वाचस्पत्यम्/चक्रव्यूह

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २८४१

चक्रव्यूह पु० चक्राकारः व्यूहः । चक्राकारे सेनासन्नि-

वेशभेदे चक्रशब्दे दृश्यम् ।

चक्रशल्या स्त्री चक्रमिव शल्यमत्र । श्वेतगुञ्जायां राजनि०

चक्रश्रेणी स्त्री चक्राणां श्रेणिरन्न ङीव । अजशृङ्ग्याम्

वृक्षभेदे रत्नमाला तस्याःफलानां चक्राकारशृङ्गरूपतया
जातत्वा त्तथात्वम् ।

चक्रसंज्ञ न० चक्रस्य संज्ञा संज्ञास्य । १ वङ्गे धातुभेदे हेमच० २ चक्रवाके अमरः ।

चक्रसंवर पु० चक्रमिन्द्रियचक्रं संवृणोति अच् । वुद्धभेदे

त्रिका० ।

चक्रसक्थ त्रि० चक्रमिव सकिथ अस्य षच् षचः षित्त्वेन

नित्यमन्तोदात्तता “सक्थञ्चाचक्रान्तात्” पा० चक्रान्तप्रति-
षेधात् न विभाषयाऽन्तोदात्तता । चक्रतुल्यसक्थियुक्ते ।

चक्रसाह्वय पुंस्त्री० चक्रेण समाना आह्वा यस्य । चक्रवाके

“चकोरान् वानरान् हसान् सारसान् चक्रसाह्वयान्” भा०
आनु० ५४ अ० । जातित्वेऽपि योपधत्वात् स्त्रियां टाप् ।

चक्रहस्त पृ० चक्रं हस्तेऽस्य । १ चक्रपाणौ विष्णौ २ चक्रधा-

रिमात्रे त्रि० ।

चक्रा स्त्री चक--तृप्तौ रक् । १ नागरमुस्तायां, २ कर्कटशृङ्ग्याञ्च राजनि० ।

चक्रांश पु० चक्रस्य राशिचक्रस्यांशः । राशिचक्रस्य ३६०

षष्ट्युत्तरशतत्रयात्मके भागे ।

चक्रा(की)ङ्की स्त्री चक्राकारेणाकति अङ्कते वा अक--गतौ

अकिङ् गतौ अच् गौरा० ङीष् । हंस्यां शब्दरत्ना० ।

चक्राङ्ग पु० चक्रमिवार्द्धचक्रमिवाङ्गं यस्य । १ हंसे । स्त्रियां

जातित्वात् ङीष् । चक्रमङ्गमस्य । २ रथे अमरः ।
“इदमूचुश्च चक्राङ्गा वचः काकं विहङ्गमाः” भा० कर्ण०
४१ अ० हंसकाकीये । ३ चक्रवाके “कलविङ्कं प्लवं हंसं
चक्राङ्गं ग्रामकुक्कुटम्” मनुः अभक्ष्यमांसोक्तौ । हंसस्य
पृथगुपादानादस्य चक्रवाकार्थता ।

चक्राङ्गा स्त्री चक्रमिवाङ्गमस्त्यस्याः अच् । सुदर्शनायां लतायां रत्नमाला ।

चक्राङ्गी स्त्री चक्रमिव चक्रं तृप्तिकरभङ्गं वाऽस्याः ङीष् ।

१ कटुरोहिण्याम् मेदि० । २ हंस्यां शब्दर० । ३
हिलमोचिकावां त्रिका० । ४ मञ्जिष्ठायां ५ वृषपर्ण्यां
च राजनि० । ६ कर्कटशृङ्ग्यां रत्नमा० ।

चक्राट पु० चक्रं चक्राकारमटति अट--अण् उप० स० ।

१ विषवैद्ये २ धूर्त्ते ३ दीनारे परिमाणभेदे च मेदि० ।

चक्राधिवासिन् पु० चक्रं तृप्तिकरमधिवासयति अधि + वासि

णिनि । तृप्तिकरसौरभयुक्ते नागरङ्गवृक्षे(नारेङ्गानेवु) त्रिका० ।

चक्रायुध पु० चक्रमायुधमस्य । १ विष्णौ “चक्रायुधेन चक्रेण

पिबतोऽमृबमोजसा । शिरश्छिन्नम्” भा० आ० १९२ अ० ।
२ चक्रास्त्रधारिमात्रे चक्रप्रहरणादयोऽप्यत्र ।

चक्रावर्त्त पु० चक्रस्येवावर्त्तः । घूर्णने हेमच० ।

चक्राह्व पु० चक्रेति आह्वा यस्य । १ चक्रमर्द्दे राजनि० ।

२ चक्रवाके च ।

चक्रि त्रि० कृ--कि द्वित्वम् । करणशीले “चक्रिं विश्वानि

चक्रये” ऋ० १ । ९ । २ । विश्वानीत्यत्र कियोगे षष्ठी
निषेधात् कर्म्मणि द्वितीया ।

चक्रिका स्त्री चक्रं तदाकारोऽस्त्यस्याः ठन् । जानुनि राजनि० ।

चक्रिन् पु० चक्रमस्त्यस्य इनि । १ विष्णौ २ ग्रामजालिके

३ चक्रवाके ४ सर्पे पुंस्त्री० । ५ कुलाले ६ सूचके त्रि०
मेदि० । ७ अजे पुंस्त्री ८ तैलिके शब्दर० । चक्रं राष्ट्रचक्रं
स्वत्वेनास्त्यस्य इनि । ९ चक्रवर्त्तिनि हेमच० । १० चक्र-
मर्द्दे तस्य तदाकारपत्रत्वात् । ११ तिलिशे १२ व्यालनखे पु०
१३ काके १४ गर्दभे च पुंस्त्री० राजनि० । तयोश्चक्रवद्-
भ्रमणवत्त्वात्तथात्वम् । १५ चक्रयुक्ते त्रि० सर्व्वत्र स्त्रियां
ङीप् । १६ चक्रयुक्तरथाद्यारूढे त्रि० । “चक्रिणोदश-
मीस्थस्य” मनुः । “चक्रिणः चक्रयुक्तरथाद्यारूढस्य”
कुल्लू० । “वैश्यायां शूद्रतश्चौराज्जातश्चक्री स उच्यते”
उशनसोक्ते १७ संकीर्णजातिभेदे पुंस्त्री० । “पदं
महेन्द्रालयचारु चक्रिणः” माघः । विष्णोश्च मनस्तत्त्वा-
त्मकचक्रस्य लोकरक्षार्थं सुदर्शनचक्रस्य वा धारणात्
तथात्वम् । अतएव “अरौद्रः कुण्डली चक्री” “शङ्ख-
भृन्नन्दकी चक्री” विष्णुस० द्विधा प्रयोगः
अवयवार्थभेदाभ्यामिति बोध्यम् ।

चक्रीवत् पुंस्त्री० चक्रं तद्वद्भ्रमणमस्त्यस्य मतुप् आसन्दी-

वदित्या० पा० नि० । १ गर्दभे अमरः । “चक्रीवदङ्गरुह
धूम्ररुचो विसस्रुः” साघः । २ राजभेदे पु० सि० कौ० ।
वैदिकप्रयोगे ३ चक्रयुक्तमात्रे च । “सदोहविर्धानानि
चक्रीवन्ति” कात्या० श्रौ० २४ । २३ । ३० । सदोहविर्धाना
ग्नीध्राणि चक्रीवन्ति” २४ । ५ । २६ । स्त्रियां सर्व्वत्र ङीप्

चक्रु त्रि० कृ--कु द्वित्वञ्च । कर्त्तरि उज्वलद० ।

चक्रेश्वरी स्त्री ६ त० । १ जिनानां विद्याभेदे २ राष्ट्रेश्वरे पु० ।

चक्रोपजीविन् त्रि० चक्रं तैलनिष्पीडनयन्त्रमुपजीवति उप

जीव--णिनि । तैलिके ।

चक्ष कथने त्यागे च अदा० आत्म० सक० सेट् । चष्टे । अख्यत्

अख्यत त्यागे तु सम--क्षिष्ट चख्यौ चख्ये चचक्षे ।
भाष्यमते अक्शासोत् अक्शास्त । चक्शौ चक्शे ।
पृष्ठ २८४२
  • अनु + पश्चादुक्तौ “परायतीं मातरमन्वचष्ट” ऋ० ४ । १८ । ३ ।
  • अभि + आभिमुख्येन दर्शने “कदा चिकित्वो अभिचक्षसे नः”
ऋ० ५ । ३ । ९ ।
  • अव + अधोदर्शने । “सुपर्णोऽवचक्षत क्ष्मां सोमः” ऋ० ९ । ७१ । ९ ।
  • आ + आख्याने । “विचक्षणः प्रस्तुतमाचचक्षे । “स रावण-
हृतां ताभ्यां वचसाचष्ट मैथिलीम्” रघुः ।
  • अनु + आ + अन्वाख्याने “एतमेव तदन्वाचक्षते” शत० व्रा० २ । ४ । ४ । २ ।
  • अभि + आ + आभिमुख्येनाख्याने । “अभ्याचष्टानुरागास्रैर-
न्धीभूतेन चक्षुषा” भाग० १ । ९ । ११ । “अभ्याचष्टुं प्रच-
क्रमे” ८ । ५ । १४ ।
  • उद् + आ + उदाहरणे “तस्मादध्वर्य्युरेव गोर्वीर्य्याण्युदाचष्टे” शत० व्रा० ३ । ३ । ३ । ४ ।
  • प्रति + आ + प्रत्याख्याने निराकरणे “गुरुपुत्रीति कृत्वाऽहं
प्रत्याचक्षे न दोषतः” भा० आ० ७७ अ० ।
  • वि + आ + व्याख्याने विवरणे । “व्याचक्षाणस्य तु मे निदि-
ध्यासस्व” शत० व्रा० १४ । ५ । ४ । ४ ।
  • सम् + आ + सम्यगाख्याने । “तत्सत्यं नः समाचक्ष्व” भाग० १ ।
४ । १३ ।
  • परि + परितः कथने विख्यातौ “वेदप्रदानादाचार्य्यं पितरं परिचक्षते” मनुः ।
  • प्र + प्रकर्षेण कथने विख्यातौ । “तं देवनिर्म्मितं देशं ब्रह्मा-
वर्त्तं प्रचक्षते” मनुः “दहति प्रेतमिति प्रचक्षते” रघुः ।
  • प्रति + प्रत्युत्तरोक्तौ प्रतिरूपोक्तौ च “यदा तु सर्व्वभूतेषु दारु-
ष्वग्निमिव स्थितम् । प्रतिचक्षीत मां लोकः” भाग० ३ । ९ । ३ ।
  • वि + विशेषेण कथने विख्यातौ “विश्वं विचक्षते धीराः
योगराद्धेन चक्षुषा” भाग० ३ । ११ । १७ । विचक्षणः ।
  • सम् + सम्यक्कथने । “मेरोरप्यन्तरे पार्श्वे पूर्व्वं संचक्ष्व
सञ्जय!” भा० भी० ७ अ० ।

चक्षण न० चक्ष--ल्युट् न ख्यादेशः । १ अनुग्रहेण दर्शने “कद्व-

रुणस्य चक्षणम्” ऋ० १ । १०५ । ६ । “चक्षणमनुग्रहदर्श-
नम्” भा० । २ कथने च । करणे ल्युट् । ३ अवदंशे
मद्यपानादिरोचके (चाकना) द्रव्यभेदे हेमच० ।

चक्षणि त्रि० चक्ष--अनि । प्रकाशके । “स नी विभावा

चक्षणिनं” ऋ० ६ । ४ । २ ।

चक्षस् पु० चक्ष--असि न ख्यादेशः । १ वृहस्पतौ त्रिका० । २ उपाध्याये उणादिकोषः ।

चक्षुःश्रवस् पुंस्त्री० चक्षुषा शृणोति श्रु--असुन्, चक्षुरेव

श्रवः कर्णो यस्य बा । सर्पे अमरः । “अदस्तदाकर्णि-
फलाढ्यजीवितं दृशोर्द्वयं नस्तदवीक्षि चाफलम् । इति
स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा
तदात्मनः” नैष० ।

चक्षुर्मल न० ६ त० । (पिँचुटि) नेत्रमले शब्दार्थचि० ।

चक्षुर्वर्द्धनिका स्त्री शाकद्वीपस्थे नदीभेदे । “महानदो-

च कौरव्य! तथा मणिजला नदी । चक्षुर्वर्द्धनिका
चैव नदी भरतसत्तम!” भा० भी० ११ अ० ।

चक्षुर्वहन न० चक्षुस्तज्ज्योतिर्वहति वह--ल्यु । १ मेषशृङ्गीवृक्षे रत्नमा० ।

चक्षुर्विषय पु० ६ त० । १ चक्षुर्ग्राह्ये रूपादौ । स च

भाषा० उक्तो यथा “उद्भूतरूपं नयनस्य गोचरो द्रव्याणि
तद्वन्ति पृथक्त्वसंख्ये । विभागसंयोगपरापरत्वे स्नेह
द्रव्यत्वं परिमाणयुक्तम् । क्रियां जातिं योग्यवृत्तिं
समवायञ्च तादृशम् । गृह्णाति चक्षुः, सम्बन्धादा-
लोकोद्भूतरूपयोः” । २ नेत्रप्रचारस्थाने च “गुरोस्तु
चक्षुर्विषये न यथेष्टासनो भवेत्” मनुः ।

चक्षुर्हन् त्रि० चक्षुषा हन्ति हन--क्विप् ३ त० । दृष्टिमात्रेण

घातिनि “सर्पस्पर्शसमाः केचित्तथान्ये मकरस्पुशः ।
विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे” भा० आनु०
३५ अ० । “त्वां ते चक्षुर्हणं प्राय्य दग्धा घोरेण
चक्षुषा” भा० भी० १२२ अ० ।

चक्षुष्मत् त्रि० प्रशस्त चक्षुरस्त्यस्य मतुप् । प्रशस्तनेत्रयुक्ते

“चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्य्यार्थदर्शिना” रघुः ।

चक्षुष्य त्रि० चक्षुषे हितः यत् । १ चक्षुर्हिते २ प्रियदर्शने

जटा० । ३ केतकवृक्षे ४ पुण्डरीकवृक्षे पु० मेदि० ५
शोंभाञ्जनवृक्षे पु० राजनि० ६ रसाञ्जने हेमच० । ७
सौवीराञ्जने ८ खर्परीतुत्थे ९ प्रपौण्डरोके च न० राजनि० ।
“शीतेन शिरसः स्नानं चक्षुष्यमिति निर्द्दिशेत्” सुश्रु० ।
“चक्षुष्यः श्रुतो भवति य एवं वेद” छा० उ० । चक्षु-
षि भवः शरीरावयवत्वात् यत् । १० नेत्रजाते त्रि० ।
“चक्षुष्यः खलु महतां परैरलङ्घ्यः” माघः । “चक्षुष्यः
अक्षिजः प्रियश्च । “प्रियेऽक्षिजे तु चक्षुष्य” इति
विश्वः” मल्लि० ।

चक्षुस् न० चक्ष--धातूनामनेकार्थत्वात् दर्शने करणे उसि ।

१ नेत्रे तच्च चाक्षुषज्ञानसाधनमिन्द्रियभेदः अक्षिशब्दे
४५ पृ० दृश्यम् तस्य तैजसत्वं मुक्ता० समर्थितं यथा
“चक्षुस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीय
रूपव्यञ्जकत्वात् प्रदीपवत् प्रदीपस्य स्वीयस्पर्शव्यञ्जकत्वा-
दाद्यं परकीयेति घटादेः स्वीयरूपव्यञ्चकत्वात् व्यभिचा-
रवारणाय द्वितीयं परकीयेति अथवा प्रभायादृष्टान्तत्व
सम्भवादाद्यं परकीयं न देयम्” चक्षुःसन्निर्कर्षे तथात्व-
वारणाय द्रव्यत्वे सतीति वाच्यम्” । चक्षुषोऽधिष्ठातृदेवः
पृष्ठ २८४३
सूर्य्यः । “दिग्वातार्क प्रचेतोश्वीत्यादि” शा० ति० उक्तेः ।
२ तेजसि च । सूर्य्यश्चक्षुषे” ताण्ड० ब्रा० । चक्षुषे
तेजसे” भा० ।

चक्षुष्या स्त्री चक्षुषे हिता यत् । १ शुभगायां स्त्रियां २

कुलत्थिकायां मेदि० । ३ अजशृङ्ग्याम् ४ वनकुलत्थिकायाञ्च
राजनि० ।

चक्षूराग पु० चक्षुषोरागः रक्तता । १ नेत्रारुणतायां चक्षुषः

तदाकर्षकः रागः अनुरागः । २ नेत्राकर्षके अनुरागे
“चक्षूरागः कोकिलेषु (न परकलत्रेषु)” काद० ।

चक्षूरोग पु० ६ त० । नेत्ररोगे नेत्रावयवविभागः सुश्रुतोकः

अक्षिशब्दे ४५ पृ० दर्शितः । तत्र निदानादि सुश्रुते उक्तं
“उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् सप्नविपर्य्ययाच्च ।
प्रसक्तसंरोदनशोककोपक्लेशाभिघातादतिमैथुनाच्च ।
शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च । स्वे-
दाद्रजोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ।
वाष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे बिकारान् जनयन्ति
दोषाः । वाताद्दश तथा १० पित्तात् कफाच्चैव त्रयोदश ।
रक्तात् षोडश विज्ञेया सर्वजाः पञ्चविंशतिः । तथा बाह्यौ
पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः । हताधिमन्थोऽ-
निमिषो दृष्टिर्गम्भीरिका च या । यच्च वातहतं वर्त्म
न ते सिध्यन्ति वातजाः । याप्योऽथ तन्मयः काचः
साध्याः स्युः सान्यमारुताः । शुष्काक्षिपाकाधीमन्थस्यन्द-
मारुतपर्य्ययाः । असाध्योह्रस्वजात्यो यो जलस्रावश्च
पैत्तिकः । परिम्लायी च नीलश्च याप्यः काचोऽथ
तन्मयः । अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका-
ह्वया । दृष्टिः पित्तविदग्धा च पोथक्यो लगणश्च यः ।
असाध्यः कफजस्रावो याप्यः काचोऽथ तन्मयः ।
अभिष्यन्दोऽधिमन्थश्च बलासग्रथितञ्च यत् । दृष्टिः श्ले-
ष्मविदग्धा च पोथक्यो लगणश्च यः । क्रिमिग्रन्थि-
प्ररिक्लिन्नवर्त्मशुक्लार्म्मपिष्टकाः । श्लेष्मोपनाहः साध्यस्तु
कथिताः श्लेष्मजेषु तु । रक्तस्रावोऽजकाजातं शोणि-
तार्शोऽवलम्बितम् । शुक्रं न साध्यं काचश्च याप्य-
स्तज्जः प्रकीर्त्तितः । मन्थस्यन्दौ क्लिष्टवर्त्महर्षोत्पातौ
तथैव च । सिराजावञ्जनाख्या च सिराजालञ्च यत्
स्मृतम् । पर्वण्यथाव्रणं शुक्रं शोणितार्म्मार्ज्जुनश्च
यः । एते साध्या विकारेषु रक्तजेषु भवन्ति हि ।
पूयस्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी । असाध्याः
सर्वजा याप्याः काचः कोपश्च पक्ष्मणः । वर्त्मावबन्धो
यो व्याधिः सिरासु पिडका च या । प्रस्तार्य्यर्माधि-
मांसार्मस्नाय्वर्मोत्सङ्गिनी च या । पूयालसश्चार्वुदञ्च श्या-
वकर्दमवर्त्मनी । तथार्शोवर्त्मशुक्रार्मः शर्करावर्त्म यच्च
वै । सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च ।
अक्लिन्नवर्त्म कुम्भीका विसवर्त्म च सिध्यति । सनिमित्तो
ऽनिमित्तश्च द्वावसाध्यौ तु वाह्यजौ । षट्सप्ततिविका-
राणामेषा संग्रहकीर्त्तना । नव सन्ध्याश्रयास्तेषु
वर्त्मजास्त्वेकविंशतिः । शुक्रभागे दशैकश्च चत्वारः
कृष्णभागजाः । सर्व्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु ।
वाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ । भूय
एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः” ।
“अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।
पूयालसः १ सोपनाहः २ स्रावाः ३ । ४ । ५ । ६ पर्वणिका-
लजी ७ । ८ । कृमिग्रन्थिश्च९ विज्ञेया रोगाः सन्धि-
गता नव । पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं
पूयं पूति पूयालसः १ सः । ग्रन्थिर्नाल्पो दृष्टिसन्धा-
वपाकः कण्डूप्रायो नीरुजस्तूपनाहः २ । गत्वा
सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान्
स्वलिङ्गान् । तान् वै स्रावान् नेत्रनाडीमथैके
तस्या लिङ्गं कीर्त्तयिष्ये चतुर्द्धा । पाकः सन्धौ
संस्रवेद्यश्च पूयं पूयास्रावो२ नैकरूपः प्रदिष्टः । श्वेतं
सान्द्रं पिच्छिलं यः स्रवेच्च श्लेष्मास्रावो नीरुजः स
प्रदिष्टः । रक्तास्रावः ३ शोणितोत्थः सरक्तं कोष्णं नाल्पं
संस्रवेन्नातिसान्द्रम् । पीताभासं नीलमुष्णं जलाभं
पित्तस्रावं४ संस्रवेत् सन्धिमध्यात् । ताम्रा तन्वी
दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी ७ वृत्तशोफा जाता सन्धौ
कृष्णशुक्ले ऽलजी८ स्यात्तस्मिन्नेवाख्यापिता पूर्वलिङ्गैः ।
क्रिमिर्ग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्य्युः कृमयः ९
सन्धिजाताः । नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽ-
न्तर्नयनं दूषयन्ति ।” “अथातोवर्त्मगतरोगविज्ञानीयम-
ध्यायं व्याख्यास्यामः । पृथग्दोषाः समस्ताश्च यदा
वर्त्मव्यपाश्रयाः । सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिक-
मूर्च्छिताः । विवर्द्ध्य मांसं रक्तञ्च तदा वर्त्मव्यपाश्र-
यान् । विकारान् जनयन्त्याशु नामतस्तान्निबोधत ।
उत्सङ्गिन्यथ १ कुम्भीका २ पोथक्यो ३ वर्त्मशर्करा ४ ।
तथार्शोवर्त्म ५ शुष्कार्श ६ स्तथैवाञ्जननामिका ७ ।
बहलवर्त्म ८ यच्चापि व्याधिर्वर्त्मावबन्धकः ९ । क्लिष्टकर्दमव-
र्त्माख्यौ १० श्याववर्त्म ११ तथैव च । प्रक्लिन्न १२ मपरि-
पृष्ठ २८४४
क्लिन्नं१ १३ वर्त्म १४ वातहत १५ न्तु यत् । अर्वुदं १६
निमिष १७ श्चापि शोणितार्श १८ श्च यत् स्मृतम् ।
लगणो १९ विसनामा २० च पक्ष्मकोप २१ स्तथैव च ।
एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः । नामभिस्ते
समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे । पिडकाम्यन्तरमुखी
बाह्याधोवर्त्मसंश्रया । विज्ञेयोत्सङ्गिनी१ नाम तद्रूपपिड-
कान्विता । कुम्भीकवीजप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः ।
आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः २ ।
कण्डूस्रावान्विता गुर्व्योरक्तसर्षपसन्निभाः । पिडकाश्च
रुजावत्यः पोथक्य३ इति संज्ञिताः । पिडकाभिः
ससूक्ष्माभिर्थनाभिरभिसंवृता । पिडका या खरा स्थूला
सा ज्ञेया वर्त्मशर्करा४ । सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शो
बर्त्म५ कीर्त्त्यते । दीर्घोऽङ्करः खरः स्तब्धो दारुणो वर्त्म
सम्भवः । व्याधिरेष समाख्यातः शुष्कार्श६ इति संज्ञितः ।
दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा । मृद्वी
मन्दरुजा सूक्ष्मा ज्ञेया सा ऽञ्जननामिका७ । बर्त्मोपची
यते यस्य पिडकाभिः समन्ततः । सवर्णाभिः समाभिश्च
विद्याद्वहलवर्त्म८ तत् । कंण्डूमताल्पतोदेन वर्त्मशोफेन
यो नरः । न समं छादयेदक्षि भवेद्बन्धः९ स वर्त्मनः ।
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च । अकस्माच्च
भवेद्रक्तं क्लिष्टवर्त्म१० तदादिशेत् । क्लिष्टं पुनः पित्तयुक्तं
विदहेच्छोणितं यदा । तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मक-
र्दमम्११ । यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम् ।
दाहकण्डूपरिक्लेदि श्याववर्त्मेति १२ तन्मतम् । अरुजं
बाह्यतः शूनमन्तः क्लिन्न स्रवत्यपि । कण्डूनिस्तोदभू-
यिष्ठं क्लिन्नवर्त्म १३ तदुच्यते । यस्य धौतानि धौतानि
सम्बन्ध्यन्ते पुनः पुनः । वर्त्मान्यपरिपक्वानि विद्यादक्लि-
न्नवर्त्म १४ तत् । विमुक्तसन्धिनिश्चेष्टं वर्त्म यन्न निमी-
ल्यते । एतद्वातहतं १५ विद्यात् सरुजं यदि
वाऽरुजम् । वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् ।
विज्ञेयमर्बुदं१६ पुंसां सरक्तमवलम्बितम् । निमेषणीः
सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः । चालयेदतिवर्त्मानि
निमेषः १७ स गदो मतः । छिन्नाश्छिन्ना विवर्द्धन्ते
वत्मेस्था मृदवोऽङ्कुराः । दाहकण्डूरुजोपेतास्तेऽर्शः
शोणितसम्भवाः १८ । अपाकः कठिनः स्थूलो ग्रन्थिर्व्वर्त्मभवो
ऽरुजः । सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु १९
सः । शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम् । विसम-
न्तर्जल इव विसवर्त्सेति २० तन्मतम् । पक्ष्माशयगता दोषा-
स्तीक्ष्णाग्राणि खराणि च । निर्वर्त्तयन्ति पक्ष्माणि
तैर्ज्जुष्टञ्चाक्षि दूयते । उत्पाटितैः पुनः शान्तिः पक्ष्मभि-
श्चोपजायते । बातातपानलद्वेषी पक्ष्मकोपः २१ स उच्यते ।”
शुक्लभागरोगभेदास्तु ११ अर्म्मन शब्दे ३७९ पृ० सुश्रुतोक्ता
दर्शिताः तत्रत्यं ततः शेषन्तु यथा
“स्नाय्यर्मेत्यभिपठितं खरं प्रपाण्डु ५ । श्यावाः स्युः पिशि-
तनिभास्तु विन्दवो ये शुक्तिर्वा सितनयने स शुक्तिसंज्ञः ६ ।
एको यः शशरुधिरोपमः सुविन्दः शुक्लस्थो भवति
तमर्ज्जुनं७ वदन्ति । उत्सन्नः सलिलनिमोऽथ पिष्टशुक्लो
विन्दुर्यः स भवति पिष्टकः ८ सुवृत्तः । जालाभः कठिन-
सिरो महान् स रक्तः सन्तानः स्मृत इह जालसंज्ञि-
त९ स्तु । शुक्लस्थाः सितपिडकाः सिरावृता यास्ता
विद्यादसितसमीपजाः सिराजाः१० । कांस्याभो भवति
सिरावृतः सिते यो विन्दुर्व्वा स तु निरुजो
बलासकाख्यः११ ।”
कृष्णभागतरोगास्तु तत्रोक्ताः ४ कृष्णगतशब्दे २२१३ पृ०
दर्शिताः । सर्वगतरोगास्तु१५ तत्रोक्ता यथा
“अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।
स्यन्दास्तु ४ चत्वार इहोपदिष्टास्तावन्त एवेह तथाधि-
मन्थाः ४ । शोफान्वितो०ऽशोफयुत १७ श्च पाकावित्येवमेते दश
सम्प्रदिष्टाः । हताधिमन्थो ११ऽनिलपर्य्यय १२ श्च शुष्काक्षि-
षाकोऽन्यंत एव वातः १४ । दृष्टिस्तथाम्लाध्युषिता १५
सिराणामुत्पातहर्षावपि १६ सर्वभागाः । प्राथेण सर्वे
नयनामयास्ते भवन्त्यभिष्यन्दनिमित्तमूलाः । तस्मादभि-
ष्यन्दमुदीर्य्यमाणमुपाचरेदाशु हिताय धीमान् ।
निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोऽभितापाः ।
विशुष्कभावाः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति १ ।
दाहप्रपाकौ शिशिरामिनन्दा धूमायनं वाष्यसमुच्छ्रयश्च ।
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति २ ।
उष्णाभिनन्दा गुरुताक्षिशोफः कण्डूपदेहौ सितताति
शैत्यम् । स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने
नयने भवन्ति३ । ताम्राश्रुता लोहितनेत्रता च राज्यः
समन्तादतिलोहिताश्च । पित्तस्य लिङ्गानि च यानि तानि
रक्तामिपन्ने नयने भवन्ति ४ । वृद्धैरेतैरभिष्यन्दैर्तरा-
णामक्रियावताम् । तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवे-
दनाः । उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा ।
शिरसोऽर्द्धन्तु तं विद्यादधिमन्थं स्वलक्षणैः । नेत्रमु-
त्पाट्यत इव मथ्यतेऽरणिवच्च यत् । सङ्घर्षतोदनिर्भेद-
पृष्ठ २८४५
मांससंरब्धप्ताविलम् । कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्यु-
तम् । शिरसोऽर्द्धञ्च येन स्यादधिमन्थः स मारुतात्५ ।
रक्तराजिचितं स्रावि वह्निनेवावदह्यते । यकृत्पि-
ण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् । प्रपक्वोच्छून-
वर्णान्तमस्वेदं पीतदर्शनम् । मूच्छोशिरोदाहयुतं
पित्तेनाक्ष्यधिमन्थितम् ६ । शोफवन्नातिसंरब्धं स्रावकण्डूस-
मन्वितम् । शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् ।
रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम् । नासाध्मा-
नशिरोदुःखयुतं श्लेष्माधिमन्थितम् ७ । बन्धुजीवप्रतीकाशं
ताम्यति स्पर्शनाक्षमम् । रक्तास्रावं सनिस्तोदं पश्य-
त्यग्निनिभा दिशः । रक्तमग्नारिष्टवच्च कृष्णभागश्च
लक्ष्यते । यद्दीप्तं रक्तपर्य्यन्तं तद्रक्तेनाधिमन्थितम् ८ ।
हन्याद्दृष्टिं सप्तरात्रात्कफोत्थोऽधीमन्थोऽसृक्सम्भवः
पञ्चरात्रात् । षड्रात्राद्वा मारुतोत्थो निहन्यान्मिथ्या-
चारात्पैत्तिकः सद्यएव । कण्डूपदेहाश्रुयुतः पक्वोडु-
म्बरसन्निभः । दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः ।
जुष्टो मुहुः स्रवेद्वास्नमुष्णशीताम्बुपिच्छिलम् । संरम्भी
पच्यते यश्च नेत्रपाकः स शोफजः ९ ॥ शोफहीनानि
लिङ्गानि नेत्रपाके त्वशोफजे १० । अन्तःसिराणां श्वसनः स्थितो
दृष्टिं प्रतिक्षिपन् ॥ हताधिमन्थं ११ जनयेत्तमसाध्यं
विदर्बुधाः । पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः सञ्चरति
प्रदुष्टः । पर्य्यायशश्चापि रुजः करोति तं वातपर्य्याय-
१२ मुदाहरन्ति ॥ यत्कूणितं दारुणरूक्षवर्त्म विलोकने
वाविलदर्शनं यत् । सुदारुणं यत्प्रतिबोधने च शुष्का-
क्षिपाकोपहतं १३ तदक्षि ॥ यस्यावटूकर्ण्णशिरोहनुस्थो
मन्यागतो वाप्यनिलोऽन्यतो वा । कुर्य्याद्रुजोऽतिभ्रुवि
लोचने वा तमम्यतोवात १४ मुदा हरन्ति ॥ अम्लेन भुक्तेन
विदाहिना वा सञ्छाद्यते सर्वत एव नेत्रम् । शोफा-
न्वितं लोहितकं सनीलैरेतादृगम्लाध्युषितं १५ वदन्ति ॥
अवेदना वापि सवेदना वा यस्याक्षिराज्यो हि भवन्ति
ताम्राः । मुहुर्विरज्यन्ति च ताः समन्ताद्व्याधिः सिरो-
त्पात१६ इति प्रदिष्टः ॥ महान्सिरोत्पातौपेक्षितस्तु जायेत
रोगस्तु सिराप्रहर्षः १७ । ताम्राच्छमस्रं स्रवति प्रगाढं
तथा न शक्नोत्यभिवीक्षितुञ्च ॥ अथातो दृष्टिगतरोग-
विज्ञानीयमध्यायं व्याख्यास्यामः ॥ मसूरदलमात्रान्तु
पञ्चभूतप्रसादजाम् । खद्योतविस्फुलिङ्गाभां सिद्धां
तेजोभिरव्ययैः ॥ आवृतां पटलेनाक्ष्णार्बाह्येन विवरा-
कृतिम् । सीतसात्म्या नृणां दृष्टिमाहुर्नयनचिन्तकाः ॥
रोगांस्तदाश्रयान् घोरान् षट् च षठ् च प्रचक्ष्महे ।
पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ॥ सिराभिरभिस-
म्प्राप्य विगुणोऽभ्यन्तरे भृशम् । प्रथमे पटले दोषो यस्य
दृष्टौ व्यवस्थितः ॥ अव्यक्तानि स रूपाणि सर्वाण्येव
प्रपश्यति । दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ॥
मक्षिकान् लशकान् केशान् जालकानि च पश्यति ।
मण्डलानि पताकाश्च मरीचीः कुण्डलानि च ॥
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि वा । दूरस्थान्यपि
रूपाणि मन्यते च समीपतः ॥ समीपस्थानि दूरे च
दृष्टेर्गोचरविभ्रमात् । यत्नवानपि चात्यर्थं सूचीपाशं न
पश्यति ॥ ऊर्द्ध्वं पश्यति नाधंस्तात्तृतीयं पटलं गते ।
महान्त्यपि च रूपाणि च्छादितानीव वाससा ॥ कर्ण-
नासाक्षियुक्तानि विपरीतानि वीक्षते । यथादोषञ्च
रज्येत दृष्टिर्दोषे बलीयसि ॥ अधःस्थिते समीपस्यं
दूरस्थञ्चीपरिस्थिते । पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न
पश्यति ॥ समन्ततः स्थिते दोषे सङ्कुलानीव प्रश्यति ।
दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा ॥ द्विधास्यिते
त्रिधा पश्येद्बहुधा चानवस्थिते । तिमिराख्यः स वै
दोषश्चतुर्थपटलङ्गतः ॥ रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः
स उच्यते । तस्मिन्नपि तमोभूते नातिरूढे महागदे ॥
चन्द्रादित्यौ सनक्षत्रावन्तरिक्षे च विठ्युतः । निर्मलानि
च तेजांसि भ्राजिष्णूनि च पश्यति ॥ स एव लिङ्ग-
नाशस्तु नीलिकाकाचसंज्ञितः । तत्र घातेन चारूणि
भ्रमन्तीव स पश्यति ॥ आविलान्यरुणाभानि व्यावि-
द्धानि च मानवः । पित्तेनादित्यखद्योतशक्रचापतडि-
द्गुणान् ॥ शिखिवर्हविचित्राणि नीलकृष्णानि पश्यति ।
गौरचामरगौराणि श्वेताभ्रप्रतिमानि च ॥ पश्येद-
सूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् । सलिलप्लाविता-
नीव परिजाड्यानि मानवः ॥ तथा रक्तेन रक्तानि
तमांसि विविधानि च । कफेन पश्येद्रूपाणि स्निग्धानि
च सितानि च । हरितश्यावकृष्णानि धूमधूम्राणि
चेक्षते ॥ सन्निपातेन चित्राणि विप्लुतानीव पश्यति ।
बहुवा वा द्विधा वापि सर्वाण्येव समन्ततः । हीनाधि-
काङ्गान्यथ वा ज्योतींप्यपि च पश्यति ॥ पित्त कर्यात-
परिम्लायि मूर्च्छितं रक्ततेजसा । पीता दिशस्तथी-
द्यन्तमादित्यमिव पश्यति ॥ विकीर्यमाणान् खदोतै-
र्वृक्षांस्ते जोभिरेव च । वक्ष्यामि षड्विधैरागैर्लिङ्गना-
शमतः परम् ॥ रागोऽरुणो मारुतजः प्रदिष्टः पित्तात्
पृष्ठ २८४६
परिम्लाय्यथवापि नीलः । कफात् सितः शोणितजस्तु
रक्तः समस्तदोषोऽथ विचित्ररूपः ॥ रक्तजं मण्डलं दृष्टौ
स्थूलकाचारुणप्रभम् । परिम्लायिनि रोगे स्यान्म्लाय्या-
नीलञ्च मण्डलम् ॥ दोषक्षयात् कदाचित् स्यात्स्वयं तत्र
च दर्शनम् ॥ अरुणं मण्डलं वाताच्चञ्चलं परुषन्तथा ।
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा ॥ श्लेष्मणा
बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् । चलत्पद्मपला-
शस्थः शुक्लविन्दुरिवाम्भसः ॥ मृद्यमाने च नयने मण्डलं
तद्विसर्पति । प्रबालप्रद्मपत्राभं मण्डलं शोणितात्मकम् ॥
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे । यथास्वदोष-
लिङ्गानि सर्वेष्वेव भवन्ति हि ॥ षड्लिङ्गनाशाःषडिमे
च रोगा दृष्ट्याश्रयाः षड्च षडेव च स्युः । तथा
नरः पित्तविदग्धदृष्टिः१ कफेन चान्य२ स्त्वथ धूमदर्शी ३ ॥
यो ह्रस्वजात्यो४ नकुलान्ध्यता५ च गम्भीरसंज्ञा६ च तथैव
दृष्टिः ॥ पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य
नरस्य दृष्टिः । पीतानि रूपाणि च मन्यते यः स
मानवः पित्तविदग्धदृष्टिः १ ॥ प्राप्ते तृतीयं पटलन्तु दोषे
दिवा न पश्येन्निशि वीक्षते च । तथा नरः श्लेष्म-
विदग्धदृष्टि २ स्तान्येव शुक्लानि हि मन्यते तु ॥ त्रिषु
स्थितोऽल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य ।
दिवा स सूर्य्यानुगृहीतदृष्टिर्वीक्षेत रूपाणि कफाल्प-
भावात् ॥ शोकज्वरायासशिरोभितापैरभ्याहता यस्य
नरस्य दृष्टिः । सधूमकान् पश्यति सर्वभावांस्तं
धूमदर्शीति ३ वदन्ति रोगम् ॥ स ह्रस्वजात्यो ४ दिवसेषु कृच्छा-
द्ध्रस्वानि रूपाणि च यो न पश्येत् । रात्रौ स
शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत् ॥
विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ।
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो
नकुलान्ध्यसंज्ञः५ । दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्गुच्यते
ऽभ्यन्तरतश्च याति ॥ रुजावगाढा च तमक्षिरोगं
गम्भीरिकेति६ प्रवदन्ति तजज्ञाः । बाह्यौ पुनर्द्वाविह
सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ॥ निमित्ततस्तत्र
शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च । सुरषि-
गन्धर्वमहोरगाणां सन्दर्शनेनापि च भासुराणाम् ॥
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः ।
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ।
विदीर्य्यते सीदति हीयते वा नृणामभीघातहता तु
दृष्टिः । इत्येते नयनगता महाविकाराः सङ्ख्याताः पृथ-
गिह षड् च सप्ततिश्च । एतेषां पृथगिह विस्तरेण सर्वं
वक्ष्येऽहं तदनु चिकित्सितञ्च तावत्” ॥

