वाचस्पत्यम्/चातुर

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २९१०

चातुर त्रि० चतुर एव स्वार्थे अण् । १ चतुरे २ नियन्तरि

३ नेत्रगोचरे मेदि० । चतुर्भिरुह्यते शैषकोऽण् ।
“चतुश्चक्रयुक्ते २ शकटे न० सि० कौ०

चातुरक्ष न० चतुर्भिरक्षैर्निष्पाद्यते अण् । १ क्रीड़ाभेदे

२ उपधानभेदे (गालवालिश) पु० मेदि० ।

चातुरर्थिक पु० चतुर्षु अर्थेषु विहितः ठक् ।

“तदस्मिन्नस्तीति देशे तन्नाम्नि” ०४ । २ । ६७ । “तेन निर्वृत्तम्”
६८ । “तस्य निवासः” ६९ । “अदूरभवश्च” ७० पा०
सूत्रचतुष्कोक्तार्थेषु विहिते प्रत्ययभेदे । “जनपदे लुप्”
पा० । जनपदे वाच्ये चातुरर्थिकस्य लुप् स्यात्”
सि० कौ० ।

चातुराश्रमिक त्रि० चतुर्षु आश्रमेषु विहितः ठक् ।

ब्रह्मचर्य्याद्याश्रमविहिते धर्मे । “चातुर्बिद्यं यथावर्णं
चातुराश्रमिकान् परम् । तानहं संप्रवक्ष्यामि शाश्वतान्
लोकभावनान्” भा० आ० ३५ अ० ।

चातुराश्रम्य न० चत्वार आश्रमाः संज्ञात्वात् कर्म्म० ततः

व्राह्मणा० स्वार्थे ष्यञ् । ब्रह्मचारिगृहस्थवानप्रस्थ-
भिक्षुकरूपेषु आश्रमेषु “चातुर्विद्यं चातुर्होत्रं चातु-
राश्रम्यमेव च” भा० शा० ४६ अ० ।

चातुरिक पु० चातुरीं वेत्ति ठक् । सारथौ जटाधरः ।

चातुरी स्त्री चतुरस्य भावः ष्यञ् षित्त्वात् ङीष्यलोपौ ।

चतुरतायां “तद्भटचातुरीतुरी” नैष०

चातुर्जातक न० चतुर्जातकएव स्वार्थेऽण् । गुडत्वगेला

नागकेशररूपे गन्धचतुष्टये राजनि० ।

चातुर्द्दश न० चतुर्द्दश्यां दृश्यते शैषिकोऽण् । १ रक्षसि

सि० कौ० । चतुर्द्दश्यां भवः सन्धिवेला० अण् । २
चतुर्द्दशीभवे त्रि०

चातुर्द्दशिक पु० चतुर्द्दश्याम् अनध्यायेऽधीते ठक् ।

चतुर्द्दश्यामध्येतरि । “शिष्यं हन्ति चतुर्द्दशी” मनुना
तस्या अनध्यायतोक्तेस्तथात्वम् ।

चातुर्भद्र न० चतुर्भद्रमेव स्वार्थे अण् । नागरातिविषा-

मुस्तागुडूचीरूपे द्रव्यचतुष्टये राजनि० ।

चातु(र्थ)र्थिक पु० चतुर्थे चत्वर्थेऽह्नि भवः ठक् वुञ् वा ।

चतुर्थचतुर्थदिनजाते ज्वरभेदे “चातुर्थ(र्थ)कोज्वरोरुद्रो
ह्यन्ये चैव ज्वरास्ततः । जम्बूफलं हरिद्रा च सर्प-
स्यैव च कञ्चुकम् । सर्व्वज्वराणां धूपोऽयं
हरश्चातुर्थ(र्थि)कस्य च” गारुड़े १८७ अ० ।

चातुर्वर्ण्य न० चत्वारो वर्ण्णाएव चतुर्वर्णा० स्वार्थे ष्यञ् ।

ब्राह्मणादिषु चतुर्षु वर्णेषु “चातुर्वर्ण्यं मया सृष्टं
गुणकर्मविभागशः गीता ।

चातुर्भद्रावलेह पु० चतुर्भिर्भद्रैर्निर्वृत्तः अण् कर्म्म० ।

“कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह ।
कासश्वासज्वरहरः श्रेष्ठो लेहः कफान्तकृत् “चक्रद-
त्तोक्ते अवलेहभेदे ।

चातुर्भौतिक त्रि० चतुर्भिः पृथिव्यप्तेजोवायुभिर्निर्वृत्तः

ठक् अनुश० द्विपदवृद्धिः । चतुर्भिर्भूतै र्निष्पादिते देहादौ
नैयायिकादिमते आकाशस्यारम्भकत्वाभावात् चार्वाक-
मते आकाशस्याभावात् भौतिकानां चतुर्भूतारब्धता ।
वेदान्त्यादिमते देहस्य पाञ्चभौतिकत्वमिति भेदः । यद्यपि
मनुष्यदेहस्य पार्थिवत्वं नैयायिकैरङ्गीकृतं तथापि
अन्यभूतानां तत्रोपष्टम्भकत्वात् चातुर्भौतिकत्वम् इति
विवेकः ।

चातुर्महाराजिक पु० चत्वारो महाराजिकाः स्वाकार

त्वेनास्त्यस्य प्रज्ञा० अण् । परमेश्वरे “महाराजिक
चातुर्महाराजिक” भा० शा० ३४० अ० नारदकृतविष्णु-
स्तुतौ । महाराजिकानां च चतुःसंख्यकगणदेवतात्वात्
तस्य तदात्मकत्वेन तथात्वम् ।

चातुर्मास त्रि० चतुर्षु मासेषु भवः असंज्ञायाम् अण् ।

चतुर्षु मासेषु भवे । २ इष्टौ ३ पौर्णमास्यां च स्त्री ङीप् ।
संज्ञायान्तु यज्ञे ण्यः । चातुर्मास्य इत्येव तच्छब्दे दृश्यम्

चातुर्मासिक त्रि० चतुरोमासान् व्याप्य ब्रह्मचर्य्यमस्य ठक् ।

चतुर्मासव्यापकब्रह्मचर्य्ययुक्ते कर्म्मणि । यज्ञे तु
“चतुर्मासान् ण्योयज्ञे” वार्त्ति० ण्य चातुर्मास्य इत्येव ।

चातुर्मास्य त्रि० चतुर्षु मासेषु भवोयज्ञः “चतुर्मासान्

ण्योयज्ञे” वार्ति० ण्य । चतुर्माससाध्ये यज्ञभेदे ।
चातुर्मास्ये च चत्वारि पर्व्वाणि वैश्वदेववरुणप्रघासशाक
मेषसुनाशीरीयसंज्ञानि । तत्कर्त्तव्यप्रयोगादि का० श्रौ०
५ अध्यायादौ दृश्यम् । तदारम्भकालश्च फाल्गुनीपूर्णि-
मोत्तरं प्रतिपदि तत्रोक्तः । २ वार्षिकचातुर्मासकर्त्तव्ये व्रते च
यथाह वराहपु० “आषाढ़शुक्लद्वादश्यां पौर्णमास्यामथापि
वा । चातुर्मास्यव्रतारम्भं कुर्य्यात् कर्कटसंक्रमे । अभावे
तु तुलार्केऽपि मन्त्रेण नियमं व्रती । कार्त्तिके शुक्ल
द्वादश्यां विधिवत् तत् समापयेत् । चतुर्द्धापि हि तच्चीर्ण
चातुर्मास्यं व्रतं नरः । कार्त्तिक्यां शुक्लपक्षे तु
द्वादश्यां तत्समापयेत्” । मात्स्ये “चतुरो वार्षिकान्
मासान् देवस्योत्थापनावधि । मधुस्वरोभवेन्नित्यं नरो गुड़
पृष्ठ २९११
विवर्जनात् । तैलस्य वर्जनादेव सुन्दराङ्गः प्रजायते ।
कटुतैलपरित्यागात् शत्रुनाशः प्रजायते । लभते सन्ततिं
दीघां स्थालीपाकमभक्षयन् । सदा मुनिः
सदायोगी मधुमांसस्य वर्जनात् । निराधिर्नीरुगोजस्वी
विष्णुभक्तश्च जायते । एकान्तरोपवासेन विष्णु
लोकमवाप्तुयात् । धारणान्नखलोम्नाञ्च गङ्कास्नानं दिने
दिने । ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते । घृत
त्यागात् सुलावण्यं सर्वस्निग्धवपुर्भवेत् । फलत्या-
गेन मतिमान् वहुपुत्रश्च जायते । नमोनारायणायेति
नत्वाऽन शनजं फलम् । पादाभिवन्दनाद्विष्णोर्लमेद्गो-
दानजं फलम् । एवमादिव्रतैः पार्थ! तुष्टिमायाति
केशवः । “अत्रैव यतिमधिकृत्य काठकगृह्यम् । “एकरात्रं
वसेत् ग्रामे नगरे पञ्चरात्रकम् । वर्षाभ्योऽन्यत्र बर्षासु
मासांश्च चतुरो वसेत्” । एतदशक्तविषयम् । “ऊर्द्धं
वार्षिकाभ्यां मासाभ्यां नैकस्थानबासी” इति शङ्खोक्तेः ।
“चातुर्मास्यगते या (द्वितीया) तु” ति० त० अनध्यायोक्तौ

चातुर्मास्यद्वितीया स्त्री “आषाढ़े फाल्गुनोर्जेषे या

द्वितीया विधुक्षये । चातुर्मास्यद्वितीयास्ताः प्रवदन्ति
महर्षयः” इति स्मृत्युक्ते आषाढादिद्बितीयाचतुष्के

चातुर्य्य न० चतुरस्य भावः ष्यञ् । चतुरतायां दक्षतायाम्

“चातुर्य्यमुद्धतमनोभवया रतेषु” सा० द० “संभोगस्नेह
चातुर्य्यैर्हाबलास्यमनोहरैः” भा० आ० ३९०५ ।

चातुर्वर्ण्य न० चत्वारो व्राह्मणादयोवर्णा एव स्वार्थे ष्यञ् ।

ब्राह्मणादिषु चतुर्षु १ वर्णेषु “चातुवर्ण्यं मया सृष्टमिति”
गीता । भावे--ष्यञ् । २ चतुर्वर्णधर्म्मे । वर्णभेदेन धर्म्म-
भेदाः शङ्खेन दर्शिताः यथा ।
“चातुर्वर्ण्यहितार्थाय शङ्खः शास्त्रमथाकरोत् । यजनं
याजनं दानं तथैवाध्यापनक्रियाम् । प्रतिग्रहञ्चाध्ययनं
विप्रः कर्माणि कारयेत् । दानमध्ययनञ्चैव यजनञ्च
यथाविधि । क्षत्रियस्य तु वैश्यस्य कर्मेदं परिकीर्त्तितम् ।
क्षत्रियस्य विशेषेण प्रजानां परिपालनम् । कृषिगोरक्ष
बाणिज्यं वैश्यस्य परिकीर्त्तितम् । शूद्रस्य द्विज-
शुश्रूषा सर्व्वशिल्पानि चाप्यथ । क्षमा सत्यं दमः
शौचं सर्व्वेषामविशेषतः । ब्राह्मणः क्षत्रियो वैश्य
स्त्रयोवर्णा द्विजातयः । तेषां जन्म द्वितीयन्तु
विज्ञेयं मौञ्जबन्धनम् । आचार्य्यस्तु पिता प्रोक्तः
सावित्री जननी तथा । ब्रह्मक्षत्रविशाञ्चैव मोञ्जी-
बन्धनजन्मनि । विप्राः शूद्रसमास्तावद्विज्ञेयास्तु विच-
क्षणैः । यावद्वेदे न जायन्ते द्विजाज्ञेया स्तु तत्परम्” ।
“ब्राह्मणः क्षत्रियोवैश्यः शूद्रश्चेति वर्णाश्चत्वारः ।
तेषामाद्याद्विजातयः । तेषां निषेकाद्यः श्मशानान्तो
मन्त्रवत् क्रियासमूहः । तेषाञ्च धर्माः, ब्राह्मणस्याध्यापनं
क्षत्रियस्य शस्त्रनिष्ठता वैश्यस्य पशुपालनं शूद्रस्य
द्विजातिशुश्रूषा । द्विजानां यजनाध्ययने । अथैतेषां
वृत्तयः ब्राह्मणस्य याजनप्रतिग्रहौ, क्षत्रियस्य क्षिति-
त्राणं, कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य,
शूद्रस्य सर्वशिल्पानि । आपद्यनन्तरा वृत्तिः” विष्णुस० ।

चातुर्होतृक पु० चतुर्होतृप्रतिपादकग्रन्थस्य व्याख्यानः

ऋदत्वात् ठक् । चतुर्होतृप्रतिपादकग्रन्थव्याख्याने ।
चतुर्होतृणां कर्म्म अण् । चातुर्होत्र चतुर्णां होतॄणां
कर्मणि । चतुर्होतृशब्दे उदा० ।

चातुष्टय पु० चतुष्टयं कलापसूत्रवृत्तिं वेत्ति अधीते वा अण् ।

“सूत्राच्च कोपधात्” पा० कोपधात् प्रत्ययस्य लुको-
विधानात् अस्य च कोपधत्वाभावात् न लुक् । चतुष्टय
वृत्त्यभिज्ञे

चातुष्प्राश्य न० चतुर्भिरध्वर्य्युब्रह्मादिभिरृत्विम्भिः प्राश्यम्

ततः स्वार्थेऽण् । चतुर्ण्णामृत्विजां भोजनपर्य्याप्ते
ओदने । “चातुष्पाश्यमोदनं पचन्ति” शत० व्रा० २ । १ । ४ । ४ ।
“दर्शपौर्ण्णमासानीजानोदक्षिणाग्निपक्वं चातुष्प्राश्यं
ब्राह्मणान् भोजयेत्” का० श्रौ० ४ । ६ । १० ।

चात्र न० चाय--करणे ष्ट्रन् । अग्निमन्थनयन्त्रावयवभेदे ।

अग्न्युद्धारशब्दे ६३ पृष्ठे दृश्यम् । तत्र च पृष्ठे चत्र-
मिति पाठः प्राचीनमुद्रितग्रन्थपाठानुसारेण प्रमादात्
मुद्रितः सर्व्वत्र चात्रमित्येव पाठः साधुः का० श्रौ०
४ । ८ । २६ सूत्रभाष्ये तत्स्वरूपादिकम् कर्क आह ।
“अग्रे पुरस्तात् प्रत्यङ्मुखे स्थिते मन्थनं कुर्य्यात् । तत्र
च प्रथममधरारणिमुत्तारग्रां निधाय उत्तरारण्या
ईशानदिग्भागादष्टाङ्गुलदीर्घं द्व्यङ्गुलविपुलं प्रमन्थं
छित्त्वा तस्य मूलं चात्रबुध्ने प्रवेश्य अधरारण्या मूला-
दष्टाङ्गुलं त्यक्त्वा अग्राच्च द्वादशाङ्गुलं त्यक्त्वा तदन्तराले
अङ्गुलचतुष्टयपरिमिते पूर्वारण्यन्ते मन्थानं कृत्वा
चात्रबुध्नप्रोतस्य प्रमन्थस्याग्रं तत्र निधाय चात्राग्र
कीलकाग्रस्योपर्य्युदगग्रामौवीलीं निधाय यन्त्रं
चारयित्वा चात्रं नेत्रेण प्रदक्षिणं त्रिर्वेष्टयित्वा तथा
मन्थनं कुर्यात् यथा जातोऽग्निः प्राच्यां पतति तत्र
यजमानः प्राङ्मुखो यन्त्रधारणं करोति पत्नी चात्र
पृष्ठ २९१२
नेत्रेण त्रिर्वेष्टयित्वा मन्थनं करोति तथा शाखान्तरादध्व-
र्युश्च तस्मादध्वर्य्युः प्रत्यङ्मुखोऽभिमन्थतीति” । चात्रं च
खादिरं द्वादशाङ्गुलदीर्घं वर्तुलम् अग्रेलोहकीलयुक्तम्
वुध्ने प्रमन्थाग्रप्रवयनार्थगर्तयुक्तम् मूलेऽखे च लोह
पट्टिकया संयुक्तं कार्यम्” । “औवीली च खादिरी
द्वादशाङ्गुलदीर्घा चतुरङ्गुलविपुलाधोभागे समा चात्राग्र-
स्थितकीलकोपरिस्थापनार्थलोहपट्टिकायुक्ता उपरि-
भागे वर्तुला च कार्या । नेत्रं च गोवालशणसूत्रै-
स्त्रिवृत् व्याममात्रं कार्यम् । केचित् प्रमन्थाग्रेण
मन्थन्ति, अपरे तु मूलेन”

चात्वाल पु० चत--वालञ् । १ यज्ञकुण्डे २ दर्भे ३ उत्ताने

४ उत्कटे च विश्वः ४ उत्तरवेद्यङ्गे मृत्स्तूपे ५ तत्कृतावटे
च “चात्वालोत्करावन्तरेण सञ्चरः” का० श्रौ० १ । ३: ४२ ।
“चात्वालश्च उत्करश्च चात्वालोत्करौ तौ अन्तरेण
तयोरन्तरालेन सर्वेषां विहितकार्यार्थं संचरः गमना-
गमनमार्गोभवति । अयं च सोत्तरवेदिकेषु वरुणप्रघा-
समहाहविःपशुसोमेषु ज्ञेयः चात्वालस्यैष्येव सत्त्वात्
सोत्तरवेदिकेषु सर्वेष्वनेनैव मार्गेण गमनागमने कार्ये” कर्कः ।
“तच्चात्वालं परिलिखति सा चात्वालस्य मात्रा नात्र
मात्रास्ति यत्रैव स्वयं मनसा मन्येताग्रेणोत्करं तच्चात्वालं
परिलिखेत्” शत० ब्रा० ३ । ५ । १ । २६ । “सा चात्वालस्य
मात्रा यैवोत्तरवेदैरुक्ता सैवेत्यर्थः चात्वालखननोत्पन्न-
यैव मृदोत्तरवेदिकरणात्” भा० ।
“चात्वालं चात्वालवत्सु” आश्व० श्रौ० १ । १ । ६ । “चात्वा-
लोनामावटः पशुसोमादिष्वस्ति येषु उत्तरवेद्यर्थं यत्र
मृत् खात्वाह्रियते तद्वत्सु” ना० रा० उक्तेः उत्तरा-
वेद्यर्थमृदाहरणजातावटएव चात्वाल इति गम्यते ।

चानराट न० चनराटस्येदम् अण् । चनराटनृपस्याख्याने

तस्मिन्शब्दे परे दिक्शब्दा अन्तोदान्ताः । “पूर्व्वचा-
नराटम्” सि० कौ० ।

चान्दनिक त्रि० चन्दनेन सम्पद्यते ठक् । चन्दनेन कृतशोभे

“वपुश्चान्दनिकं यस्य कार्णवेष्टनिकं मुखम्” भट्टिः ।

चान्द्र त्रि० चन्द्रस्येदम् अण् । १ चन्द्रसम्बन्धिनि दिनमासादौ

२ तन्माने च । “अर्काद्विनिः सृतः प्राचीं यद्यात्यहरहः
शशो । तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः”
सू० सि०
“सूर्यात् समागमं त्यक्त्वा विनिसृतः पृथग्भूतः संश्चन्द्रो-
ऽहरहः प्रतिदिनं यत् यत्मङ्ख्यामितं प्राचीं पूर्वां
दिशं गच्छति तत् प्रतिदिनं चान्द्रमानं तत्तु गत्यन्तरां-
शमितम् । ननु सौरदिनं सूर्य्यांशेन यथा भवति
तथैतद्रूपैर्भागैः कियद्भिः पूर्णं चान्द्रं दिनं भवतीत्यत आह ।
अंशैरिति । भागैस्तुकारात् सूर्य्यचन्द्रान्तरोत्पन्नैस्तस्य
तद्रूपत्वात् । द्वादशभिर्द्वादशसङ्ख्याकैस्तिथिर्ज्ञेया । एकं
चान्द्रदिनं ज्ञेयमित्यर्थः । एतदुक्तं भवति सूर्य्यचन्द्र-
योगाच्चान्द्रदिनप्रवृत्तेः पुनर्योगे माससमाप्तेर्भगणान्तरेण
चान्द्रो मासस्त्रिंशच्चान्द्रदिनात्मकः । अतस्त्रिंशद्दिनैर्यदि-
भगणांशान्तरं तदैकेन किमिति । द्वादशभागैरेकं चान्द्र-
दिनम् । “दर्शः सूर्येन्दुसङ्गमः” इत्यभिधानाद्दर्शावधिकमा-
सस्य त्रिंशत्तिथ्यात्मकत्वात् तिथिश्चान्द्रदिनरूपेति । अथ
चान्द्रव्यवहारमाह” र० न० “तिथिः करणमुद्वाहः क्षौरं
सर्वक्रियास्तथा । व्रतोपवासयाश्राणां क्रिया चान्द्रेण
गृह्यते” सू० सि० ।
“तिथिः प्रतिपदाद्या करणं ववादिकमुद्वाहो विवाहः
क्षौरं चौलकर्म । एतदाद्याः सर्वक्रिया व्रतबन्धाद्युत्सव
रूपा व्रतोपवासयात्राणां नियमोपवासगमनानां क्रिया
करणम् । तथा समुच्चयार्थकः । चान्द्रमानेन
गृह्यते अङ्गीक्रियते । अथ चान्द्र मासं प्रसङ्गात्
पितृमानं चाह” र० ना० ।
“त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम्”
सू० सि० “कालेन येनैति पुनः शशीनं क्रामन् भचक्रं
विवरेण गत्या । मासः सचान्द्रोऽङ्गयमाः कुरामाः
पूर्ण्णेषवः । २९ । ३१ । ५० । स्तत्कुदिनप्रमाणम्” सि० शि०
“दर्शान्ते किल शशी रविणा युक्तो भवति । ततोद्वावपि
पूर्व्वतो गच्छतः । तयीः शशी शीघ्रगत्वात् प्रत्यहं गत्य-
न्तरेणाग्रतो याति । एवं गच्छंश्चक्रकला २१६०० तुल्य-
मन्तरं यदाग्रतो याति तदा रविणा योगमेति । तयोः
कालयोरन्तरालं चन्द्रमासः । तत्प्रमाणमनुपातेन ।
चन्द्रार्कयोर्मध्यगती आदौ सम्यक् सावयवे कृत्वा यदि
गत्यन्तरेणैकं कुदिनं लभ्यते तदा चक्रकलातुल्येनान्तरेण
कियन्तीत्यनुपातेन चान्द्रमासे कुदिनानि लभ्यन्ते ।
२९ । २१ । ५०” । प्रमिता० । अधिकं गौणचान्द्रशब्दे
२७३५ पृ० दृश्यम् । आपस्तम्बः “चन्द्रमाः कृष्ण-
पक्षान्ते सूर्य्येण सह युज्यते । सन्निकर्षादथारभ्य सन्नि-
कर्षावधिः परम् । चन्द्रार्कयोः रवेर्मासश्चान्द्र इत्यभि-
धीयते” विष्णु स० । २ चान्द्रायणव्रते न० । “चान्द्रं कृच्छ्रं
तदर्द्धं च ब्रह्मक्षत्रविशां विधिः” प्रा० त० । “चान्द्रं
पृष्ठ २९१३
चान्द्रायणम्” रघु० । ३ चन्द्रकान्तमणौ पु० हेमच० ।
४ चन्द्रसम्बन्धिमात्रे त्रि० स्त्रियां ङीप् “गुरुकाव्यानुगां
बिभ्रत् चान्द्रीमभिनभः श्रियम्” माघः । सा च ५ श्वेत-
कण्टकार्य्यां राजनि० । ६ आर्द्रके न० राजनि० ।
७ मृगशीर्षनक्षत्रे न० तस्य तद्देवताकत्वञ्चाश्लेषाशब्दे
४९७ पृ० उक्तम्

चान्द्रक न० चान्द्रमार्द्रकमिव कायति कै--क । शुण्ठ्याम् राजनि० ।

चान्द्रपुर पु० १ पूर्व्वदेशस्थे देशभेदे १ तद्देशवासिषु ब० व० ।

स च देशः “अथ पूर्व्वस्याम्” इत्युपक्रमे “चान्द्रपुराः
शूर्पकर्णाश्च” वृ० स० १४ अ० कूर्म्मविभागे उक्तः ।

चान्द्रभागा स्त्री चान्द्रो भागोऽंशोऽस्याम् । चन्द्रभागा-

नद्याम् चन्द्रभागाशब्दे दृश्यम् ।

चान्द्रमस त्रि० चन्द्रमसैदम् अण् । १ चन्द्रसम्बन्धिनि

दिनमासादौ । “तिथिश्चान्द्रमसं दिनम्” ति० त०
सूर्य्यसिद्धान्तीयवाक्यत्वेन पठितम् । २ मृगशिरोनक्षत्रे
न० तस्य तद्देवकत्वात्तथात्वम् । ३ चन्द्रसम्बन्धिमात्रे त्रि०
स्त्रियां ङीप् “लब्धोदया चान्द्रमसीव लेखा” । “पद्मा-
श्रिता चान्द्रमसीमभिख्याम्” कुमा० । “सुरद्विषश्चान्द्र-
मसी सुधेव” रघुः ।

चान्द्रमसायनि पु० चन्द्रमसोऽपत्यम् तिका० फिञ् ।

बुधग्रहे हला० । पृषो० । चान्द्रमसायनोऽप्यत्र ।

चान्द्रमास पु० कर्म्म० । चन्द्रसम्बन्धिमासे चान्द्रशब्दे दृश्यम्

चान्द्रव्रतिक पु० चान्द्रतुल्यं चान्द्रायणं वा व्रतमस्त्यस्य

ठन् । १ चन्द्रतुल्यव्रताचारिणि नृपे । “परिपूर्णं
यथाचन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन्
स चान्द्रव्रतिको नृपः” मनुः । २ चान्द्रायणव्रता-
चारिणि च

