सामग्री पर जाएँ

वाचस्पत्यम्/क्षीरलता

विकिस्रोतः तः
पृष्ठ २३७८

क्षीरलता स्त्री क्षीरप्रधाना लता । क्षीरविदार्य्याम रालनि०

क्षीरवत् पु० क्षीरमिव निर्यासोऽस्त्यस्य मतप् मस्य वः १ अश्वत्थादौ

श्वेतनिर्य्यासयुक्ते वृक्षे । २ दुग्धयुक्ते त्रि० “अपूपवान् क्षीर-
चांश्चरुमेहसादतु” अथ० १८ । ४ । १६ स्त्रियां ङीप् । सा च
७ नदीभेदे “ततः क्षीरवतीं गच्छेत् पुण्यां पुण्यतमैर्वृताम् ।
पितृदेवार्चनपरो वाजपेयमवाप्नुयात्” भा० व० ८४ अ०

क्षीरवल्ली स्त्री क्षीरा क्षीरवती वल्ली । क्षीरविदार्य्याम् राजनि०

क्षीरवारि पु० क्षीरमिव वारि यस्य । क्षीरसमुद्रे

क्षीरवारिधि पु० क्षीरमिव वारि धीयतेऽस्मिन् धा--आघारे

कि! क्षीरसमुद्रे क्षीरसिन्धुपभृतयोऽप्यत्र

क्षीरविकृति स्त्री ६ त० (क्षीरसा) कूर्चिकायाम् अमरः

क्षीरविदारी स्त्री क्षीरमिव शुभ्रा विदारी । १ श्वेतभूमिकु-

ष्माण्डे शब्दाचि० । क्षीरप्रधाना विदारी । २ शुक्लकृष्णयो-
र्भूमिकुष्माण्डयोः राजनि०

क्षीरविषाणिका स्त्री क्षीरमिव विषाणमग्रमस्त्यस्य ठन् ।

१ वृश्चिकालीवृक्षे (विछाटि) जटाध० । २ क्षीरकाकोल्या-
म् राजनि०

क्षीरवृक्ष पु० क्षीरप्रधानोवृक्षः । १ उदुम्बरे जटा० २ क्षीरि-

कायां भरतः । ३ राजादन्याम् राजनि० ४ न्यग्रोधे
५ अश्वत्थे ६ मधूके (मौल) च सुश्रुतः । “चतुर्णां वा क्षीरवृ-
क्षाणां न्यग्रोधोदुम्बराश्वत्थमधूकानाम्” सुश्रु० “पत्राणि
क्षीरवृक्षाणाम्” सुश्रु० ।

क्षीरशर पु० क्षीरं शीर्य्यतेऽत्र शॄ--आधारे अण् । आभिक्षा-

यां हेमच० दधियोगात्तप्तोष्णपयसः श्रन्थनेन जायमान-
त्वात् तथात्वम् ।

क्षीरशाक न० “पक्वमेव हि यन्नष्टं क्षीरशाकं हि तत् पयः” भावप्र० उक्ते नष्टे दुग्धे (छेँडा दुध)

क्षीरशीर्ष पु० क्षीरमिव शीर्षमस्य । श्रीवासे चन्दनभेदे राजनि०

क्षीरशुक्ल पु० क्षीरमिव शुक्लः । ङ्गाटके (प नीयफल) शब्द-

च० । २ राजादन्यां राजनि० । ३ शुक्लभूकुष्माण्डे स्त्री अम०

क्षीरशुक्रा स्त्री क्षीरवत् शुक्रा । क्षीरकाकल्यां राजनि०

क्षीरश्री त्रि० क्षीरेण श्रीयते मिश्रीक्रियते श्री--कर्म्मणि

क्विप् । क्षीरमिश्रिते सीमादौ “शुक्रः क्षीरश्रीः” यजु०
८ । ५७ । “क्षीरमिश्रितः सोमः शुक्र एव भवति” वेददी०
क्षीरस्य श्रीरिव श्रीरस्य । २ दुगधतुल्यशोभाके त्रि० ।
६ त० । ३ दुग्धशोभायां स्त्री

क्षीरषट्पलक न० क्षीरेण षण्णां पञ्चकोलानां पलमत्र कप् ।

चक्र० उक्ते पक्वे घृते “पञ्चकोलैः ससिन्धूत्थैः पलिकैः
पयसा समम् । सर्पिः प्रस्थं शृतं प्लीहविषमज्वरगुल्मनुत्”

क्षीरषष्टिक न० क्षीरेण पक्वं षष्टिकम् । क्षीरपक्वे षष्टिक

धान्यान्ने । तच्च ग्रहयज्ञे बुधबलौ देयं यथाह
याज्ञ० “गुडौदनं पायसञ्च हविष्यं क्षीरषष्टिकम् ।
दध्योदनं हविश्चूर्ण्णं मांसं चित्रान्नमेव च । दद्यात्
ग्रहक्र तं तत्” ।

क्षीरस पु० क्षीरं स्यति सो--क । क्षीरशरे राजनि०

क्षीरसन्तानिका स्त्री० क्षीरस्य सन्तानोऽस्त्यस्य ठन् ।

आमिक्षायां (छाना) राजनि० “क्षीरसन्तानिका वृष्या
स्निग्धा पित्तानिलापहा” राजनि०

क्षीरसमुद्र पु० क्षीरतुल्यः स्वादुरसः समुद्रः । क्षीराम्बुधौ

क्षीरसागरादयोऽप्यत्र । “मथितःक्षीरसागरः” भाग० ८ । ८ । ४

क्षीरसर्पिस् न० क्षीरेण पक्वं सर्पिः । सुश्रुतीक्ते क्षीरतैल-

पाकविधिना क्षीरेण पक्वे घृतभेदे । क्षीरतैलपाक-
विधिः क्षीरतैलशब्दे उक्तः । “तैलहीनं वा क्षीरसर्पि-
रक्षितर्पणम्” सुश्रु० । “क्षीरसर्पिषा चैनमनुवासयेत्” सुश्रु०

क्षीरसार पु० क्षीरं सरति गच्छति कारणत्वेन सृ--अण् ।

क्षीरजाते शृङ्गाटकादिचूर्ण्णमिश्रणेन (पालजात) ख्याते
१ पदार्थे! ६ त० । २ नवनीते च “क्षीरसारमपनीय शङ्कया
स्वीकृतं यदि पलायनं त्वया” उद्भटः ।

क्षीरस्फटिक पु० क्षीरमिव शुभ्रः स्फटिकः । क्षीरवर्ण्णे

स्फटिकमणिभेदे हेम० ।

क्षीरस्वामिन् पु० अमरटीकाकारे शाब्दिके पण्डितभेदे

क्षीरहिण्डीर पु० ६ त० । दुग्धफेने शब्दचिन्ता० ।

क्षीरह्रद पु० क्षीरपूर्ण्णोह्रदः । क्षीरपूर्ण्णे ह्रदे । तत्रभवा-

दौ शिवा०--अण् । क्षैरह्रद तद्भवादौ त्रि०

क्षीरा स्त्री क्षीरं तद्वर्ण्णोऽस्त्यस्य अच् । काकोल्याम् राजनि०

क्षीराब्धि पु० क्षीरस्य दुग्धरसस्याब्धिः । क्षीरसमुद्रे एवं

क्षीरसागराद्रयोऽप्यत्र ।

क्षीराब्धिज पु० क्षीराब्धौ जायते जन--ड । १ चन्द्रे ।

२ लक्ष्म्यां स्त्री ३ अमृतादौ यथायोग्यलिङ्गता । ४ मौक्तिके ५ सामु-
द्रलवणे न० मेदि० । “यथा भगवता व्रह्मन्! मथितः क्षीर-
सागरः” इत्युपक्रमे भाग० ८, ८, अ० तेषामुम्पत्तिर्दर्शिता यथा
“तन्नागा जगृहुः सर्वे तच्छेषं शङ्करो ऽग्रहीत् । नारा-
यणाज्ञया तेन नालकण्ठत्वमाप्नुवान् । ऐरावतश्च
नागेन्द्रो हयश्चोञ्चैःश्रवाः पुनः । द्वितीयावर्त्तनाद्राजन्नुत्-
पन्नाविति नः श्रुतम् । तृतीयावर्त्तनेऽप्सरोगणो जातः
सुशोभनः । चतुर्थात् पारिजातश्च उत्पन्नः स
महातरुः । पञ्चमात् हिमगुस्तस्मात् उत्थितः क्षीरसागरात् ।
तं भवः शिरसा धत्ते नारीव स्वस्तिकं नृप! । नाना-
पृष्ठ २३७९
नाविधानि रत्नानि दिव्यान्याभरणानि च । क्षीरोदधेस्तू-
त्थितानि गन्धर्वाश्च सहस्रशः । एतान् दृष्ट्वा तदोत्पन्ना
नत्याश्चर्य्यसमन्विताः । अभवन् जातहर्षास्ते तत्र सर्वे
सुरासुराः । दैवपक्षे ततो मेघाः सम्यग्वर्षन्ति संस्थिताः ।
कृष्णाज्ञया तु वायुस्तु सुखं वाति सुरान् प्रति । विष
निःश्वासवातेन वासुकेश्चार्कतापनात् । निस्तेजसोऽभ-
वन् दैत्यानिर्वीर्याश्च महामते! । ततःश्रीरुत्यिता तस्मात्
क्षीरोदाद्धृतपङ्कजा । विभ्राजमाना राजेन्द्र दिशः सर्वाः
स्वतेजसा । ततस्तीर्थोदकैःस्नाता दिव्यव त्रैरलङ्कृता ।
दिव्यगग्धानुलेपैस्तु सुमनोभिः सुपजिता । देवपक्षं
समासाद्य स्थिता क्षणमरिन्दम! । हरिवक्ष थलं प्राप्ताततः
सा कमलालया । ततोऽमृतधटं पूर्णं गृहीत्वा पयसो-
निधेः । धन्वन्तरिः समुत्तस्थौ” ।

क्षीराब्धितनय स्त्री ६ त० । लक्ष्म्यां १ तस्यास्तज्जातत्वा-

त्तथात्वम् २ चन्द्रे पु० क्षीराब्धिजशब्दे दृश्यम् ।

क्षीरावी स्त्री क्षीरमवति अव--अण् ङीप् । दुग्धिकायाम्

(दुधी) अमरः स्वार्थे क । तत्रार्थे । अस्याः पत्रच्छेदने
दुग्धवन्निर्यासबहिर्भावात्तथात्वम् । सा च “वकुलतुल्य-
पत्रा” सुभूतिः ।

क्षीराह्व पु० क्षीरमाह्वयते स्पर्द्धते आ + ह्वे--क । सरलद्रुमे त्रिका०

क्षीरिका स्त्री क्षीरं तत्तुल्यस्वादोऽस्त्यस्य ठन् । १ राजादने

२ पिण्डखर्ज्जूरे अमरः । “क्षीरिकायाः फलं पक्वं
गुरु विष्ठम्भि शीतलम्” राजनि० । “क्षीरिकायाः फलं वृष्यं
बल्यं स्निग्धं हिमं गुरु । तृष्णामूर्च्छामदभ्रान्तिक्षयदो
यत्रयास्रजित्” भावप्र० । ३ परमान्ने भावप्र० कृतान्नशब्दे
२१८० पृ० दृश्यम्

क्षीरिद्रमाद्य न० “क्षीरिद्रुमाद्योत्थरसे विपक्वं तज्जैश्च

कल्कैः पयसा च सर्पिः । सितोपलार्द्धं मधुपादयुक्तं
रक्तातिसारं शमयत्युदीर्णम्” चक्रदत्तोक्ते घृतभेदे

क्षीरिन् पु० क्षीरं तत्तुल्यनिर्यासोऽस्त्यस्य इनि । क्षीरतुल्य

निर्यासयुक्ते १ वृक्षभेदे स च भावप० उक्तो यथा
“न्यग्रीधोदुम्बराश्वत्थपारीषप्लक्षपादपाः । पञ्चैते क्षीरिणो
वृक्षास्तेषां त्वक् पञ्चवल्कलम् । केचित्तु पारीषस्थाने
शिरीषं वेतसं परे” वदन्तीति शेषः । “क्षीरवृक्षा हिमा
वण्या योनिरोगव्रणापहाः । रूक्षाः कषायामेदोघ्न
विसर्पामयनाशनाः । शोथपित्तकफास्रघ्नाः स्तन्याभ-
ग्नात्यियोजकाः । त्वक्पञ्चकं हिमं ग्राहि व्रणशोथ
विसर्पजित् तेषां पत्रं हिमं ग्राहि कफवातास्रनुल्लघु ।
विष्टम्भाध्मानजित् तिक्तं कषायं लघुलेखनम्” तद्गुणाः ।
२ हिमजायां तिक्तदुग्धायां पीतदुग्धायां क्षीरिकायां स्त्री
ङीप् जटा० “क्षीरिणी तिक्तपीता च रेचना शोकताप-
नुत् । क्रमिदोषकफघ्नी च पित्तज्वरहरी परा”
राजनि० । ३ वराहक्रान्तायां शब्दचि० ४ कुटुम्बिन्यां ५ काश्म-
र्य्यां ६ दुग्धिकायां च राजनि० दुग्धिकायां पुंस्त्री शब्दच०
७ स्नुहीवृक्षे ८ अर्कवृक्ष ९ राजादन्याम् १० दुग्धपाषाणे
११ प्लक्षे १२ सोमलतायां १३ स्थालीवृक्षे च पु० राजनि०

क्षीरी स्त्री० क्षीर + अस्त्यर्थे अच् गौरा० ङीष् । (शिरखोला)

ख्याते वृक्षभेदे शब्दर० ।

क्षीरीश पु० क्षीरिणां वृक्षाणामीशः प्रधानत्वात् । वरपर्णे

स्रुक्छदे मूलकाकारमूले खसगन्धे वृक्षभेदे रत्नमा० ।

क्षीरेयी स्त्री० क्षीरेण ईं शोभां याति या--क गौ० ङीष्,

क्षीर + वा० भवार्थे ढञ् वा ङीप् । परमान्ने हला०

क्षीरोद पु० क्षीरमिव स्वादु उदकं यस्य उदादेशः । दुग्धस-

मुदे “ततः श्रीरुत्थिता तस्मात् क्षीरोदात् धृतपङ्कजा”
नृसिंहपु० । क्षीरोदमन्थनकथा यथा
“मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।
दानवैः सहिता भूत्वा मथध्वं क्षीरसागरम् । अहञ्च
तत्र साहाय्यं करिष्यामि दिवौकसः! । भविष्यत्यमृतं तत्र
तत्पानाद्बलवत्तराः । भविष्यथ क्षणादेव अमृतस्य प्रमा-
वतः । यूयं सर्व्वे महाबीर्य्या भुञ्जिष्ठा रणविक्रमाः ।
इन्द्राद्यास्तु महोत्साहाः स्थानलब्धिसहानरीन् ।
ततो हि दानवान् जेतुं समर्था नात्र संशयः । इत्युक्ता
देवदेवेन देवाः सर्व्वे जगत्पतिम् । प्रणम्यागत्य निलयं
सन्धिं कृत्वाथ दानवैः । क्षीराब्धिमथने सर्व्वे चक्रु-
रुद्योगमुत्तमम् । बलिना चोद्धृतो राजन्! मन्दराख्यो
महागिरिः । क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम! ।
सर्व्वौषधिश्च प्रक्षिप्ता देवैर्दैत्यैः पयोदधौ । वासुकिश्च
ततस्तत्र राजन् । नारायणाज्ञया । सर्वदेवहितार्थाय वि
ष्णुश्च स्वयमागतः । तती विष्णुसमादेशात्तत्र सर्वे सुरा-
सुराः । समेत्य मित्रभावेन क्षीराब्धेस्तटमाश्रिताः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाऽथ वासुकिम् । ततो
मथितुमारब्धा नृपते! तरसाऽमृतम् । विष्णुना मुखभागे
तु वासुकेर्दानवाः कृताः । देवाश्च पुच्छभागे तु मन्थ-
नार्थं नियोजिताः । एवन्तु मन्थनात्तत्र मन्दराधः
प्रविश्य वै । आधारेण विना राजंस्तं दृष्ट्वा सहसा हरिः ।
सर्वलोकहितार्थाय कूर्म्मरूपमधारयत् । आत्मानं सं-
पृष्ठ २३८०
प्रवेश्याथ मन्दरस्य गिरेरधः । प्रविश्य धृतवान् शैलं
पृथग्रूपेण केशवः । उपर्य्याक्रान्तवान् शैलं पृथग्रूपेण
केशवः । चकर्ष नागराजानं देवैः सार्द्धं जनार्द्दनः ।
असुरादृश्यरूपेण दैत्यमध्ये च केशवः । ततस्ते तु त्वरा-
युक्ता ममन्थुः क्षीरसागरम् । यावच्छक्त्या नृपश्रेष्ठ!
बलवन्तः सुरासुराः । मय्यमाने ततस्तस्मात् क्षीराब्धे
रभवन्नप! । कालकूटमिति ख्यातं विषभत्यन्ततःसहम्”

क्षीरोदतनय पु० ६ त० । १ चन्द्रे २ लक्ष्म्यां स्त्री क्षीरोदसुता-

दयोऽप्यत्र पुंस्त्री ।

क्षीरौदन पु० क्षीरेणोपसिक्त ओदनः “अन्नेन व्यञ्जनम्” पा०

स० । दुग्धीपसिक्ते भक्ते “क्षीरौदनं भुक्तमथानुवासीत्” सुश्रु०

क्षीव निरासे भ्वा० प० सक० सेट् । क्षीवति अक्षीवीत् चिक्षी-

व । निरासः फुत्कारः तत्र अक० । मुखेन श्लेष्मादेर्वमनञ्च
तत्र सक० इति भेदः ।

क्षु क्षुतौ पु०(हाँचि) अदा० अक० सेट् । क्षौति क्षुतः क्षुवन्ति

अक्षावीत् चुक्षाय क्षविष्यति । उगन्तत्वात् किति कृति
अनिट्क्षुतम् । क्षुतिः क्षुत्वा । क्षयथुः “पुरांचुक्षाव चाशुभम्”
भट्टिः । “कृतकं कामिनि चुक्षुवे मृगाक्ष्या” माघः “सुप्त्वा
क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतं वचः । पीत्वापोऽध्येष्य-
माणश्च आचामेत् प्रयतोऽपि सन्” । “क्षुवतीं जृम्भमाणां
वा” मनुः । “क्षतोत्पतनजृम्भसु” ति० त० पुरा० ।
“रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या” चोरप० ।
  • अव + अधःस्थस्य क्षवथुना दूषणे “अवक्षुतं केशपतङ्गकीटैः”
यमः । अवक्षुतं उपरिकृतक्षुतेन दूषितम् । “पतितान्न-
मवक्षुतम्” मनुः “अवक्षुतम् उपरिकृवक्षुतम्” कुल्लू०
अन्योपसर्गपूर्व्वस्तु तत्तद्द्योत्यार्थयुक्तक्षुतौ ।

क्षु पु० क्षुद--बा० डु । १ अन्ने निघण्टुः “तक्षद्यदी मनसोवेनता

वाग्ज्येष्ठाय व धर्म्मणि क्षोरनीके” ऋ० ९ । ५ । ७ । २२
क्षण--हिंसायां डु । २ सिंहे एकाक्ष रकोषः ३ स्तवादिशब्दे
क्षुमत्

क्षुण पु० क्षु--नक् । अरिष्टवृक्षे शब्दच०

क्षुण्ण त्रि० क्षुद--क्त । १ अभ्यस्ते, २ विहते ३ चूर्णीकृते च

जटा० । “अभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम्” “क्षुण्णं
यदन्तःकरणेन वृक्षाः” “क्षुण्णं क्षणं यदुबलैर्दिवमातितांसुः”
इति च माघः । “रेखामात्रमपि क्षुण्णात्” रघुः । “क्षुण्ण-
भिन्नविपन्नकैः” भट्टिः

