सामग्री पर जाएँ

वाचस्पत्यम्/जलाष

विकिस्रोतः तः
पृष्ठ ३०७८

जलाष न० जायते जल--ड जः लाषोऽभिलाषो यत्र । १ सुखे

निघ० अन्येच्छानधीनेच्छाविषयत्वात् तस्य तथात्वम् ।
अस्त्यर्थे अर्श० अच् । २ तद्धेतौ त्रि० । “यो अस्ति भेषजो जलाषः”
ऋ० २ । ३३ । ७ “जलाषः सर्वेषां सुखकरः” भा० “गतिमेध-
पतिं रुद्रं जलाषभेषजम्” ऋ० ४६ । ४ । ३ जले निघ० ।

जलाषाह् त्रि० जलं सहते सह--ण्वि--पूर्वपददीर्घः सुपामादि०

षत्वम् । जलसोढ़रि । सुषामादिगणे अमन्ततयैव पाठा-
दन्यत्र न षत्वम् । जलासाहौ । स्वादौ झलि तु “साड़ेः
षः” साड्रूपत्वे षत्वम् जलाषाट् जलाषाड्भ्यामित्यादि ।

जलाष्टीला स्त्री जलेनाष्ठीला । पुष्करिण्याम् हारा० ।

जलासुका स्त्री जलमेवासवोऽस्याः कप् । १ जलौकायाम् अमरः

जलाह्वय पु० जले आह्वयः शोभमानतया कीर्त्तनमस्य ।

उत्पले राजनि० ।

जलिका स्त्री जलमुद्भवस्थानत्वेनास्त्यस्याः ठन् । जलौकायां भरतः ।

जलुका स्त्री जल--उक । जलौकायां शब्दर० ।

जलूका स्त्री जलमोको यस्याः पृषो० । १ जलौकायाम् हेमच०

“न जलूकादिवत् संक्रमणमिहोपदिश्यते” तैत्ति० भा० ।

जलेचर पुंस्त्री जले चरति चर--ट वा अलुक् स० । हंसादौ

स्त्रियां टित्त्वात् ङीप् । “यक्षोऽहमस्मि भद्रं ते
नास्मि पक्षी जलेचरः” भा० व० २१३ अ० । स
तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्” भा० आ० २१ अ०

जलेच्छया स्त्री जलमेति इ--क्विप् जलेति शेते शी--अच् ।

जलोपेतस्थानरोहिणि हस्तिशुण्डावृक्षे शब्दर० ।

जलेज न० जले जायते जन--ड वा अलुक् समा० । वारिज

१ पद्मे । “उद्भासीनि जलेजानि दुन्वन्त्यदयितं जनम्”
भट्टिः । २ जले जातमात्रे त्रि० ।

जलेजात न० ७ त० । १ पद्मे शब्दरत्ना० । २ वारिजातमात्रे त्रि० ।

जलेन्द्र पु० ६ त० । १ वरुणे २ महादेवे जम्भलाख्ये ३ पूर्व्वयक्षे

मेदि० ।

जलेन्धन पु० जलान्येवेन्धनानि यस्य । १ वाड़वानले बाड़वा-

नलशब्दे दृश्यम् । २ सौरविद्युदादितेजसि शब्दार्थचि० ।

जलेभ पु स्त्री जलजात इभः । जलहस्तिनि स्त्रियां जाति-

त्वात् ङीष् । “प्रस्फुरत्तिमिजलेमजिह्मगः” वृ० १२ अ०

जलेयु पु० पूरुवंश्ये रौद्राश्वनृपस्याप्सरोजाते पुत्रभेदे “रौद्रा

श्वस्य महेष्वासा दशाप्सरसि सूनवः” इत्युपक्रमे “स्थण्डि-
लेयुर्वनेयुश्च जलेयुश्च महायशाः” भा० आ० ९४ अ० ।

जलेरुहा स्त्री जले रोहति--रुह--क--अलुक् स० । १ कुटु-

म्बिनीवृक्षे राजनि० । २ जलरोहिणि पद्मादौ त्रि० ।

जलेला स्त्री कुमारानुचरमातृभेदे “उत्क्राथिनी जलेला च

महावेगाथ कङ्कणा” भा० स० ४७ अ० ।

जलेवाह पु० जले तोयाभ्यन्तरे वाही गतिरस्य । (डुवारि)

ख्याते जलमज्जलेन तत्स्थपदार्थोत्तोलके पुरुषभेदे ।
“जलेवाहानथाहूय बहूंस्तत्र न्ययोजयत् । ते कृत्वा
परमं यत्नमापुराभरणं न तत्” पाद्मे पा० ख० ।

जलेश पु० ६ त० । १ वरुणे २ समुद्रे च “कालं गतिं तेऽखिल-

देवतात्मनो दिशश्च कर्ण्णौ रसनं जलेशम्” भाग० ८ । ७ । २०
विराड्रूपोक्तौ “पातयामास सेनायां जलेशस्य स
दानवः” हरिवं २५२ अ० । जलेश्वरादयोऽप्यत्र । “भीमो-
द्भवां प्रति नले च जलेश्वरे च” नैष० । “यमकुवेरजले०
श्वरवज्रिणाम्” रघुः । २ वर्षभेदे जलाधिपे रव्यादौ च ।

जलेशय पु० जले शेते शी--अच् अलुक् समा० । १ विष्णौ

“सप्तसामोपगीतं त्वां सप्तार्णबजलेशयम्” रघुः । तस्य
तथात्वं जलशायिशब्दे दृश्यम् । २ जलस्थायिमात्रे त्रि०
“यस्य वृंहितशब्देन कूर्म्मोऽप्यन्तर्जलेशयः” भा० आ०
२९ अ० । ३ मत्स्ये पुंस्त्री त्रिका० । योपधत्वात् स्त्रियां
टाप् ।

जलो(लौ)का स्त्री जलमोकोऽस्य पृषो० । (जोंक) १ जलस्थे

सरीसृपभेदे भरतोऽमुं द्विधा पपाठ ।

जलोच्छास पु० जलान्युच्छ्वसन्त्येभिः उद् + श्वस--घञ् । १ प्रवृद्ध

जलस्य निर्गममार्गे २ परीवाहे अमरः । भावे घञ् ६ त० ।
३ अधिकजलस्य सर्वतोवहने च । (छयलापि) ।

जलोदर न० जलप्रधानमुदरं यस्मात् ५ ब० । उदरामयरोगभेदे ।

“यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विविक्तोऽप्यथ
वा निरूढ़ः । पिबेज्जलं शीतलमाशु तस्य स्रोतांसि
दुष्यन्ति हि तद्वहानि । स्नेहोपलिप्तेष्वथ वापि तेषु-
दकोदरम् पूर्ववदभ्युपैति । स्निग्धं महत्तत् परिवृत्तना-
मिसमाततं पूर्णमिवाम्बुना च । यथा दृतिः क्षुभ्यति
कम्पते च शब्दायते चापि दकोदरन्तत् । जन्मनैवीदर
सर्वं प्रायः कृच्छ्रतमं मतम् । बलिनस्तदजाताम्बुयत्न-
साध्यं नवोत्थितम्” माधवकरस्तन्निदानाद्यारम्भ ।

जलोद्वतगति स्त्री “रसैर्जसजसा जलोद्धतगतिः” वृ० र० उक्ते

द्वादशाक्षरपादके १ छन्दीभेदे । जलेन उद्धता गतिरस्य ।
२ जलेनोद्धतभतिके त्रि० “यदीयहलतो विलोक्य विपदं
कलिन्दतनया जलोद्धतगतिः” छन्दोम० ।
पृष्ठ ३०७९

जलोद्भव त्रि० जले उद्भवोऽस्य । १ जलजाते २ गुण्डालाक्षुपे

३ लघुब्राह्मीभेदे स्ती राजनि० जलमुद्भवत्यस्मात् भू अपादाने
अप् । १ हिमालयस्थे देशभ्दे । “ततो हिमवतः पार्श्वं
समभ्येत्यजलोद्भवम् । सर्वमल्पेन कालेन देशं चक्रे
वशं बली” भा० स० २९ अ० । २ जलजाते त्रि० “गण्ड-
कीन्तु समासाद्य सर्वतीर्थजलोद्भवाम्” भा० व० ८४ अ० ।
३ लघुब्राह्म्याम् राजनि० ।

जलोद्भूत त्रि० जले उद्भूतः । १ जलभवे २ क्षुपभेदे स्त्री राजनि०

जलोरगा स्त्री जले उरगीव दीर्घत्वात् विषवत्त्वाच्च पृषो० ।

जलोकायां सारसुन्दरी ।

जलौकस् स्त्री ब० व० जलमोको वसतिरासाम् । (जोंक)

ख्यातायां रक्तपायां अमरः । अस्य बहुवचनत्वं
प्रायिकम् । “जलोरगा जलौका तु जलोका च
जलौकसीति” संसारावर्त्तोक्तेः । “अभिहितो जलौकसः”
इति सुश्रुतोक्तेश्च । ३ जलस्थानके जन्तुमात्रे त्रि० “जलौ-
कसां स सत्वानां बभूव प्रियदर्शनः” भा० अनु० ५० अ० ।

जलौकस पुंस्त्री जलमोकः स्थानमस्त्यस्याः--अच् ।

जलौकायां रायमुकुटः ।

जल्प वाग्विशेषे उक्तौ च भ्वा० पर० सक० सेट् । जल्पति अजल्पीत् ।

जजल्प तत्र कथाभेदे “मयि जल्पति कल्पनाधिनाथे
रघुनाथे मनुतां तदन्यथैव” इति अनुमानशिरोमणिः ।
कथामात्रे “अनागमः प्रजानाञ्च प्रमादादिव जल्पतः” भा० स० २१
अ० “हसते जल्पते वैरी एकपात्रे च भुञ्जते” हरिवं० २० अ०
अत्र आर्षत्वात् पदव्यत्ययः, भुञ्जते इत्यत्र गणव्यत्ययश्च ।
  • अनु + कथनोत्तरकथने पश्चात् कथने तुल्यरूपकथने च “जल्प-
न्त्यामनुजल्पति” भाग० ४ । २५ । ५८ ।
  • अभि + आमिमुख्येन कथने “अन्योन्यमभिजल्पन्तः” रामा० आर० १ अ० ।
  • प्रति + प्रत्युत्तरकथने प्रतिरूपकथने च । “न चैवोक्ता
नवाऽनुक्ता हीनतः परुषा गिरः । भारत! प्रतिजल्पन्ति सदा
तूत्तमपुरुषाः” भा० स० ७० अ० ।
  • वि + अति + अन्योन्यकथने शब्दकर्म्मकत्वात् व्यतिहारे न तड् ।
व्यतिजल्पति” सि० कौ० ।

जल्प पु० जल्प--भावे घञ् । १ कथने । “इति प्रियां वल्गु-

विचित्रजल्पैः” भाग० १ । ७ । १८ । आर्षेऽस्य क्लीव-
तापि । “तूष्णींभव न ते जल्पमिदं कार्य्यं कथञ्चन”
भा० आ० १२९ अ० “कैकेयीं संश्रितं जल्पं नेदानीं
प्रतिभाति मे” रामा० अयो० ६० अ० । उभयत्र जल्प्यमिति
पाठस्तु सम्यक् । परमतनिराकरणपूर्वकस्वमतस्थापनरूपे
विजिगीषोः २ कथाभेदे च । तल्लक्षणं गौतमेनोक्तं यथा
“यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो
जल्पः” गौत० सू० । व्याख्यातञ्चैतत् विश्वनाथेन ।
“यथोक्तेषु यदुपपन्नं तेनोपपन्न इत्यर्थः । मध्यपद०
लोपी समासः । तथा च प्रमाणतर्कसाधनोपालम्भः
पक्षप्रतिपक्षपरिग्रह इत्यस्य योग्यतया परामर्शः अन्यथा
जल्पस्य वादविशेषत्वापत्तिः प्रमाणतर्काभ्यां तद्रूपेण
ज्ञाताभ्यां न तु ज्ञानेऽनाहार्य्यत्वं विवक्षितम्
आरोपितप्रमाणभावेनाभासेऽपि जल्पनिर्वाहात् । यद्यपि
छलादिभिरुपालम्भ एव न तु साधनं तथापि साधनस्य
परकीयानुमानस्योपालम्भो यत्रेत्यर्थान्न दोषः । परपक्षदूषणे
सति स्वपक्षसिद्धिरित्यतः साधने तदुपयोग इत्यन्ये । उभय
पक्षस्थापनावत्त्वेन च विशेषणीयमतो वितण्डायान्नाति-
त्याप्तिः “स प्रतिपक्षस्थापनाहीनः” इत्युत्तरसूत्रात् प्रकृते
उभयपक्षस्थापनावत्त्वादेव च पञ्चावयवनियमोऽपि लभ्यत
इति वदन्ति । अत्र च छलादिभिः सर्वैरुपालम्भो न विशे-
षेण व्याप्तिरपि तु तद्योग्यतयैव, योग्यतावच्छेदकन्तु
वादभिन्नकथात्वमेव तत्र चोक्तवादत्वावच्छिन्नभेदस्तत्तद्वा
दनेदो वा विशेषणमिति छलेत्यादिना विजिगीषुकथात्वं
बोध्यते विजिगीषुर्हि छलादिकं करोति तथाचोभय-
पक्षस्थापनावती विजिगीषुकथा जल्प इत्यर्थः इत्यपि
वदन्ति । अत्र चायं क्रमः वादिना स्वपक्षसाधनं प्रयुज्यनायं
हेत्वाभासस्तल्लक्षणायोगादिति सामान्यतो न्यायसिद्ध
इत्यादि विशेषतो वा । प्रतिवादिना स्वस्याज्ञानादिनिरासाय
परोक्तसम्भवादेव लाभे उच्यमानग्राह्याणामप्राप्तकालार्था-
न्तरनिरर्थकानामलाभे उक्तग्राह्याणां प्रतिज्ञाहानिप्रति-
ज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञासंन्यासहेत्वन्तराविज्ञातार्थवि-
ज्ञेयमतानुज्ञान्यूनाधिकपुनरुक्तनिरनुयोज्यानुयोगापसि-
द्धान्तानामलाभे पर्य्यनुयोज्योपेक्षणस्य मध्यस्थोद्भाव्यत्वा
देवानुपन्यासार्हतया यथासम्भवहेत्वाभासेन परोक्तं
दूषयित्वा स्वपक्ष उपन्यसनीयः । ततो वादिना तृतीय-
कक्षाश्रितेन परोक्तमनूद्य स्वपक्षदूषणमुद्धृत्यानुक्तग्राह्यो-
च्यमानग्राह्यहेत्वाभासातिरिक्तोक्तग्राह्याणामलाभे हेत्वा-
भासेन यथासम्भवं प्रतिपक्षवादिनः स्थापना दूषणीया ।
अन्यथा क्रमविपर्य्यासेऽप्राप्तकालं चानवसरे दूषणीयेन च
निरनुयोज्यानुयोगः यथा त्यक्ष्यसि चेत् प्रतिज्ञाहानि-
र्विशेसयसि चेद्धेत्वन्तरमित्यादिप्रतिज्ञाहान्यादिवद्धेत्वाभा-
सानामुक्तग्राह्यत्वाविशेषेऽपि अर्थदोषत्वेनाप्रधानत्वाच्चर-
मसन्धानमिति” । उञ्छादि० अस्यान्तोदात्तता ।

जल्पन त्रि० जल्प--नन्द्या० ल्यु । १ कथके । भावे ल्युट् ।

२ कथने न० । अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पना-
द्यानिः” वृ० सं० ४६ अ० ।
पृष्ठ ३०८०

जल्पाक त्रि० जल्प--षाक । १ वाचाले बहुकुत्सितवादिनि

अमरः । २ कथकमात्रे च स्त्रियां षित्वात् ङीष् । “जल्पा-
कीभिः महासीनः स्त्रीभिः प्रजविना त्वया” भट्टिः ।

जल्पित त्रि० जल्प--कर्म्मणि क्त । १ कथिते अमरः भावे क्त ।

२ कथने न० ।

जल्हु पु० दह--बा० हु पृषो० । १ अग्नौ “न पाप्रासो मनामहे

नावायसौ न जल्हवः” ऋ० ८ । ५१ । ११ । “न जल्हवः
अनग्नयः” भा० ।

जव पु० सौ० जु--भावे अप् । १ वेगे । “जवेन पीठादुदतिष्ठ-

दच्युतः” “जवेन कण्ठं सभयाः प्रपेदिरे” माघः ।
“जवेऽपि मानेऽपि च पौरुषाधिकम्” नैष० । कर्त्तरि
अच् । २ तद्वति त्रि० अमरः ।

जवन न० जु--भावे ल्युट् । १ वेगे अमरः । “तं मन्ये मेघपुष्पस्य

जवने सदृशं हयम्” भा० वि० ४५ अ० । कर्त्तरि ल्यु । २
जवयुक्ते त्रि० “आरुह्य जवनानश्वान् नियन्तुमुपचक्रमे”
हरिवं० ११७ अ० । ततः दृढ़ा० भावे इमनिच् । ३ जवनिमन्
जवे पु० । ४ वेगयुक्ते देशभेदे पारस्यदेशे च हेमच० ।
सोऽभिजनोऽस्य अण् । ५ जावन तद्देशवासिनि त्रि० बहुत्वे
अणो लुक् । ६ तद्देशबासिषु ब० व० । ७ स्वीकारीमृगे
८ घोटकमात्रे च पुंस्त्री राजनि० । ९ म्लेच्छजातिभेदे
यवनजातौ पुंस्त्री स्त्रियां जातित्वात् ङीष् । “जवनी
नवनीत कोमलाङ्गी शयनीये यदि नीयते कथञ्चित्”
उद्भटः । रघुनन्दनमतेऽयं तालव्यादिः । जवनदेशभव-
त्वादस्य तथात्वम् ।

जवनाल न० जवनायालति पर्य्याप्नोति अल--अच् । (जनार)

फलभेदे । “जवनालं स्मृतं स्वादु शीतं वायुकरं मतम् ।
कफपित्तविनाशि स्यात्” राजवल्लभः ।

जवनिका स्त्री सौ० जु--करणे ल्युट् संज्ञायां कन् । (कानात्)

(चिक) प्रभृतौ व्यवधायकवस्त्रादौ अमरः । “रेजु-
र्जवनिकाक्षेपैः सपक्षा इव खे नगाः” हरिवं० ८६ अ० ।
“सतां जवनिकानिकामसुखिनाम्” माघः ।

जवनी स्त्री जु--करणे ल्युट् ङीप् । (कानात) १ जवनिका-

याम् २ओषधिभेदे च हेमच० । ३ जवनजातिस्त्रियाञ्च ।

जवस् पु० सौ० जु--असुन् । १ वेगे । “आ श्येनस्य जवसा”

ऋ० ११८ । ११ । “जवसा वेगेन” भा० ।

जवस न० सौ० जु--कर्म्मणि असच् । घासे शब्दरत्ना० ।

जवा स्त्री सौ० जु--अच् । १ स्वनामख्याते वृक्षे अमरः । “जवा

कटूष्णेन्द्रलुप्तनाशकृत् मिषजां मता । विच्छर्द्दिकृद्रेच-
निका सूर्य्यस्याराधने हिता” राजव० । पाटला० पुष्पे-
ऽपि स्त्री” अरुणो गरुड़भ्राता जवापुष्पसामप्रभः” हरिवं०
२२७ अ० । “जवाकुसुमसङ्काशं काश्यषेयं महाद्यु-
तिम्” सूर्य्यनतिमन्त्रः । “पारिजातवनैश्चैव जवाशोक-
वनैस्तथा भा० व० २३० अ० ।

जवादि न० “जवादि नीरसं स्निग्धमीषत् पिङ्गं सुगन्धिदम् ।

आतपे बहुलामोदं राज्ञां योग्यञ्च तन्मतम्” इत्युक्तलक्षणे
मृगघर्म्मजाते कृत्रिमे गन्धद्रव्यभेदे राजनि० ।

जवाधिक पु० जवेनाधिकः । १ अधिकजवयुक्तेऽश्वे अमरः ।

२ अधिकवेगयुक्ते त्रि० ।

जविन् त्रि० जव + अस्त्यर्थे इनि । १ वेगयुक्ते हेमच०

“समकालमिषुं क्षिप्तमानीयान्यो जवी नरः” याज्ञ० । स्त्रियां
ङीप् । “अजवसो जविनीभिर्विवृश्चन्” ऋ० २ । १५ । ६ ।

जविन पु० जव--बा० इनन् । कोकडवृक्षे राजनि० ।

जवीयस् त्रि० अतिशयेन जववान् ईयसुम् वतोर्लुक् ।

अतिशयितवेगयुक्ते “अनेजदेकं मनसो जवीयो नैनद्देवा
आप्नुवन् मार्षत्” यजु० ४० । ४ । स्त्रियां ङीप् । इष्ठन्
जविष्ठोऽप्यत्र । “ऋतस्य न्यमन्ये मनसा जविष्ठा” ऋ० ४ । २ । ३ ।

जष बधे भ्वा० उम० सक० सेट् । जषति ते अजाषीत्--अज-

षीत् अजषिष्ट । जजाष जेषतुःजेषे ।

जस मोक्षणे दिवा० पर० सक० सेट् । जस्यति इरित्

अजसत् अजासीत् अजसीत् जजास जेसतुः अजस्रम् ।
उदित् जसित्वा जस्त्वा । जस्तः ।

जस बधे अनादरे च चुरा० उभ० सक० सेट् । जासयति ते अजीजसत् व ।

  • उद् + हिंसने । एतद्योगे कर्म्मणि षष्ठी । “निजौजसो-
ज्जासमितुं जगद्द्रुहाम्” माथः । “धृत्या नाथस्य
वैदेहि! मन्योरुज्जासयात्मनः” भट्टिः ।

जस गतौ निघण्टुः भ्वा० पर० सक० सेट् । जसति

अजा(ज)सीत् । जसिस्ताडने उपक्षये च माधवः । जसुरिः ।

जस रक्षणे चु० उभ० सक० सेट् इदित् । जंसयति ते अज

जंसत् त ।

जसु पु० जस--उन् । आयुधे “यदा बलस्य पीयतो जसुम्”

ऋ० १० । ६८ । ६ । “जसुमायुधम्” भा० ।

जसुरि पु० जस--उरिन् । १ वज्रे उज्ज्वलदत्तः २ व्याथिते त्रि० “वि

या जानाति जसुरिम्” ऋ० ५ । ६१ । ७ । “जसुरिं व्यथितम्”
“जसिस्ताड़नकर्म्योपक्षयकर्म्मा वा” भा० । ३ उपक्षययुक्ते च ।
पृष्ठ ३०८१

जस्वन् त्रि० जस--उपक्षये वनिप् । उपक्षयकर्त्तरि “मा

स्वजने वृषभ!” ऋ० ६ । ४० । ११ । “जस्वने उपक्षयिणे” भा० ।

जहक त्रि० हा--क्वुन् द्वित्वञ्च । १ बाले २ त्यागिनि च उज्ज्वल० ।

३ काले त्रिका० ४ निर्म्मोके संक्षिप्तछा० तस्य त्याज्यत्वात्
तथात्वम् । ५ गात्रसङ्कीचन्यां स्त्री । “इतरजनाय जहका
वैष्णवी” यजु० २४ । ३६ । “जहका गात्रसङ्कोचनी” बेददी० ।

जहत्स्वार्था स्त्री जहत् स्वार्थोयाम् । १ लक्षणाभेदे, यथा

आयुर्घृतम् आयुर्घृतमित्यत्र आयुःसाधनस्य बोधनात्
स्वार्थस्यायुषस्त्यागात् तथात्वम् । “जहत्स्वार्थाजहत्स्वार्थे
द्वे वृत्ती ते पुनस्त्रिधा” हरिका० वैयाकरणभूषणे तु
जहति पदानि स्वार्थं यस्यामिति विग्रहो दर्शितः ।

जहदजहल्लक्षणा स्त्री जहच्च अजहच्च स्वार्थो यां तादृशी

लक्षणा । वाच्यार्थैकदेशत्यागेनैकदेशवृत्तौ लक्षणायाम्
यथा सोऽयं देवदत्त इत्यत्र तत्कालैतत्कालरूपार्थत्यागेन
केवलदेवदत्तमात्रार्थबोधनात् वाच्यार्थैकदेशवृत्तिता ।
एवं “तत्त्वमसि श्वेतकेती!” छा० उ० वाक्ये विरुद्ध सर्वज्ञ-
त्वाल्पज्ञत्वार्थत्यागेन चैतन्यमात्रबोधनात् तथात्वम् ।

जहल्लक्षणा स्त्री जहत् स्वार्थोयाम् उत्तरपदलोपे कर्म्म० ।

जहत्स्वार्थायां लक्षणायाम् । यथा आयुर्घृतम् । लक्ष-
णाभेदोदाहरणादिकं वेदान्तपरिभाषायां दर्शितं यथा
“प्रकारान्तरेण लक्षणा त्रिधा जहल्लक्षणा
अजहल्लक्षणा जहदजहल्लजणा चेति तत्र शक्यार्थमनन्तर्भाव्य
यत्रार्थान्तरस्य प्रतीतिस्तत्र जहल्लक्षणा यथा विषं भुंक्ष्वे-
त्यत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते ।
यत्र शक्यार्थमन्तर्भाव्यैव अर्थान्तरप्रतीतिः तत्राजहल्ल
क्षणा यथा शुक्लः पट इति अत्र हि शुक्लशब्दः स्वार्थं
शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्त्तते ।
यत्र हि विशिष्टवाचकः शब्दः एकदेशं विहाय एकदेशे
वर्त्तते तत्र जहदजहल्लक्षणा यथा सोऽयं देवदत्त इति
अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्त्या
पदद्वयस्य विशेष्यमात्रपरत्वं यथा वा तत्त्वमसीत्यादौ
तत्पदवाच्यसर्वज्ञत्वादिविशिष्टस्य त्वंपदवाच्येनान्तःकरण-
विशिष्टेनैक्यायोगात् ऐक्यसिद्ध्यर्थं स्वरूपे लक्षणेति
साम्प्रदायिकाः । वयन्तु व्रूमः सोऽयं देवदत्तः तत्त्वमसी-
त्यादौ विशिष्टवाचकानां पदानामेकदेशपरत्वेऽपि न
लक्षणा शक्त्युपस्थितविशिष्टयोरभेदान्वयानुपपत्तावपि
विशेष्ययोः शक्त्युपस्थितयोरेवान्वयबोधाविरोधात् यथा
घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यानित्यत्वायो-
ग्यत्वेऽपि योग्यघटव्यक्त्या सहामित्यत्वान्वयः । यत्र
पदार्थैकदेशस्य विशेषणतयैवोपस्थितिस्तत्रैव स्वातन्त्र्येणोप-
स्थितये लक्षणाभ्युपगमः यथा नित्यो घट इत्यत्र
घटपदाद्घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोप-
स्थित्यर्थं घटपंदस्य घटत्वे लक्षणा एवमेव बत्त्वमस्यादि-
वाक्येऽपि न लक्षणा शक्त्या स्वातन्त्र्येणोपस्थितयोस्तत्त्वं-
पदार्थयोरभेदान्वये बाधकाभावात् । अन्यथा गेहे घटः
घटे रूपं घटमानय इत्यादी घटत्वगेहत्वादेरभिमता-
न्वयबोधायोग्यतया तत्रापि घटादिपदानां विशेष्यमात्र-
परत्वे लक्षणा च स्यात् । तस्मात्तत्त्वमस्यादिवाक्येषु
आचार्य्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या ।
जहदजहल्लक्षणोदाहरणन्तु काकेभ्यो दधि रक्ष्यतामित्या-
दिकमेव । तत्र शक्यकाकत्वपरित्यागेनाशक्यदध्युपघात-
कत्वपुरस्कारेण काके काकशब्दप्रवृत्तेः” ।

जहा स्त्री जहाति हा--बा० श । मुण्डितिकायां (मुण्डिरी)

शब्दच० ।

जहानक पु० हा--शीलार्थे शानच् संज्ञायां कन् । प्रलये हेमच० ।

जहिजोड़ अव्य० जहि जोड़ इत्युच्यते यस्या क्रियायाम्

मयूर० स० । त्यागजोड़ार्थनियोगक्रियायाम् ।

जहिस्तम्भ अव्य० जहि स्वम्भ इत्युच्यते यस्यां क्रियायाम्

मयू० स० । त्यागस्तम्भननियोगक्रियायाम् ।

जहु पु० हा + उन् नि० द्वित्वम् । १ अपत्ये “कृतानुपङ्ग

आसनशयनाटनस्नानाशनादिषु सह मृगजहुना” भान०
५ । ८ । १३ । “मृगजहुना मृगापत्येन” श्रीधरः । २ कुरुवंश्ये
पुष्पवतोऽपत्ये राजभेदे “जज्ञे सत्यवतोऽपत्यं पुष्पवां-
स्तत्सुतो जहुः” भाग० ९ । २२ । ५ ।

जह्नु पु० भरतवंश्ये आजबीढ़नृपपुत्रे १ नृपभेदे । “भरतस्या-

न्वये चैवाजमीढ़ो नाम पार्थिवः । तस्य पुत्रो
महानासीज्जह्नुर्नाम नरेश्वरः । दुहिडमनुप्राप्ता गङ्गा यस्य
महात्मनः” भा० अनु० ४ अ० । गङ्गायास्तद्दुहितृत्वकथा
रामा० आदि० ४३ अ० ।
“यता भगीरथो राजा ततो गङ्गा यशस्विनी ।
जगाम सरितां श्रेष्ठा भर्वपापप्रणाशिनी । यतो हि
यजमानस्य जह्नोरद्भुतकर्म्मणः । गङ्गा संप्लावयामास
यज्ञवाटं महात्मनः । तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च
राघव! । अपिबत्तु जलं सर्वं गङ्गायाः परमाद्भ तम् ।
ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः । पूजयन्ति
महात्मानं जह्नुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म
पृष्ठ ३०८२
दुहिवृत्वे महात्मनः । ततस्तुष्टो महातेजाः श्रोत्रा-
भ्यामसृजत् प्रभुः । तस्माज्जह्नुसुता गङ्गा प्रोच्यते
जाह्नवीति च” । जह्नोरपत्यमण् ङीप् । जाह्नबी गङ्गा-
याम् । “जाह्नवीतीरसम्भूतां मृद मूर्द्ध्ना बिभर्त्ति यः”
प्रा० त० । जह्नीरियं अण् वेदे पृषो० ह्रस्वाकार-
विपर्वथौ । जह्नावी जह्नुसम्बन्धिन्यां प्रजायाम् ।
“आ जह्नावीं सुमनसो पराजैः” ऋ० १ । ११६ । १९ ।
“जह्नावी जह्नोर्महर्षेः सन्धन्धिनी प्रजा” भा० । २ विष्णौ च
“सत्कर्त्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः” विष्णुस० ।
“जनान् संसारादपह्नुते अपनयतीति जह्नुः जहात्य
विदुषः स्वभक्तान्नयति परं पदमिति वा” भा० तद्व्युत्-
पत्तिर्दर्शिता पृषो० साधु ।

जह्नुकन्या स्त्री ६ त० । १ गङ्गायाम् । “जह्नोः कन्यां सगरतन-

यस्वर्गसोपानपङ्क्तिम्” मेघ० “जलनिधिमनुरूपं जह्नु-
कन्यावतीर्न्ना” रघुः । जह्नुतनयादयोऽप्यत्र ।

जह्नुसप्तमी स्त्री वैशाखशुक्लसप्तम्याम् । “वैशाखशुक्लसप्तम्यां

जह्नुना मुनिना पुरा । क्रोधात् पीता पुनस्त्यक्ता कर्ण्ण-
रन्ध्रात्तु दक्षिणात् । तस्यां समर्चयेद्देवीं गङ्गां भुवनमेख-
लाम् । स्नात्वा सम्यग् विधानेन स धन्यः सुकृती नरः ।
तस्यां सन्तर्पयेतु देवान् पितॄन् मर्त्यान् यथाविधि । साक्षात्
पश्यन्ति ते गङ्गास्नातकं गतपातकम्” वराहपु० ।

जह्मन् न० हा--मनिन् पृषो० द्वित्वान्त्यलोपौ । उदके निघ०

उदकनामसु तत्र जन्मेति पाठान्तरम् ।

जा स्त्री जन--बा० ड । १ मातरि २ देवरपत्न्याम् एकाक्षरको० ।

४ जननकर्त्तरि त्रि० गवादौ उपपदे जन--विट् ङा ।
गोजा गविजाते त्रि० ।

जागत त्रि० जगती छन्दोऽस्य अण् । जगतीच्छन्दस्के

मन्त्रादौ । जगत्यां भवः उत्सा० अञ् । २ जगतीच्छन्दसि
भवे सामभेदे न० । ३ जगत्यां पृथिव्यां भवे च त्रि० ।

जागर पु० जागृ--भावे घञ् गुणः । १ निद्राक्षये (जागा)

अमरः “त्रयोदशसमास्तीर्णा जागरेण सुदुःखिताः” भा०
क० ९६ आ० । “रात्रिजागरपरो दिवाशयः” रघुः ।
२ अन्तःकरणस्य कृत्स्नवस्तुप्रकाशात्मके ३ वृत्तिभेदे ।

जागरक त्रि० जागृ--ण्वुल् गुणः । निद्रारहिते ।

जागरण न० जागृ--भावे ल्युट् । १ निद्राराहित्ये ।

जागरित न० जागृ--भावे क्त गुणः । १ जागरणे निद्राभावे

२ इन्द्रियैरर्थज्ञाने स्वपदर्शनहेतुकर्म्मक्षये च जागरित-
मागच्छन् स्वोपाध्यन्तःकरणेन्द्रियसचिवस्तत्तदिन्द्रिय-
विषयाननुमेयांश्च स्थूलान् व्यवहारिकान् सर्वाननु-
भवति यत्रावस्थायां तत् जागरितमित्युच्यते वेदान्तमतम्

जागरितस्थान पु० जागरितं स्थानमस्य । वेदान्तिमतसिद्धे

वैश्वानरे आत्मनि । तत्स्वरूपादिकं मुण्डकोपनिषदि
तद्भाष्ये च दर्शितम् ।
“जागरितस्थानो बहिःप्रज्ञः सप्नाङ्ग एकोनविंशति-
मुखः स्थूलभुग्वैश्वानरः प्रथमः पादः” मुण्डकोप०
“जागरितं स्थानमस्येति जागरितस्थानः । बहिः
स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य स बहिःप्रज्ञो
बहिर्विषयेषु प्रज्ञाऽविद्याकृताऽवभासत इत्यर्थः । तथा
सप्ताङ्गान्यस्य “तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्द्ध्वैव
सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो
वस्तिरेव रयिः पृथिव्येव पादौ” अग्निहोत्रकल्पनाशेषत्वे-
नाग्निर्मुखत्वेनाहवनीय उक्त इत्येवं सप्ताङ्गानि यस्य
स सप्ताङ्गः । तथैकोनविंशतिर्मुखान्यस्य बुद्धीन्द्रियाणि
च दश वायवश्च प्राणादयः पञ्च मनो बुद्धिरहङ्कारश्चित्त-
मिति मुखानीव मुखानि तान्युपलब्धिद्वाराणीत्यर्थः । स
एवं विशिष्टो वैश्वानरो यथोक्तैर्द्वारैः शब्दादीन् स्थूलान्
विषयान् भुङ्क्त इति स्थूलभुक् । विश्वेषां नराणाम-
नेकधा नयनाद्विश्वानरः । यद्वा विश्वश्च सौ नरश्चेति विश्वा-
नरः विश्वानर एव वैश्वानरः । सर्वपिण्डात्मानन्यत्वात् स
प्रथमः पादः” भा० ।

जागरितान्त पु० जागरितस्यान्तः तत्र विज्ञेयः । जागरित-

मध्ये तत्र विज्ञेये “स्वप्नान्तं जागरितान्तञ्चोभौ येनानु-
पश्यति” कठोप० “स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयमि-
त्यर्थः । तथा जागरितान्तं जागरितमध्यं जागरितबि-
ज्ञेयं चोभौ स्वप्नजागरितान्तौ येनात्मनानुपश्यति
लोकः” भा० ।

जागरितृ त्रि० जागृ--शीलार्थे तृच् । जागरणशीले अमरः ।

जागरिन् त्रि० जागृ--शीलार्थे णिनि गुणः । जागरणशीले

हेमच० स्त्रियां ङीप् ।

जागरूक त्रि० जागृ--ऊक । जागरणशीले अमरः “स्वपतो

जागरूकस्य याथार्थ्यं वेद कस्तव” रघुः । २ स्वकर्त्तव्ये
सावधाने अप्रमत्ते च “वर्णाश्रमावेक्षणजागरूकः” रघुः ।