चान्द्रायण न० चन्द्रस्यायनमिवायनमत्र पूर्वपदात् संज्ञायां

णत्वम् । संज्ञायां दीर्घः स्वार्थेऽण् वा । व्रतभेदे तद्भेदा-
दिकं मिता० उक्तं यथा । “तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले
शिख्यण्डसंमितान् । एकैकं ह्रासयेत् कृष्णे, पिण्डञ्चान्द्रा-
यणञ्चरन्” या० । “चान्द्रायणाख्यङ्कर्म कुर्व्वन्मयूराण्ड-
परिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथि
वद्वृद्ध्या चरेद्भक्षयेत् यथा प्रतिपत्प्रभृतिषु तिथिषु
चन्द्रकलानामेकैकशोवृद्धिरर्द्धमासे । तद्वत्पिण्डान् प्रति-
पद्येको द्वितीयायां द्वावित्येवमेकैकशोवर्द्धयन् भक्ष-
येद् यावत्पौर्णमासी ततः पञ्चदश्यां पञ्चदश ग्रासान्
भुक्त्वा ततः कृष्णपक्षे प्रतिपदि, चतुर्दश द्वितीयायां
त्रयोदशेत्येबमेकैकशो ग्रासात् ह्रासयन्नश्रीयाद्या-
वच्चतुर्दशी । ततश्चतुर्दश्यामेर्क ग्रासं ग्रसित्वेन्दुक्षयेऽ-
र्थादुपवसेत् । तथा च वसिष्ठः । “एकैकं वर्द्धयेत्पिण्डं
शुक्लकृष्णे च ह्रासयेत् । इन्दुक्षये न भुञ्जीत एष चान्द्रा-
यणो विधिरिति” । चन्द्रस्यायनमिवायनं चरणं यस्मिन्
कर्मणि ह्रासवृद्धिभ्यां तच्चान्द्रायणम् संज्ञायान्दीर्घः
(णत्वञ्च) इदञ्च यववत्प्रान्तयोरणीयो मध्ये स्थवीय
इति यवमध्यमिति कथ्यते । एतदेव व्रतं यदा कृष्ण-
पक्षप्रतिपदि प्रक्रम्य पूर्व्वोक्तक्रमेणानुष्ठीयते तदा
पिपीलिकामध्यमिव ह्रसिष्ठम्भवतीति पिपीलिकातनु-
मध्यमिति कथ्यते तथाहि । पूर्ब्बोक्तक्रमेण कृष्णप्रति
पदि चतुर्दश ग्रासान्भुक्त्वैकैकग्रासापचयेन चतुर्दशीं
यावद्भुञ्जीत ततश्चतुर्दश्यामेकं ग्रासं ग्रसित्वामावास्या
यामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासम्प्राश्नीयात्तत एकैकीप-
चयभोजनेन पक्षशेषे निर्वर्त्त्यमाने पौर्णमास्याम्पञ्चदश-
ग्रासाः सम्पद्यन्त इति युक्तैव पिपीलिकामध्यता ।
तथाच वशिष्ठः । “मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतु-
र्दश । ग्रासापचयभोजी सन् पक्षशेषं समापयेत् । तथैव
शुक्लपक्षादौ ग्रासम्भुञ्जीत चापरम् । ग्रासोपचय
भोजी सन् पक्षशेषं समापयेदिति” यदा त्वेकस्मिन् पक्षे
तिथिवृद्धिह्रासवशात् षीड़श दिनानि भवन्ति चतुर्दश
वा तदा ग्रासानामपि वृद्धिह्रासौ वेदितव्यौ “तिथि
वृद्ध्या पिण्डांश्चरेदिति नियमात् । गौतमेन त्वत्र विशेषो
दर्शितः “अथातश्चान्द्रायणन्तस्योक्तोविधिः । कृछ्रे
वपनं व्रतञ्चरेत् । श्वोभूताम्पौर्णमासीमुपवसेत् । आप्या-
यस्व” (ऋ० १ । ११ । १६ ।) “सन्तेपयांसि (१७) नवोनवः”
(ऋ० १० । ८५ । १९ ।) इति चैताभिस्तर्पणमाज्यहोमो
हविषश्चानुमन्त्रणमुपस्थानञ्चन्द्रमसः । “यद्देवादेवहेड़-
नम्” इति चतसृभिराज्यं जुहुयात् । देवकृतस्येति
चान्ते समिद्भिस्तिसृभिः । ॐ भूर्भुवःस्वः महः जनः
तपः सत्यं यशः श्रीः ऊर्क् इट् ओजः तेजः
पुरुषः धर्मः शिवः इत्येतैर्ग्रासानुमन्त्रणम् ।
प्रतिमन्त्रं मनसा नमःस्वाहेति वा सर्वान् एतैरेव ग्रासा-
ननुभुञ्जीत ग्रासप्रमाणमास्याविकारेण चरुभैक्ष्यसक्तुकण-
यावकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरप्रश-
स्तानि पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकैकापचयेना-
परपक्षमश्नीयात् । अमावास्यायामुपोष्यैकेकोपचयेन पूर्व-
पक्षं विषरीतमेकेषाम् एष चान्द्रायणो मासः” इति । अत्र
पृष्ठ २९१४
ग्रासप्रमाणमास्याविकारेणेति यदुक्तन्तद्बालाभिप्रायम्
तेषां शिख्यण्डपरिमितपञ्चदशग्रासभोजनाशक्तेः । क्षी-
रादिद्रवहविषां शिख्यण्डपरिमितत्वन्तु पर्णपुटिकादिना
सम्पादनीयम् । तथा कुक्कुटाण्डार्द्रामलकादीनि तु
ग्रासपरिमाणानि स्मृत्यन्तरीक्तानि शक्तविषयाणि शिख्य-
ण्डपरिमाणाल्लघुत्वात्तेषां, यत्पुनरत्र “श्वोभूताम्पौर्णमासी
मुपवसेदिति” चतुर्दश्यामुपवासमभिधाय पौर्णमास्याम्पञ्च-
दश ग्रासान् भुक्त्वेत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्राय-
णस्योक्तम् तत्पक्षान्तरप्रदशनार्थम् न सार्वत्रिकम् ।
योगीश्वरादिवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शित-
त्वात् । यद्येत्सार्वत्रिकं स्यात्तदा नैरन्तर्य्येण संवत्सरे
चान्द्रायणानुष्ठानानुपपत्तिः स्यात् चन्द्रगत्यनुवर्त्तनानु-
पपत्तिश्च । चान्द्रायणान्तरमाह” मिता० । “यथा कथञ्चि-
त्पिण्डानाञ्चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रा-
यणमथापरम्” या० । “पिण्डानाञ्चत्वारिंशदधिकं शतद्वयं
मासेन भुञ्जीत यथाकथञ्चित्प्रतिदिनं मध्याह्णेऽष्टौ ग्रासान्
तथा नक्तन्दिवसयोश्चतुरश्चतुरो वा । अथवैकस्मिंश्चतुरोऽ-
परस्मिन् द्वादश वा तथैकरात्रमुपोष्यापरस्मिन् षोड़श
वेत्यादि प्रकाराणामन्यतमेन शक्त्यपेक्षया भुञ्जीतेत्येत-
त्पूर्वोक्ताच्चान्द्रायणद्वयादपरं चान्द्रायणम् । अतस्तयोर्नायं
ग्राससंख्यानियमः । किन्तु तत्र पञ्चविंशत्यधिकशतद्वयसं-
ख्यैव । मनुना चैते प्रकारा दर्शिताः “अष्टावष्टौ समश्नीया-
त्पिण्डान्मध्यन्दिनेस्थिते । नियतात्मा हविष्यस्य यतिचान्द्रा-
यणञ्चरन् । चतुरः प्रातरश्नीयात्पिण्डान्विप्रःसमाहितः ।
चतुरोऽस्तमिते सूर्य्येशिशुचान्द्रायणञ्चरन् । यथाकथ-
ञ्चित्पिण्डानान्तिस्रोऽशीतीः समाहितः । मासेनाश्नन्
हविष्यस्य चन्द्रस्यैति सलोकतामिति । “तथा चत्वारिं-
शच्छतद्वयान्नूनसंख्यकग्राससम्पाद्यस्यापि संग्रहार्थमपर
ग्रहणम् । यथाह यमः “त्रींस्त्रीन् पिण्डान् समश्नी-
यान्नियतात्मा दृढ़व्रतः । हविष्यान्नस्य वै मासमृषिचान्द्रा
यणं स्मृतमिति” । एषु च यतिचान्द्रायणप्रभृतिषुन चन्द्र
गत्यनुसरणमपेक्षितमतस्त्रिंशद्दिनात्मकसावनमासेन
नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथञ्चित्तिथिवृद्धिह्रासव-
शेन पञ्चम्यादिष्वारम्भोभवति तथापि न दोषः । यदपि सो
मायनाख्यं मासव्रतं मार्कण्डेयेनोक्तम् “गोक्षीरं सप्त-
रात्रन्तु पिबेत् स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्त-
रात्रं स्तनद्वयात् । स्तनेनैकेन षट्रात्रं त्रिरात्रं वायुभुग्म-
वेत् । एतत्सोमायनं नाम व्रतङ्कल्मषनाशनमिति” । तदपि
चान्द्रायणधर्म्मकमेव । हारीतेनापि “अथातश्चान्द्रायण
मनुक्रमिष्याम इत्यादिना सेतिकर्त्तव्यताकञ्चान्द्रायण
ममिधाय” एवं सोमायनमित्यतिदेशस्याभिधानात् । यत्पुन
स्तेन कृष्णचतुर्थीमारभ्य शुक्लद्वादशीपर्य्यन्तं सोमायन
मुक्तम् “चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन
त्रिरात्रं, द्विस्तनेन त्रिरात्रमेकस्तनेन त्रिरात्रमेवमेकस्तन
प्रमृति पुनश्चतुःस्तनान्ते या ते सोम! चतुर्थी तनूस्तया नः
पाहि तस्यै स्वाहा या ते सोम! पञ्चमी षष्ठीत्येवं
यथार्थास्तिथिहोमाएकमाप्ताएताभ्यः पूतश्चन्द्रमसःसामान्यतां
समानलोकतां सायुज्यञ्च गच्छतीति” । चतुर्विंशति-
दिनात्मकसोमायनमभिहितन्तदशक्तविषयम्” मिता० ।
प्रायश्चित्तविवेकेऽत्र विशेषोऽभिहितो यथा
“तत्र मनुः । “एकैकं ह्रासयेत् पिण्डं कृष्णे, शुक्ले च
वर्द्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ।
एवमेव विधिं कृत्स्नमाचरेद्यवमध्यमे । शुक्लपक्षादिनि-
यतश्चरेच्चान्द्रायणं व्रतम् । अष्टावष्टौ समश्नीयात्
पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्याशी
यतिचान्दायणं चरन् । चतुरः प्रातरश्नीयात् पिण्डान् विप्रः
समाहितः । चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं
स्मृतम् । यथा कथञ्चित्पिण्डानां तिस्रोऽशीतीः
समाहितः । मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम्”
एतत्पञ्चविधं चान्द्रायणं पिपीलिकातनुमध्यं यवमध्यं
यतिचान्द्रायणं सर्व्वतोमुखं शिशुसाह्वञ्च । तथाच
जावालः । पिपीलिकं यवमध्यं यतिचान्द्रायणन्तथा ।
चान्द्रायणं तथा ज्ञेयं चतुर्थं सर्व्वतोमुखम् । पञ्चमं
शिशुसाह्वञ्च तुल्यं पुण्यफलोदयम्”! कृष्णप्रतिपदमारभ्य
मासमेकं यदा क्रियते तदा पिपीलिकमध्यं भवति ।
शुक्लप्रतिपदारम्भे यवमध्यम् । उभयत्रामावास्यायाम-
भोजनम् । कृष्णप्रतिपदि चतुर्द्दशग्रासमोजनारम्भो
ह्रासक्रमेण चतुर्द्दश्यामेकोग्रासः अमावास्यायामभोजन-
मेव प्राप्नोति । तथाच वशिष्ठः “मासस्य कृष्णपक्षादौ ग्रा-
सानद्याच्चतुर्दश” । नन्वेवं क्रमेण पञ्चविंशत्युत्तरं ग्रास-
शतद्वयं स्यात् । न चत्वारिंशद्ग्रासाधिकशतद्वयं तच्च
याज्ञवल्केनोक्तम् “यथा कथञ्चित्पिण्डानां चत्वारिंशच्छ-
तद्वयम्” । इति “यथा कथञ्चित्पिण्डानां तिस्रोऽशीतीः
समाहितः” इति मनुनाप्युक्तम् । उच्यते । संयमदिवसे
पौर्णमास्याममावास्यायां वा पञ्चदशग्रासभोजनेन संख्या-
पूरणसम्भवात् । अथ वा पञ्चदश्यादिकमेवेदं व्रतं न प्रति-
पृष्ठ २९१५
पदादिकं चतुर्ढ़श्यामेव व्रतसङ्कल्पः यथाह गौतमः “पौर्ण
मास्यां पञ्चदश ग्रासान् भुक्त्रा एकैकापचयेनापरपक्षमश्नी-
यात् अमावास्यायामुपोष्य एकैकोपचयेन पूर्व्वपक्षं
विपरीतमेकेषाम्” । शङ्खंलिखितौ “अमावास्यां व्रतोपा-
यनं यवमध्यम् । अमावास्यायां पञ्चदश पिण्डानश्नी-
यात्” । उपायनमारम्भः । युक्तञ्चेदम् “अमावास्या-
मुपोषण पञ्चदशकलात्मकख चन्द्रमसः सूर्य्यप्रवि-
ष्टत्वात् अत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्द
वाच्यत्वात् । जावालः “एकैकं वर्द्धयेद्ग्रासं शुक्ले कृष्णे
च ह्रासयेत् । अमावास्यां न भुञ्जीत यवमध्यं
चरन् द्विजः । एकैकं ह्रासयेत् पिण्डं कृष्णे, शुक्ले च
वर्द्धयेत् । पौर्णमास्यां न भुञ्जीत पिपीलितनुमध्यमम्” ।
अत्र कल्पतरुव्याख्यानम् “एकैकं ह्रासयेदिति कृष्णप्रति-
पाद पञ्चदश ग्रासानारभ्य एकेकापचयेनामावास्यायामेको-
ग्रासः तदनन्तरं शुक्लप्रतिपदि द्वौ ग्रासावेवं वृद्धिक्रमेण
चतुर्दश्यां पञ्चदश ग्रासाः सम्पद्यन्ते पौर्णमाम्यां
चोपवासैति पिपीलिकतनमध्यं चान्द्रायणम् । एवं यव
मध्ये शुक्लप्रतिपदि एकोग्रासः एवमेकैकोपचयने पूर्णि-
मायां ञ्चदश ग्रासाः कृष्णप्रतिपदि चतुर्द्दश ग्रासा
एवमेकैकापचयेन अमावस्यायामुपवासः” । ऋषिचान्द्रा-
यणभाह यमः “त्रींस्त्रीन् पिण्डान् समश्नीयान्नियतात्मा
दृढ़व्रतः । हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्” ।
अत्र चत्वारिंशच्छतद्वयंसंख्या नास्ति । ग्रासपरिमाण-
माह पराशरः । “कुक्कुटाण्डप्रमाणन्त यावान् वा प्रवि-
शेम्मुखम् । एतं ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोध-
नम्” । सकलचान्द्रायण एव चतुर्दश्यामुपवासं कृत्वा
अपरदिने पञ्चदश्यां संयमः कार्य्यः तत्फलमाह ।
वौधायनः । “शुक्लाञ्चैव चतुर्दशीमुपवसेत् कृष्णां
चतुर्दशीं वा केशश्मश्रुनखरोमाणि वापयित्वा” इत्य-
भिधाय तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान् विस्तर
भयान्न लिलितम्” ।
“एकमाप्त्वा विपापोविपाप्मा सर्व्वमेनोहन्ति द्वितीय-
माप्त्वा सपूर्व्वान् दशापरानात्मानञ्चैकविंशं पङ्क्तिञ्च
पुनाति संवत्सरञ्चाप्त्वा चन्द्रमसः सलोकताम्प्राप्नोतीति”
गौतमः । एवञ्च सर्वविधचान्द्रायणे चान्द्रस्य चन्द्र-
सम्बन्धिनो लोकस्याथनं यस्मादिति व्युत्पत्तिरित्यव-
धेयम् । अस्य पुंस्त्वमपि “एष चान्द्रायणोविधिः” प्रा-
पुक्तस्मृतेः अत्र तस्येदमित्यर्थेऽणि तत्र चान्द्रायण
शब्दस्य ततसम्बन्धिवाचकत्वात् पुंस्त्वमित्यन्ये । चान्द्रा-
यणव्रताशक्तौ तत्प्रत्याम्नायधेनुमूल्याद्युक्तं प्रा० वि०
आप्रस्तम्बः “कापालिकान्नभोक्तृणां तन्नारीगामिना
न्तथा । ज्ञानात् कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दबद्वयम्” तथा
रजकाद्यन्त्यजाधिकारे यमः “भुक्त्वा चैषां स्त्रियो गत्वा
पीत्वापः प्रतिगृह्य च । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञाना-
दैन्दवद्वयम्” । ज्ञानतः कृच्छ्राव्दं त्रिंशद्धेनुदानसमानं
विधायाज्ञाने तदर्द्धं चान्द्रायणद्वयं विदवाति । तेन
चान्द्रायणद्वये पञ्चदश धेनवः अर्थादेकस्मिंश्चान्द्रायणे
सार्द्धसप्तधेनवः । यत्रैकमेव चान्द्रायणं तत्रार्द्धधेनो-
रसम्भवाद्धेन्वष्टकं देयम् । शिशुचान्द्रायणे तु पादोन
धेनुचतुष्टयम् । यतोऽत्र प्रात्यहिकाष्टग्रासपरिमाणेन
मासैकेन चत्वारिंशदुत्तरग्रासशतद्वयेन द्वात्रिंशद्गृहस्थ
स्येति व्यवस्थया सार्द्धसप्तदिनभोजनं पर्य्यवस्यति
सार्द्धद्वाविंशतिश्चोपवासाःपर्य्यवस्यन्ति । अतः सङ्कलनया
पादोनप्राजापत्यचतुष्टयं स्यात् । यद्यपि यवमध्य
पिपीलिकतनुमध्यचान्द्रायणयोरप्येतावन्त एव ग्रासास्तथा
पि वचनात् त्र्युटिवृद्ध्युपवासैः क्लेशातिशयाच्च सार्द्ध-
सप्त घेनवः । अत्र तु तदभावान्न्यायाच्च पादोनधेनुचतु-
ष्टयमेव । एवं यतिचान्द्रायणसर्व्वतोमुखचान्द्रायणर्षि-
चान्द्रायणेषु बोध्यम्” प्रा० वि० ।
मिताक्षरायां विशेष उक्तो यथा
“चान्द्रायणविषयभूतेषु पुनणपपातकेषु प्राजापत्यत्रयं
तदशक्तस्य प्रत्याम्नायस्ताबानेव । यत्पुनश्चतुर्विंशति
मतेऽभिहितम् “अष्टौ चान्द्रायणे देयाः प्रत्याम्नाय
चिधौ सदेति” तदतिधनिनः पिपीलिकामध्यादिचान्द्रा
यणप्रत्याम्नायविषयम् । मासातिकृच्छ्रविषयभूते पुनरुप-
पातके सार्द्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्ता-
वन्त एव । यच्च चान्द्रायणस्यापि तत्रैव प्रत्याम्नानमुक्त-
म् । “चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव च । मित्रवि-
न्दापशुश्चैब कृच्छ्रम्भासत्रयन्तथा । नित्यनैमित्तिकानाञ्च
काम्यानाञ्चैव कर्म्मणाम् । इष्टीनाम्पशुबन्धानामभावे
चरवःस्मृताः” इति । तदपि चान्द्रायणाशक्तस्य । यत्तु
कृच्छम्मासत्रयन्तथेति कृच्छाष्टकम्प्रत्याम्नातम् । तदति-
जठरमूर्खविषयम् । “चान्द्रायणस्त्रिभिः कृच्छ्रैरिति
दर्शितत्वादित्यलमतिप्रपञ्चेन ।” ऐन्दवादयो ऽप्यत्र ।

चान्द्रायणि । त्रि० चान्द्रायणमावर्त्तयति टञ् । चान्द्रायण-

व्रतानुष्ठायिनि राजनि० ।
पृष्ठ २९१६

चान्द्री स्त्री चन्द्रस्येयम् अण् । १ चन्द्रपत्न्यां २ ज्योत्स्ना-

याञ्च । तत्तुल्यशुभ्रत्वात् ३ श्वेतकण्टकार्य्याञ्च राजनि० ।
४ चन्द्रसम्बन्धिन्यां स्त्रियां चान्द्रशब्दे उदा० ।

चाप पु० चपस्य वंशभेदस्य विकारः अण् । १ धनुषि, अमरः

मेषावधिके २ नवमे राशौ च “वृक्षगुल्मावृते चापै-
रसिचर्मायुधैः स्थले” मनुः । “स चापमुत्-
सृज्य विवृद्धमत्सरः” रघुः । “कस्यायमसितश्चापः
पञ्चशार्दूललक्षणः” भा० वि० ४२ अ० । ३ वृत्तक्षेत्रार्द्धे
“दलीकृतं चक्रमुशन्ति चापम् कोदण्डखण्डं खलु
तूर्य्यगोलम्” सि० शि० । ज्याभेदेन चापभेदा
नयनं च लोला० दर्शित० तच्च वाक्यं क्षेत्रशब्दे २४०४
दर्शितम् ।

चापपट पु० चापश्चापावयवैव पटः पत्रमस्य । पियालवृक्षे शब्दार्थ चि० ।

चापल न० चपलस्य भावः कर्म्म वा अण् । अविमृष्य-

कारितारूपे प्रयोजनं विनाऽपि पाण्यादेश्चालनरूपे वा
१ चपलकर्म्मणि चपलशब्दे उदा “मात्सर्य्यद्वेष-
रागादेश्चापलं त्वनवस्थितिः” सा० द० २ उक्तलक्षणे
नवस्थाने च । ष्यञ् । चापल्यमप्यत्र ।

चापिन् पु० चापोऽस्त्यस्य इनि । १ धनुर्द्धारिणि योधभेदे ।

२ शिवे पु० । “त्वं गदी त्वं शरी चापी खद्वाङ्गी झर्झरी
तथा” भा० शा० २८६ अ० । दक्षकृतशिवस्तुतौ ३ धनूराशौ
च । “चापी नरोऽश्वजनो मकरोमृगास्यः” ज्यो० त०

चाफट्टि पुंस्त्री चफट्टर्षेरपत्यम् इञ् । चफट्टर्षेरपत्ये

स्त्रियां ङीप् । यूनि--तौल्वला० फक् तस्य न लुक् ।
चाफट्टायनि यूनि तदपत्ये स्त्रियां ङीप् ।

चामर पुंन० चमर्य्याः विकारः तत्पुच्छनिर्म्मितत्वात् ।

चमरीपुच्छकृतव्यजने अमरः । चामरलक्षणादिकमुक्तं
युक्तिकल्पतरौ यथा
“अथ चामरोद्देशः । “हस्तद्वयोन्नतः शुक्लः सुवर्ण
बलिभूषितः । हीरेणालङ्कृतो राज्ञां भव्यमानसुख०
प्रदः । बलेश्चामरदैर्घ्याद्वा आयामत्वं प्रकाशितम् । भव्यो
भद्रोजयः शीलः सुखः सिद्धश्चलः स्थिरः । वितस्त्ये
कैकसंवृद्ध्या दिनेशादिदिशां भुवाम् । सौवर्णं राजतं
युग्मं त्रैदेशानां महीभुजाम् । योजयेदिति निश्चित्य
बलिकम्पनकर्मणि । स्थलजं जाङ्गलोराजा आनूपो जलजं
वहेत् । हीरञ्च पद्मरागश्च वैदूर्य्यं नीलएव च ।
मणिर्वलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् । शुक्लो
रक्तोऽथ पीतश्च नानावर्णो यथाक्रमम । चामरो राज-
केशस्य न सामान्यस्य भूपतेः । न भव्यमानतो नूनं
चामरं गुणमावहेत्” । अथ चामरपरीक्षा । “स्थलजं
जलजं चेति चामरं द्विविधं विदुः । मेरौ हिमालये
विन्ध्ये कैलासे मलये तथा । उदयेऽस्तगिरौ चैव
गन्धमादनपर्व्वते । एवमेतेषु शैलेषु याश्चमर्य्यो
भवन्ति हि । तासां बालस्य जायेत चामरेत्यभिधा भुवि ।
आपीताः कनकाद्रिजा हिमगिरेः शुभ्रा सता विन्ध्य-
जाः कैलासादसिताः सिता मलयजाः शुक्लास्तथा
पिङ्गलाः । आरक्ता उदयोद्भवाश्चमरजा आनीलशुक्ल-
त्विषः कृष्णाः केचन गन्धमादनभवाः पाण्डुत्विष-
श्चामराः । अन्येषु प्रायशः कृष्णाश्चामराः सम्भवन्ति-
हि । ब्रह्मक्षत्रियविट् शूद्रजातय स्ताश्चतुर्व्विधाः ।
चमर्य्यः पर्व्वतोद्भूता यथापूर्वं गुणावहाः । दीर्घ-
बालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः । विरलाः
स्तनुपर्वाणश्चमर्य्यो ब्रह्मजातयः । विना संस्कार
सप्यासां चामरं विमलं भवेत् । दीर्घबालाः सुगुरवः
क्षत्रियास्तु भृशं घनाः । विज्ञेया स्थूलपर्वाणश्चमर्य्यो
वैश्यजातयः । संस्कारे चाप्यसंस्कारे न स्वभावं त्यजे-
दिदम् । खर्ववालाः सुलघवः कोमलाङ्गाः भृशं घनाः ।
चमर्य्यस्तनुपर्वाणो विज्ञेयाः शूदजातयः । संस्कारे-
णापि मलिनमासां चामरमिष्यते । दीर्घता लघुता चैव
स्वच्छता घनता तथा । गुणाश्चत्वार इत्येते चामराणां
प्रकीर्त्तिताः । खर्तता गुरुता चैव वैवर्ण्यं मलिना-
ङ्गता । दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ।
दीर्धे दीर्घायुराप्नोति लघौ भीतिविनाशनम् । स्वच्छे-
स्याद्धनकीर्त्तिभ्यां घने स्युः स्थिरसम्पदः । खर्वे खर्वा-
युरुद्दिष्टं गुरुर्गुरुभयप्रदः । विरले रीगशोकाभ्यां
मलिने मृत्युमादिशेत्” । इति स्थलजम् । अथ जलजम् ।
“लवणेक्षुसुरासर्पिर्दधितोयपयोऽब्धिषु । यथोत्तरं
गुणवहाश्चमर्य्यः सप्त सप्तसु । पुच्छानि तासां कृत्तानि
जन्तुभिर्मकरादिभिः । कदाचिदुपलभ्यन्ते तत्तीरे पुण्य-
शालिभिः । लवणाब्धिसमुद्भूतं पीतं गुरु तथा लघु ।
वह्नौ क्षिप्तश्च बालश्चेत् किञ्चित् चटचटायते । इक्षु
सिन्धूद्भवं ताम्रं चामरं विमलं लघु । मक्षिका मशका-
श्चेव तस्मिन् व्यजति चामरे । सुराब्धिजातं कलुषं
कर्वूरं पुरुकर्कशम् । तद्गन्धेनैव माद्यन्ति अपि वृद्धा
मतङ्गजाः । सर्पिःसिन्धुभवं स्निग्धं श्वेतापीतं घनं लघु ।
वायुरोगाः प्रशाम्यन्ति तस्य वीजनवायुना । जल-
पृष्ठ २९१७
सिन्धूद्भवं पाण्डु दीघं लघु घन महत् । अस्य वातेन
नश्येत्तु तृष्णामूर्च्छामदोभ्रमः । नारिष्टं न भयं तस्य
यस्येदं चामरं गृहे । क्षीरोदसम्भवं श्वेतं दीर्घं
लघु घनं महत् । अस्य चामरवातस्य विज्ञेयो गुण
विस्तरः । नाल्पेन तपसा लभ्यो देवानामपि जायते ।
ह्रियतेऽभ्यन्तरे सिन्धोर्नागैः सम्पत्तिलोलुपैः । एषां
पूर्ववदुन्नेयं जातिदोषगुणादिकम् । स्थलजे जलजे
चैव भाव्यमेतद्विशेषणम् । स्थलजं सुखदह्यं
हि दाहे मिषमिषायते । जलजं वह्निदुर्दह्यं
महान्तं धूममुद्गिरेत् । चामराणां समुदिष्टमित्येवं
लक्षणद्वयम् । एवं विमृष्य यो धत्ते स राजा सुख
मश्नुते । जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः ।
तस्याचिरात् कुलं वीर्य्यं लक्ष्मीरायुश्च नश्यति ।
अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा । तस्ये
तानि विनश्यन्ति लक्ष्मीरायु र्यशो बलम् । नालं वर्ग-
द्वये तेषां विधेयं शिल्पिना क्रमात् । संस्कारो वालुका-
यन्त्रे मसूरसलिलादिभिः । तदुष्णसलिलक्वाथात् कृत्रि-
मत्वं विपद्यते” ।
“सचामारे देवमसेविषाताम्” कुमा० । “गच्छन्तमुच्च
लितचामरचारुमश्वम्” माघः । “शशिप्रभं छत्रमुभे
च चामरे” रघुः । अस्य स्त्रीत्वमपि वा ङीप् । तत्रार्थे
भरतः ।

चामरग्राह त्रि० चामरं गृह्णाति ग्रह--अण् उप० स० ।

चामरेण वीजनकर्त्तरि स्त्रियां टाप् मुग्धबोधमते षण्
ङीप् इति मेदः । ततः रेवत्या० अपत्ये ठक् ।
चामरग्राहिक तदपत्ये पुंस्त्री । णिनि चामरग्राहिन्
तत्रार्थे त्रि० स्त्रियां ङीप् ।

चामरपुष्प(क) पु० चामरमिव पुष्पमस्य । १ क्रमुके, २ काशे,

३ केतके ४ आम्ने च मेदि० एषां चामरतुल्यगुच्छव
त्त्वात् तथात्वम् । वा कप् । तत्रार्थे जटा० ।

चामरिन् पुंस्त्री चामरमिव केशरोऽस्त्यस्य इनि । १ घोटके

जटाध० । २ चामरयुक्तमात्रे त्रि० स्त्रियां ङीप् ।

चामीकर न० चमीकरे स्वर्णाकरभेदे भवम् अण् । १ स्वर्णे

२ धूस्तूरे च अमरः । “जगतीरिह स्फुरितचारु
चामीकराः” माघः । तस्य विकारः अण् । ३ स्वर्ण्णमये
त्रि० “सशब्दचामीकरकिङ्किणीकः” कुमा० । अस्योत्-
पत्त्यादिकं कनकशब्दे १६४४ पृ० उक्तम् ।

