वाचस्पत्यम्/गुहाचर

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २६२८

गुहाचर न० गुह्यन्ते ज्ञातृज्ञेयज्ञानपदार्था अस्याम्

गुहघञर्थे क गुहा बुद्धिस्तत्र चरति विषयतया चर--ट ।
१ ब्रह्मणि ।
“मनसैवानुद्रष्टव्यम्” इति श्रुतौ तस्य मनोवृत्तिमात्रवे-
द्यत्वात्तथात्वम् । “आविः सन्निहितं गुहाचरं नाम
महत् पदमत्रैतत् समर्पितम्” माण्डू० उ० ।
“आविः प्रकाशं सन्निहितं रागाद्युपाधिभिश्चरति
भ्राजतीति श्रुत्यन्तराच्छब्दादीनुपलभमानवदवभासते ।
दर्शनश्रवणमननविज्ञानाद्युपाधिधर्मैराविर्भूतं सल्लक्ष्यते
हृदि सर्वप्राणिनाम् । यदेतदाविर्भूतं ब्रह्म सन्निहितं
सम्यक् स्थितं हृदि तद् गुहाचरं नाम गुहायाञ्चरतीति
दर्शनश्रवणादिप्रकारैर्गुहाचरसिति प्रख्यातम्” भा०

गुहातदरी स्त्री गुहा गुह्या वदरीव । (शालपाण) वृक्षें

वैद्यकम् ।

गुहाशय पु० स्त्री--गुहायां गर्त्ते शेते शी--अच् । १ मूषिके

शब्दार्थचि० २ सिंहादिषु जन्तुषु भावप्र० यथा “सिंहव्याघ्र
वृका ऋक्षतरक्षुद्वीपिनस्तथा । बभ्रुजम्बुकमार्ज्जार
इत्याद्याः स्युर्गुहाशयाः” । तन्मांसगुणा भाब० प्र० उक्ता
यथा “गुहाशया वातहरा गुरूष्णा मधुराश्च ते ।
स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविकारिणाम्” ।
स्त्रियामुभयत्र जातित्वेऽपि योपधत्वात् टाप् । गुहायां
हृदि शेते । ३ परमात्मनि । “एवं हि यो वेद गुहाशयं
प्रभुम्” भा० आश्व० ४० अ० । “सर्वभूतगुहाशयः” श्वेता० उ० ।
“गुहायां बुद्धौ शेते इति सर्वभूतगुहाशयः” भा०
स्वापकाले हृदयेषु शायिनि ४ प्राणे “सप्त इमे लोकायेषु
चरन्ति प्राणा गुहाशयानिहिताः सप्त सप्त” मुण्ड० उ०

गुहाहित पु० गुहायां बुद्धौ हृदये वा आहितः । हृदिस्थे

बुद्ध्यारूढे परमात्मनि । “गुहाहितं गह्वरेष्टं पुराणम्”
कठ० उ०

गुहिन न० गुह--बा० इनन् । वने शब्दरत्ना०

गुहिल न० गुह--गुपा० इलच् किच्च । १ घने उज्ज्व० द० ।

गुहा + काशा० चतुरर्थ्याम् इलः । २ गुहासन्निकृष्टदेशादौ त्रि०

गुहेर त्रि० गुह--एरक् । १ गोप्तरि २ लोहकारे सि० कौ० ।

गुह्य त्रि० गुह--भावादौ--क्यप् काशिका । १ गोपने २ गोप्ये

अमरः “गुह्यातिगुह्यगोप्ता त्वम्” जपसमापनमन्त्रः ।
३ उपस्थे स्त्रीपुंसचिह्ने न० । गुहामर्हति दण्डादि० यत् ।
४ कमठे पु० स्त्री स्त्रियां योपधत्वात् टाप् । ५ दम्भे पु०
मेदि० । “गुह्यो गभीरो गहनः” विष्णुस० उक्ते
६ विष्णौपु० “गूहितुं योग्यं गुह्यं वेदरहस्यं तद्वेद्य-
त्वात् लक्षणया गुह्यो विष्णुः गुहायां हृदाकाशे
निहित इति वा गुह्यः” भा० ।

गुह्यक पु० गूहन्ति रक्षन्ति निधिं गुह--स्त्वुल् पृषो०

यगागमः । “निधिं गूहन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः
इति व्याड़िः । गुह्यं कुत्सितं कायति कै--शब्दे कः
गुह्यं गोपनीयं कं सुखं येषामिति वा अनयोः
पक्षयोः “शंसिदुहिगुहिभ्योवेति” काशिकावचनात्
गुहेः क्यप् । १ देवयोनिभेदे तल्लोकप्राप्तिकर्मभेदाः
काशी० ख० उक्ता यथा “गुह्यकानामयं लोकस्त्वेते
वैगुह्यकाः स्मृताः” “न्यायेनोपार्ज्य वित्तानि गूहयन्ति
च ये भुवि । स्वमार्गगा धनाद्याश्च शूद्रप्रायाः कुटुम्बिनः ।
संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः ।
न तिथिं नैव वारञ्च संक्रान्त्यादि न पर्व च । नाधर्मञ्च
न धर्मञ्च विदन्त्येते सदासुखाः । एकमेव हि
जानन्ति कुलपूज्योहि यो द्विजः । तस्मै गाः संप्रयच्छन्ति
मन्यन्ते तद्वचः स्फुटम् । समृद्धिभाजोह्यत्रापि तेन
पुण्येन गुह्यकाः । भुञ्जते स्वर्गसौख्यानि देवत्व-
मकुतोभयाः” । २ पकान्नभेदे तत्पाकप्रकारो यथा
“समितां सर्पिषा भृष्टां सिताद्राक्षादिसम्भृताम् ।
एलालवङ्गकर्पूरमरीचपरिवासिताम् । क्षिप्त्वान्य
समितालम्बपुटे वेष्ट्य घृते पचेत् । ततः खण्डे न्यसेत्
पक्वे गुह्यकोऽयमुदाहृतः । गुह्यको वृंहणोहृद्यो
वृष्यः पित्तानिलापहः मधुरोऽतिगुरुः पाके किञ्चित्
सन्धानकृत्सरः” पाकशा०

गुह्यकाली स्त्री नित्यक्र्म० । विश्वसारतन्त्रोक्ते देवीमूर्त्तिकाली

भेदे तन्मन्त्राद्युक्तं तत्र यथा “अथ वक्ष्ये महेशानि!
विद्यां सर्वफलप्रदाम् । चतुर्वर्गप्रदां साक्षात् महापा-
तकनाशिनीम् । सर्वसिद्धिप्रदां नित्यां भक्तिमुक्तिप्रदायि-
नीम् । गुह्यकालीं महाविद्यां त्रैलोक्ये चातिदुर्लभाम् ।
इन्द्रादि(र)रूढं वर्गाद्यं रतिविन्दुविभूषितम् (क्रीं) ।
त्रिगुणञ्च ततः कृत्वा इशानञ्च समुद्धरेत् । षष्ठस्वर-
समायुक्तं विन्दुनादकलान्वितम् (हूं) । द्विगुणञ्च ततः
कृत्वा ईशवर्णं समुद्धरेत् । वामाक्षिवह्निसंयुक्तं
नादविन्दुकलायुतम् (ह्रीं) । तद्गुह्ये कालिके पाक्त्वाः चाथवा
दक्षिणे वदेत् । सप्तवीजं ततः पश्चात् त्रैलोक्यमोहिनी
त्वियम्” । अथ वेति गुह्ये कालिके । दक्षिणे कालिके” वा
पृष्ठ २६२९

गुह्यकेश्वर पु० ६ त० । कुवेरे ।

गुह्यगुरु पु० कर्म० । शिवे महादेवे त्रिका०

गुह्यदीपक पु० स्वयं गुह्यः सन् दीपयति दीपि--ण्वुल् ।

गुह्यदीप इव कायति कै--क वा । खद्योते (जोनाकी-
पोका) शब्दमा० ।

गुह्यनिष्यन्द पु० गुह्यात् उपस्थात् निष्यन्दते नि + स्यन्द अच् । मूत्रे राजनि०

गुह्यपुष्प पु० गुह्यं पुष्पमस्य । अश्वत्थवृक्षे राजनि०

गुह्यभाषित न० गुह्यं गुप्तं भाषितम् । १ मन्त्रे जटाध०

२ गुप्तबाक्ये च ।

गुह्यमय पु० गुह्यप्रचुरः प्राचुर्य्ये मयट् । कार्त्तिकेये

“आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते
भगवान् देवो सर्वगुह्यमयोगुहः” मा० आ० १३७ अ०

गुह्यवीज पु० गुह्यं वीजमस्य । भूतृणे राजनि०

गुह्याष्टक न० भारभूत्यादितीर्थाष्टके । तच्च यथा “भार-

भूत्याषाढिडिण्डिलाकुल्यमरपुष्कराः । प्रभासनैमिषौ
चेति गुह्याष्टकमिदं जले” इति मृगेन्द्र० सं० ।

गू विष्ठात्यागे तुदा० कुटा० पर० अक० सेट् । गुवति अगुवीत्

जुगाव । ओदित् गूनः । गूथम् ।

गू स्त्री गच्छत्यपानेन देहात् गम--कू टिलोपश्च । १ विष्ठायां,

२ मले च । गूधातोः क्विप्प्रत्ययान्तताकथनं पुंलिङ्गता-
कथनञ्च प्रामादिकम् ।

गूढ त्रि० गुह--क्त । १ गुप्ते २ संवृते च अमरमेदिन्यौ ।

“कामिनीकुचकलसवत् गूढं चमत्करोति” सा० द०
“गूढाकारेङ्गितस्य च” रघुः ।

गूढचारिन् त्रि० गूढः सन् चरति चर--ट । १ गुप्तीभूयचारिणि

गुप्तचरणञ्च चौर्य्यशङ्काहेतुः यथोक्तं याज्ञवल्क्येन
“अन्येऽपि शङ्कया ग्राह्या ज्ञातिनामादिनिह्नवैः । द्यूत
स्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः । परद्रव्यगृहा-
णाञ्च प्रच्छका गूढचारिणः । निराया व्ययवन्तश्च
विनष्टद्रव्यविक्रयाः । गृहीतः शङ्कया चौर्य्ये नात्मानं
चेद्विशोधयेत् । दापयित्वा हृतं द्रव्यं चौरदण्डेन
दण्डयेत्” ।

गूढज पु० गूढ--गुप्तः सन् जायते जन--ड । पुत्रभेदे “गृहे

प्रच्छन्न उत्पन्नो गूढजस्तु सुतोमतः” याज्ञ० । गूढोत्-
पन्नशब्दे विवृतिः ।

गूढनीड पुंस्त्री गूढं नीडं वासस्थानं यस्य । खञ्जनखगे

शब्दमाला तद्वासस्थानं हि केनापि न दृष्टचरम् स्त्रियां
जातित्वात् ङीष् ।

गूढपत्र पु० गूढ़ं पत्रमस्य । १ अङ्कोठे, २ करीरे च राजनि० ।

गूढपथ पु० गूढः पन्थायस्य अच् समा० । १ अन्तःकरणे

शब्दार्थचि० कर्म० । २ गुप्ते मार्गे च

गूढपाद् पुंस्त्री गूढः पादोऽस्य पृषो० । १ सर्पे अमरः

गूढपाद पुंस्त्री गूढः पादोऽस्य । १ सर्पे शब्दरत्ना० “मही-

धरमिव श्वेतं गूढपादैर्विषोल्वणैः” मा० कर्ण० १३१
अ० । स्त्रियां जातित्वात् ङीषि पादः पदादेशः
गूढपदी । २ गुप्तपादमात्रे त्रि० “उपानद्गूढपादश्च” हितो० ।

गूढपुरुष पु० कर्म० । गुप्तचरे, प्रणिधौ अमरः ।

गूढपुष्पक पु० गूढानि संवृतानि पुष्पाण्यस्य । वकुलवृक्षे । राजनि० ।

गूढफल पु० गूढं यथा तथा फलति अच् । वदरे शब्दार्थचि०

गूढ़मार्ग पु० नि० कर्म० । भूमेरन्तर्गते सुरङ्गाख्ये पथि हेमच०

गूढमैथुन पुंस्त्री गूढं केनाप्यदृश्यं मैथुनं यस्य । काके ।

स्त्रियां जातित्वात् ङीष् ।

गूढवर्च्चस् पुंस्त्री गूढवर्च्चोऽस्य । भेके त्रिका० ।

गूढवल्लिका स्त्री कर्म० । अङ्कोठवृक्षे राजनि० ।

गूढव्यङ्ग्या स्त्री गूढं काव्यार्घभावनापरिपक्वबुद्धिमात्रवे-

द्यम् व्यङ्ग्यं यत्र । लक्षणाभेदे “व्यङ्ग्यस्य गूढागू-
ढत्वात् द्विधा स्यात् फललक्षणा” सा० द० । यथा “उपकृतं
बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव अदा सखे! सुखितमास्स्व ततः
शरदां शतम्”

गूढसाक्षिन् पु० कर्म० । “अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थि-

वचनं स्फुटम् । यः श्राव्यते तदा गूढं गूढसाक्षी स
उच्यते” नारदोक्ते साक्षिभेदे ।

गूढाङ्ग पुंस्त्री गूढान्यङ्गान्यस्य । कच्छपे राजनि० स्त्रियां

जातित्वात् ङीष् २ गुप्तदेहमात्रे त्रि० तत्र स्त्रियां स्वाङ्ग-
त्वात् वा ङीष् ।

गूढाङ्घ्रि पुंस्त्री गूढः अङ्ग्रिरस्य । सर्पे राजनि० स्त्रियामिदन्तत्वात् वा ङीष् ।

गूढ़ोत्पन्न पु० गूढं यथा तथोत्पन्नः । “उत्पद्यते गृहे

यस्य न च ज्ञायेत कस्य सः । स गृहे गूढ उत्पन्न-
स्तस्य स्याद्यस्य तल्पजः” इति मनूक्त पुत्रभेदे । “यस्य
गृहे अवस्थितायां भार्य्यायां यः पुत्र उत्पद्यते सजाती-
योऽयं भवतीति ज्ञातोऽपि कस्मात् पुरुषविशेषाज्जा-
तोऽमाविति न ज्ञायते स गृहे अप्रकाशमुत्पन्नस्तस्य
पुत्रः स्याद्यदीयायां भार्य्यायां जातः” कूल्लू० ।
“सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः” याज्ञ० उक्तेः
पृष्ठ २६३०
सजातीयत्वनिश्चये एव तस्य पुत्रता । स च पूर्बषट्क
पातित्वात् बन्धुदायहरः यथाह मनुः “औरसः
क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च
दायादबान्धवाश्च षट्” ।

गूढ़ोत्मन् पु० गूढ आत्मा पृषो० । परमात्मनि । “भवेद्-

वर्णागमात् हंसः सिंहो वर्णविपर्य्ययात् । गूढोत्मा
वर्णविकृतेर्वर्णलोपे पृषोदरः” व्या० का० । “एष
सर्वेषु भूतेषु गूढोत्मा न प्रकाशते” श्रुतिः तस्य सर्वान्त-
र्यामित्वेन स्थितावपि अविदुषामगम्यत्वात् गूढत्वम् ।

गूथ पु० न० । गू--थक् अर्द्धर्चा० । विष्ठायाम् अमरः ।

गूथलक्त पुंस्त्री गूथे रक्त आसक्त रस्य लः । (गुयेसा-

लिक) प्रसिद्धे खगे शब्दच० । स्त्रियां जातित्वात् ङीष् ।

गून त्रि० गू--क्त तस्य नः । कृतविष्ठोत्सर्गे अमरः ।

गूर उद्यमे चुरा० आत्म० अक० सेट् । गूरयते अजुगुरत । गूरणम्

गूर बधे गतौ च दिबा० आत्म० सक० सेट् । गूर्य्यते

अगूरिष्ट । जुगूरे ईदित् गूर्णः

गूर्त्त(र्ण्ण) त्रि० गूरी उद्यमे क्त ईदित्वात् नेट् वेदे नि०

नत्वाभावः । उद्युक्ते “प्रहोता गूर्त्तमना उराणाः”
ऋ० ६ । ६३ । ४ “इदमित्था रौद्रं गूर्त्तवचाः” ऋ० १० ।
६१ । १ । २ । २ प्रशस्ते च “पुरां गूर्त्तश्रवसं दर्म्माणम्” ऋ०
१ । ६१ । ५ “गूर्त्तश्रवसम् प्रशस्यान्नम्” भा० । लोके निष्ठा-
तस्य नत्वे गूर्ण्ण इत्येव ।

गूर्त्ति त्रि० गृणन्ति स्तुवन्ति गृ--कर्त्तरि क्तिच् “बहुलं

छन्दसि” पा० उत्त्वम् । १ स्तोतरि “गूर्त्तयो नेमानिषुः”
ऋ० १ । ५६ । २ “गूर्त्तयः स्तोतारः” भा० । भावे क्तिन् । २ स्तुतौ
स्त्री “शिशुं न यज्ञैः स्वदयन्त गूर्त्तिभिः” ऋ० ९ । १५ । १
“गूर्त्तिभिः स्तुतिमिः” भा० लोके तु गीर्णिरित्येव ।

गूर्ह स्तुतौ सक० चु० उभ० सेट् । गूर्द्दयति ते अजुगूर्द्दत् त ।

“गूर्द्दयतिः स्तुतिकर्म्मा” निघ० “तं गूर्दय स्वर्णरम्” ऋ०
७ । १९ । १ “गूर्दय स्तुहि” भा० क्रीडार्थे गुर्द्दवत् ।

गूवाक पु० गुवाक + पृषो० । गुवाकशब्दार्थे पूगवृक्षे राजनि०

गूषणा स्त्री मयूरपिच्छचन्द्रे शब्दच० ।

गृ सेके भ्वा० पर० सक० अनिट् । गरति अगार्षीत् । जगार ।

गृज ध्वनौ भ्वा० पर० अक० सेट् गर्जति । अगर्जीत्

जगर्ज “गर्ज गर्जक्षणं मूढ!” देवीमा० “गर्जन् हरिः
साम्भसि शैलकुञ्जे” भट्टिः । भावे गृज्यते । अगर्जि

गृज ध्वनौ भ्वा० पर० अक० सेट् इदित् । गृञ्जति अगृञ्जीत् ।

जभृञ्ज गृञ्जनम् । भावे गृञ्ज्यते अगृञ्जि

गृञ्जन पु० गृञ्जति रोगभेदनाशाय ध्वनति गृजि--कर्त्तरि

ल्यु । १ मूलभेदे मेदि० २ रक्तलसुने राजनि० । “गृञ्जनः
पित्तलः ग्राही तीक्ष्नोष्णो रोगनाशनः । गन्धाकृति
गुणैस्तुल्यः सूक्ष्मनालः पलाण्डुना” इत्युक्तलक्षणे
(सलगम्) प्रसिद्धे ३ मूलभेदे पु० । “कदुष्णं कफवातघ्नं
गृञ्जनं गुल्मनाशनम् । रुचिकृत् दीपनं हृद्यं दुर्ग-
न्धि परिकीर्त्तितम् इत्युक्तगुणे (लसुन) ख्याते ४
मूलभेदे न० “लसुनं गृञ्जनं चैव पलाण्डुं कवकानि च”
अभक्ष्ये मनुः । (गाजर) इति ख्यात्रे ५ मूलभेदे च ६
विषदिग्धपशुमांसे न० मेदि० स्वार्थे क । तत्रार्थे । “शोभा-
ञ्जनः कोविदारस्तथा गृञ्जनकादयः” भा० आनु० ९१ अ०
अश्राद्धीयोक्तौ ।

गृञ्जिम पु० यदुवंश्ये शूरस्य पुत्रे वसुदेवभ्रातृभेदे ।

“महिष्यां जज्ञिरे शूरात् भोज्यायां पुरुषत्ता दश ।
वसुदेवो महाबाहुः” इत्युपक्रमे “अनाधृष्टिः कनवको
वत्सवानथ गृञ्जिमः” हरिव० ३५ अ० ।

गृणीषन् पु० गृ--णिक् गृणिः स्तोत्रं तस्येच्छा इष--भावे

बा० कनिन् ६ त० । स्तोत्रेच्छायाम् “देवं देवं वोऽवसं
इन्द्रमिन्द्रं गृणीषणि” ऋ० ८ । १२ । १९ “गृणीषणि स्तो-
त्रेच्छायाम्” भा० ।

गृण्डीव पुंस्त्री स्थूलशृगाले हेम० स्त्रियां जातित्वात् ङीष् ।

गृत्स पु० गृध्यति अनेन गृध--स । १ कामदेवे उज्ज्वलद०

२ स्तोतरि ३ स्तुत्ये च त्रि० माधवः “गृत्सं कविं विश्व-
विदमसूरम्” ऋ० ३ । १९ । १ “गृत्सं गृणन्तम्” भा०
“गृत्सो राजा वरुणश्च एतम्” ऋ० ७ । ८७ । ५
“गृत्सः स्तुत्यः” भा० । ४ मेधाबिनि त्रि० निरु० । अग्निस्त-
रुणश्चिदस्तु” ऋ० ७ । ४ । २ “गृत्सो मेधावी” भा० । ५
विषयाभिलाषुके त्रि० ६ रुद्रभेदे पु० “गृत्सेभ्यो गृत्सपतिभ्यश्च
वो नमो नमः” यजु० १६ । २५

गृत्सपति पु० ६ त० । रुद्रभेदे गृत्सशब्दे यजुर्वाक्यं उदा० दृश्यम् ।

गृत्समति पु० वृहस्पतिवंश्ये सुहोत्रपुत्रभेदे नृपे “सुहो-

त्रस्य सुतद्वयम्” “काशकश्च महासत्वस्तथा गृत्समति-
र्नृपः” हरिव० ३२ अ० ।

गृत्समद पु० शौनकगोत्रप्रवरे सुनहोत्रस्य १ पुत्रभेदे

सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः । काशः शाल्-
मश्च द्वावेतौ तथा गृत्समदः प्रभुः” हरिव० २९ अ०
“शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवसौनहोत्र-
गार्त्समदेति” आश्व० श्रौ० १२ । १० । १३ “कृषिर्गृत्सम-
पृष्ठ २६३१
दोनाम शक्रस्य दयितः सखा” भा० आनु० १८ अ० ।
स च ऋग्वेदिनां तर्पणीयर्षिभेदः “अथर्षिषयः
शतर्चिनो मध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भ-
रद्वाजोवशिष्ठः” इति आश्व० गृह्य० सू० ३ । ४ । २ “वीतहव्यो
महाराज! ब्रह्मवादित्वमेव च । तस्य गृत्समदः पुत्रो
रूपेणेन्द्र इवापरः । शक्रस्त्वमिति यो दैत्यैर्निगृहीतः
किलाभवत् । ऋग्वेदे वर्त्तते चाग्र्या श्रुतिर्यस्य
महात्मनः । यत्र गृत्समदो ब्रह्मन् ब्राह्मणैः स महीयते ।
स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदोऽभवत्” आनु०
३० अ० उक्ते २ वीतहव्यपुत्रे ऋषिभेदे च ।

गृध लिप्सायां दिवा० पर० सक० सेट् । गृध्यति इरित्

अगृधत्--अगर्द्धीत् । जगर्द्द । गर्द्धित्वा--गृद्ध्वा गृध्नुः ।

गृधु त्रि० गृध--कु । १ अभिलाषुके २ कामे पु० उणादि० ।

गृधू स्त्री गृध--कू १ बुद्धौ २ कुत्मिते ३ अपाने च संक्षिप्तसा०

गृध्नु त्रि० गृध--क्नु । लुब्धे अमरः “अगृध्नुराददे सोऽर्थान्”

रघुः “चातकस्तोयगृध्नुः” मेघदू “मा ते गृध्नुरवि-
शस्तातिहायच्छिद्रागात्राणि” अथ० १ । १६ । २०

गृध्य त्रि० गृध--कर्मणि क्यप् । १ अभिषणीये “गृध्यमर्थ-

मपाप्स्यसि” भट्टिः । भावे क्यप् । २ लिप्सायां न० । ततो
ऽस्तीत्यर्थे इनि । गृध्यिन् लिप्सावति त्रि० । “नेमां
हिंस्युर्वने बालां क्रव्यदा मांसगृध्यिनः” भा० आनु०
७२ अ० । स्त्रियां ङीप् ।

गृध्र पुंस्त्री गृध--क्रन् । (शकुनि) पक्षिभेदे राजनि० ।

आसन्नभृत्योर्नियतं चरन्ति गृध्रादयो मूर्ध्नि गृहोर्द्धभागे”
शकुनशास्त्रम् । “कौशिकगृध्रप्रभृतिभिरनिष्टविहगैः
परित्यक्ते” वृ० स० ४८ अ० । गृध्रस्येदम् गार्ध्र गृध्रसम्ब-
न्धिनि त्रि० गार्ध्रपक्षशब्दे २५८५ पृ० उदा० “गृध्रच्छाये
वरुथिनी” २ पक्षिमात्रे च “तौ सीतान्वेषिणौ गृध्रं
(जटायुषम्) लूनपक्षमपश्यताम्” रघुः । २ लुब्धे
त्रि० “प्रत्यघ्नन्निशितैः शस्त्रैर्जयगृध्राः प्रहारिणः”
भा० द्री० ७ अ० । गृध्रपक्षिजातिश्च श्येनीजाता यथाह
“श्येनी श्येनांश्च गृध्रांश्च तथोलूकानजायत” रामा०
गृध्रीशब्दे दृश्यम् । स्त्रियां ङीष् ।

गृध्रकूट पु० गृध्रप्रधानं कूटमस्य । मगधदेशस्थपर्वतभेदे ।

“गोलाङ्गुलैर्महाभागी गृध्रकूटेऽभिरक्षितः” (वृहद्रथः)
भा० शा० ४९ अ० । “चरणाद्रिं समारभ्य गृध्रकूटान्तकं
शिवे! । तावत् कीकटदेशः स्यात्तदन्तर्मगधो भवेत्”
शक्ति० सङ्ग० ३०७ पट०

गृध्रनखी स्त्री गृधस्य नखस्तदाकारोऽस्त्यस्या अच् गौरा०

ङीष् । (कुलियास्वाडा) १ कुलिकवृक्षे रत्नमा० । २ कोलिवृक्षे
वदर्य्याम् त्रिका० “करमर्द्दत्रिकण्ठकसौवीरकशतावरी-
गृध्रनख्यश्चेति कण्टकसंज्ञः । रक्तपित्तहरौ ह्येतौ वल्ली
कुण्ठसंज्ञकौ । सर्वमेहहरौ चैव शुक्रदोषविनाशनौ”
सुश्रुते तस्याः कण्टकसंज्ञत्वमुक्त्वा गुणा उक्ताः ।

गृध्रपत्रा स्त्री गृध्र इव धूम्रं पत्रं यस्याः । धूम्रपत्रावृक्षे

राजनि० । गृध्रस्य पत्रं पत्रं पक्षोऽस्य । गृध्रपक्षि
पक्षकृतपक्षे २ बाणभेदे । गृध्रवाजादयोऽप्यत्र “शतेन
गृध्रवाजानां शराणां नतपर्वणाम्” भा० शल्य० २७
अ० । “येऽन्ये स्कन्दस्य सैनिका” इत्युपक्रमे “सञ्चारकः
कोकनदो गृध्रपत्रश्च जम्बुकः” भा० श० ४६ अ० । उक्ते
३ स्कन्दसैन्यभेदे ।

गृध्रयातु पु० गृध्ररूपेण याति या--तुन् । ग्रध्ररूपे राक्ष-

सभेदे । “सुपर्णयातुमुतगृध्रयातुम्” ऋ० ७ । १०४ । २२ ।

गृध्रराज पु० ६ त० गृध्रोराजेवेति वा उपमितस० । गरुडात्मजे

जटायुपक्षिणि । “निर्बिभेद सुतीक्ष्णाग्रैर्गृध्रराजं शिला
शितैः” रामा० आर० । गृध्रपत्यादयोऽप्यत्र ।

गृध्रवट पु० गृध्रोपलक्षितो वटोऽत्र स्थाने । तीर्थभेदे

“ततो गृध्रवट गच्छेत् स्थानं देवस्य धीमतः । स्नायीत
भस्मना तत्र अभिगम्य वृषध्वजम् । व्राह्मणेन भवेच्चीर्णं
व्रतं द्वादशवार्षिकम् । इतरेषां तु वर्णानां सर्वपापं प्रण-
श्यति” भा० व० ८४ अ०

गृध्रसी स्त्री गृध्रमपि स्यति सो--क गौरा० ङीष् ६ त० ।

वातरोगभेदे यथाह सुश्रुतः “पार्ष्ण्यो प्रत्यङ्गुलीनां तु स्तम्भकृत्
यानिलार्द्दिता । सकथ्नोः क्षेपं निगृह्णीयाद् गृध्रसीति
हि सा स्मृता” । माधवकरोऽप्याह । “स्फिक्पूर्वोरुकटी
पृष्ठजानुजङ्घापदं क्रमात् । गृध्रसीस्तम्भकृत् तोदै-
र्गृह्णाति स्पन्दते मुहुः । वाताद्वातः कफात्तन्द्रा
गौरवाऽरोचकान्विता” । भावप्रकाशे विस्तरेणोक्तम् यथाह
“स्फिक्पूर्व्वोरुकटीपृष्ठजानुजङ्घापदम् क्रमात् । गृध्रं-
सीस्तम्भकृत् तोदैर्गृह्णाति स्पन्दते मुहुः । वाताद्वात
कफाभ्यां सा विज्ञेया द्विविधा पुनः । वातजायां
भवेत्तोदो देहस्यातीव वक्रता । जानुजङ्घोरुसन्धीनां
स्फुरणं स्तम्भता भृशम् । वातश्लेष्मोद्भवायान्तु गौरबं
वह्निनार्द्दवम् । तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च ।
गध्रसी वातात् केबलात् स्फिगादिपर्य्यन्तं स्तम्भकृत्
तोदैर्गृह्णाति । क्रमात् वृद्धिक्रमात् तेन यथा यथा
पृष्ठ २६३२
वर्द्धते तथा तथा स्फिगादीन्याक्रामति । नात्र ग्रहणे
निर्द्धेशक्रमनियमः । तथा सुहुः स्पन्दते स्फिगादिषु
शिराकम्पं करोतीत्यर्थः” ।