जागर्त्ति स्त्री जागृ--भावे क्तिन् । जागरणे रायमु० ।

जागर्य्या स्त्री जागृ--भावे क्यप् गुणः । जागरणे । अ ।

जागराप्यत्र स्त्री अमरः ।
पृष्ठ ३०८३

जागुड़ पु० १ देशभेदे सोऽभिजलोऽस्य अण् । २ तद्देशवासिनि त्रि०

“जागुड़ान् रामठान् हूणान् स्त्रीराज्यानथ तङ्गणान्”
भा० ब० व० । तत्र भवः अण् । ३ तद्देशभवे त्रि० ।
४ कुङ्कुमे न० । “अवनिं जागुड़कुङ्कुमामिताम्राम्” माघः ।

जागृ निद्राभावे अदा० पर० अक० सेट् जक्षा० । जागर्त्ति

जाग्रति अजागरीत् । जागराम्--बभूव आस चकार
जजागार । अस्य णपि वृद्धिः तद्भिन्ने ञिति णिति
च गुणः विन्भिन्ने सर्वत्र आर्द्धधातुके गुणः । जागर्य्यते
अजागरि जागरयति कर्म्मणि अजागरि अजागारि इति
भेदः “कुसुमशरमुज्जागरयति” उमटः । जागरकः ।
जागृविः “जागर्त्ति लोको ज्वलति प्रदीपः” उद्भटः ।
इन्द्रियादिना बोधे प्रबोधे च । “या निशा सर्व-
भूतानां तस्यां जागर्त्ति संयमी । यस्या जाग्रति भूतानि
सा निशा पश्यतो मुनेः” गीता । “पन्नगगवीगुम्फेषु
चाजागरीत्” मल्लि० ।

जागृवि पु० जागृ--क्विन् न गुणः । १ नृपे उज्ज्वल० तस्य

स्वकार्य्येऽप्रमतत्वात् तथात्वम् । २ अग्नौ हेम० ३
जागरणशीले त्रि० “समानमज्मन् पर्य्येति जागृविः”
ताण्ड्य० ब्रा० १ । ७ । ६ । “जागृविः जागरूकः” भा०
“विभीदको जागृविर्मह्यमच्छान्” ऋ० १० । ३४ । १ । “जनस्य
गोपा अजनिष्ट जागृविरग्निः” ऋ० ५ । ११ । १ ।

जाग्रत् त्रि० जागृ--शवृ । १ जागरणकर्त्तरि २ साबधाने

अप्रमत्ते ३ प्रकाशमाने च । “जाग्रत्कलङ्कैरवध्वंसं हस्त-
यते च या सुमनसामुल्लासिनी मानसे” चन्द्रालोकः ।
स्त्रिया ङीप् । जीवानां श्रोत्रादिभिः ४ शब्दादिविषय
ज्ञानावस्थाभेदे सा च त्रिधा “प्रमितिर्जागरे जाग्रद्-
भ्रमः स्वप्नोऽथ मूढ़ता । पानादिजन्या सुप्तिः स्यादेवं
जागरणं त्रिधा” शब्दार्थचि० धृतवाक्यम् । “एवं स जाग्रत्-
स्वप्नाभ्यामिदं सर्वं चराचरम्” मनुः । “जाग्रत्स्वप्नः
सङ्कल्पः पापः” ऋ० १० । १६४ । ५ । “जाग्रत्स्वप्नावस्थयोः
सम्बन्धी पापः” भा० । “जाग्रत् स्वप्नसुषुप्तिधामरहितः
प्राप्तः प्रबोधोदयः” प्रबो० ।

जाग्रिया स्त्रीं जागृ--भावे पक्षे शः रिङादेशः । जागरणे रायमुकुटः ।

जाघनी स्त्री जघनस्य समीपं शौषकोऽण् ङीप् । १ ऊरौ

त्रिका० जघनस्यार्द्धे जघनैकदेशे भवः अण् ङीप् । २ पुच्छ-
काण्डे “अथ जाचन्या पत्नीः संयाजयन्ति जघनार्द्धं
जाघनी जघनार्द्धाद्वे योषायै प्रजाः प्रजायन्ते” शत० ब्रा०
३ । ८५ । ६ । “जाघनी वालदण्डः” भा० । “बनिष्ठु जाघनि
चावद्यति” कात्या० श्रौ० ६ । ७ । १० तत्र जाघनी-
शब्दस्य मतभेदेन कर्केण नानार्थतोक्ता यथा “जाघनी
जघनप्रदेशे भवा पुच्छदण्ड इत्यर्थः जाघनी पशोः पुच्छ-
मिति हरिस्वामिना । जाघनी बालदण्ड इति माधवा-
चार्य्याः । “जाघनी येन मशकानपनयतीति धूर्त्तस्वामिनः ।
जाघनी बालधिरुच्यत इति ज्ञानदीपिकाकारः । क्षुधार्त-
श्चात्तुमभ्यगाद्विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादा-
दाय धर्माधर्मविचक्षणः” (मनुः) इत्यत्र श्वजाघनीम्
श्वपुच्छमिति स्मृतिचन्द्रिकाकारो व्याख्यातवान् । जाघनी
पशोः पुच्छमित्यधिकरणमालायाम् तृतीयेऽध्याये । जाघनी
चैकदेशत्वादित्यधिकरणे जाघनी कटी इति पितृभूतिहरि-
हरौ तदयुक्तम् कटिशब्दस्य श्रोणिपर्य्यायत्वात् श्रोण्योश्च
पागुक्तत्वादिति अतः पुच्छकाण्डमेव जाघनीशब्देनोच्यते
इति । विश्वामित्रस्य जाघनीहरणकथा प्रसङ्गादुच्यते ।
“विश्वामित्रोऽथ भगवान् महर्षिरनिकेतनः । क्षुधा-
परिगतो धीमान् समन्तात् पर्य्यधावत । त्यक्त्वा दारांश्च
पुत्रांश्च कस्यांचित् जनसंसदि । भक्ष्याभक्ष्यसमो भूत्वा
निरग्निरनिकेतनः” इत्युपक्रमे “स ददर्श श्वमांसस्य कुतन्त्रीं
विततां मुनिः । चाण्डालस्य गृहे राजन्! सद्यः शस्त्र-
हतस्य वै । स चिन्तयामास तदा स्तैन्यं कार्य्यमितो
मया । न हीदानीमुपायो मे विद्यते प्राणधारणे ।
आपत्सु विहितं स्तैन्यं विशिष्टञ्च महीयसः । विप्रेण
प्राणरक्षार्थं कर्त्तव्यमिति निश्चयः । हीनादादेयमादौ
स्यात् समानात्तदनन्तरम् । असम्भवे वाददीत विशिष्टादपि
धार्मिकात् । सोऽहमन्त्यावसानाय हराम्येनां प्रतिग्र-
हात् । न स्तैन्यदोषं पश्यामि हरिष्यामि श्वजाघनीम्” ।
इति निश्चित्य तां हर्त्तुमुपक्रान्तस्य चण्डालेन सह
संवादो यथा “विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्ययन् ।
क्षुधितीऽहं गतप्राणो हरिष्यामि श्वजाघनीम् । क्षुधितः
कलुषं यातो नास्ति ह्रीरशनार्थिनः । क्षुच्च मां दूषय-
त्यत्र हरिष्यामि श्वजाघनीम् । अवसीदन्ति मे प्राणा-
श्रुतिर्मे नश्यति क्षुधा । दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्य-
विवर्ज्जितः । सोऽधर्म बुध्यमानोऽपि हरिष्यामि
श्वजाघनीम् । अटन् भैक्षं न विन्दामि यदा युष्माक-
मालये । तदा बुद्धिः कृता पापे हरिष्यामि श्वजाष-
नीम्” भा० शा० १४१ अ० । कथाशेषस्तत्र दृश्यः

जाङ्गल पु० जङ्गले भवः जङ्गलप्रायो वा अण् । १ वनप्राये

२ जङ्गलस्थपशुमांसे तत्रत्ये ३ उदके च शब्दार्थचि० ।
“अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः । स ज्ञेयो
पृष्ठ ३०८४
जाङ्गलो देशो बहुधान्यादिसंयुतः” कुल्लू० धृतवाक्योक्त-
लक्षणे ४ देशभेदे पु० । भावप्र० अन्यथा तल्लक्षणमुक्तं यथा
“आकाशशुभ्र उच्चश्च स्वल्पपानीयपादपः ।
शमीकरीरविल्वार्कपीलुकर्कन्धुसङ्कुलः । हरिणैणर्ष्यपृषत
गोकर्णखरसङ्कुलः । सुखादुफलवान् देशो वातलो-
जाङ्गलः स्मृतः” ।
“बहूदकनगोऽनूपः कफमारुतरोगवान् । जाङ्गलो-
ऽल्पाङ्गशाखी च पित्तासृङ्मारुतोत्तरः” तद्देशगुणा-
स्तत्रोक्ता जाङ्गलानां पशूनां विशेषः तन्मांस
गुणाश्च तत्रैवोक्ता यथा “हरिणैणकुरङ्गर्ष्य
पृषतन्यङ्कुशंवराः । राजीवोऽपि च मुण्डी चेत्याद्याः
जाङ्गलसंज्ञकाः । हरिणस्ताम्रवर्णः स्यादेणः कृष्णः
प्रकीर्त्तितः । कुरङ्ग ईषत्ताम्रः स्यादेणतुल्याकृतिर्म-
हान् । ऋष्यो नीलाङ्गको लोके सारोह्य इति
कीर्त्तितः । पृषतश्चन्द्रविन्दुः स्याद् हरिणात् किञ्चिद-
ल्पकः । न्यङ्कुर्बहुविषाणोऽथ शंवरो गवयो महान् ।
राजीवस्तु मृगो ज्ञेयो राजिभिः परितोवृतः । यो मृगः
शृङ्गहीनः स्वात् स मुण्डीति निगद्यते । जाङ्गलाः
व्रायशः सर्वे पित्तश्लेष्महराः स्मृताः । किञ्चिद्वातकराश्चापि
लघवो बलवर्द्धनाः” । “तत्रेमे कुरुपाञ्चालाः शाल्वा
माद्रेयजाङ्गलाः” भा० भी० ९ अ० । ५ कपिञ्जलखगे
पु० स्त्री मेदि० स्त्रियां जातित्वात् ङीष् ।

जाङ्गलपथिक त्रि० जङ्गलस्थः पन्थाः अच् समा० । तेना-

हृतं तेन गच्छति वा ठञ् । १ जङ्गलपथेनाहृते २ तेन
गन्तरि च ।

जाङ्गुल न० गम--यङ् लुक् बा० डुल पृषो० दीर्घः । १ विषे

तस्य कुटिलगतित्वात् तथात्वं २ जालिनीफले शब्दरत्ना० ।

जाङ्गुलि पु० गम--यङ् लुक् बा० डुलि । १ विषवैद्ये शब्दरत्ना० ।

“परीक्षितं समश्नीयात् जाङ्गलिभिर्मिषग्वृतः” वैद्यकम् ।

जाङ्गुलिक पु० जाङ्गुली विषविद्या तामधीते वेद वा तया

दीव्यति वा ठञ् । विषवैद्ये अमरः ।

जाङ्गुली स्त्री जाङ्गुलस्य विषस्येयम् अण् । विषविद्यायाम् हेमच० ।

जाङ्घि त्रि० जङ्घायां भवः तस्या इदं वा वाह्वादेराकृति०

गणत्वात् इञ् । १ जङ्घाभवे २ तत्सम्बन्धिनि च ।

जाङ्घिक त्रि० जङ्घाभ्यां जीवति वेतना० ठञ् । १ घावके

(धाओड़े) २ उष्ट्रे पुंस्त्री० ३ श्रीकारीवृक्षे पु० राजनि० ।

जाजलि पु० ऋषिभेदे तस्य तपश्चरणकथादिकं भा० शा० २६२ अ

दृश्यम् “वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः”
इत्यादि । स च प्रवरप्रवर्त्तकः हेमा० व्र० दृश्यम् ।

जाजिन् त्रि० जज--योधे--ताच्छील्ये णिनि । योधशीले ।

“जजौजाजाजिजिज्जाजी” माघः ।

जाझा(ट)लि पु० ज(झ)ट--संधाते घञ् । त लाति

लाबा- डि । वृक्षभेदे अमरः ।

जाटालिका स्त्री कुमारामुचरमातृभेदे “जाटालिका

कानचरी दीर्घजिह्वा बलोत्कटा” भा० शा० ४७ अ० ।

जाटासुरि पु० जटासुरस्यापत्यम् इञ् । जटासुरापत्ये “जाटा-

सुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत्” भा० द्रो० १७५ अ० ।

जाटिलिक पुंस्त्री जटिलिकाया अपत्यं शिवा० अण् ।

जटिलिकाया अपत्ये स्त्रियां ङीप् ।

जाठर पु० जठरे भवः अण् । जठरस्थिते १ वह्नौ “जाठरो

भगवानग्निरीश्वरोऽन्नस्य पाचकः” सुश्रु० । २ कुमारानु-
चरभेदे “विद्युताक्षो धनुर्वक्त्री जाठरो मारुताशनः” भा०
श० ४६ अ० । तस्येदमण् । ३ जष्ठरसम्बन्धिनि त्रि० स्त्रियां
ङीप् । “नानाशनः स्यान्न महाशनः स्यादलोलुपः साधु
भिरागतः स्यात् । यात्रार्थमाहारमिहाददीत तथास्य
स्याज्जठरी द्वारमुप्तिः” भा० शा० २७० अ० ।

जाठर्य्य त्रि० जठरे भवः बा० ञ्य । जठरभवे रोगादौ

“एतन्नवायसमेतेन जाठर्य्यं न भवति सन्नोऽग्निराप्या-
यते” सुश्रु० ।

जाडार पुंस्त्री जडस्यापत्यम् वा आरक् । जड़स्यापत्ये ।

जाड्य न० जड़स्य भावः ष्यञ् । १ जड़तायां २ मौर्ख्ये च हेमच०

“आलस्यश्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत्” सा० द० ।
“इदं जाड्यमिदं मौढ्यमिदमत्यद्भुतं वचः” हरिवं० ३०९ अ० ।

जाड्यारि पु० ६ त० । जम्बीरे राजनि० ।

जात त्रि० जन--कर्त्तरि क्त । १ उत्पन्ने २ व्यक्ते च भावे क्त ।

४ जन्मनि ५ समूहे च मेदि० तत्र उत्पन्ने “तस्मात् कुमारं
जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति”
शत० ब्रा० १४ । ४ । ३ । ४ “सुवीजं चैव सुक्षेत्रे जातं संपद्यते
यथा” मनुः संघे “निःशेषविश्राणितकोशजातम्” रघुः ।
“चतुर्विधस्थूलशरीरजातम्” वेदान्तः । “सर्वेषां
धनजातानामाददीताग्र्यमग्रजः” मनुः ।

जातक त्रि० जात + स्वार्थे क । १ उत्पन्ने “उभौ तौ नार्हतो

भागं जारजातककामजौ” मनुः । जातं जन्म तदधिकृत्य
कृतो ग्रन्थः अण् संज्ञायां कन् । २ होरातन्त्रे । तच्च
नानाज्योतिर्विद्भिर्नानाविधं रचितं तत्र वृहज्जातकस्येव
अतिप्रामाणिकत्वात् तच्छास्त्रप्रतिपाद्यविषया ग्रन्यकृता
पृष्ठ ३०८५
२५ अ० वराहमिहिरेणोक्ताः प्रदर्श्यन्ते । “राशिप्रभेदो
ग्रहयोनिभेदो वियोनिजन्माथ निषेककालः । जन्माथ
सद्योमरणं तथायुर्दशाविपाकोऽष्टकवर्गसंज्ञः । कर्माजीवो
राजयोगाः खयोगाश्चान्द्रा योगाद्विग्रहाद्याश्च योगाः ।
प्रवृज्याथो राशिशीलानि दृष्टिर्भावस्तस्मादाश्रयोऽथ
प्रकीर्णः । नेष्टायोना जातकं कामिनीनां निर्याणां स्यान्न-
ष्टजन्मद्रिकाणः । अत्राध्याया विंशतिः पञ्चयुक्ता जन्म-
न्येतद्यात्रिकं चाभिधास्ये” ।
“राशिप्रभदः प्रथमेऽध्याये । ग्रहयोनिभेदः द्वितीये
वियोनिजन्म तृतीये । निषेककालश्चतुर्थे । जन्मविधिः
पञ्चमे । सद्योमरणं षष्ठे । आयुर्विभागः सप्तमे ।
दशाविभागोऽष्टमे । अष्टकवर्गो नवमे । कर्माजीवो दशमे ।
राजयोगा एकादशे । खयोगाः (नाभसयोगाः) द्वादशे ।
चान्द्रयोगाः सुनफाद्याश्चन्द्रयोगास्त्रयोदशे द्विग्रहत्रिग्रह-
योगाश्चतुर्द्दशे । प्रव्रज्यायोगा पञ्चदशे । राशिशीलम्
षोड़शे । दृष्टिफलं सप्तदशे । भावफलमष्टादशे । आश्रय
एकोनविंशतितमे । प्रकीर्णफलम् विंशतितमे । अनिष्ट-
योगा एकविंशे । कामिनीनां (स्त्रीणां) जातकं द्वाविंशे ।
निर्याणं (मरणं) तन्निरूपणं त्रयोविंशे । नष्टजातकं
चतुर्विंशे । द्रेष्काणस्वरूपादि पञ्चविंशे । एवं पञ्चयुक्ताध्या-
यानांविंशतिर्जन्मनि जातके कथिता एतज्जातके उक्ताः ।
जन्मफलं पञ्चमे उक्तं यथा
“पितुर्जातः परोक्षस्य लग्नमिन्दावपश्यति । विदेशस्थस्य
चरभे मध्याद्भ्रष्टे दिवाकरे । उदयस्थेऽपि वा मन्दे
कुजे बास्तं ७ समागते । स्थिते वान्तःक्षपानाथे शशाङ्क-
सुतशुक्रयोः । शशाङ्के पापलग्ने वा वृश्चिकेऽंशत्रिभागगे ।
शुभैः खायस्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा । चतुष्पद-
गते भानौ शैषैर्वीर्यसमन्वितैः । द्वितनुस्थैश्च यमलौ भवतः
कोशवेष्टितौ । छागसिंहवृषैर्लग्ने तत्स्थे सौरेऽथवा
कुजे । राश्यंशसदृशं गात्रं जायते नालवेष्टितः ।
न लग्नमिन्दुञ्च पुरुर्निरीक्षते न वा शशाङ्कं रविणा
समागतम् । सपापकोऽर्केण युतोऽथवा शशी परेण जातं
प्रवदन्ति निश्चयात् । क्रूरर्क्षगतावशोभनौ सूर्य्याद्द्यून
नवात्मजस्थितौ । वद्धस्तु पिता विदेशगः स्वे वा राशिव-
शादथो पथि । पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते
शुभे सुखे४ । लग्ने जलजेऽस्तगेऽपि वा चन्द्रे पोतगता
प्रसूयते । आप्योदयमाप्यगः शशी संपूर्णः समवेक्षतेऽथ
वा । मेसूरणबन्धुलग्नगः स्यात् सूतिः सलिले न संशयः ।
उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षते यमे ।
अलिकर्कियुते विलग्नगे सारे शीतकरेक्षितेऽवटे । मन्दे-
ऽब्जगते विलग्नगे बुधसूर्येन्दुनिरीक्षिते क्रमात् । क्रीडा-
भवने सुरालये सोषरभूमिषु च प्रसूयते । नृलग्नगं
प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे ।
रविर्नरेन्द्रामरगोकुलेषु शिल्पालये ज्ञः प्रसवं करोति ।
राश्यंशसमानगोचरे मार्गे जन्मचरे स्थिरे गृहे । स्वर्क्षांश
गते स्वमन्दिरे बलयोगात् फलमंशकर्क्षयोः । आरार्क-
जयोस्त्रिकोणगे चन्द्रेऽस्ते च विसृज्यतेऽम्बया । दृष्टे-
ऽमरराजमन्त्रिणा दीर्घायुः सुखभाक् च स स्मृतः । पापे-
क्षिते तुहिनगावुदये कुजेऽस्ते त्यक्तो विनश्यति कुजार्क
जयोस्तथाये सौम्येऽपि पश्यति तथाविधनस्तमेति
सौम्येतरेषु परहस्तगतोऽप्यनायुः । पितृमातृगृहेषु
तद्बलात्तरुशालादिषु नीचगैः शुभैः । यदि नैकगतौ तु
वीक्षितौ लग्नेन्दू विजने प्रसूयते । मन्दर्क्षांशे शशिनि
हिबुके मन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयने
नीचसंस्थैश्च भूमौ । यद्वद्राशिं व्रजति हरिजं गर्भमोक्षस्तु
तद्वत्पापैश्चन्द्रात् स्मरसुखगतैः क्लेशमाहुर्जनन्याः ।
स्नेहः शशाङ्कादुदयाच्च वर्तिर्दीपोऽर्कयुक्तर्क्षवशाच्चराद्यः ।
द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्ज्ञेयं ग्रहैर्वीर्यसमन्वितैर्वा ।
जीर्णं संस्कृतमर्कजे क्षितिसुते दग्धं नवं शीतगौ काष्ठाद्यं
न दृढं रवौ शशिसुते तन्नैकशिल्प्युद्भवम् । रम्यं चित्रयुतं
नवं च भृगुजे जीवे दृढ़ं मन्दिरं चक्रस्थैश्च यथोपदेश-
रचनां सामन्तपूर्वां वदेत् । मेषकुलीरतुलालिघटैः प्रागु-
त्तरतो गुरुसौम्यगृहेषु । पश्चिमतश्च वृषेण निबासो दक्षिण-
भागकरौ मृगसिंहौ । प्राच्यादिगृहक्रियादयो द्वौ द्वौ
कोणगताद्विमूर्त्तयः । शय्यास्वपि वास्तुवद्वदेद् त्र्याद्यैः षट्
त्रिनवान्त्यसंस्थितैः । चन्द्रलग्नान्तरगतैर्ग्रहैः स्युरुपं-
सूतिकाः । बहिरन्तश्च चक्रार्द्धे दृश्यादृश्येऽन्यथा परे ।
लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा । चन्द्र-
समेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः । क
दृक् श्रोत्रनसा कपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठां
सकबाहुपार्श्वहृदयं क्रोड़ानि नाभिस्ततः । वस्तिः शिश्न-
गुदे ततश्च वृषणावूरू ततो जानुनी । जङ्घाङ्घ्रीह्युभयत्र
वाममुदितैर्द्रेक्वाणभागैस्त्रिधा । तस्मिन् पापयुते व्रणं
शुभयुते दृष्टे च लक्ष्मादिशेत् स्वर्क्षांशे स्थिरसंयुते
च सहजः स्यादन्यथाऽऽगन्तुकः । मन्देऽश्मानिलजोऽग्निशस्त्र
विषजो भौमे वुधे भूभवः सूर्ये काष्ठचतुष्पदेषु द्विमगौ
पृष्ठ ३०८६
शृङ्ग्यब्जजोन्यैः शुभम् । समनुपतिता यस्मिन् भागे
बयः सबुधा ग्रहा भवति नियमात्तस्यावाप्तिः शुभेष्वशु
भेषु वा । व्रणकृदशुभः षष्ठे देहे तनोर्भसमाश्रिते
तिलकमसकृद्दृष्टः सौम्यैर्युतश्च स लक्ष्मवान्” ९ अ० अष्ट-
वर्गफलमुक्तं तच्चाष्टवर्गशब्दे ५२० पृ० दर्शितम् । नाभसा-
दियोगास्तच्छब्दे वक्ष्यन्ते ।
तत्रोनविंशोरिष्टाध्यायो यथा
“लग्नात्पुत्रकलत्रभे शुभपतिप्राप्तेऽथ याऽऽलोकिते
चन्द्राद्वा यदि सम्पदस्ति हितयोर्ज्ञेयोऽन्यथासम्भवः ।
पाथेनोदयगे रवौ रविसुतो मीनस्थितोदारहा
पुत्रस्थानगतश्च पुत्रमरणं पुत्रोऽवनेर्यच्छति । उग्र-
ग्रहैः सितचतुरस्रसंस्थितैर्मध्यस्थिते भृगुतनयेऽथवो-
ग्रयोः । सौम्यग्रहैरसहितसंनिरीक्षिते जायाबधोदहन-
निपातपाशजः । लग्नाद्व्ययारिगतयोः शशितिन्मरश्म्योः
षत्न्या सहैकनयनस्य वदन्ति जन्म । द्यूनस्थयोर्नव-
मपञ्चमसस्थयोर्वा शुक्रार्कयोर्विकलदारमुशन्ति जातम् ।
कोणोदये भृगुतनयेऽस्तचक्रसन्धौ बन्ध्यापतिर्यदि न
सुतर्क्षमिष्टयुक्तम् । पापग्रहैर्व्ययमदलग्नराशिसंस्थैः क्षीणे
शशिन्यसुतकलत्रजन्मधीस्थे । असितकुजयोर्वर्गेऽस्तस्थे
सिते तदवेक्षिते परयुवतिगस्तौ चेत् सेन्दूस्त्रिया सह
पुंश्चलः । भृगुजशशिनोरस्तेऽभार्य्यो नरोविसुतोऽपि वा
परिणतुतनूनृस्त्र्योर्दृष्टौ शुभैः प्रमदापती । वंशच्छेत्ता
खमदसुखगैश्चन्द्रदैत्येज्यपापैः शिल्पी त्र्यंशे शशिसुतयुते
केन्द्रसंस्थार्किदृष्टे । दास्यां जातोदितिसुतगुरौ रिपफगे
सौरभागे नीचेऽर्केन्द्वोर्मदनगतयोर्दृष्टयोः सूर्य्यजेन । पापा-
ऽऽलोकितयोः सितावनिजयोरस्तस्थयोर्वाध्यरुक्वेन्दे कर्कट
वृश्चिकांशकगते पापैर्युते गुह्यरुक् । श्वित्री रिप्फधनस्थयो-
रशुभयोश्चन्द्रोदयेऽस्ते रवौ चन्द्रे खेऽवनिजेऽष्टगे च
विकलो यद्यर्कजीवेशिगः । अन्तःशशिन्यशुभयोर्मृगगे पतङ्गे
स्वासक्षयप्लिहकविद्रधिगुल्मभाजः । शोफीपरस्परगृहांश-
गयोरवीन्द्वीः क्षेत्रेऽथवा युगपदेकगयोः कृशो वा । चन्द्रे-
ऽश्विमध्यझषकर्किमृगाजभागे कुष्ठी समन्दरुधिरे तदवेक्षिते
वा । यातैस्त्रिकोणमलिकर्किवृषैर्मृगे च कुष्टी च पापसहि-
तैरवलोकितैर्वा । निधनारिधनव्ययस्थिता रविचन्द्रारयभा
यथा तथा । बलवद्ग्रहदोषकारणैर्मनुजाना जनयन्त्य-
नेत्रत्पम् । नवमायतृतीयधीयुता न च सौम्यैरशुभा
निरीक्षिताः । नियमाच्छ्रवणोपघातदा रदवैकृत्यकराश्च
सप्तमे । उदयत्युडपे सरास्यगे सपिशाचोऽशुभयोस्त्रिको-
णयोः । तमसोपप्लवमण्डले रवावुदयस्थे नयनोपवर्जितः ।
संस्पृष्टः पवनेन मन्दगयुते द्यूने विलग्ने हरौ सोन्मादो
ऽवनिजे स्थितेऽस्तभवने जीवे विलग्नाश्रिते । तद्वत्सूर्य्य-
सुतोदयेऽवनिसुते धर्मात्मजद्यूनगे जाते वा ससहस्ररश्मि-
तनये क्षीणे व्यये शीतगौ । राश्यंशपोष्णकरशीतकराम-
रेज्यैर्मीचाधिपांशकगतैरारभावगैर्वा । एभ्योऽल्पमध्य-
बहुभिः क्रमशः प्रसूताज्ञेयाःस्युरभ्युपगमक्रयगर्भदासाः।
विकृतदशनः पापैर्दृष्टे वृषाजहयोदये खलतिरशुभक्षेत्रे
लग्नेहये वृषभेऽपि वा । नवमसुतगे पापैर्दृष्टे रवावदृढ़े
क्षणो दिनकरसुतेऽनेकव्याधिः कुजे विकलः पुमान् ।
व्ययसुतधनधर्मगैरमौम्यैर्भवनसमाननिबन्धनं विकल्प्यम् ।
भुजगानगड़पाशभृद्दृकाणैर्बलवदसौम्यनिरीक्षितैश्च तद्वत् ।
परुषवचनोऽपस्मारार्त्तः क्षयी च निशापतौ सरवितनये
वक्रालोकं गते परिवेषगे । रवियमकुजैः सौम्यादृष्टैर्नभ-
स्थलमाश्रितैर्भृतकमनुजः पूर्वोद्दिष्टैर्वराधममध्यमाः ।”
चान्द्रयोगास्तु १३ अ० उक्ता यथा ।
“अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे शशिनि विनय-
वित्तज्ञानधीनैपुणानि । अहनि निशि च चन्द्रे स्वाधि-
मित्रांशके वा सुरगुरुसितदृष्टे वित्तवान् स्यात् सुखी च ।
सौम्यैः स्मरारिनिधनेष्वधियोग इन्दोस्तस्मिंश्चमूपसचिव
क्षितिपालजन्मा सम्पन्नसौख्यविभवा हतशत्रवश्च दीर्घायुषो
विगतरोगभयाश्च जाताः । हित्वार्कं सुनफाऽनफा दुरुधुरा
स्वान्त्योभयस्थैर्ग्रहः शीताशोः कायतोऽन्यथा तु बहुभिः
केमद्रुमोऽन्यैस्त्वसौ । केन्द्रं शीतकरेऽथवा ग्रहयुते
केमद्रुमो नेष्यते केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिः
प्रसिद्धा न तु । त्रिंशत्सरूपाः सुनफाऽनफाख्याः षाष्टत्र-
यन्दौरुधुरे प्रभेदाः । इच्छाविकल्पैः क्रमशोऽभिनीय नीते
निवृत्तिः पुनरन्यनीतिः । स्वयमधिगतवित्तः पार्थिव-
स्तत्समो वा भवति हि सुनफायान्धीघनख्यातमांश्च ।
प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिर्विषयसुखसुवेषा
निर्वृतश्चानफायाम् । उत्पन्नभोगसुखभुग्धनवाहनाढ्य-
स्त्यागान्वितो दुरुधुराप्रभवः सुभृत्यः । केमद्रुमे मलिन-
दुःखितनीचिनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि
वंशजाताः । उत्साहशौर्य्यधनसाहसवान् महीजः सौम्यः
पटुः सुवचनो निपुणः कलासु । जीवोऽथधर्मसुखभुग्
नृपपूजितश्च कामी भृगुर्बहुधनो विषयोपभोक्ता । परवि-
भवपरिच्छदोपभोक्ता रवितनयो बहुकार्य्यकृद्गणेशः ।
अशुभकृदुडपोऽह्नि दृश्यमूर्तिगीलततनुश्च शुभोऽन्यथान्यदूह्यम् ।
पृष्ठ ३०८७
लग्नादतीव वसुमान् वसुमांच्छशाङ्कात्सौम्यग्रहैरुपचयोप-
गतैः समस्तैः । द्वाभ्यां समोऽल्पवसुमांश्च तदूनतायामन्ये-
ष्वसत्खपि फलेष्विदमुत्कटेन” ।
द्विग्रहादियोगास्तु १३ अ० उक्ता यथा
“तिम्पांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं
भौमेनाघरतं बुधेन निपुणं धीकीर्त्तिसौख्यान्वितम् ।
क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्लब्धस्वम्
रविजेन धातुकुशलं भाण्डप्रकारेषु वा । कूटस्त्र्यासव
कुम्भपण्यमशिवं मातुः सवक्रः शशी संज्ञः प्रस्मृतवाक्य-
मर्थनिपुणं सौभाग्यकीर्त्यान्धितम् । विक्रान्तं कुलमुख्य-
मस्थिरमतिं वित्तेश्वरं साङ्गिरा वस्त्राणां ससितः
क्रयादिकुशलं सार्किः पुनर्भूसुतम् । मूलादिस्नेहकूटै-
र्व्यवहरति वणिग्बाहुयोद्धा ससौम्ये पुर्यध्यक्षः
सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा । गोपो
मल्लोऽथ दक्षः परयुवतिरतोद्यूतकृत् सासुरेज्ये दुःखार्त्तो
ऽसत्यसन्धः समवितृतनये भूमिजे निन्दितश्च । सौम्ये
रङ्गवरो वृहस्पतियुते गीतप्रियो नृत्यविद्वाग्मी भूगणपः
सितेन मृदुना मायापदुर्लङ्घकः । सद्विद्यो धनदारवान्
बहुगुणः शुक्रेण युक्ते गुरौ । ज्ञेयः श्मश्रुकरोऽसितेन
घटकृज्जातोऽन्नकारोऽपि वा । असितसितसमागमेऽल्प
चक्षुर्युवतिसमाश्रयसंप्रवृद्धवित्तः । भवति च लिपिपुस्त-
चित्रवेत्ता कथितफलैः परतो विकल्पनीयाः” ।
अथ नक्षत्रभेदे जन्मफलम् वृहज्जातके १६ अ० ।
“प्रियभूषणः सुरूपः सुभगो दक्षीऽश्विनीषु मतिमांश्च ।
कृतनिश्चयः सत्यवाग् दक्षः सुखितश्च भरणीषु ।
बहुभुक्परदाररतस्तेजस्वी कृत्तिकासु विख्यातः । रोहिण्यां
सत्यशुचिः प्रियंवदः स्थिरमतिः सुरूपश्च । चपलश्चतुरो
भीरुः पटुरुत्साही धनी मृगे भोगी । शठगर्वितः
कृतघ्नो हिंस्रः पापश्च रौद्रर्क्षे ६ । दान्तः सुखी सुशीलो
दुर्मेधो रोगभाक् पिपासुश्च । अलपेन च सन्तुष्टः पुनर्वसौ
जायते मनुजः । शान्तात्मा सुभगः पण्डितो धनी
धर्मसंसृतः पुष्ये । शठसर्वभक्षः पापः कृतघ्नधूर्त्तश्च
भौजङ्गे ९ । बहुभृत्यधनोभोगी पितृसुभक्तो महोद्यमः
पित्र्ये १० । प्रियवाग् दाता द्युतिमानटनो नृपसेवको
भाग्ये ११ । सुभगो विद्याप्तधनो भोगी सुखभाग् द्वितीय-
फाल्गुन्याम् । उत्साही धृष्टः पानपोऽघृणी तस्करो
हस्ते । चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च भवति
चित्रायाम् । दान्ती बणिक् कृपालुः प्रियवाग् धर्माश्रितः
स्वातौ । ईर्ष्युर्लुब्धो द्युतिमान् वचनपटुः कलहकृ-
द्विशाखासु । आढ्यो विदेशवासी क्षुधालुरटनाऽनुरा-
धासु । ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुर-
कोपः । मूले मानी धनवान् सुखी नहिंस्रः स्थिरो
भोगी । इष्टानन्दकलत्रो मानी दृढ़ः सौहृदश्च जलदेवे २० ।
वैश्वे २१ विनीतधार्मिकबहुमित्रः कृतज्ञसुभगश्च । श्रीमान्
श्रवणे श्रुतवानुदारो धनान्वितः ख्यातः । दाताऽऽढ्य
शूरः गीतप्रियो धनिष्ठासु धनलुब्धः । स्फुटवाग् व्यसमी
रिपुहा साहसिकः शतभिषजि दुर्ग्राह्यः । भाद्रपदासू-
द्विग्नः स्त्रीजितधनी पटुरदाता च । वक्ता सुखी प्रजा-
वान् जितशत्रुर्धार्मिको द्वितीयासु । सम्पूर्णाङ्गः सु
भगः शूरः शुचिरथर्वान् पौष्णे” २७ ।
जन्मराशिफलम् तत्रैव १७ अ० ।
“वृत्ताताम्रदृगुष्णशाकलघुभुक् क्षिप्रप्रसादोऽटनः कामी
दुर्बलजानुरस्थिरवनः शूरोऽङ्गनावल्लभः । सेवाज्ञः कुनखी
व्रणाङ्कितशिरोमानी सहोत्वाग्रजः शक्त्या पाणितले-
ऽङ्कितोऽतिचपलस्तोये च भीरुः क्रिये १ । कान्तः
खेलगतिः पृथूरुवदनः पृष्ठास्यपार्श्वेऽङ्कितस्त्यागी क्लेशसहः
प्रभुः ककुदवान् कन्याप्रजः श्लेष्मजः । पूर्वैर्बन्धुधनात्मजै-
र्विरहितः सौभाग्ययुक्तः क्षमी दीप्ताग्निः प्रमदाप्रियः
स्थिरसुहृन्मध्यान्त्यसौख्ये गवि २ । स्त्रीलोलः सुरतो-
पचारकुशलस्ताम्रेक्षणः शास्त्रविद्दूतः कुञ्चितमूर्द्धजः
पटुमतिर्हास्येङ्गितद्यूतवित् । चार्वङ्गः गियवाक् प्रभक्षण-
रुचिर्गीतिप्रियो नृत्यवित् क्लीवैर्याति रतिं समुन्नतनस-
श्चन्द्रे तृतीयर्क्षगे ३ । आवक्रद्रुतगः समुन्नतकटिः स्त्रीनि-
र्जितः सत्सुहृद्दैवज्ञः प्रचुरालयः क्षयधनैः संयुज्यते
चन्द्रवत् । ह्रस्वः पीनगलः समेति च वशं साम्ना सुहृद्वत्
सलस्तोयोद्यानरतः स्ववेश्म४ सहिते जातः शशाङ्के नरः ।
तीक्ष्णः स्थूलहनिर्विशालवदनः पिङ्गेक्षणोऽल्पात्मजः
स्त्रीद्वेषी प्रियमांसकानननगः कुप्यत्यकार्ये चिरम् ।
क्षुत्तृष्णोदरदन्तमानसरुजासंपीडितस्त्यागवान् विक्रान्त
स्थिरधीः सुगर्वितमना मातुर्विधेयोऽर्कभे ५ । व्रीड़ामन्थर-
बारुवीक्षणगतिः स्रस्तांसबाहुः सुखी श्लक्ष्णः सत्यरतः
कलासु निपुणः शास्त्रार्थविद्धार्मिकः । मेधावी सुरतप्रियः
परगृहैर्वित्तैश्च संयुज्यते कन्यायां ६ परदेशगः प्रियवचाः
कन्याप्रजोऽल्पात्मजः । देवब्राह्मणसाधुपूजनरतः प्राज्ञः
शुचिः स्त्रीजितः प्रांशुश्चोन्नतनासिकः कृशचलद्गात्रो-
ऽटनोऽर्थान्धितः । हीनाङः क्रयविक्रयेषु कुशलो देबद्वि-
पृष्ठ ३०८८
नामा सरुग्बन्धूनामुपकारकृद्विरुषितस्त्यक्तस्तुतैः सप्तमे ७ ।
पृथुननयनवक्षावृत्तजङ्घोरुजानुर्जनकगुरु वयुक्तः शैशवे
व्याधितश्च । नरपतिकुलपूज्यः पिङ्गलः क्रूरचेष्टो
झषकुलिशखगाङ्कच्छन्नपापोऽलिजातः ८ । व्यादीर्घास्यशिरो-
धरः पितृधनत्यागी कविर्वीयवान् वक्ता स्थूलरदश्रवोऽध-
रनसः कर्मोद्यतः शिल्पवित् । कुब्जांसः कुनखी समांसल
भुजः प्रागल्भ्यवान् धर्मविद्बन्ध्रुद्विट् न बलात् समेति
च वशं साम्नैकसाध्योऽऽश्वजः ९ । नित्यं लालयति स्वदा-
रतनयान् धर्मध्वजोऽधःकृशः स्वक्षः क्षामकटिर्गृहीतवचनः
सौभाग्ययुक्तोऽलसः । शीतालुर्मनुजीव्टनश्च मकरे १०
सत्वाधिकः काव्यकृल्लुब्धा गम्यजराङ्गनासु निरतः संत्यक्त
लज्जीऽघृणश्च । करभगलसिरालुः खरलोमशदीर्घतनुः
पृथुचरणोरुपृष्ठजवनास्यकटीजठरः । परवनितार्थपापनि-
रतः क्षयवृद्धि तः प्रियकुसुमानुलेपनसुहृत् घटजो ११ ऽध्व
सहः । परजनधनभोक्ता दारवासोऽनुरक्तः समरुचिर
शरीरस्तुङ्गनासो वृहत्कः । अभिभवति सपत्नान् स्त्रीजि-
तश्चारुदृष्टिर्द्युतिनिधिधनभोगी पण्डितश्चान्त्यराशौ १२ ।
बलवति राशौ तदधिपतौ च स्ववलयुतः स्वाद्यदि तु
हिनांशुः । वथितफलानामविकलदाता शशिवदतोन्ये
त्वनुपरिचिन्त्याः” ।
सूर्य्यादिप्रहस्थितराशिफनम् तत्रैव १८ अ० उक्तं यथा
“प्रथितश्चतुरोऽटनोऽल्पवित्तः क्रियगे १ त्वायुधभृद्वितु-
ङ्गभागे । गबि २ वस्त्रसुगन्धपण्यजीवी वनिताद्विट्
कुशलश्च गेयवाद्ये । विद्याज्योतिषवित्तवान् मिथुनगे३ भानौ
कुलीर ४ स्थिते तीक्ष्णोऽस्वः परकार्य्यकृच्छ्रमपरः क्लेशैश्च
संयुज्यते । सिंहस्थे ५ वनशैलगोकुलरतिर्वीर्य्यान्वितोऽज्ञः
पुमान्, कन्थास्थे ६ लिनिलेख्यकाव्यगणितज्ञानान्वितः स्त्री
वपुः । जातस्तोलिनि ७ शौ ण्डकोऽध्वनिरतो हैरण्यको
नीचकृत् क्रूरः साहसिको विषार्जितधनः शस्त्रान्तगोऽ-
लि८ स्थिते । सत्पूज्यो धनवान् धनुर्द्धरगते९ तीक्ष्णो
भिषक्लारुको नीचोऽज्ञः कुबणिग्गृगे १० ऽल्पधनवाल्लुँब्धोऽन्य-
भाग्ये रतः । नीचो घटॆ१ तनयभाग्यपरिच्युतोऽस्वस्तो-
योत्थपण्यविभवो वनितादृतोन्त्ये १२ । सू० । नक्षत्रमानवतनु-
प्रतिमे विभागे लक्ष्मादिशेत्तुहिनरश्मिदिनेशयुक्ते । नरपति
सत्कृतोऽटनश्चमूपबणिक्सधनाः क्षततनुश्चोरभूरिविषयांश्च
कुजः स्वगृहे १ । ८ । युवतिजितान् सुहृत्सु विषमान्
परदारातान् कुहकसुबेषभीरुपरुषान् सितभे २ । ७ जनयेत् ।
बौधे ३ । ६ ऽसहस्तनयवान् विसुहृत् कृतज्ञो गान्धर्वयुद्धकुशलः
कृपणो--ऽभयोऽर्थी । चान्द्रे४ ऽथवान् साललयानसमर्जितः
स्वः प्राज्ञश्च भूमितनये विकलः खलश्च । “नस्वःक्लेशसहो
वनान्तरचरः सिंहे४ऽल्पदारात्मज जैवे ९ । १२ ऽनैक-
रिपुर्नरेन्द्रसचिवः ख्यातोऽमयोलप त्मजः । दुःखार्तो
विधनोऽटनोऽनृतरतस्तीक्ष्णश्च कुम्भ ११ स्थिते भौमे
भूरिधनात्मजो मृग १० गते भूपोऽथवा तत्समः । म० ।
द्यूतर्णपानरतनास्तिकचौरनिःखाः कुस्त्रीककूटकृद-
सत्यरताः कुजर्क्षे १ । ८ । आचार्य्यभूरिसुतदारधनार्ज-
नेष्टाः शौक्रे २ । ७ वदान्यगुरुभक्तिरताश्च सौम्ये ।
विकत्थनः शास्त्रकलाविदग्धः प्रिधंवदः सौख्यरतस्तृतीये ३
जलाजितखः स्वजनस्य शत्रुः शशाङ्कजे शीतकरर्क्ष ४ युक्ते ।
स्त्रीद्वेष्यो विधनसुखात्मजोऽटनोऽज्ञः स्त्रीलोलः सुपरि-
भवोऽर्क५ राशिगेज्ञे । त्यागी ज्ञः प्रचुरगुणः सुखी क्षमा-
वान् युक्तिज्ञो विगतभयश्च षष्ठराशौ ६ । परकर्मकृदखः
शिल्पबुद्धिरृणवान् विष्टिकरो बुधेऽर्कजर्क्षे १० । ११ ।
नृपसत्कृतपण्डिताप्तवाक्यो नवमे ९ । १२ ऽन्त्ये जितसेवकोन्त्य
शिल्पः” बु० । सेनानीर्बहुवित्तदारतनयो दाता
सुभृत्यः क्षमी तेजोदारगुणान्वितः सुरगुरौ ख्यातः
पुमान् कौजभे १ । ८ । कल्याङ्गः समुखोऽर्थमित्रतनयस्त्याभी
प्रियः शौक्रभे २ । ७ । बौधे ३ । ६ भूरिपरिच्छदात्मजसुहृत्-
साचिव्ययुक्तः सुखी । चान्द्रे ४ रत्नसुतस्वदारविभवः
प्रज्ञासुखैरन्वितः सिंहे स्याद् बलनायकः सुरगुरौ प्रोक्तञ्च
यच्चन्द्रभे । स्वर्क्षे ९ । १२ । माण्डलिको नरेन्द्रसचिवः
सेनापतिर्वा धनी कुम्भे ११ कर्कटवत् फलानि मकरे १०
नीचोऽल्पवित्तोऽसुखी । वृ० । परयुवतिरतस्तदर्थवादैर्हृत-
विभवः कुलपांसनः कुजर्क्षे १ । ८ । सबलमतिधनो नरेन्द्र-
पूज्यः स्वजनविभुः प्रथितोऽभयः सिते स्वे २ । ७ ।
नृपकृयकरोऽर्थवान् कलाविन्मिथुने ३ षष्ठगते ६ ऽतिनीच-
कर्मा । रविजर्क्ष १० । ११ गतेऽमरारिपूज्ये सुभगः
स्त्रीविजितो रतः कुनार्याम् । द्विभार्य्योऽर्थी भीरुः
प्रबलमदशोकश्च शशिभे ४ हरौ योषाप्तार्थः प्रवरयुवति-
र्मन्दतनयः । गुणैः पूज्यः सस्वस्तुरग९ सहिते
दानवगुरौ झवे १२ विद्वानाढ्यो नृपजनितपूजोऽति-
सुभगः । शु० । मूर्खोऽटनः कपटवान् विसुहृद्यमेऽजॆ
कीटे ८ तु बन्धबधभाक् चपलोऽघृणश्च । निर्ह्रीसुखार्थ-
तनयः स्खलितश्चलेख्ये रक्षापमिर्भवति--मुख्यपतिश्च बौधे ३
६ । वर्ज्यस्त्रीष्टोनबहुविभवो भूरिमार्य्यो वृषस्थे २ ख्यातः
स्वोच्चे७ गणपुरवसग्रामपूज्योऽर्थवांश्च । ४ कर्किण्यस्त्रो-
पृष्ठ ३०८९
ऽविकलदशनी मातृहीनीऽसुतोऽज्ञः सिंहे५ ऽनार्य्यो विसु-
खतमयो विष्टिकृत् सूर्य्यपुत्रे । स्वन्तःप्रत्ययितो नरेन्द्रभ-
वने सत्पुत्रजायाधनो जीवक्षेत्र ९ १२ गतेऽर्कजे पुरबल-
ग्रामाग्रनेताऽथ वा । अन्थस्त्रीधनसंवृतः पुरबलग्रामा-
ग्रणीर्मन्ददृक्स्वक्षेत्रे १० ११ । मलिनस्थिराथविभवो भोक्ता
च जातः पुमान् । श० । शिशिरकरसमानमीक्षणानां
सदृशफलं प्रवदन्ति लग्नजातम् । फलमधिकमिदं यदत्र
तत्तद्भवनभनाथगुणैर्विचिन्तनीयम्” ।
लग्नतदंशयोर्ग्रहदृष्टिफलम् १९ अ० तत्रैवोक्तं यथा
“चन्द्रे भूपबुधौ नृपोपमगुणी स्तेनोऽधनश्चा १ जगे निःखः
स्तेन नृमान्यभूपधनिनः प्रेष्यः कुजाद्यैर्गवि २ । नृस्थे ३
ऽयोव्यवहारिपार्थिवबुधाभीस्तन्तुवायो धनी स्वर्क्षे ४ योद्धृ-
कविज्ञभूमिपतयोऽयोजीविर्हृद्रोगिणौ । ज्योतिर्ज्ञास्वनरे-
न्द्रनापितनृपक्ष्मेशा बुधाद्यैर्हरौ ५ तद्वद्भूपचमूपनैपुणयुताः
षष्ठे६ शुभैस्त्र्याश्रयः । जूके७ भूपसुवर्णकारबणिजः शेषे-
क्षिते नैकृती, कीटे ८ युग्मपिता नतश्च रजकोऽव्यङ्गोऽधनो
भूपतिः । ज्ञात्युर्वीशजनाश्रयश्च तुरगे ९ पापैः सदम्भः
शठश्चाप्युर्वीशनरेन्द्रपण्डितधनी द्रव्योनभूपो मृगे १० ।
भूपो भूपसमोऽन्यदारनिरतः शेषैश्च कुम्भस्थिते ११ हास्यज्ञो
नृपतिर्बुधश्च ह्यषगॆ२ पापश्च पापेक्षिते । होरेशर्क्ष
दलाश्रितैः शुभुकरोदृष्टः शशी तद्गतस्त्र्यंशे तत्पतिभिः
सुहृद्भवनगैर्वा वीक्षितः शस्यते । यत् प्रोक्तं प्रतिराशिवीक्षण-
फलं तद्द्वादशांशे स्मृतं सूर्य्याद्यैरवलोकितेऽपि शशिनि
ज्ञेयं नवांशेष्वतः । आरक्षिको बधरुचिः कुशलो
निशुद्धे भूपोऽर्थवान् कलहकृत् क्षितिजांशसंस्थे । मूर्खोऽ-
न्यदारनिरतः सुकविः सितांशे सत्काव्यकृत् सुखपरोऽ-
न्यकलत्रगश्च । बौधे हि रङ्गचरचौरकवीन्द्रमन्त्री गेयज्ञ-
शिल्पनिपुणः शशिनि स्थितेऽंशे । स्वांशेऽलपगात्रधनलुब्ध-
तपस्विमुख्यः स्त्रीपौष्टिकृत्यनिरतश्च निरीक्ष्यमाणे ।
सक्रोधो नरपतिसंमतो निधीशः सिंहांशे प्रभुरसुतोऽति
हिंस्रकर्मा । जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञ
सचिवविकामवृद्धशीलः । अल्पापत्यो दुःखितः सत्यपिः
स्वे मानासक्तः कर्मणि खेऽनुरक्तः । दुष्टस्त्रीष्टः कार्पणश्चा-
र्किभागे चन्द्रे मानौ तद्वदिन्द्वादिदृष्टे । वर्गोत्तमखपरगेषु
शुभं यदुक्तं तत्पुष्टमध्यलघुताशुभमुत्क्रमेण । वीर्य्या-
न्वितोऽंशकपतिर्निरुणद्धि पूर्वं राशीक्षणस्य फलमंश-
फलं ददाति” ।
जन्मादिद्वादशभावस्थसूर्य्यादिग्रहफलम् तत्रैव२० अ० उक्तं यथा


