वाचस्पत्यम्/गदाभृत्

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २५१८

गदाभृत् पु० गदां बिभर्त्ति भृ--क्विप् तुक् । विष्णौ हेमच०

“पार्श्वस्थास्य गदाभृतः” भाग० १० रासपञ्चाध्याये ।

गदामुद्रा स्त्री “अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिता-

ङ्गुली । अङ्गुष्ठौ मध्यमे भूयः सुलग्ने सुप्रसारिते ।
गदामुद्रेयमुदिता विष्णुसन्तोषवर्द्धिनी” तन्त्रसारोक्ते विष्णु-
पूजाङ्गे मुद्राभेदे ।

गदाम्बर पु० गदोऽभ्रध्वनियुक्तमम्बरमस्मात् । १ मेघे त्रिका० ।

गदाराति पु० ६ त० । १ औषधे राजनि० ।

गदालोल न० गयातीर्थस्थे हेतिदैत्यनाशोत्तरं गदाक्षालना-

ज्जाते तीर्थभेदे “क्षालनार्थं गदा यत्र विष्णुना
लोलिताऽभवत् । बभूव तद्गदालोलं तीर्थं परमपावनम्”
वायुपु० गया० ५ अ० ।

गदावसान न० गदाया जरासन्धत्यक्त गदागतेरवसानमत्र ।

मथुरासमीपस्थे जरासन्धत्यक्तगदापतनस्थाने । “निहते
वासुदेवेन तदा कंसे महीपतौ । जातो वै वैरनिर्बन्धः कृष्णेन
सह तस्य (जरासब्धस्य कंसश्वशुरस्य) वै । भ्रामयित्वा
शतगुणमेकोनं तेन भारत! । गदा क्षिप्ता वलवता
मागधेन गिरिव्रजात् । तिष्ठतो मथुरायां वै कृष्णस्याद्भुत-
कर्म्मणः । एकोनयोजनशते सा पपात गदा शुभा ।
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता ।
गदावसानं तत् ख्यातं मथुरायाः समीपतः । तस्यास्तौ
हंसडिम्बकावशस्त्रनिधानावुभौ” भा० सभा० १८ अ० ।

गदासन न० “गदासनमथो वक्ष्ये गदाकृति वसेत् भुवि ।

ऊर्द्ध्वबाहुर्भवेत् येन तस्य साधनहेतुना” तन्त्रसारोक्ते
आसनभेदे ।

गदित त्रि० गद--क्त । कथिते स्त्रियां टाप् “ननभर

सहिता गदितोज्ज्वला वृ० र० । अत्र गदितोज्ज्वलेति
छन्दो नाम इत्यन्ये । उज्ज्वलेत्येव नामेति बहवः ।

गदिन् पु० गदाऽस्त्यस्य इनि । १ विष्णौ “किरीटिनं गदिनं

चक्रिणञ्च” गीता । २ गदाधारिमात्रे त्रि० । “पिनाकिनं
वज्रिणं दीप्तशूलम् परश्वधिनं गदिनं खायतासिम्”
भा० द्रो० २०१ अ० । गद + इनि । ३ रोगयुक्ते
त्रि० स्त्रियां ङीप् ।

गद्गद वाक्स्खलने कण्ड्वा० पर० अक० सेट् । गद्गद्यति

अगद्द्यीत् अगद्गदीत् गद्गद्या(दाम्)वभूव आस चकार ।

गद्गद पु० गद्गद--कण्ड्वा० भावे घञ् कर्त्तरि अच् वा मलोपः

१ अव्यक्तास्फुटशब्दे । २ तद्वति त्रि० अमरः । तन्निदानमाह
“आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः । नरान्
करोत्यक्रियकान् मूकमिन्मिनगद्गदान्” माधवकरः ।
सा० द० तु सात्मिकभावोक्तौ स्वरभङ्गरूपता तस्योक्ता यथा
“स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः” इत्या-
द्यष्टसात्विकभावानुक्त्वा “मदसंमोदपीड़ाद्यैर्वैस्वर्य्यं गद्गदं
विदुः” इत्युक्तम् “तत् किं रोदिषि गद्गदेन वचसा
कस्याग्रतो रुद्यते नन्वेतन्मम, का तवास्मि दयिता,
नास्मीत्यतो रुद्यते” अमरुश० । “विललाप सवाष्पगद्गदम्”
रघुः । “हर्षस्त्विष्टावाप्तेर्मनःप्रसादोऽश्रुगद्गदादिकरः”
सा० द० । “सगद्गदस्वरं किञ्चित् प्रियं प्रायेण भाषते
सा० द० मुग्धानुरागोक्तौ । तत्र कुशलः आकर्षा० कन् ।
गद्गदक गद्गदकुशले त्रि० । सुश्रुते गद्गदत्वकारणमुक्तम्
“तमतिस्थूलं क्षुद्रश्वासपिपासाक्षतस्वप्नस्वेदगात्रदौर्गन्ध्य-
क्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति” ।

गद्गदध्वनि पु० गद्गदः कफादिनाऽव्यक्तः ध्वनिः । हर्ष-

शोकादिना सकफेन वायुना यथास्थानानुच्चारणात् सं
जाते अव्यक्तध्वनौ । बहु० स० । २ तद्वति त्रि० ।

गद्य त्रि० गद--यत् । १ कथनीये “सह्यः कथं वियोगश्च गद्यमे-

तत्त्वया मम” भट्टिः । सा० द० उक्ते २ पादरहिते
काव्यभेदे न० । “अव्यं श्रोतव्यमात्रं तत् पद्यगद्य-
मयं द्विधा” इति श्रव्यकाव्यं विभज्य “वृत्तबन्धो-
ज्झितं गद्यं मुक्तकं वृत्तगन्धि च । भवेदुत्कलि-
काप्रायं चूर्ण्णकञ्च चतुर्व्विधम् । आद्यं समासरहितं
वृत्तभागयुतं परम् । अन्थद्दीर्षसमासाद्यं तुर्य्य-
ञ्चाल्पसमासकम् । मुक्तकं यथा “गुरुर्वचसि पृथु-
रुरसीत्यादि । वृत्तगन्धि यथा समरकण्डूय-
गनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटङ्कारोज्जा
गरिगवैरिनगरः । अत्र कुण्डलीकृतकोदण्डेत्यनुष्टु-
ब्वृत्तस्य पादः । उत्कलिकाप्रायं यथा अणिसविसृमर-
णिसिददरसरविसरविदलितसमरपरिगदपवरपरबलेत्यादि
(प्राकृतम्) । चूर्णकं यथा गुणरत्नसागर! जगदेक-
नागर! कामिनीमदन! जनरञ्जनेत्यादि” । छन्दो-
मञ्जर्य्यामन्यथाभेदसंहितं तल्लक्षणादिकमुक्तं यथा
“गद्यं पद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः ।
प्रागुक्तलक्षणं पद्यं गद्यं सम्प्रति गद्यते । अपादं
पदसन्तानं गद्यं तत्तु त्रिधा मतम् । वृत्तकोत्कलिका
पृष्ठ २५१९
प्रायवृत्तगन्धिप्रभेदतः । अकठोराक्षरं स्वल्पसमासं वृत्तकं १
मतम् । तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ।
भवेदुत्कलिकाप्रायं २ समासाढ्यं दृढ़ाक्षरम् । वृत्तैकदेश-
सम्बन्धात् वृत्तगन्धि ३ पुनः स्मृतम् ।”
“कथायां सरसं वस्तु गद्यैरेव विनिर्म्मितम् । क्वचिदत्र
भवेदार्य्या क्वचिद्वक्त्रापवक्त्रके । आदौ पद्यैर्नमस्कारः
खलादेर्वृत्तकीर्त्तनम्” यथा कादम्बर्य्यादि” ।
“गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते” । यथा
देशराजचरितम् । “गद्यपद्यमयी राजस्तुतिर्व्विरुदमुच्यते ।
यथा विरुदमणिमाला” सा० द० ।
“यजुषामृचां च साम्नाञ्च गद्यानाञ्चैव सर्वशः ।
आसीदुच्चार्य्यमाणानां निस्वनो हृदयङ्गमः” भा० व० २६ अ० ।
भाग० ५ स्क०, विष्णुपु० च तत्प्रपपञ्चो दृश्यः ।

गद्याण पु० भावप्र० कालिङ्गमानोक्तौ “यवद्वयेन गुञ्जा स्या

त्त्रिगुञ्जो वल्ल उच्चते । माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा
भवेत् क्वचित् । चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव
च । गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषिकः”
इत्युक्ते अष्टचत्वारिंशद्गुञ्जामिते मानभेदे । स्वार्थे क ।
तत्रार्थ । “तुल्या यवाभ्यां फथिताऽत्र गुञ्जा वल्लस्त्रि-
गुञ्जो धरणञ्च गतेऽष्टौ । गद्यणकस्तद्द्वयमिन्द्र १४ तुल्यैर्व-
ल्लैस्तथैकौ धटकः प्रदिष्टः” लीला० उक्ते परिमाणभेदे । तेन
अष्टगुञ्जात्मकमाषषड्गुणतया तस्याष्टाचत्वारिंशद्गुञ्जामा-
नत्वम् । क्वचिदस्य दन्त्यनमध्यतापि लमध्यता च । शब्द-
कल्पद्रुमे क्लीवोक्तिश्चिन्त्या भावप्र० गद्याणशब्दस्य पुंस्त्वो-
क्तेः स्वार्थिकप्रत्ययस्योत्सर्गतः प्रकृतिलिङ्गत्वौचित्यात् ।

गध्य त्रि० ग्रह--यत् पृषो० नि० । १ ग्राह्ये । “ऋजा वाजं

न गध्यम्” ऋ० ४ । १६ । १ । “गध्यं ग्राह्यम् “गध्यं
गृह्णातेः निगमः” भा० “महो वाजस्य गध्यस्य सातौ”
ऋ० ६ । २६ । २ । “गध्यस्य ग्रांह्यस्य” भा० ।

गध मिश्रीभावे निषण्टुः दिवा० पर० सेट् । गधयति

अगधीत् अगाधीत् । जगाध गधिता “वाजस्य गध्यस्य
सातौ” ऋ० ६ । १० । ६ गध्यस्य गध्यतिर्मिश्रीवावकर्म्मा
मिश्रणीयस्य प्राप्यस्य वाजस्य सातौ सुसंभजने” भा० ।

गन्तव्य त्रि० गम--तव्य । १ गम्ये “गन्तव्यमस्ति कियदित्यसकृत्

ब्रवाणा रामाश्रुणः कृतवती प्रथमावतारम्” उत्तर० ।
“राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता” मनुः ।

गन्तु त्रि० गम--तुन् । १ पथिके आगन्तुरभ्यागतः उज्ज्वल-

दत्तः २ गत्यरि च । क्वचिद्भावेऽपि तुत् । “मध्या-
वीरिषतायुर्गन्तोः” ऋ० १, ८९ । ९, “आयुर्गन्तोः कॢप्त-
स्यायोर्गमनात् पूर्वम्” भा० । अत्र गन्तोः भावलक्षणे
“स्थेण कृञ्यतिचरिहुतमिजनिभ्यस्तोसुन्” पा०
३ । ४ । १६ । विहिततोमुनन्ततया माधवोक्तिश्चिन्त्या
तत्र सूत्रे गमेरपाठात् । सितनिगमीत्यादिसूत्रेण
तुनप्रत्ययान्तस्यैव तद्रूपस्यौचित्यात् । “युयोत नो
अनपत्यानि गन्तोः” ऋ० ३ । ५४ । १८ इत्यस्याः व्याख्यायां च
तेन तुनन्ततयैव साधितत्वात् तथैवेहौचितत्वात् । वस्तुतः
तोसुन्नन्तस्याव्ययतया तत्स्वरार्थमेव तथासाधनं तेन
बा० तोसुन् इत्येव ज्यायः ।

गन्तृ त्रि० गम--शीलार्थे तृन् । १ गमनशीले २ प्राप्तिशीले

“तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च” गीता
शीलार्थतृणन्तत्वात् न कर्म्मणि षष्ठी । कर्त्तरि
तृच् । ३ गमनकर्त्तरि त्रि० । अत्र कर्म्मणि षष्ठीति भेदः ।
उभयत्र स्त्रियां ङीप् । “गन्त्री वसुमती नाशम्” या० ।

गन्त्री स्त्री गन्यतेऽनया ष्ट्रन् ङीप् । १ वृषवहनोये । शकटे

अमरः । २ गमनकारिकायां ३ गमनशीलायां स्त्रियाञ्च ।

गन्तीरथ पु० गन्त्री रथ इव० अभीष्टस्थानप्रापकत्वात् । शकटे

अमरः ।

गन्दिका स्त्री पुरीभेदे साऽभिजनोऽस्य सिन्ध्वा० अण् । गादिक--पित्रादिक्रमेण तत्रवासिनि ।

गन्ध अर्द्दने (हिंसायाम्) गत्यां भूषणे च चुरा० आ० सक० सेट् ।

गन्धयते अजिगन्धत । गन्धनम् “गन्धनक्षेपणसेवन
साहसिक्यप्रतियत्नकथनोपयोगेषु कृञः” पा० “गन्धगं
हिंसनम्, गन्धनाङ्गे उपयमे तु” इति च सि० कौ० ।
“गन्धनाङ्गे सूचनार्थे इत्यर्थः । तेन सूचनार्थेऽपि ।

गन्ध पु० गन्ध--पचाद्यच् । व्राणेन्द्रियग्राह्ये पृथिवीवृत्तौ

विशेषगुणभेदे अमरः । २ प्रतिवेशिनि त्रि० २ लेशे ४ सम्बन्धे
५ गन्धके च मेदि० ६ गर्व हेमच० । ७ शोभाञ्जने शब्दरत्ना० ।
“घृष्टो मलयजो गन्धः” इति स्मृत्युक्ते ८ घृष्टचन्दने च ।
गन्धश्च पृथिवीमात्रस्य गुणः । “रूपगन्धस्पर्शवती
पृथिवी” कणा० सू० । न च पाषाणादौ गन्धरसयो-
रनुपलम्भात् तत्राव्यापकमिति वाच्यम् । तत्रापा-
ततो गन्धरसयोरनुपलम्भेऽपि तदीयभस्मसु तदुपलं-
म्भस्य सत्त्वात् य एवावयवाः पाषाणारम्भकास्त एव तद्भ-
स्मारम्भका अपि “यत् द्रव्यं तद्द्रव्यध्वंसजन्यं तत्तदुपा-
नोपादेयमिति” व्याप्तेरतो नाव्याप्तिः । गन्धवत्त्वमुत्-
पत्तिकाले घटादाव्याप्तमतो गन्धसमानाधिकरद्रव्यत्व-
व्याप्यजातिमत्त्वं पृथिवीत्वलक्षणम् । मुक्ताबल्याञ्च
पृष्ठ २५२०
“तत्र क्षितिर्गन्धहेतुरिति” का० व्याख्यायाम् तथैवोक्तं यथा
“गन्धहेतुरिति गन्धसमवायिकारणमित्यर्थः । यद्यपि गन्ध-
वत्त्वमात्रं लक्षणमुचितं तथापि पृथिवीत्वजातौ प्रमाणो-
पन्यासाय कारणत्वमुपन्यस्तम् । तथाहि पृथिवीत्वं हि
गन्धसमवायिकारणतावच्छेदकतया सिध्यति अन्यथा गन्ध-
त्वावच्छिन्नस्याकस्मिकत्वापत्तेः । न च पाषाणदौ गन्धा-
भावाद्गन्धवत्त्वमव्याप्तमिति वाच्यं तत्रापि गन्धसत्त्वात्
अनुपलब्धिस्तु अनुत्कटत्वेनाप्युपपद्यते कथमन्यथा तद्भ-
स्मनि गन्ध उपलम्यते? भस्मनो हि पाषाणध्वंसजन्यत्वात्
पाषाणोपादानोपांदेयत्वं सिध्यति, “यद् द्रव्यं यद्द्रव्य-
ध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्तेः दृष्टञ्चैतत्
खण्डपटे महापटध्वंसजन्ये । इत्थञ्च पाषाणपरमाणोः
पृथिवीत्वात् तज्जन्यस्य पाषाणस्यापि पृथिवीत्वं तथा च
तस्यापि गन्धवत्त्वे बाधकाभावः” । गुणग्रन्थे च तस्य घ्राण-
ग्राह्यत्वंद्वैविध्यञ्चोक्तं यथा “घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यै-
वोपकारकः । सौरभञ्चासौरभञ्च स द्विधा परिकीर्त्तितः”
गन्धस्य पृथिव्यां स्वाभाविकत्वमौपाघिकत्वं वेति सन्दिह्य
स्वाभाविस्यैव तल्लक्षणत्वं कणा० सू० वृत्त्योः सनर्थितं यथा
“पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्राद्र्भावो वस्त्रे
गन्धानावलिङ्गम् व्यवस्थितः पृथिव्यां गन्धः ।” सू०
“इदानीं भूतानां लक्षणानि गन्धादीनि परीचिक्षिषु
र्गन्धादीनां स्वाभाविकत्वमौपाधिकत्वञ्च व्यवस्थापयन्नाह ।
रूपरसगन्धस्पर्शा यत्र कारणगुणप्रक्रमेणोत्पद्यन्ते तत्र
म्प्राभाविकाः सन्तो लक्षणवामुपयन्ति नान्यथा नहि
समीरणे उषलभ्यमानं सौरभं शिलातले उपलभ्यमानं
शैत्यं जले उपलभ्यमानमौष्ण्यं वा लक्षणं भवति
तदेतदाह पुष्पवस्त्रयोरिति नहि कनककेतकीकुसुम
सन्निकृष्टे वाससि कनककेतकीसौरभमुपलभ्यमानं
वाससः । नहि वाससः कारणगुणप्रक्रमेण तदुत्पन्नम्,
किन्तर्हि कनककेतकीसन्निधानादौपाधिकं नहि वस्त्रे
गन्धाभावे केतकीगन्धाभावो लिङ्गम् । किं लिङ्गमत
उक्तं गुणान्तराप्रादुर्भाव इति गुणान्तरात् कारणगुणात्
अप्रादुर्भावोऽनुत्पत्तिः यदि हि वस्त्रे यो गन्ध उपलम्यते
म तस्य खाभाविकः स्यात्तदा तदवयवेषु तन्तुषु केतकी-
सन्निकर्षात् पूर्व्वं तत्र वस्त्रे चोपलभ्येत न चैवमित्यर्थः ।
तथा च विवादाध्यासितो गन्धो न वस्त्रसमवेतः तदवयव-
गुणाजन्यविशेषगुणत्वात् शीतोष्णस्पर्शवत् ।
खाभाविकं गन्धं पृथिव्या लक्षणमाह पृथिव्यां व्यवस्थितो-
ऽयोगान्यायेगाभ्यां परिच्छिन्नः समानासमानजातीय-
व्यावर्त्तकतया गन्धोलक्षणमित्यर्थः भवति हि पृथिवी
गन्धवत्येव, पृथिव्येव गन्धवतीति, तदेवं समानजातीयंभ्यो
जलाद्यष्टभ्योऽसमानजातीयेभ्यो गुणादिभ्यश्च व्यावर्त्तकः
स्वाभाविकः पृथिव्यां गन्ध इति व्यवस्थितम्” वृत्तिः ।
तत्र पृथिव्या उक्तार्थकगन्धवत्त्वलक्षणं यदुक्तं तस्य
कथङ्कारं लक्षणता स्यादित्याशङ्कापूर्वकं कणादसू० उप०
वृत्तौ समर्थितं यथा
“ननु लक्षणमिदं व्यतिरेकिलिङ्गमितरभेदसाधकं व्यव-
हारसाधकं वा तत्र पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्
यन्नेतरभिन्नं तन्न गन्धवत् यथा जलादि इतरभेदा-
भावव्यापकाभावप्रतियोगिगन्धवती चेयं तस्मादितर-
भिन्ना । तत्रेतरभेदस्य साध्यस्य प्रसिद्धौ ततोहेतोर्व्यतिरेके
सपक्षविपक्षव्यावृत्ततयाऽसाधारण्यम् । अव्यतिरेके चान्व-
यित्वम् । अप्रसिद्धौ च अप्रसिद्धविशेषणः पक्षः । तथाच तत्र
न सन्देहो न वा सिषाधयिषा न वा तद्विशिष्टज्ञानरूपा-
नुमितिः । किञ्च हेतुसाध्यव्यतिरेकयोर्व्याप्तिस्तथाच न व्या-
प्तस्य पक्षधर्मत्वं पक्षधर्मस्य न व्याप्तत्वमिति वैषम्यम्, अत
एवोपनयवैयर्थ्यमपि व्याख्यायते नत्वगृहीतव्याप्तिकमिति
तदुक्तम्, “साध्याप्रसिद्धिर्वैषस्यं व्यर्थतोपनयस्य च । अन्व-
येनैव सिद्धिश्च व्यतिरेकिणि दूषणम्” इति । एवं
व्यवहारसाध्यकेऽपि, तत्र यद्यपि व्यवहारः पृथिवी-
पदवाच्यत्वं तच्च पृथिवीत्वजातावप्यस्ति तत्र च पृथिवीत्वं
हेतुर्नास्तीत्यसाधारण्यं तथापि पृथिवीत्वप्रवृत्तिनिमि-
त्तकपृथिवीपदवाच्यत्वं साध्यमिति नासाधारण्यं यद्वा
पृथिवीत्वं क्वाचित्कपदप्रवृत्तिनिमित्तं जातित्वात् घटत्व-
वदिति सामान्यतः सिद्धौ पृथिवीपदं पृथिवीत्वप्रवृत्ति-
निमित्तकम् इतराप्रवृत्ति निमित्तकत्वे सति सप्रवृत्तिनि-
मित्तकत्वात् यन्नैवं तन्नैवमिति साध्यम् । तथा चात्रापि
साध्याप्रसिद्धिरेवेति चेत् मैवम्, इतरेषां जलादीनाम्
भेदस्य घट एव प्रसिद्धेः । वाय्वादेरतीन्द्रियस्यापि भेदस्य
अन्योन्याभावस्य घटादौ प्रत्यक्षत एव सिद्धत्वात् अन्यो-
न्याभावग्रहे अधिकरणयोग्यतामात्रस्य तन्त्रत्वात् स्तम्भः
पिशाचो न मवतीत्यादौ तथाद र्शमात्, नचैवं धट
एव तर्हि दृष्टान्तोऽस्तु किं व्यतिरेकिणा “ऋजुमार्गेण
सिद्ध्यन्तं कोहि वक्रेण साधयेत्” इति वाच्यम्
अव्यतिरेकिलिङ्ग चेदनाभासं, तदाऽयमपि मार्गो
वक्ररुचिं प्रत्यप्रतिहत एव साध्याप्रसिद्धेर्निरासे तन्मूल-
पृष्ठ २५२१
कदोषाणां निरस्तत्वात् । व्यतिरेकसहचारेण अन्वय-
व्याप्तेरेव ग्रहात् व्यतिरेकव्याप्त्याऽन्वयव्याप्तेरनुमानाद्वा
न वैषम्यम् । नचोपनयवैयर्थ्यम्, गृहीतव्याप्रेरेव हेतोः
पक्षे उपसंहारात् तदुक्तम्, “नियम्यत्वनियन्तृत्वे
भावयोर्यादृशी मते । त एव विपरीते तु विज्ञेये
तदभावयोः” । इति व्यवहारस्तु गन्धवती पृथिवीत्यु-
पदेशादेव यथा कम्बुग्रीवादिमान् घटपदवाच्य इति ।
तथा कुत्रचिदेव घृतादौ मृदादौ च गन्धवत्त्वेनोपलक्ष-
णेन पृथिवीत्वे पृथिवीपदप्रवृत्तिनिसित्तत्वं येनोपदेशाद्
गृहीतम्, गन्धवत् सर्व्वं पृथिवीत्वेन प्रवृत्तिनिमित्तेन-
पृथिवीपदवाच्यं गन्धवत्त्वात् यन्नैवं तन्नैवमिति व्यति-
रेकी तस्याप्यवतरत्येव । ननु भेदसाधकव्यतिरेकिणि
भेदो वैधर्म्म्यं खरूपभेदो वा अन्योन्याभावो वा न
तावदाद्यौ प्रत्यक्षत एव तदवगमात् न तृतीयः अभाव-
भेदस्यापि साध्यत्वेन तदन्योन्याभावस्य तत्राभावात् तेन
सह स्वरूपभेदे साध्ये साध्याननुगमादितिचेन्न अभाव-
प्रतियोगिकान्योन्याभावस्यापि साध्यत्वात् स यद्य-
तिरिक्तस्तदाऽस्त्येव न चेत् स्वरूपमादाय तत्पर्य्यवसा-
नात् वस्तुतोभिन्नएव तद्वैधर्म्म्यस्य तदन्योन्याभावव्याप्य-
त्वात्, नचानवस्था यावत्येवानुभवस्तावत्येऽविश्रामात्
अन्यत्र त्वननुभवेनैव विश्रामात् यत्तु त्रयोदशान्योन्या-
मावास्त्रयोदशसु प्रसिद्धाः मिलिताः पृथिव्यां साध्यन्ते
इति तत्तुच्छं प्रव्येकं प्रसिद्धेरतन्त्रत्वात् मिलितप्रसिद्धेर-
भावात् किन्तु निर्गन्धत्वावच्छिन्नप्रतियोगिताकान्योन्या-
भावः साध्येत प्रतियोगितावच्छेदकभेदेनाभावभेदस्या-
वश्यकत्वात् स च घटादावेव प्रत्यक्षसिद्ध इत्युक्तत्वात्” ।
(जलाद्यष्टद्रव्याणि गुणादिभावपञ्चकञ्चेति त्रयोदश)
तस्य चाश्रयनाशादेव नाशादनित्यत्वं यथाह कणादसू० ।
“पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च”
सू० “पृथिव्यादीनां वाय्वन्तानामवयविनां रूपादयश्च-
त्वारोगुणा अनित्याः । यद्यप्यन्येऽपि गुणा अवयविषु
वर्त्तमाना अनित्या एव, तथापि तेषामन्यतोऽपि विनाशः,
रूपादयश्चत्वारोगुणा आश्रयनाशादेव नश्यन्ति न तु
विरोघिगुणान्तरात्, द्रव्यानित्यत्वादिति द्रव्यस्याश्रयभू-
तस्यानित्यत्वादाश्रितानामनित्यत्वमित्यर्थः ।” उप० वृ०
“रूपादीनामनित्यत्वे यद्याश्रयानित्यत्वं तन्त्रं तदा
नित्याश्रयवृत्तीनां गित्यत्वमित्याक्षेपबललभ्यमित्याह” । “एतेन
निव्येषु नित्यत्वमुक्तम् ।” सू० “रूपादीनामेव चतुर्णां
नित्येष्वाश्रयेषु वर्त्तमानानां नित्यत्वमुक्तम् एतेनेति एतं
नेति आश्रयानित्यत्वेनानित्यत्वाभिधानेनेत्यर्थः” उप० वृ० ।
एतेन मुक्तावल्यां सर्वगन्धोऽनित्य इत्युक्तिश्चिन्त्या ।
तस्य पाकजत्वमपि कणादसू० वृत्तौ उक्तं यथा
“कारणगुणपूर्वकाः पृथिव्यां पाकजाः” सू० “पाकजा
रूपरसगन्धस्पर्शा इत्यर्थः कारणगुणपूर्वका इति रूपा-
श्रयस्य घटादेर्यत् समवायिकारणं कपालादि तद्गुणपू-
र्वकाः तथा च कपालरूपकारणैकार्थसमवायप्रत्यासत्त्या
घटरूपाद्यसमवायिकारणम्, एवं रसादापाप” ।
रूपादीनां पाकप्रकारः पाकजशब्दे वक्ष्यते । गुणगुणि-
नोरभेद इति वेदान्तिनो मन्यन्ते कणादसूत्रवृत्तौ तन्नि-
रासितं यथा ।
“ननु नीलपीतादयोगुणा द्रव्याभिन्ना एव धर्मधर्भिणो-
रभेदादितिचेन्न रूपं घटः स्पर्शोघट इत्यादिव्यवहारप्र-
सङ्गात्, ननु नेदमनिष्टं यतो भवत्येव शुक्लः पटो नीलः
पट इत्यादिप्रतीतिरितिचेन्न मतुब्लोपादभेदोपचाराद्वा
प्रतीत्युपपत्तेः । भेदे प्रमाणे सति कल्पनेयं यथाकथञ्चि
दुपपद्ध्यते इति चेन्न चन्दनस्य रूपं चन्दनस्य गन्ध इत्या-
दिव्यपदेशबलाद्भेदसिद्धेः पटस्य रूपाभेदे पटवद्रूपमपि
त्वगिन्द्रियेण गृह्य त पटमानयेत्युक्ते यत्किञ्चिद्रूपमानयेत्
रूपमानयेत्युक्ते यत्किञ्चिद्द्रव्यमानयेत् । अस्तुतर्हि भेदा-
भेदः अत्यन्तभेदेऽत्यन्ताभेदे च सामानाधिकरण्यानुप
पत्तेरितिचेन्न अवच्छेदभेदं विना विरुद्धयोर्भेदाभेदयोरेक
त्रासम्भवात्, अन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति नित्याभाव-
वृत्तिधर्मत्वादत्यन्ताभावत्ववदितिचेन्न एकत्र संयोगतदत्य-
न्ताभावयोः प्रतीतिबलादत्यन्तभावस्याव्याप्यवृत्तित्वाभ्यु-
पगमात् अन्योन्याभावे तु तथाप्रतीतेरभावात् ।”
वेदान्तिमते तु तत्सत्त्वनियतसत्ताकत्वरूपतादात्म्यस्यै-
वाभेदत्वस्वीकारात् न तद्दोषावतारः । अतएवोक्तं “सत्यैक्ये
मिथोभेदस्तादात्म्यमिति” । ऐक्ये तत्सत्त्वनियतसत्ता-
कत्वे सति मिथः परम्परं भेदः इति तैरभ्युपगमान्न
किञ्चिद्दूषणमवहतीति ।
“रूपरसगन्धपर्शाः रूपत्वादिगुणत्वसाक्षाद्व्याप्यजाति-
मन्तः ।” इत्युपक्रम्य उप० वृत्तौ तल्लक्षणमुक्तं यथा
“घ्राणमात्रग्राह्यो गुणो गन्धः घ्राणमात्रग्राह्यगुणत्व-
व्याप्यजातिमत्त्वं गन्धत्वं स च मरभिरसरभिश्चेति
द्विविधः यद्वा पृथिवीवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्याप्य-
जातिमत्त्वं गन्धत्वम् ।
पृष्ठ २५२२


सचायं गन्धः द्विविधः सुरभिसुरभिश्च । भा० आश्व०
५० अ० अस्य दशविधतोक्ता यथा ।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः । एते पञ्च-
गुणा भूमेर्विज्ञेया द्विजसत्तमाः! । पार्थिवश्च सदा गन्धो
गन्धश्च बहुधा स्मृतः । तस्य गन्धस्य वक्ष्यामि विस्तरेण
बहूत् गुणान् (भेदान्) । इष्टश्चानिष्ट गन्धश्च मधुरोऽम्लः
कटुस्तथा । निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ।
दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत” । तत्रेष्टः
१ कस्तूरिकादौ, अनिष्टः ३ विष्ठादौ, मधुरः ३
मधुपुष्पादौ, कटुः ४ मरिचादौ, निर्हारी ५ हिङ्गादौ ।
संहतश्चित्रगन्धः ६ अनेककल्कद्रव्यादौ, स्निग्धः ७ सद्य-
स्तप्तवृतादौ । रूक्षः ८ सार्षपतैलादौ । विशदः ९ शाल्यादौ,
अम्लः १० तिन्तिड्यादौ । तस्योत्कटानुकटत्वादिकः
अवान्तरधर्म्मः उद्भूतशब्दे ११८१ पृ० विवृतः ।
तत्र सुरभिगन्धः पञ्चविधुः पूजाङ्गम् यथाह कालि० पु० ।
“गन्धञ्च सम्यक् शृणुतं पुत्रौ! वेतालभैरवौ! ।
चूर्ण्णीकृतो १ वा घृष्टो २ वा दाहकर्षित ३ एव वा ।
रसः सम्मर्दजो ४ वापि प्राण्यङ्गोद्भव ५ एव वा ।
गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः । गन्ध-
चूर्णं गन्धपत्रचूर्णं सुमनसां तथा । प्रशस्त-
गन्धबुक्तानां पत्रचूर्ण्णानि यानि च! तानि गन्धाह्वा-
यानि स्युः स गन्धः प्रथमः १ स्मृतः । घृष्टो
मलयजो गन्धः सरलश्च नमेरुणा । अगरुप्रभृतिश्चापि
यस्य पङ्कः प्रदीयते । घृष्ट्वा, स वृष्टो गन्धोऽयं द्वितीयः
परिकीर्त्तितः २ । देवदार्वगुरुब्रह्मसालसारान्तचन्दनाः ।
पियादीनाञ्च यो दग्ध्वा गृह्यते दाहजो रसः । स दाहा
कर्षितो गन्धस्तृतोयः परिकीर्त्तितः ३ । स गन्धः करवी-
विल्वगन्धिनीतिलकं तथा । प्रभृतीनां रसो योऽसौ
निष्पीड्य परिगृह्यते । स सम्मर्दाद्गतो गन्धः सम्मर्द्दज
इतीर्य्यते ४ । मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा ।
गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासिनाम् ५ ।
कर्पूरगन्धसाराद्याः क्षोदे वृष्टे च संस्थिताः । चन्द्रभा-
गादयश्चापि रमे पङ्के च सङ्गताः । गन्धसारस्तु सर्वत्र
ससर्गादौ प्रयुज्यते । मृगनाभिर्भवेद्घृष्टश्चूर्णोऽप्यन्यस्य
योगतः । एवं सर्तस्तु सर्वत्र गन्धो भवति पञ्चधा ।
घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरः परः । गन्धस्य
विस्तरो भेदः प्रोक्तः कालीयकादयः । मर्वः पञ्चविधे-
स्त्रेव प्रविष्टो भवति क्षणात् । गन्धो मलयजो यस्तु
दैवे पैत्रे च सम्मतः । तत्पङ्को वा रसो वापि चूर्णो वा
विष्णुतुष्टिदः । सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः ।
तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा । कृष्णागुरुः
सकर्पूरः सहितो मलयोद्भवैः । वैष्णवप्रीतिदो गन्धः
कामाख्यायाश्च भैरवौ! । कुङ्कुमागुरुकस्तूरीचन्द्रभागैः
ममीकृतैः । त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च
शम्भुना । दैवतोद्देशपूर्वेण गन्धान् सम्पूज्य साधकः ।
देवायेज्याय बितरेत् सर्वसाध्येषु पूजकः । गन्धेन
लभते कामं गन्धो धर्म्मप्रदः सदा । अर्थानां साधको
गन्धो गन्धे मोक्षः प्रतिष्ठितः । अयं वै कथितो गन्धः
पुत्रौ वेतालभैरवौ” कालि० पु० ६८ अ० ।
३ कृष्णागुरुणि न० शब्दार्थचि० “नवपरिमलगन्धः केन
शक्योवरीतुम्” सा० द० । “गन्धवद विरन्दनोक्षिता” रघुः ।
“वर्ज्जयेन्मधुमासं च गन्धं माल्यं रसान् स्त्रियः” मनुः ।
४ गन्धवति त्रि० । उद् + पूति + सु + सुरभि + शब्दात् परस्य
गन्धस्य वहु० टच् समा० । उत्कटो गन्धोऽस्य उद्गन्धिः
एवं पूतिगन्धिः सुगन्धिः सुरभिगन्धिः । “गन्धस्येत्त्वे
तदेकान्तग्रहणम्” वार्त्ति० “एकान्त एकदेश इवाविभागेन
लक्ष्यमाण इत्यर्थः यथा सुगन्धि पुष्पम् सलिलं वा
सुगन्धिर्वायुरिति” च सि० कौ० । अत्र औपाधिकगन्धवस्वात्
तथात्वम् शोभना गन्धा गन्धयुक्ताः पदार्थाः सन्त्यस्य
सुगन्ध आपण इत्यादौ न” सि० कौ० । “कण्डूयतः
कटभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य”
“सुगन्धितामप्रतियत्नपूर्वाम्” माघः । “आघ्रायि वान्
गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च” भट्टिः ।
“अरविन्दव्यतिषङ्गवत्त्वात् गन्धस्येत्त्वं न भवति विभागेन
लक्ष्यत्वादिति जयम० । एवं उपमानपूर्वकस्य तस्येत्
समा० पद्मगन्धिः । “प्रस्थं हिमाद्रेर्मृगनाभिगन्धि”
कुमा० लेशवाचकत्वेऽपि इत् समा० । “सूपगन्धि घृतगन्धि
भोजनम्” सि० कौ० । देवादौ गन्धदानेऽङ्गुलिविशेष-
नियमः तन्त्रसारे उक्तो यथा “मध्यमानामिकाङ्गुष्ठैर-
ङ्गुल्यग्रेण पार्वति! । दद्याच्च विमलं गन्धं मलमन्त्रेण
साधकः” । तत्र देयगन्धस्तु चन्दनकर्पूरकालागुर्वात्मकः
यथाह तन्त्रसा० निबन्धे “गन्धश्चन्दनकर्पूरकालागुरु-
भिरीरितः” तद्यीजनप्रकारो गन्धयुक्तिशब्दे दृश्यः ।