क्षुत् स्त्री क्षु--संप० भावे क्विप् । क्षुते (हाँचि) अमरः ।

क्षुत न० क्षु--भावेक्त । क्षवथौ (हाँचि) अमरः क्षवथुशब्दे वि-

वृतिः । क्षुतस्य शुभाशुभसूचकत्वं, वसत्तराजशाकुने ३ प्र०
“अथ क्षुताख्यं शकुनं क्रमेण महाप्रभावं प्रविभाव-
यामः । नश्यन्ति यस्माच्छकुनाः समस्ता मृगाधिनाथा-
दिव वन्यसत्वाः । सर्व्वस्य सर्व्वत्र च सर्व्वकालं क्षुतं न
कार्य्यं क्वचिदेव शस्तम् । यातुः क्षुते तेन न किञ्चिदेव
कुर्य्यात् क्षुतं प्राणहरञ्च गन्तुः । निषेधमग्रेऽक्षिणि
दक्षिशे च धनक्षयं दक्षिणकर्णदेशे । तत्पृष्ठभागे कुरुते
ऽर्थवृद्धिं क्षतं कदाचित् शुभमादध नि । भोगाय
वामश्रवणस्य, पृष्ठे कर्णे च वामे कथितं जयाय । सर्व्वार्थला-
भाय च वामनेत्रे जातं क्षुतं स्यात् क्रमशोऽष्टधैव ।
क्रमान्निषेधं गमनस्य विघ्नं कलिं समृद्धिं क्षुतमुग्ररो-
गम् । करेति रोगक्षयमर्थनाभं दीप्त्यादिनाशञ्च क्षुतं
करेति । प्रागास्यपुंसः परतो ऽपरा स्यात् पुनः
पुनर्व्वातत एव जातम् । वृद्धाच्छिशोर्व्वा कफतो हठाद्वा
जातं क्षुतं केऽपि वदन्ति शस्तम् । आद्यलयोर्न स्वज-
ने प्रशस्तं क्षुतं प्रशंसन्ति न भोजनादौ । भवेत्
कथञ्चिद्यदि भोजनान्ते भवेत्तदाग्रे न हि भोज्यलाभः ।
आदौ क्षुतञ्चेत् शकुनैस्ततः किं जातानजातान् शकुना-
न्निहन्ति । क्षुतं क्षणेनात्र न संशयोऽस्मिन् प्रयोजने
यत्नकृतेऽपि जातम् । क्षुतं क्षणात्तद्विनिहन्त्यवश्यं
वार्य्यात्मकेनापि मनागदोषम् । तस्मादपेक्ष्यं न विचक्ष-
णेन क्षुतं यतश्चाशु फलं विधत्ते” । इति ।
“छिक्काया लक्षणं वक्ष्ये लभेत् पूर्वे महाफलम् । आग्ने-
षे शोकसन्तापौ, दक्षिणे हानिमाप्नुयात् । नैरृते
शोकसन्तापौ, मिष्टान्नञ्चैव पश्चिमे । अन्नं प्राप्नोति वायव्ये,
उत्तरे कलहो भवेत् । ईशाने मरणं प्रोक्तं, प्रोक्तं
छिक्काफलाफलम्” गारुडपु० ६० अ०
तिथित० वर्षकृत्यवाक्यम “वित्तं ब्रह्मणि, कार्यसिद्धिरतुला
शक्रे, हुताशे भयं, याम्यामग्निभयं, सुरद्विषि कलि, र्लाभः
समुदालये । वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना
चोत्तरे, एशान्यां मरणं ध्रुवं निगदितं दिग् लक्षणं खञ्जने ।
ज्येष्ठीरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः” इति ।
क्वचित्तस्य शुभसूचकता यथा “आसने शयने दाने भोजने
व त्रसंग्रहे । विवाहे च विवाहे च क्षुतं सप्तसु शोभनम्”
क्षतनिमित्तं शुद्ध्यर्थमाचमनं कर्त्तव्यम् यथाह याज्ञ०
“स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा वस्त्रोपसर्पणे । आचान्तः
पुनराचामेत् वासोविपरिधाय च” । अशक्तौ स्मृतिः
“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्म्मस्थ एषु
पृष्ठ २३८१
नाचामेत् दक्षिणं श्रवणं स्पृशेत्” । अन्यक्षुते जीवश्बदः
प्रयोज्यः यथा मदनपरिजातधृतम् “जीवेति क्षवतो
ब्रूयात् जीवेत्युक्ते त्वया सहेति” “क्षुतोत्पतनजृम्भासु
जीवोत्तिष्ठाक्षुलिध्वनिः । शत्रोरपि च कर्त्तव्योह्यन्यथा
ब्रह्महा भवेत्” ति० त० । “दीर्घायुष्कृत् क्षुतं दीर्घं युगपद्द्वि
त्रिपिण्डितम्” काशीख० स्त्रीलक्षणे । असंयुतमुखस्य क्षुत-
करणंनिषिद्धं यथा विष्णुध० “नासंवृत्तमुखः कुर्य्याद्धास्यं
जृम्भां तथा क्षुतम्” । “स्वनितं प्रतिक्षुतमिवोपशुश्रुवे” माघः
ताजकोक्तायाम् २ अरिदृष्टौ अरिशब्दे ३५५ पृ० विवृतिः
“क्षुताख्यदृष्ट्या न शुभंतदापि” । “क्षुतदृष्ट्या रिपोर्भ-
यम्” नीलक० ।

क्षुतक पु० क्षुताय साधु कन् । राजिकायाम् राजनि० ।

क्षुताभिजनन पु० क्षुतमभिजनयति अभि + जन--णिच्--ल्यु ।

(राइ) कृष्णसर्षपभेदे अमरटीकायां स्वामी

क्षुत्करी स्त्री क्षुतं करोति कृ--ट ङीप् । सर्पाक्षी क्ष शब्दच०

क्षुद गतौ निघ० भ्वा० प० सक० सेट् । क्षोदति अक्षोदीत्

चुक्षोद । “उत क्षोदन्ति रोदसी महित्वा” ७, ८५, १, क्षो-
दन्त आपो रिणते, वनानि” ऋ०५, ५८, ६०

क्षुद पेषणे रुधा० उभ० सक० अनिट् इरित् । क्षुणस्ति च

क्षुदत् अक्षौत्सीत् अक्षुत्त । चुक्षोद चुक्षुदे । क्षुण्ण-
क्षुन्दन् क्षुन्दानः । क्षोदः । “क्षुण्णभिन्नविपन्नकैः” क्षु-
नद्मि सर्पान पाताले” भट्टिः । “ते त व्याशिषुरक्षौत्सुः”
“अक्षुणद्वाजिकुञ्जरम्” भट्टिः “षष्ठः खण्डनखण्डखाद्य-
सहजक्षोदक्षमे” नैषधक् । उपसर्गपूर्ब्बस्तु तत्तद्धोत्यार्थ
युक्ते प्रेषणे ।

क्षुद्र स्त्री क्षुद्र--सम्प० भावे क्विप् । चूर्ण्णने “क्षुदिर क्षदि” कविक०

क्षुद्र त्रि० क्षुद--कर्त्तरि रक् । १ कृपणे २ अधमे ३ क्रूरे ४ अल्पे च

मेदि० । ५ दरिद्रे हेम० । ६ तण्डुलीयशाके पु० संक्षिप्त-
सा० । “क्षुद्रेऽपि नूनं शरणं प्रपन्न” कुमा० “क्षुद्राः संत्रास-
मेते विजहतु हरयः” सा० द० । “कामात्मा विषयः क्षुद्रः”
मनुः । ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः ।
क्षोदिष्ठ क्षोदीयस् अतिशयकृपणादौ त्रि० । “वृहत्स-
हायः कार्य्यान्तं क्षोदीयानपि गच्छति” माघः

क्षुद्रकण्टकारी स्त्री नि० क० । अग्निदमनी क्षे राजनि०

क्षुद्रकण्टकी स्त्री क्षुद्रं कण्ठकं यस्याः गौ० ङीष् । १

वृहत्याम् भावप्र० क्षुद्रभण्टाकीति वा पाठः

क्षुद्रकण्ठिका क्षुद्रं कण्टकं यस्याः टाप् अत इत्त्वम् ।

कण्टकारिकायाम् शब्दचि० ।

क्षुद्रकमानस न० काश्मीरदेशस्थे कुङ्कुमोत्पत्तिस्थानभेदे ।

“काश्मीरेषु सरोनाम्ना दिव्यं क्षुद्रकमानसम्” सुश्रु०

क्षुद्रकम्बु पु० कर्म्म० । शम्बूके (शामुक) । हेमच०

क्षुद्रकारवेल्ली स्त्री कर्म्म० । वनकारवेल्लीभेदे राजनि०

पृषो० क्षुद्रकारलिकाप्यत्र राजनि०

क्षुद्रकुलिश पु० नि० कर्म्म० । वैक्रान्तमणौ राजनि०

क्षुद्रकुष्ठ न० कर्म्म० सुश्रुताद्युक्तेषु एककुष्ठादिषु एकादश

कुष्ठभेदेषु कुष्ठशब्दे विवृतिः

क्षुद्रक्षुर पु० क्षुद्रक्षुरस्येवाकारोऽस्त्यस्य अच् । क्षुद्रगोक्षुरं राजनि०

क्षुद्रगोक्षुरक क्षुद्रगोक्षुरमिव कायति के--क (छोटगोक्षुरी)

गोक्षुरभेदे राजनि०

क्षुद्रघण्टिका स्त्री० घण्टा + अल्पार्थे कन् घण्टिका कर्म्म० । किड्किण्याम् (घुङुर) अमरः

क्षुद्रघोली स्त्री नि० कर्म्म० । १ चिरिल्लिकाक्षुपे राजनि०

क्षुद्रचञ्चु पु० क्षुद्र चञ्चुरिवाकारोऽस्य । क्षुपभेदे राजनि०

क्षुद्रचन्दन पु० नित्य कर्म्म० । रक्तचन्दने राजनि०

क्षुद्रचिर्भटी स्त्री नि० कर्म्म० । गोपालकर्कट्यां राजनि०

क्षुद्रचूड पुंस्त्री क्षुद्रा चूडा यस्य (गुएसालिक) खगभेदे शब्दच०

क्षुद्रजन्तु पु० कर्म्म० । “क्षुद्रजन्तुरनस्थिः स्यादथ

वा क्षुद्रएव वा । शतं वा प्रसृतौ येषां केचिदान कुला-
दपि” इत्युक्ते स्वल्पे १ जन्तौ । २ शतपद्यां शब्दमाला

क्षुद्रजम्बू स्त्री कर्म्म० । भूमिजम्ब्याम् शब्दचि० ।

क्षुद्रजातीफल पु० कर्म्म० । अमलके राजनि०

क्षुद्रजीरक न० कर्म्म० । कणजीरके, सुगन्धे शब्दच०

क्षुद्रजीवा स्त्री कर्म्म० । जीवन्तीवृक्षे राजनि०

क्षुद्रतुलसी स्त्री नि० कर्म्म० । वर्वरीभेदे राजनि०

क्षुद्रदंशिका स्त्री नि० कर्म० । (छोटडाँश) दंशभेदे जटा० ।

क्षुद्रदुरालभा स्त्री नि० कर्म्म० । स्वल्पदुरालभाभेदे राजनि०

क्षुद्रदुस्पर्शा स्त्री नि० कर्म्म० । अग्निदमनीवृक्षे राजनि०

क्षुद्रधात्री स्त्री नित्य कर्म्म० । कर्कटवृक्षे राजनि० ।

क्षुद्रधान्य न० कर्म्म० । तृणधान्ये कङ्कुप्रभृतौ भावप्र०

“क्षुद्रधान्यं कुधान्यञ्च णधान्यमिति स्मृतम् । क्षुद्रधान्य
मनुष्णं म्यात् कषाय लघु लेखनम् । मधुरं कटुकं पाके
रूक्षञ्च क्लेदशोषकम् वातकृत् बद्धविट्कञ्च प्रितरक्त
कफापहम्” तद्गुणा उक्ताः ।

क्षुद्रनासिक त्रि० क्षु सिकाऽस्य । ह्रस्वनासिके (खाँदा)

क्षुद्रपत्रा स्त्री क्षुद्रं पत्रं यस्याः टाप् । चाङ्गेर्य्याञ्च (चुको

पालङ्ग) । हारा० । २ खल्पपत्रान्विते त्रि० । गौरा०
ङीष् । ३ वचायां स्त्री राजनि० ।
पृष्ठ २३८२

क्षुद्रपनस पु० नि० कर्म्म० । नकुचे (माँदार) राजनि० ।

क्षुद्रपर्ण्ण पु० क्षुद्रं पर्णमस्य । १ अर्जके वर्वरीभेदे राजनि० ।

२ स्वल्पपत्रयुक्ते त्रि० ।

क्षुद्रपाषाणभेदा स्त्री नि० कर्म्म० । गिरिभवे कन्दरोत्थे क्षुपभेदे राजनि० ।

क्षुद्रपिप्पली स्त्री नित्य० कर्म्म० । वनपिप्पल्याम् राजनि०

क्षुद्रपृषती स्त्री नित्यं कर्म्म० । सूक्ष्मविचित्रविन्द युक्तायां पृ

षत्यां मृगीभेदे “पृषती क्षुद्रपृषती स्थूलपृषतो मैत्रा-
वरुण्यः” यजु० २४, २, अत्रत्यवेददीपे उक्तार्थकता दृश्या

क्षुद्रपोतिका स्त्री नि० कर्म्म० । मूलपोतिकायां रान्तनि० ।

क्षुद्रफल(क) क्षुद्रं फलमस्य वा कप् । १ जीवनवृक्षे शब्द-

च० । २ भूमिजम्बुदृक्षे शब्दमा० । कबभावे । ३ इन्द्र-
वारुण्यां ४ गोपालकर्कट्याम् ५ अग्निदमन्यां ६ कण्टकारि-
कायां च स्त्री राजनि० टाप् ।

क्षुद्रभण्डाकी स्त्री नि० कर्म० । वृहत्याम् राजनि० ।

क्षुद्रमत्स्य पु० कर्म्म० । स्वल्पमत्स्ये (छोटभाँछ) “क्षद्रमत्स्याः

स्वादुरसा दोषत्रयविनाशनाः । लघुपाका रुचिकराः
सर्वदा ते हिता मताः । अतिसूक्ष्माः पुंस्त्वहराः रुच्याः
कासानिलापहाः” भावप्र० तद्गुणा उक्ताः ।

क्षुद्रमुस्त स्त्री नि० कर्म्म० । कसेरुक्षुपे राजनि० ।

क्षुद्ररोग पु० कर्म० । सुश्रुतोक्ते चतुश्चत्वांरिंशत्स्वल्परोगभेदे यथा

“अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः । समासेन
चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति । तद्यथा
अजगल्लिका यवप्रख्याऽन्धालजी विवृता कच्छपिका वल्मीक
मिन्द्रवृद्धा पनसिका पाषाणगर्द्दभो जालगर्द्दभः कक्षा
विस्फोटकोऽग्निरोहिणी चिप्पं कुनखोऽनुशयी विदा-
रिका शर्कराऽर्बुदं पामा विचर्च्चिका रकसा पाददारिका
कदरमलसेन्द्रलुप्ते दारुणकोऽसंषिका पलितं मसूरिका
यौवनपिडका पद्मिनीकण्टको जतुमणिर्म्मशकश्चर्म्म
कीलस्तिलकालको न्यच्छं व्यङ्गः परिवर्त्तिकाऽवपाटिका
निरुद्धप्रकसो निरुद्धगुदोऽहिपूतनं वृषणकच्छूर्गुदभ्रंश-
श्चेति । स्मिग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा ।
कफवातोत्थिता ज्ञेया बालानामजगल्लिका १ । यबाकारा
सुकठिना ग्रथिता मांससंभृता । पिडका श्लेष्मवाताभ्यां
यवप्रख्येति २ सोच्यते । वनामवक्त्रां पिडकामुन्नतां परिमण्ड-
लाम् अन्धालजी३ मल्पपूयां तां विद्यात् कफवातजाम् ।
विवृतास्यां महादाहां पक्वोडुम्बरसन्निभाम् । विवृता-
मिति४ तां विद्यात्पित्तोत्थां परिमण्डलाम् । ग्रन्थयः पञ्च
वा षडवा दारुणाः कच्छपोन्नताः । कफानिलाभ्यामुद्भूतां
विद्यात्तां कच्छपी ५ मिति । पाणिपादतले सन्धौ ग्रीवाया-
मूर्द्धजत्रुणि । ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते ।
तोदल्लेदपरीदाहकण्डूमद्भिर्व्रणैर्वृतः । व्याधिर्वल्मीक ६
इत्येव कफपित्तानिलीद्भवः । पद्मपुष्करवन्मध्ये पिडकाभिः
समासिताम् । इन्द्रवृद्धान्तु ७ तां विद्याद्वात पत्तोत्थितां
भिषक् । कर्णोपरि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक् ।
शालूकवत्पनसिकां ८ तां विद्यात् श्लेष्मवातजाम् ।
हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम् । पाषाणगर्द्दभं ९
विद्याद्बलासपवनात्मकम् । विसप्र्पवत्मर्प्पति यो
दाहज्वरकरस्तनुः । अपाकः श्वयथुः पित्तात्स ज्ञेयो
जालगर्दभः १० । वाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम् ।
पित्तप्रकोपात्सम्भूतां कक्षामिति ११ विनिर्दिशेत् । अग्निद-
ग्धनिभाः स्फोटाः सज्वरा रक्तपित्ततः । क्वचित्सर्वत्र वा
देहे स्मृता विस्फोटका१२ इति । कक्षाभागेषु ये स्फोटा
जायन्ते मांसदारणाः । अन्तर्दाहज्वरकरा दीप्तपावक-
सन्निभाः । सप्ताहाद्द्वादशाहाद्वा पक्षाद्वा घ्नन्ति
मानवम् । तामग्निरोहिणीं १३ विद्यादसाध्यां सन्निपाततः ।
नखमांसमधिष्ठाय पित्तं वायुश्च वेदनाम् । करोति
दाहपाकौ च तं व्याधिं चिप्प १४ मादिशेत् । तदेव क्षतरोगाख्यं
तथोपनखमित्यपि । अभिघातात्प्रदुष्टो यो नखी रूक्षोऽ-
सितः खरः । भवेत्तु कुनखं १५ विद्यात्कुलीनमिति संज्ञि-
तम् । गम्भीरामल्यसंरम्भां सवर्ण्णामुपरिस्थिताम् ।
कफादन्तःप्रपाकान्तां विद्यादनुशयीं १६ भिषक् । विदारीकन्द-
वद्वृत्तां कक्षावङ्क्षणसन्धिषु । रक्तां विदारिकां १७ विद्यात्
सर्वजां सर्वलक्षणाम् । प्राप्य मांससिरास्नायुश्लेष्म
मेदस्तथाऽनिलः । ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्प्पि
र्व्वसानिभम् । स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः ।
मांसं विशोष्य ग्रथितां शर्करां जनयेत्पुनः । दुर्गन्धं
क्लिन्नमत्यर्थं नानावर्णं ततः सिराः । स्रवन्ति सहसा रक्तं
तद्विद्याच्छर्क्वरार्त्रुदम् १८ । पामाविचर्च्च्यौ १९ २० कुष्ठेषु
रकसा २१ च प्रकीर्त्तिता । परिक्रमणशीलस्य वायुरत्यर्थ-
रूक्षयोः । पादयोः कुरुते दारीं २२ सरुजां तलसंश्रिताम् ।
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः । मेदोरक्ता-
नुगैश्चैव दोषैर्वा जायते नृणाम् । स कीलः कठिनो
ग्रन्थिर्निम्नमध्योन्नतोऽपि वा । कोलमात्रः सरुक्स्रावो
जायते कदरस्तु २३ सः । क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाह-
रुगन्वितौ । दुष्टकर्द्दमसंस्पर्शादलसं २४ तं विनिर्दिशेत् ।
रोमकूपानगं पित्तं वातेन सह मूर्च्छितम् । प्रच्यावयति
पृष्ठ २३८३
रोमाणि ततः श्लेष्मा सशोणितः । रुणद्धि रोमकूपांस्तु
ततोऽन्येषामसम्भवः । तदिन्द्रलुप्तं २५ खालित्यं रुज्येति
च विभाव्यते । दारुणा कण्डुरा रूक्षा केशभूमिः प्रजा-
यते । कफवातप्रकोपेण विद्याद्दारुणकन्तु २६ तम् । अरूंषि
बहुवक्त्राणि बहुक्लेदानि मूर्द्दनि । कफासृक्कृमिकोपेन
नृणां विद्यादरुंषिकाम् २७ । क्रोधशोकश्रमकृतः शरीरोष्मा
शिरोगतः । पित्तञ्च केशान् पचति पलितं २८ तेन जायते ।
दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः । गात्रेषु
वदवेचान्तर्व्विज्ञेयास्ता मसूरिकाः २९ । शाल्मलीकण्टक-
प्रख्याः कफमारुतशोणितैः । जायन्ते पिडका यूनां ३० वक्त्रे
या मुखदूषिकाः । कण्टकैराचितं वृत्तं कण्डु मत्पाण्डु-
मण्डलम् । पद्मिनीकण्टकप्रख्यैस्तदाख्यं ३१ कफवातजम् ।
नीरुजं सममुत्पन्नं मण्डलं कफरक्तजम् । सहजं रक्तमी-
षच्च श्लक्ष्णं जतुमणिं ३२ विदुः । अवेदनं स्थिरञ्चैव यस्य
गात्रेषु दृश्यते । माषवत्कृष्णमुत्पन्नमनिलान्मशकं ३३
दिणेत् । समुत्थानतिदानाभ्यां चर्मकील ३४ प्रकीर्त्तितम् ।
कृष्णानि तिलमात्राणि नीरुजानि समानि च ।
वातपित्तकफोद्रेकात्तान्विद्यात्तिलकालकान् ३६ । मण्ड्लं
महदल्पं वा श्यामं वा यदि वा सितम् । सहजं नीरुजं
गात्रे न्यच्छ३५ मित्यभिधीयते । क्रोधायासप्रकुपितो वायुः
पित्तेन संयुतः । सहसा मुखमागम्य मण्डलं विसृजे-
त्ततः । नीरुजं तनुकं श्यावं मुखे व्यङ्गं ३७ तमादिशेत् ।
मर्द्दनात्पीडनाच्चापि तथैवात्यभिघाततः । मेढ्रचर्म्म
यदा वायुर्भजते सर्वतश्चरः । तदा वातोपसृष्टन्तु चर्म्म
प्रतिनिवर्त्तते । मणेरधस्तात्कोशश्च ग्रन्थिरूपेण लम्बते ।
सवेदनः सदाहश्च पाकञ्च व्रजति क्वचित् । मारुताग-
न्तुसम्भूतां विद्यात्तां परिवर्त्तिकाम् ३८ । सकण्डूः
कठिना चैव सैव श्लेष्मसमुत्थिता । अल्पीयसीं यदा
हर्षाद्वालां गच्छेत्स्त्रियं नरः । हस्ताभिघातादथ वा
चर्म्मण्युद्वर्त्तिते बलात् । मर्द्दनात्पीडनाद्वापि शुक्रवे-
गधेवाततः । यस्यावपाट्यते चर्म्म तां विद्यादवपाटि-
काम् ३९ । वातोपसृष्टमेवन्तु चर्म्म संश्रयते मणिम् ।
मणिश्चर्म्मोपनद्धस्तु मूत्रस्रोतोरुणद्धि च । निरुद्धप्रकमे
तस्मिन्मन्दधारमवेदनम् । मूत्रं प्रवर्त्तते जन्तोर्म्मणिर्न्नच
विदीर्थते । निरुद्धप्रकसं ४० विद्यादरूढां चावपाटिकाम् ।
वेगसन्धारणाद्वायुर्विहतो गुटसाश्रितः । निरुणद्धि
महत्स्रोतः सूक्ष्मद्वारं करोति च । मार्गस्य सौक्ष्म्यात् कृच्छ्रेण
पुरीषं तस्य गच्छति । सन्निरुद्धगुदं ४१ व्याधिमेनं विद्यात्सु
दुस्तरम् । शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् ।
स्निन्नस्य स्नाप्यमानस्य कण्डूरक्तकफोद्भवा । कण्डूयनात्ततः
क्षिप्रं स्फोटास्राबश्च जायते । एकीभूतं व्रणेर्घोरं तं
विद्यादहिपूननम् ४२ । स्नानोत्सादनहीनस्य मलो वृषण-
संश्रितः । प्रक्लिद्यते यदा स्वेदात्स कण्डू जनयेत्तदा ।
तत्र कण्डूयनात् क्षिप्रं स्फोटास्रावश्च जायते । प्राहुर्वृ-
षणकच्छूं ४३ तां श्लेष्मरक्तप्रकोपजाम् । प्रवाहणातिसारा-
भ्यां निर्गच्छति गुदं वहिः । रूक्षदुर्बलदेहस्य तं
गुदभ्रंशमादिशेत् ।