चामुण्डा स्त्री “यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता ।

चामुण्डेति ततोलोके ख्याता देवी भविष्यसि” देवोमा०
निरुक्तनामके देवीभेदे । २ परव्रह्मणः समष्टिरूपशक्ति-
भेदे ३ ब्रह्मविद्यायाञ्च गुप्तवती । तत्र (ऐँ ह्रीँ क्लीँ
चानुण्डायै विच्चे) इति चण्डिकानर्वार्ण्णार्थनिर्ण्णये
उक्तं यथा ।
“निर्धूतनिखिलध्वान्ते! नित्यमुक्ते । परात्परे! । अखण्ड
ब्रह्मविद्यायै चित्सदानन्दरूपिणि! । अनुसन्दध्महे नित्यं
वयं त्वां हृदयाम्बुजे । इत्थं विज्ञापयत्येषा या कल्याणी
नवाक्षरी । अस्या महिमलेशोऽपि गदितुं केन शक्यते ।
बहूनां जन्मनामन्ते प्राप्यते भाग्यगौरवात् । एनमर्थं
गुरोर्लब्ध्वा तस्मै दत्त्वा च दक्षिणाम् । आशिषञ्च परां
लब्ध्वा मन्त्रसिद्धिमवाप्नुयादित्यादि” । अत्र प्रथमश्लोके
संबुद्धित्रयं ततश्चतुर्थ्यन्तन्ततः पुनः संबुद्धित्रयमिति सप्तभिः
पदैः क्रमेण मन्त्रे सप्तधा परिच्छेदः । पदानां तत्तद्वि
भक्त्यन्तता तत्तदर्थाश्चेति कथितं तदुत्तरपद्यार्द्धेनाकाङ्क्षित
पदानामध्याहार उक्तः । इतरत्स्पष्टम् । सच्चिदानन्दा
त्मकपरब्रह्मधर्म्मत्वाद्देवशक्तेरपि त्रिरूपत्वम् । तत्र
चिद्रूपा महासरस्वती वाग्वीजे न (ऐँ) सम्बोध्यते । ज्ञाने-
नैवाज्ञाननाशात् निर्धूतनिखिलध्यान्तपदेन तद्विवरणम्
युक्तमेव । नित्यत्वं त्रिकालाबाध्यत्वम् । अतएव
मुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वम् । एतेव
सद्रूपात्मकलक्ष्मीरूपस्य हृल्लेखया (ह्रीँ) सम्बोधनमिति
व्याख्यातम् । पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एव
तस्यैव पुरुषार्थत्वात् । “आत्मनः कामाय सर्वं प्रिये
भवतीति” श्रुत्या तदितरेषामपि तदर्थत्वेनानन्दस्यैव सर्व
शेषितया परत्वात् । स च मानुषानन्दमारभ्योत्तरोत्तरं
शतगुणाधिक्येन श्रुतौ बहुशोवर्णितः “तेषु परमाति
शायी स एको ब्रह्मण आनन्द” इति परमावधित्वेनाम्ना
तएव परात्परः “स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः”
इति पुराणं च तेन आनन्दप्रधानभहाकालीस्वरूपस्य
कामवीजेन (क्लीँ) सम्बोधनमुक्तम् । चामुण्डाशब्दो हि
मोक्षकारणीभूतनिर्विकल्पकवृत्तिविशेषपरः तादर्थ्ये
चतुर्थी चमूं सेनां वियदादिसमूहरूपाण्डाति लड़यो
रैक्याल्लाति आदत्ते स्वात्मसाक्षात्कारेण नाशयतीतिव्यु-
त्पत्तेः । पृषोदरादित्वात्सर्वंसाधु” इत्याहुः । “मया
तवात्रोपहृतौ चण्डमुण्डौ महासुरौ” इति पद्ये
द्विवचनयोः स्वारस्येन तूलमूलभेदेनाज्ञानद्वयपरत्वम्
“यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता ।
पृष्ठ २९१८
वामुण्डेति ततो लोके ख्याता देवी भविष्यतीति”
पद्येऽपि तूलमूलाविद्यापरताऽवसेया इति
रहस्यम् । विच्चे इति । वित् च, इ, इति पदत्रयात्मकं
वीजक्रमेणोक्तानाञ्चित्सदानन्दानां वाचकं सम्बुध्यन्तं
अस्य स्त्री ई इत्यस्य ह्रस्वे इ इति हे आनन्दमय-
ब्रह्ममहिषि इत्यर्थः । चित्पदं ज्ञानपरम्प्रसिद्धमेव
चकारोऽपि नपुंसकः सन सत्यपर इति योज्यम् अनुस-
न्दध्महैत्यादिः शेषः । इत्थञ्च महासरखत्यादिरूपेण
चिदादिरूपे! चण्डिके त्वाम्ब्रह्मविद्याप्राप्त्यर्थं वयं
सर्व्वदा ध्यायेम इतिमन्त्रार्थः फलितः । तस्याय सङ्ग्रहः
“महासरस्वति चिते! महालक्ष्मि! सदात्मिके! ।
महाकाल्यानन्दरूपे! तत्त्वज्ञानप्रसिद्धये । अनुसन्दध्महे
चण्डि । वयन्त्वां हृदयाम्बुजे” इति । यद्यपि श्री-
त्येव वीजम्महालक्ष्म्याःप्रसिद्धम् । न हृल्लेखा (ह्रीँ) ।
तथापि हकारशकारयोरूष्मवर्णत्वेन साजात्यान्ना-
तीव भेदः । अतएव “श्रीश्च ते लक्ष्मीश्च ते पत्न्याविति”
श्रुतौ शाखान्तरे श्रीपदस्थाने ह्रीपदपाठः । एवं
कामवीज एव लकारस्य स्थाने रेफयोजनेन कालीबी-
जता रलयोश्चान्त्यस्थत्वेनैक्यान्नात्यन्तंभदः । तन्त्रान्तरेषु
तु कालीसरस्वत्योर्वास्तविकभेदमभिप्रेत्य बीजयोर्वैपरी-
त्यव्यवहारोऽपि दृश्यत इति द्रष्टव्यम् । अयं चार्थः
प्राचीतैर्वर्णितप्राय एव सम्यक्परिष्कृष्योक्तः । वस्तु-
तस्तु लक्षणविरोधस्य छान्दसत्वेन पृषोदरादिपाठकल्प-
नया च समाधानस्याविवादादन्योऽपि प्रकारः सुवचः ।
चसु अदने इति धातोः उण् चामुरदनीयः पदार्थः
स च ब्रह्मातिरिक्तः सर्वोऽपि “अत्ता चराचरग्रहणात्”
इत्यधिकरणे तथा निर्णयात् तण्डापयति उड्डापयति
न विषयीकुरुते ब्रह्ममात्रविषयिणीति यावत् । अथवा
वकार एकाक्षरनिथण्टुरीत्या चन्द्रवाचक आह्लाद
प्रकाशगुणयोगादिह ज्ञानपर आनन्दपरो वा सन्
ब्रह्मैव वक्ति । तत् आसमन्तान्मुण्डयतीति चामुण्डा
मुण्डनं नामाधारापेक्षथा न्यूनसत्ताकवस्तुनिरासः
शिरश्चर्म्मापेक्षया न्यूनसत्तावतासेव केशानां वपने प्रयोगात् ।
गौड़पादीयभाष्ये तु शरीरराहित्यलक्षणम् मुण्डनं
मुण्डकोपनिषदि प्रोक्तं अथवा । चानाम्बुद्धानां सुखानां
वा मुण्डमिव शीर्षमिव स्थिता सर्वोत्तमा चरमवृत्तिरूपा
ब्रह्मविद्येति यावत् । अथ चण्डिकारूपदेवतापरएव चामु
ण्डाशब्दः । अत एव मन्त्रान्ते बह्निजाया योज-
नेन होमे चामुण्डाया इदमित्येव त्यागो विधि-
शब्दस्य मन्त्रत्वे इत्यधिकरणन्यायसिद्धो युज्यते । चतुर्थी
वलाच्च नमःशब्दस्यैवाष्याहारः । वीजत्रयमप्यव्यय
रूपं चतुर्थ्यन्तमेव व्यष्टिदेवतात्रयवाचकमभेदद्योतकं
तद्विशेषणम् विच्चे इत्यप्यखण्डमव्ययं स्वरादेरा-
कृतिगणत्वात् । मन्त्रस्य पदखण्डशो न्यासप्रकरणेऽस्य
युगलस्य विभजनं विनैव न्यासविधानात् । भगभालिनी
नित्यामन्त्रादिषु बहुषु तस्य प्रयोगसत्त्वेन तत्रोक्तार्थ
रीत्या निर्वाहाभावाच्च ततश्च हे अम्ब बन्धनकरणीभूता-
मिमां रज्जुं ग्रन्थिविसर्जनादिना मोचयेति । स्त्री
सम्बोध्यकमोक्षप्रार्थनारूपो विशिष्टस्तदर्थः । यदापि
दक्षिणामूर्त्तिसंहितायां भगमालिनीमन्त्रस्थ देवतागण-
नावसरे “अमोघां चैव विच्चाञ्च तथेशीं क्लिन्नदेवतामिति”
पाठाद्विच्चानामिका काचिद्देवतैवेत्यालोच्यते तदापि परि
करालङ्कारेण साभिप्रायं चामुण्डाविशेषणम्” ।

चाम्पिला स्त्री चपि--भावे अङ् चम्पैव चाम्पा ततः

अस्त्यर्थे इलच् । चम्पानद्याम् त्रिका० ।

चाम्पेय न० चम्पायां नद्यां जम्बुनद्यां भवं ठक् । १ स्वर्णे

२ धुस्तूरे च अमरः । ३ चम्पके ४ नागकेशरे च पु० किञ्जल्के
न० स्वार्थे क तत्रार्थे राजनि० । तत्र स्वर्णे मणिमा-
णिक्यचाम्पेयदुकूलेभाश्वगोधनम्” काशी० ख० २४ अ० ।
५ चम्पायां भवे त्रि० । ६ विश्वामित्रात्मजभेदे पु०
“अवालिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा” भा० आ०
४ अ० । विश्वामित्रात्मजोक्तौ ।

चाय निशाने (चाक्षुषज्ञाने) पूजने च सक० उभ० वट् ।

चायति ते आचायीत् अचासीत् अचायिष्ट अचास्त-
ऋदित् । अचचायत् त । “तं पर्ब्बतीया प्रमदाश्च-
चायिरे” माघः । “अनाद्यनन्तं महतः परं ध्रुवं
निचाय्य तं मृत्युमुखात् प्रमुच्यते” कठोप० । यङि चेकी-
यते । चायश्चिभावः । अपचितिः अपचित ।

चाय त्रि० चयस्य विकारः ताला० अण् । चयमये स्त्रियां ङीप् ।

चायनीय त्रि० चाय--कर्म्मणि अनीयर् । पूजनीये

“उषस्तच्चित्रमा मरास्मभ्यम्” इत्यस्यामृचि चित्रशब्दनिरुक्तौ
चित्रं चायनीयं महनीयमिति” निरुक्तकारः १२ । ६ ।

चायमान पु० चयमानस्य राज्ञोऽपत्यम् शिवा० अण् ।

१ चयमाननृपापत्ये । “अभ्यावर्त्ती चायमानो ददाति”
ऋ० ६ । २८ । ८ । “चायमानश्चयमानस्य नृपस्य पुत्रः”
भा० । चाय--शानच् । २ पूजयति ३ पश्यति च त्रि०
पृष्ठ २९१९

चायु त्रि० चाय--उण् । पूजके । “यज्ञेषु यउ चायवः”

ऋ० ३ । २४ । ४ । “चायवः पूजकाः” भा० ।

चार पु० चरएव अण् । १ प्रणिधौ गुप्तचरे “चारैश्चा-

मेकसंस्थानैः प्रोत्साद्य वशमानयेत्” “तस्करप्रतिषेधार्थं
चारैश्चाप्यनुचारयेत्” उपगृह्यास्पदञ्चैव चारान् सम्य-
ग्विधाय च”--इति च मनुः । २ प्रियालवृक्षे (पिवा-
साल) मेदि० ३ कारागारे हेम० चर--भावे घञ्
४ गतौ गोप्रचारः ग्रहचारः “चारोदयाः प्रशस्ताः
श्रवणमघादित्यमूलहस्तेषु” वृ० स० ६ अ० “भगणार्धे-
मान्तरितो गृह्णाति कथं नियतचारः” ५ अ० । कार्य्यभेदे
दूततियोगादिकं कालिकापु० ८५ अ० उक्तं यथा ।
“कृषिर्दुर्गञ्च बाणिज्यं खल्यानां करसाधनम् । आदानं
सैन्यकरयोर्वन्धनं गजवाजिनोः । शून्यवप्रमुखा-
नाञ्च भोजनं सततं जनैः । प्रजानां सारसेतूनां
बन्धनं चेति चाष्टमम् । एतदष्टासु वर्गेषु चारान्
सम्यक् प्रयोजयेत् । कार्य्याकार्य्यविभागाय चाष्ट
वर्गाधिकारिणाम् । अष्टौ चारान् नियुञ्जीयादष्ट
वर्गेषु पार्थिवः । दशस्वन्येषु युञ्जीत क्रमशः शृणु तानि
मे । स्वामी सचिवराष्ट्राणि मित्रं कोषो बलं तथा ।
दुर्गन्तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् । दुर्गयुक्तं
अष्ट वर्गे चारं नात्मनि योजयेत् । तस्मादिमानि
शेषाणि पञ्च चारपदानि तु । शुद्धान्तेष्वेव पुत्रेषु स्रक्
पूपादौ महानसे । शत्रूदासीनयोश्चैव बलाबलविनि-
श्चये । आदौ दशमु चैतेषु चारान् राजा प्रयोजयेत् ।
न यत् प्रकाशं जानीयात् तत्तुचारैर्निरूपयेत् ।
निरूप्य तत्प्रतीकारमवश्यं छिद्रतश्चरेत् । यथानियोग-
मेतेषां यो यो यत्रान्यथा चरेत् । ज्ञात्वा तत्र
नृपश्चारैर्दण्डयेद्वा नियोजयेत् । चारांस्तु मन्त्रिणा सार्द्धं
रहस्ये संस्थितो नृपः । प्रदोषसमये पृच्छेत्तदानी
मेव साधयेत् । स्वपुत्रे चाथ शुद्धान्ते ये तु चारा महा
नसे । नियुक्तांस्तान् मध्यरात्रे पृच्छेत् यश्चापि
मन्त्रिणि । एतान् चारान् स्वयं पश्येत् नृपतिर्मन्त्रिणा
विना । अन्यांश्च मन्त्रिणा सार्द्धं निरूप्य प्रदिशेत्
फलम् । नैकवेशधरश्चारो नैकी नोत्साहवर्ज्जितः ।
संस्तुतो नहि सर्वत्र नातिदीर्घो न वामनः । सततं न
दिवाचारी न रोगो नाप्यबुद्धिमान् । न वित्तविभवै
र्हीनो न भार्य्यापुत्रवर्ज्जितः । कार्य्यश्चारो नृपतिना
गुह्यतत्त्वविनिर्णये । अनेकवेशग्रहणक्षमं भार्य्यासु-
तैर्युतम् । बहुदेशवचोभिज्ञं पराभिप्रायवेदकम् । दृढ़
भक्तं प्रकुर्वीत चारं शक्तमसाध्वसम् । अधितिष्ठेत्
स्वयं राजा कृषिमात्मसमैस्तथा । बणिक्पथे च
दुर्गादौ तेषु शक्तान्नियोजयेत् । अन्तःपुरे पितुस्तुल्यान्
धीरान् वृद्धान् नियोजयेत् । षण्डान् पण्डान् तथा
वृद्धान् स्त्रियो या बुद्धितत्पराः । शुद्धान्तद्वारि युञ्जी-
यात् स्त्रियो बुद्धिमनीषिणीः” । चरेण चरणेन निर्वृ-
त्तम् अण् । ५ कृत्रिमविषे--न० हेमच० ।

चारक त्रि० चारयति चर--णिच्--ण्वुल् । गवादीनां

तृणादिषु गमयितरि १ पशुपालके मेदि० चार--स्वार्थे
क । २ बन्धे ३ गतौ च । ४ प्रियालवृक्षे राजनि० ।
५ कारागारे । हेम० । “निगड़ितचरणा चारके निरो-
द्धव्या” दशकु० ।

चारकीण त्रि० चरकाय हितम् खञ् । चरकहिते ।

चारचक्षुस् पु० चारश्चक्षुरस्य । नृपे । “यस्मात् पश्यन्ति

दूरस्याः सर्वानर्थान्नराधिपाः । चारेण तस्मादुच्यन्ते
राजानश्चारचक्षुषः” रामा० ३ । ३७ । “प्रकाशांश्चाप्र-
काशांश्च चारचक्षुर्भहीपतिः” मनुः “गावः पश्यन्ति
गन्धेन वेदैः पश्यन्ति च द्विजाः । चारैः पश्यन्ति
राजानश्चक्षुर्भ्यामितरे जनाः” नीतिसा० । “स्वपर-
मण्डलकार्य्यावलोकने चाराश्चक्षूंषि क्षितिपालाना-
मिति” नीतिवाक्यामृतम् ।

चारटिका स्त्री चर--णिच् शकादि० अट् संज्ञायां कर

अतैत्त्वम् । नलीनामगन्धद्रव्ये राजनि० ।

चारटी स्त्री चर--णिच्--शकादि० अटन् गोरा० ङीष्

१ पद्मचारिणीवृक्षे अमरः । २ भूम्यालक्यां राजनि० ।

चारण पु० चारयति कीर्त्तिं चर--णिच्--ल्यु । कीर्त्तिसञ्चार-

के नदे अमरः । “चाटचारणदासेषु दत्तं भवति निष्फ-
लम्” स्मृतिः! “गन्धर्वाणां ततो लोकः परतः
शतयोजनात् । देवानां गायनास्ते च चारणाः स्तुति
पाठकाः” पद्म० पु० स्व० ख० ।

चारपथ पु० चारार्थः बहुजनगत्यर्थः पन्था अच् समा० । राजपथे हेम० ।

चारभट पु० चारे बुद्धिसञ्चारे भटः । धीपे हेम० ।

चारमिक त्रि० चरममधीते वसन्ता० ठक् । ग्रन्थसमाप्तिप-

र्य्यन्ताध्यायिनि ।

चारवायु पु० चारेण रवेरुदग्गतिभेदेन कृतोवायुः । निदाघजे वायौ त्रिका० ।

चारायण पुंस्त्री चरस्य गोत्रापत्यम् नडा० फक् ।

चरगोत्रापत्ये । तेषां छात्रः अण् “वृद्धाच्छः” पा० छ ।
चारायणीय तच्छात्रे । चारायणेभ्य आगतः वुञ् ।
चारायणक तत आगते त्रि० ।
पृष्ठ २९२०

चारिणी स्त्री चर--णिनि ङीप् । करुणीवृक्षे राजनि० ।

चारित्र न० चर--“चरेर्वृत्ते” उणा० णित्रन् चरित्रमेव

स्वार्थे अण् वा । १ चरित्रे २ स्वभावे हेम० । ३ कुलक्रमा-
गताचारे शब्दार्थचि० । “चारित्रं येन नो लोके दूषितं
दूषितात्मना” हरिव० १७० । ४ तिन्तिड़ीवृक्षे स्त्री
शब्दरत्ना० ५ मरुत्वन्तनृपपुत्रमेदे पु० “मरुत्वतो
मरुत्वन्तो देवानजनयत् सुतान्” इत्युपक्रमे “नहुषं चाहु-
तिञ्चैव चारित्रं ब्रह्मपन्नगम्” हरिव० २०४ अ० ।

चारित्र्य न० चरित्रमेव स्वार्थे ष्यञ् । चरित्रशब्दार्थे ।

चारिन् त्नि० चर--णिनि । सञ्चारकारिणि गन्तरि “सङ्गमाय

निशि गूढ़चारिणम्” रघुः “प्राणापानौ समौ कृत्वा
नासाभ्यन्तरचारिणौ” गीता स्त्रियां ङीप् स्वैरचारिणी ।

चारी स्त्री चारो गतिभेदोऽस्त्यस्या अच् गौरा० ङीष् ।

गतिभेदयुक्तनृत्यक्रीडायां सङ्गी० दा० तद्भेदलक्षणादि-
कमुक्तं यथा
“न हि चारीं विना नृत्ये नृत्यस्याङ्ग” प्रवर्त्तते । शृङ्गा-
रादिरसानान्तु भावोद्दीपनकारिकाम् । माघुर्य्योद्वर्त्तना
नृत्ये चारी चारुगतिर्मता” । अन्येतु “एकपादप्रचारो यः
सा चारी न निगद्यते । पादयोश्चारणं यच्च सा चारी-
ति निगद्यते । करणानां समायोगः खण्डकः परिकी-
र्त्तितः । त्रिभिः खण्डैश्चतुर्भिर्व्वामण्डलं समुदाहृतम् ।
समनखा नूपुरविद्धा तिर्य्यङ्मुखी सरला च । कातरा
च कुवीरा च विश्लिष्टा रथचक्रिका । पार्ष्णिरेचि-
तका तलदर्शिनी गजहस्तिका । परावृत्ततला
चासताड़िताप्यर्द्धमण्डला । स्तम्भक्रीड़निका मृगत्रा-
सिका चारुरोचिका । तलोद्वृत्ता सञ्चरिता स्फुरिका-
पि तथैवच । लङ्घिञङ्घा सङ्घटिता स्यादथैव मदालसा ।
उत्कुञ्चिता तिर्य्यगूर्द्ध्वं कुञ्चिता चापकुञ्चिता । षड्विंशति
र्भौमचार्य्य इत्याख्याता मनीषिभिः” । अन्ये तु । “सम
पादस्थिता विद्धा शकटस्यार्द्धिकापि च । विय्याघा
ताड़िताऽऽबद्धा एकैका क्रीड़िता तथा । ऊरुवृत्ता
छन्दिता च जनिता स्पन्दिता तथा । स्पन्दितावत्
समतन्वी समोत्सारितघट्टिता । उच्छन्दिता च विज्ञेया
श्चार्य्यः षोढ़श भूमिगाः । इति भूमिचारी । आकाश
चारी यथा “चारीश्चाकाशगा वक्ष्ये विक्षेपा त्वधरी
तथा । अङ्घिताड़िता भ्रमरी पुरःक्षेपा च सूचिका ।
अपक्षेपा जङ्घावर्त्ता विद्धा च हरिणप्लुता “ऊकज-
ङ्घान्दोलिता च जङ्घाजङ्घालिका तथा । विद्युत्क्रान्ता
भ्रमरिका दण्डपार्श्वेति षोड़श” । अन्थे तु । “विभ्रान्ता-
तिक्रान्ताऽपक्रान्ता च पार्श्वक्रान्तिका । ऊर्द्धजानुर्दोल-
पादोद्वृत्ता नूपुरषादिका । भुजङ्गनासिका क्षिप्ताऽऽविद्धा
ताला च सूचिका । विद्युत्क्रान्ता भ्रमरिका दण्डपादा
तथैव च । आकाशचारिका एताः षोड़शैव निरूपिताः” ।
एताष्वेव भूमिचारीष्वप्यन्तरभेदोऽस्ति । “तिर्य्यक्चारी
ऊर्द्ध्वचारी अधश्चारी ति ता ऊहनीयाः । “तैलाभ्यक्तेन
गात्रेण लब्धाहारो जितश्रमः । स्तम्भे वा भित्तिदेशे वा
प्रथमं ताः प्रयोजयेत् । रूक्षाहारं तथाम्लञ्च भुक्त्वा तां
न समाचरेत् । नृत्ये पादस्य विन्यासश्चारी सैवाभिधीयते ।
शृङ्गारादिरसानान्तु मवेद्दीपनकारणम् । माधुर्य्यभूयसा
नृत्ये हृद्यतालत्रयान्विताः । नियतार्द्धविशेषाणां चारी
सञ्चारतो भवेत्” स० दामो० ।

चारु पु० चरति चित्ते--उण् । १ वृहस्पतौ २ मनोहरे त्रि०

मेदि० “चकाशतं चारुचसूरुचर्म्मणा “ऊर्द्धप्रसारित
सुराधिपचापचारु” माघः । गुणवचनत्वेन स्त्रियां वा
ङीष् चार्व्वी चारुः । ३ कुसुमे न० शब्दार्थचि० ।
४ रुक्मिणीतनयभेदे पु० “चारुगर्भशब्दे दृश्यम् ।

चारुक पु० चारु + संज्ञायां कन् । शरवीजरूपे क्षुद्रघान्यभेदे

भावप्र० तद्गुणा उक्ता यथा “चारुकः शरवीजं
स्यात् कथ्यन्ते तद्गुणा अथ । चारुको मघुरो रूक्षो
रक्तपित्तकफापहः । शीतलो लघुवृष्यश्च कषायो
वातकोपनः” ।

चारुकेशरा स्त्री चारूणि केशराण्यस्याः । नागरभुस्तायाम् राजनि० ।

चारुगर्भ पु० श्रीकृष्णस्य रुक्मिणीगर्भजाते तनयभेदे यथा

“तस्याम् (रुक्मिण्याम्) उत्पादयामास पुत्रान् दश
महारथान् । चारुदेष्णं सुदेष्णञ्च प्रद्युम्नञ्च महाबलम् ।
सुषेणं चारुगुप्तञ्च चारुबाहुञ्च वीर्य्यवान् । चारुविन्दं
सुचारुञ्च भद्रचारुन्तथैव च । चारुञ्च बलिनां श्रेष्ठं
सुतां चारुमतीं तथा” हरिव० ११८ अ० । चारुगुप्ता-
दयोऽप्यत्रोक्ताः तत्पुत्रमेदे ।

चारुचित्र पु० धृतराष्ट्रपुत्रभेदे “चित्रोपचित्रौ चित्राक्षश्चारु-

चित्रः शणासनः” भा० आ० ११७ अ० ।

चारुधारा स्त्री चारुं चारुतां धारयति धारि--अण्

चार्व्वी धाराऽस्या वा । इन्द्रपत्न्यां शच्याम् त्रिका० ।
पृष्ठ २९२१

चारुनेत्र त्रि० चारु मनोहर नेत्रमस्य । १ सुलोचने

२ हरिणे पुंस्त्री त्रिका० । ३ अप्सरोभेदे स्त्री “चारु-
नेत्रा घृताची च मेनका पुञ्जिकास्थली” काशीख० १० अ० ।

चारुपर्णी स्त्री० चारूणि पर्णान्यस्याः ङीप् । (गन्धाभादाल)

प्रसारिण्याम् राजनि० ।

चारुपुट पु० चारु--पुटमत्र । तालभेदे संगीतदा० ।

चारुफला स्त्री चारु फलमस्याः । द्राक्षायाम् राजनि० ।

चारुयशस पु० श्रीकृष्णषुत्रभेदे “त्वया द्वादश वर्षाणि वती

भूतेन शुष्यता । आराध्य पशुभर्त्तारं रुक्मिण्यां ऊनिताः-
सुताः । चारुदेष्णः सुचारुश्च चारुवेशी यशोवरः ।
चारुश्रवा आरुयशाः प्रद्यम्नः शम्भुरेव च । यथा ते
जनिताः पुत्रा रुक्मिण्यां चारुविक्रमाः” भा० अनु०
१४ अ० । चारुगर्भशब्दानुक्ताः अत्रोक्ताश्च चारुश्रवस्
इत्यादयोऽपि तत्पुत्रभेदे ।

चारुलोचन त्रि० चारु लोचनमस्य । १ सुन्दरनेत्रयुक्ते

२ हरिणे पु० स्त्री० स्त्रियां जातित्वात् ङीष् शब्दार्थचि० ।

चारुवक्त्र त्रि० चारु वक्त्वमस्य । १ सुमुखे २ कुमारानुचरभेदे

पु० “श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः” भा० श०
४६ अ० कुमारानुचरोक्तौ

चारुवर्द्धना स्त्री चारुं चारुतां वर्द्धयति वृध--णिच्--ल्यु ।

१ नार्य्यां राजनि० । २ मनोहरतावर्द्ध्वकमात्रे त्रि० ।

चारुव्रता स्त्री चारु व्रतमस्याः । १ मासोपवासिन्यां स्त्रियां

त्रिका० २ तादृशव्रतयुक्ते पुरुषे पु० ।

चारुशिला स्त्री नित्यकर्म्म० । १ मणिमात्रे त्रिका० ।

कर्म्मधा० । २ मनोहरशिलामात्रे स्त्री “कुतूहलाच्चारु-
णिलोपयेशम्” भट्टिः ।

चारुशीर्ष त्रि० चारु शीर्षमस्य । १ मनोज्ञमस्तके २ शक्रसखे

आलम्बायने पु० । “चारुशीर्षस्तुतं प्राह शक्रस्य
दयितः सखा । आलम्बायन इत्येव विश्रुतः करुणा-
त्मकः” भा० अनु० १८ अ० । स च आलम्बर्षेरपत्यम् ।

चारुहासिन् त्रि० चारु हसति हस--णिनि । १ मनोहर

रासिनि स्त्रियां ङीप् । सा च “अयुग्भवा चारुहा-
सिनी” वृ० र० उक्ते ३ वतालीयभेदे छन्दसि ।

चार्च्चिक्य न० चर्च्च--धात्वर्णे ण्वुल् चर्चिकैव स्वार्थे ष्यञ् ।

चन्दनादिना गात्रलेपने अमरः ।

चार्म्म पु० चर्म्मणा परिवृतो रथः अण् । चर्म्मणा सर्व्वतो वेष्टिते रथे ।

चार्म्मण न० चर्मणां समूहः अण । चर्म्मसमुदाये ।

चार्म्मिक त्रि० चर्म्मणा निर्वृत्तः ठक् । चर्म्मनिर्म्मिते

भाण्डादौ । “चर्म्मचार्म्मिकभाण्डेषु” मनुः । ततः
पुरोहिता० भावे यक् । चार्म्मिक्य तद्भावे न० ।