गन्धक पु० गन्धाऽस्त्यस्य अर्श० अच् स्वार्थे क । १ शिग्रुवृक्षे

(सजना) शब्दर० । २ स्वनामख्याते उपधातुभेदे तस्यो-
त्पत्तिगुणभेदशोधनादिकं भावप्र० उक्तं यथा
पृष्ठ २५२३


“श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाप्लुतम् । दुकूलं
तेन वस्त्रेण स्नातायाः क्षीरनीरधौ । प्रसृतं यद्रज
स्तस्माद्गन्धकः समजायत” । तस्य भेदाः “चतुर्द्धा
गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः । रक्तो
हेमक्रियासूक्तः पीतश्चैव रसायने । व्रणादिलेपने श्वेतः
कृष्णः श्रेष्ठः स दुर्लभः । श्रेष्ठो हेमक्रियादिषु सर्वत्र-
प्रशस्यतर इत्यर्थः । अस्य गुणाः । गन्धकः कटुकस्तिक्तो
वीर्योष्णस्तुवरः सरः । पित्तलः कटुकः पाके कण्डूवि-
सर्पजन्तुजित् । हन्ति कुष्ठक्षयप्लीहकफवातान्
रसायनः । अशोधितो गन्धक एष कुष्ठं करोति तापं
विषमं शरीरे । सौख्यञ्च रूपञ्च बलं तथौजः शुक्रं
निहन्त्येव करोति चार्द्रम् । शोधितो यस्तु गन्धः
स्यात् जरामृत्युज्वरापहः । अग्निसन्दीपनः श्रेष्ठो
वीर्यवृद्धिकरोऽस्थिकृत् । शोधनविधिस्तु । लोहपात्रे
बिनिःक्षिप्य घृतमग्नौ प्रतापयेत् । तप्ते घृते तत् समानं
क्षिपेदगन्धकजं रजः । विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे
विनिःक्षिपेत् । तथा वस्त्राद्विनिःसार्य्य दुग्धमध्येऽस्विलं
क्षिपेत् । एवं स गन्धकः शुध्येत् सर्वकर्मोचितो भवेत् ।”
गन्धेन कायति कै--क । इति व्युत्पत्तिरित्यन्ये ।

गन्धकचूर्ण पु० गन्धकप्रधानश्चूर्णः । (वारुद) इति ख्याते

पदार्थे शब्दार्थचि० ।

गन्धकन्द पु० गन्धप्रधानः कन्दोऽस्य । कसेरुवृक्षे वैद्य० ।

गन्धकारिका स्त्री गन्धं गन्धप्रधानं वेशादिकं करोति

कृ--ण्वुल् कापि अत इत्त्वम् । परवेश्मस्थायां स्ववशायां
वशादिकारिकायाम् १ सैरन्ध्र्यां हला० ।

गन्धकाली स्त्री प्रशस्तः गन्धस्तस्मै अलति पर्य्याप्नोति

अल--अच् गोरा० ङीष् । सत्यवत्यां व्यास-
मातरि । “भीष्मः खलु पितुः प्रियचिकीर्षया सत्य-
वतीं मातरमुदवाहयत् यामाहुर्गन्धकालीमिति तस्यां
पूर्वं कानीनो गर्भः पराशरात् द्वैपायनोऽभवत् ।
तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः विचित्रवीर्य्य-
श्चित्राङ्गदश्च” भा० आ० ९१५ अ० । “अद्य त्वं जननीं
भीष्म! गन्धकालीं यशस्विनीम्” भा० हरि० २० अ० ।
गन्धवतीशब्दे दृश्यम् । स्वार्थे क । गन्धकालिकाऽप्यत्र
हेमच० ।

गन्धकाष्ठ न० गन्धयुक्तं काष्ठमस्य । १ अकुरुचन्दने त्रिका० । २ शम्बरचन्दने राजनि० ।

गन्धकुटी स्त्री गन्धस्य कुटीवाधारः । १ मुरानामगन्धद्रव्ये ।

अमरः ।

गन्धकुसुमा स्त्री गन्धयुक्तं कुसुमं यस्याः । (गणियारी)

गणिकारीवृक्षे राजनि० ।

गन्धकेलिका स्त्री गन्धं केलति गच्छति केल--ण्वुल् कापि

अत इत्त्वम् । १ कुस्तूर्य्यां मृगमदे राजनि० । गन्धप्रधान-
त्वात्तस्यास्तथात्वम् ।

गन्धकोकिला स्त्री गन्धप्रधाना कोकिलेव कृष्णत्वात् ।

“तीक्ष्णोष्णा कफहृत् तिक्ता सुगन्धा गन्धकोकिला”
भावप्र० उक्तगुणके लतौषधिभेदे ।

गन्धखेड़(ल)(क) न० गन्धस्य खेला यत्र वा कप् डलयो-

रेकत्वात् । (वेणा) गन्धवति १ भूतृणे रत्नमा० । कबन्तः
तत्रार्थे न० शब्दरत्नावली ।

गन्धचेलिका स्त्री गन्धं चेलति गच्छति चेल--ण्वुल् कापि

अत इत्त्वम् । १ कुस्तूर्य्यां मृगमदे त्रिका० ।

गन्धजटिला स्त्री गन्धेन जटिला । १ वचायां(वच)रत्नमा० ।

गन्धजल न० गन्धाढ्यद्रव्यवासितं जलं शा० त० । गन्धाढ्य

कुसुमादिपुष्पवासितजले “सिक्तां गन्धजलैरुप्तां
फलपुष्पाक्षताङ्कुरैः” भाग० १ । १ । २ । १३ ।

गन्धजात न० गन्धो व्यञ्जनादौ जातो यस्मात् निष्ठान्ता-

न्तत्वात् परनि० । (तेजपात) १ तेजपत्रे शब्दरत्ना० ।
६ त० । २ गन्धद्रव्यसंघे न० ।

गन्धज्ञा स्त्री गन्धं जानाति रसज्ञेत्यत्रेव करणस्य कर्त्तृत्वो-

पचारात् ज्ञा--कर्त्तरि क । १ नासिकायाम् हेमच० ।

गन्धतण्डुल पु० गन्धप्रधानं तण्डुलमस्य । (वासमति)

१ शालिभेदे राजनि० ।

गन्धतन्मात्र न० सांख्यमतप्रसिद्धे शान्तघोरादिविशेषशून्य-

गन्धमात्रगुणके स्थूलपृथिव्यारम्भके सूक्ष्मपार्थिवांशे
यथाह “स्थूलात् पञ्चतन्मात्रस्य” सा० प्र० सूत्रभाष्ये
“तन्मात्राणि च यज्जातीयेषु शान्तादिविशेषत्रयं न
तिष्ठति तज्जातीयानां शब्दस्पर्शरूपरसगन्धानामाधार-
भूतानि सूक्ष्मद्रव्याणि स्थूलानां हेतवोऽविशेषाः “तस्मिं-
स्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता स्मृता । न शान्ता
नापि घोरास्ते न मूढाश्चाविशेषिणः” इति विष्णुपुरा-
दिभ्यः । अस्यायमर्थः तेषु तेषु भूतेषु तन्मात्रास्तिष्ठन्तीति
कृत्वा धर्मधर्म्यभेदाद्द्रव्याणामपि तन्मात्रता स्मृता । ते
च पदार्थाः शान्तघोरमूढाख्यैः स्थूलशब्दादिगतविशेषैः
शून्या एकरूपत्वात् । तथा च शान्तादिविशेषशून्यशब्दा-
दिमत्त्वमेव भूतानां शब्दादितन्मात्रत्वमित्याशयः ।
अतोऽविशेषिणोऽविशेषसंज्ञिता इति शान्तं सुखात्मकं
घोरं दुःखात्मकं मूढं मोहात्मकम् । तन्मात्राणि च
देवादिमात्रभोग्यानि केवलं सुखाधिक्यादिति”
पृष्ठ २५२४

गन्धतूर्य्य न० गन्धे हिंसास्थाने रणे तूर्य्यम् । १ रणवाद्यभेदे शब्दर० ।

गन्धतृण न० गन्धप्रधानं तृणं शा० त० । सुगन्धयुक्ते भूतृणे

सुरसे मुखरागे तृणभेदे (वेणा) राजनि० । “ईषत्तिक्तं
गन्धतृणं स्निग्धं चैव रसायनम् । सुगन्धि मधुरं शीतं
कफपित्तश्रमापहम्” इति तत्र तद्गुणा उक्ताः ।

गन्धतैल न० गन्धयुक्तस्य चन्दनस्याग्निसंयोगेन जनितं

तैलम् शा० त० । यन्त्रपाकेण जनिते तैलभेदे ।
(चन्दनीआतर) १ प्रभृतौ । “प्रदीपैः काञ्चनैस्तत्र गन्ध-
तैलावसेचितैः” भा० भी० ९८ अ० । सुश्रुतोक्ते २ पक्वतैलभेदे
च तत्पाकप्रकारस्तत्रोक्तो यथा
“रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले ।
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् । त्रिरात्रं
सप्तरात्रं वा भावयेन्मधुकाम्बुना । ततः क्षीरे पुनः
पीतान्सुशुष्कांश्चूर्णयेद्भिषक् । काकल्यादिं सयष्ट्याह्वं
मञ्जिष्ठां सारिवां तथा । कुष्ठं सर्ज्जरसं मांसीं सुरदारु
सचन्दनम् । शतपुष्पाञ्च सञ्चूर्ण्य तिलचूर्णेन योजयेत् ।
पीडनार्थञ्च कर्त्तव्यं सर्वगन्धशृतं पयः । चतुर्गुणेन
पयसा तत्तैलं विपचेद्भिषक् । एलामंशुमतीं पत्रं जीरकं
तगरं । लोध्रं प्रपौण्डरीकञ्च तथा कालानुसा-
रिणम् । सौरेयकं क्षीरशुक्लामनन्तां समधूलिकाम् ।
पिष्ट्वा शृङ्गाटकञ्चैव पूर्ब्बोक्तान्यौषधानि च । एभिस्तद्वि-
पचेत्तैलं शास्त्रविन्मृदुनाग्निना । एतत्तैलं सदा पथ्यं
भग्नानां सर्वकर्म्मसु । आक्षेपके पक्षघाते तालुशोषे
तथाऽर्द्दिते । मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ।
बाधिर्य्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः । पथ्यं
पाने तथाभ्यङ्गे नस्ये वस्तिषु भोजने । ग्रीवास्कन्धोरसां
वृद्धिरमुनैवोपजायते । मुखञ्च पद्मप्रतिभं सुसुगन्धिसमी-
रणम् । गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् । राजा-
र्हमेतत्कर्त्तव्यं राज्ञामेव विचक्षणैः ।”

गन्धत्वच न० गन्धप्रधाना त्वक् यस्य । १ एलवालुके राजनि०

गन्धदला स्त्री गन्धयुक्तं दलं यस्याः । १ अजमोदायाम् राजनि०

गन्धदारु न० गन्धप्रधानं दारु । चन्दने मलयजे हेमच० ।

तस्य दारुण्येव गन्धसत्त्वात्तथात्वम् ।

गन्धद्रव्य न० गन्धप्रधानं द्रव्यम । १ नागकेशरे त्रिका० । २ गन्धाढ्यद्रव्यमात्रे च

गन्धद्विप पु० गन्धप्रधानो मदगन्धाढ्यः द्विपः । मदगन्धाढ्यं

हस्तिनि गन्धद्विपे वन्य इव द्विरेफाः” “रणो गन्ध-
द्विपस्येव गन्धभिन्नान्यदन्तिनः” रघुः । “गन्धद्विपस्येव
मतङ्गजौघः” किरा० । गन्धगजादयोऽप्यत्र ।

गन्धधारिन् त्रि० गन्धं गन्धयुक्तं द्रव्यं धारयति धारि-

णिनि । १ गन्धद्रव्यधारिणि स्त्रियां ङीप् । २ महादेवे
पु० । “अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि” भा०
अनु० १७ अ० । शिवनामोक्तौ ।

गन्धधूमज पु० गन्धस्य गन्धाट्यस्य धूमात् जायते जन--ड ।

स्वादुनामगन्धद्रव्ये राजनि० ।

गन्धधूलि स्त्री गन्धाय धूलिश्चूर्ण्णोऽस्याः । कस्तूर्य्यां हेमच० ।

गन्धन न० गन्ध--अर्द्दने भावकरणादौ ल्युट् । १ उत्माहे

२ प्रकाशने ३ हिंसायाम् ४ सूचने च मेदि० ।
५ तृणभेदे (गन्धतृणे) शब्दार्थचि० । “गन्धनावक्षेपणे-
त्यादि” पा० । “वा गतिगन्धनयोरिति धातुः” ।
वातपदव्युत्पत्तौ सुश्रुतः “गन्धनाङ्गे” सि० कौ० ।

गन्धनकुल पु० गन्धेन लेशेन नकुलतुल्याकृतित्वात्, दुर्गगन्ध-

प्रधानो वा नकुलः । (छुचो) छुछुन्दर्य्यां जन्तुभेदे हारा० ।

गन्धनाकुली स्त्री गन्धान्विता नाकुली रास्ना । रास्नाभेदे

अमरः । “नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ।
नकुलेष्टा भुजाङ्गाक्षी सर्पाङ्गी विषनाशिनी । नाकुली
तुवरा तिक्ता कटुकोष्णा विनाशयेत् । भोगिलूतावृश्चि
काखुविषज्वरक्रिमिव्रणान्” भावप्र० ।

गन्धनामन् पु० गन्धेति पदयुक्तं नामास्य । १ रक्ततुलस्याम्

रत्नमा० २ रोगभेदे स्त्रा ङीप् । तल्लक्षणमुक्तं भावप्र० यथा
“बाहुकक्षांसपार्श्वेषु कृष्णस्फोटां सवेदनाम् । पित्त-
प्रकोपसम्भूतां कक्षामिति विनिर्दिशेत् । एतान्तु तादृशीं
दृष्ट्वा पिडकां स्फोटसन्निभाम् । त्वग्जातां पित्तकोपेन
गन्धनाम्नीं प्रचक्षते । तादृशीं बाह्वादिषु कृष्णां सवेदनाञ्च”

गन्धनाली स्ती गन्धस्य गन्धज्ञानस्य नालीव । नामिका-

याम् त्रिका० । स्वार्थे क ह्रस्वः । गन्धनालिका तत्रार्थे ।

गन्धनिलया स्त्री गन्धस्य निलयो वासो यत्र । नवमाल्लका-

याम् शब्दच० ।

गन्धनिशा स्त्री० गन्धेन निशा हरिद्रेव । गन्धपत्रायां शठीभेदे राजनि० ।

गन्धप पु० गन्धं पिबति गन्धेनैव तृप्यति पा--क । १ देवभेदे

आभासुरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोवि-
रुद्धाः” भा० अनु० १८ अ० नानादेवानां शिवरूपतोक्तौ ।

गन्धपत्र पु० गन्धयुक्तं पत्रमस्य । १ श्वततुलस्यां रत्नमा० ।

२ मरुवके ३ वर्वरे ४ नागरङ्गे ५ विल्वे च राजनि० । ५ शटीभेदे
स्त्री टाप् “गन्धपत्रा कटुः स्वादुस्तीक्ष्णोष्णा कफ-
पृष्ठ २५२५
पातहृत् । कासच्छर्दिज्वरान् हन्ति पित्तकोपकरी
तथा” राजनि० । गौरा० ङीष् । ६ अश्वगन्धायाम् ७ अम्ब-
ष्ठायाम् ८ अजमोदायाञ्च राजनि० । ततः स्वार्थे क । गन्ध-
पत्रिका अश्वगन्धादिषु राजनि० ।

गन्धपलाशिका स्त्री गन्धयुतं पलाशमस्याः कप् अत

इत्त्वम् । हरिद्रायां हारा० ।

गन्धपलाशी स्त्री गन्धयुक्तं पलाशं यस्या ङीप् । शठ्याम् भावप्र० ।

गन्धपाषाण पु० गन्धयुक्तः पाषाण इव कठिनत्वान् । गन्ध-

के उपधातुभेदे जटाटरः ।

गन्धपिशाचिका स्त्री गन्धेन पिशाच इव ऊर्द्ध्वगतित्वात् । धूपे हेमच० ।

गन्धपीता स्त्री गन्धयुक्तं पीतं पत्रं यस्याः । १ शटीभेदे

गन्धपत्रायाम् राजगि० ।

गन्धपुष्प पु० गन्धयुक्तं पुष्पमस्य । १ वेतसवृक्षे शब्दच० ।

२ अङ्कोटकवृक्षे जटाध० ३ बहुवारवृक्षे राजनि० । ४ नील्यां
५ केतकीवृक्षे ६ गणिकारीवृक्षे च स्त्री टाप् राजनि० ।
७ पुष्पवति गन्धयुक्तवृक्षमात्रे त्रि० । गन्धसहितं पुष्पम्
शा० त० । ८ गन्धसहितपुष्पे न० “गन्धपुष्पैरलङ्कृतम्”
रामा० २१ अ० । द्वन्द्वः । ९ गन्धपुष्पयोः द्विव० । “अभावे गन्ध-
पुष्पाभ्यां केवलेन जलेन वा” आ० त० ।

गन्धफणिज्झक पु० गन्धपधानः फणिज्झकः । रक्ततुलसी वृक्षे रत्नमा० ।

गन्धफल पु० गन्धयुक्तं फलं यस्य । १ कपित्थे २ विल्वे ३ तेज

फलवृक्षे राजनि० । ४ प्रियङ्गुवृक्षे स्त्री टाप् शब्दरत्ना० ।
५ मेथिकायां ६ विदार्य्यां ७ शल्लक्याञ्च स्त्री टाप् राजनि० ।
८ चम्पककलिकायां ९ प्रियङ्गुवृक्षे च स्त्री अमरः गौरा०
ङीष् । ९ आमोदयुक्तफलवति वृक्षमात्रे त्रि० ।

गन्धबणिज् पु० गन्धस्य आमोदिद्रव्यस्य बणिक् । (गन्धवेणे)

सङ्कोर्णजातिभेदे “अम्बष्ठात् राजपुत्र्याञ्च जाक्ते गन्धबणिक्
स्मृतः” ब्रह्मवै० । नवशाखशब्दे विवृतिः । णिक्शब्दस्य
वर्ग्यादित्वात् शब्दकल्पद्रुमे तन्मूलतया ब्दस्तोमे च
अयथास्थाने लिखनं प्रामादिकभ् ।

गन्धबन्धु पु० गन्धं बध्नाति बन्ध--उण् । पाम्रवृक्ष शब्दर०

गन्धबहुला स्त्री गन्धोबहुलोऽत्र । १ गोरक्षोवृक्षे राजनि० ।

गन्धभद्रा स्त्री गन्धेन लेशमात्रसेवनेन भद्रं पस्याः ५ ब० ।

(गन्धभादाल) लताभेदे शब्दच० ।

गन्धभाण्ड पु० गन्धस्य भाण्ड इव । (गन्धभादाल) लताभेदे शब्दर० ।

गन्धमांसी स्त्री गन्धप्रधाना मांसी । जटामांसीभदे राजनि०

गन्धमातृ स्त्री गन्धस्य मातेव उत्पादकत्वात् । क्षितौ हेमच०

“तत्र क्षितिर्गन्धहेतुः” इत्य क्तेस्तस्य दुत् दकत्वम् ।

गन्धमाद पु० १ रामसैन्यस्थवानरभेदे । “सुग्रीवलक्ष्म-

णमरुत्सुतगन्धप्तादनीलर्क्षपाङ्गदनलादिभिरन्वितोऽगात्”
भाग० ९ । १० । १९ । “गान्धिन्यास्तु शफल्कतः” अक्रूर-
प्रमुखा आसन्” इत्युपक्रमे “शत्रुघ्नो गन्धमाद-
श्चेति” भाग० ९ । १४ । ९० । उक्ते २ अक्रूरभ्रातरि च ।

गन्धमादन पुंन० गन्धन मादयति मादि--ल्यु । १ पर्वतभेदे

स च पर्वतः रोमकपत्तनात् उदक्, नीलनिषधपर्य्यन्तदीर्घः
तस्य जलधेश्च मध्ये केतुमासं वर्षम् । एवं निषधनील-
माल्यवद्गन्धमादनैरावृतमिलावृतं नवमं वर्षम् मूलवा-
क्यमिलावृतशब्दे ९८५ पृ० दृश्यम् । “गन्धमादन-
शृङ्गेषु पुरुथः सह राक्षसैः” । “गन्धमादनपार्श्वे तु
परेत्वपरगण्डिकाः” भा० भी० ६ अ० । “ततः
किंपुरुषावासं सिद्धचारणसेवितम् । ददृशुर्हृष्टरोमाणः
पर्वतं गन्धमादनम्” भा० व० १५८ अ० । “तथैवा-
परेण पूर्वेण च माल्यवद्गन्धमादनौ नीलनिषध
यतौ” भाग० ५ । १६ । १०२ । एवं सर्वत्र पुंस्त्वम् क्वचित्
क्लीवत्वमपि । “यस्य चोपवनं बाह्यं गन्धवत् गन्धमादनम्”
कुमा० । “अत्र गन्धवत्गन्धमादनम्” इति आगन्तुकः
पाठः । प्राचीनपाठस्तु “सुगन्धिर्गन्धमादनः” इति
पुंलिङ्गान्तः । अतएव क्षीरस्वामिना “गन्धमादनमन्ये
चेत्यत्र गन्धेत मादयतोति गन्धमादनः” इति व्याख्याय
प्रयोगे च पुंलिङ्गता दृश्यत इत्याशयेनोक्तं “सुगन्धि-
र्गन्धमादन इति” कालिदासः इति” मल्लिना० ।
स च मेरोर्दक्षिणस्थविष्कम्भरूपः यथाह विष्णुपु०
“इलावृतमनुक्रम्य “चत्वार उपपर्वताः” । “विष्कम्भा
रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो
नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे भागे
सुपार्श्वश्चोत्तरे स्मृतः” । तत्र च केतुवृक्षो जम्बुः ।
यथाह तत्रैव “कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च”
तत्र वनं नन्दनं, चैत्ररथं, गन्धमादनाख्यं, वा कल्पभेदात्
व्यवस्थितं तत्र विष्णुपु०० “वतं चैत्ररथं पूर्वं दक्षिणे गन्ध-
मादनम् । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्”
इत्युक्तेः गन्धमादनाख्यवनवत्त्वं तस्य । “तान् विष्कम्भान्
गिरीचुपक्रम्य” भाग० ५ । १६ । देवोद्यानानि च भवन्ति
चत्वारि नन्दनं चैत्ररथं वेभ्राजकं सर्वतोभद्रमिति” ।
चैत्ररथनवक्तोक्ता । सि० शि० “वनं तथा चैत्ररथं विचित्रं
तेप्वप्सरीनन्दननन्दनञ्च । धृत्याह्वयं यद्धृतिकृत् सुराणां
भ्राजष्णुवैभ्राजमिति प्रसिद्धम्” इत्युक्तेर्नन्दनवनवत्त्वम् ।
पृष्ठ २५२६
“अरुणोदं महाभद्रं ससितोदं समानसम् । सरांस्ये-
तानि चत्वारि देवभोग्यानि सर्वदा” विष्णुपु० उक्ते-
स्तत्र महाभद्रं सरः । “सरांस्यथैतेष्वरुणञ्च मानसम्
महाह्रदं श्वेतजलं यथाक्रममिति” सि० शि० उक्तेस्तत्र
मानसं सरः । सरसां कल्पभेदान्नामभेदः । २ तद्वासिनि
रामसैन्यस्थवानरभेदे च “गन्धमादनवासी च प्रथितो
गन्धमादनः । कोटीशतसहस्राणि हरीणां समकर्षत”
भा० व० २८ अ० । तत्पर्वतस्थे ३ वनभेदे न०
उदाहृतविष्णुपु० वाक्ये दृश्यम् ।

गन्धमादनी स्त्री गन्धेन माद्यतेऽनया मादि + करणे ल्युट्

ङीप् । १ मदिरायां त्रिका० २ वन्दारौ ३ चीड़ानामद्रव्ये
च राजनि० ।

गन्धमादिनी स्त्री गन्धेन मादयति मादि--णिनि ङीप् । १ लाक्षायां २ मुरानामगन्धद्रव्यो च राजनि० ।

गन्धमार्ज्जार पु० गन्धप्रधानः मार्ज्जारः । खट्टासजन्तौ

जटाधरः ।

गन्धमालती स्त्री गन्धेन मालतीव । गन्धकोकिलातुल्यगुणायां लतायाम् भावप्र० ।

गन्धमालिनी स्त्री गन्धमालाऽस्त्यस्या इनि ङीप्

मलसंश्लेषे णिनि वा ६ त० । १ मुरानामगन्धद्रव्ये जटाधरः ।

गन्धमुखा स्त्री गन्धो मुखेऽस्याः । १ छुछुन्दर्य्याम् (छुँचा) ।

शब्दार्थचि० । २ आमोदिमुखवति त्रि० । स्त्रियां स्वाङ्गत्वात्
ङीप् ।

गन्धमुण्ड पु० गन्धं मुण्डयति मुण्ड + तत्कारोति णिच्--अण् । (गन्धभादाल) लताभेदे वैद्यकम् ।

गन्धमूल पु० गन्धप्रधानं मूलं यस्य । १ कुलञ्जनवृक्षे २ शल्लक्यां

३ शट्याञ्च स्त्री टाप् राजनि० । ४ शट्यां स्त्री अमरः जाति-
त्वात् ङीष् । वा कप् कापि अत इत्त्वम् । गन्धमूलिका
१ माकन्द्यां २ शट्याञ्च राजनि० ।

गन्धमूषिक पुंस्त्री० गन्धप्रधानः मूषिकः । छुछुन्दर्य्याम् राजनि० ।

गन्धमूषी स्त्री स्वल्पः मूषः मूषी गन्धप्रधाना मूषी । छुछु-

न्दर्य्यां हेमच० ।

गन्धमृग पु० गन्धप्रधानो मृगः । १ गन्धयोनौ कस्तूरीमृगे । २ खट्वासे च शब्दमा० ।

गन्धमैथुन पु० गन्धेन गन्धघ्राणेन मैथुनं मैथुनारम्भो यस्य ।

वृषे जटाधरः ।

गन्धमोदन पु० गन्धेन मोदयति मुद--णिच्--ल्यु । गन्धके राजनि० ।

गन्धमोहिनी स्त्री गन्धेन मोहयति मुह--णिच्--णिनि

ङीप् । चम्पककलिकायां राजनि० ।

गन्धयुक्ति स्त्री गन्धानां गन्धद्रव्याणां युक्तिर्योजनविशेषः ।

व० स० उक्ते गन्धद्रव्ययोजनप्रकारभेदे । गन्धयुक्तिश्च
सप्रयोजनभेदसहिता तत्र ७७ अ० दर्शिता यथा


“स्रग्गन्धधूपाम्बग्भूषणाद्यं न शोभते शुक्लशिरोरु-
हस्य । यस्मादतो मूर्धजरागसेवां कुर्यात्तथैवाञ्जनभूषणा-
नाम् । लौहे पात्रे तण्डुलान् कोद्रवाणां शुक्ले
पक्वाँल्लोहचूर्णेन साकम् । पिष्टान् सूक्ष्मं मूर्ध्नि शुक्ला-
म्लकेशे दत्त्वा तिष्ठेद्वेष्टयित्वार्कपत्रैः । याते द्वितीये
प्रहरे विहाय दद्याच्छिरस्यामलकप्रलेपम् । सञ्छाद्य पत्रैः
प्रहरद्वयेन प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम् । पश्चा
च्छिरःस्नानसुगन्धितैलैर्लोहाम्लगन्धं शिरसो ऽपनीय ।
हृद्यैश्च गन्धैर्विविधैश्च धूपैरन्तःपुरे राजसुखं निषेवेत् ।
त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः । केसर-
पत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम् । मञ्जिष्ठया
व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः । तैलेन
युक्तोऽर्कमयूखतप्तः करोति तच्चम्पकगन्धि तैलम् ।
तुल्यैः पत्रतुरुष्कबालतगरैर्गन्धः स्मरोद्दीपनः सव्यामो
बकुलो ऽयमेव कटुकाहिङ्गुप्रधूपान्वितः । कुष्ठेनोत्पलग-
न्धिकः समलयोमूर्वा भवेच्चम्पको जातीत्वक्सहितो
ऽतिमुक्तकैति ज्ञेयः स कुस्तुम्बुरुः । शतपुष्पाकुन्दुरुकौ
पादेनार्धेन नखतुरुष्कौ च । मलयप्रियङ्गुभागौ गन्धोधूप्यो
गुडनखेन । गुग्गुलुबालकलाक्षामुस्तानखशर्कराः क्रमा-
द्धूपः । अन्यो मांसीबालकतुरुष्कनखचन्दनैः पिण्डः ।
हरीतकीशङ्खघनद्रवाम्बुभिर्गुडोत्पलैः शैलकमुस्तकान्वितैः ।
नवान्तपादादिविवर्धितैः क्रमाद् भवन्ति धूपा बहवो
मनोहराः । भागैश्चतुर्भिः सितशैलमुस्ताः श्रीसर्जभागौ
नखगुग्गुलू च । कर्पूरबोधो मधुपिण्डितोऽयं
कोपच्छदो नाम नरेन्द्रधूपः । त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन
संयुतैश्चूर्णः । पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ।
घनबालकशैलेयककर्पूरोशीरनागपुष्पाणि । व्याघ्रनखस्पृ-
क्कागुरुदमनकनखतगरधान्यानि । कर्पूरचोरमलयैः
स्वेच्छापरिवर्तितैश्चतुर्भिरतः । एकद्वित्रिचतुर्भिर्भागैर्गन्धा-
र्णवो भवति । अत्युल्बणगन्धत्वाद् एकांशो नित्यमेव
धान्यानाम् । कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर्देयौं ।
श्रीसर्जगुडनखैस्ते धूपयितव्याः क्रमान्न पिण्डस्थैः ।
बोधः कस्तूरिकया देयः कर्पूरसंयुतया । अत्र सहस्र-
चतुष्टयमन्यानि च सप्ततिसहस्राणि । लक्षं शतानि सप्त
विंशतियुक्तानि गन्धानाम् । एकैकमेकभागं द्वित्रिचतुर्भा-
गिकैर्युतं द्रव्यैः । षड्गन्धकरं तद्वद् द्वित्रिचतुर्भागिकं
कुरुते । द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिर्यथैकस्य ।
एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र । षोडशके
पृष्ठ २५२७
द्रव्यगणे चतुर्विकल्पेन भिद्यमानाम् । अष्टादश
जायन्ते शतानि सहितानि विशत्या । षण्णवतिभेदभिन्न-
श्चतुर्विकल्पो गणो यतस्तस्मात् । षण्णवतिगुणः कार्यः
सा सङ्ख्या भवति गन्धानाम् । पूर्वेण पूर्वेण गतेन युक्तं
स्थानं विनान्त्यं प्रबदन्ति सङ्ख्याम् । इच्छाबिकल्पैः
क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः । द्वित्री-
न्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ । विषयाष्टपक्ष-
दहनाः प्रियङ्गुमुस्तारसाः केशः । स्पृक्कात्वक्तगराणां
मांस्याश्च कृतैकसप्तषड्भागाः । सप्तर्तुवेदचन्द्रैर्मलयनख-
श्रीककुन्दुरुकाः । षोडशके कच्छपुटे यथा तथा मिश्रितै-
श्चतुर्द्रव्यैः । येऽत्राष्टादशभागास्तेऽस्मिन् गन्धादयो
योगाः । नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतो-
द्बोधाः । गुडगखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ।
जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः । बहवो
ऽत्र परिजाताश्चतुर्भिरिच्छापरिगृहीतैः । सर्जरसश्रीवा-
सकसमन्विता ये ऽत्र धूपयोगास्तैः । श्रीसर्जरसवियुक्तैः
स्नानानि सबालकत्वग्भिः । लोध्रोशीरलतागुरुमुस्ताप्रिय-
ङ्गुवनपथ्याः । नवकोष्ठोत्कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य ।
चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा । कटु
हिङ्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः । सप्ताह गोमूत्रे
हरीतकीचूर्णसंयुते क्षिप्त्वा । गग्धोदके च भूयो
विनिःक्षिपेद्दन्तकाष्ठानि । एलात्वक्पत्राञ्जनमधुमरिचैर्नाग-
पुष्पकुष्ठैश्च । गन्धाम्भः कर्तव्य कञ्चित्कालं स्थितान्य-
स्मिन् । जातीफलपत्रैलाकर्पूरैः कृतयमैकशिस्विभागैः ।
अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि । वर्ण-
प्रसादं वदनस्य कान्तिं वैशद्यमास्यस्य सुगन्धितां च ।
संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसमुद्भवा-
नाम् । कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमाव-
हति वक्त्रसुगन्धितां च । ऊर्जं करोति कफजांश्च निहन्ति
रोगांस्ताम्बूलमेवमपरांश्च गुणान् करोति । युक्तेन
चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम् । चूर्णा-
धिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम् ।
पत्राधिकं निशि हितं सफलं दिवा च प्रोक्तान्यथाकर-
णमस्य विडम्बनैव । कक्वोलपूगलवलोफलपारिजातैरा-
मोदितं मदमुदामुदितं करोति” “लेख्यमणिरागगन्ध-
युक्तिविदः” वृ० स० ।