क्षुद्रल त्रि० क्षुद्राःक्षुद्ररोगाः सन्त्यस्य सिध्मा० लच् । क्षुद्र-

रोगयुक्ते

क्षुद्रवर्वरा स्त्री नित्यकर्म्म० । वरटायां राजनि०

क्षुद्रवल्ली स्त्री नित्यकर्म्म० । मूलपोतिकायाम् राजनि०

क्षुद्रवार्त्ताकिनी स्त्री नि० कर्म्म० । श्वेतकण्ठकार्य्यां राजनि०

क्षुद्रवार्त्ताकी स्त्री नि० कर्म्म० । वृहत्याम् अमरः

क्षुद्रशङ्ख पु० नित्य कर्म्म० । शङ्खनखे(जोङड़ा) अमरटीका

क्षुद्रशर्करा स्त्री नि० कर्म्म० । यावनालशर्करायाम् राजनि०

क्षुद्रशार्द्दूल पुंस्त्री नि० कर्म्म० । क्षुद्रव्याघ्रे (चितावाग)

राजनि०

क्षुद्रशीर्ष पु० क्षुद्रं शीर्षमस्य । १ मयूरशिखावृक्षे, २ स्वल्पशीर्षवति त्रि०

क्षुद्रशुक्ति स्त्री नि० कर्म्म० । जलशुक्तिकायाम् । स्वार्थे क

तत्रैवार्थे राजनि०

क्षुद्रश्यामा स्त्री नि० कर्म्म० । कटभीवृक्षे राजनि०

क्षुद्रश्लेष्मातक पु० नि० कर्म्म० । भूकर्वुदारकवृक्षे राजनि०

क्षुद्रश्वास पु० कर्म्म० । श्वासरोगभेदे

“क्षुद्रकस्तमकश्छिन्नो महानूर्द्ध्वश्च पञ्चधा भिद्यते स
महाव्याधिः श्वासएकोविशेषतः । प्राग्रूपं तस्य हृत्पीडा
भक्तद्वेषोऽरतिः परा । आनाहः पार्श्वयोः शूलं वैरस्यं
वदनस्य च । किञ्चिदारभमाणस्य यख श्वासः प्रवर्त्तते ।
निषण्णस्यैति शान्तिञ्च स क्षुद्र इतिसंज्ञितः” सुश्रु०
“रूक्षायासोद्भवः कोष्ठे क्षुद्रवातमुदीरयन् । क्षुद्रश्वासो न
सोऽत्यर्थदुःखेनाङ्गप्रबाधकः । हिनस्ति न च गात्राणि
न च दुःखं यथेतरे । न च भोजनपानानां निरुण-
द्ध्युचितां गतिम् । निन्द्रियाणां व्यथाञ्चापि काञ्चिदु-
त्पादवेद्रुजम् । स साध्य उक्तो बलिनः सर्वे चाब्यक्त-
लक्षणाः” भावप०

क्षुद्रश्वेता स्त्री सुश्रुतोक्ते अर्कादिगणोक्ते ओषधिभेदे आम्रेन्द्र

पुष्पी क्षुद्रश्वेतेता महाश्वेत्यादि” सुश्रुतः
पृष्ठ २३८४

क्षुद्रसहा स्त्री सह--अच क्षुद्रस्य सहा ६ त० । १ मुद्गपर्ण्याम्

२ मार्ज्जारगन्धायाञ्च राजनि०

क्षुद्रसुवर्ण्ण न० नि० कर्म्म० । पित्तले राजनि०

क्षुद्रहिङ्गुली स्त्री कर्म्म० । १ कण्टकार्य्याम् । स्वार्थे क

अणो ह्रस्वे टाप् । अत्रैवार्थे शब्दच० ।

क्षुद्रा स्त्री क्षुद--रक् । १ वेश्यायाम्, “क्षुद्राधिष्ठितभवनाः” काद०

२ कण्टाकार्य्याम्, ३ सरघायाम्, अमरः ४ मक्षिकामात्रे,
५ चाङ्गेर्य्याम्, ६ हिंस्रायाम्, हेमच० ७ गवेधुकायां
(गडगडेधान) रत्नमा० ८ वादरतायाम्, शब्दर० “क्षुद्राभि-
रक्षुद्रतराभिराकुलम्” माघः “क्षुद्राभिः सरघाभिः”
मल्लि० ९ व्यङ्गायाञ्च । क्षुद्राभिः निर्वृत्तम् अण् । क्षौद्र
मधुनि “स क्षौद्रपटलैरिव” रघुः

क्षुद्राग्निमन्थ पु० कर्म्म० (छोटगणिआरी) स्वल्पगणिकारिकायाम् राजनि०

क्षुद्राञ्जन न० सुश्रुतोक्ते अञ्जनभेदे “गोमूत्रपित्तमदिरा शकृद्धा-

त्रीरसे पचेत् । क्षुद्राञ्जनं रसे चान्यतयकृत् स्त्रैफलेऽपि
वा । गोमूत्राज्यार्णवमलपिप्पलीक्षौद्रकट्फलं सैन्धवो-
पहितं युञ्ज्यान्निहितं वेणुगह्वरे । मेदो यकृद्घृतञ्चाजं
पिप्पल्यः सैन्धवं मधु । रसमामलकञ्चापि पक्वं सम्यग्नि-
धापयेत् कोशे खदिरनिर्माणे तद्वत् क्षुद्राञ्जनं हितम्” ।

क्षुद्राण्डमत्स्यसंघात पु० क्षुद्राणामण्डमत्स्यानामण्डा

भितवजातानां मत्स्यानां मंवातः । (पोनार झाँक)
पोताधाने अमरः

क्षुद्रादिकषाय पु० चक्रदत्तोक्ते कषायभेदे “क्षुद्रामृता

नागरपुष्कराह्वयैः कृतः कषायः कफमारुतोद्भवे । सश्वा-
सकासारुचिपार्श्वरुग्भवे ज्वरे त्रिदोषप्रभवे च शस्यते”

क्षुद्रापामार्ग पु० नि० कर्म्म० । रक्तापामार्गे राजनि०

क्षुद्रामलसंज्ञ पु० क्षुद्रामलकस्य संज्ञेव संज्ञा यस्य ।

कर्कटवृक्षे राजनि०

क्षुद्राम्र पु० नि० कर्म्म० । कोषाम्रे राजनि०

क्षुद्राम्रपनस पु० नि० कर्म्म० । नकुच त्रिका०

क्षुद्राम्ला स्त्री अम्ला अम्लरसा कर्म्म० । १ चाङ्गेर्य्याम्

हारा० (चुकोपालङ्ग) स्वार्थे क । तत्रैवार्थे । २ शशाण्डु-
ल्याम् राजनि०

क्षुद्रिका स्त्री क्षुद्रैव क । दंशे(डाँशा) राजनि०

क्षुद्रीय त्रि० क्षुप + उत्करा० चतुरर्थ्याम् छ । क्षुद्रनिर्वृत्तादौ

क्षुद्रेङ्गुदी स्त्री नित्यकर्म० । यवासे राजनि०

क्षुद्रेर्वारु पु० कर्म० । गोप्यलकर्कट्याम् राजनि०

क्षुदोदुम्बरिका स्त्री कर्म० । काकोडुम्बरिकायाम् राजनि०

क्षुदोपोदिका स्त्री नि० कर्म० । मूलषोतिकायाम् राजनि०

क्षुद्रोलूक पुंस्त्री कर्म० । उलूके राजनि०

क्षुध् बुभुक्षायां दिवा० पर० सक० अनिट् ऌदित् । क्षुध्यति

अक्षुधत् । चुक्षोध क्षुत् । क्षुधा क्षुधितः । क्षुधित्वा ।
“क्षुध्यद्भ्योवय आसुतिदाः ऋ० १, १०४, ७, मा क्षुधन्मा-
रुषत्” अथ० २, २९, ४, क्षुध्यन्तोऽप्यघसन् व्याला” ।
“क्षुधित्वा पत्रिभिर्वनम्” भट्टिः । क्षुधाजातास्य तारका०
इतच् । क्षुधित संजातक्षुधे त्रि०

क्षुध् स्त्री क्षुध--भावे संप० क्विप् । १ बुभुक्षायाम् । कर्म्मणि

क्विप् । २ अन्ने निघ० पाठान्तरम् । “यस्य राज्ञस्त विषये
श्रोत्रियः सीदति क्षुधा” मनुः हलन्तत्वात् वा टाष् ।
क्षुधाप्यत्र स्त्री क्षुधार्त्तः । “या देवी सर्वभूतेषु क्षुधा-
रूपेण संस्थिता” देवीमा० । क्षुधा च प्राणिनां स्वाभा-
विकदुःखहेतुर्यथोक्तं सुश्रुते “खाभाविकाः क्षुत्-
पिपासाजरामृत्युनिद्रा प्रभृतयः” । इयञ्च पाणधर्म्मः
यथाह शा० ति० “बुभुक्षा च पिपासा च प्राणस्य, मनसः
स्मृतौ । शोकमोहौ, शरीरस्य जरामृत्यू षडूर्म्मयः” ।
क्षुध कार्य्याणि यथा
“व्याधयो निर्जिताः सर्वे क्षुधया नृपसत्तम! । कुण्डली
मुकुटी स्रग्वी तथैवालङ्कृतो नरः । क्षुधार्त्तो न विरा-
जेत प्रेतवत्तृषितो नृणाम् । स्त्रीरत्नं विविधान् भोगान्
वस्त्राण्याभरणानि च । न चेच्छति नरः किञ्चित् क्षुधया
कलुषीकृतः । यथा भूमिगतं तोयं रविरश्मिभिः शुष्यति ।
शरीरस्थस्तथा धातुः शुष्यते जाठराग्निना । न शृणोति
न चाघ्राति चक्षुषा न च पश्यति । दह्यते वेपते मूढः
शुष्यते च क्षुधार्दितः । मूकत्वं बधिरत्वञ्च जडान्धत्वन्तु
पङ्गुताम् । रौद्रं मर्य्यादहीनत्वं क्षुधा सर्वं प्रयच्छति ।
भगिनीं जननीं पुत्त्रं भार्य्यां दुहिरतं तथा । भ्रातरं
स्वजनं वापि क्षुधाविष्टो न विन्दति” ।

क्षुधाकुशल पु० ७ त० । विल्वान्तरवृक्षे राजनि०

क्षुधाभिजनन पु० क्षुधामभिजनयति अभि + जन + णिच्

ल्यु । १ राजिकायां अमरः । २ क्षुधाजननमात्रे त्रि०

क्षुधालु त्रि० क्षुध--वा० आलुच् । क्षुधायुक्ते

क्षुधावत् त्रि० क्षुधा--अस्त्यस्य क्षुधा साध्यतयाऽस्त्यस्याः वा

मतुप् मस्य वः । १ क्षुधायुक्ते स्त्रियां ङीप् । भैषज्यरत्राव-
ल्युक्ते २ गुटिकाभेदे स्त्री “रमाद्योगन्धकाभ्राणि त्र्युषण
त्रिफला वचा । यमानी शतपुष्पा च चविका जीरकद्व-
यम् । प्रत्येकं पलमेषान्तु घण्टाकर्णा पुनर्णवा । माणकं
पृष्ठ २३८५
ग्रन्थिकञ्चेन्द्रकेशराजसुदर्शनाः । दण्डोत्पला त्रिवृद्दन्ती
जामावृरक्तचन्दनम् । भृङ्गापामार्गकुलका मण्डूकञ्च
पलार्द्धकम् । वृर्द्रकस्य रसेनाथ गुडिकां संप्रकल्पयेत् ।
वदरास्थिसमाञ्चैतां भक्षयित्वा पिबेदनु । वारि भक्तं
जलञ्चैव प्रातरुत्थाय मानवः । वटी क्षुधावती नाम
सर्वाजीर्णविनाशिनी । अग्निञ्च कुरुते दीप्तं भस्मकञ्च
नियच्छति । अम्लपित्तञ्च शूलञ्च परिणामकृतञ्च यत् ।
तत् सर्वं शमयत्याशु भास्करस्तिमिरं यथा । मसूरं
वर्ज्जयेदत्र विशेषात् क्षीरशर्क्करे” ।

क्षुधासागररस पु० भेषज्यरत्नावल्यक्ते औषधभेदे

“त्रिकटु त्रिफला चैव तथा लवणपञ्चकम् । क्षारत्रयं
रसं गन्धं भागैकं पूर्ब्बवद्भिषक् । गुञ्जामात्रां वटीं कुर्य्या-
ल्लवङ्गैः पञ्चभिः सह । क्षुधासागरनामायं रसः सूर्य्येण
निर्म्मितः” ।

क्षुधित त्रि० क्षुधा + जाताऽस्य तार० इतच् । क्षुधायुक्ते अमरः । “अन्नस्य क्षधितः पात्रम्”

क्षुधुन पुंस्त्री क्षुध--उन किच्च । म्लेच्छजातौ उज्ज्वल० ।

क्षुप मदे सौ० प० अक० सेट् । क्षोपति अक्षोपीत् चुक्षोप

“स सवृक्षक्षुपलतः” भा० आ० १७१ अ०

क्षुप पु० क्षुप--क क्षु--पक् वा । ह्रस्वशाखाशिफे वृक्षे अमरः ।

वासुदेवस्य सत्यभामाया गर्भजातपुत्रभेदे । “जज्ञिरे
सत्यभामायां भानुर्भीमरथः क्षुपः” हरिब० १६ अ० ।
इक्ष्वाकुपितरि ३ राजभेदे च पु० । “आसीत् कृतयुगे
तात! मनुर्दण्डधरः प्रभुः । तस्य पुत्रो महाबाहुः प्रस-
न्धिरिति विश्रुतः । प्रसन्धेरभवत् पुत्रः क्षुप इत्येव
संज्ञितः । क्षुपस्य पुत्र इक्ष्वाकुः” भा० आश्व० ३ अ० । ४ द्वार-
कापश्चिमस्थे ४ पर्वतभेदे ।
“बभौ रैवतकः शैलो रम्यसानुगुहाजिरः । पूर्वस्यां
दिशि लक्ष्मीवान् मणिकाञ्चनतोरणः । दक्षिणस्यां
लतावेष्टः पञ्चवर्णो विराजते । इन्द्रकेतुप्रतीकाशः पश्चि-
मस्यां तथा क्षुपः” हरि० १५७ अ० ।

क्षुपडोडमुष्टि पु० दोलयति दुल--उत्क्षेपे अच् तादृशोमुष्टि

रस्य पृषो० कर्म्म० । विषमुष्टिक्षुपे राजनि०

क्षुब्ध पु० क्षुभ नि० करणे क्तः । १ मन्यानदण्डे हेम० । “मुधैव मन्द-

रक्षुब्ध क्षोभिताम्भोधिवर्णना” माघः २ क्षोभयुक्ते त्रि० । “पार्श्वो-
परि पदे कृत्वा योनिंलिङ्गेन ताडयेत् । बाहुभ्यां धारणं
गाढ़ं बन्धोऽयं क्षुब्धसंज्ञकः” रतिम० उक्ते ३ रतिबन्धभेदे पु०

क्षुभ सङ्कोचने भ्वा० आत्म० सक० हेट् ऌदित् । क्षोभते अक्षुभत्

चुक्षुभेक्षोभ्यम् । क्षोभः क्षोभणम् क्षोभी “तानसौ नापि-
चाक्षुभत्” नाक्षुभद्राक्षसोभ्रातुः” भट्टिः क्षुब्धः क्षुभितः ।
“क्षुब्धतोया महावेगाः श्वममानाइवाशुगाः” भा० व०
८ अ० । “क्षुभिताः सागराः सर्व्वे” रामा० बा० ६५ स० ।
“चुक्षुभे द्विषतां मनः” रघुः “यदेतदादित्यस्य मध्ये
क्षोभत इव” छा० उ० । क्षोभमाणः ।

क्षुभ अङ्ग चालने वा दिवा० क्य्रा० अक० सेट् । क्षुभ्यति क्षु-

भ्राति अक्षोभीत् । क्षुभितः । “क्षुभ्यन्ति प्रसभमहोवि
नापि हेतोः” माघः । क्षुभ्रातीत्यत्र क्षुभ्रा० न णत्वम् ।
प्राद्युपसर्गपूर्व्वकस्तत्तद्वोत्यार्थयुक्ते क्षोभे

क्षुभ त्रि० क्षुभ--क । १ क्षोभके २ प्रवर्त्तके च “मठरारुणद-

ण्डाद्यांस्तांस्तान् वन्देऽशनिक्षु भान्” भा० व० ३ अ०
“अशनिक्षुभान् तत्प्रवर्त्तकान्” नीलक० । ३ सूर्य्यपारिषदभेदे स्त्री ।
“क्षुभया सहिता मैत्री याश्चान्याभूतमातरः” तत्रैव “क्षुभा-
निग्रहानुप्रकर्त्त्री देवता” लीलक०