“शूरस्तब्धो विकलनयनो निर्घृणोऽर्के तनुस्थे मेषे
सस्वस्तिभिरनयनः हिंह ५ संस्थे निशान्धः । नीचे ७ ऽन्धो-
ऽस्वः शशिगृह४ गते बुद्बुदाक्षः पतङ्गे भूरिद्रव्यो
नृपहृतधनोवक्त्ररोगी द्वितीवे २ । मतिविक्रमवान् तृतीय-
३ गेऽर्के विसुखपीडितमांनसश्चतुर्थे४ । असुतो धनवर्जि-
तस्त्रिकोणे५ बलवाञ्छत्रुजितश्च शत्रु६ याते । स्त्री-
भिर्गतः परिभवं मदगे ७ पतङ्गे स्वल्पात्मजोनिधनगे ८
विकलेक्षणश्च । धर्मे९ सुखार्थसुखभाक् सुतशौर्यभाक् स्वे १०
लाभे ११ प्रभूतधनवान् पतितस्तु रिप्फे १२ । सू० । मूकोन्म-
त्तजडान्धहीनबधिरप्रेष्याः शशाङ्कोदये १ स्वर्क्षाजोच्चगते
धनो बहुसुतः सखः कुटुम्बी धने २ । हिंस्रो भ्रातृ ३ गते
सुखे सतनये ५ तत्प्रोक्तभावान्वितो नैकारिर्मृदुकायवह्नि-
मदनस्तीक्ष्णोऽलसश्चारिगे ६ । ईर्ष्युस्तीव्रमदी मदे ७
बहुमतिर्व्याध्यर्दितश्चाष्टमे ८ सौभाग्यात्मजमित्रबन्ध्धनभाक्
धर्म ९ स्थिते शीतगौ । निष्पत्तिं समुपैति धर्मधनधीशौर्य्यै-
र्युतः कर्मगे १० ख्यातो भावगुणान्विते भव ११ गते क्षुद्रो-
ऽङ्गहीनो व्यये १२ । च० । “लग्नॆ कुजे क्षततनुर्धनगे २
कदन्नोधर्मे९ ऽर्थवान् खरकरप्रतिमोऽन्यसंस्थः । म० । विद्वान्
धनी प्रखलपण्डितमन्त्रशत्रुर्धर्म्मज्ञविश्रुतगुणः परतो-
ऽर्कवज्ज्ञे । बु० । विद्वान् सुवाक्यः कृपणः सुखी च
धीमानशत्रुः पितृतोऽधिकश्च । नीचस्तपस्वी सधनः
सलाभः खलश्च जीवे क्रमशो विलग्नात् । वृ० स्मरनिपुणः
सुखितश्च विलग्ने प्रियकलहोऽस्त७ गते सुरतेप्सुः ।
तनय५ गते सुखितो भृगुपुत्रे गुरुवदतोऽन्यगृहे द्रविणी
स्यात् । शु० । अदृष्टार्थो रोगी मदनवशगोऽत्यन्तमलिनः
शिशुत्वे पीडार्त्तः सवितृसुतलग्नेऽत्यलसवाक् । गुरु ९ ।
१२स्व १० । ११ र्क्षोच्च७ स्थे नृपतिसदृशो ग्रामपुरपः सुविद्वांश्चा-
र्वङ्गोदिनकरसमोऽन्यत्र कथितः । श० । सुहृदरिपरकीयस्व-
र्क्षतुङ्गस्थितानां फलमनु परिचिन्त्यं लग्नदेहादिभावैः ।
ससुपचयविपत्ती सौम्यपापेषु सत्यः कथयति विपरीतं
रिप्फषष्ठाष्टमेषु । उच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहा-
र्कगैः शुभं संपूर्णपादोनदलपादाल्पनिःफलम्” ।
आश्रयफलं तत्रैव २१ अ० उक्तं यथा ।
“कुलसमकुलमुख्यबन्धुपूज्या धनिसुखिभोगिनृपाः
स्वभैकवृद्ध्या । परविभवसुहृत्स्वबन्धुपोष्या गणपबलेश
नृपाश्च मित्रभेषु । जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः
प्रचुरधनसमेतं मित्रयोगाच्च सिद्धम् । विधनविसुखमूढ़-
व्याधितो बन्धतप्तो बधदुरितसमेतः शत्रुनीचर्क्षगेषु । न
पृष्ठ ३०९०
कुत्भलग्नं शुभमाह सत्यो न भागभेदाद् यवना वदन्ति ।
कस्यांशभेदो न तथास्ति राशेरतिप्रसङ्गस्त्विति विष्णुगुप्तः ।
यातेष्वसत्स्वसमभेषु दिनेशहोरां ख्यातो महोद्यम-
वलार्थयुतोऽतितेजाः । चान्द्रीं शुभेषु युजि मार्दवक्रान्ति-
सौख्यसौभाग्यधीमधुरवाक्ययुतः प्रजातः । तास्वेव
होरास्वपरर्क्षगेषु ज्ञेया नराः पूर्वगुणेषु मध्याः । व्यत्यस्तहोरा
भवनस्थितेषु मर्त्या भवन्त्युक्तगुणैर्विहीनाः । कल्याण-
रूपगुणमात्मसुहृद्दृकाणे चन्द्रोऽन्थगस्तदधिनाथगुणं
करोति । व्यालोद्यतायुधचतुश्चरणाण्डजेषु तीक्ष्णोऽति-
हिंस्नगुरुतल्परतीऽटनश्च । स्तेनो भोक्ता पण्डिताढ्यो
नरेन्द्रः क्लीवः शूरो विष्टिकृद्दासवृत्तिः । पापो हिंस्नोऽ-
भीश्च वर्गोत्तमांशेष्वेषामीशाराशिवद्द्वादशांशैः । जायान्वितो
बलविभूषणसत्वयुक्तस्तेजोऽतिसाहसयुतश्च कुजे स्वभागे ।
रोगी मृतस्वयुवतिर्विषमोऽन्यदारो दुःखी परिच्छदयुतो
मलिनोऽर्कपुत्रे । स्वांशे गुरौ धनयशःसुखबुद्धियुक्तास्तेजस्वि
पूज्यनिरुगुद्यमभोगवन्तः । मेधाकलाकपटकाव्यविवाद-
शिल्पशास्त्रार्थसाहसयुताः शशिजेऽतिमान्याः । स्वे त्रिं-
शांशे बहुसुतसुखारोग्यभाग्यार्थरूपः, शुक्रे तीक्ष्णः
सुललितवपुः सुप्रकीर्णेन्द्रियश्च । शूरस्तब्धौ विषमबधकौ सद्गु-
णाद्यौ सुखिज्ञौ चार्वङ्गेष्टौ रविशशियुतेष्वारपूर्वांशकेषु”
प्रकीर्णकफलं तत्रैव २३ अ० उक्तं यथा
“स्वर्क्षतुङ्गमूलत्रिकीणगाः कण्टकेषु यावन्त
आश्रिताः । सर्व एव तेऽन्योन्यकारकाः कर्मगस्तु तेषां विशे-
षतः । कर्कटोदयगते यथोडुपे स्वोच्चगाः कुजयमार्कसू-
रयः । कारका निगदिताः परस्परं लग्नगस्य सकलोऽम्ब-
राम्बुगः । स्वत्रिकोणोच्चगो हेतुरन्योन्यं यदि कर्मगः ।
सुहृत्तद्गुणसम्पन्नः कारकश्चापि स स्मृतः । शुभं वर्गो-
त्तमे जन्म वेशिस्थाने च सद्ग्रहे । अशून्येषु च केन्द्रेषु
कारकाख्यग्रहेषु च । मध्ये वयसः सुखप्रदाः केन्द्रस्था
गुरुजन्मलग्नपाः । पृष्ठोभयकोदयर्क्षगास्त्वन्तेऽन्तःप्रथमेषु
पाकदाः । दिनकररुधिरौ प्रवेशकाले गुरुभृपुजौ
भवनस्य मध्ययातौ । रविसुतशशिनौ विनिर्गमस्थौ शशितनयः
फलदस्तु सर्वकालम्” ।
स्त्रीजन्मनि विशेषस्तत्रैवोक्तः २४ अ० यथा
“यद्यत्फलं नरभवेऽक्षममङ्गनानान्तत्तद्वदेत् पतिषु वा
सकलं विधेयम् । तासां तु भर्तृमरणं निधने वपुस्तु
लग्नेन्दुगे सुभगताऽस्तमये पतिश्च । युग्मेषु लग्नशशिनोः
प्रकृतिस्थिता स्त्री सच्छीलभूषणयुता शुभदृष्टयोश्च । ओज-
स्थयोश्च पुरुषाकृतिशीलयुक्ता पापा च पापयुतवीक्षि-
तयोर्गुणोना । कन्यैव दुष्टा व्रजतीह दास्यं साध्वी समा
या कुचरित्रयुक्ता । भूम्यात्मज१ । ८ र्क्षे क्रमशोऽंशकेषु
वक्रार्किजीवेन्दुजभार्गवाणाम् । दुष्टा पुनर्भूः सगुणा
कलाज्ञा ख्याता गुणैश्चासुरपूजितर्क्षे । स्यात् कापटी
क्लीवसमा सती च बौधे ३ । ६ गुणाद्या प्रविकीर्णकामा ।
स्वच्छन्दा पतिघातिनी बहुगुणा शिल्पिन्यसाध्वीन्दुभे
४ऽनाचारा कुलटार्कभे५ नृपबधूः पञ्चेष्टिताऽगम्यगा ।
जैवे (९ । १२) नैकगुणाल्परत्यतिगुणा विज्ञानयुक्ता सती ।
दासी नीचरतार्किभे (१० । ११) पतिरता दुष्टप्रजा स्वांशकैः ।
शशिलग्नसमायुक्तैः फलं त्रिंशाशकैरिदम् । वलाबल-
विकल्पेन तयोरुक्तं विचिन्तयेत् । दृक्संस्थाबसित-
सितौ परस्परांशे शौक्रे वा यदि घटराशिसम्भवोऽंशः ।
स्त्रीभिः स्त्री मदनविषानलं प्रदीप्तं संशान्तिं नयति
नराकृतिस्थिताभिः । शून्ये कापुरुषोऽबलेऽस्तभवने
सौम्यग्रहावीक्षिते क्लीवोऽस्ते बुधमन्दयोश्चरगृहे नित्यं
प्रवासान्वितः । उत्सृष्टा रविणा कुजेन विधवा वाल्येऽ-
स्तराशिस्थिते कन्यैवाशुभवीक्षितेऽर्कतनये द्यूने जरां
गच्छति । आग्नेयैर्विधवाऽस्तराशिसहितैर्मिश्रैः पुनर्भू-
र्भवेत् क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्ये स्थिते
प्रोज्झिता । अन्योन्यांशगयोः सितावनिजयोरन्यप्रसक्ता-
ङ्गना द्यूने वा यदि शीतरश्मिसहितौ भर्त्तुस्तदानुज्ञया ।
सौरारर्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं वन्धकी
पापदृष्टे । र्कौजेऽस्तांशे सौरिणा व्याधियोनिश्चारुश्रोणी
वल्लभा सद्ग्रहांशे । वृद्धो मूर्खः सूर्यजर्क्षेऽंशके वा
स्त्रीलोलः म्यात् क्रोधनश्चावनेये । शौक्रे कान्तोऽतीव
सौभाग्ययुक्तो विद्वान् भर्त्ता नैपुणज्ञश्च बौधे । मदनवश-
गतो मृदुश्च चान्द्रे त्रिदशगुरौ गुणवान् जितेन्द्रियश्च ।
अतिमृदुरतिकर्मकृच्च सौर्ये भवति गृहेऽस्तमयस्थितेऽंशके
वा । ईर्व्यान्विता सुखपरा शशिशुक्रलग्ने ज्ञेन्द्वोः
कलासु निपुणा सुखिता गुणाढ्या । शुक्रज्ञयोस्तु रुचिरा
सुभगा कलाज्ञा त्रिष्वप्यनेकवसुसौख्यगुणा शुभेषु ।
क्रूरेऽष्टमे विधवता निधनेश्वरेऽंशे यस्य स्थितो वयसि
तस्य समे प्रदिष्टा । सत्स्वर्थगेषु मरणं स्वयमेव तस्याः
कन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ । सौरे मध्यबले
बलेन रहितैः शीतांशुशुक्रेन्दुजैः शेषैर्वीर्यसमन्वितैः
पुरुषिणी यद्योजराश्युद्गमः । जीवारास्फुजिदैन्दवेषु
वलिषु प्राग्लग्नराशौ समे विख्याबा भुवि नैकशास्त्र-
पृष्ठ ३०९१
निपुणा स्त्री ब्रह्मवादित्यपि । पापेऽस्ते नवमगतग्रहस्य
तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन । उद्बाहे वरणविधौ
प्रदानकाले चिन्तायामपि सकलं विधेयमेतत्” । जातक-
पद्धत्यादौ विस्तरो दृश्यः । ५ सुन्दरे त्रि० चतुर्जातकम् ।

जातकचक्रम् ज्यो० उक्ते जातस्य शुभाशुभसूचके चक्रभेदे

तच्च चक्रं ज्यो० त० उक्त यथा
“युद्धजयार्णवे यस्मिन्नृक्षे स्थितोभानुस्तदादित्रीणि
मस्तके । मुखे त्रीणि तथा द्वे भे स्कन्धयोर्भुजयोरुभे ।
द्वे हस्तयोः पञ्च हृदि नाभावेकं तथा गुदे । तथा जानु-
युगे द्वेद्वे पादयोर्जलधिं४ न्यसेत् । चरणर्क्षेषु यो जातः
सोऽल्पायुर्भवति प्रिये! । जानुनोर्भ्रमणाशक्तो गुह्ये-
स्यात् पारदारिकः । नाभौ स्वल्पधनो देवि । हृदये
स्यान्महाधनः । पाण्योर्जातो भवेच्चौरो भुजयोर्दुःख-
भाजनम् । स्कन्धयोर्भोगभोगी च मुखे धर्मरतो धनी ।
मूर्द्ध्नि राजा भवेद्देवि! वालानां जन्मतोवदेत्” । स्वरो-
दये । “मुखे शीर्षे शतं वर्षं नवतिः स्कन्धयोर्द्वयोः । पञ्चा-
पीतिहृदि प्रोक्ता हस्तयोः सप्ततिः क्रमात् । बाह्वोः
षट्षष्तिवर्षाणि गुह्ये षटषष्टिका क्रमात् । पञ्चाशत्
जङ्घयोः पादे निर्द्धनश्चाल्पजीवनः” ।

जातकर्म्मन् न० जाते कर्म । पुत्रजन्मनिमित्ते पितृकर्त्तव्ये

पुत्रसस्कारभेदे । तच्च आश्व० गृ० १ । १५ । १ दर्शितं यथा ।
“कुमारं जातं पुराऽन्यैरालम्भात् सर्पिर्मधुनी
हिरण्यनिकाषं हिरण्येन प्राशयेत् “प्र ते ददामि मधुनी
घृतस्य वेदं सवित्रा प्रसूतं मघोनाम् । आयुष्मान्
गुप्तो देवताभिः शतं जीव शरदो लोके अस्मि-
न्निति” । सू० । “इदं जातकर्म । कुमारग्रहणं कुमारी-
निवृत्त्यर्थम । ननु कुमार्य्या अपि भवत्येव जातकर्म ।
कुतः । वक्ष्यति “आवृतैव कुमार्याः” इति, उच्यते । प्रवा-
सादागतस्य विहितं कर्मावृता भवति न जातकर्म
अनन्तरत्वात् । एवमेके अन्ये पुरनरावृतैव कुमार्या
इत्येतदुभयार्थमिति वदन्ति । तेन कुमार्या अपि
जातकर्म भवति । मनुनाप्युक्तम् “अमन्त्रिका
तु कार्य्येयं स्त्रीणामावृदशेषतः” इति । तहि
कुमारग्रहणं किमर्थम्? अधिकारार्थम् । “अष्टमे वर्षे
ब्राह्मणमुपनयेदित्युपनयनं कुमारस्येव यथा स्यात्
न कुमार्या इति । ननु ब्राह्मणमिति पुंलिङ्गनिर्देशा-
देव न भविष्यति । न जातिनिर्देशे लिङ्गमविव-
क्षितम् । यथा ब्राह्मणो न हन्तव्य इति ब्राह्मण्यपि
न हन्यते एवमत्रापि स्त्रियाः प्रसज्यते तन्निवृत्त्यर्थं
कुमारग्रहणमिति । जातग्रहणमप्यधिकारार्थम् ।
“गोदानं षोड़शे वर्षे” इति जन्मतः प्रभृतिषोड़शोयथा स्यात्
उपनयनप्रभृति मा भूदिति । पुरा पूर्वमित्यर्थः अन्य-
ग्रहणमनधिकृतालम्भनात् प्राक् कर्म कर्त्तव्यमित्येव-
मर्थम् । सर्पिर्मधुनी हिरण्येन निकाशयति । ते हिरण्य-
संसृष्टे हिरण्येन प्राशयेत् मातुरुपस्थ आसीनं “प्र ते
ददामीति” मन्त्रेण नारा० वृ० ।
“कर्णयोरुपनिधाय मेधाजननं जपति । “मेधान्ते
देवः सविता मेधां देवी सरस्वती । मेधान्ते अश्विनौ
देवावाधत्तां पुष्करस्रजौ” । सू० “अस्य कर्णयोः हिरण्यं
निधाय मेधाजननं जपति मेधान्त इति । उपग्रहणं
तस्य मुखसमीपे आत्मनोमुखं निधाय जपार्थं मेधा
जननमित्यस्य मन्त्रस्याख्या सकृन्मन्त्रः । पर्यायेणोप-
निधानमित्येके । अन्ये मन्त्रावृत्तिमिच्छन्ति” नारा०
“गार्भैर्होमैर्जातकर्म्मचौड़मौञ्जीनिवन्धनैः । प्राङ्-
नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते” मनुः ।
“नाभिवर्द्धनात् नाभिसम्बन्धात् नाड़ीच्छेदनात् ।
वैजवापिः “जन्मनोऽनन्तरं कार्य्यं जातकर्म यथाविधि ।
दैवादतीतः कालश्चेत् अतीते सुतके भवेत्” । एवञ्च,
“मृदुध्रुवचरक्षिप्रभेष्वेषामुदयेऽपि वा । गुरौ शुक्रेऽथ वा
केन्द्रे जातकर्म्म च नाम च” इति ज्योतिःशास्त्रोक्ते
र्दैवात् कालोत्कर्षे वेदितव्यम् । अनुत्कर्षेऽपि नक्षत्रादि-
नियमो न, नैमित्तिकस्य निमित्तान्तरभावित्वेन निरव-
काशत्वात् ज्यो० त० ।

जातमात्र त्रि० जात एव । सद्योजाते । “जातमात्रं न यः

शत्रुं रोगं च प्रशमं नयेत्” पञ्चत० ।

जातरूप न० जातं प्रशस्तं जात + प्राशस्त्ये रूपप् ।

१ स्वर्णे २ धूस्तूरवृक्षे पु० अमरः । ३ उत्पन्नरूपे त्रि० ।
“न जातरूपच्छदजातरूपता” नैष० । “कमण्डलुमुपा-
दाय जातरूपमयान् शुभान्” भा० स० ४७ अ० ।

जातविद्या स्त्री जाते निष्पन्ने होमादौ विद्या विद्यते-

ऽनया विद्या प्रायश्चित्तज्ञापिका वाक् । होमादि
निष्पत्त्यनन्तरं प्रायश्चित्तबोधके वाक्यभेदे “ब्रह्मा त्वो
वदति जातविद्याम” ऋ० १० । ७१ । १२ । “जाते जाते
कर्त्तव्ये प्रायश्चित्तादौ विद्यां वेदयित्रीं वाचं वदति
ब्रह्मा हि सर्वं वेदितुं योग्यो भवति स्वजु” भा० ।
पृष्ठ ३०९२

जातवेदस् पु० जातं सद्योजातं विन्दति प्राप्नोति विद-

लाभे असुन् । १ वह्नौ अमरः तस्य तथात्वञ्च
ऋ० ३ । १ । २० उक्तं “जन्मन् जन्मन् निहितो जातवेदाः”
“जन्मन् जन्मन् सर्वेषु मनुष्येषु निहतो जातवेदाः”
भा० । जातमात्रस्य ज ठरानलसम्पर्कात्तस्य तथात्वम् ।
२ जातानां वेत्तरि च “आदाब जातवेदः” ऋ० १ । ४४ । १ ।
हे जातवेदः जातानां वेदितः” भा० निरुक्ते ७ । १९ ।
तस्य बहुधा व्युत्पत्तिर्दर्शिता यथा
“जातवेदाः कस्माज्जातानि वेद जानाति वैनं विदुर्जाते
जाते विद्यत इति वा जातवितो वा जातधनो जातविद्यो
वा जातप्रज्ञानो यत्तज्जातः पशूनविन्दतेति तज्जात-
वेदसो जातवेदस्त्वमिति ब्राह्मणम् । तस्मात् सर्वानृतून्
पशवोऽग्निमभिसर्पन्तीति च” ३ जातप्रज्ञे ४ जातधेने ५ सूर्य्ये
च “उदु त्यं जातवेदसं देवं वहन्ति केतवः” ऋ०
१५० । १ । “जातवेदसः जातानां प्राणिनां वेदितारं
जातप्रज्ञं जातधनं वा” भा० “पञ्चमः पञ्चतपसां तपनो
जातवेदसाम्” “विदुद्युते बाडवजातवेदसाम्” माघः
जातवेदस इदं स देवताऽस्य वा अण् । जातवेदस
तत्सम्बन्धिनि त्रि० । “प्र नूनं जातवेदसमश्वम्” निरु० ७ । २०
धृता ऋक् । तद्देवताके सामभेदे मन्त्रे तृचे च तत्रैव
निरुक्ते “तदेकमेव जातवेदसं गायत्रं तृचं दशतयोषु
विद्यते यत्तु किञ्चिदाग्नेयं तज्जातवेदसां स्थाने यज्यते”
इत्युपक्रमे “उत्तरे ज्योतिषी जातवेदसी उच्येते” भा० ।