गन्धरस पु० गन्धयुक्तो रसोऽस्य । १ वोले । (फुलसत्त्व) ख्याते

उपधातुभेदे । गन्धश्च रसश्च द्व० । २ आमोदरसयोः द्विव० ।
“श्रद्धापूतं गन्धरसोपपन्नम् (अन्नम्)” भ० उ० २६ अ०
“शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च” भा० भी० १२३ अ० ।

गन्धरसाङ्गक पु० गन्धरसौ अङ्गे यस्य कप् । श्रीवेष्टनाख्य-

गन्धद्रव्ये राजनि० ।

गन्धराज पु० गन्धानां गन्धयुक्तानां राजा टच् समा० । १

स्वनामख्याते पुष्पप्रधाने वृक्षे २ मद्गरवृक्षे ३ कणगुग्गुलौ च
राजनि० । गन्धेन राजते राज--अच् । ४ जबादिनाम-
गन्धद्रव्ये पु० ५ गन्धद्रव्यश्रेष्ठे त्रि० ६ चन्दने न० राजनि० ।
७ नखीनामगन्धद्रव्ये स्त्री ङीप् शब्दचन्द्रिका ।

गन्धर्व्व पु० गन्धमामोदमर्वति अर्व--अच् ६ त० शक०,

गाः स्तुतिरूपा गीतिरूपा वा वाचः रश्मीन् वा
धारयति धृ--व गोर्गमादेशो वा । १ घोटके २ मृगभेदे कस्तूरी-
मृगे ३ अन्तराभवसत्त्वे च अमरः । अन्तराभवसत्वस्तु
जन्ममरणयोर्मध्यभवः यातनाशरीरवान्, गुप्तप्राणी
वा । “गन्धर्वाः पतयोमम” भा० वि० १० अ० । सैरिन्ध्रीरूपद्रौ-
पदीवाक्यम् । अन्तराभवसत्तः सत्वान्तरमध्ये आवेश-
कारी सत्वभेद इत्येव युक्तम् । स च सुश्रुते दर्शितो यथा
“अथातोऽमानुषप्रतिषेधीयं व्याख्यास्यामः” इत्युपक्रमे
“देवास्तथा शत्रुगणाश्च तेषां, गन्धर्वयक्षाः पितरो भुजङ्गाः ।
रक्षांसि या चापि पिशाचजातिरेषोऽष्टधा देवगणो
ग्रहाख्यः” इत्यष्टधा विभज्य । “हृष्टात्मा पुलिनवनान्तरो-
पसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः । नृत्यन् वा
प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीड़ितो मनुष्यः”
इति तद्ग्रहाविष्टलक्षणमुक्तम् । “ते पतञ्जलस्य काप्यस्य
गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता” शत० ब्रा०
१४ । ६ । ३ । १ । “गन्धर्वेणामानुषेण गृहीतां आविष्टा”
भा० । ४ एरण्डे भावप्र० “गन्धर्वतैलसिद्धां हरितकीं
गोऽम्बुना पिबेत्” अस्य व्याख्यायां “गन्धर्वतैलमेरण्डतैलम्”
तदुक्तेः तस्य च गन्धर्वरूपमृगभेदपादतुल्यपत्नकत्वात्त-
थात्वम् । ५ गायनमात्रे त्रि० मेदि० । ६ देवगायने देवयोनि-
भेदे पु० अमरः । तत्राश्वे “रथं संयोजयामासुर्गन्धर्वैर्हेम-
मालिभिः” भा० व० १६१ अ० । “गावः रश्मयः वृष्ट्युदकानि
वा धारयति गवि उपपदे धृ--व गेर्गमादेशः इति
ता० ब्रा० भाष्ये माधोवोक्तेः ७ रश्मिधारके सोमा-
दित्यादौ । “गन्धर्वोऽस्य रसनामगृभ्नात्” ऋ० १, १६३, २,
“गन्धर्वः सोमः” भा० । “ऊर्द्ध्वे गन्धर्वो अधिनाके अस्थात्”
ऋ० ९, ८५, १२ । “गन्धर्वो रश्मीनां धारकः” भा० ।
“गन्धर्व इत्था पदमस्य रक्षति” ९, ८३, ४ । “गन्धर्वः उदकानां
पृष्ठ २५२८
स्तुतीनां वा धारक आदित्यः” भा० “शतक्रतुरत्सरत्
गन्धर्वमस्तुतम्” ऋ० ८, १, ११ । “गन्धर्वः गवां रश्मीनां
धर्त्तारं सूर्य्यम्” भा० “दिव्यो गन्धर्वः केतपूः” यजु० ११,
७, “गां वाचं स्तुतिरूपाम् धारयतीति गन्धर्वः सविता”
वेददी० । गायने । “विश्वावसुरसि तन्नोगृणातु दिव्यो
गन्धर्वः” ऋ० १०, १३९, ५ दिव्य इति विशेषणात् गायन
मात्रपरत्वम् । अत एव शब्दार्थचि० “अस्मिन् कल्पे
मनुष्यः सन् पुण्यपाकविशेषतः । गन्धर्वत्वं समापन्नो
मर्त्यगन्धर्व उच्यते । पूर्वकल्पकृतात् पुण्यात् कल्पादावस्य
चेद्भवेत् । गन्धर्वत्वं, तादृशोऽत्र दिव्यगन्धर्व उच्यते”
इति गायनरूपगन्धर्वाभिप्रायेण द्वैविध्यमुक्तम् देवयोनि
गन्धर्वाश्च वह्निपुराणे एकादशविधा उक्ता यथा
“अभ्राजोऽङ्घारिवम्भारी सूर्य्यवर्चास्तथा कृधुः । हस्तः
सुहस्तः स्वाम्येव मूर्द्धवांश्च महामनाः । विश्वावसुः
कृशानुश्च गन्धर्वैकादशोगणः” ।
जटाधरेण तन्नामान्यन्यथोक्तानि यथा “हाहा हूहू-
श्चित्ररथो हंसो विश्वावसुस्तथा । गोमायुस्तुम्बुरु-
र्नन्दिरेवमाद्याश्चते स्मृताः” । देवगन्धर्व्वाश्च द्विविधाः
केचित् मौनेयाः केचित् प्राधेयाश्च तत्र मौनेयाः कश्य-
पपत्न्यां दक्षसुतायां मुनिनामिकायां जाताः षोडश, प्राधे-
याश्च प्राधायां तत्पत्न्यां जाता दश इत्येवं भा० आ० ६५ अ०
उक्ता यथा “भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा ।
गोपतिर्धृतराष्ट्रश्च सूर्य्यवर्च्चाश्च सप्तमः । सत्यवागर्कपर्णश्च
प्रयुतश्चाभिविश्रुतः । भीमश्चित्ररथश्चैव विख्यातः सर्व-
विद्वशी । तथा शालिशिरा राजन् पर्जन्यश्च चतुर्दशः ।
कलिः पञ्चादशस्तेषां नारदश्चैव षोड़शः । इत्येते
देवगन्धर्वा मौनेयाः परिकीर्त्तिताः । अथ प्रभूतान्यन्यानि
कीर्त्तमिष्यामि भारत! । अनवद्यां मनुं वंशामसुरां
मार्गणप्रियाम् । अनूपां सुभगां भासीमिति प्राधा
व्यजायत । सिद्धः पूर्णश्च वर्ही च पूर्णायुश्च महायशाः ।
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सत्तमः । विश्वावसुश्च
भानुश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वाः प्राधेयाः
परिकीर्त्तिताः” स्वारोचिषमन्वन्तरे तु गब्धर्वा
अरिष्ठायाः पुत्राः यथा हरिवं० ३ अ० । “अरिष्टा तु
महासत्वान् गन्धर्वानमितौजसः” इत्युक्त्वा “एष मन्वन्तरे
तात! सर्गः स्वारोचिषे स्मृतः” । जातिपरत्वे स्त्रियां
ङीप् । “नैव देवी न गन्धर्वी न यक्षी न च किन्नरी”
रामा० आर० ८३ अ० । पत्न्यामपि ङीष् “गन्धर्वा गुह्यका
यक्षा विबुधानुचराश्च वे । तथैवाप्सरसः सर्वा राक्षसेषू-
त्तमा गतिः” । “दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्”
मनुः । ८ द्वीपभेदे पु० “भारतस्यास्य वर्षस्य नव भेदान्नि-
शामय । इन्द्रद्वीपकशेरुमाँस्ताम्रवर्णो गभस्त्रिमान् ।
नागद्वीपस्तथा सौम्यः गन्धर्वस्त्वथ वारुणः । अयन्तु
नवमस्तेषां द्वीपः सागरसंवृतः” । गन्धर्वो देवताऽस्य अण् ।
गान्धर्व अस्त्रभेदे “संमोहनं नाम सखे! ममास्त्रं
प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्वमादत्स्व यतः प्रयो-
क्तुर्न चारिहिंसा विजयश्च हस्ते” रघुः । विवाहभेदे च
“गान्धर्वः समयान्मिथः” मनुः ।

गन्धर्वनगर न० अनिष्टसूचके आकाशोत्थिते वृ० सं० उक्ते

१ खपुरे खपुरशब्दे विवृतिः तस्य कालभेदे विपाकः
वृ० स० ९७ अ० उक्तो यथा । “गन्धर्वपुरं मासात् रसवैकृत्यं
हिरण्यविकृतिश्च” । ६ त० । २ गन्धर्वाणां नगरे च । “सरो-
मानसमासाद्य हाटकानभितः प्रभुः । गन्धर्वरक्षितं
देशमजयत् पाण्डवस्ततः । तत्र तित्तिरिकुल्माषान्
मण्डूकाख्यान् । हयोत्तमान् लेभे स करमत्यन्तं
गन्धर्वनगरात्तदा” भा० स० १७ अ० । अर्जुनोत्तरदि-
ग्विजयोक्तौ । गन्धर्वपुरादयो०प्यत्र ।

गन्धर्वबधू स्त्री गन्धर्वस्य बधूरिव प्रियत्वात् । १ शठ्यां २ चीडा-

नामगन्धद्रव्ये च राजनि० ।

गन्धर्वलोक पु० ६ त० । गुह्यकलोकोपरिस्थे विद्याधरलोकस्या-

धानिविष्टे स्थाने । तत्स्थानकथा तत्प्राप्तिपुण्यानि च
गुह्यकलोकोक्त्यनन्तरं काशीख० दर्शितानि यथा ।
“गान्धर्व्वस्त्वेष लोकोऽमी गन्धर्वाश्च शुभप्रदाः ।
देवानां गायनाह्येते चारणाः स्तुतिपाठकाः ।
गीतज्ञा अभिगीतेन तोषयन्ति नराधिपान् । स्तुवन्ति
च धनाद्यांश्च धनलोभेन माहिताः । राज्ञां प्रसादल-
ब्ध्वानि सुवासांसि धनान्यपि । द्रव्याण्यपि सुगन्धीनि
कर्पूरादीन्यनेकशः । व्राह्मणेभ्यः प्रयच्छन्ति गीतिं
गायन्त्यहर्निशम् । स्तुतावेव मनस्तेषां नाट्यशास्त्रे
कृतश्रमाः । तेन पुण्येन गन्धर्वलोकस्तेषा विशिष्यते ।
ब्राह्मणास्तोषिता यद्वै गीतिविद्यार्जितैर्धनैः । गीत
विद्याप्रभावेन देवर्षिर्नारदो महान् । मान्यो वैष्णव
लोके वै श्रीशम्भोश्चातिवल्लभः । तुम्बुरुनारदश्चीभौ
देवानामपि दुर्ल्लभौ । नादरूपी शिवः साक्षान्नादविद्या-
विदां हितः । यदि गीतं क्वचिद्गातं श्रीमद्धरिहरा-
त्मकम् । मोक्षन्तु तत्फलं प्राहुः सान्निध्यमथ वा तयोः ।
पृष्ठ २५२९
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् । रुद्रस्यानुच
रोभूत्वा तेनैव सह मोदते । अस्मिल्ल्ॐके सदा कालं स्मृ-
तिरेषा प्रगीयते । तद्गीतमालया पूज्यौ देवौ हरिहरौ
सदा । इति शृण्वन् क्षणात् प्राप पुरमन्यन्मनोहरम् ।
शिवशर्माथ पप्रच्छ किंसंज्ञं नगरन्त्विदम् । गणाबूचतुः ।
असौ विद्याधरो लोको नानाविद्याविशारदाः ।”

गन्धर्वविद्या स्त्री ६ त० । सङ्गीतविद्यायाम् ।

गन्धर्ववेद पु० ६ त० । सामवेदस्योपवेदे सङ्गीतमूलग्रन्थे उपवेदशब्दे दृश्यः ।

गन्धर्वहस्त पु० गन्धर्वस्य मृगभेदस्य हस्तः पाद इव पत्रमस्य ।

एरण्डवृक्ष हारा० । कप् । तत्रार्थे अमरः । सुश्रुतेन
तत्पत्राल्लवणात्पत्तिरमिहिता यथा “गन्धर्वहस्तकमुष्क-
कनक्तमालाटरूषकपूतीकारग्बधचित्रपदीनां पत्राण्या-
र्द्राणि लवणेन सहोदूखलेऽनुवद्य स्नेहघटे प्रक्षिप्यावलिप्य
गोशकृद्भिर्द्दाहयेदेतत्पत्रलवणमुपदिशन्ति वातरोगेषु” ।

गन्धलता स्त्री गन्धान्विता लता । प्रियङ्गौ शब्दार्थचि० ।

गन्धलोलुप त्रि० ७ त० । गन्धलोभातिशयवत्यां मधुमक्षिकायां

शब्दर० ।

गन्धवत् त्रि० गन्धो विद्यतेऽस्य मतुप् मस्य वः । १ गन्धयुक्ते

“गन्धवद्रुधिरचन्दनोक्षिता” रघुः । स्त्रियां ङीप् । सा
च २ पृथिव्याम् मत्स्यगन्धायां सत्यवत्याम् ३ व्यासमातरि
तस्यास्तन्नामत्वप्राप्तिः भा० भी० ६२ अ० उक्ता यथा
“एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ।
सचास्यै भगवान् प्रादान् मनसः काङ्क्षितं भुवि । ततोलब्ध-
वरा प्रीता स्त्रीभावगुणभूषिता । जगाम सह संसर्गमृ-
षिणाऽद्भुतकर्मणा । तेन गन्धवतीत्येवं नामास्याः प्रथितं
भुवि । तस्यास्तु योजनाद्गन्धमाजिघ्रन् यन्नरा भुवि ।
तस्या योजनगन्धेति ततो नामापरं स्मृतम् । इति
सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् । पराशरेण संयुक्ता
सद्यो गर्भं सुषाव सा । जज्ञे च यमुनाद्वीसे पाराशर्य्यः
स वीर्य्यवान् ।”
४ सुरायां मेदि० ५ नवमल्लिकायां रत्नमा० ६ मुरानाम-
गन्धद्रव्ये जटा० । ७ वायुपुर्य्याञ्च यथाह मृगेन्द्रसंहिता
यथा “वायोर्गन्धवतीं तुङ्गश्वेतपीतध्वजां शृणु । बलवद्
भूतसंजुष्टां सर्वरत्नविनिर्मिताम्” । काशीख० १३ अ० । “इमां
गन्धवतीं रम्यां पुरीं वायोर्विलोकय । वारुण्या उत्तरे
भागे महाभाग्यनिधे! द्विज ।” इति गन्धवतीपुर्य्याः
स्वरूपं ते निरूपितम् । तस्याः प्राच्यां कुवेरस्य भ्राज-
थ्येषालका पुरी” । तदुत्तराध्याये । मेदिनिकोषे “अथ
गन्धवती पृथ्वी पुरीभिद्व्यासमातरीति” पुरीभेदार्थकता-
मात्रोक्तेः शब्दकल्पद्रुमे तन्मूलकशब्दस्तोमे च वरुण
पुरीपरत्वकथनं प्रामादिकमेव । वरुणपुर्य्यास्तु निम्नो-
चनीति नाम यथोक्तं भाग० ५ । २० । १० । यथा
“तस्मिन्नैन्द्रीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो
याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं
नाम उत्तरतः सौम्यां विभावरीं नाम”

गन्धवल्कल न० गन्धो वल्कलेऽस्य । (दारचिनि) त्वचे ।

राजनि० ।

गन्धवल्लरी स्त्री गन्धान्विता वल्लरी । सहदेवीलतायाम् गन्धबल्लीत्यप्यत्र राजनि० ।

गन्धवह पु० गन्धं वहति वह--अच् ६ त० । १ वायौ अमरः

“आघ्रायि वान् गन्धवहः सुगन्धः” भट्टिः “दिग्-
दक्षिणा गन्धवहं मुखेन” कुमा० । २ गन्धयुक्ते
नायकभेदे पु० । “नबालता गन्धवहेन चुम्बिता” नैष० ।
अत्र नायिकापक्षे गन्धवहशब्दस्य नायकभेदपरत्वम् ।
३ गन्धधारिमात्रे त्रि० । “आकाशात्तु विकुर्वाणात्
सर्वगन्धवहः शुचिः । वलवान् जायते वायुः स वै
स्पर्शगुणो मतः” मनुः । “वायुर्गन्धबहः” भाग०
२ । १० । २० । ४ नासिकायां स्त्री अमरः ।

गन्धवहल गन्धं वहति वह--बा० अलच् गन्धो वहलोऽस्य

वा । १ सितार्जकवृक्षे २ श्वेततुलस्याञ्च राजनि० ।

गन्धवारि न० गन्धद्रव्यवासितं वारि । सुगन्धिद्रव्यवासिते जले ।

गन्धवाह पु० गन्ध वहति वह--अण् उप० स० । १ वायौ ।

अमरः । “प्रसरदसमवाणप्राणवद्गन्धवाहः” गीतगो० ।
२ कस्तूरीभृगे हेमच० । ३ नासिकायां स्त्री ङीप् हेमच०

गन्धविह्वल पु० गन्धेन विह्वलयति वि + ह्वल--णिच्--अच् ।

गोघूमे शब्दच० ।

गन्धवीजा स्त्री स्त्री गन्धो वीजे यस्याः । मेथिकायाम् राजनि०

गन्धवृक्षक पु० गन्धप्रधानो वृक्षः संज्ञायां कन् । १ सालवृक्षं

राजनि० ।

गन्धव्याकुल पुंन० गन्धेन व्याकुलयति वि + आ + कुल--णिच् अच् । १ कक्कोले । शब्दच०

गन्धशटी स्त्री गन्धप्रधाना शटी शा० त० । शठ्याम् शब्दच०

गन्धशाक न० गन्धप्रधानं शाकम् शा० त० । गौरसुवर्णशाके

राजनि० ।

गन्धशालि पु० गन्धप्रघानः शालिः । आमोदवति घान्यभेदे

(वासमती) प्रसिद्धे सुगन्धके शालौ । “गन्धशालिः
सुमधुरो वृष्यः पित्तश्रमप्रणुत् स्नायुविदाहशमन
स्तन्यगर्भस्थिरत्वकृत् । ईषद्वातप्रशमनः स्वल्पकफबल-
प्रदः” राजनिघण्टौ तद्गुणाः सभासेन दर्शिताः ।
पृष्ठ २५३०

गन्धशुण्डिनी स्त्री गन्धयुक्तः शुण्डो मुखमस्त्यस्याः इनि

ङीप्! छुछुन्दर्य्यां राजनि० ।

गन्धशेखर पु० गन्धः शेखरेऽस्य । कस्तूर्य्यां मृगमदे

हारा० ।

गन्धसार पु० गन्धयुक्तः सारो यस्य । चन्दनवृक्षे अमरः । गन्धशब्दे उदा० ।

गन्धसारण पु० गन्धं सारयति सृ--णिच्--ल्यु । १ वृहन्न-

खीनामगन्धद्रव्ये रत्नमा० । २ मुद्गरवृक्षे राजनि० ।

गन्धसोम न० गन्धार्थं सोमो विधुर्यस्य । १ कुमुदे हारा०

चन्द्रोदये हि तस्य गन्धः ।

गन्धहारिका स्त्री गन्धं हरति हृ--ण्वुल् टाप् कापि अत

इत्त्वम् । परगृहस्थायां गन्धाढ्यवेशकारिकायां स्त्रियाम्
शब्दमाला ।

गन्धा स्त्री गन्ध--णिच् अच्, गन्ध + अस्त्यस्य अच् वा ।

आमोदहेतौ चम्पककलिकायाम् शब्दरत्ना० । २ शट्याम् राजनि०
३ शालपर्ण्यां भरतः । ४ आमोदयुक्तायां स्त्रियाञ्च ।

गन्धाखु स्त्री गन्धयुक्त आखुः । छुछुन्दर्य्याम् (छुचा) । हारा० ।

गन्धाजीव पु० गन्धेन गन्धद्रव्येणाजीवति आ + जीव--अच् ।

(गन्धवेणे) गन्धबणिजि जटाधरः ।

गन्धाढ्य न० गन्धेनाढ्यः । १ जवादिनामगन्धद्रव्ये २ चन्दने च

राजनि० ३ नारङ्गवृक्षे पु० राजनि० । ४ गन्धपत्रायां
(गन्धभादाल) ५ स्वर्णयूथ्यां ६ तरुण्याम् ७ आरामशीतला-
याञ्च स्त्री राजनि० ८ गन्धोल्याञ्च स्त्री शब्दच० । ९ गन्धयुक्ते
त्रि० । “वनस्पतिरसो दिव्यो गन्धाद्यः सुमनोहरः”
धूपदानमन्त्रः ।

गन्धाधिक न० गन्धोऽधिकोऽत्र । तृणकुङ्कुमे राजनि०

गन्धाम्ला स्त्री गन्धयुक्तः अम्लो रसो यस्याः । वनवीजपूरके राजनि०

गन्धार पु० ब० व० गन्धमृच्छन्ति ऋ--अण् उप० स० १ देशभेदे

“कश्मीराः सिन्धुसौबीरा गन्धारादर्शकास्तथा” भा० भी० ९ अ०
नानाजनपदोक्तौ । “पण्डितो मेधावी गन्धारानेवोप-
सम्पद्यते” छा० उप० । “गन्धारराजपुत्रोऽभूच्छकुनिः
सौबलस्तथा” भा० आ० ६३० । २ तन्नृपेषु ब० व० । ततो
भवार्थादौ कच्छादि० अण् । गान्धार तद्देशभवे त्रि०
स्त्रियां ङीप् । गान्धारी सा च शकुनिदुर्य्योधनमातरि ।
गन्धाराः अभिजनोऽस्य सिन्ध्वा० गन्धार--अण् । गान्धार-
पित्रादिक्रमेण गन्धारदेशवासिनि त्रि० ।

गन्धारि पु० गन्धम् ऋच्छति ऋ--इन् ६ त० । गन्धारदेशे ।

“मर्वाहमत्यबोध्य गान्धारीणामिवाविका” ऋ० १ । १२६ ।
गन्धं लेशरूपं गर्भमृच्छति अण् गौरा० ङीष् । १ गन्धारी
गर्भवत्याञ्च उक्तमन्त्रभाष्ये माधव आहस्म “रोमशत्वे
दृष्टान्तः गन्धारीणामविकेव । गन्धारा देशाः । तेषां सम्ब-
न्धिन्य विजातिरिव तद्देशस्था अवयो मेषा यथा रोमशाः
तथाहमस्मि । यद्वा गन्धारीणां गर्भधारिणीनां स्त्री-
णामविकात्यर्थं तर्पयन्ती योनिरिव । तासामाप्रसवं
रोमादिविकर्त्तनस्य शास्त्रे निषिद्धत्वाद्योनी रोमशा भवति
अतः सोपमीयते”

गन्धाला स्त्री गन्धायालति पर्य्याप्नोति अल--अच् । (जियति) लतायां शब्दच० ।

गन्धाली स्त्री गन्धमलति पर्य्याप्नोति अल--अण् गौरा० ङीष् ।

(गन्धभादाल) लताभेदे अमरः । ६ त० । गन्धश्रेणौ च ।

गन्धालीगर्भ स्त्री गन्धाली नन्धश्रेणी गर्भे यस्याः ।

सूक्ष्मैलायाम् राजनि० ।

गन्धाश्मन् पु० गन्धयुक्तोऽश्मा शा० त० । गन्धके अमरः ।

गन्धाष्टक न० गन्धानां गन्धद्रव्याणामष्टकम् । चन्दनाद्य-

ष्टसु आमोदाढ्यद्रव्येषु ।
देवताभेदेन देयाष्टप्रकारगन्धद्रव्यभेदा यथा “चन्दनागुरु-
कर्पूरचोरकुङ्कुमरोचनाः । जटामांसी कपियुता शक्ते
र्गन्धाष्टकं विदुः । चन्दनागुरुह्रीवेरकुष्ठकुङ्कुमसेव्यकाः ।
जटामांसीमुरमिति विष्णोर्गन्धाष्टकं विदुः । चन्दना
गुरुकर्पूरतमालदलकुङ्कुमम् । कुसीदं कुष्ठसंयुक्तं शैवं
गन्धाष्टकं शुभम् । स्वरूपं चन्दनं चोररोचनागुरुरेव
च । मदं मृगद्वयोद्भूतं कस्तूरीचन्द्रसंयुतम् । गन्धा-
ष्टकं विनिर्द्दिष्टं गणेशस्य महेशितुः” शारदा० ति० ।
“चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदम् । रक्तचन्दन-
ह्रीवेरं गाणपत्यमुदाहृतम् । जलकाश्मीरकुष्ठैस्तु रक्त-
चन्दनचन्दनैः । ऊशोरागुरुकर्पूरैः सौरं गन्धाष्टकं
विदुः” मेरुतन्त्रम् ।

गन्धाह्वा स्त्री गन्धेनाह्वयति आ + ह्वे--क । रक्ततुलस्याम् ।

“मालती कटुतुम्बी गन्धाह्वा मूलकं तथा” सुश्रुतः ।

गन्धि न० गन्ध--इन् । तृणकुङ्कुमे राजनि० ।

गन्धिक पु० गन्धोऽस्त्यस्य ठन् । १ गन्धके गन्धो गन्धद्रव्य

पण्यत्वेनास्त्यस्य ठन् । २ गन्धबणिजि ।

गन्धिन् त्रि० प्रशस्तः गन्धोऽस्त्यस्य इनि । प्रशस्तामोदयुक्ते

“अनोकहाकम्पितपुष्पगन्धी” “हविः शमीलाजगन्धि”
“शालनिर्यासगन्धिभिः” धूमैराहुतिगन्धिभिः” रघुः ।
“यन्नैव गन्धि नो रस्य नो रूपि त च शब्दवत् । मन्यन्ते
मुनयो बुद्ध्या तत् प्रधानं प्रचक्षते” भा० आश्व० ५२ अ० ।
पृष्ठ २५३१
स्त्रियां ङीप् । “गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्ध-
यः” भा० आनु० ७८ अ० । सा च २ मुरानामगन्धद्रव्ये
अमरः ।

गन्धिपर्ण्ण पु० गन्धि गन्धयुक्तं पर्ण्णमस्य । सप्तच्छदे राजनि० । गन्धिपत्रादयोऽप्यत्र ।

गन्धेन्द्रिय न० गन्धग्राहकमिन्द्रियम् शा० त० । घ्राणे-

न्द्रिये तच पृथिव्यंशोत्पन्नम् “पार्थिवो गन्धो गन्धेन्द्रियं
सर्वमूर्त्तिसमूहो गुरुता चेति” सुश्रुतः । तस्य यथा
पार्थिवता तथा मुक्तावल्यां ममर्थितं यथा
“घ्राणेन्द्रियं पार्थिवं रूपादिषु मध्ये गन्धस्थैव
व्यञ्जकत्वात् कुङ्कुमगन्धव्यञ्जकघृतवत् न च दृष्टान्ते
स्वकीयरूपादिव्यञ्जकत्वादसिद्धिरिति वाच्यं परकोयरूपा-
द्यव्यञ्जकत्वस्व तदर्थत्वाद् न च नवशरावगन्धव्यञ्जकजले-
नानैकान्तमिति वाच्यं तस्थ सक्तु रमाभिव्यञ्जकत्वात् यद्वा
परकीयेति न देयं वायूपनीतसुरभिभागस्य दृष्टान्तत्व-
सम्भवात् नच घ्राणेन्द्रियसन्निकर्षस्य गन्धमात्रव्यञ्जकत्वात्
तत्र व्यसिचार इति वाच्यं द्रव्यत्वे सति इति विशेष-
णात् ।” अधिकमिन्द्रियशब्दे उक्तम् ।

गन्धो(न्धौ)तु पु० गन्धप्रधान ओतुः वा वृद्धिः । खट्टासे जन्तुभेदे त्रिका० ।

गन्धोत्कटा स्त्री गन्धेन उत्कटा उग्रा । दमनकवृक्षे राजनि०

गन्धोत्तमा स्त्री गन्धेन उत्तमा उत्कृष्टा । मदिरायाम् अमरः

गन्धोद न० गन्धवासितमुदकं शा० त० वा उदादेशः । गन्धद्रव्य-

वासितजले “आसिक्तमार्गं गन्धोदैः” भाग० ९ । ११ । १८ ।
उदादेशाभावे गन्धोदकमप्यत्र गन्धयुक्तिशब्दे उदा० ।

गन्धोपजीविन् पु० गन्धं गन्धद्रव्यमुपजीवति उप +

जीवणिनि । गन्धबणिजि । “दन्तकाराः सूपकारा ये च
गन्धोपजीविनः” रामा० अयो० ८३ । १ अ० ।

गन्धोलि(ली) स्त्री गन्ध--ओलि--वा ङीप् । शठ्याम् ।

ङीबन्तः । २ भद्रमुस्तायाम् मेदि० ।

गन्धोली स्त्री गन्ध--अर्द्दने बा० ओलच् गौरा० ङीष् ।

वरटायां (वोलता) अमरः ।

गभ न० भग + पृषो० वर्णविपर्य्ययः । भगे । “आहन्ति गभे

पसो निगल्लीति घाका” यजु० २३ । २२ “गभे भगे
वर्णविपर्ययः” वेददी० “गमे मुष्टिमतंसयत्” २३ । ४ । २४
“आहन्ति गभे पसो निगल्लीति धाके” शत० व्रा०
१३ । २ । ९ । ६ ।

गभस्ति पु० गम्यते ज्ञायते नम--ड गः विषयस्तं बभस्ति

भासयात भस--क्तिच् । १ किरणे, २ सूर्य्ये च । ३ स्वा-
हायां वह्निपत्न्यां स्त्री मेदि० वा ङीप् । “यथा
राजन्! कृतीः सर्वाः सूर्य्यः पाति गभस्तिभिः” भा
व० १३३ अ० । “निजवदनमलिनमयगभस्तिभिः
सुधयति” भाग० ५ । ८ । २७ । “गभस्तिधाराभिरिव द्रुतानि
तेजांसि मानोः” भट्टिः । ४ अङ्गुलीषु व० व० ५ बाहौ
द्विव० निघण्टुः । “पृथू करस्रा बहुला गभस्ती”
ऋ० ६ । १९ । ३ । “भगस्ती बाहू” भा० । “आ रश्मयोः
गमस्त्योः स्थूरयोः” २९ । २ । “गभस्त्योः बाह्वोः” भा०
६ पाणौ च “पाणी वै गभस्ती पाणिभ्यां ह्येनं
पावयति” गभस्तिपूतनिरुक्तौ शत० ब्रा० ४ । १ । १ । ९ ।
“कृष्णोऽंशुभ्यां गभस्तिपूतः” यजु० ७ । १ । “गभस्तिभ्यां
पाणिभ्यां पूतः” वेददी० ।

गभस्तिनेमि पु० गभस्तय एव चक्रं तस्य नेमिरिव ।

गभस्तिरूपचक्रमध्यस्थस्य सूर्य्यात्मनो नेमितुल्ये परमेश्वरे ।
“गभस्तिनेमिः सत्वस्थः” विष्णुस० । “गभस्तिनेमिः
श्रीपद्मः” भा० शा० १३ अ० विष्णुस्तुतिः ।

गभस्तिपाणि पु० गभस्तिः पाणिरिवास्य रसाकर्षणाय । सूर्य्ये

हेमच० । गभस्तिकरादयोऽप्यत्र । गभस्तिहस्तशब्दे दृश्यम् ।

गभस्तिमत् पु० गभस्तयोभूम्ना सन्त्यस्य मतुप् । सूर्य्ये शब्द-

रत्ना० । तस्य सहस्रकिरणत्वात्तथात्वम् । “घनव्यपायेन
गभस्तिमानिव” रघुः गभस्तयोनित्यं सन्त्यत्र नित्ययोगे
मतुप् । २ पातालभेदे न० शब्दर० । “आह्लादकारिणः
शुभ्राः मणयो यत्र सुप्रभाः । दिवार्करश्मयो यत
प्रभां तन्वन्ति नातपम् । शशिनश्च न शीताय निशि द्यो-
ताय केवलम्” विष्णुपुराणोक्तेः तस्य सर्वदा मण्यादि-
दीप्तिमत्त्वात् तथात्वम् ३ द्वीपभेदे पु० गन्धर्वशब्दे दृश्यम् ।