चघ धातने स्वादि० पर० सक० सेट् । चघ्नोति अचघीत् अचाघीत् चचाघ ।

चङ्कुर पु० सौ० स्वकि--भ्रान्तौ कर्त्तृकरणादौ--उरच् । १ रथ

२ वृक्षे च मेदि० । ३ यानमात्रे न० त्रिका० ।

चङ्क्रमण न० क्रम + यङ् ल्युट् यञोलुक् । १ अतिवेगेन

गमने २ पुनः पुनर्भ्नमणे च । तस्य गुणमाह सुश्रुतः “यत्तुं
चङ्क्रमणं नीतिदेहपीडाकरं भवेत् । तदायुर्बलमेधाग्नि
प्रदमिन्द्रियबोधनम्” । “श्रमानिलहरं वृष्यं पुष्टिनि-
द्राधृतिप्रदम्” “अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ।
पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम्” इति
च सुश्रुतः । रोगभेदे तन्निषेधः सुश्रुते दर्शितो यथा
अन्तर्वृद्ध्युपक्रमे “वर्ज्जयेदित्यनुवृत्तौ अश्वादियानं
व्यायामं मैथुनं वेगनिग्रहम् । अत्यशनं चङ्क्रमणमुप-
वासं गुरूणि च” । “स्थांनासनं चङ्क्रमणं
यानयानाभिभाषणम् । व्रणवान्न निषेवेत” । “तत्र स्निग्ध
स्विन्नवान्तविरिक्तास्थापितानुवासितसिराविद्धैः
परिपरिहर्त्तव्यानि क्रोधायासमैथुनदिवास्वप्नवाग्व्यायाम
यानोत्थानासनचङ्क्रमणशीवातातपविरुद्धासात्म्याजीर्णा-
न्याबललाभात् मासमेके मन्यन्ते” ।

चङ्ग त्रि० चीयते ची० बा० ड चमङ्गं यस्य शक० । (चाङ्गा)

ख्याते १ सुस्थे २ शोभने ३ दक्षे च मेदि० ।

चचर त्रि० चर--अच् बा० द्वित्वम् । चरणशीले “पतरेव

चचरा चन्द्र निर्णिक्” ऋ० १० । १०६ । ८ । चचरा संचन्तौ
भा० औस्थाने आच् ।

चचेण्डा स्त्री चम् उपचीयमानं प्रकारे द्वित्वम् उपचीय-

मान प्रकारण अण्डमिव फलमस्य पृषो० । (टिचिड़ा)
क्याते वृहत्फले पटोल सदृशे लतामेदे वैद्य० ।

चञ्च पु० चन्च--अच् । पञ्चाङ्गुले मानभेदे शब्दार्थचि० ।

चञ्चत्पुट पु० “ताले चञ्चत्पुटे ज्ञेयं गुरुद्वन्द्वं लघुप्लुतम्”

संगीतदा० उक्ते तालभेदे ।

चञ्चरिन् पुंस्त्री० चर--यञोलुक् बा० उत्त्वामावः णिनि ।

भ्रमरे । “करी बरीभरीति चेत् दिशं सरीसरीति-
काम् । स्थिरी चरीकरीति चेत् न चञ्चरीति चञ्चरी”
उद्भटः” स्त्रियां ङीप् ।

चञ्चरीक पुंस्त्री० चर--फर्फरीकादि० ईकन् नि० द्वित्वम् । भ्रमरे त्रिका० ।

चञ्चरीकावली स्त्री “यमौ रौ विख्याता चञ्चरीकावली गः

वृ० र० टी० उक्ते त्रयोदशाक्षरपादके वर्णवृत्तभेदे ।
पृष्ठ २८४७

चञ्चल पु० चन्च--अलच् चञ्चं गतिं लाति ला--क वा ।

१ कामुके, २ वायौ शब्दार्थ० । ३ चपले, ४ अस्थिरे च त्रि०
अमरः । ५ विद्युति, ६ लक्ष्म्याञ्च स्त्री मेदि० ।
पिप्पल्यां शब्दच० । “चञ्चलचूड़ं चपलैर्वत्सकुलैः केलि
परम्” । (कृष्णम्) छन्दोम० । “नागजिह्वेव चञ्चला”
भा० क० ७७ अ० ।

चञ्चा स्त्री चन्च--अच् । नलनिर्म्मिते कटभेदे (चाँच)

मेदि० । चञ्चेवेति इवार्थे कन् “लुव् मनुष्ये” इति तस्य
लुप् । तृणमयपुरुषे लुपिव्यक्तिवचनत्वात् स्त्री

चञ्चु पु० चन्च--उन् । १ एरण्डवृक्षे मेदि० २ मृगे शब्दर० ।

३ रक्तैरण्डे ४ क्षुद्रचञ्चुवृक्षे राजनि० । ५ नाडीचशाके
शब्दार्थचि० (चेचुनाड़ी) ख्याते ६ पत्रशाकभेदे स्त्री
भावप्र० । “चिञ्चुश्चञ्चुश्चि ञ्चुकी च दीर्घपत्रा
सतिक्तिका । चञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा ।
धातुपुष्टिकरी बल्या मेध्या पिच्छिलिका स्मृता” । ७ पक्षि-
णामोष्ठे स्त्री वा ऊङ् । “स्वगचञ्चुपुटद्रोणीपूरणे तव कः
श्रमः” चातका० । “करयन्त्रणदन्तुरान्तरे व्यालिखच्चञ्च
पुटेन पक्षतो” “नुनुदे तनुकण्डुपण्डितः पटुचञ्चूपुटकोटि-
कुट्टनैः” इति च नैष० । स्वार्थे क । पक्षिणामोष्ठे स्त्री ।

चञ्चुपत्र पु० चञ्चुरिव पत्रमस्य । चञ्चुशाके राजनि० ।

चञ्चुभृत् पुंस्त्री० चञ्चुं बिभर्त्ति भृ--क्विप् । पक्षिणि त्रिका०

चञ्चुमत् पुंस्त्री चञ्चुरस्त्यस्य मतुप् । पक्षिणि हारा०

स्त्रियां ङीप् ।

चञ्चुर पु० चन्च--उरच् । १ पत्रशाकभेदे चञ्चुनामके शाके

राजनि० । ३ दक्षे त्रि० “पुराणः पुण्यचञ्चुरः” भा०
आ० ९०४७ अ० । “विज्ञाताखिलशास्त्रार्थो लौकिका-
चारचञ्चुरः” काशी० १० अ० ।

च(चु)ञ्चुल पु० विश्वामित्रपुत्र दे । “विश्वामित्रस्य च सुता

इत्युपक्रमे “उदुम्बराह्यभिष्णातास्तारकायणच(चु)ञ्चु
लाः” हरि० २७ अ० ।

चञ्चुशाक न० चञ्चुनामकं चञ्चुसदृश वा शाकमस्य । शाकभेदे ।

चञ्चुसूचि पुंस्त्री० चञ्चुः सूचिरिव यस्य । कारण्डवपक्षिणि

स्त्रीत्वपक्षे वा ङीप् । धा कप् । अत्रैव ।

चट भेदे भ्वा० पर० सक० सेट् । चटति अचटीत्--अचाटीत् ।

चचाट । चटुः चाटुः ।

चट बधे भेदे च चु० उभ० सक० सेट् । चाटयति ते अचीचटत् त

उद् + नेदने बधे उत्त्रासने स्थानान्तरायने च । “उच्चा-
टनीयः करतालिकानाम्” नैष० । उच्चाटनम् ।

चटक पुंस्त्री० चटति भिनत्ति धान्यादिकम् चट--क्वुन् ।

१ कलविङ्के (चडुइ) अमरः जातित्वेऽपि स्त्रियामजादि-
त्वात् टाप् न तु ङीप् । स्वार्थे क । चटककोऽप्यत्र ।
स्त्रियां जातित्वेऽपि टापि क्षिपका० नित्यं न अत
इत्त्वम् । तन्मांसगुणादि भावप्र० उक्तं यथा
“चंटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः ।
कुलिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफपदः । सन्नि-
पातहरो ग्रामचटकश्चातिशुक्रलः” । २ पिप्पली
मूले न० अमरटीका । ३ श्यामाखगे स्त्री राजनि० ।
चटका + स्वार्थे क । अतो वेत्त्वम् चटकका चटकिका”
सि० कौ० । चटकस्य चटकाया वा अपत्यं पुमान् अण्
ऐरक् । चाटकैर चटकापत्ये पुंसि । स्त्रियान्तु अणो
लुक् । चटका चटकयोः स्त्र्यपत्ये स्त्री ।

चटकामुख न० चटकाया मुखमिव मुखमस्य । अस्त्रभेदे

“क्षुरप्रैश्चटकामुखैः” भा० क० ४० अ० ।

चटकाशिरम् पु० चटकायाः शिर इव । पिप्पलीमूले । हेमच० ।

चटचटाय चट--भेदने अच् प्रकारे द्वित्वम् । चटचटम्

चटचटेत्यव्यक्तं शब्दं वा करोति भृशा० च्व्यर्थे वा क्यङ्
नामधातुः आत्म० अक० सेट् । चटचटायते
अचटचटायिष्ट । “हुतभुक्तेन चान्नेन भृशं चटचटायते”
सुश्रु० । “चामरतिलसिद्धार्थकादीन् निरन्तरं
चटचटायितान्” दशकु० । क्विप् यङ्लोपाल्लोपौ ।
चटचटा तादृशशब्दकरणे “ततश्चटचटाशब्दः प्रादुरासीत्
महारणे” ।

चटिका स्त्री चट--बा० इकन् । १ पिप्पलीमूले २ चटकायां हला० ।

चटिकाशिरम् न० चटिकायाः शिर इव । पिप्पलीमूले

अमरः । “सर्व्वे सान्ता अदन्ताःस्युः” इत्युक्तेः पृषो०
चटिकाशिरोऽप्यत्र भरतः ।

चटु पु० चट--डन् । १ प्रियवाक्ये, २ ब्रतिनामासनभेदे, ३ उदरे

च मेदि० । प्रियवाक्ये न० संक्षि० । “छायां
निजस्त्रीचटुलालसानाम्” माघः ।

चटुल त्रि० चट--उलच् । १ चञ्चले, चपले हेमच० । २

विद्युति स्त्री जटाधरः । “मदेन किञ्चिच्चटुलालसानां”
“आयस्तमैक्षत जनश्चटुलाग्रपादम्” चञ्चूग्रदष्टचटु-
लाहिपताकयाऽन्ये” भाघः । “त्रासातिमात्रचटुलैः
स्मरतः सुनैत्रैः” रघुः ।

चटूल्लोल त्रि० चटौ उल्लोलः । १ चाटुकारलोके २ चञ्चले

त्रिका० ३ सुन्दरे उणादिको० सुचञ्चले हारा० ।
पृष्ठ २८४८

चड कोपे भ्वा० आत्म० अक० सेट् इदित् । चण्डते अचण्डिष्ट ।

चचण्डे । चण्डः चण्डी

चड कोपे चुरा० उभ० अक० सेट् इदित् । चण्डयति ते अचचण्डत् त ।

चण शब्दे भ्वा० पर० सक० सेट् । चणति अचाणीत्--अचणीत्

चचाण चेणतुः ।

चण गतौ हिंसे च भ्वा० पर० सक० सेट् वा घटा० मित् ।

चणति अचाणीत्--अचणीत् । चचाण चेणतुः
चणयति ते--चाणयति ते ।

चण दाने भ्वा० पर० अक० सेट् घटा० । चणति अचणीत्-

अचाणीत् । चणयति । चचाण चेणतुः । चणकः ।

चण् अव्य० चण्--क्विप् । चेदर्थे अस्य णित्त्वम् । समुच्चया-

दौ तु अननुबन्धं एव चशब्द इति मनोरमा

चण पु० चण--अच् । चणके शस्यभेदे (छोला) राजनि० ।

चणक पु० चण--दाने क्वुन् । १ शस्यभेदे (वुट्) (छोला) अमरः

२ मुनिभेदे च तस्य गोत्रापत्यं गर्गा० यञ् चाणक्यः । “चणकः
शीतलोरूक्षः पित्तरक्तकफापहः । लघुः कषायो विष्टम्भी
वातलो ज्वरनाशनः । सचाङ्गारेण सम्भृष्टस्तैलभृष्टश्च
तद्गुणः । आर्द्रभृष्टो बलकरो रोचनश्च प्रकीर्त्तितः ।
शुष्कभृष्टोऽतिरूक्षः स्याद्वातकुष्ठप्रकोपनः । स्विन्नः पित्त-
कफं हन्यात् सूपः क्षोभकरोऽहितः । आर्द्रोऽतिकोमलो
रुच्यः रक्तपित्तहरो हिमः” । हरितार्द्रचणकरन्धनन्तु ।
“सुहरित हरिमन्थः क्षोदभिन्नो नखाग्रैः प्रथममुदक-
सिक्तो वेसवारेण सिद्धः । लवणमरिंचसङ्गात् तैलहिङ्गु-
प्रसिक्तः शिखरयति विभोक्तुर्जाठरं मन्दवह्निम् । छोला-
भिधायकफलं परिगृह्य शुद्धं तप्ते घृते सुललितक्वथितो-
षणाभ्याम् । संसाधितम् सुरभितं शुचिरामठेन जिह्वा-
तले विशति नित्यमतिप्रकामम्” शब्दार्थ० चि० धृतवेद्यकम् ।
तस्य शाकगुणपाकादि तत्रैव दर्शित यथा “रुच्यं
चणकशाकं स्याद् दुर्जरं कफवातकृत् । अम्लं विष्टम्भ-
जनकं पित्तनुद्दन्तशोथहृत् । सकृत्तु चाणकं शाकमम्ल-
तक्रेण साधितम् । सहिङ्गुलवणे तप्ते भर्जितं रामठा-
न्वितम् । क्षाराम्लभावसहजाश्चणकप्रबालाः सम्मर्दिता
मरिचसैन्धवशृङ्गवेरैः । संचूर्णिताः कटुकतैलयुतैः
सुपक्वेर्भृष्टैः सुहिङ्गुचणकैः परिदत्तवासाः ।”

चणकरोटिका स्त्री चणकचूर्णनिर्म्मिता रोटिका ।

“चाणक्या रोटिका रूक्षा श्लेष्मपित्तास्रनुत् गुरुः । विष्ट-
म्भिनी न चक्षष्या” शब्दार्थचि० धृतवैद्यकोक्ते
चणकरोटिकारूपे भक्ष्यभेदे

चणकात्मज पु० ६ त० । चाणक्ये वात्स्यायने मुनौ हेमच०

चणकाम्ल न० चणकजातमम्लम् । चणकक्षारे तच्छाक-

पाकेन निष्पादिते क्षारभेदे “चणकाम्लकमत्यम्लं दीपनं
दन्तहर्षणम् । लवणानुरसं रुच्यं शूलाजीर्णविबन्ध
नुत्” भावप्र० ।

चणकाम्लवारि न० ६ त० । क्षेत्रस्थचणकपत्रशिशिरजले शब्दार्थचि० ।

चणद्रुम पु० वणश्चणकैव द्रुमः । क्षुद्रगोक्षुरे राजनि० ।

चणपत्री स्त्री चणस्य चणकस्य पत्रमिव पत्रमस्याः ङीप् ।

रुदन्तीवृक्षे राजनि०

चणिका स्त्री चणति रसं चण--दाने बा० क्वुन् चण इव

इवार्थे कन् वा । गोदुग्धायाम् तृणभेदे राजनि०

चण्ड न० चडि--कोपे अच् चण--दाने चमु--अदने बा० ड

तस्य नेत्त्वम् । १ तीक्ष्णे शब्दर० । २ तिन्तिडीवृक्षे यमकि-
ङ्करे ३ दैत्यभेदे च पु० मेदि० । । “चण्डमुण्डौ
महासुरौ” देवीमा० । ४ अत्यन्तकोपने त्रि० अमरः ५ तीव्रता-
युक्ते त्रि० शब्दर० । “अथैकधेनोरपराधचण्डात्” रघुः ।
“चण्डग्राहवतीं श्रीमान्” भा० आ० १७७ अ० । बह्वा०
पाठात् स्त्रियां वा ङीष् । चण्डी चण्डा । तस्य भावः
तल् चण्डता स्त्री त्व चण्डत्व न० इमनिच् चण्डिमन् पु०
तीव्रत्वे । “भ्राम्यत्पिण्डितचण्डिमा” वीरच० । ततः
शिबा० अपत्ये अण् चाण्ड तदपत्ये पुंस्त्री स्त्रियां ङीप्

चण्डकौशिक पु० १ऋषिभेदे “अथ काक्षीवतः पुत्रं

गौतमस्य महात्मनः । शुश्राव तपसि श्रान्तभुदारं चण्ड-
कौशिकम्” भा० स० १६ अ० । चण्ड कौशिको वर्ण्यत्वेन
ऽस्त्यत्र अच् । २ स्वनामख्याते नाटकभेदे न० ।

चण्डतुण्डक पु० चरुडात्मजभेदे “सुवर्णचूड़ो नागाशो

दारुणश्चण्डतुण्डकः” भा० उ० १०० अ० गरुड़ात्मजोक्तौ

चण्डनायिका स्त्री दर्गानायिकाभेदे । एवं चण्डवती

चण्डोग्रा अपि दुर्गानायिकाभेदे ।

चण्डबल पु० वानरंभेदे “बलं चण्डबलाख्यञ्च वज्रबाहुञ्च

वानरम्” भा० व० २८६ अ० ।

चण्डभार्गव पु० च्यवनवंश्ये ऋषिभेदे । “तत्र होता बभूवाथ

ब्राह्मणश्चण्डभार्गवः । च्यवनस्यान्वये ख्यातोविप्रो वेदविदां
वरः” भा० आ० ५३ अ० । सर्पसत्रे होत्राद्युक्तौ

चण्डमुण्डा स्त्री चण्डश्च मुण्डश्च ग्राह्यत्वेनास्त्यस्याः अच् ।

चामुण्डायां हेमच० । चामुण्डाशब्दे दृश्यम् ।

चण्डमुण्डी स्त्री स्थानभेदे “चण्डमुण्डीमहास्थाने दण्डिनी

परमेश्वरी” तन्त्र० ।
पृष्ठ २८४९

चण्डरुद्रिंका स्त्री चण्डोरुद्रोवेद्यत्वेनास्त्यस्याः ठन् । विद्या-

भेदे शब्दरत्ना० ।

चण्डवृष्टिप्र(यात)ताप पु० “यदिह नयुगलं ततः सप्त-

रेफास्तदा चण्डवृष्टिप्र(यातो) पातोभवेद्दण्डकः” वृ०
र० उक्ते दण्डकभेदे ।

चण्डशक्ति पु० चण्डा शक्तिरस्य । वलिसैन्यस्थदैत्यभेदे ।

“शुश्रूषुश्चण्डशक्तिश्च कुशनेत्रः शशिध्वजः” हरि० २४ अ०

चण्डा स्त्री चडि--अच् चन--चमु वा ड तस्य नेत्त्वं वा टाप् ।

१ दुर्गानायिकाभेदे । उग्रचण्डा प्रचण्डा च चण्डोग्रा
चण्डनायिका । चण्डा चण्डवती चण्डनायिकाप्यति
चण्डिका” देवीपु० । जिनानां २ शासनदेवताभेदे हेम० ।
३ चोरनामगन्धद्रव्ये अमरः ४ शङ्खपुष्पीद्रुमे मेदि० ।
५ लिङ्गिनीलतायां ६ कपिकच्छ्वाम् ७ आखुपर्ण्यां ८ श्वे-
तदूर्वायां च राजनि० । ९ नदीभेदे शब्दर० । एतासांच-
ण्डवीर्य्यत्वात् तथात्वम् । १० कोपनायां स्त्रियां च स्त्री

चण्डांशु पु० चण्डास्तीव्रा अंशवो यस्य । सूर्य्ये अमरः ।

चण्डदीधितिचण्डभानुप्रभृतयोऽप्यत्र ।

चण्डात पु० चण्डमतति अत--अण् । करवीरे अमरः ।

चण्डातक पु० न० चण्डां कोपनामतति अत--ण्वुल् ।

वरस्त्रीणामर्द्धोरुपर्य्यन्ते वस्त्रे अमरः अस्य पुंस्त्वमप्येके

चण्डाल पु० चडि--आलच् । १ स्वनामख्याते जातिभेदे, शूद्रेण

ब्राह्मण्यामुत्पादिते सङ्कीर्णवर्णे “शूद्रादायोगवः क्षत्ता
चण्डालश्चाधमोमतः” मनुना वैश्यक्षत्रविप्राङ्गनासु
शूद्राज्जातानां क्रमेण आयोगवादिसंज्ञा कृता । ततः
जातित्वात् स्त्रियां ङीषि प्राप्ते शार्ङ्गरवा० ङीन् स्वरे
भेदः । “चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतोविप्रः ज्ञानात् साम्यन्तु गच्छति” स्मृतिः ।
चण्डालस्पृष्टजलस्य अपेयशब्दे २५४ पृ० तदन्नभक्ष-
णस्य अभक्ष्यशब्दे २७४ पृ० तत्स्पर्शस्य अस्पर्श्यशब्दे ५७०
पृ० तद्द्रव्यग्रहणस्य च निषेधः अग्राह्यशब्दे ६७ पृ०
उक्तः । “अथ रात्र्यां व्यतीतायां तस्यां राजा बभूव
ह । चण्डालदर्शनो राम! सद्य एव दुराकृतिः ।
नीलपाताम्बरधरो रक्ताम्बरकृतोत्तरः । संरब्धताम्रघोराक्षः
करालो हरिपिङ्गलः । ऋक्षचर्मनिवासी च लौहाभर-
णभूषितः” तस्य स्वरूपादिकं रामा० उक्तम् । तत्क-
र्म्मादि मनुनोक्तं यथा “चण्डालश्वपचानान्तु
बहिर्ग्रामात् प्रतिश्रयः । अपपात्राश्च कर्त्तव्या धनमेषां
श्वगर्द्दभम् । वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः । न तैः सम
यमन्विच्छ्रेत् पुरुषो धर्ममाचरन् । व्यवहारो मिथस्तेषां
विवाहः सदृशैः सह । अन्नमेषां पराधीनं देयं स्याद्भिन्न
भाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ।
दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः । अबान्धवं
शवञ्चैवं निर्हरेयुरिति स्थितिः । बध्यांश्च हन्युः सततं
यथाशास्त्रं नृपाज्ञया । बध्यवासांसि गृह्णीयुः शय्या-
श्चाभरणानि च ।” २ क्रूरकर्मणि त्रि० । “कर्म्मचण्डा-
लयोगोत्थं मम पापक्षयं कुरु” ग्रहणमुक्तिस्नानमन्त्रम्

चण्डालकन्द पु० चण्डालप्रियः कन्दः शाक० । कन्दभेदे राजनि

चण्डालवल्लकी स्त्री ६ त० । वीणाभेदे कण्डोले अमरः ।

चण्डालिका स्त्री चण्डालःभक्षकत्वेन वादकत्वेनवास्त्यस्याः

ठन् । १ चण्डालवीणायां २ ओषधिभेदे च । चण्डमलति
अल--ण्वुल् । ३ उमायां स्त्री मेदि० ।

चण्डि स्त्री चडि--कोपे इन् । दुर्गायां भरतः

चण्डिकघण्टा पु० चण्डस्तीक्ष्णस्वनोऽस्त्यस्याः ठन् चण्डिका

तीक्ष्णस्वना घण्टा यस्य । शिवे । “नमश्चण्डिकवण्टाय
घण्टाय घण्टघण्टिने” मा० शा० २८६ अ० शिवस्तुतौ

चण्डिका स्त्री चण्डी स्वार्थे क चडि कोपे ण्वुल् वा ।

दुर्गायाम् अमरः ।

चण्डिल पु० चडि--कोपे इलच् चण्ड + अस्त्यर्थे इलच् वा ।

१ नापिते २ वास्तुकशाके हेम० नापितस्य तीक्ष्णास्त्रव-
त्त्वात् वास्तुकस्य तीक्ष्णवीर्य्यवत्त्वाच्च तथात्वम् । ३ नदीभेदे
स्त्री उणादिको०

