वाक्यस्यार्थः तत्त्वं मृतो भविष्यसि इत्येवं शक्यः
परिणेतुम् । “तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं
मनुरभवं सूर्य्यश्च” इति सम्यग्दर्शनकालमेव तत्फलं
सर्व्वात्मत्वं दर्शयति । तस्मादैकान्तिकी विदुषः कैवल्य-
सिद्धिः” भा० । ४ । १ पादे च ।
“तदधिगम उत्तरपूर्वाथयोरश्लेषविनाशौ तद्व्यपदे-
शात्” १३ सू० ।
“गतस्तृतीयशेषः, अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता
प्रजायते, ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते
न वा क्षीयत इति संशयः । किं तावत् प्राप्तं फलार्थ-
त्वात् कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः ।
फलदायिनी ह्यस्य शक्तिः श्रुत्या समधिगता । यदि
तदन्तरेणैव फलोपभोगमुपमृद्येत श्रुतिः कदर्थिता स्यात् ।
स्मरन्ति च ‘न हि कर्म्माणि क्षीयन्ते’ [म० भा०] इति ।
नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्तोति । नैष
दोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहदाहेष्ट्या-
दिषत् । अपि च प्रायश्चित्तानां दोषसंयोगेन विधानात्
भवेदपि दोषक्षपणार्थता, नत्वेवं ब्रह्मविद्याया विधान-
मस्ति । नन्वनभ्यु पगम्यमाने ब्रह्मविदः कर्मक्षये तत्फल-
स्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् । नेत्युच्यते
देशकालनिमित्तापेक्षो मोक्षः कर्मफलवद्भविष्यति । तस्मात्
न ब्रह्मविद्याधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः
तदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्वाघयोरश्लेषविनाशौ
भवतः, उत्तरस्याश्लेषः, पूर्वस्य विनाशः । कस्मात्, तद्
व्यपदेशात् तथा हि व्रह्मविद्याप्रक्रियायां सम्भाव्य-
मानसम्बन्धस्यामामिनो दुरितस्यानभिसम्बन्धं बिदुषो
व्यपदिशति “यथा पुष्करपलाश आपो न श्लिष्यन्त
एवमेवंविदि षापं कर्म न श्लिष्यते” इति । तथा विनाशमपि
पूर्वोपचितस्य दुरितस्य व्यपदिशति “तद्यथेषीकातूमग्नौ
प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति ।
अयमपरः कर्मक्षयव्यपदेशो भवति । “भिद्यते हृदय-
ग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि
तस्मित् दृष्टे परावरे” इति । यदुक्तमनुपभुक्तफलस्य
कर्मणः क्षयकल्पनायां शास्त्रकदर्थनं स्यादिति । नैष
दोषः, न हि वयं कर्मणः फलदायिनीं शक्तिमवजांनी-
महे, विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण
प्रतिबध्यत इति बदामः । शक्तिमद्भावमात्रे च शास्त्रं
व्याप्रियते न प्रतिबन्धाप्रतिबन्धयोरपि । न हि कर्म
क्षीयत इत्येतदपि स्मरणमौत्सर्गिकं न हि भोगादृते
कर्म क्षीयते तदर्थत्वादितिं, इष्यत एव प्रायश्चित्तादिना
दुरितस्य क्षयः “सर्वं पाप्मानं तरति” “तरति ब्रह्महत्यां
योऽश्वमेधेन यजते” । य उचैनमेवं वेद” इत्यादि श्रुति-
स्मृतिभ्यः । यत्तूक्तं नैमित्तिकानि प्रायश्चित्तानि
भविष्यन्ति इति । तदसत्, दोषसंयोगेन चोद्यमानानामेषां
दोषनिष्कृतिफलसम्भवे फलान्तरकल्पनानुपपत्तेः ।
यत्पुनरेतदुक्तं न प्रायश्चित्तवद्दोषक्षयोद्देशेन विद्याविधान-
मस्तीति अत्र ब्रूमः । सगुणासु तावद्विद्यासु विद्यत
एव विधानं, तासु च वाक्यशेषे ऐश्वर्य्यप्राप्तिः पापनि-
वृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्ती-
त्यतः पाप्मप्रहाणपूर्वकैश्वर्य्य प्राप्तिस्तासां फलमिति
निश्चीयते । निर्गुणायान्तु विद्यायां यद्यपि विधानं नास्ति
तथाप्यकर्त्रात्मत्वबोधात् कर्मप्रदाहसिद्धिः । अश्लेष इति
चागामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते व्रह्मविदिति-
दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात् कर्तृत्वं
प्रतिपेदे इव तथापि विद्यासामर्थ्यात् मिथ्याज्ञाननिवृत्ते-
स्तान्यपि प्रलीयन्त इत्याह विनाश इति । पूर्वप्रसिद्ध-
कर्तृत्वभोक्तृत्वस्वरूपविपरीतं हि त्रिष्वपि कालेष्वकर्तृ-
त्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि नेतः पूर्वमपि कर्त्ता
भोक्ता वाऽहमासं नेदानीं नापि भविष्यति काले इति
ब्रह्मविदवगच्छति । एवमेव च मोक्ष उपद्यते, अन्यथा
पृष्ठ ३१३२
ह्यनादिकालप्रवृत्तानां कर्मणां क्षयाभाये मोक्षाभावः
स्यात् । न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत्
भवितुमर्हति, अनित्यत्वप्रसङ्गात् परोक्षत्वानुपपत्तेश्च
ज्ञानफलस्य । तस्मात् ब्रह्नाधिगमे दुरितक्षय इति
स्थितम्” । भा०
“इतरस्याप्येवमसंश्लेषः पाते तु” ४ । १ । १४ सू०
“पूर्वस्मिन्नधिकरणे बन्धहेतोरधस्य स्वाभाविकस्याश्लेष-
विनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ, धर्मस्य
पुनः शास्त्रोयत्वात् शास्त्रीयेण ज्ञानेनाविरोध इत्या-
शङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियते ।
इतरस्याऽपि पुण्यस्य कर्मण एवमधवदसंश्लेषो विनाशश्च
ज्ञानवतो भवतः । कुतः, तस्याऽपि स्वफलहेतुत्वेन
ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् । “उभे उहैवैष एतेन
तरति” इत्यादिश्रुतिषु दुष्कृतवत् सुकृतस्याऽपि प्रणाश-
व्यपदेशात् अकर्त्रात्मबोधनिमितस्य च कर्मक्षयस्य सुकृत-
दुष्कृतयोस्तुल्यत्वात् “क्षीयन्ते चास्य कर्माणि” इति
चाविशेषश्रुतेः । यत्रापि केवल एव पाप्मशब्दः पठ्यते
तत्रापि तेनैव पुण्यमप्याकलितमिति दष्टव्यं, ज्ञानापेक्षया
निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः
‘वैनं सेतुमहोरात्रे तरतः’ इत्यत्र सह दुष्कृतेन सकृत-
मप्यनुक्रम्य “सर्वे पाप्मानोऽतो निवर्तन्त” इत्यविशेषेणैव
प्रकृतेषु पाप्मशब्दप्रयोगात् । पाते त्विति । तुशब्दोऽ-
वधारणार्थः । एवं धर्म्माधर्मयोर्बन्धहेत्वोर्विद्यासाम-
र्थ्यादश्लेषविनाशसिद्धेरवश्यम्भाविनी विदुषः शरीरपाते
मुक्तिरित्यवधारयति ।” भा०
“अनारब्धकार्य्ये एव तु पूर्वे तदवधेः ।” ४ । १ । १५ सू०
“पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विना-
शोऽवधारितः, स किमविशेषेणारब्धकार्य्ययोरनारब्ध-
कार्य्ययोश्च भवत्युत विशेषेणानारब्धकार्य्ययोरेवेति विचा-
र्य्यते । तत्र “उभे उहैवैष एतेन तरति” इत्येवमादि-
श्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते
प्रत्याह अनारब्धकार्य्ये एव त्विति । अप्रवृत्ते फले एव
पूर्वे जन्मान्तरसञ्चिते अस्मिन्नपि च जन्मनि प्राक् ज्ञानो-
त्पत्तेः सञ्चित सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते नत्वा-
रब्धकार्य्ये सामिभुक्तफले याभ्यामेतत् ब्रह्मज्ञानायतनं
जन्म निर्मितम् । कुत एतत्, “तस्य तावदेव चिरं यावन्न
विमोक्ष्ये” इति शरीरपातावधिकरणात् क्षेमप्राप्तेः,
इतरषा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात्
ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरारपातप्रतीक्षां
नाचक्षीत । ननु वस्तुबलेनैवायमकर्त्रात्मत्वबोधः कर्म्माणि
क्षपयन् कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत, न
हि समानेऽग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते
केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति । उच्यते,
न तावदनाश्रित्यारब्धकार्य्यं कर्म्माशयं ज्ञानोत्पत्तिरुप-
पद्यते, आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवगस्या
ऽन्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम्,
अकर्त्रात्मत्वबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्यु-
च्छिनत्ति, बाधितमपि मिथ्याज्ञानं द्विचन्द्रादिज्ञानवत्ं
संस्कारवशात् कञ्चित् कालमनुवर्तत एव । अपि च
नैवात्र विवदितव्यं ब्रह्मविदः कञ्चित् काल शरीरं ध्रियते
न ध्रियत इति । कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं
देहधारणञ्चापरेण प्रतिक्षेप्तुं शक्येत । श्रुतिस्मृतिषु
च स्थितप्रज्ञलक्षणनिर्देशेनैतदव निरुच्यते तस्मादना-
रब्धकार्य्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षय
इति निर्णयः ।” भा०
“भोगेन त्वितरे क्षपयित्वा सम्पद्यते” ४ । १ । १९ सू०
“अनारब्धकार्य्ययोः पुण्यपापयोर्विद्यासामर्थ्यात् क्षय
उक्तः, इतरे त्वारब्धकार्य्ये पुण्यपापे उपभोगेन क्षप
यित्वा ब्रह्म सम्पद्यते “तस्य तावदेव चिरं यावन्न
विमोक्ष्ये अथ सम्पत्स्ये” इति “ब्रह्मैव सन् ब्रह्माप्येति”
इति चेवमादिश्रुतिभ्यः । ननु सत्यपि सम्यग्दर्शने यथा
प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तमेवं
पश्चादप्यनुवर्तेत । न, निमित्ताभावात् । उपभोगशेषक्षपणं
हि तत्रानुवृत्तिनिमित्तं, न च तादृशमत्र किञ्चिदस्ति ।
नन्वपनः कर्माशयोऽभिनवमुपभोगमारप्स्यते । न, तस्य
दग्धवीजत्वात् । मिथ्याज्ञानावष्टम्भं हि कर्म्मान्तरं
देहपाते उपभोगान्तरमारभते, तच्च मिथ्याज्ञानं सम्यग्-
ज्ञानेन दग्धमित्यतः साध्वेतदारब्धकार्य्यक्षये विदुषः
कैवल्यमवश्यम्भावीति ।” ४ । १ । भा०
“यत्तु सञ्चितं कर्म्मान्तरं तन्न निमित्त फलम्य दग्धमूल-
त्वात् । अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च
मूलम् । तदुक्तं योगशास्त्रे “क्लेशमूलः कर्म्माशयः सति
मूले तद्विपाकः” इति तच्च मूलं ज्ञानाग्निना दग्धमितिकुत
पुनः संसारः तस्माद्देहपातेकैवल्यमिति सिद्धम्” आ० गि०
सांख्यकारिभायां तत्त्वकौमुद्यामत्रविशेषो उक्तो यथा
“सम्यग्ज्ञानाधिगमाद्धर्म्मादीनामकारणप्राप्त । तिष्ठति
पृष्ठ ३१३३
संस्कारवशाच्चक्रभ्रमिवद्धृतशंरीरः ।” साङ्ख्यकारिका ।
“तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि
कर्म्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपपभोग-
लक्षणाय फलाय कल्पते । क्लेशसलिलापसिक्तायां हि
बुद्धिभूमौ कर्मवीजान्यङ्कुरं प्रसुवते तत्त्वज्ञाननिदाघनि-
पीतसकलकेशसलिलायामूषरायां कुतः कर्मवीजाना-
मङ्कुरप्रसवः । तदिदमुक्तं धर्म्मादीनामकारणप्राप्ताविति
अकारणत्वप्राप्तावित्यर्थः । उत्पन्नतत्त्वज्ञानेऽपि च
संस्कारवशात्तिष्ठति । यथोपरतेऽपि कुलालव्यापारे चक्रं
वेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति । कालपरिपाकवशा-
त्तूपरते संस्कारे निष्क्रियं भवति । शरीरस्थितौ च
प्रारब्धपरिपाकौ धर्म्माधर्म्मौ संस्कारौ । तथाच
श्रूयते “भोगेन त्वितरे क्षपयित्वाथ सम्पद्यत” इति
“तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति ।
प्रक्षीयमाणाविद्याबिशषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्ध-
तशरीरस्तिष्ठति” तत्त्वकौ० ।
सा० सू० भाष्येऽप्युक्तं यथा
“बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः” सू० । “सकृत्
सम्प्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यवियेकावस्थो मध्य-
मविवेकेऽपि सति पुरुषे वाधितानामपि दुःखादीनां
प्रारब्धवशात् प्रतिविम्बरूपेण पुरुषेऽनुवृत्त्या भोगो
भवतीत्यर्थः । विवेकनिष्पतिश्चापुनरुत्थानादसम्प्रज्ञातादेव
भवतीत्यतस्तस्यां सत्यां न मोगोऽन्तीति प्रतिपादयितुं
मध्यविवेकत इत्युक्तम् । मन्दविवेकस्तु साक्षात्कारात्
पूर्वं श्रवणमननध्यानमात्ररूप इति विभागः” भा० ।
जीवन्मुक्तश्च सू० ।
“जीवन्मुक्तोऽपि मध्यविवेकावस्थ एव भवतीत्यर्थः ।
जीवन्मुक्ते प्रमाणमाह” भा० ।
“उपदेश्योषदेष्टृत्वात् तस्तिद्धिः” सू० ।
“शास्त्रेषु विवेकविषये गुरुशिष्यभावश्रवणाज्जीवन्मुक्त-
सिद्धिरित्यर्थः । जीवन्मुक्तस्यैबोपदेष्टृत्वसम्भवादिति” भा० ।
“श्रुतिश्च” सू० ।
“श्रुतिश्च जीवन्मुक्तेऽस्ति “दीक्षयैवनरो मुच्येत्
तिष्ठेन्मुक्तोऽपि विग्रहे । कुलालचक्रमध्यस्थो विच्छि-
न्नोऽपि भ्वमेद्धटः” । “ब्रह्मैव सन् ब्रह्माप्येतीत्यादि”
रिति । नारदीयस्मृतिरपि “पूर्वाभ्यासबलात् कार्य्ये न
लोको न च वैदिकः । अपुण्यपापः सर्वात्मा
जीवम्मुक्तः स उच्यते” । इति । ननु श्रवणमात्रेणा-
प्युपदेष्टृत्वं स्यात् तत्राह” साङ्खप्रवचनभाष्यम् ।
“इतरथान्धपरम्परा” । सू० ।
“इतरथा मन्दविवेकस्याप्युपदेष्टृत्वेऽन्धपरम्परापत्तिरि-
त्यर्थः । सामग्र्येणात्मतत्त्वमज्ञात्वा चेदुपदिशेत् कस्मिं-
श्चिदंशे खभ्रमेण शिष्यमपि भ्रान्तीकुर्य्यात् सोऽप्यन्यं
सोऽप्यन्यमित्येवमन्धपरम्परेति । ननु ज्ञानेन कर्मक्षये सति
कथं जीवनं स्यात् तत्राह” भा०
“चक्रभ्रमणवद्धृतशरीरः” । सू०
“कुलालकर्मनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव यथा कियत्-
कालं चक्रं भ्रमति । एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रार-
ब्धकर्मवेगेन चेष्टमानं शरीरं धृत्वा जीवन्मुक्तस्तिष्ठतीत्यर्थः ।
ननु ज्ञानहेतुसम्प्रज्ञातयोगेन भोगादिवासनाक्षये कथं
शरीरधारणम् । न च योगस्य संस्काराभिभावकत्वे किं
मानमिति वाच्यम् । “व्युत्थाननिरोधसंस्कारयोरभिभव-
प्रादुर्भावौ निरोधपरिणाम” इति योगसूत्रतस्तत्सिद्धेः ।
चिरकालीनस्य विषयान्तरावेशम्य विषयान्तरसस्काराभि-
भावकतया लोकेऽप्यनुभवाच्चेति तत्राह ।” भा०
“संस्कारलेशतस्तत्सिद्धिः ।” सू०
“शरीरधारणहेतवो ये विषयसंस्कारास्तेषामल्पावशेषात्
तस्य शरीरधारणस्य सिद्धिरित्यर्थः । अत्र चाविद्या-
संस्कारलेशस्य सत्ता नापेक्ष्यते अविद्याया जन्मादि-
रूपकर्मविपाकारम्भमात्रे हेतुत्वात् । योगभाष्ये व्यासै-
स्तथा व्याख्यातत्वात् । “वीतरागजन्मादर्शनादिति”
न्यायाच्च । न तु प्रारब्धफलककर्मभोगेऽपीति । यत्र च
नियमेनाविद्यापेक्ष्यते स प्रयासविशेषरूपो भोगी मूढ़े-
ष्वेवास्ति जीवन्मुक्तानां तु भोगाभास एवेति प्रागुक्तम् ।
यत् तु कश्चिदविद्यासंस्कारलेशोऽपि जीवन्मुक्तस्य तिष्ठ-
तीत्याह तन्न धर्म्माधर्म्मोत्पत्तिप्रसङ्गात् । अन्धपरम्प-
राप्रसङ्गात् । अविद्यासंस्कारलेशसत्ताकल्पने प्रयोजना-
भावाच्च । एतच्च ब्रह्ममीसांसाभाष्ये प्रपञ्चितमिति” भा० ।

जीवन्मुक्ति स्त्री जीवतो मुक्तिः । जीवतो बन्धनिवृत्तौ

जीवतः पुरुषस्य कर्त्तृत्वभोक्तृत्वनिबन्धनसुखदुःखविशेष-
क्लेशादिरूपस्य निवृत्तौ । तस्या उपायास्तु श्रवणमनन-
योगाभ्यासादयः तन्त्रोक्तकुलाचाराश्च । “जीव-
न्मुक्तावुपायस्तु कुलमार्गो हि नापरः” इति तन्त्रोक्तेः ।

जीवन्मृत त्नि० जीवन्नव मृतः मृततुल्यः । जीवता कर्त्तव्य-

कार्य्यस्याकारणात् मृतसमे आत्मम्भरौ स हि जीवन्नपि
वैश्वदेवातिथिभोजनाद्यन्तरेण आत्मनः पोषणेन नित्यका-
र्य्याकरणात् मृतसमः । अतएवाह दक्षः “जीवन्तो
मृतकाश्चान्ये य आत्मम्भरयो नराः” ।
पृष्ठ ३१३४

जीवपति स्त्री जीवः जीवन् पतिरस्याः सपूर्वत्वात् वा न

न ङीपौ जीवद्भर्त्तृकायां सधवायां “स्त्रीचैतदास्थाय
लभेत सौभगं श्रियं प्रजां जीवपतिर्यशोगुणम्” भाग०
६ । १९ । २० वा कप् जीवपतिकादयोऽप्यत्र ।

जीवपत्नी स्त्री जीवः जीवन् पतिर्यस्याः सपूर्वत्वात् नः ङीप्

च । जीवत्पतिकायां सधवायाम् “ब्राह्मण्याश्च वृद्धायाः
जीवपत्न्याः जीवप्रजाया अगारे एतां रात्रिं वसेत्” ।
“बाचं विसृजेत् जीवपत्नीं प्रजां विन्देयेति” आश्व०
गृ० १ । ७ । २१ । २१ । “तमेतमवेक्षितकृशरं वीरमूर्जवसूः
जीवपत्नीति ब्राह्मण्यो मङ्गल्यादिमिर्वाग्भिरुपासीरन्”
सं० त० गोभिलः ।

जीवपत्रप्रचायिका न० जीवस्य जीवपुत्रकस्य पत्राणि

प्रचीयन्तेऽस्याम् “नित्यं क्रीड़ाजीविकयोः” पा० स० ।
क्रीड़ायां प्र + चि--भावे ण्वुल् । उदीचां क्रीड़ाभेदे ।
“जीवपत्रप्रचायिका उदीचां क्रीड़ा” सि० कौ० । प्राचां
क्रीड़ायां तु पा० स्त्रे प्राचामिति विशेषणात् न षूर्व-
पदस्याप्युदात्तता किन्तु तत्पुरुषे प्रकृतिस्वरः ।

जीवपुत्र पु० जीवः जीबकः पुत्र इव हर्षहेतुत्वात् । (जियाँपोती)

१ वृक्षभेदे । जीवः जीवन् पुत्रो यस्याः । २ जीवसुतायां
स्त्रियां “सा जीवपुत्रा सुभगा भवत्यमरवर्णिनी” हरिवं०
१३८ अ० । जीववत्सादयोऽप्यत्र । “काकवन्ध्या च या नारी
मृतवत्सा च या भवेत् । बह्वपत्या जीववत्सा सा
भवेन्नात्र संशयः” कालीस्तवः । “मृतप्रजा जीबपुत्रा
धनेश्वरी” भाग० ६ । १९ । २१ । ३ तादृशपुरुषे पु० “कच्चित् पुत्रा
जीवपुत्राः सुसम्यक्” भाग० उ० २९ ।