गभस्तिहस्त पु० गभस्तयो हस्ता इव जलाकर्षणाय यस्य ।

सूर्य्ये त्रिका० । “सूर्य्यः किरणजालेन वायुयुक्तेन सर्वतः ।
जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तम!” विष्णुपु०
उक्तेस्तस्य किरणद्वारा जलाकर्षकत्वात् तत्किरणानां
तस्य हस्ततुल्यत्वम् ।

गभस्तीश पु० काशीस्थे लिङ्गभेदे “गभस्तीशो महालिङ्गमेतद्दिव्यमहःप्रदम्” काशीख० ।

गभि त्रि० गच्छति नीरमत्र गम--आधारे इन् भश्चान्तादेशः ।

गभीरे । “गभौ सञ्जते सन्ज--क्विप् गभिषज् गमीरस्था-
यिनि । “तेषां हि धाम गभिषक् समुद्रियम्” अथ०
७ । ७ । १ ।

गभीका स्त्री गभीरे कायति कै--क पृषो० रलोपः । (गाम्भार)

वृक्षभेदे तस्याः फलम् अण् हरितक्या० तस्य लुप् तद्धित
लुपि प्रकृतिलिङ्गता । गभीका तत्फले स्त्री ।
पृष्ठ २५३२

गभीर त्रि० गच्छति जलमत्र गम--ईरन् भान्तादेशश्च ।

१ निम्नस्थाने, २ अतलस्पर्शे, ३ मन्द्रे ध्वनौ च अमरः ।
४ गहने, ५ दुष्प्रवेशे, ६ दुर्बोधे च उणादिकोषः । “जीर्ष्णा
तरिः सरिदतीव गभीरनीरा” उद्भटः “न त्वां गभीरं गुरु-
हन्तः! सिन्धुः” ऋ० ३ । ३२ । १६ । “न तं गूहन्ति स्रवतो
गभीराः” ऋ० १० । १०८ । ४ ॥ ७ वाचि स्त्री निघण्टुः ।
८ द्यावापृथिव्योः रोदस्योः स्त्री द्विव० निघण्टुः ।

गभीरात्मन् पु० गभीरः दुर्लक्ष्य आत्मा स्वरूपमस्य ।

परमेश्वरे । “चतुरस्रो गभीरात्मा” विष्णुस० । आत्मा-
स्वरूपं चित्तं वा गभीरं परिच्छेतुमशक्यमस्य
गभीरात्मा” भा० ।

गभीरिका स्त्री गभीरा मन्द्रध्वनियुक्ता संज्ञायां कन् । बृहड्ढक्कायाम् शब्दरत्ना० ।

गभोलिक पु० अव्युत्पन्नप्रातिपदिकम् । मसूरे हारा० ।

गम गतौ भ्वा० पर० अनिट् । गच्छति ऌदित् अगमत्

जगाम जग्मतुः । गन्ता गम्यात् गमिष्यति । गन्ता गमी
गम्यः गन्तव्यः गमनीयः गच्छन् गतं गतः गतिः गन्तुम्
गत्वा आगत्य । हृदयङ्गमः । जग्मिवान् । कर्मणि गम्यते
अगमि गम्यमानः । णिच् । गमयति ते अजीगमत् ते ।
सन् जिगमिषति संजिगांसते । यङ् जङ्गम्यते । यङ्लुक्
जङ्गमीति--जङ्गन्ति । जङ्गमम् । “क्षीदीयानपि गच्छति” माघः
“गच्छति पुरः शरीरम्” शकु० “तेन गच्छन् न रिष्यति”
मनुः । “न गणस्याग्रतो गच्छेत्” हितो० । “जगाम
गहनं वनम्” देवीमा० । “तत्र निश्चित्य कन्दर्पमगमत्
पाकशासनः” कुमा० । “गतं तिरश्चीनमनूरुसारथेः”
माघः । “क्रोशार्द्धं प्रकृतिपुरःसरेण गत्वा” रघुः ।
“अगम्यां च स्त्रियं गत्वा” स्मृतिः ।
  • अच्छ + आभिमुख्ये गच्छगत्य अभिमुखं गत्वा ।
  • अति + अतिक्रम्य उत्कृष्य वा गमने । “ततो दशाहेऽति-
गते कृतशौचो नृपात्मजः” रामा० अयो० ७७ । १ ।
“चिन्तामतिजगाम ह” भा० शल्य० ४७ अ० ।
अतिक्रमार्थे नास्य गतित्वम् अतिगत्वा ।
  • वि + अति + विशेषेणातिक्रम्य गतौ “कथमर्ज्जुन! कालोयम्
स्वर्गे व्यतिगमस्तव” भा० व० १६७ अ० ।
  • अधि + प्राप्तौ । “अधिगत्य जगत्यधीश्वरात्” नैष० । यथा
“खनन् खनित्रेण नरो वार्य्यधिगच्छति” मनुः ।
“विशेषं नाधिगच्छामि निर्द्धनस्यावरस्य च” भा० शा०
२२६ श्लो० । “वेदार्थानधिगच्छेच्च शास्त्राणि विवि-
धानि च” याज्ञ० ।
  • सम् + अधि + सम्यक् प्राप्तौ । “यत्ते समधिगच्छन्ति यस्यैते तस्य
तद्धनम्” मनुः ।
  • अनु + प्राप्तौ पश्चाद्वमने अनुकरणे च । “तत् पापं शतधा
भूत्वा तद्वक्तृननुगच्छति” स्मृतिः “श्रुतेरिवार्थं स्मृतिरन्व-
गच्छत्” रघुः । “अनुगतनयमार्गामर्गलां दुर्नयस्य” माघः ।
  • अन्तर् + व्यबधाने गतौ मध्यगतौ च । “भानौ यज्ञादन्तर्गतः”
शत० ब्रा० १ । ६ । १ । १ । “अन्तर्गता मदनवह्निशिखावली या”
उद्भटः ।
  • अप + अपाये विश्लेषजनकक्रियायाम् । “सा कन्यापजगामाथ
समीपात्तस्य धीमतः” भा० द्रो० ५४ अ० ।
  • अपि + स्वकारणादौ प्रवेशे “असुंवागपिगच्छतु” अथ० २ । १२ । ८ ।
  • अभि + आमिमुख्येन गतौ । “अनुरागाद्वने रामं दिष्ट्या त्वम-
भिगच्छसि” रामा० अयो० २ अ० । सम्यग्गतौ च
“अभिगन्तास्मि भगिनीं मातरं च तवेति च” याज्ञ० ।
  • अव + बोधे, “यदावगच्छेदायत्यामनिष्टं ध्रुवमात्मनः” मनुः ।
प्राप्तौ च “कुतो युद्धं जातु नरोऽवगच्छेत्” भा०
उ० ७४० श्लो० ।
  • आ + पश्चाद्देशविभागपूर्वकगतौ । “आगत्य विल्वशाखायां
चण्डिके! कुरु सन्निधिम्” दुर्गावाहनमन्त्रः । “धनुषोऽभ्या-
समागत्य” भा० आ० १८७ अ० । “आगता वत जरेव
हिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः । बोधे “आगमो
निष्फलस्तत्र भुक्तिस्तोकापि यत्र नो” । आ +
गमणिच् । क्षमायां प्रतीक्षायाञ्च आत्म० “यावदागम-
यतेऽथ नरेन्द्रान्” नैष० । आगमयते कालम् । “कर्म्मा-
दिषु सर्वेषु अध्यर्य्युः संप्रेषमागमयेत” लाट्या० श्रौ ४ । ९ । ८ ।
  • अधि + आ + प्राप्तौ “नाध्यागमच्च मृगयंस्तां गां मुनि-
रुदारधीः” भा० आ० ९९ अ० ।
  • अनु + आ + अनुकृतौ सम्यग्गतौ पश्चाद्गतौ प्रत्यागतौ
च “अन्वागतो यज्ञपतिर्वो अभ्रमत” यजु० १८ । ५९ ।
“अन्वागतो कर्म्मसमाप्तौ भवतः प्रत्यागमिष्यति” वेददी० ।
सम्बन्धे च । “किञ्चित् पश्यत्यनन्वागतः” शत० ब्रा०
१४ । ६ । १ । १७ । “अनन्वागतः अननुबद्धः” भा० ।
  • अभि + आ + आभिमुख्येनागतौ “सर्वत्राभ्यागतो गुरुः” मनुः
सम्यगागतौ “क्रमादभ्यागत द्रव्यम्” याज्ञ० । प्राप्तौ च
  • उप + आ + समीपागतौ “वनादारादुपागतः” रामा० ।
“तपोनिधिं वेत्सि न मामुपगातम्” शकु० । उपस्थितौ
अक० । “कथमापदुपागता” भा० स० २६०९ अ० ।
  • प्रति + आ + परावृत्यागमने (यतो गतिस्तत्र पुनरागतौ) “र-
पृष्ठ २५३३
णात् प्रत्यागतं शूरं भार्य्याञ्च गतयौवनाम्” चाण० ।
“प्रत्यागतश्चेव पुनस्तथैव” प्रा० त० ।
  • उद् + ऊर्द्धगतौ उत्थाने अक० । “इत्युद्गताः पौरबधूमु-
खेभ्यः शृण्वन् कथाः” रघुः । उद्गमः । उत्क्रम्य गतौ
च “ऊर्द्ध्वं प्राणा ह्युद्गच्छन्ति यूनः स्थविर आयति” मनुः ।
  • अभि + आ + आभिमुख्येनागमने । “अभ्युद्गतास्त्वा वयमद्य
सर्वे” भा० आ० ८८ अ० ।
  • प्रति + उद् + प्रतिलक्ष्यीकृत्य उत्थाने अक० । “तमागतभभिप्रेक्ष्य
प्रत्युद्गम्य परन्तपाः” भा० आ० १६९ अ० । (आगवाड़ा)
गतिभेदे सक० । “प्रत्युज्जगामातिथिमातिथेयः” । “प्रत्यु-
द्गतमिवामुष्णैः” “प्रत्युद्गता पार्थिवधर्मपत्न्या” रघुः
“प्रत्युज्जगामागमनप्रतीतः” कुमा० ।
  • उप + समीपगमने । “ग्रहास्तमुपच्छन्ति सारमेया
इवामिषम्” “सदनमुपगतोऽहं पूर्वमम्भोजयोनेः” प्रबोधच० ।
“सुप्तां मत्तां प्रमत्तां वा रहोयत्रोपगच्छति” मनुः ।
प्रतिज्ञायाम् उपगमः ।
  • अभि + उप + प्रतिज्ञायाम् स्वीकारे च । “वयमभ्युपगच्छाम
कृष्णेण त्वां प्रधर्षितम्” हरिवं० ३ अ० । अभ्युपगमः ।
आभिमुख्येन समीपगतौ च “गरूमभ्युपगच्छन्ति यशसेऽ-
र्थाय भाविनि!” भा० १२४ अ० ।
  • नि + नियमेन प्राप्तौ । “हिते मित्रे निगतान् हन्ति
वीरान्” ऋ० १० । १३२ । ५ । “निगतान् हननाय नियमेन
प्राप्तान्” भा० । णिच् । निश्चयेन बोधेने च निगमो वेदः ।
निगमकल्पतरोर्गलितं फलम्” भाग० १ । १ । ३ । उक्त-
स्यार्थस्योपसहारे च निगमनशब्द विवृतिः ।
  • निर् + निष्क्रमणे । “अधिविन्ना तु या नारी निर्गच्छे-
द्रुषिता गृहात्” मनुः । विशेषेण प्राप्तौ च । “पुरुषाः
प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः” भा० व० २५८ अ० ।
  • पर + परावृत्य गमने परिगतौ च । “यद्वै मनः परागतं
यद्बद्धमिह वेह वा” अथ० ७ । १२ । ४ । “विद्यया तत्रा-
रोहन्ति यत्र कामाः परागताः” शत० ब्रा० १० । ५ । ४ । १६ ।
व्याप्तौ च । “स्फुटपरागपरागतपङ्कजम्” माघ ।
  • परि + परितो गतौ “यथा हि मेरुर्भगवता (सूर्य्येण)नित्यशः
परिगम्यते” भा० व० २०४ अ० । वेष्टने च “अथ स वल्क-
दुकूलकुथादिभिः परिगतोज्ज्वलदुद्धतबालधिः” भट्टिः ।
  • प्रति + वैपरीत्येन गतौ (यत आगतिस्तत्रैव गमने) “भवतु
प्रतिगमिष्यामस्तावत्” शकु० “अधीतां योगहीनस्य विद्यां
प्रतिगतामिव” रामा० सुन्द० १८ अ० ।
  • वि + विशेषेण गतौ विच्छेदे विगमे च । “अवनितलविगतैश्च
भूतसंघैः” भा० द्रो० ३७ अ० । “ततो निशा साव्यगम-
न्महात्मनाम्” भा० आश्व० ६४ अ० । “श्रद्धा च नो
माविगमत्” मनुः । “रुचिभर्त्तुरस्य विरहाधिगमा-
दिति सन्ध्ययापि सपदि व्यगमि” माघः ।
  • सम् + सङ्गे अक० आ० । “यत्र देवाः समगच्छन्त विश्वे” ऋ०
३० । ८२ । ६ । “मङ्गच्छस्व मया सार्द्धमेकेनैकनराशन!” भा०
अयो० १५३ अ० । “जले स्थले चान्तरीक्षे गङ्गासागर-
सङ्गमे” प्रा० त० । “परमं भगवन्नेवं संगमिष्ये त्वया सह”
भा० व० ३०६ अ० । “दिष्ट्या मे सङ्गतं यथा” भा०
सम्यग्गतौ पर० सक० । “सङ्गच्छ पोंस्नि! स्तैणं माम्”
भट्टिः । गमेः कर्म्मविशेषे उपपदे कर्त्तरि ख । तुरङ्गमः
हृदयङ्गमः भुजङ्गमः इत्यादि । उरआदिषु उपपदेषु ड ।
उरगः भुजगः तुरगः हृद्गः अन्तग इत्यादि ।

गम पु० गम--यथायथं भावादौ अप् । १ जिगोषोर्यात्रा-

याम्, २ पथि, अमरः ३ द्यूतभेदे, ४ गमने, च । ५
अपर्य्यालोचिते अध्वनि मेदि० । ६ सदृक्पाठे हेम० ।
गम्यते कर्ण्णणि अप् न वृद्धिः । ७ गम्यमाने मार्गादौ ।
“अश्वस्यैकाहगमः” पा० तत्र गमने “वृषसिंहवृश्चिकवटै-
र्विद्धि स्थानं गमागमौ नस्तः” षट्पञ्चाशिका ।

गमक त्रि० गमयति गम--णिच्--ण्वुल् । १ गमयितरि २ बोधके

च “सापेक्षत्वेऽपि गमकत्वात् समासः” महाभा०
“यत् प्रौढत्वमुदारता च वचसां यच्चार्थतोगौरवम्
तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः”
मालतीमा० । ३ स्वरभेदे । “गमकः स्वश्रुतिस्थानस्थानां
श्रुत्यन्तराश्रयात् । स्वरो यो मूर्च्छनामेति गमकः स
इहोच्यते । कम्पितः स्फुरितो लीनो भिन्नः स्थविर
एव च । आहतान्दोलितौ चेति गमकाः सप्त
कीर्त्तिताः । साघपोषनिशायान्तु शेषप्रहरमात्रके ।
साधकः सलिले स्थित्वा गमकान् सप्त साधयेत् । दाक्षि-
णात्या हरिप्रीत्यै गायन्ति गमकानिमान्” सङ्गी० दा०

गमथ पु० गम--अथच् । पथिके उज्ज्वद० ।

गमन न० गम--भावे ल्युट् । स्वाश्रयसंयोगविभागासम-

वायिकारणे १ क्रियाभेदे “प्रसारणञ्च गमनं कर्म्मान्येतानि
पञ्च च” “भ्रमणं रेचनं स्यन्दनोर्द्धज्ज्वलनमेव च ।
तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते” भाषा० । उत्क्षेपण-
शब्दे १०८६ पृ० विवृतिः । २ जिगीषोः प्रयाणे च अमरः ।
पृष्ठ २५३४

गमिन् त्रि० “भविष्यति गम्यादयः” पा० गम--भव्ये इनि ।

भाविगमनके स्त्रियां ङीप् । “गम्यादीनामुपसंख्यानम्”
वार्त्तिकोक्तेः ग्रामगमीत्यादौ द्वितीयात० समा० । कृदन्तत्वे
ऽपि तद्योगे कर्म्मणि न षष्ठी ग्रामं गमी ।

गमिष्ठ त्रि० अतिशयेन गन्ता--गन्तृ--अतिशायने इष्ठन् । गन्तृ-

तमे । “किमङ्ग वा प्रत्यवर्त्ति गमिष्ठः” ऋ० १ । ११८ । ३ ।

गम्ब(न्ब) गतौ भ्वा० पर० सक० सेट् । गम्बति अगम्बीत्

जगम्ब । नोपधत्वे क्विपि गनौ गनः । मोपधत्वे गमौ
गम इति भेदः ।

गम्भन् त्रि० गम--बा० अन् भुगागमश्च । गम्भीरे “अपा

गम्भनत्सोद महत्वा” यजु० १३ । ३० । “गम्भन् गम्भनि
गभीरे” वेददी० । वेदे सप्तमीलोपः ।

गम्भर न० गम--विच् गमं निम्नगतिं विमर्त्ति भृ--अच्

६ त० । उदके निघण्टुः । “वृहन्तेव गम्भरेषु प्रतिष्ठाम्”
ऋ० १० । १०६ । ९ । “नम्भरेषु गहनेषु जलेषु” भा० ।

गम्भारिका स्त्री गम--विच् गमं निम्नगतिं बिमर्त्ति-

भृ--ण्वुल् कापि अत इत्त्वम् (गाम्भार) वृक्षभेदे राजनि० ।

गम्भारी स्त्री गमं गतिभेदं बिभर्त्ति अण्, कं जलं

बिभर्त्ति पृषो० कस्य ग इत्यन्ये उप० स० गौरा०
ङीष् । (गाम्भार) वृक्षभेदे अमरः । गम्भार्य्याः फलं
पुष्पं वा अण् तस्य लुपि प्रकृतिवल्लिङ्गता । गम्भारी-
तत्फले पुष्पे च स्त्री । “गम्भारी भद्रपर्णी च श्री-
पर्णी मधुपर्णिका । काश्मीरी कश्मरी हीरा
काश्मर्य्यः पीतरोहिणी । कृष्णवृन्ता मधुरसा महाकुमुदि-
कापि च । काश्मरी तुवरा तिक्ता वीर्य्योष्णा मधुरा-
गुरुः । दीपनी पाचनी मेध्या भेदनी श्रमशोथजित् ।
दोषतृष्णामशूलार्शोविषदाहज्वरापहा । तत्फलं
वृंहणं वृष्यं गुरु केश्यं रसायनम् । वातपित्ततृषारक्तक्षय-
मूत्रविबन्धहृत् । स्वादु पाके हिमं स्निग्धं तुवराम्लं
विबन्धकृत् । हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान्” भावप्र०

गम्भिष्ठ त्रि० गम्भत् + अतिशायने इष्ठन् टिलोपः । गम्भीर-

तमे । “अपा गम्भन्त् सीदेति एतद्ध्वापां गम्भिष्ठं यत्रैष
एतत्तपति” शत० ब्रा० ७ । ५ । १ । ८ ।

गम्भीर त्रि० गच्छति जलमत्र गम--ईरन् नि० भुगागमः ।

१ निम्नस्थाने अगाधे, अमरः । “धृतगम्भीरखनीखनी
निम” नैष० । २ मन्द्रे शब्दे “स्निग्धगम्भीरनि-
र्घोषमेकस्यन्दनमास्थितौ” रघुः । ३ गभीरार्थे च
उणादि० । ४ जम्बीरे, ५ पद्मे, ६ ऋग्मन्त्रभेदे च पु० ।
“स्वरे सत्वे च नाभौ च त्रिषु गम्भीरता शुभा ।

गम्भीरवेदिन् पु० गम्भीरं गहनं यथातथा वेत्ति विद--णिनि ।

“चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीर-
वेदी विज्ञेयः स गजो गजवेदिभिः” राजपुत्रीयोक्त
चिह्ने, १ गजे । “अङ्कुशं द्विरदस्येव यन्ता गम्भीर-
वेदिनः” रघुः । गम्भीरवेदिनः पुरः कबलं करीन्द्रे”
माघः । तृच् । गम्भीरवेत्तृ “त्वग्भेदात् शेणितस्रावात्
मांसस्य क्रथनादपि । आत्मानं यो न जानाति स
स्यात् गम्भीरवेदिता” सृगचर्म्भीयोक्तचिह्ने गजे ।

गम्भीरिका स्त्री गम्भीर--स्वार्थे क संज्ञायां कन् वा कापि

अत इत्त्वम् । १ गम्भीरायां नद्यां २ नदोभेदे च ।
“लौहित्यः सिन्धुनदः सरयूर्गम्भीरिका रथाह्वा च । गङ्गा-
कौशिक्याद्याः सरितो विदेहकाम्बोजाः” वृह० सं० १६ अ० ।
३ नाड़ीभेदे “नाड्यो गम्भीरिका याश्च सद्यश्छिन्नास्तथैव
च” सुश्रुतः । ४ दृष्टिरेगभेदे “हताधिमन्थो निमिषो दृष्टि-
र्गम्भीरिका च या” सुश्रुतः । तल्लक्षणं तत्रैव उक्तं यथा
“दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ।
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति
तज्ज्ञाः” ।

गम्य त्रि० गम--पवर्गानत्वात् कर्मादौ यत् । १ गमनाय २ प्राप्ये

च । अर्हार्थे यत् । गमनयोग्ये । “गम्यान्यपि तीर्थानि
कीर्त्तिनान्यमगमानि च” भा० व० ८५ । “अभिकामां स्त्रियं
यश्च गम्यां रहसि याचितः” भा० आ० ८३ अ० ।
“गम्यं त्वभावे दातॄणां कन्या कुर्य्यात् स्वयं वरम्” याज्ञ०
“समानश्च खेदविगमो गम्यायामगम्ययाञ्च तत्र नियमः
क्रियते इयं गम्या इयमगम्येति” महाभाष्यम् “खेदयतीति
खेदो रोगः इन्द्रियनियमासामर्थ्यं वा” इति कैयटः
तथा च अगम्यानिषेधस्य इतराभ्यनुज्ञाफलकतया स्वदा-
रगमने दोषाभावः” विवरणम् ।

गम्यमान त्रि० गम--कर्म्मणि शानच् । १ वर्त्तमानगतिकर्मणि ।

२ बुध्यमाने च “गम्यभानाऽपि क्रिया विभक्तौ प्रयोजिका”
व्या०न्यायः । “गम्यमानेऽर्थे” सि० कौ० भूरिप्रयोगः ।

गम्यादि न० “भविष्यति गम्यादयः” पा० उक्ते भविष्यदर्थें

इनिप्रत्ययान्तशब्दसमूहे ते च “गमी आगमी भावी
प्रस्थायी प्रतिरोधी प्रतियोधी प्रतिबोधो प्रति यायो
प्रतिषेधी इत्येते” पा० ग० । “गम्यादोनामुपसंख्यानम्”
वार्त्ति० तद्योगे द्वितीयातत्पुरुषः । ग्रामगमी ।
पृष्ठ २५३५

गय पु० रामायणप्रसिद्धे १ वानरभेदे । “कोटीशतवृतो वापि

गयो गवय एव च । वानरेन्द्र हौमवीर्य्यौ पृथक्
पृथगदृश्यताम्” भा० व० २८२ अ० । २ हविर्धानराजपुत्र-
भेदे, तत्कथा “हविर्धानाद्धविर्धानी विदूरासूत षट्
सुतान् । वर्हिषदङ्गयं शुक्लं कृष्णं सत्यजितं व्रतम्”
भाग० ५ । १५ अ० । प्रियव्रतवंशोद्भवे ३ राजभेदे तत्कथा यथा
“नक्तादृतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा
अजायत । साक्षाद्भगवतो विष्णोर्जगद्रिरक्षया गृहीतसत्वस्य
कला आत्मवत्त्वादिलक्षणेन नहापुरुषतां प्राप्तः । स वै
स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासन-
लक्षणेनेज्यादिना च भगवति महापुरुषे परावरे
ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानु-
सेवयापादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावित-
विशुद्धमतिरुपरतानात्म्ये आत्मनि स्वयमुपलभ्यमान
ब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत ।
तस्येभां गाथां पाण्डवेय! पुराविद उपगायन्ति ।
गयं नृपं कः प्रतियाति कर्मभिर्यज्ञाभिमानी बहुवि-
द्धर्भगोप्ता । समागतश्रीः सदसस्पतिः सतां सत्से बकोऽन्यो
भगवत् कलामृते । यमभ्यषिञ्चन् परया मुदा सतीः (सत्यः)
सत्याशिषो दक्षकन्याः सरिद्भिः । यस्य प्रजा नां दुदुहे
धराऽऽशिषो निराशिषो गुणवत्सस्नुतोधाः । छन्दांस्य-
कामस्य च यस्य कामान् दुदुहुराजह्रुरथोबलिं
नृपाः । प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठ-
मंशं परेभ्यः । यस्याध्वरे भगवानध्वरात्मा मघोनि माद्य-
त्युरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोगसमर्पितेज्या-
फलमाजहार । यत्प्रोणनाद्बर्हिषि देवतिर्य्यङ्-
मनुष्यवीरुत्तृणमाविरिञ्च्यात् । प्रीयेत सद्यः सह विश्व-
जीवः प्रीतः स्वयं प्रीतिमगाद्गयस्य । गयाद्गायन्त्यां चित्र-
रथः सुमतिररिरोधन इति त्रयः पुत्रा बभूवुः” भाग० ५ । १५ ।
अमूर्त्तरयसः पुत्रे प्रधानषोड़शराजान्तर्गते ४ राजर्षिभेदे
तत्कथा ।
“गयञ्चामूर्त्तरयसं मृतं सृञ्जय! शुश्रुम । यो वै
वर्षशतं राजा हुतशिष्टाशनोऽभवत् । तस्मै ह्यग्निर्वरं
प्रादात्ततो वव्रे वरं गयः । तपसा ब्रह्मचर्य्येण व्रतेन
नियमेन च । गुरूणाञ्च प्रसादेन वेदानिच्छामि वेदि-
तुम् । स्वधर्मेणाविहिंस्यान्यान् धनमिच्छामि चाक्षयम् ।
विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः । अनन्यासु
सवर्णासु पुत्रजन्म च मे भवेत् । अन्नं मे ददतः श्रद्धा
धर्म्मेमं रमतां मनः । अविथं चास्तु मे नित्यं धर्म-
कार्य्येषु, पावकः । तथा भविष्यतीत्युक्त्वा तत्रैवान्तर-
धीयत । गयो ह्यवाप्य तत्सर्वं धर्मेणारीनजीजयत् ।
स दर्शपौर्णमासाभ्यां कालेष्वाग्रयणेषु च । चातुर्मास्यैश्च
विविधैर्यज्ञैश्चावाप्तदक्षिणैः । अयजच्छ्रद्धया राजा
परिसंवत्सरान् शतम् । गवां शतसहस्राणि शतमश्वशतानि
च । शतं निष्कसहस्राणि गवाञ्चाप्ययुतानि षट् ।
उत्थायोत्थाय संप्रादात् परिसंवत्सरान् शतम् । नक्षत्रेषु
च सर्वेषु ददान्नक्षत्रदक्षिणाः । ईजे च विविधैर्यज्ञै-
र्यथा सोमोऽङ्गिरास्तथा । सौवर्णों पृथिवीं कृत्वा य
इमां मणिशर्कराम् । विप्रेभ्यः प्राददद्राजा अश्वमेधे
महामखे । जाम्बुनदमया यूपाः सर्वे रत्नपरिच्छदाः ।
गयस्यासन् समृद्धास्तु सर्वभूतमनोहसाः । सर्वकामसमृद्धांश्च
प्रादात्तांश्च गयस्तथा । ब्राह्मणेभ्यः प्रकृष्टेभ्यः सर्वभूतेभ्य
एव च । ससमुद्रवनद्वीपनदीनदवनेषु च । नगरेषु च
राष्ट्रेषु दिवि व्योम्नि च येऽवसन् । भूतग्रामाश्च
विविधाः संतृप्ता यज्ञसम्पदा । गयस्य सदृशो यज्ञो
नास्त्यन्य इति तेऽब्रुवन् । षड़्विंशयोजनायामा
त्रिंशद्योजनमायता । पश्चात् पुरश्चतुर्विंशद्वेदी ह्यासी-
द्धिरण्मयी । गयस्य यजमानस्य मुक्तावज्रमणिस्तृता ।
प्रादात् स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च । यथोक्ता
दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणाः । यत्र भोजन-
शिष्टस्य पर्वताः पञ्चविंशतिः । कुल्याः सुकृतवाहिन्यो
रसानामभवंस्तदा । वस्त्राभरणगन्धानां राशयश्च
पृथग्विधाः । यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः ।
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत् । स
चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात् पुण्यतर-
स्तुभ्यं मा पुत्रमनुतप्यथाः” भा० द्रो० ६६ अ० । ५ धने
६ अपत्ये ६ गृहे च निघण्टुः । “इन्द्रो वसुभिः
परिपातु नो गयम्” ऋ० १० । ६६ । ३ । “गयं गृहनामैतत् ।
प्राप्तव्यं गीयते शब्द्यतेऽत्रेति वा गयं गृहम्” भा० ।
“अरक्षद्दाशुषे गयम्” ऋ० १ । ७४ । २ । “गयं धनम्”
भा० । “परि पाहि नो गयम्” ऋ० ६ । ७१ । ३ ।
“गयं गृहं धनं वा” भा० । ८ अन्तरीक्षे च । “गयम-
स्माकं शर्म वनवत्स्वावसुः” ऋ० ५ । ४४ । ७ । “गयं
गृहमन्वरिक्षं वा” भा० । ९ गृहगते प्राणिनि च ।
“या नो गयमाविवेश” ऋ० ६ । ७४ । २ । “गयं गृह
गतं प्राणिजातम्” भा० । १० स्वस्थाने । “हित्पो गयमारे
अवद्य आगात्” ऋ० १० । ९९ । ५ । “गयं स्वस्थानम्” भा० ।
११ प्राणेषु बहुव० । “सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्
पृष्ठ २५३६
प्राणांस्तत्रे तद्यद्गयांस्तत्र तस्माद्गायत्री नाम” शत०
ब्रा० १४ । ८ । १५ । ७ । गयाऽस्त्यत्र अच् । १२ गयाप्रदेशे
बहुव० । “गयस्य यजभानस्य गयेष्वेव महाक्रतुम् ।
आहूता सरितां श्रेष्ठे गययज्ञे सरस्वती” भा० शल्य० ३९
अ० “गयेन यजमानेन गयेष्वेव पितॄन् प्रति” रामा०
अयो० १७७ । १ । तेन तद्यागस्थानत्वेन च गयेति प्रसिद्धिः
१३ असुरभेदे । तत्कथा वायुपु० गयामाहात्म्ये २ अ० यथा ।
“गयासुरोऽसुराणाञ्च महाबलपराक्रमः ।
योजनानां सपादञ्च शतं तस्योच्छ्रयः स्मृतः । स्थूलः
षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णबः स्मृतः । कोलाहले
गिरिवरे तपस्तेपे सुदारुणम् । बहुवर्षसहस्राणि
निरुच्छ्वासं स्थितोऽभवत् । तत्तपस्तापिता देवाः संक्षोभं परमं
ययुः । ब्रह्मलोकं गता देवाः प्रोचुस्ते प्रपितामहम् ।”
ततस्तत्कृतस्तवादिकमुपवर्ण्य तद्वरकथा तत्रैव यथा
“यदि तुष्टास्तु मे देवा ब्रह्मविष्णुमहेश्वराः । सर्वदेव
द्विजातिभ्यो यज्ञतीर्थशिलोच्चयात् । देवेभ्योऽतिपवित्रोऽ
हमृषिभ्योऽपि शिवाव्ययात् । मन्त्रेभ्यो देवदेवीभ्यो
योगिभ्यश्चापि सर्वशः । न्यासिभ्यश्चापि कर्मिभ्यो धर्मिभ्यश्च-
तथा पुनः । ज्ञातिभ्योऽतिपवित्रोऽहं पवित्रः स्यां
सदासुराः! । पवित्रतास्तु तं देवाः सत्यमुक्त्वा दिवं ययुः । दृष्ट्वा-
दैत्यं, तथा स्पृष्ट्वा सर्वे हरिपुरं ययुः । शून्ये लोकत्रये-
याते शून्या यमपुरी ह्यभूत् । यम इन्द्रादिभिः सार्द्धं
ब्रह्मलोकं ततोऽगमत् । ब्रह्माणमूचिरे देवा गयासुरविलो-
पिताः । त्वया दत्ताधिकारांस्त्वं तान् गृहाण पितामह! ।
ब्रह्माब्रवीत्ततो देवान् व्रजामो विष्णुमव्ययम् । ब्रह्मादयो-
ऽब्रुवन् विष्णुं त्वया दत्तवरोऽसुरः । तद्दर्शनाद्ययुः स्वर्गं
शून्यं लोकत्रयं ह्यभूत् । देवैरुक्तो वासुदेवो ब्रह्माणं स
वचोऽब्रवीत् । गयासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम् ।
विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यद् गयासुरम् ।
गयासुरोऽब्रवीत् दृष्ट्वा ब्रह्माणं त्रिदशैःसह । संपूज्योत्थाय
विधिवत् प्रणतः श्रद्धयान्वितः । गयासुर उवाच ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः । यदागतोऽति-
थिर्व्रह्मा मर्वं प्राप्तं मयाद्यवै । योगिन्! योगाङ्गवित्
सर्वलोकस्वामिन्! पितर्गुरो! । यदर्थमागतो ब्रह्मन्
तत्कार्य्यं करवाण्यहम् । ब्रह्मोवाच । पृथिव्यां यानि
तीर्थानि दृष्टानि भ्रमता मया । यज्ञार्थं न तु ते तानि
पवित्राणि शरीरतः । त्वया देहे पवित्रत्वं प्राप्तं विष्णु-
प्रसादतः । अतः पवित्रं देहं त्वं यज्ञार्थं देहि मेऽसुर! ।
गयासुर उवाच । धन्योऽहं देवदेवेश! मद्देहं प्रार्थ्यते त्वया ।
पितृवंशे कृतार्थोऽहं मातृवंशे तथैव च । त्वयैवोत्पादितो
देहः पवित्रस्तु त्वया कृतः । सर्वेषामुपकाराय यागोऽ
वश्यं भविष्यति । इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे
गयासुरः । नैरृतं दिशमाश्रित्य तदा कोलाहले गिरौ ।
शिरः कृत्वोतरे दैत्यः पादौ कृत्वा तु दक्षिणे
ब्रह्मा संभृतसम्भारो मानसानृत्विजोऽसृजत्” इत्युप-
क्रम्य कतिचित्तत्कल्पितर्षीनुक्त्वा “एतानन्यांश्च विप्रेन्द्रान् वेधा
लोकपितामहः । परिकल्प्याकरोद्यागं गयासुरशरी-
रके । अग्निशर्मापि पञ्चाग्नीन् मुखादेतानवासृजत् ।
दक्षिणाग्निं गार्हपत्याहवनीयौ तपोऽव्ययः । सभ्याव-
सय्यौ देवर्षिर्येषु यज्ञाः प्रतिष्ठिताः । यज्ञस्य च प्रतिष्ठार्थं
विप्रेभ्यो दक्षिणां ददौ । हुत्वा पूर्णाहुतिं ब्रह्मा
स्नात्वा चावभृथे सुरैः । यज्ञयूपं सुरैः सार्द्धं
समानीय व्यरोपयत् । ब्रह्मणः सरसां श्रेष्ठे सरस्येवो-
च्छ्रितं शुभम् । यज्ञवाटे सुरैःसार्द्धं गयासुरमपश्यत ।
चलितं चकितो ब्रह्मा धर्म्मराजमभाषत । या सा
गृहे तव शिला समानीयाविचारयन् । दैत्यस्य शीघ्रं
शिरसि तां धारय ममाज्ञया । विश्चलार्थं, यमः श्रुत्वाऽ
धारयन्मस्तके शिलाम् । शिलायां धारितायान्तु
सशिलश्चासुरोऽचलत् । देवानूचेऽथ रुद्रादीन् शिलायां
निश्चलाः किल । तिष्ठध्वं देवाः सकलास्तथेत्युक्त्वा च ते
स्थिताः । देवाः पादैर्ल्लक्षयित्वा तथापि चलितोऽसुरः ।
ब्रह्माथ व्याकुलो विष्णुंगतः क्षीराब्धिशायिनम् । तुष्टा-
व प्रणतो भूत्वांनत्वा चादृत्य तं प्रभुम् । व्रह्माण्डस्य
पते! नाथ! नमामि जगतां पतिम् । गतिं कीर्त्तिमतां
नॄणां भुक्तिमुक्तिप्रदायकम् । विश्वक्सेनोऽब्रवीत् विष्णुं
देव! त्वां स्तौति पद्मजः । हरिराहानयस्व त्वं
विष्णूक्तः स तमानयत् । अजमूचे हरिः कस्मा-
दागतोऽसि वदस्व तत् । ब्रह्मोवाच । देवदेव! कृते यागे
प्रचचाल गयासुरः । शिलायां देवरूपिण्यां न्यस्तायां
तस्य मस्तके । रुद्रादिषु च देवेषु संस्थितेष्वसुरोऽचलत् ।
इदानीं निश्चलार्थं हि प्रसादं कुरु माधव! । ब्रह्मणो-
वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः । मूर्त्तिं ददौ निश्च-
लार्थं ब्रह्मणे भगवान् हरिः । आनीय मूर्त्तिं ब्रह्मापि
शिलायां समधारयत् । तथापि चलितं वीक्ष्य पुनर्द्देव
मथागमत् । आगत्य विष्णुः क्षीराब्धः शिलायां संस्थि-
तोऽभवत् । जनार्द्दनाभिधानेन पुण्डरीकेति नामतः ।
पृष्ठ २५३७
शिलायां निश्चलार्थं हि स्वयमादिगदाधरः । निश्च-
लार्थं पञ्चधासीत् शिलायां प्रपितामहः । पितामहोऽथ
फल्ग्वीशः केदारः कनकेश्वरः । ब्रह्मा स्थितः स्वयं तत्र
गजरूपी विनायकः । गयादित्यश्चोत्तरार्को दक्षिणार्क
स्त्रिधा रविः । लक्ष्मीः सीताभिधानेन, गौरी वै मङ्गला-
ह्वया । गायत्री चैव सावित्री त्रिसन्ध्येयं सरस्वती ।
इन्द्रो वृहस्पतिः पूषा वसवोऽष्टौ महाबलाः । विश्वे देवा-
श्चाश्विनेयौ मरुतो विश्वनायकाः । सयक्षोरगगन्धर्व्वा-
स्तस्थुर्देवाः स्वशक्तिभिः । आदितो गदया चासौ
यस्माद्दैत्यः स्थिरीकृतः । स्थित इत्येव हरिणा तस्मा-
दादिगदाधरः । ऊचे गयासुरो देवान् किमर्थं
वञ्चितोह्यहम् । यज्ञार्थं ब्रह्मणे दत्तं शरीरममलं मया ।
विष्णोर्व्वचनमात्रेण किं न स्यां निश्चलोह्यहम् ।
यत्सुरैः पीड़ितोऽत्यर्थं गदया हरिणा तथा । पीड़ितो
यद्यहं देवाः प्रसन्नाः सन्तु सर्व्वदा । गदाधरादय-
स्तुष्टाः प्रोचुर्द्दैत्यं गयासुरम् । वरं ब्रूहि प्रसन्नाः स्मो
देवानूचे गयासुरः । यावत् पृथ्वी पर्व्वताश्च यावच्च-
न्द्रार्कतारकाः । तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णु-
महेश्वराः । अन्याश्च सकला देवा मन्नाम्ना क्षेत्रमस्तु वै ।
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः । तन्मध्ये
सर्व्वतीर्थानि प्रयच्छन्तु हितं नृणाम् । स्नानादि-
तपणं कृत्वा पिण्डदानात् फलादिकम् । सहात्मनि
सहस्रञ्च कुलानाञ्चोद्धरेन्नरः । व्यक्ताव्यक्तस्वरूपेण यूयं तिष्ठन्तु
सर्वदा । गदाधराद्यस्य लोकात् भूयात् सर्व्वाघनाशनात् ।
श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते । ब्रह्म-
हत्यादिकं पापं विनश्यतु च सेविनाम् । नैमिषं
पुष्करं गङ्गा प्रयागं चाविमुक्तकम् । एतान्यन्यानि
तीर्थानि दिवि भुव्यन्तरीक्षतः । समायान्तु सदा नॄणां
प्रयच्छन्तु हितं सुराः! । ते देवास्तानि तीर्थानि प्रयच्छन्तु
हितं नॄणाम् । पितॄणां ब्रह्मलोकञ्च भुक्तिमुक्तिफलं तथा ।
एको विष्णु स्त्रिधामूर्त्तिर्यावत् संकीर्त्त्यते बुधैः । तावद्-
गयासुरक्षेत्रं ख्यातिमेतु सदा भुवि । ब्रह्महत्यादिकं पापं
विनाशयतु सेविनाम् । किं बहूक्त्या सुरेशाना! युष्मास्वे-
कापि देवता । चेन्न तिष्ठेदहं चापि, समयः प्रतिपाल्य-
ताम् । गयासुरवचः श्रुत्वा प्रोचुर्व्विष्ण्वादयः सुराः
त्वया यत् प्रार्थितं सर्वं तद्भविष्यत्यसंशयम् । पितॄणां
वै कुलशतमात्मानं पिण्डदानतः । श्राद्धादिना
नयिष्यन्ति ब्रह्मलोकमनामयम् । अस्मत्पादानर्च्चयित्वा या-
स्यन्ति परमां गतिम् । सनत्कुमार उवाच । देवैर्दत्त-
वरो दैत्यो हर्षितो मिथ्यलोऽभवत् ।” ४ अङ्गिरसे मुनि-
भेदे गर्गशब्दे दृश्यम् अस्य वृषा० आद्युदात्तता ।