जातायन पुंस्त्री जातस्य गोत्रापत्यम् अश्वा० फञ् । जातस्य

गोत्रापत्ये स्त्रियास्तु जातायाः अपत्यम् ढक् । जातेय
जाताया अपत्ये पुंस्त्री ।

जाति स्त्री जन--क्तिन् । १ जन्मनि, २ अनुगतैकाकारबुद्धि-

जननसमर्थे, अवयवव्यङ्ग्ये सकृदुपदेशव्यङ्ग्ये च ३ धर्मभेदे,
व्याकरणोक्ते पौत्राद्यपत्यात्मके ४ गोत्रे, ५ वदशाखाभेदे
च । न्यायोक्ते साधर्म्म्यवैधर्म्म्याभ्यां व्याप्तिनिरपेक्षाभ्यां
वादिवाक्येषु ६ दूषणदानरूपे वाक्ये, ७ षड्जादिषु सप्तसु
स्वरेषु, ८ अलङ्कारभेदे, ९ चूल्ल्याम्, शब्दार्थचि० ।
आमलक्यां, १० जातिफले, ११ मालत्यां, (चामेली)
पुष्पप्रधानवृक्षे च मेदि० १२ काम्पिल्ले विश्वः ।
तत्र व्याकरणोक्ते जातिलक्षणं यथा
“चाकृतिग्रहणा जातिर्लिङ्गानाञ्च न सर्वभाक् । सकृदा-
ख्यातनिर्ग्राह्या गोत्रञ्च चरणैः सह” भा० । अस्यार्थः ।
आक्रियते व्यज्यतेऽनयेति आकृतिः संस्थानम् । गृह्यते-
इति ग्रहणं ज्ञानम् । आकृत्या ग्रहणं यस्याः
सा आकृतिग्रहणा । जातिराकृतिग्रहणा संस्थान-
व्यङ्ग्येत्यर्थः । तेन मनुष्यगोमृगहंसादीनां पृथक्
पृथक्संस्थानैर्व्यज्यमानत्वात् मनुष्यत्वगोत्वमृगत्वहंसत्वा
दिर्जातिः । एवं ब्राह्मणक्षत्त्रियवैश्यशूद्राणां पृथक्
संस्थानाभावात् ब्राह्मणत्वादेर्जातित्वं न स्यादिति
लक्षणान्तरमाह लिङ्गानाञ्च न सर्वभागिति । या
सर्वाणि लिङ्गानि न भजते सा च जाति रित्यर्थः ।
स्त्रीपुंसयोरपत्यन्ताद्विचतुःषट्पदोरगाः । जातिभेदाः
पुमानाख्या” इत्यररसिंहेन जातिभेदानां स्त्रीपुंसयोरेवेति
नियमेन ब्राह्मणादीनां सर्वलिङ्गभागित्वाभावाज्जाति-
त्वम् । किन्तु अज्ञातहंसस्य जनस्य हसं दृष्टवतोऽपि
तस्य संस्थानेन हंसत्वं व्यञ्जितुं न शक्यते इति हंसत्व-
स्यापि जातित्वं न स्यादिति पूर्वलक्षणस्य दोषः । एवं
देवदत्तादिसंज्ञाशब्दस्यापि सर्वलिङ्गभागित्वाभावाज्जाति-
त्वापत्तिरिति द्वितीयलक्षणस्य दोषः इति दोषद्वय-
मपाकर्त्तुं द्वयोर्लक्षणयोर्विशेषणमाह सकृदाख्यात
निर्ग्राह्येति । सकृदेकवारमाख्यातेन उपदेशेन निश्च-
येन ग्राह्या ग्रहीतुं शक्या इत्यर्थः । तेन ईदृशो
हंसैत्युपदेशे हंसं दृष्टवतस्तस्य संस्थानेन हंसत्वं व्यञ्जितु
शक्यत एवेति पूर्वलक्षणस्य न दोषः । एवं देवदतादि
संज्ञाशब्दस्यैकस्मिन्नुपदेशेऽपि अन्यस्मिन् ज्ञानाभावात्
जातित्वं न स्यादिति परलक्षणस्यापि न दोषः । गार्ग्यः
पुरुषः गार्गी स्त्री गार्ग्यं कुलमिति सर्वलिङ्गभागित्वात्
संस्थानव्यङ्ग्यत्वाभावाच्च गार्ग्यादीनां जातित्वानुपपत्ती
तृतीयलक्षणमाह । गोत्रञ्चेति । पुत्रपौत्रप्रभृतिक-
मपच्यं गोत्रमिति पूर्ब्बात्तार्य्यपरिभाषितं गोत्रमिह
गृह्यते गार्गी वात्सीत्यादि । चतुर्थलक्षणमाह चरणैः
सहेति चरणञ्च जातिरित्यर्थः । चरणशब्दा वेदैकदेश-
वाची कठादिरूपः स च अध्ययनक्रियासम्बन्धेन प्रवृत्त-
त्वात् क्रियावाचक एव न तु जातिबाचकः । तेनास्य
जातिसंज्ञार्थं चरणैः सहेत्युक्तम् । मागर्पादीनां
यञश्चेति ङीपि सिद्धेऽपि जातिसंज्ञाफलन्तु स्वरार्थम्
तथा गार्गी भार्य्या यस्यासु गार्गीभार्य्य इत्यादौ
“जातेश्चेति” पुम्वद्भावनिषेधः । गार्गी चासौ भार्य्या
चेति गार्ग्यभार्य्या इत्यादौ “पुंवत् कर्मधारयेति”
पुनः पुंवद्भावः” “प्रादुर्भावविनाशाभ्यां सत्वस्य
युगपद् गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवये
विदुः” इति महाभाष्ये लक्षणान्तरमुक्तम्
पृष्ठ ३०९३
ईदृशान्यतमार्थकशब्दानां जातिशब्दत्वेन व्याकरणे व्यव-
ह्रियते उदा० दृश्यते चोपरिष्टात् ।
अनुगतधर्मरूपजातेर्ब्रह्मरूपत्वम् । हरिणोक्तं यथा
“सम्बन्धभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्यु-
च्यते तस्यां सर्वे शब्दा व्यवस्थिताः । तां प्रादिपदिकार्थञ्च
धात्वर्थञ्च प्रचक्षते । सा नित्या सा महानात्मा तामा-
हुस्त्वतलादयः” इति । प्रतिपादिता च तेनैव अनेक-
व्यक्तीनामनित्यतया जातेरैकरूप्यात् स्फोटात्मशब्द-
वाच्यता यथा “अनेकव्यक्त्यमिव्यङ्ग्या जातिः स्फोट
इति स्मृता । कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रक-
ल्पिताः” इति । अत्र च जातिस्फोटयोः सामाना
धिकरण्यनिर्द्देशात् वाच्यवाचकयोरभेद इति बोध्यम् ।
वैशेषिकमतसिद्धेषु षट्सु भावेषु मध्ये अनुगतबुद्धिनिया-
मकधर्मभेदरूपभावपदार्थसामान्यलक्षणभेदादिकं कणा०
सू० वृत्तौ दर्शितं यथा
“सामान्यं विशेष इति बुद्ध्यपेक्षम्” । सू०
“पदार्थत्रयोद्देशलक्षणानन्तरमिदानीमुद्दिष्टस्य सामा-
न्यपदार्थस्य लक्षणमाह सामान्यं द्विविधं परमपरञ्च
परं सत्ता अपरं सत्ताव्याप्यं द्रव्यत्वादि तत्र सामान्यस्य
तद्विशेषस्य च लक्षणं बुद्धिरेव । अनुवृत्तबुद्धिः सामा-
म्यस्य, व्यावृत्तबुद्धिर्विशेषस्य इतिना द्वयमवच्छिद्य
परामृश्यते तेन बुद्ध्यपेक्षमिति नपुंसकनिर्द्देशः ।
वृत्तिकारस्तु विशेषान्धयमाह परन्तु “नपुंसकमनपुंसके-
नैकवच्चान्यतरस्याम्” पा० इत्यनेनैकवद्भावी नपुंसकता
चेत्याह । बुद्धिरपेक्षा लिङ्गं लक्षणं वा यस्य तद्बुद्ध्य
पेक्षं तत्र नित्यमनेकव्यक्तिवृत्ति सामान्यं नित्यत्वे सति
स्वाश्रपान्येन्याभावसमानाधिकरणं वा परमपि सामान्य-
मपरमपि तथा । परन्तु सामान्यं विशेषसंज्ञामपि लभते
तथा द्रव्यमिदं द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं
गुणो नेदं कर्मेति विशेषप्रत्ययः । तथा च द्रव्यत्वादीनां
सामान्यानामेव विशेषत्वम् । ननु विधिरूपं सामान्यं
नास्त्येव अनुगतमतेरतद्व्यावृत्त्यैवोपपत्तेः भवति हि
गौरयमिति--प्रतीतेरगोव्यावृत्तोऽयमिति विषयः जाति-
वादिनाऽपि गोत्वादिविशिष्टप्रत्ययस्य तद्विषयत्वाभ्युप-
गमात् नहि वैशिष्ठ्यमतद्व्यावृत्तेरन्यत्, गवादिपदप्रवृत्ति-
निमित्तमप्यगोव्यावृत्त्यादिरेव । किञ्च गोत्व कुत्र
वर्त्तते न तावद्गवि गोत्ववृत्तेः पूर्वं तम्वाभावात्
नाप्यगवि, विरोधात् यत्र गोपिण्ड उत्पद्यते तत्र कुत
आगत्य गेत्वं वर्त्तते न तावत्तत्रैवासीत् देशस्यापि तस्य
गोत्वापत्तेः नापि गोत्वमपि तदानीमेवोत्पन्नं नित्यत्वा-
भ्युपगमात् नाप्यन्यत आगतं निष्क्रियत्वाभ्युपगमात्
नच एकस्यैव नित्यस्य नानाव्यक्तिवृत्तित्वं कार्त्स्त्र्यैकदेश-
विकल्पानुपपत्तेः । नहि कृत्स्नमेकत्रैव वर्त्तते
अन्यत्र तद्विशिष्टप्रत्ययानुदयप्रसङ्गात् । नाप्येकदेशेन
जातेरेकदेशस्याभावात् । तदुक्तं “न याति नच तत्रा-
सीन्नचोत्पन्नं नचांशवत् । जहाति पूर्वं नाधारमहो-
व्यसनसन्ततिः” इति । सामान्यमस्ति तच्च संस्थान-
मात्रव्यङ्ग्यं गोत्वघटत्वादिवत् न तु गुणकर्मगतमपीति
सगोत्रकलहः । अत्रोच्यते सामान्यं नित्यं व्यापकञ्च
व्यासकत्वमपि स्वरूपतः सर्वदेशसम्बद्धत्वं न देशानां
गोव्यवहारापत्तिः समवायेन तद्व्यवहारस्याभ्युपगमात्
काले रूपादिमत्त्वेऽपि कालो रूपवानित्यप्रतीतिव्यवहा-
रवत् न च कालो नास्त्येव पञ्चस्कन्धसज्ञाभेदमात्रमित्य-
भ्युपगमादिति वाच्यं कालस्य साधयिष्यमाणत्वात् ।
तथाच यत्र पिण्ड उत्पद्यते तत्रस्थमेव गत्वं तेन सम्ब-
ध्यते जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात् । एतेन
कीदृश्याश्रये वर्त्तते इत्यत्र यत्र प्रतीयते इत्युत्तरम्, कुत्र
प्रतीयते इत्यत्र यत्र वर्त्तते इत्युत्तरम् । गत्ववृत्तेः पूर्वं
स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम् । एवञ्च
“न याति नच तत्रासीत् इत्यादिकं परिदेवनमात्रम्,
अतद्व्यावृत्तिरेव गोत्वमित्यम्य गौरयमिति विधिमुखः
पत्यय एव बाधकः । नह्यनुभवोऽपि व्याख्यायते तदुक्तं
“विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थकः” इति न हि
गौरयमिति प्रत्ययेऽगोव्यावृत्तिरपि भासते । कात्र्स्न्यैकदे-
शविकल्पस्तदाभवेत् यद्येकस्य सामानस्य कातर्स्नां भवेदेक-
देशो वा कृत्स्नता ह्यनेकाशेषता । सा चैकस्मिन्नोपपन्ना
गौरयमित्यनुभव एवासद्विषयो न वस्तुव्यवस्थापनक्षम
इत्यत्रोत्तरं वक्ष्यते । प्राभाकरास्तु संस्थानमात्रव्यङ्ग्यं
सामान्यमाचक्षते तद्यद्यनुगतप्रतीतिसाक्षिकं तदा
किमपराद्धं गुणकर्मगतैः सामान्यैः, भवति हि रूपरसाद्यनु-
गतधीः सा च जातिव्यवस्थापिकैव बाधकाभात् रूपत्वा-
दिजातिषु न त वद्व्यक्त्यभेदो बाधकः आकाशत्वादिवत्,
रूपरसादिव्यक्तोनामनेकत्वात् नापि बुद्धित्वज्ञानत्वादिवत्
घटत्वकलसत्वादिवद्वा तुल्यत्वं बाधकं तच्च न्यूनानतिरिक्त-
व्यक्तिकत्वं गुणत्वापेक्षया न्यूनव्यक्तिकत्वात् नीलत्पाद्यपे-
क्षया चाधिकव्यक्तिकत्वात् स्वतएव न सङ्करः भूतत्वमूर्त्त ।
पृष्ठ ३०९४
त्ववत्, परस्परात्यन्ताभावसामानाधिकरण्ये सति जात्यन्त-
रेण सामानाधिकरण्याभावात् नाप्यनवस्था रूपत्वादिगत-
सामान्यान्तरानभ्युपगमात् नापि रूपहानिर्विशेषत्ववत्
यदि विशेषाः द्रव्याश्रितत्वे सति जातिमन्तः स्युः गुणाः
कर्माणि वा स्तुः विभुवृत्तित्वे सति यदि जातिमन्तः
स्युर्गुणाः स्युरिति यथा विशेषपदार्थस्वरूपहानिस्तथा
प्रकृतेऽभावात् नापि समवायत्ववदसम्बन्धः समवाये
समवायाभ्युपगमेऽनवस्थाभयात्तथास्तु, प्रकृते तु समवाय-
स्यैव सम्बन्धस्याभ्युपगमात् । यद्यपि समवायत्वजाति-
बाधकोव्यक्त्यभेदएव तथापि यन्मते उत्पादविनाशशीलाः
बहवः समवायास्तन्मते द्रष्टव्यम् । अभावत्वादिजात्यभ्युप-
गमे वा बाधकमेतत्, (व्यक्तेरभेदस्तुलत्वं सङ्करोऽथानव-
स्थितिः । रूपहानिरसम्बन्धो जातिबाधकसंग्रहः) ।
विवादपदमनुगतबुद्धिः अनुगतनिमित्तसाध्या अबाधि-
तानुगतमतित्वात् दामकुसुमबुद्धिवत् इति जातौ
मानमिति वृत्तिकारास्तच्चिन्त्यम्” । उप० वृत्तिः ।
“भावोऽनुवृत्तेरव हेतुत्वात् सामान्यमेव” । सू०
“सामान्यं विशेष इति द्वैविध्यं तदुपपादयन्नाह ।
भावः सत्ता अनुवृत्तेरेव हेतुः न तु व्यावृत्तेरपि हेतुः
तथा च विशेषसंज्ञां लभते” । उप० वृत्तिः
“द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशे-
याश्च” । सू०
“केषां सामान्यानां विशेषसंज्ञेत्यपेक्षायामाह । चकारः
पृथिवीत्वादीनि द्रव्यगतजातीः रूपत्वादीनि गुणगतजातीः
उत्क्षेपणत्वादीनि कर्मगतजातोः समुच्चिनोति । द्रव्यत्व-
मित्यादावसमासः परस्परं व्याप्यव्यापकभावाभावसूचनार्थम्
सामान्यानि विशेषाश्चेत्यत्रासमासः सामान्यत्वे सत्येव
विशेषत्यं यथा ज्ञायेत तदर्थम्, अन्यथा सामान्यविशेषा
इति षष्ठीसमासभ्रमः स्यात् तथाच सामान्यत्वे सति
विशेषत्वं न प्रतीयते । ननु द्रव्याकारानुगतमतिसा-
क्षिकं न द्रव्यत्वम्, पृथिव्यादौ कथञ्चित्, तत्सत्त्वेऽपि
वाय्वाकाशादौ तदसम्भवात् न च गुणत्वावच्छिन्नकार्य्यसम-
वायिकारणतावच्छेदकतया तत्सिद्धिः नित्यानित्यवृत्तितया
गुणत्वस्य कार्य्यतानवच्छेदकत्वात् गुणत्वार्थमपि पर्य्य-
नुयोगस्य तादवस्थ्यात्, मैवं संयोगत्वावच्छिन्नकार्य्यसम-
वायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेः सा हि न पृथि-
वीत्वाद्यवच्छेद्या न्यूनवृत्तित्वात् नापि सत्तावच्छेद्या
ऽधिकवृत्तित्वात् अवश्यं ह्यवच्छेदकेन भवितव्यम्, अन्य-
थाकस्मिकतापत्तेः तत्र परमाणुषु द्व्यणुकासमवायि-
कारणवतया द्व्यणुकेषु त्र्यणुकासमवायिकारणवत्तया
विभुचतुष्टयस्य सर्वमूर्त्तसंयोगितयैव सिद्धेः मनसि
इन्द्रियमनःसंयोगाधारतया वायौ तृणादिनोदनाश्रय-
तया प्रत्यक्षद्रव्येषु प्रत्यक्षतयैव संयोगाभ्युपगमस्यावश्य-
कत्वात् अजस्तु संयोगो नास्त्येव येन संयोगत्वस्यापि
कार्य्याकार्य्यवृत्तितया कार्य्यतावच्छेदकता न स्यात् एवं
विभागसमवायिकारणतावच्छेदकतयाऽपि द्रव्यत्वसिद्धेः
सुप्रतिपदत्वात् । गुणत्वन्तु संयोगविभागसमवायिकारण-
त्वःसमवायिकारणत्वशून्ये सामान्यवति यत्ककारणत्वं
तदवच्छेदकतयैव सिद्धमित्युक्तत्वात् कर्मत्वमपि प्रत्यक्ष-
द्रव्येषु चलतीति--प्रत्ययसाक्षिकम्, अन्यत्र तु संयोग-
विभागानुमेयं संयोगविभागोभयासमवायिकारणताव-
च्छेदकतयाऽपि कर्मत्वसिद्धेरावश्यकत्वात्” । उप० वृत्तिः
१३ ब्रह्मणादिवर्णे वर्णरूपजातिश्च द्विविधा शुद्धा सङ्कीर्णा
च तत्र शुद्धाजातयः ब्राह्मणादयः । सङ्कीर्णजातयश्च
मूर्द्धावसिक्तादयः नाना तदेतत् मनुना १० अ० उक्तं यथा
“व्राह्मणः क्षत्त्रियोवैश्यस्त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः । सर्ववर्णेषु
तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन सम्भूता
जात्या ज्ञेयास्त एव ते । स्त्रीष्वनन्तरजातासु द्विजैरु-
त्पादितान् सुतान् । सदृशानेव तानाहुर्म्मातृदोषविग
र्हितान् । अनन्तरासु जातानां विधिरेव सनातनः
द्व्येकान्तरासु जातानां धर्म्म्यं विद्यादिमं विधिम्
ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते । निषाद
शूद्रकन्यायां यः पारशव उच्यते । क्षत्त्रियाच्छ्रूद्रकन्याया
क्रूराचारविहारवान् । क्षत्त्रशूद्रवपुर्जन्तुरुग्रो नाम
प्रजायते । विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।
वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः । क्षत्त्रिया-
द्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ
राजविप्राङ्गनासुतौ । शूद्रादायोगवः क्षत्ता चाण्डाल-
श्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्ण-
सङ्कराः । एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ ।
क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि । पुत्रा येऽन-
न्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्तु
मातृदोषात् प्रचक्षते । ब्राह्मणादुग्रकन्यायामावृतो नाम
जायते । आभीरांऽम्बष्ठकन्यायामायोगव्यान्तु धिग्वणः ।
अयोगवश्च क्षत्ता च चाण्डालश्चाधमो नृणाम् । प्राति-
पृष्ठ ३०९५
लोम्येन जायन्ते शूद्रादपसदास्त्रयः । वैश्यान्मागधवैदेहौ
क्षत्त्रियात्सूत एव तु । प्रतीपमेते जायन्ते परेऽप्यपसदा-
स्त्रयः । जातो निषादाच्छ्रूद्रायां जात्या भवति पुक्वसः ।
शूद्राज्जातो निषाद्यान्तु स वै कुक्कुटकः स्मृतः । क्षत्तु-
र्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते । वैदेहकेन
त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते । द्विजातयः सवर्णासु
जनयन्त्यव्रतांस्तु यान् । तान् सावित्रीपरिभ्रष्टान् व्रात्या
इति विनिर्दिशेत् । व्रात्यात्तु जायते विप्रात् पापात्मा
भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैखएव
च । झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च ।
नटश्च करणश्चैव खसो द्रविडएव च । वैश्यात्तु जायते
व्रात्यात् सुधन्वाचार्य्यएव च । कारुषश्च विजन्मा च
मैत्रः सत्वतएव च । व्यभिचारेण वर्णानामवेद्यावेदनेन
च । स्वकर्मणाञ्च त्यागेन जायन्ते वर्णसङ्कराः । सङ्की-
र्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यति-
षक्ताश्च तान् प्रवक्ष्याम्यशेषतः । सूतोवैदेहकश्चैव चण्डा-
लश्च नराधमः । मागधः क्षतृजातिश्च तथाऽयोगवएव
च । एते षट् सदृशान् वर्णान् जनयन्ति स्वयोनिषु ।
मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु । यथा त्रयाणां
वर्णानां द्वयोरात्मास्य जायते । आनन्तर्य्यात् स्वयोन्यान्तु
तथा बाह्येष्वपि क्रमात् । ते चापि बाह्यान् सुबहूं-
स्ततोऽप्यधिकदूषितान् । परस्परस्य दारेषु जनयन्ति
विगर्हितान् । यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं
प्रसूयते । तथा बाह्यतरं वाह्यश्चातुर्वर्ण्ये प्रसूयते ।
प्रतिकूलं वर्त्तमाना बाह्या बाह्यतरान् पुनः । हीना
हीनात् प्रसूयन्ते वर्णान् पञ्चदशैव तु । प्रसाधनोप-
चारज्ञमदास दासजीवनम् । सैरिन्ध्रं वागुरावृत्तिं सूते
दस्युरयोगवे । मैत्रेयकन्तु वैदेहो माधुकं सम्प्रसूयते ।
नॄन् प्रशंसत्यजस्रं यो घण्टाताड़ोऽरुणोदये । निषादो
भार्गवं सूते दाशं नौकर्म्मजीविनम् । कैवर्त्तमिति यं
प्राहुरार्य्यावर्त्तनिवासिनः । मृतवस्त्रभृन्नारीषु गर्हि-
तान्नाशनासु च । भवन्त्यायोगवीष्वेते जातिहीनाः
पृथक् त्रयः । कारावरोनिषादात्तु चर्म्मकारः प्रसूयते ।
वैदेहकादन्ध्रमेदो बहिर्ग्रामप्रतिश्रयौ । चण्डालात्
पाण्डुसोपाकस्त्वक्सारव्यवहारवान् । आहिण्डिकोनिषा-
देन वैदेह्यामेव जायते । चण्डालेन तु सोपाको
मूलव्यसनवृत्तिमान् । पुक्कस्यां जायते पापः सदा सज्जन-
गर्हितः । निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसा-
यिनम् । श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ।
सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रच्छन्ना
वा प्रकाशा वा वेदितव्याः स्वकर्मभिः । सजातिजानन्त-
रजाः षट् सुता द्विजधर्मिणः । शूद्राणान्तु सधर्म्माणः
सर्वेऽपध्वंसजाः स्मृताः । तपोवीजप्रभावैस्तु ते गच्छन्ति
युगे युगे । उत्कर्षञ्चापकर्षञ्च मनुष्येष्विह जन्मनः ।
शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः । वृषलत्वं
गता लोके व्राह्मणादर्शनेन च । पौण्ड्रकाश्चौड्रद्रविडाः
काम्बोजा जवनाः शकाः । पारदाः पह्नवाश्चीनाः किराता
दरदाः खसाः । मुखबाहूरुपज्जानां या लोके जातयो
बहिः । म्लेच्छवाचश्चार्य्यवाचः सर्वे ते दस्यबः स्मृताः ।
ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः । ते निन्दि-
तैर्वर्त्तयेयुर्द्विजानामेव कर्मभिः । सूतानामश्वसारथ्यमम्ब-
ष्ठानां चिकित्सितम् । वैदेहकानां स्त्रीकार्य्यं मागधानां
वणिक्पथः । मत्स्यघाती निषादानां तष्टिस्त्वायोगवस्य
च । मेदान्ध्रचञ्चुमद्गूनामारण्यपशुहिंसनम् । क्षत्त्रु-
ग्रपुक्कसानान्तु बिलौकीबधबन्धनम् । धिग्वणानां चर्म्म-
कार्य्यं वेणानां भाण्डवादनम् । चैत्यद्रुमश्मशानेषु शैले-
सूपवनेषु च । वसेयुरेते विज्ञाता वर्त्तयन्तः स्वकर्मभिः ।
चण्डालश्वपचानान्तु बहिग्रामात् प्रतिश्रयः । अपपात्राश्च
कर्त्तव्या धनमेषां श्वगर्दभम् । वासांसि मृतचेलानि
भिन्नभाण्डेषु भोजनम् । कार्ष्णायसमलङ्कारः
परिव्रज्या च नित्यशः । न तैः समयमन्विच्छेत् पुरुषो धर्म-
माचरन् । व्यबहारो मिथस्तेषां विवाहः सदृशैः सह ।
अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न
विचरेयुस्ते ग्रामेषु नगरेषु च । दिवा चरेयुः कार्य्यार्थं
चिह्निता राजशासनैः । अबान्धवं शवञ्चैव निर्हरेयुरिति
स्थितिः । बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
बध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च । वर्णापेत-
मविज्ञातं नरं कलुषयोनिजम् । आर्य्यरूपमिबानार्य्यं
कर्म्मभिः स्वैर्विभावयेत् । अनार्य्यता निष्ठुरता क्रूरता
निष्क्रियात्मता । पुरुषं व्यञ्जयन्तीह लोके कलुषयो-
निजम् । पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा ।
न कथञ्चन दुर्य्योनिः प्रकृतिं स्वां नियच्छति । कुले
सुख्येऽपि जातस्य यस्य स्यात्योनिसङ्करः । संश्रयत्येव
तच्छीलं नरोऽल्पमपि वा बहु । यत्र त्वेते परिध्वंसा
जायन्ते वर्णदूषकाः । राष्ट्रिकैः सह तद्राघ्रं क्षिप्रमेव
विनश्यति । ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
पृष्ठ ३०९६
स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ।
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एतं सामा-
सिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः । शूद्रायां ब्राह्मणा-
ज्जातः श्रेयसा चेत् प्रजायते । अश्रेयान् श्रेयसीं
जातिं गच्छत्यासप्तमाद्युगात् । शूद्रोब्राह्मणतामेति
ब्राह्मणश्चैति शूद्रताम् । क्षत्रियाज्जातमेवन्तु विद्याद्वैश्या-
त्तर्थैव च । अनार्य्यायां समुत्पन्नोव्राह्मणात्तु यदृच्छया ।
ब्राह्मण्यामप्यनार्य्यात्तु श्रेयस्त्वं क्केति चेद्भवेत् । जातो-
नार्य्यामनार्य्यायासार्य्यादार्य्योभवेद्गुणैः । जातोऽप्यना-
र्य्यादार्य्यायामनार्य्य इति निश्चयः । तावुभावप्यसंस्का-
र्य्याविति धर्मोव्यवस्थितः । वैगुण्याज्जन्मनः पूर्वमुत्तरः
प्रतिलोमतः । सुवीजञ्चैव सुक्षेत्रे जातं सम्पद्यते
यथा । तथार्य्याज्जात आर्य्यायां सर्वं संस्कारमर्हति ।
वीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः । वीजक्षेत्रे
तथैवान्ये तत्रेयन्तु व्यवस्थितिः । अक्षत्रे वीजमुत्सृष्ट-
मन्तरैव विनश्यति । अवीजकमपि क्षेत्रं केवलं स्थण्डिलं
भवेत् । यस्माद्वीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन् ।
पूजिताश्च प्रशस्ताश्च तस्माद्वीजं प्रशस्यते । अनार्य्य-
मार्य्यकर्म्माणमार्य्यं चानार्य्यकर्म्मिणम् । सम्प्रधार्य्या-
व्रवीद्धाता न समौ नासमाविति ।”
जातिभेदा वृद्धहारीतेनाप्युक्ता यथा
“व्राह्मणाः क्षत्त्रिया वैश्याः शूद्रां वर्णा यथाक्रमम् ।
आद्यास्त्रयो द्विजाः प्रोक्तास्तेषां वै मन्त्रसत्क्रियाः ।
सवणभ्यः सवर्णासु जायन्ते हि सजातयः । तेषा
सङ्करयोगाश्च प्रतिलोमानुलोमजाः । विप्रान् मर्द्धाव-
सक्तस्तु क्षत्त्रियायामजायत । वैश्यायान्तु तथाम्वष्ठो
निपादः शूद्रया तथा । राजन्याद्वैश्याशूद्र्योस्तु माहि-
ष्योग्रौ तु तौ स्मृतौ । शूद्र्यां वैश्यात् तु करणस्त्रिधैव
तेऽनुलोमजाः । विप्रायां क्षत्त्रियात् सूतः वैश्याद्
वैदेहकस्तथा । चण्डालस्तु तथा शूद्रात्सर्वकर्मसु
गर्हितः । मागधः क्षत्त्रियायां वै वैश्यात्, क्षत्ता
शूद्रतः । शूद्रादयोगवं वैश्या जनयामास वै सुतम् ।
रथकारः करण्यान्तु माहिष्येण प्रजायते । असत्सन्त
तयो ज्ञेयाः प्रतिलोमानुलोमजाः । प्रतिलोमासु वै
जाता गर्हिताः सर्वकर्मसु” ।
उशन साऽप्युक्ता यथा
“अतः परं प्रवक्ष्यामि जातिवृत्तिविधानकम् ।
अनुलोमविधानञ्च प्रतिलोमविधिं तथा । सान्तरालक-
संयुक्तं सर्वं संक्षिप्य चोच्यते । नृपाद् व्राह्मणकन्यायां
विवाहेषु समन्वयात् । जातः पुत्रोऽत्र निर्दिष्टः प्रति-
लोमबिधिर्द्विजः । वेदानर्हस्तथा चैषां धर्माणामनु-
बोधकः । सूताद्विप्र प्रसूतायां सूतो वेणुक उच्यते ।
नृपायामेव तस्यैव जातो यश्चर्मकारकः । ब्राह्मण्यां
क्षत्त्रियाच्चौर्य्याद्रथकारः प्रजायते । वृत्तञ्च शूद्रवृत्तस्य
द्विजत्वं प्रतिषिध्यते । यानानां ये च वाढ़ारस्तेषाञ्च
परिचारकाः । शूद्रवृत्त्या तु जीवन्ति न क्षात्त्रं धर्म-
माचरेत् । ब्राह्मण्यां वैश्यसंसर्गाज्जातोमागध उच्यते ।
वन्दित्वं व्राह्मणानाञ्च क्षत्त्रियाणां विशेषतः । प्रशंसा-
वृतिको जीवेद्वैश्यप्रेष्यकरस्तथा । ब्राह्मण्यां शूद्रसंसर्गा-
ज्जातश्चाण्डाल उच्यते । सीसमाभरणं तस्य कार्ष्णाय-
समथापि वा । वधीं कण्ठे समाबध्य झल्लरीं कक्षतोऽपि
वा । मल्लापकर्षणं ग्रामे पूर्व्वाह्णे पपिशुद्धिकम् ।
नापराह्णे प्रविष्टोऽपि बहिर्ग्रामाच्च नैरृते । पिण्डीभूता
भवन्त्यत्र नो चेद् बध्या विशेषतः । चाण्डालाद्वैश्य-
कन्यायां जातः श्वपच उच्यते । श्वमांसभक्षणं तेषां
श्वान एव च तद्वलम् । नृपायां वैश्यसंसर्गादायोगव
इति स्मृतः । तन्तुवाया भवन्त्येव वसुकांस्योपजीविनः ।
शीलिकाः केचिदत्रैव जीवनं वस्त्रनिर्मिते । आयोगवेन
विप्रायां जातास्ताम्रोपजीविनः । तस्यैव नृपकन्यायां
जातः सूनिक उच्यते । सूनिकस्य नृपायान्तु जाता
उद्बन्धकाः स्मृताः । निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च
भवन्त्यतः । नृपायां वैश्यतश्चौर्य्यात् पुलिन्दः परिकी-
र्त्तितः । पशुवृत्तिर्भवेत्तस्य हन्युस्तान् दुष्टसत्वकान् ।
नृपायां शूद्रसंसर्गाज्जातः पुक्कश उच्यते । सुरावृत्तिं
समारुह्य मधुविक्रयकर्मणा । कृतकानां सुराणाञ्च विक्रेता
पाचको भवेत् । पुक्कशाद्वैश्यकन्यायां जाती रजक
उच्यते । नृपायां शूद्रतश्चौर्य्याज्जातोरञ्जक उच्यते ।
वैश्यायां रञ्जकाज्जातो नर्त्तको गायको भवेत् । वैश्यायां
शूद्रसंसर्गाज्जाती वैदेहकः स्मृतः । अजानां पालनं
कुर्य्यान्महिषीणां गवामपि । दधिक्षीराज्यतक्राणां
विक्रयाज्जीवनं भवेत् । वैदेहकात्तु विप्रायां जाताश्च-
र्म्मोपजीविनः । नृपायामेव तस्यैव कुचिकः पाचकः
स्मृतः । वैश्यायां शूद्रतश्चौर्य्याज्जातश्चक्री स उच्यते ।
तैलपिष्टकजीवी तु लवणं भाबयन् पुनः । विधिना
ब्राह्मणः प्राप्य नृपायान्तु समन्त्रकम । जातः सुवर्ण
इत्युक्तः सानुलोमद्विजः स्मृतः । अथ वर्णक्रियां कुर्व-
पृष्ठ ३०९७
न्नित्यनैमित्तिकीं क्रियाम । अश्र रथं हस्तिनं वा
बाहयेद्वा नृपाज्ञया । सैनापत्यञ्च भैषज्यं कुर्य्याज्जीवेत्तु
वृत्तिषु । नृपायां विप्रतश्चौर्य्यात् संजाती यो भिषक्
स्मृतः । अभिषिक्तनृपस्याज्ञां परिपाल्ये स वैद्यकम् ।
आयुर्वेदमथाष्टाङ्गं तन्त्रोक्तं धर्म्ममाचरेत् । ज्योतिषं
गणितं वापि कायिकीं वृत्तिमाचरेत् । नृपाया विधिना
विप्राज्जातो नृप इति स्मृतः । नृपायां नृपसंसर्गात्
प्रमादाद गूढ़जातकः । सोऽपि क्षत्रिय एव स्यादभिषेकं
च वर्जितः । अभिषेकं विना प्राप्तो गोज इत्यभिधानकम् ।
सर्वन्तु राजवत्तस्य शस्यते पदवन्दनम् । पुनर्भूकरणे
राज्ञां नृपकालीन एव च । वैश्यायां विधिना विप्रा-
ज्जातो ह्यम्बष्ट उच्यते । कृष्याजीवो भवेत्तस्य तथैवाग्नेय
वृत्तिकः । ध्वजिनी जीविका वापि अम्बष्ठाः शस्त्रजी-
विनः । वैश्यायां विप्रतश्चौर्य्यात् कुम्मकारः स उच्यते ।
कुलालवृत्त्या जीवेत्तु नापिता वा भवन्त्यतः । सूतके
प्रेतके वापि दीक्षाकालेऽथ वापनम् । नाभेरूर्द्धन्तु वपनं
तस्मान्नापित उच्यते । कायस्य इति जीवेत्तु विचरेच्च
इतस्ततः । काकाल्लौल्यं यमात् क्रौर्य्यं स्थपतेरथ
कृन्तनम् । आद्याक्षराणि संगृह्य कायस्थ इति
कीर्त्तितः । शूद्रायां विधिना विप्राज्जातः पारशवोमतः ।
भद्रकादीन् समाश्रित्य जीवेयुः पूजकाः स्मृताः । शिवा-
द्यागमविद्याद्यैस्तथामण्डलवृत्तिभिः । तस्यां वै चौरिका
वृत्त्या निषादो जात उच्यते । वने दुष्टमृगान् हत्वा
जीवनं मांसविक्रयम् । नृपाज्जातोऽथ वैश्यायां गृह्याय
विधिना सुतः । वैश्यवृत्त्या तु जीवेत्तु क्षात्रधर्मं न
चाचरेत् । तस्यां तस्यैव चौरेण मणिकारः प्रजायते ।
मणीनां रचनां कुर्य्यान्मुक्तानां वेधनक्रियाम् । प्रवा-
लानाञ्च सूत्रित्वं शाखानां बलयक्रियाम् । सूद्रायां
विप्रसंसर्गाज्जात उग्र इति स्मृतः । नृपस्य दण्डधारः
स्याद्दण्डं दण्ड्येषु सञ्चरेत् । तस्येव चौरसंवृत्त्या जातः
शुण्डिक उच्यते । जातिदुष्टान् समारोप्य शण्डाकर्मणि
योजयेत् । शूद्रायां वैश्य संसर्गाद्बिधिना सूचकः स्मृतः ।
सूचकाद्विप्रकन्यायां जन्तस्तक्षक उच्यते । शिल्पकर्म्माणि
चान्यानि प्रासादलक्षणं तथा । नृपायामेव तस्यैव
जातो यो मत्स्यबन्धकः । शूद्रायां वैश्यतश्चौर्य्यात्
कटकार इति स्मृतः । यशिष्ठशापात्त्रेतायां केचित्
पारशवास्तथा । वैखानसेन केचित्तु केचिद्भागवतेन च ।
नेदशास्त्राबलम्बास्ते भविष्यन्ति कलौ युगे । कटकारास्ततः
पश्चान्नारायणगणाः स्मृताः । शाखा वैखानसेनोक्ता
तन्त्रमार्गबिधिक्रियाः । निषेकाद्याः श्मशानान्ताः क्रियाः
पूजाङ्गसूचिकाः । पञ्चरात्रेण वा प्राप्तं प्रोक्तं धर्मं
समाचरेत् । शूद्रादेव तु शूद्रायां जातः शूद्र इति स्मृतः ।
द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः । सच्छूद्रं नं
विजानीयादसच्छूद्रस्ततोऽन्यथा । चौर्य्यात् काकवचो
ज्ञेयश्चाश्वानां तृणवाहकः । एतत् संक्षेपतः प्रोक्तं
जातिवृत्तिविभागशः । जात्यन्तराणि दृश्यन्ते संकल्पा-
दित एव तु । “पराशरोक्तादासादिजातयस्तत्तच्छब्दे दृश्याः
अन्या अपि जातयो ब्रह्मवै० व्र० ख० १० अ० दर्शिता यथा
“बभूवुर्ब्रह्मणो वक्त्रादन्याब्राह्मणजातयः । ब्रह्मणो
बाहुदेशाच्च जाताः क्षत्रियजातयः । ऊरुदेशाच्च वैश्याश्च
पादतः शूद्रजातयः । तासां सङ्करजातेन बभूबुर्वर्णस-
ङ्कराः । गोपनापितलोलाश्च तथा मोदकमूलबौ ।
ताम्बूलिपर्णकारौ च तथा बणिजजातयः । इत्येव-
माद्या विप्रेन्द्र! सच्छूद्राः परिकीर्त्तिताः । शूद्रावि-
शोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः । विश्वकर्म्मा च
शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्राश्च
नवै ते शिल्पकारिणः । मालाकारः कर्मकारः शङ्खकारः
कुविन्दकः । कुम्भकारः कंसकारः षडते शिल्पिनां वराः ।
सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । पतितास्ते ब्रह्मशा-
पादयाज्या वर्णसङ्कराः । स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्म-
णानां द्विजोत्तम! । वभूव सद्यः पतितो ब्रह्मशापेन कर्मणा ।
सूत्रधारो द्विजातीनां शापेन पतितो भुवि । शीघ्रञ्च
यज्ञकाष्ठञ्च न ददौ तेन हेतुना । व्यतिक्रमेण चित्राणां
सद्यश्चित्रकरस्तथा । पतितो ब्रह्मशापेन ब्राह्मणानाञ्च
कोपतः । कश्चिद् बणिक्विशेषश्च संसर्गात् स्वर्णकारिणः ।
स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः । कुलटायाञ्च
शूद्रायां चित्रकारस्य वीर्य्यतः । बभूवाट्टालिकाकारः
पतितो जारदोषतः । अट्टालिकाकारवीर्य्यात् कुम्भकारस्य
योषिति । बभूव कोटिकः सद्यः पतितो गृहकारकः ।
कुम्भकारस्य वीर्य्येण सद्यः कोटिकयोषिति । बभूव
तैलकारश्च कुटिलः पतितो भुवि । पुद्यः क्षत्रियवीर्य्येण
राजपुत्रस्य योषिति । बभूव तीवरश्चैव पतितो
जारदोषतः । तीवरस्य तु वीर्य्येण तैलकारस्य योषिति ।
बभूय पतितो दस्युर्लेटश्च परिकीर्त्तितः । लेटस्तीवर-
कन्यायां जनयामास षण्नरान् । झल्लं मल्लं माठरञ्च
भड़ं कोलञ्च कन्दरम् । ब्राह्मण्यां शूद्रवीर्य्येण पतितो
पृष्ठ ३०९८
जारदोषतः । सद्यो बभूव चाण्डालः सर्वस्मादधमो-
ऽशुचिः । तीवरेणैव चाण्डाल्यां चर्मकारो बभूव ह ।
चर्मकार्य्याञ्च चाण्डालात् मांसच्छदी बभब ह । मांस-
च्छेद्यां तीवरेण क्ॐचश्च परिकीर्त्तितः । क्ॐचस्त्रियान्तु
कैवर्त्तात् काण्डारः परिकीर्त्तितः । सद्यश्चाण्डालकन्यायां
लेटवीर्य्येण शौनक! । बभूवतुस्तु द्वौ पुत्रौ हड्डिक-
शौण्डिकौ तथा । क्रमेण हड्डिकन्यायां सद्यश्चाण्डाल-
वीर्यतः । बभूवुः पञ्च पुत्राश्च भ्रष्टा वनचराश्च ते ।
लेटात्तीवरकन्यायां गङ्गातीरे च शौनक! । बभूव सद्यो-
यो वालो गङ्गापुत्रः प्रकीर्त्तितः । गङ्गापुत्रस्य कन्यायां
वीर्य्येण वेशधारिणः । वभूव वेशधारी च पुत्रो युङ्गी
प्रकीर्त्तितः । वैश्यात्तीवरकन्यायां सद्यः शुण्डी वभूव ह ।
शुण्डीयोषिति वैश्यात्तु पौण्ड्रकश्च प्रकीर्त्तितः । क्षत्रात्
करणकन्यायां राजपुत्रो बभूव ह । राजपुत्र्यान्तु
करणादागरीति प्रकीर्त्तितः । क्षत्रवीर्य्येण वैश्यायां कैवर्त्तः
परिकीर्त्तितः । कलौ तीवरसंसर्गाद्धीवरश्च प्रकीर्त्तितः ।
तीवर्य्यां थीवरात् पुत्रो बभूव रजकः स्मृतः । रजक्यां
तीवराच्चापि कोदाली च वभूव ह । नापिताद्गोपकन्यायां
सर्वस्वी तस्य योषिति । क्षत्राद्बभूव व्याधश्च बलवान्
मृगहिंसकः । तीवरात् शुण्डिकन्यायां बभुवुः सप्त-
पुत्रकाः । ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा ।
ब्राह्मण्यामृषिवीर्य्येण ऋतीः प्रथमवासरे । कुत्सितश्चो-
दर जातः कूदरस्तेन कीर्त्तितः । तदशौचं विप्रतुल्यं
पतितोह्यृतुदोषतः । सद्यः कोटिकसंसर्गादधमो जगती-
तले । क्षत्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे । जातः
पुत्रो महादस्युर्बलवांश्च धनुर्धरः । चकार वागतीतञ्च
क्षत्रियो वारितस्तया । तेन जात्या स पुत्रश्च वागतीतः
प्रकीर्त्तितः । क्षत्रवीर्य्येण शूद्रायामृतुदोषेण पापतः ।
बलवत्यो दुरन्माश्च बभूवुर्म्लेच्छजातयः । अबिद्धककर्णाः
क्रूरा निर्भया रणदुजयाः । शीचाचारविहीनाश्च
दुर्द्धर्षा धर्मवर्ज्जिताः । म्लेच्छात् कुविन्दकन्यायां
शराकः परिकीर्त्तितः । वर्णसङ्करदोषेण बह्व्यश्च
शठजातयः । तासां नामानि संख्याश्च को वा वक्तुं द्विज!
क्षमः । वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति ।
वैद्यवीर्य्येण शूद्रायां बभूवुबैहवो जनाः । ते च ग्राम्य-
गुणज्ञाश्च मन्त्रौषधिपरायणाः । तेभ्यश्च जाताः शूद्रायां
ते व्यालग्राहिणो भुवि” ।
षोड़शपदार्थमध्ये जातिरूपपदीर्थभेदश्च गौ० सू० उक्तो यथा
“साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः” सू० । विवृतञ्चैतत्
विश्वनाथेन । “क्रमप्राप्तां जातिं लक्षयति । साधर्म्यबैध-
र्म्याभ्यामिति सावधारणोनिर्देशस्तेन व्याप्तिनिरपेक्षाभ्यां
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिरित्यर्थः
यद्यप्युभाभ्यां प्रत्यवस्थानस्य प्रत्येकप्रत्यवस्थानेऽव्याप्तिरेक-
प्रत्यवस्थानस्य लक्षणत्वे परप्रत्यवस्थानेऽव्याप्तिर्नवान्यत-
रप्रत्यवस्थानं नियतं सर्वत्र जातावभावात्तथापि व्याप्ति-
निरपेक्षतया दूषणाभिधानमित्येव वाच्यं तेन च सन्द-
र्भेण दूषणासमर्थत्वं स्वव्याघातकत्वं वा दर्शितं तथा च
छलादिभिन्नदूषणासमथमुत्तरं स्वव्याघातकमुत्तरं वा
जातिरिति सूचितं साधर्म्यसमादिचतुविंशत्यन्यान्यत्वं
तदर्थैत्यपि वदन्ति” ।
तद्भेदाश्चतुर्विंशतिस्ते च गौतमेन दर्शिता यथा
“साधम्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य-
प्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्यर्थापत्त्यबि-
शेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्य्यसमाः” सू०
“तत्र च विशेषलक्षणार्थं जातिं विभजते” सू० ।
अत्र च साधर्म्यादीनां कार्य्यान्तानां द्वन्द्वे तैः समा इत्य-
र्थात् साधर्म्यसमादयश्चतुर्विंशतिर्जातय इत्यर्थः अत्र च
जातेर्विशेष्यत्वात् समाशब्दं मन्यन्ते भाष्यवार्त्तिकादौ
समाशब्दः अग्रिमसूत्रेषु तु समशब्दो निर्विवाद एव
तत्र जातिशब्दस्य स्त्रीलिङ्गतया यद्यपि नान्वयस्तथापि
प्रतिषेधो विशेष्य इति भाष्यादयः । वयन्तु तद्विकल्पादिति
सूत्रस्थविकल्पस्यैव विशेष्यत्वं विविधः कल्पः प्रकारो
विकल्पः तथा चैते साधर्म्यसमादयोजातिविकल्पा
एवमग्रिमसूत्रेष्वपि । इत्थञ्च जातेर्विशेष्यत्वे साधर्म्यसमेत्य-
पीति व्रूमः समीकरणार्थं प्रयोगः समैति वार्त्तिकं
यद्यपि नैतावता समीकरणं तथापि समीकरणोद्देश्यक-
त्वमस्त्र्येव अथ वा साधर्म्यमेव ममं यत्र स साधर्म्यसमः
एकत्र व्याप्तेराधिक्येऽपि साधर्म्यं सममेवेति भावः” वृत्तिः
“साधर्म्य्यवैधर्म्य्याभ्यामुपसंहारे तद्धर्म्मविपर्य्ययोपपत्तेः
साधम्य्यवैधर्म्य्यसमौ” १ । २ सू० ।