जीवपुत्रक पु० जीवयतीति जीव--क जीबः पुत्र इव हर्ष-

हेतुत्वात् इवार्थे कन् । (जिँआपोती) वृक्षभेदे । शब्दर० ।

जीवपुष्पा स्त्री जीवयतीति जीव--णिच् अच्--जीवं जीवकं

पुष्पं यस्याः । वृहज्जीवन्तीवृक्षे राजनि० । जीवः जन्तुः
पुष्पमिव । २ जन्तुरूपपुष्पे न० । “अस्माकं शिविरे तावन्-
निशिताः शस्त्रपाणयः । शत्रूणां जीवपुष्पाणि
विचिन्वन्तु नगेष्विव” रामा० सु० ४३ अ० ।

जीवप्रिया स्त्री जीवं प्रीणाति प्री--क ६ त० । १ हरीतक्याम् ।

राजनि० । ६ त० । २ जीववल्लभे त्रि० ।

जीवभद्र स्त्री जीवानां भद्रं यस्याः ५ ब० । जीवन्तीलतायां

राजनि० । ६ त० । जीवकुशले न० ।

जीवमन्दिर न० ६ त० । शरीरे राजनि० तस्य जीवभोगा-

यतनत्वात्तथात्वं जीवगृहादयोऽप्यत्र ।

जीवमातृका स्त्री ६ त० । “कुमारी धनदा नन्दा विमला मङ्गला

बला । पद्मा चेति च विख्याताः सप्तैता जीवमातृकाः”
विधानपारिजातोक्ते कुमार्य्यादौ मातृकासप्तके ।

जीवयाज पु० जीवैः पशुभिर्याजः याजनम् यज--णिच्

भावे अच् । पशुभिर्याजने । “जीवयाजं यजते
सोमपादिवः” ऋ० १ । ३१ । १५ । अस्य भाष्ये “याजयतेर्घञ्
णेरनिटीति णिलोपस्याचः परस्मिन्निति स्थानिवद्भावात्
चजीः कुथिण्ण्यतोरिति कुत्वानाव इति” यदुक्तं तत्
प्रामादिकं याजयतेर्हलन्त्वाभावात् घञोऽप्रसक्तेः “एरच्
पा० इवर्णन्तादचः एव प्रसक्ते च ।

जीवयोनि स्त्री जीवा जीवनबती योनिः । सजीवजन्तौ

“तिर्य्यङ्मनुष्यविबुधादिषु जीवयोनिषु” भाग० ३ । ९ । २०

जीवरक्त न० जीवोत्पादकं रक्तम् शाक० त० । स्त्रीणामार्त्तवे

शोणिते तस्य गर्भोत्पादकत्वेन तत्रस्थजीवोत्पादकत्वं
यथाह सुश्रुतः “आर्त्तवं शोणितं त्वाग्नेयमग्नीषोमी-
यत्वादु गर्भस्य, पाञ्चभौतिकञ्चापि जीवरक्तमाहुराचार्य्याः
विस्रता द्रवता रागः स्यन्दनं लघुता तथा । भूम्यादीनां
गुणाह्येते दृश्यन्ते चात्र शोणिते” ।

जीवला स्त्री जीवं जीवनं लाति सेवनात् ला--क । सैंह-

लीलतायां राजनि० ।

जीवलोक पु० जीवानां लोकः भोगसाधनम् । १ संसारे

“माता पिता गुरुजनः स्वजनो ममेति मायोपमे जगति
कस्य भवेत् प्रतिज्ञा । एको यतो व्रजति कर्म पुरःसरो-
ऽयं विश्रामवृक्षसदृशः खलु जीवलोकः । सायं
सायं वासवृक्षं समेताः प्रातः प्रातस्तेन तेन प्रयान्ति ।
त्यक्त्वान्योन्यं तञ्च वृक्षं विहङ्गास्तद्वत् तद्वज्ज्ञातयो
ज्ञातयश्चेति” । ममैवांशो जीवलोके जीवभूतः सनातनः”
गीता । “जीवलोके संसारोपभोगार्थम्” श्रीधरः । कर्म० ।
२ जीवरूपे जने च “महागुणं हरति हि पौरुषेण तदा
वीरोजीवति जीवलोके” भा० व० ३४ अ० । “आलोकमर्कादिव
जीवलोकः” रघुः ।

जीववल्ली स्त्री जीवयतीति जीव--णिच्--अच कर्म० । क्षीर-

काकोल्याम् राजनि० ।

जीववृत्ति स्त्री जीव एव वृत्तिः । पाशुपाल्ये हेमच० ।

तत्र जीवरक्षादिना वैश्यादेर्वृत्तिरिति तस्य तथात्वम् ।
जीवे वृत्तिः स्थितिरस्य । २ जीवनिष्ठे गुणादौ त्रि०
“जीववृत्ती त्विमौ गुणौ” भाषापरिच्छेदकारिका ।
पृष्ठ ३१३५

जीवशाक पु० कर्म्म० । मालवदेशप्रसिद्धे शाकभेदे । “जीव-

शाकः सुमधुरः वृंहणो वस्तिशोधकः । दीपनः पाचनो
बल्यो वृष्यः पित्तापहारकः” राजनि० ।

जीवशुक्ला स्त्री जीवतीति जीवा जीवन्त्येव शुक्ला क्षीर-

काकोल्याम् राजनि० । अन्यस्य पक्वतायामेव शुक्लत्वमस्याः
पुनर्जीवन्त्या एव तथात्वमिति तन्नामता ।

जीवश्रेष्ठा स्त्री जीवाय जीवनाय श्रेष्ठा । ऋद्धिनामौषधौ राजनि० ।

जीवसंज्ञ पु० जीव इति संज्ञाऽस्य । दामवृद्धिवृक्षे राजनि० ।

जीवसाधन न० जिवस्य जीवनस्य साधनम् । धान्ये राजनि० ।

जीवसू स्त्री जीवं जीवन्तं सूते सू--क्विप् । जीवत्पुत्रि-

कायां स्त्रियां हेमच० । “जीवसूर्वीरसूर्भद्रे! बहुसौख्य-
समन्विता” भा० आ० १८९ अ० ।

जीवस्थान न० ६ त० । मर्मणि हला० ।

जीवहीन पु० “षड़क्षरो जीवहीनः” विश्वसारतन्त्रोक्ते

षड़क्षरे मन्त्रे कुमारशब्दे २१०६ पृ० दृश्यम् ।

जीवा स्त्री जीव--अच् जीवयतेरच् वा टाप् ज्या--क्विप्

संप्रसारणे दीर्धः सा अस्त्यस्य वा । १ धनुषो गुणे ज्यायां
२ जीवन्तिकायानौषधौ, ३ वचायां, ४ शिञ्जिते, ५ भूमौ
६ जीवनोपाये च मेदि० जीव--भावे अ टाप् । जीवने
जटा० । धनुराकारक्षेत्रस्य वृत्तस्थोभयरेखावृत्तसंलग्ने
क्षेत्रभेदे तन्मानानयनादिकं लीला० दर्शितं तच्च क्षेत्रशब्दे
२४०३ पृ० दर्शितम् । ग्रहस्पष्टगत्याद्युपपयोगिली
राशिरूपक्षेत्रस्य जीवा तु क्रामज्याशब्दे २३०३ पृ० उक्ता
अधिकं ज्याशब्दे वक्ष्यते ज्योत्पत्तिप्रकारः सि० शि०
उक्तो यथा
“इष्टाङ्गुलव्यासदलेन वृत्तं कार्य्यं दिगङ्गं भलवाङ्कितं
च । ज्यासंख्ययाप्ता नवतेर्लवा ये तदाद्यजीवा धनुरेत-
देव । द्वित्र्यादिनिघ्नं तदनन्तराणां चापे तु दत्त्वोभयतो
दिगङ्कात् । ज्ञेयं तदग्रद्वयबद्धरज्जोरर्धं ज्यकार्धं निखि-
लानि चैवम् । अथान्यथा वा गणितेन वच्मि ज्यार्धानि
तान्येव परिस्फुटानि । त्रिज्याकृविर्दोर्गुणवर्गहीना
मूलं तदीयं खल् कोटिजीवा । दोःकोटिजीवारहिते
त्रिभज्ये तच्छेषके कोटिभुजोत्क्रमज्ये । ज्याचापमध्ये
खलु योऽत्र वाणः सैवोत्क्रमज्या सुधियात्र वेद्या ।
त्रिज्यार्धं राशिज्या तत्कोटिज्या च षष्टिभागानाम् ।
त्रिज्यावर्गार्धपदं शरवेदांशज्यका भवति । त्रिज्याकृतीषु
धातात् त्रिज्याकृतिवर्गपञ्चधातस्य । मूलोनादष्टहृतान्मूलं
षट्त्रिंशदंशज्या । गजहयगजेषु ५८७८ भिघ्नी त्रिभ-
जीवा वाऽयुतेन १०००० संभक्ता । पट्त्रिंशदंशजीवा तत्
कोटिज्याकृतेषूणाम् । त्रिज्याकृतीषुधातान्मूलं त्रिज्यो-
नितं चतुर्भक्तम् । अष्टादशभागानां जीवा स्पष्टा
भवत्येवम् । क्रमोत्क्रमज्याकृतियोगमूलाद्दलं तदर्धांशक-
शिञ्जिनी स्यात् । त्रिज्योत्क्रमज्यानिहतेर्दलस्य मूलं
तदर्धांशकशिञ्जिनी वा । तस्याः पुनस्तद्दलभागकानां
कोटेश्च कोट्यं शदलस्य चैवम् । अन्यज्यकासाधनमुक्तमेवं
पूर्बैः प्रवक्ष्येऽथ बिशिष्टमस्मात् । त्रिज्याभुजज्याहति-
हीनयुक्ते त्रिज्याकृती तद्दलयोः पदे स्तः । भुजोनयुक्त-
त्रिभखण्डयोर्ज्ये कोटिं भुजज्यां परिकल्प्य चैवम् ।
यद्दोर्ज्ययोरन्तरमिष्टयोर्यत्कोटिज्ययोस्तत्कृतियोगमूलम् ।
दलीकृतं स्यादुभुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा ।
दोःकोटिजीवाविवरस्य वर्गो दलीकृतस्तस्य पदेन तुल्या ।
स्यात् कोटिवाह्वोर्विवरार्धजीवा वक्ष्येऽथ मूलग्रहणं
विनापि । दोर्ज्याकृतिर्व्यासदलार्धभक्ता लब्धत्रिमौर्व्यो-
र्विवरेण तुल्या । दोःकोटिभागान्तरशिञ्जिनी स्याज्ज्या-
र्धानि वा कानिचिदेवमत्र । स्वगोऽङ्गेषुषड़शेन (६५६९)
वर्जिता भुजशिञ्जिनी । कोटिज्या दशभिः क्षुण्णा
त्रिसप्तेषु० (५७३) विभाजिता । तदैक्यमग्रजीवा स्यादन्तरं
पूर्वशिञ्जिनी । प्रथमज्या भवेदेव” षष्टिरन्यास्ततस्ततः ।
व्यासार्धेऽष्टगुणाब्ध्यग्नितुल्ये स्युर्नवतिर्ज्यकाः । कोठि-
जीवा शताभ्यस्ता गोदस्ततिथि (१५२९) भाजिता । दोर्ज्या
स्वाऽद्र्यङ्गवेदांश (४६७) हीना तद्योगसंमिता । तदग्रज्या
तयोश्चापि विवरं पूर्वशिञ्जिनी । तत्त्वदस्रा २२५ नगां-
शोना एवमत्राद्यशिञ्जिनी । ज्यापरम्परयैवं वा
चतुर्विंशतिमौर्विकाः । चापयोरिष्टयोर्दोर्ज्ये मिथः-
कोटिज्यकाहते । त्रिज्याभक्ते तयोरैक्यं स्याच्चापैक्यस्य
दोर्ज्यका । चापान्तरस्य जीवा स्यात् तयोरन्तरसंमिता ।
अन्यज्यासाधने सम्यगियं ज्याभावनोदिता । समास-
भावना चैका तथान्यान्तरभावना । आद्यज्याचाप-
भागानां प्रतिभागज्यकाविधिः । या ज्यानुपाततः सेष्ट-
व्यासार्धे परिणाम्यते । आद्यदोःकोटिजीवाभ्यामेर्व
कार्य्या ततो मुहुः । भांवनाः स्युस्तदग्रज्या इष्टे व्यास-
दले स्फुटाः । स्थूलं ज्यानयनं पाठ्यामिह तन्नो०
दितं मया । उक्ता संक्षेपतः पूर्वं ज्योमत्तिः
सुगमा च सा । सविशेषाधुना तत्र विशेषाद्विवृणो-
म्यतः” । तत्र तावदाचार्य्याणां पदवीमित्यादि श्लोकपञ्चकं
पृष्ठ ३१३६
सुगभम् । अत्र गणितेन ज्याज्ञानार्थं मूलमूतज्याचतु-
ष्कसिद्धप्रकारमेवाह । तत्प्रकारो हि बीजगणित-
क्रियया । त्रिज्यार्धं राशिज्येत्यादि । त्रिज्यार्धेन
१७१९ तुल्या त्रिंशदंशानां ज्या भवति । तस्याः
कोटिज्या षष्टिभागानाम् । त्रिज्यावर्गार्धपदं पञ्च-
चत्त्वारिशदंशानां ज्या भवति । अथ त्रिज्यावर्गात्
पञ्चगुणात् त्रिज्याकृतिवर्गपञ्चथातस्य मूलेन हीना-
दष्ट८ हृतात् पदं षट्त्रिंशदंशानां ज्या । अथ वा गज
हयगजेषु ५८७८ निघ्नी त्रिज्याऽयुतेन १०००० भक्ता
षट्त्रिंशदंशानां ज्या स्यात् । इति गणितलाघवम् । तत्
कोटिज्यार्द्धाच्चतुष्पञ्चादंशानां ज्या । तथा त्रिज्यावर्गस्य
पञ्चगुणस्यमूलं त्रिज्याहीनं चतुर्भक्तं सदष्टादशमागानां
ज्या भवति । तत्कोटिज्यार्द्धात् द्विसप्ततिभागानाम् ।
अतोऽन्यथा साधनमाह । क्रमोत्क्रमज्येत्यादि । कोटि-
ज्योना त्रिज्यामुजस्योत्क्रमज्या स्यात् । भुजज्योना
त्रिज्याकोट्युत्क्रमज्या स्यात् । भुजक्रमज्योत्क्रमज्य-
योश्च वर्गयोगपददलं भुजांशानामर्धस्य ज्या स्यात् ।
अथवा त्रिज्योत्क्रमज्याधातदलस्य मूलं तदर्धांशक-
शिञ्जिनी स्यादिति क्रियालाघवम् । एवमुत्पन्नज्याया
अपि कोटिज्या सा तत्कोटिमागानाम् । ततः पुनरेव-
मन्यास्तदर्धांशकज्याः साध्याः । कोटेश्चैवमन्याः ।
तद्यथा । यत्र चतुर्विंशतिर्ज्यास्तत्र त्रिज्यार्धमष्टमं
ज्यार्धम् । तत्कोटिज्या तु षोड़शम् । शरवेदांशज्या
द्वादशम् । अथाष्टमात् तदर्धांशप्रकारेण चतुर्थम् । ४ ।
तत्कोटिज्या विंशम् । २० । एवं चतुर्थात् द्वितीयं २
द्वाविशं च । २२ । द्वितीयादाद्यं २ त्रयोविंशं च २३ ।
विंशतितमाद्दशमं १० चतुर्दशं च १४ । दशमात् पञ्चमम्
५ एकोनविंशं च १९ । द्वाविंशादेकादशं ११ त्रयोदशं
त्त १३ । चतुर्दशात् सप्तमं ७ सप्तदशं च १७ । अथ
द्धादशात् षष्ठ ६ मष्टादशं च १८ । षष्ठात् तृतीयं ३
मेकविशं च २१ । अष्टादशान्नवमं ९ पञ्चदशं च १५ ।
त्रिज्या चतुर्विंशमिति । एवं किल पूर्वैरन्यज्यासाधन-
मुक्तम् । इदानीं विनाप्युत्क्रमज्ययाभिनवप्रकारेणाह ।
त्रिज्याभुजज्याहतीत्यादि । त्रिज्याभुजज्याधातेन
त्रिज्याकृतिरेकत्रोनान्यत्र युता । द्वे चार्धिते । तयोर्मूले ।
आद्यं भुजोनखाङ्कांशानां दलस्य ज्या । द्वितीयं भुजा-
द्यखाङ्कांशानां दलस्यं । एवमतोऽप्यन्याः । तद्यथा ।
अष्टमात् षोड़शं १६ ज्यार्धम् । षोड़शाच्चतुर्थं च विंशं
च ३० । चतुर्थाद्दशमं १० । चतुर्दशं च १४ । एवं
सर्वाण्यपि । प्रकारान्तरमाह । यद्दोर्ज्ययोरन्तरनित्यादि ।
इष्टदोर्ज्ययोर्यदन्तरं कीटिज्ययोश्च यत् तयोर्बर्गैक्यमूलस्य
दलं भुजयोरन्तरार्धस्य ज्या भवति । एवमन्ययोर-
न्यान्याः । यथैका किल चतुर्थीं ४ । अन्याष्टमी ४
दोर्ज्या । ताभ्यां द्वितीया मिध्यति । द्वितीयाचतुर्थीभ्यां
प्रथमेत्यादि । तथा दोःकोटिज्ययोरन्तरवगदलस्य मूलं
दोःकोटिभागान्तरार्धस्य ज्या स्यात । तथाष्टमी च
दीजर्ब्बा । षोड़शी १६ कोटिज्या । ताभ्यां चतुर्थी ८
स्यादित्यादि । अथ मूलग्रहणक्रियया विनापि दोःको-
टिभागान्तरज्य्तानयनमाह । दोर्ज्याकृतिरित्यादि ।
दोर्ज्यावर्गस्त्रिज्यार्धेत भक्तः । तस्य त्रिज्यायाश्च विबरं
दोःकोथन्तरस्य ज्या स्यात् । कानिचिदेबमत्र ज्यार्धानि
साध्यानि । तद्यथा । यत्र किल त्रिंशज्ज्यार्धानि तत्र
त्रिज्यार्धं दशमम् । १० । तत्कोटिज्या विंशतितमम् ।
शरवेदांशज्या पञ्चदशम् । षट्धिं शज्या द्वादशम् ।
तत्कोटिज्याष्टादशं ज्यार्धम् । अष्टादशभागानां ज्या
षष्टम् । ६ । तत्काटिज्या चतुर्विशमिति । क्रमोत्क्रम-
ज्याकृतियोगमूलादित्यादिना पूर्वोक्तप्रकारेण दशमात्
पञ्चमम् । तत्कोटिज्या पञ्चविंशम् । एवं द्वादशात् षष्ठं
चतुर्विंशं च । षष्ठात् तृतीयं सप्तविंशं च । अष्टा-
दशान्नवममेकविंशं च । एतान्येवानेन प्रकारेण सिध्यन्ति
नान्यानि । अत उक्तं कानिचिदेवमत्रेति । यद्दोर्ज्ययो-
रन्तरमित्यादिप्रकारेण । अतोऽत्र पञ्चममेका दोर्ज्या ।
नवममन्या । आम्यां यद्दोर्ज्यायोरन्तरमित्यादिना प्रका-
रेण भुजयोरन्तरार्धस्य ज्योत्पद्यते । तच्च द्वितीयं ज्यार्धम् ।
तत्कोटिज्याष्टाविशम् । आभ्यां कमोत्क्रमज्याकृति-
योगमूलाद्दलमित्यादिप्रकारेणाद्यं चतुर्दशं च । एवमन्या-
श्चतुर्दश सिध्यन्ति । अथ ज्याभावना । सा च द्वेधा ।
एका समासमावना । अन्यान्तरभावना । तदर्थमाह ।
स्वगोङ्गोषुषडंशेनेत्यादि । यत्र किल वसुत्रिवेदाग्नि
३४३८ तुल्या त्रिज्या नवतिश्च ज्यार्धानि तत्र
तावदुच्यते । तत्र मूलभूतज्यानां मध्ये काचनेष्टा भुजज्या
तत्कोटिज्या च पृथक् स्थाप्या । भूजज्या स्वनवषडिषु-
रस ६५६९ विभागेन रहिता कार्य्या । कोटिज्या तु
दशगुणा त्रिसप्तपञ्चभिर्भाज्या । तयोरेक्य तदग्रज्या ।
अन्तरं पूर्वज्या स्यात् । यथा त्रिज्यार्धं त्रिंशत्संख्याकं
३० ज्यार्धम् । ततः समासभावनयैकत्रिंशत्संख्यकम् ।
पृष्ठ ३१३७
सस्माद्द्वात्रिं शत्संख्यमित्यादि । अन्तरभावनया त्वेकोन-
त्रिंशनष्टाविंशमित्यादि । पूर्णं दोर्ज्या कोटिज्यां
त्रिज्यां च प्रकल्प्य प्रथमं खण्डमेवं षष्टिः ६० स्यात् ।
अथ यदि सैव त्रिज्या चतुर्विंशतिर्ज्यार्नि तदर्धमाह ।
कोटिजीवाशताभ्यस्तेत्यादि । अत्रापि त्रिज्यार्धमष्टमं
ज्यार्धं सा भुजज्या । षोड़शं कोटिज्या सा कोटि-
ज्या अतगुणा नोदस्रतिथि (१५२९) भाजिता । या तु
दोज्यां सा तु निजेन सप्ताङ्गवेदांशेन ४६७ हीना कार्य्या ।
यदि तयोरेक्यं क्रियते तदा नवमं ज्यार्धं भवति ।
यद्यन्तरं तदा सप्तमं स्यात् । एवं समासभावनया
नवमाद्दशमं दशमादेकादशमित्यादि । तथान्तरभावनया
सप्तमात् षष्ठं षष्ठात् पञ्चममित्यादि । एवं प्रथमं सप्तांशोनं
तत्त्वदस्र २२५ मितं मवति । अथवा पूर्णं० दिर्ज्यां
त्रिज्यां च कोटिज्यां प्रकल्प्य साध्यते तथापि तदेव ।
ततः समासभावनया द्वितीयादीन्यखिलानि भवन्ति ।
अथ वा त्रिज्यां दोर्ज्यां प्रकल्प्य पूर्णं कोटिज्यां च
प्रकल्प्य साध्यते तदा व्रयोविंशमुत्पद्यते तस्मादन्तर-
भावनया द्वाविंशम् २२ । ततोऽप्येकविंशम् २१ । एवम
खिलान्यपि निष्पद्यन्ते । अथ भवानामाह । चापयो-
रिष्टयोरित्यादि । इष्टयोशापयोर्ये दोर्ज्येते कर्णभूमौ
व्याप्ये । तयोरधस्तात् कोटिज्ये च । ततः प्रथमको-
टिज्या द्वितीयदोर्ज्यया गुण्या । ततो द्वितीयकोटिज्या
प्रथमदोर्ज्यया गुण्या । द्वे अपि त्रिज्यया भाज्ये ।
फलयोः समासश्चापैक्यभुज्यस्य ज्या भवति । अन्तरं
चापान्तरस्य ज्या भवति । इयं सिद्धज्यातोऽन्यज्यासाघने
भावना । तद्यया । तुल्यभावनया प्रथमज्यार्बस्य प्रथम-
ज्यार्धेन सह समासभावनया द्वितीयं, द्वितीयस्य द्वितीये
नैवं चतुर्थमित्यादि । अथातुल्यभावनया द्वितीयतृतीययोः-
समासभावनया पञ्चमम् । अन्तरभावनया प्रथमं स्यादि-
त्यादि । अथेष्टव्यासार्धे ज्याज्ञानार्थमाह । आद्यज्या-
चापमागानामित्यादि । यावद्भिरंशैरेका ज्या लभ्यते ते
आद्यज्याचापांशाः । प्रतिमागज्यकाविधिरिति । त्रिसप्त-
पञ्चभि ५७३ र्भक्तेत्यादिना प्रागुक्तप्रकारेणैकभागस्य
ज्यामानीय तद्भावनातो भागद्वयस्यैवं तेषां भागानां
ज्या साध्या साभीष्टत्रिज्यया हृता वस्वनलाब्धिवह्निभि
३४३८ र्भक्ता प्रथमज्या स्यात् । तस्यास्तयैव सह भाव
नया द्वितीयाद्याः सिध्यन्ति” प्रमिताक्षरा ।