गयस्फान पु० स्फायी--वृद्धौ अन्तर्भूतण्यर्थात् ल्युट्

नि० यलोपः गयस्य धनस्य स्फानः । धनवर्द्धके ।
“गयस्फानो अमीवहा वसुवित् पुष्टिवर्द्धनः” ऋ० १० ।
९१ । ८२ । “गयस्फानः धनस्य वर्द्धयिता” भा० ।
“एधि गयस्फानो गोभिरश्वेभिरिन्द्र!” ऋ० ७ । ५४ । २ ।

गया स्त्री गयो गयासुरः गयनृपो वा कारणत्वेनास्त्यस्य

अच् । तीर्थभेदे गयशब्दे तत्कथा उक्ता ।
वायुपु० गयामा० १ अ० तन्माहात्म्यं यथा
“वक्ष्ये तीर्थवरं पुण्यं श्राद्धादौ सर्व्वतारकम् ।
गयातीर्थं सर्व्वदेशे तीर्थेभ्योऽप्यधिकं शृणु । गयासुर
स्तपस्तेपे ब्रह्मणा क्रतवेऽर्थितः । प्राप्तस्य तस्य शिरसि
शिलां धर्म्मोह्यधारयत् । तत्र ब्रह्माकरोद्यागं स्थित-
श्चादिगदाधरः । फल्गुतीर्थादिरूपेण निश्चलार्थमह-
र्निशम् । गयासुरस्य विप्रेन्द्र! ब्रह्माद्यैर्दैवतैः सह ।
कृतयज्ञो ददौ ब्रह्मा ब्राह्मणेभ्यो गृहादिकम् । श्वेतकल्पे
तु वाराहे गयोयागमकारयत् । गयनाम्ना गयाख्याता
क्षेत्रं ब्रह्माभिकाङ्क्षितम् । काङ्क्षन्ति पितरः पुत्रान्नरकाद्भ-
यभीरवः । गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।
गयाप्राप्तं सुतं दृष्ट्वां पितॄणामुत्सवो भवेत् । पद्भ्या-
मपि जलं स्पृष्ट्वा सोऽस्मभ्यं किं न दास्यति? । गयां
गत्वान्नदाता यः पितरस्तेन पुत्रिणः । पक्षत्रय
निवासी च पुनात्यासप्तमं कुलम् । न चेत् षञ्चदशाहं
वा सप्तरात्रं त्रिरात्रकम् । महाकल्पकृतं पापं गयां
प्राप्य विनश्यति । पिण्डं दत्त्वा च पित्रादेरात्मनोऽपि
तिलैर्विना । ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।
पापं तत्सङ्गजं सर्व्वं गयाश्राद्धाद्विनश्यति । आत्म-
जोऽप्यन्यजोवापि गयाभूमौ यदा तदा । यन्नाम्ना
पातयेत् पिण्डं तन्नयेत् ब्रह्म शाश्वतम् । नामगोत्रे
समुच्चार्य्य पिण्डपातनमीक्षते । येन केनापि कस्मैचित्
स याति परमां गतिम् । ब्रह्मज्ञानं गयाश्राद्धं गोगृहे-
मरणं तथा । वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा
चतुर्व्विधा । ब्रह्मज्ञानेन किं साध्यं गोगृहे मरणेन किम् ।
वासेन किं कुरुक्षेत्रे यदि पुत्रोगयां व्रजेत् । गयायां
पर्व्वकालेषु पिण्डं दद्याद्विचक्षणः । अधिमासे जन्म-
दिने चास्तेऽपि गुरुशुक्रयोः । न त्यक्तव्यं गयाश्राद्धं
पृष्ठ २५३८
सिंहस्थेऽपि वृहस्पतौ । तथा दैवप्रमादेन प्रवहत्सु
व्रणेषु च । पूबः कर्म्माधिकारी च श्राङ्गकृद्व्रह्मलोक-
भाक् । प्रीत्या श्राद्धन्तु कर्त्तव्यं सर्वेषां वर्णलिङ्गिनाम् ।
एवं कुर्व्वन् नरः सम्यक् महतीं श्रियमाप्नुयात् । सकृद्
गयाभिगमनं सकृत्पिण्डस्य पातनम् । दुर्ल्लभं किं
पुनर्नित्यमस्मिन्नेव व्यवस्थितः । प्रमादान्म्रियते क्षेत्रे
ब्रह्माद्यैर्सुक्तिदायके । ब्रह्मज्ञानाद्यथा मुक्तिर्लम्यते
नात्र संशयः । कीकटादिमृतानाञ्च पितॄणां तारणा-
य च । तस्मात् सर्वयत्नेन वस्तव्यं सुविचक्षणैः । ब्रह्म-
प्रकल्पितान् विप्रान् हव्यकव्यादिनार्च्चयेत् । तैस्तुष्टै-
स्तोषिताः सर्व्वाः पितृभिः सहदेवताः । मुण्डनञ्चोप-
वासश्च सर्व्वतीर्थेष्वयं विधिः । वर्ज्जयित्वा कुरुक्षेत्रं
विशालां विरजां गयाम् । दण्डं प्रदर्शयेद्भिक्षुर्गयां
गत्वा न पिण्डदः । दण्डं न्यस्य विष्णुपदे पितृभिः
सह मुच्यते । न दण्डी किल्विषं धत्ते पुण्यं वा
परमार्थतः । अतः सर्व्वक्रियां त्यक्त्वा विष्णुं ध्याय-
ति भावुकः । संन्यसेत् सर्व्वकर्म्माणि वेदमेकं न
संत्यजेत् । मुण्डपृष्ठाच्च पूर्व्वस्मित् पश्चिमे दक्षि-
णोत्तरे । सार्द्धं क्रोशद्वयं मानं गयेति ब्रह्मणे-
रितम् । पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।
तन्मध्ये सर्व्वतीर्थानि त्रैलोक्ये यानि सन्ति वै । श्राद्ध-
कृद् यो गयाक्षत्रे पितॄणामनृणोहि सः । शिरसि
श्राद्धकृद् यस्तु कुलानां शतमुद्धरेत् । गृहाच्चलित
मात्रेण गयाया गमनं प्रति । स्वर्गारोहणसोपानं
पितृणाञ्च पदे पदे । पदेपदेऽश्वमेधस्य यत्फलं गच्छ-
तो गयाम् । तत्फलञ्च भवेन्नॄणां समग्रं नात्र
संशयः । पायसेनाथ चरुणा सक्तुना पिष्ट-
केन वा । तण्डुलैः फलमूलाद्यैर्गयायां पिण्ड-
पातनम् । तिलाज्यदधिमध्वादिपिण्डद्रव्येषु योजयेत् ।
मुष्टिमात्रप्रमणेन आर्द्रामलकमात्रतः । शमीपत्र
प्रमाणेन पिण्डं दद्याद्गयाशिरे । उद्धरेत् सप्त गोत्राणि
कुलमेकोत्तरं शतम् । तिलकल्केन खण्डेन गुड़ेन
सघृतेन वा । केवलेनैव दध्ना वा दुग्धेन मधुनाथ वा ।
पिन्याकं सवृतं खण्डं पितृभ्योऽक्षयमित्युत । इष्यते
ऽवाप्तितो भोज्यं हविष्यं मनुरब्रवीत् । एकतः सर्व्वव-
स्तूनि रसवन्ति मधूनि हि । स्मृत्वा गदाधराङ्घ्राब्जंफल्-
गुतीयाम्बु चैकतः । पिण्डासनं । पण्डदानं पुनः प्रत्यवने
जनम । दक्षिणा चान्नसंकल्पस्तीर्थश्राद्धेष्वयं विधिः ।
गावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः । सकारु-
ण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः । अन्यत्रावाहिताः
काले पितरोयान्त्यमुं प्रति । तीर्थे सदा वसन्त्येते
तस्मादावाहनं न हि । तीर्थश्राद्धं प्रयच्छद्भिः पुरुषैः
फलकाङ्क्षिभिः । कामं क्रोधं तथा लोभं त्यक्त्वा कार्य्या-
क्रिया ऽनिशम् । ब्रह्मचार्य्येकभोजी च भूशायी सत्यवाक्
शुचिः । सर्वभूतहिते रक्तः स तीर्थफलमश्नुते । तीर्था-
न्थनुसरन् घीरः पाषण्डं दूरतस्त्यजेत् । पाषण्डं
तच्च विज्ञेयं यद्भवेत् कामकारतः । तीर्थेषु ये
नराधीराः कर्म कुर्वन्धि सद्गताः । यथा ब्रह्मचिदो वेद्यं वस्तु-
चानन्यचेतसः । प्रविशन्वि परेशाख्यं ब्रह्म ब्रह्मपरायणाः ।
याऽऽस्ते वैतरणी नाम नदी त्रैलोक्यविश्रुता । सावतीणां
गयाक्षत्रे पितॄणां तारणाय वै । स्नातो गोदो वैतरण्यां
त्रिःसप्तः कुलमुद्धरेत् । तथाक्षयवटं गत्वा विप्रान्
सन्तोषयिष्यति । ब्रह्मप्रकल्पितान् विप्रान् हव्यकव्या-
दिनार्च्चयेत् । तैस्तुष्टैस्तोषिताः सर्वाः पितृभिः
सहदेवताः । गयायां नहि तत्स्थानं यत्र बीर्थं न विद्यते ।
सान्निध्यं सर्वतीर्थानां गयातीर्थं ततो वरम् । मीनमेषे
स्थिते सूर्य्ये कन्यायां कार्मुके घटं । दुर्ल्लभं त्रिषु
लोकेषु गयायां पिण्डपातनम् । मकरे वर्त्तमानेऽर्के
ग्रहणे चन्द्रसूर्य्ययोः । दुर्ल्लभं त्रिषु लोकेषु गयाश्राद्धं
सुदुर्लभम् । गयायां पिण्डदानेन यत् फलं लभते बरः ।
न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि” ।
तद्यात्राविधिश्च तत्रैव ६ अ० । “सनत्कुमार उवाच ।
गयायात्रां प्रवक्ष्यामि शृणु नारद! मुक्तिदाम् ।
निष्कृतिः पिण्डकर्त्तृणां ब्रह्मणा गीयते पुरा । उद्यतश्चे-
द्गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कर्पटिवेशं
कृत्वा ग्रामं प्रदक्षिणम् । ततो ग्रामान्तरं गत्वा श्राद्ध-
शेषस्य भोजनम् । ततः प्रतिदिनं गच्छेत् प्रतिग्रह
विवर्ज्जितः । प्रतिग्रहादपावृत्तः सन्तुष्टो नियतः
शुचिः । अहङ्कारविमुक्तो यः स तीर्थफलमश्रुते ।
यस्य हस्तौ च पादौ च मनश्चापि सुसंयतः । विद्या
तपश्च कीर्त्तिश्च स तीर्थकलमश्रुते । ततो गयाप्रवेशे च
पूर्वतोऽस्ति महानदी । तत्र तोयं समुत्पाद्य स्नातव्यं
निर्मले जले । देवादींस्तर्पयित्वाथ श्राद्धं कृत्वा
यथाविधि । स्वस्ववेदशाखोदितमर्ध्यावाहनवर्जितम् ।
अपरेद्युः शुचिर्भूत्वा गच्छेद्वै प्रेतपर्वतै । ब्रह्रकुण्डे
ततः स्नात्वा देवादींस्तर्पयेत् सुधीः । कुर्य्यात् श्राद्धं
पृष्ठ २५३९
सपिण्डानां प्रयतः प्रेतपर्वते । प्राचीनावीतिनाभ्यर्च्च्य
दक्षिणाभिमुखः स्मरन् । “कव्यवालोनलः सोमो
यमश्चैवार्य्यमा तथा । अग्निष्माश्चा बर्हिषदः सोमपाः पिवृ-
देवताः । आगच्छन्तु महाभागा युष्माभी रक्षिताख्विह” ।
“मदीयाः पितरोये च कुलेजाताः कुलाह्वयाः । तेषां
पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम् । ते सर्वे
तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम्” । आचम्योक्त्वा च
पञ्चाङ्गं प्राणायामं प्रयत्नतः । पुनरावृत्तिरहितः
ब्रह्मलोकाप्तिहेतवे । एवञ्च विधिवत् श्राद्धं कृत्वा पूर्वं
यथाक्रमम् । पितॄनावाह्य चाभ्यर्च्च्य मन्त्रैः पिण्ड-
प्रदोभवेत् । तीर्थ प्रेतशिलादौ च चरुणा सवृतेन वा ।
प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक् पृथक् । मन्त्रै
स्तैरथ संपूज्य पञ्चगव्यैश्च देवताम् । यावत्तिला
मनुष्यैश्च गृहीताः पितृकर्म्मसु । गच्छन्ति तावदन्नुराः
सिंहत्रस्ता यथा मृगाः । श्रष्टकासु च वृद्धौ च गयायां
चाक्षयेऽहनि । मातुः श्राद्धं पृथक् कुर्य्यादन्यत्र
पतिना सह । वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम् ।
गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन तत्त्वतः । सक्तुना
मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम् । आव्रह्मस्तम्भ-
पर्य्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृ-
मातामहादयः । अतीतकुलकोटीनां सप्तद्वीपनिवा-
सिनाम् । आ ब्रह्मभुवनात् लोकादिदमस्तु तिलोदकम् ।
पिता पितामहश्चैव तथैव प्रपितामहः । माता पिता-
मही चैव तथैव प्रपितामही । मातामहस्तत्पिता च
प्रमातामहकादयः । तेषां पिण्डो मया दत्तोह्यक्षय्य-
मुपतिष्ठताम् । मुष्टिमात्रप्रमाणञ्च आर्द्रामलकमात्र-
कम् । शमीपत्रप्रमाण वा पिण्डं दद्याद्गयाशिरे । उद्ध-
रेत् सप्तगोत्राणां कुलानि शतमुद्धरेत् । पितुर्मातुश्च
भार्य्याया भगिन्या दुहितुस्तथा । पितृष्वसुर्मातृष्वसुः सप्त
गोत्राः प्रकीर्त्तिताः । विंशतिर्विंशतिरिन्द्राः १४ षोड़श
द्वादशैव हि । रुद्राश्च ११ वसव ८ श्चैव कुलान्येकोत्तरं शतम् ।
नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः ।
सकारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः । पिण्डासनं
पिण्डदानं पुनः प्रत्यवनेजनम् । दक्षिणा चान्नसंकल्प-
स्तीर्थश्राद्धेष्वयं विधिः” ।
अधिकं मदीयगयाश्राद्धादिपद्धतौ दृश्यम् । गयाश्राद्धस्य
कलादेराधारादिकं गयाश्राद्धादिपद्धतौ अस्माभिर्न्यरूपि
यथा “गयाश्राद्धफलं किंनिष्ठमिति, विविच्यते । “यन्नाम्ना
पातयेत् पिण्डम्” इत्यादिवचनजातात् पुत्त्रादिकृतश्रा-
द्धात् तदुद्देश्यपित्रादिगतं नरकनिवृत्तिब्रह्मलोकावाप्त्या-
दिफलमवगम्यते तच्च नोपपद्यते । तथा हि सर्व्वो
हि लोकः स्वेष्टसाधने कर्मणि प्रवर्त्तते तत्प्रवृत्त्या च
तत्तदिष्टसाधनं वस्तु साधयति इत्येवं नियमे स्थिते
वैदिककर्म्मण्यपि तथैव स्वाभीष्टफलवत्येव प्रवृत्तिरुचिता
नान्यगामिफले । एवं शास्त्रदेशितं फलमनुष्ठातर्य्येव
कर्म्मभिर्ज्जन्यते “शास्त्रीयं फलं प्रयोक्तरि तल्लक्षणत्वा-
दिति” जैमिनीयन्यायात् । अन्यकर्त्तृकक्रिययाऽन्यदीय-
फलस्य जननेऽतिप्रसङ्गः स्यात् । ततश्च पुत्त्रादिकृतश्राद्धात्
कथं पित्रादेरुद्धारादिसम्भवः तस्य श्राद्धाद्यकर्त्तृत्वात्
इत्येवं प्राप्ते उच्यते “यस्मिन् जाते एतामिष्टिं निर्व-
पति पूत एव सः” इत्यादिवेदवचनात् जैमिनीयन्या-
यस्य जातेष्ट्यादिभिन्नविषयत्वं कल्प्यते । तथा च
पित्त्रादिकृतजातेष्ट्यादिद्वारा अन्नाशनादिसंस्कारद्वारा
च यथा तत्राऽकर्त्तर्य्यपि पुत्त्रे फलमुत्पद्यते एवं
गयादिश्राद्धकर्त्तुरुद्देश्यस्याकर्त्तुरपि उद्धारादिफलसम्बन्धः
नानापुराणवचनबलादपि सम्भवति “फलसंयोगस्त्वनोदिते
न स्यादशेषभूतत्वादिति” जैमिनीयन्यायान्तरेण विधिविशे-
षेणैव फलविशेषसम्बन्ध इत्युक्तत्वात् । तथा च प्रागु-
क्तातिप्रसङ्गस्य शास्त्रातिरिक्तविषयत्वमिति कल्प्यते
“नास्ति वचनस्यातिभारः” इति न्यायात् “वाचनिकेऽर्थे
न्यायानवतारात्” इति न्यायाच्च । तत्र वचनाच्चोभय-
गतफलसाधनताऽवगता जातेष्ट्यादिवत् । तच्च फलं
पुण्यविशेषस्तज्जन्यनरकाद्युद्धारो वेत्यन्यदेतत् । मीमां-
सादावेवैतद्विवेचितमित्युपरम्यते । काश्यादिमृतपितृक-
कृतगयाश्राद्धस्य तु कर्त्तर्य्येवाकरणनिबन्धनप्रत्यवायप-
रिह्रारमात्रं, सति कामे विशिष्टसन्तानश्च फलम् “गयायां
पिण्डदानेन पितॄणामनृणो भवेत्” इत्यादिवचने पितॄणा-
पाकरणस्यावश्यकतया तदकरणे प्रत्यवायबोधनात् “गया-
भिगमनं कर्त्तुं यः शक्तो नाभिगच्छति । शोचन्ति
पितरस्तस्य वृथा तस्य परिश्रमः” इति कूर्मपुराणीयेन
समर्थस्य गयाश्राद्धाऽकरणे वृथाजन्मतोक्तेः “जीवतोर्वाक्य-
करणात् प्रत्यव्दं भूरिभोजनात् । गयायां पिण्डदानाच्च
त्रिभिः पुत्त्रस्य पुत्त्रता” इत्यादिवचने गयाश्राद्धादिकर-
णेनैव पुत्त्रकार्य्यकारितया पुत्त्रत्वसिद्ध्युक्तेश्च । तेन
गयाश्राद्धं नित्यमत एव यथाशक्ति अनुष्ठेयं “नित्ये
यथा शक्रुयादिति” न्यायात् । तथापि सकृत्करणमेव
पृष्ठ २५४०
नित्यं तावतैव शास्त्रार्थसिद्धेः “सकृत्कृते कृतः शास्त्रार्थ
इति” न्यायात् आवृत्तिबोधकवीप्साद्यभावाच्च जन्मतिथ्या-
दिकृत्यवन्न पुनःपुनः करणावश्यकता । पुनःकरणे तु फला
धिक्यम् “यो भूय आरभते तस्य फले विशेषः” इति न्यायात्
“सकृद्गयाभिगमनं सकृत्पिण्डप्रपातनम्” इत्यादिवाक्य-
मप्याद्यस्यैवाबश्यकत्वार्थं न तु द्वितीयादेर्निरासार्थमपि,
परिसंख्यापत्तेः । तत्रापि प्रथमयात्रायां येषां प्रेतत्वनि-
वारणार्थं प्रेतशिलायां पिण्डदानभाण्डस्फोटने कृते
तत्र द्वितीययात्रायां तेषां ते न कार्य्ये इत्येव विशेषैः ।
प्रथमयात्रानन्तरमृतानान्तु द्वितीययात्रायां ते अपि
कार्य्ये । अन्यत् सर्व्वं सर्व्वास्वपि यात्रासु समानम् ।
तस्मादमुक्ते पित्रादौ नरकोद्धारादि यथायथं फलं
मुक्ते तु तस्मिन् पुत्त्रादेः प्रत्यवायाभावः सत्याञ्च
कामनायां विशिष्टसन्तानादि पुत्त्रादिगतं फलं भवतीति
सिद्धम् । अत्रेदं विविच्यते प्रागुक्तपुराणादिबचनेषु
गयाश्राद्धस्य पित्राद्युद्धारः प्रत्यवायपरिहारः पुत्त्रावा-
प्तिश्च फलत्वेन श्रूयते तत्र गयाश्राद्धप्रवृत्तौ किं प्रयो-
जकं किमेकैकमुभयं वा त्रितयं वेति सन्देहे त्रितयस्यैव-
प्रयोजकता तत्र कामनाभेदादेकस्य मुख्यफलताऽपरयो-
र्द्वारता प्रासङ्गिकता वा तथा च यदा पित्राद्युद्धरार्थिना
गयाश्राद्धं क्रियते तदा तदेव मुख्यं फलं तत्प्रवृत्तौ
प्रयोजकं, प्रत्यवायपरिहारः पुत्त्रोत्पत्तिश्च तत्र प्रासङ्गिकौ
अन्थार्थदीपस्यानुद्देश्यप्रकाशनवत् । यदा तु पुत्रार्थिना
तदनुष्टीयते तदा पुत्त्रोत्प्रत्तिरेव मुख्यं फलं पित्राद्यु-
द्धारस्तु तत्र द्वारमित्येव सिद्धान्तः । एवं पित्राद्यु-
द्धारस्य फलत्वे स्थितेऽधुना तत्रेदं विचार्य्यते । उद्धारो
नाम स्वापेक्षयोत्कृष्टस्थानादिनयनं तच्च प्रकृते नारकी-
यदेहविगमानन्तरं देवाददेहप्रापिणरूपं तच्च न सम्भवति
नारकीयादिदेहादेः स्वस्वकर्म्मणारब्धतया कारणसत्त्वे
विगमासम्भवात् तत्कर्म्मणां च भोगेनैव नाश्यत्वात्
“नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपीति”
आगमात् । ततश्च तद्देहनाशः स्वारम्भककर्म्मनाश एव
नान्यथा । तथा च गयाश्राद्धादिना कथमुद्धारसम्भवः ।
प्रारब्धकर्म्मणाञ्च भोगादेव क्षये सति गयाश्राद्धेनोद्धारो
जननीय इति कल्पनापि न युक्ता भोगादेव कर्म्मक्षये
कल्प्ये गयाश्राद्धवैफल्यापत्तेः । इत्येवं स्थिते उच्यते
कर्म्मविपाकोक्तदानादिना प्रारब्धकर्म्मक्षयद्वारा यथा
रोगनाशकल्पना तथा प्रकृतेऽपि गयाश्राद्धादिना प्रारब्ध-
क्षयनाशद्वारैव उद्धारकल्पना “नाभुक्तं क्षीयते” इत्यादि-
वाक्यस्य तु बलवद्वाक्यस्यैव प्रतिबन्धकस्य सत्त्वेनाप्रवृत्तेः
“न हि वचनस्यातिभारः इति” न्यायात् तथा च
गयाश्राद्धस्यैव प्रारब्धक्षयजनकपुण्यविशेषजनकता कर्म्म-
विपाकोक्तदानादिवदेव कल्प्यते इति न कश्चिद्विरोधः ।
किञ्च भोगादेव प्रारब्धकर्म्म क्षयादनन्तरमुद्धारकल्पनेऽपि
न गयाश्राद्धवैफल्यं पापविशेषैरेकैकयोनिष्वनेकावृत्तिश्रव-
णात् फलोन्मुखानामितरेषामनारब्धफलार्ना कर्म्मणाञ्च
गयाश्राद्धनाश्यता भविष्यतोति । असति च नारकी-
याङ्गाद्यारम्भके पापे उद्धारस्य ब्रह्मलाकावाप्तिरूपतैव ।
स्वकर्म्मानुसारेण तल्लोकप्राप्तेरपि पूर्ब्बं वृत्तत्वे तु पुत्त्र-
निष्ठः प्रत्यवायपरिहार एव फलं मुक्तपित्रादौ
तथाकल्पनस्य पूर्व्वमुक्तत्वात् तथैवात्र कल्पनौचित्यात् ।
अथ गयाश्राद्धाधिकारिणः । तत्र पुत्त्रपौत्त्रप्रपौत्त्रा
एव प्रधानाधिकारिणः । तद्भिन्नाः सर्वेऽपि गौणाधि-
कारिणः । तथा “पुत्त्रेषु विद्यमानेषु नान्यो वै कारयेत्
स्वधाम्” इत्यादिवचनेन पुत्रसत्त्वेऽन्यकर्त्तृकश्राद्धस्य निषे-
धेऽपि गयायां तस्य प्रतिप्रसवः, “आत्मजो वाऽन्यजो
वापि गयाकूपे यदा तदा । यन्नाम्ना पातयेत् पिण्डं
तं नयेद् ब्रह्म शाश्वतम्” इति वायवीयवचनात् “सवर्णा
ज्ञातयो मित्रवान्धवाः सुहृदस्तथा । तेऽपि भूयो गयां
गत्वा पिण्डं दद्युर्विधानतः” इति स्मृतिरत्नावलीधृतवा-
क्याच्च । तथा चात्र सम्बन्धिमात्राणामधिकारः । यो
यदीयधनं यथा कथञ्चिद्गृह्लाति सोऽसवर्णोऽपि तदीय-
गयाश्राद्धेऽधिकारी, “प्रेतं किञ्चिद्विशुद्ध्यर्थम्” इत्यादि
वायवीयवचनेऽसवर्णवणिग्दत्तपिण्डेन प्रेतोद्धारस्य
कीर्त्तनात् पुत्रो वा बन्धुपुत्त्रों वा मित्रं वा स्वजनोऽपि
वा । ऋणिको वाथवा दद्याद् द्वयोः स्वर्गस्तदा तयोरिति”
वह्निपुराणीयाच्च । तथान्यत्र कर्त्तृविशेषविषयनिषेधोऽपि
गयायां न प्रवर्त्तते “न पुत्त्रेभ्यः पिता दद्यान्नानुजेभ्य-
स्तदाग्रजः । न पत्न्यै तु वतिर्द्दद्द्यात् बुद्धिमान् सुसमा-
हितः” इति च सामान्यतो निषिध्य “तेऽपि यान्ति
दिवं सर्वे पिण्डे दत्ते इति श्रुतिः । अतस्तेभ्योऽत्र यत्नेन
पिण्डं दद्यात् समाहितः” इति स्मृतिरत्नाबल्यां गयायां
प्रतिप्रसवात् बौधायनेनापि “पित्रा श्राद्धं न कर्त्तव्यं
पुत्त्राणान्तु कदाचन । भ्रात्राग्रजेन वा कार्य्यं भ्रा-
तॄणां न कनीयसाम् । अतिस्नेहेन कार्य्यऽवा
सपिण्डीकरणं विना । गयायामविशेषेण ज्यायानपि समा-
पृष्ठ २५४१
चरेदिति सामान्यतो निषिध्य गयायां प्रतिप्रसवाच्च ।
पूर्ब्बवचने अत्रेति गयायामित्यर्थः ।
अथ गयाश्राद्धानधिकारिणः । जीवत्पितृको जीवन्मातृकश्च
गयाश्राद्धे सर्वथानधिकारी । जीवत्पितृको मृतमातृकस्तु
यदि प्रसङ्गेन गयां प्राप्नोति तदा अन्वष्टकाश्राद्धमिव
मातृपार्वणमेव कुर्य्यात् “आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च
क्षयाहनि । मातुः श्राद्धं सुतः कुर्य्यात् पितर्य्यपि च
जीवति” इति मैत्रायणीयपरिशिष्टवाक्यात् । अत्र प्राप्ता-
वित्युक्त्या प्रासङ्गिकगमनं सूचितम् “गयां प्रसङ्गतो
गत्वा मातृश्राद्धं समाचरेदिति त्रिस्थलीसेतुधृतवचने
प्रसङ्गत इति पदस्य स्पष्टोपादानस्वरसात् । तेन जीवत्पि-
तृकस्य गयामुद्दिश्य गमने न मातृश्राद्धकरणम् । मातृ-
श्राद्धञ्चान्वष्टकाश्राद्धसाहचर्य्यात् पार्वणमेव कार्यमिति
त्रिस्थलीसेतुप्रभृतयः । अन्ये तु जीवन्मातृको मृतमा-
तृको वा जीवत्पितृकोऽपि पार्व्वणविधिना पिता-
महादीनां गयाश्राद्धं कुर्य्यात् जीवे पितरि वै पुत्रः
श्राद्धकार्य्यं विवर्ज्जयेत् । येषां वापि पिता दद्यात्तेषा-
मेके प्रचक्षते” इति हारीतवनोत्तरार्द्धेन जीवत्पितृक-
पार्वणस्य विधानेन गयायामपि तत्प्रवृत्तेरित्याहुः ।
आचार एवात्रान्यतरपक्षग्रहणे शरणम् ।
संन्यासिनस्तु सर्वकर्मपरित्यागितया गयाश्राद्धेऽनधि-
कारिणः । तथापि तत्र विष्णुपदादिश्राद्धस्थानेषु दण्ड-
मात्रस्पर्शनं प्रणवोपासनादिवत् तैराचरणीयं न तु श्राद्ध-
तर्पणादि “दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः ।
दण्डं स्पृष्ट्वा विष्णुपदे पितृभिः सह मुच्यते” इति
वायवीयात् स्पृष्ट्वा स्पर्शयित्वेत्यर्थः । पुत्त्रवत्याः स्त्रिया
नाधिकार इति गौडैकदेशिनामाचारः स तु मूला-
भावान्नादरणीयः ।
अथ गयाश्राद्धकालः । न तत्र कालशुद्ध्यपेक्षा
“गयायां सर्वकालेषु पिण्डं दद्यात् विचक्षणः ।
अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः ।
न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च वृहस्पताविति”
वायवीयात् । अत्र सर्वकालेष्वित्युपक्रमात् अस्ते इत्या-
द्युक्तिस्तु सर्वसमयाशुद्धिप्रयोजकनिमित्तमात्रोपलक्षणार्था
न तु रात्र्याद्रिपर्य्युदस्तकालग्रहणार्थेति बोध्यं सर्वत्र
तीर्थादौ रात्र्यादिकालस्य पर्य्युदस्ततया रघुनन्दना-
दिभिः स्वीकारात् । संक्रान्त्यादो तु फलातिशत्यः “गया-
श्राद्धं प्रकुर्वीत संक्रान्त्यादौ विशेषतः । काले वाऽपरपक्षे
वा चतुर्थ्यादितिथिष्वपीति” वह्निपुराणीयात् “मकरे
वर्त्तमानेऽर्के ग्रहणे चन्द्रसूर्य्ययोः । दुर्ल्लभं त्रिषु लोकेषु
गयायां पिण्डपातनमिति” वायुपुराणवाक्याच्च ।
तथान्येऽपि निषिद्धकाला गयायां प्रतिप्रसूताः । यथा
“विवाहव्रतचूड़ासु वर्षमर्द्धं तदर्द्धकम् । पिण्डदानं मृदा
स्नानं न कुर्य्यात्तिलतर्पणमिति” कार्ष्णाजिनिवचनेन,
“वृद्धिमात्रे तथान्यत्र पिण्डदाननिराक्रिया । कृता गर्गा-
दिभिर्मुख्यैर्म्मासमेकन्तु कर्मिणामिति” स्मृतिसंग्रहवा-
क्येन च विवाहादेरूर्द्धं वर्षादिकालपर्य्यन्तं पिण्डदानस्य
निषेधेऽपि “महालये गयाश्राद्धे मातापित्रोर्मृताहनि ।
कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः” इति, “पित्रोः
क्षयाहे यज्ञे च पितृयज्ञे महालये । गयायां पिण्डदा-
नस्य न कदाचिन्निराक्रियेति” च त्रिस्थलीसेतुधृतस्मृति
संग्रहवाक्याच्च तत्प्रतिप्रसवः । तथा तत्र तिलतर्पणनि-
षेधाभावोऽपि “उपरागे व्यतीपाते गयायामथ पर्वणि ।
आदित्यादिनिषेधेऽपि कर्त्तव्यं तिलतर्पणमिति” स्मृतिद-
र्पणधृतसंग्रहवाक्यात् ।
अथ गयाश्राद्धे निषिद्धकालः । “तीर्थश्राद्धं
गयाश्राद्धं श्राद्धमन्यच्च पैतृकम् । अवदमध्ये न कुर्वीत
महागुरुनिपातने” इति गारुड़ात् प्रमीतमहागुरु-
कस्य वर्षमात्रं गयाश्राद्धं निषिद्धम् । तत्रायं विशेषः
वृद्ध्यादिनिमित्तकसपिण्डीकरणे तु कर्तुं शक्यत एव
“अस्थिक्षेपं गयाश्राद्धं श्राद्धञ्चापरपक्षिकम् । अव्दमध्ये
न कुर्व्वीत सपिण्डीकरणं विना” इति गारुड़वाक्यान्त-
रात् । अत्राप्यपरोविशेषः यदि पितृभक्तिमान् तदाव्द-
मध्येऽपि गयाश्राद्धं कर्त्तुं शक्नोति “अस्थिक्षेपं गयाश्राद्धं
श्राद्धं चापरपक्षिकम् । प्रथमाव्देऽपि कुर्वीत यदि स्या-
द्भक्तिमान् सुतः” । इति त्रिस्थलीसेतुधृतवचनात् । अत्र
भक्तिः प्रीतिरिति बहवः । अन्ये तु अव्दमध्ये प्रेतस्य
देवतात्वयोग्यतासिद्धये देवतासंस्कारकमेकं पार्वणं कर्त्तव्यं
तदेव भक्तिपदाभिधेयं तच्च कृत्वा गयाश्राद्धं कुर्य्यादि-
त्याहुः । भक्त्या वर्षमध्ये गयाश्राद्धकरणे तु वृद्धाबिव
मासिकादीन्यपकृष्य कार्य्याणीति बोध्यम् । अत्रेयं सम्प्र-
दायानुसारिणी व्यवस्था अकृतसपिण्डनस्य प्रथमाव्दे
गयाश्राद्धं नैव कार्य्यं कृतसपिण्डनस्यापि सति सम्भवे
प्रथममाव्दे नैव कार्य्यमित्येव मुख्यः पक्षः प्रसङ्गतो
गयाप्राप्तौ पुनरागमनाद्यसम्भावनायान्तु भक्त्या, मतान्त-
रोक्तं श्राद्धं कृत्वा वा । प्रथमाव्देऽपि तत् कार्य्यं नित्य-
पृष्ठ २५४२
त्वादिति । महापातकिनामपि वर्षमात्रं गयाश्राद्धं न
कार्य्यम् “क्रियते पतितानां च गते संवत्सरे क्वचित् ।
देशधर्मप्रमाणत्वाद्गयाकूपे स्वबन्धुभिरिति” ब्राह्मात्
कूपग्रहणं गयास्थतीर्थमात्रोपलक्षणम् । पतितानामिति
यावद्दुर्मरणमृतानासुपलक्षणार्थं ते च विस्तरभया
न्नात्र लिखिताः । पुक्तञ्चैतत् मिताक्षरायां यावद्दुर्नि-
नित्तमृतानां संवत्सरादूर्द्धमेव नारायणबलिविधानपूर्ब्बकं
श्राद्धकरणस्योक्तत्रया गयाश्राद्धस्यापि तत्स्त्यानीयत्वेन
तत्काले एव करणौचित्यम् । अतएव तद्धृतषट्त्रिंश-
न्मतीयवाक्यम् “गोब्राह्मणमृतानाञ्च पतितानां तथैव च ।
ऊर्द्ध्वं संवत्सरात् कार्य्यं सर्वमेबौर्द्धदेहिकमिति” ।
अत्र सर्वमिति सर्वशब्दस्वरसात् नारायणबलेरिव
गयाश्राद्धादेरपि वर्षोत्तरमेव कर्त्तव्यता नार्वानिति प्रती-
यते । अतएव तद्वचनव्याख्यायां मिताक्षराकृता नाराय-
णबलिं कृत्वौर्द्धदेहिकं कार्य्यनित्युक्तम् । एबञ्चात्मघाति-
नाम् “नास्ति किञ्चिद्गयां विना” इत्युक्तिरपि वर्षोत्तरमेव
तत्कर्त्तव्यतार्थैवेति बोध्यम् । अथ कर्त्तृविशेषे गयाश्राद्ध-
विशेषः । तत्र “पितॄणां दत्तगक्षयमिति”, “पिण्डं दद्याच्च
पित्रादेरिति” च वायबीयात् पित्रादित्रयाणामुद्देश्यता ।
“पितरो यत्र पूज्यन्ते तत्र मातामहादयः” इत्युक्तेः,
गयासुपक्रम्यं “मातामहानामप्येवं श्रुतिरेषा सनातनीति”
पाद्मसृष्टिखण्डवचनाच्च, मातामहादीनामप्युद्देश्यतेत्येवं
षड्दैवतं पार्व्वणमिति गौड़ीयाः । “अत्वष्टकायां वृद्धौ
च गयायाञ्च मृताहनि । अत्र मातुः पृथक्श्राद्धमन्यत्र
पतिना सह” इति वाय्वग्निपुराणोक्तेः “नान्दीमुखेऽन्वष्ट-
कायां गयायाञ्च मृताहनि । पितामह्यादिभिः सार्द्धं
मातुः श्राद्धं समाचरेत्” इति शातातपोक्तेश्च मात्रादी-
नामप्युद्देश्यता तेन नवदैवत्यम् । तत्राप्ययं विशेषः ।
नान्दीमुखे असामवेदिनामेव नवदैवतपार्वणस्य विधानेन
तत्साहचर्य्यात् तद्वेदिनामेव नवदैवत्यमिति । “पित्रादि
नवदैवं वा तथा द्वादशदेवतम्” वह्निपुराणीयात्
मातामह्यादित्रिकसहितं नवदैवतमिति द्वादशदैवतं वा ।
तत्र वाशब्दश्रवणात् विकल्प एव गम्यते स च देशभेदा-
दिना व्यवस्थितः । पितृव्यादीनान्तु एकोद्दिष्टमेव
तदशक्तौ पिण्डदानमात्रं कार्य्यम् । तत्पत्नीनामपि पृथगे-
कैकोद्दिष्टादि कार्य्यम् “न योषिद्भ्यः पृथग्दद्यात्” इत्या-
दिना पृथग्दाननिषेधेऽपि “स्वगोत्रे परगोत्रे वा दम्पत्योः
पिण्डपातनम् । अपृथक् निष्फलं श्राद्धं पिण्डञ्चोदक-
तर्पणम्” इति वायवीये गयामुपक्रम्य सहदाननिषेधेन
तत्प्रतिप्रसवात् ।”
गयाकूप गयास्थकूपभेदे पुं० गयाक्षेत्र न० गयारूपे क्षेत्रभेदे
गयातीर्थ तद्रूपे तीर्थे न० । गयादित्य पु० तत्रत्यादित्य-
भेदे गयाशिरस् न० गयास्थे गयशिरसि । “सर्वे
सान्ता अदन्ताश्च” इत्युक्तेः गयाशिरमप्यत्र न० “पिण्डं
दद्यात् गयाशिरे” वायुपु० । गयाशीर्षगयाशेखरादयो-
ऽप्यत्र । ६ गन्तव्ये । “स्वरोऽसि गयोऽसि” ता० ब्रा० ।
“गयः फलाकाङ्क्षिमिर्गन्तव्यः” भा० ।