चार्म्मिकायणि पुंस्त्री चर्म्मिणोऽप्यत्यम् वाकिना० फिञ् कुक्

नलोपश्च । चर्म्मिणो (ढाली) नामकयोधस्यापत्ये ।

चार्म्मिण न० चर्म्मिणां समूहः अण् । चर्म्मिणां समूहे ।

चार्व्वाक पु० चारुः लोकसम्मतोवाकोवाक्यं यस्य पृषो० ।

वृहस्पतिशिष्ये लोकायते नास्तिकभेदे तन्मतसिद्ध-
पदार्थादि सर्व्वद० स० दर्शितं यथा ।
“अथ कथं परमेश्वरस्य निःश्रेयसप्रदत्वमभिधीयते
वृहस्पतिमतानुसारिणा नास्तिकशिरोमणिना चार्वाकेण
दूरोत्सारितत्वात् । दुरुच्छेदं हि चार्वाकस्य चेष्टितम् ।
प्रायेण सर्व्वप्राणिनस्तावत् “यावज्जीवं सुखं जीवेन्नास्ति
मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः”
इति लोकगाथामनुरुन्धाना नीतिकामशास्त्रानुसारेणा-
र्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थमपह्नु-
वानाश्चार्वाकमतमनुवर्त्तमाना एवानुभूयन्ते । अत एक
तस्य चार्व्वाकमतस्य लोकायतमित्यन्वर्थमपरं नामधेयम् ।
तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि तेभ्य एक
देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवत् चैतन्यमुप
जायते, तेषु विनष्टेषु सत्सु स्वयं विनश्यति । “तदिह
विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविन-
श्यति न प्रेत्य संज्ञास्तीति” । तत्र चैतन्यविशिष्टदेह
एवात्मा देहातिरिक्त आत्मनि प्रमाणाभावात् प्रत्यक्षैक-
प्रमाणबादितया अनुमानादेरनङ्गीकारेण प्रामाण्याभा-
वात् । अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । न
चास्य दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति मन्तव्यम
अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव
भोक्तव्यत्वात् । तद्यथा मत्स्यार्थी सशल्कान् सकण्टकान्
मत्स्यानुपादत्ते स यावदादेयं तावदादाय निवर्त्तते ।
यथा वा धान्यार्थी सपलालानि धान्यान्याहरति
यावदादेयं तावदादाय निवर्त्तते । तस्माद्दुःखभयान्नानु-
कूलवेदनीयं सुखं त्यक्तुमुचितम् । न हि मृगाः
सन्तीति शालयो नोप्यन्ते । न हि भिक्षुकाः सन्तीति
स्थाल्यो नाधिश्नीयन्ते । यदि कश्चिद् भीरुर्दृष्टं सुखं
त्यजेत् तर्हि स पशुवन्मूर्खो भवेत् । तदुक्तम् “त्याज्यं
सुखं विषयसङ्गमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचार-
णैषा । व्रीहीन् जिहासति सितोत्तमतण्डुलाट्यान् को
नाम भोस्तुषकणोपहितान् हितार्थी” । ननु पारलौकिक
सुखाभावे बहुवित्तव्ययशरीरायाससाध्ये अग्निहोत्रादौ
पृष्ठ २९२२
विद्यावृद्धाः कथं प्रवर्त्तिष्यन्ते इति चेत् तदपि न
प्रमाणकोटिं प्रवेष्टुमीष्टे अनृतव्याघातपुनरुक्तदोषैर्दूषित-
तया वैदिकम्मन्यैरेव धूर्त्तवकैः परस्परं कर्म्मकाण्डप्रामा
ण्यवादिभिर्ज्ञानकाण्डस्य, ज्ञानकाण्डप्रामाण्यवादिभिश्च
कर्म्मकाण्डस्य प्रतिक्षिप्तत्वेन त्रय्या धूर्त्तप्रलापमात्र-
त्वेन अग्निहोत्रादेर्जीविकामात्रप्रयोजनत्वात् तथा
चाभाणकः “अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगण्ठनम् ।
बुद्धिपौरुषहीनानां जीविकेति वृहस्पतिः” ॥ अत एव
कण्टकादिजन्यं दुःखमेव नरकं लोकसिद्धो राजा
परमेश्वरः देहोच्छेदो मोक्षः । देहात्मवादे च कृशोऽहं
कृष्णोऽहमित्यादिसासानाधिकरण्योपपत्तिः । मम शरोर
मिति व्यवहारो राहोः शिर इत्यादिवदौपचारिकः ।
तदेतत् सर्व्वं समग्राहि । “अत्र चत्वारि भूतानि भूमि
वार्य्यनलानिलाः । चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुप-
जायते । किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् ॥
अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्टतः । देहः
स्थौल्यादियोगाच्च स एवात्मा न चापरः ॥ मम देहोऽय
मित्युक्तिः सम्भवेदौपचारिकीति” ॥ खादेतत् स्यादेष मनो
रथा यद्यनुमानादेः प्रामाण्यं न स्यात् अस्ति च प्रा-
माण्यं कथमन्यथा धमोपलम्भानन्तरं धूमध्वजे प्रेक्षावतां
प्रवृत्तिरुपपद्येत । नद्यास्तीरे फलानि सन्तीति वचन
श्रवणसमनन्तरं फलार्थिनां नदीतीरे प्रवृत्तिरिति ।
तदेतन्मनोराज्यविजृम्भणम् । व्याप्तिपक्षधर्म्मताशालि हि
लिङ्गं गमकमभ्युपगतमनुमानप्रामाण्यवादिभिः व्याप्ति
श्चोभयविधोपाधिविधुरः सम्बन्धः स च सत्तया चक्षुरादि
वन्नाङ्गभावं भजते किन्तु ज्ञाततया । कः खलु ज्ञानोपायो
भवेत् । न तावत् प्रत्यक्षं तच्च बाह्यमान्तरं वाऽभिमतम् ।
न प्रथमः तस्य सम्प्रयुक्तविषयज्ञानजनकत्वेन भवति
(वर्त्तमाने) प्रसरसम्भवेऽपि भूतभविष्यतोस्तदसम्मवेन
सर्व्वोपसंहारवत्या व्याप्तेर्दुर्ज्ञानत्वात् । न च व्याप्तिज्ञाः
सामान्यगोचरमिति मन्तव्यं व्यक्त्योरविनाभावाभाव-
प्रसङ्गात् । नापि चरमः अन्तःकरणस्य बहिरिन्द्रिय
तन्त्रत्वेन बाह्येऽर्थे स्वातन्त्र्येण प्रवृत्त्यनुपपत्तेः । तदुक्तम्
“चक्षराद्युक्तविषयं परतन्त्रं बहिर्मनः इति । नाप्यनुमानं
व्याप्तिज्ञानोपायः तत्र तत्राप्येवमिति अनवस्थादौस्थ्य
प्रसङ्गात् । नापि शब्दस्तदुपायः काणादमतानुसारेणा
नुमानएवान्तर्भावात् अनन्तर्भावे वा वृद्धव्यवहाररूपलि
ङ्गावगतिसापेक्षतया प्रागुक्तदूषणजङ्घालत्वात् घमध-
मध्वजयोरविनाभावोऽस्ताति वचनमात्रे मन्वादिवद्
विश्वासाभावाच्च । अनुपदिष्टाविनाभावस्य पुरुषस्यार्था-
न्तरदर्शनेनार्थान्तरानुमित्यभावे स्वार्थानुमानकथायाः
कथाशेषत्वप्रसङ्गाच्च । उपमानादिकन्तु दूरापास्तं तेषां
संज्ञासंज्ञिसम्बन्धादिवोधकत्वेनानौपाधिकसम्बन्धबोधकत्वा
सम्भवात् । किञ्च उपाध्यभावोऽपि दुरवगमः उपाधीनां
प्रत्यक्षत्वनियमासम्भवेन प्रत्यक्षाणामभावस्य प्रत्यक्षत्वेऽपि
अप्रत्यक्षाणामभावस्याप्रत्यक्षतया अनुमानाद्यपेक्षायामुक्त
दूषणानतिवृत्तेः । अपि च साधनाव्यापकत्वे सति साध्य-
समव्याप्तिरिति तल्लक्षणं कक्षीकर्त्तव्यम् । तदुक्तम् “अव्या
प्तसाधनो यः साध्यसमव्याप्तिरुच्यते स उपाधिरिति”
शब्देऽनित्यत्वे साध्ये सकर्तृकत्वं घटत्वमश्रावणतां च
व्यावर्त्तयितुमुपात्तान्यत्र क्रमतो विशेषणानि त्रीणि ।
तस्मादिदमनवद्यं समासमेत्यादिनोक्तमाचार्य्यैश्चेति ।
तत्र विध्यध्यवसायपूर्व्वकत्वान्निषेधाध्यवसायुस्योपाधिज्ञाने
जाते तदभावविशिष्टसम्बन्धरूपं व्याप्तिज्ञानं व्याप्तिज्ञाना-
धीनं चोपाधिज्ञानमिति परस्पराश्रयवज्रप्रहारदोषोबज्र
लेपायते । तस्मादविनाभावस्य दुर्बोधतया नानुमानाद्यव-
काशः । धूमादिज्ञानानन्तरमग्न्यादिज्ञाने प्रवृत्तिः
प्रत्यक्षमूलतया भ्रान्त्या वा युज्यते । क्वचित् फलप्रति
लम्भस्तु मनिमन्त्रौषधादिवत् यादृच्छिकः । अतस्तत्साध्य-
मदृष्टादिकमपि नास्ति । नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाक-
स्मिकं स्यादिति चेत् न तद्भद्रं स्वभावादेव तदुपपत्तेः ।
तदुक्तम् “अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः ।
केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिरिति” । तदे
तत् सर्व्वं वृहस्पतिनाप्युक्तम् । “न स्वर्गो नापवर्गो वा
नैवात्मा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाश्च
फलदायिकाः । अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्म-
गुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता ।
पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति । स्वपिता
यजमानेन तत्र कस्मान्न हिंस्यते । मृतानामपि जन्तूनां
श्राद्धं चेत्तृप्तिकारणम् । गच्छतामिह जन्तूनां व्यर्थं
पाथेयकल्पनम् । स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र
दानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते? ।
यावज्जीवेत् मुखं जीवेदृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य
देहस्य पुनरागमनं कुतः । यदि गच्छेत् परं लोकं देहा-
देष विनिर्गतः । कस्माद्भूयो न चायाति? बन्धुस्नेहस-
माकुलः । ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह ।
पृष्ठ २९२३
मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित् । त्रयो
वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । जर्फरीतुर्फरीत्यादि
पण्डिनानां वचः स्मृतम् । अश्वस्यात्र हि शिश्नन्तु
पत्नीग्राह्यं प्रकीर्त्तितम् । भण्डैस्तद्वत् परञ्चैव ग्राह्य
जातं प्रकीर्त्तितम् । मांसानां खादनं तद्वन्निशाचरसमी
रितमिति” । तस्माद्बहूनां प्राणिनामनुग्रहार्थं चार्ब्बाकम
तमाश्रयणीयमिति रमणीयम्” । नैषधे च तन्मतं
मङ्घ्या वर्ण्णितं यथा
“ग्रावोम्मज्जनवद्यज्ञफलेऽपि श्रुतिसत्यता । कां श्रद्धा
तत्र घीवृद्धाः! कामाध्वा यत् खिलीकृतः । केनापि
बोधिसत्वेन जातं सत्त्वेन हेतुना । यद्वेदमर्मभेदाय जगदे
जगदस्थिरम् । अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्म-
गुण्ठनम् । प्रज्ञापौरुषनिःखानां जीवो जल्पति
जीविकाः । शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः ।
तदनन्तकुलाद्दोषाददोषा जातिरस्ति का । कामिनीवर्ग-
संसर्गेर्न कः सङ्क्रान्तपातकः । नाश्नाति स्नाति हा
मोहात् कामक्षाममिदं जगत् । ईर्ष्यया रक्षतो नारी-
र्धिक् कुलस्थितिदाम्भिकान् । स्मरान्धत्वाविशेषेऽपि तथा
नरमरक्षतः । परदारनिवृत्तिर्या सोऽयं स्वयमनादृतः ।
अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना । गुरुतल्प-
मतौ पापकल्पनां त्यजत द्विजाः! । येषां वः पत्युरत्यु-
च्चैर्गुरुदारग्रहे ग्रहः । पापात्तापा, मुदः पुण्यात्,
परासोः स्युरिति श्रुतिः । वैपरीत्यं ध्रुवं साक्षात्तदा-
ख्यात बलाबले । सन्देहेऽप्यन्यदेहाप्तेर्विवर्ज्यं वृजिनं
यदि । त्यजत श्रोत्रियाः! सत्रं हिंसादूषणसंशयात् ।
यस्त्रिवेदिविदां वन्द्यः स व्यासोऽपि जजल्प वः ।
रामाया जातकामायाः प्रशस्ता हस्तधारणा । सुकृते
वः कथं श्रद्धा सुरते च कथं न सा? । तत्कर्म पुरुषः
कुर्य्याद्येनान्ते सुखमेधते । बलात् कुरुत पापानि सन्तु
तान्यकृतानि वः । सर्व्वान् बलकृतानर्थानकृतान् मनुर-
ब्रवीत् । स्वागमार्थेऽपि माऽस्मिंस्थस्तीर्थिका! विचिकि-
त्सितवः । तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ ।
श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम् । व्याख्या
बुद्धिबलापेक्षा सा नोपेक्ष्या सुखोन्मुखी । यस्मिन्नस्तीति
धीर्देहे तद्दाहे वः किमेनसा । क्वापि किन्तत् फलं न
स्यादात्मेति परसाक्षिके । मृतः स्मरति कर्म्माणि मृते
कर्मफलोर्मयः । अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्त्तवार्त्तया!
एकं सन्दिग्धयोस्तावत् भावि तत्रेष्टजन्मनि । हेतुमाहुः
स्वमन्त्रादीनसाङ्गानन्यथा विटाः । जनेन जानतास्मीति
कायं नायं त्वमित्यसौ । त्याज्यते ग्राह्यते चान्यदहो
श्रुत्याऽतिधूर्त्तया । एकस्य विश्वपापेन तापेऽनन्ते
निमज्जतः । कः श्रौतस्यात्मनो भीरो! भरः स्याद् दुरितेन
ते । किन्ते वृन्ताहृतात् पुष्पात् तन्मात्रे हि फलत्यदः ।
न्यास्यं तन्मूर्द्धन्यन्यस्य न्यास्यमेवाश्मनो यदि । तृणानीव
घृणावादान् विधूनय बधूरनु । तवापि तादृशस्यैव का
चिरं जनवञ्चना । कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्य-
लङ्घिताम् । वेदोऽपि देवकीयाज्ञा तत्राज्ञा काधिका-
र्हणा । प्रलापमपि वेदस्य भागं मन्यध्वमेव चेत् ।
केनाभाम्येन दुःखान्न विधीनपि तथेच्छथ । श्रुतिं
श्रद्धत्थ विक्षिप्ताः । प्रक्षिप्तां ब्रूथ च स्वयम् । मीमांसा
मांसलप्रज्ञा! स्तां यूपद्विपदायिनीम् । को हि
वेदह्यमुष्मिन् वा लोक इत्याह या श्रुतिः । सम्प्रामाण्यादमुं
लोकं लोकः प्रत्येतु वा कथम् । धर्म्माधर्म्मौ मनुर्ज्जल्प-
न्नशक्यार्जनवर्जनौ । व्याजान्मण्डलदण्डार्थी श्रदधायि
मुधा बुधैः । व्यासस्यैव निरा तस्मिन् श्रद्धावद्धा स्थ
तान्त्रिकाः । मत्स्यस्याप्युपदेश्यान् वः कोमत्स्यानपि
भाषताम् । पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः ।
निनिन्द तेषु निन्दत्सु स्तुवत्सु स्तुतवान्न किम्? ।
न भ्रातुः किल देव्यां स व्यासः कामात् समासजत् ।
दासीरतस्तदासीद्यन्मात्रा तत्राप्यदेशि किम्? । देवैर्द्विजैः
कृता ग्रन्थाः पन्था येषां तदादृतौ । गां नतैः किं न
तैर्व्यक्तं ततोऽप्यात्माऽधरीकृतः । साधु कासुकता मुक्ता
शान्तस्वान्तैर्मखोन्मुखैः । सारङ्गलोचनासारां दिवं प्रेत्यापि
लिप्सुभिः । उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतम् ।
अपवर्गे तृतीयेति भणतः पाणिनेरपि । बिभ्रत्युपरि
यानाय जना जनितमज्जनाः । विग्रहायाग्रतः पश्चाद्-
गत्वरोरभ्रविभ्रमम् । कः शमः क्रियतां प्राज्ञाः! प्रीयाप्रीतौ
परिश्रमः । भस्मीभूतस्य भूतस्य पुनरागमनं भ्रमः ।
एनसानेन तिर्य्यक् स्यादित्यादिः का विभीषिका । राजिलो-
ऽपि हि राजेव स्वैः सुखी सुखहेतुभिः । हताश्चेद्दिवि
दोव्यन्ति दैत्या दैत्यारिणा रणे । तत्रापि तेन युद्ध्यन्तां
हता अपि तथैव ते । स्वञ्च ब्रह्म च संसारे मुक्तौ तु ब्रह्म
केवलम् । इति स्वोच्छित्तिमुक्त्युक्तिर्वैदग्धी वेदवादिनाम् ।
मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतमं
तमवेतैब यथा वित्थ तथैव सः । दारा हरिहरादीनां
तन्मग्नमनसो भृशम् । किं न मुक्ताः पुनः सन्ति कारा-
पृष्ठ २९२४
गार मनोभुवः । देवश्चेदस्ति सर्वज्ञः करुणाभागबन्ध्य-
वाक् । तत्किं वाग्व्ययमात्रान्नः कृतार्थयति नार्थिनः
भविनां भावयन् दुःखं स्वकर्मजमपीश्वरः । स्यादकारण
वैरी नः कारणादपरे परे । तर्काप्रतिष्ठया साम्यादन्यो-
न्यस्य व्यतिघ्नताम् । नाप्रामाण्यं मतानां स्यात् केषां
सत्तिपक्षवत् । अक्रोधं शिक्षयन्त्यन्यान् क्रोधना ये
तपोधनाः! निर्द्धनास्ते धनायैव धातुवादोपदेशिनः ।
किं वित्तं दत्थ तुष्टेयमदातरि हरिप्रिया । दत्त्वा सर्वं
धनं मुग्धो बन्धनं लब्धवान् बलिः । दोग्धा द्रोग्धा
च सर्वोऽयं घनिनश्चेतसा जनः । विसूज्य लोभसंक्षो-
भमेकद्वा यद्युदासते । दैन्यस्थायुष्यमस्तैन्यमभक्ष्यं कुक्षि-
वञ्चना । स्वाच्छन्द्यमृच्छतानन्दकन्दलीकन्दमेककम्”
२ दुर्योधनसखे राक्षसभेदे चार्वाकबषपर्वशब्दे विवृतिः

चार्वाकवधपर्वन् न० मा० शान्तिपर्वान्तर्भते अवान्तर-

पर्बभेदे तद्वधकथा च तत्र ३८ अ० यथा ।
“निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः । राजानं
व्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रव्रवीत् । तत्र दुर्य्योधन
सस्वो भिक्षुरूपेण संवृतः । साक्षः शिखी त्रिदण्डी च
धृष्टो विगतसाध्वसः । वृतः सर्वैस्तथा विप्रैराशी-
र्वादविवक्षुभिः । परःसहस्वैः राजेन्द्र! तपोनियमसं-
श्रितैः । स दुष्टः पापमाशंसुः पाण्डवानां महात्म-
नाम् । अनामन्त्र्यैव तान् विप्रांस्तमुवाच महीपतिम् ।
चार्वाक उवाच । इमे प्राहुर्द्विजास्सर्वे समारोप्य
वचोमयि । धिग्गवन्तं कुनृपतिं ज्ञातिघातिनमस्तु
वै । किं तेन स्थाद्धि कौन्तेय! कृत्वेमं ज्ञातिसङ्क्षयम् ।
घातयित्वा गुरूंश्चैव मृतं श्रेयो म जीवितम् । इति ते
वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः । विव्यथुश्चुक्रुशु-
श्चैव तस्य वाक्यप्रदर्षिताः । ततस्ते ब्राह्मणाः सर्वे स
च राजा युक्षिष्ठिरः । व्रीडिताः परमोद्विग्नास्तूष्णी
मासन् विशाम्पते! । युघिष्टिर उवाच । प्रसीआदन्तु
भवन्यो मे प्रणतस्वाम्तियाचतः । प्रत्यासन्नव्यसमिनं
न मां धिक्कर्त्तुमर्हथ । वैशम्पायम उवाच । सतो
राजन् । ब्राह्मणास्ते सर्वएव विशाम्पते! । ऊचुर्न्नैतद्व-
चोऽस्नाकं चीरस्तु तव पार्थिव! । जज्ञुश्चैव महात्मान
स्ततस्तु ज्ञामचक्षुषा । ब्राह्मणा वेदविद्धांसस्तपोमिर्विभली
कृताः । ब्राह्मणा ऊचुः । एष दुयाधनसखा चार्वाको
नाम राक्षसः । परिव्राजकरूपेण हितं तस्य चिकी-
र्षति । न वयं ब्रूम घमात्मन् व्येतु ते गयमीदृशम् ।
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह । वैशम्पायन
उवाच । ततस्ते ब्राह्मणाःसर्वे हुङ्कारैः क्रोधमू
र्च्छिताः । निर्भर्त्सयन्तः शुचयो निजघ्नुः पावराक्षसम्” ।
मुद्रितपुस्तके शान्तिपर्व्वणि एतत्पर्व्व दृश्यते किन्तु
भा० आदिपर्व्वणि उपक्रमणिकाध्याये स्त्रीपर्व्वान्तर्गत-
पर्वोक्तौ “चार्वाकस्य बधः पर्व रक्षसो ब्रह्मरूपिणः ।
आभिषेचनिकं पर्व घर्मराजस्य घोमतः । प्रविभागो
गृहाणाञ्च पर्वोक्तं तदनन्तरम् । शान्तिपर्व ततोयत्र
राजधर्मानुशासनम्” । इत्यगेन गृहविभामपर्व्य-
न्तस्य स्त्रीपर्वत्वेन तत्रोक्तिः । तच्च पर्व मुद्रितपुस्तके
शान्तिपर्वणि ४४ अध्यायपर्य्यन्तम् । अतस्तत्पर्वस्तमेव
स्त्रीपर्व्वेत्यनुनीयते अन्यथा प्रतिज्ञाविरोधःस्यात् यदि
च स्त्रीपर्वक्षि सप्तविंशतिरध्यायाएव व्यासनोपक्रम-
णिकाध्याये प्रतिज्ञाताः प्रतिज्ञाताश्च शान्तिपर्वणि ३३९
अध्यायाः सुद्रितपुस्तके च स्त्रीपर्व्वणि २७ अध्यायाएव
दृश्यन्ते सुद्रितपुस्तके शान्तिपर्वणि च ४४ अव्याये
गृहविभागो दृश्यते इत्यध्यायाधिक्यं तथापि शान्तिपर्व्वणि
३३९ अध्यायानामेव वक्तव्यत्वेन प्रतिज्ञातत्वात् मुदितपु-
स्तके च ३६७ अध्यायानां दर्शनात् अध्यायायिक्यस्य
लिपिकरप्रनादकृतत्वस्येव स्त्रीपर्वण्यपि सप्तविंशतिसंख्या-
धिक्यस्य लिपिकरप्रमादकृतत्वस्यापि वक्तुं शक्यत्वात् ।
वस्तुतस्तु उपक्रमणिकाध्याये चार्वाकस्य बधः पर्व इत्यतः
पूर्व्वमेव “शान्तिपर्व ततः प्रोक्तम् इत्यादि पद्यं
मूलग्रन्थे स्थितम् । लिपिकरप्रमादात उत्तरत्र सुद्रितमित्ये
व कल्पयितुसुचितम अतस्तस्य शान्तिपर्वान्तर्गतत्वे ऽपि न
विरोधः । अध्यायन्थूनाधिक्यस्य तु लिपिकरप्रमादकृत
कल्पनमेव ज्यायः । अतएव उपक्रमणिकायां स्त्रीपर्व-
प्रतिपाद्यविपतकथने “तोयकर्म्मणि चारव्घे राज्ञामुदक
दानिके । गढोत्पन्नस्य चाख्यानं कर्णस्म ४ थयात्मनः”
इत्यन्तेन स्त्रीपर्ववृत्तान्तोक्तिः सङ्गच्छत ।

चार्व्वाघाट(त) पु० चारु आहन्ति आ + हन्--“दारावा-

हनोऽण् अन्तस्य च टः सज्ञायाम्, चारौ वा” वार्त्ति०
अण् वा टान्यादशः । सुन्दराघातके खगभेदे

चार्वादि पु० नञः परतः अन्तोदात्ततानिमित्ते पा० ग०

सत्रोक्ते शब्दगणे सच गणः “चारु, साधु यौषलि
अनङ्धेजय वदाम्य (अकस्मात्) सर्त्तमान बर्धमान त्त्वरमाण
(क्रियमाण क्रीयमाण रोचमान क्षोभमानाः)संज्ञायाम् ।
विकारः (सदृशे) व्यस्तसमस्ते । गृहपति गृहपतिक ।
(राजाह्नोश्छन्दसि)” । “कृत्योकेष्णुचार्य्यादयश्च” पा०
अचारुः ।
पृष्ठ २९२५

चार्व्वो स्त्री चारु + गुणवचनत्वात् स्त्रियां ङीष् । १ चारुत्व

युक्तायां स्त्रियां २ ज्योत्स्नायाम् ३ वुद्धौ ४ कुवेरपत्न्याम्
च मेदि० ५ दीप्तौ शब्दर० ।

चाल पु० चल--ण । छदिसि १ पटले खनामख्याते गृहाच्छा-

दने तृणादौ त्रिका० भावे घञ् । २ चलने पु० चल--णिच्
भावे अच् । ३ चालने पु० ।

चालक त्रि० चल + ण्वुल् । १ स्थामास्तरप्रापके २ अङ्कुशदुर्द्दमगजे पु० त्रिका० ।

चालन न० चल--णिच्--भावे ल्युट् । १ स्थानान्तरनयने

२ कम्पने च । “शोषणं मागरस्नाहो पर्वतख च चालनम्”
भा० सौ० ८ अ० । करणे ल्युट् ३ चालन्यां न० । “क्षुद्रच्छिद्र
समोपेतं चालनं तितौः स्मृतः” इति कर्म्मप्रदीपः ।

चालनी स्त्री चल--णिच् करणे ल्युट् । तण्डुलादे । क्षुद्रां-

शापसारणार्थे वंशखण्डादिनिर्म्मिते पात्रभेदे तितऔ
(चालुनी) अमरः ।

चाष पुंस्त्री चष--भक्षणे स्वार्थे णिच्--अच् । १ नीलकण्ठे

खगे अमरः स्त्रियां जातित्वात् ङीष् । “केयूरमण्ड-
लीनां प्रभासन्तानेन क्वचिद्विकीर्य्यमाणचाषः” काद० ।
“अशोकश्च विशोकश्च नन्दनः पुष्टिवर्द्धनः । हेमतुण्डो
मणिग्रीयः स्वस्तिकश्चापराजितः । अष्टौ चाषस्म
नामानि चाषं दृष्ट्वा तु यः पठेत् । अथ सिद्धिर्भवेत्तस्थ
सिष्टमन्नं वराङ्गने!” इति पठन्ति । “मार्जारनकुलौ
हत्वा चाषं मण्डूकमेव च । श्वगोधोलूककाकांश्च
शूद्रहत्याब्रत चरेत्” मनुना तद्बघ शूद्रहत्याव्रतमुक्तम्
यात्रायां तस्य पूर्वदिगादिभेदेन स्थित्या शुभाशुभम् वृ० स०
८६ अ० उक्त यथा । “चाषशल्वकपुण्याहघण्टाशङ्खरवा
उदक्” । “धन्या पकुलचाषौ च सरटः पापदोऽग्रतः” ।
“अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः” ॥ तस्य केतु-
स्थितौ युवराजभयमुक्तं तत्रैव ४३ अ० यथा
“क्रव्यादकौशिककपोतककाककङ्कैः केतुस्थितैर्महदुशन्ति
भयं । नृपस्य । चाषेण चापि युवराजमयं षदन्ति
श्येनो विलोचनभयं निपतन् करोति” । “कृकवाकु
जीवजीवकशुकशिखिशतपत्रचाषहारीतः । क्रकरचको-
रकपिञ्जलबञ्जुलपारावतश्रीकैः” ४८ अ० ।

चास पु० चष--हिंसायाम् णिच्--अच् पृषो० । १ इक्षुप्रभेदे

२ चाषखगे पुंस्त्री मेदि० स्थियां जातित्वात् ङीप् ।

चि आकर्षणेनादाने विमागपूर्व्वकादाने च उभ० द्विक० खा०

अनिट् । चिनोति चिनुते । चिनोतु चिनु । अचैषीत्
अचेष्ट । चिकाय चिचाय चिक्ये चिच्ये । कर्मणि चीयते
अचायि । चिकीषति ते चिचीषति ते । चयनीयम्
चेतष्यम् चेयम् । चिन्वन् चिन्वानः । चितः चितिः ।
काथः चायः चयनम् । अग्निचित् चित्वा आचित्य
णिचि चाययति चापयति ।

चि चयने विमागपूर्वकादाने भ्वा० उभ० अनिट् । चयति ते स्वादिवत्

चि चयने विमागपूर्वकादाने वा० चु० उभ० पक्षे भ्वा० द्विक०

अनिट् वा घटादि । चाययतिते चापयतिते चपयति इत्येके
अचीचयत् त अचीचपत् । “दुहियाचिरुधिप्रछिभिक्षिचि-
ञामिति” भाष्योक्तेरस्य द्विकर्म्मकत्वम् “अचैषुर्वा-
नरोत्तमाः” भट्टिः । “चिचीषयन्तोध्वरपात्रजातम्”
भट्टिः “अन्तरीक्षे नाग्निश्चेतव्य” श्रुतिः । “राजहंस!
तव सैव शुम्रता चीयते न च न चापचीयते” काघ्यप्र० ।
  • अधि + आधिक्येन चयने । “यएष तपत्येतस्मादेवाध्यचीय-
तैतस्मिन्नध्यचीयत” शत० व्रा० १० । ४ ।
  • अमु + पश्चाच्चयने “आ मूलात् शास्त्रामिरनुचितः” ऐतरे० व्रा०
  • अप + हीनतासम्पादने सक० । “यस्यायुरपचीयते” भा० व०
१३७८ । कर्म्मकर्त्तरि प्रयोगः ।
  • अव + अधःस्थित्वा चयने । “फलान्यवाचिनोद्वृक्षान्” मुग्ध० ।
  • अव + आ सम्यगाचयने “पुष्पाण्यवाचिन्वतीम्” मा० व० १३१५
  • आ + सम्यक् चयने । “कर्माण्याचिनुतेऽ सकृत्” भाग० ४ ।
२९ । ७८ । “आचिक्याते च भूयोऽपि राघवौ तेन पन्नगेः”
भा० व० १२ व्याप्तौ च “कचाचितौ विव्यगिवागजौ
गजौ” किरा०
  • अतु + आ अन्वाचये अन्वाचयशब्दे दृश्यम्
  • सम् + आ + समाह्यरे “यदा तु घाससां राशिः सभामध्ये
समाचितः” भा० स० २३०४ ।
  • उद् ऊर्द्धतश्चयमे उत्तोल्यादाने “उच्चिक्यिरे पुष्पफलं वनानि” भट्टिः ।
  • अभि + उद् + समुच्चये अभ्युच्चयशब्दे दृश्यम्
  • सम् + उद् + समुच्चये समाहारे सक० एकमातीयक्रियाम्ब-
यादौ “अपिः पदार्थसंभाव्यगर्हामुज्ञासमुच्चये” सुग्ध०
“अपिशब्देन संयोगाभावादिः समुच्चीयते” काव्यप्र० ।
  • उप + वृद्धौ अक० वर्द्धने सक० । आनि घर्मे कपालान्यु
पचिन्वन्ति वेथसः” तै० त्ति० १ । १ । ७ । २ । “अथ--मौलिगतस्ये-
न्दोर्विशदैर्दशनांशुभिः । उपचिन्वन् प्रभां तन्वीम्” कुमा० ।
  • नि + निशेषेण चयने समुच्चये च “रथः शरैर्मे निचितः” भा०
७ । १४ । “स्वदेशे निचिता दोषा अन्यस्स्मिन् कोप-
पृष्ठ २९२६
मानताः” सुश्रुतः “त्रयः परार्थे क्लिश्यन्ति साक्षिणः
प्रतिभूकुलम् । चत्वारस्तूपचीयन्ते विप्र आद्यो वणिङ्
नृपः” मनुः
  • परि + परिचये पुनः पुनरनुशीलने । “चरणारविन्दस्य ध्यान-
परिचितभक्तियोगः” भाग० ५ । ७ । १ । “मुक्ताजालं
चिरपरिचितं त्याजितो दैवगत्या” मेघः । “हेतुः परिचय-
स्थैर्य्ये वक्तुर्गुणनिकैव सा” माघः ।
  • प्र + प्रकर्षेण चयने समाहारे च सक० “कर्णिकारान् प्रचि-
ण्वती” भा० आ० ७७
  • वि + विशेषेण चयने । “पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न
कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः”
भा० उ० ११११ श्लो०
  • सम् + सम्यक् चयने समाहारे “संचिन्वन्ति सदा युक्ता
जातरूपञ्च मौक्तिकम्” हरिव० ५२३६

चिकित त्रि० जु० चि--ज्ञाने कर्मणि क्त “छन्दस्युभयथा”

पा० निष्ठायाः सावधातुकसंज्ञायां शप् जुहोत्यादित्वात्
तस्व श्लुः द्वित्वम्, कित--ज्ञाने यङ् लुक् पचाद्यच् ।
संज्ञापूर्ब्बकत्वात् अभ्यासगुणाभावः इति माघवः । १ ज्ञाते
२ अतिशयज्ञातरिच “त्वं सोम! प्रचिकितो मनीषा” ऋ०
१ । ९१ । १ । अस्य भाष्ये उक्ता व्युत्पत्तिर्दृश्या । २
ऋषिभेदे । तस्यापत्यम् इञ् इञलत्वात् यूनि फक् । चैकि-
तायन तस्य यून्यपत्ये पुंस्त्री । “त्रयोहोद्गीथे कुशला
बभूवुः शिलकः शालावत्यश्चैकितायनोदाल्भ्यः”
छा० उ० ।

चिकितान त्रि० कित--ज्ञाने कानच् । १ अभिज्ञे “तपोवसो!