जीवातु पु० जीवयति जीव--णिच् + कर्त्तरि आतुः जीवत्य-

नेन जीव--करणे वा आतु । १ अन्ने २ जीवनौषधे
३ मृतसञ्जीवनौषधे च भावे आतु । ४ जीवने । मेदि० “रे
हस्त! दक्षिण! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज
शूद्रमुनौ कृपाणम्” उत्तरच० । “आर्त्तया पुनर्जीवातवे
न मर्त्तवे” ताण्ड्य० ब्रा० १ । ५ । १८ । जीवितुमिति भाष्योक्तेः
तवेप्रत्ययान्तमित्यन्ये तथा च जीव--तुमर्थे तवे वा०
दीर्घः । न मर्त्तवे इति साहचर्य्यात् जीवितुमित्यर्थकता
तच्च तवेप्रत्ययान्ततयैव सिध्यतीति बोध्यम् ।

जीवातुमत् पु० जीवातु + मतुप् । आयुष्कामेष्टी देवता-

भेदे “आयुष्कामेष्ट्यां जीवातुमन्तौ” आश्व० श्रौ० २ । १० ।
२ । “जीवातुमन्तौ सव्योपर्य्युपस्था” २ । १९ । १६ ।

जीवात्मन् पु० जीवति जीव--अच् कर्म । प्राणसञ्चार-

युक्ते आत्मनि प्राणिनि “संयोगो योग इत्युक्तो जीवा-
त्मपरात्मनोः” योगशा० । जीवात्मन्! पश्य भद्रं ते
मातरं पितरञ्च ते” भाग० ६ । १६ । २ ।

जीवादान न० ६ त० । “अयोगस्तूभ्योराध्मानं परिकर्त्तिका

परिस्रावाः प्रवाहिका हृदयोपसरणमप्रग्रहोऽभियोगो
जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्तीति”
सुश्रुतोक्ते वैद्यनिमित्ते व्यापद्भेदे तच्च वमनविरेचनव्या-
पद्भेदः यथोक्तं तत्रैव ।
“अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः ।
वैद्यातुरनिमित्तं वमनं च पञ्चदशधा व्यापद्यते तत्र
वमनस्याधोगतिरूर्द्धं विरेचनस्येति पृथक् । सामान्यमुभयोः
सावशेषौषधत्वं जीर्णौषधत्वं हीनाधिदोषापहृतत्वं
वातशूलमयोगातियोगौ जीनादानमाध्मानं परिकर्त्तिका
परिस्रावः प्रवाह्छिकाहृदयोपसरणं विबन्ध” इति ।

जीवाधार पु० ६ त० । हृदये हेमच० । “हृद्ययं तस्माद्धृद-

यम्” छा० उ० जीवस्य हृदयाधारत्वोक्तेस्तथात्वम् ।

जीवान्तक पु० जीवमन्तयति अन्ति--नामधा० ण्वुल् । जीवनार्थु

प्राणिनाशके शाकुनिके अमरः २ प्राणिनाशकमात्रे त्रि० ।

जीवार्द्धपिण्डक पु० सूर्यसि० परिभाषिते चक्रस्थराशिकलानां

१८० शतानामष्टमे भागे ३२६ यथाह सू० सि० “राशि-
लिप्ताष्टमो भागः प्रथमं ज्यार्द्धमुच्यते” तत्तद्विभक्ते लब्धो
नमिश्रितं तद् द्वितीयकम् । आद्येनैवं क्रमात् पिण्डान्
भक्त्वा लब्धोनसंयुताः । खण्डकाः स्युश्चतुर्विंशज्ज्यार्द्ध-
पिण्डाः क्रमादमी” । “एकराशिकलानामष्टादशशता-
नामष्टमोऽशस्तत्त्वाश्चिमितः २२५ प्रथममाद्यं ज्यार्द्धं सम्पू
र्णजीवार्द्धपिण्डकः कथ्यते तदभिज्ञैः” रङ्ग० । अत्र
पृष्ठ ३१३८
चक्रार्द्धस्य धनुराकृतित्वात् तत्रोभयपार्श्वस्थरेखासंलग्न-
सरलरेखायाः ज्यारूपत्वात् तस्यार्द्धस्येव लाघवेन शास्त्र-
कारैर्ग्रहणेन तदीयार्द्धस्य पिण्डसंज्ञा कृतेति बोध्यम् ।
ज्यार्द्धपिण्डोऽप्यत्र ।

जीवाला स्त्री जीवमालाति आ + ला--क । सैंहल्यां लतायां राजनि० ।

जीवास्तिकाय पु० अर्हन्मतसिद्धे जिवपदार्थे अर्हच्छब्दे

दृश्यम् । जीवशब्दे चोक्तप्रायः ।

जीविका स्त्री जीव--अ कन् अत इत्त्वम् । १ जीवनोपाये

आजीवते । २ जीवन्तीवृक्षे मेदि० ।

जीवित न० जीव--भावे क्त । १ जीवने प्राणधारणे “जीवित-

नाथो भवेत्तस्याः” सा० द० “नाभिनन्देत मरणं नाभि-
नन्देतजीवितम्” जीवितात्ययमापन्नो योऽन्नमत्ति
यतस्ततः” मनुः । कर्त्तरि क्त । २ जीवनयुक्ते त्रि० । प्राङ्
मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता” रघुः ।

जीवितकाल पु० ६ त० । आयुषि प्राणधारणसमये अमरः ।

जीवितज्ञा स्त्री जीवितस्य जीवनस्य ज्ञा--ज्ञानं यस्या ।

नाड्याम् । राजनि० । तस्याश्चलने हि नरस्य जीवन-
ज्ञानात् तथात्वम् ।

जीवितेश पु० ६ त० । १ प्राणनाथे यमे ३ न्द्रे २ सूर्य्ये च

शब्दरत्ना० । ४ जीवातौ हेमच० । ५ जीवितेश्वरे त्रि० मेदि० ।
“राममन्मथशरेण ताड़िता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुविरचन्दनोक्षिता जीवितेशवसतिं जगाम
सा” रघुः । चन्द्रसूर्य्ययोश्च देहमध्यस्थेड़ापिङ्गला-
नाद्ध्योः स्थित्या प्राणसञ्चारणहेतुत्वात् तथात्वम् ।
“इड़ायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवाकरः” शा०
ति० २५ पटले उक्तम् । इड़ाशब्दे ९३० पृ० दृश्यम्
इड़ाशब्देऽनुक्तत्वात् प्रसङ्गात् इड़ापिङ्गलयोः स्वरू-
पादिकमत्रौच्यते “इड़ा बामे तयोर्षध्ये सुषुम्णा
पिङ्गलापरे” शा० ति० “या वाममुष्कसंबद्धा सा
श्लिष्यति सुषुम्णया । दक्षिणं मुष्कमाश्रित्य धनुर्वक्त्रा
हृदिश्रिता । वामांसजत्वन्तरगा दक्षिणानासिकामि-
यात्” । तथा दक्षिणमुष्कस्था नासयोर्बामरन्ध्रगा “पदा-
र्थादर्शधृतवाक्यम् । तन्त्रान्तरेऽपि “सुषुम्णाकलितापीड़ा-
मुष्कं दक्षिणमाश्रिता । हृद्गता दक्षभागस्य जत्रुमध्यममा-
श्रिता । दक्षिणानासिकाद्वारं प्राप्नोति गिरिजात्मजे! ।
वाममुष्कसमुद्भूता तथाप्ता सव्यनासिकामिति” अनयोः
स्वरूपमुक्तं योगार्णर्वे “इड़ा च शङ्स्वकुब्दाभा
तस्याः सव्ये व्यवस्थिता । पिङ्गलाऽसितरक्ताभा दक्षिणं
पार्श्वमाश्रितेति” “अनेन पिङ्गलेड़योः क्रमेण सूर्य्या-
चन्द्रमसोः स्थितिरुक्ता भवति” पदार्थादर्शः ।

जीविन् त्रि० जीव--णिनि । प्राणधारके प्राणिमात्रे

२ जीवनोपाययुक्ते च । जीविनां दारुणो रोगः
कर्मभोगः शुभाशुभः । भक्तो वैद्यस्तं निहन्ति
हरिभक्तिरसायनात्” ब्र० वै० गणे० ख० । तत्र कालेन जायन्ते
मानवा दीर्घजीविनः” । “शक्तःपरजने दाता स्वजने दुःख-
जीविनः” मनुः । “पश्चात्तु शूद्राः कृषिजीविनिश्च” भूतानां
प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनि” मनुः स्त्रियां
ङीप् “पुरुषायुषजीविन्यो निरातङ्कानिरीतयः । यन्म-
दीयाः प्रजास्तस्य” रघुः ।

जीवेष्टि स्त्री जीवोद्देशिका इष्टिः । वृहस्पतिसवे शब्दार्थचि०

जीवोत्पत्तिवाद पु० जीवस्य सङ्कर्षणाभिघस्योत्पत्तिवादः ।

पाञ्चरात्रवैष्णवसिद्धान्ते जीव्यास्योद्भवसाधने वादे तत्र हि
“ब्रह्मणो वासुदेवाख्याज्जोवः सङ्कर्षणाभिधः । जायते च
मनस्तस्मात् प्रद्युम्नाख्यं ततः पुनः । अहङ्कारोऽनिरुद्धा-
स्यश्चत्वारो विश्वरूपकाः । वासुदेवाराधनाद्यैर्जायते बन्ध-
मोक्षणमिति” । तदेतन्मतं शा० सू० भा० निराकृतं यथा
“उत्पत्त्यसम्भवात्” सू० ।
“येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणम् ईश्वरोऽभि-
मतस्तेषां पक्षः प्रत्याख्यातः, येषां पुनः प्रकृतिश्चाधिष्ठाता
चोभयात्मकं कारणमीश्वरोऽभमतस्तेषां पक्षः पत्याख्या-
यते । श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राक्
निर्द्धारितः प्रकृतिश्चाधिष्ठाता चेति, श्रुत्यनुसारिणी च
स्मृतिः प्रमाणमिति स्थितिः, तत् कस्थ हेतोरेष पक्षः
प्रत्याचिख्यासित इति । उच्यते । यद्यप्येवंजातीयको-
ऽंशः समानत्वान्नविसंवादगोचरो भवत्यस्ति त्वंशान्तरं
विसंवादस्थानमिति, अतस्तत्प्रत्याख्यानायारम्भः । तत्र
भागवता मन्यन्ते भगवानेवैको वासुदेवः निरञ्जन-
ज्ञानस्वरूपः परमार्थतत्त्वं, स चतुर्धाऽऽत्मानं प्रविभज्य
प्रतिष्ठितो वासुदेवव्यूहरूपेण सङ्कर्षणव्यूहरूपेण प्रद्यु-
म्नव्यूहरूपेण अनिरुद्धव्यूहरूपेण च वासुदेवो नाम
परमात्मोच्यते, सङ्कर्षणो नाम जीव, प्रद्युम्नो नाम
मनः, अनिरुद्धो नामाहङ्कारः, तेषां वासुदेवः परा
प्रकृतिः, इतरे सङ्कर्षणादयः कार्य्यं, तमित्थम्भूतं
भगवन्तमभिगमनोपाद्रानेज्यास्वाध्याययोनैर्बर्षशतमिष्ट्रा क्षीण-
क्लेशो भगवन्तमेव प्रतिपद्यत इति । तत्र यत्तावदुच्यते
योऽश्चौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्म
पृष्ठ ३१३९
सर्वात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्यावस्थित इति,
तन्न निराक्रियते, “स एकधा भवति त्रिधा भवति”
इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधा भवस्याधिगतत्वात् ।
यद्यपि भगवतोऽभिगमनादिलक्षणमाराधनम् अजस्रमन-
न्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिध्यते श्रुतिस्मृत्यो-
रीश्वरप्रणिधानस्य प्रसिद्धत्वात् । यत् पुनरिदमुच्यते
वासुदेवात् सङ्कर्षण उत्पद्यते सङ्कर्षणाच्च प्रद्युम्नः, प्रद्युम्ना-
च्चानिरुद्ध इति । अत्र ब्रूमः, न वासुदेवसंज्ञकात्
परमात्मनः सङ्कर्षणसंज्ञस्य जीवस्योत्पत्तिः सम्भवति,
अनित्यत्वादिदोषप्रसङ्गात् उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वा-
दयो दोषाः प्रसजेरन, ततश्च नैबास्य भगवत्प्राप्तिमोक्षः
स्यात् कारणाप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् । प्रतिषेधि-
ष्यति चाचार्य्यो जीवम्योग्पतिं “नात्माश्रुतेर्नित्यत्वाच्च”
तस्मादसङ्गतैषा कल्पना” भा० ।
“न च कर्त्तुः करणम्” सू० ।
“इतश्चासङ्गतैषा कल्पना, कस्मान्न हि लोके कर्त्तुर्देव-
दत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते । वर्णयन्ति च
भागवताः “कर्त्त्रर्जीवात् सङ्कर्षणसंज्ञकात् करणं मनः
प्रद्युम्नसंज्ञकमुत्पद्यते कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽह-
ङ्कार उत्पद्यते” इति । न चैतद्दृष्टान्तमन्तरेणाध्यवसातुं
शक्नुमः । न चैवम्भूतां श्रुतिमुपलमामहे” भा० ।
“विज्ञानादिभावे वा तदप्रतिषेधः” सू० ।
“अथापि स्यान्न चैते सङ्कर्षणादयो जीवादिभावेनाभि-
प्रेयन्ते किं तर्हि ईश्वरा एवैते सर्वे ज्ञानैश्वर्य्यशक्तिबल-
वीर्य्यतेजोऽभिरैश्वर्य्यधर्मैरन्विता अभ्युपगम्यन्ते वासुदेवा
एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति, तस्मा-
न्नायं यथावणितं उत्पत्त्यसम्भवो दोषः प्राप्नोतीति ।
अत्रोच्यते, एवमपि तदप्रतिषेध उत्पत्त्यसम्भवस्याप्रतिषेधः
प्राप्नोत्येव, अयमुत्पत्त्यसम्भवो दोषः प्रकारान्तरेणेत्यभि-
प्रायः, कथं यदि तावदयंमभिप्रायः परस्परभिन्ना एवैते
वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्व
मस्तीति, ततोऽनेकेश्वररुल्पनानर्थक्यम्, एकेनैवेश्वरेणेश्वर-
कार्य्यसिद्धेः । सिद्धान्तहानिश्च भगवानेको वासुदेवः
परमार्थतत्त्वमित्यभ्युपगमात् । अथायमभिप्रायः
एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति,
तथापि तदवस्थ एवोत्पत्त्यसम्भवः । न हि वासुदेवात्
सङ्कर्षणस्योत्पत्तिः सम्भबति सङ्कषेणाच्च प्रद्युम्नस्य, प्रद्यु-
म्नाच्चानिरुद्धस्य, अतिशयाभावात् । भवितव्यं हि
कार्य्यकारणयोरतिशयेन यथा मृद्घटयोः । न ह्यसत्यति-
शये कार्य्यं कारणमित्यवकल्पते न च पञ्चरात्रसिद्धान्ति-
भिर्वासुदेवादिषु एकैकस्मिन् सर्वेषु वा ज्ञानैश्वर्य्यादितारत-
म्यकृतः कश्चिद्भेदोऽभ्यु पगम्यते, वासुदेवा एव हि सर्वे
व्यूहा निर्विशेषा इष्यन्ते । न चैते भगवद्व्यूहाश्चतुः-
सङ्ख्या, ब्रह्नादिस्तम्बपर्य्यन्तस्य समस्तस्यैव जगतो भगवद्-
व्यूहत्वावगमात्” भा० ।
“विप्रतिषेधाच्च” सू० ।
“विप्रतिषेधश्चास्मिन् शास्त्रे बहुविध उपलभ्यते
गुणगुणित्वकल्पनादिलक्षणः । ज्ञानैश्वर्य्यशक्तिबलववीर्यते-
जांसि गुणाः आत्मान ऐवैते भगवन्तो वासुदेवा इत्यादि-
दर्शनात् । वेदविप्रतिषेधश्च भवति चतुर्षु वेदेषुपरं श्रेयो-
ऽलब्द्ध्वा शाण्डिल्य इदं शास्त्रम् अधिगतवान् इत्यादि-
वेदनिन्दादर्शनात्, तस्मादसङ्गतषा कल्पनेति सिद्धम्” भा०
जीवस्य वास्तविकोत्पत्तिनिराकरणेन तस्य भाक्तोत्पत्ति-
मत्त्वं तत्रैव २ अ० । ३ पादे समर्थितं यथा
“चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भाव-
भावित्वात्” सू०
“स्तो जीवस्याप्युत्पत्तिप्रलयौ जातो देवदत्तो मृतो
देवदत्त इत्येवं जातीयकाल्लौकिकव्यपदेशाज्जातकर्मादि-
संस्कारविधांनाच्चेति स्यात् कस्यचिद्भ्रान्तिः, तामपनु-
दामः, न जीवस्योत्पत्तिप्रलयौ स्तः शास्त्रफलसम्बन्धोप-
पत्तेः । शरीरानुविनाशिनि हि जीवे शरीरान्तर-
गतेष्टानिष्टाप्राप्तिपरिहारार्थौ विधिप्रतिषेधावक्नर्थकौ
स्याताम् । श्रूयते च “जीवापेतं वाव किलेद
म्रियते न जीवो म्रियते” इति । ननु लौकिक-
जन्ममरणव्यपदेशो जीवस्य दर्शितः सत्यं दर्शितं,
भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः, किमाश्रयः
पुनरयं मुख्यो यदपेक्षया भाक्त इति, उच्यते ।
चराचरव्यपाश्रयः । स्थावरजङ्गमशरीरविषयौ जन्ममर-
णशब्दौ, स्थावरजङ्गमानि हि भूतानि जायन्ते
च म्रियन्ते चातस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ
सन्तौ तत्स्थे जीवात्मन्युपचर्येते तद्भावभावित्वात् ।
शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ
भवतः नासतोः । नहि शरीरसम्बन्धादन्यत्र जीवो
जातो मृतो वा केनचिदुपलक्ष्यते । “स वा अय
पुरुषो जायमानः शरीरमभिसम्पद्यमानः स उत्क्रा-
मन् म्रियमाण” इति च शरीरसंयोगवियोगनिमित्तावेव
पृष्ठ ३१४०
जन्ममरणशब्दौ दर्शयति । जातकर्मादिविधानमपि
देहप्रादुर्भावापेक्षमेव द्रष्टव्यम्, अभावाज्जीवप्रादुर्भावस्य ।
जीवस्य परस्मादात्मनः उत्पत्तिर्वियदादीनामिवास्ति
नास्ति येत्येतदुत्तरेण सूत्रेण वक्ष्यति । देहाश्रयौ
तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्तः इत्येतदनेन
सूत्रेणावोच्यते” भा० ।
“नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः” सू० ।
“अस्त्यात्मा जिवाख्यः शरोरेन्द्रियपञ्जराध्यक्षः कर्मफल-
सम्बन्धी, स किं व्योमादिवदेवोत्पद्यते ब्रह्मण
आहोस्विदुब्रह्मवदेव नोत्पद्यते इति श्रुतिविप्रतिपत्तेर्विशयः
कासुचिच्छ्रुतिष्वग्निविष्फुलिङ्गादिनिदर्शनैर्जीवात्मनः
परस्मात् ब्रह्मण उत्पत्तिराम्नायते कासुचित्त्वविकृतस्यैव
परस्य ब्रह्मणः कार्यप्रबेशेन जीवभावो विज्ञायते न
चोत्पत्तिराम्नायत इति । तत्र प्राप्नं तायदुत्पद्यते
जीव इति कुतः प्रतिज्ञानुपरोधात् । (एकस्मिन्
विदिते सर्बमिदं विदितम्) इतीयं प्रतिज्ञा सर्वस्य वस्तु-
जातस्य ब्रह्मप्रवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वे
तु जीवस्य प्रतिज्ञेयमुपरुध्येत । न चाविकृतः परमा-
त्मैव जीव इति शक्यते विज्ञातुं, लक्षणभेदात् ।
अपहतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि
जीवः, विभागाच्चास्य विकारात्मसिद्धिः । यावान् हि
आकाशादिः प्रविभक्तः सर्वो विकारः, तस्य चाकाशादे-
रुत्पत्तिः समधिगता जीवात्मापि पुण्यापुण्यकर्मा
सुखदुःखभाक् प्रतिशरीरं विभक्त इति तस्यापि प्रपञ्चोत्-
पत्त्यवसरे उत्पत्तिर्भवितुमर्हति” भा०
अपि च “यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्ये-
वमेवास्मादात्मनः सर्वे प्राणाः” इति प्राणादेर्भोग्य-
जातस्य सृष्टिं शिष्ट्वा सर्वे एते आत्मानो व्युच्चरन्तीति
भोक्तॄणामात्मनां पृथक् सृष्टिं शास्ति । “यथा
सुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ति
स्यरूपास्तथाक्षराद्विविधाः सोम्य! भावाः प्रजायन्ते तत्र
चैवापियन्ति” इति च जीवात्मनामुत्पत्तिप्रलयाबुच्येते
सरूपवचनात् । जीवात्मानो हि परमात्मना सरूपा
भवन्ति चैतन्ययोगात् । न च क्वचिदश्रवणमन्यत्र श्रुतं
वारयितुमर्हति, श्रुत्यन्तरगतस्यापि अविरुद्धस्याधिकस्या-
र्थस्य सर्वत्रोपसहर्त्तंव्यत्वात् । प्रवेशश्रतिरम्येवं सति
विकारभावापत्त्यैव व्याख्यातव्या “तदात्मानं स्वयम-
कृरुत” इत्यादिवत् तस्मादुत्पद्यते जिव इत्येवं प्राप्ते
ब्रूमः, नात्मा जीव उत्पद्यत इति कस्मादश्रुतेः,
न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयस्सु प्रदेशेषु ।
ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयतीत्युक्तं, सत्य-
मुक्तं उत्पत्तिरेव त्वस्य न सम्भवतीति वदामः । कस्मात्
नित्यस्वाच्च ताभ्यः । चशब्दादजत्वादिभ्यश्च । नित्यत्व
ह्यस्य श्रतिभ्योऽधिगम्यते, तथाजत्वमविकारित्वमविकृत-
स्यैव ब्रह्मणो जीवात्मनावस्थान ब्रह्मात्मता चेति । न
चैवंरूपस्यात्पात्तरुपपद्यते, ताः काः श्रुतयः “न जीवो
म्रियते” “स वा एष महानजः” “आत्माऽजरोऽमृतोऽभयो
ब्रह्म” “न जायते म्रियाते वा विपश्चित्” अजो नित्यः
शाश्वतोऽयं पुराणः” “तत् सृष्ट्वा तदेवानुप्राविशत्”
“अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याकरवाणि
“स एष इह प्रविष्ट आनखाग्रेभ्य” “तत्त्वमसि” “अहं
ब्रह्मास्मि” “अयमात्मा ब्रह्म सर्वानुभूः” इत्येबमाद्या
नित्यत्ववादिन्यः सत्यो जीवस्योत्पत्तिं प्रतिवध्मन्ति ।
ननु प्रविभक्तत्वाद्विकारो विकारत्वाच्चोत्पद्यते इत्युक्त
अत्रोच्यते, नास्य प्रबिभागः स्वतोऽस्ति, “एको देवः
सर्वभूतेषु गूढ़ः सर्वव्यापी सर्वभूतान्तरात्मा” इति श्रुतेः,
बुद्ध्याद्युपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव
घटादिसम्बन्धनिमित्तम् । तथा च शास्त्रम् “स वा
अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षु-
र्मयः श्रोत्रमयः” इत्येवमादि ब्रह्मण एवाविकृतस्य
सतोऽस्यैकानेकबुद्ध्यादिमयत्वं दर्शयति । तन्मयत्वञ्चास्य
तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो
जाल्म इत्यादिवदुद्रष्टव्यम् । यदपि क्वचिदस्योत्पत्ति-
प्रलयश्रवणं तदप्यत एवोपाधिसम्बन्धान्ने तव्यम्, उपाध्यु-
त्प्रत्तौ चास्योत्पत्तिस्तत्प्रलये च प्रलय इति । तथा
च दर्शयति “प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय
तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति” इति ।
तथोपाधिप्रलय एवायं नात्मप्रलय इत्य तदपि, अत्रैव “मा
भगवान्मोहमापीपदन्न वा अहमिमं विजानामि न
प्रेत्य संज्ञास्ति” इति प्रश्नपुर्वकंप्रतिपादयति, “न वा अरे
अह ब्रवीम्यविनाशी वा अरऽयमात्मानुच्छित्तिधर्मा
मात्मासंसर्गस्त्वस्य भवति” इति । प्रतिज्ञानुपरोधोऽप्यविकृ-
तस्यैव ब्रह्मणो जीवभावाभ्युपगमात् । लक्षणभेदोऽप्यन-
योरुपाधिनिमित्त एव । अत ऊर्द्ध्वं विमोक्षायैव ब्रूहीति
च प्रकृतस्य व विज्ञानमयस्यात्मनः सर्वसं सारधर्मप्रत्याख्या-
नेन परमात्मभावप्रतिपादनात् । यस्मान्नैवोत्पद्यते प्रवि-
लीयते वेति” शारीरकसूत्रभाष्ये शङ्कराचार्य्यः ।
पृष्ठ ३१४१