गर त्रि० गीर्य्यते गॄ--कर्म्मादौ पचादि० अच् । तत्र गणे गरट्

इति पाठात् टित्त्वात् स्त्रियां ङीप् । १ गीर्य्यमाणे २
उपविषे ३ रोगे ४ विषे च पु० हेमच० । “गरो गिरः पल्लननार्थ-
लाथवे मितञ्च सारञ्च वचो हि वाग्मिता” नैष० ।
“स्त्रियोऽन्नपानं नखरोममूत्रविड़ार्त्तवैर्युक्तमसाधुवृत्ताः ।
यस्मै प्रयच्छन्त्यरयो गरांश्च” सुश्रुतः । “विषनिमित्तस्तु
गरोपयोगाद्दुष्टतोयसवनात्” सुश्रुतः विषभक्षण-
जातश्वयथुकरणोक्तौ “अग्निदो गरदश्चैव शस्त्रपाणिर्ध-
नापहः” स्मृतिः । ५ विषभेदे न० हेमच० “तस्मादिदं गरं
भुञ्जे” भाग० ८ । ७ । ३३ श्लो० । ६ वत्सनाभाख्ये विषे
राजनि० बवादिषु पञ्चमे तिथ्यर्द्धरूपे ७ करणं न०
मेदि० । करणशब्दे विवृतिः । “गरोदूष्ये” पा०
गणसूत्रोक्ते ८ दुष्ये च तस्य उञ्छादि० अन्तोदात्तता ।
भावे अप् । ९ निगरणे पु० । ततः तार० इतच् । गरित
सञ्जातगरणे । गीर्य्यते कर्म्मणि अप् । १० भक्ष्ये चूर्णभेदे
“शृणु मन्दविषेषु” इत्युपक्रमे “योगैर्नानाविधैर्येषां
चूर्णानि गरमादिशेत्” सुश्रुतः ।
करणशब्दे अनुक्तत्वात् प्रसङ्गात् करणाधीशाः कृत्यभेदे
तेषां ग्रहणादिकं च वृ० ह्व० ९९ अ० उक्तं प्रदर्श्यते यथा ।
“ववबालवकौलवतैतिलाख्यगरबणिग्विष्टिसञ्ज्ञा-
नाम् । पतयः स्युरिन्द्रकमलजमित्रयमभूश्रियः सयमाः ।
कृष्णवतुर्द्दश्यर्धाद्ध्रुवाणि शकुनिश्चतुष्पदं नागम् ।
किन्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः ।
कुर्याद्ववे शुभचरस्थिरपौष्टिकानि, धर्मक्रिया द्विज-
हितानि च सालवाख्ये । सम्प्रीतिमित्रकरणानि च
कौलवे स्युः सौभाग्यसंग्रहगृहाणि च तैतिलाख्ये ।
कृषिवीजगृहाश्रयजानिं गरें बणिजि ध्रुवकार्य्ययणि-
ग्युतयः । नहि विष्टिकृतं विदधाति शुभं षरघात
विषादिषु सिद्धीकरणम् । कार्य्यं पौष्टिकमौषधादि
पृष्ठ २५४३
शकुनौ गूढानि मन्त्रास्तथा । गोकार्यादि चतुष्पदे द्विज-
पितॄनुद्दिश्यः राज्यानि च । नागे स्थावरदारुणानि
हरणं दौर्भाग्यकर्म्माण्यतः । किन्तुघ्ने शुभमिष्टकृत्यकरणं
मङ्गल्यसिद्धिक्रियाः ।”

गरघ्न पु० गरं हन्ति हन--टक् । १ कृष्णार्जके २ वर्वरे च

राजनि० । (गरुइ) ३ मत्स्यभेदे स्त्री ङीप् । भावप्र०
तद्गुणा उक्ता यथा “गरघ्नी मधुरा तिक्ता
तुवरा वातपित्तनुत् । कफघ्नी रुचिकृद्रुग्घ्नी दीपनो
वलवीर्य्यकृत्” ।

गरण न० गृ--सेचने गॄ--निगरणे वा भावे ल्युट् । १ सेचने

२ भक्षणे च । “गरुत्मान् गरणवान्” निरुक्तौ ६ । १८ ।
३ विषे शब्दचि० ।

गरद न० गरेण सेचनेन दीयते खण्ड्यते दो--खण्डने कर्मणि

वञर्थे क । १ विषे हेम० दा--क ६ त० । २ विषदातरि
त्रि० “अग्निदो गरदश्चैव” स्मृतिः ।

गरभ पु० गॄ--बा० अभच् । गर्भे हेमच० ।

गरल न० गिरति जीवनम् गॄ--अलच् गरं सेचनं लाति प्रती-

काराय ला--क वा । १ विषे अमरः । “स्मरगरलखण्डनं
मम शिरसि मण्डनम्” । “गरलमिव कलयति मलयसमी-
रम्” गीतगो० “संछादितं गरलमिवाशनेन” भा० व०
६७ अ० । २ तृणपुले (घासेर आटि) ३ सर्पविषे ४
मानभेदे च हेमच० ।

गरलारि पु० ६ त० । मरकतमणौ राजनि० ।

गरव्रत पुंस्त्री गरः विषवद्सर्पभोजनं व्रतमस्य । मयूरे शब्दरत्ना० ।

गरस् न० गॄ--बा० असुन् । १ भक्षणे । “सगरा असि

बुध्न्यः” ता० ब्रा० । “गरसा मक्षणेन सह वर्त्तमानः” भा० ।

गरहन् पु० गरं हन्ति हन्--विच् । १ कृष्णार्जके २ वर्वरे च

त्रिका० ।

गरा स्त्री गृ--गॄ--वा अच् अजादेराकृतिगणत्वात् टाप् ।

१ देवतालीवृक्षे राजनि० । भावे--अ । २ भक्षणे धरणी ।

गरागरी स्त्री गरं मूषिकविषमागिरति गॄ--अच् गौरा०

ङीष् । देवतालीवृक्षे अमरः ।

गरात्मक न० गरस्य विषस्येवात्मा यस्य । शिग्रुवीजे शब्दच० ।

गराथिका स्त्री गरे गरप्रतीकारेऽधिका श्रेष्ठा । लाक्षयाम्

रत्नमा० । गरायिकेति पाठान्तरे गर इवाचरति क्यच्-
ण्वुल् । तत्रार्थे ।

गरि (गिरुं करोतीत्यर्थे णिच्गुरोर्गरादेशः) गुरुकरणे अक० उभ० मेट् गरयति अजगरत् त ।

गरिमन् पु० गुरोर्भावः इमनिच् गरादेशः । अधःपतनसाधने

ऊर्द्धस्थितिविरोधिनि गुरुत्वरूपे गुणे । “पादाहतं यत्
सदृशं गरिम्णः” । “इतराङ्गवन्न यदिदं गरिमग्लपि-
तावलग्नमगमत्तनुताम्” माघः । “प्रोद्यद्राजफलो
गृहीतगरिमा विष्वग्वृतोभोगिभिः” सा० द० ।

गरिष्ठ त्रि० अतिशयेन गुरुः गुरु + इष्ठन् गरादेशः ।

१ अतिगुरौ । २ राजभेदे पु० “हविष्मांश्च गरिष्ठश्च
हरिश्चन्द्रश्च पार्थिवः” भा० स० ७ अ० शक्रसभ्योक्तौ ।
३ दैत्यभेदे पु० । “हविष्यश्च गरिष्ठश्च प्रलयो नरकः पृथुः”
हरिवं० २६३ अ० दैत्योक्तौ ।

गरी स्त्री गॄ--गचाद्यच् तत्र गणे गरट् इति पाठात् ङीप् ।

देवतालीवृक्षे अमरः गरागरीत्यत्र पदद्वयमित्यन्यमतात् ।

गरीयस् त्रि० अतिशयेन गुरुः गुरु + ईयसुन् गरादेशः ।

अतिगुरौ “सखा गरीयान् शत्रुश्च” “वाक्यस्यार्थगरीयसः”
माघः । स्त्रियां ङीप् । “तथापि शुश्रूषुरहं गरीयसीः”
माघः ।

गरुड़ पु० गरुद्भां डयते डी--ड पृषो० तलोपः । कश्यपा-

न्मजे विनतागर्भजाते १ पक्षिराजे अमरः । “विनतापि
सुसिद्धार्था वभूव मुदिता तदा । जनयामास पुत्रौ {??}-
रुणं गरुड़ं तथा । विकलाङ्गोऽरुणस्तत्र भास्करस्य
पुरःसरः । पतत्त्रिणान्तु गरुड इन्द्रत्वेनाभ्यषिच्यत”
भा० आ० ३१ अ० । विंशतिविधप्रासादमध्ये २ प्रासादभेदे ।
“गरुड़ाकृतिश्च गरुड़ो नन्दीति षट्चतुष्कविस्तीर्णः ।
कार्य्यश्च सप्तभौमो विभूषितोऽण्डैश्च विंशत्या” वृ० स० ५६ अ०
३ सैन्यनिवेशनभेदरूपे व्यूहभेदे । दण्डव्यूहेन तन्मार्गं
यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा
गरुड़ेन वा” मनुः । “सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो
वराहव्यूहः एष एव पृथुतरमध्यो गरुड़व्यूहः ताभ्यां
पार्श्वयोर्भये सति व्रजेत्” कुल्लू० ।

गरुड़ध्वज पु० गरुड़ो ध्वजोऽस्य । १ विष्णो अमरः । यथा

च तस्य तत्केतनत्वं तथा खगासनशब्दे पृ० २४१६ दृश्यम् ।
गरुड़केतनादयोऽप्यत्र । “पयांसि भक्त्या गरुड़ध्वजंस्य”
माघः । “महाक्षो गरुड़ध्वजः” विष्णुसं० ।

गरुड़पुराण न० गरुड़ायोक्तं विष्णुना पुराणम् । अष्टादश-

महापुराणान्तर्गते सप्तदशे महापुराणभेदे । गरुड़स्येदम्
उद्देश्यतया अण् गारुणमप्यत्र । तत्संख्याप्रतिपाद्यविष-
याश्च उत्तरख० १०८ अ० नारदीयपुराणोक्ताः यथा
“ब्रह्मोवाच । मरीचे! शृणु वच्म्यद्य पुराणं
गारुड़ं शुभम् । गरुडायाव्रवीत् पृष्टो भगबान् गरुड़ा-
पृष्ठ २५४४
सनः । एकोनविंशसाहस्रं तार्क्ष्यकल्पकथाचितम्” ।
तत्र पूर्वखण्डे । “पुराणोपक्रमो यत्र सर्गः सङ्क्षेपत
स्ततः । सूर्य्यादिपूजनविधिर्दीक्षाविधिरतः परम् ।
श्र्यादिपूजा ततः पश्चान्नवव्यूहार्च्चनं द्विज! । पूजा-
विधानञ्च वैष्णवं तथा पञ्जरं ततः । योगाध्यायस्ततो
विष्णोर्नामसाहस्रकीर्त्तनम् । ध्यानं विष्णोस्ततः
सूर्य्यपूजा मृत्युञ्जयार्च्चनम् । मालामन्त्राः शिवार्च्चाऽथ
गणपूजा ततः परम् । गोपालपूजा त्रैलोक्यमोहनं
श्रीधरार्च्चनम् । विष्ण्वर्च्चा पञ्चतत्त्वार्च्चा चक्रार्च्चा देवपूजनम् ।
न्यासादिसन्ध्योपास्तिश्च दुर्गार्च्चाऽथ सुरार्च्चनम् ।
पूजा माहेश्वरी चातः पवित्रारोहणार्च्चनम् ।
मूर्त्तिध्यानं वास्तुमानं प्रासादानाञ्च लक्षणम् । प्रतिष्ठा
सर्वदेवानां पृथक् पूजा विधानतः । योगोऽष्टाङ्गो
दानधर्मः प्रायश्चित्तविधिक्रिया । द्वीपेशनरकाख्यानं
सूर्य्यव्यूहश्च ज्यौतिषम् । सामुद्रिकं स्वरज्ञानं नवरत्न
परीक्षणम् । माहात्म्यमथ तीर्थानां गयामाहात्म्य-
मुत्तमम् । ततो मन्वन्तराख्यानं पृथक् पृथग् विभागशः ।
पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम् । श्राद्धं
विनायकस्यार्च्चा ग्रहयज्ञस्तथाऽऽश्रमाः । मलहाख्या प्रेता
शौचं नीतिसारो व्रतोक्तयः । सूर्य्यवंशः सोमवंशो-
ऽवतारकथनं हरेः । रामायणं हरिवंशो भारता
ख्यानकन्ततः । आयुर्वेदे निदानं प्राक्चिकित्सा द्रव्यजा
गुणाः । रोगघ्नं कवचं विष्णोर्गारुडस्त्रैपुरो मनुः ।
प्रश्नचूड़ामणिश्चान्ते हयायुर्वेदकीर्त्तनम् । ओषधी-
नामकथनं ततोव्याकरणोहनम् । छन्दःशास्त्रं
सदाचारस्ततः स्नानविधिः स्मृतः । तर्पणं वैश्वदेवञ्च सन्ध्या
पार्वणकर्म च । नित्यश्राद्धं सपिण्डाख्यं धर्मसारोऽघ
निष्कृतिः । प्रतिसंक्रम उक्तोऽस्माद्युगधर्माः कृतेः
फलम् । योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः ।
माहात्म्यं वैष्णवञ्चाथ नारसिंहस्तवोत्तमम् । ज्ञाना-
मृतं गुह्याष्टकं स्तोत्रं विष्ण्वर्च्चनाह्वयम् । वेदान्तसा-
ङ्ख्यसिद्धान्तं ब्रह्मज्ञानात्मकं तथा । गीतासारः
फलोत्कीर्त्तिः पूर्वखण्डोऽयमीरितः” । उत्तरखण्डे
प्रेतकल्पे । “अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः ।
यत्र तार्क्ष्येण संपृष्टो भगवानाह वाडव! । धर्मप्रकटनं
पूर्वयोनीनां गतिकारणम् । दानादिकं फलञ्चापि प्रोक्त
मत्रौर्द्ध्वदहिकम् । यमलोकस्य मार्गस्य वर्णनञ्च ततः
परम् । षोडशश्राद्धफलकं वृत्तानाञ्चात्र वर्णितम् ।
निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम् । प्रेतपीड़ा-
विनिर्द्देशः प्रेतचिह्ननिरूपणम् । प्रेतानां चरिताख्यानं
कारणम् प्रेततां प्रति । प्रेतकृत्यविचारश्च सपिण्डी
करणोक्त यः । प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये ।
आवश्यकोत्तनं दानं प्रेतसौख्यकरं हितम् । शारीरक-
विनिर्द्देशो यमलोकस्य वर्णनम् । प्रेतत्वोद्धारकथनं कर्म
कर्त्तृविनिर्णयः । मृत्योः पूर्वक्रियाख्यानं पश्चात् कर्म
निरूपणम् । मध्यं षोडशकं श्राद्धं स्वर्गप्राप्तिक्रियो-
हनम् । सूतकस्याथ सङ्ख्यानं नारायणबलिक्रिया ।
वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम् ।
अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम् । कृत्या
कृत्यविचारश्च विष्णुध्यानं विमुक्तये । स्वर्गतौ विहि-
ताख्यानम् स्वर्गसौख्यनिरूपणम् । भूर्लोकवर्णन-
ञ्चैव सप्तधा लोकवर्णनम् । पञ्चोर्द्धलोककथनं ब्रह्माण्ड-
स्थितिकीर्त्तनम् । ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूप-
णम् । आत्यन्तिकलयाख्यानं फलस्तुतिनिरूपणम् ।
इत्ये तद्गारुड़ं नाम पुराणं भुक्तिमुक्तिदम्” । तत्फल-
श्रुतिः । “कीर्त्तितं पापशमनं पठतां शृण्वतां नृणाम् ।
लिखित्वैतत्पुराणन्तु विषुवे यः प्रयच्छति । सौवर्णं
हंसयुग्माढ्यं विप्राय स दिवं व्रजेत्” ।

गरुड़मन्त्र पु० ६ त० । “संवर्त्तको नेत्रयुतः पार्श्वस्तारो-

ऽग्निसुन्दरी । (क्षिप ॐ स्वाहा) । गारुड़ो मनुरा-
ख्यातो विषद्वयविनाशनः । स्मरन् गरुड़मात्मानं मन्त्र-
मेनं जपेन्नरः । विषमालोचनेनैव हन्यान्नागभयं कुतः”
तन्त्रसारे निबन्धोक्ते विषहारके मन्त्रभेदे ।

गरुड़मुद्रा स्त्री “हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा

कनिष्ठके । मिथस्तर्जनिके श्लिष्टे श्लिंष्टावङ्गुष्ठकौ तथा ।
मध्यमानामिकाग्रे तु द्वौ पक्षाविव चालयेत् । एषा
गरुड़मुद्रा स्याद्विष्णोः सन्तोषवर्द्धिनी” तन्त्रसारोक्ते
विष्णुपूजाङ्गे मुद्राभेदे ।

गरुड़रुत न० “गरुड़रुतं नजौ भजतगा यदा स्युस्तदा”

छन्दो० उक्तलक्षणे षोड़शाक्षरपादके छन्दोभेदे ६ त० ।
गरुड़स्य २ रवे च “अमरमयूरमानसमुदे गरुड़रुतं सुरा-
रिभुजगेन्द्रसन्त्रासने” छन्दोम० ।

गरुड़वेगा स्त्री गरुड़स्य वेग इव वेगो गमने यस्या ।

शीघ्रोत्पद्यमानलताभेदे । “वीरुधयो वाराही ज्योति-
ष्मती च गरुडवेगा” वृ० सं० ५४ अ० ।

गरुड़व्यूह पु० गरुड़ इवाकृत्या व्यूहः । सैन्यनिषेशन-

विशेषंण गरुड़ाकृतौ व्यूहभेदे गरुड़शब्दे दृश्यम् ।
पृष्ठ २५४५

गरुड़ाग्रज पु० ६ त० । विनतायाः ज्येष्ठपुत्रे सूर्य्यसारथौ

१ अरुणे । अमरः । तस्य गरुड़ाग्रजत्वकथा गरुड़शब्दे
दृश्या । “विभिन्नवर्ण्णा गरुडाग्रजेन” माघः ।

गरुड़ाङ्कित न० गरुड इवाङ्कितं तुल्यवर्ण्णत्वात् । १

मरकतमणौ शब्दरत्ना० । गरुडाङ्कादयोऽप्यत्र ।

गरुड़ाश्मन् पु० गरुड इवाश्मा समानवर्ण्णत्वात् ।

मरकतमणौ जटाधरः ।

गरुड़ासन न० “गरुडासनमावक्ष्ये येन ध्यानस्थिरो

भुवि । सर्वदोषाद्विनिर्मुक्तो भवतीह महाबली ।
एकपादमूरौ बद्ध्वा एकपादे च दण्डवत् । जङ्घापाद-
सन्धिदेशे जान्वोरग्रं व्यवस्थितम् । एतदासनमाकृत्य पृष्ठे
संहारमुद्रया । आधार्य्य योगनाथञ्च स दास ईश्वरस्य
च” रुद्रयामलोक्ते आसनभेदे ।

गरुडोत्तीर्ण्ण पु० गरुडो वर्ण्णेनोत्तीर्णः अतिक्रान्तो येन ।

मरकतमणौ राजनि० ।

गरुड़ोपनिषद् स्त्री अथर्ववेदान्तर्गते गारुडाख्योपनिषद्भेदे । उपनिषच्छब्दे दृश्यम् ।

गरुत् पु० गृ--गॄ--वा उति । स्वगानां नभोगतिहेतौ पक्षे

(पाखा) अमरः । २ गरणे गरुत्मच्छब्दे उदा० । ३ भक्षणे च ।

गरुत्मन् पु० प्रशस्तौ गरुतौ स्तोऽस्य मतुप् यवादि० मस्य

न वः । १ गरुडे अमरः । “सुपर्ण्णोऽसि गरुत्मान्”
यजु० १२ । ४ । “अङ्ग सवितुर्गरुत्मान् पूर्व्वो जातः”
ऋ० १० । १४९ । ३ । २ हविर्भक्षणवति वह्नौ च । “सुपर्ण्णो-
ऽसि गरुत्मान् पृष्ठे” यजु० १७ । ७२ । “अग्ने!
त्वं सुपर्ण्णोऽसि सुपर्ण्णपक्ष्याकारो गरुड इवासि ।
गरुत्मान् गरुत् गरणं गिलनं भक्षणमस्यास्तीति
गरुत्मान् अशनायावानित्यर्थः” वेददी० । ३ पक्षिमात्रे च ।