गृध्राण पु० गृध इवानिति अन--अच् गौरा० ङीष् संज्ञायां

णत्वम् । धूम्रपत्रा वृक्षे वैद्यकम् ।

गृध्री स्त्री कश्यपषत्न्याः सुताभेदे । “षट्सुताश्च

महासत्वास्ताम्रायाः परिकीर्त्तिताः । काकी श्येनी
च भासी च सुग्रीबी शुचिगृध्रिका । श्येनी श्येनां-
स्तथा भासी भासान् गृध्रांश्च गृध्र्यपि” हरिव० ३ अ० ।

गृभ न० गृह + वेदे हस्य भः । गृहे “न्यु भ्रियन्ते यशसो

गृभादा” ऋ० ७ । २२ । २ गृभात् गृहात्” भा०

गृभि पु० ग्रह--कि सम्प्र० वेदे हस्य भः । ग्रहणे ।

“वनस्पतीनां गृभिरोषधीनाम्” अथ० १२ । १ । ५७

गृभीत त्रि० ग्रह--क्त वेदे हस्य भः । गृहीते “रात्रिं

गृभीतां मुखतो नयन्ति” ऋ० १ । १६२ । २ “गृभीतां गृही-
ताम्” भा० २ गृहीतयज्ञे च “यदि गृभीततातये” ऋ०
५ । ७४ । ४ “गृभीततातये गृहीतयज्ञसन्तानाय” भा०
क्वचित् आर्षेऽपि प्रयोगे लोके भः । “जयजय जह्य-
जामजितदोषगृभीतगुणाम्” भाग० १० । ८७ । ११ श्लो० ।

गृष्टि स्त्री गृह्णाति सकृत् गर्भम् ग्रह--कर्त्तरि क्तिच्

पृषो० । १ सकृत्प्रसूतायां गवि । “गृष्टिः ससुव स्थविरं
तवागाम्” ऋ० ४ । १८ । १० “आपीनभारोद्वहनप्रयत्नात्
गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः” रघुः । “भजमानश्च
चपलो गृष्टीः स प्रचचार हं हरि० व० ७ अ० । जात्या
सहास्य कर्म० । विशेषणत्वेऽपि परनिपातः गोगृष्टिः ।
इदन्तत्वात् वा ङीप् । “पृष्ठोहीनां पीवराणाञ्च
तावदग्र्याः गृष्ट्योधेनवः सुव्रताश्च” भा० आनु० ९३
अ० । २ सकृत्प्रसूतस्त्रोमात्रे अतएव गृष्टेर्गोमा-
त्रपरत्वे “चतुष्पादो गार्भिण्याः” पा० सूत्रान्तरमारब्धं
शब्दार्थचि० गृष्टेरपत्यम् गृष्ट्यादि ढक् । गार्ष्टेय
तदपत्ये पुंस्त्री । कर्मणि क्तिन् । ३ वराहक्रान्तायाम्
अमरः । ४ वदरवृक्षे मेदि० । ५ काश्मर्यां राजनि० । स्वार्थे
क तत्रार्थे । सप्तपर्णारग्बधेत्याद्युपक्रमे “मधुकभूनिम्ब
गृष्टिका इति समभागाः कल्कः” सुश्रुतः ।

गृष्ट्यादि अपत्यार्थे ढक्प्रत्ययनिमित्ते पा० ग० सूत्रोक्ते शब्द-

गणे स च गणः “गृष्टि हृष्टि बलि हलि विश्रि कुद्रि
अजवस्ति मित्रयु” ।

गृह ग्रहणे अद० चु० आत्म० सक० सेट् । गृहयते अजगृहत गृहयालुः ।

गृह न० गृह्यते धर्माचरणाय ग्रह--गेहार्थे क । इष्टका-

मृत्तिकादिरचिते १ गेहे । अर्द्धर्च्चादित्वादयमुभयलिङ्गः
तत्र एकगृहे न० पुंलिङ्गस्तु बहुवचनान्त एव “तत्रा-
गारं धनपतिगृहानुत्तरेणास्मदीयम्” मेधदू० । “जाला-
गताभ्योऽधिगृहं गृहिण्यः” “गृहाणि नीब्रैरिव तत्र
रेजुः” लिप्तेषु भासा गृहदेहलीनाम्” गृहैर्विशालैरपि
भूरिशालैः” माघः । चु० गृह--ग्रहणे कर्मणि अच् ।
२ कलत्रे “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते”
इति स्मृतिः । ३ नामनि शब्दर० ४ मेषादिभवने राशौ च ।
गेहनिर्माणप्रयोजनमाह वशिष्ठः “वास्तुज्ञानं प्रवक्ष्यामि
यदुक्तं व्रह्मणा पुरा । ग्रामसद्मपुरादीनां निर्माणं
वक्ष्यते मया” । भवि० पु० “गृहस्थस्य क्रियाः सर्व्वाः
न सिध्यन्ति गृहं विना । यतस्तस्माद् गृहारम्भप्रवेश
समयं ब्रुवे । परगेहे कृताः सर्वाः श्रौतस्मार्त्तादिकाः
क्रियाः । निष्फला स्युर्यतस्तासामधीशः फलमश्नुते”
तत्र ग्रामादिभेदे पुरुषभेदस्य शुभाशुभं राशिभेदेन द्वार-
निवेशनञ्चोक्तम् “यद्भं द्व्यङ्कसुतेशदिङ्तितमभौ ग्रामः
शुभोनामभात्स्वं वर्गं द्विगुणं विधाय परवर्गाढ्यं गजैः
शेषितम् । काकिण्यस्त्वनयोश्च तद्विवरतो यस्याधिकाः
सोऽर्थदोऽथ द्वारं द्विजवैश्यशूद्रनृपराशीनां हितं पूर्वतः”
मु० चि० । “व्यवहारप्रसिद्धं यन्नाम (नीलकण्ठः) इत्या-
दिकं तस्यावकहडचक्रानुसारेण यदनुराधादिकं नक्षत्रं
ततो यद्वृश्चिकादिराशिः स्यात्तन्नामभमेवं यस्मिन् ग्रामे
नगरे वा बस्तुमिष्यते तस्य (चरणाद्रिः) इत्यादिकं यन्नाम
तस्माज्जातो यो राशिर्मीनादिस्तद्ग्रामभम् एवं
नामभद्वयं ज्ञात्वा नामभात् पुरुषनामराशेः सकाशात् यद्भंयस्य
ग्रामस्य भं राशिः यदा द्वितीयो नवमः पञ्चमः
एकादशसङ्ख्योदशमश्च स्यात्तदासौ ग्रामः स्वस्य शुभो फलदाता
स्यात् अन्यथा न भवतीत्यर्थः । यथा नीलकण्ठस्य
वृश्चिकराशितः पञ्चमोमीनराशिरतश्चरणाद्रिर्नीलकण्ठस्यं
वासयोग्यः सन् शुभफलदो न वाराणस्यादिः । उक्तञ्च
मुहूर्त्तमार्तण्डे “नामर्क्षात् द्विसुताङ्कदिग्भवगतो ग्रामः
शुभोनाऽन्यथेति” । अत्र काकिण्यादौ नामराशिरेव
ग्राह्यः । उक्तञ्च “काकिण्यां वर्गशुद्धौ च वादे द्यूते-
स्वरोदये । मन्त्रे पुमर्भूवरणे नामराशेः प्रधानतेति”
अथ ग्रामात्मनोरुत्तमर्णत्वमधमर्णत्वं चाह स्वं वर्ग-
मिति । वर्गास्तु “अकचटतपयशाः खगेशमार्जार
सिंहशुनाम् । सर्पाखुमृगावीनां निजपञ्चमवैरिणामष्टौ”
पृष्ठ २६३३
इत्युक्तास्तत्र यस्य पुंसः यत्संख्याकोवर्गोगरुडादिः
स्यात्तद्वर्गसंङ्ख्यां द्विगुणां विधाय कृत्वा परस्य ग्रामस्य वर्ग
संङ्ख्यया आद्यां च कृत्वा गजैरष्टभिः शोषितमव-
शिष्टन्ताः काकिण्योज्ञेयाःपुंसः । एवं ग्रामस्यापि स्ववर्ग-
संङ्ख्यां द्विगुणां कृत्वा परस्य पुंसः वर्गसंङ्ख्यया युक्तां च
कृत्वा गजभक्तावशिष्टाःग्रामस्य कादिण्यो भवन्ति एवमनयोः
पुरुषग्रामयोः काकिण्यःस्युः । तत्र तद्विवरतः पुरुगका-
किणीनां ग्रामकाकिणीनां विवरमन्तरन्तस्मिन् क्रियमाणे
यस्य ग्रामस्य दातृत्वात् पुंसः काकिण्याविशेषे पुंसोद्रव्य-
हानिः । ग्रामस्य प्रतिग्रहीतृत्वादित्यर्थः । यथा ।
नीलकण्ठस्य वर्गः सर्पः तत्संङ्ख्या ५ द्विगुणा १० चरणाद्रे-
र्वर्गःसिंहस्तत्संङ्ग्यया ३ युक्ता १३ गजभक्तशेषं ५
नीलकण्ठस्य काकिण्यः । एवं ग्रामवर्गसङ्ख्या ३ द्विगुणा ६
नीलकण्ठवर्ग ५ सङ्ख्यया युक्ता ११ अष्टभक्ताघशेषं ३
ग्रामस्य काकिण्यः द्वयोरन्तरे शेषं २ नीलकण्ठस्य दातृ-
त्वात् स्वद्रव्यहानिरित्यर्थः । उक्तञ्च “स्ववर्गं द्घिगुणं
कृत्वा परवर्गेण योजयेत् । अष्टभिस्तु हरेद्भागं योऽधिकः
स ऋणी भवेत्” इति । इतोऽन्यथाहुः कश्यपवशिष्ठनार-
ददाः “अकारादिषु वर्गेषु दिक्षु प्रागादिघु क्रमात् ।
गृध्रमार्जारसिंहाश्वसर्पाखुगजमेषकाः । दिग्वर्गाणा
मियं योनिः स्ववर्गात्पञ्चमो रिपुः । रिपुवर्गं
परित्यज्य शेषवर्गाः शुभप्रदाः । साध्यवर्गं पुरः स्थाप्य
पृष्ठतः साधकं न्यसेत् । विभजेदष्टभिः शेषं साधकस्य
धनं स्मृतम् । व्यत्ययेनागतं शेषं साधकस्य ऋणं
स्मृतम् । धनाधिकं स्वल्पमृणं सर्वसंपत्प्रदं स्मृतम्”
इति । गृघ्रोऽत्र गरुडः गरुडसर्पयोर्महावैरस-
त्त्वात् साध्य इत्यर्थः । साध्यो वासयोग्यो ग्रामादि-
स्तस्य वर्गं वर्गसंख्यां पुरः संस्थाप्य साधकस्य नीलकण्ठादेः
वर्गसंख्यां पृष्ठतोन्यसेत् । एवं विशिष्टोऽङ्कोऽष्टभिर्भक्तः शेषं
साधकस्य ऋणं स्यात् । यथा साध्यवर्गसंख्या ३ पुरः-
स्थापिता साधकस्य ५ वर्गसंख्या च पृष्ठतः साचैवम्
५३ एतास्त्रिपञ्चाशत् अष्टभक्तावशिष्टं साध्यस्य ५ धनं
साधकस्य साध्यस्य च संख्या विपरीतस्थापित ३५ अष्टभक्तं
शेषं साधकस्य ३ ऋणं स्यात् । अथ द्वारनिवेशनमाह ।
अथेति । द्विजादिराशिमतां पुंसां क्रमेण पूर्वतः
प्राच्यादिदिक्चतुष्टये द्वारं हितं यथा द्विजराशयः
कर्कवृश्चिकमीनास्तेषां पूर्वदिशि । वैश्यराशयो वृषक-
न्यामकरास्तेषां दक्षिणदिशि । शूद्रराशयो मिथुनतुला
कुम्भास्तेषां पश्चिमदिशि नृपराशयो मेषसिंहधनुर्धरा-
स्तेषामुत्तरदिशि द्वारनिवेश इत्यर्थः” पीयु० धा०
अत्रेदं वीध्यम् “शेषाङ्केन फले बोध्ये शेषाभावे तु
हारकात् । अङ्कादेव फलं बोध्यमिति तन्त्रविदां मतम्”
ज्यो० त० वचनादङ्काभावे हारकाङ्कात् फलनिर्णयः ।
राशिविशेषस्य ग्रामादिस्थानविशेषे निवासनिषेधमाह ।
“गोसिंहनक्रमिथुनं निवसेन्न मध्ये ग्रामस्य पूर्वककुभो-
ऽलिवृषाङ्गनाश्च । कर्को धनुस्तुलभमेषघटाश्च तद्वद्वर्गाः
स्वपञ्चमपरा बलिनः स्युरैन्द्र्याः” मु० चि० “वस्तुमिष्टस्य
ग्रामस्य वस्त्रविभागवन्नवधा विभागं कृत्वा मध्ये मध्य-
मविभागे गोसिंहनक्रमिथुनं समाहारद्वन्द्वः न निवसेत्
वृषसिंहमकरमिथुनराशिमन्तः पुरुषा न वसेयुः । अथ
पूर्बककुभः पूर्वदिशातोऽष्टदिक्षु अलिर्वृश्चिकः तदा
दिराशिमन्तः पुरुषाः न वसेयुः । यथा । पूर्वस्यां वृश्चिकः
आग्नेय्यां झषो मीनः, दक्षिणस्यां कन्या, नैरृत्यां कर्कः
पश्चिमायां धनुः । वायव्यां तुला उत्तरस्यां मेषः
ऐशान्यां कुम्भः न वसेदित्यर्थः । अथ वर्गाः । अकचटत-
पयशवर्गाः अष्टौ ऐन्द्र्याः पूर्वदिशमारभ्य अष्टदिक्षु
बलिनः । यथा अवर्गः पूर्वस्याम् । कवर्ग आग्नेय्याम् ।
चवर्गो दक्षिणस्याम् टवर्गो नैरृत्याम् । तवर्गः पश्चिमायाम्
पवर्गो वायव्याम् । यवर्गः उत्तरस्याम् । शवर्ग ऐशान्यां
बलीत्यर्थः । कीदृशाः वर्गाः स्वपञ्चमपराः स्वस्मात् पञ्च-
मः परः शत्रुर्येषां ते । यस्य अवर्गः पूर्वस्यां बली तेन
स्वपञ्चमपश्चिमायां द्वारं निवासो वा न विधेयः एवं
कवर्गादीनामाग्नेयादिसप्तदिक्षु बलित्वं तत् पञ्चमस्य
रिपुत्वञ्च ज्ञेयम्” । पी० धा०
तत्र गृहयोग्यभूमिपरीक्षा विश्वकर्मणोक्ता यथा
“अथातः संप्रवक्ष्यामि लोकानां हितकाम्यमा । श्वेता
रक्ता तथा पीता कृष्णा वर्णानुपूर्बशः । सुगन्धा ब्राह्मणी
मूमीरक्तगन्धा तु क्षत्रिणो । मधुगन्धा भवेद्वैश्या
मद्यगन्धा च शूद्रिणी । मधुरा ब्राह्मणी भूमिः कषाया
क्षत्रियान्विता । अम्ला वैश्या भवेदूमिस्तिक्ता शूद्रा प्रकी
र्त्तिता । चतुरस्रा द्विपाकारा सिंहा वृषभरूपिणी ।
वृत्तं च भद्रपीठं च त्रिशूलं लिङ्गसन्निभम् । प्रासा-
दध्वजकुम्भादिदेवानामपि दुर्लभम् । त्रिकोणां शकटा-
कारां शूर्पव्यजनसन्निभाम् । मुरजाकारसदृशीं सर्प-
मण्डूकरूपिणीम् । खराजगरसंकाशां वक्रां चिपिटरूपि-
णीम् । मुद्गराभां तथा लूककाकसर्पनिभां तथा ।
पृष्ठ २६३४
शूकरोष्ट्राजसदृशीं धनुःपरशुरूपभाम् । क्रकलासशवा-
कारां दुर्गन्धां च विवर्जयेत् । मनोरमाऽत्र या भूमिः
परीप्सेत्तां प्रयत्नतः । द्वितीया दृढ़भूमिश्च निम्ना चोत्तर-
पूर्बके । गम्भीरा ब्राह्मणी भूमिर्नृपाणां तुङ्गमाश्रिता ।
वैश्यानां समभूमिश्च शूद्राणां विकटा स्मृता । सर्वेषां
चैव वर्णानां समभूमिः शुभावहा । शुक्लवर्णा च
सर्वेषां शुभा भूमिरुदाहृता । कुशकाशयुता ब्राह्मी दूर्वा
नृपतिवल्लभा । फलपुष्पयुता वैश्या शूद्राणां तृणसंयुता ।
नदीपाताश्रितां तद्वत् महापाषाणसंयुताम् ।
मुशलाभां महाधोरां वायुना वापि पीड़िताम् । वल्लझल्लक
संयुक्तां मध्ये विकटरूपिणीम् । श्वशृगालनिभां रूक्षां
दन्तिकैः परिवारिताम् । चैत्यश्मशानवल्मीकधूर्त्ता-
न्तिकेषु वर्त्तिनीम् । चतुष्पथमहावृक्षदेवमन्त्रिनिवासतः ।
अदूरस्थां श्वभ्रगर्त्तयुक्ताञ्चैव विवर्जयेत्” भूमिभेदे
फलानि तत्रैव “सुवर्णगन्धा सुरसा धनधान्य शुभावहा ।
व्यत्यये व्यत्ययफला ततः कार्यं परीक्षणम् । चतुरस्रा
महाधन्या द्विपाभा धनदायिनी । सिंहाभा सद्गुणन्यूना
वृषामा पशुवृद्धिदा । वृत्ता सद्वृत्तदा मूमिर्भद्रपीठनिभा
तथा । त्रिशूलरूपा वीराणां सत्खनिर्धनसौख्यदा ।
लिङ्गाभा लिङ्गिता श्रेष्ठा प्रासादध्वजसन्निभा । पदोन्नतिं
पकुरुते कुम्भाभा धनवर्द्धिनी । त्रिकोणशकटाकारा शूर्प-
व्यजनसन्निभा । क्रमेण सुतसौख्यार्थधर्महानिकरी-
स्मृता । मुरजा वंशहा सर्पमण्डूकाभा भयावहा । नैःस्वा
खरानुकारा च मृत्युदाऽजगरान्विता । चिपिटा पौरुषै
र्हीना वक्राकारा तथैव च । काकोलूकनिभा तद्वद्दुःख-
शोकभयप्रदा । सर्पाभा पुत्रपौत्रघ्नी वंशाभा वंशहानिदा ।
शूकरोष्ट्राजसदृशी धनुःपरशुरूपिणी । कुचेलान्म-
लितान् मूर्खान् ब्रह्मघ्नान् जनयेत् सुतान् । कृकलासशवा-
कारा मृतपुत्रा धनार्त्तिदा । दुर्गम्यां पापिनीं दुष्टप्रजां
भूमिं परित्यजेत् । मनोरमा सुतप्रदा दृढ़ा धनप्रदा मता ।
सुतार्थदा तथाप्युदक्सुरेशदिक्प्तवा सही । गम्भीरशब्दा
जनयेत् पुत्रान् गम्भीरनिःस्वनान् । तुङ्गा पदान्वितान्
कुर्यात् सदा सौभाग्यदायिनी । विकटा शूद्रजातीनां
तथा दुर्गमवासिनाम् । शुभदा न परेषां च तस्कराणां
शुभावहा । सुवर्णवर्णा खान् वर्णान् वर्णानामाधिपं
सदा । शुक्लवर्णा च सर्वेषां पुत्रपौत्रप्रवर्द्धिनी ।
कुशकाशान्विता ब्रह्मवर्चसान् कुरुते सुतान् । दूर्वान्विता
वीरजनिः फलाढ्या धनपुत्रदा । नदीपाताश्रिता मूर्खान्
मृतवत्सांस्तथैव च । दरिद्रानश्ममध्यस्था गर्त्तान्तस्था मृषा-
युतान् । विवरा पशुपुत्रार्त्तिदायिनी सौख्यहारिणी ।
वक्रातिवक्रा जनयेत् पुत्रान् विद्याविहीनकान् । शूर्प-
मार्जारलगुडनिभा भीतिसुतार्तिदा । मुशला मुशलान्
पुत्रान् जतयेद्वंशघातकान् । घोराघोरप्रदा वायुपीड़िता
वायुमीतिदा । बल्लझल्लकसंयुक्ता पशुहानिप्रदा सदा ।
विकटा विकटान् पुत्रान् श्वशृगालनिभा तथा । ददाति
रूक्षा परूषा दुर्बलान् जनयेत् सुतान् । गृहस्वामिभयं
चैव वल्मीके विपदः स्मृताः । धूर्त्तालयसमीपे तु
पुत्रस्य मरणं ध्रुवम् । चतुःपथे त्वकीर्तिः स्यादुद्वेगो
देवसद्मनि । अर्थहानिश्च सचिवे श्वभ्रे विपद उत्कटाः ।
गर्तायां तु पिपासा स्यात् कूर्माभं धननाशदम् ।
दशण्डादिपर्यन्तं पीड्यन्ते पुरवासिनः । चैत्यश्मशानदेवानां
गृहाणि परिवर्जयेत् । निखनेद्धस्तमात्रेण पुनस्तेनैव
पूरयेत् । पांसुनाधिकमध्योनाः श्रेष्ठमध्याधमाः क्रमात् ।
जलेनापूरयेत् श्वभ्रं शीघ्रं गत्वा शतं पदम् । तथैवागम्य
वीक्षेत न हीनं सलिलांशुना । अरत्निमात्रे श्वभ्रे वा
ह्यनुलिप्ते च सर्वतः । वृतमामशरावस्थं कृत्वा
वर्त्तिचतुयम् । ज्वाल--येद्भूपरीक्षार्थं सम्पूर्णं सर्व-
दिङ्मुखम् । दीप्त्वा पूर्वादि गृह्णीयाद्वर्णानामनुपूर्बशः ।
हलाकष्टे तथोद्देशे सर्ववीजानि वावयेत् । त्रिपञ्च-
सप्तरात्रेण संप्ररोहन्ति तान्यपि । उप्तवीजा त्रिरात्रेण
साङ्कुरा शोभना मही । मध्यमा पञ्चरात्रेण सप्त-
रात्रेण निन्दिता । तिलान्वा वापयेत्तत्र यवांश्चापि च
सर्षपान् । अथ वा सर्वधान्यानि वापयेच्च समन्ततः ।
यत्र नैव प्ररोहन्ति तां प्रयत्नेन वर्जयेत् । व्रीहयः
शालयो मुद्गाः गोधूमाः सर्षपास्तिलाः । यवाश्चोषधयः
सप्त सर्ववीजानि चैव हि । सुवर्णताम्रपुष्पाणि श्वभ्र-
मध्यं गतानि च । यस्य नान्नि समायान्ति स भूमिस्तस्य
शोभना । पांसवो रेणुतां नीता निरीक्ष्याश्चान्तरिक्षगाः ।
अधोमध्योर्द्धगा नृणां गतितुल्यफलप्रदाः” ।
भूमेः पूर्वादिदिक्प्लवफलं तत्रैवोक्तम् “चतुरस्त्रां समां
शुद्धां भूमिं कृत्वा प्रयत्नतः । तस्मिन् दिक्साधनं कार्यं
वृत्तमध्ये गते दिशि । पूर्बप्लवे भवेल्लक्ष्मीराग्रेय्यां शोक
मादिशेत् । याम्यां याति यमद्वारं नैरृते च महाभयम् ।
पश्चिमे कलहं कुर्याद्वायव्यां मृत्युमादिशेत् । उत्तरे
वंशवृद्धिः स्यादीशाने रत्नसञ्चयम् । दिङ्मूढे कुलनाशः
स्याद्वक्रे दारिद्र्यमादिशेत्” ।
पृष्ठ २६३५