चण्डी स्त्री चण्ड--बह्वा० वा ङीष् । १ दुर्गायां सप्तशती

व्याख्यायां गुप्तवत्यां तु तन्नामनिरुक्त्यदिमुक्तं यथा
“प्रसादो निष्फलो यस्य कोपोऽपि च निरर्थकः । न
तं भर्त्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः” इत्यादिना
महाभयजनकत्वेनैव कोपस्य साफल्योक्तेस्तादृश एव
कोपे चडिधातोर्मुख्यवृत्त्या प्रवृत्तेस्तद्वशादेव “नमस्ते
रुद्र मन्यव” इत्यादिना प्रथमं मन्यव एव नमस्कार दर्श-
नात् “भीषास्माद्वातः पवते भीषोदेति सूर्य्यः भीषास्माद-
ग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः” इत्यादिश्रुत्या वाय्वादि
भयजनककोपस्यापि परब्रह्मलिङ्गत्वमक्षतमेव अतएव
“महद्भयं वज्रमुद्यतमिति श्रुतौ वज्रपदेन ब्रह्मैवोच्यते नायुध
विशेषो भयजनकत्वलिङ्गादित्युक्तमुत्तरमीमांसायाम् ।
“कम्पनादित्यधिकरण । तस्माच्छब्दात्पुंयोगलक्षणे ङीषि
चण्डीति पदनिष्पत्तिः । तत्स्वरूपं चोक्तं रत्नत्रयपरीक्षायाम्
पृष्ठ २८५०
दीक्षितैः “नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्य
मेकं धर्मोधर्मीति भेदद्वितयमिति पृथग्भूय माया-
वशेन । धर्मस्तत्रानुभूतिः सकलविषयिणी सर्वकार्य्यानु
कूला शक्तिश्चेच्छादिरूपा भवति गुणगणश्चाश्रयस्त्वेक
एव । कर्त्तृत्वं तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादि
कृत्ये धर्मः पुंरूपमाप्त्वा सकलजगदुपादानभावं बिभर्त्ति ।
स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादि
कर्त्तु प्रोक्तौ धर्मप्रभेदावपि निगमविदां धर्मिवत् ब्रह्मकोटी
इति ॥” वृहद्वासिष्ठे उत्पत्तिप्रकरणे द्वादशे स्वर्गे सृष्ट्या-
रम्भकालिकं ब्रक्षसत्तामात्रं प्रक्रम्य “तदात्मनि स्वयं
किञ्चिच्चेंत्यतामिव गच्छति । अगृहीतात्मकं संविदहं-
मर्शनपूर्वकम् । भाविनामार्थकलनैः किञ्चिदूहितरूपकम् ।
आकाशादणु शुद्धं च सर्वस्मिन् भाति बोधनम् । ततः सा
परमा सत्ता सचेतश्चेतनोन्मुखी । चिन्नामयोग्या भवति
किञ्चिल्लभ्यतया तदा । घनसंवेदना पश्चाद्भाविजीवा-
दिनामिका । सम्भवत्यात्तकलना यदोज्झति परं
पदमित्यादि” । तट्टीकायामपि सन्मात्रस्य ब्रह्मणः “स ईक्षत
लोकान्नुसृजै” इति श्रुतिसिद्धमीक्षणभावं दर्शयति
तदिति त्रिभिः । अगृहीतात्मकम् अहङ्काराध्यासरहि-
तम् । अतएव संविन्मात्रेणाहन्ताविमर्शः । सर्वस्मिन्नपि
सृज्यविषये भाविनामरूपानुसन्धानांशेऽपि किञ्चिदेव
संपृक्तमिव । अतएवाकाशादप्यण्वेव न तु घनम् ।
अतएव च शुद्धमेव घनमालिन्याभावाद्ब्रह्मैव । चेत्यतां
गच्छन्तीव सती सचेतश्चेतना ईक्षणवृत्त्यभिव्यक्तचैतन्यं
तदुन्मुखी तत्प्रधाना सती किञ्चिल्लभ्यतया याक्प्रवृत्ति
विषय धर्म्म लाभेन तदा चिन्नामयोग्या भवतीत्यर्थः ।
पश्चात्तु सैव वृत्तिश्चिरावृत्त्या घनीभूता सम्यगेवात्तकलना
मूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदग्राहिणी सती परं
पदमपरिच्छिन्नभूमानन्दात्मभावं यदा विस्मरति
तदाहिरण्यमर्भाख्यसमष्टिजीवादिनामिका भवतीत्याह ।
धनेति । ईदृशेक्षणाद्यात्मिका चण्डी चिदादि
नामकसमष्टिवृत्तिरूपधर्म्मात्मकशुद्धब्रह्माभिन्नानां ज्ञाने-
च्छाक्रियाणां तिसृणां व्यष्टीनां महासरस्वतीमहा-
कालीमहालक्ष्मीरितिप्रवृत्तिनिमित्तवैलक्षण्येन
नामरूपान्तराणि तादृशनामरूपविशिष्टदेवतात्रयसम-
ष्टित्वं प्रवृत्तिनिमित्तीकृत्य धर्म्मे चण्डिकेति व्यव-
हारः । एवं व्यष्टीनां वामाज्येष्ठारौद्रीति पश्यन्तीमध्य
मम् यैखरीति ब्रह्मा विष्णुः रुद्र इति रूपभेदेन समष्टे-
रपि अम्बिका शान्ता परेत्यादि संज्ञा अनन्ताः
तन्त्रान्तरादवगन्तव्याः द्वितीयसमष्टित्वादेवैषा तुरीयेति
शक्ति निर्दिश्यते आचार्य्यभगबत्पादैरप्युक्तं “गिरा-
माहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं
पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं
दुरधिगमनिःसीममहिमा महामाये! विश्वम्भ्रमयसि
परब्रह्ममहिषीति” । २ हिंस्रायां ३ कोपनायाञ्च
मेदिनी । “मल्लिकामुकुले चण्डि!” सा० द० “नयु-
गसयुगगुरुभिः किल चण्डी” वृत्त० र० उक्ते ४ छन्दो-
भेदे उपचारात् दुर्गामाहात्म्यावेदके मार्कण्डे-
यपुराणान्तर्गते सप्तशतीमालामन्त्रात्मके ५ स्तवभेदे ।
तत्पाठप्रकारादि यथा वाराहीत० “अर्गलं कीलक-
ञ्चादौ पठित्वा कवचं पठेत् । जपेत् सप्तशतीं
पश्चात् क्रम एष शिवोदितः । अर्गलं दुरितं हन्ति कीलकं
फलदं तथा । कवचं रक्षयेन्नित्यं चण्डिका त्रितयं तथा”
तिथित० मत्स्यसू० । “जप्त्वा च प्रणवं चादौ
स्तोत्रं वा संहितां पठेत् । अन्ते च प्रणवं दद्यादित्यु
वाचादिपूरुषः । सर्वत्र पाठे विज्ञेयो ह्यन्यथा विफलं
भवेत् । शुद्धेनाऽनन्यचित्तेन पठितव्यं प्रयत्नतः ।
न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् । आधारे
स्थापयित्वा तु पुस्तकं वाचयेत् सुधीः । हस्तसंस्थापना-
देव यस्मादल्पफलं लभेत् । स्वयञ्च लिखितं यत्तु
कृतिना लिखितं न यत् । अब्राह्मणेन लिखितं तच्चापि
विफलं भवेत् । ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं
विचक्षणः । स्तीत्रे न दृश्यते यत्र प्रणवन्यासमाचरेत् ।
सङ्कल्पिते स्तोत्रपाटे संख्यां कृत्वा पठेत् सुधीः । अध्यायं
प्राप्य विरमेन्नतु मध्ये कदाचन । कृते विरामे मध्ये
तु अध्यायादिं पठेन्नरः” तत्रैव भविष्यपु० । “ब्राह्मणं
वाचकं विद्यान्नान्य वर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन्!”
वाचकान्नरकं व्रजेत् । देवार्च्चामग्रतः कृत्वा ब्राह्मणानां
विशेषतः । ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन! ।
पुनर्बध्नीत तत्सूत्रं न मुक्त्वा धारयेत् क्वचित् । विस्पष्टम-
द्रुतं शान्तं स्पष्टाक्षरपदन्तथा । कलस्वरसमायुक्तं
रसभावसमन्वितम् । बुध्यमानः सदर्थं वै ग्रन्थार्थं कृत्स्नशो
नृप! । ब्रह्मणादिषु सर्वेषु ग्रन्थार्थञ्चार्पयन्निव । य एबं
वाचयेद्व्रह्मन्! स विप्रो व्यास उच्यते । सप्तस्वरसमायुक्त
काले काले विशाम्पते! । प्रदर्शयन् रसान् सर्वात् वाचये-
द्वाचको नृप!” । तस्य फलं यथा “चण्डीपाष्ट
पृष्ठ २८५१
फलं देवि! शृणुष्व गदतो मम । एकावृत्तादिपाठानां
यथावत् कथयामि त । संकल्पपूर्वं संपूज्य न्यस्याङ्गेषु मनून्
सकृत् । पाठाद्बलिप्रदानाद्धि सिद्धिमाप्तोति मानवः ।
उपसर्गस्य शान्त्यर्थं त्रिरावृत्तं पठेन्नरः । ग्रहोपशान्त्यै
कर्त्तव्यं पञ्चावृत्तं वरानने! । महाभये समुत्पन्ने सप्ता-
वृत्तं समुन्नयेत् । नवावृत्त्या भवेच्छान्तिर्वाजपेयफलं
लभेत् । राजवश्याय भूत्यै च रुद्रावृत्तमुदीरयेत् ।
अर्कावृत्त्या काम्यसिद्धिर्वैरहानिश्च जायते । मन्वा-
वृत्त्या रिपुर्वश्यस्तथा स्त्री वश्यतामियात् । सौख्यं
पञ्चदशादृत्त्या श्रियमाप्नोति मानवः । कलावृत्त्या पुत्र-
पौत्रधनधान्यागमं विदुः । राज्ञां भीतिविमोक्षाय
वैरस्योच्चाटनाय च । कुर्य्यात् सप्तदशावृत्तं तथाष्टादशकं
प्रिये! । महाव्रणविमोक्षाय त्रिंशावृत्तं पठेत्
सुधीः । पञ्चविंशावर्त्तनात्तु भवेद्बन्धविमोक्षणम् ।
सङ्कटे समनुप्राप्ते दुश्चिकित्स्यामये तथा । जातिध्वंसे
कुलोच्छेदे आयुषो नाश आगते । वैरिवृद्धौ व्याधिवृद्धौ
धननाशे तथा क्षये । तथैव त्रिविधोत्पाते तथा चैवाति-
पातके । कुर्य्याद् यत्नात् शतावृत्तं ततः सम्पदाते
शुभम् । श्रियोवृद्धिः शतावृत्ताद्राज्यवृद्धिस्तथापरे । मनसा
चिन्तितं देवि! सिध्येदष्टोत्तराच्छतात् । शताश्वमेधय-
ज्ञानां फलमाप्तोति सुव्रते! । सहस्रावर्त्तनात् लक्ष्मी-
रावृणोति स्वयं स्थिरा । भुक्त्वा मनोरथान् कामान्
नरोमोक्षमवाप्नुयात् । यथाश्वमेधः क्रतुराट् देवानाञ्च
यथा हरिः । स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः ।
अथ वा वहुनोक्तेन किमेतेन वरानने! । चण्ड्याः
शतावृत्तपाठात् सर्वाः सिद्ध्यन्ति सिद्धयः” तिथित० मत्स्यसूक्तादि
“सकामैः संपुटो जाप्यो निष्कामैः संपुटं विना ।
शतमादौ शतञ्चान्ते संपुटोऽयमुदाहृतः” इत्याद्युक्तेः कामना
भेदेन नबार्ण्ण (ऐँ ह्रीँ क्लीँ चामुण्डायै विच्चे)
मन्त्रादिभिरस्या संपुटता, अनया वा नवार्ण्णस्य संपुटता
कार्य्येति मतद्वयं तत्र गुप्तवत्यां सप्तशतीस्तोत्रेण
नवार्ण्णस्य संपुटतोक्ता यथाह डामरतन्त्रे “मार्कण्डेय
पुराणोक्तं नित्यं चण्डीस्तवं पठन् । पुटितं मूलमन्त्रस्य
जपेनाप्नोतिवाञ्छितमिति” । पुटितमिति पाठक्रिया-
विशेषणम् । पुटितत्वं संपुटाकारता । तथा च स्तवोयथा
मूलमन्त्रजपस्य संपुटाकारोभवति तथा पठनान्मूलजपस्य
यद्वाञ्छितम्फलन्तत्सिध्यतीत्यर्थः । ततस्तवीयर्प्यादिन्यास-
पूर्बकञ्चरित्रत्रयम्पठित्वा मध्ये स्वसङ्कल्पितसंख्यानुसारेण
सहस्रादिसंख्याकं नवार्णञ्जपित्वा पुनश्चण्डीस्तवं पूर्षवत्प-
ठेत् । परंत्वेतदन्ते पुनर्मूलमष्टोत्तरशतमात्रं जप्त्वाऽऽत्मनि-
वेदनादिकं कुर्यात् । अयं च जपोऽङ्गभूतोन प्रधानसंख्या-
याभुपयुज्यते इति विशेषः । तदप्युक्तं तत्रैव चरित्रत्रयस्य
ऋष्यादीनुक्त्वा “एवं संस्मृत्य ऋष्यादीन्ध्यात्वा पूर्वोक्त-
मार्गतः । सार्थस्मृतिः पठेच्चण्डीस्तवं स्पष्टपदाक्षरम् ।
समाप्तौ तु महालक्ष्मीं ध्यात्वा कृत्वा षडङ्गकम् ।
जपेदष्टशतं मूलं देवतायै निवेदयेदित्यादि” । केचित्तु मूल
मन्त्रजपेन पुटितं चण्डीस्तवं पठन्निति प्रथम श्लोकं योज
यन्तश्चरमश्लोके पुनर्विधानं संख्यामात्रपरमिति मन्य-
मानाः सप्तशतीस्तोत्रस्यैव मूलेन संपुटीकारोविधीयत-
इत्यङ्गाङ्गीभाववैपरीत्यमिच्छन्ति । तदयुक्तं “बहुषु
तन्त्रेषु नवार्ण्णं प्रकृत्य तत्प्रकरणे सप्तशतीपाठविधानेन
नवार्ण्णजपस्य प्राकरणिकत्वेनान्याङ्गत्वायोगात् । तत्र-
विद्यमानाया अपि स्तोत्रे फलश्रुतेः प्रयाजफलश्रुतेः
“वसन्तमेवर्त्तूनामवरुन्धे” इत्यस्याइवाविवक्षितार्थ-
कत्वात् । मरीचिकल्पे “रात्रिसूक्तं जपेदादौ मध्ये
चण्डीस्तवम्पठेत् । प्रान्ते तु जपनीयं वै देवीसूक्तमिति
क्रमः । एवं संपुटितं स्तोत्रं पूर्वोक्तफलदायकम्” इत्य-
नेन वैदिकमूक्तद्वयेन संपुटिततायाः सप्तशत्यां विधा-
नाच्च । सच स्तवः मार्कण्डेयपुराणस्थत्रिसप्तत्यध्यायो-
त्तरं षड़शीतितमाध्यायान्तमभिव्याप्तः । “सावर्णिः
सूर्यतनयः” इत्यारभ्य साबर्णिर्भविता मनुरित्यन्तस्त्रयो-
दशभिरध्यायैः परिच्छिन्नः श्लोकसमूहात्मको माला-
मन्त्रत्वेन प्रसिद्धः । अस्य सप्तशतीत्वव्यवहारस्तु न
श्लोकसंख्यया तेषां षट्शतीतोऽपि न्यूनत्वात् । नापि
कवचादित्रयरहस्यत्रययोर्मेलनेन, संख्याधिक्यापत्तेः ।
“जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरः” इत्यनेन
कवचख सप्तशत्याः पृथङ्निर्द्देशाच्च । तस्माप्जपे
एकमन्त्रात्मकस्यापि मालामन्त्रस्य होमाङ्गत्वेन संपुटार्थत्वेन
च सप्तशतधा विभजनात् शतरुद्रियस्येवैकातेकमन्त्रात्मक-
त्वे विरोधाभावात्तथा व्यवहारोपपत्तिः । एतस्योत्तम-
त्वन्तु तन्त्रान्तरे “यथाश्वमेधः क्रतुषु देवानाञ्च यथा
हरिः । स्तवानामपि सर्वेषान्तथा सप्तशतीस्तवः” ।
तत्रापि कलावतिप्रशस्तः “कलौ चण्डीविनायकाविति”
वचनात् । वाराहीतन्त्रे सर्वेषां स्तोत्राणां परशुराम-
शापमुक्त्वा तद्विरहितानि कतिचिद्वर्णितानि “भीष्म-
पर्वणि या गीता सा प्रशस्ता कलौ युगे । विष्णोर्नाम
पृष्ठ २८५२
सहस्राख्यं महाभारतमध्यगम् । चण्ड्याः सप्तशती-
स्तोत्रंतथा नामसहस्रकम्” इत्यादिना “भार्गवाख्योन
रामेण शप्तान्यन्यानि कारणात्” इत्यन्तेन । यद्यपि तन्त्रा-
न्तरेऽस्यापिं स्तोत्रस्य शिवशापः कीलनं चेति सिद्भिनिरोध-
कावुक्तौ तथापि तत्रैव शापोद्धारोत्कीलनयोः कर्मविशे-
षयोस्तदङ्गत्वेन सकृत्करणविधानात्तदकरणे सिद्धिविर-
होक्त्या तदावश्यकत्वपरौ तावर्थवादौ । तत्र शापोद्धा-
रोयथा त्रयोदशप्रथमौ, द्वादशद्वितीयौ, एकादशवृतीयौ,
दशमचतुर्थौ, नवमपञ्चमौ, अष्टमषष्ठौ, अध्यायौ
पठित्वा सप्तममध्यायं द्विः पठेदित्याकारकः प्रयोगः ।
उत्कीलनं यथा । आदौ मध्यमचरित्रं पठित्वा ततः
प्रथमचरित्रन्ततस्तृतीयचरित्रंपठेदित्याकारकः ।
“अन्त्याद्यार्कद्विरुद्रत्रिदिगब्ध्यङ्केप्विभर्तवः । अश्वोऽश्व इति
सर्गाणां शापोद्ध्वारे मनोः क्रमः । उत्कीलने
चरित्राणां मध्याद्यान्त्यमिति क्रमः” । अङ्कोनवमः इषुः
पञ्चमः इभोऽष्टमः । “ददाति प्रतिगृह्णाति नान्यथैषा
प्रसिद्ध्यति” इति विहितं दानप्रतिग्रहनामकमहोत्की
लनं तु कीलकाध्यायव्याख्यावसरे विशदीकरिष्यते ।
एवं सम्प्रदायज्ञस्य निर्दोषमुत्तमङ्कलौ शीघ्रसिद्धिदमिद
मिति सिद्धम् । एतद्वाचनक्रमो वाराहोतन्त्रे
“यावन्न पूर्यतेऽध्या स्तावन्न विरमेत्पठन् । यदि प्रमा-
दादध्याये विरामोभवति प्रिये! । पुनरध्यायमारभ्य-
पठेत्सर्वं मुहुर्मुहुः । अनुक्रमात्पठेदेव शिरःकम्पादि-
कं त्यजेत् । न मानसं पठेत्स्तोत्रं वाचिकन्तु प्रशस्यते ।
कण्ठतः पाठाभावे तु पुस्तकोपरि वाचयेत्” । तल्लेखने-
ऽपि तत्र विशेषः “न खयं लिखितं स्तोत्रं नाब्राह्मण
लिपिम्पठेत् । न च स्वयंकृतं स्तोत्रं तथान्येन च
यत्कृतम् । यतः कलौ प्रशंसन्ति ऋषिभिर्भाषितंतु यत्” ।
यत्तु “आधारे स्थापयित्वा तु पुस्तकं वाचयेत्ततः । हस्त
संस्थापनादेव भवेदर्द्धफलं ध्रुवमिति” । तस्य व्यवस्थापि
तत्रैव “पुस्तके वाचनं हस्ते सहस्रादधिकं यदि ।
ततोन्यूनस्य तु भवेद्वाचनं पुस्तकं विना” । सहस्रान्त्यून
मन्त्रस्य कण्ठे पाठसत्त्वे पुस्तकं विनैव वाचनं, तदभावे
आधारे पुस्तकस्थापतेनैव वाचनं सहस्राधिकस्य तु
पाठसत्त्वऽप्याधारस्थापितपुस्तकोपर्येव वाचनमिति
वचनार्थः । प्रकृतस्तोत्रस्य सहस्रान्न्यूनत्वात् “ततः कृता-
ञ्जसिपुटः स्तुवीत चरितैरिमैरिति” वैकृतिकरहस्ये विधा-
द्धाच्च कण्ठपाठाभावे पुस्तकस्याधारे स्थापनेवैव वाचनम्ं ।
कण्ठपाठीकृत्य पुस्तकं विनैव तु कृताञ्जलितया
पठनमुत्तम मिति द्रष्टव्यम् । अत्रंसहस्रशब्देन द्वात्रिंश-
त्स्वरात्मकस्यैकैकानुष्टुप्त्वकल्पनेन तादृशानुष्टुप्छन्दः
सहस्रं ज्ञेयमिति स्पष्टम् शक्तिसङ्गमतन्त्रराजे “द्वात्रि-
शता स्वरैर्युक्त एकोग्रन्थो निगद्यते । सएव गदितः
श्लोक स्तारानेत्रसमुद्भवः” इत्यादिना । तेन गद्यात्मक-
मालामन्त्रेष्वप्यस्य नियमस्य प्रसरो ज्ञेयः । स्तोत्रपूर्ब्बो-
त्तरभागपाठाभावे नैष्फल्यादिवचनानि शक्तिसङ्गमएव
द्रष्टव्यानि । “ऋषिच्छन्दोदेवतादि पठेत् स्तोत्रे समाहि-
तः । यत्र स्तोत्रे न दृश्येत प्रणवन्यासमाचरेत्” । डामरे
“सप्तशत्याश्चरित्रे तु प्रथमे पद्मभूर्मुनिः । छन्दो गायत्र-
मुदितं महाकाली तु देवता । वाग्बीजं पावकस्तत्त्वं
धर्मार्थे विनियोजनम् । मध्यमस्य चरित्रस्य मुनिर्विष्णु-
रुदाहृतः । उष्णिक्छन्दो महालक्ष्मीर्देवता
बीजमद्रिजा । वायुस्तत्त्वं भवेत्तत्र मोक्षार्थे विनियोजनम् ।
उत्तरस्य चरित्रस्य ऋषिः शङ्कर ईरितः । त्रिष्टुप् छन्दो
देवतास्य महापूर्वा सरस्वती । कामोवीजं रविस्तत्त्वं
कामार्थे विनियोजनम् । ह्रीं चण्डिकायै व्यस्तेन
समस्तेन षडङ्गकौ । वागैँअद्रिजा ह्रीँ कामः क्लीँ इति
नवार्णप्रथम वीजत्रयम् ध्यानादिकं नवार्णवत् । अस्य
पुरश्चरणस्वरूपं मरीचिकल्पे “कृष्णाष्टमीं समारभ्य यावत्-
कृष्णचतुर्दशीम् । वृद्ध्यैकोत्तरमाजाप्यं पूर्वसंपुटितन्तु तत् ।
एवं देवि! मया प्रोक्तः पौरश्चरणिकः क्रमः । तदन्ते
हवनं कुर्य्यात्प्रतिश्लोकेन पायसम् । रात्रिसूक्तं प्रति-
ऋचं तथा देव्याश्च सूक्तकम् । हुत्वान्ते प्रजपेत्स्तोत्र
मादौ पूजादिकं मुने!” इति । पूर्वाभ्यां पूर्व्वोक्ताभ्यां
रात्रिसूक्तदेवीसूक्ताभ्यां संपुटितम् । प्रतिल्लोकेनेति
मन्त्रविभागोपलक्षणम् कात्यायन्यादितन्त्रोक्तसप्त-
शतीविभागग्रन्थस्य हवनादिविधिं प्रति वाक्यशेषत्वेन
तेनैव वेद्यपदार्थनिर्णयावश्यम्भावात् “यन्न दुःखेनेत्या-
देः स्थलान्तरस्थस्याप्यग्निहोत्रादिविधिशेषत्वेन स्वीका-
रेण स्वर्गपदार्थनिर्णयस्य वैदिकसंमतत्वात् । होम
संख्या तु स्तोत्रस्य त्रिरावृत्तिरूपेति वृद्धाः । रात्रि
सूक्तदेवीसूक्ते च ऋग्वेदशाकलसंहितायां प्रसिद्धे
तथेत्यनेन जपे कॢप्तक्रमः संपुटाकारो निर्दिश्यते । तच्छ-
ब्दस्य पूर्व्वपरामर्शितत्वात् । तस्य श्लोकपूरणमात्रार्थत्वे
तु द्वाभ्यामपि सूक्ताभ्यां त्रिरावृत्तसप्तशतीहोमोत्तर-
मेव पाठक्रमानुसारेण होमः । “विश्वेश्वरीं जगद्धात्रीम्”
पृष्ठ २८५३
इति स्तवोरात्रिसूक्तम् । “नमो देव्यै महादेव्यै” इति
स्तवो देवीसूक्तमिति कश्चित् । तन्न । प्रतिश्लोकेन
प्रतिऋधमिति प्रतिनियतनिर्देशविरोधात् ।
ऋक्सूक्तादिशब्दानां वैदिकमन्त्रेष्वेव रूढ्या प्रसिद्धेः ।
मत्स्यसूक्तमित्यादिक्वाचित्कतान्त्रिकव्यवहारस्य केवल
यौगिकत्वेनोपपत्तेः । तेन ऋक्पदस्य श्लोके लक्षणे-
त्युक्तिरपि साहसमात्रम् । समुद्रमनोध्यानादिविधौ
वृहद्रथन्तरपदयोः प्रतिनियतनिर्देशबलादेव लक्षणा-
व्यवस्थाया इव प्रकृते क्लप्ताया एव शक्तर्व्यवस्थादार्ढ्य-
स्य कैमुतिकन्यायेनैव सिद्धेः । यदि त्वेवमालोच्यते
“विश्वेश्वर्य्यादिकं सूक्तं दृष्टं यद्ब्रह्मणा पुरा । स्तुतये
योगनिद्राया मम देव्याः पुरन्दर! । महिषान्तकरी
सूक्तं सर्वसिद्धिप्रदन्तथा । देव्या ययादिकं दिव्यं दृष्टं
देवैः महर्षिभिः । देवि! प्रपन्नार्त्तिहरे प्रसीदेत्यादिकं
तथा । नारायणीस्तुतिर्नाम सूक्तं परमशोभनम् ।
अमुष्यास्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः । नमो
देव्यादिकं सूक्तं सर्वकामफलप्रदमिति” विशकलितवेषेण
पाञ्चरात्रलक्ष्मीतन्त्रे व्यवहारदर्शनादेतेषां स्तोत्राणा-
मपौरुषेयसिद्धान्तत्वाच्च सूक्तर्चव्यवहारो युज्यत
एवेति, तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लो-
कात् पूर्वं ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पाठाच्च
त्वं स्वाहेत्यारभ्यैव स्तोत्रारम्भः तस्य च योगनिद्रा-
त्मकरात्रिदेवतात्वान्मरीचितन्त्रे रात्रिसूक्तपदेन निर्देश
इति समाधेयम् । परन्तु तत्तन्त्रमनुसरता विश्वेश्वरी-
मिति श्लोकाङ्गहोमदशायां न होतव्यम् । स्तोत्रान्तिम
श्लोकस्य द्वधा विभागोऽपि न कार्य्यः । देवीसूक्तेऽपि
त्रेधा विभागोऽङ्गहोमे न विधेयः प्रधानविघिशेषस्याङ्ग-
विधावन्वयेन प्रतिऋचमिति पदे लक्षणाकल्पने माना-
भावादित्यवधेयम् । क्रीडतन्त्रे “प्रत्येकावर्त्तनं देवि!
त्वश्वमेधेन संमितम् । त्रिरावृत्त्या लभेत्कामान् पञ्चावृत्त्या
रिपून् जयेत्” । काम्ये तु प्रयोगे विशेषः । कात्यायनी
तन्त्रे “एकाश्चत्तादिपाठानां प्रत्यहं पठतां नृणाम् ।
सङ्कल्पपूर्व्वं संपूज्य न्यस्याङ्गेषु मनून् सकृत् । पश्चाद्बलि-
प्रदानेन फलं प्राप्तोति मानवः” । बलिश्च ब्राह्मणादिभेदेन
व्यवस्थयोक्तः कालिकापुराणे विशेषः द्रष्टव्यः । तत्राशक्ता-
नामपि तत्रैव “कुष्माण्डमिक्षुदण्डश्च मद्यसासव
मेव च । एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा” ।
छागसमाः पञ्चविंशतिवर्षावधितृप्तिजनकाः “अजा-
विकानां रुधिरैः पञ्चविंशतिवार्षिकीम् । तृप्तिमाप्नोति
परमां शार्दूलरुधिरैस्तथेति” तत्रैवोक्तेः । वस्तुतस्तु
“न हिंस्या दिति” निषेघस्य संकोचमन्तरेणैव छागसमा-
नतृप्तिसम्भवे छागबलिर्ब्राह्मणैर्न कार्यएव । एवं
मद्यासवे अपि न देये । “वरं प्राणाः प्रगच्छन्तु ब्राह्मणो
नार्पयेत्सुरामिति” “ब्राह्मणो मदिरां दत्त्वा ब्राह्मण्या-
देवहीयते” इति च वृहत्सङ्गमतन्त्ववचनात् ।
अतएव तत्प्रतिनिधिरपि कालिकापुराणे स्मर्यते
“अवश्यं विहितं यत्रं मद्यं तत्र द्विजः पुनः । नारिकेल
जलङ्कांस्ये, ताम्रे चैवोत्सृजेन्मधु” । कात्यायनी
तन्त्रे “उपसर्गोपशान्त्यर्थं त्रिरावृत्तिं पठेन्नरः ।
ग्रहदोषोपशान्त्यर्थं पञ्चावृत्तं वारनने! । महाभये
समुत्पन्ने सप्तावृत्तमुदीरयेत्” इत्यादिना फलभेदेन
संख्याभेदाननेकानुक्त्वोपसंहृतम् “अथ वा बहुनोक्तेन
किमन्येन वरानने! । चण्ड्याः शतावृत्तपाठात्सर्वाः
सिध्यन्ति सिद्धयः” इति । इतोऽप्यधिकाः सहस्रसख्या-
दयोऽत्र द्रष्टव्याः । हरगौरीतन्त्रे “श्रीकामः पुत्रका
मोवा सृष्टिमार्गक्रमेण तु । जपेच्छक्रादिमारभ्य शुम्भ-
दैत्यबधावधि । आदिमारभ्य प्रजपेत्पश्चाच्छेषं
समापयेत् । शान्त्यादिकामः सर्वत्र स्थितिमार्गक्रमेण तु ।
सावर्णिः सूर्यतनयः सावर्णिर्भविता मनुः । सङ्कटे
चान्त्यमारभ्य पश्चादादि समापयेत्” । इत्यादिकस्य कामना-
भेदेन पाठवैचित्र्यस्य कतिपयश्लोकमात्रपाठेन तत्तत्-
प्रयोगवैचित्र्यस्य च विस्तरो डामरादितन्त्रस्थोग्रन्थान्त-
रेभ्य एवावगन्तव्यः । केरलास्तु एकैकस्मिन्दिवसे एकैकमेव
चरित्नं पठेदिति दिनत्रयेणैकावृत्तिरित्येकः पक्षः ।
“चन्द्राक्षिभूवेदकरेन्दुदस्रसङ्ख्याकानध्यायान् क्रमेण
दिनभेदेन पठेदिति सप्तभिर्दिनैरेका वृत्तिरित्यन्यः
पक्षः इत्याहुः । अत्र द्वितीयमेव पक्ष पाटोऽयंद्वि-
प्रकारः । इति सप्ताक्षर्यां संगृह्णन्त बहवस्तदनुया-
यिनोऽनुतिष्ठन्ति कचटतपयशवर्गवैरिहभपिण्डान्त्येरक्ष
रैरङ्गाः नेत्रे शून्यं ज्ञेयं तथा स्वरे केवले कथिते”
इति प्रसिद्धपरिभाषया पकारयकारककारा एकस्मिन्
ठप्ररेफा द्वयो र्द्विशब्दश्चतुर्षु संकेतित इति । तत्रमूलत-
न्त्राणि त एव जानन्ति । सन्त्यऽपि तानि तन्त्रवचनानि
एकदिनेनैकावृत्त्यशक्तपराणि । अस्ति हि तादृशोऽप्यस्य
प्रयोगः कात्यायनीतन्त्रे मन्त्रविभजनान्ते” होमे स्वाहा-
न्तिमा एते पूजायां तु नमोऽन्तिमाः । तर्पणे तर्पया-
पृष्ठ २८५४
म्यन्ता ऊहनीयाबुधैर्मताः” इति वचनात् सप्तशत-
ब्राह्मणभोजने प्रतिव्यक्त्येकैकमन्त्रेण काण्डानुसमयेन
षोड़शोपचाराणां पदार्थनुसमयेन वा पञ्चोपचारा-
णां वा कर्त्तुमशक्यतया स्वेच्छयाऽध्यायभेदेन वाऽनेक
दिनसाध्यैकप्रयोगप्रसक्तौ उक्तवचनैर्विभजननियमो-
विधीयत इति । अत्र स्वयं पठितुमसमर्थस्य वा प्रभोर्वा
ब्राह्मणद्वाराऽपि प्रयोग इष्टः । तत्पक्षे दक्षिणा
नियमस्तन्त्रेषु “पञ्चस्वर्णा शतावृत्तेः पक्षावृत्तेस्तु
तत्त्रयम् । पञ्चावृत्तेः स्वर्णमेकं त्रिरावृत्तेस्तदर्धकम् ।
एवावृत्तौ पादमेकं दद्याद्वा शक्तितो बुधः” इति गुप्त-
वती । पाठे इतिबधशब्दौ न पाट्यौ अध्यायान्ते विधा-
नपारिजाते स्थितम् ।
नन्दादिशक्तिभेदाम्रामर्य्यादिवीजभेदाश्च अन्यत्रोक्ता द्रष्टव्याः ।
चण्ड्याः होमाङ्गत्वेन संपुटार्थत्वेन च सप्तशतमन्त्रवि-
भागः कात्यायनीतन्त्रे दर्शितः गुप्तवत्यां च तद्वाक्यव्या-
ख्यानपूर्वकं मन्त्रविभागे विशेषं युक्त्या निर्णीय संग्रह-
श्लौकैर्यथा निर्ण्णीतं तथात्र प्रदर्श्यते । तत्र एकाध्यायात्मक्
प्रथम चरितस्य मन्त्रविभागसूचकास्तत्रत्याः श्लोका यथा
“मार्कण्डेय उवाचेति मन्त्रः प्राथमिकोमतः । सावर्ण्याद्या
मुनिवराश्रमान्ताः श्लोकका दश । सोऽचिन्तयत् तदा तत्रे-
त्यर्धश्लोकात्मकोमनुः । मत्पूर्व्वैरित्युपक्रम्य सप्त श्लोका
नृपान्तिमाः । अथ वैश्यः, समाध्याद्याःसंस्थितान्तास्तत-
स्त्रयः । किं नु तेषां कथं ते किम् इत्यर्धश्लोककौ मनू ।
राजोवाच ततोयैस्तेष्वित्यर्धश्लोकमन्त्रकौ । मार्कण्डेयस्त
तस्तौ समाधिः श्लोकार्धमन्त्रकौ । वैश्योक्तिरेवमित्याद्या
बन्धुष्वन्तास्ततस्त्रयः । तेषां कृते करोमीति द्वावर्द्धश्लोकम-
न्त्रकौ । कृत्वा तु ताविति श्लोको राजोक्तिर्भगवन्निति ।
दुःखायेति च मन्त्रौ द्वावर्धश्लोकात्मकौ मतौ । ममत्वा-
द्यामूढतान्ताश्चत्वारोऽथ ऋषर्वचः । ज्ञानमस्तीत्युपक्रम्य
मुक्तयेऽन्तास्ततोदश । सा विद्येति च संसारेत्यप्यर्धश्लोक
कौ मनू । राजोक्ति र्भगवन् केतिं श्लोको यत्तदिति द्वयम् ।
अर्द्धश्लोकात्मकमृषिर्नत्यैवेति तथापि तत् । द्वावर्धश्लोक-
मन्त्रौ स्तो देवानां कार्य्यमादितः । तेजसः प्रभुरित्यन्ता
श्लोकाः षड् व्रह्मणोऽथ वाक् । त्वंस्वाहा त्वं खधेत्याद्याः
श्लोकमन्त्रास्त्रयोदश । प्रबोधं चेति बोधश्चेत्यर्धश्लोका-
त्मकौ मनू । ऋषिरेवं स्तुतेत्यादि विभ्वन्तं श्लोकपञ्चकम् ।
तावपीत्युक्तवन्तावित्यर्द्ध श्लोकमनुद्वयम् । भगवांश्च भवेतां
किमन्येनेत्यर्धयुग्मकम् । ऋषिवाक्यं वञ्चिताभ्यामित्येकः
श्लोकमन्त्रकः । आवां जहीत्यर्धमृषिस्तथेति श्लोक-
योर्युगम् । इत्यष्टसप्ततिश्लोकै ७८ रध्यायप्रथमात्मनः । प्रथ-
मस्य चरित्रस्य सर्व्वे मन्त्राश्चतुःशतम्ः १०४ । तेषूवाचा
ङ्कितामन्त्राद्व्येकद्व्येकत्रिपञ्चभिः । मृकुण्डपुत्रभगद्वैश्य
व्रह्मनृपर्षिभिः । चतुर्द्दश स्युः श्लोकार्द्धाश्चतुर्विंशतिरी-
रिताः । अवशिष्टास्तु षट्षष्टिःश्लोकमन्त्रा इति स्थितिः” ।
अध्यायत्रयात्मकस्य द्वितीयचरितस्य मन्त्रविभागसूचका
स्त्रत्रत्याः संग्रहश्लोका यथा
“ऋषिवागष्टषष्टिः स्युः प्लोकादेवासुरादयः । एवं द्वि-
तीयकेऽध्याये मन्त्रा एकोन सप्ततिः ६९ । ऋषिर्निहन्य-
मानाद्याः पञ्चत्रिंशत्तु मन्त्रकाः । देव्युक्तिर्गर्ज गर्जेति
श्लोक एक ऋषेर्वचः । पञ्च श्लोका इति चतुश्चत्वारिं-
शत् ४४ तृतीयके । ऋषिः शक्रादयः श्लोकाः षड्विंशति
रथर्षिवाक् । श्लोकद्वयमथो देवी श्लोकार्धं व्रियतामिति ।
देवा उचुस्त्रयः श्लोका भगवत्या कृतादिकाः । वृद्व्रयेऽस्मत्
प्रपन्ना त्वमित्यर्धश्लोककोमनुः । ऋषेर्वचश्चतुःश्लोकीत्य-
ध्याये तु चतुर्थके । मन्त्राद्विचत्वारिंशत् ४२ स्युरध्याय
त्रितयात्मनः । मध्यमस्य चरित्रस्य पञ्चपञ्चाशदुत्तराः ।
शतं १५५ मन्त्रा स्तेषु देव्या वचसीद्वे ऋषेस्तु षट् ।
देवनामेकमर्धे द्वे अन्ये श्लोका इति स्थितिः” ।
नवाध्यायात्मकस्य तृतीयचरित्रस्य मन्त्रविभागसूचकाः
तत्रत्याः संग्रह श्लोका यथा
“अथर्षि वाक्पुराशुम्भेत्यादयः श्लोककास्तु षट् । देवा
ऊचुर्नमोदेव्या इत्यादिश्लोकपञ्चकम् । ततःश्लोकैकबिंशत्या
प्रतिश्लोकं त्रिशस्त्रिशः । विभागादनुषङ्गाभ्यां त्रिषष्ट्या
हुतयो यथा । महाकाल्याद्यर्थभेदान्नमस्तस्या इति त्रयः
मन्त्राः पूर्वोत्तरौ शेषौ या देव्यर्धं नमोनमः । तेषामाद्य-
न्तयोर्योज्यौप्रतिप्तन्त्रक्रमेण तौ । तेन पर्य्यवसानं स्या-
देकैकोमन्त्र ईदृशः । या देवीत्यर्धमुच्चार्य्य नमस्तस्यै
नमोनमः । इत्युच्चरेत् त्रिपाद्गायत्र्येषा त्वर्धावसनिका ।
एते पूर्वार्धतुर्य्याङिव्रयोगोत्था एकविंशतिः । भवन्ति
विष्णुमायादिभ्रान्त्यन्तपदर्गार्भताः । प्रथमा विष्णुमायोक्ता
द्वितीया चेतना ततः । बुद्धिर्निद्रा क्षुधा छाया शक्तिस्तृष्णा
तथाष्टमी । क्षान्तिर्जातिरथो लज्जा शान्तिः श्रद्धा-
त्रयोदशी । कान्तिर्लक्ष्मीस्ततोवृत्तिः स्मृतिरूपेण
संस्थिता । दया तुष्टिस्ततोमाता भ्रान्तिरित्येकविंशतिः ।
स्वस्थानवृद्ध्या त्रिः प्रोक्ता स्त्रिषष्टिर्मनवः स्मृताः
इन्द्रियाणामितिश्लीक एकमन्त्रस्तदुत्तरः । चिति-
पृष्ठ २८५५
रूपेण यत्येष प्राग्वन् मन्त्रत्रयात्मकः । स्तुता सुरै
रिति श्लोकावृषिरेवं स्तवादिकाः । श्लोकाः सप्तदशाथर्षि
र्निशम्येति मनुत्रयम् । दूतोक्तिर्देवि! दैत्येति
नवश्लोका ऋषर्वचः । इत्युक्ता सा तदेत्येकः श्लोको
देवीवचस्ततः । सत्यमुक्तमिति श्लोकचतुष्कमथ
दूतबाक् । अवलिप्तेति चत्वारः श्लोका देव्यास्ततोवचः ।
एवमेतदिति द्वावित्येकोनत्रिंशदुत्तरम् । शतं १२९ मन्त्राः
पञ्चमे षट्सप्तति ७६ श्लोकमण्डिते । अथर्षिरित्या-
कर्ण्येति चतुःश्लोकी ऋषेर्वचः । तेनाज्ञप्तैति श्लोक
त्रयं देवीवचस्ततः । दैत्येश्वरेणेत्येकोऽथ ऋषिरित्युक्त
इत्यमी । द्वादशेति मताः षष्ठे चतुर्विंशतिमन्त्रकाः २४ ।
अथर्षिवाक् मयाज्ञप्ता इत्याद्यास्त्र्याढ्यविंशतिः २३ ।
ऋषिस्तावित्युभावित्थं सप्तमे सप्तविंशतिः २७ । अथर्षिवाणी
चण्डे चेत्यारभ्याभिजंघान तम् । इत्यन्तः पञ्च पञ्चा-
शच्छ्लोकामन्त्रास्ततःःपरम् । मुखेन काली जगृहे
इत्यर्धश्लोकमन्त्रकः । ततोऽसाविति षट् श्लोकास्त्रि-
षष्टिश्चेत्थमष्टमे ६३ । राजा विचित्रमित्यादि श्लोक
द्वयमथो ऋषिः । चकार कोपमित्याद्याः सप्तत्रिंश
दुदीरिताः । इत्येकचत्वारिंशत् ४१ स्युर्नवमाध्यायमन्त्र-
काः । ऋषिर्निशुम्भं निहतमिति द्वावम्बिका-
बचः । ऐकैवेति द्वयं देवी तत एकोऽहमित्यृषिः ।
ततः प्रववृते युद्धमिति श्लोकास्त्रयोदश । तत्रापि सा
निराधारेत्यर्धश्लोकात्मकोमनुः । नियुद्धं स्ये तदा दैत्य
इत्याद्या मनवोनव । इत्येवं दशमेऽध्याये द्वात्रिंशन्
मनवोमताः ३२ । ऋषेर्देव्याहते तत्रेत्याद्यास्त्रिंशच्चतु-
र्युता ३४ । देवीवाग् वरदेत्योको देवाः सर्वेति चैककः ।
देवी वैवस्वतेत्यष्टावथ शाकम्भरी मनुः । अर्धश्लोका-
त्मकः पश्चाच्छ्लोकास्तत्रैव चेति षट् । एवमेकादशे
मन्त्राः पञ्चपञ्चाशदीरिताः ५५ । देवीवागेभिरित्याद्याः
श्लोका अष्टादशोदिताः । सर्वं ममैतदित्यर्धं पश्वाद्याः
श्लोकका दश । ऋषेर्वचनमित्युक्तेत्याद्याः श्लोका-
स्ततस्त्रयः । निशुम्भे चेत्यर्धमनुरेवं भगवतीति षट् ।
इत्येकचत्वारिंशत् ४१ स्यु र्द्वादशाध्यायमध्यकाः । ऋषिरे
तत्त इत्यर्धश्लोको मन्त्रस्ततस्त्रयः । एवंप्रभावा से
त्याद्या मार्कण्डेय उवाच ह । इति तस्येति षट् श्लोका-
देवी यदिति चैककः । मार्कण्डेय उवाचाथ ततो वव्रे
मनुद्वयम् । देव्युवाच ततः स्वल्पैरहोभिरिति षण्म-
ताः । अर्धश्लोकात्मका मन्त्रा मार्कण्डेयवचस्ततः । इति
दत्त्वा तयोरेवं देव्यावरमिति द्वयम् । द्विर्दण्डकलितन्या-