चिकितानो अचित्तान्” ऋ० ३ । १८ । २ । “चिकितानः
कर्म्माभिज्ञः” मा० । ३ ऋषिभेदे पु० । तस्यापत्यमण् ततः
यूनि वा० ढक् । चैकितानेय तस्य यून्यपत्ये । “तद्धापि
व्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच” वृ० उ० ।

चिकितु त्रि० कित--ज्ञाने उन् वेदे द्वित्वम् । अभिज्ञे

“अचेत्यग्निश्चिकितुर्हव्यवाट्सुमद्रथः” ऋ० ८ । ५६ । ५ ।

चिकित्वन् त्रि० कित--ज्ञाने ङ्बनिप् वेदे नि० द्वित्वम् । ज्ञात-

रि । “केतेन शर्मन्त्सचते सुषामण्यग्ने! तुभ्यं
चिकित्वना” ऋ० ८ । ६० । १८ ।

चिकित्वित् त्रि० कित--ज्ञाने बा० क्विति वेदे नि० द्वित्वम् ।

अभिज्ञे “यवयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि” ऋ०
४ । ५२ । ४ । “चिकित्विन् मनसं त्वा देवं मर्तास ऊतये”
ऋ० ५ । २२ । ३ ।

चिकित्सक पु० कित--रोगापनयने स्वार्थे सन्--ण्वुल् ।

रोगापनयनकर्त्तरि वैद्ये अमरः । “पूयं चिकित्सक-
स्यान्नम्” मनुः । तल्लक्षणादि चिकित्साशब्दे दृश्यम्

चिकित्सा स्त्री कित--स्वार्थे सन्--भावे अ । रोगप्रती

कारे रोगनिवारणोपाये अमरः । अस्य लक्षणभेदाङ्गा-
दिकम् भावप्र० उक्तं यथा
“या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते ।
दोषधातुमलानां या साम्यकृत् सैव रोगहृत्” ।
क्रियात्र कर्म्म व्याधिर्हन्यतेऽनयेति व्याधिहरणी
“करणाधिकरणयोश्चेति” पा० सूत्रेण करणार्थे ल्युट् तथाच ।
“याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः । सा
चिकित्सा विकाराणां कर्म तद्भिषजाम्मतम्” । “या
ह्युदीर्णं शमयति नान्यं व्याधिं करोति च । सा क्रिया
न तु या व्याधिं हरत्यन्यमुदीरयेत्” । क्रियात्र
चिकित्सा । तथा चामरसिंहः “आरम्भो निष्कृतिः
शिक्षा पूजनं सम्प्रधारणम् । उपायः कर्म चेष्टा च
चिकित्सा च नवक्रिया इति । अथ चिकित्साविध्यु-
पदेशः । “जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया
गदः । वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरो-
त्यसौ । रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ।
ततः कर्म्म भिषक् पश्चात् ज्ञानपूर्वं समाचरेत्” ।
अयमर्थः भिषक् आदौ रोगं परीक्षेत विचारयेत् । ततः
पश्चाद्रोगौषघविचारानन्तरं ज्ञानपूर्वं सावधानो न त्वव-
ज्ञाय कर्म चिकित्सामौषधदानादिरूपां समाचरेदित्यर्थः ।
रोगाज्ञानेन चिकित्साकरणे दोषमाह
“यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक् । अव्यौ०
षधविधानज्ञस्तस्य सिद्धिर्य्यदृच्छया” । स्वैरितया सिद्धि-
र्भवति नापि भवतीत्यर्थः । अन्यच्च
“भेषजं केवलं कर्त्तुं यो जानाति न चामयम् ।
वैद्यकर्म स चेत् कुर्य्याद्बधमर्हति राजतः” ।
रोगज्ञाने भेषजाज्ञाने दोषमाह ।
“यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः । तं वैद्यं प्राप्य
रोगी स्याद्यथा नौर्नाविकं विना” । नाविकं कर्णधारं विना
यथा नौः सङ्कटे पतति तथा स रोगीत्यर्थः । अन्यच्च
“यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक् । स मुह्य-
त्यातुरं प्राप्य यथा भीरुरिवाहवम्” ।
रोगौषधयोर्ज्ञाने गुणमाह ।
“यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः । देशकालविभा-
पृष्ठ २९२७
गज्ञस्तस्य सिद्धिर्न संशयः । आदावन्ते रुजां ज्ञाने
प्रयतेत चिकित्सकः । भेषजानां विधानेन ततः कुर्य्या-
च्चिकित्सितम्” । चिकित्सितमित्यत्र भावे क्तः ।
“विकाराणामकुशलो न जिह्रीयात् कदाचन । न हि
सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः” ।
न जिह्रीयात् न लज्जेत । ध्रुवा नियता । “नास्ति रोगो
विना दोषैर्यस्मात्तस्माच्चिकित्सकः । अनुक्तमपि दोषाणां
लिङ्गैर्व्याधिमुपाचरेत् । येन कुर्वन्त्यसाध्यानां चिकित्सां
ते भिषग्वराः । अतो वैद्यैः श्रमः कार्य्यः साध्यासाध्य
परीक्षणे” । रोगज्ञानोपाया अग्रे वक्ष्यन्ते । “शीते शीत
प्रतीकारमुष्णे तूष्णनिवारणम् । कृत्वा कुर्य्यात् क्रियां
प्राप्तां क्रियाकालं न हापयेत् । अप्राप्ते वा क्रियाकाले
प्राप्ते वा न क्रिया कृता । क्रिया हीनातिरिक्ता च
साध्येष्वपि न सिद्ध्यति” । अयमर्थः । काले चिकित्साऽवसरे
अप्राप्तेऽनागते । या क्रिया चिकित्सा । यथा ज्वरे
जीर्णतामप्राप्ते तरुणएव कषायदानक्रिया न सिद्ध्यति ।
या च क्रिया चिकित्सावसरे प्राप्ते न कृता अर्थात्
पश्चात् कृता । यथा दाहे कथञ्चिच्छान्ते पश्चाच्छीतलानु-
लेपनादिक्रिया । तथा हीनातिरिक्ता च क्रिया
साध्येष्वपि न सिद्ध्यति । अतिरिक्तां हीनां च क्रियां
वर्ज्जयन्नाह । “विकारेऽल्पे महत् कर्म्म क्रिया लघ्वी
गरीयसि । द्वयमेतदकौशल्यं कौशल्यं युक्तकर्म्मता ।
क्रियायास्तु गुणालामे क्रियामन्यां प्रयोजयेत् । पूर्वस्यां
शान्तवेगायां न क्रियासङ्करोहितः” । भिन्नरूपाभिस्तु
क्रियाभिः साङ्कर्य्यमपि न दोषाय । यतआह “क्रिया-
भिस्तुल्यरूपाभिर्न क्रियासङ्करो हितः । ताभिस्तु भिन्न-
रूपाभिः साङ्कर्य्यं नैव दुष्यति” । अतएवोक्तम् “लङ्घनं
वालुकास्वेदो नस्यं निष्ठीवनं तथा । अवलेहोऽञ्जनञ्चापि
प्राक् प्रयोज्यं त्रिदोषजे” । ज्वर इति शेषः । “नचैकान्तेन
निर्द्दिष्टे शास्त्रे निविशते बुधः । स्वयमप्यत्र भिषजा
तर्कणीयं चिकित्सता” । यतआह “उत्पद्यते च
सावस्था दोषकालबलस्प्रति । यस्य कार्यमकार्य्यं स्यात्
कर्म्म कार्य्यं विवर्जितम्” । विवर्जितं कर्म्म कर्त्तव्यं
भवतीत्यर्थः । अथ चिकित्सायां फलमाह । “क्वचि-
दर्थः क्वचिन्मैत्री क्वचिद्धर्म्मः क्वचिद्यशः । कर्म्माभ्यासः
क्वचिच्चेति चिकित्सा नास्ति निःफला । आयुर्व्वेदो-
दितां युक्तिं कुर्व्वाणा विहितां च ये । पुण्यायुर्वृद्धि-
संयुक्ता निरोगाश्च भवन्ति ते । नैव कुर्वीत लोभेन
चिकित्सां पुण्यविक्रियाम् । ईश्वराणां वसुमतां लिप्स-
तार्थन्तु वृत्तये । चिकित्मितं शरीरं यो न निष्क्रो-
णाति दुर्म्मतिः । स यत्करोति सुकृतं सर्वं तद्भिषग-
श्नुते । न देशो मनुजैर्हीनो न मनुष्या निरामयाः ।
ततः सर्वत्र वैद्यानां सुसिद्धा एव वृत्तयः” । अथ
चिकित्साया अङ्गानि । “रोगी दूतो भिषग्दीर्घमायु-
र्द्रव्यं सुसेवकः । सदौषधं चिकित्सायाम् इत्यङ्गानि
बुधा जगुः” । तत्र रोगिणो लक्षणमाह । “रोगो
यस्यास्ति रोगी स स चिकित्स्यस्तु यादृश । यादृश-
श्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्यताम्” । तत्र चिकि
त्स्यः । “निजप्रकृतिवर्णाभ्यां युक्तः सत्वेन चक्षुषा ।
चिकित्स्यो भिषजां रोगी वैद्यभक्तो जितेन्द्रियः” । सत्वं
व्यसनाभ्युदयक्रियादिष्वविह्वलताकरं तेन युक्तः । चक्षुषा
चक्षुरुपलक्षितेन । ततोऽन्येनापीन्द्रियेण चिकित्स्यः
रोगान्मोचयितव्यः । अन्थच्च “आयुष्मान् सत्ववान्
साध्यो द्रव्यवान् मित्रवानपि । चिकित्स्यो भिषजा
रोगी वैद्यवाक्यकृदास्तिकः” । आयुर्बेदोऽस्तीति मति
र्यस्य आस्तिकः । अथाचिकित्स्यः “चण्डः
साहसिको मीरुः कृतघ्नो व्यग्र एव च । शोकाकुलो मुमू-
र्षुश्च विहीनः करणैश्चयः । वैरी वद्यविदग्धश्च श्रद्धा-
हीनश्च शङ्कितः । भिषजामविधेया । स्युर्नोपक्रम्या भिष
ग्विधाः । एतानुपाचरन्वैद्यो बहून् दोषानवाप्नुयात्”
चण्डोऽत्यन्त क्रोधशीलः । कृतघ्नो बैद्यकृतोपकारलो-
पकः । व्यग्रो व्याकुलः । विहीनः करणैश्च यः
निजेन्द्रियशक्तिरहितः । वैरी न चिकित्स्यः कदाचि-
द्रोगोद्रेके अपवादभयात् । वैद्यविदग्धो वैद्यधूर्त्तः ।
तथा च सुश्रुतः । “स न सिध्यति वैद्यस्तु गृहे यस्य न
पूज्यते” । शङ्कितो वैद्यविश्वासरहितः । भिषजा-
मविधेयाः वैद्यवचनाविधायिनः । भिषग्विधाः
वैद्यतुल्याः एते नोपक्रम्याः न चिकित्स्याः । अथ
दूतस्य लक्षणम् । “यश्चिकित्सकमानेतुं याति दूतः स
कथ्यते । स च यादृक् समुचितस्तादृगत्र निगद्यते ।
दूताःसुजातयो व्यङ्गाः पटवो निर्मलाम्बराः । सुखि-
नोऽश्ववृषारूढ़ाः शुभ्रपुष्पफलैर्युताः । सजातयः
सुचेष्टाश्च सजीवदिशि सङ्गता । भिषजां समये प्राप्ता
रोगिणः सुखहेतवे” । सजातयः रोगिसमानजातयः ।
“यस्यां प्राणमरुद्वाति सा नाड़ी जीवसंज्ञिता” । अथ
दूतस्य यात्रायां शकुनविचारः । “वैद्याह्वानाय दूतस्य
पृष्ठ २९२८
गच्छतो रोगिणः कृते । न शुनं सौम्यशकुनं प्रदीप्तस्तु
सुखावहः” । प्रदीप्तोऽग्निः । दूतो रोगी च रिक्तहस्तो
वैद्यं न पश्येत् । तथाच “रिक्तहस्तो न पश्येत्तु
राजानं भिषजं गुरुमिति” । अथ वैद्यस्य लक्षणम् ।
“चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते । स च
यादृक् समीचीनस्तादृशोऽपि निगद्यते । तत्त्वाधिगत-
शास्त्रार्थो दृष्टकर्मा स्वयङ्कृती । लघुहस्तः शुचिः
शूरः सद्योऽपस्करभेषजः । प्रत्युत्पन्नमतिर्धीमान् व्यव-
सायो प्रियंवदः । सत्यधर्म्मपरो यश्च वैद्य ईदृक् प्रश-
स्यते” । दृष्टकर्म्मा दृष्टा परेण कृता चिकित्सा येन सः
स्वयङ्कृती स्वयं चिचिन्साकुशलः । लघुहस्तः सिद्धि
मद्धस्तः । अथ निषिद्धो वैद्यः । “कुचेलः कर्कशस्तब्धो
ग्रामीणः स्वयमागतः । पञ्च वद्या न पूज्यन्ते धन्वन्त-
रिसमा यदि । कर्क्कशः अप्रियवादी स्तब्धः सामि-
मानः । ग्रामीणः व्यवहाराचतुरः । अथ वैद्यस्य
कर्माह । “व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः” । अस्यायमर्थः
व्याधेः सम्यक्परिचयो व्यथाशान्तिकरणं वैद्यस्य कर्म
नतु वैद्य आयुषः प्रभुरित्यर्थः । अपरे त्वेवं व्याच-
क्षते व्याधेस्तत्त्वतः परिचयो वेदनाया शान्तिकरश्च ।
एतदेव वैद्यस्य वैद्यत्वं किन्तु वैद्य आयुषः प्रभुः आगन्तु
मृत्युशतहरणात् । तथा च सुश्रुते धन्वन्तरिः
“एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते । तत्रैकः
कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः” । अयमर्थः अथर्वाणः
अथर्वतत्वज्ञत्वेनाथर्वतुल्याः मृत्युमेकोत्तरं शतं प्रचक्ष-
ते । तत्रैको मृत्युः कालसंयुक्तः । काल आयुषो
ऽन्ते शरीरिणामवश्यं संहर्त्ता । सर्वैरुपायैर्निवारयितु-
मशक्यः । स ब्रह्मादीनायुषोऽन्ते संहरति । यत आह
लिङ्गपुराणे कार्त्तिकेयं प्रति महादेवः “ममायु
र्ग्रसते कालः कुतः पुत्र! । रसायनमिति” । तेन
कालेन संयुक्तः । संहाराय नियुक्तः सोऽवश्यं भावी
शेषाः शतं मृत्यवः आगन्तवः आगन्तुरूपहेतुजन्मानः
कार्य्यकारणयोरभेदोपचारात् । आगन्तवो हेतवः यथा ।
“विषमक्षणमजीर्णोऽत्यन्तभोजनञ्च दुर्देशजलपानम् ।
तथाऽतिबलवैरिव्याघ्रवनमहिषमत्तमातङ्गादिभिर्युद्धम् ।
दन्द्वशूकेन क्रीड़नमत्युच्चवृक्षाग्रारोहणम् बाहुभ्याम्
महातरङ्गिणीतरणमेकाकिनो रात्रौ दुर्गे मार्गे गमनम्
इत्यादि । आगन्तुहेतुजा गृत्यवो दुर्निमित्ता भावि-
भावनबलवत्त्वादायुषि सत्यपि मारयन्वि । यथा
तैलवर्त्तिवह्निषु विद्यमानेषु वात्या दीपं
नाशयति । तथाच “यथा सत्यपि तैलादौ दीपं निर्वाप-
येन्मरुत् । एवमायव्यहीनेऽपि हिंसन्त्यागन्तुमृत्यवः” ।
किन्तु आगन्तुनिमित्तानि निवारयितुञ्च शक्यन्ते । यत
आह सुश्रुते चन्वन्तरिः “दोषागन्तुनिवेत्तेभ्यः
रसमन्त्रविशारदौ । रक्षेतां नृपतिं नित्यं यत्राद्वैद्य
पुरहितौ” । वैद्यमन्त्रिणौ नृपतिं नित्यं यत्राद्रक्षेताम् ।
कुतः दोषागन्तुनिमित्तेम्यः दोषा निषिद्धाहारविहार
दूषिता वातपित्तकफरोगोत्पादकाः । आगन्तवः निषिद्धा
विहारा अतिवलवैरिविग्रहादयः ते निमित्तानि
येषान्तेभ्यः शतमृत्युभ्यः । वैद्यपुरोहितौ कथं मृत्यु
शतं निवारयितुंशक्तौ तत्राह । यतस्तौ रसमन्त्रवि-
शारदौ प्रथमं वैद्यन दिनचर्य्यारात्रिचर्य्यतु चर्य्योक्ताहा
रविहाराभ्यां वातपित्तकफधातुमलान् समानेव
रक्षति ततो रसज्ञत्वाद्सैर्मृत्युञ्जयादिमिर्निषिद्धा-
हारविहारदूषितदोषजनितान् विकारान्मृत्युहेतून-
पहरति । मन्त्री च सद्वुद्धिदानेन मृत्युहेतुभ्यो
निषिद्धविहारेभ्यो नृपतिं निचारयति । तव आगन्तु
मृत्यवो निवारयितुं शक्या नत्ववश्यम्भाविनः ।
अथायुर्विचारः । “भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः ।
तत आयुषि विस्तीर्णे चिकित्सा सफला भवेत्” । सा च
त्रिधा “आसुरी मानुषी दैवी चिकित्सा सा त्रिधा मता ।
सूत(पारद)प्रधाना देवी स्यात् छेदभेदात्मिकाऽऽसुरी ।
मानुषी षड्रसा ज्ञेया जपहोमादिसत्कृता । कलौ
चाल्पबले लोके मातुषी तत्र पजिता” वद्यकम् ।

चिकित्सित त्रि० कित--स्वार्थे सन् कर्मणि क्त । १ कृतरीग-

प्रतीकारे । भावे क्त । २ चिकित्सायां न० अमरः ।
“सूतानामश्वसारथ्यमम्यष्ठानां चिकित्सितम्” मनुना
अम्बष्ठानां चिकिसितवृत्तिरुक्ता । चिकित्सा जाताऽस्य
तारका० इतच् । ३ जातचिकित्से त्रि० । ४ ऋषिभेदे पु०
तस्यापत्यं गर्गा० यञ् । चैकित्सित्य तदपत्ये पुंस्त्री
स्त्रियां ङीप् यलोपश्च चैकित्सिती ।

चिकित्स्य त्रि० कित--स्वार्थे सन् कर्मणि थत् । प्रतीकार्य्ये

चिकित्साशब्दे उदा० । “क्षेत्रियच् परक्षेत्रे चिकि-
त्स्यः” पा० । भेषजैः स चिकित्स्यः खात् य उन्मा-
र्गेण गच्छति” भा० शा० १४ अ० । “अन्धीऽचिकित्-
स्यरोगाद्या भर्त्तव्यास्ते निरंशकाः” या० ।
पृष्ठ २९२९

चिकिन त्रि० निनता नासिका इनच् “पिटच्चिकचि च” वार्ति०

इगच् प्रकृतेश्च चिक्यादेशः । निनतनासिके (खाँदा)

चिकिल पु० चि--वा० इलच् कुक् च । पङ्के हेम० ।

चिकीर्षक त्रि० कृ--सन--ण्वुल् । कर्त्तुमिच्छौ अत्र ण्वुलो-

लित्त्वात् “लिति” पा० प्रत्ययात् पूर्ब्बस्योदात्तता ।
अत्र “न पदान्तद्विर्वचनवरेयलोपस्वरेत्यादि” पा० ।
करोतेः सनन्ताव् ण्वुल् अतोलोपः स च लितीति स्वरे
कर्त्तव्ये न स्थानिवत् । इति मनोरमोक्तेः स्वरे कर्त्तव्ये
अल्लोपस्य न स्थानिबत्त्वम् ।

चिकीर्ष्य त्रि० कर्त्तुमेष्यम् कृ--सन् कर्मणि यत् । कर्त्तु-

मेष्ये अत्र यतस्तित्त्वात् “तित्स्वरितम्” पा० स्वरितस्वरः

चिकुर पु० चि इत्यव्यकं शब्दं कुरति कुर--क । १ केशे,

अमरः “चिकुरप्रकराः जयन्ति ते” नैष० ३ वृक्षभेदे,
३ पर्वते, ४ सरीसृपे च । ५ चपले, तरले, ६ चञ्चले
च त्रि० मेदिनी । चपलश्च दोषमनिश्चित्य
बधबन्धनादिकारी । अत्र सर्पः सर्पभेदः सुमुखपिता
यथाह” मा० उ० १०२ अ० “ऐरावतकुले जातः
सुमुस्वोनाम नागराट् । आर्य्यकस्य मतः पौत्रो
दौहित्रो वामनस्य च । एतस्य हि पिता नागश्चिकुरो-
नाम मातले! । नचिराद्वैनतेयेन पञ्चत्वमुपपादितः ।
ततोऽव्रवीत् प्रीतमना मातलिर्नारदं वचः । एष मे
रुचितस्तात! जामाता भुजगोत्तमः । क्रियतामत्र यत्नो
हि प्रीतिमानस्म्यनेन वै । अस्यै नागाय वै दातुं प्रियां
दुहितरं मुने!” । कचार्थकात् अस्मात् समूहार्थे पक्ष
पाश हस्त प्रत्ययाः । चिकुरपक्ष चिकुरपाश
चिकुरहस्त केशसमूहे पु० । चिकुर + कृतौ णिच् कर्म्मणि क्त ।
चिकुरित चञ्चलीकृते त्रि० । “आरक्तचिकुरितेक्षणाम्”
काद० ।

चिकूर पु० चिकुर + पृषो० । केशे शब्दभेदप्रकाशः ।

चिक्क पीडने चु० उम० सक० सेट् । चिक्कयति ते

अचिचिक्कत् त ।

चिक्क पु० चिक् इत्यव्यक्तेन शब्देन कायति कै--क । छु छुन्दर्य्याम् । (छुँ छो) त्रिका०

चिक्कण पु० चिक्क--क्विप् चिक् तं कणति कण--शब्दे अच् ।

१ गुवाकवृक्षे । २ तत्फले न० राजनि० । ३ मसृणे स्निग्धे
(चिकण) त्रि० । शब्दमा० ४ चिक्वणगुणवत्याम् उत्तमायां
गवि स्त्री । अमरः “कठिनश्चिक्कणः श्लक्ष्णः
पिच्छिलो मृदु दारुणः” भा० शा० १८४ अ० । गौरा०
ङीष् । पूगवृक्षे हरीतक्या० तत्फले च स्त्री राजनि० ।
अस्य कन्थान्त तत्पुरुषं क्लीवता चिहणा० आद्युदात्तता
च चिक्कणकन्थम् ।

चिक्कस पु० चिक्क--असच् । यवचूर्णे हेमच० ।

चिक्का स्त्री चिक्क--अच् । १ पूगवृक्षे राजनि० । २ तत्फलेऽपि स्त्री

चिक्किर पु० चिक्क--बा इरच् । मूषिकभेदे । लन्दुरशब्दे

११८८ पृ० दृश्यम् । “लालनः पुत्रकः कृष्णोहंसिरश्चिक्कि-
स्तथा” सुश्रुत० ।

चिक्लिद त्रि० क्लिद--यङ् लुक् अच् नि० । अतिशयक्लेदयुक्ते ।

चिङ्गट पु० चिङ्गड़ + पृषो० । मत्स्यभेदे हारा० । “चिङ्गट-

स्तु गुरुर्ग्राही मधुरो बलवर्द्धनः । मेदःपित्ताम्ल
नाशी तु वृष्योरोचनकृत्तथा । कफवातकरो ज्ञेयः”
राजवल्ल० । अल्पार्थे ङीप् । (घुषाचिङ्ड़ी) क्षुद्र-
चिङ्गटे “चिङ्गटी मधुरा हृद्या कफवातविनाशिनी
गुर्वी श्लेष्मकरी ज्ञेया” राजव० ।

चिङ्गड पु० चिमित्यव्यक्तशब्देन गल्यते भक्ष्यते गल भक्षे-

कर्मणि घञर्थे संज्ञायाम् क लस्य डः । (चिङ्ड़ी)
मत्स्यभेदे शब्दमाला

चिच्चिण्ड पु० चि--बा० इण्डच् चुक् च । फलप्रधाने वृक्षे

भावप्र० । “चिच्चिण्डो वातपित्तघ्नः पथ्यो बलरुचिप्रदः ।
शोषिणोऽतिहितोज्ञेयः पटोलात् किञ्चिदूनकः” तद्गुणा
उक्ताः ।

चिच्छिटिङ्ग पु० चीयते चि--कर्म्मणि क्विप् चिदग्निः

तत्र चिटिं प्रेषणं गच्छति गम--ड पृषो० मुम् ।
कीटभेदे कीटशब्दे २०५८ पृ० सुश्रुतवाक्यं दृश्यम् ।

चिच्छक्ति चिदेव शक्तिः । चैतन्ये संक्षेपशारीरकम्

“चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते” ।
“चिच्छक्तिरस्ति परमात्मनि तेन सोऽपि व्यक्तो जगत्सु
विदितोभवकृत्यकर्त्ता । कोऽन्यस्त्वया विरहितः प्रभ-
वत्यमुष्मिन् कर्त्तुं विहर्त्तुमपि सञ्चलितुं स्वशक्त्या”
देवीभागवतम् । “मायास्यदस्य चिच्छक्त्या चैतन्यं
स्थितमात्मनि” भाग० १ । ७ । २४ ।

चिच्छायापत्ति स्त्री चिति वृद्ध्यादेः, बुद्ध्यादौ वा चितेः

छाया प्रतिविम्बः तस्या आपत्तिः । सांख्यमते १ चितौ
बुद्ध्यादेः प्रतिविम्बप्राप्तौ वेदान्तिमते २ बुद्ध्यादौ चितः
प्रतिविम्बनप्राप्तौ च । चित्प्रतिविम्बस्वीकारश्च
सोपपत्तिकः “अन्तःकरणस्य तदुज्ज्वलितत्वाल्लोहवदधि-
ष्ठातुत्वम्” सां० सू० भाष्ये समर्थितस्तच्च वाक्यं १९५ ।
९६ पृ० उक्तम् ततः शेषन्तु “ननु प्रतिबिम्बहेतुतया
पृष्ठ २९३०
संयोगविशेषावश्यकत्वे प्रतिविम्बकल्पना व्यर्था प्रतिविम्ब-
कार्य्यस्यार्थज्ञानादेः संयोगविशेषादेव सम्भवादिति ।
मैवम् । बुद्धौ चैतन्यप्रतिबिम्बश्चैतन्यदर्शनार्थं कल्प्यते दर्पणे
मुखप्रतिविम्बवत् । अन्यथा कर्मकर्तृविरोधेन स्वस्य
साक्षात् स्वदर्शनानुपपत्तेः । अयमेव च चित्प्रतिविम्बो बुद्धौ
चिच्छायापत्तिरिति चैतन्याध्यास इति चिदावेश इति
चोच्यते । यश्च चैतन्ये बुद्धेः प्रतिविम्बः स चारूढ़-
विषयैः सह बुद्धेर्भानार्थमिष्यते । अर्थाकारतयैवार्थ-
ग्रहणस्य बुद्धेरन्यत्र स्थले दृष्टत्वेन तां विना संरोगवि-
शेषमात्रेणार्थभानस्य पुरुषेऽप्यनौचित्यात् अर्थाकार-
स्यैवार्थग्रहणशब्दार्थत्वाच्चेति । स चार्थाकारः पुरुषे
परिणामो न सम्भवतीत्यर्थात् प्रतिविम्बरूप एव पर्यव-
स्यतीति दिक् । स चायमन्योऽन्यप्रतिबिम्बो योगभाष्ये
व्यासदेवैः सिद्धान्तितः । “चितिशक्तिरपरिणामिन्यप्रति-
संक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनु-
पतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनु-
कारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्या-
ख्यायत” इत्यादिना ।
अन्तःकरणस्यैकत्वेऽपि वृत्तिभेदाद्भेदः सा० प्र० भाष्ये
समर्थितस्तद्वाक्यञ्च अन्तःकरणशब्दे १९५ पृ० उक्तम्

चिच्छिल पु० १ देशभेदे २ तद्वासिषु ब० व० । मेलकैस्त्रैपुरै-

श्चैव चिच्छिलैश्च समन्वितः” भा० भी० ८८ अ० ।

चिञ्चा स्त्री चिमित्यव्यक्तं शब्दं चिनोति चि--ड । १

तिन्तिडीवृक्षे अमरः । तत्फले अण् हरितक्या०
लुपि व्यक्तिवचनत्वात् स्त्री । स्वार्थे क । २ गुञ्जायां
चिञ्चिकाप्यत्र गौरा० ङीष् । चिञ्चीत्यप्यत्र केचित्