गृहे आयामविस्तारभेदेन ध्वजाद्यायास्तत्फलं
वर्णदिग्भेदेन ध्वजादीनां विधिनिषेधौ चाह तत्रैव
“विस्तारेण हतं दैर्घ्यं विभजेद्दष्टभिस्ततः । यच्छेषं स
भवेदायोध्वजाद्यास्ते स्युरष्टधा । ध्वजो धूमो हरिः श्वा गौः
खरेभौ वायसोऽष्टमः । पूर्वादिदिक्षु चाष्टानां ध्वजादीना
मवस्थितिः । स्वस्थानात् पञ्चमे स्थाने वैरत्वं च
महद्भवेत् । विषमायः शुभः प्रोक्तः समायः शोकदुःखदः ।
स्वस्थानगा बलिष्ठाः स्युर्नचान्यस्थानगाः शुभाः ।
ध्वजः सिंहे तौ च गजे ह्येते गवि शुभप्रदाः । वृषो न
पूजितोह्यत्र ध्वजः सर्वत्र पूजितः । वृषसिंहगजाश्चैव
कुण्डे कर्कटकीटयोः । द्विपः पुनः प्रयोक्तव्यो वापीकूप-
सरःसु च । मृगेन्द्रमासने दद्याच्छयनेषु गजं पुनः ।
वृषं भोजनपात्रेषु छत्रादिषु पुनर्ध्वजम् । अग्निवेश्मसु
सर्वेषु, गृहे वह्न्युपजीविनाम् । धूमं नियोजयेत् केचित्
श्वानं म्लेच्छादिजातिषु । खरो वैश्यगृहे शस्तोध्वाङ्क्षः शेष
कुटीषु च । वृषसिंहगजाश्चापि प्रासादपुरवेश्मसु । गजाये
वा ध्वजाये वा गजानां सदनं शुभम् । अश्वालयं ध्वजाये
च खराये वृषभेऽपि वा । उष्ट्राणां मन्दिरं कार्यं
गजाये वा वृषध्वजे । पशुसद्म वृषाये च ध्वजाये वा
शुभप्रदम । शय्यासु वृषभः शस्तः पीटे सिंहः शुभप्रदः ।
अमत्रच्छत्रवस्त्राणां वृषाये वा ध्वजेऽपि वा । पादुकोपा-
नहौ कार्य्ये सिंहायेऽप्यथ वा ध्वजे । स्वर्णरौप्यादिधातू
नामन्येषां तु ध्वजः स्मृतः । ब्राह्मणे तु ध्वजः श्रेष्ठः
प्रतीच्यां कारयेन्मुखम् । सिंहश्च भूभृतां शस्त उदीच्यां
च मुखं शुभम् । विशां वृषः प्राग्वदन शूद्राणां दक्षिणे
गजः । सर्वेषामेव चायानां ध्वजः श्रेष्ठतमो
मतः । ध्वजायः क्षत्रियविशोः प्रशस्तो गुरुरब्रवीत्
सिंहायः सर्वथा त्याज्यो ब्राह्मणेन वृषस्तथा । सिंहाये
शुनि चाये च अल्पायासं प्रजायते । ध्वजाये पूर्ण-
सिद्धिः स्याद्वृषायः पशुवृद्विदः । गजाये सम्पदां
वृद्धिः शेषायांः शोकदुःखदाः” । तथा च ध्वजाद्या
आया यत्र स्युस्तद्दिङमुखद्वाराणि स्युरिति फलितार्थ
“प्रत्यगध्वज द्वारमर्थाक्ष्णि पूर्वं हरावुदक् स्यात्
द्विरदे च याम्यम्” इति श्रीपत्युक्तेः “सर्वद्वार इह
ध्वजो वरुणदिग्द्वारं च हित्वा हरिः प्राग्द्वारो
वृषभो गजो यमसुरेशाशामुखे स्याच्छुभः” महेश्वरो-
क्तेश्च । “पश्चादुदकपूर्वयमे द्विजादितः” मु० चि० ब्राह्म-
णादिवर्णभेदेन द्वारनिवेशनमुक्तम् द्विजादितः ब्रह्म-
णादिवर्णभेदेन पश्चादादि दिक्षु गृहद्वारं स्यात् । यथा
ब्राह्मणस्य पश्चान्मुखं गृहद्वारं क्षत्रियस्योदग्दिशि
वैश्यस्य पूर्वस्यां, शूद्रस्य यमे दक्षिणस्याम् इत्यर्थः । उक्तञ्च
श्रीपतिना “ध्वजे प्रतीच्यां मुखमग्रजानामुदङ्मुख
भूमिभृताञ्च सिंहे । विशो वृषे प्राग्वदनं गजे तु शूद्रस्य
याम्याननमामनन्तीति” । टोडरानन्दे च्यवनः “ध्वजे
परास्यं विप्राणां राज्ञां सिंहेऽप्युदङ्मुखम् । गजे
शूद्रस्य याम्यास्यं विशः पूर्वमुखं वृषे इति ॥” पी० धा०
गृहाणामायवारांशादिकं तत्फलञ्च विश्व० उक्तं वथा
“पिण्डे नवाङ्काङ्गगजैरग्निनागाष्टसागरैः । नागैश्च
गुणिते भक्ते क्रमादेते पदार्थकाः । नागाद्रिनवसूर्या
ष्टर्क्षतिथ्यृक्षखभानुभिः । आयो वारोऽशको द्रव्य-
मृणमृक्षन्तिथिर्युतिः । आयुश्चाथ गृहेशर्क्षगृहभैक्यं
मृतिप्रदम् । संपूर्णाः शुभदा ह्येते ह्यसंपूर्णास्त्वनिष्टदाः” ।
अस्यार्थः । इष्टगृहदीर्घः २७ हस्ताः विस्तारः ७ हस्ताः ।
“तथायते तद्भुजकोटिघातः” लीला० उक्तदिशा क्षेत्रफ-
लम् २०३ इदं पिण्डं नवधा स्थापितम् यथाक्रमम् नवाद्य
ड्कैर्गुणिते नागाद्यङ्कैर्हृते आयादयःस्युः । यथा २०३
पिण्डे ९ गुणिते १८२७ । ८ भक्ते शेषाङ्कात् ३ आय
सिंहाख्यः । ९ हतः १८२७ । ७ भक्तः शेषः ७ तेन वार
शनिः । ६ गुणः १२१८ । ९ भक्तः ३ शेषः अंशकः (नवां-
शकः) । ८ गुणः १६२४ । १२ भक्तः ४ धनम् । ३ गुणः
६०९ । ८ भक्तः शेषः १ ऋणम् । ८ गुणः १६२४ । २७
भक्तः शेषः ४ नक्षत्रं रोहिणी । ८ गुणः १६२४ । १५ भक्तः ।
शेषः ४ चतुर्थी तिथिः । ४ गुणः ८१२ । २७ भक्तः शेषः
२ पीतिर्योगः । ८ गुणः १६२४ । १२० भक्तः शेषः ६४ वर्षा
आयुः । आयादीनां प्रयोजनं पी० धा० दर्शितं यथा
अथैषामायादीनां प्रयोजनमुच्यते । आयस्य तावत् “विष-
मायः शुभायैव समायः शोकदुःखदः” इति वसिष्ठोक्तम् ।
“वाराणां च सूर्यारवारराश्यंशाः सदा वह्निभयप्रदाः ।
शेषग्रहाणां वारांशाः कर्त्तुरिष्टार्थसिद्धिदाः” इति यथा
गणितेनागतो भौमवारः सोऽपि निन्द्यः तदाशी
मेषवृश्चिकौ निन्द्यौ एवमन्येष्वपि राशिषु तन्नवांशालिन्द्याः
“ग हस्यागतम् यत्तु तद्द्विराश्यात्मकं यदि । तन्नवांश-
वशास्तत्र ज्ञातव्यं सर्वदा ग हमिति” तथा च कृत्तिका
द्विराश्यात्मिका तत्रैकावशेषे मेषः । मृगेऽपि द्व्यादिके शेषे
मिथुनमन्यथा वृषः । पुनर्वसावप्यंशकत्रय यावन्मिथुनमन्यथा
कर्कः । एवमुत्तराफाल्गुन्यादिषु द्विराश्यात्मकेषूहनीय वि-
पृष्ठ २६३६
द्वद्भिः । न तु निःसन्दिग्धेष्वेकराश्यात्मकेषु अश्विन्यादिषु ।
धनर्णयोश्च फलम् “धनाधिकं गृहं वृद्ध्यै निर्द्धनाय
ऋणाधिकमिति” । नक्षत्रस्य फलम् “विपत्प्रदा विपत्तारा
प्रत्यरिः प्रतिकूलदः । मिधनाख्या तारका तु सर्वथा
निधनप्रदा । विवर्ज्यतारकास्वेतन्निर्माणमशुभप्रदम् । कुर्वन्न
ज्ञानतो मोहाद्दुःखभाग्व्याधिभाग्भवेत् । अत्र गृहन-
क्षत्राद्दिनभं यत्संख्यं तन्नवभक्तमवशिष्टतारका विपत्ता-
रादिकाः स्युश्चेत्तदानिष्टास्तद्दिने गृहारम्भं न कुर्या-
दन्यस्मिन् दिने शुभतारासु गृहारम्भं कुर्यादित्यर्थः
इति केचित् । अपरे तु गृहकर्तुनामनक्षत्राट्गृहभं
संगण्यं नवभक्तमवशिष्टं विपत्तारादिकं स्यात्तद्गृहम-
निष्टमन्यथा शुभमिति यदाह कश्यपः “दत्ते दुःखं तृती-
यर्क्षं पञ्चमर्क्षं यशःक्षयम् । आयुःक्षयं सप्तमर्क्षं कर्त्तु-
र्भाद्यदि सप्तममिति” वास्तुशास्त्रेऽपि “गृहभात् स्वामिभं
गण्य भक्त च नवभिः पुनः । यच्छेष सा भवेत्तारा
सप्तपञ्चत्रिकाऽधमेति” प्राहुः । यदा तु गृहकर्त्तुर्गृहस्य
चैकं नक्षत्रं स्यात्तदा तच्छुभमशुभं वेति निर्णयमाह ।
वसिष्ठः “गृहस्य तत्पतेस्त्वेकं धिष्ण्यं चेन्निधनप्रद-
मिति” निधनं मरणम् । राश्यैक्येऽयं दोषः न तु भिन्न-
राशित्वे तद्वाक्यस्य विवाहप्रकरणोक्तत्वात् । कैश्चिद-
न्यदपि प्रयोजनमुक्तं तदुक्तं व्यवहारसमुच्चये “त्रिभि-
स्त्रिभिर्वेश्मनि कृत्तिकाद्यैरुक्छेदपुत्राप्तिधनानि शोकम् ।
शत्रोर्भयं राजभयं च मृत्युः सुखं प्रवासश्च नव प्रभेदाः”
इति । गृहभवशाद्राशिज्ञानेऽपि प्रयोजनमाह स एव ।
(विश्वकर्म्मा) राशिकूटादिकमित्यादि (तद्वाक्यमनुपदं
दृश्यम्) वास्तुशास्त्रे कृत्तिकादिषु द्विराशिषु भेषु राशि-
निर्णयो यथा “अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मघात्र
यम् । मूलादित्रितयं चापे शेषेषु नव राशय” इति ।
शेषेषु भेषु रोहिण्यादिषु नव राशयो ज्ञेयाः । यथा
रोहिणीमृगयोर्वृषः । आर्द्रार्पुनर्वस्वोर्मिथुनम् ।
पुष्याश्लेषयोः कर्कः । एवं हस्तादिके श्रवणादिद्विके च
कन्यामकराद्याराशयः स्युरित्यर्थः अयं च पक्षो
वास्तुशास्त्रे नवाशानुक्तेरुक्तः । अत्र राशिकूटे
नाडीवेधो न दोषाय । उक्तं च ज्योतिश्चिन्तामणौ
सेव्यसेवकयोश्चैव गृहतत्स्वामिनोरपि । परस्परं
मित्रयोश्चेदेकनाडी प्रशस्यते” इति । तिथिप्रयोजनं
तिथ्यानयनप्रकारान्तरं च वास्तुशास्त्रे “शक्राहतं
शेत्रफलं त्रिंशद्भक्तावर्शषकम् । तिथ्यः प्रतिपदाद्याःस्यु
र्दर्शं रिक्तां च वर्जयेदिति” । तुल्यन्यायत्वाच्छुभाशुभप्रक-
रणोक्तं नेष्टयोगवर्जनं च योगानां, प्रयोजनं स्पष्टमेव
आयुषः प्रयोजनं तावत्कालं गृहस्थितिरिति” पी० धा०
आयादिफलं विश्व० वास्तुशास्त्रे “धिष्ण्ये च वसुभिर्भक्ते
व्ययः स्याच्छेषकाङ्कके । धनाधिकं गृहं वृद्ध्यै निर्द्ध-
नाय ऋणाधिकम् । व्ययान्विते क्षेत्रफले ध्रुवाद्यक्षरसं-
युते । त्रिभिः शेषे क्रमादिन्द्रयमभूभूमिपाशयाः । इन्द्रांशे
पदवीवृद्धिर्महत्सौख्यं प्रजायते । यमांशे मरणं नूनं
रोगशोकमनेकधा । राजांशे धनधान्यानि पुत्रवृद्धिश्च
जायते । राशिकूटादिकं सर्वं दम्पत्योरिव चिन्तयेत् ।
नैःखं द्विद्वादशे नूनं त्रिकोणे त्वनपत्यता । षट् काष्टके
नैधनं स्याद्व्यत्यये मध्यमं स्मृतम् । (व्यत्यये द्वादशद्विती-
यादौ) द्यूनस्थिते पुत्रलाभः स्त्रीलाभश्च तथैव च ।
जन्मतृतीये च तथा धनधान्यागमीभवेत । दशमैका-
दशे चन्द्रे धनायुर्भद्रपुत्रदः । चतुर्थाष्टमरिप्फस्थो
मृत्युपुत्रविनाशदः । त्रिकोणेऽत्वनपत्यं स्यात् केचिद्
बन्धुगृहे शुभम् । वदन्ति चन्द्रेमुनयोनैतन्मम मतं
स्मृतम् । अश्चिन्यादित्रयम् इत्यादिकम् (अनुपदमुक्तम्) ।
सूर्यारवारराश्यंशाः सदा वह्निभयप्रदा । शष
ग्रहाणां वारांशाः कर्त्तुरिष्टार्थसिद्धिदाः । गृहस्यागतभं
यत्तु तद्धि राश्यात्मकं यदि । तन्नवांशवशात्तत्र ज्ञा-
तव्यं सर्वदा गृहम् । विपत्प्रदा विपत्तारा प्रत्यरिः
प्रतिकूलदः । निधनाख्या तु या तारा सर्वथा
निधनप्रदा । विवर्ज्य तारकास्वेतन्निर्माणमशुभप्रदम् । प्रत्य-
रितारा भयदा निरंशर्क्षेतु मृत्युभीः । निधानाख्या
तु या तारा स्त्रीसूतार्त्तिप्रदायिनी । कुर्वन्नज्ञानतो
मोहाद्दुःखभाग्व्याधिभाग्भवेत् । तिथौ रिक्ते
दरिद्रत्वं दर्शे गर्भनिपातनम् । कुयोगे धनधान्यादिनाशः
पातश्च मृत्युदः । वैधृतौ सर्वनाशय नक्षत्रैक्ये तथैव च ।
आयुर्विहीने गेहे तु दुर्भगत्वं प्रजायते । नाडीवेधो न
शुभदस्तारा रोगभयप्रदा । गणवैरे पुत्रहानिर्द्धन-
हानिस्तथैव च । योनौ कलिर्महादुःखं यमांशे
मरणं ध्रुवम् । नक्षत्रैक्ये स्वामिमृत्युर्वर्णे वंशवि-
नाशनम् । पापवारे दरिद्रत्वं शिशूनां मरणं तथा ।
केचिच्छनिं प्रशंसन्ति चौरमीतिस्तु जाय ते” ।
आयादिकचिन्ताया मर्यादां दिग्भेदेन गृहभेदनिर्माण-
ञ्चाह विश्वकर्मा “एकादशकरादूर्द्धं यावद्द्वात्रिंशहस्तकम् ।
तावदायादिकं चिन्त्यं तदृर्द्धं नैव चिन्तयेत् । आय-
पृष्ठ २६३७
व्ययौ मासशुद्धिर्न जीर्णे चिन्तयेद्गृहे । शिलान्यास
प्रकुर्वीत मध्ये तस्य विधानतः । ऐशान्यां देवतागेहं
पूर्वस्यां स्नानमन्दिरम् । आग्नेयां पाकसदनं शयनं
दक्षिणे न्यसेत् । शस्त्रगेहं च नैरृत्यां पश्चिमे भोजनाल-
यम् । वायव्यां धान्यसदनं भाण्डारागारमुत्तरे ।
आग्नेयीपूर्वयोर्मध्ये दधिमन्थनमन्दिरम् । अग्निप्रेते
शयोर्मध्ये आज्यगेहं प्रशस्यते । याम्यनैरृतयोर्म-
ध्ये पुरीषत्यागमन्दिरम् । नैरृत्यम्बुपयोर्मध्ये विद्या-
भ्यासस्य मन्दिरम् । पश्चिमानिलयोर्मध्ये रोदनार्थं
गृहं स्मृतम् । वायव्योत्तरयोर्मध्ये रतिगेहं प्रशस्यते ।
उत्तरेशानयोर्मध्ये औषधार्थं च कारयेत् । ईशानपूर्व-
योर्मध्ये शेषं सर्वगृहं स्मृतम् । नैरृत्यां सूतिका-
गेहं नृपाणां गेहमिष्यते । आसन्नप्रसवे मासि कुर्या-
च्चैव विशेषतः । तद्वत् प्रसवकाले स्यादिति शास्त्रेषु
निश्चितम् । मासे तु नवमे प्राप्ते पूर्वपक्षे शुभेदिने । प्रसूति
सम्भवे काले गृहारम्भणमिष्यते” ।
अलिन्दभेदेन गृहनामभेदान् तत्फलमलिन्दशब्दार्थञ्चाहं
तत्रैव “गुरोरधो लघुः स्थाप्यः पुरस्तादुर्द्ध्वगं न्यसेत् ।
गुरुभिः पश्चिमे पूर्यं सर्वलघ्ववधिर्विधिः । स्यादलिन्दं
लघुस्थाने नालिन्दं गुरुमाश्रितम् । प्रदक्षिणैर्गृहद्वारादलिन्दै-
र्दशषड्विधैः १६ । ध्रुवसंज्ञं १ गृहं त्वाद्यं धनधान्यसुख-
प्रदम् । धन्यं २ धान्यप्रदं नॄणां जयं ३ स्याद्विजयप्रदम् ।
मन्दं ४ स्त्रीहानिदं नूनं खरं ५ सम्पद्विनाशनम् ।
पुत्रपौत्रप्रदं कान्तं ६ श्रीपदं स्यान्मनोरमम् ७ । सुवक्त्रं ८
भोगदं नूनं दुर्मुखं ९ विमुखप्रदम् । सर्वदुःखप्रदं
क्रूरं १० विपक्षं ११ शत्रुभीतिदम् । धनदं १२ धनदं
गेहं क्षयं १३ सर्वक्षयावहम् । आक्रदं १४ शोकजननं
विपुलश्रीयशःप्रदम् । विपुलं १५ नामसदृशं धनदं
विजयाभिधम् १६ । प्रदक्षिणं सद्ममुखादलिन्दं विद्या-
ल्लघुस्थानसमाश्रितं च । गृहस्य पूर्वादिगतेष्वलिन्देष्वेवं
भवेयर्दश षट्कभेदाः १६ । भवेत् पुनः शुभालिन्दयुतं
कापालसंज्ञकम् । विस्तारात् द्विगुणं गेहं गृहस्वामि
विनाशनम् । निरर्थकं तद्गृहं स्याद्भयं वा राजसम्भ-
वम् । केचिदलिन्दं द्वारं तु प्रवदन्ति मनीषिणः ।
केचिदलिन्दं शालाञ्च केचिच्चालिन्दकं च तत् । गृहा-
द्बहिश्च ये कोष्ठा गृहस्यान्तर्गताश्च ये । तेषां कोष्ठीकृतं
तिर्यग्गेहं चालिन्दसंज्ञकम् । स्तम्भहीनं गृहाद्-
बाह्यान्निर्गतं कोष्ठनिर्मितम् । मध्यादूर्द्धं तच्च गेहं
वाचालिन्दसज्ञकम् । यत्रालिन्दं च तत्र व द्वारमार्गः
प्रशस्यते । अलिन्दद्वारहीनं च गृहं कोटीसमं स्मृतम्
यत्रालिन्दं तत्र शाला तत्र द्वारं च शोभनम् । शाला-
लिन्दद्वारहीनं न गृहं कारयेद्बुधः” अयमर्थः ।
“प्रस्तारे तु लघुं न्यस्य प्रथमस्य गुरोरधः । यथोपरि
तथा शेषं भूयः कुर्यादमुं विधिम् । ऊने दद्यागुरूनेव या
वत् सर्वलघुर्भवेत्” वृ० र० उक्तरीत्या चतुर्द्वाररूपचतुर्गुरु
प्रकल्पनेन प्रस्तारे लघुं द्वारं प्रकल्प्य षोडश भेदाः
स्वरूपतोदर्श्यन्ते यथा
१ । ऽऽऽऽ ऊर्द्ध्वमुखम् ध्रुवं शुभदम् ।
२ । ।ऽऽऽ प्राग्मुखं धान्यं शुभम् ।
३ । ऽ।ऽऽ दक्षिणद्वारम् जयं शुभदम् ।
४ । ॥ऽऽ प्राग्दक्षिणद्वारम् मन्दमशुभदम् ।
५ । ऽऽ।ऽ पश्चिमद्वारं खरमशुभदम् ।
६ । ।ऽ।ऽ प्राग्पश्चिममुखम् कान्तं शुभदम् ।
७ । ऽ॥ऽ दक्षिणपश्चिमास्यम् मनोरमं शुभदम् ।
८ । ॥।ऽ प्राग्दक्षिणपश्चिमास्यं सुंमुखं शुभदम् ।
९ । ऽऽऽ। उत्तरास्यम्--दुर्मुखमशुभदम् ।
१० । ।ऽऽ। पूर्वोत्तरद्वारम्--उग्रमशुभदम् ।
११ । ऽ।ऽ। दक्षिणोत्तरास्यम् विपक्षमशुभदम् ।
१२ । ॥ऽ। प्राग्दक्षिणादिगास्यम् धनदंशुभदम् ।
१३ । ।ऽ॥ पश्चिमोत्तरास्यम् क्षयमशुभदम् ।
१४ । ।ऽ॥ पूर्वपश्चिमोत्तरास्यम् आक्रन्दमशुभदम् ।
१५ । ऽ॥। दक्षिणपश्चिमोत्तरद्वारम् विपुलं शुभदम् ।
१६ । ॥॥ चतुर्दिग्द्वारम् विजयं सर्वत्र शुभदम् ।
दिग्भेदेनैकशालादिनिर्माणप्रकारं तत्राह
“यद्वास्तुनि च विस्तारः सैवोच्छायः शुभः स्मृतः ।
एकशालो गृहः कार्यो विस्ताराद्द्विगुणोच्छ्रयः । चतुः
शालगृहस्यैवमुच्छ्रायो व्याससंमितः । विस्ताराद्द्विगुणं
दैर्घ्यमेकशालेषुशस्यते । विस्तीर्णं यद्भवेद्गेहं तदूर्द्ध्वंत्वेक-
शालके । द्विशाले द्विगुणं प्रोक्तं त्रिशाले त्रिगुणं तथा ।
चतुः शाले पञ्चगुणं तदूर्द्ध्वं नैव कारयेत् । शिखा चैव
त्रिभागे तु गृहं चोत्तमसंज्ञकम् । एकं नागेन्द्रसंशुद्धौ
द्वे च दक्षिणपश्चिमे । त्रिशालं पूर्वतोहीनं कार्यं
वा सौम्यवर्जितम् । ऊर्द्धभागत्रयं त्यक्त्वा अधोभागद्वयं
तथा । मध्ये नाभिं विजानीयादिति प्राह पराशरः ।
पूर्वादिषु चतुर्द्दिक्षु वाममेकादयोध्रुवाः । विस्तारस्याथ
दैर्ष्यस्य तथैवैकैकसंयुताः । वामं वातादिकोणेषु ध्रुवं
पृष्ठ २६३८
विस्तारदैर्घ्ययोः । एकाद्याः स्वेच्छया सर्वे कार्यावेदसम-
न्विताः । अनेनैव प्रकारेण क्रियमाणे च वास्तनि ।
आयव्ययादिसंशुद्धिं न चिन्तयति पूर्बतः” अस्यार्थः यदि
वास्तु न एकमेव गृहं क्रियते तदा नागेन्द्रसंशुद्ध्या-
सौम्यवर्जितं उत्तरशालाहीनं गृहं कार्यं
यदिद्विशालकं गृहं क्रियते तदा दक्षिणपश्चिमे शाले कार्ये
त्रिशाले पूर्वतोहीनं कार्यम् उत्तरशालया वा
हीनं कार्यम् । शालाविभागस्तु अनेनैव विधानेन कार्यः
पूर्वतः ऊर्द्धभागत्रयं त्यक्त्वा पश्चिमे भागद्वयं त्यक्त्वा यो
मध्यगतो भागः स नाभिः तत्र शाला न विधेया
अनेनैव प्रकारेण पूर्वादिदिक्षु एकादयो विस्तारस्य दैर्ध्यस्य
एकैकभागं संयोज्य वातादिकोणेषु उत्तरशाला हीनत्वान्न
देयं सर्वे एकाद्याश्चतुःशालान्ता वेदसमन्विताः कार्याः
अनेनैव प्रकारेण शालायुते गृहवास्तुति आयव्ययादि-
शुद्धिर्न चिन्तनीया । एकशाले आयव्ययादिविचारः कर्त्तव्यः
द्विशालादिगृहे आयव्ययादिशुद्धिर्न विचारणीया
यतः निर्गमालिन्दनिर्यूहादीनि यानि चतुर्दिशं वेश्मनां
तानि न ग्राह्याणि इति । वर्णभेदेनैकशालादिविशेष-
भेदादिकमाह तत्रैव “ब्राह्मणानां चतुःशालं क्षत्रियाणां
त्रिशालकम् । द्विशालकं च वैश्यानां शूद्राणामेकशालकम् ।
सर्वेषामेव वर्णानामेकशालं प्रशस्यते । एकशालं द्विशालं
वा त्रिशालं तुर्यशालकम् । यथालिन्दगृहं कुर्यात्ता
दृक्शाला प्रशस्यते । शालाभेदो न कर्त्तव्यो न कुर्यात्तु
ङ्गनिम्नकम् । समां शालां ततः कुर्यात्समं प्राकारमेव
च । कुलीरो वृश्चिकोमीन उत्तरद्वारसंस्थिताः ।
मेषसिंहधनुर्द्वारी पूर्वद्वारेषु संस्थिताः । वृषभो मकरः
कन्या याम्यद्वारसमाश्रिताः । मिथुनं तुलकुम्भौ च
पश्चिमद्वारमाश्रिता । ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा-
श्चैव यथाक्रमम् । यदीशा राशयः प्रोक्तास्तस्मिन्
शाला प्रवर्त्तते । अथ पूर्वविभागे तु ब्राह्मणा उत्तरे नृपाः ।
वैश्याश्च दक्षिणे भागे पश्चिमे शूद्रकास्तथा । आग्ने-
यादिक्रमेणैवापभ्रंशावर्णसङ्कराः । ज्ञातिभ्रष्टाश्च
चौराश्च विदिक्स्थाः शोभनाः स्मृताः । ब्राह्मणाः क्षत्रिया-
वैश्याः शूद्राः प्रागादिषु स्मृताः” । नृपादीनां गृहमान
भेदमाह तत्रैव । “अष्टोत्तरं हस्तशतं विस्तारे नृपम-
न्दिरम् । कार्य प्रधानमन्यानि तथाष्टाष्टोनितानि
तु । विस्तारपादसंयुक्तं तेषां दैर्घ्यं प्रकल्पवेत् ।
एवं नृपाणां पञ्चैव गृहाणि शुभदानि च । सेना-
नीनां च पञ्चैव गृहाणि शुभदानि च । षड्भिः
षड्भिर्विहीनानि चतुःषष्टिमितानि च । पञ्चैव, तस्य
विस्तारे दैर्घ्यं षड्भागसंयुतम् । षष्टिश्चतुर्वि-
हीनानि वेश्मानि सचिवस्य च । पञ्चस्वष्टांशसंयुक्तं
दैर्घ्यं तस्यार्द्धमेव च । नृपाणां महिषीणाञ्च
प्रशस्तं पञ्च चैव हि । षड्भिः षड्भिश्च वर्ज्यानि अशीत्याश्च
तथैव च । त्रिंशद्युतञ्च दैर्घ्यं च युवराजगृहाणि
च । पञ्च ऊर्द्धं च तस्यैव भ्रातॄणां प्रभवन्ति हि ।
नृपमन्त्रिगृहाणाञ्च अन्तरे यत्प्रमाणकम् । सामन्तराजभृ-
त्यानां प्रवराणां गृहं स्मृतम् । नृपाणां युवराजस्य
गृहाणामन्तरेण यत् । तत् गृहं कञ्चुकीवेश्म
कलाज्ञानां तथैव च । युवराजमन्त्रिगृहेष्वन्तरं यद्भवे
दिह । अध्यक्षस्य तु तद्गेहं तत्कर्मकुशलाश्च ये । अध्य-
क्षाधिकृतानां च रतिकोशप्रमाणकम् । चत्वारिंश-
च्चतुर्हीना पञ्च गेहा भवन्ति हि । षट्भागसंयुतं दैर्घ्यं
दैवज्ञभिषजां तथा । पुरोहितानां शुभदं सर्वेषां
कथयाम्यतः । हस्तात् द्वात्रिंशता युक्तं विस्तारस्य
द्वजालयम् । विस्तारं सदशांशं तु दैर्घ्यं तस्य प्रक-
ल्पयेत् । त्रयाणां क्षत्रियादीनामालयं पूर्वचोदि-
तम् । नृपसेनापतिगेहस्यान्तरं यद्भवेदिह । तत्कोश-
गेहं भवति रतिगेहं तथैव च । सेनापतनृपगेहाना-
मन्तरं यत्प्रमाणकम् । चातुर्वर्ण्यस्य यद्गेहं तद्राज
पूज्यसम्मतम् । अथ पारसवादीनां मातापित्रोर्यदन्त-
रम् । ब्राह्मणस्य च यन्मानं शूद्रेण सह तद्भवेत् ।
शतहस्तोच्छ्रितं कार्यं चतुःशालं गृहं भवेत् । प्रमि-
तन्त्वेकशालतु शुभदं तत्प्रकीर्त्तितम् । सेनापतिनृ-
पादीनां सप्तत्या सहिते कृते । व्यासे चतुर्दश हृते शाला
मानं विनिर्दिशेत् । पञ्चत्रिंशद्धृतेऽन्यत्रालिन्दमान
भवेच्च तत् । शाला त्रिभागतुल्या च कर्त्तव्या वीथिका
बहिः । भवनात् पूर्वं सोष्णीषं पश्चात्पापाश्रयं भवेत्
सावष्टम्भंपार्श्वयोस्तु सर्वत्र सुस्थिरं भवेत् । विस्तार
षोडशांशस्तु चतुर्हस्तयुतोच्छ्रयः । तदन्तरस्थोच्चतरं
प्रमाणं प्रवदेद्वुधः । द्वादशभागेनोनं च समस्तानां
प्रकल्पयेत् । यजन्ते राजसूयाद्यैः क्रतुभिर्येऽवनीश्वराः ।
नलैरप्यष्टमैस्तेषां कारयेद्भवनोत्तमम् । तथा च सप्तमैरेव
विप्राणां कारयद्गृहम् । सार्द्धषष्ठैः क्षत्रियाणां वैश्या-
नां सार्द्धपञ्चमैः । त्रिभिः सार्द्धैश्च शूद्राणां भवनं शुभटं
स्मृतम् । स्वगृहाणां विभागेन प्रमाणमिह लक्षयेत्
पृष्ठ २६३९
विस्तारायामगुणितं नलैः षौडशभिः स्मृतम् । स्वगृ-
हाणां विभागेन प्रमाणमिह लक्षयेत् । व्यासाच्च
षोडशोभागः सर्वेषां भित्तयः स्मृताः । पक्वेष्टकाकृतानां
च न दारूणां कदाचन । नृपसेनापतिगृहेष्वष्टाशीतिं
शतैर्युताम् । अङ्गुलानि द्वारमानं प्रवदन्ति मनीषिणः ।
विप्रादीनां विशतिस्तु अङ्गुलानि च सप्त च । द्वारस्य
मानं तत्प्रोक्तं द्विगुणोच्छ्राय उच्यते । उच्छ्रायहस्त-
संख्यायाः परिमाणाङ्गुलानि च । शाखाद्वयेऽपि
बाहुल्यं कार्यं सार्द्धांशसंयुतम् । उच्छ्रायात् सप्तगुणिता-
दशीतिः पृथुता मता । भागः पुनर्नवगुणाशीत्यंशस्तम्भ-
मानकम् । दशांशहीनं तस्याग्रं स्तम्भानां परिमाणकम् ।
वेदाश्रो रुचकः १ स्तम्भो वज्रो २ ऽष्टाश्रियुती मतः । द्विवज्रः ३
षोडशाश्रस्तद्द्विगुणाश्रःप्रलानकः ४ । समन्तवृत्तो वृत्ताख्यः ५
स्तम्भः प्रोक्तो द्विजोत्तमैः । विभज्य नवधा स्तम्भ कुर्या-
दुद्वहन घटम् । पद्मं तु सोत्तरोष्ठञ्च कुर्याद्भागेन
भागतः । स्तम्भसमं बाहुल्यं भारतुलानामुपर्युपर्यासाम् ।
भवति तुलोपतुलानामूनं पादेन पादेन । अप्रतिषिद्धा-
लिन्दं समन्ततो वास्तु सर्वतोभद्रम् । नृपविबुधसमू-
हानां कार्यं द्वारैश्चतुर्भिरपि” ।
अथ द्विशालानि गृहाणिं दक्षिणे दुर्मुखं कृत्वा पूर्वे च
खरसंज्ञकम् । तद्वाताख्यं १ भवेद्गेहं वातरोगप्रदं स्मृतम् ।
दक्षिणे दुर्मुखं गेहं पश्चिमे धान्यसज्ञकम् । यमसूर्यं २
द्विशालं तन्मृत्युदं नाशदं स्मृतम् । पूर्वे तु स्वरनामान-
मुत्तरे धान्यसंज्ञकम् । दण्डाख्यं ३ तद्द्विशालं स्याद्दण्डं
कुर्यात् पुनः पुनः । दुर्मुखं दक्षिणे कुर्यादुत्तरे जयसं
ज्ञकम् । वीच्याख्यं ४ तद्द्विशालन्तु बन्धुनाशं धनक्षयम् ।
खरञ्च पूर्बदिग्भागे पश्चिमे धान्यसंज्ञकम् । गृहं चुल्ला ५
द्विशालं तद्धनधान्यविनाशनम् । आक्रन्दं दक्षिणे भागे
पश्चिमे धनदं तथा । द्विशालं चेक्षुसंज्ञं ६ तत्पशुवृद्धि
धनप्रदम् । विपक्षं दक्षिणे भागे पश्चिमे क्रूरसंज्ञकम् ।
शोभनाख्यं ७ द्विशालं तद्धनधान्यकरं परम् । विजयं
दक्षिणे भागे विजयं चैव पश्चिमे । द्विशालं चैव