क्षुभित त्रि० क्षुभ--क्त । १ आलोडिते, २ व्याकुले, ३ भीते च

हला० । “क्षुभितसैन्यपरागविपाण्डुरे” माघः “महा-
प्रलयमारुतक्षुभितपुष्करावर्त्तकेति वेणी०

क्षुभ्नादि पा० उक्ते निमित्ते सत्यपि णत्वनिवृत्तिनिमित्ते

शब्दगणे सच गणः “क्षुम्ना नृनमन नन्दिन् नन्दन नगर ।
एतान्युत्तरपदानि संज्ञायाम्प्रयोजयन्ति । हरिनन्दी
हरिनन्दनः गिरिनगरम् । नृतिर्यङि प्रयोजयति ।
नरीनृत्यते । नर्त्तन गहन नन्दन निवेश निवास अग्नि
अनूप एतान्युत्तरपदानि प्रयोजयन्ति । परिनर्त्तनम्
परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः
दर्भानूपः । आचार्य्यादणत्वञ्च । आचार्य्यभोगीनः ।
आकृतिगणोयम् क्षुभ्रादिः । “अविहितलक्षणो णत्वप्रतिषे-
धः क्षुभ्रादिषु द्रष्टव्य “इति भाष्यम्” न भाभूपूकमीत्या-
दयस्त्वस्यैव प्रपञ्चः” इति कैयठः । पाठान्तरम्” क्षुभ्रा तृप्नु
नृनमन नर नगर नन्दन यङ्नृति गिरिनदी गृह, नमन
निवेश निवास अग्नि अनूप आचार्य्यभोगीन चतुर्हायन
इरिकादीनि वनोत्तरपदानि (संज्ञायाम्) इरिका तिमिर
समीर कुवेर हरि कर्म्मार क्षुभ्रादिः” ।

क्षुमत् त्रि० क्षु + अस्त्यर्थे मतुप् । १ अन्नयुक्ते उपचारात्

२ अन्नवत्स्तुत्ये च । “आ तू इन्द्र! क्षुमन्तम्” ऋ०
८, ८१, १, “क्षुमन्तं स्तुत्यम्” भा०

क्षुमा स्त्री क्षु--मक् । (मसिना) (तिसी) १ अतस्याम्

अमरः । “क्ष्मायी विधूनने क्ष्मायति शत्रून कम्पयति
पृषो० । क्षुमा २ शत्रुकम्पके त्रि० “क्षुमासि पातयै-
पृष्ठ २३८६
नम्” यजु० १०, ८ वेददीपे उक्तैव व्युत्पत्तिर्दर्शिताः
२ शणे सारसुन्दरी ३ नीलिकायाम् सताभेदे शब्दमा० ।
क्षुमाया इदम् अण् । क्षौम वस्त्रभेदे “क्षौमं शाणं वा
व्राह्मणस्य” शाता०

क्षुम्प गतौ भ्वा० प० सक० सेट् । क्षुम्पति अक्षुम्पीत् चुक्षुम्प

क्षुर विलेखने तुदा० पर० सक० सेट् । क्षुरति अक्षोरीत् चु

क्षोर क्षुरः ।

क्षुर पु० क्षुर--क क्षु--रक् वा । १ नापितास्त्रे पश्वादीनां २ शफे,

(खुर) अमरटीकायां स्वामी ३ कोकिलाक्षे अमरः ४
गोक्षुरे, मेदि० ५ महापिण्डीतके ६ वाणे च राजनि० खट्टा-
दिपादुकयाम् धरणिः “छेदयेल्लवशः क्षुरः मनुः “संधाय
धनुषि क्षुरम्” रा० आ०७२ स० । “क्षुरेण शितधारेण
चकर्त्तास्य शरासनम्” रामा० ल० ९२ अ०

क्षुरक पु० क्षुर--क्कुन् । १ गोक्षुरे, (गोखुरी) २ कोकिलाक्षे,

मेदिनी ३ तिलकद्रुमे अमरः ४ भूताङ्गुशे राजनि० स्वार्थे
क । क्षुरशब्दार्थे च

क्षुरकर्म्मन् न० क्षुरसाध्यंकर्म्म । केशच्छेदने । क्षुरकर्म्म

णि विहितनक्षत्रादिकं मू० चि० पी० धा० उक्तं यथा
“दन्तक्षौरनखक्रियात्र विहिता चौलोदिने वारभे
पातङ्ग्याररवीन्विहाय नवमङ्घस्रञ्च सन्ध्यान्तथा । रिक्तां
पर्वनिशां निरासनरणग्रामप्रयाणोद्यतस्नाताभ्यक्त कृता-
शनैर्नहि पुनः कार्य्या हितप्रेप्सुभिः” । मू० चि०
“चौलोदितेषु चौलप्रोक्तेषु वारेषु नक्षत्रेषु उपलक्षणत्वा-
त्तदुक्ते लग्नेऽपि च दत्तक्षौरनखक्रियात्र विहितीक्ता ।
“येषु येषु प्रशंसन्ति क्षुरकर्म्म महर्षयः । तेषु तेषु प्रशं-
सन्ति नखदन्तविलेखनमिति” । येषु येषु वारनक्षत्रलग्ना-
दिष्वित्यर्थः । अथ क्षौरनिषिद्धकाल उच्यते ।
पातङीति । पतङ्गः पक्षिसूर्य्ययोरित्यभिधानात् पतङ्गः
सूर्य्यस्तस्यापत्यं पातङ्गिः शनिः आररवी पसिद्धौ ।
तेषां वारान् विहाय त्यक्त्वा उपलक्षणत्वात् तेषां लग्ना-
नि मकरकुम्भमेषवृश्चिकसिंहाख्यानि अंशकांश्च विहाये-
त्यर्थः । उक्तञ्च वसिष्ठेन “हस्तत्रये पुष्यपुनर्वसौ च
शशाङ्कविष्णुत्रितयाश्विनीषु । पौष्णेन्द्रधिष्ण्ये क्षुरकर्म
शस्तंव्यर्कारशन्यंशकवारलग्ने” इति । अतः शुभग्र-
हाणां बारलग्नांशे क्षौरं कार्य्यमिति फलितोऽर्थः ।
वारफलानि गर्गोक्तानि “भानुरायुः क्षपयति मासं, सप्त-
शनैश्चरः । भौमोमासाष्टकं हन्ति ज्ञोयच्छेत्पञ्चमासकम् ।
एकादश कविर्दद्यातकते तु क्षौरकर्म्मणीति” । तुल्यन्या
यत्वाल्लग्नानामंशानां चैतानि फलान्यूह्यानि । न केवल-
मायुर्हानिः किन्तु शस्त्रवातोऽपि पापवारेषु । तदुक्तं
वसिष्ठेन “आदित्यभौमार्किदिनेषु धीमान्न दन्तकाष्ठ
क्षुरकर्म कार्य्यम् । कुर्वन्नवाप्नोति फलं समग्रं शस्त्रेण
सम्यक् स्वशरीरघातम्” । तथा नवमंघस्रं च विहाय
यद्दिने क्षौरं कृतं ततो नवमदिने पुनः क्षौरं न कार्य्यम् ।
“उत्कटे भूघिते चैव यानगो नवमेऽहनीति” नारदोक्तेः ।
यत्तु नवमे नवम्यामिति व्याकुर्वन्ति तदयुक्तं दिनपदो-
पादानाप्रसङ्गात् । दिनपदं तिथिपरमिति चेन्न रिक्तायाः
वक्ष्यमाणस्वतन्त्रनिषेधानुपपत्तेः । ननु पृथगुपादानात्
नवम्यां सर्वथा क्षौरं निन्द्यमेव चतुर्थीचतुर्दश्योस्तु
तथा नेति चेन्न “चतुर्थीं चैव षष्ठीं च अष्टमीञ्च
चतुर्दशीम् । तथा पञ्चदशीञ्चैव व्रह्मचारी भवेत्सदा ।
श्मश्रुकर्म्म शिरोऽभ्यङ्गन्दन्तधावनमैथुनम् । जन्तुश्चैतानि यः
कुर्य्याल्लक्ष्मीस्तत्र न तिष्ठति” । क्षौरे व्यासवचने चतुर्थी
चतुर्द्दश्योः सर्वथा निषेधाभिधानात् । अतएवामुमर्थं स्फुट-
माह पराशरः “क्षौराहान्नवमे त्वह्नि नेष्टमात्ययिकेष्वपी त”
तथा सन्ध्यां प्रातः सन्ध्यां सायं सन्ध्याञ्च विहाय एवं
रिक्ताम् विहाय पर्वाण्यपि निशां रात्रिमपि विहायेत्यर्थः
अथाधिकारिणो निरूप्यन्ते हितप्रेप्सुभिः स्वशुभोदर्क-
मिच्छद्भिरेतादृशैः क्षौरक्रिया हि निश्चयेन न कार्या ।
कीदृशैः आसनङ्कग्वलादिः तद्रहितैः रणः संग्रामः ग्रा-
मो जनपदविशेषः प्रयाणमर्थयात्रा एतदर्थमुद्यतैः
कृतोद्योगैः स्नातैरनुष्ठितनित्यनैमित्तिककाम्यस्नानैः यत्तु
क्षौरार्थमेव स्नानं विधीयते प्रायश्चित्तादौ च तत्र नायं
निषेधस्तथैव तस्य विधानात् । अभ्यक्तैः कृत्तैलाभ्यङ्गैः
कृताशनैः कृतभोजनैः सुवर्णाद्यलङ्कारभूषितैरित्यपि-
ध्येयम् । यदाह वराहः “न स्नातमात्रगमनोत्कट
भूषितानामभ्यक्तभुक्तरणकालनिरासनानम् । सन्ध्या-
निशाशनिकुजार्कदिने च रिक्ते क्षौरं हित न नवमे-
ह्नि न चापि विष्ट्यामिति” उत्कटानां कुक्कुटासनवदवस्थि-
तानाम् । सन्ध्यालक्षणमपि वराहेणोक्तम् “अर्धास्तमिता-
दुदितात्सूर्यादस्पष्टभं नभोयावत्” । वृद्धगर्गः “शन्यार-
रविवारेषु रात्रौ पाते व्रतेऽहनि । श्राद्धाहे प्रतिप-
द्रिक्ताभद्रा क्षौरंविवर्जयेत् । षष्ठ्यमापूर्णिमापातश्चतु-
र्दश्यष्टमी तथा । आसु सन्निहितं पापं तैले मांसे
क्षरे भगे इति” । पी० धा०
  • “क्रतुपाणिपाडमृतिबन्धमोक्षणे क्षुरकर्म्म च द्विज-
पृष्ठ २३८७
नृपाज्ञया चरेत् । शववाहतीर्थगमसिन्धुमज्जनं क्षुर-
माचरेन्न खलु गर्भिणीपतिः” । मू० चि०
“अथ केषाञ्चिन्निमित्तविशेषे क्षौरस्य विधिनिषेधौ
मञ्जुभाषिणीच्छन्दसाह । क्रतुपाणीति अत्र पूर्ब्बार्द्धे
सत्यपि निषिद्धवारादौ एषु कर्म्मसु क्षुरकर्म क्षौरंसद्यः
कार्य्यमिति वाक्यार्थः क्व?क्रतौ यज्ञे विपाज्ञया क्षौरम् ।
तथा पाणिपीडी विवाही लक्षणया ततः प्राग्भाविनि
गोदानकर्म्मणि केचित्तु विवाहे श्मश्रुकर्मप्राशस्त्यपरं
क्षौरमित्याहुः अतएव शाखाविशेषेण विवाहे क्षौरमुक्त
मित्यूचुः । तथा च श्रुतिः “मुण्डयितारः श्रविष्ठाय
नाबधूमूढामित्यादि” । मृतौ मातापित्रेर्मरणे बन्धमोक्ष-
णे कारागृहे बन्धस्य यदामोचनं भवेत्तदा द्विजा-
ज्ञया राजाज्ञादावपीति बोध्यम नृपोराजा तस्या-
ज्ञया चौरादेः क्षौरं कार्य्यमेव यदाह नारदः “नृप-
विप्राज्ञया यज्ञे मरणे बन्धमोक्षणे । उद्वाहेऽखिलवार-
र्क्षतिथिषु क्षौरमिष्टदमिति” । धर्म्मशास्त्रे “गङ्गायां
भास्करक्षत्रे मातापित्रोर्मृतेऽहनि । आधाने सोमपाने
च षट्सु क्षौरं विधीयते” इति । अथ शवेति गर्भिणी
गर्भवती तस्याः पतिर्भर्त्ताशववाहं मृतकवहनं तीर्थयात्रां
उपलक्षणत्वाद्विदेशगमनमपि । सिन्धुमज्जनम् समुद्र
स्नानं, क्षुरं क्षुरकर्म एतानि कर्म्माणि न आचरेन्न
कुर्य्यात् । यदाह वसिष्ठः “गृहनिर्माणमुदधिस्नानं
चौलं सुतस्य तु । तीर्थयात्रां नखश्मश्रु न कुर्य्याद्ग-
र्भिणीपतिः” । “सिन्धुस्नानं द्रुमच्छेदं वपनं प्रेतवाह-
नम् । विदेशगमनञ्चैव न कुर्य्याद्गर्भिणीपतिः” धर्म्मशास्त्रे
तु विशेषतः “राजा यीगी पुरन्ध्री च मातापित्रीस्तु-
जीवतोः । मुण्डनं सर्वतीर्थेषु न कुर्य्याद्गर्भिणीपतिः”
अयञ्च क्षौरादिनिषेधो गुर्विणीपतेः सप्तमासादूर्ध्वं न
प्राक्, यदुक्तं नारदीये “वपनं तीर्थयात्राञ्च वर्जयेद्गुर्विणीप-
तिः । श्राद्धञ्च सप्तसान्मासादूर्ध्वं नान्यत्र वेदवित्” । श्राद्धं
श्राद्धभोजनम् । इदमुत्तरार्द्धं गर्भाधानप्र करणे वक्तव्य
मपि प्रसङ्गादत्रैवोक्तं ग्रन्थकृतेति” । पी० धा०
“नृपाणां हितं क्षौरभे श्मश्रुकर्म दिने पञ्चमे पञ्चमेऽ-
स्योदये वा । षडग्निस्त्रिमैत्रोऽष्टकः पञ्चपित्रोऽव्दतोऽ-
ब्ध्यर्यमा क्षौरकृन्मृत्युमेति” । मू० चि०
“अथ क्षौरे राज्ञां विशेषं सर्वथा वर्ज्यनक्षत्राणि च
भुजङ्गप्रयातेनाह नृपाणां हितमिति क्षौरमे क्षौर-
नक्षत्रे विहिते सति पञ्चमे पञ्चमे एव दिने श्मश्रुकर्म्म-
मुखशोभाकरि क्षुरकर्म नृपाणां राज्ञां हितं प्रशस्तं
यदाह वशिष्टः “महीभृतां पञ्चमे पञ्चमेऽह्निक्षौरं च
कार्य्यंहितमुक्तभेषु” नतु पञ्चमे इति वीपसोक्त्या नियम
प्रतीतेर्विहितनक्षत्राभावे च सति श्मश्रुकर्म कार्य्यमिति
उक्तं च वसिष्ठेन “न लभ्यते चेच्च तदुक्तधिष्ण्यं तद्भोदये
वा निखिलं विधेयमिति” उदयशब्देन मुहूर्त्त इति
ऋजवोव्याकुर्वते तदाह गर्गः “क्षौरकर्म महीशानां पञ्चमे
पञ्चमेऽहनि । कर्त्तव्यं क्षौरनक्षत्र ऽप्यथवा तन्मुहूर्त्तके, इति
तेषां क्षौरनक्षत्राणां ये स्वामिनस्तेषां मुहूर्त्ते इत्यर्थः ।
तांश्च मुह्र्तान् विवाहप्रकरणे वक्ष्यति । अत्र क्षौरपदं
श्मश्रुकर्मपरम् । “राजा योगी पुरन्ध्री च मातापित्रोस्तु
जीवतोः । मुण्डनं सर्वतीर्थेषु न कुर्याद्गर्भिणीपतिरिति”
राज्ञो मुण्डननिषेधात् । अतएवोक्तं श्रीपतिना “श्मश्रुकर्म
पञ्चमे च पञ्चमेऽह्नि च भूभृताम् । क्षौरभस्योदये वाऽपि
स्यान्निन्द्यतारका न चेत्” इति । निन्द्यतारका जन्म-
विपदादितारका । अन्ये त्वेवं व्याचक्षते अस्योदये
वेति अस्य क्षौरभस्योदये लग्ने । यथा मेषलग्नं त्रिंशत्भा-
गात्मकं तत्राद्यास्त्रयोदशभागा १३, २० सविंशतिलिप्ता
यावता कालेन मेषलग्ने उदयं यान्ति तावदश्विनीनक्षत्र-
मुदयं यातीत्यर्थः । तदनन्तरं तावन्त एवांशा यावता
कालेनोदयं यान्ति तावद्भरण्युदय इत्यनेन न्यायेन
सर्वेषां नक्षत्राणामुदयाज्ञेयाः । इयं च व्याख्या
वराहपद्यव्याख्यावसरे भट्टोत्पलेनाभ्यधायि । पितृचर-
णास्त्वेवंव्याकुर्वते । यस्मिन्काले अश्विन्या उदय । क्षिति-
जसंबन्धः संपद्यते तं समयमारभ्य यावद्भरण्या उदयः-
क्षितिजसंबन्धस्तदन्तराले यावान्कालः सोऽश्विन्या उदय
उच्यते । एवं सत्युदयग्नद्वयांशान्तरालाद्गणितमार्गेण
यावानिष्टकाल आगच्छेत्स एव तत्तन्नक्षत्रोदय इति निष्कृ-
ष्टार्थ इति । नक्षत्रस्योपलक्षणत्वाच्छुभवारासम्भवेऽपि
तद्धोरायां कार्यम् उक्तञ्च नारदेन “यस्य स्वेटस्य
यत्कर्म वारे प्रोक्तं विधीयते । ग्रहस्य क्षणवारेऽ-
पि तस्य तत्कर्न सर्वदेति” । क्षणवारः कालहोरा ।
एवं सति निषिद्धनक्षत्रवारेष्वपि प्रथमश्मश्रुकर्म
कार्यमिति युक्तमुत्पश्यामः । षडग्निरिति । अग्निः कृत्ति-
का क्षौरावृत्त्या षड्वारं कृत्तिका यस्य । एवं त्रीणि
मैत्राण्यनुराधायस्य अष्टौ का रोहिण्योयस्य । पञ्च पि
त्र्याणि मघायस्य । अब्धयश्चत्वारोऽर्यमाण उत्तराफाल्गुन्यो
यस्य सएतादृशः क्षौरकृत् अब्दतः वर्पानन्तर मृत्युं
पृष्ठ २३८८
मरणमेति प्राप्नोति यदाह वसिष्ठः “अष्टाब्जकश्च पितृ-
पञ्चकश्च षड्वह्निधिष्ण्यश्चतुरर्यमर्क्षः । त्रिमैत्रभः पद्म
जसंनिभोऽपि क्षौरी नरोऽव्दान्निधनं गतः सः” इति ।
पद्मजो ब्रह्मा तत्सन्निमस्तादृशस्तदुपादानं कैमुतिकन्या-
यसूचनार्थम् ननु रत्नमालापद्ये “षट्कृत्तिकः पञ्चमघ
स्त्रिमैत्रो ब्रह्माष्टकोयश्चतुरुत्तरश्च । क्षौरी स वर्षं चतुरा-
ननोऽपि न प्राणितीति प्रचुरः प्रवादः” इत्येवं सामान्यतः
तिसृणामप्युत्तराणां ग्रहणाद्विरोधः इति चेत् मैवं
अत्राप्युत्तरापदेन प्रथमोपस्थितिकत्वाद्वसिष्ठवाक्येन
सहैकवाक्यतानुरोधाच्चोत्तराफालगुन्येव गृह्यते नाषाढभाद्र-
पदे । यत्र तु वचनान्तरविरोधो नास्ति पौष्णमारुत
मघोत्तरान्वितैरित्यादौ तत्र सामान्यतः सर्वासामुत्तराणां
ग्रहणं भवति” पी० धा०
“प्राचीमुखः सौम्यमुखोऽपि भूत्वा कुर्य्यान्नरः क्षौ-
रमनुत्कटस्थः । उत्तरात्रितययाम्यरोहिणीरौद्रसार्पपि-
तृभेषु चाग्निभे । श्मश्रुकर्म्म सकलं विवर्जयेत् प्रेतकार्य्य
मपि बुद्धिमान्नरः” ज्यो० त०