“साधर्म्यवैधर्म्यसमौ लक्षयति । उपसंहारे साध्यस्यो-
पसंहरणे वादिना कृते तद्धर्म्मस्य साध्यरूपधर्म्मस्य यो
विपर्य्ययो व्यतिरेकस्तस्य साधर्म्यवैधर्म्याभ्यां केवलाभ्यां
व्याप्त्यनपेक्षाभ्यां यदुपपादनं ततो हेतोः साधर्म्यवै-
धर्भ्यसमावुच्येते तदयमर्थः वादिना अन्वयेन व्यतिरेकेण
वा साध्ये साधिते प्रतिवादिनः साधर्म्यमात्रप्रवृत्तहेतु न
पृष्ठ ३०९९
तदभावापादनं साधर्म्यसमा १ वैधर्न्म्यमात्रप्रवृत्तहेतुना
तदभावापादनं वैधर्म्यसमा २ । तत्र साधर्म्यसमा यथा
शब्दोऽनित्यः कृतकत्वाद्घटवत् व्यतिरेकेण वा व्योम-
वदित्युपसंहृते नैतदेवं यद्यनित्यघटसाधर्म्यान्नित्याकाश-
वेधर्म्याद्वाऽनित्यः स्यान्नित्याकाशसाधर्म्यादमूर्त्तत्वान्नित्यः
स्याद्विशेषो बा वक्तव्यः वैधर्म्यसमा यथा शब्दोऽनित्यः
कृतकत्वाद्घटवत् आकाशवद्वेति स्थापनायाम् अनित्यघट-
वैधर्म्यादमूर्त्तत्वान्नित्यः स्यादविशेषो वा वक्तव्य इति अत्र
साधर्म्यत्वमात्रं वैधर्म्यत्वमात्रं वा गमकतौपयिकमित्य-
भिमानात् सत्प्रतिपक्षदेशनाभासे चेमे अनैकान्तिकदेश-
नाभासे इति वार्त्तिके त्वनैकान्तिकपदं योगात्सत्प्रति-
पक्षपरं एकान्ततः साध्यसाधकत्वाभावात्” वृत्तिः ।
“गोत्वाद्गोसिद्धिवत् तत्सिद्धिः” सू० ।
“अनयोरसदुत्तरत्वे वीजमाह । गोत्वात् गोसिद्धिर्गोव्य-
वहार इति सम्प्रदायः वयन्तु गोत्वाद्गवेतरासमवेतत्व
सति गोसमवेतात्सास्नादितः, एतेन व्याप्तिपक्षधर्म्मत्वे
दर्शिते गोर्गोत्वस्य तादात्म्येन गोरेव वा सिद्धिर्यथा
तथैव कृतकत्वादपि व्याप्तिपक्षधर्म्मतासहितादनित्यत्व-
सिद्धिर्नतु व्याप्तिपक्षधर्मतारहितात् साधर्म्यमात्रात् तथा
सति अदूषकसाधर्म्यात्प्रमेयत्वादितस्त्वद्वचनमप्यदूषकं
स्यादित्ययं विशेषः” वृत्तिः ।
“साध्यदृष्टान्तयोर्धर्म्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षव-
र्ण्यावर्ण्यविकल्पसाध्यसमाः” ३ । ४ । ५ । ६ । ७ । ८ सू०
“क्रमप्राप्तं जातिषटकं निरूपयति । उत्कर्षेण सम
उत्कर्षसम ३ एवमपकर्षसमोऽपि ४ वर्ण्यावर्ण्यसाध्येति
भावप्रधानो निर्देशः वर्ण्यत्वादिना समो वर्ण्यसमादिः ५ । ६
७ । ८ । अविद्यमानधर्म्मारोप उत्कर्षः विद्यमानधर्म्मापचयो-
ऽपकर्षः वर्ण्यत्वं वर्णनीयत्वं तच्च सन्दिग्धसाध्यकत्वादि
तदभावोऽवर्ण्यत्वं विकल्पोद्वैविध्यं साध्यत्वं पञ्चावयव-
साधनीयत्वं साध्यदृष्टान्तयोधर्मविकल्पादिति पञ्चाना-
मुत्थानवीजम् उभयसाध्यत्वादिति षष्ठस्य । तदयमर्थः
साध्यतेऽत्रेति साध्यं पक्षः तथा च साध्यदृष्टान्तयोरि-
त्यस्य पक्षदृष्टान्तयोरन्यतरस्मिन्नित्यर्थः धर्मविकल्पो
धर्म्मस्य वैचित्र्यं तच्च क्वचित्सत्त्वं क्वचिदसत्त्वं प्रकृते
साध्यसाधनान्यतररूपस्य धर्मस्य विकल्पात्सत्त्वाद्योऽ-
विद्यमानधर्म्मारोपः स उत्कर्षसमः व्याप्तिमपुरस्कृत्य
पक्षदृष्टान्तान्यतरस्मिन् साध्यसाधनान्यतरेणाविद्यमान-
धर्मप्रसञ्जनं उत्कर्षसमः ३ इति फलितार्थः । यथा शब्दो-
ऽनित्यः कृतकत्वादिति स्थापनायाम् अनित्यत्वं कृतकत्वं
घटे रूपसहचरितमतः शब्दोऽपि रूपवान् स्यात् तथा
च विवक्षितबिपरीतसाधनाद्विशेषविरुद्ध्वो हेतुस्तद्देशना-
माला चेयम् । एवं श्रावणशब्दसाधर्म्यात् कृतकत्वाद्घटोऽपि
श्रावणः स्यादविशेषात् । वस्तुतस्तु घटे श्रावणत्वापादनेऽ-
र्थान्तरमत उक्तलक्षणे दृष्टान्तपदं साध्यपदञ्च न देयम् ।
अपकर्षसमायान्तु धर्मविकल्पः धर्मस्य सहचरितधर्मस्य
विकल्पोऽसत्त्वं ततः अपकर्षः साध्यसाधनान्यतरस्याभाव-
प्रसञ्जनं तथा च पक्षदृष्टान्तान्यतरस्मिन् व्याप्तिमपुरस्कत्य
सहचरितधर्म्माभावेन हेतुसाध्यान्यतराभावप्रसञ्जनमप-
कर्षसमः४ यथा शब्दोऽनित्यः कृतकत्वादित्यत्र यद्य-
नित्यसहचरितघटधर्म्मात् कृतकत्वादनित्यः शब्दस्तदा
कृतकत्वानित्यत्वसहचरितघटधर्मरूपवत्त्वव्यावृत्त्या शब्दे
कृतकत्वस्यानित्यत्वस्य च व्यावृत्तिः स्यात् । आद्येऽसिद्धिदे-
शना द्वितीये बाधदेशना, एवं शब्दे कृतकत्वसहचरित-
श्रावणत्वस्य संयोगादावनित्यत्वकृतकत्वसहचरितगुणत्वस्य
च व्यावृत्त्या घटेऽनित्यत्वं कृतकत्वञ्च व्यावर्त्तेतेति दृष्टान्ते
साध्यसाधनवैकल्यदेशनाभासाऽपीयम् । यत्तु वार्त्तिके
शब्दोनीरूप इति घटोऽपि नीरुपः स्यादित्यपकर्ष इति०
तदसत् घटे नीरूपत्वापादनस्यार्थान्तरत्वात् आचार्य्य-
स्वरसोऽप्येवं यत्तु वैधर्म्यसमाया अत्रैवान्तर्भावः स्यादिति
तन्न उपधेयसङ्करेऽप्युपाधेरसङ्करात् वर्ण्यसमायान्तु
साध्यः सिद्ध्यभाववान् सन्दिग्धसाध्यकादिर्व्वा तस्य धर्मः
सन्दिग्धसाध्यकादिवृत्तिहेतुस्तस्य विकल्पात्सत्त्वात् दृष्टान्ते
वर्ण्यत्वस्य सन्दिग्धसाध्यकत्वस्यापादनं वर्ण्यसमः ५ ।
तदयमर्थः पक्षवृत्तिहेतुर्हि गमकः पक्षश्च सन्दिग्धसाध्यक-
स्तथा च सन्दिग्धसाध्यकवृत्तिर्हेतुस्त्वया दृष्टान्तेऽपि स्वी-
कार्य्यः तथा च दृष्टान्तस्यापि सन्दिग्धसाध्यकत्वात्
सपक्षवृत्तित्वानिश्चयादसाधारणो हेतुस्तद्देशनाभासा चेयम् ।
हेतुः सन्दिग्धसाध्यकवृत्तिर्यदि न दृष्टान्ते तदा
गमकहेत्वभावात् साधनविकल्पो दृष्टान्तः स्यादिति भावः ।
अवर्ण्यसमायान्तु दृष्टान्ते सिद्धसाध्यके यो धर्म्मो हेतु-
स्तस्य सत्त्वात् पक्षे शब्दादावसन्दिग्धसाध्यकत्वापादन-
मवर्ण्यसमा ६ दृष्टान्ते हेतोर्यादृशत्वं तादृशो हेतुरेव
गमक इत्यभिमामेन एवमापादनं दृष्टान्ते यो हेतुः
सिद्धसाध्यकवृत्तिः स चेन्न पक्षे तदा गमकहेत्वभावात्
स्वरूपासिद्धिः स्यार्दतस्तादृशो हेतुरवश्यं पक्षत्वाभिमते
स्वीकार्य्यः तथा च सन्दिग्धसाध्यकत्वलक्षणपक्षत्वाभावा-
पृष्ठ ३१००
दाश्रयासिद्धिः असिद्धिदेशनाभासा चेयम् । विकल्पसमा-
यान्तु पक्षे दृष्टान्ते च योधर्म्मस्तस्य विकल्पोविरुद्धः
कल्पो व्यभिचारित्वम उपलक्षणं चैतत् अन्यवृत्तिधर्म-
स्यापि बोध्यं व्यभिचारोऽपि हेतोर्धर्म्मान्तरं प्रति
धर्म्मान्तरस्य साध्यं प्रति धर्म्मान्तरस्य धर्म्मान्तरं प्रति वा
तथा च कस्यचिद्धर्मस्य क्वचिद्व्यभिचारदर्शनेन धर्मत्वाबि-
शेषात् प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापादनं
विकल्पसमा ७ यथा शब्दोऽनित्यः कृतकत्वादित्यत्र कृतक-
त्वस्य गुरुत्वव्यभिचारदर्शनाद्गुरुत्वस्यानित्यत्वव्यभिचार-
दर्शनादनित्यत्वस्य मूर्त्तत्वव्यभिचारदर्शनाद्धर्मत्वाविशेषात्
कृतकत्वमप्यनित्यत्वं व्यभिचरेदित्यनैकान्तिकदेशनाभासा
चेयम् । पक्षदृष्टान्तादेः प्रकृतसाध्यतुल्यतापादनं स साध्य-
समा ८ तत्रायमाशयः एवत्प्रयोगसाध्यस्यैवानुमितिविषयत्वं
तथा च पक्षादेरनुमितिविषयत्वात् साध्यवदेतत्प्रयोगसा-
ध्यत्वम् अतः साध्यसमा । तथा हि पक्षादेः पूर्वं सिद्धत्वे
एतत् प्रयोगसाध्यत्वाभावान्नानुमितिविषयत्वं पूर्वमसिद्धत्वे
पक्षादेरज्ञानादाश्रयासिद्ध्यादयस्तद्देशनाभासा चेयम् ।
सूत्रार्थस्तु उभयसाध्यत्वात् उभयं पक्षदृष्टान्तौ तद्धर्म्मो
हेत्व दिः तत्साध्यत्वं तदधीनानुमितिविषयत्वं साध्यस्येव
पक्षादेरपीति तुल्यतापादनमिति लिङ्गोपहितभानमते
लिङ्गस्याप्यनुमितिविषयत्वात् साध्यसमत्वं हेतेश्चि
साध्यत्वे हेतुमान्दृष्टान्तीऽपि साध्य इत्याशयः” वृत्तिः ।
“किञ्चित्साधर्म्म्यादुपसंहारसिद्धेर्वैधर्म्म्यादप्रतिषेधः” वृ० ।
“एतासामसदुत्तरत्वे वीजमाह किञ्चित्साधर्म्यात्
साधर्म्यविशेषात् व्याप्तिसहितात् उपसंहारसिद्धेः साध्य-
सिद्धेः वैधर्म्यादेतद्विपरीतात् व्याप्तिनिरपेक्षात् साधर्म्य-
मात्रात् भवता कृतः प्रतिषेधो न सम्भवतीत्यर्थः । अन्यथा
प्रमेयत्वरूपासाधकसाधर्म्यात् तद्दूषणमप्यसम्यक् स्यादिति
भावः । तथा चायं क्रमः अनित्यत्वव्याप्यात् कृतकत्वात्
शब्देऽनित्यत्वमुपसंहरामो नतु कृतकत्वं रूपस्यापि व्याप्यं
येन ततो रूपमप्यापादनीयं शब्दे, एवं अनित्यत्वं न
रूपव्याप्यं येन रूपाभावादनित्यत्वाभावः शब्दे स्यात् एवं
वर्ण्यसमेऽपि किञ्चित्साधर्म्यात् व्याप्यतावच्छेदकाव-
च्छिन्नाद्धेतोः साध्यसिद्धिः तादृशहेतुमत्त्वञ्च दृष्टान्तता
प्रयोजकं न तु पक्षे यावद्विशेषणावच्छिन्नो हेतुस्तावदव-
च्छिन्नहेतुमत्त्वम् अन्यथा त्वयाऽपि दूषणीयो दृष्टान्ती
कर्त्तव्यः सोऽपि न स्यात् एवमवर्ण्यसमेऽपि व्याप्यताव-
च्छेदकावच्छिन्नस्य वृष्टान्तदृष्टस्य पक्षे सत्त्वात्साध्यसिद्धिर्न
तु दृष्टान्तवृत्तियाबद्धर्म्मावच्छिन्नस्य पक्षे सत्त्वम् । एवं
विकल्पसमेऽपि प्रकृतसाध्यव्याप्यात् प्रकृतहेतोः साध्य-
सिद्धिस्तद्वैधर्म्यात् यत् किञ्चिद्व्यभिचारात् कृतः प्रतिषेधो
न सम्भवति नहि यत्किञ्चिद्व्यभिचारादेव प्रकृतहेतोः
प्रकृतसाध्यासाधकत्वमतिप्रसङ्गात् । एवं साध्यसमेऽपि
व्याप्याद्धेतोः सिद्ध पक्षे साध्यसिद्धिर्न तु पक्षदृष्टान्ता-
दयोऽप्यनेन साध्यन्ते तथा सति क्वचिदपि साध्यसिद्धिर्न
स्यात् त्वदीयदूषणमपि विलीयेत” वृत्तिः ।
“साध्यातिदेशाच्च दृष्टान्तोपपत्तेः” सू० ।
“वर्ण्याबर्ण्यसाध्यसमासु समाध्यन्तरमप्याह दृष्टान्तो-
पपत्तिर्दृष्टान्ततोपपत्तिः साध्यातिदेशात दृष्टान्ते हि
साध्यमतिदिश्यते तावतैव दृष्टान्तत्वमुपपद्यते नत्वशेषो
धर्मः पक्षदृष्टान्तयोरभेदापत्तेः पक्षादेरपि साध्यसमत्व-
मतेन प्रत्युक्तं दृष्टोऽन्तो दृष्टान्तः पक्षः तस्माद्वह्निमा-
नित्यतः पक्षोत्कीर्त्तनात्तथा च साध्यस्यातिदेशात्
साधनात् पक्ष इत्युच्यते न तु पक्षोऽवि साध्यतेऽतिप्रसङ्गा-
दिति भावः” वृत्तिः ।
“प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अविशिष्टत्वाद-
प्राप्त्या असाधकत्वाच्च प्राप्त्यप्राप्तिसमौ” ९ । १० सू० ।
“क्रमप्राप्तौ प्राप्त्यप्राप्तिसमौ लक्षयति । हेतोरिति
साधकत्वमिति शेषः प्राप्तिपक्षे दषमाह प्राप्त्याअवि-
शिष्टत्वादिति द्वयोरपि प्राप्तत्वाविशेष त् किङ्कस्य साधकं
अप्राप्तिपक्षे दोषमाह अप्राप्त्या इति अप्राप्तस्य साधकत्वे
ऽतिप्रसुङ्गात् साधकत्वञ्चात्र कारकज्ञापकसाधारणम्
एवञ्च कारकज्ञापकलक्षणं साधनं कार्य्यज्ञाप्यलक्षणेन
साध्येन सम्बद्धं सत्साधकं चेत्तदा सत्त्वाविशेषान्न कार्य्य-
कारणभावः सत्सम्बन्धस्य प्रागेव ज्ञातत्वान्न ज्ञाप्य-
ज्ञापकभावः प्राप्तयोर्न जन्यजनकभावः प्राप्तत्वेन लवणो-
दकयोरिवाभेदादित्याशय इत्यन्ये । तथा च प्राप्त्या-
अविशषादनिष्टापादनेन प्रत्यवस्थानं प्राप्तिसमा ९ । यदि
चाप्राप्तं लिङ्गं साध्यबुद्धिं जनयति साध्याभावबुद्धिमेव
किन्तेन न जनयेत् अप्राप्तत्वाविशेषात् तथा चाप्राप्त्या
साधकत्वादनिष्टापादनमप्राप्तिसमा १० प्रातकूलतकैदेशना-
भासे चेमे” वृत्तिः ।
“घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः” सू० ।
“अनयोरसदुत्तरत्वे वीजमाह । दण्डादितो घटादि-
निष्पत्तेर्दर्शनात् सर्वलोकप्रत्यक्षसिद्धत्वादाभचारात् श्ये-
नादितः शत्रुपीड़ने च व्यभिचारान्न त्वदुक्तः प्रतिषेधः
पृष्ठ ३१०१
सम्भवति न हि कारणं दण्डादि प्रागव घटादिना
सम्बद्धमपि तु मृदादिना, श्येनादिरप्पुद्देश्यतया पोड़ां
जनयति अन्यथा लोफयेदसिद्धकार्य्यकारणभावोच्छेदे
त्वदुक्तो हेतुरप्यसाधकः स्यादिति” वृत्तिः ।
“दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन
प्रसङ्गप्रतिदृष्टान्तसमौ” ११ । १२ सू० ।
“क्रमप्राप्ते प्रसङ्गप्रतिदृष्टान्तसमे जाती लक्षयति ।
दृष्टान्तस्य कारणं प्रमाणं तदनपदेशोऽनभिधानम्
अभिधानं चानतिपयोजनकं तथा च दृष्टान्तस्य साध्यकत्त्वे
प्रमाणाभावात् प्रत्यवस्थानमर्थः यद्यपोद सदुत्तरमेव
तथापि दृष्टान्तं प्रभाणं वाच्यं तत्रापि प्रमाणान्तरमित्य-
नवस्थायाः प्रत्यवस्थाने तात्पर्य्यं तदुक्तमाचार्य्यैः
“नवस्थाभासप्रसङ्गः प्रसङ्गसमः” इति एतन्मते हेतोर्हेत्वन्त-
रमित्यनवस्थाऽपि प्रसङ्गसमा एव । पूर्वमते तु हेत्वनव-
स्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतमिति विशेषः ।
अनवस्थादेशनाभासा चेयम् । प्रतिदृष्टान्तसमः प्रत्ये तव्यः
प्रतिदृष्टान्तेन प्रत्यवस्थानात् प्रतिदृष्टान्तसमः १२ “एतच्च
सावधारणं तेन प्रतिदृष्टान्तमात्रबलेनं प्रत्यघम्थानमर्थः-
तेन साधर्म्यसमाव्यदासः यदि घटदृष्टान्तबसनानित्यः
शब्दः तदाकाशदृष्टान्तबलेन निय एव स्यात् नित्यः किं न
स्यादिति बाधः पतिरोधापादनीयः हेतुरनङ्गं
दृष्टान्तमात्रबलादव साध्यसिद्धिरित्यभिमानः बाधप्रति-
रोधान्यतरदेशनाभासा चेयम्” वृत्तिः ।
“प्रदीपादानप्रसङ्गनवृत्तिवत्तद्विनिवृत्तिः” सू० ।
“प्रसङ्गसमे प्रश्रुत्तरमाह । दृष्टान्तो हि निदर्शनस्थान-
त्वेन साध्यनिश्चयार्थमपेक्ष्यते न तु दृष्टान्मदृष्टान्ताद्यनव-
स्थितपरम्परा लोकसिद्धा युक्तिसिद्धा वा । अन्यथा
घटादिप्रत्यक्षाय प्रदीप इव प्रादीपप्रत्ययार्थमनवस्थितप्रदीप-
परम्परा प्रसज्यत त्वदीयसाधनमपि व्याहन्येत” वृत्तिः ।
“प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः” सू० ।
“प्रतिदृष्टान्तसमे प्रत्युत्तरमाह । अत्रायमुत्तरक्रमः
प्रतिदृष्टान्तस्त्वया किमर्थमुपादीयते मदीयहेतोर्बाधार्थं
सतप्रतिपक्षितत्वार्थं वा नाद्यः यतः प्रतिदृष्टान्तस्य हेतुत्वे
स्वार्थसाधकत्व मदीयो दृष्टान्तो नाहेतुः नासाधकस्तथा
चातुल्यवलत्वान्न बाधः न या द्वितीयोऽपि यतः प्रति-
दृष्टान्तस्य स्वार्थसाधकत्वे उच्यमाने नाहेतुर्दृष्टान्तः
मदीयो दृष्टान्तस्तु सहेतुकत्वादधिकमलः वस्तुतो हेतुं
विना ष्ठष्टान्तमात्रेण न सस्धतिपक्षसम्भावना तदभाव-
व्याप्यबत्ताज्ञानामावात् हेतूपादाने तु सदुत्तरत्वमेवेति
भावः इति” वृत्तिः ।
“प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः” १३ सू० ।
“क्रमप्राप्तमनुत्पत्तिसमं लक्षयति । प्रागुत्पत्तेरिति
साधमाङ्गस्येति शेषः कारणाभावात् हेत्वभावात् तथा च
साधनाङ्गपक्षहेतुदृष्टान्तानामुत्पत्तेः प्राक हेत्वभाव इत्य-
नुत्पत्त्या पत्यवस्थानमनुत्पत्तिसमः १३ यथा थटोरूपवान्
नन्यात् पटवदित्युक्ते वटोत्पत्तर्गन्धीत्पत्तेश्च पूर्वं हेत्व-
भावादसिद्धिः पटे च गन्धोत्पत्तेः पूर्वं हत्वभावेन
दृष्टान्तासिद्धिः एवं आद्यक्षणे रूपाभावाद्वाधश्च अनु
त्पत्त्या प्रत्यवस्थानस्य तत्रापि सत्त्वात् उत्पत्तेः पूर्वं
हेत्वाद्यभावेन प्रत्यवस्थानस्यैव लक्षणत्वात् जातित्वे
सतोति च विशेषणीयं तेनोत्पत्तिकालावच्छिन्नी थटो
गन्धवानित्यत्र बाधेन प्रत्यवस्थाने नातिव्याप्तिः असिड्या-
दिदेशनाभासा चेयम्” वृत्तिः ।
“तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः” सू०
“अत्रोत्तरमाह । उत्पन्नस्य तथाभावात् थटाद्यात्म-
कत्वात् तत्र कारणस्य हेतोरुपपत्तेः सत्त्वात् कथं
कारणप्रतिषेधः । अयमाशयः पक्षे हेत्वभावाऽसिद्धिः नत्वनुत्पन्ने
हेत्वभावः सम्भवति अधिकरणाभावात् न हि हेत्वभा-
वमात्रासिद्धिः त्वदीयहेतोरपि क्वचिदभावसत्त्वात् एतेन
दृष्टान्तासिद्धिर्व्याख्याता यदा कदाचिद्धेतुसत्त्वेनैव दृष्टा-
न्तत्वोपपत्तेः एवं हेत्वादीनां यदा कदाचित्पक्षे सत्त्वादेव
हेत्वादिभावो न तु सार्वत्रिकी तदपेक्षति” वृत्तिः ।
“सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसा-
धर्म्म्यात् संशयसमः” १४ सू० ।
“क्रमप्राप्तं सशयसमं लक्षयति । नित्यानित्यसाधर्म्या-
दिति संशयकारणोपलक्षणं तेन समानत्तर्मदर्शनादि-
यत्किञ्चित्संशयकारणबलात् संशयेन प्रत्यवस्यानं संशय-
समः १४ अधिकन्तू दाहरणपरं तथा हि शब्दोऽनित्यः
कार्य्यत्वाद्घटवदित्युक्ते सामान्ये गोत्वादौ दृष्टान्ते वटे
ऐन्द्रियकत्वं तुल्यं यथा काय्य त्वान्निर्णायकादनित्यत्वं
निर्णौयते तथा ऐन्द्रियकत्वात् संशयकारणादनित्यत्वं
सन्दिह्यताम् एवं शब्दत्वाद्यसाधर्म्यदर्शनादपि संशयो बोध्यः
तथा च हेतुज्ञानेऽप्रामाण्यशङ्काधानद्वारा साध्यसंशयात्
सत्प्रतिपक्षदेशनाभासेयम्” वृत्तिः ।
“साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशयो-
ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्या-
पृष्ठ ३१०२
प्रतिषेधः” गौतमसूत्रस्य पञ्चमाध्याये आह्निकस्थसूत्रम् ।
“अत्रोत्तरम् । साधर्म्यात्साधर्म्यदर्शनात् संशय आपाद्य-
मानेऽपि न संशयो वैधर्म्याद्वैधर्म्यदर्शनात् यदि च
कार्य्यत्वरूप्रविशेषदर्शनेऽपि संशयस्तदाऽत्यन्तसंशयप्रसङ्गः
संशयानुच्छेदप्रसङ्गः न च तथाऽभ्युपनन्तुं शक्यमि-
त्याह नित्यत्वेति समान्यस्य सामानधर्मदर्शनस्य नित्य-
त्वानभ्युपगमात् नित्यसंशयजनकत्वानभ्युपगमात्तथा
सति त्वदीयहेतुरपि न परपक्षप्रतिषेधकः स्यादिति
भावः । सामान्यस्य गोत्वादेर्नित्यत्वानभ्युपगमात् निम्य-
त्वानभ्युपगमप्रसङ्गात् तत्रापि साधारणधर्मप्रमेयत्वा-
दिना संशय एव स्यादिति केचित्” वृत्तिः ।
“उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः १५” सू० ।
“क्रमप्राप्तं प्रकरणसमं लक्षयति । उभयसाधर्म्यात्
प्रकर्षेण क्रिया अन्वयसहचाराद्व्यतिरेकसहचाराद्वा
प्रक्रिया तत्साधनं विपरोतसाधनमिति फलितार्थः तत्सिद्धे-
स्तस्य पूर्वमेव सिद्धेः तथाचाधिकवलत्वेनारोपितप्रमाणा-
न्तरेण बाधेन प्रत्यवस्थानं प्रकरणसमः १५ यथा शब्दो-
ऽनित्यः कृतकत्वादित्युक्ते नैतदेवं श्रावणत्वेन नित्यत्व-
साधकेन वाधात् बाधदेशनाभासा चेयम्” वृत्तिः ।
“प्रतिपक्षात् प्रकरणसिद्धेः प्रतिमेधानुपपत्तिः प्रतिपक्षो-
पपत्तेः” सू० ।
“अत्रोत्तरमाह । प्रतिपक्षाद्विपरीतसाध्यसाधक-
खेनाभिमताच्छ्रावणत्वादितः प्रकरणसिद्धिद्वारा मदीय-
साध्यस्य यः प्रतिषेधः त्वया क्रियते तस्यानुपपत्तिः
कुतः प्रतिपक्षोपपत्तेः त्वत्पक्षापेक्षया प्रतिपक्षस्य मदीय
पक्षस्योपपत्तेः साधनात् । अयमाशयः श्रावणत्वेन पूर्वं
नित्यत्वस्य साधनाद्यो याध उच्यते स नोपपद्यते पूर्वं
साधितस्य बलबत्त्वाभावात् कदाचित्कृतकत्वेनानित्य-
स्वस्यापि पूर्वं साधनादिति त्वत्पक्षप्रतिषेधोऽपि
स्यात्” वृत्तिः ।
“त्रैकाल्यासिद्धेर्हेतोरहेतुसमः १६” सू० ।
“क्रमपाप्तमहेतुसमं लक्षयति । त्रैकाल्यं कार्य्य-
कासतत्पूर्वापरकालाः तेन हेतोरसिद्धेः हेतुत्वासिद्धेः ।
अयमर्थः दण्डादिकं घटादेर्न पूर्बवर्त्तितया कारणं
तदानीं षटादेरभावात् कस्य कारणं स्यात् अतएव
न धटाद्युत्तरकालवर्त्तितयाऽपि नवा समानकालवर्त्ति-
तया तुल्यकालबर्त्तिनोः सव्येतरविषाणयोबिवाविनि
गममापत्तेः तथा च कालसम्बन्धखण्डनेनाहेतुतया
प्रत्यवस्थानमहेतुसमः १६ कारणमात्रखण्डनेन ज्ञप्ति-
हेतोरपि खण्डनान्न तदसंग्रहं प्रतिकूलतर्कदेशनामासा
चेयम्” वृत्तिः ।
“न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः” सू० ।
“अत्रोतरमाह । त्रैकाल्यासिद्धिस्त्रैकाल्येन याऽ
सिद्धिरुक्ता सा न, कुतः हेतुनः साध्यसिद्धेः त्वयाऽप्य
म्युपगमात्” वृत्तिः ।
“प्रतिषेधानुपपत्तेःप्रतिषेद्धव्याप्रतिषेधः” सू० ।
“पूर्ववर्त्तितामात्रेणैव हेतुतासम्भवात् अन्यथा त्वदी-
यहेतोरपि साध्यं न सिध्येदित्याह हेतुफलभाव
खण्डने प्रतिषेधस्याप्यनुपपत्तेः प्रतिषेद्धव्यस्य परकीय-
हेतोर्नप्रतिषेध इत्यर्थः” वृत्तिः ।
“अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः १७” सू० ।
“क्रमप्राप्तमर्थापत्तिसमं लक्षयति । अर्थापत्तिरर्या-
पत्त्याभासः तथा चार्थापत्त्यामासेन प्रतिपक्षसाधनाय
प्रत्यवस्थानमर्थापत्तिसमः १७ । अयमाशयः अर्थापत्तिर्हि
उक्तेगानुक्तमाक्षिपति यथा शब्दोऽनित्य इत्युक्तेऽर्था-
दापाद्यतेऽन्यत् नित्यं तथा च दृष्टान्तासिद्धिः विरोधश्च
कृतकत्वादनित्य इत्युक्तेऽर्थादापन्नम् अन्यस्माद्धेतोर्बाधः
सत्प्रतिपक्षो बा अनुमानादनित्य इत्युक्ते प्रत्यक्षान्नित्य
इति च वाधः विशेषविधेः शेषनिषेधफलकत्वमित्य-
भिमानः सर्वदेशनाभासा चेयम्” वृत्तिः ।
“कनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्ति-
“कत्वाच्चार्थापत्तेः” सू० ।
“अत्रोत्तरम् । किमुक्तेन अनुक्तं यत्किञ्चिदेवार्था-
दापाद्यते उक्तोपपादकं वा आद्ये त्वत्पक्षहानिरप्यापा-
द्यतां त्वयानुक्तत्वात् अन्त्ये अस्या अर्थापत्तेरनैकान्ति-
कत्वम् ऐकान्तिकत्वम् एकपक्षसाधकत्वं बलं तन्नास्ति
न हि अनित्य इत्यस्योपपादकं नित्यत्वमिति न हि
विशेषविधिमात्रं शेषनिषेधफलकम्, अपि तु सति तात्पर्य्ये
कचित् न हि नीलोघट इत्युक्ते सर्वमन्यदनीलमिति
कचित्प्रतिपद्यते” वृत्तिः ।
“एकधर्म्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सदुभावोप-
पत्तेरविशेषसमः” १८ सू० ।
“अविशेषसमं लक्षयति । एकस्य धर्मस्य कृतकत्वादेः
शब्दे घटे चोपपत्तेः सत्त्वात् यदि शब्दथटयोरनित्य-
त्वेनाविशेषः उच्यते तदा सर्वेषामविशेषप्रसङ्गः, कुतः
सङ्गावोपपत्तेः सतः सन्मात्रस्य ये भावाधर्माः सत्त्वप्रमे-
पृष्ठ ३१०३
यत्वादयस्तेषामुपपत्तेः सत्त्वात् तथा च सर्वेषामभेदे
पक्षाद्यविभागः सर्वेषामेकजातोयत्वेऽबान्तरजात्युच्छेदः
सर्वेषामनित्यत्वेजात्यादिविलयैत्यादि तथा च सन्मा-
त्रवृत्तिधर्मेणाविशेषापादनमविशेषसमेति १८ फलितम्
अत्र चाविशेषसम इति लक्ष्यनिर्देशः सद्भावोपपत्तेः
सर्वाविशेषप्रसङ्गादिति लक्षणं शेषं व्युत्पादकम् । प्रति
कूलतर्कदेशनाभासा चेयम्” वृत्तिः ।
“क्वचिद्धर्म्म्यनुपपत्तेः क्वचिञ्चोपपत्तेः प्रतिषेधाभावः” सू०
“अत्रोत्तरमाह । तद्धर्मस्तस्य हेतोर्धर्भोव्याप्त्यादि-
स्तस्य क्वचित् कृतकत्वादौ उपपत्तेः सत्त्वात् क्वचित्-
सत्त्वादौ अनुपपत्तेः अभावात् त्वदुक्तस्य प्रतिषेधस्या-
भावोऽसम्भव इत्यर्थः” वृत्तिः ।
“उभयकारणोपपत्तेरुपपत्तिसमः” १९ सू० ।
“उपपत्तिसमं लक्षयति । उभयं पक्षप्रतिपक्षौ तयोः
कारनस्य प्रमाणस्य उपपत्तेः सत्त्वात् तथा च व्याप्ति-
मपुरस्कृत्य यत्किञ्चिद्धर्मेण परपक्षदृष्टान्तेन स्वपक्षसा-
धनेन प्रत्यवस्थानम् उपपत्तिसमः १९ यथा शब्दोऽनित्यः
कृतकत्वादित्युक्ते यथा त्वत्पक्षेऽनित्यत्वे प्रमाणमस्ति
तथा मत्पक्षोऽपि सप्रमाणकः त्वत्पक्षमत्पक्षान्यतरत्वात्
तथाच बाधः प्रतिरोधो वा । तद्देशनाभासा चेयम्” वृ० ।
“उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः” सू० ।
अत्रोत्तरमाह । अयं त्वदुक्तप्रतिषेधो न सम्भवति-
कुतः मत्पक्षे उपपत्तिकारणस्य मत्पक्षसाधकप्रमाणस्य
त्वयाऽभ्यनुज्ञानात् त्वया हि मत्पक्षस्य दृष्टान्तीकरणेन
सप्रमाणकत्वमनुज्ञातमतः कथं तत्प्रतिषेधः शक्यते
कर्त्तुम् अनुज्ञातस्यापि प्रतिषेधे स्वपक्ष एव किं न
प्रतिषिध्यते” वृत्तिः ।
“निर्द्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः” २० सू० ।
“उपलब्धिसमं लक्षयति । वादिना निर्दिष्टस्य
कारणस्य साधनस्याभावेऽपि साध्यस्योपलम्भात् प्रत्यव-
स्थानमनुपलब्धिसमः २० इत्यर्थः । तथा हि पर्वतो वह्निमान्
धूमादित्यादिकं वह्न्यवधारणार्थमुच्यते न च तत्सम्भवति
धूमं विना आलोकादितोऽपि वह्निसिद्धेः तथा च न
तस्य साधकत्वमिति प्रतिकूलतर्कः न वा धूमाद्वह्निमाने-
वेत्यवधारणं द्रव्यत्वादेरपि धूमेन साधनात् न वा पर्वत
एव वह्निमानेवेत्यादिकम् अवधारयितुं शक्यते
महानसादेरपि वह्निमत्त्वादन्यथा दृष्टान्तासिद्धिः स्यात् एवं
वह्निशून्यपर्वतस्यापि सत्त्वाद्वाध इत्यादि तद्दोशना
भासा चेयम्” अस्य विश्वनाथविरचिता वृत्तिः ।
“कारणान्तरादपि तद्धर्म्मोपप्रत्तेरप्रतिषेधः” सू० ।
“अत्रोत्तरमाह । कारणान्तरात् साधनान्तरादालो-
कादितोऽपि तस्य धर्मस्य साध्यस्योपलब्धेस्त्वदुक्तः प्रति-
षेधो न सम्भवति । अयमाशयः न हि वयमवधारणार्थं
वह्निप्रान् थूमादित्यादिकं प्रयुञ्ज्महे अपि तु सन्दि-
ग्धस्य वह्नेः सिद्ध्यर्थम् अन्यथा त्वदुक्तमसाधकतासाधन-
मपि न स्यादसाधकतासाधकान्तरस्यापि सत्त्वात्” वृत्तिः ।
“तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर-
नुपलब्धिसमः २१” सू० ।
“अनुपलब्धिसमं लक्षयति । यद्यपि चेयं द्वितीया-
ध्याये दर्शिता दूषिता च तथाप्यनुपलब्धिसमा २१ जातिरेव-
मिति तत्रानुक्तेरत्र क्रमप्रप्तोऽभिधीयते तत्रायं क्रमः
नैयायिकैस्तावच्छब्दा नित्यत्वमेव साध्यते यदि शब्दो
नित्यः स्यादुच्चारणात् प्राक्कुतोनोपलभ्यते न हि
घटाद्यावरणकुड्यादिवच्छब्दस्यावरणमस्ति तदनुपलब्धेरिति
तत्रैवं जातिवादी प्रत्यवतिष्ठते यद्यावर्णानुपलब्धे
रावणाभावः सिध्यति तदा आवरणानुपलब्धेरप्यनुपल-
म्भादावरणानुपलब्धेरप्यभावः सिध्येत् तथाचावरणानु-
पलब्धिप्रमाणक आवरणाभावो न स्यादपि त्वावरणोप-
पत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं बाधकं युक्तं
नन्वनुपलब्धेरनुपलब्ध्यन्तरानपेक्षणात् कथमेवमिति चेत्
इत्यम् अनुपपलब्धेरनुपलब्ध्यवन्तरानपेक्षणे स्वयमेव
स्वस्मिन्ननुपलब्धिरूपेति वाच्यं तथा च तयैवानुपल-
ब्ध्यानुपलब्धत्वसम्भवात्तदभावासिद्ध्वेः स्वात्मन्यनुपलब्धिरूप-
त्याभावेऽनुपलब्धित्वमेव न स्यात् अनुपलब्धेरनुपलब्ध्यन्त-
रापेक्षणेऽनवस्था स्पष्टैव इत्थञ्चैवंरूपेण प्रत्यवस्था-
नमनुपलब्धिसमः २१ इत्यर्थः प्रतिकूलतर्कदेशनाभासा
चेयम्” वृत्तिः ।
“अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः” सू० ।
“अत्रोत्तरमाह । अनुपलब्धिः आत्मन्यनुपलब्धिरिति
कोऽर्थः स्वयमनुपलब्धिरूपेति चेद्भवत्येव स्वविषयिण्य-
नुपलब्धिरिति चेन्नेदं प्रसक्तं अनुपलब्धेरनुपलम्भात्म-
कत्वात् उपलम्भाभावात्मकत्वात् अभावस्य च निर्विषयक-
त्वात् स्वात्मन्यनुपलब्धित्वाभावेऽनुपलब्धित्वमेव कथमस्या
इति चेत् कुतो विरोधः नहि घटः स्वविषयो न
भ्वतीति नायं घटः स्वविषयो न भवतीति । नायं घटः
आवरणाभावः कथमनुपलब्धिविषय इति चेत् क एव-
पृष्ठ ३१०४
माह किन्त्वनुपलब्धिसहकृतेन्द्रिपग्राह्यत्वादनुपलब्धिग्राह्य
इत्युपचर्य्यते अतस्तदनुपलब्धेरन्पलम्भादित्यादिकमहेतुः
अन्यथा, त्वत्साधनमपि दोषानुपलब्धेरनुपलम्भात्
सदोषमेव स्यादिति” वृत्तिः ।
“ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम्” सू० ।
“नन्वुपलब्धेः स्वस्मिन्ननुपलब्धित्वाभावेऽनुपलब्धिरपि
केन सिध्येदतआह अध्यात्मम् आत्मन्यपि ज्ञानवि-
कल्पानां ज्ञानविशेषाणां भावाभावयोर्मनसा संवेदनात्
घटं साक्षात्करोमि वह्निमनुमिनोमि नानुमिनोमीत्येवं
ज्ञानविशेषतदभावानां मनसैव सुग्रहत्वादिति भावः” वृत्तिः ।
“साधर्म्यात्तुल्यधर्म्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्य-
समः २२” सू०
“अनित्यसमं लक्षयति । यदि दृष्टान्तधटसाधर्म्यात्
कृतकत्वात्तेन सह तुल्यधर्मतोपपद्यते शब्देऽनित्यत्वं
साध्यते तदा सर्वस्यैवानित्यत्वं स्यात् सत्त्वादिरूपसा-
धर्म्यसम्भवात् नचेदमर्थान्तरग्रस्तमिति वाच्यं सर्वस्या-
नित्यत्वे व्यतिरेकाग्रहादनुमानदूषणे तात्पर्य्यात् परस्या-
न्वयव्यतिरेकिणएवानुमानत्वादित्याशयः तथा च व्याप्ति
मपुरस्कृत्य यत्किञ्चिदॄष्टान्तसाधर्म्येण सर्वस्य साध्य-
वत्त्वापादनमनित्यसमा २२ साध्यभेदादविशेषसमातोव्यव-
च्छेदस्तत्र सर्वाविशेष एवापाद्यते नतु सर्वस्य साध्यवत्त्वम् ।
यत्तु अनित्यत्वेन समाऽनित्यसमेति भावप्रधानो
निर्देशस्तथाच अन्वर्थलब्धमेव लक्षणमिति तन्न वह्नि-
मान् धूमादित्यादौ महानससाधर्म्यस्य सत्त्वात्सर्वस्य
वह्निमत्त्वं स्यादित्यस्य जात्यन्तरत्वापत्तेः । आचार्य्यास्तु
साधर्म्यं वैधर्म्याप्युपलक्षकं यथाकाशवैधर्म्यात्
कृतकत्वाच्छब्दोऽनित्यस्तथाकाशवैधर्म्यादाकाशभिन्नत्वादितः
सर्वमेवानित्यं स्यादित्थञ्च लक्षणे यत्किद्धर्मेणेत्येव वाच्य-
मित्याहुः । अत्र च वैधर्म्य स्य विपक्षावृत्तित्वान्न सर्वस्य
माध्यवत्त्वापादनं किन्त्वात्मादीनामप्यनित्यत्वं स्यादिति
तत्र चार्थान्तरमित्यवधेयं प्रतिकूलतर्कदेशनाभासा
चेयम्” वृत्तिः ।
“साधर्म्यादसिद्धे प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च” सू०
“अत्रोत्तरमाह । यदि यत्किञ्चित्साघर्म्यात्सर्वस्य
साध्यवत्तामापादयतस्तव साधर्म्यस्यासाधकत्वमभिमतं
तदा त्वत्कृतप्रतिषेधस्याप्यसिद्धिः तस्यापि प्रतिषेध्यसाध-
र्म्येण प्रवृत्तत्वात्त्वया ह्येवं साध्यते कृतकत्वं न
साधकं दृष्टान्तसाधर्म्यरूपत्वात्सत्त्वादिवत् अत्र च
त्वदीयहतुस्त्वत्प्रतिषेध्येन मदीयहेतुना कृतकत्वेन
सत्त्वेन च सह साधर्म्यरूपस्तथा चायमपि न साधकः
स्यात्” वृत्तिः ।
“दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्वस्य हेतु-
त्वात्तस्य चोभयथाभावान्नाविशेषः” सू०
“यदि च साधर्म्यमात्रं न साधकमपि तु व्याप्ति-
सहितमित्यभिमतं तदा कृतकत्वे तदस्ति नतु सत्त्व-
इति विशेष इत्याह । साध्यसाधनभावेन व्याप्यव्या-
पकभावेन दृष्टान्ते प्रज्ञातस्य प्रमितस्य तस्य हेतुत्वात्-
साधकत्वात् तत्र हेतुत्वस्य उभयथा अन्वयेन व्यतिरेकेण
च भावात् मदीयहेतौ सत्त्वात्साधने सत्त्वादिति
नाऽविशेष इति यदुक्तं तन्न भवति” वृत्तिः ।
“नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः २३” सू०
“नित्यसमं लक्षयति । अनित्यस्य भावः अनित्यत्वं
तस्य नित्यं सर्वकालं स्वीकारे अनित्ये शब्दे नित्यत्वं
स्यादित्यापादनं नित्यसमा २३ । अयमाशयः अनित्यत्वस्य
नित्यमस्वीकारेऽनित्यत्वाभावदशायां तस्यानित्यत्वं न,
तस्यापि नित्यत्वापत्तिः नहि दण्डाभावदशायां दण्डी-
त्युच्यते अतोऽनित्यत्वस्य नित्यमेव स्वीकार इत्थभ्यु
पगन्तव्यं तथा च शब्दस्यापि नित्यत्वापत्तिः तेन वाधः
मत्प्रतिपक्षो वा तद्देशनाभासा चेयम् । एवमनित्यत्वं
यदि नित्यं कथं शब्दस्यानित्यतां कुर्यात् नहि रक्तं
महारजनं परस्य नीलतां सम्पादयति अथाऽनित्यं तदा
तदभावदशायां अनित्यत्वं न स्यादित्यादिकमूह्यम् ।
एतदनुसारेण लक्षणमपि कार्य्यमित्याचार्य्याः । वयन्तु
अनित्यस्य भावो धर्मस्तस्य नित्यमभ्यु पगमेऽनित्यत्वेनाभ्युप-
गतस्य नित्यत्वं स्यात् यथा क्षितिः सकर्तृकेत्यत्र
अनित्यक्षितेर्धर्मः सकर्तृकत्वं त्वया क्षितौ नित्यमु-
पेयते न वा न चेत् तदा साध्याभावादंशतोबाधः अथ
क्षितौ नित्यमेव सकर्तृकत्वं विरुद्धं तद्देशनाभासा
चेयमिति व्रूमः” वृत्ति
“प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः
प्रतिषेधाभावः” सू
“अत्रोत्तरमाह । प्रातषेध्ये मत्पक्षे शब्दे सर्वदा
अनित्यभावात् अनित्यत्वात् अनित्ये शब्दे अनित्यत्वमुप-
पद्यते न हि सम्भवति अनित्यत्वं नित्यमस्ति अथ च
तन्नित्यमिति व्याधातात् नच नित्यमिति सर्बकालमित्यर्थः
तथा च शब्दस्यानेत्यत्वे कथं सर्वकालमनित्यत्वसम्बन्ध
पृष्ठ ३१०५
इति वाच्यं सर्वकालमित्यस्य यावत्सत्त्वमित्यर्थात् अतः
त्वत्कृतः प्रतिषेधो न सम्भवति मतान्तरे तु अनित्ये-
ऽनित्यत्वोपपन्ने हेतोस्त्वपायः प्रतिषेधः कृतः स च
सम्भवतीत्यर्थः” वृत्तिः ।
“प्रयत्नकार्य्यानेकत्वात् कार्य्यसमः २४” सू० ।
“कार्य्यसमं लक्षयति । प्रयत्नकार्य्यस्य प्रयत्नसम्पा-
दनीयस्यानेकत्वात् अनेकविषयत्वात् । अयमर्थः शब्दो-
ऽनित्यः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रयत्नानन्तरीय-
कत्वं प्रयत्नकार्ये घटादो प्रयत्नानन्तरोपलभ्यमाने
कीलकादावपि दृष्टन्तत्र द्वितीयं न तज्जन्यत्वसाधकं
आद्ये तु असिद्धं तथा च सामान्यत उक्ते हेतोरनभिम-
तविशिष्टनिराकरणेन प्रत्यवस्थानं कार्यसमा ३४ असिद्धदेश-
नाभासा चेयम् । अथ वा प्रयत्नकार्य्याणां प्रयत्नकर्त्तव्यानां
कर्त्तव्यप्रयत्नानामिति यावत् तादृशानां अनेकविधत्वात्-
युक्तान्यस्य व्याघातकमुत्तरं कार्य्यसमा तथा चास्या
आकृतिगणत्वात् सूत्रानुपदर्शितानामपि परिग्रहः यथा
त्वत्पक्षे किञ्चिद्द षणं भविष्यतीति शङ्काऽपि शङ्का समा
कार्य्यकारणभावस्योपकारनियतत्वेऽनवस्थेत्यनुपकारसमा
इत्यादिः” वृत्तिः ।
“कार्य्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः” सू० ।
“अत्रोत्तरम् । शब्दस्य कार्य्यान्यत्वेऽकार्य्यत्वे प्रय-
त्नस्य वक्तृप्रयत्नस्य अहेतुत्वम् अकारणत्वम् इदञ्च तदा
स्यात् यद्यनुपलब्धिकारणमावरणादिकमुपपद्यते न
च तच्छब्देऽस्तीत्यर्थः । आकृतिगणपक्षे तु कार्य्याणां
जातीनामन्यत्वे नानाविधत्वे इदमुत्तरं प्रयत्नस्य त्वदीय-
दूषणप्रयत्नस्य अहेतुत्व असाधकत्वाभावः उपलब्धेः
कारणस्य प्रमाणस्य निर्दोषवाक्यस्य या उपपत्तिः
निर्दोषवाक्याधीनोपपादनं तदभावात् तद्वाक्यस्य स्वव्या-
घातकत्वादित्यर्थः” वृत्तिः ।
१४ स्वभावे जातिवैरम् जातिसुन्दरम् । जातिश्च प्रकार-
विशेष्यतया वा शब्दशक्तिज्ञानविषयः । तत्र प्राभाकरमते
आकृतिव्यङ्ग्याया एव जातित्वं न गुणत्वादीनां नैयायिक-
मते तु अनुगतैकबुद्धिनियामकत्वात् नित्यत्वे सति अनेक-
समवेतत्वरूपलक्षणयोगाच्च गुणत्वादीनामपि जातित्वम-
स्त्येव । “समानप्रसवात्मिका जाति गो० सूत्रभाष्ययोस्त-
थैवोक्तेश्च । जातिशक्तियाढशब्दे च तद्भाष्य दृश्यम् ।
अतएव “द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ।
परभिन्ना तु या जातिः सेवापरतयोच्यते । द्रव्यत्वा-
दिकजातिस्तु परापरतयोच्यते” भाषायामुक्तम् । छन्दो-
भेदश्च । “पद्यं चतुष्पदी ज्ञेयं वृत्तं जातिरिति द्विधा ।
वृत्तमचरसंख्यातं जातिर्मात्राकृता भवेत्” छन्दोमञ्ज-
र्य्युक्तेः मात्राकृतं छन्दः । “इयमच्युतलीलाढ्या
सद्वृत्ता जातिशालिनी” छन्दो म० । दृष्टजातिशेषजातिविश्लेष-
जातिप्रभृतयश्च पाचीनानामिष्टकर्मसंज्ञाभेदा लीलाव-
त्यादौ इष्टकर्म्मप्रकरणे दृश्याः । “सङ्केतो गृह्यते जातौ
गुणद्रव्यक्रियासु च” काव्यप्र० । “असम्पादयतः कञ्चिदर्थं
जातिक्रियागुणैः” माघः । व्राह्मणादिजातौ “जात्या
काममवध्योऽसि चरण त्विदमुद्धृतम्” वेणीसं० “ब्राह्मणस्य
ब्राह्मणयोर्ब्राह्मणानाञ्च संबधे । प्रायश्चित्तस्य चैकतवं
जातिश्चाश्रित्य लक्ष्यते” प्रा० त० । जन्मनि “आचार्य्य-
स्तस्य यां जातिं विधिवद् वेदपारगः । उत्पादयति
सावित्र्या सा नित्या साऽजराऽमराः” मनुः ।
आकारव्यङ्ग्ये “मृच्चर्म्ममणिसूत्रायःकाष्ठवल्कलवास-
साम् । अजातौ जातिकरणे विक्रेयाष्टगुणोदमः”
याज्ञ० । १५ जातिवाचकशब्दे च “पोटायुवतिस्तोकक-
तिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तै
जातिः” “कृत्यतुल्याख्या अजात्या” “जात्याख्यायामक-
स्मिन् बहुवचनमन्यतरस्यात्” (ब्राह्मणाः पूज्याः व्राह्मणः
पूज्यः) “जातेरस्त्रीविषयादयोपधात्” इति च पा० ।