कुम्भाख्यं ८ पुत्रदारादिसंयुतम् । धान्यञ्च पूर्बदिग्भागे
धान्यं चैव तु पश्चिमे । नन्दाख्यं ९ तद्द्विशालञ्च घनदं
शोभनं स्मृतम् । विजयं सर्वदिगभागे द्विशालाख्य
तदेव १० हि । अङ्काद्यं ११ नाम तद्गेहं शुभटं द्वारतो
भवेत् । विपुलं सर्वदिग्भागे द्विशालं तत्प्रजायते । तानि-
सम्पुटसज्ञानि १२ धनधान्यप्रदानि च । धनदं सर्वदिग्-
भागे सुमुखं वा मनोरमम् । कान्तनाम् १३ तु तद्गेहं
सर्वांशे शोभनं स्मृतम् । द्विशालानां सद्मनां च भेदाश्चैव
त्रयोदश । फलपाकार्थमेतेषां मया प्रोक्तं सुविस्त-
रात् । पूर्वयाम्यमथ याम्यपश्चिमं पश्चिमोत्तरमुदीचिपूर्ब-
मम् । प्राक्प्रतीचीमथ दक्षिणोत्तरं वास्तु षड्विधमिदं
द्विशालकम्” । अथ त्रिशालानि “उत्तरद्वारहीनं यत्
त्रिशालं धनधान्यदम् । हिरण्यनाभनामानं १ राज्ञां
सौख्यविवर्द्धनम् । प्राक्द्वारशालाहीनन्तु सुक्षेत्रं २ नामं
तद्गृहम् । वृद्धिदं पुत्रपौत्राणां धनधान्यसमृ-
द्धिदम् । याम्यशालाविहीनं तत् त्रिशालं चुल्ही-
संज्ञकम् ३ । विनाशनं धनस्यापि पुत्रपौत्रादिनाशनम् ।
प्रत्यक्शालाविहीनन्तु पक्षघ्नं ४ नाम तद्गृहम् । पुत्राणां
दोषदं चैव परञ्च पुरवासिनाम् । चत्वारोऽमी
मयाप्रोक्ता भेदाश्चैव चतुर्विधाः । तस्माद्विचार्य कुर्वीत
गृहकर्मणि कोविदैः” । अथ चतुःशालानि “याम्यशालां
न्यसेदादौ द्वितीयां पश्चिमे ततः । तृतीया चोत्तरे
स्थाप्या चतुर्थी पूर्वपश्चिमा । गृहाणां क्रमयोगेन
चतुःषष्टिः समासतः । अनेकयोगभेदाच्च शतं विंशोत्तर
स्मृतम् । अलिन्दानां व्यवच्छेदो नास्ति यत्र समन्ततः
तद्वास्तु सर्वतोभद्रं १ चतुर्द्वारसमन्वितम् । एकग्रामे
चतुःशाले दुर्भिक्षे राजविप्लवे । स्वामिना नोयमानायां
पतिशुक्रो न दुष्यति । नृपाणां बिबुधानाञ्च गृहं
सौख्यप्रदायकम् । प्रदक्षिणं ततः सर्वैःशालाभित्तेरलि-
न्दकैः । विनापरेण द्वारेण नन्द्यावर्त्तमिदं २ स्मृतम् ।
श्रेष्ठं सुतारोग्यकर सर्वेषां शुद्धजन्मनाम् । द्वार
लिन्दोगतस्त्वेको नेत्रयोर्दक्षिणाङ्गतः । विहाय
दक्षिणद्वार वर्द्धमानमिति ३ स्मृतम् । शुभदं सर्ववर्णानां
वृद्धिदं पुत्रपौत्रदम् । पश्चिमोत्तरतोऽलिन्दं प्रागन्तौ
वैतदुच्छ्रितौ । अन्यस्तन्मध्यविधृतः प्राग्द्वारं स्वस्तिक ४
शुगम । प्राकाश्चिमावलिन्दौ यावन्तगौ तद्भवौ परौ
सौम्यद्व विना यत्स्याद्रु चकाख्य ५ तु तत् स्मृतम्” ।
ग्रन्थस्य ग्रहान्तरं टीकेत्यभियुक्तोक्तेः अत्रास्पष्टार्थानामर्थः
वृ० स० वाक्येन मत्स्यपुराणवाक्येन च स्पष्टोक्रियते यथा
वृ० स० “उत्तममष्टाभ्यधिकं हस्तशतं नृपगृह पृथुत्वेन ।
अष्टाष्टोनान्येवं पञ्च सपादानि दैर्घ्येण षद्भिः षद्भि-
र्हीना सेनापतिसद्मनां चतुःषष्टिः । पञ्चैव विस्तारात्
षद्भागसमन्विता दैर्घ्ये । षष्टिश्चतुर्वि हीना वेश्मानि
भवन्ति पञ्च सचिवस्य । स्वाष्टांशयुता दैर्घ्ये तदर्धतो राज-
पृष्ठ २६४०
महिषीणाम् । षद्भिः षद्भिश्चैवं युवराजस्यापवर्जिता-
ऽशीतिः । त्र्यंशान्विता च दैर्घ्ये पञ्च तदर्धैस्तदनुजा-
नाम् । नृपसचिबान्तरतुल्यं सामन्तप्रवरराजपुरुषाणाम् ।
नृपयुवराजविशेषः कञ्चुकिवेश्याकलाज्ञानाम् । अध्य-
क्षाधिकृतानां सर्वेषामेव कोशरतितुल्यम् । युवराज-
मन्त्रिविवरं कर्मान्ताध्यक्षदूतानाम् । चत्वारिंशद्धीना
चतुश्चतुर्भिस्तु पञ्च यावदिति । षद्भागयुता दैर्घ्ये
दैवज्ञपुरोधसोर्भिषजः । वास्तुनि यो विस्तारः स एव
चोच्छ्रायनिश्चयः शुभदः । शालैकेषु गृहेष्वपि विस्तारा-
द्द्विगुणितं दैर्घ्यम् । चातुर्वर्ण्यव्यासे द्वात्रिंशत् स्या-
च्चतुश्चतुर्हीना । आ षोडशादिति परं न्यूनतरम-
तीव हीनानाम् । सदशांशं विप्राणां क्षत्रस्याष्टांशसं-
युतं दैर्घ्यम् । षड्भागयुतं वैश्यस्य भवति शूद्रस्य
पादयुतम् । नृपसेनापतिगृहयोरन्तरमानेन
कोशरतिभवने । सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषा-
णाम् । अथ पारसवादीनां स्वमानसंयोगदलसमं
भवनम् । हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम् ।
पश्वाश्रमिणाञ्च मितं धान्यायुधवह्निरतिगृहाणां च ।
नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः । सेनापति
नृपतीनां सप्ततिसहिते द्विधाकृते व्यासे । शाला
चतुर्दशहृते पञ्चत्रिंशद्धतेऽलिन्दः । हस्तद्वात्रिंशादिषु चतु
श्चतुस्त्रित्रिकत्रिकाः शालाः । सप्तदशत्रितयतिथित्रयोद-
शकृताङ्गुलाभ्यधिकाः । त्रित्रिद्विद्विद्विसमाः क्षयः क्रमा-
दङ्गुलानि चैतेषाम् । व्येका विंशतिरष्टौ विंशतिरष्टादश
त्रितयम् । शालात्रिभागतुल्या कर्त्तव्या बीथिका
बहिर्भवनात् । यद्यग्रतो भवति सा सोष्णोषं १ नाम
तद्वास्तु । सायाश्रयमिति २ पश्चात् सावष्टम्भं ३ तु पार्श्वसं-
स्थितया । सुस्थितमिति ४ च समन्तात् शास्त्रज्ञैः पूजिताः
सर्वाः । विस्तारषोडशांशः सचतुर्हस्तो भवेद्गृहो-
च्छ्रायः । द्वादशभागेतोनो भूमौ भूमौ समस्तानाम् ।
व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः ।
पक्वेष्टकाकृतानां दारुकृतानां तु स विकल्पः । एकादश-
भागयुतः ससप्ततिर्नृपबलेशयोर्व्यासः । उच्छ्रायोऽङ्गु-
लतुल्यो द्वारस्यार्द्धेन विष्कम्भः । विप्रादीनां व्यासात्
पञ्चांशोऽष्टादशाङ्गुलसमेतः । साष्टांशो विष्कम्भो द्वा-
रस्य द्विगुण उच्छ्रायः । उच्छ्रायहस्तसङ्ख्यापरिमाणा-
न्यङ्गुलानि बाहुल्यम् । शाखाद्वयेऽपि कार्यं सार्द्धं
तत्स्यादुदुम्बरयोः । उच्छ्रायात् सप्तगुणादशीतिभागः
पृथुत्वमेतेषाम् । नवगुणितेऽंशीत्यंशः स्तम्भस्य दशां-
शहीनोऽग्रे । समचतुरश्रो रुचको १ वज्रो २ ऽष्टाश्रिर्द्वि-
वज्रको ३ द्विगुणः । द्वात्रिंशता तु मध्ये प्रलीनको ४ वृत्त
इति वृत्तः ५ । स्तम्भं विभज्य नवधा वहनं १ भागो वटो २
ऽस्य भागोऽन्यः । पद्मं ३ तथोत्तरोष्ठं ४ कुर्याद्भागेन
भागेन । स्तम्भसमं बाहुल्यं भारतुलानामुपर्युपर्यासाम् ।
मवति तुलोपतुलानामूनं पादेन पादेन । अप्रतिषि-
द्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् १ । नृपविबुध-
समूहानां कार्यं द्वारैश्चतुर्भिरपि । नन्द्यावर्त्त २ मलिन्दैः
शालाकुद्ध्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन्
विहाय शेषाणि कार्याणि । द्वारालिन्दोऽन्तगतः प्रद-
क्षिणोऽन्यः शुभस्ततश्चान्यः । तद्वच्च वर्द्धमाने ३ द्वारं तु
न दक्षिणं कार्यम् । अपरोऽन्तगतोऽलिन्दः प्रागन्त-
गतौ तदुत्थितौ चान्यौ । तदवधिविवृतश्चान्यः प्राग्-
द्वारं स्वस्तिके ४ ऽशुभदम् । प्राक्पश्चिमावलिन्दावन्तगतौ
तदवधिस्थितौ शेषौ । रुचके ५ द्वारं न शुभदमुत्तरतो-
ऽन्यानि शस्तानि । श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्द्ध-
मानसज्ज्ञं च । स्वस्तिकरुचके मध्ये शेषं शुभदं
नृपादीनाम् । उत्तरशालाहीनं हिरण्यनाभं त्रिशा-
लकं धन्यम् । प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं
वास्तु । याभ्याहीनं चुल्ली त्रिशालकं वित्तनाशकरमे-
तत् । पक्षघ्नमपरया वर्जितम् सुतध्वंसवैरकरम् ।
सिद्धार्थमपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाले । दण्डा
ख्यमुदक्पूर्बे बाताख्यं प्राग्युता याम्या । पूर्वापरे
तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् । सिद्धार्थेऽर्था-
वाप्तिर्यमसूर्ये गृहपतेर्मृत्युः । दण्डबधो दण्डाख्ये
कलहोद्वेगः सदैव वाताख्ये । वित्तविनाशश्चुल्ल्यां
ज्ञातिबिरोधः स्मृतः काचे” ।
तत एकाशीतिपदं चतुःषष्टिपदञ्च द्विधा वास्तुनरविभाग-
मुक्त्वोक्तम् “सम्पाता वंशानां मध्यानि समानानि यानि च
पदानाम् । मर्माणि तानि विद्यान्न परिपीडगेत् प्राज्ञः ।
तान्यशुचिभाण्डकीलस्तम्भाद्यैः पीडितानि शल्यैश्च ।
गृहभर्तुस्तत्तुल्ये पीडामङ्गे प्रयच्छन्ति । कण्डूयते
यदङ्गं गृहपतिना यत्र वाऽमराहुत्याम् । अशुभं
भवेन्निमित्तं विकृतिर्वाग्नेः सशल्यं तत् । धनहानिर्दारु-
मये पशुपीढारुग्भयानि चास्थिकृते । (लोहमये शस्त्र-
भयं कपालकेशेषु मृत्युः स्यात् । अङ्गारे स्तेनभयं
भस्मनि च विनिर्दिशेत्सदाग्निभयम् । शल्यं हि मर्म-
पृष्ठ २६४१
संस्थं सुवर्णरजतादृतेऽत्यशुभम् । मर्मण्यमर्म यो वा
रुणद्ध्यर्थागमं तुषसमूहः) (क्षेपकम्) अपि नागदन्तको
मर्मसंस्थितो दोषकृद्भवति । रोगाद्वायुं पितृतो हुताशनं
शोषसूत्रमपि वितथात् । मुख्याद्भृशं जयन्ताच्च
भृशमदितेश्च सुग्रीवात् । तत्सम्पाता नव ये तान्यति
मर्माणि सम्प्रदिष्टानि । यच्च पदस्याष्टांशस्तत्प्रोक्तं मर्म-
परिमाणम् । पदहस्तसंख्यया सम्मितानि वंशोऽङ्गु-
लानि विस्तीर्णः । वंशव्यासोऽध्यर्द्धः शिराप्रमाणं
विनिर्दिष्टम् । सुखमिच्छन् ब्रह्माणं यत्नाद्रक्षेद्गृही
गृहान्तःस्थम् । उच्छिष्टाद्युपघाताद्गृहपतिरुपतप्यते
तस्मिन् । दक्षिणभुजेन हीने वास्तुनरेऽर्थक्षयोऽङ्गना-
दोषाः । वामेऽर्थधान्यहानिः शिरसि गुणैर्हीयते सर्वेः ।
स्त्रीदोषाः सुतमरण प्रेष्यत्वं चापि करेण वैकल्ये ।
अविकलपुरुषे वसतां मानार्थयुतानि सौख्यानि ।
गृहनगरग्रामेषु च सर्वत्रैबं प्रतिष्ठिता देवाः । तेषु च
यथामुरूपं वर्णा विप्रादयो वास्याः । वासगृहाणि
च विद्याद् विप्रादीनामुदग्दिगाद्यानि । विशतां
च तथा भवनं भवन्ति तान्येव दक्षिणतः । नवगुणसूत्र-
विभक्तान्यष्टगुणेनाथवा चतुःषष्टेः । द्वाराणि यानि तेषा-
मनलादीनां फलोपनयः । अनलभयं स्त्रीजन्मप्रभूत-
धनता नरेन्द्रवाल्लभ्यश् । क्रोधपरताऽनृतत्वं क्रौर्यं च
पूर्बेण । अल्पसुतत्वं प्रैष्यं नीचत्वं भक्ष्यपानसुतवृद्धिः ।
रौद्रं कृतघ्नमधनं सुतवीर्यघ्नं च याम्येन । सुतपीडा
रिपुवृद्धिर्न धनसुताप्तिः सुतार्थबलसम्पत् । धनसम्पन्नृ-
पतिभयं धनक्षयो रोग इत्यपरे । बधबन्धौ रिपुवृद्धि-
र्धनसुतलाभः समस्तगुणसम्पत् । पुत्रधनाप्तिर्वैरं सुतेन
दोषाः स्त्रिया नैःस्वम् । मार्गतरुकोणकूपस्तम्भभ्रमवि-
द्धमशुभदं द्वारम् । उच्छ्रायाद्द्विगुणमितां त्यक्त्वा भूमिं
न दोषाय । रथ्याविद्धं द्वारं नाशाय कुमारदोषदं
तरुणा । पङ्कद्वारे शोको व्ययोऽम्बुनि स्राविणि प्रोक्तः ।
कूपेनापस्मारो भवति विनाशश्च देवताविद्धे । स्तम्भेन
स्त्रीदोषाः कुलनाशो ब्रह्मणोऽभिमुखे । उन्मादः स्वय-
मुद्घाटितेऽथ पिहिते स्वयं कुलविनाशः । मानाधिके
नृपभयं दस्युभयं व्यसनदं नीचम् । द्वारं द्वारस्यो-
परि यत्तन्न शिवाय सङ्कटं यच्च । आव्यात्तं क्षुद्भयदं
कुब्जं कुलनाशनं भवति । पीडाकरमतिपीडितमन्तर्वि-
नतं भवेदभावाय । बाह्यविनते प्रवासो दिग्भ्रान्ते
दस्युभिः पीडा । मूलद्वारं नान्यैर्द्वारैरतिसन्दधीत रू-
पर्द्ध्या । घटफलपत्रप्रसवादिभिश्च तन्मङ्गलैश्चिनुयात् ।
ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः ।
चरकी बिदारिनामाथ पूतना राक्षसी चेति । पुरभवन-
ग्रामाणां ये कोणास्तेषु निवसतां दोषाः । श्वपचादयो
ऽन्त्यजात्यास्तेष्वेव विवृद्धिमायान्ति । याम्यादिष्वशुभ-
फला जातास्तरवः प्रदक्षिणेनैते । उदगादिषु
प्रशस्ताः प्लक्षवटोदुम्बराश्वत्थाः । आसन्नाः कण्ठकिनो
विपुभयदाः क्षीरिणोऽर्थनाशाय । फलिनः प्रजाक्षय-
करा दारूण्यपि वर्जयेदेषाम् । न छिन्द्याद्यदि तरूं-
स्तान् तदन्तरे पूजितान्वपेदन्यान् । पुन्नागाशोकारिष्ट-
बकुलपनसान् शमीशालौ । शस्तौषधिद्रुमलतामधुरा
सुगन्धा स्निग्धा समा न सुषिरा च मही नराणाम् ।
अप्यध्वनि श्रमविनोदमुपागतानां धत्ते श्रियं किमुत
शाश्वतमन्दिरेषु । सचिवालयेऽर्थनाशो धूर्तगृहे सुतबधः
समीपस्थे । उद्वेगो देवकुले चतुष्पथे भवति
चाऽकीर्तिः । चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसङ्कुले
विपदः । गर्त्तायां तु पिपासा कूर्माकारे धनविनाशः ।
उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव । विप्रः
सर्वत्र वसेदनुवर्णमथेष्टमन्येषाम् । गृहमध्ये हस्तमितं
खात्वा परिपूरितं पुनः श्वभ्रम् । यद्यूनमनिष्टं तत्
समे समं घन्यमधिकं यत् । श्वभ्रमथ वाम्बुपूर्णं
पदशतमित्वागतस्य यदि नोनम् । तद्धन्यं यच्च भवेत् पलान्य-
पामाढकं चतुःषष्टिः । आमे वा मृत्पात्रे श्वभ्रस्थे
दीपवर्त्तिरभ्यनिलम् । ज्वलति दिशि यस्य शस्ता सा
भूमिस्तस्य वर्णस्य । श्वभ्रोर्पितं न कुसुमं यस्मिन् प्रम्ला-
यतेऽनुवर्णसमम् । तत्तस्य भवति शुभदं यस्य च यस्मि-
न्मनोरमते । सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते
भूमिः । गन्धश्च भवति यस्या वृतरुधिरान्नाद्यमद्यसमः ।
कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रमेण मही ।
अनुवर्णं वृद्धिकरी मधुरकषायाम्लकटुका च । कृष्टां
प्ररूढवीजां गोऽध्युषितां ब्राह्मणैः प्रशस्तां च । गत्वा
महीं गृहपतिः काले सांवत्सरोद्दिष्टे । भक्ष्यैर्नाना-
कारैर्दध्यक्षतसुरभिकुसुमधूपैश्च । दैवतपूजा कृत्वा स्थप-
तीनभ्यर्च्य विप्रांश्च । विप्रः स्पृष्ट्वा शीर्षं, वक्षश्च क्षत्रियो
विशश्चोरू । शूद्रः पादौ स्पृष्ट्वा कुर्याद्रेखां गृहारम्भे ।
अङ्गुष्ठकेन कुर्यान्मध्याङ्गुल्याथवा प्रदेशिन्या ।
कनकमणिरजतमुक्तादधिफलकुसुभाक्षतैश्च शुभम् । शस्त्रेण
शस्त्रमृत्युर्बन्धी लोहेन भस्मनाग्निभयम् । तस्करभय
पृष्ठ २६४२
तृणेन च काष्ठील्लिखिता च राजभयम् । वक्रा पादा-
लिखिता शस्त्रभयक्लेशदा विरूपा च । चर्माड्गारास्थि-
कृता दन्तेन च कर्तुरशिवाय । वैरमपसव्यलिखिता
प्रदक्षिणं सम्पदी विनिर्देश्याः । वाचः परुषा निष्ठी-
वितं क्षुतं चाशुभं कथितम् । अर्धनिचितं कृतं वा
प्रविशन् स्थपतिर्गृहे निमित्तानि । अवलोक्येद्गृह-
पतिः क्व संस्थितः स्पृशति किं चाङ्गम् । रविदीप्तां
यदि शकुनिस्तस्मिन् काले विरौति परुषरवः । संस्पृ-
ष्टाङ्गसमानं तस्मिन्देशेऽस्थि निर्देश्यम् । शकुनममये
ऽथवान्ये हस्त्यश्वश्वादयोऽनुवाशन्ते । तत्प्रभवमस्थि
तस्मिंस्तदङ्गसम्भूतमेवेति । सूत्रे प्रसार्यमाणे गर्दभरावो
ऽस्थिशल्यमाचष्टे । श्वशृगाललङ्घिते वा सूत्रे शल्यं
विनिर्देश्यम् । दिशि शान्तायां शकुनिर्मधुरविरावी
यदा तदा वाच्यः । अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठिते
ऽङ्गे वा । सूत्रच्छेदे मृत्युः कीले चत्वाङ्मुखे महान्
रोगः । गृहनाथस्थपतीनां स्मृतिलोपे मृत्युरादेश्यः ।
स्कन्धाच्च्युते शिरोरुक् कुलोपसर्गोऽपवर्जिते कुम्भे ।
भग्नेऽपि च कर्मिबधश्च्युते कराद्गृहपतेर्मृत्युः । दक्षि-
णपूर्बे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमम् । शेषाः
प्रदक्षिणेन स्तम्भाश्चैवं समुत्थाप्याः । छत्रस्रगम्बरयुतः
कृतधूपविलेपनः समुत्थाप्यः । स्तम्भस्तथैव कार्यो द्वारो-
च्छ्रायः प्रयत्नेन । विहगादिभिरवलीनैराकम्पितपति-
तदुःस्थितैश्च फलम् । शक्रध्वजफलसदृशं तस्मिंश्च शुभं
विनिर्दिष्टम् । प्रागुत्तरोन्नते धनसुतक्षयः सुतबधश्च
दुर्गन्धे । वक्रे बन्धुविनाशो न सन्ति गर्भाश्च
दिगमूढे । इच्छेद्यदि गृहवृद्धिं ततः समन्ताद्विवर्धयेत्तु-
ल्यम् । एकोद्देशे दोषः प्रागथवाप्यत्तरे कुर्यात् । प्राग्-
भवति मित्रवैरं मृयुर्दक्षिणेन यदि वृद्धिः । अर्थविनाशः
पश्चादुदग्विवृद्धौ मनस्तापः । ऐशान्यां देवगृहं महानसं
चापि कार्यमाग्नेय्याम् । नैरृत्यां भाण्डोपस्करोऽथ
धान्यानि मारुत्याम् । प्रागादिस्थे सलिले सुतहानिः
शिखिभयं रिपुभयं च । स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्वं
वित्तात्मजविवृद्धिः । खगनिलयभग्नसशुष्कदग्धदवालयश्म-
शानस्थान् । क्षीरतरुधवविमीतकनिम्बारणिवर्जितांश्छि-
न्द्यात रात्रौ कृतबलिपूज प्रदक्षिणं छेदयेद्दिवा
वृक्षम् । धन्यमुदक पाक्पतनं न ग्राह्योऽन्यथा पतितः ।
छेदो यद्यावकारो ततः शुमं दारु नद्गृहौपयिकम् ।
पीते तु तरुमण्डले निर्दिशत् तरोर्मध्यग गोधाम ।
मञ्जिष्ठाभे भेकं नीले सर्पं तथारुणे सरटः । मुद्गाभे
ऽश्मा कपिले तु भूषकोऽम्भश्च खड्गाभे । धान्यगोगुरु-
हुताशसुराणां न स्वपेदुपरि नाप्यनुवंशम् । नोत्तरा-
परशिरा न च नग्नो नैव चार्द्रचरणः श्रियमिच्छन् ।
भूरिपुष्पनिकरं सतोरणं तोयपूर्णकलसोपशोभितभ् ।
धूपगन्धबलिपूजितामरं ब्राह्मणध्वनियुतं विशेदगृहम्”
मत्स्यपुराणे वास्तुप्रकरणे चोक्तं यथा “पूर्बं भूमिं
परी ते पश्चाद्वास्तुं प्रकल्पयेत् । श्वेता रक्ता तथा
पीता कृष्णा चैवानुपूर्बशः । विप्रादेः शस्यते भूमि-
रतः कार्यं परीक्षणम् । विप्राणां मधुरास्वादा कटुका
क्षत्रियस्य तु । तिक्ता कषाया च तथा वैश्यशूद्रेषु
शस्यते । अरत्निमात्रे वै गर्त्ते स्वनुलिप्ते च सर्वशः ।
घृतमामशरावस्थं कृत्वावर्त्तिचतुष्टयम् । ज्वालयेद्-
भूपरीक्षार्थं तत्पूर्णं सर्वदिङ्मुखम् । दीप्तौ पूर्वादि-
गृह्णीयाद्वर्णानामनुपूर्वशः । वास्तुः सामूहिकोनाम
दीप्यते सर्व्वतस्तु यः । शुभदः सर्ववर्णानां प्रासादेषु
गृहेषु च । अरत्निमात्राधोगर्त्ते परीक्ष्यं स्वातपूरणे ।
अधिके श्रियमाप्नोति न्यूने हानिं समे समम् ।
फालकृष्टेऽथवा देशे सर्ववीजानि वापयेत् । त्रिपञ्चसप्तरात्रेण
यत्र रोहन्ति तान्यपि । ज्येष्ठा समा कनिष्ठा भूर्वर्ज-
नोयेतरा सदा । पञ्चगव्यौषधिजलैः परीक्षित्व च
सेचयेत् । एकाशीतिपदं कृत्वा रेखाभिः कनकेन च
पश्चात्पिष्टेन चालिप्य सूत्र णावेष्ट्य सर्वतः । दश पूर्वाय
ता रेखा दश चैवोत्तरायताः । सर्ववास्तुविभागेषु
विज्ञेया नवका नव । एकाशीतिपदं कृत्वा वास्तुवि-
त्सर्ववास्तुषु । पदस्थान् पूजयेद्देवां स्त्रिंशत्पञ्चदशैव तु ४५ ।
द्वात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ।
नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोधत । ईशान-
कोणादिषु तान् पूजयेद्धविषा नरः । शिखी चैवाथ
पर्जन्यो जयन्तः कुलिशायुधः । सूर्यसत्यौ भृशश्चैव
आकाशो वायुरेव च । पूषा च वितथश्चैव वृहत्क्ष-
तयमावुभौ । गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्तथा ।
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः । असुरः
शोषपापौ च रोगोहिर्मुख्य एव च । भल्लाटः
सोमसर्पौ च अदितिश्च दितिस्तथा । बहिर्द्वात्रिंशदेते
तु तदन्तस्तु ततः शृणु । ईशानादिचतुष्कोणसस्थि-
तान पूजयेदबुधः । आपश्चैवाथ मावित्रो जयोरुद्र-
स्तथै च मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगान् ।
पृष्ठ २६४३
साध्यानेकान्तरान् विद्यात् पूर्वाद्यान्नामतः शृणु । अर्यमा
सविता चैव विवस्वान् विबुधाधिपः । मित्रोऽथ
राजयक्ष्मा च तथा पृथ्वीधरः स्मृतः । अष्टमश्चापबत्मस्तु
परितो ब्रह्मणः स्मृताः । आपश्चैवापवत्सश्च पर्ज्य-
न्योऽग्निर्दितिस्तथा । पदिकानान्तु वर्गोऽयमेवं कोणे-
ष्वशेषतः । तन्मध्ये तु बहिर्विंशत् द्विपदास्ते तु
सर्वशः । अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।
ब्रह्मणः परितोदिक्षु त्रिपदास्ते तु सर्वशः । वंशानि-
दानीं वक्ष्यामि ऋजूनपि पृथक् पृथक् । वायुं
यावत्तथा रोगात् पितृभ्यः शिखिनं पुनः । मुख्यात् भृशं
तथा शोषाद्वितथं यावदेव तु । सुग्रीवाददितिं यावत्
मृगात् पर्जन्यमेव च । एते वंशाः समाख्याताः क्वचिच्च
जयमेव तु । एतेषां यस्तु सम्पातः पदं मध्यं समं
तथा । मर्म चैतत्समाख्यातं त्रिशूलं कोणगञ्च यत् ।
स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्वदा । कीलो-
च्छिष्टोपघातादि वर्जयेद् यत्नतो जनः । सर्वत्र वास्तु-
र्निर्दिष्टो पिवृवैश्वानरायतः । मूर्द्धन्यग्निः समादिष्टो
मुखे चापः समाश्रितः । पृथ्वीधरोऽर्यमा चैव स्तनयो-
स्तावधिष्ठितौ । वक्षःस्थले चापवत्सः पूजनीयः सदा
बुधैः । नेत्रयोर्दितिपर्जन्यौ श्रौत्रेऽदितिजयन्तकौ ।
सर्पेन्द्रावंससंस्थौ तु पूजनीयौ प्रगत्नतः । सूर्यस-
त्यादयस्तद्वत् बाह्वोः पञ्च च पञ्च च । रुद्रश्च
राजयक्ष्मा च वामहस्ते समास्थितौ । सावित्रः सविता
तद्वधस्तं दक्षिणमास्थितौ! विवस्वानथ मित्रश्च
जठरे संव्यवस्थितौ । पूषा च पापयक्ष्मा च हस्तयोर्म-
णिबन्धने । तथैवासुरशोषौ च वामपार्श्वं समाश्रितौ ।
पार्श्वे तु दक्षिणे तद्वत् वितथः सवृहत्क्षतः । ऊर्वो-
र्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्वपुष्पकी । जङ्घयोर्भृश
सुग्रीवौ स्फिक्स्थौ दौवारिको मृगः । जयशक्रौ तथा
मेढ्रे पादयोः पितरस्तथा । मध्ये नवपदे ब्रह्मा हृदये
स तु पूज्यते । चतुःषष्टिपदोवास्तुः प्रासादे ब्रह्मणा
स्मृतः । ब्रह्मा चतुष्पदस्तत्र कोणेष्वर्धपदास्तथा । बहिः
कोणेषु वास्तौ तु सार्धाश्चाभयसंस्थिताः । विंशतिर्द्वि-
षदाश्चैव चतुःषष्टिपदे स्मृताः । गृहारम्भेषु कण्डूतिः
स्वाम्यङ्गे यत्र जायते । शल्य त्वपनयेत्तत्र प्रासादे
भवने तथा । सशल्यं भयदं यस्मादशल्यं शुभदायकम् ।
हींनाधिकाङ्गतां वास्तोः सर्वथा तु विवर्जयेत् । नगर
ग्रामदेशेष सर्वत्रैवं विवर्जयेत् । चतुःशालं त्रिशालञ्च
द्विशालं चैकशालकम् । नामतस्तान् प्रवक्ष्यामि स्वरू-
पेण द्विजोत्तम! । चतुःशालं प्रवक्ष्यामि स्वरूपन्नामत-
स्तथा । चतुःशालञ्चतुर्द्वारैरलिन्दैः सर्वतोमुखम् । नाम्ना
तत् सर्वतोभद्रं १ शुभं देवनृपालयम् । पश्चिमद्वारहीनञ्चः
नन्द्यावर्तं २ प्रचक्षते । दक्षिणद्वारहीनन्तु वर्द्धमानं ३
प्रचक्षते । पूर्वद्वारविहीनं तत् स्वस्तिकं ४ नाम विश्रुतम् ।
रुचकं ५ चोत्तरद्वारविहीनं तत् प्रचक्षते । सौम्यशीला-
विहीनं यत्त्रिशालं धान्यक ६ ञ्च तत् । क्षेमवृद्धिकरं
नॄणां बहुपुत्रफलप्रदम् । शालया पूर्वया हीनं
सुक्षेत्रमिति ७ विश्रुतम् । धन्यं यशस्यमायुष्यं शोकमोह
विनाशनम् । शालया याम्यया हीनं यत्त्रिशालं तु
शालया । कुलक्षयकरं ८ नॄणां सर्वव्याधिविनाशनम् ।
हीनं पश्चिमया यत्तु पक्षघ्नं ९ नाम तत् पुनः । मित्र
बन्धून् सुतान् हन्ति तथा सर्वभयावहम् । याम्याप-
राभ्यां शालाभ्यां धन्यं १० धान्यफलप्रदम् । क्षेमवृद्धिकरं
नॄणां तथा पुत्रफलप्रदम् । यमसूर्य्यञ्च ११ विज्ञेयं पश्चि-
मोत्तरशालिकम् । राजाग्निभयदं नॄणां कुलक्षयकरं
च तत् । उदक्पूर्वे तु शाले हि दण्डाख्यं ११ यत्र तद्भवेत् ।
अकालमृत्युभयदं परचक्रभयावहम् । धनाख्यं १३ पूर्व-