यादावृत्तं स्याच्चतुष्टयम् । इत्येवमेकोनत्रिशन् २९ मनवः-
स्युः त्रयोदश । अत्रापरे नवार्धानि केचिदेकादशाभ्यधुः ।
न तत् कात्यायनीतन्त्रजल्पितं किन्तु कल्पितम् । इत्यु-
त्तरचरित्रेऽस्मिन्नध्यायत्रिधना ९ त्मनि । सम्भूय मन्त्र
संख्यैकचत्वारिंशच्चतुःशती ४४१ । अर्धश्लोकात्मका मन्त्र०
स्तेषु द्वादश कीर्त्तिताः । त्रिपाद् मन्त्रास्तु षट्षष्टिर्द्वौ-
श्लोकौ पुनरुक्तकौ । श्लोका अपुनरुक्तास्तु त्रिशती सप्त-
विंशतिः ३२७ । राजैको देवदूतोक्ती द्वे द्वे देव्युक्तयो-
दश । मार्कण्डेयोक्तयस्त्रिस्रऋषिवाक्यानि षोड़श ।
इत्युवाचाङ्कितामन्त्राश्चतुस्त्रिंशदिति ३४ स्यितिः ।
अथसर्वे मिलितास्तदध्यायेषु त्रयोदशसु । पञ्च शतानि
श्लोका अष्टसप्ततियुतानि ५७८ । तेष्वन्त्यौ श्लोकौ द्विपुणौ
भवतस्त्रेधा द्वाविंशतिर्भागः । एकोनविंशतेश्च द्वेध ते
पञ्चषष्टिरतिरिक्ताः । ब्रह्मा भगवान्दूतोवैश्यो देवा
नृपो मृकण्डुसुतः । देव्यृषयश्चैकैकद्विद्वित्रिचतुः
शरार्कऋक्षमिताः । इति सप्ताधिकपञ्चाशदुवाच
पदाङिकता अमी अधिकाः । द्वाविंशतिशतमेषां
श्लोकैर्य्योगेन मन्त्रसप्तशती । इति विभजनमुदित
प्रतिमन्त्रं कात्यायनीतन्त्रे । तस्मादेतत् प्रकृतिकम-
पूर्णमन्यत्तु यामलप्रभृति । एकमन्त्रस्त्रिपान्मन्त्रः पुन
रुक्तोऽर्धमन्त्रकः । उवाचाङ्कितैत्येवं मन्त्रः प्रोक्तोऽत्र
पञ्चधा । मन्त्रपिण्डः श्लोकपिण्डो ऽध्यायपिण्ड इति
त्रिधा ।” गुप्तवती
नागोजीभट्टकृतविभागस्त्वन्यादृशः विस्तरभयान्नोक्तः
उभयोश्च युक्तायुक्तत्वमुभयग्रन्थदर्शनेन सुधीभिर्विचिन्त्यम् ।
तदयं संक्षेपः ।
अध्यायः श्लोकः श्लोकात्मा अर्द्धश्लोकात्मा त्रिपाद् उवाचाङ्कितःमन्त्रः
१ च० १ ७८ ६६ २४ ० १४ १०४
२ ६८ ६८ ० ० १ ६९
३ ४१ ४१ ० ० ३ ४४
४ ३६ ३५ २ ० ५ ४२
२ च० ३ १४५ १४४ २ ० ९ १५५
५ ७६ ५४ ० ६६ ९ १२९
६ २० २० ० ० ४ २४
७ २५ २५ ० ० २ २७
८ ६१ ॥ ६१ १ ० १ ६३
पृष्ठ २८५६
अध्यायः श्लोकः श्लोकात्मा अर्द्धश्लोकात्मा त्रिपाद् उवाचाङ्कितः मन्त्रः
९ ३९ ३९ ० ० २ ४१
१० २७ ॥ २७ १ ० ४ ३२
११ ५० ॥ ५० १ ० ४ ५५
१२ ३८ ३७ २ ० २ ४१
१३ १७ ॥ १४ ७ ० ६ पुनरुक्त २२९
३ च० ९ ३५५ ३२७ १२ ६६ ३४ पुनरुक्त २४४१
समष्टिः १३ ५७८ ५३७ ३८ ६६ ५७ पुनरुक्त २७००
अस्या रहस्यमुक्तं मार्कण्डेय पु० प्राधानिकादिरहस्ये
“राजोवाच । भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिम्ब्रह्मन्! प्रधानं वक्तुमर्हसि । आराध्यं
यन्मया देव्याः स्वरूपं येन च द्विज! । विधिना! ब्रूहि
सकलं यथावत् प्रणतस्य मे । ऋषिरु० “इदं रहस्यं
परममनाख्येयं प्रचक्षते । भक्तोऽसीति न मे किञ्चित्तवावाच्यं
नराधिप! । सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता । मातु-
लिङ्गङ्गदां खेटं पानपात्रं च बिभ्रती । नागं लिङ्गं च
योनिञ्च बिभ्रती नृप मूर्धनि । तप्तकाञ्चनवर्णाभा तप्त-
काञ्चनभूषणा । शून्यं तदखिलं स्वेन पूरयामास
तेजसा । शून्यं तदखिलं लोकं विलोक्य परमेश्वरी ।
बभार रूपमपरन्तमसा केवलेन हि । सा भिन्नाञ्जनसं-
काशा दष्ट्रार्चितवरानना । षिशाललोचना नारी बभूव
तनुमध्यमा । खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा ।
कबन्धहारं शिरसा बिभ्राणा हि शिरःस्रजम् ।
ताम्प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् । ददामि
तव नामानि यानि कर्म्माणि तानि ते । महामाया
महाकाली महामारी क्षुधा तृषा । निद्रा तृष्णा चैकवीरा
कालरात्रिर्दुरत्यया । इमानि तव नामानि प्रतिपाद्यानि
कर्म्मभिः । एमिः कर्माणि ते ज्ञात्वा योऽधीते सोऽऽश्नुते
सुखम् । तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरन्नृप ।
सत्वाख्येनातिशुद्धेन गुणेनेन्दुपभन्दधौ । अक्षमालाङ्कुश-
धरा वीणापुस्तकधारिणी । सा बभूव वरौ नारी नामा-
न्यस्यै व सा ददौ । महाविद्या महावाणी भारती वाक्-
सरस्वती । आर्य्या व्राह्मी सहाधेनुर्वेदगर्भा सुरेश्वरी ।
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् । युवां
जनयतान्देव्यौ मिथुने स्वानुरूपतः । इत्युक्त्वा ते
महालक्ष्मीः ससर्ज मिथुनं स्वयम् । हिरण्यगर्भौ रुचिरौ
स्त्रीपुंसौ कमलासनौ । ब्रह्मन्विधे विरिञ्चेति
धातरित्याह तं वरम् । श्रीःपद्मे कमले लक्ष्मीत्याह-
माता स्त्रियञ्च ताम् । महाकाली भारती च मिथुने
सृजति स्म ह । एतयोरपि रूपाणि नामानि च
वदामि ते । नीलकण्ठं रक्तबाहुं श्वेताङ्गं चन्द्रशेखरम् ।
जनयासास पुरुषं महाकाली सितां स्त्रियम् । स रुद्रः
शङ्करः स्थाणुः कपर्द्दीं च त्रिलोचनः । त्रयी विद्या
कामधेनुः शास्त्रीभाषाक्षरास्वरा । सरस्वती स्त्रियङ्गौरीं
कृष्णं च पुरुषं नृपः । जनयामास नामानि तयोरपि
वदामि ते । विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा । एवं
युवतयः सत्यःपुरुषत्वं प्रपेदिरे । चक्षुष्मन्तोऽनुपश्यन्ति
नेतरेऽतद्विदो जनाः । ब्रह्मणे प्रददौ पत्नीं महालक्ष्मी-
र्नृप त्रयीम् । रुद्राय गौरीं वरदां वासुदेवाय च
श्रियम् । स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
बिभेद भगवान्नुद्रस्तद्गौर्या सह वीर्यवान् । अण्डमध्ये
प्रधानादि कार्य्यजातमभून्नृप! । महाभूतात्मकं सर्वं
जगत्स्थावरजङ्गमम् । पुपोषपालयामास तं लक्ष्म्या सह
केशवः । महालक्ष्मीरेवमजा राजन्! सर्वेश्वरेश्वरी ।
निराकारा च साकारा सैव नानाभिधानभृत् । नाभा-
न्तरैर्निरूप्यौषा नाम्ना नान्येन केनचित्” १४ अ० ।
“ऋषिरुवाच । त्रिगुणा तामसी देवी सात्विकी या
त्रिधोदिता । सा शर्वा चण्डिका दुर्गा भद्रा
भगवतीर्यंते । योगनिद्रा हरेरुक्ता महाकाली
तमोगुणा । मधुकैटभनाशार्थं यान्तुष्टावाम्बुजासनः ।
दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा । विशालया
राजमाना त्रिंशल्लोचनमालया । स्पुरद्दशनदंष्ट्राढ्या भीम
रूपापि भूमिष! । रूपसौभाग्यकान्तीनां सा प्रतिष्ठा
महाश्रियाम् । खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत् ।
परिथं कार्मुकं शीर्षं निश्चोतद्रुधिरे दधौ । एषा
सा वैष्णवी माया महाकाली दुरत्यया । आराधिता
वशीकुर्य्यात्पूजाकर्त्तुश्चराचरम् । सर्वदेवशरीरेभ्यो याऽऽ
विर्भूताऽसितप्रभा । त्रिगुणा सा महालक्ष्मीः साक्षान्म-
हिषमर्द्दिनी । श्वेतानना नीलभुजा सुश्वेतेस्तनमण्ड-
ला । रक्तमध्या रक्तपादा नीलजङ्घोरुरुन्मदा । सुचित्र
जघना चित्रमाल्याम्बरबिभूषणा । चित्रानुलेपना कान्ति
रूपसौगाग्यशालिनी । अष्टादशभुजा पूज्या सा सहस्र
भुजा सती । आयुधान्यत्र वक्ष्यन्ते दक्षिणाधःकर-
पृष्ठ २८५७
क्रमात् । अक्षमाला च कमलं वाणोऽसिः कुलिशङ्गदा ।
चक्रं त्रिशूलं परशुः शङ्खोघण्टा च पाशकः । शक्ति-
र्दण्डश्चर्म्मचापं पानपात्रं कमण्डलुः । अलङ्कृत भुजा-
मेभिरायुधैः कमलासनाम् । सर्वदेवमयीमीशां
महालक्ष्मीमिमां नृप! । पूजयेत्सर्वदेवानां स्वर्लोकानां प्रभु-
र्भवेत् । गौरीदेहात्समुद्भूता या सत्वैकगुणाश्रया ।
साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी । दधौ
चाष्टभुजा वाणमुषले शूलचक्रभृत् । शङ्खं घण्टां लाङ्ग-
लञ्च कार्मुकं वमुधाधिप! । एषा संपूजिता भक्त्या सर्व-
ज्ञत्वं प्रयच्छति । निशुम्भमथिनी देवी शुम्भासुरनिब-
र्हिणी । इत्युक्तानि स्वरूपाणि मूर्त्तीनान्तव पार्थि-
व! स्वरूपाणि जगन्मातुः, पृथगर्चां निशामय ।
महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती । दक्षिणोत्तरयोः
पूज्ये पृष्ठतो मिथुनत्रथम् । विरिञ्चिः स्वरया मध्ये
रुद्वोगौर्या च दक्षिणे । वामे लक्ष्म्या हृषीकेश इत्येवन्दे-
वतात्रयम् । अष्टादशभुजा मध्ये वामे चास्या दशानना ।
दक्षिणेऽष्टभुजा लक्ष्मीर्महती तां समर्चयेत्! अष्टादशभुजा-
चैषा यदा पूज्या नराधिप! । दशानना चाष्टभुजा दक्षि-
णोत्तरयोस्तदा । कालमृत्यू च संपूज्यौ सर्वारिष्ट
प्रशान्तये । यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी ।
नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ । नमो
देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् । अवतार-
त्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः । अष्टादशभुजा चैषा
पूज्या महिषमर्द्दिनी । महालक्ष्मीर्महाकाली महती च
सरस्वती । ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी ।
महिषान्तकरी येन पूजितासौ जगत्प्रभुः । पूजयेज्ज-
गतां घात्रीं चण्डिकाम्भक्तवत्सलाम् । अर्घ्यादिभिरलङ्का-
रैर्गन्धपुष्पैस्तथोत्तमैः । धूपैर्दीपैः सनैवेद्यैः नानाभक्ष्य
समन्वितैः । रुधिराक्तेन बलिना मांसेन सुरया नृप! !
सुरभिणा स्नानीयेन चन्दनेन सुगन्धिना । सकर्पूरैश्च
ताम्बूलैर्भक्तिभावसमन्वितैः । वामभागेऽग्रतो देव्याः
छिन्नशीर्षं महासुरम् । पूजयेन्महिषं येन गतं
सायुज्यमोशया । दक्षिणे पुरतः सिंहमत्युग्रं धर्म्ममीश्व-
रम् । ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैस्त्रिभिः ।
एकेन वा मध्यमेन नैकेनेतरयोरिह । चरितार्द्धञ्च न
जपेज्जपन् छिद्रमवाप्नुयात् । स्तोत्रमन्त्रैस्तुवीतेमां यदि वा
जगदम्बिकाम् । प्रदक्षिणनमस्कारं कृत्वा मूर्घ्नि
कृताञ्जलिः । क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः ।
प्रतिश्लोकञ्च जुहुयात्पायसं तिलसर्पिषा । जुहुयात्स्तोत्र
मन्त्रैर्वा चण्डिकायै शुभं हबिः । न मोनमः पदैर्देवीं
पूजयेत् सुसमाहितः । प्रयतः प्राञ्जलिः प्रह्वः प्राणाना
रोप्य चात्मनि । सुचिरम्भावयेदीशां चण्डिकान्तन्मयो
भवेत् । एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम् ।
भुक्त्वा भोगान्यथाकामं देवीसायुज्यमाप्नुयात् । योन
पूजयते नित्यं चण्डिकां भक्तवत्सलाम् । भस्मीकृत्यास्य
पुण्यानि निर्दहेत्परमेश्वरी । तस्मात्पूजय भूपाल!
सर्वलोकमहेश्वरीम् । यथोक्तेन विधानेन चण्डिकां
सुखमाप्स्यसि” १५ अ० ।
“ऋषिरुवाच । नन्दा १ भगवती नाम या मविष्यति नन्द-
जा । संस्तुता पूजिता ध्याता वशीकुर्य्याज्जगत्रयम् ।
कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा । देवी
कनकदामाढ्या कनकोत्तमभूषणा । कमलाङ्गुशपाशा-
ब्जैरलङ्कृतचतुर्भुजा । इन्द्रिरा कमला लक्ष्मीः
साश्रीरुक्माम्बुजासना १ । या रक्तदन्तिका २ नाम देवी प्रोक्ता
मयानघा । तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभया-
पहम् । रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा ।
रक्तायुधा रक्तनेत्रा रक्तकेशाऽतिभीषणा । रक्ततीक्ष्ण
नखा रक्तदशना रक्त दंष्ट्रिका । पतिं नारीवानुरक्ता देवी
भक्तं भजेज्जनम् । वसुधाभनितम्बा सा सुमेरुयुगल
स्तनी । दीर्धौ लम्बावतिस्थूलौ तावतीव मनोहरौ ।
कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी । भक्तान्
सम्पाययेद्देवी सर्वकामदुघौ स्तनौ । खड्गपात्रं च
मुसलं लाङ्गलञ्च बिभर्त्ति सा । आख्याता रक्तचामुण्डा
देवी योगेश्वरीतिसा । अनया व्याप्तमखिलं जगत्स्था
वरजङ्गमम् । इमां यः पूजयेद्भक्त्या स व्याप्तोति
चराचरम् । अधीते य इमं नित्यं रक्तदन्तीवपुस्तबम् ।
तं सा परिचरेद्देवी पतिम्प्रियमिवाङ्गना २ । शाकम्भरी ३
नीलवर्णा नीलोत्पलविभूषणा । गम्भीरनाभिस्त्रिवली
बिभूषिततनूदरी । सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी ।
मुष्टौ शिलीमुखैः पूर्णं कमलं कमलालया । पुष्प-
पल्लवमूलादिफलादिशाकसञ्चयान् । काम्यानन्तरसै-
र्युक्तं क्षुत्तृण्मृत्युजरापहम् । कार्मुकञ्च स्फुरत्-
कान्तिर्बिभर्त्ति परमेश्वरी । शाकम्भरी शताक्षी स्या-
त्सैव दुर्गा ४ प्रकीर्त्तिता । शाकम्भरीं स्तुवन्ध्यायन्
जपनसंपूजयन्नमन् । अक्षय्यमश्नुते शीथ्रमन्नपानादि सर्व-
शः । भीमाऽपि ३ नीलवर्णा सा दंष्ट्रादशनभासुरा ।
पृष्ठ २८५८
विशाललोचना नारी वृत्तपीनघनस्तनी । चन्द्रहासं
च डमरुं शरं पात्रञ्च बिभ्रती । एकवीरा
कालरात्रिः सैवोक्ता कासदा स्तुता ५ । तेजोमण्डलदुर्धर्षा-
भ्रामरी ६ चित्रकान्तिभृत् । चित्रभ्रमरपाणिः सा
महामारीति गीयते ६ । इत्येतामूर्त्तयोदेव्या व्याख्याता
वसुधाधिप! । जगन्मातुश्चण्डिकायाः कीर्त्तिताः कामधेनवः ।
इदं रहस्यं परमं न वाच्यं कस्यचित्वया । व्याख्यानं
दिव्यमूर्त्तीनामधीप्वावहितः स्वयम् । देव्याध्यानं मया
प्रोक्तं गुह्यात्गुह्यतरम्महत् । तस्मात्सर्वप्रयत्नेन सर्वकाम
फलप्रदम् । १६ अ० ।
शतचण्डीविधानं मन्त्रमहोदधौ १८ तरङ्गे नवार्ण्ण
प्रयोगानन्तरं प्रतिपादितं यथा
“शतचण्डीविधानन्तु प्रवक्ष्ये प्रीतये नृणाम् । नृपो-
पद्रवआपन्ने दुर्भिक्षे भूमिकम्पने । अतिवृष्टावना-
वृष्टौ परचक्रभये क्षये । सर्व्वे विघ्ना विनश्यन्ति
शतचण्डीविधौ कृते । रोगाणां वैरिणां नाशो धनपुत्र
समृद्धयः । शङ्करस्य भवान्या वा प्रासादनिकटे शुभम् ।
मण्डपं द्वारवेद्याढ्यं कुर्य्यात् सध्वजतोरणम् । तत्र
कुण्डं प्रकुर्व्वीत प्रतीच्यां मध्यतोऽपि वा । स्नात्वा नित्य
कृतिं कृत्वा वृणुयाद्दश बाडवान् । जितेन्द्रियान्
सदाचारान् कुलीनान् सत्यवादिनः । व्युत्पन्नांश्चण्डिका-
पाठरताल्लँज्जादयावतः । मधुपर्कविधानेन वस्त्रस्व-
र्णादिदानतः । जपार्थमासनं मालां दद्यात्तेभ्योऽपि
भोजनम् । ते हविष्यान्नमश्नन्तो मन्त्रार्थगतमानसाः ।
भूमौ शयानाः प्रत्येकं जपेयुश्चण्डिकास्तवम् । मार्कण्डेय-
पुराणोक्तं दशकृत्वः सचेतसः । नवार्णं चण्डिकामन्त्रं
जपेयुश्चाऽयुतं पृथक् । यजमानः पूजयेच्च कन्यानां
नवकं शुभम् । द्विवर्षाद्यादशाव्दान्ताः कुमारीः
परिपूजयेत् । नाधिकाङ्गां न हीनाङ्गीं कुष्ठिनीञ्च व्रणा-
ङ्किताम् । अन्धां काणां केकराञ्च कुरूपां रोमयुक्-
तनुम् । दासीजातां रोगयुक्तां दुष्टां कन्यां न
पूजयेत् । विप्रां सर्व्वेष्टसंसिद्ध्यै यशसे क्षत्रियोद्भवाम् ।
वैश्यजां धनलाभाय पुत्राप्तौ शूद्रजां यजेत् । द्विवर्षा
सा कुमार्य्युक्ता त्रिमूर्त्तिर्हायनत्रिका । चतुरव्दा तु
कल्याणी पञ्चवर्षातु रोहिणी । षडव्दा कालिका प्रोक्ता
चाण्डका सप्तहायनी । अष्टवर्षा शाम्भवी स्याद्दुर्गा च
नवहायनी । सुभद्रा दशवर्षोक्ता ता मन्त्रैः परिपूज-
येत् । एकाव्दायाः प्रीत्यभावो रुद्रावदा तु विवर्जिता ।
तासामावाहने मन्त्रः प्रोच्यते शङ्करोदितः । मन्त्रा-
क्षरमयीं लक्ष्मीं मातृणां रूपधारिणीम् । नवदुर्गा-
त्मिकां साक्षात् कन्यामावाहयाम्यहम् । कुमारिकादि
कन्यानां पूजामन्त्रान् ब्रुवेऽधुना । जगत्पूज्ये!
जगद्वन्द्ये! सर्व्वदेवस्वरूपिणि । पूजां गृहाण कौमारि! १
जगन्मातर्नमोऽस्तु ते । त्रिपुरां २ त्रिपुराधारां त्रिवर्गज्ञान-
रूपिणीम् । त्रैलोक्यवन्दितां देवीं त्रिमूर्त्तिं
पूजयाम्यहम् । कालात्मिकां कलातीतां कारुण्यहृदयां
शिवाम् । कल्याणजननीं देवीं कल्याणीं ३ पूजयाम्य
हम् । अणिमादिगुणाधारामकाराद्यक्षरात्मिकाम् ।
अनन्तशक्तिकां लक्ष्मीं रोहिणीं ४ पूजयाम्यहम् ।
कामचारां शुभां कान्तां कालचक्रस्वरूपिणीम् । कामदां
करुणोदारां कालिकां ५ पूजयाम्यहम् । चण्डवीरां
चण्डमायां चण्डमुण्डप्रमञ्जिनीम् । पूजयामि महादेवीं
चण्डिकां ६ चण्डविक्रमाम् । सदानन्दकरीं शान्तां
सर्व्वदेवनमस्कृताम् । सर्व्वभूतात्मिकां देवीं शाम्भर्वी ७
पूजयाम्यहम् । दुर्गमे दुस्तरे कार्ये भवार्णवविनाशिनीम् ।
पूजयामि सदा भक्त्या दुर्गां ८ दुर्गार्त्तिनाशिनीम् ।
सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम् ।
सुभद्रजननीं देवीं सुभद्रां ९ पूजयाम्यहम् । एतैर्मन्त्रैः
पुराणोक्तैस्तां तां कन्यां प्रपूजयेत् । गन्धैः पुष्पैर्भक्ष्य-
भोज्यैर्वस्त्रैराभरणैरपि । वेद्यां विरचिते रम्ये सर्व्वतो
भद्रमण्डले । घटं संस्थाप्य विधिवत्तत्रावाह्यार्च्चयोच्छि-
वाम् । तदग्रे कन्यकाश्चापि पूजयेद्ब्राह्मणानपि ।
उपचारैस्तु विविधैः पूर्व्वोक्तावरणान्यपि । एवं
चतुर्द्दिनं कृत्वा पञ्चमे होममाचरेत् । पायसान्नैस्त्रि-
मध्वक्तैर्द्राक्षारम्भाफलैरपि । मातुलाङ्गैरिक्षुखण्डै-
र्नारिकेलैः पुरैस्तिलैः । जातिफलैराम्रफलैरन्यैर्मधु-
रवस्तुभिः । सप्तशत्या दशावृत्त्या प्रतिश्लोकं हुतञ्चरेत् ।
अयुतञ्च नवार्णेन स्थापितेऽग्नौ विधानतः । कृत्वाऽऽ-
वरणदेवानां होमं तन्नाममन्त्रतः । कृत्वा पूर्णाहुतिं
सम्यग्देवमग्निं विसृज्य च । अभिषिञ्चेच्च यष्टारं
विप्रौघः कलसोदकैः । निष्कं सुवर्णमथ वा प्रत्येकं
दक्षिणां दिशेत् । भोजयेच्च शतं विप्रान् भक्ष्यभोज्यैः
पृथग्विधैः । तेभ्योऽपि दक्षिणान्दत्त्वा गृह्णीयादाशिष-
स्ततः । एवं कृते जगद्वश्यं सर्व्वेनश्यन्त्युपद्रवाः । राज्यं
धनं यशः पुत्रान्निष्टमन्यं लभेत सः” ।
सहस्रचण्डीविधानं तत्रैव १८ तरङ्गे
पृष्ठ २८५९
“एतद्दशगुणं कुर्य्याच्चण्डीसाहस्रिकं विधिम् । विद्या-
वतः सदाचारान् ब्राह्मणान् वृणुयाच्छतम् । प्रत्येकं
चण्डिकापाठान् विदध्युस्ते दिशा १० मितान् । अयुतं
प्रजपेयुस्ते प्रत्येकं च नवार्णकम् । पूर्व्वोक्ताः कन्यकाः
पूज्याः पूर्व्वमन्त्रेः शतं शुभाः । दशाहमेवं संपाद्य-
होमं कुर्य्युः प्रयत्नतः । सप्तशत्याः शतावृत्त्या प्रति-
श्लोकं विधानतः । लक्षसंख्यं नवार्णेन पूर्व्वोक्तैर्द्रव्य-
सञ्चयैः । होतृभ्यो दक्षिणान्दत्त्वा पूर्व्वोक्तान् भोजये-
द्द्विजान् । सहस्रसंमितान् साधून् देव्याराधनतत्-
परान् । एवं सहस्रसंख्याके कृते चण्डीविधौ नृणाम् ।
सिध्यत्यभीप्सितं सर्वं दुःखौघश्च विनश्यति । मारी-
दुर्भिक्षरोगाद्या नश्यन्ति व्यसनोञ्चयाः । नेमं विधिं
वदेद्दुष्टे खले चौरे गुरुद्रुहि । साधौ जितेन्द्रिये दान्ते
वदेद्विधिमिमं परम् । एवं सा चण्डिका तुष्टा वक्तृन्
श्रोतॄंश्च रक्षति” ।
चण्डीनवाक्षरविधानं तत्रैव १८ तरङ्गे
“अथोनवाक्षरम्मन्त्रं वक्ष्ये चण्डीप्रसत्तये । वाङ्माया
मदनो दीर्घलक्ष्मीस्तन्द्रा श्रुतीन्दुयुक् । डायै सदृक्
जलं कूर्म्मद्वयं झिण्टीशसंयुतम् । (एँ ह्र्ॐ क्लीँ चामु-
ण्डायै विच्चे) नवाक्षरोऽस्य ऋषयो व्रह्मविष्णुमहेश्वराः ।
छन्दांस्युक्तानि मुनिभिर्गाय त्र्युष्णिगनुष्टुभः । देव्यः प्रोक्ता
महापूर्व्वा काली लक्ष्मीः सरस्वती । नन्दाशाकम्भरी
भीमाः शक्तयोऽस्य मनोः स्मृताः । स्याद्रक्तदन्तिकादुर्गा
भ्रामर्य्योवीजसञ्चयः । अग्निवायुभगास्तत्त्वम्फलं वेदत्रयो-
दितम् । सर्व्वाभीष्टप्रसिद्ध्यर्थं विनियोगौदाहृतः ।
ऋषिच्छन्दोदैवतानि शिरोमुखहृदि न्यसेत् । शक्तिवीजानि
स्तनंयोस्तत्त्वानि हृदये पुनः । एकेनैकेन चैकेन चतुर्भि-
र्युगलेन च । समस्तेन च मन्त्रेण कुर्य्यादङ्गानि षट्
सुधीः । ततएकादश न्यासान् कुर्वीतेष्टफलप्रदान् ।
प्रथमोमातृकान्यासः कार्य्यः पूर्ब्बोक्तमार्गतः । कृतेन
येन देवस्य सारूप्यं याति मानवः । अथ द्वितीयं कुर्ब्बीत
न्यासं सारस्वताभिधम् । वीजत्रयन्तु मन्त्राद्यं तारादि
हृदयान्तिकम् । क्रमादङ्गुलिषु न्यस्येत् कनिष्ठाद्यासु
पञ्चसु । करयोर्मध्यतः पृष्ठे मणिवन्धे च कुर्परे ।
हृदयादिषड़ङ्गेषु विन्यसेत् जातिसंयुतम् । अस्मिन् सारस्वते-
म्यासे कृते जाड्यं विनश्यति । ततस्तृतीयं कुर्व्वीत न्यासं
मातृगणान्वितम् । मायावीजादिका ब्राह्मी पूर्व्वतः पातु
मां सदा । माहेश्वरी तथाग्नेय्यां कौमारी दक्षिणेऽवतु
वैष्णवी पातु नैरृत्ये वाराही पश्चिमेऽवतु । इन्द्राणी
वायुकाणे च चामुण्डा चोत्तरेऽवतु । ऐशाने तु
महालक्ष्मीरूर्द्ध्वं व्योमेश्वरी तथा । सप्तद्वीपेश्वरी भूमौ रक्षे-
न्नागेश्वरी तले । तृतीयेऽस्मिन् कृते न्यासे त्रैलोक्यविज-
यी भवेत् । न्यासं चतुर्थं कुर्व्वीत नन्दजादिसमन्वितम् ।
नन्दजा पातु पूर्ब्बाङ्गे कमलाङ्कुशमण्डिता । खङ्गपात्र-
करा पातु दक्षिणे रक्तदन्तिका । पृष्ठे शाकम्भरी पातु
पुष्पपल्लवसंयुता । धनुर्वाणकरा दुर्गा वामे पातु सदैव
माम् । शिरःपात्रकरा भीमा मस्तकाच्चरणावधि ।
पादादि मस्तकं यावद्भ्रामरी चित्रकान्तिभृत् । तुर्य्यं
न्यासं नरः कुर्वन् जरामृत्यू व्यपोहति । अथ कुर्वीत
ब्रह्माद्यं न्यासं पञ्चममुत्तमम् । पादादिनाभिपर्य्यन्तं
ब्रह्मा पातु सनातनः । नाभेर्विशुद्धिपर्य्यत्तं पातु नित्यं
जनार्द्दनः । विशुद्धेर्ब्रह्मरन्ध्रान्तं पातु रुद्रस्त्रिलोचनः ।
हंसः पातु पदद्वन्द्वं वैनतेयः करद्वयम् । चक्षुषी-
वृषभः पातु सर्वाङ्गाणि गजाननः । परापरौ देहभा-
गौ पात्वानन्दमयोहरिः । कृतेऽस्मिन् पञ्चमे न्यासे
सर्वान् कामानवाप्नुयात् । षष्ठं न्यासंततः कुर्य्यान्महाल-
क्ष्म्यादिसंयुतम् । मध्यं पातु महालक्ष्मीरष्टादशभुजा-
न्विता । ऊर्द्ध्वं सरस्वती पातु भुजैरष्टाभिरूर्जिता ।
अधः पातु महाकाली दशबाहुसमन्विता । सिंहोहस्त
द्वयं पातु मम हंसोऽक्षियुग्मकम् । महिषं दिव्यमारू-
ढोयमः पातु पदद्वयम् । महेशश्चण्डिकायुक्तः सर्वा-
ङ्गाणि ममावतु । षष्ठेऽस्मिन् विहिते न्यासे सद्गतिं
प्राप्नुयान्नरः । मूलाक्षरन्यासरूपं न्यासं कुर्वीत
सप्तमम् । ब्रह्मरन्ध्रे नेत्रयुगे श्रुत्योर्नासिकयोर्मुखे ।
पायौ मूलमनोर्वर्णांस्ताराद्यान्नभसाऽन्वितान् । विन्यसेत्
सप्तमे न्यासे कृते रोगक्षयोभवेत् । पायुतो ब्रह्मर-
न्ध्रान्तं पुनस्तानेव विन्यसेत् । कृतेऽस्मिन्नष्टमे न्यासे
सर्वदुःखं विनश्यति । कुर्वीत नवमं न्यासं मन्त्रव्याप्त
स्वरूपकम् । मस्तकाच्चरणं याववरणान्मस्तकावधि ।
पुरोदक्षे पृष्ठदेशे वामभागे ऽष्टशो न्यसेत् । मूलमन्त्र
छतोन्यासो नवमो देवताप्तिकृत् । ततः कुर्वीत दशमं पड्ङ-
न्यासमुत्तमम् । मूलमन्त्रं जातियुक्तं (दीर्घस्वरयुक्तम्)
हटयादिषु विन्यसेत् । कृतेऽणिन् दशमे न्यासे त्रैलोक्यं
वशगं भवेत् । दशन्यासोक्तफलदं कुर्य्यादेकादशं ततः ।
खङ्किनी शूलिनीत्यादि (१ अ० ६१--६५) पठित्वा श्लोकपज्ञ-
कम् । आद्यं(ऐँ)कृखतरं वीजं ध्यात्वा गर्वाङ्गके न्यसेष्ट ।
पृष्ठ २८६०
शूलेन पाहि नो देवीत्यादि (४ अ० २३--२६) श्लोक-
चतुष्टयम् । पठित्वा सूर्य्यसदृशं द्वितीयं (ह्रीँ) सर्वतो-
न्यसेत् । सर्वस्वरूपे सर्वेशे इत्यादि (११ अ० २३--२७)
श्लोकपञ्चकम् । पठित्वा स्फटिकाभासं तृतीयं (क्लीँ)
स्वतनौ न्यसेत् । ततः षडङ्गं कुवींत विभक्तैर्मूलवर्णकैः ।
एकेनैकेन चैकेन चतुर्भिर्युगलेन च । समस्तेन च
मन्त्रेण कुर्य्यादङ्गानि षट् सुधीः । शिखायां नेत्रयोः
शुत्योर्नसोर्वक्त्रे गुदे न्यसेत् । मन्त्रवर्णान् समस्तेन
व्यापकं त्वष्टशश्चरेत् । खड्गं चक्रगदेषुचापपरिघान्
शूलं मुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां
सर्वाङ्गभूषाभृतम् । नीलाश्मद्युतिमास्यपाददशकां सेवे
महाकालिकां यामस्तौत् शयिते हरौ कमलजोहन्तुं
मधुकैटभौ । अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः
कुण्डिकां दण्डं शक्तिमसिञ्च चर्म्म जलजं घण्टां सुरा-
भाजनम् । शूल पाशसुदर्शने च दधतीं हस्तैः प्रबाल
प्रभां सेवे सैरिभमर्द्दिनीमिह महालक्ष्मीं सरोजस्थि-
ताम् । घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः
सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्य
प्रभाम् । गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां
महापूर्व्वामत्र सरस्यतीमनभजे शुम्भादिदैत्यार्द्दिनीम् ।
एवं ध्यात्वा जपेल्लक्षचतुष्क तद्दशांशतः । पायसान्नेन
जुहुयात् पूजिते हेमरेतसि । जयादिशक्तिभिर्युक्ते पीठे
देवीं जयेत्ततः । तत्त्व २५ पत्रावृतत्र्यश्रे षट्कोणाष्टदला-
न्विते । त्रिकोणमध्ये संपूज्य ध्यात्वा तां मूलमन्त्रतः ।
पूर्व्वकोणे विधातारं स्वशक्त्या सह पूजयेत् । विष्णुं
श्रिया च नैरृत्ये, वायव्ये तूमया शिवम् । उदग्दक्षिणयोः
सिंहं महिषञ्च क्रमाद्यजेत् । षट्कोणेषु च पूर्वादौ
नन्दजां रक्तदन्तिकाम् । शाकम्भरीं तथा दुर्गां मीमाश्च
भ्रामरीं यजेत् । सविन्दुनामवर्णाद्यास्ताराद्याश्च
नमोऽन्तिमाः । नन्दजाद्या यजेच्छक्तीर्वक्ष्यमाणा
अपीदृशीः । अष्टपत्रेषु ब्रह्माणी पूज्या माहेश्वरी परा ।
कौमारी वैष्णवी चाथ वाराही नारसिंह्यपि ।
पश्चादैन्द्री च चामुण्डा तथा तत्त्व २५ दलेष्विमाः ।
विष्णुमाया चेतना च बुद्धिर्निद्रा क्षुधा ततः । छाया
शक्तिः परा तृष्णा क्षान्तिर्ज्जातिश्च लज्जया । शान्तिः
श्रद्धा कान्तिलक्ष्म्यौ धृतिर्वृत्तिः श्रुतिः स्मृतिः ।
दया तुष्टिस्ततः पुष्टिर्माता भ्रान्तिरिति क्रमात् ।
बहिर्भूगृहकोणेषु गणेशः क्षेत्रपालकः । वटुकश्चापि
योगिन्यः पूज्या इन्द्रादिका अपि । एवं सिद्धे मनौ
मन्त्रो भनेत् सौभाग्यभाजनम् । मार्कण्डेयपुराणोक्तं
नित्यं चण्डीस्तवं पठन् । पुटितं मूलमन्त्रेण जपन्ना-
प्नोति वाञ्छितम् । आश्विनस्य सिते पक्षे आरभ्याग्नितिर्थि
सुधीः । अष्टम्यन्तं जपेल्लक्षं दशांशं होममाचरेत् ।
प्रत्यहं पूजयेद्देवीं पठेत् सप्तशतीमपि । विप्रानाराध्य
मन्त्री स्वमिष्टार्थं लमतेऽचिरात् । सप्तशत्याश्चरित्रे तु
प्रथमे पद्मभूर्मुनिः । छन्दो गायत्रमुदितं महाकाली
तु देवता । वाग्वीजं (ऐँ) पावकस्तत्त्वं धर्म्मार्थे विनियो-
जनम् । मध्यमे च चरित्रे तु मुनिर्विष्णुण्दाहृतः ।
उष्णिक्छन्दो महालक्ष्मीर्देवता वीजमद्रिजा(ह्रीँ) । वायु-
स्तत्त्वं धनप्राप्त्यै विनियोग उदाहृतः । उत्तरस्य चरित्रस्य
ऋषिः शङ्कर ईरितः । त्रिष्टुप्छन्दो देवता च
महापूर्ब्बा सरस्वती । कामोवीजं (क्लीँ) रविस्तत्त्वं कामाप्त्यै
विनियोजनम् । एवं संस्मृत्य ऋष्यादीन् ध्यात्वा पूर्वोक्त
मार्गतः । सार्थख्यति पठेच्चण्डीस्तवं स्पष्टपदाक्षरम् ।
समाप्तौ तु मक्षालक्ष्मीं ध्यात्वा कृत्वा षड़ङ्गकम् ।
जपेदष्टशतं १०८ मूलं देवतायै निवेदयेत् । एवं यः कुरुते
सोऽत्र नावसीदति जातुचित् । चण्डिकां प्रभजन्मत्यो-
धनैर्धान्यैर्यशश्चयैः । पुत्रैः पौत्रैरुचाऽऽरोग्यैर्युक्तो
जीवेद्बहूः समाः” ।
निर्ण्णयसि० २ परि० शतचण्डीविधौ विशेष उक्तो यथा
रुद्रयामले “शतचण्डीविधानञ्च प्रोच्यमानं शृणुष्व तत्
सर्वोपद्रव्यनाशार्थं शतचण्डीं समारभेत् । षोडशस्तम्भ
संयुक्तं मण्डपं पल्लवोज्ज्वलम् । वसुकोणयुतां वेदीं मध्ये
कुर्यात्त्रिभागतः । पक्वेष्टकचितां रम्यामुच्छ्राये हस्तस-
ष्मिताम् । पञ्चवर्णरजोभिश्च कुर्यान्मण्डलकं शुभम् ।
पञ्चवर्णवितानञ्च किङ्किणीजालमण्डितम् । आच र्केण
समं विप्रान् वरयेद्दश सुव्रतान् । ऐशान्यां स्थापयेत्कुम्भं
पूर्वोक्तविधिनाचरेत् । वारुण्याञ्च प्रकर्तव्यं कुण्डं
लक्षणलक्षितम् । मूर्तिं देव्याः प्रकुर्वीत सुवर्णस्य पलेन
वै । तदर्धेन तदर्धेन तदर्धेन महामते! । अष्टादशभुजा-
न्देवीं कुर्याद्वाष्टकरामपि । पट्टकूलयुगच्छन्नान्देवीं मध्ये
निधापयेत् । देवीं संपूज्य विधिवज्जपं कुर्युर्दश द्विजाः ।
शतमादौ शतञ्चान्ते जपेन्मन्त्रं नवार्णकम् । चण्डीं
सप्तशतीम्मध्ये संपुटोऽयमुदाहृतः । एकं द्वे त्रीणि
चत्वारि जपेद्दिनचतुष्टयम् । रूपाणि क्रमशस्तद्वत्
पूजनादिकमाचरेत् । पञ्चमे दिवसे प्रातर्होमं कुर्य्याद्विधा-
पृष्ठ २८६१
नतः । गुडुचीम्पायसन्दूर्वान्तिलान् शुक्लान् यवानपि ।
चण्डीपाठस्य होमन्तु प्रतिश्लोकन्दशांशतः । होमं
कुर्य्याद्ग्रहादिभ्यः समिदाज्यचरून् क्रमात् । हुत्वा पूर्णा-
हुतिन्दद्यात्विप्रेभ्यो दक्षिणां क्रमात् । कपिलाङ्गां
नीलमणिं श्वेताश्वं छत्रचामरे । अभिषेकन्ततः कुर्युर्यज-
मानस्य ऋत्विजः । एवङ्कृतेऽमरेशान! सर्वसिद्धिः
प्रजायते” । “सहस्रचण्डीं विधिवच्छृणु विष्णो
महामते! । राज्यभ्रंशे महोत्पाते जनमारे महाभये ।
गजमारेऽश्वमारे च परचक्रभये तथा । इत्यादिवि-
विधे दुःखे क्षयरोगादिजे भये । सहस्रचण्डिकापाठं
कुर्य्याद्वा कारयेत्तथा । जापकास्तु शतम्प्रोक्ता विंशद्ध-
स्तश्च मण्डपः । भोज्याः सहस्रं विप्रेन्द्रा गोशतं दक्षिणा-
न्दिशेत् । गुरवे द्विगुणन्देयं शय्यादानन्तथैव च । सप्त-
धान्यं च भूदानं श्वेताश्वं च मनोहरम् । पञ्चनिष्क-
मिता मूर्त्तिः कर्त्तव्या वाऽर्धमानतः । अष्टादशभुजा देवी
सर्वायुधविभूषिता । अवारितान्नं दातव्यं सहस्रं
प्रत्यहम्प्रभो! । शतं वा नियताहारः पयःपानेन
वर्त्तयेत् । एवं यश्चण्डिकापाठं सहस्रं तु समाचरेत् ।
तस्य स्यात्कार्यसिद्धिस्तु नात्र कार्या विचारणेति” ।
एतद्द्वयं यद्यपि महानिबन्धेषु नास्ति तथापि प्रचरद्रूप
त्वादुक्तमिति दिक् । वाराहीतन्त्रे “सङ्कटे समनुप्राप्ते
दुश्चिकित्स्यामये तथा । जातिभ्रंशे कुलोच्छेदेऽप्यायुषो
नाश आगते । वैरिदृद्धौ व्याधिवृद्धौ धननाशे
तथाक्षये । तथैव त्रिविधोत्पाते तथा चैवातिपातके ।
कुर्य्याच्चण्ड्याःशतावृत्तिन्ततः सम्पद्यते शुभम् । श्रेयोवृद्धिः
शतावृत्ताद्राज्यवृद्धिस्तथा परा । मनसा चिन्तितन्देवि!
सिध्येदष्टोत्तराच्छतात् । सहस्रावर्त्तनाल्लक्ष्मीरावृणोति
स्वयं स्थिरा । भुक्त्वा मनोरथान् कामान्नरो मोक्षमवा-
प्नुयात् । चण्ड्याः शतावृत्तपाठात्सर्वाः सिध्यन्ति सिद्धयः” ।
२ काल्या भैरवभेदे पु० । “असिताङ्गोरुरुश्चण्ड उन्मत्तः
क्रोधनस्तथा” तन्त्रसा० । श्यामावरणाष्टभैरवोक्तौ ।
संज्ञायां कन् । चण्डिका सप्तवर्षायां कुमार्य्याम् अत्रैव
शब्दे मन्त्रमहोदधिवाक्यम् दृश्यम् ।