जीवोपाधि पु० ६ त० । १ स्वप्नसुषुप्तिजाग्रदवस्थासु । त्रयो

हि जीवस्योपाधयः । तत्र सुषुप्तौ बुद्ध्यादिसंस्कार-
वासितमज्ञानमात्रमुपाधिः । स्वप्ने जाग्रद्वासनामयं
लिङ्गशरीरमुपाधिः । जाग्रदवस्थायां सूक्ष्मशरीरसं-
सृष्टं स्थूलशरीरमुपाधिरिति तत्तदुपाध्युपलक्षितसुषु-
प्त्यादेरप्युपाधित्वम् । “कार्य्योपाधिरयं जीवः कारणी-
पाधिरीश्वर” इत्युक्तेः अज्ञानस्य २ व्यष्टिशक्तिभेदे च
तस्यास्तु समष्ट्यज्ञानकार्य्यत्वात् तदभिप्रायेणैव “मायो-
पाधिरयं जीवोह्यविद्योपाधिरीश्वरः” इत्यादौ मायावि-
द्ययोरभेदेऽपि भेदनिर्देशः ।

जीवोर्णा स्त्री ६ त० । जीवतो मेषादेरामणि “पवित्रम-

स्मिन् करोति शुक्लं जीवोर्णानाम्” कात्या० श्रौ० ९ ।
२ । १६ । “जीवन्मेषरोमनिर्म्मितसूत्रनिर्म्मितम्” कर्कः ।

जीव्या स्त्री जीवाय हिता यत् । १ हरीतक्याम् २ जीवन्त्यां

३ गोक्षुरदुग्धायाञ्च राजनि० ४ जीवनोपाये त्रि० जीव्यो-
पायं तु भगवान् मम किञ्चित् करोतु सः” हरिवं०
२६३ अ० ।

जु रंहसि भ्वा० पर० अक० अनिट् । जवति । अजौषीत् ।

जुजाव । जवः जवनः । णिचि जावयति ते
अजीजवत् त ततः सनि० जिजावयिषति । अस्य परस्मैपदित्वं
गतिकर्म्मत्वञ्चनिघण्टूक्तम् “जयति जवति” इत्युप-
क्रमे इत्येते गतिकर्माण इत्युक्तेः । वेदे गणव्यत्यासः
“वृष्टिं ये विश्वे मरुतो जुनन्ति” ऋ० ५ । ५८ । ३ । “येन
न पातमपां जुनाम” १ । १८६ । ५ । अयं धातुः ऋ०
भाष्ये सौत्र इति माधवः । दीर्घान्तोऽपि । “वातो न
जूतः स्तनयद्भि रभ्वैः” ऋ० ४ । १७ । १२ ।

जु गतौ सौ० आत्म० सक० अनिट् । जवते । अजोष्ट ।

जुजुवे । “यद्वि मनसा जवते तद्वाचा वदति” तैत्ति०
स० ६ । १ । ७ । २ ।

जुग त्यागे भ्वा० पर० सक० सेट् इदित् । जुङ्गति । अजुङ्गीत्

जुजुङ्ग । कर्म्मणि इदित्त्वात् जुङ्ग्यते ।

जुगुप्सन न० गुप--निन्दायां स्वार्थे सन्--भावे ल्युट् ।

१ निन्दने अमरः । कर्त्तरि युच् । २ निन्दाशीले
त्रि० ।

जुगुप्सा स्त्री गुप--निन्दायां स्वार्थे सन्--भावे अ टाप् ।

निन्दायाम् अमरः । सा च वीभत्सरसस्य स्थायिभावः
शान्तरसव्यभिचारिभावश्च । यथोक्तं सा० द० “अवि-
रुद्धा विरुंद्धा वा यं तिरोधातुमक्षमाः । आस्वादाङ्क्रर-
कन्दोऽसौ भावः स्थायीति सम्मतः । रतिर्हासश्च
शोकश्च क्रोधीत्साहौ भयं तथा । जगुप्सा बिस्मयश्चेत्थ-
मष्टौ प्रोक्ताः शमाऽपि च “रसभेदे स्थायिभावभेदानुक्त्वा
“दोषेक्षणादिभिर्गर्हा जुगुप्सा विप्नयोद्भवा ता लक्ष-
यित्वा “शृङ्गारवीरयोर्हासोवीरे क्रोधस्तथ मतः ।
शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः”
देहजुगुप्सा च शौचकार्य्यं यथोक्तं पात० सू० भा०
“शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः” सू० “साङ्गे
जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभि-
ष्वङ्गी भवति किञ्च परैरसं सर्गः कायस्वभावावलोकी
स्वमपि कायं जिहासुर्मृज्जलादिमिराक्षालयन्नपि
कायशुद्धिमपश्यन् कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्यते”
भा० । देहे जुगुप्साया वैराग्यं भवति । तस्य निन्द-
नीयत्वे हेतुः विवेकचूड़ामणावुक्तो यथा “मज्जास्थिमेदः-
पलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादीरुवक्षो
भुजपृष्ठमस्तकैरङ्गैरुपाङ्गैरुपयुक्तमेतत्” । याज्ञवल्क्येन
तु देहसंस्थितिमुपवर्ण्य “इत्येतदस्थिरं वर्ष्म यस्य
मोक्षाय कृत्यसौ” इत्युक्तं व्याख्यातं च मिता०
“इतीवृशमस्थिस्नाय्वाद्यारव्धमेतदशुचिनिधानं वर्ष्मास्थि-
रमिति यस्य वुद्धिरसौ कृती पण्डितो मोक्षाय समर्थो
भवति वैराग्यस्य नित्यानित्यविवेकयोर्मोक्षोपायत्वात्
अस्थिमूत्रपुरीषादिप्राचुर्य्यज्ञानस्य वैराग्यहेतुत्वात् अत
एव व्यासः “सर्वाशुचिनिधानस्य कृतघ्नस्यविनाशिनः ।
शरीरकस्यापि कृते मूढ़ाः पापानि कुर्वते । यदि नामास्य
कायस्य यदन्तस्तद्यहिर्भवेत् । दण्डमादाय लोकोऽयं
शुनः काकांश्च वारयेदिति” । तस्मादीदृशकुत्सितशरीर-
स्यात्यन्तिकविनिवृत्त्यर्थमात्मोपासने प्रयतितव्यम्” ।

जुगुर्वणि त्रि० गॄ--स्तुतौ यङ्लुकि क्विपि वेदे नि०

वनसंभक्तौ इन्--णत्वम् ६ त० । स्तोतॄणां संभक्तरि । “मन्द्र-
जिह्वा जुगुर्वणी” ऋ० १ । १४२ । ८ ।

जुङ्ग पु० जुगि--अच् । वृद्धदारकवृक्षे अमरः । ण्वुल् । जुङ्गक तत्रार्थे पु० । राजनि० ।

जुङ्गा स्त्री जुगि--अच् । वृद्धदारकवृक्षे रमानाथः ।

जुटक न० जट--संहतौ अच् संज्ञायां कन् पृषो० । जटायां

शब्दर० ।

जुटिका स्त्री जट--संहतौ बा० क्वुन् पृषो० । (झुँटी) ख्याते शिखाभेदे शब्दर० ।

जुड प्रेरणे चु० उभ० सक० सेट् । जीडयति ते अजूजुड़त् त ।

जुड बन्धे (जोड़ादेअओया) । तुदा० कुटा०पर० सेट् । जुड़ति

अजुड़ीत् जुजोड । घञि जुडः ।
पृष्ठ ३१४२

जुड गतौ तु० पर० सक० सेट् । जुडति अतोडीत् । जुजोट । धञि जोडः ।

जुत दीप्तौ भ्वा० आत्म० अक० सेट् । जोतते अजोतिष्ट ।

जुजुते । ऋदित् अजुजोतत् ।

जुन गतौ तु० पर० सक० सेट् । जुनति अजोनात् । जुजोन ।

जुम्बक पु० वरुणे “पृथिवीं तृचा जुम्बकाय स्वाहा” यजु०

२५ । ९ । “जुम्बकाय वरुणाय” वेददी० “प्रत्येव तिष्ठति
जुम्बकाय स्वाहेत्यबभृथ उत्तप्तामाहुतिं जुहोति धरुणो
वै जुम्बकः” शत० व्रा० १२ । ३ । ६ । ५ ।

जुर्व पु० बधे भ्वा० पर० सश० सेट् । जुर्वति अजूर्वीत् । जूर्त्तः

जूर्त्तिः । क्विपि जूः ।

जुल पेषणे चु० उभ० सक० सेट् । जोलयति ते अजूजुलत् त

जुवस त्रि० सो० जु--बा० अमुन् किच्च । वेगवति । “आ नः

सोमः सहो जुवो रूपम्” ऋ० ९ । ६५ । १८ ।

जुष तृतौ अक० तर्के सक० वा चु० उभ०षक्षे भ्वा० पर० सेट् ।

जोषयति ते जोषति अजूजुषत् त अजोषीत् ।

जुष हर्षे अक० सेवायां सक० तुदा० आ० सेट् । जुषते

अजोषिष्ट जुजुषे जुषमाणाः । ईदित् । जुष्टः । ञीत्
वर्त्तमाने क्त । जुष्टः । “पौलस्त्योऽजुषतशुचं विपन्न-
बन्धुः” भट्टिः “यत्र देवासो अजुषन्त विश्वे” यजु०
४ । १ । “इन्द्र! जुषस्व प्रवह” अथ० २ । ५ । १ । “अजा-
मेकाम्--अजोह्येत्येको जुषमाणोऽनुशेते” श्वेताश्वतंरोप० ।
“एषैव बुद्धिर्जुषतां सदात्मनाम्” भा० व० १२५९६ श्लो० ।
“सत्वं जुषाणाय भवाय देहिनात्” भाग० ८ । ५ । २३ ।
“परजुष्टनयान्निवर्त्तमानः” दीधितिः । आर्षे गणव्य
त्यसात् अददित्वम् । “देवा नाश्रद्दधानाद्दिहविर्जुषन्ति”
भा० व० १२७३ । आर्षत्वात् पदव्यत्ययः । “पारिजातगुणान्
मर्त्या जुषन्ति यदि नारद! । देवानां मानुषाणां च न
विशेषो भविष्यति” हरिवं० ७२७२ । लेटि जोजिषत्
“सुपेशसस्करति जोजिषद्धि” ऋ० २ । ३५ । १ “जुषी
प्रीतिसेवनयोः लेट्यडागमः । विकरणः सिप् । इड़ा-
गमश्च” भा० । प्राद्य पसर्गपूर्वकस्य प्रादिद्योत्यतत्तदर्थयुक्ते
सेवनादौ ।

जुष्कक पु० जुष--कक् ततः संज्ञायां कन् । यूषे शब्दच० ।

जुष्ट न० जुष--कर्म्मणि क्त । १ उच्छिष्टे । २ सेविते त्रि० मेदि०

“परजुष्टनयान्निवर्त्तमानः” दीधितिः । “पुण्यो महाब्रह्म-
समूहजुथः” भट्टिः ।

जुष्य त्रि० जुष--कर्म्मणि क्यप् । १ सेव्ये भावे क्यप् । २ अवश्य सेवने न० ।

जुहुराण पु० । हुर्च्छ--सन्--आनच सनो लुक् छलोपश्च ।

१ चन्द्रे पु० उज्ज्वल० । २ कौटिल्यकारिणि त्रि० । “युयो-
ध्यस्मज्जुहुराणमेनः” वृ० उ० । “जुहुराणं कुटिल-
कारिणम्” भाष्यम् ।

जुहुवान पु० हु--कर्म्मणि कानच् । १ अग्नौ २ वृक्षे च ।

संक्षिप्तसारे कठिनहृदये इत्युक्तिः रमध्यस्यैव तदर्थता
हूर्च्छेस्तद्रूपसिद्धेस्तदर्थतौचित्यात् अतस्तत्र लिपिकर-
प्रमादात् जुहुवान इत्यपपाठः जुहुराण इत्येव पाठः
समुचितः ।

जुहू स्त्री जुहोत्यनया हु--क्विप् नि० द्वित्वं दीर्घश्च । यज्ञिये

स्रुगाख्ये पात्रमेदे सा च पलाशघटिता” “पालाशी जुहूः”
कात्या० श्रौ० १ । ३ । ३४ । “जुहोत्यनया जुहूः स्रुक्
सा च पालाशी पलाशवृक्षकाष्ठनिर्म्मिता” कर्कः । “यस्य
पर्णमयी जुहूर्मवति न स पापं श्लोकं शृणोति” श्रुतिः ।
“पर्णमयी पलाशकाष्ठमयीत्यर्थः” । एषा चानारभ्याधी-
ताऽपि प्रकृत्यर्था यथोक्तं ताण्ड्य० ब्रा० ।
“अनारभ्याधीतानां प्रकृतिगामित्वमिति न्यायेन
क्रत्वङ्गत्वावगमात् । स च न्यायस्तृतीयाध्याये षष्ठापादस्य
प्रथमाधिकरणे पर्णवाक्यमुदाहृत्याभिहितः । “प्रकृतौ
विकृतौ वा साद्यस्य पर्णेत्यसौ विधिः । प्रकृतेरेव वा
तुल्याद्वचनादुभयोरसौ । जुहूमाश्रित्य पर्णत्वविधिः
प्रकृतिमात्रगः । चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्र
किम्” । अनारभ्य श्रूयते “यस्य पर्णमयी जुहूर्भवति न स
पापश्लोकं शृणोतीति” । तत्राव्यभिचरितक्रतुसम्बन्ध-
वतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते ।
या जुहूः सा पर्णमयीति वाक्यञ्च प्रकृतिविकृत्योम्तुल्य-
मेव प्रवर्त्तते उभयत्राश्रयभूताया जुह्वाः सत्त्वात् ।
तस्मात् प्रकृतिविछत्योरुभयोरप्ययं विधिरिति प्राप्ते,
ब्रूमः किमयं विधिर्विकृतौ चोदकात् पूर्वन्निविशते
पश्चाद्वा । नाद्यः, आश्रयभूताया जुह्वाः चोदकमन्त-
रेणासम्भवात् । द्वितीये तु पर्णत्वमपि जुह्वा सहैव
चोदकेनातिदिश्यते, तत्र पुनर्विधिवैयर्थ्यादयं विधिः
प्रकृतिमात्रगः” । जुहोत्यस्यां दिशि--आधारे क्विप् ।
२ प्राग्देशे प्राङ्मुखतयैव होमकरणात् तस्यास्तथात्वम् ।

जुहूरा(वा)ण पु० जुहूं र(व)णति र(वण--अण् । १ अस्ध्वर्य्यै ।

२ अग्नौ । ३ चन्द्रे विश्वः ।

जुहूवत् पु० जुहूपात्रं होमोद्देश्यतयास्त्यश्य मतुप् वा० मस्य वः । अग्नौ शब्दर० ।

पृष्ठ ३१४३

जुहोति स्त्री जु--धात्वर्थनिर्द्देशे श्तिप् । होमभेदे “यजति

जुहोतीनां कोविशेषः” कात्या० श्रौ० १ । २ । ५ । इति
प्रश्ने यजतिलक्षणमुक्त्वा “उपविष्टहोमाः स्वाहा-
कारप्रदाना जुहोतयः” १ । २ । ७ इति लक्षितम् । “उपवि-
ष्टेन कर्त्त्रा होमो येषु त उपविष्टहोमाः स्वाहाकारेण
प्रदानं येषु ते स्वाहाकरप्रदानाः य उपविष्टहोमाः
स्वाहाकारप्रदानाश्च ते जुहोतयः इत्युच्यन्ते” कर्कः
अतोऽस्य पुंस्त्वमेव स्त्रीत्वोक्तिः प्रामादिकी । “क्षरन्ति
सर्वा बैदिक्यो जुहोतियजतिक्रियाः” मनुः ।