याम्याभ्यां शालाभ्यां यद्द्विशालकम् । तच्छस्त्रभयदं नॄणां
पराभवभयावहम् । चुल्ली १४ पूर्वापराभ्यां तु सा भवेन्मृत्यु
सूचिनी । वैधव्यदायकं स्त्रीणामनेकभयकारकम् । कार्य-
मुत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम् । सिद्धार्थसंज्ञं १५
वर्ज्याणि द्विशालानि सदा बुधैः । अथातः संप्रवक्ष्यामि
भवनं पृथिवीपतेः । पञ्चप्रकारं तत्प्रोक्तमुत्तमादिविभे-
दतः । अष्टोत्तरं हस्तशतं द्विस्तरश्चोत्तमोमतः ।
चतुर्ब्बन्येषु विस्तारो हीयते चाष्टभिः करैः । चतुर्थांशा-
धिकं दैर्घ्यं पञ्चस्वपि निगद्यते । युवराजस्य वक्ष्यामि
तथा भवनपञ्चकम् । षड्भिः षड्भिस्तथाशीतिर्हीयते
तत्र विस्तरात् । त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि
नियद्यते । सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम् ।
चतुःषष्टिस्तु विस्तारात् षड्भिः षड्भिस्तु हीयते ।
पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिक भवेत् । मन्द्रिणामथ
वक्ष्यामि तथा भवनपञ्चकम् । चतुश्चतुभिर्हीना स्यात्
करषष्टिः प्रविस्तरे । अष्टांशेनाधिकं दैर्घ्यं पञ्चखपि
निगद्यते । सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् ।
चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात् । चतुर्थांशा-
धिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते । शिल्पिकञ्च किनाञ्चैव
पृष्ठ २६४४
वेश्यानां गृहपञ्चकम् । अष्टाविंशत् कराणान्तु त्रिहीनं
विस्तरे क्रमात् । द्विगुणं दैर्घ्यमेवोक्तं मध्यमेष्वेवमेव
तत् । दूतीकर्माधिकृतानां वक्ष्ये भवनपञ्चकम् ।
चतुर्थांशाधिकं दैर्व्यं विस्तारोद्वादशैव तु । अर्धार्द्धकर-
हानिःस्याद्विस्तारात्पञ्चशः क्रमात् । दैवज्ञगुरुवैद्यानां
सभास्तारपुरोधसाम् । तेषामपि प्रवक्ष्यामि तथा
भवनपञ्चकम् । चत्यारिंशत्तु बिस्ताराच्चतुर्भिर्हीयते क्रमात् ।
पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् । चातुर्वर्ण्यस्य
वक्ष्यामि सामान्यं गृहपञ्चकम् । द्वात्रिंशतिः कराणान्तु
चतुर्भिर्हीयते क्रमात् । आ षोड़शादिति परं नूनमन्त्याव
सायिनाम् । दशांशेनाष्टभागेन त्रिभागेणाथ पादिकम् ।
अधिकं दैर्घ्यमित्याहुर्ब्राह्मणादेः प्रशस्यते । सेनापतेर्नृ-
पस्यापि गृहयोरन्तरेण तु । नृपवासगृहं कार्य्यं
भाण्डागारन्तथैव च । सेनापतेर्गृहस्यापि चातुर्वर्ण्यस्य
चान्तरे । वासाय च गृहं कार्य्यं राजपूज्येषु सर्वदा
अन्तरप्रभवानाञ्च स्वपित्रीर्गृहमिष्यते । तथा हस्तशता-
दर्द्धं गदितं वनवासिनाम् । सेनापतेर्नृपस्यापि सप्तत्या
सहिते कृते । चतुर्दशहृते व्यासे शालाव्यासः प्रकी-
र्तितः । पञ्चत्रिंशान्विते तस्मिन्नलिन्दः समुदाहृतः ।
तथा षड्त्रिंशद्धस्ता तु सप्ताङ्गुलसमन्विता । विप्रस्य
महती शाला न दैर्घ्यं परतोभवेत् । दशाङ्गुलाधिका
तद्वत् क्षत्रियस्य निगद्यते । पञ्चत्रिंशत्करा वैश्ये अङ्गु-
लानि त्रयोदश । तावत्करैव शूद्रस्य युता पञ्चदशाङ्गुलैः ।
शालायास्तु त्रिभागेण यस्याग्रे वीथिका भवेत् । सोष्णीषं
नामं तद्वास्तु, पश्चात् सायाच्छ्रयं भवेत् । पार्श्वयोर्वी थका
यत्र सावष्टम्भन्तदुच्यते । समन्ताद्वीथिका यत्र सुस्थितं
तदिहीच्यते । शुभदं सर्वमेतत्स्याच्चातुवर्ण्ये चतुर्विधम् ।
विस्तारात् षोड़शोभागस्तथा हस्तचतुष्टयम् । प्रथमो
भूमिकोच्छ्राय उपरिष्टात् प्रहीयते । द्वादशांशेन सर्वासु
भूमिकासु तथोच्छ्रयः । पक्वेष्टकाभवा भित्तिः षोड़शांशेन
विस्तरात् । दारवैरपि कल्प्या स्यात्तथा मृण्मयभि-
त्तिका । गर्भमानेन मानन्तु सर्ववास्तुषु शस्यते ।
गृहव्यासस्य पञ्चाशदष्टादशभिरङ्गुलैः । संयुतोद्वारविष्कम्भो
द्विगुणश्चोच्छ्रयो भवेत् । द्वारशाखासु बाहुल्यमुच्छ्रायः-
करसम्मितैः । अङ्गुलैः सर्ववास्तूनां पृथुत्वं शस्यते बुधैः ।
उदुम्बरोत्तरायामस्तदर्धार्धं प्रविस्तरात्” २५३ अ० ।
“अथातः संप्रवक्ष्यामि स्तम्भमानविनिर्णयम् । कृत्वा
स्वभवनोच्छ्रायं सदा सप्तगुणं बुधैः । अशीत्यंशः पृथत्व
स्यादग्रेणाष्टगुणैः सह । रुचकश्चतुरस्रः स्यादष्टास्रो वज्र
उच्यते । द्विवज्रः षोडशास्वस्तु द्वात्रिंशास्रः प्रलीनकः ।
मध्यप्रदेशे यस्तम्भी वृत्तोवृत्त इति स्मृतः । एते पञ्च
महास्तम्भाः प्रशस्ताः सर्ववास्तुषु । पद्मवल्लीलताकुम्भपत्र-
दर्पणरूपिताः । स्तम्भस्य नवमांशेन पद्मकुम्भान्तराणि
तु । स्तम्भतुल्या तुला प्रोक्ता हीना चोपतुला ततः ।
त्रिभागेणेह सर्वत्र चतुर्भागेण वा पुनः । हीनं हीनं
चतुर्थांशात् तथा सर्वासु भूमिषु । वासगेहेषु सर्वेषा
प्रवेशो दक्षिणेन तु । द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह
यानि तु । पूर्वेणेन्द्रं जयन्तञ्चद्वारं सर्वत्र शस्यते । याम्य
ञ्च वितथञ्चैव दक्षिणेन विदुर्बुधाः । पश्चिमे पुष्पदन्तं
च वारुणञ्च प्रशस्यते । उत्तरेण तु भल्लाटं सौम्यं तु
शुभदं भवेत् । तथा वास्तुषु सर्वत्र वेधं द्वारस्य वर्जयेत् ।
द्वारे तु रथ्यया विद्धे भवेत् सर्वकुलक्षयः । तरुणा द्वेष्य-
बाहुल्यं शोकः पङ्केन जायते । अपस्मारो भवेन्नूनं
कूपवेधेन सर्वदा । व्यथा प्रस्रवणेन स्यात्कीलेनाग्निभयं भवेत् ।
विनाशो देवताविद्धे स्तम्भेन स्त्रीकृतो भवेत् । गृहभर्तु-
र्विनाशः स्यात् गृहेण च व्यधे कृते । अमेध्यावस्करै-
र्विद्धे गृहिणी बन्धकी भवेत् । तथा शस्त्रभयं विद्या-
दन्तयजस्य गृहेण तु । उच्छ्रायाद्द्विगुणां भूमिं त्यक्त्वा वेधो
न जायते । स्वयमुत्पाटिते द्वारे उन्मादोगृहवासिनाम् ।
स्वयं वा पिहिते विद्यात् कुलनाशं विचक्षणः । मानाधि-
के राजभयं न्यूने तस्करतो भवेत् । द्वारोपरि च
यद्द्वारं तदन्तकमुखं स्मृतम् । अध्वनोमध्यदेशे तु अधिको
यस्य विस्तरः । वज्रन्तु सङ्कटं मध्ये सद्योभर्तुर्विनाशन-
म् । तथान्यपीड़ितं द्वारं बहुदोषकरं भवेत् । मूलद्वा-
रात्तथान्यत्तु नाधिकं शोमनं भवेत् । कुम्भश्रीपर्णिव-
ल्लीभिर्मूलद्वारन्तु शोभयेत् । पूजयेच्चापि तन्नित्यं वलिना
चाक्षतोदकैः । भवनस्य वटः पूर्वे दिग्भागे सर्वकामिकः ।
उदुम्बरस्तथा यान्ये वारुण्यां पिप्पलः शुभः । प्लक्षं-
श्चोत्तरतोधन्यो विपरीतास्त्वसिद्धये । कण्टकी क्षीरवृक्षश्च
असनः फलिनीद्रुमः । भार्य्याहान्यै प्रजाहान्यै भवतां
क्रमशस्तदा । न च्छिद्यात्यदि तानन्यानन्तरे स्थापयेच्छु-
भान् । पुन्नागाशोकवकुलशमीतिलकचम्पकान् । दाडि-
मीपिप्पलद्राक्षा स्तथा कुसुममण्डपान् । जम्बीरपूगपनस-
द्रुमकेतकीभिर्जातीसरोजशतपत्रिकमल्लिकाभिः । यन्ना-
लिकेरकदलीदलपाटलाभिर्युक्तं तदत्र भवन श्रियमातनी-
ति” २५४ अ० । द्वारवेधे वराहवाक्यं पी० धा० व्याख्यातं यथा
पृष्ठ २६४५
“मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुभदं द्वारम् । उच्छृआ-
याद्द्विगुणितां भूमिं त्यक्त्वा न दोषायेति” वृ० स० भ्रमोजलनि-
र्गमप्रदेशः प्रणालिकेत्यर्थः । विद्धं सम्मुखावस्थितम् ।
अत्रोच्छ्रायो द्वारस्य गृह्यते । तथा च वर्गः “द्वारो-
च्छ्रायाद्द्विगुणितां भूमिं त्यक्त्वा बहिःस्थिताः । न
दोषाय भवन्त्येव” इति । रथ्याविद्धं द्वारं नाशाय कुमार-
दोषदं तरुणा । पङ्कद्वारे शोको व्ययोऽम्बुनि स्राविणि
प्रोक्तः । कूपेनापस्मारो भवति विनाशश्च देवताविद्धे ।
क्रमेण स्त्रीदोषः कुलनाशो व्रह्मणोऽभिमुखे भवति” वृ० स०
पङ्कविद्धं द्वारं पङ्कद्वारं यस्य द्वारस्याग्रतः निरन्तरं
पङ्कस्तिष्ठति । देवता सुरप्रतिभा । नाशः स्वामिन
एव । ब्रह्मवेध एकाशीतिपदचक्रस्थितब्रह्मवेधो
गृह्यते । यदाह विश्वकर्मा “गृहमध्ये कृतं द्वारं द्रव्य
घान्यविनाशनमिति” विशेषमाह भरद्वाजः “शिरो
मर्माणि वंशञ्च नालं मध्यं च सर्वशः । विहाय वास्तु-
मध्यं च द्वाराणि विनिवेशयेदिति” वास्तुमध्यं ब्रह्म-
स्थानम् । “तत्र द्वारं चेन्निधनप्रदमिति” वशिष्ठोक्तेश्च
अस्यापवादमाह विश्वकर्मा “देवागारे विहारे च
प्रपायां मण्डपेषु च । प्रतोल्यां च मखे वास्तुमध्ये द्वारं
निवेशयेदिति” वास्तुमध्यं ब्रह्मस्थानं देवालयादिस्था-
नेषु कृतस्य गृहान्तर्गतद्वारस्य ब्रह्मणो न वेध इति
निष्कुष्टोऽर्थः” ।
गृहकर्मणि वर्ज्यकाष्ठमाह ज्यो० त० “क्षीरिवृक्षो-
द्भवं दारु गृहेषु न निवेशयेत् । कृताधिवासं विहगै-
रनिलानलपीडितम् । गजैर्विभग्नञ्च तथा विद्युन्निर्घात
पीडितम् । चैत्यदेवालयोत्पन्नं वज्रभग्नं श्मशानजम् ।
देवाद्यधिष्ठितं दारु नीपनिम्बविभीतकान् । कण्टकि-
नोऽसारतरून् वर्जयेत् गृहकर्मणि । वटाश्वत्थौ च
निर्गुण्डीं कोविदारांस्तथैव च । प्लक्षकं शाल्मलीञ्चैव
पलाशञ्च विवर्ज्जयेत्” ।
गृहजातरक्तपुष्पवृक्षादिफलमुक्तं तत्रैव
“रक्तपुष्पाद्भयं प्राहुः क्षीरिणा च पशोर्भयम् । कण्ठ-
क्यरिभयं कुर्यात् गृहभेदञ्च शाल्मलिः” वास्तुमध्ये-
दिग्भेदात् कूपफलमुक्तम् मु० चि० “कूपे वास्तोर्मध्यदेशेऽर्थ-
नाशस्त्वैशान्यादौ पुष्टिरैश्वर्यवृद्धिः । सूनोर्नाशः स्त्रीवि-
नाशोमृतिश्च सम्पत्पीडाशत्रुतः स्याच्च सौख्यम्” मू०
“यास्तोर्गृहस्य मध्यदेशे मध्यभागे कूपे जलकूपे कृते सति
स्वामिनोऽर्थनाशः स्यात् । अथैशान्यादिषु पुष्टिरित्या-
दिफलम् । यथा ऐशान्यां कूपे पुष्टिः । पूर्वस्यां कूपे
ऐश्वर्यवृद्धिः । आग्नेय्यां कूपे पुत्रनाशः । दक्षिणस्यां
कूपे स्त्रीविनाशः । नैरृत्यां कूपे गृहकर्त्तुर्मृतिः ।
पश्चिमायां कूपे सम्पत् । वायव्यां कूपे शत्रुतः
सकाशात्पीडा । उत्तरस्यां कूपे सुखम् । गृहस्वामिन
एव” पी० धा० । एवं गृहसन्निवेशप्रकारेऽवधारितेऽधुना
गृहारम्भकालः प्रदर्श्यते । तत्रादौ सौरमासभेदेन वास्तु
नरमुखादिप्रदर्शनेन पूर्वादिमुखगृहारम्भकालमाह
विश्व० वा० शा० “वास्तुनागं जगत्प्राणं पूर्व्वस्यां प्रथ
माश्रितम् । कुक्षिप्रदेशे निखनेद्वास्तुनागस्य मन्त्रितः ।
त्रिषु त्रिषु च मासेषु नभस्यादिषु च क्रमात् । यद्दि-
ङ्मुखो यास्तुनरस्तन्मुखं सदनं शुभम् । अन्यदि-
ङ्मुखगेहं तु दुःखशोकभयप्रदम् । वृषार्कादित्रिक
मेवां सिंहादि गणयेद्गृहे । देवालये च मीनादि तडागे
मकरादिकम् । पूर्वादिषु शिरः कृत्वा नागः शेते त्रिमि-
स्त्रिभिः । भाद्राद्यैर्वामपार्श्वेन तस्य क्रोडे गृहं शुभम्”
व्यक्तमाह ज्यो० त० “वास्तुप्रमाणेन तु यात्रकेण वामेन
शेते खलु नित्यकालम् । त्रिभिस्त मासैः परिवृत्य भूमौ
तं वास्तुनागं प्रवदन्ति वृद्धाः भाद्रादिके वासवदिक्
शिराः स्यात् मार्गादिकेषु त्रिषु याम्यमूर्द्धा । प्रत्यक्
शिराः स्यात् खलु फाल्गुनादौ ज्येष्ठादि कौवेर
शिराः सनागः । मूर्ध्नि खाते भवेन्मृत्युः पृष्ठे स्यात्
पुत्रभार्ययोः । जघनेऽर्थक्षयं विद्यात् सर्वसम्पत्तथोदरे”
गृहारम्भाद्युपयोगिराहुमुखादिकमाह वा० शा०
“ईशानतः कालसर्पः संहारेण प्रसर्पति । विदिक्षु
शेषवास्तोश्च मुखं त्यज्य चतुर्थकम् । खनेच्च
सौरमानेन व्यत्यये चाशुभं भवेत् । चतुस्त्रिद्विकशा-
लानामेष दोषो न विद्यते । एकं नागेन्द्रसंशुद्ध्या
मन्दिरारम्भणं शुभम् । अधोमुखे च नक्षत्रे शुभेऽह्नि
शुभवासरे । चन्द्रतारानुकूले च भवनारम्भणं शुभम् ।
त्रिषु त्रिषु च मासेषु मार्गशीर्षादिषु क्रमात् । पूर्ब्ब-
दक्षिणतोयेशपौलस्त्याशां क्रमादगुः (राहुः) स्तम्भे धन
विनाशः स्यात् द्वारे वह्निभयं भवेत् । गमने कार्य-
हानिः स्यात् गृहारम्भे कुलक्षयः । रक्षःकुवेराग्नि
जलेशयाम्यावायव्युकाष्ठासु च सूर्य्यवासात् । वसेद-
सावष्टसु दिग्भचक्रे मुखे विवर्ज्यो गमने गृहे च ।
शिरःखाते विनाशः स्यान्मातापित्रोश्च पृष्ठके । स्त्रीपुत्र
नाशः पुच्छ तु गोत्रपुत्रविनाशनम् । कुक्षौ सर्व्वसमृप्ति
पृष्ठ २६४६
स्याद्धनधान्यसुतागमः । सिंहादिषु त्रिमासेषु चाग्नेय्यां
कुक्षिमाश्रितः । वृश्चिकादिषु ईशान्यां कुम्भादिषु च
वायुदिक् । वृषादित्रिषु नैरृत्यां मुखपुच्छं न शोभनम् ।
गृहारम्मविहितमासादि विश्व० वा० शा० उक्तं यथा
“चैत्रे व्याधिमवाप्नोति यो नवं कारयेद्गृहम् । वैशाखे
धनरत्नानि ज्यैष्ठे मृत्युं तथैव च । आषाढे भृत्य-
रत्नानि पशुवर्जमवाप्नुयात् । श्रावणे मित्रलाभं च
हानिं भाद्रपदे तथा । युद्धं चैवाश्विने मासि
कार्त्तिके धनधान्यकम् । धनवृद्धिं मार्गशीर्षे पौषे
तस्करतोभयम् । माघे चाग्निभयं विद्याल्लक्ष्मीवृद्धिश्च
फाल्गुने । गृहसंस्थापनं सूर्ये मेषस्थे शुभदं भवेत् ।
वृषस्थे धनवृद्धिः स्यान्मिथुने मरणं भवेत् । कर्कटे
शुभदं प्रोक्तं सिंहे भृत्यविवर्द्धनम् । कन्या रोगं तुला
सौख्यं वृश्चिके धनधान्यकम् । कार्मुके च महाहा-
निर्मकरे स्याद्धनागमः । कुम्भेऽर्के रत्नलाभः स्यान्मीने
मृत्युभयावहम् । चापमीननृयुक्कन्या मासा दोषा वहाः
स्मृताः । ज्यैष्ठोर्जमाघसिंहाख्याः सौरमाने तु शोभनाः ।
माघे तपस्ये तपसि माधवे नभसि त्विषे । ऊर्जे च
गृहनिर्माणं पुत्रपौत्रधनप्रदम् । निषिद्धेष्वपि कालेषु
सानुकूले शुभे दिपे । तृणदारुगृहारम्भे मासदोषो
न विद्यगे । पाषाणेष्टकगेहानि निन्द्यमासे न
कारयेत् । निन्द्यमासेऽपि चन्द्रस्य मासेन शुभदं गृहम्”
“तत्र सौरचान्द्रमासविशेषस्य ग्राह्यतां मासभेदेन पूर्वा-
दिमुखगृहकरणञ्चाह मु० चि०
“कुम्भेऽर्के फाल्गुने प्रागपरमुखगृहं श्रावणे सिंहक-
र्क्योः पौषे नक्रे च याम्योत्तरमुखसदनं गीऽजगेऽर्के
च राधे । मार्गे जूकालिगे सत् ध्रुवमृदुवरुणस्वाति-
वस्वर्कपुष्यैः सूतीगेहं त्वदित्यां हरिभविधिभयोस्तत्र
शस्तः प्रवेशः । कैश्चिन्मेपरवौ मधौ, वृषभगे ज्यैष्ठे,
ढुचौ कर्कटे, भाद्रे सिंहगते, घटेऽश्वयुजि चोर्जेऽलौ
मृगे पौषके । माघे नक्रघटे शुभं निगदितः गेहं
तथोर्जे न सत्कन्यायां च तथा धनुष्यपि न सत् कृष्णादिमा-
साद्भवेत्” मू० । “कुम्भे कूम्भस्थिते सूर्ये फाल्गुने च मासि
प्रागपरमुखं गृहं प्राङ्मुखं पश्चिममुखं च गृहं सत्
शुभफलदं स्यादित्यर्थः । श्रावणे मासि सिंहकर्किसं-
स्थार्के प्रागपरमुखं गृहं सत् । पौषे मासे नक्रे
मकरसंस्थार्के च प्रागपरमुखं गृहं सत् । अथ
गोजगे वृषमेषगे सूर्ये राधे वैशाखे मासे च तथा मार्गे
मार्गशीर्षे मासि जूकालिगे तुलावृश्चिकगते सूर्ये सति
याम्योत्तरमुखं सदनम् दक्षिणमुखं उत्तरमुखं
च सदनं सत् यदाह नारदः “गृहसंस्थापनं सूर्ये
मेषस्थे शुभदं भवेत् । वृषस्थे धनवृद्धिः स्यान्मिथुने मरणं
ध्रुवम् । कर्कटे शुभदं प्रोक्तं सिंहे भृत्यविवर्धनम् ।
कन्या रोगं तुला सौख्यं वृश्चिके धनवर्द्धनम् । कार्मुके
तु महाहानिर्मकरे स्याद्धनागमः । कुम्भे तु रत्न-
लाभः स्यान्मोने सद्म भयावहमिति” चान्द्रमासफलान्याह
श्रीपतिः “शोकोधान्यं मृतिपशुहृतिर्द्रव्यवृद्धिर्वि-
नाशोयुद्धं भृत्यक्षतिरथःधनं श्रीश्च वह्नेभयञ्च ।
लक्ष्मीप्राप्तिर्भवति भवनारम्भकर्तुः क्रमेण चैत्रादूचे मुनि
रिति फलं वास्तुशास्त्रीपदिष्टम्” इति अन्यच्च “आषाढ-
चैत्राश्वयुजीर्जमाघज्यैष्ठेषु च प्रौष्ठपदेषु नूनम् । निकेत-
नानां घटनं नृपाणां योगेश्वराचार्यमते न शस्तम्”
इति । मते न इति पदच्छेदः । अत्र सौराणां
चान्द्रमासानां महान् शुभाशुभफलदभेदेन विरोधः ।
अत्र चिकीर्षितगृहद्वारानुकूलरविसंक्रमसमीचीनविहित-
मासेष्वेव वैशाखादिषु गृहारम्भः कार्य इति
विरोधाभावः इति पितृचरणाः । तत्र द्वारनियममाह
श्रीपतिः “कर्किनक्रहरिकुम्भगतेऽर्के पूर्वपाश्चममु-
खानि गृहाणि । तौलिमेषवृषवृश्चिकयाते दक्षिणो-
त्तरमुखानि च कुर्यात् । अन्यया यदि करोति दुर्मति-
र्व्याधिशोकधननाशमश्नुते । मीनचापमिथुनाङ्गना-
गते कारयेन्न गृहमेव भास्करे” इति । कर्कार्कसहिते
श्रावणे मासि तादृशमेव गृहम् उक्ताद्धेतोः । एव
मकरार्कसहिते पौषे मासे अनेनैव हेतुना दक्षिणोत्त-
रमुखं गृहं मेषवृषार्कसहिते वैशाखे स्यात् । तुला-
वृश्चिकार्कसहिते मार्गशीर्षमासे तथैव गृहं स्यादि-
त्यर्थः । अथात्र सौराणां चान्द्राणां च मासानां
निषेधस्तृणादिनिर्मेयगृहाद्यारम्भे नैव भवति ।
यदुक्तं व्यवहारसमुच्चये “निषिद्धेष्वपि ऋक्षेषु स्वानु-
कूले शुभे दिने । तृणदारुगृहारम्भे मासदोषो न
विद्यते” इति । जगन्मोहनेऽपि “पाषाणेष्टादिगेहादि
निन्द्यमासे न कारयेत् । तृणदारुगृहारम्भे
मासदोषो न विद्यते” अत्र केचिदनियतदिग्गृहारम्भे
सवदा कालदोषो न प्रवर्तत इत्याहुः तन्न वचनाभा-
वात् । किं च “दिङ्मूढे कुलनाशः स्यादित्यनियत
दिग्गृहस्य विचारकीटिसन्निवेशाभावात् । अथ गृह
पृष्ठ २६४७
निर्माणनक्षत्राण्याह । ध्रुवेति । ध्रुवाणि मृदूनि
च प्रसिद्धानि वरुणः शतभं स्वाती प्रसिद्धा वसुः धनिष्ठा
अर्कोहस्ता पुष्यश्च एषु भेषु गृहनिर्माणं सत् शुभफल-
दम् । यदाह गर्गः “त्र्युत्तरेऽपि च रोहिण्यां पुष्ये
मैत्रे १७ करद्वये १३ । १४ । धनिष्ठाद्वितये पौष्णे २७
गृहारम्भः प्रशस्यते” अत्र वाक्ये मृगानभिधानेऽपि
तदुक्तिर्महेश्वरवाक्यालोचनेन “प्रारम्भो भवनस्य वारु-
ण २४ मृदु १४ । १७ । ५ । २७ स्वात्यर्क १३ पुष्यध्रुवै ४ । १२ । २१ । २६ ।
र्वस्वृक्षेण २३ युतैरिति” अथ सूतिकागृहनिर्माणे
विशेषमाह सूतीगेहमिति । अदित्यां पुनर्वसौ सूति-
कागृहनिर्माणं शस्तम् । तत्रेति तत्र सूतिकागृहे हरि
भविधिभयोः श्रवणाभिजितोर्नक्षत्रयोः प्रवेशः शस्तः ।
उक्तं च श्रीपतिना “पुनर्वसौ च सूतिकागृहस्य
निर्मितिः शुभा । विरञ्चिविष्णुभान्तरे प्रवेशनं
हितं भवेत्” इति । तदेतद्ब्राह्मणव्यतिरिक्तवर्णत्रि-
कपरम् यदाह लल्लः “पुनर्वसौ नृपादीनां
कर्त्तव्यं सूतिकागृहम् । श्रवणाभिजितोर्मध्ये प्रवेशं
तत्र कारयेदिति” आवश्यकत्वे तु श्रवणाभिजितोर्मु-
हूर्त्तस्तदुदयो वा ग्राह्यः इत्यर्थः । व्राह्मणस्य तु प्रा-
गुक्तनक्षत्रेष्येव सूतिकागृहनिर्माणप्रवेशौ । तत्र सूति-
कागृहं नैरृत्यां कार्यं यदाह वृद्धवशिष्ठः “ऐन्द्र्यां
तु विक्रयस्थानमाग्नेय्यां पचनालयः । वारुण्यां
भोजनगृहं नैरृत्यां सूतिकागृहम् । याम्यायां
शयनस्थानं वायव्यां पशुमन्दिरम् । कौवेर्य्यां तु धनस्थान-
मैशान्यां देवतालयः” इति । मृतिभास्करे गर्गः
“वारेऽनुकूले राशौ तु दिने दोषविवर्जिते । सानुकूल-
दिशि प्रोक्तं सूतिकाभवनं बुधैरिति” कालनियम उक्तो
रत्नकोशे “आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः ।
तद्वत् प्रसवकाले स्यादिति शास्त्रेषु निश्चयः” इति । वराहे-
णात्रानेकनक्षत्राणामभिधानं कृतं यथा “हस्तादित्यशशा-
ङ्कतिष्यपवनप्राज्येशमित्रोत्तराचित्राश्विश्रवणेषु वृश्चिक-
घटौ हित्वा विरिक्ते तिथौ । शुक्राचार्यशनैश्चरज्ञश-
शिनां वारेऽनुकूले विधौ सद्भिर्वेश्मनि सूतिकागृह-
विधिः क्षेमङ्करः कीर्त्यते” इति । वेश्मनि चतुर्थस्थाने
सद्भिः शुभग्रहैः । सूतिकागृहप्रवेशे कालविशेषमाह
ज्योतिवसिष्ठः “अथातः संप्रवक्ष्यामि सूतिकागारवेश-
नम् । मासि तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने । प्रसूति-
सम्भवे काले सद्य एव प्रवेशयेदिति” पूर्वपक्षे शुक्ल-
पक्षे । प्रवेशे नक्षत्रादीन्याह गर्गः “रोहिण्यैन्दवपौ-
ष्णेषु स्वातीवारुणयोरपि । पुष्ये पुनर्वसौ हस्तधनिष्ठा-
त्र्युत्तरासु च । “मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागार
वेशनम्” । “सर्वेशुभग्रहाः केन्द्रे पापाश्च त्रिषडायगाः ।
शुभांशे शुभसन्दृष्टे सूतिकागारवेशनमिति” । प्राग-
भिहितानां सौरचान्द्रमासानां प्रकारान्तरेणैकपाक्यतां
शार्दूलविक्रीडितेनाह । कैश्चिदिति पूर्वदिग्द्वारवशेनै-
कवाक्यता उक्ता इदानीमेतादृशमुच्यते मेषसंस्थे रवौ
मधौ चैत्रेमासि गेहं प्रारब्धं शुभं स्यात् । तथा
वृषस्थे सूर्ये ज्यैष्ठे मासि, कर्कस्थेऽर्के शुचावाषाढे, सिंह-
गतेऽर्के भाद्रपदे मासि, घटे तुलास्थे रवौ आश्वयुजि
आश्विनमासि । अलौ वृश्चिकगेऽर्के ऊर्जे कार्त्तिके मासि ।
मृगे मकरस्थेऽर्के पौषे मासि, नक्रघटे मकरकुम्भस्थेऽर्के
माघे मासि प्रारब्धं गृहं शुभं स्यात् इत्यर्थः इति
कैश्चिन्निगदितम् । अस्यायमाशयः । मीनचापेत्या-
दिना द्विस्वभावराशयो निषिद्धाः शोको धान्यमित्या-
दिना च कियन्तश्चान्द्रा अपि मासा निषिद्धाः ।
अतोऽन्थे सौराश्चान्द्रा वा विहितास्तेषामयमेव एकवा-
क्यताप्रकारः । मेषस्थे रवौ चैत्रेऽपि गृहं शुभम् ।
यस्तु चैत्रोनिषिद्धः स मीनार्कविषयः । वृषभस्थे रबौ
ज्यैष्ठेऽपि शुभम् । वैशास्वस्तु विहितएवास्ति ज्येष्ठो
निषिद्धः स मिथुनार्कविषयः । कर्कटस्थे सूर्ये आषाढे-
ऽपि शुभं आषाढनिषेधस्तु मिथुनार्कविषयः । सिंह-
गते सूर्ये भाद्रपदेऽपि शुभम् । श्रावणश्चेत्तत्र स्यात्स
विहितत्वादेव शुभः । यस्तु भाद्रपदनिषेधः स कन्यार्क-
विषयः । तुलागते सूर्ये आश्विनेऽपि शुभम् । यस्त्वस्य
निषेधः । स कन्यार्कपरः । वृश्चिकस्थे सूर्ये कार्त्तिकेऽपि
शुभं स्यात् निषेधविषयं स्वयमेव वक्ष्यति । मार्गशीर्षो
विहित एव । मकरस्थे सूर्ये पौषे शुभं धनुरर्क
साहित्ये सोऽप्यशुभः । मकरकुम्भस्थे सूर्ये माघेऽपि शुभं
निषेधस्तु धनुरर्कविषयः । अत एव “पौषफाल्गुनवै-
शाखमाघश्रावणकार्तिकाः । मासाः स्युर्गृहनिर्माणे
पुत्रारोग्यशुभप्रदाः” इति नारदवाक्यम् “मासे तपस्ये
तपसि माधवे नभसि त्वि । ऊर्जे च गृहनिर्माणं
पुत्रपौत्रधनप्रदम्” इति वसिष्ठवाक्यं च आश्विनकात्तिक
मावमासानां शुभत्वप्रतिपादक तुलावृश्चिकमकरकुम्भा-
र्कविषयं मीनार्कराहित्यप्राशस्त्यपरं च वचनान्तरबो-
धितो निषेधः प्रागुक्तविषय एव । फाल्गुनस्य शुभत्वं
पृष्ठ २६४८
कुम्भार्कविषयं मीनार्कसाहित्ये तु निषिद्धम् । ननु
कार्त्तिकमाघमासौ श्रीपतिना निषिद्धौ तयोः को
विषय इत्यत आह अथेति ऊर्जः कार्तिको मासः
कन्यायां कन्यागते रवौ न सन् न शुभः । च पुनः
तपा माघमासो धनुषि धनुरर्के न सन् अपिः पादपूरणे ।
नन्वेतदयुक्तं प्रतिभाति यतश्चान्द्रमासेषु चैत्रादिमास-
संज्ञाः सन्ति तत्र कार्त्तिके मासि कन्यासंक्रान्तिः ।
माघे मासि धनुरर्कश्च कदापि न सम्भवेत् । यतः
कार्त्तिकस्य माघमासस्य च शुक्लप्रतिपदादित्रिंशत्तिथयः
यावत् तावत् संज्ञेत्यत आह कृष्णादिमासादिति ।