चण्डीकुसुम पु० चण्डीप्रियं कुसुसं यस्य । रक्तकरवीरदृक्षे । राजनि० ।

च(ण्डे)ण्डीश पु० रुद्रगणभेदे “चण्डे(ण्डी)शः पूषणं देवं

भगं नन्दीश्वरोऽग्रहीत्” भाग० ४ । ५ । १६ । ६ त० । २ शिवे
पु० चण्डीश्वरोऽप्यत्र त्रिभुवनगुरोर्धाम चण्डीश्वरस्य” मेघ०

चण्डु पु० चडि--उन् । उन्दुरे मूषिके शब्दच० ।

चण्डेश्वर पु० चण्डईश्वरः । रक्ततनौ शिवमूर्त्तिभेदे

“चण्डेश्वरं रक्ततनुं त्रिनेत्रम्” तन्त्रसारः ।

चण्डोग्रशूलपाणि पु० शिवमूर्त्तिभेदे । “चण्डोग्रशूल

पाणेश्च मन्त्रः सर्वार्थसाधकः” तन्त्रसारे तन्मन्त्रः उक्तः ।

चत याचने भ्वा० उभ० द्वि० सेट् । चतति ते एदित्

अचतीत् । अचतिष्ट । चचात चेते । निरुक्तौ अयं
गत्यर्थतयोक्तः । “गुहा चतन्तमुशिजो नमोभिः” ऋ० १० ।
४६ । २ । “चतन्तं चततिर्गतिकर्म्मा” निरु० भा० । अस्य
वैदिकेऽनिट्त्वम् चत्तः । “चत्तो इतश्चत्तामुतः” ऋ०
१० । १५५ । २ । “दूरे चत्तायच्छनत्सद्गहनम्” ऋ० १ । १३२ ।
६ । याचनस्य हिंसायां वृत्तेरस्य हिंसार्थत्वमपि ।
“तं व इन्द्रं चतिनमस्य” ऋ० ६ । १९ । ४ । “चतिनं
नाशकमिति” भा० । बा० इनि ।

चतुःकूटा स्त्री श्रीविद्यामन्त्रभेदे तन्त्रसारे तत्स्वरूपं दृश्यम्

“चतुःकूटा महाविद्या शङ्करेण प्रपूजिता” तन्त्रसा० ।

चतुःपञ्च त्रि० चत्वारः पञ्च वा वार्थे बहु० डच् । चतुः-

संख्यके पञ्चसंख्यके वा । “अजानतामिवान्योन्यं चतुः
पञ्चावशेषिताः” भाग० १ । १५ । २३ । वा रस्य षत्वे
चतुष्पञ्चेत्यप्यत्र ।

चतुःपञ्चाशत् त्रि० चतुरधिका पञ्चाशत् । (चौयान्न)

१ चतुरधिकपञ्चाशत्संख्यायां २ तत्संख्यान्विते च “पशु-
पुरोडाशोहविस्तच्चतुःपञ्चाशत्” शत० व्रा० ६ । २ । २ । ३७ ।
ततः पूरणार्थे डट् । चतुःपञ्चाश तत्संख्यापूरणे त्रि०
स्त्रियां ङीप् । वा रस्य षत्वे चतुष्पञ्चाश इत्यप्यत्र ।

चतुःपत्री स्त्री चत्वारि चत्वारि पत्राण्यस्याः । क्षुद्रपाषाण-

भेदे राजनि० । वा रस्य षत्वे चतुष्पत्रीत्यप्यत्र

चतुःपर्णी स्त्री चत्वारि चत्वारि प्रतिपर्णं पर्णान्यस्याः ।

क्षुद्राम्लिकायाम् (आमरुल्) । राजनि० । वा रस्य षत्वे
चतुष्पर्ण्णीत्यप्यत्र ।

चतुःपुण्ड्र पु० चत्वारि पुण्डाणीवास्य । भिण्डावृक्षे

राजनि० । वा रस्य षत्वे चतुष्पुण्ड्र इत्यप्यत्र ।

चतुःफला स्त्री चतुर्धा विभक्तं फलमस्याः । नागबलायाम्

राजनि० । वा रस्य षत्वे चतुष्फलाप्यत्र ।

चतुःशाल न० चतसृणां शालानां समाहारः । अन्योन्याभि-

मुखशालाचतुष्टये “एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्र-
विप्लवे । पतिना नीयमानायाः पुरः शुक्रो न दुष्यति
ज्यो० त० । वा रस्य विसर्गषत्वे चतुश्शातेत्यप्यत्र ।
ह्रखे वा ङीप् चतुः(श्)शालीत्यप्यत्र स्त्री ।
पृष्ठ २८६२

चतुःषष्टि स्त्री चतुरधिका षष्टिः । (चौषष्टि) १ चतुरधिकषष्टि-

संख्यायां २ तत्संख्यान्विते च । वा रस्य विसर्गषत्वे । ततः
पूरणे डट् । चतुःषष्ट तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।

चतुःषष्टिकला स्त्री चतुःषष्टिमिता कला । उपविद्याभेदे

ताश्च कलाशब्दे श्रीधरधृतवाक्ये दर्शिताः । खिलशुक्र-
नीतिशास्त्रे तु २ अ० अन्यविधा उक्ता यथा
“पृथक् पृथक् तु विद्यानां लक्षणं संप्रकाशितम् ।
कलानां न पृथग् लक्ष्म नाम चास्तीह केवलम् । पृथक्
पृथक् क्रिया चात्र कलाभेदस्तु जायते । यां यां
कलां समाश्रिता, तन्नाम्रा जातिरुच्यते । हावभावादि
संयुक्तं नर्त्तनं १ च कला स्मृता । अनेकवाद्यविकृतौ
ज्ञानं तद्वादने २ कला । वस्त्रालङ्कारसंधानं ३ स्त्रीयूनोश्च
कला मता । अनेकरूपाविर्भावकृतिज्ञानं ४ कला
स्मृता । शय्यास्तरणसंयोगे पुष्पादिग्रथनं ५ कला ।
द्यूताद्यनेकक्रीड़ाभिरञ्जनं ६ तु कला स्मृता । अनेकासन
संधाने रतिज्ञानं ७ कला स्मृता । कलासप्तकमेतद्धि
गान्धर्वे समुदाहृतम् । मकरन्दासवादीनां मद्यादीनां
कृतिः ८ कला । गुह्यशल्यहृतौ ज्ञाने सिरा-
व्रणव्यधः ९ कला । हीनादिरससंयोगे ऽन्नादिसंपाचनं
१० कला । वृक्षादिप्रसवारोपपालनादिकृतिः ११ कला ।
पाषाणधात्वादिद्रु तिस्तम्भस्य करणं १२ कला ।
यावदिक्षुविकाराणां कृतिज्ञानं १३ कला स्मृता । धात्वो-
षधीनां संयोगक्रियाज्ञानं १४ कला स्मृता । धातु-
साङ्कर्य्यपार्थक्यकरणं १५ तृ कला स्मृता । संयोग-
पूर्वविज्ञानं १६ धात्वादीनां कला स्मृता । द्वारनिष्कासन
ज्ञानं १७ कलासंज्ञं तु तत् स्मृतम् । कलादशकमेतत्तु ह्या
युर्वेदागमेषु च । शस्त्रसन्धानविक्षेपः १८ पदादिन्या-
सतः कला । सन्ध्याधाताकृष्टिभेदैर्मल्लयुद्धं ११
कलास्मृता । कलाऽभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनम्
२० । वाद्यसंकेततोव्यूहरचनादि २१ कला स्मृता ।
गजाश्वरथगुप्त्या तु युद्धसंयोजनं २२ कला । कला
पञ्चकमेतद्धि धनुर्वेदागसस्थितम् । विविधासनमुद्रा-
भिर्देवतातोषणं २३ कला । सारथ्यञ्च गजाश्वादेर्गति-
शिक्षा २४ कला स्मृता । मृत्तिकाकाष्ठपाषाणधातु-
भाण्डादिसत्क्रिया २५ । २६ । २७ । २८ । पृथक् कला
चतुष्कं तु चित्रीद्याने खनिः २९ कला । तडागवापी-
प्रासादसमभूमिक्रिया ३० कला । घट्याद्यनेकयन्त्राणां
बाणाद्यानां कृतिः ३१ कला । हीनमध्यादिसंयोग
वर्णादेरञ्जनं ३२ कला । जलवाय्वग्निसंयोगनिरो-
धादिक्रिया ३३ कला । नौकारथादियानानां कृतिज्ञानं
३४ कला स्मृता! सूत्रादिरज्जुकरणे विज्ञानं ३५ तु
कला स्मृता । अनेकतन्तुसंयोगैः पटबन्धः ३६
कलास्मृता । वेधादिसदसज्ज्ञानं ३७ रत्नानां तु कला स्मृता ।
स्वर्ण्णादीनां तु याथात्म्यविज्ञानं ३८ च कला स्मृता ।
कृत्रिमस्वर्ण्णरत्नादिक्रियाज्ञानं ३८ कला स्मृता ।
स्वर्णाद्यलङ्कारकृतिः ३९ कला लेपादिसत्कृतिः ४० ।
मार्द्दवादिक्रियाज्ञानं ४१ चर्म्मणां तु कला मता ।
पशुचर्म्माङ्गनिर्हारक्रियाज्ञानं ४२ कला स्मृता ।
दुग्धदोहादिविज्ञानं ४३ घृतान्तं तु कला स्मृता ।
सीवने कञ्चुकादीनां विज्ञानं ४४ तु कला स्मृता ।
बाह्वादिभिश्च तरणं ४५ कलासंज्ञं जले स्मृतम् ।
मार्जने गृहभाण्डादेर्विज्ञानं ४६ तु कला मता । वस्त्र
सम्मार्जनं ४७ चैव क्षुरकर्म्म ४८ कले ह्युभे । तिलमां-
सादिस्नेहानां कला निष्कासनं ४९ मता । सीराद्या-
कर्षणे ज्ञानं ५० वृक्षद्यारोहणे ५१ कला । मनोऽ-
नुकूलसेवायाः कृतिज्ञानं ५२ कला मता । वेणुतृणादि
पात्राणां कृतिज्ञानं ५३ कला मता । काचपात्रादि
करणविज्ञानं ५४ तु कला मता । संसेचनं ५५ संहर-
णं ५६ जलानां तु कला स्मृता । लोहाभिसारशस्त्रास्त्र-
कृतिज्ञानं ५७ कला मता । गजाश्ववृषभोष्ट्राणां
पल्यानादिक्रिया ५८ कला । शिशोः संरक्षणे ज्ञानं ५९
धारणे ६० क्रीड़ने ६१ तथा । सुयुक्तताडनज्ञान ६२
मपराधिजने तथा । नानादेशीयवर्ण्णानां सुसम्यग्-
लेखनं ६३ कला । ताम्बूलरक्षादिकृतिविज्ञानं ६४
तु कला स्मृता । आदाने आशुकारित्वं प्रतिदाने-
चिरक्रिया । कलासु द्वौ गुणौ ज्ञेयौ सर्व्वास्वेतौ
मनीषिभिः । चतुःषष्टिः कलाह्येताः संक्षेपेण निदर्शिताः ।
यां यां कलामाश्रितोयस्तांतां कुर्य्यात् स एव हि” ।
“चतुःषष्टिकलाविद्या ईश्वरीप्रीतिवर्द्धनम्” गायत्रीकव-
चम् । वा रस्य विसर्गषत्वे चतुष्षष्टिकलाप्यत्र

चतुःसप्तति स्त्री चतुरधिका सप्ततिः । (चौहत्तर) १ चतुर-

धिकसप्ततिसंख्यायां २ तत्संख्यान्विते च ततः पूरणे
डट् । चतुःसप्त त तत्पूरणे त्रि० स्त्रियां ङीप् । वा
रस्य विसर्गसत्वम् ।
पृष्ठ २८६३

चतुःसम न० चत्वारि समानि यत्र । “लवङ्गं जीरकं पथ्या

यमानी च चतुःसमम्” वैद्यकोक्ते लवङ्गादिचतुर्द्रव्यात्यके
औषधभेदे, शब्दार्थचि० वैद्यके तद्गुणा उक्ता यथा
“लवङ्गं जीरकं पथ्या यमानी च चतुः समम् ।
आमशूलविवन्धध्नं पाचनं भेदि शोषनुत्” । “कस्तूरिकाया
द्वौ भागौ चत्वारश्चन्दनस्य तु । कुङ्गुमस्य त्रयश्चैव
शशिनश्च चतुःसमम्” इत्युक्तेषु २ मिलितेषु तत्तत्परि-
माणान्वितकस्तूरीचन्दनकुङ्गुमकर्पूरेषु च । वा रस्य
विसर्गसत्वे चतुस्मममप्य भयत्र ।

चतुर् त्रि० ब० व० चत--उरन् । १ चतुःसंख्यायाम्, २ चतुः-

संख्यान्विते च । “चत्वारोवयमृत्विजः स भगवान्
कर्म्मोपदेष्टा हरिः” वेणी० । स्त्रियां गौणे मुख्ये च
चतस्रादेशः । “तासामाद्याश्चतस्रस्तु निन्दितैकादशी
च या” मनुः । प्रियचतसा अतिचतसा । नञा सुना
विना च समासे बहु० अच् समा० । अचतुरः
सुचतुरः विचतुरः । अव्यंयीभावे टच् समा० उपचतुरम् ।
अयववे तयप् चतुष्टय । चतुःसंख्यायां तदन्वित च त्रि०
स्त्रियां ङीप् “चरितार्था चतुष्टयी” कुमा० । “ततोवारे
सुच् “रात्सस्य” पा० सलीपे । चतुर् २ चतुर्वारे अव्य० ।
तत्रार्थे चतुस् इति शब्दकल्पनं प्रामादिकम् । “चतुर-
वत्तः कात्या० श्रौ० । “चतुर्नमो अष्टकृत्वो भवाय”
अथ० ११ । २ । ९ । “चतुरुपह्वयते” तै० स० २ । ६ । ७ । ३ ।
चतुष्टयार्थे च “गूढ़मैथुनधर्म्मं च काले काले च संग्र-
हम् । अप्रमादमनालस्यं चतुः शिक्षेत वायसात्” इति
चाणक्यः ।

चतुर पु० चत--उरच् । १ वक्रगतौ २ हस्तिशालायाञ्च हेमच० ।

३ कार्य्यदक्षे ४ आलस्यहीने ५ निपुणे च त्रि० । ६ नायकभेदे
पु० तल्लक्षणं रसमञ्जर्य्याम् “वाक्चेष्टाव्यङ्ग्यसमागमश्चतुरः ।
तत्र वचनव्यङ्गसमागमो यथा “तमोजटाले हारेदन्त-
राले काले निशायास्तव निर्गतायाः । तटे नदीनां
निकटे वनानां घटेत शातोदरि! कः सहायः” । चेष्टा
व्यङ्ग्यसमागमो यथा “कान्ते कनकजम्बीरं करे
कमपि कुर्व्वति । अपारनिश्चले भानौ विन्दुमिन्दु
मुखी ददौ” । तां बीक्ष्य लीलाचतुरामनङ्गः “तव प्रियं
यश्चतुरावलोकिनः” कुमा० । “न पुनरैति गतं चतुरं
वयः” । “मृगया जहार चतुरेव कामिनी” रघुः ।
चतुर् + अर्श० अच् । ६ चतुर्विशिष्टे त्रि० ।