क्षुरधान न० क्षुरोधीयतेऽत्र धा--आधारे--ल्युट् ।

(भाँड) इति ख्याते नापितास्त्रस्थापने पात्रभेदे
“आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः” शत० व्रा०
१४, ४, २, १६

क्षुरपत्र पु० क्षुर इव पत्रमस्य । क्षुरधारे वाणे, क्षुरतुल्यपर्णयुक्त २ शरवणादौ त्रि० राजनि०

क्षुरपत्रिका स्त्री क्षुर इव पत्रं यस्यः कप् अतैत्त्वम् ।

पालङ्गशाके राजनि०

क्षुरपवि त्रि० क्षुरतुल्या पविर्धाराऽस्य । तीक्ष्णाग्रभागे

“ते ह स्म क्षुरपवी निमेषम्” शत० ३, ६, २, ९ “क्षुरपवी
क्षुरधारे” भाष्यम् निरुक्ते ५, ५ पविशब्दस्य पूतार्थ-
कत्वमाह” “पवीरथनेमिर्भवति यद्विपुनाति भूमिम् ।
“तं मरुतः क्षुरपविना व्ययुः”

क्षु(खु)रप्र पु० क्षुरः (खुरः) इव पृणाति हिनस्ति पृ--क ।

(खुरपी) इति ख्याते १ घासच्छेदनास्त्रे, तत्तुल्याग्रफलके
२ शरभेदे च हेमच०

क्षुरभाण्ड न० ६ त० । (भाँड़) ख्याते नापितास्त्रस्थापने पात्र

भेदे “शीघ्रमानीयतां क्षुरभाण्डं क्षौरकमाकरणाय गच्छा-
मि” पञ्चत०

क्षुरमर्दिन् पु० क्षुरं मृद्भाति घर्षयति मृद--णिनि । नापिते हेमच०

क्षुरमुण्डिन् पु० क्षुरेण मुण्डयति मुण्ड--णिनि ३ त० ।

नामिते । शब्दचि

क्षुराङ्ग पु० क्षुर इवाङ्गमस्य । गोक्षुरे (गोकुरो) । राजनि०

क्षुरिका स्त्री क्षुद्रः क्षुरः ङीप् सैव क । १ छुरिकायां

(पालङ्ग) २ शाकभेदे राजनि०

क्षुरिकापत्र पु० क्षुरिका छुरिकेव पत्रमस्य । शरे राजनि०

क्षुरिणी स्त्री० क्षुर + अस्त्यर्थे इनि ङीप् । १ वराहक्रान्ता-

याम् २ नापितभार्य्यायाञ्च शब्दच०

क्षुरिन् पु० क्षुर + इनि । १ नापिते, २ पशौ च ।

क्षुरी स्त्री स्वल्पः क्षुरः ङीप् । छुरिकायाम् हेम०

क्षु(खु)ल्ल त्रि० क्षुद(खुद) दक्विप् क्षुद्(खुद्) तां लाति ला--क ।

१ अल्पे, २ लघौ, ३ कनिष्ठे च हेम० स्वर्थे क । तत्रार्थे

क्षुल्लक त्रि० क्षुधा लक्यते लक--आस्वादने घञर्थे क । १ नीचे,

३ अल्पे च भरतः । २ पामरे, हेमच० ३ क्षुद्रशङ्खे राजनि०

क्षुल्लतात पु० नित्यकर्म्म० । पितृकनिष्ठभ्रातरि जटाध० ।

एक क्षुल्लपितामहादयोऽपि पितामहादिकनिष्ठभ्रातरि

क्षेत्र न० क्षि--ष्ट्रन् । १ शस्याद्युतपत्तिस्थाने केदारे (क्षेत)

अमरः शस्यभेदेन तस्य नामभेदा शब्दरत्ना० उक्ता यथा
“व्रीहिभवोचितं क्षेत्रं व्रैहेयं तत् समीरितम् ।
शाल्युद्भवोचितं यत्तु शालेय मभिधीयते । यव्यं यवोचितं
क्षेत्रं यवक्य यवकोचितम् । षष्टिकोद्भवनं यत्तु षष्टिक्यं
तत् प्रकीर्त्तितम् । तिलोद्भवोचितं यत्तु तिल्यं तैलीन
मित्यपि । एवं माष्यन्तु माषीणं कौद्रव्यं कौद्रवीणवत् ।
तथा भङ्ग्यञ्च भाङ्गीनमुम्यमौमीनमित्यपि । अथ मौद्न्यञ्च
मौद्गीनमणव्यमाणवीनवत् । माषकोद्रवभङ्गोमामुद्गाणु-
प्रभवोचितम् । वीजाकृतमुप्तकृष्टमुत नीतिसमाह्वये । सीत्यं
कृष्टञ्च हल्यञ्च तृतीयाकृतमित्यपि । त्रिगुणाकृतमित्येवं
त्रिवारकृष्टभूमिषु । शम्बाकृतं द्विहल्यञ्च द्विसीत्यं द्विगु-
णाकृतम् । द्वितीयाकृतमप्यत्र द्विवारकृष्टभूमिषु । द्रोणा-
ढककखार्य्यादेर्वापादौ द्रौणिकस्तथा । स्यादाढकिक-
खारीकौ उत्तमर्णादयस्त्रिषु । आदिभ्यां प्रास्थिकादिश्च
पाकादौ द्रोणिकोऽपि च
२ देहे ३ अन्तःकरणे ४ कलत्रे, ५ सिद्धस्थाने च मेदि० ।
सिद्धस्थानानि काशीक्षेत्रादीनि तानि भारतादौ प्रसि-
द्धानि कतिचित् संक्षिप्य प्रदर्श्यन्ते
तत्र वाराणसीक्षेत्रं यथा “आसन्नं युवयोः क्षेत्रमिदं
वाराणसी तु यत् । कथितं नातिदूरे च वर्त्तते
नरसत्तमौ” । कामरूपक्षेत्रं यथा । “नाचिरात् कामदं
पुण्यं क्षेत्रं पीठं निगद्यते । चिरात्तु कामदो देवो
नचिराद्यत्र ज्ञानदः । तत् क्षेत्रमिति लोके यद्गद्यते
पृष्ठ २३८९
पूर्व्वसूरिभिः । कामरूपं महापीठं गुह्याद्गुह्यतमं
परम्” कालिकापु० ५० अ० । गङ्गाक्षेत्रं स्का-
न्दे “तीराद्गव्यूतिमात्रन्तु परितः त्रेमुच्यते” ।
नारायणक्षेत्रं यथा “प्रवाहमवधिं कृत्वा यावद्धस्तच-
तुष्टयम् । तत्र नारायणःस्वामो गङ्गागव्र्मान्तरे वरे ।
तत्र नारायणेत्रे कुरुक्षेत्रे हरेः पदे । एतेष्वन्येषु
यो दानं प्रतिगृह्णाति कामतः । स च तीर्थप्रतिग्राही
कुम्भीपाकं पयाति च” ब्रह्मवै० पु० प्र० ख० २७ अ० ।
भास्करक्षेत्रम् “गङ्गायां भास्करक्षत्रे मातापित्रोर्म्मृते गुरौ ।
आधाने सोमपाने च वपनं सप्तमु स्मृतम् । इतिस्मृति
समुच्चयलिखितवचनम् । “भास्करक्षेत्रं प्रयागः” इति
प्रायचित्ततत्त्वम् । गयाक्षेत्रं यथा “पञ्चक्रोशं गया
क्षेत्रं क्रोशमेकं गयाशिरः” इति वायुपुराणम् । पुरुषोत्त-
मक्षेत्रम् । “मुनय ऊचुः । पुरुषोत्तमाख्यं सुमहत्
क्षेत्रं परमपावनम्” । “जैमिनि रुवाच । एतत्क्षेत्रवर-
ञ्चास्य वपुर्भूतं महात्मनः । स्वयं वपुष्मान् यत्रास्ते स्वनाम्रा
ख्यापितं हि तत्” उत्कलखण्डम् । विष्णुक्षेत्रा-
णि यथा “श्रीभगवानुवाच । शृणुष्वावहितो ब्रह्मन्!
गुह्यनामानि मेऽधुना । क्षेत्राणि चैव गुह्यानि तव वक्ष्या-
मि यत्नतः । कोकामुखे वराहञ्च मन्दरे मधुसूदनम् ।
अनन्तं कपिलद्वीपे प्रभासे रविनन्दनम् । माल्योदये तु
वैकुण्ठं महेन्द्रे तु नृपान्तकम् । ऋषमे तु महाविष्णुं
द्वारकायान्तु भूपतिम् । पाण्डुसह्ये तु देवेशं वसुकुण्डे
जगत्पतिम् । वन्दीवने महायोगं चित्रकूटे नराधि-
पम् । नैमिषे पीतवासञ्च गवां निष्क्रमणे हरिम् ।
शालग्रामे तपोवासम् अचिन्त्यं गन्धमादने । कुब्जाम्रके
हृषीकेशं गङ्गाद्वारे गदाधरम् । गरुद्धध्वजं तोषके च
गोविन्दं नामसाह्वये । वृन्दावने तु गोपालं मथुरायां
स्वयम्भुवम् । केदारे माधवं विद्यात् वाराणस्यान्तु केशवम् ।
पुष्करे पुष्कराक्षन्तु दृषद्वत्यां जयध्वजम् । तृणविन्दु-
वने वीरमशोकं सिन्धुसागरे । केशे वटे महाबाहु
ममृतं तेजसो वने । विशाखसूर्य्ये विश्वेशं नारसिंहं
वने वने । लोहकूले रिपुहरं देवशाले त्रिविक्रमम् ।
पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः । विद्याधरं
वितस्तायां वारणे धरणीधरम् । देवदारुषने गुह्यं
कावेर्य्यां नागशायिनम् । प्रयागे योगमूर्त्तिञ्च पयोष्ण्यां
सुन्दरं विदुः । कुमारतीर्थे कौमारं लौहित्ये
हयशीर्षकम् । त्रिविक्रमसुज्जियन्थां लिङ्गस्फोटेचतुर्भु-
जम् । हरिहरं तुङ्गभद्रायां दृष्ट्वा पापात् प्रमुच्यते ।
विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम् । लोकवीर
मयोध्यायां कुण्डिने रुक्मिणीपतिम् । मञ्जीरे वासुदेवञ्च
चक्रतीर्थे सुदर्शनम् । आद्यं विष्णुपदे विद्यात्
शूकरे शूकरम् विदुः । कुशेशं मानसे तीर्थे दण्डके श्यामलं
विदुः । त्रिकूटे नागमोक्षञ्च मेरुपृष्ठे च भास्करम् ।
विरजं पुष्पवत्याञ्च बालं चामीकरे विदुः । यशस्करं
विपाशायां माहिष्मत्यां हुताशनम् । क्षीराब्धौ पद्मनाभञ्च
विमले तु सनातनम् । शिवनद्यां शिवकरं गयायाञ्च
गदाधरम् । सर्व्वत्र परमात्मानं यः पश्यति स मुच्यते ।
अष्टषष्टिस्तु नामानि कीर्त्तितानि मया तव । क्षेत्राणि
चैव गुह्यानि कथितानि विशेषतः । द्रष्टव्यानि यथाशक्त्या
क्षेत्राण्येतानि मानवैः । वैष्णवैस्तु विशेषेण तेषां मुक्तिं
ददाम्यहम्” नारसिं० पु० ६२ अ० । ६ मेषादि
द्वादशराशिषु । “राशिनामानि च क्षेत्रं भमृक्षं
गृहनाम च । मेषादीनाञ्च पर्य्यायं लोकादेव विचि-
न्तयेत्” । ग्रहाणां क्षेत्राणि ज्यो० त० च कुजशुक्रबुधेन्द्वर्क
सौम्यशुक्रावनीभुवाम् । जीवार्किभानुजेज्यानां क्षेत्रा-
णि स्युरजादयः” ज्योति० त० । “इन्द्रियाणि दशैकञ्च
पञ्च चेन्द्रियगोचराः । इच्छा द्वेषः सुखं दुःखं संस्का
रश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदा-
हृतम्” गीतोक्तेषु ७ पदार्थेषु क्षेत्राकारे ८ लीलावत्यादि
प्रसिद्धे त्रिकीणचतुष्कोणादिके पदार्थे तादृशक्षेत्रभेदाश्च
रेखाभेदसाध्या अतोवेखाभेदसंज्ञा निरूप्यते तत्रास्मद्गु-
रुचरणैः ज्ञेत्रतत्त्वदीपिकायामित्थमभ्यधायि यथा
  • १ यः पदार्थोलक्षयितुं शक्यः परिमाणस्थूलत्वदैर्घ्यविस्ता-
ररहितः स विन्दुः ।
  • २ यः पदार्थोदीर्घो विस्तारस्थूलत्वाभ्यां रहितः स रेखा (विन्दुसमुदायोरेखा)
  • ३ यः पदार्थोविस्तारदैर्घ्ययुक्तः स्थूलत्वरहितः स धरातलम्
  • ४ यः पदार्थोविस्तारदैर्घ्यस्थौल्ययुक्तः सः स्थूलपदार्थः ।
  • ५ रेखा च त्रिविधा सरला वक्रा मिश्रिता च ।
  • ६ तत्र या रेखा एकदिग्गमनेनैव चिह्नद्वयान्तराले तिष्ठति
एवं ययोश्चिह्नयोरन्तराले कृतास्वनेकरेखास्वतिशयेनाल्प-
तमा सा सरला । यत्र रेखाशब्दस्तत्र सरलैव ग्राह्या ।
  • ७ या रेखा वर्द्धनेन प्रतिचिह्नं दिगन्तरे गच्छति सा वक्रा ।
(उभयलक्षणान्विता मिश्रिता)
  • ८ रेखा च समानान्तरा विषमान्तरा लम्बः सम्पातरेस्या च ।
  • ९ ययोः रेखयोरन्तरं समानम एवं वद्धेनेन तयोर्योनः
पृष्ठ २३९०
कदापि न भवितुमर्हति सा समानान्तरा रेखा भवति ।
  • १० ययोरन्तरं विषमम् एवं यदिश्यल्पान्तरं तद्दिशि वर्द्धने
नोत्तरोत्तरमल्पान्तरं यावद्रेखायोगस्तदनन्तरमुत्तरो-
त्तररमल्पान्तरं विवर्द्धते योगश्च कदापि भवितुं
न शक्नोति सा विषमान्तरा ।
  • ११ एकरेखायामन्यरेखासंयोगादुत्पन्नौ कोणौ यदि समानौ
भवतस्तदा ते रेखे मिथोलम्बरूपे भवतः ।
  • १२ या रेखा वृत्तपालिमिलिता सती पालिखण्डं न करोति
सा सम्पातरेखा भवति । यदृत्तं वृत्तसम्पातेन खण्डितं
न भवति स वृत्तसम्पातः ।
  • १३ एकचिह्नान्निःसृते द्वे रेखे यदि सम्मुखेतरभिन्नदिग् गते
भवत स्तदा तच्चिह्ने कोणोभवति ।
  • १४ कोणस्त्रिविधः समकोणोऽल्पकोणोऽधिककोणश्च ।
  • १५ तत्र समानरेखायां लम्बयोगादुत्पन्नः कोणः समकोणः
  • १६ समातिरिक्तोविषमकोणोभवति ।
  • १७ समकोणान्न्यूनोऽल्पकोणोभवति ।
  • १८ समकोणादधिकोऽधिककोणो भवति ।
  • १९ धरातलं द्विविधं समं वर्त्तुलं च ।
  • २० तत्र यस्मिन्धरातले सरला रेखा सर्वतो भावेन संलग्ना
भवति यद्वा यत्र कुत्रापि चिह्नद्वये लग्ना सरला रेखा
सर्वतः स्पृशति तद्धरातलं समं ज्ञेयम् । समातिरिक्तं
विषममिति ।
  • २१ सरलरेखाभिः कुटिलरेखाभिर्वा निबद्धसीमं
धरातलं समधरातलक्षेत्रं भवति । यत्र क्षेत्रशब्दस्तत्र
समधरातलक्षेत्रं ज्ञेयम् ।
  • २२ सरलरेखानिवद्धसीमं धरातलकं क्षेत्रं भुजैः कोणैर्वा
ऽभिधेयं भवति किन्तु यावन्तोभुजास्तावन्त एव कोणाः
भवति ।
  • २३ त्रिभिर्भुजैर्निबद्धसीमं धरातलं त्रिभुजक्षेत्रं भुजैः कोणैर्वाऽनेकविघं भवति ।
  • २४ यस्य त्रयोबाहवः समानास्तत्समत्रिभुजं मवथि ।
  • २५ यस्य द्वौ वाहू समानौ तत्समद्विभुजं ज्ञेयम् ।
  • २६ यस्य त्रयोचाहवोविषमास्तद्विषमत्रिभुजं भवति ।
  • २७ यस्यैकः समकोणस्तत्समकोणत्रिभुजं ज्ञेयम् ।
  • २८ समातिरिक्तकोणं विषमत्रिभुजं भवति ।
  • २९ यस्यैकोऽधिककोणस्तदधिककोणत्रिभुजं भवति ।
  • ३० यस्य त्रयोऽपि न्यूनकोणास्तन्न्यूनकोणत्रिसुजं ज्ञातव्यम् ।
  • ३१ चतुर्भुजैर्निवद्धसीमं धरातलं चतुर्मुजक्षेत्रं भवति ।
  • ३२ यस्य चतुर्भुजस्य परस्पर सम्मुखौ भुजौ समान्तणै
भवतस्तत्समानान्तरभुजं चतुर्भुजं क्षेत्रं भवति । तद्व-
क्ष्यमाणाभिधानं चतुर्विधं तद्यथा ।
  • ३३ यस्य चतुर्भुजस्य परस्परसम्मुखौ भुजौ समानौ
एवमेकः समकोणश्च भवति तच्चतुर्भुजं समकोणायतं भवति ।
  • ३४ यस्य चत्वारोभुजा मिथःसमानाः कोणाश्च समास्तच्चतु-
र्भुजं समकोणसमचतुर्भुजं वग्र्गेत्रं वा भवति ।
  • ३५ यस्य परस्परं सम्मुखरेखाद्वयं समानं समानान्तरं च
भवति । कोणाश्च विषमास्तच्चतुर्भुजं विषमकोणायतम्
  • ३६ यस्य चत्वारोबाहवः समानाः समानान्तराश्च भवन्ति
कोणाश्च विषमास्तद्विषमकोणसमचतुर्भुजं भवति ।
  • ३७ यस्य च परस्परं सम्मुखौ भुजौ विषमान्तरौ तच्चतु-
भुर्जं विषमचतुर्भुजं भवति ।
  • ३८ यस्य भुजद्वयं समानान्तरं तत्समानान्तरविषमचतुर्भुजम्
  • ३९ चतुर्भुजस्यैकान्तरकोणसंलग्ना रेखा कर्णो भवति ॥
  • ४० चतुर्भुजादधिकभुजैर्निबद्धं धरातलं सामान्यतोबहुभुजंक्षेत्रं
तद्बहुविधं भुजानुसारेण कोणानुसारेण वा तेषां नामानि
  • ४१ यथा पञ्चभुजं षड़्भुजं सप्तभुजमष्टभुजं नवभुजं दशभुज-
मेकादशभुजं द्वादशभुजमित्यादीनि ॥
  • ४२ तत्र बहुभुजनेत्रं यदि समभुजं भवति तस्य कोणा
समानाभवन्ति तदा वत्क्षेत्रं समपञ्चभुजमित्याभि धानकं
भवति तदितरत् विषमपञ्चभुजनित्यादि ।
  • ४३ एवमेव समत्रिभुजे कोणाः समानाभवन्त्येवेति नियम ।
तत्त्रिभुजं समानकोणसमत्रिभुज भवति । यस्य चत्वारो
भुजाः समानाः सन्ति तत्समचतुर्भुजं क्षेत्रं भवति ।
  • ४४ यस्य क्षेत्रस्य भुजाः समानाभवन्ति तत् क्षेत्रं समभुजं
यस्य कोणाः समानास्तत्समानकोणं क्षेत्रं यस्य भुजाः
कोणाश्च समानाभवन्ति तत्क्षेत्रं समकोणसममुजं भवति
  • ४५ कुटिलरेखया निबद्धसीमं धरातलं वृत्तक्षेत्रं भवति सा
रेखा परिधिसंज्ञिका पालिसंज्ञिका वा भवति तस्या मध्य-
विन्दुः केन्द्रसंज्ञकोभवति ॥
  • ४६ केन्द्रान्निःसृता वृत्तपालिसंलग्ना रेखा व्यासार्द्धं भवति ।
  • ४७ या रेखा उभयतः पालिसंलग्ना केन्द्रगा च भवति
सा व्याससंज्ञिका भवति ॥
  • ४८ परिधिखण्डश्चापसंज्ञकोभवति ॥
  • ४९ चापोभयपान्तगा रेखा चापकर्णसंज्ञिका ज्यासंज्ञिका च
  • ५० जीवाचापाभ्यां निबद्धधरातलकं क्षेत्रं धनुःक्षेत्रं चाप
क्षेत्रं वा भवति ॥
  • ५१ यस्य चापस्य व्यासरेखा जीवा भवति तत् अर्द्धवृत्तम् ।
पृष्ठ २३९१
  • ५२ केन्द्रान्निःसृते द्वे रेखे चापोभयपान्तसंलग्ने यदि भवत
स्तदा तत्क्षेत्रं वृत्तांशसंज्ञकं वृत्तखण्डकं च भवति ॥
  • ५३ यस्य चापः परिधिपादमितः केन्द्रान्निःसृताभ्यां रेखा
भ्यां समकोणश्च भवति तद्वृत्तपादक्षेत्रं भवति ॥
  • ५४ क्षेत्रस्योर्द्ध्वकोणादाधाररेखायां पतितलम्बमितमौच्च्यम्
  • ५५ समकोणत्रिभुजे समकोणसम्मुखभुजः कर्णोभवत्यन्यौ
पादौ भवतः किं वैक आधारोऽन्योलम्बः ॥
  • ५६ अत्र कोणोपलब्धिः कल्पितत्रिभिर्वेणैर्भवति किन्तु सदैव
कोणसंलग्नोवर्णोमध्यौच्चारणीयः ॥
  • ५७ परिधेः षष्ट्यधिकशतत्रयांशोंऽशसंज्ञकोभवति । अंशस्य
षष्ट्यंशः कला । कलायाः षष्ट्यंशोविकला । विकलायाः
षष्ट्यंशः प्रतिविकलेत्यादि ।
  • ५८ कोणस्य परिमितिः कोणचिह्नकृतकेन्द्रात् कृते वृत्ते
तत्कोणाकारकरेखयोरन्तरालचापगतांशतुल्या भवति
सकोणस्तद्वृत्तस्य केन्द्रं भवति ॥
  • ५९ तेषां चापानां केन्द्राद्दूरत्वं समानं भवति येषु केन्द्रान्निः
सृतोलम्बः समोभति ॥
  • ६० येषु दीर्घोलम्बः पतति तषां दूरत्वं दीर्घं भवति ॥
  • ६१ चापगतैकचिह्नान्निःसृते द्वे रेखे तदन्यचापोभयप्रान्त-
मिलिते तदुद्भूतः कोणश्चापान्तर्गतकोणोभवति ॥
  • ६२ अनन्तरोक्तकोणादपरदिग्भवः कोणस्तत्कोणसत्त्वे चा
पोपरिस्थः कोणोभवति किन्तु द्वयोः कोणयोः स्वरूपं
समानं तयोः प्रथमोऽन्तर्गतोद्वितीयौपरिस्थैत्येष भेदः
  • ६३ यत्कोणचिह्नं परिधिगतं भवति स पालिकोणोभवति यस्य
तच्चिह्नं केन्द्रगतं स्यात्स कोणः केन्द्रकोणोभवति ॥
  • ६४ सरलरेखाकृतक्षेत्रस्य सर्व्वे कोणा यदि वृत्तमध्ये परि
धिसंलग्नाभवन्ति तदा तत्क्षेत्रं वृत्तान्तर्गतं क्षेत्रोपरि
गतवृत्तं वा भवति ॥
  • ६५ यदि सरलरेखाकृतक्षेत्रस्य मध्ये सर्व्वभुजसलग्नः परि
धिस्तदा तद्वृत्तं क्षेत्रान्तर्गतं वृत्तोपरिगतक्षेत्रं वा
  • ६६ सरलरेखाकृतक्षेत्रस्य सर्व्वभुजसंलग्नायदि तद्रूपस्यान्य
क्षेत्रस्य सर्व्वे कोणाभवन्ति तदा तत्क्षेत्रं क्षेत्रान्तर्गतं
क्षेत्रोपरिगतक्षेत्रं वा भवति ॥
  • ६७ यद्रेखायाएकांशोवृत्तान्तर्गतोद्वितीयोवहिर्गतः स्यात्सा
रेखा वृत्तखण्डिनी भवति ।
  • ६८ ययोर्द्वयोस्त्रिभुजयोर्येषां सरलरेखाकृतक्षेत्राणां वा
प्रतिदिग्भुजैः प्रतिदिग्भुजाः समानाः सन्ति तानि
परस्परं सभभुजानि भवन्ति ययोर्येषां वा प्रतिदिक्कोणैः
प्रतिदिक्कोणाः समानास्तानि क्षेत्राणि परस्परं समान
कोणानि भवन्ति ॥
  • ६९ उभयोः क्षेत्रयोः परस्परं भुजाः कोणाश्च परस्परं
भुजैः कोणैश्च समानाभवन्ति किं वैकस्य क्षेत्रस्य सर्व्वे
भुजाः कोणाश्च द्वितीयक्षेत्रस्य सर्व्वैर्भुजैः कोणैश्च परस्परं
समानाः यथा एकक्षेत्रोपरि द्वितीयक्षेत्रं स्थाप्यते तदा
सर्व्वे भुजाः कोणाश्च सर्वभुजोपरि कोणोपरि च
समानरूपेण पतिताः स्युः यथा द्वेयोरेकरूपं स्यादीदृक्क्षे-
त्राण्येकरूपाणि भवन्ति ॥
  • ७० येषां क्षेत्राणां प्रतिदिक्कोणाः समानाएवं प्रतिदिग्भुजा
एकनिष्पत्तियुताभवन्ति तानि क्षेत्राणि सजातीयानि
  • ७१ क्षेत्रस्याखिलभुजयोगः सीमासूत्रमित्युच्यते ॥
एवं रेखानिष्पन्नक्षेत्राणां भुजकोट्यादिमानफलज्ञाना-
र्थं लीलावत्युक्तः क्षेत्रव्यवहारोऽत्र दर्श्यते यथा
“भुजकोटिकर्ण्णानामन्यतमाभ्यामन्यतमानयनाय
करणसूत्रं वृद्धद्वयम् । इष्टाद्बाहोर्यः स्यात्तत्स्पर्द्धिन्यां दिशी-
तरोबाहुः । त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता
तज्ज्ञैः । तत्कृत्योर्य्योगपदं कर्ण्णो, दोःकर्ण्णवर्ग्गयोर्वि-
वरात् । मूलं कोटिः, कोटिश्रुतिकृत्योरन्तरात्पदं बाहुः ।
उदाहरणम् । कोटिश्चतुष्टयं यत्र दोष्त्रयं तत्र का श्रुतिः ।
कोटिन्दोःकर्ण्णतः, कोटिश्रुतिभ्याञ्च भुजं वद ।