अस्ति द्विविधो मासः शुक्लादिः कृष्णादिश्चेति । तत्र
शुक्लप्रतिपदमारभ्यामावास्यापर्यन्तः शुक्लादिः । कृष्णपक्ष-
प्रतिपदमारभ्य पूर्णिमान्तः कृष्णप्रतिपदादिः । यथा ।
चैत्रशुक्लपक्षे मतद्वयेऽपि स एव चैत्रपूर्णिमास्यनन्तरं
कृष्णपक्षः चैत्रमास एव एवं चान्द्रमासो भवति । स
एव कृष्णपक्षो यदि वैशाखकृष्णपक्षत्वेन व्यवह्रियते ।
भाविशुक्लपक्षो वैशाखशुक्लः सर्ववादिसिद्धः । तदा कृष्णा-
दिर्मासः सम्भवति उभयथा हि शास्त्रे व्यवहारः “अश्व-
युक्कृष्णपक्षे तु श्राद्धं कुर्य्यात् दिने दिन इति” पी० धा०
तत्र विहितनिषिद्धतिथिनक्षत्रादिनिरूपणम् वा० शा०
“अथातः संप्रवक्ष्यामि गृहकालविनिर्णयम् ।
यथाकालं शुभं ज्ञात्वा तदा भवनमारमेत् । मृदुध्रुवस्वाति
पुष्यधनिष्ठाद्वितये रवौ (१३) । मूले पुनर्वसौ सौम्यवारे-
प्रारम्भणं शुभम् । आदित्यभौमवर्ज्याःस्युर्वाराः सर्वे
शुभावहाः । द्वितीया च तृतीया च पञ्चमी षष्ठिका
तथा । सप्तमी दशमी चैव द्वादश्येकादशी तथा । त्रयो
दशी पञ्चदशी तिथयः स्युः शुभावहाः । दारिद्र्यं
प्रतिपत् कुर्यात् चतुर्थीं धनहारिणी । अष्टम्युच्चाटनं
चैव नवमी शस्त्रघातिनी । दर्शे राजभयं चैव भूते दार
विनाशनम् । धनिष्ठापञ्चके नैव कुर्यात् स्तम्भसमुच्छ्रयम् ।
सूत्रधाराशलान्यासं प्राकारादि समारभेत् । जामित्रं
द्विविधं चैव वेधोपग्रहकर्त्तरी । एकार्गलं तथा लत्ता
यतक्रकचसंज्ञकाः । पातश्च द्विविधोवर्ज्यो व्यती-
पातश्च वधृतिः । कुलिकं कण्टकं कालं यमधण्टस्त-
थैव च । कुयोगातिथिवारोत्यास्तिथिभोत्था भवारजा ।
विवाहादिपु ये वर्ज्यास्तेवर्ज्या वास्तुकर्मणि”
बास्तुचक्रं तत्रैव “वास्तुचक्रं प्रवक्ष्यामि यच्च व्यासेन
भाषितम् । यस्मिन्नृक्षे स्थितो भानुस्तदादि त्रीणि म-
स्तके । चतुष्कमग्रपादे स्यात् पुनश्चत्वारि पश्चिमे ।
पृष्ठे च त्रीणि ऋक्षाणि कुक्षौ चत्वारि वामतः ।
चत्वारि दक्षिणे कुक्षौ पुच्छे भत्रयमेव च । मुखे भत्रयमेवं
स्युरष्टाविंशतितारकाः । शिरस्ताराग्निदाहाय गृहोद्वा-
सोऽग्रपादयोः । स्थैर्यं स्यात् पश्चिमे पादे पृष्ठे चैव
धनागमः । कुक्षौ स्याद्दक्षिणे लाभः पुच्छे च स्वामिनाश-
नम् । वामकुक्षौ च दारिद्र्यं मुखे पीडा निरन्तरम्” ।
तत्र वर्ज्यकालमाह विश्व० वा० शा० । कृष्णपक्षे तिथौ रिक्ते
गण्डान्ते रविसंक्रमे । रविभौमदिमे विष्टौ व्यती-
पाते च वैधृतौ । मासदग्धं वारदग्धं तिथिदग्धं च
वर्जयेत् । अनुक्तेष्वपि धिष्ण्येषु न कर्त्तव्यं कदाचन
क्रकचं चन्द्रदग्धं च योगानां वज्रसंज्ञकम् । उत्पातै-
र्दूषितमृक्षं त्रिस्पृशं दर्शसंज्ञकम् । वज्रव्याघातशूलेषु
व्यतीपातातिगण्डयोः । विष्कम्भगण्डपरिघं वर्ज-
यित्वा च कारयेत्” । विहितमुहूर्तमाह तत्रैव
“स्वातौ मैत्रेऽथ माहेन्द्रे गान्धर्वे भगरोहिणे । तथा
वैराजसावित्रे मुहूर्ते गृहमारमेत् । चन्द्रादि सबलं
ज्ञात्वा शुभं लग्नं निरीक्ष्य च । स्तम्भोच्छायादि कर्तव्य-
मन्यत्र परिवर्जयेत्” ।
तिथिभेदेन पूर्वादिदिङ्मुखगृहारम्भनिषेधमाह मु० चि०
“पूर्णेन्दुतः प्राग्वदनं नवम्यादिषूत्तरास्यन्त्वथ पश्चि-
मास्यम् । दर्शादितः शुक्लदले नवम्यादौ दक्षिणास्यं न
शुभं वदन्ति” मू० “पूर्णेन्दुतः पूर्णिमातः कृष्णाष्टमी-
पर्यन्तं प्राङ्मुखं गृहं शुभं न वदन्ति । कृष्णनव-
मीतश्चतुर्दशीपर्यन्तं क्रियमाणं गृहमुत्तरास्यं न
शुभम् । अथ दर्शादितः शुक्लाष्टमीपर्यन्तं पश्चिमास्य
गृहं न शुभम् । शुक्लनवमीतश्चर्दशीपर्यन्तं दक्षिणास्य
गृहं न शुभम् वदन्ति । तासु तिथिषु तत्तद्दिङ्मुखं
गृहं न कर्त्तव्यम् इति वाक्यार्थः फलितः । यदुक्त
व्यवहारसमुच्चये “पूर्णिमातोऽष्टमीं यावत् पूर्वास्यं
वर्जयेद्गृहम् । उत्तरास्यं न कुर्वीत नवम्यादिचतु-
र्दशीम् । अमावास्याष्टमीं यावत्पश्चिमास्यं विवर्जयेत्
नवम्यादौ दक्षिणास्यं यावत् शुक्लचतुर्दशीमिति”
दिग्भेदमुखनक्षत्राण्याह “कृत्तिकाद्याः सप्त पूर्वे मघाद्याः
सप्त दक्षिणे । मैत्राद्याः पश्चिमे सप्त धनिष्ठाद्यास्तथोत्तरे
अग्रे चन्द्रे स्वामिभयं कर्मकर्त्ता च पृष्ठके । दक्षिणे च
धनं दद्याद्वामे स्त्रीसुखसम्पदः । गृहोपलक्ष्यकार्येषु यत्र
ऋक्षेषु चन्द्रमाः । शलाकासप्तके देयं कृत्तिकादिकमेव
पृष्ठ २६४९
च । ऋक्षं चन्द्रस्य वास्तोश्च अग्रे पृष्ठे न शस्यते ।
लग्नादृक्षाद्विचार्योऽत्र चन्द्रः सद्यःफलपदः । गृहे
चन्द्रे सम्मुखस्थे पृष्ठस्थे न शुभं गृहम् । वामदक्षिणतः
चन्द्रः प्रशस्तो वास्तुकर्मणि”
तत्र विहितनिषिद्धलग्नादिकमाह तत्रैव
चरलग्नं चरांशञ्च सर्वथा परिवर्जयेत् । जन्मभाच्चोपचयभे
लग्ने वर्गे तथैव च । प्रारम्भणं प्रकुर्वीत नैधनं
परिवर्जयेत् । पापैस्त्रिषष्ठायगतैः सौम्यैः केन्द्रत्रिकोणगे ।
निर्माणं कारयेद्वीमानष्टमस्थैः खलैर्मृतिः । मनुष्य-
लग्ने सौम्यानां दृग्योगे योगतस्तथा । कुम्भं विहा-
यान्यलग्ने सौम्यग्रहयुतेक्षिते । जलाशयादिवास्तूनां
प्रारम्भः शुभदः स्मृतः” अत्र शुभयोगास्तत्रैव “गुरुर्लग्ने
रविः षष्ठे द्यूने ७ सौम्ये सुखे ४ सिते । तृतीयस्थेऽर्क
पुत्रेऽत्र तद्गृहं तु शतायुषम् । भृगुर्लग्नेऽम्बरे १० सौम्ये
लाभस्थाने ११ च भास्करे । गुरुः केन्द्रगतो यत्र
शतवर्षाणि तिष्ठति । हिवुके ४ ज्येऽम्बरे १० चन्द्रे लाभे ११ च
कुजभास्करौ । आरम्भः क्रियते यस्य अणीत्यायुः क्रमात्
भवेत् । लग्ने भृगौ पुत्रगेज्ये ५ षष्ठे भौमे त्रिगे रवौ ।
यस्य गृहस्य प्रारम्भः स च तिष्ठेच्छतं समाः । लग्नस्थौ
गुरुशुक्रौ चेत् रिपु ६ राशिगते कुजे । सूर्ये लाभगते ११
यस्य द्विशताव्दानि तिष्ठति । स्वोच्चस्थो वा भृगुर्लग्ने
स्वोच्चे जीवे सुख ४ स्थिते । स्वोच्चे लाभगते ११ मन्दे
सहस्राणि समाः स्थितिः । स्वोच्चे स्वभवने सौम्ये
लग्नस्थे वापि केन्द्रगैः । प्रारम्भः क्रियते यस्य शतद्वयं
स तिष्ठति । इज्योत्तरात्रयाहीन्दुविष्णु धातृजलोडुषु ।
८ । १२ । २१ । २६ । ९ । ५ । २२ । ४ । २० । गुरुणा सहितेष्वेषु कृतं
गेहं श्रिया युतम् । द्विदैवत्वाष्ट्रवारीश रुद्रादिति
वसूडुषु । १६ । १४ । २४ । ६ । ७ । २३ । शुक्रेण सहितेष्वेषु कृतं
धान्यप्रदं गृहम् । हस्तार्यमत्वाष्ट्रदस्रचतुरास्येन्द्रभेषु च
१३ । १२ । १४ । २ । ४ । १८ । बुधेन सहितेष्वेषु धनपुत्रसुखप्रदम्” ।
कुयोगास्तत्रैव “शत्रुक्षेत्रगतैः स्वेटैर्नीचस्थैर्वा
पराजितैः । प्रारब्धं यस्य भवनं लक्ष्मीस्तस्य विनश्यति ।
एकोऽपि परभागस्थो दशमे सप्तमेऽपि वा । वर्णाधिपे
बलैर्हीने तद्गृहं परहस्तगम् । पापान्तरगते लग्ने
चन्द्रे सौम्ययुतेक्षिते । अष्टमस्थेऽर्कपुत्रे च अशीत्यब्दा-
द्विहन्यते । मन्दे लग्नगते चैव कुजे सप्तमसंस्थिते । शुभै
रवीक्षिते वापि शतवर्षान्निहन्यते । लग्नगे शशिनि
क्षीणे मृत्युस्थाने च भूसुते । प्रारम्भः क्रियते यस्य
शीघ्रं तच्च विनश्यति । दशापतौ बलैर्हीने वर्णनार्थे
तथैव च । पीडितर्क्षगते सूर्ये न विदध्यात्कदाचन ।
पितृमूलेज्यभाग्यार्कपौष्णभेषु च १० । १९ । ८ । ११ । १३ । २७ यत्
कृतम् । कुजेन सहितेष्वेषु गृहं सन्दह्यतेऽग्निना ।
मूलञ्च रेवती चैव कृत्तिकाषाढमेव च । पूर्वफाल्गुनी
हस्ते च मघा चैव तु सप्तकम् । एषु भौमेन युक्तेषु
वारे तस्यैव वेश्म यत् । अग्निना दह्यते कृत्स्नं पुत्रनाशः
प्रजायते । अग्नित्तभर्क्षगते सूर्ये चन्द्रे वा तत्र संस्थिते ।
निर्मितं मन्दिरं नूनमग्निना परिदह्यते । ज्येष्ठानु-
राधके चैव भरणीखातिपूर्बभे । धनिष्ठाष्वपि ऋक्षेषु
शनिस्तिष्ठेद्दिनस्य च । कृपणो नामतः प्रोक्तो धनधा-
न्यादिके गृहे । पुत्रे जातेऽथवा तस्मिन् दह्यते यक्ष-
राक्षसैः । प्रासादेष्वेवमेव स्याद्वापीकूषेषु चैव हि ।
तस्माद्विचार्य कुर्वीत गृहारम्भं शुभे शुभम् ।
नाशन्दिशन्ति मकरालिकुलीरलग्ने, मेषे घटे धनुषि कर्मसु
दीर्घसूत्रम् । कन्याझषे मिथुनगे ध्रुवमर्थलाभं ज्योति-
र्विदः कलससिंहवृषेषु सिद्धिम् । सायाह्ने तु कृतं
वास्तु कर्त्तुर्वित्तविनाशदम् । महानिशास्वपि तथा
सन्ध्ययोर्नैव कारयेत्” । भावस्थग्रहफलानि तत्रैव
“लग्नेऽर्के विघ्नपातः स्यात्कोशहानिश्च शीतगौ । मृत्युं
र्विश्वम्भरापुत्रे दारिद्र्यं रविनन्दने । जीवे धर्मार्थकामाः
स्युः पुत्रोत्पत्तिश्च भार्गवे । चन्द्रजे कुशला शक्तिर्या-
वदायुः प्रवर्त्तते । द्वितयस्थे रवौ हानिश्चन्द्रे शत्रु
भयं भवेत् । भूमिजे बन्धनं प्रोक्तं नानाविघ्नानि
भानुजे । बुधे द्रविणसम्पत्तिर्गुरौ धर्माभिबर्द्धनम् ।
यथाकामविनोदेन भृगौ कामं व्रजेत् फलम् । तृतीय-
स्थेषु पापेषु सौम्येष्वेषु विशेषतः । सिद्धिः स्यादचिरा
देव यथाभिलषितं प्रति । चतुर्थस्थानगे जीवे पूजा
सम्पद्यते नृपात् । चन्द्रजे चार्थलाभः स्याद्भूमिलाभश्च
भार्गवे । वियोगः सुहृदां भानौ मन्त्रभेदो महीसुते ।
बुद्धिनाशो निशानाथे सर्वनाशोऽर्कनन्दने । पञ्चमे तु
सुराचार्ये चित्रो वसुधनागमः । शुक्रे पुत्रसुखावाप्ती
रत्नलाभस्तथेन्दुजे । सुतदुःखं सहस्रांशौ शशाङ्के
कलहः स्मृतः । भौमे कार्यविरोधः स्यात्सौरौ बन्धु-
विमर्द्दनम् । षष्ठस्थानगते सूर्ये रोगनाशं विनिर्द्दि-
शेत् । चन्द्रे पुष्टिः कुजे प्राप्तिः सौरौ शत्रुबलक्षयः ।
गुरौ मन्त्रोदयः प्रोक्तो भृगौ विद्यागमो भवेत् । सर्व-
ज्ञानार्थकौशल्यं नक्षत्रपतिनन्दने । सप्तमस्थानगे जीवे
पृष्ठ २६५०
बुधे दैत्यपुरोहिते । गजवाजिधरित्रीणां क्रमाल्लाभं
विनिर्दिशेत् । भास्करे कीर्त्तिभङ्गः स्यात् कुजे
विपदमादिशेत् । हिमगौ क्लेश आयासः सौरौ सर्व
धनक्षयः । पतङ्गे पङ्गुताष्टस्थे भौमे सौरौ च रुग्-
भयम् । चन्द्रे रोगविवृद्धिः स्यात् कुजे शोकागमो
भवेत् । बुधे मानधनप्राप्तिर्जीवे च विजयो भवेत् ।
शुक्रे स्वजनभेदः स्यान्मन्त्रज्ञस्यापि देहिनः । वागीशे
नवमस्थाने विद्याभोगाभिनन्दनम् । बुधे विविध-
भोगाप्तिर्भार्गवे विजयो भवेत् । चन्द्रे धातुक्षयः
प्रोक्तो धर्महानिश्च भास्करे । कुजे चाथ भयं विद्या-
द्रविजे धर्मदूषणम् । दशमस्थानगे शुक्रे शयनासन
सिद्धयः । सुराचार्ये महत्सौख्यं विजयः स्त्रीधनं
बुधे । मार्त्तण्डे च सुहृद्वृद्धिस्तथा शोकविवर्द्धनम् ।
भौमे रत्नागमः प्रोक्तः शनौ कीर्त्तिविलोपनम् ।
लाभस्थानेषु सरेषु लाभस्थानं विनिर्द्दिशेत् । व्यय-
स्थानेषु सर्वेषु विनिर्देश्यो व्ययः सदा । स्वोच्चे पूर्णफलः
प्रोक्तः पादोनः स्वर्क्षगो ग्रहः । स्वत्रिकोणेऽर्द्धफलदः
पादं मित्रपदाश्रितः । समर्क्षे रिपुराशौ च समकष्टफलो
ग्रहः । नीचस्थो विफलो द्वेष्यवर्गेऽसत्फलदः शुभः” ।
गृहारम्भे रव्यादिगोचरादिशुद्धिफलादि वा० शा०
“गोचराष्टकवर्गाभ्यां वामवेधं विचिन्तयेत् । दशा
चान्नार्दशादिश्च विचार्य्यश्चात्र कर्मणि । गुरुशुक्रवले
विप्रात् सूर्यभूमिजयोस्तथा । शशिसौम्यबले सौरि-
वले वर्णानुपूर्वशः । गृहारम्भं प्रकुर्वीत वर्णनाथवले
मति । सर्वेषामपि वर्णानां सूर्यचन्द्रबलं स्मृतम् ।
विषमस्थे रवौ स्वामी पीड्यते गृहिणी विधौ ।
शुक्रेण पीड्यते लक्ष्मीर्जीवेन सुखसम्पदः । बुधेन
पुत्रपौत्राश्च सौभेन भ्रातृबान्धवाः । सौरिणा दासवर्गाश्च
पीड्यन्ते नात्र संशयः । विशेषेण तु सूर्यस्य बलं
प्रोक्तं गृहे बुधैः । सर्वेषामेव वर्णानां रविशुद्धिर्वि-
धीयते । दशापतौ हीनबले वर्णनाथे तथैव च ।
पीडितर्क्षगते सूर्ये न विदध्यात् कदाचन । प्रथमकोष्ठगे
रोगं द्वितीये चार्थनाशनम् । तृतीये धनलाभं
च चतुर्थे भयदो रविः । पञ्चमे पुत्रलाभं च शत्रुनाशाय
शत्रुगे । स्त्रीकष्टं सप्तमे सूर्ये मृत्युश्चाष्टमगेहगे ।
नवमे धर्मनाशाय दशमे कर्भसंयुतिः । एकादशे
भवेल्लक्ष्मीर्द्वादशे च धनक्षयः । पुत्रे ५ द्वितीये द्यूने ७ च
धर्मे मध्यबलो रविः । द्वितीयपुत्राङ्क ५ । ९ गतस्त्रिदशाहात्
परः शुभः । अस्तगा नीचराशिस्थाः परराशौ परैर्जिताः ।
वृद्धस्था बालाभावस्था वक्रगाश्चातिचारिणः । रिपुदृष्टि
वशंयाता उल्कापातेन दूषिता । न फलन्ति ग्रहा
गेहप्रारम्भे तान् प्रपूजयेत्” ।
गृहारम्भे स्वातारम्भोपयोगिनक्षत्राण्याह माण्डव्यः ।
“अधोमुखैर्भैर्विदधीत खातं शिलास्तथा चोर्द्ध्वमुखैश्च
पट्टम् । तिर्य्यङ्मुखैर्द्वारकपाटदानं गृहप्रवेशो मृदुभिर्ध्रुवैश्च”
अधोमुखादिनक्षत्राण्याह पी० पा० गरुडपु०
“भरणी कृत्तिकाऽश्लेषा मघामूलविशाखिकाः । तिस्रः
पूर्वास्तथा चैव अधोवक्त्राः प्रकीर्त्तिताः । वापीकूप-
तडागादिखननं च तृणादिकम् । देवतागारखननं
निघानखननं तथा । गणितं ज्योतिषारम्भं खनी
बिलप्रवेशनम् । कुर्यादधोगतान्येव कार्याणि वृषभ
ध्वज! । रोहिण्यार्द्रा तथा पुष्यो धनिष्ठा चोत्तरात्रयम् ।
वारुणं श्रबणं चैव नव चोर्द्धमुखाः स्मृताः । एषु
राज्याभिषेकं च पट्टबन्धं च कारयेत् । उर्द्ध्वमुखान्युच्छ्रि-
तानि सर्वाण्येषु च कारयेत् । रेवती चाश्विनी चित्रा
स्वाती हस्तः पुनर्वसुः । अनुराधा मृगः ज्येष्ठा एताः
पार्श्वमुखाः स्मृताः । गजोष्ट्राश्वबलीवर्ददमनं महिषस्य
च । वीजानां वपनं कुर्याद्गमनागमनादिकम् । चक्र-
यन्त्र रथादीनां नावादीनां प्रवाहनम् । पार्श्वेषु यानि
कर्माणि कुर्यादेतेषु तानि च”
नक्षत्रभेदे द्वारनिर्माणाय सफलं द्वारचक्रमाह मु० चि०
“सूर्यर्क्षाद्युगभैः शिरस्यथ फलं लक्ष्मीस्ततः कोणभैर्ना-
गैरुद्वसनं ततो गजमितैः शाखासु सौख्यं भवेत् ।
देहल्याङ्गुणभैर्मृतिर्गृहपतेर्मध्यस्थितैर्वेदभैः सौख्यं चक्र-
मिदं विलोक्य सुधिया द्वारं विधेयं शुभम्” भू०
“द्वारस्य चत्वारः पाषाणा आवश्यकाः । द्वौ ऊर्द्ध्वाधो-
भावेनावस्थितौ समावल्पपरिमाणौ । तत्र उत्तरङ्ग
इत्यूर्द्धावस्थितस्य संज्ञा । अधोवस्थितस्य तु देहलीति
सर्वसाधारणं नाम । द्वौ पार्श्वयोः स्थितौ महापरिमाणौ
शाखासंज्ञौ (साह) इति भाषया द्वयोरपि संज्ञा एवं
दीर्घचतुरस्रद्वारं भवति । पाषाणासम्भवे तु काष्ठादेरपि
निवेशः । तत्र द्वारे चिकीषिते सूर्याधिष्ठितनक्षत्राद्यु-
गभैश्चतुर्भिर्नक्षत्रैः शिरस्यवस्थितैः सद्भिः लक्ष्मीप्राप्तिरूपं
फलं स्यात् । ततस्तदग्रिमैर्नागैः कोणभैर्द्वयोरव-
स्थित्या चतुःकोणेष्ववस्थितैरष्टसंख्यकैर्नक्षत्रैरुद्वसनं तत्
द्वारगृहं सर्वदा जनवासरहितं स्यात् । ततस्तदग्रिमै
पृष्ठ २६५१
र्गजमितेरष्टाभिर्भैः शाखासु तत्रावस्थितैर्गृहस्वामिनः
सौख्यरूपं फलं स्यात् । ततस्तदग्रिमेर्गुणभैस्त्रिभिर्न-
क्षत्रैर्दहल्यामवस्थितैर्गृहपतेर्मृतिः स्यात् ।
ततस्तदग्रिमैर्वेदभैश्चतुर्भिर्नक्षत्रैर्मध्यस्वरूपेऽवकाशे स्थितैः
सौख्यं स्यात् । फलितार्थमाह । चक्रमिति । इदं
द्वारचक्रं विलोक्य सुधिया शुभं शुभफलदं द्वारं विधेयं
कर्त्तव्यम् । तदुक्तं ज्योतिर्निबन्धे “द्वारचक्रं प्रवक्ष्यामि
भाषितं विश्वकर्मणा । सूर्यभाद्भचतुष्कं तु द्वार-
स्योपरि विन्यसेत् । द्वे द्वे कोणे च दातव्ये शाखायुग्मे
द्वयं द्वयम् । अधश्च त्रीणि देयानि वेदा मध्ये प्रति-
ष्ठिताः । राज्यंस्यादूर्द्ध्वनक्षत्रे कोणेषूद्वसनं भवेत् ।
शाखायां लभते लक्ष्मीमधश्चैव मृतिं लभेत् । मध्य-
भेषु लभेत्सौख्यं चिन्तनीयं सदा बुधैरिति” अथ द्वार-
स्थापनम् “द्वारंस्थापननक्षत्राण्युच्यन्तेऽश्विनी चोत्तरा ।
हस्तापुष्यश्रुतिमृगाः सूरैरेताः प्रकीर्त्तिताः । स्वातौ
पूष्णि च रोहिण्यां द्वारशाखावरोपणमिति” ज्योतिर्निब-
न्धेऽभिहितत्वात्तेऽपि ग्राह्याः । तिथयोऽपि तत्रैवाभिहि-
ताः “पञ्चमी धनदा चैव मुनिनन्दवसौ शुभम् । प्रतिपत्सुन
कर्त्तव्यं कृते दुःखमबाप्नुयात् । द्वितीयायां द्रव्यहानिः
पशुपुत्रविनाशनम् । तृतीया रोगदा ज्ञेया चतुर्थी भङ्ग-
कारिणी । कुलक्षयं तथा षष्ठी दशमी धननाशिनी ।
विरोधकृदमा पूर्णा न स्याच्छाखावरोपणमिति” एवं
सति विरुद्धतिथिं विहाय विहिततिथिषु विहितभेषु
च तत्रापि चक्रशुद्धेषु भेषु द्वारं विहितं शुभफल-
दातृस्यादिति निष्कृष्टोऽर्थः” पी० धा०
तत्प्रवेशकालमाह मु० चि० “सौम्यायने ज्यैष्ठतपो-
ऽब्धिमाधवे यात्रानिवृत्तौ नृपतेर्नवे गृहे । स्याद्वेशनं
द्वाःस्थमृदुधुवोडुभिर्जन्मर्क्षलग्नोपचोदये स्थिरे” (१) मू०
“जीर्णे गृहेऽग्न्यादिभयान्नवेऽपि मार्गोर्जयोः श्रावणि-
केऽपि सन् स्यात् । वेशोऽम्बुपेज्यानिलवासवेषु नावश्य-
मस्तादिविचारणात्र । (२) मृदुघ्रुवक्षिप्रचरेषु मूलभे
वास्त्वर्चनं भूतवलिञ्च कारयेत् । त्रिकोणकेन्द्रायधनत्रिगैः
शुभैर्लग्ने त्रिषष्ठायगतैश्च पापकैः । (३) शुद्धाम्बु रन्ध्रे
विजनुर्भमृत्यौ व्यर्काररिक्ताचरदर्शचैत्रे । अग्रेऽम्बुपूर्णं
कलसं द्विजांश्च कृत्रा विशेद्वेश्म भकूटशुद्धम् (४) वामो
रविर्मृत्युसुतार्थलाभतोऽर्के पञ्चमे प्राग्वदनादिमन्दिरे ।
पूर्णातिथौ प्राग्वदने गृहे शुभो नन्दादिके याम्यजलो-
त्तरानने । (५) वक्त्रे भूरविभात् प्रवेशसमये कुम्भेऽग्नि-
दाहः कृताः ४ प्राच्यामुद्वसनङ्कृता ४ मयगता लाभः
कृताः ४ पश्चिमे । श्रीर्तेदाः कलिरुत्तरे युगमिता गर्भे
विनाशो गुदे रामाः ३ स्थैर्यमतः स्थिरत्वमनलाः ३ कण्ठे
भवेत्सर्वदा” (६) भू०
“तत्रापूर्वप्रवेशसुपूर्बप्रवेशयोः कालशुद्ध्यादिकमिन्द्रवंशा-
च्छन्दसाह सौम्यायने इति । एतेषु सौम्यायन इत्यादिकेषु
पदार्थेषु सत्सु नृपतेर्यात्रानिवृत्तौ अथवा नवे नूतनो-
त्थापिते गृहे प्रवेशनं स्यात् । सौम्यायने उत्तरायणे ।
अत्र शुक्रगुर्वस्तादिको दोषो वाप्यारामतडागेत्यादिनोक्त
इति न पुनरुक्तः । एवं गीर्वाणाम्बुप्रतिष्ठेत्यादिना
दक्षिणायननिषेधोऽपि । अतःपरिशेषात्सौम्यायनग्रहणे
सिद्धे तदुक्तिर्मन्दबुद्धीनां शीघ्रप्रतिपत्त्यर्था । उक्तं च
वसिष्ठेन “अथ प्रवेशो नवसद्मनश्च सौम्यायने जीवसिते
बलाद्य” इति बलाढ्ये उदिते । नारदेनापि “अथ
सौम्यायने कार्यं नववेश्मप्रवेशनम् । राज्ञां यात्रानिवृत्तौ
वेति” केवलायां भूमौ क्रीतायां प्राप्तायां वा स्वतःसिद्धायां
वोत्थापितं गृहं नूतनमित्युच्यते । ज्यैष्ठेति ज्यैष्ठमाघ-
फाल्गुनवैशाखमासेष्वेव सत्यप्युत्तरायणे प्रवेशनं
शुभम् । यदाह नारदः माघफाल्गुनवैशाखज्यैष्ठ
मासेषु शोभनः । प्रवेशो मध्यमोज्ञेयः सौम्यकार्त्तिक-
मासयोरिति” सौम्यो मार्गशीर्षः । मध्यमोक्तिराव-
श्यकविषया । चान्द्रमासफलान्याह वसिष्ठः “माघे-
ऽर्थलाभः प्रथमप्रवेशे पुत्रार्थलाभः खलु फाल्गुने
च । चैत्रेऽर्थहानि, र्धनधान्यलाभो वैशाखमासे, पशु
पुत्रलाभः । ज्यैष्ठे, च मासेषु परेषु नूनं हानिप्रदः
शत्रुभयप्रदश्च” । “शुक्ले च पक्षे सुतरां विवृद्ध्यै कृष्णे
च यावद्दशमीं च तावत्” इत्याद्युक्तेरेव ग्रन्थकृता पक्ष-
विशुद्धिर्नोक्ता तिथिवारशुद्धिश्चाग्रे वक्ष्यते । वसिष्ठेन
तु गृहप्रवेशे सौरमानमनूद्य दूषितं यथा “मृगादिष-
ड्राशिषु संस्थितेऽर्के नवप्रवेशः शुभदः सदैव । कुम्भं
विनान्येष्वपि केचिदूचुर्न सौरमिष्टं खलु सन्निवेशे ।
इति अस्यार्थः नूतनगृहप्रवेशो मकरादिषड्राशि
संस्थिते सूर्ये शुभफलदो भवति तत्रापि माघादिषु
कुम्भरहितेषु चतुर्षु मासेषु शुभतरः ननु “अथ प्रवेशो
नवसद्मनश्च सौम्यायने” इति स्वयं प्राक् सौम्यायन इत्यु-
क्तत्वात् किमित्येव तत् पुनरुक्तभित्यत आह । कुम्भं
विनेति । सत्यप्युत्तरायणे कुम्भसंक्रान्तौ नूतनगृह-
प्रवेशो न भवतीत्येतदर्थं पुनरुक्तमित्यर्थः । नन्विदं
पृष्ठ २६५२
पूर्वापरविरुद्धम् । तथाहि “माघेऽर्थलाभः प्रथमः प्रवेशः”
इत्यादिना माघफाल्गुनयोश्चान्द्रमासयोः शुभफला-
भिधानात्तत्रैव च कुम्भसंक्रान्तिसद्भावाद्घयोरन्यतरस्या-
शुभत्वं प्रतिपाद्यते । उभयमासनिर्मुक्तः कुम्भस्तु
नास्त्येवेति चेत् । उच्यते । सन्ति हि द्विविधाश्चान्द्रा-
मासा शुक्लादयः कृष्णादयश्चेति । तत्र फाल्गुनपूर्णि-
मोत्तरमासस्य कृष्णादिमासगणनया चैत्रत्वात्तस्य
च विरुद्धफलत्वात्तद्विषयकोऽयं कुम्भसंक्रान्तिनिषेधः ।
चान्द्रमासस्य शुक्लादिकृष्णाद्यभिधायकानि वाक्यानि
गृहारम्भप्रकरणेऽस्माभिरुक्तानि अयमपि निषेधो मासस्य
कृष्णादित्वे ज्ञापकः । अथ कर्कादिसंक्रान्तिषु मतान्तर-
माहान्येष्वपीति केचिदाचार्य्या अन्येष्वपि कर्कादि-
षड्राशिस्थिते सूर्येऽपि नवगृहप्रवेशः कार्य इत्यूचुः ।
तदेतद्द्वन्द्वसौपूर्विकगृहप्रवेशविषयम् । तदुक्तं स्वयमेव
“नवप्रवेशे त्वथ कालशुद्धिर्न द्वन्द्वसौपूर्विकयोः कदाचि-
दिति” । नूतनतृणागारप्रवेशविषयं वा । तदुक्तं
ज्योतिःप्रकाशे “गृहारम्भोदितैर्मासैर्धिष्ण्यैर्वारैर्विशे-
द्गृहम् । विशेत्सौम्यायने हर्म्यं तृणागारं तु सर्व-
देति” अतएव “कुलीरकन्यकाकुम्भे दिनेशे न विशे-
द्गृहम् । ग्रामं वा नगरं वापि पत्तनं वा सुराधि-
पेति” गुरुवाक्यमप्येवमेव व्याख्येयम् । ननु
पौषचैत्रादिषु विरुद्धफलेषु चान्द्रमासेषु विहितसंक्रान्तिश्चे-
त्तदा नूतनगृहप्रवेशः कार्यो वा नवेत्यत आह न
सौरमिति खलु निश्चये न सौरं मानं सत् प्रवेशे नेष्टं
न शुभफलदम् । विरुद्धशुभफलयोश्चान्द्रसौरमासयोः
साहित्ये विहितचान्द्रमासैरेव गृहप्रवेशः कार्य इत्यल-
मतिप्रसङ्गेन । द्वाःस्थेति । द्वाःस्थनक्षत्राणि गृहा-
रम्भे उक्तानि । मृदूनि ध्रुवाणि चोडूनि प्रसिद्धानि ।
द्वाःस्थानि च तानि मृदुध्रुवोडूनि चेति कर्मधारयः ।
तादृशैर्भैः प्रवेशनं हितं स्यात् । अयमर्थः यस्मिन्
गृहे प्रवेशः कर्तुमिष्यते तस्य द्वारं यद्दिगऽभिमुखं
तद्दिङ्नक्षत्रैर्विहितैः प्रवेशः कार्यः । यदाह वसिष्ठः
“यद्दिग द्वारं मन्दिरं तद्दिगृक्षैरुक्तर्क्षैः स्यात् संप्रवेशो
न सर्वैरिति” उक्तर्क्षाण्याह स एव “चित्रोत्तरा-
धातृशशाङ्कमित्रवस्वन्त्यवारीश्वरभेषु १४ । १२ । २१ । २६ । ४
५ । १७ । २३ । २७ । २४ नूनम् । आयुर्धनारोग्यसुपुत्रपौत्र-
सत्कीर्तिदः स्यात्त्रिविधः प्रवेशः” इति । नारदो-
ऽपि “वखिज्यान्त्येषु २३ । ८ । २७ वरुणत्वाष्ट्रमित्रस्थिरो-
डुषु २४ । १४ । १७ । ४ । १२ । २१ । २६ । शुभःप्रवेशोदेवेज्यशुक्रयो-
र्दृश्यमानयोरिति” । अत्र पुष्यधनिष्ठाशततारकाग्रहणं