चतुरंशा स्त्री वर्णवृत्तभेदे “द्विजवरकर्णा विहरसवर्णा

भवति यदा सा किल चतुरंशा” छन्दोग्र० ।

चतुरक्रम पु० “द्रुतद्वन्द्वं प्लुतद्वन्द्बं तथा प्रान्ते गुरुर्भवेत् ।

द्वात्रिंशदक्षरैर्युक्तः शृङ्गारे चतुरक्रमः” इति संगी० दा०
उक्ते रूपकभेदे ।

चतुरङ्ग न० चत्वारि अङ्गानि यस्य । १ हस्त्यश्वरथपदातिरूपा-

ङ्गचतुष्टययुते सैन्ये । “प्रयातेऽस्मिन्नरव्याघ्र! बलेन
महतावृतः । कॢप्तेन चतुरङ्गेण यत्तेन जितकासिना”
भा० व० २० अ० । रक्तहरितपीतश्यामलरूपाणि चत्वारि
बलस्वरूपाणि क्रीड़ासधनान्यङ्गान्यस्य । (चतूराजी)
२ क्रीड़ाभेदे । तत्क्रीड़ाप्रकारः ति० त० व्यासयुधिष्ठिरसंवादे
“युधिष्ठिर उवाच । अष्टकोष्ठ्याञ्च या क्रीड़ा तां मे
व्रूहि तपोधन! । प्रकर्षेणेव मे नाथ! चतुराजी यथा
भवेत् । व्यास उवाच । अष्टौ कोष्ठान् समालिख्य
प्रदक्षिणक्रमेण तु । अरुणं पूर्वतः कृत्वा दक्षिणे हरितं
बलम् । पार्थ! पश्चिमतः पोतमुत्तरे श्यामलं बलम् ।
राज्ञोवामे गजं कुर्य्यात् तस्मादश्वं ततस्तरिम् । कुर्य्यात्
कौन्तेय! पुरतो युद्धे पत्तिचतुष्टयम् । कोणे नौका-
द्वितीयेऽश्वस्तृतीये च गजोवसेत् । तुरीये च वसेद्राजा-
वटिकाः पुरतः स्थिताः । पञ्चकेन वटी राजा, चतुष्के-
णैव कुञ्जरः । त्रिकेणैव चलत्यश्वः पार्थ! नौका द्वयेन तु ।
कोष्ठमेकं विलङ्घ्याथ सर्वतोयाति भूपतिः । अग्रएव
वटी याति बलं हन्त्यग्रकोणगम् । यथेष्टं कुञ्जरोयाति
चतुर्दिक्षु महीपते! । तिर्य्यक् तुरङ्गमो याति लङ्घ-
यित्वा त्रिकोष्ठकम् । कोणकोष्ठद्वयं लङ्घ्य व्रजेन्नैका युधि-
ष्ठिर । सिंहासनं चतूराजी नृपाकृष्टञ्च षट्पदम् ।
काककाष्ठं वृहन्नौका नौकाकृष्टप्रकारकम् । धाताघाते वटीं
नौका बलं हन्ति युधिष्ठिर! । राजा गजोहयश्चापि
त्यक्त्वा घातम् निहन्ति च । अत्यन्तं स्वबलं रक्षेत् स्वराज
वलमुत्तमम् अल्पस्य रक्षया पार्थ! हन्तव्यं बलमुत्त-
मम्” । नौकायाश्चत्वारि पदानि अश्वस्याष्टौ पदानि इत्या-
धिक्यमश्वस्य । “मतङ्गजस्य गर्वेण राजा क्रीड़ति निर्भ-
रम् । तस्मात् सर्वबलं दत्त्वा रक्ष कौन्तेय! कुञ्जरम् ।
सिंहासनं चतूराजी यदवस्थानतो भवेत् । सर्वसैन्यै-
र्गजैर्व्वापि रक्षितव्योमहीपतिः । अन्यराजपदे गत्वा
यदा धातो युधिष्ठिर । तदा सिंहासनं तस्य भण्यते
नृपसत्तम । राजा च नृपतिं हत्वा कुर्य्यात् सिंहासनं
यदा । द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत्” ।
द्विगुणं पणं दातव्यत्वेन प्रापयेत् । “मित्रसिंहासनं
पार्थ! यदारोहति भूपतिः । तदा सिंहासनं नाम सर्वं
नयति तद्बलम् । यदा सिंहासनं कर्त्तं राजा षह-
पृष्ठ २८६४
पदाश्रितः । तदा घातेऽपि हन्तव्यो बलेनापि सुरक्षितः ।
विद्यमाने नृपे यश्च स्वकीये च नृपत्रयम् । प्राप्नोति तु
यदा तस्य चतूराजी तदा भवेत् । नृपेणैव नृपं हत्वा
चतूराजी यदा भवेत् । द्विगुणं वाहयेत् पण्यमन्यथै-
कगुणं भवेत् । स्वपदस्थं यदा राजा राजानं हन्ति
पार्थिव! । चतुरङ्गे तदा भूप! बाहयेच्च चतुर्गुणम् ।
यदा सिंहासने काले चतूराजी समुत्थिता । चतूराजी
भवत्यत्र नतु सिंहासनं नृप!” । अत्रेदं वीजम् उभयथा
जयेऽपि परसिंहासनाधिकारात् परराजबधे शौर्य्या
धिक्यनिष्कण्टकत्वदर्शनात् क्रीड़ायामपि तथा कल्प्यते ।
“राजद्वयं यदा हस्ते आत्मनोराज्ञि संस्थिते । परेण
संहृतश्चैको बलेनाप्यपहार्य्यते । राजद्वयं यदा हस्ते
न स्यादन्यकरे परः । तदा राजा हि राजानं घातेऽपि तं
हनिष्यति । नृपाकृष्टो यदा राजा गमिष्यति युधि-
ष्ठिर! । घाताघाते पि हन्तव्यो राजा तत्र न रक्षकः ।
कोणे राजपदं त्यक्त्वा वटिकान्तं यदा व्रजेत् । वटी च
षटपदं नाम तदा कोष्ठबलं नयेत् । यदा तस्य भवेत्
पार्थ! चतूराजी च षट्पदम् । तदापि च चतूराजी
भवत्येव न संशयः । पदातेः षट्पदे विद्धे राज्ञा वा
हस्तिना तथा । षट्पदं न भवेत्तस्य अवश्यं शृणु
पार्थिव! । सप्तमे कीष्ठके यत् स्याद्वटिका दशमेन वै ।
तदान्योन्यञ्च हन्तव्यं सुखाय दुर्बलं बलम् । त्रिवटीकस्य
कौन्तेय! पुरुषस्य कदाचन । षट्पदं न भवत्येव इति
गोतमभाषितम् । नौकैका वटिका वस्य विद्यते खेलने
यदि । गाढ़ावटीति विख्याता पदं तस्य न दुष्यति” ।
पदं राजपदं कोणपदञ्च । “हस्ते रङ्गे बलं नास्ति
काककाष्ठं तदा भवेत् । वदन्ति राक्ष{साः? सर्वे तस्य शस्तौ
जयाजयौ । प्रोत्थिते पञ्चमे राज्ञि मृते वट्याञ्च
षट्पदे । अशौचं स्यात्तदा हन्ति चलित्वा चालितं बलम् ।
द्विरावृत्त्यागते तस्मात् हन्यात् परबलं जयी । पार्थ!
सिंहासने काले काककाष्ठं यदा भवेत् । सिंहासनं
भवत्येव काककाष्ठं न भण्यते । उपरिष्ठाच्च
यत्स्थानं तस्योप्ररि चतुष्टये । नौकाचतुष्टयं यत्र
क्रियते तस्य नौकया । नौकाचतुष्टयं तस्य वृहन्नौ-
केति भण्यते । न कुर्य्यादेकदा राजन्! गजस्याभिमुखं
गजम् । यदि कुर्वीत धर्म्मज्ञः पापग्रस्तो भविष्यति ।
स्थानाभावे यदा पार्थ! हस्तिनं हस्तिसंमुखम् ।
करिष्यति तदा राजन्! इति गोतमभाषितम् । प्राप्ते
गजद्वये राजन् । हन्तव्योवामतोगजः” । इति
चतुरङ्गक्रीड़नम् ।

चतुरङ्गिन् त्रि० चत्वारि अङ्गानि हस्त्यश्वरथपदातयः

भूम्ना सन्त्यस्य इनि । बाहुल्येन हस्त्यश्वादिसेनाङ्ग
चतुष्टययुक्ते । “चालयन् वसुधां चेमां बलेन चतुरङ्गि-
णा” भा० आ० ९४ अ० । स्त्रियां ङीप् । “प्रेषयिष्ये
तवार्थाय वाहिनीं चतुरङ्गिणीम्” ७३ अ० ।

चतुरङ्गुला स्त्री चतस्रोऽङ्गुलयः प्रमाणमस्य पर्व्वणः

अच्समा० । १ आरग्बधे (सोन्दाल) । अमरः । २ चतुरङ्गुल-
मिते त्रि० । “स चतुरङ्गुलमेवोभयतोऽन्तत उपगूहति”
शत० ब्रा० १० । २ । २ । १ । “तच्छाखाश्च समा दीर्घाः प्रादे-
शाश्चतुरङ्गुलाः” श्रा० त० छन्दोप० ।

चतुरम्ल न० चतुर्णामम्लवृक्षाणां समाहारः पात्रा० न

स्त्रीत्वम् । “अम्लवेतसंवृक्षाम्लवृहज्जम्बीरनिम्बुकैः ।
चतुरम्लं हि, पञ्चाम्लं वीजपूरयुतं भवेत्” भावप्र०
उक्ते अम्लवेतसादिचतुष्के ।

चतुरशीति स्त्री चतुरधिका अशीतिः । (चौराशी)

१ चतुरधिकाशीतिसंख्यायां २ तत्संख्यान्विते च । पूरणे
उट् । चतुरशीत तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।

चतुरश्र त्रि० चतस्रोऽश्रयः कोणा अस्य नि० अच् । १

चतुष्कोणे पा० तालव्यमध्यस्यैव निपातनम् । दन्तमध्यत्वे
चतुरस्रिरित्येव स्यात् । अस्य दन्त्यमध्यत्वं शब्दकल्पद्रु-
मोक्तं चिन्त्यम् सुप्रातसुश्वेति” पा० ५ । ४ । १ सू०
तालमध्यस्यैव ग्रहणात् “चतुरश्रं त्रिकोणं वा वर्त्तुलं
चार्द्धचन्द्रकम् । कर्त्तव्यमानुपूर्ब्बेण ब्राह्मणादिषु मण्ड-
लम्” वौधा० । २ ब्रह्मसन्ताने केतुभेदे पु० “चतुरश्रा,
ब्रह्मसन्तानाः” वृ० सं० ११ अ० । केतुशब्दे दृश्यम् । ३ अन्यू-
नानतिरिक्ते त्रि० । “बभूव तस्याश्चतुरश्रशोभि” कुमा० ।
“चतस्रोऽश्रयोऽस्य तच्चतुरश्रमन्यूनानतिरिक्तम्” मल्लि० ।

चतुरात्मन् पु० चतुरं निपुणम् आत्मा मनोऽस्य चत्वारोबु-

द्ध्यादय आत्मानोयस्य, चतस्रोविभूतय आत्मानोऽस्य वा ।
परमेश्वरे विष्णौ । “चतुरात्मा चतुर्व्यूहः” “चतु-
रात्मा चतुर्भावश्चतुर्वेदविदेकपाद्” इति च विष्णुस० ।
“रागद्वेषादिरहितत्वाच्चतुरं मनोऽस्येति मनोबुद्धि-
रहङ्कारश्चित्तं चतुष्टयमात्मा अस्येति वा चतुरात्मा ।
“ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः । विभूततो
हरेरेता जगतः सृष्टिहेतवः । विष्णुर्मन्वादयः कालः
सर्वभूतामि च द्विज! । स्थितेर्निमित्तभूतस्य विष्णोरेला
पृष्ठ २८६५
विभूतयः । रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः ।
चतुर्धा प्रलयायैता जनार्दनविभूतयः” विष्णुपु० ।
उभयविधव्युतपत्त्या द्विधानामकत्वात् विष्णुस० द्विरुक्तिः

चतुरानन पु० चत्वारि आननान्यस्य । चतुर्मुखे वेधसि

अमरः । “तस्यां स चाम्भोरुहकर्णिकायामवस्थितो
लोकमपश्यमानः । परिक्रमन् व्योम्नि विवृत्तनेत्रश्च-
त्वारि लेभेऽनुदिशं मुखानि” भाग० ३ । ८ । १८ । उक्तेस्तस्य
तथात्वम् । “इतरतापशतानि यथेच्छया वितर तानि
सहे चतुरानन!” उद्भटः

चतुराश्रम न० चतुर्णामाश्रमाणां समाहारः । “चत्वार-

आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः”
वसिष्ठोक्तेषु ब्रह्मचार्य्यादिषु । तेषां विशेषधर्म्मास्तत्तच्छब्दे
दृश्याः । तेषां साषारणधर्म्मा मनुनोक्ता यथा
“चतुर्भिरपि चैवैतैर्निंत्यमाश्रमिभिर्द्विजैः । दशलक्षणको-
धर्म्मः सेवितव्यः प्रयत्नतः । धृतिः क्षमा दमोऽस्तेयं
शौचमिन्द्रियनिग्रहः! धीर्विद्या सत्यमक्रोधो दशकं
धर्म्मलक्षणम् । दश लक्षणानि धर्म्मस्य ये विप्राः
समधीयते । अधीत्य चानुवर्त्तन्ते ते यान्ति परमाङ्गतिम् ।
दशलक्षणकं धर्म्ममनुतिष्ठन् समाहितः । वेदान्तं
विधिवच्छ्रुत्वा संन्यसेदनृणोद्विजः” ।
तस्य भावः ष्यञ्, स्वार्थे वा ष्यञ् । चातुराश्रन्य तद्धर्म्मे
चतुर्ष्वाश्रमेषु च न० । “चातुराश्रम्यधर्म्माश्च वेदधर्म्माश्च
पार्थिवः” भा० शा० ६५ अ० ।

चतुरूषण न० चतुर्णामूषणानां समाहारः । पिप्पलीमूल

सहिते शुण्ठीपिप्पलीमरिचरूपे त्रिकटौ । “त्र्यू-
षणं सकणामूलं कथितं चतुरूषणम् । व्योषस्येव गुणाः
प्रोक्ता अधिकाश्चतुरूषणे” भावप्र० ।

चतुर्गति स्त्री चतुर्णां वर्णाश्रमाणां यथोक्तकारिणां गतिः ।

१ परमेश्वरे । “चतुर्मूर्त्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः”
विष्णुसं० । चतुर्भिर्गतिरस्य । २ कच्छपे पु० स्त्री हेमच० ।

चतुर्जातक न० चतुर्णां जातकानां सुरन्दराणां सुरमीणां

समाहारः । त्वगेलापत्रकनागकेशरेषु तदुपक्रम्य “एतच्च
रोचनं रूक्षं तीक्षोष्णं मुखगन्धहृत् । लघु पित्ताग्नि-
कृद्वर्ण्यं कफवातविषापहम्” भावप्र० । “त्रिकटु
चतुर्जातककुस्तुम्बुरुमिश्रं खादेत्” सुश्रुतः ।

चतुर्ण्ण(न)वति स्त्री चतुर्भिरविका नवतिः पूर्ब्बपदाद् वा

णत्वम् । (चौरानव्वुइ) १ चतुरधिकनवतिसंख्यायां
२ तत्संख्येये च । चतुर्ण(न)वत्यधिकानि त्रीणि शतानि”
कात्या० श्रौ० १६ । ८ । २३ । पूरणे डट् । चतुर्ण(न)वत
तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।

चतुर्थ त्रि० चतुर्णां पूरणः डट् थुक् च । चतुःसंख्या

पूरणे स्त्रियां ङीप् सा च चन्द्रस्य २ चतुर्थकलायाः
ह्रासवृद्धिरूपायां तिथौ” चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः
कदाचन” ति० त० पुरा० । ३ व्याकरणपरिभाषिते ङे
भ्याम्भ्यस्रूपे विभक्तिभेदे “सम्प्रदाने चतुर्थी” पा०
“धृतिहोमे न प्रयुञ्ज्यात् गोनामसु तथाष्टसु” छन्दोगप० ।
चतुर्थीमिति शेषः शुक्लकृष्णपक्षयोश्चतुर्थ्या उभयदिनप्राप्तौ
कस्या ग्राह्यता तन्निर्ण्णयः कालमा० चतुर्थीप्र० यथा
“अथ चतुर्थी निर्णीयते । सा च युग्मवाक्यात्
परविद्धा पूज्या । न च शुक्लपक्षे तथात्वेऽपि कृष्णपक्षे
पूर्वैव स्यादिति शङ्कनीयम् युग्मवाक्यस्य पक्षद्वयसाधा-
रणत्वात् । “चतुर्दश्या च पूर्णिमेत्येतच्छुक्लपक्षविषयत्वे
लिङ्गमिति चेत् तस्यैकस्य युग्मस्य शुक्लपक्षविषयत्वेऽपि
“प्रतिपदाप्यमावास्या” इत्यनेन पक्षद्वयस्पर्शिना युग्मेन
साहचर्यादितरेषामपि पक्षद्वयस्पर्शित्वं किं न स्यात् ।
एवं तर्हि साहचर्ययोर्द्वयोरपि परस्परकलहादनिर्णय
इति चेत् न कारणान्तरेण निर्ण्णेतव्यत्वात् । तर्हि
चतुर्दशीपूर्णिमायुग्ममेकपक्षवर्त्तितिथिद्वयात्मकत्वात् द्वि-
तीयादियुग्मैः सदृशं प्रतिपदाभावास्यायुग्मन्तु
भिन्नपक्षद्वयवर्तितिथिद्वयरूपत्वाद्विलक्षणम् । अतः
पूर्णिमायुग्मसाहचर्य्येणैव निर्ण्णय इति चेन्मैवम्
श्रुत्या साहचर्य्यस्य बाध्यमानत्वात् । द्वितीयादिशब्दो
मुख्यया वृत्त्या पक्षद्वयवर्त्तिनस्तिथीन् ब्रूते । सोऽयं श्रुति
लिङ्गादिषु षट्सु प्रथमं प्रमाणं साहचर्य्यन्तु सन्निधिः ।
स च स्थानावान्तरभेदत्वात्पञ्चमं प्रमाणम् । तच्च प्रथमा-
दत्यन्तदुर्बलं सोऽयमर्थः पूर्वमीमांसायां तृतीयाध्याये
श्रुतिलिङ्गादिसूत्रे महता प्रबन्धेन प्रपञ्चितः जै० सूत्र-
ञ्चैतत् “श्रुतिलिङ्गबाक्यप्रकरणस्थानसमाख्यानां समवाये
पारदौर्बल्यमर्थविप्रकर्षादिति” । इममेव च श्रुतिसन्नि-
ध्योर्विरोधमुद्दिश्योत्तरमीमांसायां गुणोपसंहारे विचा-
रितम् । तथा हि ताण्डिशाखायां श्रूयते “ओमि-
त्येतदक्षरमुद्गीथमुपासीतेति” । अस्यायमर्थः । पञ्चभक्ति-
युक्तस्य साम्न उद्गीथाख्या भक्तिः कश्चिदवयवः तञ्चावयव-
मुद्गाता यागकाले गायति । गीयमानं तमुद्गीथं सएवो-
द्गाता ताण्डिशाखागतोपनिंषद्विहितैरनेकैर्गुणैरुपासी-
तेति ते च गुणास्ताण्डिशाखायामेव विहिताः । उद्गी-
पृष्ठ २८६६
थभक्तिस्तु ताण्डिशार्दूलजैभिनीयतलवकारादिषु सर्वासु
सामशाखासु पठिता । तत्र यदिदन्ताण्डिशाखोक्तगुणा-
नामुपासनं तत्किन्ताण्डिशाखागत एवोद्गीथविशेषे
अवतिष्ठते किं वा सर्वशाखागत उद्गीथसामान्ये सञ्चरतीति
संशयः । तत्र सन्निधिवशादुद्गीयविशेषेऽवतिष्ठत इति
पूर्व्वः पक्षः । उद्गीथशब्दो मुख्यया वृत्त्योद्गीथसामान्यं
व्रूते । न च सन्निधिना पञ्चमप्रमाणेन प्रथमप्रमाणस्य
श्रुतेः सङ्कोचोयुक्तः । तस्मादुपासनमुद्गीथसामान्ये संचर-
तीति राद्धान्तः । अनेन न्यायेन प्रकृतेऽपि साहचर्य्याख्येन
सन्निधिना द्वितीयादिश्रुतेः सङ्कीचायोगाद्युग्मादि
शास्त्रं पक्षद्वयविषयं द्रष्टव्यम् । यदि चतुर्दशीपूर्णि-
मयोः कृष्णपक्षविषयत्वं न सम्भाव्यते तर्हि तत्रैकत्र
शुक्लपक्षविषयत्वमस्तु । तथा प्रतिपद्युग्ममपि गत्यन्तरा-
भावात्पक्षद्वयसम्बन्धिविषयम् एवं व्यवस्थितौ सत्यां युग्म-
शास्त्रेण पक्षद्वयेऽपि चतुर्थी परविद्धैव प्राप्नोति । ननु
वचनान्तरेण चतुर्थीद्वयस्य व्यवस्था प्रतीयते । तथा च
मार्कण्डेयपुराणे “शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्यु-
दितोरविः । कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितोरवि-
रिति” । अत्र च वक्तव्यं किमिदं शुक्लादिवाक्यं युग्मा-
दिशास्त्रनियमद्वारा एकवाक्यतया तिथीनां व्यवस्थाप-
कमुत स्वातन्त्र्येण । यदि नियमद्वारा तर्हि युग्माग्नी-
त्यादियुग्मे पूर्व्वतिथीनामुत्तरविद्धानाम्पूज्यत्वेन “शुक्ल-
पक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः” इत्येतत्पूर्वा-
र्द्धमविरोधि उत्तरार्द्धन्तु विरोधि । तथा तेष्वेव युग्मेषु
चरमतिथीनां पूर्व्वविद्धानां पूज्यत्वेन “कृष्णपक्षे तिथि-
र्ग्राह्या यस्यामस्तमितोरविः” इत्युत्तरार्द्धमविरोधि ।
पूर्व्वार्द्धन्तु विरोधि । तथा दर्शप्रतिपद्युग्मे कृष्ण-
पक्षगतस्य दर्शस्योदये पूज्यत्वं शुक्लपक्षगतायाः प्रतिपदो-
ऽस्तमये पूज्यत्वं तथा सति तत्रोभयत्र विरोधः स्पुट-
तरः । तस्मान्न युग्मादिशास्त्रमनेन नियन्तुं शक्यम् ।
नापि स्वातन्त्र्येण तिथीनां व्यवस्थापकम् तत्र
युग्मादिशास्त्रविरोधस्यापरिहार्य्यत्वात् । अविरोधेन
तु शुक्लादिवाक्यस्य दशम्यादिविषयत्वम्प्रतिषत्प्रकरणे
प्रसङ्गादुदाहृतम् । तस्माच्छुक्लकृष्णयोरपि पक्षयोर्युग्मा-
दिशास्त्राच्चतुर्थी परविद्धा ग्राह्या । वृहद्वसिष्ठोऽपि
“पकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याः
पसंयुक्ताः पराः पूर्व्वेण संयुताः” इति । ननु परवि-
द्धोपवासुः क्वचित् प्रतिपिध्यते । “द्वितीया पञ्चमी वेधा-
द्दशमी च त्रयोदशी । चतुर्द्दशी चोपवासे हन्युः पूर्व्वो-
त्तरे तिथी” इति । अयमर्थः । पञ्चमी वेधेन पूर्व्वाञ्चतु-
र्थीन्तिथिमुत्तराञ्च षष्ठीं तियिमुपवासविषये हन्तिं अतः
पञ्चमीविद्धायां चतुर्थ्यान्नोपवास इति । नैषदोषः
व्रतभेदेन व्यवस्थोपपत्तेः सन्ति हि चतुर्थ्याम्भिन्नदेवता
विषयाणि बहूनि व्रतानि । तत्र विष्णुधर्म्मोत्तरप्रोक्ते
चतुर्मूर्तिव्रते मूर्तिचतुष्टयोपेतो विष्णुर्देवता । स्कन्द-
पुराणोक्ते अङ्गारकचतुर्थीव्रते भौमो देवता कूर्म्म-
पुराणोक्ते यमब्रते यमोदेवता । सौरपुराणादिप्रोक्तेषु
दूर्वागणपत्यादिव्रतेषु विनायको देवता कूर्म्मपुराण
प्रोक्ते नागचतुर्थीव्रते शेषशङ्खपालादवः सर्पादेवता-
स्तत्र विनायकनागव्यतिरिक्तानां व्रते परेद्युरुपवासः
प्राप्त्नोति तादृशे विषये पञ्चमीवेधनिषेधो व्यवस्थाप-
नीयः! तथा पूर्व्वविद्धाप्रशंसा च तस्मिन्नेव विषये
द्रष्टव्या । अतएव व्रह्मवैवर्त्ते पूर्व्वोत्तरविद्धयोर्विधि
निषेधौ स्मर्य्येते “चतुर्थीसंयुता कार्या तृतीया, च
चतुर्थिका । तृतीयया युता, नैव पञ्चम्या कारयेत्क्वचि-
दिति” । तथा तत्रैव पूर्व्वविद्धा प्रशश्यते “चतुर्थी-
संयुता या च सा तृतीया फलप्रदा । चतुर्थी तु तृतीया
या महापुण्यफलप्रदेति” । तस्याश्च विनायकव्रतविप
यत्वं तत्रैव सूचितम् “कर्त्तव्या व्रतिभिर्वत्स! गणनाथ-
सुतोषणीति” स्कन्दपुराणेऽपि “विनायकव्रते कार्य्या
सर्वमासेषु षण्मुख! । चतुर्थी तु जयायुक्ता गणनाथ-
सुतोषणीति” । विनायकव्रतानुष्ठाने चतुर्य्या मध्याह्न
व्यापित्वं मुख्यं प्रयोजकम् । तदाह बृहस्पतिः “चतु-
र्थी गणनाथस्य मातृविद्धा प्रशस्यते । मध्याह्नव्यापिनी-
चेत् स्यात्परतश्चेत्परेऽहनीति” । (विनायकस्य माता
दुर्गातत्तिथिस्तृतीया तया विद्धा) यदा पूर्वेद्युर्मध्याह्नव्या-
पिनी भवति तदा मुख्यप्रयोजकस्य विद्यमानत्वा-
न्मातृविद्धत्वगुणसद्भावाच्च सा ग्राह्या तादृशे विषये
परेद्युः सत्या अपि मध्याह्नव्यापिन्यास्त्याज्यता । अत
एव प्रशस्यत इत्युक्तम् । परेद्युरेव यदा मध्याह्रव्या-
पिनी तदा मातृविद्धत्वगुणाभावेऽपि प्रधानप्रयोजकानु-
सारेण परथिद्धैव ग्राह्या । तथा च स्मृत्यन्तरम्
“मातृविद्धा प्रशस्ता स्याच्चतुर्थी गणनायके । मध्याह्नेऽ
परतश्चेत् स्यान्नागविद्धा प्रशस्यते” इति । ननु बहुषु वचनेषु
पूर्वविद्धाया गणनाथसन्तोषकत्वमुक्तम् । अतः पूर्ववि-
द्धत्वस्यैव मुख्यप्रयोजकता युक्ता । मैवम् । मध्याह्न
पृष्ठ २८६७
प्यापित्वस्यैवं वैयर्थ्यप्रसङ्गात् । अवश्यं हि
तदामध्याह्नव्यापित्वं प्रसङ्गाद्भवति । अतस्तद्विधानं व्यर्थं
व्यावर्त्याभावात् । अथोच्येत पक्षान्तरेऽप्यनेकवचन
विहितस्य पूर्व्वविद्धत्वस्य वैयर्थ्यन्तदवस्थम् मध्याह्न
व्यापित्वेनैव तन्निर्णयादिति तन्न यदा तिथिक्षय
वशादुभयत्र मध्याह्नव्याप्तिर्नास्ति यदा चोभयत्र कृत्-
स्नमध्याह्नव्यापित्वं तदेकदेशव्यापित्वं वा समानन्तत्र
सर्वत्र मध्याह्नव्याप्त्या निर्णयाभावे सति पूर्वविद्धत्वेनैव
निर्णेतव्यत्वात् । एवं तर्हि सावकाशनिरवकाशयो
र्निरवकाशभ्बलीय इति न्यायेन मध्याह्नव्यापित्वस्य
निरवकाशतया प्राबल्यमित्येव वक्तव्यन्नतु मुख्यतयेति
चेत् । मुख्यत्वस्यापि सम्भवात् तिथिनिर्णये कर्म-
कालव्याप्तिशास्त्रस्य मुख्यत्वञ्चास्य प्रकरणस्य प्रारम्भे
दर्शितम् । कर्मकालश्च विनायकव्रतस्य मध्याह्नः ।
“प्रातःशुक्लतिलैः स्नात्वा मध्याह्ने पूजयेन्नृपेति” तत्कल्पे
विधानात् । अतोमुख्यत्वादपि मध्याह्नव्यापित्वं प्रवल-
मिति । ननु कस्याञ्चित्स्मृतौ पूर्वविद्धत्वेन भध्याह्न
व्यापित्वबाध उपलभ्यते । “जया च यदि सम्पूर्णा चतुर्थी
ह्रसते यदि । जया सैव हि कर्त्तव्या नागविद्धान्न कारये
दिति” स्मरणात् । मैवम् । अस्य वचनस्य दिनद्वये मध्याह्न
स्पर्शाभावविषयत्वेनाप्युपपत्तेः । तथाहि पूर्वदिने
विनायकव्रतप्रयोजके मध्याह्ने जया सम्पूर्णा, परेद्यु-
र्मुहूर्त्तत्रयक्षयवशान्मध्याह्नादर्वागेव चतुर्थी समाप्ता-
तदा दिनद्वये कर्मकाले ग्राह्यतिथेश्चतुर्थ्या अभावा
द्विनायकव्रते किन्दिनमुपादेयमिति वीक्षायां पूर्वदिनं
विधातुं परदिनं प्रतिषेधति । अथोच्येत । “जया च
यदि सम्पूर्णा” इत्यनेन कर्मकालरूपमध्याह्नसमाप्तिपर्य-
न्तत्वन्न विवक्षितम् किन्तर्ह्यस्तमयपर्यन्तत्वमिति । एवं
तर्हि पूर्वविद्धतैव नास्ति वेधिकायाः पूर्वतिथेः सम्पूर्णत्वे
सति वेध्यायाश्चतुर्थ्या अनवकाशत्वात् । अथ मा भूत्पू-
र्वविद्धत्वं तथापि मध्याह्नव्यापिन्यां जयायां विहि-
तायं परेद्युर्मध्याह्नव्यापित्वं बाध्यत इति चेत् । मैवम् ।
न खलूत्तरदिनहेयत्वे मध्याह्नव्यापित्वं कारणतयोपन्य-
स्यते किन्तु नागविद्धत्वम् । अतो नागविद्धत्वनिन्दायां
वचनस्य तात्पर्यम् न चतुर्थीरहितजयाविधाने । अन्यथा
चतुर्थीनिन्दायामपि तात्पर्यं प्रसज्येत । नच तद्युक्तम् ।
नहि वरधाताय कन्यामुद्वाहयन्ति । वचनच्छाया तु
कैमुतिकन्यायेनाभिलक्ष्यते यदिशब्दप्रयोगात् । यद्यपि
जया सम्पूर्णा तथापि नागविद्धा हेया । किमुत जया
युक्तायाञ्चतुर्थ्यां सम्भवन्त्यामितिहि वचनव्यक्तिः ।
मध्याह्नव्याप्तावियती भक्तिः कुतस्तवेति चेत् ।
चतुर्थीरहितायां शुद्धतृतीयायान्तवापि कुतो भक्तिरिति
समानः पर्यनुयोगः । वचनबलादित्युत्तरमस्माकमपि ।
वचनयोः परस्परकलहे पूर्वोक्ताभ्यां मुख्यत्वनिर-
वकाशत्वाभ्याम्मध्याह्नवचनमेवातिप्रबलं सिद्धिविना-
यकव्रते तस्य प्रतिपदोक्तत्वादपि प्रबलत्वम् ।
जयाबचनन्तु गौर्यादिव्रते चरितार्थम् । तच्च व्रतं भविष्यत्पु-
राणेऽभिहितम् “विनायकं समभ्यर्च्य चतुर्थ्यां यदुन-
न्दन! । सर्वविघ्नविनिर्मुक्तः कार्य्यसिद्धिमवाप्नुयात्”
इत्यभिधायानन्तरमिदं पठ्यते “निद्रां रतिं शिवां
भद्रां कीर्त्तिं मेधां सरस्वतीम् । प्रज्ञां तुष्टिं
तथाकान्तिं तत्रैवाहनि पूजयेत् । विद्याकामो विशेषेन
पूजयेच्च सरस्वतीमिति” । लिङ्गपुराणेऽपि “चतुर्थ्यान्तु
गणेशस्य गौर्य्याश्चैव विधानतः । पूजां कृत्वा लभेत्सिद्धिं
सौभाग्यञ्च नरः क्रमादिति” । नारदीयपुराणेऽपि
“माघशुश्लचतुर्थ्यान्तु गौरीमाराधवेद्धुधः । चतुर्थी
वरदा नाम गौरी तत्र सुपूजितेति” । अतो यथोक्तरीत्या
विनायकव्रते मध्याह्नव्यापित्वेनैव निर्णयः । गौरीब्रते
तु जयावचनन्द्रष्टव्यम् । तत्र यदा दिनद्वयेऽप्येतद्वैषम्ये
मध्याह्नैकदेशव्यापिनी तदा पूर्वदिने तन्महत्त्वञ्चेति
तदेवोपादेयम् । उत्तरदिने तन्महत्त्वे किम्महत्त्वगुणेन
तदुपादेयं? किं वा मातृविद्धत्वगुणेन पूर्वमुपादेयमिति?
संशये पूर्वमिति ब्रूमः । परस्य नागविद्धत्वदोषोपेतत्वात्
पूर्वस्य च तदभावात् । एतदेवाभिप्रेत्य स्कन्दपुराणे
पट्यते “ज्यैष्ठे च वंटसावित्री तथानङ्गत्रयोदशी ।
विनायकचतुर्थी च कर्त्तव्या संमुखी तिथिरिति” । विना-
यकव्रतवन्नागव्रतेऽपि चतुर्थी मध्याह्नव्यापिनी ग्राह्या ।
नागव्रतञ्च कूर्मपुराणे दर्शितम् । “तिथौ युगाह्वयायाञ्च
समुपोष्य यथाविधि । शङ्खपालादिनागानां शेषस्य च
महात्मनः । पूजा कार्या पुष्पगन्धक्षीराप्यायनपूर्वकम् ।
विषाणि तस्य नश्यन्ति नच तान् घ्नन्ति पन्नगाः” इति ।
युगाह्वया चतुर्थी । मध्याह्नव्यापित्वञ्च देवलेनोक्तम्
“युगमध्यन्दिने यत्र तत्रोपोष्य फणीश्चरान् । क्षीरेणा-
प्याय्य पञ्चम्यां पूजयेत्प्रयतोनरः । विषाणि तस्य नश्यन्ति
न तान् हिंसन्ति पन्नगाः” इति विनायकचतुर्थीनागचतु-
र्थ्योरियान्विशेषः । एकभक्तन्यायेन मध्याह्रव्याप्तेः षोढा-
पृष्ठ २८६८
भेदे सति यदा परेद्युरेव मध्याह्नव्याप्तिस्तदा विनायक
चतुर्थी परा । इतरेषु तु पञ्चसु भेदेषु जयायोगस्य
प्रशस्तत्वात् पूर्वेद्युरेव सा भवति । यदा तु पूर्वे-
द्युरेव मध्याह्नव्यापिनी तदा नागचतुर्थी पूर्वा । इतरेषु
तु पञ्चसु भेदेषु पञ्चमीयोगस्य प्रशस्तत्वात् उत्तरा-
भवति । तत्प्राशस्त्यञ्च पूजयेदिति वचनादवसीयते” ।

चतुर्थक पु० चतुर्थेऽह्नि भवोरोगः कन् । “दिनत्रयमतिक्रम्य

यः स्यात् सहि चतुर्थकः” इति वैद्यकोक्ते विषमज्वरभेदे ।

चतुर्थकाल पु० चतुर्थः कालःभोजनकालः । “मुनिभि-

र्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि
च तमस्विन्याम्” छन्दोपरिशिष्टेन दिने भोजनद्वयस्य
विधानेन तृतीयभोजनकालोत्तरे सार्द्धदिनात्मके भोजन-
काले । “चतुर्थकालमश्नीयादक्षारणवणं मितम्” मनुः ।

चतुर्थभक्त न० चतुर्थे चतुर्थकाले भक्तं यत्र । सार्द्धदि-

नात्मके भक्तकाले । “चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधी-
यते” भा० आनु० १०६ अ० ।