जुह्वास्य पु० जुहूरास्यमिवास्थ । होमीयवह्नौ । “हव्यवाहो

जुह्वास्यः” ऋ० १ । १२ । ६ ।

जू गतौ सौत्र० सक० प० सेट् । जवति अजावीत् जुजाव । जूतः ।

जू स्त्री सौ० जू--गतौ यथायथं कर्त्तृ भावादौ क्विप् । १ आकाशे

२ सरस्वत्यां ३ पिशाच्यां च ४ जवने शब्दरत्ना० ५ जबयुक्ते
त्रि० विश्वः । ६ त्वरागमने ७ गमने च स्त्री मेदि० ।

जूट पु० जट--संहतौ अच्--पृषो० । १ जटासंहतौ बन्धे २

जटायाम् शब्दार्थचि० । “जटाजूटसमायुक्तामर्द्धेन्दुकृतशेख-
राम्” दुर्गाध्यानम् । “भूतेशस्य भुजङ्गबल्लिवलवस्रङ्-
नद्धजूटाजटाः” मालतीमा० । स्वार्थे क तत्रार्थे ।

जूत त्रि० सौ० जू--क्त । १ गते २ आकृष्टे च । “रथो ह वा

मृतजात्यभिजूतः” ऋ० ३ । ५ । ८ । ८ । “अभिजूतः स्तोतृ-
भिराकृष्टः” भा० । ३ दक्षे च “युवं श्वेतं पेदव इन्द्रजूतम्”
ऋ० १ । ११८ । ९ । “इन्द्रजूतं इन्द्रेण जूतं दत्तम्” भा० ।

जूति स्त्री जु--रंहसि भावे क्तिन् सातिहेतीत्यादिना नि० ।

१ वेगे अमरः । “उत स्मास्य पलयन्ति जना जूतिं कृष्टि-
प्रो अभिभूतिमाशाः” ऋ० ४ । ३८ । ९ “मनो जूतिर्जुषता
माज्यस्य” यजु० २ । १६ । “जूतिः जवतेर्गतिकर्मणाः”
वेददी० । अत्र मनो ज्योतिः इति पाठः प्रामादिकः ।
नेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः” ऐ० उ०
“जूतिश्चेतसो रुजादिदुःखित्वाभावः” २ भाष्योक्ताऽर्थेच ।

जूतिका स्त्री जूत्या कायति कै--क । कर्पूरभेदे राजनि० ।

जूर वयोहानौ अक० बधे सक० दिवा० आत्म० सेट् । जूर्य्यते

अजूरिष्ट । ईदित् । जूर्णः । कोपे च “इच्छाविभङ्गा-
कुलमानसत्वात् भर्त्त्रे नखेम्यश्च चिरं जुजूरे” भट्टिः ।

जूर्ण पु० जूर--क्त । (उलुखड़) तृणभेदे रत्नमालायां

जूर्णाख्येति तत्पर्य्याये निर्द्देशात् तस्य तथात्वम् । जूर्णेति
आख्या यस्य जुर्णाख्योऽप्यत्र ।

जूर्णाह्वय पु० जूर्णमाह्वयते काण्डेन स्पर्द्धते आ + ह्वे--बा०

श । देवधान्ये (देधान) हेमच० ।

जूर्णि स्त्री ज्वर--रोगेनि० जट् जूर--वेगे वा नि० । १ स्त्रीरोगे

२ वेगे । ३ आदित्ये ४ देहे ५ ब्रह्मणि च संक्षि० उणा० । जूर
कोपे नि० । ६ क्रोधे निघण्टुः निरुक्ते ६ । ४ । ३ । “अस्यानि-
रुक्तिरन्या दर्शिता “जूर्णिर्जवतेर्वा द्रवतेर्वा दुनोतेर्वा” तत्र
पृषो० । तेन ७ वेगयुते ८ द्रवयुते ९ तपके च । “क्षिप्ता
जूर्णिर्न वक्षति” ऋ० १ । १२९ । ८ । “जूर्णिर्वेगवती सेना” भा० ।
१० स्तुतिकुशले च । “ऋषुणां जूर्णिर्होत्र ऋषूणाम्”
ऋ० १ । १२७ । १० । “जूर्णिः स्तुतिकुशलः” भा० ।

जूर्त्ति स्त्री ज्वर--भावे क्तिन् ऊठ् । ज्वरे ।

जूर्य्य त्रि० जूर--कर्त्तरि बा० ण्यत् । १ जीर्णे “रण्वः पुरीव

जूर्य्यः” ऋ० ६ । २ । ७ । “जूर्य्यः जीर्णः” भा० २ वृद्धे च ।

जूष बधे भ्वा० उभ० सक० सेट् । जूषति ते अजूषीत् अजूषिष्ट

जूजूष षे । जूषः ।

जूष पुंन० यूष + पृषो० । मुद्घादिक्राथे भरतः ।

जूषण न० जूष--ल्यु । वृक्षभेदे (धाइफुल) शब्दच० ।

जृ न्थक्कारे भ्वा० पर० सक० अनिट् । जरति अजार्षीत् ।

जजार ।

जृभ जृम्भे (हाइतोला) गात्रशैथिल्ये च भ्वा० आत्म० अक०

सेट् इदित् । जृम्भते अजृम्भिष्ट । जजृम्भे । “आत्मान-
माधाय मधुर्जजृम्भे” कुमा० जृम्भा जृम्भः । जृम्भितः ।
“जृम्भते मुहुरासीना बाला गर्भभरालसा” सा० द० ।

जृभ जृम्भणे भ्वा० आ० अक० सेट् । जृभते अजृभिष्ट

जजृभे । ईदित् । जृब्धः ।

जृम्भ पुंन० जृभि--भावे घञ् अर्द्धर्चा० (हाइतोला) १ गात्रशेथि-

ल्यापादके २ मुखविकाशकारके च व्यापारभेदे । भावे अ ।
तत्रार्थे स्त्री । जृम्भा च श्रमगर्भादिजनितजाद्यकार्य्या
यवाह सा० द० “आलस्यश्रमगर्भाद्यैर्जाड्यं जृम्भासितादि
कृत्” तत्कारकवायुश्च देवदत्तः । “विजृम्भणे देवदत्तः
शुद्धस्कटिकसन्निभः” पदार्थादर्शे योगार्णवः । “क्षुतोत्पत-
नजृम्भासु जीवोत्तिष्ठाङ्गुलिध्वनिः । मुरोरपि च कर्त्तव्य-
मन्यथा ब्रह्महा भवेत्” तिथित० । ३ विकाशे ४ विस्कारे
च पु० शब्दच० । “पीत्वैकं श्वासमनिलः पुनस्त्यजति
वेगवान् । आलस्यनिद्रायुक्तस्य स जृम्भ इति कथ्यते”
“जृम्भात्यर्थं समीरणात् । जृम्भावेगे समुत्पन्ने शोभने
शयने नरम् । स्वापयेत् तेन नियमात् जृम्भावेगः प्रशा-
म्यति । जृम्भावेगक्षयं याति कटुतैलेन मर्द्दनात् ।
भोजनात् स्वादुभोज्जानां तथा ताम्बूलभक्षणात्” वैद्यकम् ।
पृष्ठ ३१४४

जृम्भक त्रि० जृम्भ--ण्वुल् । १ जृम्भाकारके २ रुद्रगणभेदे पु०

“पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् । जृम्भकैर्यक्ष-
रक्षोभिः स्रग्विभिः समलक्षणैः । यात्यमोघो
महायक्षो दक्षिणं पक्ष्माश्रितः” भा० व० २३० अ० ।
जुम्भयति जृम्भि--ण्वुल् । ३ कृशाश्वमुनितनये ४ तदधिष्ठिते
अस्त्रभेदे च “कृशाश्वतनयरूपाण्यस्त्राणि विश्वामित्रेण
रामाय दत्तानि तत्कथा रामा० बा० २८ अ० ।
“संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ।
सत्यवन्तं सत्यकीर्त्तिं धृष्टं रभसमेव च । प्रतिहारतरं
नाम पराङ्मुखमवाङ्मुखम् । लक्ष्यालक्ष्याविमौ चैवदृढ़-
नामसुनाभकौ । दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ।
पद्मनाभौ महानाभौ दुन्दुनाभस्वनाभकौ । ज्योतिषं
शकुनञ्चैव नैरास्यविमलावुभौ । यौगन्धरविनिद्रौ च
दैत्यप्रमथनौ तथा । शुचिबाहुर्महाबहुर्निष्कलिर्विरुच-
स्तथा । सार्चिमाली धृतिमाली वृत्तिमान् सचिरस्तथा ।
पित्र्यः सोमनसश्चैव विधूतमकरावुभौ । करवीरं
रतिञ्चैव धनधान्यौ च राघव! । कामरूपं कामरुचिं
मोहमावरणं तथा । जृम्भकं सर्पनाथं च पन्थानवरुणौ
तथा । कृशाश्वतनयान् राम! भास्वरान् कामरूपिणः ।
प्रतीच्छ मम भद्रन्ते पात्रभूतोऽसि राघव! । बाढ़मि-
मित्येय काकुत्स्थः प्रहृष्टेनानतरात्मना । दिव्यभास्वर-
देहाश्च मूर्त्तिमन्तः सुखप्रदाः । केचिदङ्गारसदृशाः
केचिद्धूमोपमास्तथा । चन्द्रार्कसदृशाः केचित् प्रह्वा-
ञ्जलिपुटास्तथा । रामं प्राञ्जलयो भूत्वाऽव्रुवन् मधुर-
भाषिणः । इमे स्म नरशार्दूल! शाधि किङ्करवाम ते ।
गम्यतामिति तानाह यथेष्टं रघुननदनः । मनसा
कार्थकालेषु साहार्य्यं मे करिष्यथ । अथ ते राममा-
मन्त्र्य कृत्वा चापि प्रदक्षिणम् । एवमस्तिति काकुत्स्थ
मुक्त्वा जग्मुर्यथागतम्” २८ अ० । स्वार्थे क अत इत्त्वम् ।
४ जृम्भायां स्त्री (हाइतोला) सा च इन्द्रवृत्तयोर्युद्धे इन्द्रे
वृत्तग्रस्ते देवैः सृष्टा ततः प्रभृति लोकप्राणवायुसंस्था
यथाह भा० उ० ८ अ० “तती जग्राह देवेन्द्रं वृत्रो वीरः
शतक्रतुम् । अपावृत्याक्षिपद् वक्त्रे शक्रं कोपसमन्वितः ।
ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदिवेश्वराः । असृजंस्ते
महासत्त्वाजृम्भिकां वृत्तनाशिनीम् । विजृम्भमाणस्य ततो
वृत्तस्यास्यादपावृतात् । स्वान्यङ्गान्यभिसङ्क्षिप्य निष्-
क्रान्तो बलनाशनः । ततः प्रभृति लोकस्य जृम्भिका-
प्राणसंश्रिता” ।

जृम्भण न० जृभि--भावे ल्युट् । (हाइतोला) १ गात्रशैथि-

ल्यापादके २ मुखविकाशकारके च व्यापारभेदे । “मुहु-
र्मुहुर्जृम्भणतत्पराणि--“अङ्गान्यनङ्गः प्रमदाजनस्य
करोति लावण्यरसोत्सुकानि” ऋतुसं० “जगृहुस्तद्विसृष्टां
तां जृम्भणाख्यां तनुं प्रभोः” भाग० ३ । २० । ४२ । जृमि-
णिच्--ल्यु । २ जृम्भणकारिणि ३ जृम्भकास्त्रे च “जृम्भणं
नाम सोऽप्यस्त्रं जग्राह पुरुषोत्तमः । हरं स जृम्भया-
मास क्षिप्रकारी महाबलः” हरिवं० १८४ अ० । “जृम्भणं
पातनञ्चैव त्वाष्ट्रञ्चापि सुदारुणम्” २३४ अ० ।

जृम्भिणी स्त्री जृभि--णिनि । एलापर्ण्याम् शब्दच० ।

जृम्भित त्रि० जृभि--क्त । १ चेष्टिते २ प्रवृद्धे च भावे क्त । ३ जृम्भायां

४ स्फुटने हेमच० स्त्रीणां ५ करणभेदे न० मेदि० ।

जॄ जरायां दिवा० पर० अक० सेट् जीर्य्यति इरित् ।

अजरत् अजारीत् । जीर्णः षित् । जरा । घटादि० ।
जरयति । “या न जीर्य्यति जीर्य्यतः” नीतभा० जीर्य्यते
रतृन् । जरन् । जजार । जरीता जीर्णः । “जरि-
तॄणां सतां भुवां सूतये” बामदेव्यगानमन्त्रः ।

जॄ जरायां वा चुरा० उभ० पक्षे क्य्रादि० प्वादि० अक० सेट् ।

घटा० । जरयति ते अजीजरत् त । जृणाति । इरत्
अजरत्--अजारीत् ।

जेतृ त्रि० जि--तृच् । जयशौले । “जीता नृभिः इन्द्रः

पुत्रम्” ऋ० १ । १७८ । ३ । “जेतारं लोकपालानां
स्वमुखैरर्चितेश्वरम्” रघुः । स्त्रियां ङीप् । २ विष्णौ
पु० । “अनधो विजयो जेता” विष्णुस० । जयत्यति-
शेते सर्वभूतानि” इति जेता” भा० ।

जेतव्य त्रि० जि--कर्मणि तव्य । जेये “जय्यो यः शक्यते जेतुं

जेयो जेतव्यमात्रके” अमरः ।

जेत्व त्रि० जि--वनिप् वेदे नि० दीर्घस्यापि तुक् । जेतव्ये ।

“अस्थामात्रे जयतु जेत्वानि” ऋ० । ४७ । २६ । “जेत्वानि
जेतव्यानि” भा० ।

जेन्ताक न० स्वेदसेवनार्थं गृहभेदे (भापरालशोयार घर)

तन्निर्मितिप्रकारोऽभिहितश्चरके यथा
“अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षैत । तत्र पूर्वस्यां
दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमृत्तिके
सुवर्णमृत्तिके वा परीवापपुष्रिण्यादीनां जलाशयाना-
मन्यतमस्य कूले दक्षिने पश्चिमे वा सूपतीर्ये समसुविभक्त
भूमिभागे सप्ताष्टौ वा अरत्नीनुपक्रम्योदकात् प्राङ्मुख-
मुदङमुखं वाभिमुखतीर्थं कूटागारं कारयेत् । उत्से-
धविस्तारतः परमरत्नीः षोड़श ससन्तात् सुवृत्तं मृत्-
पृष्ठ ३१४५
कर्म्मसम्प्रन्नमनेकवातायनम् । अस्य कूटागारस्यान्तः
समन्ततो भित्तिमरत्नीविस्तारोत्सेधां पिण्डिकां कारयेत्
कपाटवर्जम् । मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्र-
पुरुषप्रमाणं मृण्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रम-
ङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत् । तञ्च खादिरा-
णामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत् । स
यदा जानीयात् साधुदग्धानि काष्ठानि गतभूतानि
अवतप्तञ्च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चाष्मणा
युक्तमिति तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं
प्रवेशयेत् प्रवेशयंश्चैनमनुशिष्यात् । सौम्य! प्रविश कल्या-
णायारोग्याव चेति । प्रावश्य चैनां पिण्डिकासविरुह्य
पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः न च त्वया स्वेदमू-
र्च्छापरीतेनापि सता पिण्डिकैषाविमोक्तव्या आ प्राणो-
च्छ्वासात् । भ्रश्यमाने ह्यतः पिण्डिकावकाशात् द्वार-
मनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणान् जह्याः
तस्मात् पिण्डिकामेनां न कथञ्चन मुञ्चेथाः त्वं यदा
जानीया विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेद-
पिच्छं सर्वस्रोतोविमुक्तं लघुभूतमपगतविबन्धस्तम्भसुप्ति-
वेदनागौरवमिति । ततस्तां पिण्डिकामनुसरन् द्वारं
प्रपद्येथाः । निष्क्रम्य च न सहसा चक्षुषोः परिपाल-
नार्थं शीतोदकमुपस्पृशेथाः । अपगतसन्तापक्लमस्तु मुहू-
र्त्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीथाः”
अस्य स्वेदार्थकता शब्दकल्पद्रुमे उक्ता चिन्त्या “भूगृहेषु
च जेन्ताके कृष्णगर्भगृहेषु च । विधूमाङ्गारतप्तेष्वभ्यक्तः
स्विद्यति ना सुखम्” इति आधाररूपगृहादिसाह-
चर्य्यात् गृहमेदस्यैवोपक्रमात् । उपसंहारे च इति
जेन्ताकस्वेद इति कीर्त्तनं सप्तमीतत्पुरुषपरम् । इति
जेन्ताकः स्वेद इति संविसर्गपाठोऽनाकरः ।

जेन्य त्रि० जि--जन + णिच्--वा बा० डेन्थ । १ जयशीले “अग्नि-

र्यज्ञेषु जेन्यो न विश्पतिः” ऋ० १ । १२८ । ७ । “जेन्यः
जयशीलः” भा० । २ उत्पाद्ये च “जनिष्ट हि जेन्यो अग्रे
अह्नाम्” ऋ० ५ । १ । ५ । “जेन्य उत्पाद्यः” भा० ३ जेतव्ये
च “दग्धं पयो वृषणा जेन्यावसू” ऋ० ७ । ७४ । ३ । “जेन्यं
वसु धनं ययोः । वेदे पूर्वपददीर्घः । “जेन्यावसू जेतव्य-
धनौ” भा० । “गतं देवेभिर्जेन्यावसू” ऋ० ८ । ३८ । ७ ।

जेमन् त्रि० जि--मनिन् । १ जयशीले “उदन्यजेव जेमना मदेरू”

ऋ० १० । १०६ । ६ । “जेमना जयशीलौ औस्थाने आच्
छान्दसो दीर्घाभावः । लोके तु जेमा जेसानौ इत्येव ।
जेतुर्भावः इमनिच् तृणो लोपः । २ जेतुर्भावे जये च
३ जयसामर्थ्ये पु० । “जेमा च महिमा च मे” यजु० १८ । ४ ।

जेमन न० जिम--भावे ल्युट् । भक्षणे अमरः ।

जेय त्रि० जि--कर्म्मणि यत् । जेतव्यमात्रे अमरः ।

“देबैरजेया निर्ज्जिताश्चार्जुनेन । तदा नाशंसे विजयाय
सञ्जय!” भा० आ० १ अ० “विगृह्य शत्रून् कौन्तेय!
जेयः क्षितिपतिस्तदा” भा० आश्र० ६ अ० ।

जेष गतौ भ्वा० आत्म० सक० सेट् । जेषते अजेषिष्ट ऋदित्

अजिजेषत् त । “अपां तोकस्य तनयस्य जेषे” ऋ०
१ । ११० । ११ ।

जेह यत्ने भ्वा० आत्म० अक० सेट् । जेहते अजेहिष्ट ।

ऋदित् अजिजेहत् त । “पात्रमृभवो जेहमानम्”
ऋ० १ । ११० । ५ “जेहमानं प्रयतमानम्” भा० । निरुक्ते
अस्य गतिकर्मतोक्ता “ददृशानपवेर्जेहमानस्य” ऋ०
१० । ३ । ६ । क्वचित् व्याप्त्यर्थताऽपि “सुगेभिररेणुभिर्जेह-
मानं पतत्त्रि” ऋ० १ । १६३ । ६ । “जेहमानं यज्ञदेशं व्याप्नु-
वत्” भा० । गत्यर्थकधातोः प्राप्त्यर्थकत्वात् प्राप्त्यर्थतापि ।
“ये तातृषुर्देवत्रा जेहमानाः” ऋ० १० । १५ । ९ । “जेह-
मानाः प्राप्ताः” भा० ।

जै क्षये भ्वा० पर० अक० अनिट् । जयति । अजासीत् । अओदित् जानः ।

जैगीषव्य पु० जीगीषोरपत्यं गर्गाः यञ् । योगविदि मुनि-

भेदे तत्कथा भा० श० ५१ अध्याये शा० पर्वणि च २३५
अ० दृश्या । “असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्” भा०
शा० ११ अ० । स्त्रियां लोहिता० नित्यं ष्फ षित्त्वात्
ङीष् । जैगीषव्यायणी ।

जैत्र त्रि० जेतैव जेतृ + प्रज्ञादि० अण् । १ जयशोले अमरः ।

२ पारदे पु० ३ औषधे न० राजनि० । “रणाय
जैत्रः प्रदिशन्निव त्वराम्” किरा० “शरीरिणा जैत्रशरेण
यत्र” माघः । “देवसूतभुजालम्बी जैत्रमध्यास्त राघवः”
रथुः । ततश्चतुरर्थ्यां कर्णा० फञ् । जैत्रायणि जैत्रादूर-
देशादौ त्रि० ।