जातिकोश(ष) पु० न० जातेः जातीफलस्य कोशमिव ।

(जायफल) जातीफले भावप्र० “जातीफलं जातिकोशः
मालतीफलमित्यपि । जातिफलं रसे तिक्तं तीक्ष्णोष्णं
रोचनं लघु । कटुकं दीपनं ग्राहि स्वर्य्यं श्लेष्मानिला-
पहम । निहन्ति मुखवैरस्यमलदौदुर्गन्ध्यकृष्णताः ।
कृमिकासवमिश्वासशोषपीनसहृद्रुजः” भावप्र० । हेमचन्द्रे
अयं मूर्द्धन्यवान् दीर्घमध्यश्च पठितः ।

जाति(ती)कोषी स्त्री जातिं जातिफलं कुष्णाति कुष--नि-

कर्षे--अण् उप० स० गौरा० ङीष । जातीफले राजनि० ।

जातिधर्म्म पु० ६ त० । ब्राह्मणादीनां धर्मभेदे । स च

भा० शा० ६० अ० दर्शितो यथा
“व्राह्मणस्य तु यो धर्मस्तन्ते वक्ष्यामि केवलम् ।
इममेव महाराज! धर्ममाहुः पुरातनम् । स्वाध्यायाभ्य-
सनञ्चैव तत्र कर्म समाप्यते । तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं
स्वस्वकर्मणि । अकुर्व्वाणं विकर्म्माणि शान्तं प्रज्ञानतर्पि-
ताम । कुर्व्वीतापत्यसन्तानमथो दद्याद्यजेत च । संविभज्य
हि भोक्तव्यं धनं सद्भिरितीर्य्यते । परिनिष्ठितकार्य्यस्तु
पृष्ठ ३१०६
स्वाध्यावेनैव ब्राह्मणः । कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो
ब्राह्मण उच्यते । क्षत्त्रियस्यापि यो धर्मस्तन्ते वक्ष्यामि
भारत! । दद्याद्राजन्न याचेत यजेत न च याजयेत् ।
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् । नित्योद्युक्तो
दस्युबधे रणे कुर्य्यात् पराक्रमम् । ये तु क्रतुभिरीजानाः
श्रुतवन्तश्च भूमिपाः । य एवाहवजेतारस्त एषां
लोकजित्तमाः । अविक्षतेन देहेन समराद्यो निवर्त्तते ।
क्षत्त्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः । एवं हि
क्षत्त्रबन्धूनां मार्गमाहुः प्रधानतः । नास्य कृत्यतमं
किञ्चिदन्यद्दस्युनिवर्हणात् । दानमध्ययनं यज्ञो राज्ञां
क्षेमं विधीयते । तस्माद्राज्ञा विशेषेण योद्धव्यं धर्म-
मीप्सता । स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्व्वा महीपतिः ।
धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत् परिनिष्ठित
कार्य्यस्तु नृपतिः परिपालनात् । कुर्य्यादन्यन्न वा
कुर्य्यादैन्द्रो राजन्य उच्यते । वैश्यस्यापि हि यो धर्म-
स्तन्ते वक्ष्यामि शाश्वतम् । दानमध्ययनं यज्ञः शौचेन
धनसञ्चयः । पितृवत् पालयेद्वैश्यो युक्तः सर्व्वान्
पशूनिह । विकर्म तद्भवेदन्यत् कर्म यत् स समाचरेत् ।
रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् । प्रजा-
पतिर्हि वैश्याय सृष्ट्वा परिददौ पशून् । ब्राह्मणाय च
राज्ञे च सर्वाः परिदददे प्रजाः । तस्य वृत्तिं प्रवक्ष्यामि
यच्च तस्योपजीवनम् । षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं
हरेत् । लब्धाच्च सप्तमं भागं तथाऽशृङ्गे कलाऽखुरे ।
शस्यानि सर्ववीजानामेषा सांवत्सरी भृतिः । न च
वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । वैश्यो चेच्छति
नान्येन रक्षितव्याः कथञ्चन । शूद्रस्यापि हि यो धर्म-
स्तन्ते वक्ष्यामि भारत! । प्रजापतिर्हि वर्णानां दासं
शूद्रमकल्पयत् । तस्माच्छूद्रस्य वर्णानां परिचर्य्या विधी-
यते । तेषां शुश्रूषणाच्चैव महत् सुखमवाप्नुयात् ।
शूद्र एतान् परिचरेत्त्रीन् वर्णाननुपूर्वशः । सञ्चयाश्च न
कुर्व्वीत जातु शूद्रः कथञ्चन । पापीयान् हि धनं लब्ध्वा
वशे कुर्य्याद्गरीयसः । राज्ञा वा समनुज्ञातः कामं
कुर्वीत धार्मिकः । तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योप-
जीवनम । अवश्यभरणीयो हि वर्णानां शूद्र उच्यते ।
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च । यातयामानि
देयानि शूद्राय परिचारिणे । अधार्याणि विशीर्णानि
वसनानि द्विजातिभिः । शूद्रायैव प्रदेयानि तस्य धर्मधनं
हि तत् । यच्च किञ्चिदुद्विजातीनां शूद्रः शुश्रूषुराव्रजेत् ।
कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः । देयः
पिण्डोऽनपत्याय भत्तेव्यौ वृद्धदुर्बलौ । शूद्रेण तु न
हातव्यो भर्त्ता कस्याञ्चिदापदि । अतिरेकेण भर्त्तव्यो
भर्त्ता द्रव्यपरिक्षये । न हि स्वमस्ति शूद्रस्य भर्तृहार्य्य-
धनो हि सः । उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य च
भारत! । स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते ।
तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान् स्वयम् । पूर्णपात्र-
मयीमाहुः पाकयज्ञस्य दक्षिणाम् । शूद्रः पैजवनो नाम
सहस्राणां शतं ददौ । ऐन्द्राग्न्येन विधानेन दक्षिणा-
मिति नः श्रुतम् । यथा हि सर्ववर्णानां यज्ञस्तस्यैव
भारत! । अग्र्यः सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते ।
दैवतं हि महच्छ्रद्धा पवित्रं यजताञ्च यत् । दैवतं हि
परं विप्राः स्वेन स्वेन परस्परम् । अयजन्निह सत्रैस्ते
तैस्तैः कामैः समाहितैः । संसृष्टा ब्राह्मणैरेव त्रिषु
वर्णेषु सृष्टयः । देवानामपि ये देवा यद्ब्रुयुस्ते परं
हितम् । तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ।
ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्धिजः ।”
सङ्कीर्णजातिधर्म्मस्तु मन्वाद्युक्तो जातिशब्दे दर्शितः
“उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः” गीता ।

जाति(ती)पत्री स्त्रो जातेः(त्याः)जातीफलस्य पत्री गौरा०

ङीष् । (जायत्री) ख्याते गन्धद्रव्यभेदे “जातीफलस्य त्वक्
प्नोक्ता जाति(ती) पत्री भिषग् वरैः । जाति(ती) पत्री
लघुः स्वादुः कटूष्णा रुचिवर्णकृत् । कफकासवमिश्वास-
तृष्णाकृमिविषापहा” भावप्र० ।

जाति(ती)फल न० जातिः (ती) तन्नामकं फलं, ६ त० वा ।

(जायफल) गन्धद्रव्यभेदे हेमच० ।

जातिबाधक त्रि० ६ त० । जातेर्बाधके प्राचीननैयायिकोक्ते

व्यक्तेरभेदादौ स च जातिशब्दे दर्शितः ।

जातिब्राह्मण पु० जात्या जन्मना ब्राह्मणः । तपःस्वाध्याय-

रहिते ब्राह्मणे । “तपः श्रुतञ्च योनिश्च त्रयं ब्राह्मण्यका-
रणम् । तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः”
शब्दार्थचि० धृतवाक्यम् ।