चतुर्थभाज् पु० चतुर्थमंशं धान्यादेः भजते कररूपेण

भजण्वि । आपदि चतुर्थभागरूपकरग्राहिणि नृपे! “चतु-
र्थमाददानोऽपि क्षत्रियोभागमापदि । प्रजाः रक्षन्
परं शक्त्या किल्विषात् प्रतिमुच्यते” मनुः । “चतुर्थभाङ्
महाराज । भोज इन्द्रसखो बली” भा० स० १६ अ० ।

चतुर्थांश पु० कर्म्म० । १ चतुर्भागैकभागे “चतुर्थांशोऽथ धर्म्मस्य

रक्षिता लभते फलम्” हरिवंशे १७० अ० । चतुर्थोऽं-
शोऽस्य । २ चतुर्थांशस्वामिनि त्रि० । “सर्वेषामर्द्धि-
नो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे । तृतीयिनस्तृतीयांशा-
श्चतुर्थांशाश्च पादिनः” मनुः दक्षिणार्थगोशतविभा-
गोक्तौ । तुरीयांशादयोऽप्यत्र । “ओरसे पुनरुत्पन्ने तुरी-
यांशहराः सुताः” कात्या० स्मृ० ।

चतुर्थिका स्त्री । पलपरिमाणे वैद्यकषरिभाषा तस्य चतुः-

कर्षात्मकत्वात्तथात्वम् ।

चतुर्थीकर्म्म पु० विवाहादनन्तरं चतुर्थ्यां तिथौ कर्त्तव्ये

कर्म्मभेदे । “अथातश्चतुर्थीकर्म्म” गोभिलः “विवाह-
निष्पत्त्यनन्तरं चतुर्थ्यां तिथौ वक्ष्यमाणं कर्म्म वर्त्ति-
ष्यते” सं० त० रघुनन्दनः ।

चतुर्दंष्ट्र पु० चतस्रोदंष्ट्रा यस्य । स्कन्दस्य सैनिकभेदे । “चतुर्दंष्ट्रो-

ऽष्टजिह्वश्च मेघनादः पृथुश्रवाः” भा० श० ४६० अ० स्कन्द-
सैनिकोक्तौ । २ बलिसैन्यभेदे । “अष्टदंष्ट्रश्चतुर्दंष्ट्रो मेथनादो
जलन्धमः” हरिव० २४० अ० वलिसैन्योक्तौ । ३ परंमेश्वरे च ।
“चतुर्द्दंष्ट्रश्चतुर्भुजः” विष्णुस० । “चतस्रोदंष्ट्रा अस्य
चतुर्दंष्ट्रोनृसिंहविग्रहः सादृश्याद्वा शृङ्गं दंष्ट्रा इत्यु-
च्यते चतस्रोदंष्ट्राः शृङ्गाणि अस्य “चत्वारि शृङ्गा द्वे
शीर्षे” इत्यादिश्रुतेः” भा० ।

चतुर्द्दन्त पु० चत्वारो दन्ता अस्य । ऐरावते इन्द्रगजे

हेमच० । “चतुर्दन्तगजारूढ़ोवज्री कुलिशभृत्करः
विष्णुध० इन्द्रध्यानम् । चत्वारोदन्ता अस्य गवादेः
संख्यापूर्ब्बकत्वात् वयसि दत्रादेशः । चतुर्दत् चतुर्दन्तोप-
लक्षितवयोविशिष्टे गवादौ स्त्रियां ङीप् ।

चतुर्द्दशन् पु० ब० व० । चतुरधिकादश । (चौद्दा) १

चतुरधिकदशसंख्यायां २ तत्संख्येये च । ततः पूरणे डट् ।
चतुर्दश तत्संख्यापूरणे त्रि० स्त्रियां ङीप् । सा च
चन्द्रस्य चतुर्दशकलाया ह्रासवृद्धिरूपक्रियारूपायां
तिथौ । “चतुर्दश्यष्ठमी तैव अमावास्या च पूर्णिमा”
ति० त० पु० ।
उभयपक्षयोस्तस्या उभयदिनसत्त्वे कर्म्मभेदे कस्या ग्राह्यता
तन्निर्ण्णयः कालमा० चतुर्द्दशीप्रक० यथा
“अथ चतुर्दशी निर्णीयते । अत्रापि शुक्लकृष्णपक्षभेदेन
व्यवस्था भवति । तत्र युग्मशास्त्रेण शुक्लचतुर्दशी
परविद्धा ग्राह्या । तथा व्यासोऽपि “शुक्ला चतुर्द्दशी ग्राह्या
परविद्धा सदा व्रते” इति । पूर्वविद्धाप्रतिषेध उत्तरविद्धा
विधिश्चेत्युभयम्भविष्यत्पुराणे पठ्यते “सदा कार्या
त्रयोदश्या न तु युक्ता चतुर्दशी । पौर्णमासीयुता सा
स्याच्चतुर्द्दश्या च पूर्णिमेति” । नारदीयेऽपि “तृतीयै-
कादशी षष्ठी शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्त्तव्या
कर्त्तव्या परसंयुतेति” । यत्तु भाद्रशुक्लचतुर्दश्यामनन्त
व्रतम्भविष्योत्तरेऽभिहितम् तत्र पूर्वविद्धा परविद्धा वा
मध्याह्नव्यापिनी ग्राह्येति केचिदाहुः । लिङ्गञ्च
तत्र प्रमाणत्वेनोदाहरन्ति । “मध्याह्ने भोज्यवेलायां स
मुत्तीर्य सरित्तटे । ददर्श शीला सा स्त्रीणां समूहं रक्त
वाससाम् । चतुर्दश्यामर्चयन्तम्भक्त्या देवं पृथक्
पृथगिति” । “अत्र मध्याह्ने भोज्यवेलायामित्यनेन मध्याह्नस्य
कर्मकालत्वं प्रतीयते । अतस्तद्व्यापिनी तिथिर्ग्राह्या ।
नैतत्सारम् । यथा विनायकव्रते “मध्याह्ने पूजयेन्नृपेति
सध्याह्नः कर्मकालत्वेन विहितः । नात्र तथा विधिरस्ति ।
उदाहृतं तुं लिङ्गमर्थवादगतत्वान्न स्वातन्त्र्येण कम्यचि
दर्थस्य प्रमापकं किन्तु सति प्रमाणान्तरे तस्योपोद्बलकं
भवति नचात्र प्रमाणान्तरम्पस्यामः । अढोन
पृष्ठ २८६९
मध्याह्नः कर्मकालः । तथा सति ह्यौदयिकी ग्राह्येति
वचनेन युग्मशास्त्रादिभिश्चोदयव्यापिनी ग्राह्या । सा च
तिथ्यन्तरवत्त्रिमूहूर्त्तेति मुख्यः कल्पः “द्विमुहुर्त्तेत्यनुकल्पः
एवं सति शिष्टाचारोप्यनुगृहीतो भवति । चैत्रश्रावण
चतुर्दश्यौ शुक्लपक्षे अपि रात्रियोगिन्यौ ग्राह्येति ।
तथा च बौधायनः “मधोः श्रावणमासस्य शुक्ला या तु
चतुर्दंशी । सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्ण
गामिनीति” । परा मासान्तर्वर्त्तिनी शुक्लचतुर्दशी ।
कृष्णा चतुदशी तु पूवविद्धैव ग्राह्या । तथा चापस्तम्बः
“कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धा तु
कर्त्तव्या परविद्धा न कस्यचिदिति” । अपराह्णव्यापित्वे
तु शुक्लचतुर्दश्यपि पूर्वविद्धा ग्राह्या तथा च स्कन्दपुराणे
“चतुर्दशी च कर्त्तव्या त्रयोदश्या युता विभो! ।
मम भक्तैर्महाबाहो । भवेद्या चापराह्णिकी । दर्शविद्धा-
न कत्त व्या राकाविद्धा कदाचनेति” । अत्र मम भक्तैरि-
तीश्वरोक्तिलिङ्गाच्छिबचतुर्दशीविषयत्वं द्रष्टव्यम् । तदेवं
व्रतान्तरेषु चतुर्दशी निर्णीता । अथ शिवरात्रिव्रतं
निर्णीयते । तत्रेदञ्चिन्त्यते । किमयं शिवरात्रिशब्दः
रूढः? । किं वा यौगिकः? । उत लाक्षणिकः? ।
अथ वा योगरूढ़? इति । किन्तावत्प्राप्तम् । रूढ़ैति ।
तिथिविशेषे शिवरात्रिशब्दस्य संज्ञारूपेण स्मरणात् ।
तथा च स्क० नागरखण्डे “माघमासस्य शेषे या प्रथमा
फाल्गुनस्य च । कृष्णे चतुर्दशी सा तु शिवरात्रिः
प्रकीर्त्तितेति” । कामिके “माघमासेऽ सिते पक्षे विद्य-
ते या चतुर्दशी । तद्रात्रिः शिवरात्रिः स्यात्सर्वपुण्यशु-
भावहेति” । यद्यप्यत्र शिवस्य रात्रिः शिवरात्रिरित्यव-
यवार्थः प्रतीयते तथापि योगात् रूढ़ेर्बलवत्त्वाद्योगोऽत्र
न ग्राह्यः । प्राबल्यञ्चाश्वकर्णादिशब्देष्ववगम्यते । अश्व-
स्य कर्ण इत्यवयवार्थप्रतीतावपि तमुपेक्ष्य रूढ्या वृक्षवि-
शेषवाचित्वस्वीकारात् । ननु काकदन्तपरीक्षासमानीऽयं
विचारः । यद्ययं शिवरात्रिंशब्दोरूढ़ः यदि वा
यौगिकः उभयथाप्यनुष्ठाने विशेषाभावात् । मैवम् ।
अस्त्रेव महान्विशेषः । यौगिकत्वे शिवसम्बन्धिब्रतजातं
सर्वं यस्यां रात्रावनुष्ठीयते सा सर्वाशवरात्रिः स्यात् ।
माघमासादिपदञ्च तदानीमुपलक्षणं भवेत् । रूढ़ि
पक्षे तु माघमासादेर्षिशेषणत्वात् तद्विशिष्टाया
एकस्याएव तिथेः शिवरात्रित्वम् । अतः कर्त्तव्यएव
विचारः । तत्राहीनन्यायेन रूढ़िमेवाद्रियामहे । तस्य
च न्यायस्य संग्राहकावेतौ श्लोकौ भवतः “अहीनस्य
द्वादशेति प्रकृतौ विकृतावुत । न हीन इति योगेन
प्रकृतौ तद्विकल्प्यताम् । शीघ्रधीहेतुतो रूढ़ेरहीने
विकृताविदम् । उत्कृष्यतां द्वादशत्वं साह्रात् प्रकृत-
कर्मणः” । अयमर्थः ज्योतिष्टोमे श्रूयते “तिस्र-
एव साह्नस्योपसदोद्वादशाहीनस्य यज्ञस्य सवीर्यत्वायेति” ।
अह्ना सह वर्तत इति साह्नः । एकदिननिष्पाद्योज्योति-
ष्टोमः । तस्य प्राचीनेषु त्रिषु दिनेष्वङ्गत्वेनानुष्ठेया होमा
उपसच्छब्दवाच्याः । तास्तिस्र उपसदो विधाय पुनरहीन-
शब्दवाच्यस्य कर्मणो द्वादशोपसदो विधीयन्ते । तत्र
संशयः । किमिदं द्वादशोपसत्त्वं द्विरात्राद्यहीनप्रकृति
भूते साह्नशब्दवाच्ये प्रकृते ज्योतिष्टोमे निविशते?
आहोस्विदहीनशब्दवाच्ये विकृतिरूपे द्विरात्रादावुत्कृष्यते?
इति । तदर्थमिदञ्चिन्त्यते । अहीनशब्दो यौगिको रूढो-
वेति । तत्र न हीन इति व्युत्पत्तेर्विस्पष्टं प्रतिभासा-
द्यौगिकएवायम् । तदर्थश्च प्रकृतावुपपन्नः । साङ्गप्रधानस्य
सर्बस्य साक्षाद्वाचकशब्दैरेवोपदिष्टत्वेन हीनत्वाभावाद्बि-
कृतौ तु विशेषएव वाचकशब्दैरुपदिश्यते । इतरत्सर्व-
मतिदेशात् प्राप्यते । अत उक्तिसङ्कोचात् विकृतेर्हीन-
त्वम् । एवञ्च सत्यहीनशब्दस्य ज्योतिष्टोमेप्रवृत्तिसम्भवा-
त्प्रकराणानुग्रहणाच्च तत्रैव द्वादशत्वं निविशते । न च
पूर्ववाक्यविहितेन त्रित्वेन बाधः शङ्कनीयः वाक्ययोः
समानबलत्वेन व्रीहियववद्विकल्पोपपत्तेः । तस्माद्-
ज्योतिष्टोमएव द्वादशत्वविधिरिति प्राप्ते ब्रूमः । विकृति-
रूपे द्विरात्रादाविदं द्वादशत्वं विपीयते । कुतः
अहीनशब्दस्य श्रौतप्रयोगबाहुल्येन तत्रैव रूढत्वात् ।
रूढिश्च शीघ्रबुद्धिहेतुत्वेन योगाद्बलीयसी, योगे त्वबय-
वार्थं प्रथमतो निश्चित्य पश्चात्समुदायार्थो निश्चेतव्य इति
विलम्बः । न चात्रे प्रकरणबिरोधः शङ्कनीयः
बलीयसा वावयेन प्रकरणस्य बाधितत्वात् । तस्मादिदं
द्वादशत्वं प्रकृतज्योतिष्टोमादुत्कृष्य विकृतिषु तिरात्रा-
दिषु निवेशनीयमिति । अत्र यथा रूढ़ोऽहीनशब्द-
स्तथा शिवरात्रिशब्दोऽपि रूढ़ इति प्रथमः पक्षः ।
अपर आह । यौगिकएवायं शिवरात्रिशब्दः । कुतः
शिवसम्बन्धमुपजीव्य तच्छब्दस्य प्रवृत्तत्वात् । तथा च
स्कन्दपुराणे “माथस्य कृष्णपक्षे या तिथिश्चैव चतुर्द्दशी ।
शिवरात्रिस्तु सा ख्याता सर्वपापनिषूदनी” । “तस्य रात्रिः
समाख्याता शिवरात्रिः शिवप्रिया । तस्यां सर्वेषु लि-
पृष्ठ २८७०
ङ्गेषु सदा संक्रमते हरः । यानि कानि च लिङ्गानि
चराणि स्थावराणि च । तेषु संक्रमते देवि! तस्यां रात्रौ
यतोहरः । शिवरात्रिस्ततः प्रोक्ता तेन सा हरवल्ल-
भेति” । शिवरहस्ये “तत्प्रभृत्येव देवर्षे । माघकृष्णचतु-
र्द्दशी । शिवरात्रिः समाख्याता प्रियेयन्त्रिपुरद्विषः” इति
स्क० अवन्तिखण्डे “माघफाल्गुनयोर्मध्ये असिता या
चतुर्द्दशी । शिवरात्रिस्तु सा ख्याता सर्वपापनिषूदनी” ।
तस्माच्छिवसम्बन्धिनी रात्रिः शिवरात्रिरिति यौगि-
कोऽर्थः प्रोक्षणीन्यायेन ग्रहीतव्यः । तस्य च न्यायस्य
संग्राहकावेतौ श्लोकौ “संस्कारजातियोगेषु कं ब्रूते
प्रोक्षणीरिति । संस्कारं सार्वभौमत्वाज्जातिमुद्वेजनो-
क्तितः । अन्योन्याश्रयतो नाद्योन जातिः कल्प्यशक्तितः ।
यौगिकः कॢप्तशक्तित्वाकॢप्तिर्व्याकरणे स्थिता” अयमर्थः ।
दर्शपूर्ण मासाङ्गतया श्रूयते “प्रोक्षणीरासादयतीति” ।
तत्र संशयः । किमयं प्रोक्षणीशब्दोऽभिमन्त्रणासाद-
नाद्युदकसंस्कारं ब्रूते? । किं वा जलावान्तरजाति
विशेषम्? आहोस्वित् प्रोक्ष्यन्ते पात्राण्याभिरिति
योगम्? । तत्र संस्कारं ब्रूत इति तावत्प्राप्तङ्कुतः? सार्व
भौमत्वात् । सर्वेषु हि संस्कारविधिवाक्यादिप्रदेशेषु
प्रोक्षणीशब्दः श्रूयते । “प्रोक्षणीरासादयेध्माबर्हिरुप
सादयेति” प्रैषवाक्यप्रयोगः । “प्रोक्षणीरासादयतीति”
विधिवाक्ये । एवमभिमन्त्रणादिवाक्यान्यप्युदाहरणी
यानि तस्मात्संस्कारं ब्रूतैत्येकः पक्षः । जातिं ब्रूत
इति पक्षान्तरम् । लोके हि जलक्रीड़ासु प्रोक्षणी
भिरुद्वेजिताः स्म इत्युदकजातौ प्रयोगो दृश्यते । तत्र न
तावत्संस्कारं ब्रूत इत्याद्यः पक्ष उपपद्यते । कुतः?
अन्योन्याश्रयत्वात् । नापि जातिं ब्रूत इति द्वितीयः
पक्षोयुक्तः उदकजातौ प्रोक्षणीशब्दशक्तेर्व्यवहारे
पूर्वमकॢप्तत्वेनातः परं शक्तेः कल्पनीयत्वप्रसङ्गात् ।
नच योगेऽपि शक्तिः कल्पनीया व्याकरणेनैव कॢप्तत्वात्
व्याकरणे हि उक्ष सेचन इत्यस्माद्धातोः करणे ल्युट्प्रत्य-
येन शब्दो व्युत्पादितः । तथा सति प्रकर्षेणोक्ष्यते
अनेनेति योगेन सेचनसाधनमुदकादिकं सर्वं प्रोक्षणशब्द
वाच्यं सम्पद्यते । प्रकृते तु स्त्रीशब्दवाच्यानामपां
सेचनसाधनत्वात् तद्वचनस्य प्रोक्षणशब्दस्य ङीप्प्रत्ययान्त-
त्वेन प्रोक्षणीरितिद्वितीयाबहुवचनान्तः शब्दोनिष्प-
द्यते । नन्वहीनाधिकरणे रूढ़ेः पाबल्यमुक्तम् ।
प्रोक्षण्यधिकरणेच योगस्य प्राबल्यमुच्यते । अतः
परस्परविरोधः । मैवम् लब्धात्मिका हि रूढ़ि
र्योगमपहरतीति । नच प्रोक्षणीशब्दे रूढ़िर्लभ्यते ।
वृद्धव्यवहारेण जातावव्युत्पादितत्वात् । अहीनशब्दोऽपि
द्विरात्रादिषु न वृद्धैर्व्युत्पादित इतिचेत् न । व्याकरणे
व्युत्पादितत्वात् । “अह्नः खःक्रतौ” इत्यनेन घाररुचेन
वार्तिकेनाहन्शब्दात् स्वप्रत्ययमुत्पाद्य तस्येनादेशं कृत्वा
क्रतुविषयतया व्युत्पादितो अहीनशब्दः । नन्वेवं सति
घट्टकुटीप्रभातन्यायस्तव प्रसज्येत यतोऽहीनशब्दे
योगम्परिहर्त्तुकामेन भवता व्याकरणमुपजीव्य योगे पर्यव-
सानं कृतम् । नायन्दोषः । पूर्बपक्षिणोऽभिमते समास
लक्षणे योगे पर्यवसानस्यानभिधानात् । नच नञ्स
मासोऽपि व्याकरणेषु व्युत्पादित इति शङ्कनीयम् ।
नञ्समासस्वीकारे सति “अयज्ञोवाएष” इत्यादाविवाऽ-
हीनशब्दस्याद्युदात्तत्वप्रसङ्गात् मध्योदात्तोह्ययं शब्द
आम्नायते । तस्मात्पक्षद्वये योगसाम्येऽपि समासरूप
योगम्पूर्वपक्षाभिमतं निराकृत्य श्रौतरूढ़िः सिद्धान्तिना
समाश्रिता । तामेव रूढ़िं प्रकटयितुं वररुचिना वार्त्तिकं
कृतम् अतः सत्यपि प्रकृतिप्रत्ययविभागे यौगिकत्वं न
शङ्कितुं शक्यते । तथा गोत्वजातौ रूढ़स्यापि गो
शब्दस्यौणादिकसूत्रेषु “गमेर्डोः” इति प्रकृतिप्रत्ययविभा-
गङ्कृत्वा गच्छतीति गौरिति व्युत्पत्तिः प्रदर्शिता । तद्व-
दत्राप्यवगन्तव्यम् । प्रोक्षणीशब्दे तु न रूढ़िज्ञापनाय
किञ्चित्सूत्रं स्वतन्त्रं विहितमस्ति । किन्तर्हि
सर्वधातुसाधारणेनावयवार्थव्युत्पादकेन ल्युट्प्रत्ययेन
व्युत्पादितत्वात् । यौगिक एवायं प्रोक्षणीशब्दः ।
तस्मात्प्रोक्षणीशब्दावच्छिवरात्रिशब्दो यौगिक इति
द्वितीयः पक्षः । अन्ये तु पुनर्मन्यन्ते । लाक्षणिकोऽयं
शिवरात्रिशब्दः । तिथिवाचकेन शब्देन तत्तिथौ
क्रियमाणस्य व्रतविशेषस्य लक्ष्यमाणत्वात् । अतएवे-
शानसंहितायामुक्तम् “शिवरात्रिव्रतन्नाम सर्वपाप
प्रणाशनम् । आचाण्डालमनुष्याणां भुक्तिमुक्ति
प्रदायकम् । अर्द्धरात्रादधश्चोर्ध्वं युक्ता यत्र चतुर्दशी ।
तत्तिथावेव कुर्वीत शिवरात्रिव्रतं व्रती । शिवरात्रि
व्रतङ्कायं भूतान्वितमहानिशि । शिवरात्रिव्रतन्देव
करिष्ये शिवसन्निधौ । निर्विघ्नं कुरु मे देव । भक्तग्राह्य!
महेश्वरेति” । नारदीयसंहितायाम् “अर्द्धरात्रयुता-
यत्र माघकृष्णचतुर्दशी । शिवरात्रिव्रतं तत्र कुर्या-
ज्जागरणं तथेति” । पद्मपुराणेऽपि “अर्द्धरात्रादध-
पृष्ठ २८७१
श्चोर्ध्वं यदि युक्ता चतुर्दशी । तत्तिथावेब कुर्वोत
शिवरात्रिव्रतं व्रती” स्कन्दपुराणे “शिवरात्रिव्रतन्देव!
कथयस्व महेश्वरेति” । नच कालवाचकस्य शब्दस्य
लक्षकत्वमदृष्टचरमिति शङ्कनीयम् । कालवाचकाभ्या-
ममावास्यापौर्णमासीशब्दाभ्यां यागत्रयरूपयोरिष्ट्यो-
स्तत्कालसम्बन्धिन्योरुपलक्षितत्वात् । अतएव श्रूयते”
“यएवंविद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्यां
यजते” इति । स्मृतिष्वपि सर्वत्र तिथिवाचकैः शब्दैस्त-
त्सम्बन्धिनो व्रतविशेषा लक्ष्यन्ते । स्कन्दपुराणे “जन्मा-
ष्टमी नैव कृता कदाचित्कल्पायुतं पच्यते रौरवेष्विति” ।
ऋष्यशृङ्गोऽपि “एकादशीन्तु कुर्वीत क्षीयते द्वादशी
यदेति” एवमन्यत्राप्युदाहार्यम् । तस्माल्लाक्षणिकोऽयं
शिवरात्रिशब्द इति तृतीयः पक्षः । अथ सिद्धान्तं ब्रूमः ।
योगरूढ़एवायं शिवरात्रिशब्दः । योगोद्वितीयपक्षो-
पन्यासेन दर्शितः । रूढ़िश्च प्रथमोपन्यासेन । तत्रेकस्य
स्वीकारे सत्यन्यविषयं शास्त्रन्तदनुग्राहकौदाहृतो
न्यायश्च वाध्येत । नच यौगिकत्वे सति शिवव्रतोपेतेषु
त्रयोदश्यादितिथ्यन्तरेषु शिवरात्रित्वं प्रसज्येतेति-
वाच्यम् । तस्यातिप्रसङ्गस्य रूढ़्या निवारणात् । यथा
पङ्कजशब्दे पङ्काज्जायत इति योगं स्वीकृत्य भेकादिष्वति
पसङ्गो रूढ़िस्वीकारेण निवार्यते । तद्वदत्रापि योग
रूढ़तायां न कोऽप्यतिप्रसङ्गः । नच मुख्य सम्भवति
लक्षणाश्रयणमुचितम् । अथोच्येत । लक्षणाया
अभावे ब्रतविषयत्वन्न स्यादिति । तन्न । बहुब्रीहि
स्वीकारे योगेनैव तत्सिद्धेः । शिवस्य प्रिया रात्रिर्यस्मिन्-
व्रतेऽङ्गत्वेन विहिता तद्व्रतं शिवरात्र्याख्यं तस्मान्नि
र्मन्थ्यन्यायेनात्र योगरूढ़ः शिवरात्रिशब्दः । तस्यात्र
न्यायस्य संग्राहकः श्लोकः “निर्मन्थ्यो यौगिको योगरूढ़ो
वा योगभासनात् । यौगिकोऽचिरजातेऽग्नौ नियते
र्योगरूढ़िभाक्” । अस्यायमर्थः । इष्टकाचयने श्रूयते
“निर्मन्थ्येनेष्टकाः पचन्तीति” । तत्र संशयः । किमयं निर्म-
न्थ्यशब्दो यौगिकः? किं वा योगरूढ़ः? इति । निःशे-
षेण मथ्यत इति योगस्य प्रतीयमानत्वात्प्रोक्षणीन्यायेन
योग इति पूर्वःपक्षः । अत्र द्वावग्नी विद्येते चिरमिर्म-
थितोऽचिरनिर्मथितश्च । चयनम्प्रक्रम्योस्यां निर्माय तस्या
मुखायाङ्कञ्चित्कालन्धारणाय योऽग्निर्निर्मथ्यते सोऽचिर
निर्मथितः । तेनेष्टकाः पच्यन्ते तस्यैव पत्यासन्नत्वात् ।
तथा च मन्थनस्याग्निद्वितयसाधारण्येऽप्यचिरनिर्मथित
मग्निं नियन्तुं रूढ़िराश्रयणीया । यथा वा नावनीत-
ङ्घृत मित्यत्र नवनीतजन्यत्वयोगस्य चिराचिरयोरुभयोः
साधारण्येऽपि नूतनएव वृते नावनीतशब्दो लोके प्रसिद्धे-
र्नियम्यते तद्वदत्राप्यवगन्तव्यम् । तथा च सति प्रती-
यमानयोगस्यापरिहृंतत्वान्नियत्यै रूढ़िस्वीकाराच्च
योगरूढ़ोऽयं निर्मन्थ्य इति राद्धान्तः । अनेनैव न्यायेन
शिवरात्रिशब्देऽपि योगरूढ़िराश्रीयते । तत्र शिवस्य
रात्रिः शिवरात्रिरिति तत्पुरुषसमासेन योगेन प्रवत्त-
मानः शब्दोरूढ़्या माघकृष्णचतुर्दशीरूपे कालविशेषे-
नियम्यते । शिवस्य रात्रिर्यस्मिन् व्रते इति वहुब्रीहि
समासेन योगेन प्रवृत्तः शब्दोरूढ़्याव्रतविशेषे नियम्यते ।
तच्च शिवरात्रिव्रतमेकदाशीजयन्तीव्रतवत्संयोगपृथक्त्व
न्यायेन नित्यङ्काम्यञ्चेत्युभयविधम् । तत्र नित्यत्वमक-
रणे प्रत्यवायवीप्सानित्यनिश्चलशब्दैरवगन्तव्यम् ।
तत्राकरणे प्रत्यवायः स्कन्दपुराणे पठ्यते “परात्पर
तरन्नास्ति शिवरात्रिः परात्परम् । न पूजयति भक्त्ये-
शं रुद्रन्त्रिभुवनेश्वरम् । जन्तुर्जन्मसहस्रेषु भ्रभते नात्र
संशयः” । बीप्सापि तत्र पठिता “वर्षेवर्षे महादेवि!
नरोनारी पतिव्रता । शिवरात्रौ महादेवङ्कामम्भक्त्या
प्रपूजयेदिति” । नित्यनिश्चलशब्दौ च तत्रैव “माघ
कृष्णचतुर्दश्यां यः शिवं शंसितव्रतः । मुमुक्षुः पूजयेन्नित्यं
स लभेदीप्सितम्फल मिति” । “अर्णवो यदि वा
शुष्येत् क्षीयते हिमवानपि । मेरुमन्दरलङ्काश्च श्रीशैलो-
विन्ध्य एव च । चलन्त्येते कदाचिद्वै निश्चलं हि
शिवव्रतमिति” । काम्यत्वञ्च फलश्रवणादवगन्तव्यम् । तच्च
स्कन्दपुराणे “शिवञ्च पूजयित्वा योजागर्त्ति च
चतुर्दशीम् । मातुः पयोधररसन्न पिबेत्स कदाचन ।
यदीच्छेद्वाञ्छितान् भोगान् दिवि देवमनोरमान् ।
आगमोक्तविधिं कृत्वा प्राप्नोति परमम्पदम् । मम भक्तस्ततो
देवि । शिवरात्रिमुपोषकः । गणत्वमक्षयन्दिव्यमक्षयं
शिवशासनम् । सर्वान्भुक्त्वा महाभोगान्मृतो भूयोन
जायते” इति । काम्यव्रतस्येशानसंहितायां वर्षसंख्या-
पढ्यते “एवमेतद्वतङ्कुर्यात्प्रतिसंवत्सरं व्रती । द्वाद-
शाब्दिकमेतत्स्याच्चतुर्विंशाब्दिकन्तु वा । सर्वान् कामान-
वाप्नोति प्रेत्य चेह च मानवः” इति । नित्यकामरूपस्यास्य
व्रतस्य सर्वाधिकारित्वमीशानसंहितायामुक्तम् “शिव-
रात्रिव्रतन्नाम सर्वपापप्रणाशनम् । आचाण्डाल
मनुष्याणां भुक्तिमुक्तिप्रदायकमिति” । अधिकारिणि
पृष्ठ २८७२
यमाः स्कन्दपुराणे दर्शिताः “माघमासे तु कृष्णा
याफाल्मुनादौ चतुर्दशी । सा च पुण्या तिथिर्ज्ञेया सर्व-
पातकनाशिनी । अहिंसा सत्यमक्रोधो ब्रह्मचर्यं दया
क्षमा । शान्तात्मा क्रोधहीनश्च तपस्वी ह्यनसूयकः ।
तस्मै देयमिदन्देवि! गुरुपादानुगोयदि । अन्यथा
योददातीदं स तदा नरकं व्रजेदिति” । उक्ताधिकारिणा
नुष्ठेयं व्रतस्वरूपं त्रिविधम् “उपवासो जागरणं-
पूजा च । तदुक्तं नागरखण्डे “उपवासप्रभावेण
बलादपि च जागरात् । शिवरात्रौ तथा तस्य लिङ्गस्यापि
च पूजया । अक्षयान्लभते भोगान् शिवसायुज्य
माप्नुयादिति” । स्क० सह्यखण्डे “स्वयञ्च लिङ्गमभ्यर्च्य
सोपवासः सजागरः । अजानन्नपि निष्पापो निषादो
गणतां गतः” । अत्रेदञ्चिन्त्यते किमेता उपवासजागर
पूजा व्रतस्य स्वरूपे स्वेच्छया विकल्प्यन्ते? । उत समुच्चि-
ताएवेति? । तत्र विकल्प्यन्ते इति तावत्प्राप्तम् । कुतः ।
एकैकस्येतरनिरपेक्षतया विधानात् । तथाहि स्कन्द-
पुराणे केवलोपबासविधिः पट्यते “अखण्डित
व्रतोयोहि शिवरात्रिमुपोषयेत् । सर्वान् कामानवाप्नोति
शिवेन सह मोदत इति” । तथा केवलजागरणं पठ्यते
“कश्चित्पुण्यविशेषेण व्रतहीनोऽपि यः पुमान् । जागर-
ङ्कुरुते तत्र स रुद्रसमतां व्रजेत्” । तथा केवलपूजा
पठ्यते “यःपूजयति भक्त्येशमनेकफलतां व्रजेदिति” ।
तस्मादुपवासादयस्त्रयोऽपि विकल्प्यन्ते । यदि नागर-
स्वण्डसह्यखण्डयोः समुच्चयविधिरस्तीत्युच्यते । तर्हि-
प्रत्येकं वा समुदायोवा यथेष्टमनुष्ठीयतामिति प्राप्ते-
ब्रूमः । वैश्वानरविद्योपासनन्यायेन समुदाय एवात्रा
नुष्टेयः । तस्य च न्यायस्य संग्राहकावेतौ श्लोकौ
“वैश्वानरमुपास्तेऽत्र प्रत्येकसमुदायतः । विकल्पः
समुदायो वा नियतोद्विविधाद्विधेः । विकल्प इति चेन्मै-
त्वं ससमुदायप्रशस्तितः । अवयुत्यानुवादेन प्रत्येकोक्त्यु-
पपत्तितः” इति । अयमर्थः । छन्दोगैराम्नायते
“बैश्वानरमुपास्ते इति । द्युलोकादित्यवाय्वाकाशोदक
पृथिवीरूपैः षड्भिरवयवैरुपेतोऽवयवी सर्वात्मको विराट्
पुरुषो वैश्वानरशब्दवाच्यः । तत्र संशयः । किं द्यु-
लोकाद्यवयवा अवयवी च प्रत्येकं विकल्पेनोपास्याः?
उतावयव्येव नियमेनोपास्यः? इति । विकल्प इति
तावत् प्राप्तम् कुतः द्विविधस्य विधेः श्रूयमाण-
त्वात् । प्राचीनशालसत्ययज्ञेन्द्रद्युंम्नजनवुडिडोद्दालक
नामभिः षद्भिर्महर्षिभिः क्रमेण द्युलोकादयः
षडवयवाः प्रत्येकमुपासिताः । तद्वृत्तान्तकथनपरेषु
वाक्येषु षण्णामवयवानां प्रत्येकमुपस्तिविधये
नियमाश्च फलसहिता उपलभ्यन्ते । पुनश्चान्ते षड्भ्यस्तेभ्यो
महर्षिभ्योऽश्वपती राजा समुदायोपास्तिमवोचत ।
अतोद्विविधविधिबलेन यथेच्छं विकल्प इति प्राप्ते ब्रूमः ।
समुदायएवात्र नियमेनीपासितव्यः कुतः प्रस्तुत-
त्वात् । अवयवोपास्तिवाक्यान्यवयुत्यानुवादरूपत्वेना-
प्युपपद्यन्ते । तस्मात्समुदाय उपास्य इति राद्धान्तः ।
अनेन न्यायेन प्रकृतेऽप्युपवासादीनान्त्रयाणां समुदायस्यैव
व्रतरूपत्वम् । नमु क्वचिदुपवासादित्रसं विधाय पुनः
पक्षान्तररूपेणोपवासव्यतिरिक्तं द्वयं पठ्यते । “अथवा
शिवरात्रिञ्च पूजाजागरणैर्नयेदिति” । नायन्दाषः ।
अथ वेत्यनुकल्पोपक्रमेणाशक्तविषयत्वोपपक्षे । अत्र व्रते
विहितान्त्रयाणां परस्परमङ्गाङ्गिभावबोधकप्रमाणा-
भावादाग्नेयादिषड्यागवत्प्रत्येककालसम्बन्धविधानात्फल-
विधानाच्च समं प्राधान्यन्द्रष्टव्यम् । अस्यैवोपोद्वलकं
लिङ्गमभिधीयते । लुब्धकस्य भद्राश्वजन्म प्राप्तवतो
दुर्वाससा सह संवादे पठ्यते “कृष्णपक्षे चतुर्द्दश्यान्न
कञ्चिन्मृगमाप्तवान् । अण्वपि प्राणरक्षार्थं क्षुधा-
सम्पो ड़ितोऽ वसत्” इत्युपक्रम्य “धनुःकोट्याहतान्येव
विल्वपत्राणि मानद! । पतितानि महाराज! शम्भोः
शिरसि भूतले । तत्रैव रस्थौ राजेन्द्र! सर्वरात्रमत-
न्द्रितः । रात्रिशेषं स्थितोव्याधः स्तब्धवृष्टिरनामिषः ।
प्रभाते विमले जाते दृष्ट्वा तत्रैव शङ्करम् । विल्वपत्रैर्नर-
श्रेष्ठ! कन्दमूलैश्च पारितः” इति । एतस्मिन् यथोक्तति-
थिन्निर्णेतुम् इदं विचार्यते । किंव्रतान्तरेष्विवात्राप्युदयास्त
मयवेध आदर्त्तव्यः? किं वा प्रदोषवेधः? आहोस्विन्निशीथ
वेध? इति । तत्र पूर्वेद्युरुदये त्रयोदशीवेधः परेद्युरस्त
मये दशवेध इत्युदयास्तमये वेधोयुक्तः तस्य व्रतान्तरेषु
कॢप्तत्वात् कॢप्तस्य च कल्प्याद्बलीयस्त्वात् । मैवम् ।
समान्याद्विशेषस्य बलीयस्त्वात् । समान्यरूपोह्यु
दयास्तमयवेधः सर्वतिथिसु समानत्वात् विशेषरूपौ
प्रदोषनिशीथवेधौ कृष्णचतुर्दशीलक्षणे तिथिविशेषे
शिवरात्र्याख्यं व्रतविशेषमुपजीव्य प्रवृत्तत्वात् । एतदे-
वाभिप्रेत्य ईशानसंहितायामुक्तम् । “उदयेऽन्विताः
क्वचिद्ग्राह्याः क्वचिदस्तमयेऽन्विताः । व्रतिभिस्तिथयो
यस्माद्वर्जयित्वा व्रतन्त्विदमिति” । अस्मिंस्तु व्रते प्रदोष
पृष्ठ २८७३
घेधोवायुपुराणे दर्शितः “त्रयोदश्यस्तगे सूर्ये चतसृ-
ष्वेव नाडिषु । भूतविद्धा तु या तत्र शिवरात्रिव्रतञ्चरे-
दिति” । स्मृत्यन्तरेऽपि “प्रदोषव्यापिनी ग्राह्या
शिवरात्रिचतुर्दशी । रात्रौ जागरणं यस्मात्तस्मात्तां
समुपोषयेदिति” । कामिके “आदित्यास्तमये काले अस्ति-
चेद्या चतुर्दशी । तद्रात्रिः शिवरात्रिः स्यात्सम्भवे
दुत्तमीत्तमेति” । निशीथवेधो नारदीयसंहितायां
दरितः । “अर्द्धरात्रयुता यत्र माघकृष्णचतुर्दशी ।
शिवरात्रिव्रतन्तत्र सोऽश्वमेधफलं लभेदिति” । स्मृत्य-
न्तरेऽपि “भवेद्यत्र त्रयोदश्यां भूतव्याप्ता महानिशा ।
शिवरात्रिव्रतन्तत्र कुर्याज्जागरणन्तथेति” । ईशान-
संहितायाम् “माघकृष्णचतुर्दश्यामादिदेवोमहा-
निशि । शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः ।
तत्कालव्यापिनी ग्राह्यां शिवरात्रिव्रते तिथिः । अर्द्ध-
रात्रादधश्चोर्ध्वं युक्ता यत्र चतुर्दशी । तत्तिथावेव
कुर्वीत शिवरात्रिव्रतं व्रती । नार्द्धरात्रादधश्चोर्ध्वं
युक्ता यत्र चतुर्दशी । नैव तत्र व्रतङ्कुर्य्यादायुरैश्वर्यहानि
देति” । “व्याप्यार्द्धरात्रं यस्यान्तु लभ्यते या चतुर्दशी ।
तस्यामेव व्रतङ्कार्यं मत्प्रसादार्थिभिर्नरैः । पूर्वेद्यु-
र्वा परेद्युर्वा महानिशि चतुर्दशी । व्याप्ता सा दृश्यते
यस्यान्तस्यां कुर्यात्व्रतन्नरः । लिङ्गाविर्भावकाले तु व्याप्ता-
ग्राह्या चतुर्द्दशी । तदूर्ध्वाधोन्विता भूता सा कार्य्या
व्रतिभिःसदा । मम प्रियकरी ह्येषा माघकृष्णचतुर्द्दशी ।
महानिशान्वितायान्तु तत्र कुर्य्यादिदं व्रतमिति” । एवं
सति पूर्व्वेद्युरेव यत्र प्रदोषनिशीथोभयव्याप्तिस्तत्र व्रत-
माचरणीयम् । पूर्व्वेद्युरेवोमयव्याप्तौ स्कन्दपुराणे
पठ्यते । “त्रयोदशी यदा देवि! दिनभुक्तिप्रमाणतः ।
जागरे शिवरात्रिःस्यान्निशि पूर्ण्णा चतुर्दशी । दिनभुक्तिरस्त-
मयः । परेद्युरेवोभयव्याप्तौ कामिके पठ्यते “निशाद्वये
चतुर्द्दश्यां पूर्वा त्याज्या परा शुभेति” । दिनद्वयेऽप्युभय-
व्याप्तिस्तु न सम्भव्यते यामद्वयवृद्धेरभावात् ।
दिनद्वयेऽप्युभयव्याप्त्यभाबोऽपि न सम्भाव्यते यामद्वयक्षयस्या-
भावात् । एकैकस्मिन् दिनएकैकव्याप्तौ तु कथमिति चेत् ।
सा ह्येवं प्रसज्यते । पूर्व्वेद्युर्निशीथव्याप्तिः परेद्युः
प्रदोषव्याप्तिरिति । तत्रैकव्याप्तेर्दिनद्वये समानत्वेऽपि
जयायोगस्य प्रशखत्वाद्दर्शयोगस्य निन्दितत्वाच्च पूर्वेद्यु-
रेवोपवासः । जयायोगप्राशस्त्यञ्चानेकवचनैरादृतत्वादवग-
स्यते । तथा च स्कन्दपुराणे पठ्यते “कृष्णाष्टमी स्कन्द-
षष्ठी शिवरात्रिचतुर्द्दशी । एताः पूर्व्वयुताः कार्य्यास्ति-
थ्यन्ते पारणम्भवेत्” । “जन्माष्टमी रोहिणी च
शिवरात्रिस्तथैव च । पूर्ब्बविद्धैव कर्त्तव्या तिथिभान्ते च
पारणम्” । “श्रावणी दूर्गनवमी तथा दुर्वाष्टमी च या ।
पूर्व्वविद्धा तु कर्त्तव्या शिवरात्रिर्बलेर्दिनमिति” । “जय
न्ती शिवरात्रिश्च कार्य्ये भद्राजयान्विते” इति । नागर-
खण्डे “माघफाल्गुनयोर्मध्ये असिता या
चतुर्द्दशी । अनङ्गेन समायुक्ता कर्त्तव्या सा सदा तिथि
रिति” पद्मपुराणे “अर्द्धरात्रात् पुरस्ताच्चेज्जयायोगो
यदा भवेत् । पूर्व्वविद्धैव कर्त्तव्या शिवरात्रिः
शिवप्रियैरिति” । व्रह्मवैवर्त्ते “रुद्रव्रतेषु सर्वेषु कर्त्तव्य
संमुखी तिथिः । अन्येषु व्रतकल्पेषु परयुक्तामुपावसे
दिति” । दर्शयोगनिन्दा च स्कन्दपुराणे दर्शिता
“महतामपि पापानां दृष्टा वै निःकृतिः पुरा । न दृष्टा
कुर्वतां पुंसां कुहूयुक्तां तिथिं शिवामिति” । अन्यान्य
पि यानि कानिचिद्दर्शयोगनिन्दावचनानि तत्र तत्र
स्मर्य्यन्ते । तानि सर्व्वाण्यस्मिन्विषये योजनीयानि ।
यदा पूर्व्वेद्युर्निशीथादूर्द्ध्वं पवृत्ताचतुर्द्दशी, परेद्युः
क्षयवशात्निशीथादर्वागेव समाप्ता तदा पूर्व्वेद्युः प्रदोष
निशीथव्याप्त्योरुभयोरप्यसम्भवात्परेद्युः प्रदोषव्याप्ते-
रेकस्याः सद्भावाच्च परविद्धैव ग्राह्या । एतदेवाभिप्रेत्य-
स्तर्य्यते “माघासिते भूतदिनं कदाचिदुपैति योगं यदि
षञ्चदश्या । जयाप्रयुक्तां न तु जातु कुर्य्याच्छिवस्य-
रात्रिं प्रियकृच्छिवस्येति” । यदा पूर्व्वेद्युः प्रदोषादूर्ध्व
प्रवृत्ता चतुर्द्दशी, परेद्युः क्षयवशात्प्रदोषादर्वागेव समाप्ता
तदा परेद्ध्युर्व्याप्तिद्वयाभावात्पूर्वेदुर्निशीथव्याप्तेः
सद्भावाज्जयायोगाच्च पूर्व्वेद्युरेवोपवासः । अत्रायं
विवेकः सम्पन्नः । दिनद्वये निशीथव्याप्तौ तदव्याप्तौ च
प्रदोषव्याप्तिर्नियामिका । तथा दिनद्वयेऽपि प्रदोषव्याप्तौ
तदव्याप्तौ च निशीथव्याप्तिर्निर्यामिका एकैकस्मिन्
दिन एकैकव्याप्तौ जयायोगो नियामक इति । अस्य
शिवरात्रिव्रतस्याहोरात्रसाध्यत्वेनाहनि रात्रौ च सम्बन्धे
साधारणे सति अहर्वेधमुपेक्ष्य प्रदोषनिशीथयोरेव
कुतः शास्त्राणां पक्षपात इति चेत् । रात्रेरत्र प्रधा-
नत्वादिति ब्रूमः । तत्प्राधान्येन चोपपत्तिः स्कन्द-
पुराणे पट्यते “निशि भ्रमन्ति भूतानि शक्तयः शूलभृद्-
यतः । अतस्तस्यां त्रयोदश्यां सत्यां तत्पूजनम्भवेदिति” ।
तस्यान्त्रयोदश्यामिति व्यधिकरणे सप्रम्पौ । तथा
पृष्ठ २८७४
चायमर्थः सम्पद्यते । त्रयोदशीनिशीथे तस्यां चतुर्द्दश्यां
विद्यमानायां शिवपूजनम्भवेदिति । नागरखण्डेऽपि
“माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर! । अहं
यास्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ । लिङ्गेषु च
समस्तेषु चरेषु स्थावरेषु च । संक्रमिष्याम्यसन्दिग्धं
वर्षपापविशुद्धये । रात्रौ तस्यां हि मे पूजां यः
करिष्यति मानवः । मन्त्रैरेतैः सुरश्रेष्ठ! विपापः स
भविष्यतीति” । सा च शिवरात्रिचतुर्दशी त्रिधा भवति ।
एकतिथ्यत्मिका तिथिद्वयात्मिका तिथित्रयात्मिका
चेति । तत्र सूर्य्योदयमारभ्य प्रवृत्ता परदिनोदयप-
र्य्यन्तैकतिथ्यात्मिका । सा वेधदोषाभावात्प्रशस्ता ।
तिथिद्वयात्मकत्वं च द्वेधा भवति । जयायोगेन दर्श-
योगे न च । तत्र योगद्वयमेकैकस्मिन्विषये प्रशस्तम् ।
स च विषयविशेषः पूर्वमेवोदाहृतः । तिथित्रयात्मकत्व-
न्त्वतिप्रशस्तम् । एतदेवाभिप्रेत्य पुराणे पठ्यते “त्रयो-
दशीकलाप्येका मध्ये चैव चतुर्दशी । अन्ते चैव सिनी-
बाली त्रिस्पृश्यां शिवमर्चयेत्” । यथा त्रिस्पृशी प्रशस्ता
तथा वारविशेषेण योगविशेषेण च प्रशस्ता भवति । तथा
च स्कन्दपुराणे पठ्यते “माघकृष्णचतुर्दश्यां रविवारो
यदा भवेत् । भौमोवाथ भवेद्देवि! कर्त्तव्यं व्रतमुत्त-
मम् । शिवयोगस्य योगे वै तद्भवेदुत्तमोत्तमम् ।
शिवरात्रिव्रतन्त्वेतत्तद्भवेदुत्तमोत्तममिति” । ननु यदा पूर्व-
विद्धायामुपवासस्तदा परेद्युः किं तिथ्यन्ते पारणम्भवति
किं वा तिथिमध्ये । शास्त्रन्तु पक्षद्वयेऽपि समानम् ।
तत्र तिथ्यन्तपारणघचनानि पूर्वमुदाहृतानि “तिथि
मध्यपारणवचनन्तु स्क न्दपुराणे पठ्यते “उपोषणं
चतुर्दश्यां चतुर्दश्यान्तु पारणम् । कृतैः सुकृतलक्षैश्च लभ्यते
वाथ बा न वा । ब्रह्मा स्वयं चतुर्वक्त्रैः पञ्चवक्त्वैस्तथाप्यहम् ।
सिक्थे सिक्थे फलन्तस्य शक्तौ वक्तुं न पार्वति! ।
ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । संस्थितानि
भवन्तीह भूतायां पारणे कृते” । “तिथीनामेव सर्वासा-
मुपवासव्रतादिषु । तिथ्यन्ते पारणङ्कुर्य्याद्विना शिव
चतुर्दशीमिति” । बाढम् । अस्ति हि द्विविधं शास्त्रं
तस्य च द्विविधस्य शास्त्रस्य प्रतिपत्प्रकरणोक्तन्यायेन
व्यवस्था द्रष्टव्या । यदा यापत्रयादर्वागेव चतुर्दशी
परिसमाप्यते । तदा तिथ्यन्ते पारणम् । यदा तु चतुर्दशी
यामत्रयमतिक्रामति तदा चतुर्दशीमध्ये पूर्वाह्णे पारण-
ङ्कर्य्यात्” । ति० त० अन्यथोक्तं गौडमात्रग्राह्यत्वान्नोक्तम् ।
चतस्रोदशा अस्य । २ चतुर्दशायुक्ते त्रि० । “अधीति-
बोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नु पाधिभिः ।
चतुर्दशत्वं कृतवान् कुतः? स्वयं न वेद्मि विद्यासु चतुर्दश-
स्वयम्” नैष० । प्रकारे धाच् । चतुर्दशधा चतुर्दश
प्रकारे अव्य० । नान्तत्वात् पूरणे डटि प्राप्ते असंख्यादे
रिति पर्य्युदासेऽपि क्वचिदार्षे मट् । चतुर्दशम चतुर्दश
पूरणे त्रि० । “मनुर्वा इन्द्रसावर्णिश्चतुर्दशम इत्यपि”
भाग० ८ । १३ । १५ ।