गरुद्योधिन् पुंस्त्री गरुता युध्यति युध--णिनि ३ त० ।

भारतीखगे (भारुइ) त्रिका० ।

गरुल पु० गरुड + डस्य वा लः । गरुडे हेमच० ।

गर्ग पु० गृ--ग तस्य नेत्त्वम् । आङ्गिरसे मुनिभेदे । “वृहस्प-

तेरङ्गिरसः पुत्रो राजन्! महामुनिः । संक्रामितो
भरद्वाजः” इत्युपक्रमे “वितथञ्चाभिषिच्याथ भरद्वाजो वनं
ययौ । स चापि वितथः पुत्रान् जनयामास पञ्च
वै । सुहोत्रञ्च सुहोतारं गयं गर्गं तथैव च ।
कपिलञ्च महात्मानम्” हरिवं ३२ अध्या० । तस्य च
शिवतोषात् चतुःषष्ट्यङ्गज्योतिषज्ञानं यथाह भा० आनु०
१८ अ० । “गर्ग उवाच चतुःषष्ट्यङ्गमददत् कालज्ञानं ममा-
द्भुतम् । सरस्वत्यास्तटे तुष्टो(शिवः)मनोयज्ञेन पाण्डव!”
कलाज्ञानमित्यपपाठः । तस्य च कालज्ञानप्रकारः भा०
व० २८ अ० उक्तः । तच्च वाक्यं गर्गस्रोतस्शब्दे दृश्यम् ।
तत्कृता ज्योतिषसंहिता गर्गसंहितेति प्रसिद्धम् । “तल्लक्षणानि
सुनिर्मलानि निवद्धानि तानि दृष्ट्वेदम् । क्रियते गर्ग-
पराशरकाश्यपवात्स्यरचितानि” “गर्गादीनां मतं वीक्ष्य”
इति च वृ० सं० २१ अ० । स च भरद्वाजगोत्रान्तर्गतः
आर्षशब्दे ८१७ पृ० दृश्यम् । तस्य गोत्रापत्यं गर्गा० यत् ।
गार्ग्य तद्गोत्रापत्ये पुंस्त्री । यून्यपत्ये फक् । गार्ग्यायण
यूनि तद्गोत्रापत्ये पुंस्त्री । बहुषु यञोलुक् अस्त्रियाम् ।
“गर्गाः शतं भोज्यन्ताम्” महाभा० “गर्गाणामाङ्गिरस-
वार्हस्पत्यभारद्वाजशैन्यगार्ग्यश्चेति पञ्च” आश्व० श्रौ०
१० । १२ । १२ । स्त्रियन्तु ङीप् यलोपश्च गार्गी इत्येव “गार्गी
वाचक्नवी” आश्व० गृ० ३ । ४ । ४ । गार्ग्यश्च गार्ग्यायणश्च
इत्येकशेषे “वृद्धो यूना” पा० वृद्धशेषे गार्ग्यौ ।
कुणिरोगाक्रान्ते २ मुनिभेदे । “ऋषिरासीत्
महाबीर्य्यः कुणिर्गर्गो महायशाः” भा० ग० ५३ अ० ।
तत्कथा वृद्धकन्याशब्दे दृश्या । गयाक्षेत्रे यज्ञार्थं सृष्टे
ब्रह्मणो ३ गानसपुत्रभेदे । “ब्रह्मा सम्भृतसंभारो
मानसानृत्विजोऽसृजत्” इत्युपक्रमे “गर्गं कौशिकवासिष्ठौ
वायु० गयामा० २ अ० । ४ वृषे ५ किञ्चुलुके शब्दार्थचि० ।
“चतुर्द्रुतविरामान्तस्तालोऽयं गर्गसंज्ञितः” संगीतदामो-
दरोक्ते ६ तालभेदे पु० ।

गर्गत्रिरात्र पु० त्रिसृभिः रात्रिभिः साध्यः अण् द्विगो-

र्लुक् लुकि व्यक्तिवचनता गर्गकृतस्त्रिरात्रः । त्रिसुत्यके
त्रिदिनसाध्ये यागभेदे । “त्र्यहाः पञ्च गर्गवैदछन्दो-
मान्तर्वसुपराकाः” कात्या० श्रौ० २३२ । ८ । “त्र्यहाः
(त्र्यह साध्याः”) पञ्च अहीनाः । “द्विगौ क्रतौ”
पा० पूर्वपदमन्तोदात्तम् । युक्तारोह्या० आद्युदात्तञ्च

गर्गर पुं स्त्री गर्गेति शब्दं राति रा--क गृ--बा० गरन्

वा । “यः पीतवर्णोऽपि च पिच्छिलाङ्गः पृष्ठेषु रेखा-
बहुलः सशल्कः । स गर्गरो वर्वरनादरूक्षो जडश्च
शीतः कफवातकारी” राजनि० उक्ताकारगुणे मत्स्य-
भेदे स्त्रियां जातित्वात् ङीष् । २ तरुणपशौ ३
दधिमन्थनभाण्डे च शब्दार्थचि० “गर्गरोद्गारनिस्वनम्”
हरिवं० ६१ अ० । “नैषां ब्रह्म च नोतपुत्रा न गर्गरो
मथ्यते नो यजन्ते” भा० शा० ७० अ० । “न वृषाः
संप्रवर्त्तेरन्नमथ्येरंश्च गर्गराः” भा० शा० ६८ अ० ।
पृष्ठ २५४६
४ कलसे अल्पार्थे ङीप् । ५ स्वल्पघटे स्त्री “मेषादौ सक्तवो
देया वारिपूर्ण्णा तु गर्गरी” ति० त० । गर्गरस्येदम् कुर्वा०
ण्य । गार्गर्य्य तत्सम्बन्धिनि त्रि० ।

गर्गशिरस् पु० दैत्यभेदे । “इरा गर्गशिरायश्च” हरिवं० ३ अ० ।

गर्गसंहिता स्त्री गर्गेण कृता कालज्ञानस्य संहिता ।

गर्गकृते ज्योतिषग्रन्थभेदे ।

गर्गस्रोतस् न० भा० व० प्रसिद्धे सरस्वतीर्थस्थेतीर्थभेदे

“तस्माद्गान्धर्वतीर्थाच्च महाबाहुररिन्दमः । गर्गस्रोतो
महातीर्थमाजगामैककुण्डली (बलभद्रः) । यत्र गर्गेण
वृद्धेन तपसा भावितात्मना । कालज्ञानगतिश्चैव ज्यो-
तिषाञ्च व्यतिक्रमः । उत्पाता दारुणाश्चैव शुभाश्च
जनमेजय! । सरस्वत्याः शुभे तीर्थे विदिता वै
महात्मना । तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ।
तत्र गर्ग” महाभागमृषयः सुव्रता नृप! । उपासाञ्च-
क्रिरे नित्यं कालज्ञानं प्रति प्रभो!” भा० श० ३८ अ०

गर्गाट पुंस्त्री गर्गेति शब्दायाटति अट--अच् । मत्स्य-

भेदे हारा० ।

गर्गादि पु० गोत्रे यञ्प्रत्ययनिमित्ते शब्दगणे सच गणः

गर्ग वत्स (राजा से) संकृति अज व्याघ्रपात् विदभूत् प्रा-
चीनयोग अगस्ति पुलस्ति चमस रेभ अग्निवेश शङ्ख
शट शक एक धूम अवट मनस् धनञ्जय वृक्ष विश्वावसु
जरमाण लोहित संशित बभ्रु बल्गु मण्डु गण्डु शङ्कु
लिगु गुहलु मन्तु मङ्क्षु अलिगु जिगीषु मनु तन्तु मनायी
सूनु कथक कन्थक ऋक्ष वृक्ष तनु तरुक्ष तलुक्ष तण्ड
वतण्ड कपि कत कुरुकत अनडुह् कण्व शकल गोकक्ष
अगस्त्य कुण्डिनी यज्ञवलक पर्णवल्क अभयजात विरो-
हित वृपगण बहुगण शण्डिल चणक चुलुक मुद्गल
मुसल जमदग्नि परांशर जातूकर्ण महित सन्त्रित अश्म-
रथ शर्कराक्ष पूतिमाष स्थूरा अररक एलाक पिङ्गल
कृष्ण गोलन्द उलूक तितिक्ष भिषज् भिष्णज भड़ित
भण्डित दल्भ चेकित चिकित्सित देवहू इन्द्रहू एकलू
पिप्पलू वृहदग्नि सुलोहिन् सुलाभिन् उक्थ कुटीगु ।

गर्ज्ज ऊर्ज्जाहेतुकशब्दे भ्वा० षर० अक० सेट् । गर्ज्जति ।

अगर्जीत् जगर्ज । गर्जितम् । गर्जनं गर्जः । गर्जन् ।
गर्ज्जा । “गर्ज गर्जक्षणं मूढेति” देवीमाहात्म्यम् । “शरदि
गर्जति, न वर्षति, वर्षति वर्षासु निःस्वनो मेघः” उद्भटः ।
“कुम्भकर्ण स्ततोऽगर्जीत्” “गर्ज्जन् हरिः साम्भसि
शैलकुञ्जे” भट्टिः । “योधानां चैव गर्जताम्” भा०
भी० ६७८ श्लो० । “नाम संश्रावयामास जगर्ज च
ननाद च” रामा० सु० ८९ । शीलार्थे चानश् ।
गर्जमानः । “तथात्र गर्जमाने तु मेघदुन्दुभिनिस्वनम्”
भा० आ० २० अ० । “सन्ध्ययां गर्जिते मेघे शास्त्रचिन्तां
करोति यः । चत्वारि तस्य नश्यन्ति आयुर्विद्यायशो-
बलम्” स्मृतिः । “माधादिचतुरो मासान् गर्जमात्रं
विवर्जयेत्” स्मृतिः ।
  • अनु + गर्गनप्रतिरूपगर्जने । “अनुगर्जितसन्दिग्धाः करणै-
र्मुरजस्वना” कुमा० । अनुरूपगर्जने च । “सोऽनुगर्जन्
धनुष्पाणिः” भा० द्रो० ४० अ० ।
  • अभि + अभिलक्ष्य गर्जने सक० । “दुःशासनस्तामभिगर्ज-
मानः” भा० स० ६५ अ० । ताच्छील्ये चानश् । “शार्दूलाविव
चानन्योन्यमामिषार्थेऽभ्यगर्जताम्” भा० द्रो० १३३ अ० । सम्य-
ग्गर्जने अक० । “शूराणाञ्चाभिगर्जताम्” भा० क० २१ अ०
  • प्रति + प्रतिरूपगर्जने अक० । “वलवच्चापि संक्रुद्धावन्योन्यं
प्रतिगर्जताम्” भा० वि० २२ अ० । आर्षः पदव्यत्ययः ।
“प्रतीपं पततो मत्तान् कुञ्जरान् प्रतिगर्जतः” भा०
उ० ५० अ० “सुहृदयोहृदयः प्रतिगर्जताम्” रघुः ।
प्रतिलक्ष्यीकृत्य गर्जने सक० । “ऋषीणां कदनं कृत्वा
नामपि प्रतिगर्जति” हरिवं ४९ अ० ।

गर्ज्ज रवे चुरा० उभ० अक० सेट् । गर्ज्जयति ते

अजगर्जत्--त! गर्जयां बभूब आस--चकार चक्रे । गर्जयत्
गर्जयमानः ।

गर्ज पु० गर्ज--भावे घञ् । १ हस्तिशब्दे २ मेघादिशब्दे च

गुरुमत्त्वात् सेट्क्तत्वाच्च भावे अ स्त्रियाम् । गर्जा ।
३ मेघारिध्वनौ स्त्री “गण्डूषगर्जजागरभुजकीलज्वाल-
वर्त्तकव्रीड़ाः । उत्कण्ठसठबराटकरभसाः स्त्रीत्वे तु
टाबन्ताः” त्रिका० ।

गर्ज्जक पु० गर्ज--ण्वुल् । (शाल) मत्स्यभेदे शब्दर० ।

गर्ज्जन न० गर्ज--भावे ल्युट् । १ शब्दे करणे ल्युट् । २ कोषेमेदि० ।

गर्ज्जर न० गर्ज--बा० अरच् । १ गृञ्जने (गाजर) ख्याते

मूलप्रधाने दृक्षे भावप्र० । “गर्जरं गृञ्जनं प्रोक्तं तथां
सारङ्गवर्णकम् । गर्जरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं
लघु । संग्राहि रक्तपित्तार्शोग्रहणीकफबातजित्” ।

गर्जाफल पु० गर्जया फलति फल--अच् ३ त० । विकङ्कट-

वृक्षे राजनि० ।

गर्जि पु० गर्ज--भावे इन् । १ मेघशब्दे हेम० ।

पृष्ठ २५४७

गर्जित न० गर्ज--भावे क्त । १ मेघादिध्वनौ कर्त्तरि क्तः ।

२ मत्तगजे अमरः । ३ गर्जनकर्त्तरि मेघादौ त्रि०
“सन्ध्यायां गर्जिते मेघे शास्त्रचिन्तां करोति यः” स्मृतिः ।
गर्जो जातोऽस्य तार०--इतच् । ४ जातगर्जने त्रि० ।

गर्ज्य न० गर्ज--ण्यत् “न क्वादेः” पा० न कुत्वम् । गर्जनीये ।

गर्त्त पु० गॄ--तन् । १ भूमिछिद्रे १ त्रिगर्त्तदेशे ३ स्त्रीनितम्बस्थ

ककुन्दरे च विश्वः । ४ रोगभेदे शब्दर० । ५ गृहे निघ० ।
६ रथे ७ सभास्थाणौ च निरु० । “अभ्वातेव पुंस एति
प्रतीची गर्त्ता रुगिव सनये धमानाम्” ऋचो निरुक्तौ
गर्त्तः सभास्थाणुर्गृणातेः सत्यसङ्गरो भवति रथोऽपि
गर्त्त उच्यते गृणातेः स्तुतिकर्म्मणः स्तुततभं यानम्”
इति ३ । ५ । “वरुण! मित्र । गर्त्तमचक्षाथे” ऋ०
५ । ६२ । ८ । “गर्त्त रथम्” भा० “नमस्वन्ता धृतदक्षाधिगर्त्ते”
२५ । ६ । ५ । “गर्त्ते रथे” भा० । ८ खातभेदे “धनुः-
सहस्याण्थष्टौ च गतिर्यासां न विद्यते । न ता
नदीशब्दवहा गर्त्तास्ताः परिकीर्त्तिता” ति० त० । “स्नानं
समाचरेन्नित्यं गर्त्तप्रस्रवनेषु च” मनुः । ९ खातेन
कृतबिलमात्रदेशे च “अशुचिस्थानम् उच्छिष्टक्षेपणस्थान
गर्त्तादिकम्” मिता० । “न ससत्येषु गर्त्तेषु न गच्छ-
न्नापि च स्थितः” (मूत्रं कुर्य्यात्) भनुः । “गर्त्तेष्वव--काशी-
पालमित्यवधापयेत्” आश्व० गृ० २ । ८ । १४ । “सर्वासां
स्थूणानां गत्तेषु” नारा० “वर्षाभ्यस्तत्र गर्त्तेऽवदध्युः”
४ । ५ । ५ । “स्थाणुं वर्च्छत् गर्त्ते वा पात्यते” ऋ० भा० श्रुतिः ।
गर्त्तस्यादूरभवो देशः सुवास्त्वा० अण् । गार्त्त गर्त्तसन्नि-
कृष्टदेशादौ त्रि० । ततः चतुरर्थ्याम् प्रेक्षा० इनि । गर्त्तिन्
गर्त्तसन्निकृष्टादौ त्रि० स्त्रियां ङीप् । गर्त्ते भवः
धूमा० वुञ् । गार्त्तक गर्त्तभवे त्रि० । उत्करा०
चतुरर्थ्यां छ । गर्त्तीय गर्त्तयुक्तदेशादौ त्रि० । कुमुदा०
चतुरर्थ्या ठल् । गर्त्तिक गर्त्तसन्निकृष्टदेशादौ । गर्त्तं
तत्पतनमर्हति “छन्दसि च” पा० यत् । गर्त्त्य
गर्त्तपतनमर्हति त्रि० छन्दसीत्युक्तेः वेद एवास्य प्रयोगः ।

गर्त्तिका स्त्री गर्त्तोऽस्त्यस्याः ठन् । १ तन्त्रवपनशालायां (ताँ-

तघर) । हेमच० । २ गर्त्तवति त्रि० ।

गर्द्द रवे वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् । गर्द्द-

यति--ते गर्दति अजगर्दत्--त अगर्दीत् । गर्द्दयाम् बभूव
आस चकार चक्रोजक्रे जगर्द्द ।

गर्द्दभ पुंस्त्री० गर्द--अभच् (गाधा) १ जन्तुभेदे । स्त्रियां

जातित्वात् ङीष् । “सहैव दशभिः पुत्रैर्भारं वहति
गर्दभी” “अविश्राम वहेद्भारं शीतोष्णञ्च न विन्दनि ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभा
चाणक० । “दीपनं गार्दमं मूत्रं कृमि--वातक-
फापहः । शोफकुष्ठोदरोन्मादमारुतकृमिनाशनम्”
सुश्रु० तत्र पुंसामेव मूत्रं ग्राह्यं यथाह भावप्र०
“खरोष्ट्रेभतराश्वानां पुंसा मूत्रं हितं स्मृतम्” । तस्यो-
त्पत्तिः “अथ यासां पांसवः पर्य्यशिष्यन्त ततो गर्द-
भः समभबत् तस्माद्यत्र पांसुलं भवति गर्दभस्थानमिव
तत्रेत्याहुः” शत० ब्रा० ४ । ५ । १ । ९ । तस्थ पांसुषु उत्पन्न-
त्वात् पांसुलस्थानप्रियता । “चण्डालश्वपचानान्तु
बहिर्ग्रामात् प्रतिश्रयः । अपात्रास्ते च कर्त्तव्या धनमेषां श्व
गर्दभम्” मनुना तस्य श्वपचादिधनत्वमुक्तम् । २ गन्धे
हेमच० । ३ श्वेतकुसुदे ४ विडङ्गे च न० रत्नमा० ।

गर्द्दभगद पु० जालगर्दभाख्ये रोगभेदे राजनि० ।

जालगर्दभशब्दे लक्षणादि ।

गर्द्दभयाग पु० गर्दभेन यागः । अवकीर्ण्णिनः

पापक्षयार्थे नैरृतदेवताककाणगर्दभपश्वालम्भनेन कर्त्तव्ये
यागभेदे । । तद्विधिर्मनुनोक्तो यथा
“अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिन्निशि । हुत्वाग्नौ विधि-
बद्धोमानन्ततर्श्च समेत्यृ चा । वातेन्द्रगुरुवह्नीनां जुहुयात्
सर्पिषाऽऽहुतीः । कामतो रेलसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्द्धर्मज्ञा ब्रह्मवादिनः । मारुतं पुरु-
हूतञ्च गुरुं पावकमेव च । चतुरो व्रतिनोऽप्येति
ब्राह्मन्ते जोऽवकीर्णिनः” ।
गर्दभयज्ञ गर्दभेज्यादयोऽप्यत्र । तत्र विशेषः कात्या० श्रौ०
सूत्रे उक्तो यथा ।
“वाऽवकोर्णिनो गर्दभेज्या” सू० १ । १ । १३ “यो ब्रह्मचारी
सन् स्त्रियं गच्छति सोऽवकीर्णी तस्यावकीर्णिनः स्खलित-
ब्रह्मचर्यस्य गर्दभेज्या गर्दभेनेज्या यागो गर्दभेज्या प्राय-
श्चित्तार्था भवति । वाशब्दो विकल्पार्थः तेन गृह्योक्तमपि
प्रायश्चित्तान्तरमाज्याहुतिद्वयरूपं विकल्पेन भवति “अथाप-
रमाज्याहुती जहोति कामावकीर्णोऽस्मीत्यादिना” (पार-
स्कर) । शाखान्तरे उभयस्य विकल्पेन श्रुतत्वात्
अत्रैतद्विचार्य्यते किं स्थपतीष्टिरवकीर्णिपशुश्च तदुभय-
साधनसंस्कृतेष्वाहवनीयादिषु भवति उत लौकिके इति ।
तत्र प्रकृतित आहवनीवादिप्राप्रेराहवनीयादीनां
चाधाननिष्पाद्यत्वात् स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपि
इष्टिपशू आधानं प्रयोजतः अत एतदर्थमेवाधानेनाऽऽ-
पृष्ठ २५४८
हवनीयादीनुत्पाद्य तेष्वेतदुभयं कर्त्तध्यमिति प्राप्ते
आह” कर्कः । “लौकिके” १४ सू० । “एतौ स्थपतीष्ट्यवकीर्णिपशू
लौकिकेऽग्नौ भवतः न हीमाविष्टिपशू आधानं प्रयोजयतः
आभ्यां हि तदेव गृह्यते यद्दर्शपूर्ण्णमासाङ्गं भवति । न
चाधानं दर्शपूर्णमासाङ्गम् स्वकाले हि पुरुषसंस्कारकत्वेन
तद्विहितमिति । अतो लौकिकाग्नावेवैतावनुष्ठेयौ
लौकिकमेव गार्हपत्यस्थाने स्थापयित्वा तत आहवनीया-
दिस्थानेषु विहृत्य स्थपतीष्ट्यवकीर्णिपशू दशपूर्णमासप-
शुवत् कर्त्तव्यौ । अत्र विशेषविधानार्थमाह” कर्कः । “भूमौ
पशुपुरोडाशश्रपणम्” १५ सू० । “अत्रावकीर्णिनो गर्दभपशुयागे
पशुपुरोडाशस्य श्रपणं भूमावेव कर्त्तव्यम् न तु कपालेलु”
कर्कः । “अप्स्ववदानहोमः” १६ सू० । “अवदानानां हृदय-
जिह्वाक्रोडादीनां होमोऽप्सु उदकेषु भवति नाग्नौ
वचनात् । अवदानग्रहणाटन्यदाघाराज्यभागहोमादिकम-
ग्नावेव कार्य्यम्” कर्कः । “शिश्नात् प्राशित्रावदानम्” १७ सू० ।
“गर्दभस्य शिश्नात् प्राशित्रावदानं कार्य्यम् वचनात्” कर्कः ।

गर्दभशाक पु० गर्दभोगन्धो शाकेऽस्य । ब्रह्मयष्टिवृक्षे

(वामनहाटि) जटा० । २ तत्रैवार्थे स्त्री गौरा० ङीष् रत्नमा० ।

गर्दभशाखी स्त्री गर्दभो गन्धः शाखायां यस्याः गौरा०

ङीष् । १ भार्ग्याम् राजनि० ।

गर्दभाण्ड पु० गर्दभं गन्धममति अम--गतौ ड । पत्र-

काण्डफलादिभिरश्वत्थाकारे १ प्लक्षवृक्षे (पाकुड) अमरः ।
(पिप्पली) ख्याते २ वृक्षे सारसुन्दरी ।

गर्दभाह्वय न० गर्दभेति आह्वयो यस्य । १ कुमुदे हेमच० ।

गर्दभिका स्त्री “मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकावृतम् ।

रुजाकारीं गर्दभिकाम् तां विद्यात् वातपित्तजाम्”
माधवकरोक्ते रोगभेदे ।

गर्दभो स्त्री गर्द--अभच् गौरा० ङीष् । अग्निप्रकृतिके १

कीटभेदे सुश्रु० कीटशब्दे २०४८ पृ० विवृतिः । स्वार्थे क । २ गर्दभि-
कारोगे संज्ञायां कन् । ३ अपराजितायाम् ४ श्वेतकण्टकार्य्यां
५ कटभ्याञ्च राजनि० । गर्द्दभ + जातौ स्त्रियां ङीष् ।
६ गर्दभजातिस्त्रियाञ्च तत्क्षीरादिगुणाः “बल्यं वातश्वास-
हरं मधुराम्लं च गार्दभम् । पयो रूक्षं दीपनञ्च सुपथ्यं
परिकीर्त्तितम् । गार्दभं दधि रूक्षोष्णं लघु दीपननु-
च्यते । पाचनं मधुराम्लञ्च रुचिकृत् वातदोषहृत् ।
गार्दभं नवनीतं च कषायं कफवातहृत् । बल्यञ्च
दीपनं पाके लघूष्णं मूत्रदोषकृत्” राजनि० ।

गर्द्ध लिप्साया चुरा० उभ० सक० सेट् । गर्द्धयति त अजग-

र्द्धत् त । गर्द्धयाम् बभूव आस चकार चक्रे । गर्द्धः
गर्द्धा । गर्द्धनः ।

गर्द्ध पु० गृध--घञ् अच् वा । १ अतिशयस्पृहायां, हेमच० । २ गर्द्धभाण्डद्र मे च शब्दच० ।