चिञ्चिड पु० चिमित्यव्यक्तशब्देन चिडति चिड--वासे ।

चिञ्चिण्डवृक्षे भावप्र० । चिञ्चिण्ड इत्यत्र चिच्चिड इति
पाठः गुणास्तु चिच्चिण्डशब्दोक्ताः

चिञ्चाटक पु० चिञ्चेवाटति अट--ण्वुल् । (चेँचको) तृणु

भेदे रत्नमा० । चिञ्चोटक इत्यपि पाठः तत्रार्थे पृषो०

चिञ्चाम्ल न० चिञ्चेवाम्लम् । अम्लशाके! (आमरुल) राजनि० ।

चिञ्चासार पु० चिञ्चाया इव सारोऽस्य । अम्लशाके

(आमरुल) राजनि० ।

चिट प्रेषणे भ्वा० पर० सक० सेट् । चेटति अचेटीत् । चिचेट--चेटः चेटी ।

चिट प्रेषणे चु० उभ० सक० सेट् । चेटयति ते अचीचिटत् त

चिटी स्त्री चिट--क गौरा० ङीष् । चण्डालवेशघारिण्यां

योगिन्याम् तन्मन्त्रप्रयोगः तन्त्रसारे उक्तो यथा । “तारं
चिटिद्वयं ब्रूयाच्चाण्डालि च ततः परम् । महदाद्यं ततो
ब्रूयादमुकं मे ततः परम् । वशमानय ठ--द्वन्द्वं चिटि-
मन्त्र उदाहृतः (ॐ चिटि! चिटि! महाचाण्डालि
अमुकं मे वशमानाय स्वाहा) सप्तभिर्दिवसैर्भूपान्
वशयेद्विधिना जनः” । विधि माह । “विलिख्य
तालपत्रे तं साध्यनाम्नाधिगर्भितम् । निःक्षिप्य क्षीरसं-
मिश्रे जले तत्क्वाथयेन्निशि । वश्यो भवति साध्यो-
ऽस्य नात्र कार्य्या विचारणा । तालपत्रे लिखित्वैनं
भद्रकालीगृहे खनेत् । वश्याय सर्वजन्तूनां प्रयोगो
ऽयमुदाहृतः” ।

चित ज्ञाने भ्वा० पर० सक० सेट् । चेतति अचेतीत् ।

चिचेत ईदित् चित्तः । “य इन्द्र । सोमपातमोमदः
शविष्ठ चेतति” ऋ० ८ । १२ । १ । “एवं तेऽचेतिषुः सर्व्वे”
भट्टिः । “कृतानीदस्य कर्त्त्वा चेतन्ते दस्युतर्हणाम्” ऋ०
९ । ४७ । २ । अ० वेदे पदव्यत्ययः । चेतः चेतनः चित् ।
क्लमरहितमचेतन्नीरजीकारितक्ष्माम्” भट्टिः ।

चित ज्ञाने चु० आत्म० सक० सेट् । चेतयति ते अचीचितत् त

चेतना चेतितः । “पूर्ब्बं चेतयते जन्तुरिन्द्रियैर्विषयान्
पृथक्” भा० शा० ९८९० “किन्नु सुप्तोऽस्मि जागर्मि
चेतयामि न चेतये” भा० स्वर्गा० २ अ० “राक्षस्यश्चेत-
यन्ति न” भट्टिः । अस्य अदन्तत्वमपि । तस्य
चितयतीत्यादिरूपम् “इन्द्र न यज्ञैश्चितयन्त आयवः” ऋ०
१ । १३१ । २

चित स्मृतौ चु० उभ० सक० सेट् इदित् । चिन्तयति ते

अचिचिन्तत् त चिन्तितः चिन्तनम् चिन्तनाचिन्ता ।
“यद्यहं नैषधादन्यं मनसापि न चिन्तये” भा० व०
६३ अ० “तस्मादस्य बधं राजा मनसाऽपि न चिन्तयेत्”
मनुः ।

चित स्त्री चित--संम्पदा० मावे क्विप् । १ ज्ञाने चेतनायाम्

अमरः । २ चैतन्ये । “सच्चिदानन्दविग्रहम्” वे० सा०
३ चित्तवृत्तिभेदे । “चिदसि मनासि धीरसि” यजु० ४ । १९ ।
“अचेतनदेहादिसंघातस्य चेतनत्वं संपादयन्ती वाह्यव-
स्तुषु निर्विकल्परूपं सामान्यज्ञानं जनयन्ती वृत्तिश्चित्तं
तदेवात्र चिदित्युच्यते” वेददी० ४ निर्विशेषस्फुरणमात्रे
चेतने स्वतएव प्रकाशमाने ब्रह्मणि “निर्विकल्पकं सर्वावभा-
सकं ज्ञानं प्रत्यगात्मस्वरूपं चिदिति” व्याख्यातारः
“चिदिहास्मीति चिन्मात्रमिदं चिन्मयमेव च । चित्त्वं
चिदहमेते च लोकाश्चिदिति भावयेत्” वेदान्तप्र० । चिद्रसः
पृष्ठ २९३१
चिद्घयः “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना” । “तस्मिं-
श्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिवि-
म्बन्ति सरसीव चलद्रुमाः” योगवासिष्ठः
चिनोति चि--कर्त्तरि क्विप् । ५ चयनककर्त्तरि त्रि०
अग्निचित् । कर्म्मणि क्विप् । ६ अग्नौ । ७ असाकल्ये अव्य०
अमरः । कच्चित् कथञ्चित् जातुचित् । ८ अव्यक्तानुकरणे
च अव्य० चित्कारः “नहि करिणि दृष्टे चित्कारेण
तमनुमिमतेऽनुमातारः” वाचस्पतिमिश्रः । मुग्धबोधे
विभक्त्यन्तात् किमः चिच्चनौ प्रत्ययौ विहितौ
इतिभेदः । तच्चिन्त्यं चनशब्दे तद्धेतुरुक्तः जातुचित्
इत्यादिप्रयोगासिद्धिश्च तस्य किमः प्रकृतिकत्वाभावात् ।

चित त्रि० चि--कर्म्म क्त । २ छन्ने मेदि० २ कृतचयने “अव

चितबलिपुष्पा वेदिसम्मार्गदक्षा” कुमा० । ३ सञ्चिते ४ सम्पा-
दिते च “तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्र
पुण्यचितः क्षीयते” श्रुतिः ५ शवदाहाधारचूल्लीभेदे
स्त्री अमरः । “प्रणिपाताञ्जलियाचितां चिताम्” कुमा०
“वद वामोरु! चिताधिरोहणम्” रघुः “त्वया न पठिता
चण्डी मया नापि चिकित्सितम् । अकस्मान्नगरोपान्ते
कथं धूमायते चिता” हास्यार्णवः । “चिताग्नेरुद्वह-
न्नाज्यम्” भा० व० २१४ अ० । “सगोत्रजैर्गृहीत्वा तु
चितामारोप्यते शवः । अधोमुखो दक्षिणादिक्चरणस्तु
पुमानिति । उत्तानदेहा नारी तु सपिण्डैरपि बन्धु-
भिः । चाण्डालाग्नेरमेध्याग्नेः सूतिकाग्नेश्च कर्हि-
चित् । पतिताग्नेश्चिताग्नेश्च न शिष्टैर्ग्रहणं स्मृतम्”
शु० त० । अधिकं चितिशब्दे दृश्यम् । मन्त्रसाधनाङ्गचिता
लक्षणं तन्त्रसारे उक्तं यथा “असंस्कृता चिता ग्राह्या
न तु संस्कारसंस्कृता । चाण्डालादिषु संप्राप्ता केवलं
शीघ्रसिद्धिदा” । चितासाधनप्रकारः वीरतन्त्रे
“अष्टम्याञ्चं चतुर्द्दश्यां पक्षयोरुभयोरपि । कृष्णपक्षे
विशेषेणं साघयेद्वीरसाघनम् । तत्सार्द्धप्रहरे यामे गते
च सुरसुब्दरि! । शवं वापि चितां वापि नीत्वा गत्वा
यथासुखम् । साधयेत् स्वहितं मन्त्री मन्त्रध्यानपरा-
यणः । भयं नैव तु कर्त्तव्यं हास्यन्तत्र विवर्जयेत् ।
चतुर्द्दिशं न वीक्षेत मन्त्रमेव समभ्यसेत्” । तत्र पूजा-
द्रव्यम् “सामिषान्नं गुड़ं छागं सुरापायसपिष्टकम् ।
नानाफलञ्च नैवेद्यं स्वस्वकल्पोक्तसाधितम् । चितास्थानं
समानीय सुहृद्भिः शस्त्रपाणिभिः । समानगुणसम्प-
न्नैः साधयेत् वीतभिः स्वयम्” ।

चिताचूडक न० चितैव चूडकं चूलकम् लस्य डः । चिताया त्रिका० ।

चिति स्त्री चि + आधारे क्तिन् । १ चितायाम् तत्कर-

णदेशादिः का० श्रौ० २५ । ७ । १५ । सूत्रोक्तो यथा
“वितानं साधयित्वा समे बहुलतृणेऽन्तराग्नौ चितिं
चिनोति” १५ सू० वितानसाधनमग्नीनां यथादेशस्थापनं
कृत्वा समे तृणबहुले देशेऽन्तराग्नौ काष्ठैः चितिं चिनो-
ति” कर्कः “पूर्वतरम् उद्धृत्य क्षीरिणीः पुरुषाहूतीः”
१६ सू० “पुरुषआह्वानं यासामोषधीनाम् ताउद्धृत्य” देव०
“क्षीरयुक्ताः पुरुषाहूतीः पुरुषनाम्नीः पुंलिङ्गशब्दा-
भिधेयाः अर्काद्याः” कर्कः । “विशाखाशराश्मगन्धापृश्नि
पर्ण्यध्यण्डाश्च” १७ सू० “उद्धृत्येति वर्त्तते विशाखा
दूर्वा शरोमुञ्जः पृश्निपर्णी माषपर्णी अध्यण्डा
ढणढणिक्वा” देव० “अश्वगन्धा आसन्धिः पृश्निपर्णी लक्ष्मणेत्य
परे अध्यण्डा च व्रह्ममाण्डूकीति निगमे” कर्कः “चिति-
वच्च” कात्या० श्रौ० २१ । ३ । २१ “देशो भवति तद्गुणयुक्त
इत्यर्थः । स चितिवत् मृतस्य दाहार्थं यादृशैः काष्ठै-
श्चितिर्विहिता तादृशे देशे” कर्कः । भावे क्तिन् । २ समूहे
मेदि० । अग्न्यादेः ३ चयने संस्कारभेदे । अग्नि-
चयनप्रकारः शत० ब्रा० ७ । १ । १ । १ । “गार्हपत्यं चेब्यन्
पलाशशाखा व्युदूहति अवस्यति ह्यैतद् गार्ह-
पत्यं चिनोति इत्यादिके” विस्तरेणोक्तः ।
चीयतेऽस्याम् आधारे क्तिन् अग्निचयनाधारे ४ इष्टकाभेदे
तासामुपधानादि संस्काराः शत० व्रा० ८ । १ । १ । १ ।
“प्राणभृत उपदधाति । प्राणा वै प्राणभृतः प्राणा-
नेवैतदुपदधाति ताः प्रथमायां चितावुपदधाति” “एषोऽ-
ग्नेर्यत् प्रथमा चितिः पुरस्तात्तत् प्राणानुपादधाति तस्मा-
दिमे पुरस्तात् प्राणाः इत्यादिके उक्ता दृश्या” । “प्रथमो-
त्तमयोः पादमात्रीरतिरिक्ताः” कात्या० श्रौ० १७ । ७ । २९ ।
“प्रथमोत्तमयोश्चित्योरतिरिक्ता सा पादमात्री भवति
नातोऽतिरिक्ता चेति” कर्कः प्रथमापञ्चम्योः अतिरिक्ता या
महत्य इष्टकास्ताः पादमात्रीरुपदधाति” स० व्या० । ५
कुड्यस्थ्येष्टकादीनां समूहविशेषे । इष्टकामानेन चितिमान-
ज्ञानोपयोगिव्यवहारः चितिव्यवहारः । स च लीला०
दर्शितो यथा चितौ करणसूत्रं सार्द्धवृत्तम् । “उच्छ्रयेण
गुणितं चितेः किल क्षेत्रसम्भवफलं घनं भवेत् । इष्टिका-
घनहृते घने चितेरिष्टिकापरिमितिश्च लभ्यते । इष्टि-
कोच्छ्रयहृदुच्छ्रितिश्चितेः स्युः स्तराश्च दृषदां चितेरपि ।
पृष्ठ २९३२
उदाहरणम् । अष्टादशाङ्गुलं दैर्घ्यं विस्तारो द्वाद-
शाङ्गुलः । उच्छ्रितिस्यङ्गुला यासामिष्टिकास्ताश्चितौ
किल । यद्विस्तृतिः पञ्चकराष्टहस्तं दैर्घ्यं च यस्यां
त्रिकरोच्छ्रितिश्च । तस्यां चितौ किं फलमिष्टिकानां
सङ्ख्या च का ब्रूहि कति स्तराश्च । न्यासः ।

<Picture>

इष्टिकायाः घनहस्तमानं ३६४ चितेः क्षेत्रफलम् ४० ।
उच्छ्रयेण गुणितं चितेर्घनफलम् १२० । लब्धा इष्टिका
सङ्ख्या २५६० । स्तरसङ्ख्या २४ । एवं पाषाणचयेऽपि ।
“चितेः कपि” पा० कपि परे दीर्घः एकचितीकः “पञ्च-
चितिकोऽग्निः” इत्यादौ छन्दसि न दीर्घः । चाय--दीप्तौ
क्तिन् चिभावः । ६ चैतन्ये स्वयंप्रकाशे चिच्छब्दार्थे स्त्री
“आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला”
“संक्षे पशारी० । ७ दुर्गायाम् । “चितिश्चैतन्यभा-
वाद्वा चेतना वा चितिः स्मृता । महान् व्याप्य स्थिता
सर्वान् महा वा प्रकृतिर्म्मता” देवीभाग० पु० ४५ अ० ।

चितिका स्त्री० चितिरिव कायति कै--क । १ कटिशृङ्खला-

याम् हारा० । चिति + स्वार्थे क । २ चितिशब्दार्थे चिता +
स्वार्थे क अतैत्त्वम् । ३ चितायाम् ।

चित्कण पु० त्रि० चिदित्यव्यक्तशब्दं कणति कण--अच् ।

चित्शब्दकारके । क्लीवकन्थशब्दे परे तत्पुरुषे चिह
णादि० आद्युदात्तता । चित्कणकन्थम् ।

चि(ची)त्कार पु० चित् + कृ--भावे घञ् पृषो० वा

टीर्घः । चिदित्यव्यक्तशब्दकरणे । “न हि करिणि
दृष्टे चि(ची)त्कारेण तमनुमिमतेऽनुमातारः” वाचस्पति
मिश्रः । “स विषीदति चित्कारात् ताड़ितो गर्द्दभो
यथा” हितो० ।