जीर्णगृहप्रवेशविषयम् । उक्तञ्च ज्योतिःप्रकाशे “प्रवेशों
नूतने हर्म्ये ध्रुवैर्मैत्रैः सुखाप्तये । पुष्यस्वातीयुतै-
स्तैश्च जीर्णे स्याद्वासवद्वये” इति । एतद्ग्रन्थकृदप्य-
ग्रिमपद्ये वक्ष्यति । अमुमेवाशयं मनसि निधायाह
श्रीपतिः “शुभः प्रवेशो मृदुभिर्ध्रुवाख्यैः क्षिप्रैश्चरैः
स्यात् पुनरेव यात्रा । उग्रैर्नृपोदारुणभैः कुमारो
राज्ञां विशाखासु विनाशमेति” “कृत्तिकासु भवनं कृशा-
नुना दह्यते प्रविशतां न संशयः । तन्मुखं च सदनं
हि तत्ककुब्द्वारभेषु शुभकृत् प्रवेशनमिति” वसिष्ठोऽपि
“अर्कादितेयानिलदस्रविष्णु १३ । ७ । १५ । २ । २२ ऋक्षे प्रविष्टं
नवमन्दिरं यत् । अव्दत्रयात्तत्परहस्तयातं शेषेषु
(विहितभिन्नेषु) धिष्ण्येषु च मृत्युदं स्यादिति” प्रवेश
लग्नान्याह जन्मर्क्षेति । जन्मर्क्षं जन्मराशिः जन्मलग्नं च
प्रसिद्धम् । ताभ्यामुपचये तृतीयषष्ठैकादशदशमस्थेऽन्येषु
तथा स्थिराख्यराशिषु लग्नगतेषु सत्सु नवगृहप्रवेशनं
शुभम् । यदाह वसिष्ठः “कर्तुर्विलग्नादथ जन्मराशे-
र्लग्नस्थितो राशिरिति प्रदिष्टः । निर्व्याधिदारिद्र्यय-
शस्कराश्च सुहृत् सुतघ्नो रिपुनाशदश्च । कलत्रहन्ता
निधनप्रदश्च रोगप्रदः सिद्धिकरोऽर्थदश्च । क्रमाच्च
वैरामयदः क्रमेण सदैव नूनं त्रिविधः प्रबेशः” इति ।
अतो निष्कृष्टमर्थमाह गृहप्रवेशे राजमार्त्तण्डः “कर्तृ-
भोपचयगाश्च विलग्ने राशयः शुभफलायं भवन्तीति”
नारदोऽपि “कर्तुर्जन्मभलग्ने वा ताभ्यामुपचयेऽपि
वा । प्रवेशलग्ने स्याद्वृद्धिरन्यभे शोकनिःस्वनः” इति ।
पुनर्वसिष्ठः “सौम्ये स्थिरे भे शुभदृष्टियुक्ते लग्नेऽथ वा
द्व्यङ्गगृहे विलग्ने” इति । सौम्ये सौम्यग्रहयुक्ते ।
द्व्यङ्गगृहे द्विस्वभावराशौ । अत्र विवाहप्रकरणोक्ता
एकविंशतिविधा दोषा वर्ज्या इत्यपि ध्येयम् । एक
विंशतिदोषानुपक्रम्य वसिष्ठेनोक्तम् “कर्तुर्नाशो
गृहारम्भे प्रवेशे पतिनाशनम्” इति (१) । अथ जीर्ण
गृहादिविषयके प्रवेशे विशेषमिन्द्रवज्राच्छन्दसाह जीर्णे
पुरातभेऽन्यनिर्मिते गृहेऽथवा सिद्धएव गृहेऽग्न्यादिभयात्
अग्निकृतं भयं दाहः । आदिशब्देन बहुवृष्टिपातभयं
राजकोपोवा । इत्याद्युपद्रवैः पतिते गृहे पुनरपि
सम्यक्कृते उत्थापिते गृहेऽपि प्राक्पद्योक्ताः सर्वे-
ऽपि मासास्तादृशगृहप्रवेशेज्ञेयाः । किञ्च । मार्गो
पृष्ठ २६५३
र्जयोः मार्गशीर्षकार्त्तिकयोश्च श्रावणिकेऽपि श्रावणे
मासि वेशः प्रवेशः सन् शुभफलदः स्यात् । यदाह
सनत्कुमारः “गृहारम्भोदितैर्मासैर्धिण्यैर्वारैर्विशेद्गृह-
मिति” अत्र सामान्यतो गृहारम्भोदिता मासा गृहप्र-
वेशेऽभिहिताः” ते चेमे । “सौम्यफाल्गुनवैशाखमाघ
श्रावणकार्त्तिकाः । मासाः स्युर्गृहनिर्माणे पुत्रारोग्य-
धनप्रदाः” इति नारदोक्तेः मार्गशीर्षफाल्गुनर्वशाख
माघश्रावणकार्त्तिका विहिताः । तत्र उत्तरायणे
एब गृहप्रवेशस्य वाक्यान्तरेण विहितत्वात् श्रावण
कार्त्तिकमार्गशीर्षाणामुत्तरायणत्वाभावाद्विरोधेन
नूतनजीर्णगृहप्रवेशाभ्यां व्यवस्था कथं? प्रागभिहितना-
रदवाक्येनोत्तरायणसाहचर्येण नूतनगृहप्रवेशसुपूर्व-
गृहप्रवेशयोर्विधानात् “गृहारम्भोदितैर्मासैः” इत्यनेन तु
सामान्यतस्त्रिविधस्यापि गृहप्रवेशस्याभिधानादुत्तरा-
यणीयामासास्त्रिविधगृहप्रवेशे शुभाः दक्षिणायनीया
मासाः श्रावणादयस्तु जीर्णगृहप्रवेशविषयाः । अतएव
नारदो मार्गशीर्षकार्त्तिकयोर्नूतनगृहप्रवेशे मध्यमत्वमाह
अर्थादेवजीर्णगृहप्रवेशे उत्कृष्टत्वमध्यवस्यते । अम्बु-
पेति अम्बुपः शततारका ईज्यःपुष्यः । अनिलः स्वाती-
वासवं धनिष्ठा एष्वपि भेषु जीर्णगृहेऽग्न्यादिभयान्नवेऽपि
गृहे प्रवेशः शुभः प्राक्पद्योक्तेषु तु भेषु शुभ एवेति
कैमुतिकन्यायादवगम्यते । यदुक्तं ज्योतिःप्रकाशे
“प्रवेशो नूतने हर्म्ये ध्रुवैर्मैत्रैः सुखाप्तये । पुष्य स्वाति
युतैस्तैश्च जीर्णे स्याद्वासवद्वये” इति । नावश्यमिति
अत्रैवंविधे जीर्णे गृहे अग्न्यादिभयान्नवेऽपि गृहेऽवश्य
मस्तादिविचारणा शुक्रास्तगुर्वस्तबाल्यवार्धक्यसिंहस्थ
गुरुमकरस्थगुरुलुप्तसंवत्सरादीनां दोषाणां विचारणा
विचारो नास्ति । अस्तादयः कालदोषाःसन्तु वा मा वा
तथापि गृहप्रवेशः कार्यः । परन्तु सोऽपि यथाकथं-
चित्पञ्चाङ्गशुद्धिमात्रमङ्गीकृत्य विहितनक्षत्रेष्वेव कार्यः ।
वास्तुपूजा त्वेवंविधेऽपि गृहप्रवेशे भवतीत्यपि ध्येयम्
यदुक्तं ज्योतिःप्रकाशे “नित्ययाने गृहे जीर्णे प्राशने
परिधानके । बधूप्रवेशे माङ्गल्ये न मौद्यं गुरुशुक्रयोरि-
ति” वसिष्ठेनाप्युक्तम् “नवप्रवेशे त्वथ कालशुद्धिर्न द्वन्द्वसौ
पूर्विकयोः कदाचिदिति” अस्यार्थः । नूतनगृहप्रवेशे
कालशुद्धिर्विचार्या । द्वन्द्वं द्वन्द्वाभयाख्यो गृहप्रवेशः
सौपूर्विको राज्ञो यात्रासमाप्तौ गृहप्रवेशः । तादृश-
योर्गृहप्रवेशयोः कालशुद्धिः कदाचिदपि त्वापेक्षिता ।
सति सम्भवे सुखेनास्तु । किन्तु प्रवेशदिनीयपञ्चाङ्ग
शुद्धिसहिते सुलग्ने गृहप्रवेशः कार्यः । पूर्वस्मिन्नाद्ये
नूतने प्रवेशे यथा वास्तुपूजा तथा द्वन्द्वसौपूर्विकयोरपि
कार्येत्यर्थः । नारदस्तु यात्रानिवृत्तिप्रवेशे कालशुद्धिरपे-
क्षितैवेत्याह तद्वाक्यं प्रागभिहितम् । तदेतयोर्वाक्ययो-
रावश्यकाऽनाबश्यकविषयत्वेन व्यवस्था । त्रयाणां
गृहप्रवेशानां लक्षणमुक्तं वसिष्ठेन “अपूर्वसंज्ञः पथमः
प्रवेशो यात्रावसाने तु सुपूर्वसंज्ञः । द्वन्द्वाभयस्त्वग्निभया-
दिजातः प्रवेश एवं त्रिविधः प्रदिष्टः” इति । एतद्व्याख्यानं
यात्रानिवृत्ताविति पद्यव्याकृतावस्ति तत्तत एवावधार्यम् ।
अत्रेदं ध्येयम् यत्त्रिविधेऽपि प्रवेशे प्रवेशदिनीयनक्षत्रं
क्रूराकान्तं क्रूरविद्धं वा तत्सर्वथा वर्ज्यमिति । उक्तं
च वसिष्ठेन “क्रूरग्रहाधिष्ठितविद्धभं च विवर्जनीयं
त्रिविधप्रवेशे” इति । (२) “अथ गृहप्रवेशदिनात् प्राक्क-
र्तव्यां वास्तुपूजां विवक्षुस्तन्नक्षत्राण्युपजातिकापूर्वार्द्धेनाह
मृदुध्रुवेति । मृदूनि ध्रुवाणि क्षिप्राणि चराणि नक्ष-
त्राणि प्रसिद्धानि मूलभं च एषु सप्तदशसु भेषु नक्ष-
त्रेषु वास्तोः वास्तुपुरुषस्यार्चनं भूतबलिं च कारयेत् ।
गृहपतिर्वास्तुपूजां कुर्यात् । पुरोहितो गृहपतिं
वास्तुपूजादिकं कारयेत् । हृक्रोरन्यतरस्यामिति णौ कर्त्तुः
कर्मत्वम् । यदाह ऋक्षोच्चयः “चित्राशतभिषास्वाती
हस्तः पुष्यः पुनर्वसुः । रोहिणी रेवतीमूलं श्रवणोत्त-
रफाल्गुनी । धनिष्ठा चोत्तराषाढा तथा भाद्रोत्तरा-
न्विता । अश्विनी मृगशीर्षं च अनुराधा तथैव च ।
वास्तुपूजनमेतेषु नक्षत्रेषु करोति यः । स प्राप्नोति
नरो लक्ष्मीमिति प्राह पराशरः” इति । वास्तुपूजा-
प्रकारमाह । वसिष्ठः “निर्माणे मन्दिराणां च
प्रवेशे त्रिविधेऽपि वा । वास्तुपूजा तु कर्त्तव्या यस्मात्तां
कथयाम्यतः । गृहमध्ये हस्तमात्रं समन्तात्तण्डुलो-
परि । एकाशीतिपदं कार्यं तिलैस्तुल्यं सुशोभनम् ।
एकद्वित्रिपदाः पञ्चचत्वारिंशत् सुरार्चिताः । द्वात्रिं-
द्बाह्यतो वक्ष्यमाणाश्चान्तस्त्रयोदश । तेषां स्थानानि
नामानि वक्ष्यामीश्वरकोणतः । तत्राग्निः शम्भुको-
णस्थस्त्वसौ चैकपदेश्वरः । तस्माद्द्वितीयः पर्जन्यश्चासा-
वेकपदेश्वरः । जयन्तेन्द्रार्कसत्याख्याभृशश्च द्विपदेश्वराः ।
आकाशवायू परतः क्रमादेकपदेश्वरौ । एवं प्राच्यां न०
ज्ञात्वा त्वेवभेवान्यदिक्षु च । आद्यश्चान्त्यावेकपदौ
द्विपदाः पञ्च मध्यगाः । पूषाद्यष्टौ यमान्ताः (पितृगणा-
पृष्ठ २६५४
धोशान्ताः) स्युरमरायाम्यभागगाः । चाद्यश्चान्त्यावेक-
पदौ द्विपदाः पञ्च मध्यगाः । अष्टौ पितृगणाधोशात्
रोगान्ताः पश्चिमेश्वराः । आद्यन्तौ द्वावेकपदौ द्विपदाः
पञ्च मध्यगाः । रोगाददित्यन्तसुराः सप्त सौम्यदिशि
क्रमात् । तत्राधस्थश्चतुष्कोणेष्वीशानादिषु च क्रमात् ।
आपः सावित्रविजयरुद्राश्चेकपदेश्वराः । मध्ये नवपदो
ब्रह्मा तस्यैशानादिकोणगाः । आपवत्सोऽथ सविता
विबुधाधिपसंज्ञकः । राजयक्ष्मा च चत्वारः सुराश्चै-
कपदेश्वराः । ब्रह्मणः पूर्वतो दिक्षु त्रिपदाश्चामरा
अमी । अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरः क्रमात् ।
स्वस्वस्थलेषु देवेषु स्थापितेष्वीदृशं भवेत् । कोणेषु पञ्च
पञ्चैव (२०) चतुर्ष्वेकपदाः सुराः । प्रागादिदिक्षु द्विपदाः
पञ्च पञ्च ४० यथाक्रमम् । ब्रह्मणः ९ पूर्बतोदिक्षु त्रि-
पदाःस्युः समीपगाः १२ । हिरण्यरेताः पर्जन्यो जयन्तः
पाकशासनः । सूर्यःसत्यो भृशाकाशौ वायुः पूषा च
वैतथः । वृहत्क्षतः पितृपतिर्गन्धर्वो भृङ्गराजकः ।
मृगः पितृगणाधीशस्तथा दौवारिकाह्वयः । सुग्रीवः
पुष्पदन्तश्च जलाधीशो निशाचरः । शोषः पापश्च
रोगोहिर्मुख्यो भल्लाट एव च । सोमसर्पौ दित्यदिती
द्वात्रिंशदमराः स्मृताः । आपश्चैवापवत्सश्च जयोरन्ध्र
स्तथैव च । मध्ये नवपदो ब्रह्मा तस्थौ तस्य समीपतः ।
प्राच्यां द्व्यन्तरिता देवाः परितो ब्रह्मणः स्मृताः ।
अर्यमा सविता चैव विवस्वान् विबुधाधिपः । मित्रोऽथ
राजयक्ष्मा च तथा पृथ्वीधरःक्रमात् । आपवत्सोऽष्टमः
पञ्चचत्वारिंशत् सुरोत्तमाः । ज्ञात्वैवं स्थाननामानि
ब्रह्मणा सहितान्न्यसेत् । वास्तुज्ञो वास्तुमन्त्रेण गन्ध-
ष्पाक्षतादिभिः । प्रणवेनार्चयेद्वापि अथवा स्वस्वना-
मभिः । शुक्लवस्त्रयुगं दद्यात्धूपदीपफलैः सह ।
अपूपैर्भूरिनैवेद्यैः पाद्यैः सह समर्चयेत् । ताम्बूलञ्च ततो
दद्याद्देवेभ्यश्च पृथक् पृथक् । दत्त्वा पुष्पाञ्जलिं कर्त्ता
प्रार्थयेद्वास्तुपुरुषम् ।” “एवं यः कुरुते सम्यग्वास्तुपूजां
प्रयत्नतः । आरोग्यं पुत्रपौत्रादि धनधान्यं लभेन्नरः ।
वास्तुपूजामकृत्वा यः प्रविशेन्नवमन्दिरे । रोगान्नानाविधान्
क्लेशानश्नुते सरसङ्कटम्” । (चतुःषष्टिपद वास्तुमण्डलम्)
वृ० स० ५३ अ० यथा “अष्टाष्टकपदमथ वा कृत्वा रेखाश्च
कोणगास्तिर्यक् । ब्रह्मा चतुःपदोऽस्मिन्नर्धपदा ब्रह्मको-
णस्थाः । अष्टौ च बहिःकोणेष्वर्धपदास्तदुभयस्थिताः
सार्धाः । उक्तेभ्यो ये शेषास्ते द्विपदा विंशतिस्ते च” ॥
अधिकं वास्तुयागशब्दे दृश्यम्) । केचित्तु पञ्चा-
ङ्गशुद्धिमात्रयुक्ते पूर्वदिन एव वास्तुपूजामाहुः यदाह
नारदः “विधाय पूर्वदिवसे वास्तुपूजां बलिक्रियामिति” ।
श्रीपतिरपि “अथ प्रवेशो नवमन्दिरस्य यात्रानिवृत्ता-
वथ भूपतीनाम् । सौम्यायने पूर्वदिने विधाय वास्त्व-
र्चनं भूतबलिं च सम्यगिति” अथ लग्नशुद्धिं
तिथिशुद्धिं चोपजातिकोत्तरार्द्धेनेन्द्रषज्रया चाह ।
त्रिकोणे इति । शुद्धेति । नवमपममचतुर्थसप्तमदशमैका-
दशद्वितीयतृतीयस्थानानामन्यतमस्थानस्यैः शुभग्रहैः ।
पूर्णचन्द्रबुधगुरुशुक्रैरुपलक्षिते । अत्र चन्द्रस्य लग्नरा-
हित्यं ध्येयं तथा तृतीयषष्ठैकादशस्थैः पापग्रहैरुपल-
क्षिते तथा अम्बु चतुर्थस्थानं रन्ध्रमष्टमस्थानं च । शुद्धे
सर्वग्रहरहिते अम्बुरन्ध्रे यस्मिंस्तादृशे लग्ने वेश्म
गृहमाविशेत् । यदाह वसिष्ठः “केन्द्रत्रिकोणायधन-
त्रिसंस्थैः शुभैस्त्रिषष्ठायगतैः खलैश्च । लग्नान्त्यषष्ठाष्ट-
मवर्जितेन चन्द्रेण लक्ष्मीनिलयः प्रवेशः” इति ।
अन्यच्च “प्रवेशलग्नान्निधनस्थितो यः क्रूरग्रहः क्रूर-
गृहे यदि स्यात् । प्रवेशकर्त्तारमथ त्रिवर्षाद्धन्त्यष्टवर्षैः
शुभराशिगश्चेदिति” नारदः “स्थिरलग्ने स्थिरे राशौ
नैधने शुद्धिसंयुते । त्रिकोणकेन्द्रखत्र्यायसौम्यैस्त्र्या
यारिगैः परैः । लग्नान्त्यार्यष्टमस्थानवर्जितेन हिमां-
शुनेति” प्रवेशः स्यादिति पूर्वेण सम्बन्धः । गुरुः
“सप्तमं शुद्धमुद्वाहे यात्रायामष्टमं तथा । दशमं च गृहा-
रम्भे चतुर्थं सन्निवेशने” इति । यत्तु श्रीपतिना
“केन्द्रच्छिद्रव्ययैः शुद्धैः क्रूरैः षट् त्र्यायगैर्गुरौ । लग्ने
भृगौ वा केन्द्रे वा स्थिरग्राम्योदये विशेदिति” केन्द्रस्य
शुद्धत्वमुक्तं तत्पापग्रहराहित्यकृतं ध्येयम् । लग्नस्थ
गुरुभृग्वोरुक्तिस्त्वतिप्राशस्त्याभिधानार्था । कीदृशे लग्ने
विजनुर्भमृत्यौ भं राशिर्लग्नं च । जनुषि जन्मकाले
भे जनुर्भे । ताभ्यां मृत्युरष्टममवनं विगतो जनुर्भमृत्यु-
र्यस्मिन् । स्वजन्मलग्नात् स्वजन्मराशेवां अष्टमोराशिः
प्रवेशलग्नगो नाऽपेक्षित इत्यर्थः । पुनः कीदृशे व्यर्कार-
रिक्ताचरदर्शचैत्रें । अर्कारौ प्रसिद्धौ वारौ । रिक्ता
४ । ९ । १४ उपलक्षणत्वाद्दग्धतिथयोऽपि । चरलग्नानि-
मेषकर्कतुलामकराः । उपलक्षणत्वात्तदंशा अपि ।
दर्शोऽमावास्या चैत्रो मासः । उपलक्षणत्वादाषाढोऽपि ।
विगता अर्कादयो यस्मिन् अर्कादयः प्रवेशदिने निषिद्धा
इत्यर्थः । यदाह वसिष्ठ “न नैधने भेऽपि न चाष्टनग्ने
पृष्ठ २६५५
पञ्चेष्टकेऽप्यष्टमशुद्धियुक्ते । कार्यः प्रवेशो न चरांशलग्ने
शुभेक्षिते वाप्यथ संयुते वा । रिक्ताममां दग्धतिथिं
दिनेशभूसूनुषड्वर्गमिनेन्दुदृष्टिम् । क्रूरग्रहाधि-
ष्ठितविद्धभं च विवर्जनीयं त्रिविधप्रवेशे” इति । वार
फलमप्याह स एव “दह्यते प्रविशतां च मन्दिरं
वह्निना नियतमेव वह्निभे । ब्रध्नभूमिसुतवासरे तथा
शीतरश्मिदिवसे हि वृद्धिदम् । चन्द्रजार्यसितवासरेषु
च श्रीकरं सुखमहार्थलाभदम्! सूर्यसूनुदिवसे स्थिर-
प्रदं किन्तु चौरभयमत्र विद्यते” इति । एषां निष्कृष्ट-
मर्थमाह श्रीपतिः “रिक्ता तिथिर्भूसुतभानुवारौ
निन्द्याश्च योगाः परिवर्जनीयाः । मेषः कुलीरोमकर-
स्तुला च त्याज्याः प्रवेशे हि तथा तदंशाः” इति । निषिद्ध
लग्नफलान्यभिहितानि राजमार्तण्डे “भूपो यात्वा
मेषलग्ने प्रवेशे नाशङ्गच्छेत् कर्कटस्योदये वा । व्याधिं
तौलिन्याश्रिते लग्नवर्त्तिन्याकेकेरे चाप्नुयाद्धान्यना-
शम्” । आकेकेरे मकरे । “लग्नेऽन्यत्रांशकेऽप्येषामे
तद्दुष्टफलप्रदाः । शुभान्यन्यानि लग्नानि प्रवेशे मुनयो
विदुरिति” अन्यानि स्थिराणि द्विस्वभावानि च ।
उक्तं च वसिष्ठेन “पञ्चाङ्गसंशुद्धदिने निशेशताराबले
चाष्टकवर्गयुक्ते । सौम्ये स्थिरेभे शुभदृष्टियुक्ते लग्नेऽथ
वा द्व्यङ्गगृहे विलग्ने” इति । विशेषो राजमार्त्तण्डे
“निन्दिता अपि शुभांशसमेतास्तौलिमेषमकराः
सकुलीराः । कर्त्तृभोपचयगाश्च विलग्ने राशयः शुभफ-
लाय भवन्तीति” । एतल्लग्नान्तराशुद्धौ बहुकालासहि-
ष्णुत्वे वा द्रष्टव्यम् । शुभांशाः वृषमिथुनकन्याधनुर्मीना-
नामंशा इत्यर्थः कर्कतुलांशयोः स्वरूपतो निषिद्ध-
त्वात् । विशेषान्तरमाह बसिष्ठः “यः क्षीणचन्द्रो-
ऽन्त्यषडष्टसंस्थः पापेक्षितः पापयुतोऽथ वा स्यात् ।
कर्तुः स्त्रियं हन्ति स बत्सरेण त्रिवर्षतः सौम्यनिरीक्षित
श्चेदिति” अथ राज्ञां यात्रानिवृत्तिप्रवेशेऽयं विशेषो-
ध्येयः यत्र मासे यात्रा कृता तस्मान्नवमे मासि यात्रा
दिनान्नवमे दिने वा प्रवेशोनिषिद्धः यदाह गुरुः ।
“निर्गमान्नवमे मासि प्रवेशो नैव शोभनः । नबमे दिवसे
चैव प्रवेशं नैव कारयेदिति” । वामं रविमिति ।
गृहप्रवेशसमये रविं सूर्यं वामं तद्दिगभिमुखात् प्रवेश्य-
गृहाद्वामभागस्थं कृत्वा वेश्म गृहं विशेत् । तथा पुरो-
ऽग्रे स्वसम्मुखं पूर्णघटं जलपूर्णं कलसमुपलक्षण-
त्वात् पूगीफलादिपूर्णं वटं वा कृत्वा । चकारस्याऽ-
नुक्तसमुच्चयार्थत्वाद्ब्राह्मणांश्च सजलकलसानपि ब्रा-
ह्मणान्वाग्रे कृत्वा वेश्म विशेत् । अत्र शुक्रः पृष्ठगः कर्य!
इत्यनुक्तोऽपि विशेषो ध्येयः यदाह वशिष्ठः “कृत्वा
शुक्रं पृष्ठतो वामतोऽर्कं विप्रान् पूज्यानग्रतः पूर्णकु-
म्भम् । हर्म्यं रम्यन्तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीत
माल्यैर्बिशेत्तदिति” गुरुस्तु वामगोऽग्रगोवा शुक्रो
निषिद्धः, किन्तु पृष्ठगतो दक्षिणगतो वा शुभ इत्याह
“पृष्ठगं दक्षिणं वापि भृगुं कृत्वा विशेत्सदा । पुरोगं
वामगं वापि शुक्रं कृत्वा विशेच्च नेति” अत्र शुक्रस्य
दिक्चतुष्टयस्थत्वज्ञानं चन्द्रवदेव ज्ञेयं विशेषानुक्तेः ।
तच्च गृहारम्भप्रकरणेऽस्माभिरुक्तम् अयं च सर्ववर्णानां
त्रिविधेऽपि प्रवेशे विधिः राज्ञां तु यात्रानिवृत्तौ
विशेषमप्याह श्रीपतिः “कृत्वा विप्रान् सजलकल-
सांश्चाग्रतो वामतोऽर्कं स्नातः स्रग्वी विमलवसनो
मङ्गलैर्वेदघोषैः । व्यस्तैर्यात्राकथितशकुनैर्द्वारमार्गेण
राजा हर्म्यं पुष्पप्रकररुचिरन्तोरणाढ्यं विशेच्चेति”
कीदृशं वेश्म भकूटशुद्धं भकूटं षष्ठाऽष्टकादि तेन
शुद्धम् । उपलक्षणत्वाद्विवाहप्रकरणोक्तं “वर्णोवश्यं तथा
तारा” इत्येवमादिकं च । तेनापि शुद्धं ध्येयम् यदाह
वसिष्ठः “राशिकूटादिकं सर्वं दम्पत्योरिव चिन्तये-
दिति” । ४ । अथ वामगतार्कज्ञानं तिथिभेदेन पूर्वाद्य-
भिमुखगृहप्रवेशं चेन्द्रवंशाच्छन्दसाह वाम इति ।
अष्टमपञ्चमद्वितीयैकादशस्थानेभ्यः पञ्चसु स्थानेषु स्थिते
रवौ सति प्राग्वदनादिमन्दिरे प्रवेष्टव्ये गृहप्रवेश-
कर्तुर्वामो रविर्ज्ञेयः तद्यथा । यस्मिन् लग्ने प्रवेशः
कर्तुमिष्यते तस्मादष्टमं यत् स्थानं तस्मात् पञ्चसु
स्थानेषु अर्के स्थिते पूर्वाभिमुखगृहप्रवेशकर्तुर्वामः
सूर्यः स्यात् । तथा लग्नाद्यत् पञ्चमस्थानं ततः पञ्चसु
स्थानेषु अर्के स्थिते दक्षिणाभिमुखगृहप्रवेशकर्तु-
र्वामः सूर्यः । एवं लग्नाद्यद्द्वितीयं स्थानं ततः पञ्चसु
स्थानेषु सूर्ये पश्चिमाभिमुखगृहप्रवेश कर्तुर्वामः सूर्यः ।
तथैव लग्नाद्यदेकादशस्थानं ततः प्रच्चसु स्थानेषु सूर्ये-
स्थिते उत्तराभिमुखगृहप्रवेशकर्तुर्वामः सूर्य इत्यर्थः ।
उक्तञ्च “रन्ध्रात्पुत्राद्धनादायात्पञ्चस्वर्के स्थिते क्रमात् ।
पूर्वाशादिमुखं गेहं विशेद्वामो भवेद्यतः” इति ।
विश्वकर्माऽपि “लग्नात्प्रागादितोदिक्षु द्वौ द्वौ राशी
नियोजयेत् । एकमेकं न्यसेत्कोणे सूर्यं वामं विचिन्तयेत् ।
प्राच्यां लग्नात् द्वौ राशी स्थाप्यौ कोणे चैकः । तथा
पृष्ठ २६५६
पूर्णातिथाविति । प्राग्वदने पूर्वाभिमुखे गृहे पूर्णातिथौ
पञ्चम्यां दशम्या पूर्णिमायां वा प्रवेशः शुभः । नन्दा-
दिके तिथिगणे याम्यजलोत्तरानने गृहप्रवेशः शुभः ।
थथा दक्षिणाभिमुखे गृहे नन्दायां प्रतिपदि षष्ठ्या-
मेकादश्यां वा प्रवेशः शुभः । जलं पश्चिमदिक् तद्दिगभि-
मुखे भद्रायां द्वितीयायां सप्तम्यां द्वादश्यां वा प्रवेशःशुभः ।
उत्तराभिमुखे गृहे जयायां तृतीयायामष्टम्यां त्रयोदश्यां
वा प्रवेशःशुभ इत्यर्थः । यदाह गुरुः “नन्दायां
दक्षिणद्वारं भद्रायां पश्चिमामुखम् । जयायामुत्तरद्वारं
पूर्णायां पूर्वतोविशेदिति” मूले नन्दादिके इति
पदोपादानाद्रिक्ताग्रहणं यद्यप्यायाति तथापि विदिक्षु द्वार-
निषेधाद्दिशां चतुष्टयेन चतुर्णान्द्वाराणां सम्भवात्तस्याः स्व
रूपतो निषेधाच्च रिक्ताग्रहणासम्भवोध्येयः । सोऽपि
सम्मतिवाक्ये स्पष्ट एव । ५ । तत्र गृहप्रवेशे वास्तुकलस-
चक्रं शार्दूलविक्रीडितेनाह । वक्त्रे इति ।
कलसस्याऽष्टधा विभागाः परिकल्प्याः सुखं कण्ठो गर्भो मूलं
चेति चत्वारो विभागाः पूर्वादिदिक्परत्वेन चत्वारो
विभागा एवमष्टौ स्युः । तथाविभागपरत्वेन सूर्य
भान्नक्षत्रन्यासे फलमुच्यते । वक्त्रे इति । गृहप्रवेश
समये इति सर्वत्रापि सम्बध्यते कुम्भे कलसाकृतौ
वास्तुनि रविभात्सूर्याक्रान्तनक्षत्रादिति ल्यब्लोपे पञ्चमी ।
रव्यृक्षमारभ्य नक्षत्रन्यास इत्यर्थः । तत्र कलसस्य बक्त्रे-
मुखे भूरेकं सूर्याक्तान्तनक्षत्रमेव स्थाप्यन्तत्फलं गृहस्याऽ
ग्निदाहः । ततः सुर्यभात् कृतास्तदग्रिमाणि चत्वारि
भानि प्राच्यां स्थाप्यानि, फलमुद्वसनं जनवासशून्यंगृहं-
स्यात् । ततः कृता यमगतास्तदग्रिमाणि चत्वारि
भानि दक्षिणस्यां यमदिशि स्थाप्यानि, फलं गृहपतेर्लाभो
द्रव्यप्राप्तिः । ततः कृताः तदग्रिमाणि चत्वारि मानि
पश्चिमे पश्चिमायां स्थाप्यानि, फलं गृहपतेः श्री
प्राप्तिः । ततो वेदाः तदग्रिमाणि चत्वारि भानि
उत्तरे उत्तरस्यां स्थाप्यानि । फलं कलिर्लोकैः सह
गहसम्बन्धी निरर्थकः कलहः स्यात् । ततोयुगमिता-
स्तदग्रिमाणि चत्वारि भानि गर्भे कलसमध्ये
स्थाप्यानि, फलं विनाशः । कस्येत्याकाङ्क्षायां गर्भोपा-
दानाद्भाविनां गर्भाणां विनाश इत्यर्थः । ततोरामा-
स्तदग्रिमाणि त्रीणि भानि गुदे बुध्ने स्थाप्यानि । फलं
स्थैर्यं गृहपतेर्बहुकालं तत्र गृहे निवासः । ततोऽनलास्त
दग्रिमाणि त्रीणि भानि कण्ठे स्थाप्यानि, फलं स्थिरत्वं
सर्वदा गृहपतेर्भवेत् । एवमभिजिद्रहितानि स्युः ।
तदुक्तं विश्वकर्मणा “घटाकारं लिखेच्चक्रं रविधिष्ण्य
क्रमेण च । मुखैकं दिक्षु चत्वारि त्रित्रीणि
गुदकण्ठयोः । एवं चक्रं समालेख्यं प्रवेशार्थं सदा बुधैः”
अत्र चत्वारि इति वीप्सा द्रष्टव्या । दिक्षु इत्यनेन
गर्भोऽप्युपलक्ष्यते । तथा तत्फलनिर्देशस्तत्रैव “अग्ने-
र्नाशो मुखे प्रोक्त, उद्वासः पूर्वतो भवेत् । दक्षिणे चार्थ-
लाभाय, पश्चिमे श्रीप्रदो भवेत् । उत्तरे कलहश्चैव, गर्भे
गर्भविनाशनम् । स्थिरता च गुदे, कण्ठे कलसस्य
प्रकीर्त्तितेति” ज्योतिःप्रकाशेऽपि “भूर्वेदपञ्चकं त्रि
स्त्रिः । १ । ४ । ४ । ४ । ४ । ४ । ३ । ३ प्रवेशे कलसेऽर्कभात् । मृति-
र्गतिर्धनं श्रीः स्याद्वैरं शुक् स्थिरता सुखमिति”
वेदपञ्चकं वेदाश्चत्वारस्तेषां पञ्चवारं चत्वारि भानि-
लेख्यानीत्यर्थः । मृतिरित्यादीन्यष्टौ यथासङ्ख्यं
फलानि । अत्र कलसचक्रे शुभफलदस्थाने याते सत्येव
विहितनक्षत्राणां परिग्रहो युक्तस्त्रत्रापि यद्दिङ्मुख
गृहप्रवेशो विधित्सितः तद्दिङमुखविहितनक्षत्रपरिग्रहः ।
यथा पूर्वदिङ्मुखगृहप्रवेशे विधित्सिते रोहिणी
मृगे ग्राह्ये । दक्षिणाभिमुखगृहप्रवेशे । उत्तरफाल्गुनी-
चित्रे । एवं पश्चिमाभिमुखे अनुराधोत्तराषाढे । एवम्
उत्तराभिमुखे उत्तरभाद्रपदारेवत्यौ ग्राह्ये इति निष्-
कृष्टोऽर्थः । अतएवोक्तं वसिष्ठेन “यद्दिग्द्वारं मन्दिरं
तद्दिगृक्षैरुक्तर्क्षैः स्यात्सन्निवेशो न सर्वैरिति” । तद्दिगृक्षै-
रिति उक्तर्क्षैरिति चानयोः सामानाधिकरण्येनान्वयः ।
भिन्नवाक्यत्वे तु विवक्षिते चकारः कर्त्तव्यः । “सम्भवत्येक-
वाक्यत्वे वाक्यभेदो हि दूषणमिति” न्यायाच्च । अतएव
“अर्कादितेयानिलदस्रविष्णुऋक्षे प्रविष्टं नव मन्दिरं
यत् । अव्दत्रयात्तत् परहस्तयातं शेषेषु धिष्ण्येषु च
मृत्युदं स्यादिति” “निषेधोऽप्युपपन्नो भवति” पी० धा०