जैत्ररथ त्रि० जैत्रो रथोऽस्य । जयशीले हला० ।

जैत्री स्त्री जेत्र्येव जेतृ + स्वार्थे अण् ङीप् । जयन्तीवृक्षे ।

शब्दर० ।

जैन पु० जिन एव, जिनोदेवतास्य वा अण् । १ अर्हति २ अर्हदुपासके च ।

जैपाल पु० जयपाल + पृषो० । जयपालवृक्षे द्विरूपकोषः

पृष्ठ ३१४६

जैमिनि पु० मुनिभेदे स च सामवेदे वेदव्यासशिष्यः यथाह

भाग० १३ । ६ । ९ । “साम्नां जैमिनये प्राह तथा छन्दो-
गसंहिताम्” स च दह्र्ममीमांसां प्रणीतवान् । तच्च
शास्त्रं द्वादशाध्यायात्मकम् । तत्प्रतिपाद्यविषयाश्चाधि-
करणमालायां माधवाचार्य्येण संगृहीता यथा
“धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः । प्रमा-
णभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः । अधिकारोऽतिदेशश्च
सामान्ये न विशेषतः । ऊहोऽबाधश्च तन्त्रं च प्रसङ्ग-
श्चोदिताः क्रमात्” । “लक्षणान्यध्यायाः । द्वाद-
शानां लक्षणानां समाहारो द्वादशलक्षणी । तादृशस्य
द्वादशाध्यायोपेतस्य शास्त्रस्य धर्मो विषयः । प्रमाणा-
दयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्या-
यानां विषयाः । तत्र प्रथमेऽध्याये विध्यर्थवादादिरूपं धर्मे
प्रमाणं निरूपितम् । द्वितीये यागदानादिकर्मभेदः ।
तृतीये प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम् ।
चतुर्थे गोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम् न तु
क्रत्वर्थत्वप्रयुक्त्येत्ये वमादयः । पञ्चमे क्रमनियतिवि-
धेयत्वादयः । षष्ठे कर्तुरधिकारो नान्धादेरित्यादयः ।
सप्तमे समानमितरच्छ्येनेनेत्यादिप्रत्यक्षवचनेनाग्निहोत्रा-
दिनाम्तानुमितवचनेन च सामान्यतोऽतिदेशः । अष्टमे
सौर्य्यं चरुं निर्वपेदित्यत्र निर्वापस्तद्धितेन देवतानिर्देश
एकदेवतात्वमौषधद्रव्यकत्वमित्यादिलिङ्गेनाग्नेयपुरोडाशे-
तिकर्त्तव्यतैव नान्यस्येत्येवमादिर्विशेषतोऽतिदेशः । नवमे
प्रकृतावग्नयेजुष्टं निर्वपामीति पठिते मन्त्रे विकृतौ सौर्य्य-
चरावग्निपदपरित्यागेन सूर्य्य पदप्रक्षेपेण च सूर्याय त्वा
जुष्टं निर्वपामीत्येवमाद्यूहः । दशमे कृष्णलेषु चोदकप्राप्त-
स्यावघातस्य वितुषीकरणासम्भवेव लोप इत्येवमादिर्बाधः ।
एकादशे बहूनामाग्ने यादीनां प्रधानानां सकृदनुष्ठितेन
प्रयाजाद्यङ्गेनोपकार इत्यादि तन्त्रम् । द्वादशे प्रधानस्य
पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन वश्वङ्गपुरोडाशे-
ऽप्युपकार इत्यादिप्रसङ्गः । पादानामसाधारणं विषयं
दर्शथति” “विध्यर्थवादस्मृतयोनाम चेति चतुर्विधम् ।
प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम्” “प्रथमे पादे
विधिरूपं मानमीरितम् । द्वितीयेऽर्थवादरूपम् । अर्थ-
वादो मन्त्रस्याप्युपलक्षणम् । तृतीये स्मृतिरूपम् ।
स्मृतिराचारमप्युपलक्षयति । चतुर्थे उद्मिच्चित्रादिना-
मरूपम्” “उपोद्ध्वातः कर्मभेदमानं तस्यापवादगीः, ।
प्रयोगभेद इत्योते वितीयाध्यायपादगाः” ।
द्वितीयाध्यायस्य प्रथमे पादे आख्यातमेवापूर्वबोधक-
मपूर्वसद्भाव इत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घाती
वर्णितः । द्बितीये धातुभेदपुनरुक्त्यादिभिः कर्मभेदः ।
तृतीये रथन्तरादीनां कर्मभेदप्रामाण्यापवादः । चतुर्थे
नित्यकाम्ययोः प्रयोगयोर्भेदः” । “श्रुतिर्लिङ्गं च
वाक्यादि विरोधप्र्तिपत्तयः । अनारभ्योक्तिबह्वर्थस्त्राम्यर्था
अष्टपादगाः” । “तृतीयाध्यायस्य प्रथमे पादे शेषत्व-
वोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता ।
द्वितीये लिङ्गम् । तृतीये वाक्यप्रकरणादि । चतुर्थे
निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः
परस्परविरोधसदसद्भावः । पञ्चमे प्रतिपत्तिकर्माणि ।
षष्ठेऽनारभ्याधीतानि । सप्तमे बहुप्रधानोपकारकप्रया-
जादीनि । अष्टमे याजमानानि” । “प्रधानस्य प्रयोक्तृ-
त्वमप्रधानप्रयोक्तृता । फलचिन्ता जघन्याङ्गचिन्तेत्येते
चतुर्थगाः” । चतुर्थाध्यायस्य प्रथमे पादे प्रधानभूतामि-
क्षा दध्यानयनस्य प्रयोजिकेत्यादिप्रधानप्रयोक्तृत्वं विचा-
रितम् । द्वितीये त्वप्रधानं बत्सापाकरणं शाखाच्छेदे
प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम् । तृतीये जुहूपर्णम-
यीत्वादेरपापश्लोकश्रवनादिफलभाबाभाबचिन्ता । चतुर्थे
राजसूयगतजथन्याङ्गाक्षद्यूतादिचिन्ता” । “श्रुत्या-
दिभिः क्रमस्तस्य विशेषो वृद्द्यवर्धने । श्रुत्यादेर्बलता चेति
पञ्चमाध्यायपादगाः” । “पञ्चमाध्यायस्य प्रथमे पादे
श्रुत्यर्थपाठदिभिः क्रमो निरूपितः । द्वितीये बाजपेय
गतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादि क्रम-
विशेषः । तृतीये पञ्चप्रयाजादीनामावर्त्तनेनैकैकश्य-
मित्यादिवृद्धिः । अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादि
वृद्ध्यभावः । चतुर्थे क्रमनियामकानां श्रुत्यथैपाठा
दीनां प्रबलदुर्बलभावः । “अधिकारी तस्य धर्माः प्रति-
निध्यर्थलोपने । दीक्षा सत्त्रं देयवह्नी षष्ठे पादेष्वमी-
स्थिताः” । षष्ठाध्यायस्य प्रथमे पादे कर्माधिकारः
कर्तुरस्त्यन्धादेर्नास्ति स्त्रिया अस्ति योऽस्ति स च
पत्या सहेत्येवमादिनाधिकारी निरूपितः । द्वितीये
सत्त्राधिकारिणां प्रत्येकं कृत्स्नं फलम् । दर्शपूर्ण-
मासयोः कर्त्रैक्यनियमः । काम्यकर्म समापनींयमित्येव
मादयोऽधिकारिधर्मा उक्ताः । तृतीये द्रव्यस्य प्रति-
निधिरस्ति । देवादीनामग्न्यादीनामधिकारिणश्च स
नास्तीत्यादिना निरूपणम् । चतुर्थे पदार्थलोपनं
विचारितम् । अवत्तनाशे सत्याज्येन यजेत ।
इडाद्यर्थनाशे सति शेषान्नं ग्राह्यमित्यादिकम् । पञ्चमे
कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् ।
पृष्ठ ३१४७
ज्योतिष्टोमस्यैकादयो दीक्षाः । द्वादशाहस्य द्वादश-
दिक्षा इत्यादि निरूपितम् । षष्ठे सत्राधिकारिणस्तुल्य
कल्पा एव । सत्त्रं विप्रस्यैवेत्येवमादिकं चिन्तितम् ।
सप्तमे पुत्रादिकं न देयम् महाभूमिर्न देयेत्येवमादि-
र्देयविचारः । अष्टमे लौकिकाग्नाविपनयनहोमः,
स्थपतीष्टिस्तथैवेत्येवमाद्यग्निविचारः कृतः” । “प्रत्य-
क्षोक्त्यतिदेशोऽस्य शेषः सामनिरूपणम् ।
नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः” । “सप्तमा-
ध्यायस्य प्रथमे पादे समान्रमितरच्छ्येनेनेत्यादि प्रत्यक्ष
वचनातिदेशः । द्वितीये रथन्तरशब्देन गानमात्राभि-
धायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य
शेषो विचारितः । तृतीयेऽग्निहोत्रनामातिदेशः ।
चतुर्थे निर्वापौषधद्रव्यादिलिङ्गातिदेशः” । “स्पष्टलिङ्गा-
दथास्पष्टात् प्रबलादपवादतः । अतिदेशविशेषाः स्यु-
रष्टमाध्यायपादगाः” । “अष्टमाध्यायस्य प्रथमे पादे
स्पष्टेन लिङ्गेनातिदेशविशेषः । तद्यथा सौर्यचरा-
वतिदेशकानि निर्वापस्तद्धितेन देवत्यानिर्देश एकदे-
वतात्वमौषधद्रव्यकत्वमित्यादीनि स्पष्टान्याग्नेयलि-
ङ्गानि । द्वितीये त्वस्पष्टैर्लिङ्गैरतिदेशः । तद्यथा
वाजिने हविःसामान्येन लिङ्गेन पयोविध्यन्तोऽति-
दिश्यते । तत्र लिङ्गमस्पष्टम् शीघ्रं तद्बुद्ध्यानुत्पाद-
नात् । तृतीये प्रबलेन लिङ्गेनातिदेशः । तद्यथा
आभिचारिकेष्टावाग्नावैष्णवसारस्वतवार्हस्पत्येषु हविःषु
त्रित्वेन लिङ्गेन यथाक्रम्माग्नेयादिविध्यन्ते प्राप्ते
द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीय-
स्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः । प्रबलं च द्विदेवत्य-
त्वम् शब्दोच्चारणपात्रेण सहसा प्रतिभामात्
क्रमस्तु विलम्बितप्रतीत्या दुर्बलः चतुर्थे दर्विहोमेष्वति
देशोऽपोद्यते” ।
“ऊहारम्भोऽथ सामोहो मन्त्रोहस्तत्प्रबङ्गता । नवमा-
ध्यायपादेषु चतुर्ष्वेते प्रकीर्त्तिताः” । “नवमाध्या-
यस्य प्रथमे पादे उपोद्दातपूर्वकमूहविधारप्रारम्भः ।
तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः । अवधात-
मन्त्रादिष्वविवक्षितं ब्रीह्यग्न्यादिस्वरूपं साधनविशेषत्व-
मात्रं विवक्षितमित्यादिरुपोद्धातः । सवित्रश्विपूष-
शब्दानां विकृतिषु नास्त्यूहः । अग्निशब्दस्यास्त्थ्यूह
इत्यादिकऊहविचारारम्भः । द्वितीये सपरिकरः
सामोहः । तृतीये मन्त्रोहः । चतुर्थे मन्त्रोहप्रसङ्गा
पतितो विचारः” । “द्वारलोपोऽस्य विस्तारः कार्यै-
कत्वं समुच्चयः । ग्रहसामप्रकीर्णानि नञर्थश्चाष्ट-
पादगाः” “दशमाध्यायस्य प्रथमे पादे बाधहेतु-
र्द्वारलोपो निरूपितः । तद्यथा स्वयंकृता वेदिर्भव-
तीत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादका-
नामुद्धननादीनां बाधः । कृष्णलेषु वितुषीतरण्रूपस्य
द्वारस्य लोपेनावधातस्य बाधः । द्वितीये संक्षेपेणोक्तस्य
द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः । तृतीये
बाधकारणं कार्यैकत्वम् । तद्यथा प्रकृतौ गबाश्वादि
दक्षिणाया ऋत्विक्परिक्रयः कार्य्यः । तथा विकृति-
रूपे भूनाम्न्येकाहे धेनुरूपायास्तदेव कार्य्यम् । ततो
धेन्वा गवाश्वादि दक्षिणा विकृतौ चोदकप्राप्ता बाध्यते ।
चतुर्थे नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ट-
होमैः सह समुच्चीयन्त इत्यादि समुच्चयः । पञ्चमे षोड़-
शिग्रहः प्रकृतिगामी । स चाग्रयणपात्रादेव ग्रहीतव्य
इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः । षष्ठे साम
तृचे गेयमित्यादिर्बाध प्रसङ्गागतः सामविचारः । सप्तमे
पश्वङ्गेषु हविर्भेदः । गृहमेधील्यमपूर्वकर्मेत्यादिर्बाध
प्रसङ्गागतः प्रकीर्णविचारः । अष्टमे नानुयाजेष्विति
पर्युदासो न सोम इत्यर्थवादो नातिरात्र इति प्रतिषेध
इत्यादिर्बाधोपयुक्तो नञर्थविचारः” ।
“उपोद्दातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः । आवाप
विस्तृतिश्चैकादशाध्यायस्य पादगाः” । एकादशा-
ध्यायस्य प्रथमे पादे तन्त्रस्योपोद्धातो वर्णितः । द्वितीये
तन्त्रावापौ संक्षेपेणोक्तौ । तृतीये तन्त्रमुदाहरण-
बाहुल्येन प्रपञ्चितम् । चतुर्थे तथैवावापः प्रप-
ञ्चितः” । “प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने ।
द्वादशाध्यायपादार्था इति पादार्थसंग्रहः” । द्वाद-
शाध्यायस्य प्रथभे पादे पशुधर्माणां पशुपुरोदाशे
प्रसङ्गः सौमिकवेदेरुत्तरकालीनकर्भसु प्रसङ्गः इत्यादि
विचारः । द्वितीये सचनीयपशोस्तन्त्रित्वम् न तु
सवनीयपुरोडाशानाम् । विकृतिस्तन्त्रिणी न प्रकृतिः
अन्वारम्भणीया विकृतिष्पपि स्यात् न तु प्रकृतावेवे-
त्यादिविचारः । तृतीये त्वावाससोः समुच्चयः । अघार-
गतानृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन
यवब्रीदोर्वकल्प इत्यादिकं समुच्चयापवादत्वेनेत्युभयं
चिन्तितम् । चतुर्थेचैन्द्रावार्हस्पत्ययाज्यानुवाक्ययुगलयो-
र्विकल्प इत्यादिकं प्राधान्येन याज्यानुवाक्ययोः समु-
पृष्ठ ३१४८
च्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम् ।
तदेवं द्वादशाध्यायगतेषु षष्टिसंख्यकेषु पादेषु प्रतिपाद्या
अर्थाः संगृहीताः । ननु यथोक्तेभ्यः पादार्थेभ्योऽन्ये-
ऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते तेषां कथं तत्तत्-
पादान्तर्भाव इत्याशङ्क्याह” । “उपोद्धातापवादाभ्यां
प्रसङ्गानुप्रसङ्गतः । तत्तत्पादगतवेन विचारान्तरमुन्न-
येत्” “यथोक्तपादपतिपाद्यादन्येष्वर्थेषु यथोचितं
कश्चिदुपोद्धातः कश्चिदपवादः कश्चित् प्रसङ्गपतितः कश्चि-
दनुप्रसङ्गपतित इत्येवं पादान्तर्भाव उन्नेयः” ।
जैमिनिश्च भारतान्तरं चकार तस्य जैमिनिभारतेति संज्ञा
तन्नामस्मरणे च वज्रपातभयवारणं यथा “जैमिनिश्च
सुमन्तुश्च वैशम्पायन एव च । पुलस्त्थः पुलहश्चैव पञ्चैते
वज्रवारकाः” शब्दकल्पद्रुमधृतपुराणवाक्यात् “मुनेः
कल्याणमित्रस्य जैमिनेश्चापि कीर्त्तनाह । विद्युदग्निभयं
नास्ति पष्ठिते च गृहोदरे” इत्युक्तेरपि तत्कीर्त्तनस्य
विद्युदग्निभयनिवारकता । तत इदमर्थे छ । जैमिनीय
जैमिनिप्रणीतशास्त्रादौ । “जैमिनीये च वैयासे विरु-
द्धार्थे न कश्चन” सांख्यप्रवचनभाष्यधृतपराशरोपपु० ।
“जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम्” माधवः ।

जैव त्रि० जीवस्येदम् अण् । १ आत्मसम्बन्धिनि २ वृहस्पतिस-

म्बन्धिनि ३ तत्क्षेत्रे धनूरशौ मीनराशौ तदधिदेवताके
४ पुष्यनक्षत्रे । ५ तदीये पाते च “कृताद्रिचन्द्राः जैवस्य
त्रिखाङ्काश्च भृगोस्तथा” सू० सि० ।

जैवन्तायन पुंस्त्री जीवन्तस्य गोत्रापत्यं वा फञ् ।

जीवन्तर्षेः गोत्रापत्ये । स च यजुर्वेदमचारकवंशान्तर्गतः ।
यथाह “जैवयन्तायनाच्च रैभ्याच्च रैभ्यः” शत० ब्रा०
१४ । ७ । ३ । २६ पक्षे इञ् । जैवन्ति तत्रार्थे स्त्रियां ङीप् ।

जैवन्तायनि त्रि० जोवन्तास्यादूरदेशादि कर्णा० चतुरर्थ्यां

फिञ् । जीवन्तस्यादूरदेशादौ ।

जैवलि पु० जीवलस्य राज्ञेऽपत्यम् इञ् । जीवलनृपापत्ये

प्रबाहणे “तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल
ते शालापत्य! साम” छा० उ० ।

जैवातृक पु० जीवयत्यनेन लोकं जीवनि वा आतृ--कन्-

वृद्धिश्च । १ चन्द्रे २ कर्पूरे अमरः । ३ पुत्रे संक्षिप्तसा० ।
४ औषधे हेम० ५ दीर्घायुष्के त्रि० मेदि० । “जैवा-
तृक! ननु श्रूयते पत्रिरस्याः मिथिलायां प्रहारवर्मा-
सीत्” दशकु० ।

जैवि त्रि० जीवस्यादूरदेशादि सुतङ्गमा० चतुरर्थ्याम् ञि । जीवस्यादूरदेशादौ ।

जैवेय पुंस्त्री जीवस्य गुरोरपत्यं शुभ्रा० ढक् । जीवस्या-

पत्ये कचनामके मुनौ । जीवाया मौर्व्या इदम् स्त्री-
त्वात् ढक् । २ ज्यासम्बन्धिनि त्रि० ।

जैह्माशिनेय पु० जिह्माशिनोऽपत्यं शुभ्रा० ढक् दाण्डिना०

नि० टिलोपः । जिह्माशिनोऽपत्ये ।

जैह्म्य न० जिह्मस्य भावः ष्यञ् । कौटिल्ये । “जैह्म्यञ्च

मैथुनं पुंसि जातिभ्रंशकरं स्मृतम्” मनुः । “निषिद्ध-
भक्षणं जैह्म्यमुत्कर्षश्च वचोऽनृतम् । रजस्वलामुखास्वादः
सुरापानसमानि तु” याज्ञ० ।

जोङ्ग न० जुङ्ग्यते वर्ज्यते जुगि--वर्जने कर्मणि अप् पृषो० ।

कालीयके गन्धद्रव्यभेदे हारा० ।

जोङ्गक न० जुगि--ण्वुल् पृषो० । अगुरुचन्दने अमरः ।

जोङ्गट पु० जुगि--अटन् पृषो० । गर्भिण्या अभिलाषे दोहदे

(साद) हारा० ।

जोटिङ्ग पु० जुट--इन् जोटिं गच्छति बा० ड खिच्च ।

१ महादेवे २ महाव्रतिनि च त्रिका० ।

जोड पु० जुड--बन्धने घञ् । बन्धने । जहिजोड़म् सि० कौ० ।

जोन्ताला स्त्री जु--वुच् तस्यान्तमालाति आ + ला--क ।

देवधान्ये हेमच० ।

जोष पु० जुष--भावे घञ् । १ प्रीतौ २ सेवने च “को वां जोष

उभयोः” ऋ० १ । १२० । १ । ३ सुखे न० शब्दर० ।

जोषण न० जुषी--प्रीतिसेवनयोः भावे ल्युट् । १ प्रीतौ २ सेवने

च । स्वार्थे णिच्--भावे युच् । तत्रार्थे स्त्री “उत्तरे
निगमाः यथेष्टं जोषणा श्रुतेः” कात्या० श्रौ० ५ । १२ । १६ ।

जोषम् अव्य० जुष--बा० अमु । १ तूष्णीमित्यर्थे “इति जोषम-

वस्थितं द्विषः” माघः । २ सुखे च अमरः ।

जोषा स्त्री जोषयति जुष--णिच्--अच् । १ योषिति शब्दर०

“चन्द्रेण जुधातोः सप्रत्ययान्तयाऽयं व्युत्पादितः”
उज्ज्वलदत्तः ।

जोषिका स्त्री जु--स संज्ञायां कन् । १ जालिकायां शब्दर० । २ योषिति च ।

जोषित स्त्री जुष “हृसृरुहिजु(षि)युषिभ्यः” उणा० इति ।

स्त्रीमात्रे शब्दर० । हलन्तत्वात् वा टाप् । जोषिता-
ऽपि तत्रार्थे शब्दर० ।

जोष्टृ त्रि० जुप--तृच् वेदे बा० इड़भावः । सेवके ।

“उपेनमस्थुर्जोष्टारः” ऋ० ४ । ४१ । ९ । “जोष्टारः सेवकाः”
भा० । लोके तु जोषितृ इत्येव ।

जौमर न० जुमरेण निवृर्त्तः अण् । १ जुमरनन्दिकृते संक्षि-

प्तसाराख्ये व्याकरणे २ तदध्येतरि त्रि० ।
पृष्ठ ३१४९

जौलायन पु० जुलस्यापत्यम् इञ् तत्र इञन्तत्वात् यूनि फञ् ।

जुलस्य यून्यपत्ये । ततः ऐषुकार्य्या० विषयार्थे भक्तल् ।
जौलायनभक्त तदीयविषये त्रि० ।