चित्त न० चिती--ज्ञाने बा० करणे क्त । १ अन्तःकरणभेदे

“मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयोनिश्चयोग-
र्वः स्मरणं विषया इमे” वेदा० प० । तस्य च स्मरणम्
अनुसन्धानात्मक वृत्तिभेदः । चिच्छब्दे दृश्यम् । २ अन्तःकरण-
मात्रे अमरः “योगश्चित्तवृत्तिनिरोधः” पात० सू० ।
“जनस्य चित्तेन भृशं वशात्मना” नैष० । “चन्द्रचतुर्मुख
शङ्कराच्युतैः क्रमान्नियन्त्रितेन मनोबुद्ध्यहङ्कारचित्ता-
भिघान्तरिन्द्रियचतुष्केण क्रमात् संशयनिश्चयाहङ्का-
र्य्यचैत्यांश्च सर्वानेतान् स्थूलविषयाननुभवतः” वे० सा०
उक्तेः अस्थाधिष्ठाता अच्युतः । कर्म्मणि कर्त्तरि वा
क्त । ३ ज्ञाते ४ ज्ञातरि च । चित्तं च सांख्यमते त्रिगुण-
प्रकृतिकार्य्यम् । तदेतत्योगसूत्रभाष्यादौ दर्शितम् ।
“योगश्चित्तवृत्तिनिरोघः” पात० १ । १ । सू०
“चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् ।
प्रख्यारूपं हि चित्तं सत्त्वम् । रजस्तमोभ्यां संसृष्टम्
ऐश्वर्य्यविषयप्रियं भवति । तदेव तमसानु विद्धमधर्म्मा-
ज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं
सर्व्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्म्मज्ञानवैरा-
ग्यैश्वर्योपगं भवति तदेव रजोलेशमलापेतं स्वरूपप्रति-
ष्ठं सत्वपुरुषान्यताख्यातिमात्रं धर्म्ममेघध्यानोपगं
भवति । तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः ।
चितिशक्तिरपरिणामिन्यप्रतिसङ्ग्रमा दर्शितविषया शुद्धा
चानन्ता च सत्वगुणात्मिका चेयम् । अतो विपरीता
विवेकख्यातिरित्यतस्तस्यां विरक्तं चित्तन्तामपि ख्यातिं
निरुणद्धि । तदवस्थं चित्तं संस्कारोपगं भवति ।
स निर्वीजः समाधिः, न तत्र किञ्चित् सम्प्रज्ञायतैत्यस-
म्प्रज्ञातः द्विविधः स योगश्चित्तवृत्तिनिरोध” इति भा० ।
“कुतः पुनरेकस्य क्षिप्तादिभूमिसम्बन्धः किमर्थं
चैवमस्य चित्तस्य वृत्तयोनिरोद्धव्या इत्याशङ्क्य प्रथमं
तावदवस्थासम्बन्धहेतुमुपन्यस्वति । चित्तं हीति । प्रख्या-
शीलत्वात् सत्वगुणम् । प्रवृत्तिशीलत्वाद्रजोगुणम् स्थि-
तिशीलत्वात् तमोगुणम् । प्रख्याग्रहणमुपलक्षणार्थं
तेनान्येऽपि सात्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते ।
प्रवृत्त्या च परितापशोकादयो राजसाः । स्थितिः प्रवृ-
त्तिविरोधी तमोवृत्तिधर्म्मः स्थितिग्रहणाद् गौरवावरण-
दैन्यादय उपलक्ष्यन्ते । एतदुक्तं भवति एकमपि चित्तं
त्रिगुणनिर्म्मिततया गुणानाञ्च वैषम्येण परस्परविमर्द
वैचित्र्याद्विचित्रपरिणामं सदनेकावस्थमुपपद्यत इति ।
क्षिप्ताद्या एव चित्तस्य भूमयः यथासम्भवमवान्तरावस्था-
भेदवत्यस्ता दर्शयति । प्रख्यारूपं हीति चित्तरूपेण
परिणतं सत्वं चित्तसत्वं, तदेवं प्रख्यारूपतया सत्वप्रा-
धान्यं चित्तस्य दर्शितम् । तत्र चित्ते सत्वात् किञ्चिदूने
पृष्ठ २९३३
रजस्तमसो यदा मिथःसमे भवतः तदैश्वर्य्यञ्च
विषयाश्च शब्दादयस्तान्येव प्रियाणि यस्य तत्तथोक्तं सत्वप्रा-
धान्यात् खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्त्वस्य
तमसा पिहितत्वादणिमादिकमेव तत्त्वमभिमन्थमानं तत्प्र-
णिधित्सति प्रणिधत्ते च क्षणम् अथ रजसा क्षिप्यर्मा-
णम् । तत्राप्पलब्धस्थिति तत् प्रियमात्रं भवति ।
शब्दादिषु पुनरस्य सरसवाही प्रेमा निरूढ एव ।
तदनेन विक्षिप्तं चित्तमुक्तम् क्षिप्तं दर्शयन् मूढमपि
सूचयति तदेव तमसेति । यदा हि तमो रजी विजित्य
प्रसृतं तदा चित्तसत्वावरकतमःसमुत्सारणेऽशक्त-
त्वात् रजस्तमस्थगितं चित्तमधर्म्माद्युपगच्छति । अज्ञानञ्च
विपर्य्ययज्ञानमभावप्रत्ययालम्बनञ्च निद्राज्ञानमुक्तम् ।
ततश्च मूढावस्थापि सूचितेति । अनैश्वर्य्यं सर्व्वत्रे-
च्छाप्रतिघातः । अधर्म्मादिव्याप्ते चित्तं भवतीत्यर्थः ।
यदा तु तदेव चित्तसत्वमाविर्भूतसत्वमपगततमःपटलं
सरजस्कं भवति तदा धर्म्मज्ञानवैराग्यैश्वर्य्याण्युपगच्छती-
त्याहं प्रक्षीणेत्यादि । मोहस्तसस्तदेव चावरणं प्रकर्षे-
ण क्षीणं यस्य तत्तथोक्तम् । अतएव सर्वतो विशेषावि-
शेषलिङ्गमात्राऽलिङ्गपुरुषेषु प्रद्योतमानं तथापि
न धर्म्मायैश्वर्य्याय च कल्पते प्रवृत्त्यभावादित्यत आह ।
अनुविद्धं रजोमात्रया रजसः प्रवर्त्तकत्वादस्ति धर्म्मादि-
रित्यर्थः । तदनेन संप्रज्ञातसमाधिसम्पन्नयोर्मघुभूमिक-
प्रज्ञाज्योतिषोर्म्मध्याधमयोर्योगिनोश्चित्तसत्वं संगृहीतम्
संप्रत्यतिक्रान्तभावनीयस्य ध्यायिनश्चतुर्थीं चित्तस्याव-
स्थामाह तदेव चित्तं रजोलेशान्मलादपेतम् अतएव
स्वरूपप्रतिष्ठसभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोम-
यस्य हि बुद्धिसत्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्र-
त्याहृतस्यानवसिताधिकारतया च कार्य्यकारिणो विवेक-
ख्यातिः परं कार्य्यमवशिष्यत इत्याह सत्वपुरुषा-
न्यताख्यातिमात्रं चित्तं धर्म्ममेघध्यानोपगं भवति ।
धर्म्ममेघश्च वक्ष्यते । अत्रैव योगिजनप्रसिद्धिमाह
तदिति । सत्वपुरुषान्यताख्यातिमात्रं चित्तं धर्म्मभे-
षपर्य्यन्तं परं प्रसंख्यानमिति आचक्षते ध्यायिनः । चित्त-
सामान्याधिकरण्यं च धर्म्मधर्म्मिणोरभेदविवक्षया द्रष्ट-
व्यम् । विवेकख्यातेर्हानहेतुं चितिशक्तेश्चोपादानहेतुं
निरोघसमाधिमवतारयितुं चितिशक्तेः साघुतामसाधुता-
ञ्च विवेकख्यातेर्दर्शयति चितिशक्तिरित्यादि । सुखदुः
खमोहात्मकत्वमशुद्धिः । सुखमोहावपि विवेकिनं दुः-
खाकुरुतः । अतो दुःखवद्धेयौ तथाचातिसुन्दरमप्यन्त-
वत् दुनोति । तेन तदपि हेयमेव विवेकिमः । सेयमवि-
शुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तं शुद्धा
चानन्ता चेति । ननु सुखदुःखमोहात्मकशब्दादीन् इय
चेतयमाना तदाकारापन्ना कथं विशुद्धा तदाकारपरिग्र-
हपरिवर्जने च कुर्वती कथमनन्तेत्यत उक्तं दर्शि
तविषयेति । दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ता
भवेदेतदेवं यदि बुद्धिवच्चितिशक्तिर्विषयाकारतामापद्येत ।
किन्तु वुद्धिरेव विषयाकारेण परिणता सती अतदाका-
रायै चितिशक्त्यै विषयमादर्शयति ततः पुरुषश्चेतयत
इत्युच्यते । ननु विषयाकारां बुद्धिमानारूढाया
चितिशक्तेः कथं विषयवेदनं! विषयारोहे वा कथं न
तदाकारापत्तिरिति अतः उक्तम् अप्रतिसंक्रमेति ।
प्रतिसंक्रमः सञ्चारः स चितेर्नास्तीत्यर्थः । स एव
कुतोऽस्यां नास्तीत्यत उक्तम् अपरिणामिनीति । न
चितेस्त्रिविधोऽपि धर्म्माधर्म्माऽवस्थालक्षणः
परिणामोऽस्ति येन त्रितयरूपेण परिणता सती बुद्धिसंयो-
गेम परिणमेत । चितिशक्तेरसंक्रान्ताया अपि विषय-
संवेदनमुपपादयिष्यते । तस्मिद्धं चितिपक्तिः शोभनेति,
विवेकख्यातिस्तु बुद्धिसत्वात्मिका अशोभनेत्युक्तम् ।
अतश्चितिशक्तेर्विपरीततेति । यदा च विवेकख्यातिरपि
हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति
भावः । ततस्तद्धेतोर्निरोधसमाधेरवतारो युज्यते इत्याह
अतस्तस्यामिति । ज्ञानप्रसादमात्रेण हि परेण वैरा-
ग्येण विवेकख्यातिमपि निरुणद्धीत्यर्थः । अथ निरु-
द्धाऽशेषवृत्ति चित्तं कीदृशमित्यतआह तदवस्थमि-
त्यादि । स निरोधः अवस्था यस्य तत्तथोक्तम् ।
निरोधस्य स्वरूपमाह स निर्वीज इति । क्लेशसहितः
कर्म्माशयो जात्यायुर्भोगोवीजं तस्मान्निर्गतः निर्वीजः
अस्यैव योगिजनप्रसिद्धामन्वर्थसंज्ञामादर्शयति । न
तत्रेति । उपसंहरति । द्विविधः स योगश्चित्तवृत्ति-
निरोघ इति” विवरणम् ।
“तदवस्थे चेतसि विषयाभायात् बुद्धिबोधात्मा पुरुष ।
किंस्वभावः? इति--भा०
“तदा द्रुष्टः स्वरूपेऽवस्थानम्” २ सू० ।
“स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये व्युत्थान-
चित्ते तु सति तथापि भवन्ती न तथा” भा० ।
“संप्रत्युत्तरसूत्तमवतारयंश्चोदयति । तदवस्थे चेतसीति
पृष्ठ २९३४
किमाक्षेपे तत्तदाकारपरिणतबुद्धिबोधात्मा त्वयं पुरुषः
सदानुभूयते न तु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य
बुद्धिबोधस्वभावः सवितुरिव प्रकाशः । नच संस्कारशेषे
चेतसि सोऽस्ति, न च स्वभावमपहाय भावो वर्त्तितुम-
र्हति इति भावः । स्यादेतत् संस्कारशेषामपि बुद्धिं
कस्मात् पुरुषो न बुध्यते? इत्यत आह विषयाभावा-
दिति । न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती
बुद्धिः । विवेकख्यातिविषयभोगौ च पुरुषार्थौ तौ च
निरुद्ध्वाबस्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः ।
सूत्रेण परिहरति “तदा द्रष्टुः स्वरूपेऽवस्थानम्” सू० ।
“स्वरूप इत्यारोपितम् शान्तघोरमूढ़स्वरूपं निवर्त्तयति
पुरुषस्य हि चैतन्यं स्वरूपमनौपाधिकम् नतु बुद्धिबोधः
शान्तादिरूप औपाधिको हि सः स्फटिकस्येव स्वभावतः
स्वच्छधवलस्य जपाकुसुमसन्निधानोपाधिररुणिमा
नचोपाधिनिवृत्तावुपहितनिवृत्तिरतिप्रसङ्गादिति भावः ।
स्वरूपस्य चाभेदेऽपि भेदं विकल्प्य अधिकरणभाव उक्त
इति । अयमेवार्थोभाष्यकृता द्योत्यते । स्वरूपप्रति-
ष्ठेति । तदानीं निरोधावस्थायां न व्युत्थानावस्थाया-
मिति भावः । स्यादेतत् व्युत्थानावस्थायामप्रतिष्ठिता,
स्वरूपे चितिशक्तिः, निरोधावस्थायां प्रतितिष्ठन्ती
परिणामिनी स्यात् व्युत्थाने वा स्वरूपप्रतिष्ठाने सति व्युत्थान
निरोधयोरविशेष इत्यत आह व्युत्थानचित्ते त्विति
न जातु कूटस्थनित्या चितिशक्तिः स्वरूपात् च्यवते । तेन
यथा निरोधे तथैव व्युत्थानेऽपि । न खलु शुक्तिकायाः
प्रमाणविपर्य्ययज्ञानगोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः
प्रतिपत्ता त्वतथाभूतमपि तथात्वेनाभिमन्यते । निरो-
धसमाधिमपेक्ष्य सम्प्रज्ञातोऽपि व्युत्थानमेवेति” विवरणम् ।
“कथन्तर्हि दर्शितविषयत्वात्”--भा०
“वृत्तिसारूप्यमितरत्र” ३ सू०
“व्युत्थाने याः चित्तवृत्तयः तद्विशिष्टवृत्तिः पुरुषः । तथा
च सूत्रं “एकमेव दर्शनं” “ख्यातिरेव दर्शनमिति”
“चित्तम् अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्य-
त्वेन स्वंभवति पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे
पुरुषस्यानादिसम्बन्धोहेतुः” भाष्यम् ।
“सूत्रान्तरमवतारयितुं पृच्छति कथन्तर्हि इति । यदि
भवति न तथा केन तर्हि प्रकारेण प्रकाशत
इत्यर्थः । हेतुपदमध्याहृत्य सूत्रं पठति । दर्शित
विषयत्वात् । वृत्तिसारूप्यमितरत्र । इतरत्र व्युत्थाने
याश्चित्तवृत्तयः शान्तघोरमूढ़ास्ता एव विशिष्टा अभिन्ना-
वृत्तयो यस्य पुरुषस्य स तथोक्तः सारूप्यमित्यत्र सशब्द
एकपर्य्यायः । एतदुक्तं भवति जपाकुसुमस्फटिकयोरिव
बुद्धिपुरुषयोः सन्निधानादभेदग्रहे बुद्धिवृत्तीः पुरुषे
समारीप्य शान्तोऽस्मि दुःखितोऽन्मिमूढ़ोऽस्मीति अध्यवस्यति ।
यथा मलिने दर्पणतले प्रतिविम्बितं मुखं मलिनतामारोप्य
शोचत्यात्मानं मलिनोऽस्मीति । यद्यपि पुरुषसमारोपोऽपि
शब्दादिविज्ञानवत् बुद्धिवृत्तिः यद्यपि च प्राकृतत्वेना-
चिद्रूपतयानुभाव्यस्तथापि बुद्धेः पुरुषत्वमापादयन
पुरुषवृत्तिरिवानुभव इवावभासते । तथाचायमविपर्य्ययोऽ-
प्यात्मा विपर्य्ययवानिवाऽभोक्तापि भोक्तेव विवेकख्याति-
रहितोऽपि तत्सहित इवाविवेकख्यातेः प्रकाशते । एतच्च
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदन-
मित्यत्र सत्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशे-
षोभोग इत्यत्र चोपपादयिष्यते । एतच्च मतान्तरेऽपि
सिद्धमित्याह तथा चेति । पञ्चशिखाचार्य्यस्य सूत्रम्
“एकमेव दर्शनमिति” । ननु कथमेकं दर्शनं यावता बुद्धेः
शब्दादिविषया बिवेकविषया च वृत्तिः प्राकृततया जडत्वे
नानुभाव्या, दर्शनं ततोऽन्यत् पुरुषस्य, चैतन्यमनुभवौ
दर्शनमित्यत आह “ख्यातिरेव दर्शनमिति” उदयव्यय-
धर्म्मिणीं वृत्तिं ख्यातिं लौकिकीमभिप्रेत्यैतदुक्तमे-
वेति चैकमव चैतन्यन्तु पुरुषस्य स्वभावो न ख्यातिः । तत्तुन
लोकप्रत्यक्षगोचरोऽपि त्वागमानुमानगोचर इत्यर्थः ।
तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धे-
तुकसंयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति
तमुपपादयन्नाह । चित्तं स्वं भवति । पुरुषस्य स्वामिन
इति सम्बन्धः । ननु चित्तजनितमुपकारं भजमानो हि
चेतनश्चित्तस्येशिता न चास्य तज्जनितोपकारसम्भव-
स्तदसम्बन्धादनुपकार्य्यत्वात् तत्संयोगतदुपकारभागित्वे
परिणामप्रसङ्गादित्यत आह अयस्कान्तमणिकल्पं
सन्निधिमात्रोपकारि दृश्यत्वेनेति । न पुरुषसंयुक्तं
चित्तमपितु तत्सन्निहितं सन्निधिश्च पुरुषस्य न देशतः
कालतो वा तदसंयोगात् किन्तु योग्यतालक्षणोऽस्ति च
पुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग्यशक्तिः । तदुक्तम् दृश्य
त्वेनेति । शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः ।
भोगश्च यद्यपि शब्दाद्याकारवृत्तिश्चित्तस्य धर्म्मस्तथापि
चित्तचैतन्ययोरभेदसमारोपाद्वृत्तिसारूप्यात् पुरुषस्ये-
त्युक्तम् । तस्माच्चितेनासंयोगेऽपि तज्जनितोपकारभागिता
पृष्ठ २९३५
पुरुषस्यापरिणामिता चेति सिद्धम् । ननु स्वस्वामिसम्बन्धो
भोगहेतुरविद्यानिमित्तोऽविद्या तु किन्निमित्ता न खलु
निर्निमित्तं कार्य्यमुत्पद्यते । यथाहुः “स्वप्नादिवदवि-
द्यायाः प्रवृत्तिः कस्य किंकृता” इति शङ्कामुपसंहार-
व्याजेनोद्धरति । तस्मात् चित्तवृत्तिबोधे शान्तघोरमूढ़ा-
कारचितवृत्त्युपभोगे अनाद्यविद्यानिमित्तत्वादनादि-
संयोगः हेतुः अविद्यावासनयोश्च सन्तानो वीजाङ्कुर-
सन्तानवदनादिरिति भावः” विवरणम् ।
अन्तःकरणशब्दे १९५ पृ० अधिकमुक्तम् ।
कैवल्यपादे च ज्ञानज्ञेययोर्भेदव्यवस्थापनेन तद्विशेष
उक्तो यथा “कुतश्चैतदन्याय्यम्” भा०
“वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्वाः” सू० ।
“बहुचित्तावलम्बनीभूतमेकं वस्तु साधारणं तत् खलु
नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्प्यं किन्तु
स्वप्रतिष्ठितं कथं? वस्तुसाम्ये चित्तभेदात्, घर्म्मापेक्षं
चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवति, अधर्मापेक्षं ततएव
दुःखज्ञानम्, अविद्यापेक्षं ततएव मूढज्ञानं सम्यग्दर्शना-
पेक्षं ततएव माध्यस्थज्ञानमिति । कस्य तच्चित्तेन परिकल्पि-
तं? नचान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो-
युक्तः तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः
पन्था नानयोः सङ्करगन्धोऽप्यस्तीति साङ्ख्यपक्षे पुनर्बस्तु-
त्रिगुणं चलञ्च गुणवृत्तमिति घर्मादिनिमित्तापेक्षचित्तै-
रभिसंवद्ध्यते निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य
तेन तेनात्मना हेतुर्भवति । केचिदाहुर्ज्ञानसहभूरेवार्थो-
भोग्यत्वात् सुखादिवदिति तत्र तया द्वारा साधारणत्वं
धावमानाः पूर्वोत्तरेषु क्षणेषु वस्तुरूपमेवापह्नवते” भा०
तदेवमुत्मूत्रां भाव्यकृद्विज्ञानातिरिक्तस्थापने युक्तिमुक्त्वा
सौत्रीं युक्तिमवतारयति कुतश्चैतदिति । वस्तुसाम्ये इति
यन्नानात्वे यस्यैकत्वं तत्ततोऽत्यन्तं भिद्यते यथा चैत्रस्य
ज्ञानमेकं भिन्नेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो
भिद्यते ज्ञाननानात्वेऽपि चार्थो न भिद्यते इति भवति
विज्ञानेभ्योऽन्यः अभेदश्चार्थस्य ज्ञानभेदेऽपि प्रमातॄणां
परम्परप्रतिसन्धानादवसीयते । अस्ति हि रक्तद्विष्टविमूढ़-
मध्यस्थानामेकस्यां योषिति प्रतीयमानायां प्रतिसन्धानं
या त्वया दृश्यते सैव मयापीति । तस्माद्वस्तुसाम्ये चित्त-
भेदात् ज्ञानभेदात्तयोरर्थज्ञानयोर्विभक्तः पन्थाः स्वरूपमेदो-
पायः सुखज्ञानं कान्तायाः कान्तस्य सपत्नीनां दुःखज्ञानं
तामविन्दतो विषादः । स्यादेतत् यत्रैकस्य चित्तेन परि-
कल्पित कामिनीलक्षणोऽर्थः तैनेवान्येषामपि चित्तमुप-
रज्यते इति साधारणमुपपद्यते इत्यत आह नचान्येति
तथा सत्येकस्मिन्नीलज्ञानवति सर्व्व एव नीलज्ञानवन्तः
स्युरिति नन्वर्थवादिनामप्येकोऽर्थः कथं सुखादिभेदाद्भिन्न-
विज्ञानहेतुर्न ह्यविलक्षणात् कारणात् कार्य्यमेदोयुक्त
इत्यत आह साङ्ख्यपक्ष इति एकस्यैव बाह्यस्य
वस्तुनस्त्रैगुण्यपरिणामस्य त्रैरूप्यमुपपन्नम् ।
एवमपि सर्वेषामविशेषेण सुखदुःखमोहात्मकं विज्ञानं
स्यादित्यत आह धर्म्मादिनिमित्तापेक्षं रजःसहितं
सत्वं धर्म्मापेक्षं सुखज्ञानं जनयति । एवमधर्म्मापेक्षं
रजो दुःखं, तमस्तु तथाभूतं मूढज्ञानम् । सत्वमेव तु
विगतरजस्कं विद्यापेक्षं माध्यस्थज्ञानमिति ते च धर्म्मा-
दयो न सर्वे सर्वत्र पुरुषे सन्ति । किन्तु कश्चित् क्वचिदिति
अभ्युपपन्ना व्यवस्थेति । अत्र केचिदाहुः प्रवादुकाः ज्ञा-
नसहभूरेवार्थो भोग्यत्वात् सुखादिवदिति एतदुक्तं
भवति भवत्यर्थोज्ञानात् व्यतिरिक्तः तथाप्यसौ जड़त्वात्
न ज्ञानमन्तरेण शक्यः प्रतिपत्तुंज्ञानेन तु भासनीयः-
तथाच ज्ञानसमयएवास्ति नान्यदा प्रमाणाभावादिति
तदेतन्मतं तावत् दूषयति भाष्यकारः तत्र तया द्वारेति
वस्तु खलु सर्वचित्तसाधारणमनेकक्षणपरम्परोह्यमानं
परिणामात्मकमनुभूयते लौकिकपरीक्षकैः तच्चेद्विज्ञानेन
सह भवेत् नूनमेवंविधमेव चेदिदमंशस्योपरि कोऽयमनु-
रोघः येन सोऽपि नापह्नूयेतेत्यर्थः” विव० ।
“नचैकचित्ततन्त्रं वस्तुप्रदप्रमाणकं तदा किं स्यात्” सू० ।
“एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुद्धे
वाखरूपमेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृ-
हीतस्वभावकं केनचित्तदानीं किं तत्स्यात्? सम्ब-
ध्यमानं वा पुनश्चित्तेन कुत उत्पद्यत ये चास्यानुप-
स्थिताभागास्ते चास्य न स्युरेवं नास्ति पृष्ठमित्युदरमपि
न गृह्येत तस्मात् स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः
स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्त्तन्ते तयोः सम्ब-
न्धादुपलब्धिः पुरुषस्य भोग इति” भा० ।
“मा वा भूदिदमंशस्यापह्नवीज्ञानसहमूरेवास्त्वर्थःतत्राप्याह
नचैकं किं स्यात् यद्धि घटग्राहि चित्तं तद् यदा पटद्रव्य-
व्यग्रतया न घटे वर्त्तते यद् वा विवेकविषयमासीत् तदेव च
निरोधं समापद्यते तदा घटज्ञानस्य वा विवेकज्ञानभेदमात्र
जीवनस्तन्नाशान्नष्ट एव स्यादित्याह एकचित्तेति किं
तत् स्यात् न स्यादित्यर्थः । संवध्यमानञ्च चित्तेन तदु
पृष्ठ २९३६
वस्तु विवेकोवा घटो वा कुत उत्पद्यते नियतकारणान्वय
व्यतिरेकानुविघायिभावानि हि कार्य्याणि न स्वका-
रणमतिवर्त्य कारणान्तराद्भवितुमीशते, मा भूदकारणत्वे
तेषां कादाचित्कत्वव्याघातः न च तज्ज्ञानकारणत्वमेव
तत्कारणत्वमिति युक्तम् । आशाभोदकस्य उपार्ज्जि-
तमोदकस्य वोपयुज्यमानस्य रसबीर्य्यविपाकादिसाम्य
प्रसङ्गात् तस्मात् साधूक्तं सम्बध्यमानं वा पुनश्चित्तेनेति ।
अपि च योयोऽर्वाग्भागः स सर्वोमध्यपरभागव्याप्तः
ज्ञानाधीने सद्भावे त्वस्याननुभूयमानत्वान्मध्यपरभागौ न
स्त इतिव्यापकाभावादर्वाग्भागोऽपि न स्यात् इत्यर्थाभा-
वात् कुतो ज्ञानसहभूरर्थ इत्याह । ये चास्येति
अनुपस्थिता अज्ञाताः, उपसंहरति तस्मादिति सुगमं
शेषम्” विवरणम् ।
“तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्” सू० ।
“अयस्कान्तमणिकल्पा विषयाः । अयःसधर्म्मकं चित्त-
मभिसम्बध्योपरञ्जयन्ति येन च विषयेणोपरक्तं चित्तं
स विषयोज्ञातस्ततोऽन्यः पुनरज्ञातोवस्तुनोज्ञाताज्ञातस्व-
रूपत्वात् परिणामि चित्तम्” भा० ।
“स्यादेतत् अर्थश्चेत् स्वतन्त्रः स च जडस्वभाव इति न
कदाचित् प्रकाशेत प्रकाशने वा जड़त्वमप्यस्यापगत
मिति भावोऽप्यपगच्छेत् न जातु स्वभावमपहाय भावोव-
र्त्तितुमर्हति न चेन्द्रियाद्याधेयो जड़स्वभावस्यार्थस्य
धर्म्मःप्रकाश इति साम्प्रतम् अर्थधर्म्मत्वे नीलत्वादिवत्
सर्वपुरुषसाधारण इत्येकः शास्त्रार्थज्ञ इति सर्वएव
विद्वांसः प्रसज्येरन् न जाल्मःकश्चिदस्ति । न चातीता-
नागतयोः धर्म्म प्रत्युत्पन्नयुक्तः तस्मात् स्वतन्त्रोऽर्थौप-
लम्भविषय इति मनोरथमात्रमेतदित्यत आह
तदुपरागेति । जडस्वभावोऽप्यर्थ इन्द्रियप्रणाड़िकया
चित्तमुपरञ्जयति तदेवंभूतं चित्तदर्पणमुपसंक्रान्तप्रतिवि-
म्बा चितिशक्तिश्चित्तमर्थोपरक्तं चेतयमानार्थमनुभवति
नत्वर्थे किञ्चित् प्राकट्यादिकमाधत्ते नाप्यसंबद्धा चित्तेन,
तत् प्रतिविम्बसंक्रान्तेरुक्तत्वादिति । यद्यपि च सर्वगतत्वा-
च्चित्तस्य चेन्द्रियस्य चाहङ्कारिकस्य विषये नास्ति सम्बन्धः
तथापि यत्र शरीरे वृत्तिमच्चितं तेन सह सम्बन्धो
विषयाणामित्ययष्कान्तमणिकल्प इत्युक्तम् अयःसधर्मकं
चित्तमिति । इन्द्रियप्रणालिकयाभिसंबध्योपरञ्जयन्ति
अतएव चित्तं परिणामीत्याह वस्तुन इति” विव० ।
“यस्य तु तदेव चित्तं विपयस्तस्य सदाऽपरिणामित्वात्” भा० ।
“सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणां
भित्वात्” सू० ।
“यदि चित्तवत् प्रभुरपि पुरुषः परिणमेत् ततस्तद्विषया
चित्तवृत्तयः शब्दादिविषयवत् ज्ञाताज्ञाताः स्युः सदा
ज्ञातत्वन्तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमा
पयति” भा० ।
“तदेवं चित्तव्यतिरेकेणार्थमवस्थाप्य तेभ्यः परिणति-
धर्मकेभ्यो व्यतिरिक्तमात्मानमादर्शयितुं तद्वैधर्म्म्यमपरि-
णामित्वमस्य वक्तुं पूरयित्वा सूत्रं पठति “यस्य तु तदेव
चित्तं विषयस्तस्य सदाऽपरिणामित्वात्” । क्षिप्तमूढ़वि-
क्षिप्तैकाग्रतावस्थितं चित्तमानिरोधात् सर्वदा पुरुषेणा-
नुभूयते वृत्तिमत् तत् कस्य हेतोः? यतः पुरुषोऽपरि-
णामी परिणामित्वे चित्तवत् पुरुषोऽपि ज्ञाताज्ञात-
विषयो भवेत् । ज्ञातविषय एव त्वयं तस्मादपरिणापी
ततश्च परिणामिभ्योऽतिरिच्यते इति तदेतदाह
यदि चित्तवदिति । सदा ज्ञातत्वं तु मनसः सवृत्ति-
कस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत् तस्य प्रभीः
पुरुषस्यापरिणामित्वमनुमापयति तथाचापरिणामिनस्तस्य
परिणामिनश्चित्तात् पुरुषस्य भेद इति भावः” विव० ।
“स्यादाशङ्काचित्तमेव स्वाभासं विषयाभासञ्च वैशेषिकाण ।
चित्तात्मवादिनाञ्च भविष्यत्यग्निवत्” भा० ।
“न तत्स्वाभासं दृश्यत्वात्” सू० ।
“यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि
तथा मनोऽपि प्रत्येतव्यम् । न चाग्निरत्र दृष्टान्तः
नह्यग्निरात्मरूपमप्रकाशं प्रकाशयति । प्रकाशश्चायं प्रका
श्यप्रकाशकसंयोगे दृष्टः न च स्वरूपमात्रेऽस्ति संयोगः
किञ्च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति
शब्दार्थः । तद्यथा स्वात्मप्रतिष्ठमाकाशमित्यप्रतिष्ठमित्यर्थः
स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्वानां प्रवृत्तिर्दृश्यते ।
क्रुद्धोऽहम्भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इत्येतत्
स्वबुद्धेरग्रहणे न युक्तमिति” भा० ।
“अत्र वैनाशिकमुत्थापयति स्यादाशङ्केति अयमर्थः स्यादेत-
देवं यदि चित्तमात्मनो विषयः स्यात् अपि तु स्वप्रकाशने
तत् विषयाभासं पूर्वचित्तं प्रतीत्य सदुत्पन्नं तत्कुतः
पुरुपस्य सदा ज्ञानविषयत्वं कुतस्तरां वाऽपरि-
णामतया परिणामिनश्चित्ताद्भेद इति
भवेदेतदेवं यदि स्वसंवेदनं चित्तं स्यान्नत्वेतदस्ति
तद्धि परिणामितया नीलादिवदनुभवव्याप्यम् । यच्चानुभव-
पृष्ठ २९३७
व्याप्यं न तत् स्वाभासं भवितुमर्हति स्वात्मनि वृत्तिवि-
रीधात् नहि तदेव क्रिया च कर्म च कारकञ्च न हि
पाकः पच्यते छिदा वा छिद्यते पुरुषस्त्वपरिणामी नानुभ-
वकर्मेति नास्मिन् स्वयंप्रकाशता न युज्यते अपराधीनप्र-
काशता ह्यस्य स्वयंप्रकाशता नानुभवकर्मता तन्मात् दृश्य-
त्वात् दर्शनकर्म चित्तं न स्वाभासम् आत्मप्रकाशप्रतिवि-
म्बितस्यैव चित्तस्य तावद्वृत्तिविषयाः प्रकाशन्त इति
भावः । ननु दृश्योऽग्निः स्वयं प्रकाशश्च न हि यथा
घटादयोऽग्निना व्यज्यन्ते एवमग्निरग्न्यन्तरेणेत्यत आह ।
नचाग्निरत्रेति कस्मात्? न हीति मा नामाग्निरग्न्यन्तरात्
प्रकाशिष्ट बिज्ञानात् तु प्रकाशत इति न स्वयं प्रकाशत
इति न व्यभिचार इत्यर्थः । प्रकाशाद्व्यवच्छिनत्ति । क्रियारू-
पः प्रकाश इति यावत् एतदुक्तं भवति या या क्रिया सा
सा सर्वां कर्तृकरणकर्मसम्बन्धेन दृष्टा यथा पाको दृष्टश्चैत्रा-
ग्नितण्डुलसम्बन्धेन तथा प्रकाशोऽपि क्रियेति तयापि तथा
भवितव्यं सम्बन्धश्च भेदाश्रयो नाभेदे सम्भवति इत्यर्थः ।
किञ्च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दा-
र्थः । स्यादेतत् मा भूत् ग्राह्यं चित्तं न हि ग्रहणस्य
कारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिः इत्यत
आह स्वबुद्धीति बुद्धिश्चित्तं प्रचारा व्यापाराः सत्वाः
प्राणिनश्चित्तस्य वृत्तिभेदाः क्रोधलोभादयः स्वाश्रयेण च
सह प्रत्यात्ममनुभूयमानाश्चित्तस्याग्राह्यतां विघटयन्ती-
त्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनमेव विशदयति क्रुद्धोऽ-
हमिति” विवरणम् ।
“एकसमये च भयानवधारणम्” । सू० ।
“न चैकस्मिन् क्षणे स्वपररूपावधारणं युक्तं क्षणिकवा
दिनां यद् भवनं सैव क्रिया तदेव च कारकमित्यभ्युप-
गमः” । भा० ।
“स्वाभासं विषयाभासं चित्तमिति व्रुवाणो न
तावत् येनैव व्यापरेणात्मानमवधारयति तेनैव विषय-
मपीति वक्तुमर्हति नह्यविलक्षणो व्यापारः कार्य्यभे-
दाय पर्य्याप्तः, तस्माद्वापारभेदोऽङ्गीकर्त्तव्यः न च वैनाशि-
कानामुत्पत्तिभेदातिरिक्तः अस्ति व्यापारः न चैकस्याए-
वोत्पत्तेरविलक्षणायाः कार्य्यवैलक्षण्यसम्भवः तस्याकस्मि-
कत्वप्रसङ्गात् । न चैकस्योत्पत्तिद्वयसम्भवः तस्मादर्थस्य च
ज्ञानरूपस्य चावधारणं नैकस्मिन् समये इति तदेतद्भाव्ये
णोच्यते न चैकस्मिन् क्षणे इति तथाचोक्तं वेनाशिकैः
“भतिर्यैषा क्रिया सैव कारकं सैव चोच्यते” इति तस्मा-
द्दृश्यत्वमेतच्चित्तस्य सदातनं स्वाभासत्वमुपनयत् द्रष्टारञ्च
द्रष्टुरपरिणामित्वं च दर्शयतीति सिद्धम्” विवरणम् ।
“चित्तान्तरे दृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च” सू० ।
“स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण
समसन्तरेण गृह्यत” इति । अथ चित्तं चेच्चित्तान्त-
रेण गृह्येत बुद्धिः केन गृह्यते साप्यन्यया
साप्यन्ययेत्यतिप्रसङ्गः स्मृतिसङ्करश्च यावन्तोबुद्धिवृत्ती-
नामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति तत्सङ्कराच्चे-
कस्मृत्यनवधारणञ्च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुष-
मपलपद्भिः वैनाशिकैः सर्वमेवाकुलीकृतं, ते तु
भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते ।
केचित् सत्वमात्रमपि परिकल्प्यास्ति स सत्वो य एतान्
स्कन्धान् निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा ततएव
पुनस्त्रस्यन्ति तथा स्कन्धानां पुनन्निर्वेदाय विरागा-
यानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्य्यं चरिष्या-
मीत्युक्त्वा सत्वस्य पुनः सत्त्वमेवापह्नवते “साङ्ख्ययोगाद-
यस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य
भोक्तारमुपयन्तीति” भा० ।
“पुनर्वैनाशिकमुत्थापयति । स्यान्मतिः मा भूत् दृश्यत्वेन
स्वसंवेदनम् एवमप्यात्मा न सिध्यति । स्वसन्तानवर्त्तिना
चरमचित्तक्षणेनंस्वरसनिरुद्धस्वजनकचित्तक्षणग्रहणादि-
त्यर्थः । समञ्च तज्ज्ञानत्वेनानन्तरञ्च व्यवहितत्वेन
समनन्तरं तेन । चित्तवृत्तयश्च । बुद्धिरिति चित्तमित्यर्थः
नागृहीता चरमा बुद्धिः पूर्व्वबुद्धिग्रहणसमर्था ह्यनवबुद्ध-
बुद्ध्या संबद्धा पूर्व्वा बुद्धिबुद्धा भवितुमर्हति । नह्यगृहीत-
दण्डो दण्डिनमवगन्तुमर्हति तस्मादनवस्थेति विज्ञानवेदन
संज्ञारूपसंस्काराः स्कन्धाः । साङ्ख्ययोगादयः प्रवादाः
साङ्ख्याश्च योगाश्च तएवादयो येषां वैशेषिकादिप्रवादानान्ते
साङ्ख्ययोगादयः प्रवादाः सुगममन्यत्” विवरणम् ।
“कथं?” भा० “चितेरप्रतिसंक्रमायास्तदाकारापत्तौ
स्वबुद्धिसंवेदनम्” सू० ।
“अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च
परिणामिन्यप्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति तस्याश्च
प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारिमात्रतया
बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते तथाचोक्तं “न
पातालं न च विबरं गिरीणां नैवान्धकारं कुक्षयो
नोदधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्ति-
विशिष्टं कवयो वेदयन्ते इति” भा० ।
पृष्ठ २९३८
“स्यादेतत् यदि चित्तं न स्वाभासं नापि चित्तान्तरवेद्यं
आत्मनापि कथं भोक्ष्यते चित्तं? न खल्वात्मन स्वयंप्रकाश-
स्याप्यस्ति काचित् क्रिया न तामन्तरेण कर्त्ता न
चासम्बद्धश्चित्तेन कर्मणा तस्य भोक्ता अतिप्रसङ्गादित्याशय-
वान् पृच्छ्रति कथमिति । सूत्रेणोत्तरमाह चितेरिति ।
यत् तदवोचत् वृत्तिसारूप्यमितरत्रेति तदितः समुत्थित-
चित्तेः स्वबुद्धिसंवेदनं बुद्धेस्त्वदाकारापत्तौ चितिप्रति-
विम्बाधारतया तद्रूपतापत्तौ सत्यां यथाहि चन्द्रमसः
क्रियामन्तरेणापि संक्रान्तचन्द्रप्रतिविम्बममलं जलमचलं
चलमिव चन्द्रमसमवभासयति एवं विनापि चितिव्या-
पारम् उपसंक्रान्तचितिप्रतिविम्बं चित्तं स्वगतया क्रियया
क्रियावतीमसङ्गतामपि सङ्गतां चितिशक्तिमवभासयत्
भोग्यभावमासादयत् भोक्तृभावमापादयति तस्या इति
सूत्रार्थः भाष्यमप्येतदर्थमसकृत्तत्र तत्र व्याख्यातम् इति न
व्याख्यातमत्र बुद्धिवृत्त्यविशिष्टत्वे ज्ञानवृत्तेरागममुदाह-
रति तथाचोक्तं न पातालभिति शाश्वतस्य शिवस्य
व्रह्मणो विशुद्धस्वभावस्य चितिच्छायापन्नां मनोवृत्तिमेव
चितिच्छायापन्नत्वाच्चितेरप्यविशिष्टां गुहां वेदयन्ते तस्या-
मेव गुहायां तद् गुह्यं ब्रह्म तदवनयितुंस्वयंप्रकाश
मनावरणमनुपसर्गं प्रद्योतते परमदेहख भगवत इति
तदेवं दृश्यत्वेन चित्तस्य परिणामिन स्तदतिरिक्तः पुमान
परिणतिधर्म्मोप्युपादितः” विव० ।
“अथ चैतदभ्युपगम्यते” भा० ।
“द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्” सू० ।
“मनोहि मन्तव्येनार्थेनोपरक्तं तत् स्वयञ्च विषयत्वाद्वि-
षयिणा पुरुषेणात्मीयया वृत्त्याभिसम्बद्धं तदेतच्चित्तमेव
द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपा-
पन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव
स्फटिकमणिकल्पं सर्व्वार्थमित्युच्यते । तदनेन चित्तसारू-
प्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः अपरे चित्त-
मात्रमेवेदं सर्वं, नास्ति खल्वयं गवादिघटादिश्च
सकारणो लोक इति, अनुकम्पनीयास्ते कस्मात्? अस्ति
हि तेषां भ्रान्तिवीजं सर्वरूपाकारनिर्भासं चित्तमिति
समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिविम्बीभूतस्तस्या-
लम्बनीभूतत्वादन्यः स चेदर्थश्चित्तमात्रं स्यात् कथं प्रज्ञ-
यैव प्रज्ञारूपमवधार्य्येत तस्मात् प्रतिविम्बीभूतोऽर्थः
प्रज्ञायां येनाबधार्य्यते स पुरुष इति एवं ग्रहीतृग्रहण-
ग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतत्तज्जातितः प्रविभजन्ते
ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः वेदव्यासभाष्यम्
“संप्रति लोकप्रत्यक्षमप्यत्र प्रमाणयति । अत चैतदिति
अवश्यं चैतदित्यर्थः । द्रष्ट्रित्यादि यथा हि नीला-
द्यनुरक्तं चितं नीलाद्यर्थं प्रत्यक्षेणैवावस्थापयति
एवं द्रष्टृच्छायापत्त्या तदनुरक्तंचित्तं द्रष्टारमपि
प्रत्यक्षेणावस्थापयति अस्ति हि द्व्याकारं ज्ञानं
नीलमहं सम्प्रत्येमि” इति तस्मात् ज्ञेयवत् ज्ञाता-
पि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितो यथा जले
चन्द्रमसो विम्बं नत्वेतावता तदप्रत्यक्षं न चास्य
जलगतत्वे तदप्रमाणमिति चन्द्ररूपेण प्रमाणं भवितु
मर्हति तस्माच्चिते प्रतिविम्बिततया चैतन्यगोचरापि
चित्तवृत्तिर्न चैतन्यागोचरेति तदिदं सर्व्वार्थत्वं चित्त-
स्येति तदेतदाह मनोहीति न केवलः तदाकारापत्त्या
मन्तव्येनार्थेनोपरक्तं मनः अपितु स्वयं चेति चकारो
भिन्नक्रमः पुरुषेणेत्यस्यानन्तरं द्रष्टव्यः तच्छायापत्तिः
पुरुषस्य वृचिः इयञ्च चैतन्यच्छायपत्तिश्चित्तस्य वैनाशिकै
रभ्युपेतव्या कथमन्यथा चित्ते चैतन्यमेते आरोपयाभ्वभूबु
रित्याह तदनेनेति केचिद्वैनाशिका बाह्यार्थवादिनः ।
अपरे विज्ञानमात्रवादिनः । ननु यदि चित्तमेव
द्रष्ट्राकारं दृश्याकारं चानुभूयते हन्त चित्तादभिन्नायेव
स्त द्रष्टृदृश्यौ यथाहुः । “अभिन्नो ऽपि हि बुद्ध्यात्मा
विपर्य्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव
लक्ष्यते” इति तत्कथमेतेऽनुकम्पनीया इत्यत आह ।
समाधिप्रज्ञायामिति ते खलूक्ताभिरुपपत्तिभिश्चित्ताति
रिक्तं पुरुषमभ्युपगमय्याप्याष्टाङ्गयोगोपदेशेन समाधि-
प्रज्ञायामात्मगोचरायामवतार्य्य बोधयितव्याः ।
तद्यथा समाधिप्रज्ञायां प्रज्ञेयोऽर्थः आत्मप्रतिविम्बी-
भूतोऽन्थः कस्मात्? तस्यात्मनः आलम्बनीभूतत्वात् अथ
चित्तादभिन्नमेव कस्मान्नालम्बनं भवतीति यदि युक्ति-
र्बोधितापि वैजात्याद्वदेत् तत्र हेतुमाह स चेदात्मरूपोऽर्थः
चित्तमात्रं स्यात् न तु ततो व्यतिरिक्तः ततः कथं प्रज्ञ-
यैव प्रज्ञारूपमवधार्य्येत स्वात्मनि वृत्तिविरोधात् ।
उपसंहरति तस्मादिति । समीचीनोपदेशेनानुकम्पिता
भवन्तीति आह । एवमेतदिति जातितः स्वमावतः इत्यर्थः” वि० ।
“इतश्चैतत्--तदसङ्ख्येयवासनाभिश्चित्रभपि परार्थं
संहत्यकारित्वात्” सू० ।
“तदेतच्चित्तमसङ्ख्येयाभिर्वासनाभिरेव चित्रीकृतमपि
परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वादु-
पृष्ठ २९३९
गृहवत् संहत्यकारिणा चित्तेन न स्वार्थेन भवितष्यं न
सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थमुभयमप्येतत्
परार्थं यश्च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः स एव
परो, न परः सामान्यमात्रम् यत्तु किञ्चित्परं सामान्य-
मात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत् सर्व्वं संहत्यकारि-
त्वात् परार्थमेव स्यात् । यस्त्वसौ परोविशेषः स न
संहत्यकारी पुरुष इति” भा० ।
“चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमवतारयति
इतश्चेति । यद्यप्यसङ्ख्येयाः कर्म्मवासनाः गुणवासनाश्च
चित्तमेवाधिशेरते न तु पुरुषं, तथाच वासना-
षीना विपाकाश्चित्तमाश्रयतया चित्तस्य भोक्तृतामाव-
हन्ति । भोक्तुरर्थे च भोग्यमिति सर्वं चित्तार्थं
प्राप्तं तथापि तच्चित्तमसङ्ख्येववासनाविचित्रमपि परार्थं,
कस्मात्? संहत्यहारित्वादिति सूत्रार्थः । व्याच-
ष्टे तदेदिति । स्यादेतच्चित्तं संहत्यापि करिष्यति स्या-
र्वञ्च भविणति कः स्वलु विरोघ इति यदि कश्चित्
ब्रूयात् तं प्रत्याह । संहत्यकारिणेति सुणचित्तमिति
गोगमुपलक्षयति तेन दुःखचित्तमपि द्रष्टव्यं ज्ञानमित्य-
पवर्न उक्तः । एतदुक्तं भवति सुखदुःखचित्ते प्रतिकूलानु-
कूलात्मके नात्मनि सम्भवतः स्वात्मनि वृत्तिविरोधात्
न चान्योऽपि संहत्यकारी साक्षात् परम्परया वा सुखदुःखे
वेदधानस्ताभ्यामसुकूलनीयः प्रतिकूलनीयो वा तस्मादयं
साक्षात् परम्परया वा न सुखदुःखयार्व्वाप्रियते स
एवायमनुकूलनीयः प्रतिकूलनीयो वा, स च नित्योदासीनः
पुरुषः एवभपवृज्यते येन ज्ञानेन तस्यापि ज्ञेयतन्त्र-
त्वात् खात्मनि च वृत्तिविरोधान्न ज्ञानार्थत्वं न चान्य-
विषयादस्पादपवर्गसम्भवो विदेहप्रकृतिलयानामपवर्गा-
सम्भवात् तखात्तज्ज्ञानमपि पुरुषार्थमेव न तत् स्वार्थं
संहतपरार्थत्वे चानवस्थाप्रसङ्गादसंहतपरार्थसिद्धिरिति”
विव० ।
“विशेषदर्शिनस्मात्मभावभावनानिवृत्तिः” सू० ।
“यथा प्रवृषि तृणाङ्कुरखोद्भेदेन तद्वीजसत्तानुमीयते
तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते
तत्राप्पस्ति विशेषदर्शनवीजनपवर्गभागीयं कर्माभिनिर्वर्त्तित
मित्यनुमीयते तस्यात्मभावभावना स्वाभाविकी प्रवर्त्तते
यस्वाभावादिदमुक्तं स्वागावमुक्त्वा दोषाद् येषां पूर्वपक्षे
रुचिर्भवत्यरुचिश्च निर्णये षवति । तत्रात्मभावभावना
कोऽहमासं कवमहभाणं किं खिदिदं? कथं? खिदिदं
के भविष्याभः कथं भविष्यामः? इति । सा तु विशे-
षदर्शिनो निवर्त्तते कुतः चित्तस्यैवैष विचित्रः परिणामः
पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति
ततोऽप्यात्मभावभावना कुशलस्य निवर्त्तत इति” भा० ।
“तदेवं कैवल्यमूलवीजममलमात्मदर्शनमुक्त्वा तदुपदेशाधि-
कृतं पुरुषमनधिकृतपुरुषान्तराद्व्यावृत्तमाह । विशेषे-
त्यादि यस्यात्मभावे भावनास्ति तस्याष्टाङ्गयोगोपदेशा-
द्यनुतिष्ठतो युञ्जानस्य तत्परिपाकात् चित्तसत्वपुरुषयो-
र्विशेषदर्शनादात्मभावभावना निवर्त्तते । यस्यात्मभावभावनैव
नास्ति नास्तिकस्य, तस्योपदेशानधिकृतस्यापरिनिश्चितात्म-
तत्परलोकभावस्य नोपदेशो न विशेपदर्शनं नात्मभाव-
भावनानिवृत्तिरिति सूत्रार्थः नन्वात्मभावभावनायाः
चित्तवर्त्तिन्याः कुतोऽवगमः? इत्यत आह यथा
प्रावृषीति प्राग्भवीयं तत्त्वदर्शनवीजमपवर्गभागीयं
यत्कर्मांष्टाङ्गयोगानुष्ठानं तदेकदेशानुष्ठानं बा तदभिनि-
र्वर्त्तितमस्तीत्यनुमीयते तस्य चात्मभावभावनाऽ-
वश्यमेव स्वाभाविकी वस्त्वभ्यासं विनापि प्रबर्त्तते अनधि
कारिणमागमिनां वचनेन दर्शयति यस्याभावादिदमिति
पूर्व्वपक्षो नास्ति कर्मफलं, परलोकिनोऽभावात् परलोका-
भाव इति तत्र रुचिः, अरुचिश्च निर्णये पञ्चविंशतितत्त्व-
विषये । आत्मभावभावना प्राग्व्याख्याता । विशेषदर्शिनः
परामर्शमाह चित्तस्यैवेति तस्य विशेषदर्शनकुशलस्या-
त्सभावभावना विनिवर्त्तते इति” विवरणम् ।
चित्तस्य च वाह्येन्द्रियव्यापारं विना बाह्यार्थेष्वसा-
मर्थ्यं, गुणभेदेन विकारभेदाश्च पञ्चदश्यामुक्ता यथा
“गनोदशेन्दियाध्यक्षं हृत्पद्मगीलके स्थितम् । तच्चान्तः-
करणं बाह्येष्वस्वातन्त्र्याद्विनेन्द्रियैः । अक्षेष्वर्थार्पिते-
ष्वेतद्गुणदोषविचारकम् । सत्वं रजस्तमश्चास्य गुणा
विक्रियते हि तैः । वैराग्यं क्षान्तिरौदार्य्यमित्याद्याः
सत्वसम्भवाः । कामक्रोधौ लोभयत्नावित्याद्या रजसो-
त्थिताः । आलस्यभ्रान्तितन्त्राद्या विकारास्तमसोत्थिताः ।
सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च राजसैः । तामसैर्नो-
भयं किन्तु वृथायुःक्षपणं भवेत्” । पातञ्जलमते तस्य वृत्तयः
पञ्चविधास्तासां स्वरूपादिकं समाधिपादे सूत्रभाष्य
विवरणादौ दर्शितं तच्च क्लिष्टाशब्दे २३४४ पृ० दर्शित्म