चतुर्दशभुवन न० समा० द्विगुः पात्रादि न ङीप् स्त्रीत्वे ।

भूलोकादिषु चतुर्दशसु लोकेषु । “झूर्लोकाख्यों
दक्षिणो व्यक्षदेशात् तस्मात् सौम्योऽयं भुवः स्वश्च मेरुः ।
लभ्यः पुण्यैः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्या-
त्तपः सत्यमन्त्यः” “सि० शि० भुवनकोषे भूलोकादि
सप्तकमुक्तम् “अवनेरप्यधस्तात् सप्त भूविवरा एकैकशो
योजनायुतान्तरेणायामविस्तारेणोपकॢप्ताः । अतलं
वितलं सुतलं तलातलं महातलं रसातलं पाताल
मिति” भाग० ५ । २४ । ११ श्लोके अतलादिसप्तकमुक्तम्
तद्विवरणं तत्राध्याये दृश्यम् । भूलोकादिविवरणं
काशीख० २३ अ० । “पादगम्यं हि यत् किञ्चि-
द्वस्त्वस्ति धरणीतले । तद्भूर्लोक इति ख्यातं साब्धि
द्वीपाद्रिकाननम् । भूर्लोकाच्च भुवर्लोक आब्रध्नात्
समुदाहृतः । आदित्यादाध्रुवं विप्र! स्वर्लोक इति
गीयते । महर्लोकः क्षितेरूर्द्धमेककोटिप्रमाणतः ।
कोटिद्वयोत्तरः ख्यातो जनो भूर्लोकयोजनैः । चतुः-
कोटिप्रमाणस्तु तपोलोकोहि भूतलात् । उपरिष्टात्
क्षितेरष्टौ कोटयः सत्यमीरितम्” ।
योगिनां तनुमध्ये ध्येयानि स्थानभेदे चतुर्दश
भुवनादीनि योगस्वरोदये उक्तानि यथा ।
“व्रह्माण्डे सन्ति ये अण्डाः पिण्डमध्येऽपि संस्थिताः ।
तलं पादाङ्गुष्ठतले तस्योपरि तलातलम् । महातलं गुल्-
फमध्ये गुल्फोपरि रसातलम् । सुतलं जङ्घयोर्म्म-
ध्ये वितलं जानुमध्यगम् । ऊर्वोर्म्भध्ये तलंप्रोक्तं सप्त-
पातालमारितम् । तलातलञ्चातलञ्च महातलरसा-
तलम् । सप्तपातालमेतत्तु सुतलं वितलं तलम् । इदानीं
पिण्डमध्येतु सप्तलोकं शृणु प्रिये! । मूलाधारे तु भूर्लोको
लिङ्गाग्रे तु भुवस्ततः । स्वर्लोको लिङ्गमूले तु मेरुमूले
महस्तथा । मेरुच्छिद्रे जनोलोको मेरुनाड्यां
तपस्तथा । कमले सत्यलोकस्तु इति लोकाः पृथक् पृथक्
पृष्ठ २८७५
भूभुवः स्वर्महश्चेति जनश्चैव तपस्तथा । सप्तमासत्यलोकस्तु
सप्त लोका इति स्मृताः । सप्तलोकैस्तु पातालैभु वनानि
चतुर्दश । अथ ब्रह्माण्डमध्यस्थाश्चत्वारो लोकपालकाः ।
पिण्डमध्ये तु तान् ज्ञात्वा सर्वसिद्धीश्वरोभवेत् । इन्द्रो-
ब्रह्मा विष्णुरीशश्चत्वारश्चात्मदेवताः । मूलाधारे चतुःपत्रे
गजारूढ़ो महानिति । सृष्टिकर्त्ता च तत्रैव स्वाधिष्ठाने
महान् हरिः । मणिपूरे शूलपाणिरष्टसिद्धीश्वरो-
महान् । तालुद्वारे तालुमध्ये ललाटे वक्षःकण्ठके
शृङ्गाटिकाकपाले च लम्बिकाब्रह्मरन्ध्रके । नवचक्र-
मूर्द्ध्वचक्रं ९ त्निकूटेत्येकविंशतिः । ब्रह्माण्डानि वसन्ती
ति ज्ञातव्यानि प्रयत्नतः । सप्त द्वीपानि कथ्यन्तेऽधुना-
तानि शृणु प्रिये! । जभ्वुद्वीपन्तु मज्जायां शाकद्वीपन्तु
मध्यमे । शाल्मद्वीपः शिरोमध्ये मांसमध्ये कुशस्तथा ।
त्वचि क्रौञ्चोलोममध्ये गोमेदद्वीप ईरितः । नखमध्ये
तथा श्वेतः सप्तद्वीपा वसुन्धरा । जम्बुःशाकस्तथा
शाल्मःकुशःक्रौञ्चश्च गोमयः । श्वेतः सप्तेति खण्डानि
सप्तखण्डैर्वसुन्धरा । सप्तान्येतानि रूपाणि देहमध्ये
स्थितानि च । समुद्राःसप्त कथ्यन्ते पिण्डमध्ये
व्यपस्थिताः । लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः ।
लवणः स्वेदमध्ये तु इक्षूरक्ते मधुत्वचि । सर्पिर्मेदोवसा-
मध्ये दधिक्षीरं ललाटके । वीर्य्यमध्येऽमृतोज्ञेयः पादे
कूर्म्मः स्थितोमहान् । इदानीन्तु नवद्वारे नवखण्डा-
नि संशृणु । पाय्वादौ भारतं खण्डं काश्मीरं त्रिकम-
ण्डलु । द्विजखण्डमेकपादं खण्डं वक्ष्ये समण्डलम् ।
कैवर्त्तगर्त्तगान्धारं नवखण्डमिति स्थितम् । इदानीं
पर्वताष्टौ च कथ्यन्ते शृणु यत्नतः । मेरुदण्डे सुमेरुस्तु
पीठमध्ये हिमालयः । वामस्कन्दे तथा दक्षे मलयोमन्द-
राचलः । विन्ध्यस्तु दक्षिणे कर्णे वामे मैनाक ईश्वरि! ।
लन्ताटे मध्यदेशे तु श्रीशैलः परमेश्वरि! । तथा व्रह्मकपा-
लस्थः कैलाशःपर्वतोमहान् । सुमेरुर्हिमवान् विन्ध्योमलयो-
मन्दरस्तथा । श्नीशैलः मैनाकश्चेति कैलाशोऽष्टौ च पर्वताः ।
अपरे पर्वताःसर्वे अङ्गुलीमध्यवासिनः । शरीरे
नवनाड़ीस्था नर्म्मदा च महेश्वरि! । इड़ायां यमुना देवि!
पिङ्गलायां सरस्वती । सुषुम्णायां वहेद्गङ्गा चान्याऽ
न्यासु च नांडिषु । गङ्गासरस्वतीगोदानर्म्मदायमुना-
तथा । कावेरी चन्द्रभागा च वितस्ता च इरावती ।
द्विसप्ततिसहस्रेषु नदीनदपरिस्रवः । इतस्ततोदेहमध्ये
ऋक्षाणि सप्तविंशतिः । योगाश्च राशयश्चैव ग्रहाश्च तिथ-
यस्तथा । लहरीषु मीनमणी वाहनं स्थापनं तथा ।
सर्वाङ्गेषुच देवेशि! समग्रमृक्षमण्डलम् । त्रयस्त्रिंशत्-
कोटयस्तु निवसन्ति च देवताः । तथा पीठानि सर्वाणि
देहमध्ये स्थितानि च । हृदये व्योममध्ये तु अनन्ताद्या-
स्तु वासुकिः । उदये व्योममध्ये तु परे नागा व सन्ति हि ।
गन्धर्वकिन्नराःशूरा विद्याधराप्सरादयः । अनेकतीर्थ-
वर्णाश्च गुह्यकाश्च वसन्ति हि । अनन्तसिद्धये वुद्ध्या प्रका-
शोवर्त्तते हृदि । मेघस्य मण्डलं ज्ञेयमश्रुपाते तथैव च ।
चन्द्रार्कौ नेत्रयोर्म्मध्ये जङ्घलोमसु साक्षिणः । तृणगु-
ल्मादिकञ्चापि विश्वरूपंस्मरेत्ततः । समग्रदर्शनान्मुक्तः
स्वर्गभोगञ्च सत्सुखम । तदेतच्चिन्तया याति रोगशोक-
विवर्ज्यताम्” ।

चतुर्दशविद्या स्त्री ब० व० संज्ञात्वात् कम्म० । वेदादिषु

चतुर्दशसु विद्यासु । ताश्च “विद्याश्चतुर्दश प्रोक्ताः क्रमेण
तु यथास्थिति । षड़ङ्गमिश्रितावेदा धर्म्मशास्त्रं
पुराणकम् । मीमांमातर्कमपि च एता विद्याश्चतुर्दश”
नन्दि पु० । “पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश”
या० स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम् ।

चतुर्द्दशाङ्ग न० चतुर्दश अङ्गान्यस्य । “चिरज्वरे

वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः । किरात-
तिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिना वा त्रिवृता विमिश्रः”
चक्रदत्तोक्ते पाचनभेदे ।

चतुर्द्दिश न० चतसृणां दिशानां समाहारः असंज्ञात्वात्

द्विगुः । चतसृषु दिक्षु । दिक्शब्देन समासे चतुर्दिश्
इत्येव । संज्ञात्वे तु कर्म्मधा० । प्राच्यादिषु चतसृषु
दिक्षु ब० व० । “शिवाभिर्घोररावाभिश्चतुर्द्दिक्षु समन्वि-
ताम्” कालीध्यानम् ।

चतुर्द्दोल पुं न० (चण्डोल) इति (चन्दोल) इति ख्याते

“राज्ञोयद् द्विपदं यानं विशेषाख्यमलं विदुः । चतुर्भि-
रुह्यते यत्तु चतुर्दोलं तदुच्यते” उक्ते चतुर्भिर्बाह्ये
यानविशेषे । प्रसङ्गाच्चतुर्दोलाष्टदोललक्षणभेदादिकं
भोजदेवोक्तं प्रदर्श्यअते । “चतुर्भिर्वाहकैर्दण्डैः षड्मिः
कुम्भैः सुसंस्थितैः । स्तम्भैरष्टाभिरुदितं चतुर्द्दोलमनु-
त्तमम् । तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।
चतुर्विधानां भ्रपानां चतुर्द्दोलाः प्रकाशिताः । त्रिहस्तु-
सम्मितायामो द्विहस्तपरिणाहवान् । हस्तद्वयोन्नतः
प्रोक्तश्चतुर्द्दोलोजयाख्यया । चतुर्हस्तायतोयस्तु सार्द्धहस्त-
पृष्ठ २८७६
स्तु विस्तृतौ । चतुर्द्दोलः समाख्यातः कल्याणस्तावदुन्नतः ।
पञ्चहस्तायतोयस्तु त्रिहस्तपरिणाहवान् । तावदेवो-
न्नतोवीरश्चतुर्द्दोल उदाहृतः । आयामपरिणाहाभ्यां
चतुर्हस्तमितोहि यः । चतुर्द्दोलोह्ययं सिंहस्तदर्धे-
नोन्नतः शुभः । सर्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि-
निश्छदिः । आद्यः समरवर्षासु परः केलिघनात्यये ।
सर्वेषामेव काष्ठानां दण्डः स्याद्वज्रवारणः । चन्दने-
नैव घटना सर्वेषामुपयुज्यते । लोमजं सर्ववस्त्रेषु
कनकं सर्वधातुषु । कुम्भश्च पद्मकोषश्च सिरिश्चेति
यथाक्रमम् । त्रैदेशानां महीन्द्राणां चतुर्दोलेषु
विन्यसेत् । दर्पणं चार्द्धचन्द्रश्च हंसः केकी शुकी-
गजः । अश्वः सिंहश्च तस्याग्रे आदित्यादिदशो-
त्तरान्” । मणिनियमस्तु दण्डवत् । “रक्तः शुक्लश्च
पीतश्च कृष्णश्चित्रस्तथाऽरुणः । नीलः कपिल इत्युक्तः
पताकानान्तु सङ्ग्रहः । चतुर्दोलः सपताकः शुभयान
मिति स्मृतः । मुक्तास्तवकैर्वशभिर्युक्तः स्वाद्राजके-
शानाम् । चामरदर्ण्डर्दशभिर्दिग्जयिनां चतुर्दोलः ।
चाषपक्षस्य पुच्छश्चेत् सर्वोपरि परिन्यसेत् । यात्रा-
सिद्धिरयं नाम्ना चतुर्दोलो महीभुजाम् । स्तम्भश्छ-
दिरहितो निश्छदिरुक्तश्चतुर्दोलः” । मानं पूर्ववत् ।
“स पुनर्द्विविधः प्रोक्तः सध्वजश्चाथ निर्ध्वजः । ध्वजान्
षड़त्र न्यस्यन्ति षड्वर्गविजयैषिणः । तेषां मानन्तु
चत्वारः स्वाभिहस्तैकसम्मिताः । कोणेषु पश्चादग्रेषु
हस्तद्वयमितौ ध्वजौ । सुवर्णं रजतं युग्मं त्रिविधानां
महोभुजाम् । मणिचामरकुम्भानां खड़्गादीनां
विनिश्चयः । चतुर्दोलध्वजोराज्ञां विज्ञेयो नवदण्डवत् ।
निर्ध्वजे तु चतुर्दोले मानमन्यविधं शृणु । आया
मपरिणाहाभ्यां चतुर्हस्तमितोहि यः । विजयोनाम
विज्ञातश्चतुर्दोलोमहीभुजाम् । विजयो मङ्गलो
भव्योवितस्त्येकैकवृद्धितः । त्रिविधानां महीन्द्राणां
यानत्रयमुदाहृतम् । अष्टाभिरुह्यते यस्तु अष्टदोल
मुशन्ति तम् । सोपानद्वितयञ्चात्र विज्ञेयं शिल्पि
निर्मितम्” । भोजस्तु । “अष्टाभिर्वाहकैर्दण्डैः षड़-
भिस्तु दशभिर्घटैः । स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं
महीभुजाम् । तद्भेदाजयकल्याणवीरसिंहा यथाक्रमम् ।
चतुर्विधानां भूपानामष्टदोलाः प्रकीर्त्तिताः । षड़्भि-
र्हस्तैर्मितायामः परिणाहे चतुर्भुजः । चतुर्हस्तोन्नतो
राज्ञामष्टदोलं जयं विदुः । आयामपरिणाहाभ्यां
पञ्चहस्तमितोहि यः । कल्याणाख्योऽष्टदोलोऽयं चतु
र्हस्तमितोन्नतिः । सप्तहस्तायतः कार्योविस्तरे पञ्च-
हस्तकः । पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीमु
जाम् । आयामपरिणाहाभ्यामष्टहस्तमितोहि यः ।
सिंहनामाष्टदोलोऽयं विज्ञेयः षड़्भुजोन्नतः । सर्वोऽथ
द्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः । काष्ठवस्त्र
घटादीनां मणीनां चामरस्य च । चतुर्दोलवदुन्ने
योनियमोऽन्योऽपि सूरिभिः । पूर्ववन्निश्छदेर्मानं ध्वज-
मानमिहोच्यते । दशध्वजास्तेषु चाष्टौ स्वामिहस्त
द्वयोन्नताः । पश्चादग्रे ध्वजौ राज्ञश्चतुर्हस्तमितौ मतौ ।
मणिचामरपक्षाणां निर्णयो निष्पताकवत् । निर्ध्वज
श्चाष्टदोलोयः शिविकेति स गद्यते । मणिकुम्भमुखादीनां
नियमो नवदण्डवत्” । “एवं द्वादश षोड़शविंशति दोला-
दिकाः कार्य्याः । मान सार्द्धद्विंगुणितं सार्द्धत्रिगुणितं
युक्तमेतेषाम् । विंशतिदोलात् परतो भोजमते सम्भवेद्या-
नम्” । यानं वह्वनुयोज्यं बहुगुणमेतज्जगाद वै
व्यासः” । भविष्योत्तरेऽपि “यदुक्तं द्वैपदं यानं तेन
मानेन योनृपः । स्वयानं कुरुते दिव्यं स चिरं सुखम-
श्नुते । स्वयोगयुक्तयानस्थो भोगमाप्नोति मानवः ।
परयौगिकयानस्थः क्लेशमाप्नोति पुष्कलम् । योदम्भादथ-
वाऽज्ञानाद्यानं प्रकुरुतेऽन्यथा । तस्यैतानि विनश्यन्ति
आयुर्विद्यायशोधनम् । प्रधानं यानमाश्रित्य नियमोऽयं
समाश्रितः । नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोज्ञता” ।

चतुर्द्वार न० चत्वारि द्वाराण्यस्य । १ चतुर्मुखे गृहभेदे ।

समाहारद्विगुः । २ चतुर्षु द्वारेषु न० । “मण्डपं
कारयेत्तत्र चतुर्द्वारसमन्वितम्” हेमाद्रौ तुलादानप्रकरणे ।

चतुर्द्धा अव्य० चतुःप्रकारम् धाच् । चतुःप्रकारे । “ततश्च शेषं

प्रविभज्य शीघ्रमर्द्धं चतुर्द्धा मम चात्मनश्च” भा० आ०
१९२ अ० । “द्विधा विधाय चैकैकं चतुर्द्धा प्रथर्म पुनः ।
स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते” पञ्चदशी

चतुर्बाहु पु० चत्वारोबाहवोऽस्य । १ विष्णौ “पीतवासाश्चतु-

र्बाहुः शङ्खचक्रगदाधरः” भाग० ८ । १७ । २ । २ चतुर्भु-
जयुक्तमात्रे त्रि० । ३ चतुष्कोणे क्षेत्रे च न० ।

चतुर्भद्र न० चचुर्ण्णां धर्म्मार्थकाममोक्षाख्यानां भद्राणां

श्रेयसां समाहारः । १ धर्म्मार्थकाममोक्षेषु अमरः ।
चत्वारि भद्राण्यस्य । २ तद्युक्तं त्रि० । “स चेन्ममार
सञ्जय । चतुर्भद्रतरस्त्वया” भा० भा० द्रो० अभिम-
न्युब० प० षोड़शराजिके बहुकृत्वः प्रयुक्तम् ।