गृहकच्छप पु० गृहे कच्छप इव । पेषणशिलायाम् शब्दंर० ।

गृहकन्या स्त्री गृहे कन्येव । घृतकुमार्याम् राजनि०

गृहकपोत पुंस्त्री गृहे स्थितः कपोतः । कपोतभेदे स्त्रियां

जातित्वात् ङीष् “शिष्यायित गृहकपोतशतैर्यथा
स्यात्” सा० द० “आवर्त्तिभिर्गृहकपोतशिरोधराभैः”
माघः । कपोतशब्दे दृश्यम् ।

गृहकर्त्तृ त्रि० गृहं करोति कृ--तृच् ६ त० । १ गृहकारके

(घरामि) २ धूसरेऽतिसूक्ष्मे चष्टकभेदे पुंस्त्री राजनि० ।
स्त्रियामुभयत्र ङीप् ।
पृष्ठ २६५७

गृहकारक पु० गृहं करोति कृ--ण्वुल् ६ त० । गृहनिर्मा-

णकारके वर्णसङ्करभेदे । “प्रतिमाघटकादेव
कन्यायां नापितस्य च । सुत्रकारस्य सम्भूतिः सोपान
गृहकारकः” पराशरः २ गृहकर्त्तरि (घरामि) त्रि० ।
“मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् । करोति
तृणमृत्काष्ठैर्गृहं वा गृहकारकः” याज्ञ० ।

गृहकारिन् त्रि० गृहं करोति कृ--णिनि । (घरामि)

१ गृहकारके स्त्रियां ङीप् (कुमिरक्या) २ कीटभेदे ।
सा च जातिः उपस्करहरणपापजाता । यथाह
“वकोभवति हृत्वाग्निं गृहकारी ह्युपस्करम्” मनुः ।

गृहकुक्कुट पुंस्त्री गृहे रुद्धः कुक्कुटः । कुक्कुटभेदे “श्वेताय

दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय बुभुक्षिताय” सुश्रु० ।

गृहकूलक पु० गृहस्य कूले समीपे भवः कन् । चिञ्चि-

डाख्ये शाके शब्दार्थचि० ।

गृहगोधा स्त्री गृहस्य गोधेव । (टिक्टिकी) ज्येष्ट्याम्

राजनि० । स्वार्थे क । तत्रार्थे अमरः “श्वेता गृहगोधि-
कार्द्धनरे” वृ० स० ५४ अ० । पुरुषार्द्धप्रमाणतोयज्ञापिका श्वेता
गृहगोधिकेत्यर्थः । पिङ्गलवर्णायास्तस्यावामे स्थिताया
गमने शुभत्वं यथाह वृ० स० ८६ अ० “शिवा श्यामा
रलाछुच्छ्रुः पिङ्गला गृहगोधिका । सूकरी परपुष्टा च
पुन्नामानश्च वामतः “गृहगोधिकेति संज्ञा विज्ञेया
कुड्यमत्स्यस्य । दिङ्मण्डलेऽभ्यन्तरवाह्यभागे फलानि
बिद्यात् गृहगोधिकायाः” ८८ अ०

गृहगोलिका स्त्री गृहे गोधिका पृषो० । ज्येष्ठ्याम् (टिकटिकी) हेम० ।

गृहचूल्ली स्त्री “पूर्वापरे तु शाले गृहचूल्ली दक्षिणीत्तरे

काचम्” वृ० स० ५३ उक्ते द्विशाले गृहभेदे

गृहज पु० गृहे दास्यां जायते जन--ड । दासभेदे “ध्वजाहृ-

तोभक्त दासो गृहजः क्रीतदत्त्रिमौः पैतृकोदण्डदासश्च
सप्तैते दासयोनयः” मनुः । “दासास्तु गृहजादयः”
नारदः १७२५ पृ० दृश्यम् ।

गृहणी स्त्री गृहे नीयते नी--कर्मणि क्विप्संज्ञायां णत्वम् । काञ्जिके त्रिका० ।

गृहतटी स्त्री गृहस्य तटीव । वीथिकायाम् (पिँडा दाओआ)

इति ख्याते पदार्थे हारा० ।

गृहदेवता स्त्री गृहे वास्तौ स्थिता देवता । वास्तुपुरुष-

देहस्थेषु अग्न्यादिषु ब्रह्मान्तेषु ४५ संख्यकदेवताभेदेषु
गृहशब्दे दृश्यम् “गृहाय गृहदेवताभ्यो वास्तुदेव-
ताम्यः” आश्व० गृ० १ । २ । ४ सू०

गृहदेवी स्त्री गृहे तत्कुड्ये विलिख्य पूज्या देवी । जरानाम

राक्षस्याम् तत्कथा भा० स० १७ अ० जरा नामा-
ऽस्मि भद्रं ते राक्षसी कामरूपिणी । तव वेश्मनि
राजेन्द्र! पूजिता न्यवसं सुखम् । गृहे गृहे मनुष्याणां
नित्यं तिष्ठामि राक्षसी । गृहदेवीति नाम्ना वै पुरा
सृष्टा स्वयम्भुवा । दानवानां विनाशाय स्थापिता दिव्य
रूपिणी । यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवना-
न्विताम् । गृहे तस्य भवेद् वृद्धिरन्यथा हानिमाप्नुयात् ।
त्वद्गृहे तिष्ठमाना तु पूजिताऽहं सदा विभो! ।
लिखिता चैव कुड्येऽहं पुत्रैर्बहुभिरावृता । गन्धपुष्पै-
स्तथा धूपैर्भक्ष्यैर्भोज्यैः सुपूजिता । साऽहं प्रत्युपका-
रार्थं चिन्तयाम्यनिशन्तव । तवेमे पुत्रसकले दृष्ट-
वत्यस्मि धार्मिक! । संश्लेषिते मया दैवात् कुमारः सम
पद्यत । तव भाग्यान्महाराज! हेतुमात्रमहं त्विह ।
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् । गृहसं-
पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव”

गृहद्रुम पु० गृहमिव द्रुमः । मेषशृङ्गीवृक्षे (गाडरशिङा) रत्नमा० ।

गृहधूप पु० गृहस्य धूप इव । धूपभेदे “मयूरपिच्छं निम्बस्य

पत्राणि वृहतीफलम् । मरिचं हिङ्गु मांसीञ्च वीजं
कार्पाससम्भवम् । छागरोमाहिनिर्मोकौ विष्ठा वैडालिकी
तथा । गजदन्तश्च तच्चूर्णं किञ्चिद्घृतविमिश्रितम् ।
गृहेषु धूपनं दत्तं सर्वान् वालग्रहान् जयेत् ।
पिशाचान् राक्षसान् हत्वा सर्वज्वरहरं भवेत्”
शब्दार्थचि० । गेहधूपोऽप्यत्र ।

गृहधूम पु० गृहगतो धूमः । (झुल) ख्याते पदार्थे । “सैन्धवं

करबीरञ्च गृहधूमं विषं तथा” “ततो हरिद्रा
गृहधूमरोध्रपतङ्गचूर्णैः समनःशिलालैः” सुश्रु० ।

गृहनमन न० गृहं नमयति नम--णिच्--ल्यु पूर्बपदात्

संज्ञायां णत्वप्राप्तौ क्षुभ्रा० न णत्वम् । वायौ ।

गृहनाशन पुंस्त्री गृहं नाशयति प्रवेशेन नश--णिच्--ल्यु ।

वनकपोते (घुघु) राजनि० कपोतशब्दे तस्य गृहनाश-
कता दृश्या स्त्रियां जातित्वात् ङीष् ।

गृहनीड़ पुंस्त्री गृहे नीड़मस्य । चटके हारा० स्त्रियां ङीष् ।

गृहप पु० गृहं पाति पा--क । गृहपतौ

गृहपति पु० ६ त० । गृहस्वामिनि, १ गृहस्थे, द्वितीयाश्र-

मिणि २ मन्त्रिणि, ३ धुर्मे च मेदि० ४ सत्रयागकर्त्तरि
यजमाने “बहुषु गृहपतये” कात्या० श्रौ० ८ । २ । ३
“गृहपतिर्याजमानमयुक्तत्वात्” १२ । १ । ९ । “याजमानं
यत्कर्म तत् गृहपतिः करोति कर्मान्तरे तस्यायुक्तत्वात्
पृष्ठ २६५८
इतरेषां चाध्वर्य्यवादिषु योगात्” कर्कः “ऋत्विक्ष्वथ
सदस्येषु स वै गृहपतिस्तदा । उपविष्टेषूपविष्टः
शौनकोऽथाव्रवीदिदम्” भा० आ० ४ अ० । “वनौकसां
गृहपतिनामनुत्तमम्” भा० शा० २४३ अ० । आर्षत्वात्
न दीर्घः । ५ यजमानमात्रे “गृहपतिना संयुक्ते ञ्यः”
पा० “गृहपतिर्यजमानस्तेन संयुक्तः गार्हपत्योऽग्निः” सि०
कौ० । गृहपतेरपत्यादि अश्वप० अण् । गार्हपत
गृहपतिसम्बन्धिनि त्रि० स्त्रियां ङीप् । ६ अग्निभेदे
“अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते” भा० २२१
अ० गृहस्य पतिः । ७ गृहस्वामिमात्रे स्त्रियां सपूर्वत्वात्
वा नान्तादेशे गृहपत्नी गृहपतिरिति रूपद्वयमितिभेदः ।
“गृहान् गच्छ गृहपत्नी” ऋ० १० । ८५ । गृहपत्नी
स्वगृहस्वामिनी” भा०

गृहपाल त्रि० गृहं पालयति पालि--अण् । गृहरक्षके

“तमन्धं शूद्रमासीनं गृहपालमथाव्रवीत्” भा० व० ३३७
अ० । २ कुक्कुटे शब्दार्थचि०

गृहपोतक गृहं पोत इव यस्य कप् । वास्तुस्थाने शब्दरत्ना०

गृहप्रवेश पु० ७ त० । गृहे विधानेन प्रवेशे गृहशब्दे

तद्विवृतिर्दृश्या

गृहबभ्रु पुंस्त्री गृहस्थितो बभ्रुः । गृहस्थिते नकुले । शब्दार्थचि० ।

गृहबलि पु० गृहे देयो बलिः । वैश्यदेवकर्मणि “ततो

गृहबलिं कुर्यात्” मनुः ।

गृहबलिप्रिय ६ त० । वकपक्षिणि शब्दार्थचि० ।

गृहबलिभुज् पुंस्त्री गृहे दत्तं बलिं भुङ्क्ते भुज--क्विप् ।

१ काके २ चटके च हेम० ।

गृहभर्त्त त्रि० ६ त० । गृहस्वामिनि “गृहभर्तुस्तत्तुल्येऽव्दे

पीडामङ्गे प्रयच्छन्ति” वृ० स० ५३ अ० । स्त्रियां ङीप् ।

गृहभूमि स्त्री गृहयोग्या भूमिः । वास्तुभूमौ हलायु०

गृहमणि पु० गृहे मणिरिव । प्रदीपे हारा० ।

गृहमाचिका स्त्री मचं--ण्वुल् ६ त० (चामचिका) अजिन-

पत्रयाम् त्रिका० ।

गृहमृग पुंस्त्री गृहे मृग इव । कुक्कुरे हेम० स्त्रियां जातित्वात् ङीष् ।

गृहमेध पु० गृहेण दारैः मेधते संगच्छते मेध--अच्

३ त० । कृतदारपरिगृहे १ गृहस्थे । मेध--हिंसायां
भावे घञ् ७ त० । २ पञ्चसूनात्मकहिंसायाम् मेधो हिंसा-
हेतुको यज्ञः पञ्चसूनात्मको यस्य । ३ पञ्चयज्ञकर्त्तरि
गृहस्थे । गृहे कर्त्तव्य यज्ञो यस्य । ४ मरुद्भेदे “गृह-
मेधास आगत मरुतो माप भूतन” ऋ० ७ । ५९ । १०

गृहमेधिन् पु० गृहेण दारैर्भेधते संगच्छते मेध--सङ्गमे

णिनि । १ गृहस्थे “पञ्च कॢप्ता महायज्ञाः प्रत्यहं
गृहमेधिनाम् । अध्यापनं व्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् । पञ्चै-
तान् यो महायज्ञान् न हापयति शक्तितः” मनुः ।
“प्रजायै गृहमेधिनाम्” रघुः । गृहे कर्त्तव्यो मेधो
यज्ञोऽस्त्यस्य इनि । २ मरुद्भेदे “मरुद्भ्यो गृहमेधिभ्यः
सायं चरुः पयसि” कात्या० श्रौ० ५ । ६ । ६ ।
गृहमेधः पञ्चसूनानिसित्तहिंसा अस्त्यस्य इनि । ३ गृहस्थे
“गृहमेधी व्रीहियवाभ्यां शरद्वसन्तयोर्यजेत । श्यामा-
कैर्वन्यैर्वर्षासु आपत्कल्पे अन्येन, पुरातनैर्वेति” श्रा०
३० स्मृतिः । “मेधृ मेधाहिंसः । यो मेधृ सङ्गमे चेत्यत्र
चकारेण पूर्वगणस्थमेधाहिंसयोरनुवृत्तिः तेन मेधृ
हिंसार्थः तथा च गृहनिमित्तेन जातायाः “पञ्चसूना
गृहस्थस्य चूल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च
बध्यते याश्च वाहयन्” इति मनूक्तायाः पञ्चसूनारूप-
हिंसायाः कारी गृहमेधी गृहस्थ” इत्यर्थः रघु० । ४
तत्पत्न्यां स्त्री ङीप् । पतिकृतयज्ञसम्बन्धात्तस्यास्तथात्वम् ।

गृहमेधीय त्रि० गृहमेधस्येदं छ । १ गृहस्थकर्त्तव्ये कर्म-

भेदे “सान्तपनीयवेद्यां गृहमेधीयं विदधत्” कात्या०
श्रौ० ५ । ६ । ६ व्या० हरिस्वामी । गृहमेधी मरुद्भेदे
देवताऽस्य छ । २ गृहमेधिनामकमरुद्देवताके
हविरादौ त्रि० । “सहस्रियं दम्य भागमेतं गृहमेधीयं
भरुतो जुषध्वम्” ऋ० ७५७ । १४

गृहमेध्य त्रि० गृहमेधो देवताऽस्य वा यत् । गृहमे-

धदेवताके हविरादौ । अर्शा० अच् तत्कृत्ययुक्तेऽपि त्रि०
“गृहमेध्या भवेन्नित्यं भूषणानि च पूजयेत्” शु० त०
ऋष्यशृङ्गः । “गृहमेध्या गृहकृत्यपरा” रघु० ।

गृहयन्त्र क्ली० गृहे यन्त्रं वस्त्रधारणदारुविशेषः ।

गृहस्थितवस्त्राद्याधारे (आलना) प्रसिद्धे काष्ठनिर्मिते
पदार्थे “गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता” कुमा०

गृहयाय्य त्रि० चु० गृह--“स्रुदक्षिस्पृहिगृहिभ्य

आय्यः” उ० सू० आय्य । गृहस्वामिनि इति सिद्धान्तकौ-
मुदी । शब्दकल्पद्रुमे गृहयाप्यशब्दकल्पनमतीव प्रामा-
दिकम् आय्यप्रत्ययस्य पमध्यत्वाभावात्

गृहयालु त्रि० चु० गृह--आलु । ग्रहीतरि ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/गुहाचर&oldid=57719" इत्यस्माद् प्रतिप्राप्तम्