चित्तज पु० चित्ते जायते जन--ड । भनोभवे कामदेवे

चित्तजन्मन्चित्तयोनिप्रभृतयोऽप्यत्र “चित्तयोनिरभवत
पुनर्नवः” रघुः ।
पृष्ठ २९४०

चित्तज्ञ त्रि० चित्तं चित्तवृत्तिं जानाति ज्ञा--क । आशया-

भिज्ञे । “कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृता”
सा० द०

चित्तदोष पु० ६ त० । चित्तस्य विषयाग्रहणासामर्थ्यरूपेशून्यत्वे दोषे ।

चित्तनदी स्त्री चित्तवृत्तिरूपा नदी । पुण्यपापरूपोभय

स्रोतोवाहिन्थाम् चित्तवृत्तौ तत्र “विवेकनिम्ना
कैवल्य प्राग्भारा पुण्यवहिनी । अविवेकनिम्ना संसार-
प्रागमारा पापवाहिनी” इति भेदः ।

चित्तपरिकर्म्मन् न० ६ त० । पातञ्जलोक्ते चित्तप्रसाद-

नाख्ये मैत्र्यादिमावनाभेदे चित्तप्रसादनशब्दे दृश्यम्

चित्तप्रसन्नता स्त्री ६ त० । हर्षे हेम० ।

चित्तप्रसादन न० चित्तस्य प्रसादनं प्रसन्नताकरणम् ।

पातञ्जलोक्ते चित्तप्रसन्नतासम्पादके मैत्र्यादिभाबनाजन्ये
चित्रसंस्कारभेदे मैत्र्यादिमावनानां च तथात्वं पात०
सूत्रभाष्यादावुक्तं यथा
“यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म्म निर्द्दि
श्यते, तत्कथं?--भा०
“मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां
भावनातश्चित्तप्रसादनम्” सू० ।
“तत्र सर्व्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत्,
दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम् । अपुण्य-
शीलेषूपेक्षाम् ।--एवमस्य भावयतः शुक्लोधर्म्मौपजायते-
ततश्चित्तं प्रसीदति प्रसन्नमेकाग्रं स्थितिपदं लभते” भा० ।
“अपरिकर्मितमनसोऽसूयादिमतः समाधितदुपायसम्पत्त्य-
नुत्पादात् चित्तप्रसादनोपायानसूयादिविरोधिनः प्रतिपा
दयितुमुपक्रमते यस्य चित्तस्यापस्थितस्येदमिति ।
मैत्रीकरुणेत्यादि प्रसादनान्तम् । सुखितेषु मेत्री
सौहार्द्दं भावयत ईर्ष्याकालुष्यं निवर्त्तते चित्तस्य ।
दुःखितेषु च करुणामात्मनीव परस्मिन् दुःस्यप्रहाणेच्छा
भावयतः परापकारचिकीर्षाकालुष्यं चेतसोनिवर्त्तते ।
पुण्यशीलेषु प्राणिषु मुदितां हर्षं मावयतः असूयाका-
लुष्यं चेतसो निवर्त्तते । अपुण्यशीलेषु चोपेक्षां
माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसोनिवर्त्तते । ततश्चास्य
राजसतामसधर्मनिवृत्तौ सात्विकः शुक्लोधर्म उपजायते ।
सत्वोत्कर्षसम्पन्नः सम्मवति । वृत्ति निरोधपक्षे तस्य
प्रसादस्वामाव्याच्चित्तं प्रसीदति प्रसन्नञ्च वक्ष्यमाणभ्य
उपायेभ्यः एकाग्रं स्थितिपदं लभते । असत्यां पुनर्मैत्र्या-
दिभावनायां न ते उपायाः स्थित्यै कल्पन्ते” विव० ।
करणे ल्युट् ङीप् । चित्रप्रसादनी मैत्र्यदिभाव-
नायाम् । “तत् प्रचिणु चित्तप्रसादनीश्चतसो मैत्र्यादि
भावनाः” वीरच० ।

चित्तभू पु० चित्ते भवति भू--क्विप ७ त० । कामे चित्तभवादयोऽप्यत्र ।

चित्तमूमि स्त्री चित्तस्य भूमिरवस्था । पातञ्जलप्रसिद्धे

१ चितस्यावस्थाभेदे तद्भूमयश्च नानाविधाः तत्र चित्तशब्दे
दर्शिता क्षिप्तमूढविक्षिप्तैकाग्रताः चतसः उक्ताः ।
मधुमत ज्योतिष्मती विशोका ऋतम्मरा च समाधिभूमय-
श्चान्यास्ताश्चचित्तपिक्षेपशब्दे तत्तच्छब्दे च दृश्याः ।
साधनपादे च सूत्रभाष्यादौ सप्ताम्या अप्युक्ताः यथा
“सप्तधा प्रान्तभूमिः प्रज्ञा” सू० ।
“तस्येति । प्रत्युदितख्यातेः प्रत्थाम्नायः सप्तधेति
अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्थयारानुत्पादे सति
सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद् यथा परिज्ञातं
हेयं, नास्य पुनः परिज्ञेयमस्ति क्षीणा हेयहेतवो न
पुनरेतेषुक्षेतव्यमस्ति, साक्षात्कृतं निरोधसमाधिना हानम् ।
भावितो विवेकख्यातिरूपोहानोपायैव्येधा चतुष्ठयी
कार्य्याविमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी चरिता-
धिकारा बुद्धिगुणा गिरिशिखरकृटच्युताइव ग्रावाणो-
निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं
गच्छन्ति । न चैषां विलीनानां पुनरस्त्युत्पादः प्रयो-
जनाभावादिति एतस्यामवस्थायां गुणसम्बन्धातीतस्व-
रूपमात्रज्यीतिरमलः केवली पुरुष इत्येतां सप्तविधा
प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कुशलैत्याख्यायते पति
प्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वा-
दिति सिद्धा भवति विवेकख्यातिर्हानोपायः इति” भा० ।
“पिवेकख्यातिनिष्ठायाः स्वरूपमाह सूत्रेण तस्येत्यादि ।
व्याचष्टे तस्येति प्रत्युदितख्यातेर्वर्त्तमानख्यातेर्योभि
नः प्रत्याम्नायः परामर्शः अशुद्धिरेवावरणं चित्तसुत्वस्य
तदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे
तामसराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनि-
ष्ठामापन्नस्य सप्तप्रकारेव प्रज्ञा विवेकिनो भवति विपयभे-
द्रात् प्रज्ञाभेदः । प्रकष्टोऽन्तो यासां मूमीनामवस्थानां तास्त-
थोक्ता यतः परं नास्ति संप्रकर्षः प्रान्ता भूमयः यस्या-
प्रज्ञाया विवेकख्यातेः सा तथोक्ता ता एव सप्त प्रकाराः
प्रज्ञाभूमीरुदाहरति तद्यथेति । तत्र पुरुपप्रयत्न
निष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति परिज्ञातं
हेयं यावत् किल प्राधानिकं तत्सर्व्वं परिणामतापसं-
पृष्ठ २९४१
स्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति, हेयं तत्परिज्ञा-
तम् । प्रान्ततां दर्शयति नास्य पुनः किञ्चिदपरिज्ञेय-
मस्ति । द्वितीयामाह क्षीणा इति । प्रान्ततामाह
न पुनरिति । तृतीयामाह साक्षातकृतं प्रत्यक्षेण
निश्चितं यथा संप्रज्ञातावरवायामेव निरोधसमाधि
साध्यं हानं व पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः ।
चतुर्थीमाह भावितो निष्पादितः विवेकख्यातिरूपोहा-
नोपायः, नास्याः परं भावनीयमस्ति इति शेषः । एषा
चतुष्टयी कार्य्याविमुक्तिः समाप्तिकार्य्यतता प्रयत्रनिष्पा-
द्या दर्शिता । क्वचित् पाठः कार्य्यविमुक्तिरिति कार्य्यान्त-
रेण विमुक्तिः प्रज्ञाया इत्यर्थः । प्रयत्ननिष्पाद्यामुक्त्वा
तद्रनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्त-
विमुक्तिस्तु त्रयी इति । प्रथमामाह चरिताधिकारा
बुद्धिकृतमोगापवर्गकार्येव्यर्थः । द्वितीयामाह गुणाइति
प्राव्यतामाह न चैषामिति । तृतीयामाह एतस्या-
मतस्यायामिति एतस्यामवस्थायां जीवन्नेव पुरुषः
कुशलोमुक्त इत्युच्यते चरमदेहत्वादित्याह एतमिति ।
अनौपचारिकं मुक्तमाह प्रतिप्रसवे प्रधानलयेऽपि
चित्तस्य मुक्तः कुशल इत्येष भवति गुणातीतत्वादिति’
विवरणम् । चित्तमेव भूमिः क्षेत्रम् । २ चित्ररूपक्षेत्रे
तस्मिंश्च मैत्रीकरुणामुदितोपेक्षारूपैः संस्कारैः संस्कृते
समाधिलाभः इति योगाशास्त्रे प्रसिद्ध्वम्

चित्तविक्षेप पु० ६ त० । पात० सूत्रभाष्याद्युक्तेषु योगा-

न्तरायभूतेषु व्याध्यादिषु नयसु । ते च यथा
“व्याघिस्त्यानसंशयप्रमादालस्याऽविरतिभ्रान्तिदर्शनाऽलव्य-
भूमिकत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः” सू० ।
“अथ केऽन्तरायाः? ये चित्तस्य विक्षेपकाः के पुनस्ते?
कियन्तोवेति? भवन्ति नवान्तरायाश्चित्तविक्षेपाः
सहैते चित्तवृत्तिभिः, एतेषामभावे न मवन्ति पूर्व्वोक्ताश्चित्त-
वृत्तयः । व्याधिर्धातुरसकरणवैषम्यम् । स्त्यानम् अकर्म्म-
ण्यता चित्तस्य । संशयः उमयकोटिस्पृग्विज्ञानं स्या-
दिदमेवं, नैवं स्यादिति । प्रमादः समाधिसाधनानाम-
भावनम् । आलस्यै--कायस्य वित्तस्य च गुरुत्वादप्रवृत्तिः ।
अविरतिः--चित्तस्य विषयसंप्रयोगात्मा गर्द्धः । भ्रान्तिद-
र्शनं विपर्य्ययज्ञानम् । अलब्धभूमिकत्वं समाधिभूमेर-
लागः । अनवस्थितत्वं--प्राग्लब्धायां भूमौ चित्तस्या
प्रतिष्ठा । समाधिप्रतिलम्भे हि सति तदवस्थितं खादिति
एते चित्तविक्षेपाः नव योगमला योगप्रतिपक्षा योगा-
न्तराया इत्यभिधीयन्ते” महर्षिवेदव्यास भाप्यम ।
“पृच्छति--अथ के इति । सामान्योत्तरं--ये इति । विशे-
षसंख्ये पृच्छति--के इति । उत्तरं--व्याधीत्यादिसूत्रम् ।
अन्तरायाः नव, एताश्चित्तवृत्तयोयोगान्तरायाः=योग-
विरोधिनश्चित्तस्य विक्षेपकाः । चित्त खल्वमी व्याध्याद-
योयोगाद्विक्षिपन्ति अपनयन्तीति विक्षेपाः । योगपति-
पक्षत्वे हेतुमाह,--सहैत इति । संशयभ्रान्तिदर्शने
तावद्वृत्तितया वृत्तिनिरोधप्रतिपक्षौ, येऽपि न वृत्त-
योव्याधिप्रभृतयस्तेऽपि वृत्तिसाहचर्य्यात्तत्पतिपक्षा
इत्यर्थः । पदार्थान् व्याचष्टे,--व्याधिरिवि ।
धातवोवातपित्तश्लेष्माणः शरीरधारणात् अशितपीता-
हारपरिणामविशेषोरसः करणानीन्द्रियाणि तेषां
वैषम्यं न्यूनाधिकभावः । अकर्म्मण्यता कर्म्मान-
र्हता । संशय उभयकोटिस्पृग्विज्ञानं सत्यप्यत-
द्रूपप्रतिष्ठत्वेन संशयविपर्य्यासयोरभेदे उभयकोटि-
स्पर्शास्पर्शरूपाऽवान्तरविशेषविवक्षयाऽत्र भेदेनोपन्यासः ।
अभावनमकरणं तत्राप्रयत्न इति यावत् । कायस्य गुरुत्वं
कफादिना, चित्तस्य गुरुत्वं तमसा । गर्धः तृष्णा ।
मधुमत्यादयः समाधिभूमयः लब्धभूमेर्य्यदि तावतैव सुस्थित-
म्मत्यस्य समाधिभ्रेषःस्याचतस्तस्या अपि भूमेरपायः
स्यात् । यस्मात् समाधिप्रतिलम्भे तदवस्थितं स्यात्त-
स्मात्तत्र प्रयतितव्यमिति” विवरणम् ।

चित्तविद् पु० चित्तमात्मत्वेन वेत्ति विद--क्विप् । बौद्ध्वभेदे

आशयाभिज्ञे त्रि०

चित्तविप्लव पु० चित्तस्य विप्लवोऽनवस्थानं यस्मात् ५ ब० । उन्मादरोगे हेसच० ।

चित्तविभ्रम पु० चित्तस्य विभ्रमो विशेषेण भ्रमणमनवस्थानं

यस्मात् ५ ब० । उन्मादरोगे अमरः । “अहोचित्त-
विकारोऽयं स्याद्वा मे चित्तविभ्रमः” भा० स्वर्गा० २ अ०

चित्तल पुंस्त्री चित्तं लाति मनोहरत्वात् ला--क । मृगभेदे ।

“असिततिलोद्धवतैलविपकं लवणयुतं नवहिङ्गुरसा-
द्यम् । त्रिकटुकयुक्तनिशार्द्रकमिश्रं बहुगुणचि तल
मांसमनर्घम् । रसे पाके च मधुरं रक्तपित्तविना-
शनम” शब्दार्थचि० धृतवाक्यम् ।

चित्तवृत्ति स्त्री ६ त० । चित्तस्य विषयाकारपरिणामभेदे

“योगयित्तवृतिनिरोषः” पा० । तद्भेदाश्च पञ्चधा
क्लिष्टाशब्दे १३४४ पृ० उक्ताः ।

चित्तसमुन्नति स्त्री सम् + उद् नम--क्तिन् ६ त० । १ चित्तस्य

सम्यगुन्नमने तद्धेतौ २ गर्व्वे अमरः ।
पृष्ठ २९४२

चित्तहारिन् त्रि० चित्तं हरति हृ--णिनि । मनोहरे स्त्रियां

ङीप् अण् । चित्तहार ण्वुल् । चित्तहारक तत्रार्थे
ताच्छील्ये ट । चित्तहर मनोहरणशीले त्रि० स्त्रियां
ङीप् ।

चित्ताभोग पु० सम्यग् भोग आभोग एकविषयता ६ त० । एकविषये स्थिरचित्ततायाम् अमरः ।

चित्ति स्त्री चित--ज्ञाने भावे क्तिन् । १ प्रज्ञायाम् “उदु त्वा

विश्वे देवा अग्ने! भवन्तु चित्तिभिः” यजु० १२३ ।
२ चिन्तने च “चित्तिं जुहोमि मनसा घृतेन” १७ । ७८ ।
“चित्तिं चिन्तनम्” वेददी० । ३ कर्म्मणि । “सा चित्ति-
भिर्निचकार, इति ऋचमधिकृत्य “चित्तिभिः कर्म्मभिः”
निरु० उक्तम् कर्त्तरि क्तिच् । ४ ज्ञापयितरि ५ प्रापके च
त्रि० “चित्तिरपां दधे विश्वायुः” ऋ० १ । ६७ । ५ ।
“चित्तिश्चेतयिता प्रापयिता वा” भा० । भावे क्तिय् ।
६ ख्यातौ स्त्री । “चित्तिं दक्षस्य सुभगमस्मे” ऋ० २ ।
२१ । ६ । चित्तिं ख्यातिम् भा० ।

चित्तोन्नति स्त्री ६ त० । १ चित्तस्योन्नतौ तद्धेतुत्वात् २ गर्व्वे हेमच० ।

चित्पति पु० ६ त० । चितःज्ञानस्य पतिः । मनोभिमानिनि

जीवे । अस्य “न भूवाक्चिदित्यादि” पा० न पूर्वपद
प्रकृतिस्वरः । “चित्पतिर्मा पुनातु” यजु० ४ । ४ ।

चित्य न० चि--क्यप् । १ चितायां शवदाहचूल्याम् त्रिका०

स्त्रीत्वं तत्रार्थे अमरः । २ चयनीये त्रि० । मावे क्यप् ।
३ चयने स्त्री

चित्र क्षणिके--लेख्ये अद्भुते च अद० चु० उभ० सक० सेट् ।

चित्रयति ते अचिचित्रत् त । चित्रितः चित्रः ।

चित्र न० चित्र--भावे अच् चि--ष्ट्रन् वा । १ तिलके ।

२ आलेख्ये ३ अद्भुते ४ कर्वूरवर्ण्णे ५ तद्युक्ते त्रि० मेदि० ।
६ आकाशे ७ कुष्ठभेदे हेम० । ८ यमभेदे पु० “वृकोदराय
चित्राय” यमतर्पणमन्त्रः । ९ एरण्डंवृक्षे १० अशोकवृक्षे
११ चित्रकवृक्षे राजनि० १२ चित्रगुप्ते चित्रगुप्तशब्दे दृश्यम्
१३ शब्दालङ्कारभेदे न० अलङ्कारशब्दे ३९० पृ० दृश्यम् ।
“चित्रसंज्ञमीरितं प्रमाणिकापदद्वयम्” वृ० र० उक्ते
१५ षोड़शाक्षरपादके छन्दोभेदे । “निसर्गचित्रोज्ज्वल-
सूक्ष्मपक्ष्मणा” “चित्रं चकार पदमर्द्धपुलायितेन”
“रुचिरचित्रतनूरुहशालिभिः” इति च माघः ।

चित्रक न० चित्रमिव कायति कै--क चित्र--स्वार्थे क वा ।

१ तिलके मेदि० चित्रेण कायति कै--क । २ व्याघ्रे ३ व्याघ्र-
भेदे (चितावाघ) । पुंस्त्री हेमच० स्त्रियां जातित्वात्
ङाष् । (चिराता) ख्यात ४ ओषधिभेदे पु० “चित्रकः कटुकः
पाके वह्निकृत् पाचनो लघुः । रूक्षोष्णो ग्रहणीकुष्ठशो-
थार्शःकृमिकासनुत् । वातश्लेष्महरो ग्राही वातार्शः-
श्लेष्मपित्तहृत् । विचित्रं चैत्रकं शाकं कासमर्द्दवि-
मर्द्दितम् । तप्ततैले सवाह्णीके पाचितं तक्रसम्भृतम्”
भावप्र० तद्गुणादि । चित्र--क्वुन् । ५ चित्रकरे त्रि०
६ शूरे ७ भृगान्तके शब्दार्थाच० ८ एरण्डवृक्षे पु० अमरः ।

चित्रकण्ठ पु० चित्रः कण्ठोऽस्य । १ पारावते २ तद्भेदे वनकपोते

च (घुघु) । जटाधरः । स्त्रियां जातित्वात् ङीष् ।

चित्रकगुटिका स्त्री चक्रदत्तोक्ते गुटिकाभेदे यथा

“चित्रकः पिप्पलीमूलं द्वौ क्षारौ लवणानि च । व्योष-
हिङ्ग्वजमोदाश्च चव्यञ्चैकत्र चूर्णयेत् । भुटिका
मातुलुङ्गस्य दाड़िमाम्लरसेन वा । कृत्वा विपाचये
द्यामं दीपवत्याशु चानलम् । सौवर्चलं सैन्धवञ्च विड़-
मौद्भिदमेव च । सामुद्रेण समं पञ्च लवणान्यत्र
योजयेत्” ।

चित्रकघृत न० “चित्रकक्वाथकल्कभ्यां ग्रहणीघ्नं शुभं

हविः । गुल्मशोफोदरप्लीहाशूलार्शोघ्नं दीपनं परम्”
इति चक्रदत्तोक्ते घृतभेदे ।

चित्रकतैल न० “चित्रकं चविकं दीप्यं निदिग्धिकाकरञ्ज-

वीजलवणार्कैः । गोमूत्रयुक्तं सिद्धं तैलं नामार्शसां
विहितम्” चक्रदत्तोक्ते तैलभैदे

चित्रकम्बल पु० कर्म्म० । कम्बलभेदे । (गालिचा)

चित्रकर त्रि० चित्रं लेख्यभेदम् आश्चर्य्यं वा करोति

ताच्छील्यादौ ट । लेख्यादौ १ चित्रशिल्पकरे । विश्व-
कर्म्मणः शूद्रागर्भजाते वर्ण्णसंङ्करभेदे २ रङ्गाजीवे
पुंस्त्री अमरः ।

चित्रकर्म्मन् त्रि० चित्रं कर्म्मस्य । १ चित्रकरे २ आश्वर्य्य-

कारके च ३ तिनिशवृक्षे पु० शब्दच० । ६ त० । ४ चित्र-
लेखक्रियारूपे शिल्पे न० ।

चित्रकहरीतकी स्त्री चित्रकपक्वा हरीतकी । चक्रदत्तोक्ते

औषधभेदे “चित्रकस्यामलक्याश्च गुडूच्या दशमूलजम् ।
शतं शतं रसं दत्त्वा पथ्याचूर्णाढ़कं गुडात् । शतं पचेत्
घनीभूते पलं द्वादशकं क्षिपेत् । व्योषत्रिजातयोः क्षारात्
पलार्द्धमपरेऽहनि । प्रस्थार्द्धमधुनोदत्त्वा यथाग्न्यद्यादत-
न्त्रितः । वृद्धयेऽग्नेः क्षयं कासं पीनसं दुस्तरं क्रिमीन् ।
गुल्मोदावर्त्तदुर्नामश्वासान् हन्ति रसायनम्” ।

चित्रकाय पु० चित्रः कायोस्य । १ व्याघ्रे हमच० (चिता-

वाथ) २ व्याघ्रमेदे राजनि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/चातुर&oldid=57748" इत्यस्माद् प्रतिप्राप्तम्