गर्द्धन त्रि० गृध--युच् । लुब्धे अमरः ।

गर्ब गतौ भ्वा० पर० सक० सेट् । गर्बति अगर्बीत् जगर्ब ।

गर्ब दर्पे अद० चुरा० आत्म० अक० सेट् । गर्बयते अजगर्बत ।

गर्बः । गर्बितः । “तदग्रसारगर्बितकृष्णसारम्” रघुः ।

गर्ब पु० गर्ब--दर्पे भावे अच् । अहङ्कारे अमरः ।

गर्भ(र्ब्भ) पु० गृ--भन् वा द्वित्वे भस्य बः । भ्रूणे देहजन्मकारके

शुक्रशोणितानुबन्धजन्ये १ मांसपिण्डे, २ शिशौ, ३ कुक्षौ,
४ नाटकसन्धिभेदे, ५ पनसकण्टके मेदि० ६ अपवरके, हेमच०
“भाद्रकृष्णचतुर्दश्यां यावदाप्लवते जलम् । तावद् गर्भं
विजानीयात्” प्रा० त० उक्ते भाद्रकृष्णचर्दश्यां, गङ्गाज-
लाप्लावनस्थाने, ७ अन्ने, ८ अग्नौ, ९ पुत्रे च शब्दार्थचि० ।
गर्भस्य देहहेतुता कायशब्दे १९०८ पृ० दर्शिता कश्चिदत्र
विशेषोऽभिधीयते । तत्र भावप०
“कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः । गर्भः सञ्जा-
यते नार्य्याः स जातो वाल उच्यते । गर्भः शुद्धोऽशुद्धश्च
अशुद्धस्तु गर्भोऽशुद्धशुक्रशोणितयोरपि दम्पत्योर्भवति
यत आह “दम्पत्योः कुष्ठबाहुल्यात् दुष्टशोणित
शुक्रयोः । यदपत्यन्तयोर्जातं ज्ञेयं तदपि कुष्ठितमिति” ।
कुष्ठं सञ्जातं यस्य तत् कुष्ठितम्, अत्र तारकादित्वादि-
तच् प्रत्ययः । यत्तु, “वातादिदुष्टरेतसः प्रजोत्पादने न
समर्थाः” इति सुश्रुतः । तत्र शुद्धप्रजोत्पादने न
समर्था इति बोद्धव्यम् । रोगादिनाऽशुद्धास्तु वाता-
दिदुष्टशुक्रा अपि प्रजा जनयन्ति जन्मान्धवधिरप-
ङ्ग्वादिसम्भवात् । ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवगतः ।
मेढ्रयोन्यभिसङ्घर्षाच्छरोराष्माऽनिलाहतः । पुंसः सर्व-
शरीरस्थं रेतो द्रावयतेऽथ तत् । वायुर्मेहनमार्गेण
पातयत्यङ्गनाभगे । तत् संस्रुत्य व्यात्तमुखं याति गर्भा-
शयं प्रति । तत्र शुक्रवदायातेनार्त्तवेन युतं भवेत् ।
गर्भाशयस्य स्वरूपमाह शङ्खनाभ्याकृतिर्योनिस्त्र्या-
वर्त्ता सा च कीर्त्तिता । तस्यास्तृतीये त्वावर्त्ते गर्भ
शय्या प्रतिष्ठिता । यथा रोहितमत्स्यस्य मुखं भवति
रूपतः । तत्संस्थानां तथारूपां गर्भशय्यां विदु-
र्बुधाः । अयमर्थः गर्भशय्याया मुखं रोहित
मत्स्यस्येव भवति यथा च रोहितमत्स्यस्य स्थितिर्जले
भवति तथा पित्ताशयपक्वाशयमध्ये गर्भशव्यायाः
पृष्ठ २५४९
स्थितिर्भवति रूपमपि तस्येव भवति यथा रोहितस्य
मुखं स्वल्पमाशयस्तु महानित्यर्थः । शुक्रार्त्तवसमा-
श्लेषोयदैव खलु जायते । जीवस्तदैव विशति युक्त
शुक्रार्त्तवान्तरः । सूर्य्यांशोः सूर्य्यमणितोऽनुभयस्मा-
द्युताद्यथा । वह्निः सञ्जायते जीवस्तथा शुक्रार्त्तवाद्यु-
तात् । आत्माऽनादिरनन्तश्चाऽव्यक्तो वक्तुं न शक्यते ।
चिदानन्दैकरूपोऽयं मनसापि न गम्यते । एवं
भूनोऽपि जगतो भाविन्या बलवत्तया । अविद्यया कृत
कर्मवशो गर्भं विशत्यसौ । गर्भं चतुर्विंशतितत्त्व-
मयम् । स एव वेत्ता रसनो द्रष्टा घ्राता स्पृशत्यसौ ।
श्रोता वक्ता च कर्त्ता च गन्ता रन्तोत्सृजत्यपि ।
दिने व्यतीते नियतं सङ्कुचत्यम्बुजं यथा । ऋतौ
व्यतीते नार्य्यास्तु योनिः संव्रियते तथा । ऋतौ
रजोदर्शनात् षोड़शनिशात्मके काले योनिरत्र भगद्वारम् ।
“वीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ ।
यमावित्यभिधीयेते धर्मेतरपुरःसरौ । धर्मस्तदितरो-
ऽधर्मस्तौ पुरःसरौ ययोः तेन यमौ धर्माधर्माभ्यां भवत
इत्यर्थः । आधिक्ये रेतसः पुत्रः कन्या स्यादा-
र्त्तवेऽधिके । नपुंसकं तयोः साम्ये यथेच्छा पारमे-
श्वरी । नन्वेवं सति कथं पुत्रोत्पत्तिः सदैवार्त्तवस्यैव
वाहुल्यात् यत उक्तम् “आर्त्तवं चतुरञ्जलिप्रमाणं
शुक्रं प्रसृतिमात्रमिति” वाग्मटेऽप्युक्तमात्रेयादिभिः
“मज्जा मेदोवसा मूत्रपित्तश्लेष्मशकृदसृक् । रसो जलं
च देहेऽस्मिंस्त्वेकैकाञ्जलिवर्द्धितम् । पृथक् च प्रसृतं
प्रोक्तमोजोमस्तिष्करेतसाम् । द्वावञ्जली तु दुग्धस्य
चत्वारो रजसस्तु ते । समधातोरिदं मानं विद्यात्
वृद्धिक्षयावतः” इति । मैवं, यतो गर्भाशयस्थमेव
शुक्रमार्त्तवं च गर्भोत्पत्तिहेतुः शुक्रं कदाचिदत्यन्त-
हर्षवशाद्दुग्धादिशुक्रलद्रव्यसेवनात् शुक्रबाहुल्यात्
गर्भाशये बहु स्रवति कदाचिद्वैमनस्यादिना शुक्राल्प-
त्वादल्पमिति एवमार्त्तवमपीति न दोषः । सुश्रुतः
पुनराह “वैलक्षण्याच्छरीराणामस्यायित्वात् तथैव च ।
दोषधातुमलानां तु परिमाणं न विद्यते” । वैलक्षण्यात्
दीर्घह्रस्वकृशादिभेदेन सादृश्याभावात् अस्थायित्वात्
वयोहर्निशर्त्तुभुक्तेष्वेकमात्रानवस्थानात् । एवं तामभि-
सङ्गम्य पुनर्मासाद् भजेदसौ” मासादूर्द्धमिति शेषः । अर्वा-
ग्गमनेन गर्भद्वारविवट्टनात् गर्भच्युतिप्रसङ्गः स्यात् ।
केचित्तु, पुनः पुष्पदर्शनेन गर्भालाभनिश्चये मासात् पूर्वं
गच्छेत् लब्धगर्भां तु नोपगच्छेदिति वदन्ति । तत्र
परिहार्य्यपरिहारार्थं सद्योगृहीतगर्भाया लक्षण-
माह शुक्रशोणितयोर्योतेरास्रावोऽथ श्रमोद्भवः । सक्थि
सादः पिपासा च ग्लानिः स्फूर्त्तिर्भगे भवेत् । अथ
तस्या एवोत्तरकालीनं लक्षणमाह स्तनयोर्मुखकार्ष्ण्यं
स्याद्रोमराज्युद्गमस्तथा । अक्षिपक्ष्माणि चाप्यस्याः
संमील्यन्ते विशेषतः” ।
“छर्दयेत् पथ्यभुक् चापि गन्धादुद्विजते शुभात् । प्रसेकः
सदनं चैव गर्भिण्या लिङ्गमुच्यते । तत्र पुत्रगर्भवत्या
लक्षणमाह पुत्रगर्भयुतायास्तु नार्य्या मासि द्विती-
यके । गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृण ।
पिण्डो वर्त्तुलाकृतिः मासि द्वितीयक इत्यस्य गर्भः
पिण्डाकारो लक्ष्यः इत्यनेनैवान्वयो न त्वग्रिमश्लोकेऽपि ।
दक्षिणाक्षिमहत्त्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने ।
दक्षिणोरुः सुपुष्टः स्यात् प्रसन्नमुखवर्णतः । पुन्नामधेय
द्रव्येषु स्वप्नेष्वपि मनोरथः । आम्रादिफलमाप्नोति
स्वप्नेषु कमलादि च । कन्यागर्भवतीगर्भः पेशी मासि
द्वितीयके । पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते ।
पेशी दीर्घाकृतिः । नपुंसकं यदा गर्भे भवेद्गर्भोऽर्बुदा
कृतिः । उन्नते भवतः पार्श्वे पुरस्तादुदरं महत् ।
अर्बुदं वर्त्तुलं फलार्द्धतुल्यम् ।
“अपरा अपि गर्भप्रकृतीराह यदा नार्य्यावुपे-
यातां वृषस्यन्त्यौ कथञ्चन । मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थि
स्तत्र जायते । अनस्थिः अत्रेषदर्थे नञ् तेनाल्पको
मलास्थिरित्यर्थः । ऋतुस्नाता तु या नारी स्वप्ने मैथुन
माचरेत् । आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति
हि । मासि मासि प्रवर्द्धेत स गर्भो गर्भलक्षणः ।
कललं जायते तस्य वर्जितं पैतृकैर्गुणैः । गर्भलक्षणः
प्रकृतगर्भलक्षणः । पैतृकैर्गुणेः केशश्मश्रुलोमनख-
दन्तशिरास्नायुधमनीरेतःप्रभृतिभिः । सर्पवृश्चिककुस्माण्डा-
कृतयो विकृताश्च ये । गर्भास्ते योपितस्ताश्च ज्ञेयाः
पापकृतो भृशम् । गर्भो वातप्रकोपेण दोहदे चापमानिते ।
भवेत् कुब्जः कुणिः पङ्गुर्मूकोमिन्मिन एव च । पुत्राणा-
माहारचारचेष्टाभेदस्य हेतुमाह आहाराचारचेष्टाभि-
र्य्यादृशीभिः समन्वितौ । स्त्रीपुंसौ समुपेयातां तयोः
पुत्रोऽपि तादृशः । समुपेयातां संयोगं गच्छेताम् ।
अथ गर्भलक्षणमाह । गर्भाशयगतं शुक्रमार्त्तवं
जीवसंज्ञकम् । प्रकृतिः सविकारा च तत्सर्वं गर्भसंज्ञितम् ।
पृष्ठ २५५०
कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । भवेत्तदा स
मुनिभिः शरीरीति निगद्यते । अङ्गोपाङ्गसंयुतः
व्यक्ताङ्गोपाङः । तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुत-
शास्त्रतः । मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ।
आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः । तस्यान्त-
र्मस्तु लुङ्गं च ललाटं भ्रूयुगन्तथा । नेत्रद्वयं
तयोरन्तर्वर्त्तेते द्वे कनीनिके । दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ
च वर्त्मनी । पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुली-
द्वथम् । पालिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ।
ओष्ठाधरौ च सृक्किण्यौ मुखं तालुहनुद्वयम् । दन्ताश्च
दन्तवेष्टश्च रसना चिवुकङ्गलः । द्वितीयमङ्गं ग्रीवा तु
यन्या मूर्द्धा विधार्य्यते । तृतीथं बाहुयुगलं तदुपाङ्गा-
न्यथ ब्रुवे । तत्रोपरिगतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः ।
कफोणियुगं तदधः प्रकोष्ठयुगलन्तथा । मणिबन्धौ
तले हस्तौ तयोश्चाङ्गुलयो दश । नखाश्च दश ते स्थाप्या
दश च्छेद्याः प्रकीर्त्तिताः । चतुर्थमङ्गं वक्षस्तु
तदुपाङ्गान्यथ ब्रुवे । स्तनौ पुंसस्तथा नार्य्या विशेष
उभयोरयम् । यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ ।
गर्भवत्याः प्रसूतायास्तावेव क्षीरपूरितौ । हृदयं पुण्ड-
रीकेण सदृशं स्यादधोमुखम् । जाग्रतस्तद्विकसति स्वप-
तस्तु निमीलति । आशयस्तत्तु जीवस्य चेतनास्थान-
सुत्तमम् । अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ।
चेतनास्थानमुत्तममिति अयमभिप्रायः । चेतनानामधिष्ठानं
मनोदेहश्च सेन्द्रियः । केशलोमनखाग्रं च मलं द्रव्य-
गुणं विना” इत्युक्तवता चरकेण सकलं शरीरं चेतना-
स्थानमुक्तम् । तदयेक्षया हृदयं विशेषतश्चेतनास्थान-
मिति । कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते । कक्षे
उभे समाख्याते तयोः स्यातां च वङ्क्षणौ । उदरं
पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम् । सपृष्ठवंशं पृष्ठं तु
समस्तं सप्तमं स्मृतम् । उपाङ्गानि च कथ्यन्ते तानि
जानीहि यत्नतः । शोणिताज्जायते प्लीहा बामतो
हृदयादधः । रक्तवाहिशिराणां स मूलं ख्यातो
महर्षिभिः । हृदयाद्वामतोऽधश्च फुस्फुसो रक्तफेनजः ।
अथो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः । तत्तु-
रञ्जकपित्तस्य स्थानं शोणितजं मतम् । अधस्तु दक्षिणे
भागे हृदयात् क्लोग तिष्ठति । जलवाहिशिरामूलं
तृष्णाच्छादनकृन्मतम् । क्लोम तिलकम् । एतत्तु वातरक्त-
जम । अत्र वृद्ववाग्भटः “रक्तादनिलसंयुक्तात्कालीय-
कसमुद्भव इति । मेदः शोणितश्रोः साराद्वुक्कयोर्युगलं
भवेत् । तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ।
उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः ।
अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्द्दिशेत् ।
उण्डुकश्च कटी चापि त्रिकं बस्तिश्च वङ्क्षणौ । कण्डराणां
प्ररोहः स्यात् स्थानं तद् वीर्य्यमूत्रयाः । न एव
गर्भस्याधानं कुर्य्याद्गर्भाशये स्त्रियाः । शङ्खनाभ्या-
कृतिर्य्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता । यस्यास्तृतीये
त्त्वावर्त्ते गर्भशय्या प्रतिष्ठिता । वृषणा मवतः सारात्-
कफासृग्भ्यां च मेदसाम् । वीर्थ्यवाहिशिराधारौ तौ
मतौ पौरुषावहौ । मुदम्य मानं सर्वस्य सार्द्धे स्या-
च्चतुरङ्गलम् । तत्र स्युर्वलयस्तिस्रः शङ्खावर्त्तनिभास्तु ताः
प्रवाहिणी भवेत्पूर्वा सार्द्धाङ्गुलमिता मता । उत्स-
र्जनी तु तदधः सा सार्द्धाङ्गुलसम्मिता । तस्याधः सञ्च-
रणी स्यादेकाङ्गुलसमा मता । अर्द्धाङ्गलप्रमाणं तु बुधै
र्गुदमुखं मतम् । मलोत्सर्गस्य मार्गोऽयं पायुर्देहे
विनिर्मितः । पुंसः प्रोथौ स्मृतौ यौ तु तां नितम्बौ च
योषितः । तयोः ककुन्दरे स्यातां सक्थिनी त्वङ्गमष्टमम् ।
तदुपाङ्गानि च ब्रूमो जानुनी पिण्डिकाद्वयम् । जङ्घे
द्वे घण्टिके पार्ष्णी तले च प्रपदे तथा । पादावङ्गुलय-
स्तत्र दश तासां नखा दश” । अथेदं शरीरमपरेणापि
येन येन समवाथिकारणेनोत्षद्यते तानि सर्वाण्याह
अथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम् । आहारादेर्गति-
स्तस्य परिणामश्च वक्ष्यते । आर्त्तवं चाथ धातूनां
मलास्तदपधातवः । आशयाश्च कलाश्चापि वमाण्यथ च
सन्धयः । शिराश्च स्नायवश्चापि धमन्यःकण्डरास्तथा ।
रन्ध्राणि भूरिस्रोतांसि जालैः कूर्च्चाश्च रज्जवः ।
सेवन्यश्चाथ सङ्घाताः सीमन्ताश्च तथा त्वचः । लोमानि
लोमकूपाश्च देह एतन्मयो मतः” ।
१० मेघस्य जलवर्षणयोग्यतासम्पादके निमित्तभेदे स च
वृ० सं० २१ अ० उक्तो यथा
“दैवविदवहितचित्तो द्युनिशं यो गर्भलक्षणे भवति ।
तस्य मुनेरिव वाणी न भवति मिथ्याम्बुनिर्देशे । किं
वाऽतः परमन्यच्छास्त्रं ज्यायीऽस्ति यद्विदित्वैव । प्रध्यं-
सिन्यपि काले त्रिकालदर्शी कलौ भवति । केचिद्वदन्ति
कार्त्ति कशुक्लान्तमतीत्य गर्भदिवसाः स्यु । न तु तन्मतं
बहूनां, गर्गादीनां गतं वक्ष्ये । मार्गशिरःशुक्लपक्षप्रति-
पत्प्रभृति क्षपाकरेऽषाढाम् । पूर्वां बा समुपगते गर्भाणां
पृष्ठ २५५१
लक्षणं ज्ञेयम् । यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स
चन्द्रवशात् । पञ्चनवते दिनशते १९५ तत्रैव प्रसवमा-
याति । सितपक्षभवाः कृष्णे, शुक्ले कार्ष्णाद्युसम्भवा रात्रौ ।
नक्तं प्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् १
मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च । पौषस्य
कृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् । माघसितोत्था
गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति । माघस्य कृष्णपक्षेण
निर्दिशेद्भाद्रपदशुक्लम् । फाल्गुनशुक्लसमुत्था भाद्रपदस्या-
सिते विनिर्देश्याः । तस्यैव कृष्णपक्षोद्भवास्त ये तेऽश्व-
युक्शुक्ले । चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा-
गर्भाः । चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति ।
पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः । शेषा-
खपि दिक्ष्वेवं विपर्ययो भवति वायोश्च । ह्लादिमृदू-
दक्छिवशक्रदिग्भवो मारुतो वियद्विमलम् । स्निग्ध-
सितबहुलपरिवेषपरिवृतौ हिममयूखार्कौ । पृथुबहुल-
स्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् । काकाण्ड
मेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् । सुरचापमन्द्रगर्जित-
विद्युत्प्रतिसूर्यकाः शुभा सन्ध्या । शशिशिवशक्राशास्थाः
शान्तरवाः पक्षिमृगसङ्घाः । विपुलाः प्रदक्षिणचराः
स्निग्धमयूखा ग्रहा निरुपसर्गाः । तरवश्च निरुपसृष्टा-
ङ्कुरा नरचतुष्पदा हृष्टाः । गर्भाणां पुष्टिकराः सर्वेषा-
मेव योऽत्र तु विशेषः । स्वर्तुस्वभावजनितो गर्भविवृद्धौ
तमभिधास्ये । पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः
सपरिवेषाः । नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिम-
पातः । माघे प्रबलो वायुस्तुषारकलुषद्युती रविश-
शाङ्कौ । अतिशीतं सवनस्य च भानोरस्तोदयौ धन्यौ ।
फाल्गुनभासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः ।
परियेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः । प्रवन-
घनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवन-
सलिलविद्युत्स्तनितैश्च हिताय वैशाखे । मुक्तारजत-
निकाशास्तमालनीलोत्पलाञ्जनाभासः । जलचरसत्वा-
कारा गर्भेषु घनाः प्रभूतजलाः । तीव्रदिवाकर-
किरणाभितापिता मन्दमारुता जलदाः । रुषिता इव
धाराभिर्विसृजन्त्यम्भः प्रसवकाले । गर्भोपघातलिङ्गा-
न्युल्काशनिपांसुपातदिग्दाहाः । क्षितिकम्पखपुरकी-
लककेतुग्रहयुद्धनिर्वाताः । रुधिरादिवृष्टिवकृतपरिघेन्द्र-
धनूंषि दर्शनं राहोः । इत्युत्पातैरेभिस्त्रिविधैश्चान्यैर्हतो
गर्भः । खर्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः ।
गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति । भाद्रपदाद्वय-
विश्वाम्बुदैवपैतामहेष्वथर्क्षेषु । सर्वेष्वृतुषु विवृद्धो गर्भो
बहुतोयदो भवति । शतभिषगश्लेषार्द्राखातिमघासंयुत
शुभो गर्भः । पुष्णाति बहून्दिवसान् हन्त्युत्पातैर्हत-
स्त्रिविधैः । मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतु-
र्युक्ता । विंशतिरथ दिवसत्रयमेकतमर्क्षेण पञ्चभ्यः ।
क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः । शशिनि
रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः । गर्भसमयेऽति-
वृष्टिर्गर्भाभावाय दुर्निमित्तकृता । द्रोणाष्टांशेऽभ्यधिके
वृष्टं गर्भः स्रुतो भवति । गर्भः पुष्टः प्रसवे ग्रहोप-
घातादिभिर्यदि न वृष्टः । आत्मीयगर्भसमये करकामिश्रं
ददात्यम्भः । काठिन्यं याति यथा चिरकालधृतं पय ।
पयस्विन्याः । कालातीतं तद्वत सलिलं काठिन्यमुपयाति ।
पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्यातः । वर्षति
पञ्च समन्ताद्रूपेणैकेन यो गर्भः । द्रोणः पञ्चनिमित्ते
गर्भे त्रीण्याढकानि पवनेन । षड् विद्युता नवाभ्रैः
स्तनितैन द्वादश प्रसवे । पवनसलिलविद्युद्गर्जिताभ्रा-
न्वितो यः स भवति वहुतोयः पञ्चरूपाभ्युपेतः । विसृ-
जति यदि तोयं गर्भकालेऽऽतिभूरि प्रसवसमयमित्वा
शीकराम्भः करोति” ।
“गर्भोऽभवत् भूधरराजपत्न्याः” कुमा० । “नरपतिकुल-
भूत्यै गर्भमाधत्त राज्ञी” रघुः । “गर्भोजरायुणावृत
उण्वणं जहाति जन्मना” यजु० १९ । ७६ । “यथोल्वेणा-
वृतो गर्भस्तथा तेनेदमावृतम्” गीता । कुक्षिश्च गर्भ-
शायस्थानम् । तत्र “गर्भे यदि विपत्तिः स्यात् दशाह
सूतकी भवेत्” शु० त० “कुन्त्थ गर्भेण धारितः” भा० व०
१३७ अ० । “देहादुत्क्रमणं चास्मात् पुनर्गर्भं च सम्भ-
वम्” मनुः । आधारे अभन् । ११ गर्भारम्भकाले “गर्भा-
ष्टमेऽष्टमे वावदे ब्राह्मणस्योपनायनम्” मनुः । “तस्मात्
गर्भान्विते युग्मे पतिसौभाग्यवर्द्धैनी” उ० त० । १२ अभ्य-
न्तरे “तासां सुखैरासवगन्धगर्मैः” स्वस्त्यस्तु ते निर्गलिता-
म्बुगर्भं शरद्घनं नार्द्दति चातकोऽपि” “आविर्बभूव
कुशगर्भमुखं मृगाणाम्” “निधानगर्भामिव सागराम्ब-
राम्” रघुः । “भर्त्सनाश्च मधुरस्मितगर्भाः” सा० द० । “नष्टो
न दृश्यते यत्र शमीगर्भे हुताशनः” भा० श० ४८ अ० ।
जलोत्पादकगर्भे “अष्टमासधृतं गर्भं भास्करस्य
गभस्तिभिः । रसं सर्वं समुद्राणां द्यौः प्रसूते रसायनम्”
रामा० कि० २७ अ० । तस्याष्टमासधृतत्वञ्च मनुनोक्त
पृष्ठ २५५२
यथा “अष्टौ मासान् यथादित्यस्तोयं हरति नित्यशः”
मनुः । गर्भोत्पन्ने पुत्रे “अस्यास्त्वमष्टमो गर्भो हन्ता,
यां वहसेऽबुध!” भाग० १० । १ । २४ । “देवक्या जठरे गर्भं
शेषाख्यं धाम मामकम्” भाग० १० । ४ । ७ । नाटक-
सन्धिभेदश्च सा० द० उक्तो यथा “अन्तरैकार्थसम्बन्धः सन्धि-
रेकान्वये सति” सन्धिं लक्षयित्वा “मुखं प्रतिमुखं गर्भो
विमर्ष उपसंहृतिः । इति पञ्चास्य भेदाः स्युः” इति
तं पञ्चधा विभज्य “फलप्रधानोपायस्य प्रागुद्भिन्नस्य
किञ्चन । गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान् मुहुः”
तल्लक्षणमुक्त्वा तस्य गर्भशब्दार्थत्वे युक्तिप्रदर्शन मुखेन
उदाहृतं यथा
“फलस्य गर्भीकरणाद्गर्भः । यथा रत्नावल्यां द्वि-
तीयेऽङ्के “सुसङ्गता सहि अदक्खिणा दानिं सि तुमं,
जा एवं भट्टिणा हत्थेन गहिदावि कोबं ण मुञ्चसी-
त्यादौ समुद्भेदः । पुनर्वासवदत्ताप्रवेशे ह्रासः । तृतीये-
ऽङ्के “तद्वार्त्तान्वेषणाय गतः कथञ्चिरयति वसन्तकः”
इत्यन्वेषणम् । “विदू । ही ही भो भो कोसम्बीरज्जल-
म्भेणाबि ण तारिशो पिअबअस्सस्स परितोसो जादिसो
मम सआसादो पिअवअणं सुणिअ भविस्सदि” इत्यादौ
उद्भेदः । पुनरपि वासवदत्ताप्रत्यभिज्ञानात् ह्रासः ।
पुनः सानरिकायाः सङ्केतस्थानगमने अन्व षणम् ।
पुनर्लतापाशकरणे उद्भेदः ।
“यत्र मुख्यश्च नोपाय उद्भिन्नोगर्भतोऽधिकः” सा० द० ।
गर्भो जातोऽस्य तारका० इतच् । गर्भित जातगर्भे
काव्यदोषभेदे च । दोषशब्दे दृश्यम् । सगर्भ्यः ।

गर्भक पु० गर्भे केशमध्ये कायति कै--क । १ केशमध्यस्थे

माल्ये अमरः । गर्भ + संज्ञायां कन् । २ रात्रिद्वये न०
हेमच० ।

गर्भकर पु० गर्भं करोति गिष्पादयति सेवनेन कृ--ट । १ पुत्र-

जीववृक्षे भावप्र० । २ गर्भकारके त्रि० ।

गर्भकार पु० गर्भं करोति कृ--ण्वुल् । १ गर्भाधानकारके

पत्यादौ । गर्भे मध्ये कारः स्तवनकर्मणि वैराजस्य यत्र ।
रथन्तरस्तोमयोर्मध्ये वैराजपाठरूपे २ स्तोमभेदे न० ।
“गर्भकारञ्चेत् स्तुवीरंस्तथैव स्तोत्रियानुरूपान्” आश्व०
श्रौ० ९ । ५ । “शंसेदिति शेषः । रथन्तरेणाग्रे ततो
वैराजेन ततो रथन्तरेण । अनेन गर्भकारस्वरूप-
मुच्यते” नारा० वृ० । “वृद्धवैराजाभ्यां वैवम्” ६ सू० ।
“एवमेव गर्भकारमेवेत्यर्थः” नारा० वृ० ।

गर्भकोष पु० गर्भस्य कोष आधार इव । गर्भाशये ।

गर्भकोषसमासङ्गोमक्कल्लो योनिसंवृतिः । हन्यात् स्त्रियं
मूढ़गर्भे यथोक्ताश्चाप्युपद्रवाः” सुश्रुतः ।

गर्भगृह न० गर्भैव मध्यस्थं गृहम् । गृहमध्यभागे ।

“वातागनविमानेषु तथा गर्भगृहेषु च” मा० उ० ११७ अ० ।
“कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या बहिः
सख्या” सा० द० । गर्भभवनादयोऽप्यत्र । “निर्गत्य
गर्भभवनात्” मालतीमा० ।

गर्भघातिनी स्त्री गर्भं हन्ति हन--णिनि । लाङ्गलिकावृक्षे रत्नमा० ।

गर्भच्युति स्त्री ६ त० । गर्भस्रावे तत्कारणादि सुश्रुते उक्तं यथा

“ग्राम्यधर्म्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीड-
नधावनाभिघातविषमशयनासनोपवासवेगाभिघातातिरूक्ष-
कटुतिक्तभोजनशाकातिक्षारसेवनातिसारवमनविरेचसप्रे-
ङ्खोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैर्ब्बन्धनान्मुच्यते
गर्भः फममिव वृन्तबन्धनादभिघातविशेषैः । स विमुक्त-
बन्धनो गर्भाशयमतिक्रम्य यकृत्प्लीहान्त्रविवरैरबस्रंस
मानः कोष्ठसङ्क्षोभमापादयात तस्या जठरसङ्क्षोभाद्वायुर-
पानोमूढः पार्श्ववस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गाना-
मन्यतममापाद्य गर्भं व्यापादयति तरुणं शोणितस्रा-
वेण, तमेव कदाचिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तम-
निरस्यमानमपानवैगुण्यसंमोहितं गर्भं मूढगर्भमित्या-
चक्षते । ततः स कीलः प्रतिखुरो वीजकः परिघ
इति । तत्र ऊर्द्ध्ववाहुशिरःपादो यो योनिमुखं निरु-
णद्धि कील इव स कीलः । निःसृतहस्तपादशिराः
कायसङ्गी प्रतिखुरः । यस्तु निर्गच्छत्येकशिरोभुजः स
वीजकः । परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघ
इति चतुर्व्विधो भवतीत्येके भाषन्ते तत्तु न सम्यक्
कस्मात् स यदा विगुणानिलप्रपीडितोऽपत्यपथमनेकधा
प्रतिपद्यते तदा सङ्ख्या हीयते । तत्र कश्चित् द्वाभ्यां
सक्थिभ्यां योनिमुख प्रतिपद्यते कश्चिदाभुग्नैकसक्थिरे-
केन, कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्य्यगागतः ।
कश्चिदुरःपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायाव-
तिष्ठते । अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना ।
कश्चिदाभुग्नशिरा बाहुद्वयेन । कश्चिदाभुग्नमध्योहस्त-
पादशिरोभिः । कश्चिदेकेन सक्थ्ना योनिमुखमभि-
प्रतिपद्यतेऽपरेण पायुमित्यष्टबिधा मूढगर्भगति-
रुद्दिष्टाः समासेन । तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ
शेषानपि विपरीतेन्द्रियार्थाक्षेपकयोनिभ्रंससंवरणमक्कल्ल-
पृष्ठ २५५३
श्वासकासभ्रमनिपीडितान् परिहरेत् । भवन्ति चात्र ।
कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम् । प्रवर्त्तते
स्वभावेन नान्यथा पतितुं फलम् । एवं कालप्रकर्षेण
मुक्तो नाडीनिबन्धनात् । गर्भाशयस्थो यो गर्भो
जननाय प्रपद्यते । कृमिवाताभिघातैस्त तदेवोपद्रुतं फलम ।
पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः । आ
चतुर्थात्ततो मासात्प्रस्रवेद्गर्भविच्युतिः । ततः स्थिर-
शरीरस्य पातः पञ्चमषष्ठयोः । प्रविध्यति शिरो या तु
शीताङ्गी निरपत्रपा । नीलोद्धतसिरा हन्ति सा गर्भं
सच तां तथा । गर्भास्पन्दनमावीनां (गर्भवतीनाम्) प्रणाशः
श्यावपाण्डुता । भबत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते
शिशौ । मानसागन्तुभिर्म्मातुरुपतापैः प्रपीडितः ।
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः । वस्त-
मारविपन्नायाः कुक्षिः प्रस्पन्दते यदि । तत्क्षणाज्जन्म-
काले तं पाटयित्वोद्धरेद्भिषक् ।”
गर्भविच्युति गर्भपतनादयोऽप्यत्र ।

गर्भण्ड पु० गर्भस्याण्ड इव शक० । नाभिगुड़के (नाभिरगाँड़) त्रिका० ।

गर्भद पु० गर्भं ददाति सेवनेन दा--क । १ पुत्रजीववृक्षे

राजनि० । २ गर्भसम्पादके औषधभेदे च ।

गर्भदात्री स्त्री गर्भं ददाति दा--तृच् ङीप् । तापसवृक्षसमा-

गपत्रायामपत्यदायामोषधिभेदे राजनि० । “अपत्यदा तु
मधुरा शीतला पित्तदाहनुत् । नारीपुष्पादिदोषहारिणी
श्रमनाशिनी । गर्भसम्भवदात्री च सेवनात् परिकी-
र्त्तिता” राजनि० ।

गर्भदास पु० गर्भात् गर्भमारभ्य दासः । गृहजात-

दास्यामुत्पन्ने दासभेदे । “शूद्रस्य दानं वा दर्शनाविरो-
धाभ्याम्” कात्या० श्रौ० २२ । १ । ११ । सू० व्याख्यायां “शूद्रस्य
दानं भवति दृश्यते हि दानं पुरुषमेषे । “सपुरुषं
प्राचीदिग् घोतुः” शत० ब्रा० १३ । ६ । २ । ११ । “न च
विरोधो गर्भदासस्य” कर्कः ।

गर्भध न० गर्भं दधाति धा--क । रेतसि । “आऽहमजा-

नि गर्भधमा त्वमजासि गर्भधम्” यजु० २३ । १९ ।
“गर्भधं गर्भधारकं रेतः” वेददी० ।

गर्भधारण न० ६ त० । अपत्योत्पादनार्थं शुक्रशोणितानु-

बन्धरूपगर्भग्रहणे । तद्धारणलिङ्गञ्च मिताक्षारायां
दर्शितं यथा “गर्भधारणञ्च श्रमादिभिर्लिङ्गरवगन्तव्यं
तथाच श्रुतिः “सद्योगृहीतगर्भायाः श्रमो ग्लानिः
पिपासा अशक्त्या निषदनं शुक्रशोणितयोरनुबन्धः
स्फुरणञ्च योन्याः” गर्भशब्ददर्शिते भावप्र० वाक्ये विवृतिः
तद्धारणाय विधिः आ० त० दर्शितो यथा
“पुत्रानुत्पत्तौ पारस्करः “सा यदि गर्भं नादधीत निदि-
ग्धिकायाः सिंह्याः श्वेतपुष्पायाः उपोष्य पुष्येण
मूलमुद्धृत्य चतुर्थेऽहनि स्नातायां निशायामुदकेन पिष्ट्वा
दक्षिणस्यां नासिकायामासिञ्चतीति “इयमौषधी त्राय-
माणा सहमाना सरस्वती । अस्या अहं पुत्रः पितु-
रिव नाम जनयत्यभित इति” “सा परिणीता ऋतुकाले
कृताभिगमना यदि गर्भं न धारयति तदा उपोष्य
पुष्ये नक्षत्रे श्वेतकण्ठकारिकाया मूलमुत्थाप्य चतुर्थे-
ऽहनि ऋतुस्नातायाः पत्न्या रात्रावुदकेन दक्षिण-
नासापुटे पतिरियमीषधी त्रायमाणा, इति मन्त्रेण
सिञ्चति नस्यं दधाति दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां
गृहीत्वा प्राक्शिरःसंविष्टायाः इति । आयुर्वेदोयेऽपि ।
“पिप्पल्या शृङ्गवेरञ्च मरिचं नागकेशरम् । आज्येन
सह भुञ्जीत अपि बन्ध्या प्रसूयते” । “गर्भधारणजं
वाऽपि न खेदं समवाप्स्यसि” भा० व० १२६ अ० ।

गर्भनुद् पु० गर्भं नुदति नुद--क्विप् । कलिकार्य्यां वृक्षे

(विषलाङ्गला) भावप्र० ।

गर्भपाकिन् पु० गर्भस्य पाको पुष्टिः साध्यत्वेनास्त्यस्य

इनि । षष्टिधान्ये (षेटेरा धान) हेमच० । यथा च तस्य
गर्भपोषकत्वम् तथा गर्मपोषणशब्दे वक्ष्यते ।

गर्भपात पु० ६ त० । गर्भस्रावे स तु पञ्चमादिमासस्यैव

कठिनशरीरस्य भवति तत्प्रमाणं गर्भच्युतिशब्दे दृश्यम् ।

गर्भपातक पु० गर्भं पातयति सेवनात् पत--णिच्--ण्वुल् ।

रक्तशोभाञ्जने जटा० ।

गर्भपातन पु० गर्भं पातयति पाति--ल्यु । १ रीठावृक्षे भावप्र०

गौरा० ङीष् । २ कलिकारीवृक्षे स्त्री राजनि० ।

गर्भपातिनी स्त्री गर्भं पातयति--पत--णिच्--णिनि ङीप् ।

विशल्यावृक्षे जटाधरः ।

गर्भपोषण न० ६ त० । गर्भस्य पुष्टिसम्पादके विधौ स च सुश्रुते

दर्शितः यथा “गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा
शुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताव्राह्मणगुरु-
परा च भवेन्मलिनविकृतहीनगात्राणि न स्पृशेद्दुर्गन्ध-
दुर्दर्शनानि परिहरेदुद्वेजनीयाश्च कथाः, शुष्कं पर्य्युषित
कुथितं क्लिन्नं चान्नं नोपभुञ्जीत बहिर्निष्क्रमण शून्या-
गारचैत्यश्मशानवृक्षाश्रयान् क्रोधभयसङ्करांश्च भारा-
नुच्चैर्भाष्यादिकं परिहरेद्यानि च गभं व्यापादयन्ति
पृष्ठ २५५४
चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत नचायास-
येच्छरीरं पूर्वोक्तानि च परिहरेत् । शयनासनं मृद्वा-
स्तरणं नात्युच्चमपाश्रयोपेतमसंबाधं विदध्यात् । हृद्यं
द्रवं मधुप्रायं स्निग्धं दोपनीयसंस्कृतञ्च भोजनं भोजयेत्
सामान्यमेतादा प्रसवात् । विशेषतस्तु गर्भिणी प्रथम-
द्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत ।
विशेषतस्तु तृतीवे षष्टिकौदनं पयसा भोजयेच्चतुर्थे दध्ना
पञ्चमे पयसा षष्ठे सर्पिषा चेत्येके । चतुर्थे पयोनवनी-
तसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं
भोजयेत् । पञ्चमे क्षीरसर्पिःसंसृष्टं षष्ठे श्वदंष्ट्रासिद्धस्य
सर्पिषोमात्रां पाययेद्यवागूंवा । सप्तमे सर्पिः पृश्निपर्ण्या-
दिसिद्धम् एवमाप्याय्यते गर्भः । अष्टमे वदरोदकेन
वलातिबलाशतपुष्पपललपयोदधिमस्तुतैललवणमदनफलमधु-
घृतमिश्रेणाप्याययेत् पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थञ्च
वायोः । ततः पयोमधुरकषायसिद्धेन तैलेनानुबासयेद-
नुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति ।
अत ऊर्द्ध्वंस्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसव-
कालादेवमुपक्रान्ता स्निग्धा बलयती सुखमनुपद्रवा प्रसू-
यते” विधानपारि० तत्पोषणविधिर्मन्त्रभेदपूर्वको
दर्शितो विस्तरभयान्नोक्तस्तत्रैवावसेयः ।

गर्भप्रसव पु० ६ त० । गर्भस्य तत्स्थशिशोः प्रथमप्रका-

शनरूपे दर्शनयोग्यतापादनरूपकर्मभेदे तत्र कालश्च
“नवमे दशमे मासि प्रबलैः सूतिमारुतैः । निःसार्य्यते
वाण इव जन्तुश्छिद्रेण सज्वरः” याज्ञ० उक्तः । तद्वि-
धानं सुश्रुते दर्शितं यथा ।
“नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्त-
तिथ्यादौ तत्रारिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेत-
रक्तपीतकृष्णेषु भूमिप्रदेशेषु विल्वन्यग्रोधतिन्तुकभल्ला-
तकनिर्म्मितं सर्वागारं यथासङ्ख्यं तन्मयपर्य्यङ्कमुपलिप्त-
भित्ति सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं बाष्ट-
हस्तायतञ्चतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम् ।
जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने । सशूले
जघने नारी ज्ञेया सा तु प्रजायिनी । तत्रोपस्थित-
प्रसवायाः कटीपृष्ठं प्रति समन्ताद्वेदना भवत्यभीक्ष्णं
पुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखात् श्लेष्मा च ।
प्रजनयिष्यमाणां कृतमङ्गलामुष्णोदकपरिषिक्तामथैनां
कुम्नारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषि-
क्तामथैनां दम्भ तां यवापजा कण्ठात् पाययेत् । ततः
कृतोपधाने मृदुविस्तीर्णे शयने स्थितामाभुग्नसकथीमुत्ताना-
मशङ्कनीयाश्चतस्रः स्त्रियः परिणवयसः प्रजननकुशलाः
कर्त्तितनखाः परिचरेयुरिति अथास्या विशिखान्तर-
मनुलोममनुमुखमभ्यज्याद्ब्रूयाच्चैनामेका सुभगे!”
प्रवाहयस्वेति न चाप्राप्तावीं (अप्राप्तप्रसववेदनाम्) प्रवा-
हयस्व ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणि-
वङ्क्षणवस्तिशिरःसु प्रवाहयेथाः शनैः शनैः । ततो
गर्भनिर्गमे प्रगाढं, ततो गर्भे योनिमुखं प्रपन्ने
गाढतरमा विशल्यभावात् । अकालप्रवाहणाद्बधिं मूकं
व्यस्तहनुंमूर्द्धाभिघातिनं कासश्वासशोथोपट्टुतं वुब्जं
विकटं वा जनयति । तत्र प्रतिलोममनुलोमयेत् ।
गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्षनिर्मोकेण पिण्डी-
तकेन वा । बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयो-
र्द्धारयेत् सुवर्च्चलां विशल्यां का । अथ जातस्योल्वं
मुखञ्च सैन्धवसर्पिषा विशोध्य धृताक्तं मूर्द्ध्नि पिचु
दद्यात्ततो नाभिनाडीमष्टाङ्गुलायामसूत्रेण बद्ध्वा छेदये
त्तत्सुत्रैकदेशञ्च कुमारस्य ग्रीवायां सम्यग्बध्नीयात्
अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्म्मणि कृते
मधुसर्पिरनन्ताब्राह्मीरसेन सुवर्ण्णचूर्णमङ्गुल्यानाभिकया
लेहयेत्ततोवलातैलेनाभ्यज्य क्षीरवृक्षकषायेण सर्वगन्धो-
दकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं
कपित्थपत्रकषायेण वा कोष्णेन यथाकायं यथादोषं
यथाविभवञ्च । धमनीनां हृदिस्थानां विवृतत्वादनन्तरम् ।
चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्त्तते । तस्मात्प्र-
थमेऽह्नि मधुसर्पिरनन्तामिश्रं मन्त्रपूतं त्रिकालं पाययेद्-
द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च । ततः प्राङ्निवारित
स्तन्यं मधुसर्पिः स्वपाणितलसम्मितं द्विकालं कालयेत्” ।

गर्भभर्म्मन् न० गर्भस्य शिशोः भर्म्म भरणं भृ--भावे मनिन् ।

कुमारभृत्याकर्मणि तद्विधानादि सुश्रुतोक्तं कुमारभृत्या-
शब्दे दर्शितम् । “कुमारभृत्याकुशलैरनुष्ठिते भिषग्भि-
राप्तैरथ गर्भभर्म्मणि” रघुः ।

गर्भमास पु० गर्भस्य तदारम्भस्य मासः तत्सहितो मासः ।

१ गर्भारम्भमासे २ गर्भसहिते मासे च “यदि नाधीयात्
तृतीये गर्भमासे” आश्व० गृ० १ । १३ । २ । “गर्भसहितो
मासः गर्भमास” इति नारा० । ३ गर्भमाससंख्यमासे च गर्भ-
स्रावशब्दे दृश्यम् ।

गर्भयोषा स्त्री गर्भार्था योषा । गर्भस्थानीयायां स्त्रियाम्

“दृयं गङ्गेति “गयतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भ
योषा” भारते आनुशासनिकपर्वणि २ अध्याये ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/गदाभृत्&oldid=57714" इत्यस्माद् प्रतिप्राप्तम्