जातिभ्रंश न० पापभेदे । तत्स्वरूपप्रायश्चित्ते मनुवोक्ते

प्रा० वि० व्यवस्थापिते च यथा ।
“तत्र मनुः “ब्राह्मणस्य रुजः कृत्या घ्रातिरघ्रेयमद्ययोः ।
जैह्म्यञ्च मैथुनं पुंसि जातिभ्रं शकरं स्मृतम्” ।” जातिभ्रं-
शकरं कर्म्म कृत्वान्यतममिच्छया । चरेत् सान्तपनं कृच्छं
प्रजापत्यमनिच्छया” । रुजः कृत्या पीड़ाकरणम् । अध्रेयं
पृष्ठ ३१०७
लशुनादि जैह्म्यं मित्रे कृटिलत्वं पुंसि मैतुनं पुरुषे ग्राम्य
धर्मकरणम् । अत्र कामतः सान्तपनं तत्र धेनुद्वयम् ।
अकामतः प्राजापत्यं तत्र धेनुरेका । एतच्चाभ्यासे बोद्ध-
व्यम् । रुजः कृत्ये त्यत्र विशेषमाह मनुः “अवगुर्य चरेत्
कृच्छमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्यो-
त्पाद्य शोणितम्” । तथा याज्ञवल्क्यः “विप्रदण्डोद्यमे
कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते-
कार्य्योऽभ्यन्तरशोणिते” । अत्र दण्डशब्दः शस्त्रमपि लक्ष-
यति । अतिकृच्छ्रे धेनुत्रयं कृच्छ्रातिकृच्छ्रे धेनुपञ्चकम् ।
यमः “ःकृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथाचरेत् । दश
संख्याश्च गा दद्यादङ्गच्छेदो यदा भवेत्” । अत्र द्विजा-
ङ्गच्छेदे व्रतद्वयस्य गोदानानाञ्च समुच्चयः । विशेषमाह
वृहस्पतिः “काष्ठादिना ताड़यित्वा त्वगभेदे कृच्छमाच-
रेत् । अस्थिभेदेऽतिकृच्छ्रन्तु पराकं चाङ्गकर्त्तने” ।

जातिमात्र न० जातिरेव जाति + एवार्थे मात्रच् । स्वाध्या-

यादिहीने जन्ममात्रे “जातिमात्रेण किं कश्चिद्धन्यते
पूज्यते क्वचित्” हितो० । “जातिमात्रोपजीवी वा कामं
स्यात् ब्राह्मणब्रुवः” । “अब्रतानाममन्त्राणां जातिमा-
त्रोपजीविनाम् । नैषां प्रतिग्रहो देयो न शिला तारये-
च्छिलाम्” मनुः ।

जातिमाला जातिविशेषज्ञापके ग्रन्थभेदे ।

जातिवैर न० जात्या स्वभावेन वैरम् । स्वभाववैरे यथा

अहिनकूलयोः उपयमशब्दे योनिकूटप्रकरणे १२५० पृ० दृश्यम् ।

जातिशक्तिवाद पु० जातौ शक्तेर्वादः । शब्दानां जातौ

शक्तिसमर्थके कथाभेदे स च वादः शब्दशक्तिप्र० पूर्वपक्ष
विधया दर्शितो यथा
“ननु गामानयेत्यादौ गोत्वादिकर्मताकत्वेनैवानयना-
देरन्वयधीर्गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यन्वयबुद्धिं
प्रत्ये व हेतुत्वात् सुवर्थकर्मत्वादौ स्वाश्रयवृत्तित्वसम्बन्धेनैव
प्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्मताकत्वेन
वोधस्तूत्तरकालनाक्षेपात् कर्मत्वं गोवृत्ति गोत्वनिष्ठकर्मता-
त्वात्, आनयनं गोवृत्तिकर्मताकं गोत्ववृत्तिकर्मताकत्वा-
दित्थाद्यनुमानसाम्राज्यात् । न च वस्तुगत्या यद्गोत्वशक्तत्वं
तज्ज्ञानस्य हेतुत्वे गोपदं जातिशक्तमित्येवंग्रहादपि
शुद्धगोत्वस्यान्वयबोधापत्तिः गोत्वत्वावच्छिन्नशक्तत्वप्रकारक-
ज्ञानत्वेन तथात्वे च लाघवाद्गोत्वावच्छिन्नशक्तताप्रकारक-
ज्ञानत्वेनैव हेतुत्वं गोत्वत्वाद्यमवेशादितिवाच्यं गोपदं
गोत्वशक्तमित्याकारकज्ञानत्वेन हेतुतायां शुद्धस्येव गोत्वस्य
विषयतासम्बन्धेन शक्त्यंशे विशेषणत्वेन गोत्वत्वादिप्रवेश-
गौरवस्यायोगात् । न हि समवायान्यसम्बन्धेन जातेः
प्रकारतायां धर्म्मावच्छिन्नत्वनियमो मानाभावात् अयं
गौरित्यादिव्यवसायोत्तरमिमं गोत्वेन जानामीत्याकारे तस्य
ज्ञाततालिङ्गकानुमानेऽनुव्यवसाये वा व्यभिचाराच्च प्राग-
नुपस्थित्या गोत्वत्वादेस्तत्रोपनयायोगात् । एतेन जाते-
र्निरवच्छिन्नप्रकारत्वस्य समवायसंसर्गावच्छिन्नत्वनियमात्
केवलस्य गोत्वादेः शक्त्यंशे विषयतया सुवर्थकर्मत्वांशे च
परम्परया प्रकारत्वायोग इत्यपि प्रत्युक्तम्, उक्तस्थल
एव व्यभिचारात् । न चैवं कालोगौः पदं गौरित्यादि-
प्रत्ययोऽपि प्रमा स्यात् कालिकादिसम्बन्धेन गोत्वादिमति
तत्प्रकारकत्वादिति वाच्यं कालिकादिसम्बन्धेन गोत्वादेः
प्रामाण्यस्य गोत्वत्वाद्यवच्छिन्नप्रकारतागर्भत्वेन तादृशमतेः
प्रमात्वायोगात् अन्यथा घटत्वादिजातेः संस्थानसमवेतत्व-
मते संयोगो घट इत्यादिप्रतीतेः समवायेन प्रमात्वस्य
दुर्वारतापत्तेः शाब्दस्येव प्रत्यक्षस्यापि कालोगौरित्यादि-
वोधस्य नियमतोगवाद्यभेदावगाहित्वेनैवाप्रमात्वसम्भवा
च्चेति भट्टमतानुवर्त्तिनः ।”
जातिशक्तिवादिप्रभाकरमतं च तत्रैवोक्तं यथा
“प्राभाकरास्तु गोत्वशक्तत्वेन ज्ञातं पदं ताद्रूप्येण
गोशाब्दत्वावच्छिन्नं प्रत्येव हेतुरतोगोत्वशक्तिग्रहान्न
गोत्वेन गवयादेः न वा द्रव्यत्वादिना गोरन्वयधियोऽति-
प्रसङ्गः । नचैवं जातेरिव व्यक्तेरपि शक्यत्वमावश्यकं
न हि गवादिपदस्य शक्यत्वं जन्यत्वमपि तु जन्यशाब्द-
धीविषयत्वं तच्च गोत्वस्येव गोरप्यविशिष्टमिति वाच्य
गवादिपदधर्मिकस्वशक्तताज्ञानत्वावच्छिन्नशाब्दधीजनक-
तावच्छेदकत्वेन गोत्वादेरेव गवादिपदशक्यत्वात् गोत्वशक्त-
तापेक्षएया गोशक्तत्वस्य गुरुतवा तज्ज्ञानत्वस्य गोशाब्दं
प्रति जनकतानवच्छेदकत्वात् । अतवान्वयबुद्धेरात्म-
स्वात्मत्वाद्यवगाहित्वेऽपि न तेषां पदशक्यत्वम् । अस्तु वा
गोत्वादिशक्तत्वेन ज्ञातं पदं गोत्वादिशाब्दत्वावच्छिन्नं
प्रत्येव हेतुर्विशेष्यतया तादृशशाब्दं प्रति समवायेन गोत्वस्य
नियामकत्वकल्पनाच्च नातिप्रसङ्गः गोत्वादिना गवादेरिव
गवादेर्गोत्वादिनान्वयबोधत्वावच्छिन्नं प्रत्यपि विनिगमका-
भावेन गोत्वादिशक्तिज्ञानत्वेन हेतुत्वमपेक्ष्य गोत्वशाब्द-
त्वावच्छिन्नं प्रत्येव गोत्वस्य तच्छक्तत्वज्ञानस्य च द्वयोः
कारणतायामेव लाघवात्, वस्तुतोगोत्वशाब्दं प्रति गोत्व-
शक्तिज्ञानमेव हेतुर्न तु गोत्वमपि जातिव्यक्त्योस्तुल्य-
पृष्ठ ३१०८
वित्तिवेद्यत्वनियमादेव गोव्यक्तीनान्तद्विषयत्वसिद्धेः प्रमाण-
विरहादेव गोत्वादिना गबयादिविषयत्वस्य तत्रासिद्धेश्च ।
यद्यपि जातेर्विषयत्वं तत्समवायिव्यक्तिविषयतानिरूपित-
मिति न व्याप्तिर्गोत्वाद्यालोचने कालोगोत्ववानित्यादिबोधे
च व्यभिचारात् नापि जातेर्निरवच्छिन्नप्रकारतायास्तथा-
त्वनियमः गौरयमित्यादिज्ञानस्य प्रत्यक्षे गोत्वेनेमं जाना-
मीत्याकारे तथात्वात् तथाप्यन्वयबोधस्य निरवच्छिन्नगोत्वा-
दिप्रकारत्वं गवादिविशेष्यतानिरूपितमेवेति व्याप्तिस्ता-
दृशविशेष्यताकत्वं विना शुद्धस्य गोत्वादेरन्वयबोधेनास्पर्श-
नात् गुरूणां गोत्वेन गवयादिबोधस्यालीकत्वात् ।
अतएव गवाद्यंशे गोत्वादिप्रकारकोबोधः समवायेनेव सम्बन्धा-
न्तरेणापि तत्प्रकारकः स्याद्गोत्वशक्तिज्ञानस्य तदीयसम्ब-
न्धभानं प्रत्युदासीनत्वादित्यपि प्रत्युक्तं शाब्दमतेः शुद्ध-
गोत्वप्रकारतायां गोविशेष्यताकत्वस्येव समवायावच्छिन्न-
त्वस्यापि व्याप्तिबलेन सिद्धावपि सम्बन्धान्तरावच्छिन्नत्वस्य
प्रमाणविरहेणासिद्धेः । एवञ्च गोत्वादिशक्तिज्ञानत्वेन
जनकतायां विषयतयावच्छेदकत्वाद्गोत्वादिरेव गवादिपद-
स्यार्थः गवादौ तद्व्यवहारस्तु तादृशावच्छेदकधर्मवत्त्वप्रयु-
क्तोगौणः । नचैवं गम्यादिधातोरपि गत्यादौ शक्तिर्न
स्याद्गतित्वादिशक्तिज्ञानादेव ताद्रूप्येण गत्यादेर्गम्यादि-
धातुतोबोधसम्भवादिति वाच्यं गुरूणां गतित्वादेः
संस्थानाव्यङ्ग्यत्वेन जातित्वासम्भवात् उत्तरसंयोगाद्यव-
च्छिन्नक्रियात्वाद्युपाधिरूपे च तत्र स्वरूपतः शक्तिग्रहा-
योगात् सखण्डस्य निरवच्छिन्नप्रकारत्वाभावात् निरुक्त-
क्रिवात्वत्वावच्छिन्नशक्तताज्ञानत्वेन हेतुतामपेक्ष्य लघुतया
तादृशक्रियात्वावच्छिन्नशक्तिमत्त्वज्ञानत्वेनैव तथात्वौचि-
त्यात् गुरुत्वादिप्रयोज्यस्य पतनत्वादेरखण्डत्वे पत्यादि-
धातूनान्तत्र शक्तत्वेऽपि क्षत्यभावाच्च । पश्वादिपदानामपि
लोमवल्लाङ्गूलादिपर्य्यवसिते पशुत्वादिमात्रे न शक्तिस्तत्र-
वृत्तिग्रहोत्तरं तन्मात्रस्यैवानुमवेन तदाश्रयस्यालाभात्
लोमादीनां स्वाश्रयतुल्यवित्तिवेद्यत्वस्य लोमवल्लाङ्गूलवान्
देश इत्याद्यनुभवे व्यभिचारादितिप्राहुः ।”
नैयायिकास्तु तदेतन्मतं पूर्वपक्षविधया व्यक्त्यादीनां
केवलानां शब्दवाचतां निराकृत्य जातिविशिष्टस्यैव शक्यत्वं
व्यवस्थापितं यथा गौ० सूत्रे तद्भाष्ये च ।
“तदर्थे व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः ।” सू०
“अविनाभाववृत्तिः सन्निधिः अविनाभावेन वर्त्तमानासु
व्यक्त्याकृतिजातिषु गौरिति प्रयुज्यते तत्र न ज्ञायते
किमन्यतमः पदार्थः उत सर्व इति । शब्दस्य प्रयोगसा-
मर्थ्यात्पदार्थावधारणम् न य्यात्” भाष्यम् ।
“याशब्दसमूहत्यागपरिग्रहसंख्यावृद्धुपचयवर्णसमासा-
नुबन्धानां व्यक्तावुपचाराद्व्यक्तिः” सू०
“व्यक्तिः पदार्थः कस्मात् याशब्दप्रभृतीनां व्यक्तावुपचा-
रादुपचारः प्रयोगः । या गौस्तिष्ठति या गौर्निषर्ण्णति
नेदं वाक्यं जातेरभिधायकमभेदात् द्रव्याभिधायकम्,
गवां समूह इत्यभेदात् द्रव्याभिधामं न जातेरभेदात्,
वैद्याय गां ददातीति द्रव्यस्य त्यागो न जातेरमूर्त्तत्वात्
प्रतिक्रमानुक्रमानुपपत्तेश्च । परिग्रहः स्वत्वेनाभिसम्बन्धः,
कौण्डिन्यस्य गौ र्ब्राह्मणस्य गौरिति द्रव्याभिधाने द्रव्य-
भेदात् सम्बन्धभेद इति उपपन्नमभिन्ना तु जातिरिति,
सङ्ख्या दश गावो विंशतिर्गाव इति भिन्नं द्रव्यं सङ्ख्यायते
न जातिरभेदादिति, वृद्धिः कारणवतो द्रव्यस्यावयवोप-
चयः अवर्द्धत गौरिति निरवयवा तु जातिरिति,
एतेनापचयो व्याख्यातः । वर्णः शुक्ला गौः कपिला गौरिति
द्रव्यस्य शुक्लादियोगो न सामान्यस्य, समासः गोहितं
गोसुखमिति द्रवस्य सुखादियोगो न जातेरिति । अनुबन्धः
सरूपप्रजननसन्तानोगौ र्गां जनयतीति तदुत्पत्तिधर्मत्वाद्-
द्रव्ये युक्तं न जातौ विपर्य्ययादिति । द्रव्यं व्यक्तिरिति हि
नार्थान्तरम्, अस्य प्रतिषेधः ।” भा० “न तदनवस्थानात्” सू०
“न व्यक्तिः पदार्थः । कस्मादनवस्थानात् याशब्दप्रभृ-
तिभिर्यो विशेष्यते स गोशब्दर्थो या गौस्तिष्ठति या
गौर्निषर्ण्णेति न द्रव्यमात्रमविशिष्टं जात्या विनाऽभिधी-
यते, किन्तर्हि जातिविशिष्टं, तस्मान्न व्यक्तिः पदार्थः
एवं समूहादिषु द्रष्टव्यम् । यदि न व्यक्तिः पदार्थः कथं
तर्हि व्यक्तावुपचार इति । निमित्तादतद्भावेऽपि तदुप-
चारो दृश्यते खलु” भा० ।
“सहचरणस्थानतादर्य्यवृत्तमानधारणसामीप्ययोगसाध-
नाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाट-
कान्नपुरुषेष्वतद्भावेऽपि तदुपचारः” सू०
“अतद्भावेऽपितदुपचार इत्येतच्छब्दस्य तेन शब्देनाभि-
धानमिति, सहचरणात् यष्टिका भोजयेति यष्टिकासह-
चरितो ब्राह्मणोऽभिधीयेत इति, स्यानात् मञ्चाः क्रोश-
न्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते, तादर्थ्यात् कटार्थेषु
वीरणेषु व्यूह्यमानेषु कटङ्करोतीति, वृत्तात् यमो राजा
कुवेरो राजेति तद्वद्वर्त्तत इति, मानात् आढ़केन मिताः
सक्तवः आढ़कसक्तव इति धारणात् तुलया धृतं चन्द्रनं
पृष्ठ ३१०९
तुलाचन्दनमिति, सामीप्यात् गङ्गायां गावश्चरन्तीति
सन्निकष्टोदेशोऽभिधीयते योगात् कृष्णेन रागेण युक्तः
शाटकः कृष्ण इत्यभिधीयते, साधनात् अन्नं प्राणा इति ।
आधिपत्यात् अयं पुरुषः कुलं अयं गोत्रमिति तत्रायं
सहचरणाद्योगाद्वा जातिशब्दो व्यक्तौ प्रयुज्यत इति
यदि गौरित्यस्य पदस्य न व्यक्तिरर्थोऽस्तु तर्हि ।” भा०
“आकृतिस्तदपेक्षत्वात् सत्वव्यवस्थानसिद्धेः” सू०
“आकृतिः पदार्थः कस्मात् तदपेक्षत्वात् सत्वव्यवस्थान-
सिद्धेः । सत्वावयवानां तदवयवानाञ्च नियतोव्यूह
आकृतिः तस्यां गृह्यमाणायां सत्वव्यवस्थानं सिध्यति
अयं गौरयमश्व इति नागृह्यमाणायाम्, यस्य ग्रहणात्
सत्वव्यवस्थानं सिध्यति तं शब्दोऽभिधातुमर्हति
सोऽस्थार्थ इति नैतदुपपद्यते तस्य जात्या योगस्तदत्र जाति-
विशिष्टमभिधीयते गौरिति । नचावयवव्यू हस्य जात्या
योगः, कस्य तर्हि नियतावयवव्यूहस्य द्रव्यस्य, तस्मान्ना-
कृतिः पदार्थः । अस्तु तर्हि जातिः पदार्थः” भा०
“व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात्प्रोक्षणादीनां मृद्गवके
जातिः” सू०
“जातिः पदार्थः, कस्मात् व्यक्त्याकृतियुक्तेऽपि मृद्गवके
प्रोक्षणादीनामप्रसङ्गादिति । गां प्रोक्षय गामानय गां
देहीति नैतानि मृद्गवके प्रयुज्यन्ते कस्मात् जातेरभा-
वात् । अस्ति हि तत्र व्यक्तिरस्त्याकृतिः यदभावात्
तत्रासम्प्रत्ययः स पदार्थ इति ।” भा०
“नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः” सू०
“जातेरभिव्यक्तिराकृतिव्यक्ती अपेक्षते नागृह्यमाणाया-
माकृतौ व्यक्तौ जातिमात्रं शुद्धं गृह्यते तस्मान्न जातिः
पदार्थः इति । न वै पदार्थेन न भवितुं शक्यम् कः
खल्विदानीं पदार्थ इति” भा०
“व्यक्त्याकृतिजातयस्तु पदार्थः” सू०
“तुशब्दो विशेषणार्थः । किं विशिष्यं प्रधानाङ्गभाव-
स्यानियमेन पदार्थत्वमिति । यदा हि भेदविवक्षा विशे-
षगतिश्च तदा व्यक्तिः प्रधानमङ्गन्तु जात्याकृती । यदा तु
भेदोऽविवक्षितः सामान्यगतिस्तदा जातिः प्रधानमङ्गन्तु
व्यक्त्याकृती स्वीकृते तदेतद्बहुलं प्रयोगेष्वाकृतेस्तु प्रधा-
नभाव उत्प्रेक्षितव्यः । कथं पुनर्ज्ञायन्ते नानाव्यक्त्या-
कृमिजातय इति लक्षणभेदात् तत्र तावत्” भा०
“व्यक्तिर्गुणविशेषाश्रयो मूर्त्तिः” सू०
“व्यज्यत इति व्यक्तिरिन्द्रियग्राह्येति न सर्वं द्रव्यं
व्यक्तिः । यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्व-
द्रव्यत्वसंस्काराणामव्यापिनः परिमाणस्याश्रयो यथासम्भवं
तदुद्रव्यम्, मूर्त्तिः मूर्च्छितावयवत्वादि” भा०
“आकृतिर्ज्जातिलिङ्गाख्या” सू०
“यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते तामाकृतिं
विद्यात् । सा च नाना सत्वानां तदवयवानाञ्च नियत
व्यूहादिति नियतावयवव्यूहाः खलु सत्वावयवा जाति
लिङ्गं शिरसा पादेन न गामनुमित्सन्ति । नियते तु
सत्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति ।
अनाकृतिव्यक्तिकायां जातौ मृत्सुवर्णं रजतमित्येवमादिष्वा-
कृतिर्निवर्त्तते जहाति पदार्थत्वमिति” भ०
“समानप्रसवात्मिका जातिः” सू०
“या समानां बुद्धिं प्रसूते भिन्नेष्वधिकरणेषु यथा
बहूनीतरेतरतो न व्यावर्त्तन्ते योऽर्थोऽनेकत्र प्रत्ययानुवृत्ति-
निमित्तं तत् सामान्यम् । यच्च केषाञ्चिद्भेदं कुतश्चिद्भेदं
करोति तत् सामान्यविशेषो जातिरिति” भा०
शब्दशक्तिप्रकाशिकायामपि तदेतन्मतं समर्थितं यथा
“जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता । जातिमात्रे
हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम्” “यन्नाम जात्य-
वच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्राः
सा हि गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकमभि-
धत्ते न तु गोत्रादिजातिमात्रं गोपदं गोत्वे सङ्केतित-
मित्याकारकग्रहाद्गामानयेत्यादौ गोत्वादिना गवादेरन्व-
यानुपपत्तेः एकशक्तत्वग्रहस्यान्यानुभावकत्वेऽतिप्रसङ्गात्”
ततःपरं प्राक्दर्शितं भट्टमतं प्रदर्श्य दूषितं यथा
“विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्मताकत्वेनानय-
नादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौ शुद्ध-
गोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वाद्य-
नुपस्थित्या च गोत्वं गच्छतीत्याद्यनुभवस्यासम्भवात्
स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौ
साक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेण
दुःशकत्वाच्च । एतेन कर्मत्वादौ गोत्वादेः स्वाश्रय-
वृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वं
गोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामि-
त्यादिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादि-
व्यक्तेर्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यां
शाब्दत्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दा-
नुपपत्तिभ्यां सम्भय तथाविधौपादानिकबोधस्य जनना-
पृष्ठ ३११०
थोगाच्च । यत्तु गौर्ज्जायते गौर्नश्यति सर्वत्र गोत्वादि-
जातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टा
व्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्र
शक्तेरकल्पनात् तात्पर्य्यानुपपत्तेरपि लक्षणाया
वीजत्वात् यदाहुर्मण्डनाचार्य्याः “जातेरस्तित्वनास्तित्वे न
हि कश्चिद्विवक्षति । नित्यत्वाल्लक्षणीयाया व्यक्तेस्ते हि
विशेषणे” इति तदपि तुच्छं व्यक्तिविनाकृतायां गोत्वादि-
जातौ गवादिपदस्य मुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वे
तद्वति गवादौ लक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्ध-
स्यैव लक्षणात्वात् । न च गोरन्यो महिष इत्यादौ
पञ्चम्यर्थेऽवधित्वे प्रतियोगित्वे वा स्वावच्छेद्यत्वसम्बन्धेन
शुद्धस्य गोत्वादेरन्वयात्तथाविधस्थल एव जातौ मुख्य-
प्रयोगः तत्र पञ्चम्याः स्वार्थेऽवधित्वादौ स्वनिष्ठगोत्वा-
वच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्य गवादेरन्वयबोधकत्वात्
अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यां गोपदेन बोधने वृत्ति-
द्वययौगपद्यापत्तेः वस्तुतः शुद्धस्य गोत्वादेः शाब्दधी-
प्रकारतायाः समवायावच्छिन्नत्वनियमात्तस्यावधित्वादौ
स्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटः एव द्रव्यं घट
इत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घटत्वजातेर्नाना-
त्वोपगमादिति” ।
ततः परं प्रागुपदर्शितं प्राभाकरमतमुत्थाप्य दूषितं यथा
“शाब्दमतेर्गवादिव्यक्त्यवगाहित्वमवश्यङ्कारणप्रयोज्यं
जन्यधीविषयतायास्तत्प्रयोज्यत्वनियमादन्यथा पक्षधर्मिक
साध्यावगाहितादेरपि परामर्शादिप्रयोज्यता न स्यादनु-
मित्यादि सामान्यं प्रत्येव ज्ञानत्वादिना हेतुत्वस्य लाघवे-
नौचित्यात् पक्षतादिसहकृतपरामर्शाद्युत्तरज्ञानस्य तत्
प्रकाशस्यैव वा पक्षे साध्यावगाहित्वनियमादेवानुमित्यादेः
प्रतिनियतपक्षाद्यवगाहित्वसिद्धेः । किञ्च गोत्वशक्यत्वं
न गोत्वसमर्थत्वं यस्य धीरन्वयधीहेतुरप्रसिद्धत्वात् नापि
तद्गोचरमभिधानामकं पदार्थान्तरं तत्र मानाभावात् न
वा गोत्वानुभवजनकत्वं पटादिपदस्यापिं गोत्वशक्यत्वाप-
त्तेस्तस्यापि गवादिपदाकाङ्क्षादिसाचिव्येन गोत्वानुभव-
जनकत्वात् न च गोत्वानुभवसामान्यं प्रति हेतुत्वन्तथा
गवादिपदेऽप्यसत्त्वात् नापि गोत्वानुभवजनकत्वप्रकारक-
नित्यसङ्केतवत्त्वं तादृशसङ्केतवत्त्वमात्रं वा गोत्वशक्तत्व-
मिति साम्प्रतं, गोपदं गोत्वेन गवानुभवस्य जनकतया
न सङ्केतितमित्यादिग्रहेऽपि तस्य ग्रहाद्गोत्वेन
गोरन्वयधीप्रसङ्गात् किन्तु गोत्वेन गवानुभवस्य जनकतया
सङ्केतितत्वं तथा, तथा च पदधर्मिकतज्ज्ञानत्वेन
गोत्वप्रकारकशाब्दं प्रति हेतुतायां गोत्वस्येव तद्विशिष्टस्य
गोरपि विषयविधयावच्छेदकत्वादवश्यं गोत्वादिविशिष्टो
गवादिर्गवादिपदस्यार्थः” ।

जातिशब्द पु० जातिवाचकः शब्दः । प्रकारविधया विशेष्य-

विषया वा जातिवाचके शब्दे हंसमृगादिशब्दादौ ।
“चिह्नैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः” हेमच० ।

जातिशस्य न० ६ त० । (जायफल) सुगन्धद्रव्यभेदे शब्दार्थचि०

जातिसङ्कर पु० जात्योर्विरुद्धयोः सङ्करः । परस्परविरुद्धयोः

(परस्पराभावसमानाधिकरणयोः) १ जात्योरेकत्र समावेशे
स च जादिशब्दे जातिबाधकतया वैशेषिकसूत्रोपस्करे
प्रदर्शितः । २ वर्णसङ्करे विभिन्नजातिकाभ्यां मातापितृभ्यां
सङ्कीर्णवर्णे च यथा मूर्द्धावसक्ताम्बष्ठादि ।

जातिसार न० ६ त० । (जायफल) ख्याते पदार्थे राजनि० ।

जातिस्फोट पु० व्याकरणमतसिद्धे स्फोटभेदे बैयाकरणभूषण-

सारे हि वर्ण्णस्फोटः पदस्फोटः वाक्यस्फोटः अखण्ड-
पदवाक्यस्फोटौ इति व्यक्तिस्फोटाः पञ्च वर्णपदवाक्य-
भेदेन जातिस्फोटास्त्रय इत्यष्टौ स्फोटा उक्ताः । तत्र
जातिस्फोटत्रयं क्रमेण हरिणा दर्शितं यथा
“शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ।
औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत्” अयं
भावः । वर्णास्तावदावश्यकाः उक्तरीत्या च सोऽयं
गकार इति वद् योऽयं गकारः श्रुतः सोऽयं हंकार
इत्यपि स्यात् स्फोटस्यैकत्वात् गकारोऽयं न हकार
इत्यनापत्तेश्च । किञ्च स्फोटे गत्वाद्यभुपेयं न वा
आद्ये तदेव गकारोऽस्तु वर्णनित्यतावादिभिरतिरिक्त-
गत्वानङ्गीकारात् । तथा चातिरिक्तस्फोटकल्पन एव
गौरवम् । अन्त्ये गकारादिप्रतीतिविरोधः । वायु-
संयोगवृत्ति ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय
इति चेन्न प्रतीतेर्विना बाधकं भ्रमत्वासम्भवात् अस्तु
वा वायुसंयोग एव गकारोऽपि तस्यातीन्द्रियत्वं दोष
इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन । तस्मात्सन्त्येव
वर्ण्णाः । परन्तु न वाचकाः गौरवात् । आकृत्यधिक-
रणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च ।
इदं हरिपदमित्यनुगतप्रतीत्या हर्य्युपस्थितित्वावच्छेदेन
हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया चं जाति
विशेषस्यावश्यकल्प्यत्वात् । न च वर्णानुपूर्व्यैब प्रतीत्यव-
च्छेदकत्वयोर्निर्वाहः घटघटत्वादेरपि संयोगविशिष्ट-
पृष्ठ ३१११
मृदा आकारादिभिश्चान्यथासिद्ध्यापत्तेः । तस्मात्सा
जातिरेव वाचिका तादात्म्येनावच्छेदिका चेति । ननु
सरोरस इत्यादौ जात्योः सत्त्वादर्थभेदबोधो न स्यादि-
त्यत आह औपाधिको वेति! वा त्वर्थे उपाधिरानु-
पूर्व्वी सैव जातिविशेषाभिव्यञ्जिकेति भेदः कारणीभूत-
ज्ञानस्येति नातिप्रसङ्ग इति भावः । उपाधिप्रयुक्त-
ज्ञानवैलक्षण्ये दृष्टान्तमाह वर्णानामिति । ननु जातेः
प्रत्येकं वर्णेष्वपि सत्त्वात् प्रत्येकादर्थबोधः स्यादित्यत
आह । “अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति
स्मृता । कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ।”
अनेकामिर्वर्णव्यक्तिभिरभिव्यङ्ग्यैव जातिः स्फोट इति
स्मृता योगार्थतया बोधिकेति यावत् । एतेन स्फोटस्य
नित्यत्वात्सर्वार्थबोधापत्तिरित्यपास्तम् । अयं भावः यद्यपि
वर्णस्फोटपक्षे कथितदोषोऽस्ति तथापि पदवाक्यपक्षयोर्न,
तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वा-
दिति । कैश्चिद्व्यक्तयोध्वनय एव ध्वनिवर्णयोर्मेदाभावादि-
त्यभ्युपेयन्ते इति शेषार्थः । उक्तं हि काव्यप्रकाशे
“बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकशब्दस्य
ध्वनिरिति व्यवहारः कृतः” इति ।
ननु का सा जातिस्तत्राह । “सत्यासत्यौ तु यौ भागौ
प्रतिभावं व्यवस्थितौ । सत्यं यत्तत्र सा जातिरसत्या
व्यक्तयोमताः ।” प्रतिभावम् प्रतिपदार्थम् । सत्यांशो
जातिः असत्या व्यक्तयः । तत्तदुव्यक्तिविशिष्टं व्रह्मैव
जातिरिति भावः । उक्तञ्च कैयटेन “असत्योपाध्यव-
च्छिन्नं व्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थ इति” । “ब्रह्म-
तत्त्वमेव शब्दस्वरूपतया भातीति” च । कथं तर्हि
ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वम्, आत्मैवैदं
सर्वमिति श्रुतिवचनादिति कैयटः सङ्गच्छताम् अविद्या
आविद्यिको धर्मविशेषोवेति पक्षान्तरमादायेति द्रष्टव्यम्” ।

जातिस्मर पु० जातिः स्मर्य्यतेऽत्र स्नानादिना स्मृ--आधारे

बा० अप् । १ तीर्थभेदे “ततो देवह्रदेऽरण्ये कृष्णवेनाजलो-
द्भवे । जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः” भा०
व० ८५ अ० । जातिं पूर्वजन्मवृत्तान्तं स्मारति स्मृ--अच् । २ पूर्व-
जन्मवृत्तान्तस्मारके त्रि० । तत् स्मरणहेतुकर्म च मनुनोक्तं
यथा “वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण
च भूतानां जातिं स्मरति पौर्बिकीम्” । “शुभेन कर्मणा
तेन जाता जातिस्मरा मृगाः । त्रासानुत्पाद्य संविग्ना-
रम्ये कालञ्जरे गिरौ” हरिवं २१ अ० ।

जाती स्त्री जन--क्तिच् वा ङीप् । मालत्यां पुष्पप्रधानवृक्षे

अमरः । पुष्पेऽपि स्त्री “पुष्पे जातीप्रभृतयः स्वलिङ्गाः”
इत्यमरोक्तेः । “जातिर्जाती च सुमना मालती
राजपुत्रिका । चेतिका हृद्यगन्धा च सा पीता स्वर्णजा-
तिका । जातीयुगं च तिक्तोष्णं तुवरं लघु दोषजित् ।
शिरोक्षिमुखदन्तार्त्तिविषकुष्ठानिलास्रजित्” भावप्र० ।
“तत् कुद्मलं नेत्ररोगव्रणविस्फोटकुष्ठहृत्” राजनि० ।

जातीय त्रि० जातौ भवः छ । जातिभवे । अस्य किञ्चिदु-

पदादेव प्रयोगः सजातीयः विजातीयः तुल्यजातीयः ।

जातु अव्य० जै--क्षये जन--वा बा० क्तुन् । १ कदाचिदित्यर्थे

अमरः । “मनस्तु यं नोज्झति जातु यातु मनोरथः
कण्ठपथं कथं सः” नैष० । “न जातु वैनायकमेकमु-
द्धृतम्” माघः । “न जातु कामः कामानामुपभोगेन
शाम्यति” मनुः २ सम्भावनायां ३ गर्हायाञ्च शब्दर० ।
गर्हार्थकेन जातुशब्देन योगे अन्यलकारबाधेन सर्वत्र
लट् । “जातु निन्दसि गोविन्दमपि निन्दसि शङ्करम्”
मुग्ध० । “जातु तत्रभवान् वृषलं याजयति” ।

जातुक न० जातु गर्हितं कं जलमस्मात् । हिङ्गुनि शब्दच०

जातुधान न० जातु गर्हितं धानमभिधानमस्य । यातुधाने

राक्षसे अमरटीकायां रमानाथः ।

जातुष त्रि० जतुनो विकारः अण् सुक् च । जतुनिर्मिते ।

“यदाऽश्रौषं जातुषाद्वेश्मनस्तान्” भाः आ० १३ अ० ।

जातू पु० जन--ड जान् तूर्वति हिनस्ति तूर्व--क्विप् पूर्वपद-

दीर्घः । वज्रे । “स जातूभर्मा श्रद्दधानः” ऋ० १ । १०३ । २ ।
“जातू इत्यशनिमाचक्षते” भा० । व्युत्पत्तिस्तथैवोक्ता ।

जातूकर्ण पु० ऋषिभेदे । स च अष्टाविंशतितमे द्वापरयुगे

जातः यथोक्तं हरिवं० ४२ अ० “नवमे द्वापरे विष्णो-
रष्टाविंशे पुराऽभवत् । वेदव्यासस्तथा जज्ञे जातूकर्ण
पुरःसरः” स च उपस्मृतिकर्त्ता यथोक्तं हेमा० दा० ख०
अङ्गिरसा “जाबालिर्नाचिकेतश्च स्कन्दो लौगाक्षि
कश्यपी । व्यासः सनत्कुमारश्च शतगर्जनकस्तथा ।
व्याघ्रः कात्यायनश्चैव जातूकर्ण्णः कपिञ्जलः । वौधायनः
कणादश्च विश्रामित्रस्तथैव च । उपस्मृतय इत्येताः
प्रवदन्ति मनीषिणः” । ततो गर्गा० अपत्ये यञ् ।
जातूकर्ण्य तदपत्ये पुंस्त्री । स्त्रियां ङीष् यलोपौ ।
जातूकर्णी ।