<Picture>

न्यासः
कोटिः । ४ । भुजः । ३ । भुजवर्गः
९ । कोटिवर्गः । १६ । एतयोर्यो-
गात् । २५ । मूलम् । ५ । कर्णोजातः ॥
॥ अथ कर्ण्णभुजाभ्यां कोट्यानयनम् ॥

<Picture>

न्यासः
कर्णः । ५ । भुजः । ३ । अनयोर्वर्ग्गा-
न्तरम् । १६ । एतन्मूलं । ४ । कोटिः
पृष्ठ २३९२
॥ अथ कोटिकर्णाभ्यां भुजानयनम् ॥

<Picture>

न्यासः
कोटिः । ४ । कर्णः । ५ ।
अनयोर्वर्गान्तरम् । ९ ।
एतन्मूलं । ३ । भुजः
“प्रकारान्तरेण तज्ज्ञानाय
करणसूत्रं सार्द्धवृत्तम् ।
राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः । वग्र्गयोगी-
भवेदेवं तयोर्योगान्तराहतिः । वर्ग्गान्तरं भवेदेवं ज्ञेयं
सर्वत्र धीमता ॥
कोटिश्चतुष्टयमिति पूर्बोक्तोदाहरणे ।

<Picture>

न्यासः
कोटिः । ४ । भुजः । ३ ।
अनयोर्घाते । १२ । द्विघ्ने । २४ ।
अन्तरवर्गेण । १ । युते वर्गयोगः।
२५ । अस्य मूलं कर्णः । ५ ।
अथ कर्ण्णभुजाभ्यां कोट्यानयनम् ।

<Picture>

न्यासः
कर्णः । ५ । भुजः । ३ । अनयो-
र्योगः । ८ । पुनरेतयोरन्तरेणा । २ ।
ऽऽहतोवर्गान्तरम् । १६ । अस्य
मूलं कोटिः । ४ ।
अथ कर्णकोटिभ्यां भुजायनम् ।

<Picture>

न्यासः
कोटिः । ४ । कर्णः । ५ । (उक्त-
रीत्या) जातोभुजः । ३ ।
“उदाहरणम् । साङ्घ्रित्रयमितोबाहुर्यत्र कोटिश्च
तादृशी । तत्र कर्ण्णप्रमाणं किं गणक! ब्रूहि मे द्रुतम् ॥

<Picture>

न्यासः
भुजः १३ ४ कोटिः १३ ४
अनयोर्वर्गयोर्योगः १६९ ८
अस्य मूलाभावात्करणी-
गतएवायं कर्णः


अस्यासन्नमुलज्ञानार्थमुपायः वर्ग्गेण महतेष्टेन
हताच्छेदांशयोर्बधात् । पदं गुणपदक्षुण्णच्छिद्भक्तं
निकटं भवेत् ॥
अयं कर्ण्णवर्ग्गः १६९ ८ अस्य छेदांशघातः १३५२ अयुतघ्नः
१३५२०००० अस्यासन्नमूलम् ३६७७ इदं गुणमूल १००
गुणितच्छेदेन ८०० भक्तं लब्धमासन्नपदं ४ भागाः
४७७ ८०० अयं कर्ण्णः । एवं सर्व्वत्र ।
“त्र्यस्रजात्ये करणसूत्रं वृत्तद्वयम् । इष्टोभुजोऽस्माद्द्विगु-
णेष्टनिघ्नादिष्टस्य कृत्यैकवियुक्तयाप्तम् । कोटिः पृथक्
सेष्टगुणा भुजोना कर्ण्णोभवेत्त्र्यस्रमिदन्तु जात्यम् ॥
इष्टोभुजस्तत्कृतिरिष्टभक्ता द्विःस्थापितेष्टोनयुतार्द्धिता
वा । तौ कोटिकर्ण्णाविति कोटितोवा बाहुश्रुती वाऽ
करणीगते स्तः ।
उदाहरणम् । भुजे द्वादशके यौ यौ कोटिकर्ण्णा
वनेकधा । प्रकाराभ्यां वद क्षिप्रं तौ तावकरणीगतौ ।

<Picture>

न्यासः
भुजः । १२ । इष्टम् । २ ।
अनेन द्विगुणेन । ४ । गुणि
तोभुजः । ४८ । इष्ट । २ ।
कृत्या । ४ । एकोनया । ३ ।
भक्तोलब्धा । १६ । कोटिः
इयमिष्टगुणा । ३२ । भुजो । १२ ।
ना जातः कर्ण्णः । २० ।
त्रिकेणेष्टेन वा ।

<Picture>

कोटिः । ९ । कर्ण्णः । १५ ।
(उक्तरीत्यायातः)
पञ्चकेनेष्टेन वा

<Picture>

कोटिः । ५ ।
कर्णः । १३ ।
(उक्तरीत्यायातः)
पृष्ठ २३९३
अथ द्वितीयप्रकारेण ।

<Picture>

न्यासः
भुजः । १२ । अस्य
कृतिः । १४४ । इष्टेन । २ ।
भक्ता लब्धम् । ७२ । इष्टेन।
२ । ऊन । ७० । युतौ।
७४ । अर्द्धितौ जातौ
कोटिकर्णौ । ३५ । ३७ ।
अतुष्टयेन वा ।

<Picture>

कोटिः । १६ । कर्णः । २० ।
(उक्तरीत्यायातः)
षट केन वा ।

<Picture>

कोटिः । ९ । कर्णः । १५ ।
(उक्तरीत्यायातः)
अथेष्टकर्ण्णात्कोटिभुजानयभे करणसूत्रं वृत्तम् । इष्टेन
निघ्नाद्द्विगुणाच्च कर्ण्णादिष्टस्य कृत्यैकयुजा यदाप्तम् । कोटि-
र्भवेत् सा पृथगिष्टनिघ्नी तत्कर्ण्णयोरन्तरमत्र बाहुः ॥
“उदाहरणम् । पञ्चाशीतिमिते कर्ण्णे यौ यावकरणी-
गतौ । स्यातां कोटिभुजौ तौ तौ वद कोविद । सत्वरः

<Picture>

न्यासः
कर्ण्णः । ८५ । अयं द्विगुणः । १७० ।
द्विकेनेष्टेन हतः । ३४० । इष्ट०।
२ । कृत्या । ४ । सैकया । ५ ।
भक्तो जाता कोटिः । ६८ ।
इयमिष्ट २ गुणा । १३६ । कर्ण्णो।
८५ । निता जातोभुजः ॥ ५१ ॥
चतुष्केणेष्टेन वा ।

<Picture>

कोटिः । ४० । भुजः । ७५ ।
(उक्त रीत्यायातः)
  • प्रकारान्तरेण तत्करणसूत्रं वृत्तम् । इष्टवर्ग्गेण सैकेन
द्विघ्नः कर्ण्णोऽथ वा हृतः । फलोनः श्रवणः कोटिः
फलमिष्टगुणं भुजः ॥
पूर्बोदाहरणे । न्यासः

<Picture>

कर्णः । ८५ । अत्र द्विके-
नेष्टेन जातौ किल कोटि
भुजौ । ५१ । ६८ ।
चतुष्केण वा ।

<Picture>

कोटिः । ७५ । भुजः । ४० । अत्र
दोःकोट्योर्नामभेद एव केवलं न
स्वरूपभेदः ।
अथेष्टाभ्यां भुजकोटिकर्ण्णानयने
करणसूत्रं वृत्तम् । इष्टयोराहति-
र्द्विघ्नी कोटिर्वर्गान्तरं भुजः ।
कृतियोगस्तयोरेवं कर्ण्णश्चाकरणीगतः ॥
उदाहरणम् । यैर्यैस्त्र्यसं
भवेज्जात्यं कोटिदोःश्रवणैः सखे! ।
त्रीनष्यविदितानेतान् क्षिप्रं ब्रूहि विचक्षण! ॥
पृष्ठ २३९४

<Picture>

न्यासः
अत्रेष्टे । २ । १ । आभ्यां कोटि
भुजकर्णाः । ४ । ३ । ५ ।
(उक्तरीत्यायातः)

<Picture>

अथवेष्टे । २ । ३ । आभ्यां कोटिभुज
कर्णाः । १२ । ५ । १३ ।
(उक्तरीत्यायाताः)

<Picture>

अथवेष्टे । २ । ४ । आभ्यां कोटि-
भुजकर्णाः । १६ । १२ । २० ।
एवमन्यत्रानेकधा ॥
कर्ण्णकोटियुतौ भुजे च ज्ञाने
पृथक्करणसूत्रं वृत्तम् । वंशाग्रमूलान्तर-
भूमिवर्गोवंशोद्धृतस्तेन पृथग्युतोनौ ।
वंशौ तदर्द्धे भवतः क्रमेण वंशस्य खण्डे श्रुतिकोटिरूपे ।
उदाहरणम् । यदि समभुवि वेणुर्द्वित्रि ३२ पाणि प्रमाणो
गणक! पवनवेगादेकदेशे स भग्नः । भुवि नृप १६ मितह-
स्तेष्वङ्ग लग्नं तदम्रं कथय कतिषु मूलादेष भग्नः करेषु ॥

<Picture>

वंशाग्रमूलान्तरभूमिर्भुजः । १६ । वंशः
कोटिकर्णयुतिः । ३२ । जाते ऊर्द्धाधः
खण्डेः । २० । १२ ।
बाहुकर्ण्णयोगे दृष्टे कोट्याञ्च
ज्ञातायां पृथक्करणसूत्रं वृत्तम् ।
स्तम्भस्य वर्ग्गोऽहिविलान्तरेण भक्तः फलं
व्यालबिद्धान्तरालात् । शोध्यं तदर्द्ध-
प्रमितैः करैः स्याद्बिलाग्रतोव्यालक-
लापियोगः ॥
उदारणम् । अस्मि स्तम्भतले बिलं
तदुपरि क्रीडाशिखण्डी स्थितः स्तम्भे हस्तनवोच्छ्रिते त्रि-
गुणितस्तम्भप्रमाणान्तरे । दृष्ट्वाहिं बिलमाव्रजन्तमप-
तत्तिर्यक स तस्योपरि क्षिप्रं ब्रूहि तयोर्बिलात्कतिमितैः
साम्योन गन्योर्युतिः ॥

<Picture>

स्तम्भः । ९ । अहिबिलान्तरम् । २७ । जाता
विलगत्योर्मध्यहस्ताः । १२ ।
कोटिकर्णान्तरे भ जे च दृष्टे पृथक्करणसत्रं वृत्तम् ।
भुजाद्वर्गितात्कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तरे-
णोनयुक्तम् । तदर्द्धे क्रमात्कोटिकर्णौ भवेतामिदं
धीमताऽऽवेद्य सर्व्वत्र योज्यम् । सखे! पद्मतन्मज्जनस्थान-
मध्ये भुजः कोटिकर्णान्तरं पद्म दृश्यम् । नलः कोटि-
रेतन्मितः स्याद्यदम्भोवदैवं समानीय पानीयमानम् ॥
उदाहरणम् । चक्रक्रौञ्चाकुलितसलिले क्कापि दृष्टं
तडागे तोयादूर्द्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम् ।
मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे तस्मिन्मग्नं
गणक! कथय क्षिप्रमम्भःप्रमाणम् ॥

<Picture>

न्यासः
कोटिकर्ण्णान्तरम् १२ भुजः । २ ।
लब्धं जलगाम्भीर्य्यम् १५ ४ इयं
कोटिः इयमेव कलिकामानयुता
जातः कर्णः १७ ४
कोट्येकदेशेन युते कर्णे भुजे च
दृष्टे कोटिकर्ण्णज्ञानाय
करणसूत्रं वृत्तम् । द्विनिघ्नतालोच्छ्रि
तिसंयुतं तत्सरोऽन्तरं तेन विभा-
जितायाः । तालोच्छ्रितेस्ताल
सरोऽन्तरघ्नादुड्डीनमानं खलु
लभ्यते तत् ॥
उदाहरणम् । वृक्षाद्धस्तशतोच्छयाच्छतयुगे वापीं
कपिः कोऽप्यगादुत्तीर्य्याथ परोद्रुतं श्रुतिपथेनोड्डीय
किञ्चिद्द्रुमात् । जातैवं समता तयोर्यदि गतावुड्डीन
मानं कियद्विद्वन्! चेत्सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदा
ऽऽचक्ष्व मे ॥ ॥ न्यासः

<Picture>

वृक्षवाप्यन्तरम् । २०० ।
वृक्षोच्छ्रायः । १०० । लब्ध-
मुड्डीनमानम् । ५० ।
कीटिः । १५० । कर्ण्णः । २५० ।
भुजः । २०० ।
भुजकोट्योर्योगे कर्ण्णे च
ज्ञाते वृथक्करणसृत्र वृत्तम् । कर्ण्णस्य वर्गाद्द्विगुणां
पृष्ठ २३९५
द्विशोध्योदोःकोटियोगः स्वगुणेऽस्य मलम् । योगोद्विधा
मूलविहीनयुक्तः स्यातां तदर्द्धे भुजकोटिमाने ॥
उदाहरणम् । दशसप्तंधिकः कर्ण्णस्त्र्यविका विंशतिः
सखे! । भुजकोटियुतिर्यत्र तत्र ते मे पृथग्वद ॥

<Picture>

न्यासः
कर्ण्णः । १७ । दोःको-
टियोगः । २३ । जाते भुज
कोटी । ८ । १५ ।
उदाहरणम् । दोःको
ट्योरन्तरं शैलाः कर्णो-
यत्र त्रयोदश । भुजकोर्टा
पृथक्तत्र वदाशु गणकोत्तम ॥