जौहव त्रि० जुह्वामवदाने योग्यम् जुहू--अण् । जुहूपदार्थे-

ऽवदानयोग्येषु हृदयादिषु “हृदयं जिह्वां क्रोड़ं सव्य-
सक्थिपूर्वनडकं पार्श्वे यकृद्वुक्कौ गुदमध्यं दक्षिणा
श्रोणिरिति जौहवानि” कात्या० श्रौ० ६ । ७ । ६ । “जुह्वा-
मवदानयोग्यानि प्रधानयागसाधनानि” कर्कः ।

ज्ञ पु० ज्ञा--क । १ बुधग्रहे “युगे सूर्य्यज्ञशुक्राणां खचतुष्कर-

दार्णवाः” सू० सि० । २ पण्डिते “क्रिथासु बाह्यान्तरमध्य-
मासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः” प्रश्नो० । ३ ब्रह्मणि
४ मङ्गलग्रहे च धरणिः । सुपि उपपदे तत्तत्पदार्थज्ञा-
तरि त्रि० । “आदेशं देशकालज्ञः” रघुः “विधिज्ञो
विधिमास्थाय” ति० त० । स्वार्थे क । ज्ञक ज्ञातरि त्रि०
स्त्रियां वा अत इत्त्वम् ज्ञका ज्ञिका ।

ज्ञप मारणे, आलोके, निशाने, तोषणे स्तुतौ च चुरा०

उभ० सक० सेट् घटा० । ज्ञपयति--ते अजिज्ञपत्--त ।
ज्ञाक्म इत्यतेनैवेष्टसिद्धौ ज्ञपपाठश्चुरादिरुभयपदीति
मते फलवत्कर्त्तरि परस्मैपदार्थः इति धातुप्रदीपः ।
वस्तुतस्तु ज्ञप्तिपदमनेनैव निष्पादितम् । तेन अनिर्दि-
ष्टार्थतया ज्ञप्तिरिह ज्ञानम् । अतएव प्रच्छौ श ज्ञीप्से
इत्यत्र अस्यैव सनन्तस्य निष्पादितेन ज्ञीप्सशब्देन ज्ञातु-
मिच्छा प्रतिपाद्यते । एवं ज्ञानपर्य्याये “प्रतिपज्ज्ञप्तिचेत-
ना इत्यमरः” इति दुर्गासः । ज्ञप ज्ञाने च इति
पाणिनिः । अधिकं ज्ञाधातौ वक्ष्यते ।

ज्ञपित त्रि० ज्ञप--ज्ञाने क्त नि० वा इट् । ज्ञाते अमरः ।

इड़भावे । ज्ञप्तोऽप्यत्र ।

ज्ञप्ति स्त्री ज्ञप--भावे क्तिन् । १ बुद्धौ अमरः २ मारणे

३ तोषणे ४ तीक्ष्णीकरणे ५ स्तुतौ च ।

ज्ञा बोधे क्य्रा० प्र० सक० अनिट् । जानाति अज्ञासीत् ।

जज्ञौ । ज्ञाता ज्ञानं ज्ञातिः ज्ञातः जज्ञिवान् ।
  • अनु + अनुमतौ अनुमतिश्च स्वथंप्रवृत्तस्य निषेधनाभावेन
स्वाभिमतत्वज्ञापनेन प्रवर्त्तनम् । “तं देवासो अनुजानन्तु
कालम्” तैत्ति० ब्रा० । “अनुपवेशे यद्वीर
कृतवांस्त्वं ममाप्रियम् । सर्वं तदनुजानामि” भा० आ० २१३ अ०
  • अप + निह्नवे आत्म० । आत्मानमपजानानः शशमात्रोऽनय-
द्दिनम्” भट्टिः ।
  • अगि + सम्यग्ज्ञाने “भक्त्या मागभिजानाति यावान्यश्चास्मि
तत्त्वतः” गीता । “अभिज्ञाश्छेदपातानाम्” कुमा० अभिज्ञा
च आद्यज्ञानम् अनुभवात्मकम् ।
  • प्रति + अभि + पूर्वदृष्टस्य वस्तुनः चक्षुरादिसन्निकर्षजे पूर्वसं-
स्कारोत्पन्ने स्मृतिभिन्ने ज्ञानभेदे यथा सोऽयं देवदत्तः
इत्यादि ज्ञानम् । “तं त्वं प्रत्यभिजानीहि स्वप्ने यं
दृष्टवत्यसि” हरिवं० १७६ अ० ।
  • सम् + अभि + प्रत्यभिज्ञाने “इग्द्रसेनां सह भ्रात्रा समभिज्ञाय
वाहुकः” भा० व० ७५ अ० ।
  • अव + अनादरे हीनत्वेन ज्ञाने च । “अवजानासि मां यस्मात्
ततस्ते न भविष्यति” रघुः । “अदेशकाले यद्दानमप्रात्रभ्येश्च
दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम्” गीता ।
“वसूनि देशांश्च विर्त्तयिष्यन् रामं नृपः संगिरमाण
एव । तयावजज्ञे” भट्टिः ।
  • आ + सम्यग्ज्ञाने नियोगे च “न हि मनसा ध्यायतः
कश्चनाजानाति” शत० ब्रा० ४ । ६ । ७ । ५ । “निथोगश्च
निकृष्टस्य भृत्यादेः ष्रवर्त्तनम् । स्वार्थे णिच तत्रार्थे ।
“आज्ञापय ज्ञातविशेष! पुंसाम” कुमा० । ज्ञा--प्रेरणे
चौरादिकस्येदं रूपमित्यन्ये ।
  • उप + आद्यज्ञाने “उप तज्ञ्जानीत यथा वयमिहाप्यसामेति”
शत० ब्रा० ६ । २ । ३ । ७ । “उपज्ञा ज्ञानमाद्यं स्यात्” अमरः ।
  • निस् + निर् + निश्चयात्मके ज्ञाने । “विद्युद्वै विद्युत्य वृष्टिमनु-
प्रविशति सान्तर्धीयते तां न निर्जानन्ति” ऐत० ब्रा० ।
  • परि + परितो ज्ञाने “इन्द्रो दक्षं परिजानादहीनम्” ऋ० १० ।
१३९ । ६ । “अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः” मनुः ।
  • प्र + प्रकृष्टज्ञाने । “यथा धर्मधर्मञ्च कार्य्य ञ्चाकार्य्यमेव च ।
अयथावत् प्रजानाति” “तस्य प्रज्ञा प्रतिष्ठिता” गीता ।
  • प्रति + प्रतिज्ञायां साध्यत्वेन पक्षनिर्देशे आत्मकर्त्तव्य-
त्वेन कथनभेदे च आत्म० । “साध्यनिर्देशः प्रतिज्ञा”
गौत० सू० । साध्यवत्त्वेन पक्षनिर्देशः प्रतिज्ञेति तदर्थः ।
“प्रतिजज्ञे बधं चापि सर्वक्षत्रस्य भारत!” भा० व० ११७
अ० ॥ “प्रतिज्ञाय वनवासमिमं गुरोः” रामा० २ । १०९
अ० । “तस्मै निशाचरेश्वर्य्यं प्रतिजज्ञे रघूत्तमः” रघुः ।
“कच्चिन्न पाने द्युते वा क्राड़ासु प्रमदासु च । प्रति-
जानन्ति पूर्वाह्लेव्ययं व्यसनजं तव” मा० स० ५ अ०
आर्षत्वात् पर० ।
  • वि + विशेषण ज्ञाने “ज्योतिर्वृणीत तमसो विजानन्” ऋ०
ऋ० ३ । ३९ । ७ । “आत्मानं चेथिजानीयादयमस्तीति पुरुषः”
शत० ब्रा० १४ । ७ । २ । १६ । “कथभेतद् विजानीयां त्व-
पृष्ठ ३१५०
मादौ प्रोक्तवानिति” गीता । शिल्पशास्त्रविषयके ज्ञाने
च “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः” अमरः ।
ज्ञानमात्रे क्षणिकविज्ञानमिति बौद्धाः ।
  • सम् + सम्यग् ज्ञाने संज्ञायां चैतन्ये च आत्म० । संजानानान्
परिहरन् रावणानुचरान् बहून्” भट्टिः । “रविस्तु
संज्ञापयते लोकान् रश्मिभिरुल्वणैः” भा० शा ७१२७६७ ।
प्रतिज्ञायाम् आत्म० । “संजानीष्व स्वमीशा” च मुग्धबोधम् ।

ज्ञा ज्ञपधात्वर्थे चुरा० उभ० सक० सेट् घटा० । ज्ञपयति ते अजिज्ञपत् त ।

ज्ञा प्रेरणे चुरा० उभ० सक० सेट् । ज्ञापयति ते अजिज्ञपत् त ।

अस्यैव रूपम् आज्ञापयतीत्यादि । “आज्ञापय ज्ञात-
विशेष! पुंसाम्” कुमा० ।

ज्ञात त्रि० ज्ञा--कर्म्मणि क्त । विदिते “ज्ञाततत्त्वोऽपि

“खल्वेकः सन्दिग्धे कार्य्यवस्तुनि” माघः । “ज्ञाता-
ज्ञाताः कुले मम” वायुपु० । भावे क्त । २ ज्ञाने न० । यावा०
स्वार्थे कन् । ज्ञातक विदितार्थे ।

ज्ञातनन्दन पु० ज्ञातेन ज्ञानेन नन्दति नन्द--ल्यु ३ त० । अर्हद्भेदे हेम० ।

ज्ञातल त्रि० ज्ञातं ज्ञानं लाति ला--क । ज्ञानयुक्ते तस्या-

पत्यं शुभ्रांशतलेत्यत्र ज्ञातलेति पाठान्तरात् ढक् ।
ज्ञातलेय तदपत्ये पुंस्त्री० ।

ज्ञातसिद्धान्त पु० ज्ञातः सिद्धान्तः तत्त्वार्थो येन । सिद्धान्तज्ञे अमरः ।

ज्ञाति पु० जानाति छिद्रं कुलस्थितिं वा संज्ञायां क्तिच् ।

ज्ञा--कर्त्तरि करणे वा क्तिच् । १ पितरि २ पितृवंश्ये
सपिण्डसकुल्यसमानोदकमगोत्रजरूपे एकगोत्रोत्पन्ने पितृ-
व्यादौ अमरः । “ज्ञातेभेदो न नः कार्य्यः साक्षी त्वं मम
नारद!” हरिवं० १२९ अ० । ज्ञातिश्च चतुर्विधः “सप्तमगुरु-
षपर्प्यन्तं सपिण्डः । ततस्त्रिपुरुषपर्य्यन्तं सकुल्यः ।
ततश्चतुर्थपुरुषपर्य्यन्तं समानोदकः । जन्मनामस्मृतिपर्य्यन्तमपि
समानोदकः । ततः परं सगोत्रजः । ज्ञातिद्रोहे दोष्रो
यथा “यानि कानि च पापानि ब्रह्महत्यादिकानि
च । ज्ञातिद्रोहस्य पापस्य कलां मार्हन्ति षोड़शीम् ।
“भर्वृभ्रातृपितृक्षातिश्वश्रूश्वशुरदेवरैः” । “ज्ञातिश्रैष्ठ्यं
सर्वकामानाप्नोति श्रात्तदः सदा” इति च याज्ञ० । “ज्ञा-
तिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः” मनुः । ततः
परस्म पुत्रशबदस्य समासे नाद्युदात्तता ।

ज्ञातृ त्रि० ज्ञा--तृन् । १ ज्ञानशीले २ वेत्तरि च ज्ञातुर्भावः

अण् । ज्ञात्र ज्ञातृत्वे न० “संविच्च मे ज्ञात्रं च मे”
यजु० ८७ । “ज्ञात्रं विज्ञानसामर्थ्यम्” वेददी० ।