जातूष्ठिर त्रि० जातु कदाचित् स्थिरः वेदे बा० षत्वं पृषो०

दीर्घश्च । सर्वदास्थिरे । “जातूष्ठिरस्य प्रवयः सहस्वतः”
ऋ० २ । १३ । ११ । “जातूष्ठिरस्य सर्वदास्थिरस्य” भा० ।
पृष्ठ ३११२

जातेष्टि स्त्री जाते पुत्रजनने इष्टिः । पुत्रजन्मोत्तरं श्रुति-

विहिते वैश्वानराख्ये इष्टिभेदे ।

जातेष्टिन्याय पु० जैमिनिप्रदर्शिते पितृकृतेष्ट्या पुत्रगत-

फलसूचके एकस्य काम्यत्वनैमित्तिकत्वसूचके न्यायभेदे
स च न्यायो जै० प्रथमस्य चतुर्थे पादे यथा ।
काम्येष्टिकाण्डे श्रूयते । “वैश्वानरं द्वादशकपालं
निर्वपेत् पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवेनं
ब्रह्मवर्च्चसेन पुनाति यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो
दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं, यदेकादशपाल-
स्त्रिष्टुभैवास्मिन्निन्द्रियमादधाति यद्द्वादशकपालो जगत्यै-
वास्मिन् पशून् दधाति यस्मिन् जाते एतामिष्टिं निर्व-
पति स एव पूतो बलवान् तेजस्वी अन्नाद इन्द्रियावी
पशुमान् भवतीति” । अत्राष्टादिसंख्यासामान्यात् पुरो-
डाशादीनां गायत्र्यादिरूपताकल्पना कृता द्वादशकपालेषु
या संख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात् संख्यां निमि-
त्तीकृत्याग्निहोत्रादिशब्दवत् अष्टाकपालादिशब्दाः कर्म्म-
नामधेयानीत्येकः पक्षः ।
अयमनुपपन्नः तथा हि द्वादशकपालादिशब्दा न संख्यापराः
किन्तु पुरडाशद्रव्यपराः द्वादशकपालेषु संस्कृत इति व्युत्पत्तेः
एवमष्टाकपालादिशब्दादयोऽपि तथा सति नामधेयस्य
निमित्तत्वं नास्तीति चेत् पुरोडाशद्रव्यरूपगुणो विधीयतां
न च द्वादशकपालं निर्वपेदित्युत्पत्तिविधिशिष्टद्वादशपुरो-
डाशविरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यं व्रह्म-
वर्च्चसादिविशेषफलाय तद्विधीनामुपपत्तेरित्यपरः पक्षः ।
अयमपि पक्षोऽनुपपन्नः अनेकगुणविधौ वाक्य-
भेदापत्तेः न च भिन्नान्थेव वाक्यानि, द्वादशकपालं
निर्वपेदिति विहितयागस्य यस्मिन् जाते एतानित्युप-
मंहारेण एकवाक्यत्वावगमात् द्वादशकपाल इतीष्टेर्नाम-
धेयमिष्टिरंशी अष्टाकपालादिभिरंशैः स्तूयत इति
सिद्धान्तः पक्षः । अत्र च पुत्रजन्मनिश्चयः, पुत्रस्य पूतत्वा-
दिफलकामना चेति संवलिताधिकारः काम्यनैमित्तिक
त्वात् अतः केवलपुत्रजन्मरूपनिमित्तनिश्चयवतः केवलपुत्र
पतत्वादिकामनावतो वा नाधिकार इति सुधीभिर्विभाव
नीयम्” तत्त्वबो० ।
अनेन न्यायेन अन्यकृतकर्म्मणा अन्यस्य फलसाधनता-
ऽपि सूचिता यथा पुत्रकृतश्राद्धेन पितुः स्वर्गादि फलं
जन्यते एवं पितृकृतेष्ट्या पुत्रगतपूतत्वादिफलसिद्धिः ।
अतएव हेमाद्रिणा श्राद्धकल्पे अयमेव न्यायः पुत्रकृ-
तश्राद्धेन पितुरुपकारकत्वे दृष्टान्तयोक्तः ।

जातोक्ष पु० जातः प्राप्तदम्यावस्थः उक्षा टच्समा० । युववृषे

इह जातत्वं प्राप्तवलीवर्द्दभावत्वं प्राप्तदम्यावस्थत्वमिति यावत्

जात्य त्रि० जातौ भवः यत् । १ कुलीने, २ श्रेष्ठे, ३ कान्ते च मेदि० ।

४ सुन्दरे जटाधरः “किं वा जात्याः खामिनो ह्रेपयन्ति”
माघः । “जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः”
रघुः । “सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।
आनुलोम्येन संभूता जात्या जातास्त एव ते” मनुः ।

जात्यन्ध त्रि० जातौ जन्मन्येवान्धः । जन्मान्धे “अनंशौ

क्लीवपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजड़मूकाश्च
ये च केचिन्निरिन्द्रियाः” मनुः ।

जात्यासन न० “अथ जात्यासनं वक्ष्ये येन जातिस्मरो भवेत् ।

हस्ताङ्घ्रियुग्मं भूमौ च गमनागमनं ततः” रुद्रजाम-
लोक्ते आसनभेदे ।

जात्युत्तर न० जात्या व्याप्तिविधुरसाधर्म्यवैधर्म्यादिना

उत्तरम् । न्यायोक्ते असदुत्तरे तच्च चतुर्विंशतिविधं
जातिशब्दे दर्शितम् ।

जान पु० जन--भावे घञ् वेदे वृद्धिः । १ उत्पत्तौ “को वेद जान

मेषाम्” ५ । ५३ । १ । “जानमुत्पत्तिम्” भा० । जनस्ये-
दमण् । २ जनसम्बन्धिनि त्रि० । “महते
जानराज्यायेन्द्रस्येन्द्रियाय” यजु० ९ । ४० । स्त्रियां ङीप् ।

जानक त्रि० जनकस्य पितुः तन्नामनृपस्येदं वा अण् । १ पितृ-

सम्बन्धिनि २ जनकनृपसम्बन्धिनि च स्त्रियां ङीप् ।
सा च ३ रामपत्न्यां सीतायाम् “मुमोच जानन्नपि जानकीं
न यः” माघः ।

जानकि पु० जनकस्यापत्यम् इञ् । भारतप्रसिद्धे नृपभेदे ।

“विनाशनस्तु चन्द्रस्य य आख्यातो महामुरः । जानकि
र्नाम विख्यातः सोऽभवन्मनुजाधिपः” भा० आ० ६७ अ० ।
“जानकिश्च सुशर्म्भा च मणिमान् पोतिमत्सकः” भा० उ० ३ अ० ।

जानन्ति पु० ऋग्वेदिभिस्तर्पणीये ऋषिभेदे । “जानन्ति

बाहविगार्ग्य गौतमशाकल्यबाभ्रव्यमाण्डव्यमार्कण्डेयाः”
इत्युपक्रमे “ते सर्वे तृपन्त्विति” आश्व० गृ० ३ । ४ । ४ ।

जानपद पु० जानेन उत्पत्त्या पद्यते पद--अप् । १ जने

लोकमात्रे “कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः”
भा० शा० ८३ अ० । जनपद एव स्वार्थे अण् । २ देशे च
मेदि० । जनपदादागतः जनपदे भवो वा अण् ।
जनपदादागते ३ करादौ “स यथा महाराजो जान-
पृष्ठ ३११३
पदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्त्तते” शत०
ब्रा० १४ । ५ । १ । २० । ४ देशभवे च “देयं चौरहृतं द्रव्यं
राज्ञा जानपदाय तु” याज्ञ० । ५ वृत्तौ स्त्री ङीष्
जानपदी अन्यत्र ङीप् । स्वरे भेदः । नियमपक्षे टाप्
इति भेदः । वरणा० बहुत्वे अणी लुक् । जनपदाः ।

जानश्रुतेय पु० जनश्रुतेः ऋषेरपत्यम् “इतश्चानिञः” पा०

ढक् । जनश्रुतेरपत्ये औपविनामके राजर्षिभेदे “औपविनैव
जानश्रुतेयेन प्रत्यवरोढम्” शत०ब्रा० ५ । ५ । १ । १ । ५ ।

जानायन पुंस्त्री जनस्य तन्नामकर्षे र्गोत्रापत्यम् अश्वा० फञ् ।

जननामकर्षेर्गोत्रापत्ये ।

जानु न० जन--ञुण् । ऊरुजङ्घयोर्मध्यभागे (आंटु) स्वार्थे

क अत्रैवार्थे अमरः । “निगृह्य पारीमुभयेन जानुनोः”
माघः । “ऊरू अरत्नीं जानुनीं विशोमेऽङ्गानि सर्वतः”
यजु० २७८ “जानुकपिच्छे चतुरङ्गुले च” वृ० स० ५८ अ०

जानुकारक पु० रविपार्श्वगभेदे शब्दार्थचि० ।

जानुजङ्घ पु० नृपभेदे । “अनरण्यो नरपतिर्जानुजङ्घस्तथैव

च” भा० अनु० १६५ अ० ।

जानुप्रहृतिक न० जानुना प्रहृतं प्रहारस्तेन निर्वृत्तम्

अक्षद्यूता० ठक् । जानुप्रहारनिर्वृत्ते मल्लयुद्धभेदे ।

जानुविजानु न० खङ्गयुद्धप्रकारभेदे तत्प्रकाराश्च द्वात्रिंशत्

हरिवं० ३१६ दर्शिता यथा
तत्र तावसिना युद्धं चक्रतुर्युद्धलालसौ । भ्रान्तमुद्-
भ्रान्तमाविद्धं प्रविद्धं बहुनिःसृतम् । आकरं विकरं
भिन्नं निर्म्मर्य्यादममानुषम् । सङ्कुचितं कुलचितं सव्यं
जानुविजानु च । आहितं चित्रकं क्षिप्तं कुद्रवं लवणं
घृतम् । सर्वबाहुर्विनिर्बाहुः सव्येतरमथोत्तरम् । त्रि-
बाहूत्तुङ्गबाहु च सव्योन्नतमुदासि च । पृष्ठतः प्रथित-
ञ्चैव यौधिकं प्रथितं तथा । इति प्रकारान् द्वात्र्ंशच्च-
क्रतुः खङ्गयोधिनौ” ।

जानुहित त्रि० जनैः हितं परिकल्पितम् पृषो० । जनपरि-

कल्पिते । “एतद्धि वा अस्य जानुहितं प्रज्ञातमवसानं
यच्चतुष्पथम्” शत० ब्रा० २ । ६ । २ । ७ । “जानुहितं जनैः
परिकल्पितम्” भा० ।

जान्य पु० ऋषिभेदे । गार्ग्यः पृथुस्तथैवाग्रे जान्यो वामन एव च” हरिवं २६ अ० ।

जाप पु० जप--घञ् । जपे मन्त्रोच्चारणे कर्म्मण्युपपदे अण् ।

मन्द्रजापादयः मन्त्रादिजपकर्त्तरि त्रि० ।

जापन न० । चु० जप--भावे ल्युट् । १ निरसने २ निवर्त्तने च धरणिः ।

जाबाल पु० जबालाया अपत्यम् अण् । सत्यकामे ऋषिभेदे

जबालशब्दे उदा० । तेन दृष्ट साम अण् । २ सामवेदीये
उपनिषद्भेदे च उपनिषच्छब्दे १२२२ पृ० दृश्यम् ।
एतस्मिन् परे कर्मधारये महच्छब्दस्य प्रकृतिस्वरः महाजा-
बालः । महच्छब्दश्चान्तोदात्तः । तदीयस्वर एव न समासस्वरः ।

जाबालि पु० जवालस्यापत्यम् इञ् । ऋषिभेदे स च

उपस्मृतिकर्त्ता । जातूकर्णशब्दे प्रमाणं दृश्यम् ।

जामदग्न्य पु० जमदग्नेरपत्यम् गर्गा० यञ् । जमदग्ने

ऋषेरपत्ये परशुरामादौ । “तेजोभिर्गतवीर्य्यत्वात्
जामदग्न्यो जड़ीकृतः” रामा० बा० ७७ । १२ । कण्वा०
ततोऽण् यलोपः । जामदग्न तच्छात्रे ।

जामदग्नेय पु० जमदग्नेरपत्यं प्रत्ययविधौ तदन्तग्रहणस्य

प्रतिषेधेऽपि आर्षत्वात् “अग्निकलिभ्याम्” पा० ढक् ।
परशुरामे “भार्गवं जामदग्नेयं राजा राजविमर्द्देनम्”
रामा० बा० ७४ अ० ।

जामल ग० आगमशास्त्रभेदे । तस्य वर्ग्यादित्वमपि रुद्रजामले दृश्यम् ।

जामा स्त्री जम--अदने बा० अण् स्त्रीत्वम् । दुहितरि ।

“अन्यत्र जामया सार्द्धं प्रजानां पुत्र ईहते । दुहिता-
न्यत्र जातेन पुत्रेणापि विशिष्यते” भा० अनु० ४५ अ० ।
“जामया कन्यया स्वार्ङ्गं पुत्रः पित्र्यं धनमीहते”
इत्यर्थः नीलक० ।

जामातृ पु० जायां माति मिनोति मिमीते वा निपा० । १

दुहितृपतौ, अमरः । २ सूर्य्यावर्त्ते, स्वामिनि च मेदि०
उणादिषु निपातनसिद्धत्वेन तृणन्तत्वामावात् सर्वनाम-
स्थाने परे न वृद्धिः । जामातरौ जामातरः इत्यादिः
“ऋत्विक्स्वस्रियजामातृयाज्यश्वशुरमातुलाः” याज्ञ० ।
“विष्णुं जामातरं मन्ये” ।

जामि(मी) स्त्री जम--इन् नि० वृद्धिः । १ भगिन्यां २

कुलस्त्रियां, अमरः ३ दुहितरि, ४ स्नुषायां, ५ सन्निहितसपि-
ण्डस्त्रियाम्, शब्दार्थचि, “जामयो यानि गेहानि
शपन्त्यप्रतिपूजिताः” “शोचन्ति जामयो यत्र विनश्यन्त्याशु
तत्कुलम् । शोचन्ति तु न यत्रैता बर्द्धते तद्धि सर्वदेति”
मनुः । “ग्रहपतिसंवर्द्धनीयसन्निहितसपिण्डस्त्रियो
जामय इति” कुल्लू० वा ङीप् । तत्रार्थे शब्दर० ।
“मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्य्यया ।
दुहित्रा दासबर्गेण विवादं न समाचरेत्” भा० शा०
२४३ अ० । स्त्री ब० व० । ६ उदके ७ अङ्गुलौ निघण्टुः ।

जा(या)मित्र न० “जा(या)मित्रं सप्तमं स्थानम्” ज्योतिष-

परिभाषिते लग्नात् सप्तमे स्थाने । “तिथौ च जा(या)
मित्रगुणान्वितायाम्” कुमा० । उपचारात् तिथेस्तत्साहित्यम्
पृष्ठ ३११४

जा(या)मित्रवेध पापात् सप्तमस्थानस्थचन्द्ररूपे योगभेदे ।

उपयमशब्दे दृश्यम् । “मूलत्रिकोणनिजमन्दिरगोऽथ
पूर्णो मित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा जा(या)-
मित्रवेवविहितानपहृत्य दोषान् दोषाकरः शुभमनेकविधं
विधत्ते” ज्यो० त० ।

जामिवत् ब० उदके निघण्टुः जामीत्यत्र पाठान्तरम् ।

जामेय त्रि० जाम्या भगिन्या अपत्यम् ढक् । भागिनेये हेम० ।

जाम्बव न० जम्ब्वाः फलं अण् तस्य वा न लुप् । जम्ब्वाः

फले जाम्बवेन निर्वृत्तम् अरीहणा० वुञ् । जाम्बवक
तन्निर्वृत्ते त्रि० ।

जाम्बवत् पु० रामायणप्रसिद्धे ऋक्षराजभेदे । तस्यापत्यं

स्त्री अण् ङीप् । २ तद्दुहितरि श्रीकृष्णपत्नीभेदे “वासुदे-
वस्तु निर्जित्य जाम्बवन्तं महावलम् । लेभे जाम्बवतीं
कन्यामृक्षराजस्य सम्मताम्” हरिवं० ३९ अ० “जाम्बव-
न्नीलसहितं चारुसद्भावमब्रवीत्” भट्टिः ।
“ऋक्षराजस्य पुत्रोऽत्र महाप्रज्ञः सुदुर्जयः । पिता-
महसुतश्चापि जाम्बवानिति दुर्जयः” रामा० । जाम्बवं
तदाकारोऽस्त्यस्याः मतुप् मस्य वः पृषो० वलोपः ङीप् ।
३ नागदमन्यां स्त्री राजनि० ।

जाम्बवी स्त्री जाम्बवं तदाकारोऽस्त्यस्याः अण् ङीप् । नागदमन्याम् राजनि० ।

जाम्बवौष्ठ न० जाम्बवमिव ओष्ठोऽस्य । सुश्रुतोक्ते ब्रणादि-

दहनोपकरणभेदे “अथेमानि दहनोपकरणानि
तद्यथा पिप्पल्यजाशकृदुगोदन्तशरशलकाजाम्बवौष्ठेतर-
लोहा, क्षौद्रगुड़स्रेहाश्च । तत्र पिप्पल्यजाशकृद्
गोदन्तशरशलाकास्त्वग्गतानाम् । जाम्बवौष्ठेतरलोहानि
मांसगतानाम् । जम्ब्वोष्ठमप्यत्र “जम्ब्वोष्ठेनाग्निवर्णेन
तप्तया वा शलाकया” “जम्वोष्ठेनाग्निवर्णेन पश्चा-
च्छेद्यं दहेदु भिषक्” सुश्रु० ।

जाम्बीर(ल) न० जम्बीरस्य फलं अण् वेदे रस्य वा लः ।

१ जम्बीरफले तदाकारे २ जानुमध्यभागे च । “जाम्बीले-
नारण्यम्” यजु० २५ । ३ । “जाम्बीरं जम्वीरतरो, फलं
रलयोरभेदः । तदाकारेण जानुमध्यभागो जाम्बील-
स्तेनारण्यदेवं प्रीणामीति” वेददी० ।

जाम्बुवत् पु० जाम्बवत् + पृषो० । ऋक्षराजे द्विरूपको० ।

जाम्बूनद न० जम्बूनद्यां भवम् अण् । १ स्वर्णे तन्नामनामके

२ कनकाह्वये धूस्तुरे च राजनि० ।
जम्बूनद्यां तदुत्पत्तिकथा जम्बूद्वीपशब्दे ३०४५ पृ०
भाग० व दृश्यम् । “दक्षिणेन तु नीलस्य निषध-
स्योत्तरेण तु । सुदर्शनो नाम महान् जम्बूवृक्षः
सनातनः । सर्वकामफलः पुण्यः सिद्धचारणसेवितः । तस्य
नाम्ना ससाख्यातो जम्बूद्वीपः सनातनः । योजनानां
सहस्रञ्च शतञ्च भरतर्षभ! । उत्सेधो वृक्षराजस्तु
दिवस्पृक् मनुजेश्वर! । अरत्नीनां सहस्रञ्च शतानि दश
पञ्च च । परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ।
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् । मुञ्चन्ति च
रसं राजन्! तस्मिन्रजतसन्निभम् । तस्या जम्ब्वाः
फलरसो नदी भूत्वा जनाधिप! । मेरुं प्रदक्षिणं कृत्वा
सम्प्रयात्युत्तरान् कुरून् । तत्र तेषां मनः शान्तिर्न
पिपासा जनाधिप! । तस्मिन् फलरसे पीते न जरा बाधते
च तान् । तत्र जाम्बूनदं नाम कनकं देवभूषणम्” भा०
भी० ७ अ० । “दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै-
र्विनीदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः” माघः “यदिदं
निर्गतं तस्यास्तप्तजाम्बूनदप्रभम् । काञ्चनं धरणीं प्राप्तं
हिरण्यमभवत्तदा” रामा० बा० ३८ अ० ।

जाम्बूनदेश्वरी स्त्री १ देवीभेदे २ तदीयस्थाने च शब्दार्थचि०

जायक न० जयति गन्धान्तरं जि--ण्वुल् । पीतवर्णे

सुगन्धिकाष्ठरूपे गन्धद्रव्यभेदे अमरः ।

जाया स्त्री जायतेऽस्यां जनेर्यक् आत्वञ्च । १ पत्न्यां विधिनो-

ढ़ायाम् अमरः । “पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेह
जायते । जायायास्तद्धि जायात्वं यद्यस्यां जायते पुनः”
मनुः “पतिः शुक्ररूपेण भार्य्यां संप्रविश्य गर्भतामापद्य
तस्यां भार्य्यायां पुत्ररूपेण जायते । तथा च श्रुतिः
“आत्मा वै पुत्रनामासीति । जायायास्तदेव जायात्वं
यतोऽस्यां पतिः पुनर्जायते । तथाच बह्वृच ब्राह्मणम्,
“पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम् । तस्यां
पुनर्नवो भूत्वा दशमे मासि जायते । तज्जाया
भवति यदस्यां जायते पुनः । ततश्चासौ रक्षणीयेत्येत-
दर्थं नाम निर्वचनम्” कुल्लू० । “अथ प्रजानामधिपः
प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्” रघु । “कः सन्नद्धे
विरहविधुरां त्वय्युपेक्षेत जायाम्” मेघः । २ ज्योति-
षोक्ते लग्नावधिकसप्तमस्थाने । तत्र स्थाने जायायाः
शुभाशुभचिन्तनीयत्वात् तथात्वम् । बहुब्री० जायाशब्दस्य
निङ् । युवती जायास्य युवजानिः “युवजानिर्धनुष्पाणिः”
भट्टिः । पतिशब्देन द्वन्द्वे तस्याः जम् दम वा भवति ।
जम्पती दम्पती वा पक्षे जायापती ।
पृष्ठ ३११५

जायाघ्न पु० जायां हन्ति “लक्षणे जायापत्योष्टक्” पा० लक्षण-

वनि हन--टक् । जायाहननसूचकलक्षणयुक्ते भर्त्तरि ।
“अमनुष्यकर्त्तृके च” पा०टक् । २ तिलकालके सि० कौ० ।
तस्य जायाहननसूचकत्वात् तथात्वम् । एवं ज्यतिषोक्ते
३ योगभेदे च “यावन्तः यापस्वेटामदनसदनगास्तावकोनां
विरामः” इत्युक्तयोगस्य जायानाशसूचकत्वात् तथात्वम् ।

जायाजीव पु० जायया तन्नर्त्तनवृत्त्या जीवति--अच् । नटे

अमरः ।

जायानजीविन् पु० जायया अनुजीवति अनु + जीव--णिनि । १ नटे २ वकखगे च मेदि० ।

जायिन् त्रि० जै--णिनि । १ जययुक्ते “अफलं जन्म तस्याहं

मन्ये दुर्जातजायिनः” भा० व० ३५ अ० “जायीतिनाम्ना
ध्रुवको द्वाविंशत्यक्षरान्वितः । सन्निपातेन तालेन शृङ्गा-
रेऽभीष्टदो रसे” सङ्गीतदा० उक्ते २ ध्रुवकभेदे पु० । तत्र
जायीति पाठान्तरम् । शीलार्थे तु इनि जयीत्येव ।

जायु पु० जयति रोगान् जि--उण् । औषधे अमरः । २

जयशीले त्रि० । “मखाश्रमितो जायवोरणे” १ । ११९ । ३ ।
“वनेषु जायुर्मर्त्तेषु” ऋ०--१ । ६७ । १ ।

जाये(या)न्य पु० जि--बा० ए (आ) न्यण् । जयशीले । “यो

हरिमा जायान्योऽङ्गभेदो विशल्यकः” अथ० १९ । ४४ । २ ।
तैत्तिरीये तु जायेन्य इति पाठः ।

जार पु० जीर्य्यत्यनेन जॄ--करणे घञ् । १ उपपतौ अमरः ।

“शूद्रो यदर्य्यायै जारी न पोषमनुमन्यते” यजु० २३ । ३१ ।
“जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम्” याज्ञ० ।
वा० कर्त्तरि घञ् । २ जारके च । “स्वसारं जारो
अभ्येति पश्चात्” ऋ० १० । ३ । ३ । “जारोजरयिता” भा० ।

जारज पुंस्त्री जारात् उपपतेर्जायते जन--ड । अनियुक्तायां

स्त्रियां १ उपपतिजाते (वेजन्मा) पुत्रे २ तथाभूतकन्यायां
स्त्री “अमृते जारजः कुण्डः मृते भर्त्तरि गोलकः”
अमरः । जन--क्त ५ त० । जारजातादयोऽप्यत्र । “अनि-
युक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् । उभौ तौ नार्हतो
भागं जारजातककामजौ” मनुः ।

जारजयोग पु० जारजस्य सूचको योगः । ज्योतिषोक्ते

योगभेदे । “न लग्नमिन्दुञ्च गुरुर्निरोक्षते न वा शशाङ्कं
रविणा समायुतम् । सपापकोऽर्केण युतोऽथवा शशी
परेण जातं प्रवदन्ति निश्चयात् । भग्नपादर्क्षसंयोगात्
द्वितीया द्वादशी यदि । सप्तमो चार्कर्मन्दारे जायते
जारजो ध्रुवम्” । अन्योऽपि योगः वृहज्जातकोक्तः
जातकशब्दे ३०८६ पृ० दृश्यः ।

जारण पु० जारयति जृ--णि--ल्यु । जारके १ द्रव्यभेदे ।

जार्य्यतेऽनेन जॄ--णिच् करणे ल्युट् । २ जारणसाधने
द्रव्यभेदे । कर्त्तरि ल्यु । ३ जीरके स्मी ङीप् राजनि० ।
भावे--ल्युट् । ४ जीर्णतासम्पादने न० ।

जारतिनेय पु० स्त्री जरत्या अपत्यम् ढक् कल्याण्या० इनङ् ।

१ जरत्या अपत्ये । जरतिनोऽपत्यं शुभ्रा० ढक् । २ जरति-
नोऽपत्ये च ।

जारभर पु० जारं बिभर्त्ति पोवयति भृ--पचा० अच् । जारपीषके ।

जारित त्रि० जॄ--णिच्--क्त । १ शोधिते २ मारिते धात्वादौ ।

जारी स्त्री जृ--णिच्--अच् गौरा० ङीष् । (जाड़ी) ख्याते

औषधभेदे मेदि० ।

जारु पु० जृ--उण् । १ जरायौ । “वीजानीतराणि

चेतराश्चि चाण्डजानि च जारुजानि च स्वेदजानि च
चोद्मिज्जानि” ऐत० उ० । “जारुजानि जरायुजानि
मनुष्यादीनि” भाष्यम् । २ जारके त्रि० ।

जारुधि पु० जारुर्जारको द्रव्यभेदो धीयतेऽस्मुइन् धा--आधारे

कि उप० स० । सुमेरोः कर्णिकाकेशरभूते पर्वतभेदे । “कुरङ्ग
कुरर कुतुम्भ वैकङ्क त्रिकुट शिखर पतङ्ग रुचक निषध-
शितिवास कपिल शङ्ख वैदूर्य जारुधि हंसर्षभ
नागकालञ्जर नीरदादयो गिरयो मेरोः कर्णिकाया इव
केशरभूता मूलदेशे परित उपकॢप्ताः” भाग० ५ । १६ । २२ ।

जारूथी स्त्री जरूथेन अमुरविशेषेण निर्वृत्ता अण् ङीप् ।

नगरीभेदे “जारूथ्यामाहुतिः क्राथः शिशुपालोजनैः सह”
भा० व० २२ अ० । “जारूथ्यां नगर्य्याम्” नीलक० “जारूथ्या-
माहुतिः क्राधः शिशुपालश्च गिर्जितः” हरिवं० १६ अ० ।

जारूथ्य त्रि० जरूथं मांसं स्तोत्रं वा तदर्हति ञ्य । १ मांस-

दानपुष्टे २ स्तोत्रार्हे च “दशाश्वमेधानाजह्रे जारूथ्यान्
स निरर्गलान्” भा० व० १९ अ० । “जारूथ्यान्त्रिघुणदक्षिणा
नित्यर्जुनमिश्रः” तच्चिन्त्यं जॄवॄभ्यामूथन्नित्यूणादिसूत्रे
ऊथनि जरूथं भांसमिति शाब्दिकाः तथा च मांसमयान्
मांसादिदानप्रधानान् पुष्टानित्यर्थः । जरूथोऽसुरबिशेषः
इति वेदभाष्यम् । अत्र जरतेः स्तुत्यर्थस्य शब्दसारूप्यादर्था
विरोधाच्च जरूथं स्तोत्रमुच्यत इति जारूथ्यान् स्तोत्रा-
र्हानित्यर्थः” गीलक० । जारूत्थशब्दकल्पनं प्रामा-
दिकमेव ।

जाल पु० न० जल--घाते ज्वला० णु चु० जल--संवरणे कर्त्तरि

अच् बा । १ शणसूत्रनिर्मिते स्वनागख्याते पदार्थे अमरः
“अभ्याययुश्च तं देशं निश्चिता जालकर्भणि । जालं ते
पृष्ठ ३११६
योजयामासुर्निःशेषेण जनाधिप!” मा० अनु० ५० अ० ।
२ गवाक्षे ३ समूहे च अस्फुटफलादौ ४ क्षारके (जालि) ।
५ दम्मे मेदि० गवाक्षो गवाक्षच्छिद्रं तत्र “गवाक्षजालै
रभिनिष्पतन्त्यः” भट्टिः सम्हे “नीहारजालमलिनः
पुनरुक्तस न्द्राः” “करजालमस्तसमयोऽपि सताम्” माघः
“गवाक्षसौधजालपतितां रविभासः” किरा० ६ इन्द्रजाले
हेम० । ७ कदम्बवृक्षे पु० मेदिनिः ।

जालक पु० जालमिव कायति कै--क । १ गवाक्षे हेमच० ।

स्वार्थे क । २ जालशब्दार्थे । “मक्षिकाः मशकान् केशान्
जालकानिव पंश्यति” सुश्रु० ३ क्षारके पु० स्त्री स्त्रियां
ङीप् शब्दार्थचि० । ४ जालतुल्ये मेषलोम्नि च ।

जालकारक पु० कृ--ण्वुल् ६ त० । जालस्य मक्षिकादिपात-

नाय जालाकारस्य कारके--मकेटे (माकड़सा) हेमच०
शाट्येन कृत्रमस्य २ कर्त्तरि त्रि० । शाठ्येन कृतपदार्थस्य
स्वरूपाच्छ दकत्वेन जालतुल्यकरणात्तस्य तथा त्वम् ।

जालकि पु० त्रिगर्तषष्ठान्तर्गते आयुधजीविभेदे । “आहु-

स्त्रिगर्त्तषष्ठांस्तु कौण्डोपरथदाण्डिकिः । क्रोष्टुकिर्जाल-
मालिश्च ब्रह्मगुप्तोऽथ जालकिः” । सि० कौ० ततः स्वार्थे
छ । जालकीय तदर्थ । बहुषु लुक् । जालकय इत्येव ।

जालकिनी जालनिव का यति कै--क जालकं देहलोम-

तदस्त्यस्याः इनि ङीप् । १ मेष्यां त्रिका० २ मेघे पु० ।

जालकीट पु० जाले पतितः कीटोऽस्य । मर्कटे लूतायां

(माकड़सा) तदीयजाले मशकादीनां पतनात्तस्य
तथात्वम् । जालकीटे भवः पलद्या० अण् । २ तद्भवे त्रि० ।

जालक्षीर्य्य न० जाले जालके क्षीरं तत्र साधु यत् । क्षीर-

विषे वृक्षनेदे । स्थावरविषोपक्रमे “कुमुदव्नी स्नुही
जालक्षीर्य्याणि त्रोणि क्षीरपिष णि” सुश्रुतः ।

जालगर्द्दभ पु० क्षुदरोगभेदे । क्षुद्ररीगशब्दे ३३८० पृ० दृश्यम् ।

जालगोणिका जालमिव गोणी यत्र कप् ह्रस्वः । दधिम ।

न्थनभाण्डे त्रिका०

जालन्धर पु० दैत्यभेदे “पुरा जालन्धरं दैत्यं ममापि

परिकम्पनम् । पादाङ्गुष्ठस्य रेखातश्चक्रं सृष्ट्वा हरोऽहरत् ।
तच्च चक्रं मया लब्ध्वं नेत्रपद्मार्चनात् विभोः ।
सुदर्शनाख्यं वैचक्रं देयचक्रविमर्द्दनम्” काशी० २१ अ०
ध्रुवं प्रति विष्णोरुक्तिः । २ त्रिगर्त्तशे पु० तद्देशस्य तेन
कृतत्वात् तथात्वम् । सोऽभिजनोऽस्य अण् । पित्रादिपर-
म्परया ३ तद्देशवासिनि । बहुषु तस्यालुक् । ४ ऋषिभेदे पु०
ततः सडा० गात्रापत्ये फक् । जालन्धारायण तद्गोत्रा-
पत्ये पुंस्त्री० । जालन्धरायणस्य विषयो देशः राजन्या०
युञ् । जालन्धरायणक तस्य परिशीलिते देशे पु० ।

जालपाद पु० जालमिव पादोऽस्य हस्त्यादि० नान्त्यलोपः ।

१ हंसे । “जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ”
(नरनारायणौ) भा० शा० ३१४५ अ० । “प्रतुदान्
जालपादांश्च कोयष्टिनखविष्किरान्” मनुः “जाल-
पादान् खञ्जरीटानज्ञातांश्च मृगद्विजान्” याज्ञ० तन्मा-
सभक्षणं निषद्धवान् । स्त्रियां कुम्भपद्या० अन्त्यलोपे
ङीप् पादः पच्च । जालपदी हंस्याम् वरणादिगणं
जानपदीत्यत्र जालपदीति पाठान्तरे जालपद्या अदूरभवो देशः
वरणा० अण् । जालपद तस्या अदूरभवदेशे त्रि० । पृषो-
अन्त्य लोपः । जालपाद् हंसे त्रिका० ।

जालप्राया स्त्री जालस्य प्रायो बाहुल्यं यस्याम् ।

लोहमयाङ्गरक्षिष्ठां (साजोया) हेमच० ।

जालमालि पु० आयुवजीविगेदे । ततः स्वार्थे छ । तदर्थे

जालकिशच्दे दृश्यम् ।

जालवर्वुरक पु० जालाकारो वर्वुरकः । (काँटावावला)

वृक्षभेदे । “जालवर्युरको रूक्षो वातरोगकफापहः ।
पित्तद हकरश्चोष्णः कषायश्च प्रकीर्त्तितः” राजनि० ।

जालसरस न० नित्यक० अच् समा० । सरोवरभेदे ।

जालह्नद त्रि० जलप्रचुरो ह्रदः तत्र भवः तस्येदं वा शिवा०

अण् । १ जल चुह्रदभवे २ तत्सस्वन्धिनि च स्त्रियां ङीप् ।

जालाक्ष पु० जालमिवाक्षिषच् समा० । गवाक्षे “हेमजाला-

क्षनिर्गच्छद्धूमेनागुरुगन्धिना” भाग० ८ । १५१९ ।

जालाप्र न० भेषजभेदे “जालाषेणाभिषिञ्चत जालाषेणोपसि-

ञ्चत । जालाषमुग्रं भेषजं तेन नो मृड़ जीवथ” अथ०
६ । ५ । ७ । २ ।

जालिक पु० जालेन चरति पर्पा० ष्टन् । जालेन जीवति

वेतना० ठञ् वा । १ जालजीविनि जालेन २ चारिणि वा
३ कैवर्त्ते त्रिका० ४ मर्कटे हेमच० । ५ जालजीविनि
वागुरिके मृगवन्धनार्थं जालपातिनि मृगयुभेद अमरः ।
ष्ठनि स्त्रियां ङीष् इति भेदः । जालमस्त्यस० ठत ।
६ जालोपजाविनि ग्रामजालिनि च त्रि० हेमच० ।

जालिका स्त्री जाल + अस्त्यर्थे ठन् । १ वस्त्रभेदे स्त्रीणां

सुखावरणवस्त्रे २ गिरिसारे ३ जलाकायां ४ विधवायां
योधानामश्मरचिताङ्गरक्षण्यां (साजोया) च मेदि० ।
(जालि) ५ क्षारके शब्दार्थ० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/जलाष&oldid=57755" इत्यस्माद् प्रतिप्राप्तम्