<Picture>

न्यासः
कणः । १३ । भुजकोट्यन्तरम् । ७ । लब्धे
भुजकोटी । ५ । १२ ।
लम्बावबाधज्ञानाय करणसूत्रं वृत्तम् ।
अन्योऽन्यमूलाग्रगसूत्रयोगाद्वेण्वोर्बधे योगहृते
च लम्बः । वंशौ स्वयोगेन हृतावभीष्टभूघ्नौ च
लम्बोभयतः कुखण्डे ॥
उदाहरणम् । पञ्चदशदशकरोच्छायवेण्वोर-
ज्ञातमध्यभूमिकयोः । इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमा-
नमाचक्ष्व ॥

<Picture>

न्यासः
वंशौ । १५ । १० । जातो लम्बः।
६ । वंशान्तरभूः । ५ । अत्र
जाते भूखण्डे । ३ । २ अथवा
भूः । १० । खण्डे । ६ । ४ ।
वा भूः । १५ । खण्डे । ९ । ६ ।
वा भूः । २० । खण्डे । १२ । ८ ।
एवं सर्वत्र लम्बः सएव ।
यद्यत्र भूमितुल्ये भुजे वंशः
कोटिस्तदा भूखण्ड न किमिति
त्रैराशिकेन सवत्र प्रतीतिः ।
अथ अक्षत्रलक्षणे सूत्रम् ।
धृष्टोद्दिष्टमृजुभुजक्षेत्र यत्रै-
कवाहुतः खल्पा । तदितरभु-
जयुतिरथवा खल्या ज्ञेयं तदक्षेत्रं ॥
उदाहरणम् । चतुरस्रे त्रिषड्द्व्यर्काभुजास्त्र्यस्रे
त्रिषड्नवाः । उद्दिष्टा यत्र मृष्टेन तदक्षेत्र विनिर्द्दिशेत्
एते अनुपवन्ने क्षेत्रे ।

<Picture>

भुजप्रमाणाऋजुशलाकाः भुजस्थनेषु विन्यस्यानुपपत्ति-
र्दर्शनीयेति ।
आचधादिज्ञानाय करणसूत्रमार्याद्वषम् । त्रिभुजे
भुजयोर्योगस्तदन्तरगुणोभुवा हृतोलब्ध्या । द्विःस्था भूरून-
युता दलिताऽबाधे तयोः स्याताम् ॥
स्वाऽऽबाधाभुजकृत्योरन्तरमूल प्रजायते लम्बः । लम्ब-
गुण भूम्यर्द्धं स्पष्ट त्रिभुजे फल भवति ॥
उदाहरणम् । क्षेत्रे मही मनुमिता त्रिभुजे भुजौ
तु यत्र त्रयोदशतिथिप्रमितौ च मित्र! तत्रावलम्बक
मिति कथयावबाधे क्षिप्र तथा च समकोष्ठमितिं
फलाख्याम् ॥ न्यासः

<Picture>

भूः । १४ । भुजौ । १३ । १५ । लब्धे
आबाधे । ५ । ९ । लम्बः । १२ ।
क्षेत्रफलञ्च । ८४ । ऋणाऽऽबाधोदा-
हरणम् । दशसप्तदशप्तमौ भुजौ त्रिभुजे
यत्र नवप्रमा मही । नाबधे यद लम्बकं
तथा गणित गाणितिकाशु तत्र मे ॥

<Picture>

भुजौ । १० । १७ । भूमिः । ९ ।
अत्र त्रिभुजे भुजयोर्यो-
गैत्यादिना लब्धम । २१ ।
अनेन भूरूना न स्यात्
अस्मादेव भूरपनीता शेषाद्ध-
मृणेगताऽऽबधा दिग्वैपरीत्येनेत्यर्थः । तथा जाते
आवाधे । ६ । १५ । अतौभयत्रापि जातोलम्बः । ८ ।
फलम् । ३६ ।
चतुर्भुजत्रिभुजयोरस्पष्टफलानयने करणसूत्र वृत्तम् ।
सर्वदोर्युतिदलञ्चतुःस्थित बाहुभिविरहितञ्च तद्वधात् ।
मूलपस्फ टफलं चतुर्भुजे स्पष्टमेवमुदितं त्रिबाहुके ॥
उदाहरञ्चम् । भूमिश्चतुर्द्दशमिता मुखनङ्कलङ्ख्यं
बाहू त्रयोदशदिवाकरस स्मतौ च । लम्बोऽपि यत्र रवि
पृष्ठ २३९६
संज्ञकएव तत्र क्षेत्रे फलं कथय तत्कथितं यदाद्यैः

<Picture>

न्यासः
भूमिः । १४ । मुखम् । ९ ।
बाहू । १३ । १२ । लम्बः । १२ ।
उक्तवत्करणेन जातं क्षेत्रफलं
करणी । १९८०० । अस्याः पदं
किञ्चिन्न्यूनमेकचत्वारिंशदधिकशतम्
१४१ । इदमत्र क्षेत्रे न वास्तवं
फलम् किन्तु लम्बेन निघ्नं कुमु
खेक्यखण्डमित्यादिवक्ष्यमाणकरणेन वास्तवं फलम् । १३८
अत्र त्रिभुजस्य पूर्बोदाहृतस्य

<Picture>

न्यासः
भूमिः । १४ । भुजौ । १३ । १५ ।
अनेनापि प्रकारेण त्रिबाहुके तदेव
वास्तवं फलम् । ८४ । अत्र
चतुर्भुजस्यास्पष्टमुदितम् ।
अथ स्थूलत्वनिरूपणार्थं सूत्रं सार्द्धवृत्तम् ।
चतुर्भुजस्यानियतौ हि कर्णौ कथं ततोऽस्मिन्नियतं फलं
स्यात् । प्रसाधितौ तच्छ्रवणौ यदाद्यैः स्वकल्पितौ तावित-
रत्र न स्तः ॥ तेष्वेव बाहुष्वपरौ च कर्णापनेकधा क्षे-
त्रफलं ततश्च ॥ चतुर्भुजे हि एकान्तरकोणावाक्रम्या-
ऽन्तःप्रवेश्यमानौ ससंसक्तं कर्णं सङ्कोचयतः इतरौ
बहिरपसरन्तौ कोणौ स्वसंसक्तं कर्णं वर्द्धयतः अतौक्त-
न्तेष्वेव बाहुष्यपरौ च कर्णाविति । लम्बयोः कर्ण्णयोर्वै-
कमनिर्द्दिश्यापरान् कथम् । पृच्छत्यनियतत्वेऽपि नियत-
ञ्चापि तत्फलम् । स पृच्छकः पिशाचोवा वक्ता वा नितरा-
म्ततः । यो न वेत्ति चतुर्बाहुक्षेत्रस्यानियितां स्थितिम् ॥
समचतुर्भुजाऽऽयतयोः फलानवने करणसूत्रं सार्द्ध-
श्लोकद्वयम् । इष्टा श्रुतिस्तुल्यचतुर्भुजस्य कल्प्याथ
तद्वर्गंविवर्जिता या । चतुर्गुणा बाहुकृतिस्तदीयं मूलं
द्वितीयश्रवणप्रमाणम् ॥ अतुल्यकर्णाभिहतिर्विभक्ता फलं
स्फुटं तुल्यचतुर्भुजे स्यात् । समश्रुतौ तुल्यचतुर्भुजे
च तथाऽऽयते तद्भ जकोटिघातः ॥ चतुर्भुजेऽन्यत्र
समानलम्बे लम्बेन निघ्नङ्कुमुखैक्यखण्डम् ॥
अत्रीद्देशकः! क्षेत्रस्य पञ्चरुतितुल्यचतुर्भुजस्य कर्णौ
ततश्च गणितं गणक! प्रचक्ष्व । तुल्यश्रुतेश्च खलु तस्य तथा-
गतस्य यद्विस्तृतीरसमिताष्टमितं च दैर्घ्यम् ॥
प्रथमोदाहरणे ।

<Picture>

भुजाः । २५ । २५ ।।
२५ । २५ । अत्र
त्रिंशन्मिता । ३० ।
मेकां श्रुतिं प्रकल्प्य
जाताऽन्या । ४० ।
फलञ्च । ६०० ।
(तथाहिंभुजवर्गः
६२५ । चतुर्गुणा
२५०० श्रुतिवर्गेण
९०० हीनात् १६००
मूलम् ४०) द्वितीयं
श्रुतिः । तयोः ३० । ४० । श्रुत्योर्धातः १२० द्विभक्त ६०० ।

<Picture>

अथ वा ।
चतुद्द शमिनामेकां । १ ।
श्रुतिं प्रकल्प्योक्तवत्करणेन
जाताऽन्या श्रुतिः । ४८ ।
फलञ्च । ३३६ ।
(अत्र क्षेत्रे २४ अङ्कोऽशुद्धः
१४ शुद्धम् इति)

<Picture>

द्वितीयोदाहरणे ।
तत्कृत्योर्योगपदं
कर्णैति जाता करणा
पता श्रुतिः
पृष्ठ २३९७
उभयत्र तुल्यैव । गणितञ्च । ६२५ ।

<Picture>

अथायतस्य ।
विस्तृतिः । ६ ।
दैर्घ्यम् । ८ ।
अस्य गणितम्।
४८ ।
उदाहरणम् । क्षेत्रस्य यस्य वदनं मदनारितुल्यं
विश्वम्भरा द्विगुणितेन मुखेन तुल्या । बाहू त्रयोदशनख-
प्रमितौ च लम्बः सूर्य्योन्मितश्च गणितं वद तत्र किं
स्यात् ॥

<Picture>

न्यासः
वदनम् । ११ ।
विश्वम्भरा । २२ ।
बाहू । १३ । २० ।
लम्बः । १२ ।
अत्र सर्व्वदोर्य्युतिदलमित्यादिना स्थूलं फलम् । २५०
वास्तवन्तु लम्बेन निघ्नं कुमुखेक्यखण्डमिति जातं फलम् ।।
१९८ । क्षत्रस्य खण्डत्रयं कृत्वा फलानि पृथगानीय
ऐक्यं कृत्वास्य फलोपपत्तिर्दर्शनीया खण्डत्रयदर्शनम् ।


प्रथमस्य भुजकोटिकर्णाः । ५ । १२ । १३ । द्वितीयतस्य-
विस्तृतिः । ६ । दैर्घ्यं । १२ । तृतीयस्य भुजकोटिकर्णाः।
१६ । १२ । ३० ।
अत्र त्रिभुजयोर्भुजकोटिघातार्द्धं फलम् यथा प्रथमक्षेत्रे
फलम् । ३० । द्वितीये । ७२ । तृतीये । ९६ । एषामैक्यं
सर्व्वक्षेत्रफलम् । १९८ ।
अथान्यदुदाहरणम् । पञ्चाशदेकसहिता वदनं यदीयं
भूः पञ्चसप्ततिमिता प्रमितोऽष्टषष्ट्या । सव्याभुजोद्विगुण-
विंशतिसम्मितोऽन्यसास्मिन् फलं श्रवणलम्बमिती प्रचक्ष्व

<Picture>

न्यासः
वदनम् । ५१ । भूमिः । ७५
भुजौ । ६८
अत्र फलावलम्बश्रुतीनां ज्ञानार्थं सूत्रं वृत्तार्द्धम् ।
ज्ञातेऽथ लम्बे श्रवणः श्रुतौ तु लम्बः फलं स्यान्नियतन्तु
तत्र । कर्णस्यानियतत्वाल्लम्बोऽप्यनियतैत्यर्थः ।
लम्बज्ञानाय करणसूत्रं वृत्तार्द्धम् । चतुर्भुजान्त-
स्त्रिभुजेऽवलम्बः प्राग्वद्भुजौ कर्णमुजौ मही भूः ॥
अत्र लम्बज्ञानार्थं सव्यभुजाग्राद्दक्षिणभुजमूलगामी इष्टः
कर्णः सप्तसप्ततिमितः कल्पितस्तेन चतुर्भुजान्तस्त्रिभुजं
कल्पितं तत्राऽसौ कर्णएकोभुजः । ७७ । द्वितीयस्तु
सव्यभुजः । ६८ । मूः सैव । ७५ । अत्र प्राग्वल्लब्धोलम्बः
३०८ ५
लम्बे ज्ञाते कर्णज्ञानार्थं सूत्रं वृत्तम् । यल्लम्बल-
म्बाश्रितबाहुवग्र्गविश्लेषमूलं कथिताऽबधा सा ।
तदूनभूवर्ग्गसमन्वितस्य यल्लम्बवर्ग्गस्य पदं स कर्णः ॥
अत्र सव्यभुजाग्राज्ञम्बः किल कल्पितः ३०८ ५
तदूनभूवर्ग्गसमन्वितेत्यादिना जातः कर्णः । ७७ ।
द्वितीयज्ञानार्यं सूत्रं वृत्तद्वयम् । इष्टोऽत्र कर्णः
प्रथमं प्रकल्प्यस्त्र्यस्रे तु कर्णोभयतः स्यिते ये । कर्णं
तयोः क्ष्मामितरौ च बाहू प्रकल्प्य लखायवधे च साध्ये
अबाधयोरेकककपम्प्पयोर्य्यत्स्यादन्तरन्तत्कृतिसंयुतस्य । ल-
पृष्ठ २३९८
म्बैक्यवर्गस्य पदं द्वितीयः कर्णोभवेत्सर्वचतुर्भुजेषु ॥

<Picture>

म्यासः
अत्र चतुर्भुजे सव्यभुजाग्राद्दक्षिणभुजमूलगामिनः
कर्णस्य मानं कल्पितम् । ७७ । तत्कर्णरेखावच्छिन्नस्य
क्षेत्रस्य मध्ये कर्णरेखोभयतोये त्र्यम्ने उत्पन्ने तयोः
कर्णं भूमिं तदितरौ च भुजौ प्रकल्पा प्राग्वल्लम्बः आ
बाधा च साधिता । तद्वशेन लम्बः ॥ ६० ॥ द्वितीय
लम्बः ॥ २४ ॥ आबाधयो । ४५ । ३२ । रेकककुप्स्थयो
रन्तरस्य । १३ । कृते । १६९ । र्लम्बैक्य । ८४ । कृतेश्च
७०५६ योगः । ७२२५ । तस्य पदं । ८५ । द्वितीयकर्णप्रमाणम्
अत्रेष्टकर्णकल्पने विशेषोक्तिसूत्रं सार्द्धवृत्तम् ।
कर्णाश्रितस्वल्पभुजैक्यमुर्वीं प्रकल्प्य तच्छेषभुजौ
च बाहू । साध्योऽबलम्बोऽथ तथान्यकर्णः स्वोर्व्याः
कथंचिच्छ्रवणीन दीर्घः ॥ तदन्यलम्बान्न लघु
स्तथेदं ज्ञात्वेष्टकर्णः सुधिया प्रकल्प्यः ॥
चतुर्भुजं हि एकान्तरकोणयोराक्रम्य सङ्कोच्यमानं त्रिभु
जत्वं याति तत्रैककोण लग्नलघुभुजयोरैक्यं भूमि
रितरौ भुजौ च तल्लम्बादूनः सङ्कोच्यमानः कर्णः
कथञ्चिदपि न स्यात् तदितरोभूमेरधिकोन स्यादेवमुभय-
थापि एतदनुक्तमपि बुर्द्धमता ज्ञायते ।
विषमचतुर्भुजफलानयदाय करणसूत्रं वृत्तार्द्धम् । त्र्य-
स्रेतु कर्णोभयतः स्थिते वे तयोः फलैक्यं फलमत्र नूनम् ।
अनन्तरोक्तक्षेत्रान्तस्त्र्यस्रयोः फले । ९२४ । २३१ ।
अनयोरैक्यं । ३२३४ । तस्य फलम् ।
समानलम्बस्याबाधादिज्ञानाय करणसूत्रं वृतद्वयम् ।
समानलम्बस्य चतुर्भुजस्य मुखोनभूमिं परिकल्प्य
भूमिम । भुजौ भुजौ त्र्यस्रवदेव साध्ये तस्याबधे
लम्बमितिस्ततश्च ॥ अबाधयोना चतुरस्रभूमिस्तल्लम्बव-
र्ग्गेक्यादं श्रुतिः स्यात् । समानलम्बे लघुदोःकुवी-
गान्मुखान्यदोःसंयुतिरल्पिका स्यात् ॥


उदाहरणम् । द्विपञ्चाशन्मितव्येकचत्वारिंशन्मितौ
भुजौ । मुखन्तु पञ्चविंशत्या तुल्यं षष्ट्या मही किल ।
॥ अतुल्यलम्बकं क्षेत्रमिदं पूर्व्वैरुदाहृतम् । षट्पञ्चा-
शत्त्रिषष्टिश्च नियते कर्णयोर्म्मिती ॥
फर्णौ तत्राऽपरौ ब्रूहि समलम्बञ्च तच्छ्रुती ॥

<Picture>

अत्र वृहत्
कर्णं त्रिषष्टिमितं
प्रकल्प्यात्र जातः
प्राग्वदन्यः कर्णः।
५६ ।
अथ षट्पञ्चाशत्स्थाने द्वाद्विंशन्मितं कर्णं । ३२ ।
प्रकल्प्य

<Picture>

न्यासः
प्राग्वत्साध्यबाने कर्णे
जातं करणीखण्ड-
द्वयं । ६२१ । २७०० ।
अनयोर्मूलयो २४ ५१
२३ २४
२५ २५
रैक्यं द्वितीयः कर्णः
७२
२२
२५

<Picture>

न्यासः अथ तदेव क्षेत्रञ्चेत्समलम्बम् ।
तदा सुखोतभूमिं
(अत्र क्षेत्रे लम्बांशहारयोः षट्शते पतिते) न्यासः

<Picture>

अत्राबाधे जाते ३ ५ १७२ ५
लम्बश्च करणीगतोजातः ३८०१६
२५
आसन्नमूलकरणेन जातः ३८
६२२
६२५
पृष्ठ २३९९


अयं तत्र चतुर्भुजे समलम्बः लघ्वाऽऽबाधोनित-
समभूमेर्लम्बस्थ च वर्गयोगः । ५०४९ । अयं कर्णबर्गः
एवं वृहदाबाधातोद्वितीयकर्णवर्गः । २१७६ । अनयो-
रासन्नमूलकरणेन जातौ कर्णौ ७१ १ २० । ४६१३ २०
एवं चतुरस्रे तेष्वेव बाहुष्वन्यौ कर्णौ बहुधा भवतः
एवमनियतत्वेऽपि नियतावेव कर्णावानीतौ ब्रह्मगुप्ता
द्यैस्तदानयनं यथा ।
कर्णाश्रितभुजघातैक्यमुभयथाऽन्योऽन्यभाजितं
गुणयेत् । योगेन भुजप्रतिभुजहत्योः कर्णौ पदे विषमे

<Picture>

न्यासः
कर्णाश्रितभुजवातेति
एकवारमनयो । २५ ।
३९ र्घात । ९७५ ।
स्तथा । ५२ । ६० ।
ऽनयोर्घातः । ३१२० ।
तयोर्द्वयोरैक्यम् ।
४०९५ । तथा द्वितीय
वारम् । २५ । ५२ । अनयोर्घाते जातम् । १३०० ।
तथा द्वितीयवारम् । ३९ । ६० । अनयोर्घाते । २३४० ।
घातयोर्द्वयोरैक्यम् । ३६४० । भुजप्रतिभुज । ५२ ।।
३९ । घातः । २०२८ । पश्चात् । २५ । ६० ।
अनयोर्बधः । १५०० । तयोरैक्यम् । ३५२८ । अनेनैक्येन।
३६४० । गुणितं जातं पूर्ब्बैक्यम् । १२८४१९२० ।
प्रथमकर्णाश्रितभुजघातैक्येन । ४०९५ । भक्तं लब्धम्।
३१३६ । अस्य मूलम् । ५६ । एकः कर्णः तथा द्वितीय
कर्णार्थं प्रथमकर्णाश्रितभुजघातैक्यं । ४०९५ ।
भुजप्रतिभुजबधयोगः ३५२८ गुणितं जातम् ।
१४४४७१६० । अन्यकर्णाश्रितघातैक्येन । ३६४० । भक्तं
लब्धम् । ३९६९ । अस्य मूलं । ६३ । द्वितीयः कर्णः ।
अस्य कर्णानयनस्य प्रक्रियागौरवं लघुप्रक्रियादर्शन-
द्वारेणाह । अभीष्टजात्यद्वयबाहुकोटयः परस्परं कर्ण-
डताभुजाइति । चतुर्भुजे यद्विषमं प्रकल्पितं श्रुती
तु तत्र त्रिभुजद्वयात्ततः ॥ बाह्वोर्बधः कोटिवधेन युक्
स्यादेका श्रुतिः कोटिभुजाद्बधैक्यम् । अन्या लघौ सत्यपि
साधनेऽस्मिन् पूर्ब्बैः कृतं यद्बहु तन्न विद्मः ॥
जात्यक्षेलद्वयस्य