ज्ञातेय न० ज्ञातेर्भावः कर्म वा ढक् । १ ज्ञातित्वे २ ज्ञातिकर्म्मणि

च । “ज्ञातेयं कुरुसौमित्रे! भयात्त्रावस्व राथवम्” भट्टिः

ज्ञान पु० विषयान् जानाति ज्ञः अनिति अनः कर्म्म० ।

१ जीवे । भावे ल्युट् । २ बोधे न० । ३ विशेषेण सामा-
न्येन चाववोधे । वेदान्तिमते ४ षदार्थग्राहिकायां
मनोवृत्तौ, तच्च ज्ञानं नानाविधं यथा ज्ञानं द्विधा वस्तुमात्र-
द्योतकं निर्विकल्पकम् । सविकल्पन्तु संज्ञादिद्योतकत्वा-
दनेकधा । संकल्पसंशयम्रान्बिस्पृतिसादृश्यनिश्चयाः ।
ऊहोऽनध्यवसायश्च तथान्येऽनुभवा अपि” । इत्यादिभेदे-
नानेकविधा भवन्तीत्यर्थः । ५ सम्यग्बोधे । न्यायमते
६ बुद्धिमात्रे “बुद्धिस्तु द्विविधा मता । अनुभूतिः स्मृति-
श्चैव” भाषा० तच्च प्रकारान्तरेण द्विविधं यथा “अप्रमा
च प्रमा चेति ज्ञानं द्विविधमुच्यते, तच्छून्ये तन्म-
तिर्या स्यादप्रमा सा निरूपिता । तत्प्रपञ्चो विपर्य्यासः
संशयोऽपि प्रकीर्त्तितः । आद्यो देह आत्मबुद्धिः
शङ्खादौ पीततामतिः । भवेन्निश्चयरूपा सा संशयोऽथ
प्रदर्श्यते । किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः ।
तदभावाऽप्रकारा धीस्तत्प्रकारा तु निश्चयः । स संशयो
भवेद्या धीरेकत्राभावभावयोः । साधारणादिधर्मस्य ज्ञानं
संशयकारणम् । दोषोऽप्रमायाजनकः प्रमायास्तु गुणो
भवेत् । वित्तदूरत्वादिरूपो दोषो नानाविधो मतः ।
प्रत्यक्षे तु विशेषेण विशेषणवता समम् । सन्निकर्षो
गुणस्तु स्यादथ त्वनुमितौ गुणः । पक्षे साध्यविशिष्टे च
परामर्शोगुणो भवेत् । श्क्ये सादृश्यबुद्धिस्तु भवेदुपमितौ
गुणः । शाब्दबोधे योग्यतायास्तात्पर्य्यस्याथवा प्रमा ।
गुणः स्याद्, भ्रमभिन्नस्तु ज्ञानमत्रोच्यते प्रमा । अथ वा
तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम् । ज्ञानं यन्निर्विक-
ल्पाख्यं तदतीन्द्रियमिष्यते । तत् प्रमा नाऽप्रमा नापि
ज्ञानं यन्निर्विकल्पकम् । प्रकारत्वादिशून्यं हि सम्बन्धान-
वगाहि तत्” इति भाषा० । ७ बुद्धिवृत्तिनिरोधरूपे योगे
“एकत्वं बुद्धिमनसोरिन्द्रियाणाञ्च सर्वशः । आत्मनो व्यापि-
नस्तात! ज्ञानमेतदनुत्तमम्” इति भा० शा० मोक्षधर्मः ।
एकत्वं बुद्धिमात्रेणावस्थानम् बुद्धिवृत्तिनिरोध इति यावत् ।
८ देवताध्यानादौ ९ विवेकविज्ञाने शास्त्राचार्य्योपदेशजे
परमात्मविषये साक्षान्मोक्षफले १० आत्मनिश्चये तत्त्वज्ञाने
वेदान्तिमते ११ जीवेश्वरजगद्भे दभ्रमाधिष्ठानभूते नित्य-
स्वप्रकाशे सच्चिदानन्दरूपाद्वितीये परमार्थसत्ये,
चैतन्ये । करणे ल्युट् । १२ आत्मानात्मसर्वपदार्थाव-
पृष्ठ ३१५१
बोधने विवेकसामर्थ्ये । १३ अहब्रह्मेत्युपासने ।
तच्चोपासनम् “ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः ।
नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः । निविकारो
निराकारो निरवद्योऽहमव्ययः । नाहं देह इत्यादि ।
निरामयो निराभासो निर्विकल्पोऽहमाततः ।
नाहमित्यादि । निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहंम-
च्युतः । नाहमित्यादि । निर्भलो निश्चलोऽनन्तः शुद्धोऽह-
मजरोऽमरः । नाहमित्यादि । वेदान्तशास्त्रोक्तं बोध्यम ।
१४ शब्दयुक्तिभ्यामात्मनिश्चये । “अमानित्वमदम्भित्वमहिंसा
क्षान्तिरार्जवम् । आचार्य्यापामन शौचं स्थैर्य्यमात्म-
विनिग्रहः । इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदःखदोषानुदर्शनम् । असक्तिर-
नभिष्वङ्गः पुत्रदारगृहादिषु । नत्यञ्च समचित्तत्वमि-
ष्टानिष्टोपपत्तिषु । मयि चानन्ययोगेन भक्तिरव्यभि-
चारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि । अध्या-
त्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतजज्ञानमिति
प्रोक्तमज्ञानं यदतोऽन्यथा” इति गोताक्तार्थेषु १५ ज्ञानसा-
धनेषु । तच्च सात्त्विकादिभेदात् त्रिविधम् । यथा “सर्व-
भूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषुतज-
ज्ञानं बिद्धि सात्त्विकम्” । (सात्त्विकं सर्वसंसारोच्छित्ति-
कारणम्) । “पृथक्त्वेन तु यज्ज्ञानं नानाभावान्
पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञान विद्धि
राजसम् । यत्तु कृतस्तवदेकस्मिन् कार्य्ये सक्तमहेतु-
कम् । अतत्त्वार्थवदल्पञ्च तत् तामसमुदाहृतम्” ।
(राजसं तामसञ्च संसारकारणम्) । आत्मनः
श्रवणमननाभ्यां परिनिष्पन्ने प्रमाणजन्यचतोवृत्त्यभि-
व्यक्तसच्चिद्रूप १६ परमात्मज्ञानसाधनशास्त्रादात्मतत्त्वस्याव-
गमे आत्मसाक्षात्कारे “लोकवासनया जन्तोः शास्त्र-
वासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ।
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः” “यथादशत-
लप्रख्ये पश्यत्यात्मानमात्मनि” इति ब्रह्मसाक्षात्काररूप-
ज्ञानहेतुरुक्तः । १७ साङ्गवेदतदर्थविषयेऽवबोधे । महावा-
क्यजन्याखण्डाकारायां १८ बुद्धिवृत्तौ १९ स्वस्वरूपस्फुरणे ।
सांख्यमते गुणपुरुषान्यताख्यातिरूपे २० अध्यवसाये ।
ज्ञायतेऽनेन । ज्ञा--करणे ल्युट् । २१ वेदे २२ शास्त्रादौ च ।
तत्र प्रत्यक्षज्ञानोत्पत्तिप्रकारो मतभेदेन निरूप्यते । तत्र
नैयायिकैः “आत्मा मनसा युज्यते मन इन्द्रियेणैन्द्रियं
विषयेण तस्मादध्यक्षम्” इत्युक्त दिशा प्रत्यक्षं जायते ।
व्याप्तिज्ञानपरामर्शोत्तरमनुमितिर्जायते । वृत्तिज्ञानसहकृ-
तपदज्ञानजन्यपदाथौपस्थितौ शाब्दबोधो जायते । गवादौ
गोसादृश्यज्ञानेन गोसदृशो गवय इत्यादिना अतिदिष्ट-
वाक्यार्थस्य स्मृतौ गवयो गवयवाच्य इत्यादि रीत्या
उपमितिज्ञानं जायते इत्यङ्गीकृतम् । केचित् बौद्धमेदाः
बाह्यार्थाभावेन बुद्धेरेव तत्तदर्थाकारतयावभास इत्यङ्गी-
चक्रुः” यथोक्तं सर्वद० स०
“बाह्यं ग्राह्यं नोपपद्यत एव विकल्पानुपपत्तेः ।
अर्थोज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा, न
पूर्वः उत्पन्नस्य स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात् ।
अथ मन्येथाः अतीत एवार्थोज्ञानग्राह्यः तज्जनकत्वादिति
तदपि बालभाषितं वर्त्तमानतावभासविरोधात् इन्द्रिया-
देरपि ग्राह्यत्वप्रसङ्गाच्च । किञ्च ग्राह्यः किं परमाणुरूपो-
ऽर्थः अवयविरूपो वा । न चरमः कृत्स्रैकदेशविकल्पा-
दिना तन्निराकरणात् । न प्रथमः अतीन्द्रियत्वात् षट्केन
युगपद्योगस्य बाधकत्वाच्च । यथोक्तम् “षट्केन युगप-
द्योगात् परमाणोः षडं शता । तेषामप्येकदेशत्वे पिण्डः-
स्यादनुमात्रकः” इति । तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्त-
दात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदिति
सिद्धम । तदुक्तम् “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या
नाञनवोऽपरः । ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रका-
शते” इति । ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यत
येन वेदनेन, तत्ततो न भिद्यते यथा ज्ञानेनात्म, वेद्यन्ते
तैश्चनीलादयः । भेदे हि सत्यधुना अनेनार्थस्य सम्ब-
न्धित्वं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्ते-
रनियामकत्वात् यश्चायं ग्राह्यग्राहकसम्वित्तीनां पृथगव-
भासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः । अत्रा
प्यनादिरविच्छिन्नप्रवाहा भेदवासनैव निमित्तम् । यथोक्तम्
“सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रन्तिवि-
ज्ञानैर्दृश्ये तेन्दाविबाद्वय” इति । “अविभागोऽपि बुद्ध्यात्मा
विपर्य्यासितदर्शनैः । ग्राह्यग्राहकसम्वित्तिभेदवानिव
लक्ष्यते” न च रसवीर्य्यविपाकादिसमानमाशामोद-
कोपार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्ययेद-
काकारविधुराया अपि बुद्धेर्व्यवहर्त्परिज्ञानानुरोधेन
विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपह-
ताक्ष्णां केशेन्द्रनाडीज्ञानाभेदवदनाद्युपप्लववासनासामर्थ्या-
द्व्यवस्थोपपत्तेः पर्य्यनुयोगायोगात । यथोक्तम् “अवेद्य-
वेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्य-
पृष्ठ ३१५२
ग्राहकाकारविप्लवा । तथा कृतव्ययस्थेयं केशादिज्ञानभे-
दवत् । यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणेति” ।
तस्मादुबुद्धिरेवानादिवासनावशादनेकाकारावभासत इति”
सिद्धम् ।”
तदेतन्मतं बौद्धविशेषैर्निराकृतं तदपि तत्रैवोक्तं यथा ।
“अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तुजातं नास्तोति
तदयुक्तं प्रमाणाभावात् । न च सहोपलम्भनियमः
प्रमाणमिति वक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभि-
मतस्य तस्याप्रयोजकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात् ।
ननु भेदे सहोपलम्भनियमात्मकं साधनं न स्यादिति चेन्न
ज्ञानस्यान्तर्मुखतया भेदेन प्रतिभासमानतया एकदेश-
त्वैककालत्वलक्षणसहत्वनियमासम्भवाच्च नीलाद्यर्थस्य
ज्ञानाकारत्वे अहमिति प्रतिभासः स्यात् नत्विदमिति
प्रतिपत्तिः प्रत्ययादव्यतिरेकात् । अथोच्यते ज्ञानस्वरूपो
ऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न
च तत्राहमुल्लेख इति । यथोक्तम्” परिच्छेदान्तराद्योऽयं
भागो बहिरिव स्थितः । ज्ञानस्याभेदिनो भेदपतिभासो-
ऽप्युपप्लव” इति “यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासत” इति
च । तदयुक्तं बाह्यार्थाभावे तदुत्पत्तिरहिततया
बहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवद-
वभासत इति प्रेक्षावानाचक्षीत । भेदप्रतिभासस्य भ्रा-
न्तत्वे अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च
भेदप्रतिभासस्य भ्रान्तत्वमिति परस्पराश्रयप्रसङ्गाच्च । अविसंवा-
दान्नीलतादिकमेव संविदाना वाह्यमेवोपाददते जगत्युपे-
क्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च । एवञ्चायमभेदबाधको
हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् अतोबहि-
र्वदिति वदता बाह्यं ग्राह्यमेवेति भावनीयमिति
भवदीय एव वाणो भवन्तं प्रहरेत् ।”
“ननु ज्ञानाभिन्नकालस्यार्थस्य बाह्यत्वमनुपपन्नमिति चेत्
तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने
स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानु-
श्रेयतोपपत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहि-
धाताम् “भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां
विदुः । हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति” ।
तथा च यथा पुष्ट्या भोजनमनुभीयते यथा च भाषया
देशः, यथा वा सम्भ्रमेण स्नेहः, तथा ज्ञानाकारेण ज्ञेत-
मनुमेयम् । तदुक्तम् “अर्द्धेन घटयत्येनां न हि सुक्त्रा-
र्द्धरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूप-
तेति” । न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्व-
त्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं धटये-
दिति च । तथाच बाह्यार्थसद्भावे प्रयोगः ये यस्मिन्
सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाः यथा
अविवक्षति, अजिगमिषति मयि वचनगमनप्रतिभासा
विवक्षुजिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथा च विवा-
दाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचि-
देव नीलाद्युल्लेखना इति । तत्रालयविज्ञानं नामाहमा-
स्पदं विज्ञानं नीलाद्युल्लेखि च प्रवृत्तिविज्ञानम् ।
यथोक्तम् “तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत्
स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेदिति” । तस्मादा-
लयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहे-
तुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययः
कादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम् ।”
वेदान्तिमते । “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो
घटम् । तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्”
इत्युक्तरीत्या प्रत्यक्षस्थले इन्द्रियादिप्रणाल्या अन्तःकरस्य
विषयदेशगत्या तदाकारेण षरिणामरूपवृत्तौ सत्यां
विषयगताज्ञाननाशे अन्तःकरणवृत्त्यवच्छिन्नचैतन्येन विषय-
स्फुरणरूपं पौरुषेयज्ञानं ज्ञायते । वृत्तिरूपज्ञानन्तु मनो
धर्म इति भेदः । यथोक्तं वेदा० प० १ परिच्छेदे
“यथा तड़ागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्
प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजस
मन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयाकारेण
परिणमते । स एव परिणामो वृत्तिरित्युच्यते । अनुमित्यादि
स्थले तु अन्तःकरणस्य न वह्न्यादिदेशगमनं वह्न्यादेश्चक्षु-
राद्यसन्निकर्षात् तथा चायं घट इत्यादिप्रत्यक्षथले
घटादेस्तदाकारवृत्तेश्च वहिरेकत्र देशे समवस्थानात् तदुभया-
वच्छिन्नं चैतन्यमेकमेव विभाजकयोरप्यन्तःकरणवृत्तिघटा-
दिविषययोरेकदेशस्थितत्वेन भेदाजनकत्वात् ।”
प्रत्यक्षेऽन्तःकरणवृत्तेः फलभेदस्तत्रैव ७ परि० दर्शितो यथा
“सा चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं प्रतम् ।
तथाहि अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधि-
ष्ठानचैतन्यस्य जीवरूपतया जीवस्य सर्वदा घटादिभान-
प्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापर-
तन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम् । एवं सति न सर्वदा
घटादेर्भानप्रसङ्गः अनाघृतचैतन्यसम्बन्धस्यैव भानप्रयो-
जकत्वात् । तस्य चावरणस्य सदातनत्वे कदाचिदपि
पृष्ठ ३१५३
चटभानं न स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न
चैतन्यमात्रं तद्भासकस्य तदनिवर्तकत्वात् नापि वृत्त्युप-
हितचैतन्य परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्ष-
व्यावृत्तवृत्तिविशेषस्य तदुपहितचैतन्यस्य वा आवरण
भञ्जकत्वमित्यावरणाभिभवार्था वृत्तिरुच्यते । सम्बन्धार्था
वृत्तिरित्यप्रं मतम् । तत्राविद्योपाधिकोजीवोऽपरि-
च्छिन्नः स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारा-
परोक्षवृत्तिविरहदशायां न घटाटिकमवभासयति
घटादिना समं सम्बन्धाभावात् तत्तदाकारवृत्तिदशायां तु
भासयति तदा सम्बन्धसत्त्वात् । ननु अविद्योपाधिकस्य
जीवस्यापरिच्छिन्नस्य स्वतएव समस्तवस्तुसम्बद्धस्य वृत्ति-
विरहदशायां सम्बन्धाभावाभिधानमसङ्गतम् असङ्गतत्व
दृष्ट्या सम्बन्धाभावाभिधाने च वृत्त्यनन्तरमपि सम्बन्धो
न स्यादिति चेत् उच्यते न हि वृत्तिविरहदशायां
जीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामः
किन्तर्हि घटादिभानप्रयोजकं सम्बन्धविशेषम् । स च
सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्यव्यञ्जकता
लक्षणः कादाचित्कस्तत्तदाकारवृत्तिनिबन्धनः । तथा हि
तैजसमन्तःकरणं खच्छद्रव्यत्वात् स्वतएव जीवचैतन्याभि-
व्यञ्जनसमर्थं, घटादिकन्तु न तथा अस्वच्छद्रव्यत्वात् ।
खाकारवृत्तिसंयोगदशायान्तु वृत्त्यभिभूतजाड्यधर्मकतया
वृत्त्युत्पादितचैतन्याभिव्यञ्जनयोग्यताश्रयतया च वृत्त्यु-
दयानन्तरं चैतन्यमभिव्यनक्ति । तदुक्तं विवरणे “अन्तः-
करणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्या-
भिव्यक्तियोग्यतामापादयतीति” । दृष्टञ्चास्वच्छद्रव्यस्यापि
स्वच्छद्रव्यसम्बन्धदशायां प्रतिबिम्बग्राहित्वं यथा कुद्यादे-
र्जलादिसंयोगदशायां मुखादिप्रतिविम्बग्राहिता ।
घटादेरभिव्यञ्जकत्वञ्च तत्प्रतिविम्बगृअहित्वं चैतन्यस्याभिव्यक्त-
त्वञ्च तत्र प्रतिविम्बितत्वम् । एवंविधाभिव्यञ्जकत्वसिद्ध्य-
र्थमेतदुवृत्तेरपरोक्षस्थले वहिर्निर्गमनाङ्गीकारः । परोक्ष-
स्थले तु वह्न्यादेर्वृत्तिसंयोगाभावेन चैतन्यानभिव्यञ्जक-
तया नापरोक्षत्वम् ।”
सांख्यादिमते अर्थाकारेण परिणताया वुद्धिवृत्तेश्चेतने
प्रतिविम्बनात् विषयप्र्काशरूपं ज्ञानम् । तत्र पौरुषेय-
बोधे वृत्तिः करणं, वृत्तिरूपज्ञाने च इन्द्रियादिकरणमिति
भेदः । यथोक्तं सा० प्र० सू० भाष्ययोः ।
“द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा तत्सा-
धकतमं यत् तत् त्रिविधं प्रमाणम् ।” सू० “असन्निकृष्टः
प्रभातर्यनारूढ़ोऽनधिगत इति यावत् । एवंभूतस्यार्थस्य
वस्तुनः परिच्छित्तिरवधारणं प्रमा सा च द्वयोर्बुद्धिपुरु-
षयोरुभयोरेव धर्मो भवतु । किं वैकतरमात्रस्योभयथैव
तस्याः प्रमाया यत् साधकतमं फलायोगव्यवच्छिन्नं कारणं
तत्प्रमाणं तच्च त्रिविधं वक्ष्यमाणरूपेणेत्यर्थः । स्मृतिव्या-
वर्तनायानधिगतेति । भ्रमव्यावर्तनाय वस्त्विति । संशय-
व्यावत्तनाय त्ववध्रणमिति । अत्र यदि प्रमारूपं फलं
पुरुषनिष्ठमात्रमुच्यते तदा बुद्धिवृत्तिरेव प्रमाणम् । यदि
च बुद्धिनिष्ठमात्रमुच्यते तदा तूक्तेन्द्रियसन्निकर्षादिरेव
प्रमाणम् । पुरुषस्तु प्रमासाक्ष्येव न प्रमातेति । यदि च
पौरुषेयबोधो बुद्धिवृत्तिश्चोभयमपि प्रमोच्यते तदा तूक्त-
मुभयमेव प्रमाभेदेन प्रमाणं भवति । चक्षुरादिषु तु
प्रमाणव्यवहारः परम्परयैव सर्वथेति भावः । पातञ्जल-
भास्ये तु व्यासदेवैः पुरुषनिष्ठो बोधः प्रमेत्युक्तः पुरुषा-
र्थमेव करणानां प्रवृत्त्या फलस्य पुरुषनिष्ठताया
एवौचित्यात् । अतोऽत्रापि स एव मुख्यः सिद्धान्तः । न च
पुरुषबोधस्वरूपस्य नित्यतया कथं फलत्वमिति वाच्यम्
केवलस्य नित्यत्वेऽप्यर्थोपरागस्यैव फलत्वादिति ।
अत्रेयं प्रक्रिया । इन्द्रियप्रणालिकयार्थसन्निर्षेण लिङ्ग-
ज्ञानादिना वादौ बुद्धेरर्थाकारा वृत्तिर्जायते तत्र चेन्द्रि-
यसन्निकर्षजा प्रत्यक्षा वृत्तिरिन्द्रियविशिष्टबुद्ध्याश्रिता
नयनादिगतपित्तादिदोषैः पित्ताद्याकारवृत्त्युदयादिति विशेषः ।
सा च वृत्तिरर्थोपरक्ता प्रतिविम्बरूपेण पुरुषारूढ़ा सती
भासते पुरुषस्यापरिणामितया बुद्धिवत् स्वतोऽर्थाकारत्वा-
सम्भवात् । अर्थाकारताया एव चार्थग्रहणत्वात् अन्यस्य
दुर्वचत्वादिति । तदेतद्वक्ष्यति “कुसुमवच्च मणिः”
जपास्फटिकयोरिव नोपरागः किन्त्वभिमान इति । योगसूत्रं
च “वृत्तिसारूप्यमितरत्रेति” । स्मृतिरपि । “तस्मिंश्चिद्दर्पणे
स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिविम्बन्ति
सरसीव तटद्रुमाः” इति । योगभाष्यञ्च “बुद्धेः प्रति-
संवेदी पुरुष” इति प्रतिध्वनिवत् प्रतिसंवेदः संवेदन-
प्रतिविम्बस्तस्याश्रय इत्यर्थः । एतेन पुरुषाणां
कूटस्थविभुचिद्रूपत्वेऽपि न सर्वदा सर्वाभासनप्रसङ्गः
असङ्गतस्य स्वतोऽर्थाकारत्वाभावात् । अर्थाकारतां
विना च संयोगमात्रेणार्थग्रहणस्यातीन्द्रियादिस्थले
बुद्धावदृष्टत्वादिति । पुरुषे च स्वस्वबुद्धिवृत्तीनामेव
प्रतिविम्बार्पणसामर्थ्यमिति फलवलात् कल्प्यते । यथा
रूपवतामेव जलादिषु प्रतिविम्बनसामर्थ्यं नेतरस्येति ।
पृष्ठ ३१५४
रूपवत्त्वं च न सामान्यतः प्रतिविम्बप्रयोजकं शब्द-
स्यापि प्रतिध्वनिरूपप्रतिविम्बदर्शनात् । न च शब्द-
जन्यं शब्दान्तरमेव प्रतिध्वनिरिति वाच्यं स्फटिकलौ-
हित्यादेरपि जपासन्निकर्षजन्यतापत्त्या प्रतिविम्ब-
मिथ्यात्वसिद्धान्तक्षतेरिति । प्रतिविम्बश्च बद्धेरेव
परिणामविशेषो विम्बाकारो जलादिगत इति मन्तव्यम् ।
केचित् तु वृत्तौ प्रतिविम्बतं सदेव चैतन्यं वृत्तिं
प्रकाशयति तथा वृत्तिगतप्रतिविम्ब एव वृत्तौ चैतन्य-
विषयता न तु चैतन्ये वृत्तिप्रतिविम्बोऽस्तीत्याहुः ।
तदसत् उपदर्शितशास्त्रविरोधेन केवलतर्कस्याप्रयो-
जकत्वात् विनिगमनाविरहेण वृत्तिचैतन्ययोरन्योन्य-
विषयताख्यसम्बन्धरूपतयान्योन्यस्मिन्नन्योन्यप्रतिबिम्बसि-
द्धेश्च । बाह्यस्थलेऽर्थाकारताया एव विषयतारूपत्वसिद्ध्या-
ऽऽन्तरेऽपि तत्तदर्थाकारताया एव विषयतात्वौचित्या-
च्चेति । ये तु तार्किका ज्ञानस्य विषयतां नेच्छन्ति तन्मते
ज्ञानव्यक्तीनामनुगमकधर्माभावेन घटविषयकं पटविषयकं
ज्ञानमित्याद्यनुगतव्यवहारानुपपत्तिः । केचित् तु
तार्किका अनयैवानुपपत्त्या विषयतामतिरिक्तपदार्थमाहुः ।
तदप्यसत् अनुभूयमानानामर्थाकारतां विहाय विषय-
तान्तरकल्पने गौरवादिति । ननु तथापि स्वस्वोपाधि-
वृत्तिरूपैव वृत्तिचैतन्ययोरन्योन्यविषयतास्तु स्वोपाधि-
वृत्तित्वेनैवानुगमादलमाकाराख्यप्रतिविम्बद्वयेनेति चेन्न
प्रतिविम्बं विना स्वत्वस्यापि दुर्वचत्वात् । स्वत्वं हि
स्वभुक्तवृत्तिवासनावत्त्वम् । भोगश्च ज्ञानम् । तथा
च विषयतालक्षणम्य विषयसामग्रीधटितत्वेजात्मश्रयः ।
तस्मादचैतन्यचैतन्ययोरन्योन्यविषयतारूपोऽन्योन्यस्मिन्न-
न्योन्यप्रतिविम्बः सिद्धः । अधिकन्तु योगवार्त्तिके द्रष्टव्य-
मिति दिक् । अत्रायं प्रमात्रादिविभागः । “प्रमाता
चेतनः शुद्धः प्रमाणं वृत्तिरेव नः । प्रमार्थाकारवृत्तीनां
चेतने प्रतिविम्बनम् । प्रतिविम्बितवृत्तीनां विषयो मेय
उच्यते । साक्षाद्दर्शनरूपं च साक्षित्वं वक्ष्यति स्वयम् ।
अतः स्यात् कारणाभावाद्वुत्तेः साक्ष्येव चेतनः ।
विप्ण्वादेः सर्वसाक्षित्वं गौणं लिङ्गाद्यभावतः ।”
“ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे” देवीमा० ।
“कपाये कर्मभिः पक्वे ततो ज्ञानं प्रजायते” वेदा० । २४
परब्रह्मणि च “सत्थं ज्ञानमानन्दं ब्रह्म” श्रुतिः । २५ विष्णौ
“सर्वज्ञः ज्ञानमुत्तयम्” विष्णु स० ।

ज्ञानकृत त्रि० ज्ञानेन कृतम् । बुद्धिपूर्बकृते तत्र पाषस्य

बुद्धिपूर्बकृतत्वे विशेषः प्रा० त० उक्तो यथा “गोबधस्य
बुद्धिपूवकत्वं तदा भवति यदि गां ज्ञात्वा एनां हन्मी-
तीच्छया हन्ति तदा कामनाद्वारैव ज्ञानस्य प्रवृत्त्यङ-
त्वात्” “इत्थञ्च गवयादिभ्रमेण योगोबधस्तत्र गोबधस्यु
न ज्ञानकृतत्वम् गोत्वे वाज्ञानात् यदि गोत्वेन जानन्न-
प्यन्योद्देशेन क्षिप्तनाराचादिना गां हन्ति तदापि न
ज्ञानकृतत्वं तद्विषयत्वे नेच्छारूपद्वाराभावात्” ।

ज्ञानगम्य पु० ज्ञानेनैव गम्यः न कर्मणा न वा ज्ञानकर्म-

भ्याम् । ज्ञानमात्रगम्ये परमेश्वरे । “उत्तरो गोपति-
र्गोप्ता ज्ञानगम्यः पुरातनः” विष्ण् स० ।

ज्ञानचक्षुस् पु० ज्ञानं ज्ञानसाधनं वेदादिशास्त्रं चक्षुरिवास्य ।

शास्त्रावबोधेन सर्वार्थप्रकाशयुक्ते कर्म० । विदुषि २ शास्त्ररूपे
नेत्रे च “सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः ।

ज्ञानदग्धदेह पु० ज्ञाननैव दग्धो देहोऽस्य । चतुर्थाश्रमिणि

भिक्षौ तस्य ज्ञानेनैव जीवतोऽपि दग्धदहत्वात् मृतस्य न
दाहान्तरं कार्य्यं यथोक्तं शौनकेन “सर्वसङ्गनिवृत्तस्य
ध्यानयोगरतस्य च । न तस्य दहनं कार्य्यं नैव पिण्डीद-
कक्रिया । निदध्यात् प्रणवेनैव बिले भिक्षोः कलेवरम् ।
प्रोक्षणं खननञ्चापि सर्वं तेनैव कारयेत्” ।

ज्ञानदर्पण पु० ज्ञानं दर्पण इवास्य । पूर्वजिने मञ्जुधोषे त्रिका० ।

ज्ञानद त्रि० ज्ञानं ददाति दा--क । १ गुरौ २ उपदेष्टरि

च ३ सरस्वत्यां स्त्री ।

ज्ञानदातृ त्रि० ज्ञानस्य दाता । उपदेष्टरि गुरौ “पितुर्दश

गुणा माता गौरवेणेति निश्चितम् । मातुः शतगुणः
पूज्यो ज्ञानदाता गुरुः प्रभो!” तन्त्र० । २ ज्ञानस्य दायक-
मात्रे त्रि० स्त्रियां ङीप् ।

ज्ञाननिष्ठ त्रि० ज्ञाने निष्ठाऽस्य । ज्ञानसाधभयुते तत्त्वविदुषि ।

ज्ञानपति पु० ६ त० । ज्ञानस्योपदेष्टृत्वात् स्वामिनि गुरौ

२ परमेश्वरे च । ततः अश्वपत्या० अपत्यादौ अण् ।
ज्ञानपत तदपत्ये पुंस्त्री स्त्रियां ङीप् ।

ज्ञानपावन न० ज्ञानमिव पावनम् । तीर्थभेदे “ततो गच्छेत

राजेन्द्र! ज्ञानपावनमुत्तमम् । अग्निष्टोममवाप्नोति
मुनिलोकञ्च गच्छति” भा० व० ८४ अ० ।

ज्ञानमय पु० ज्ञान + मयट् । १ परमेश्वरे परब्रह्मणि २ शिवे च ।

ज्ञानमुद्रा स्त्री “तर्ज्जन्यङ्गुष्ठकौ सक्तावग्रतो विन्यसेदुहृदि ।

वामहस्ताम्बुजं वामजानुमूर्द्धनि बिन्यरेन्त् । ज्ञानमुद्रा
भवेदेषा रामचन्द्रस्य प्रेयसी” तन्त्रसारोक्ते रामार्च-
नाङ्गे मुद्राभेदे ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/जालिनी&oldid=57756" इत्यस्माद् प्रतिप्राप्तम्