<Picture>

न्यासः
एतयोरितरेतरकर्णहताभुजाः कोटयः, इतरेतरकर्ण
हताः कोटयोभुजाइति कृते जातं । २५ । ६० । ५२ ।।
३९ । तेषां महती भूर्लघु मुखमितरौ बाहू इति
प्रकल्प्य क्षेत्रदर्शनं इमौ कर्णौ महतायासेनानीतौ।
६३ । ५६ । अस्यैव जात्यद्वयस्योत्तरोत्तरभुजकोट्यो
र्घातौ जातौ । ३६ । २० । अनयोरैक्यमेकः कर्णः।
५६ । बाह्वोः । ३ । ५ । कोट्योश्च । ४ । १२ । घातौ।
१५ । ४८ । अनयोरैक्यमन्यः । ६३ । एवं सुखेन
श्रुती स्यातां अथ यदि पार्श्वभुजमुखयोर्व्यत्ययं कृत्वा
न्यस्तं क्षेत्रम्

<Picture>

न्यासः
तदा जात्यद्वयकर्ण-
योर्बधः । ६५ । द्वि-
यकर्णः ।
अथ सूचीक्षेत्रीदा-
हरणम् । क्षेत्रे यत्र
शतत्रयं । ३०० ।
क्षितिमितिस्तत्त्वेन्दु।
१२५ । तुल्यं मुखं
बाहू खोत्कृतिभिः।
२६० । शरातिधृतिभि । १९५ । स्तुल्यौ च तत्र
श्रुती । एका खाष्टयमैः । २८० । समा तिथिगुणै।
३१५ । रन्याऽथ तल्लम्बकौ तुल्यौ गोधृतिभि । १८९ ।
स्तथाजिनयमै । २२४ । र्योगाच्छ्रवोलम्बयोः ॥
तत्खण्डे कथयाधरे श्रवणयोर्योगाच्च लम्बाबधे तत्
सूची निजमार्गवृद्धभुजयोर्योगाद्यथा स्यात्ततः । साबाधं
वद लग्वकञ्च भुजयोः सूच्याः प्रमाणे च के सर्व्वं
गाणितिक! प्रचक्ष नितरा क्षेत्रेऽत्र दक्षोऽसि चेत् ।
पृष्ठ २४००

<Picture>

सूच्याबाधा १५३६ १७ सूच्यावाधा ३५६४ १७
(अत्रचित्र १ प्रथमपीठे २५२ इति शुद्धम् १५८ इत्यश्रुद्धम्)
भूमानं । ३०० । मुखं । १२५ । बाहू । २६० । १९५ ।
कर्णौ । २८० । ३१५ । लम्बौ । १८९ । २२४ ।
अथ सन्ध्याद्यानयनाय करणसूत्रं वृत्तम् । लम्ब
तदाश्रितबाह्वोर्मध्यं सन्ध्याख्यमस्य लम्बस्य । सन्ध्यो
ना भूः पीठं साध्यं यस्याधरं खण्डम् ॥ सन्धिर्द्विस्थः
परलम्बश्रवणहतः परस्य पीठेन । भक्तोलम्बश्रुत्योर्यो-
गात्स्यातामधःखण्डे”
लम्बः । १८९ । तदाश्रितभुजः । १९५ । अनयोर्मध्ये
यल्लम्बलम्बाश्रितबाहुवर्ग्गेत्यादिनाऽऽगता ऽऽबाधा
सन्धिसंज्ञा । ४८ । तदूनितभूरिति द्वितीया ऽऽबाधा सा
पीठसंज्ञा । २५२ ।
एवं द्वितीयलम्बः । २२४ । तदाश्रितभुगः । २६० ।
पूर्बवत् सन्धिः । १३२ । पीठम् । १६८ । खण्डं साध्यम् ।
अथाद्यलम्बस्य । १८९ अधःखण्डं साध्यम् ।
अस्य सन्धिः । ४८ । द्विःस्थः । ४८ । परलम्बेन ।।
२२४ । श्रवणन च । २८० । पृथग्गुणितः । १०७५२ ।।
१३४४० । परस्य पीठेन । १६८ भक्तः ।
एवं द्वितीयलम्बस्य ॥ २२४ ॥ सन्धिः ॥ १३२ ॥
परलम्बेन १८९ ॥ कर्णेन च ३१५ पृथग्गुणितः
परस्य पीठेन २५२ ॥ भक्तोलब्धं लब्धाधःखण्डम् ९९ ॥
श्रवणाधःखण्डञ्च १६५ ॥
अथ कर्णयोर्योगादधोलम्बज्ञानार्थं सूत्रं वृत्तम् । लम्बौ
भूधौ निजनिजपीठविभक्तौ च वंशौ स्तः । ताभ्यां प्रा-
ग्वच्छ्रुत्योर्य्योगाल्लम्बः कुखण्डे च ॥
  • लम्बौ ॥ १८९ ॥ २२४ ॥ भू ३०० तौ जातौ
५६७२०० ॥ स्वस्वपीठाभ्यां २५२, १६८ भक्तौ
एवमत्र लब्धौ वंशौ ॥ २२५ । ४०० ॥ आग्याम् अन्योऽन्य-
मूलाग्रगसूत्रयोगादित्यादिकरणेन लब्धः कर्णयोगाद-
धोलम्बः । १४४ । भूखण्डे च । १०८ । १९२ ।
अथ सूच्याऽऽबाधालम्बभुजज्ञानार्थं सूत्रं वृत्तत्रयम् ।
लम्बहृतोनिजसन्धिः परलम्बगुणः समाह्वयोज्ञेयः ।
समपरसन्ध्योरैक्यं हारस्तेनोद्धृतौ तौ च ॥ सम
परसन्धा भूघ्नौ सूच्याऽऽबाधे पृथक् स्याताम् ।
हारहृतः परलम्बः सूचीलम्बोद्धृतौ सूच्याः । एवं क्षे-
त्रक्षोदः प्राज्ञैस्त्रैराशिकाज्ज्ञेयः ॥
अत्र किलायं लम्बः । २२४ । अस्य सन्धिः । १३२ ।
अयं परलम्बेन । १८९ । गुणितो । २२४ । ऽनेन भक्तो
जातः समाह्वयः ८९१ ८ । अस्य परसन्धेश्च ४८ । योगो-
हारः १२७५ ८ अनेन भू । ३०० । घ्नः समः २६७३०० ८
परसन्धि १४४०० १ श्च भक्तो जाते सूच्याऽऽबाधे
३५ ६४१७ । १५३६ १७ एवं द्वितीयलम्बस्य १८९
सन्धिः ४८ परलम्बेन २२४ गुणितः १०७५२ स्वलम्बेन
१८९ भक्तः) द्वितीयसमाह्वयः ५१२ ९ (उक्तरीत्या)
द्वितीयोहारः १७००९ अनेन ३०० भूघ्नःस्वीयःसमः १५३६०० ९
परसन्धिश्च ३९६०० १ भक्तोजाते सूच्याऽऽबाधे
१५३६ १७ ३५६४ १७ । परलम्बः । २२४ । भूमि । ३००
गुणोहारेण १७०० ९ भक्तोजातः सूचीलम्बः ६०४८ १७
सूचीलम्बेन भुजौ । १९५ । २६० । गुणितौ स्वस्व
लम्बाभ्यां । १८९ । २२४ । यथाक्रमं भक्तौ जातौ
स्वमार्गवृद्धौ सूचीभुजौ ६२४० १७ ७०२० १७
एवमत्र सर्वत्र भागहारराशिं प्रमाणं गुण्यगुणकौ
तु यथायोग्यं फलेच्छे प्रकल्प्य सुधिया त्रैराशिक
मूह्यम् ॥
अथ वृत्तक्षत्रे करणसूत्रं वृत्तम् । व्यासे भनन्दाग्नि।
३९२७ । हते विभक्ते स्ववाणसूर्य्यैः । १२५० ।
परिधिः स सूक्ष्मः । द्वाविंशतिघे विहृतेऽथ शैलैः । ७ ।
स्थूलोऽ थवा स्याद्व्यवहारयोग्यः ॥
पृष्ठ २४०१


उदाहरणम् । विष्कम्भमानं किल सप्त यत्र तत्र
प्रमाणं परिधेः प्रचक्ष्व । द्वाविंशातय त्परिधिप्रमाणं
तद्व्याससङ्ख्याञ्च सखे! विचिन्त्य ॥

<Picture>

न्यासः
व्यासमानं । ७ ।
लब्धं नरिधि मानं
२१
१२३९
१२५०
स्थूलोवा परिधिर्लब्धः । २२ ।
अथवा परिधिताव्यासानयनाय न्यासः

<Picture>

गुणहारविपर्य्य-
येण व्यासमानं
सूक्ष्मं ७
११
३९२७
स्थूलं वा । ७ ।
वृत्तगोलयोः फलानयने करणसूत्र वृत्तम् । वृत्त
क्षेत्रे परिधिगुणितव्यासपादः फलं यत् क्षुण्णं वेदैरुपरि
परितः कन्दुकस्येव जालम् । गोलस्यैवं तदपि च फलं
पृष्ठजं व्यासनिघ्नं षड्भिर्भक्तं भवति नियतं गोलगर्भे
वनाण्यम् ॥
उदाहरणम् । यद्व्यासस्तुरगैर्मितः किल फलं क्षेत्रे
समे तत्र किं व्यासः सप्तमितश्च यस्य सुमते! गोलस्य
तस्यापि किम् । पृष्ठे कन्दुकजालसनिभफलं गोलस्य
तस्यापि कि मध्ये ब्रूहि घनं फलञ्च विमलाञ्चेद्वेत्सि
श्रीलावतीम् ॥

<Picture>

वृत्तक्षेत्रफलदर्श
नाय न्यासः
व्यासः । ७ ।
परिधिः २१
१२३९
१२५०
क्षेत्रफलम् ३८
२४२३
५०००

<Picture>

गोलपृष्ठफलदर्शनाय न्यासः
व्यासः । ७ ।
गोलपृष्ठफलम् १५३
११७३
१२५०

<Picture>

गोलान्तर्गतवनफसदर्शनाय न्यासः
व्यासः । ७ ।
गोलस्यान्तर्गतं
घनफलम् १७९
१४८७
२५००
अथ प्रकारान्तरेण तत्फलानयने करणसूत्रं सार्द्ध-
वृत्तम् । व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्च-
सहस्रभक्ते । रुद्राहते शक्रहृतेऽथ वा स्यात् स्थूलं फलं
तद्व्यवहारयोग्यम् ॥ घनीकृतव्यासदलं निजैकविंशाश-
युग्गोलघनं फलं स्यात् ॥
व्यासः । ७ । अस्य वर्गे । ४९ । भनवाग्निनिघ्ने
पञ्चसहस्रभक्ते तदेव सूक्ष्मं फलम् ३८
२४२३
५०००
पृष्ठ २४०२


अथवा व्यासस्य वर्गे । ४९ । रुद्राहते ११ । ५३९ ।
शक्रहृते १४ लब्धं स्थूलं फलम् ३८
घनीकृतव्यासदलं ३४३२
निजैकविशांशयुक् गोलस्य घनफलं स्थूलं १७९
शरजीवानयनाय करणसूत्रं सार्द्धवृत्तम् । ज्याव्या-
सयोगान्तरघातमूलं व्यासस्तदूनोदलितः शरः स्यात् ।
व्यासाच्छरोनाच्छरसङ्गुणाच्च मूलं द्विनिघ्नं भवतीह
जीवा । जीवार्द्धवर्गे शरभक्तयुक्ते व्यासप्रमाणं प्रव-
दन्ति वृत्ते ॥
उदाहरणम् । दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता
सखे! । तत्रेषुं वद वाणाज्ज्यां ज्यवावाणाभ्याञ्च
विस्तृतिम् ॥ १८० ॥ न्यासः

<Picture>

व्यासः । १० । ज्या । ६ । योग।
१६ । अन्तरं । ४ । घातः।
६४ । मूलम् । ८ । एतः
दूनोव्यासः । २ । एतदू-
दलितः । १ । जातः
शरः । १ ।
व्यासात् । १० ।
शरोनात् । ९ । शर।
१ । सङ्गुणात् । ९ ।
मूलम् । ३ । द्विनिघ्नं जाता जीवा । ६ ।
एवं ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानयनं यथा जीवा।
६ । र्द्ध । ३ । वर्ग्गे । ९ । शर । १ । भक्ते । ९ । शर । १ ।
युक्ते जातोव्यासः । १० ।
अथ वृत्तान्तस्त्र्यस्रादिनवास्रान्तक्षेत्राणां भुजमानान-
यनाय करणसूत्रं वृत्तत्रयम् । त्रिद्व्यङ्काग्निनभश्चन्द्रै
१०३९२३ । स्त्रिवाणाष्टयुगांष्टभिः । ८४८५३ । वेदाग्नि-
वाणखाश्वैश्च । ७०५३४ । खखाभ्राभ्ररसैः । ६०००० ।
क्रसात् ॥ बाणेषुनखवाणैश्च । ५२०५५ । द्वि-
द्विनन्देषुसागरैः । ४५९२२ । कुरामदशवेदैश्च ४१०३१ ।
वृत्तव्यासे समाहते ॥ खखखाभ्रार्क्क । १२०००० ।
सम्भक्ते लभ्यन्ते क्रमशोभुजाः । वृत्तान्तस्त्र्यस्रपूर्ब्बर्वा-
णां नवास्मान्तं पृथक् पृथक् ॥
उदाहरणम् । सहस्मद्वितयव्यासं यद्वृत्तं तस्य मध्यतः ।
समत्र्यस्रादिकानां मे भुजान्वद पृथक् पृथक् ॥
अथ वृत्तान्तस्त्रिभुजे भुजमानानयनाय न्यासः

<Picture>

व्यासः ॥ २००० ॥
त्रिद्व्यङ्काग्निनभ
श्चन्द्रौ । १०३९२३ ।
र्गुणितः ।
२०७८४६०००
खखखाभ्रार्कै ।
१२०००० । र्भक्ते
लब्धं त्र्यस्रे
भुजमानम् १७३२
वृत्तान्तश्चतुर्भुजे भुजमानानयनाय २० ।

<Picture>

सान्यः
व्यासः । २००० ।
त्रिवाणाश्वयुगा-
ष्टभि । ८४८५३ ।
र्गुणितः।
१६९७०६००० ।
खखखाभ्रार्कै।
१२०००० र्भक्ते
लब्धं चतुरस्रे
भुजमानम् १४१४
१३
वृत्तान्तःपञ्चभुजे भुजमानानयनाय ६०

<Picture>

न्यासः
व्यासः । २००० ।
वेदाग्निवाण-
खाश्वै ।
७०५३४ र्गुणितः
॥ १४१०६८००० ॥
खखखाभ्रार्कै १२०००० र्भक्ते लब्धं पञ्चास्रे
भुजमानम् ११७५
१७
३०
पृष्ठ २४०३
वृत्तान्तःषद्भुजे भुजमानानयनाय न्यासः

<Picture>

व्यासः २००० ।
खखाभ्राभ्रर-
सै ६०००० र्गुणि-
तः १२०००००
खखखाभ्रार्कै
१२००००
उक्ते लब्धं षडस्रे
भजमानम् । १०००
वृत्तात्तःसप्तभुजमाननयनाय न्यासः

<Picture>

व्यासः २००००
वाणेषुनवाणै
५२०५५ र्गुणितः
॥ १०४११००००
खखाभ्रार्कै
१२०००० र्भक्ते
लब्धं सप्तास्रे
भुजमानम् ८६७
११
३०
वृत्तान्तरष्टभुजे भुजमानानयनाय न्यासः

<Picture>

व्यासः २०००
द्विद्विनन्देषुसागरै
४५९२२ र्गुणतः
॥ ९१८४४००० ॥ ख०
खखाभ्रार्कै १२०००
र्भक्ते लब्धमष्टास्रे
भुजमानम् ७६५
११
३०
वृत्तान्तर्नवभुजे भुजमानानयनाय न्यासः

<Picture>

व्यासः २०००
कुरामदशवेदै।
४१०३१ । र्गुणितः
८२०६२००० ।
खखाभ्रार्कै।
१२०००० । र्भक्ते
लब्धंनवास्रे
भुजमानम् ६८३
११
२०
एवमिष्टव्यासादेभ्योऽन्याअपि जीवाः सिध्यन्तीति तास्तु
गोले ज्योत्पत्तौ वक्ष्ये ।
अथ स्थूलजीवाज्ञानार्थं लघुक्रियया करणसूत्रं वृत्तम्
चापोननिघ्नपरिधिः प्रथमाह्वयः स्यात्पञ्चाहतः परिधि-
वर्ग चतुर्थभागः । आद्योनितेन खलु तेन भजेच्चतुर्घ्नव्या-
साहतं प्रथमाप्तमिह ज्यका स्यात् ।
उदाहरणम् । अष्टादशांशेन वृतेः समानमेकादिनिघ्नेन
च यत्र चापम् । पृथक् पृथक्तत्र वदाशु जीवां
खार्कैर्मितं व्यासदलञ्च यत्र । न्यासः

<Picture>

(अत्रचित्रे ४ जीवामानं २२४ इत्यशुद्धम् १५४ इतिशुद्धम्)
व्यासः ॥ २४० ॥ अत्र किलाङ्कलाघवाय विंशतेः सा
र्द्धार्कशतांशमिलितः सूक्ष्मपरिधिः ७५४ अस्याष्टाद-
शांशः ४२ अत्राप्यङ्कलाघवाय तयोरष्टादशांशयुतोगृ-
पृष्ठ २४०४
हीतः । अनेन पृथक् पृथगेकादिगुणितेन तुल्ये धनुषि
कल्पिते ज्याः साध्याः ।
अथवाऽत्र सुखार्थं परिधेरष्टादशांशेन परिधिं धनूंषि
चापवर्त्त्य ज्याः साध्यास्तथाऽपि ताएव भवन्ति ।
अपवर्त्तिते न्यासः परिधिः १८ चापानि च । १ । २ । ३ । ४ । ५।
६ । ७ । ८ । ९ । यथोक्तकरणेन लब्धाजीवाः । ४२ । ८२ । १२०।
१५४ । १८४ । २०८ । २२६२३६ । २४० ।
अथ चापानयनाय करणसूत्रं वृत्तम् । व्यासाब्धिवा-
तयुतमौर्व्विकया विभक्तोजीवाङ्घ्रिपञ्चगुणितः परिधेस्तु
वर्गः । लब्धोनितात्परिधिवर्गचतुर्थभागादाप्ते पदे
वृतिदलात्पतिते धनुः स्यात् ॥
उदाहरणम् । विहिताइह ये गुणास्ततोवद तेषा
मधुगा धनुर्मितिमु । यदि तेऽस्ति धनुर्गुणक्रियागणिते
गाणितिकातिनैपुणम् ॥
न्यासः । ४२ । ८२ । १२० । १५४ । १८४ । २०८ ।।
२२६ । २२६ । २४० । सएवापवर्त्तितपरिधिः । १८
जीवाद्व्रिणा (२१२) पञ्चभि । ५ । श्च परिधे । १८ ।
र्वर्गो ३२४ गुणितः । १७०१० । व्यासा । २४० ।
ब्धि । ४ । घात । ९६० । युतमौर्विकयानया । १००२ ।
विभक्तोलब्धो । १७ । ऽत्राङ्कलाघवाय चतुर्विंशतेर्द्व्यधि-
कसहस्रांशयुतोगृहीतोऽनेनोनितात्परिधि । १८ । वर्ग।
३२४ । चतुर्थभागात् । ६४ । पदे प्राप्ते । ८ । वृति।
१८ । दलात् । ९ । पतिते । १ । जातं धनुः । एवं
जात--नि धनूंषि । १ । २ । ३ । ४! ५ । ६ । ७ ।।
८ । ९ । एतानि परिधिष्वष्टादशांशेन गुणितानि स्युः”
तत्र लीलावतीप्रदर्शितप्रथमक्षेत्रे कर्णस्यभूजकोटिवर्गयोग
मूलात्मकत्वं यदुक्तं तत्रोपपत्तिः प्रदर्श्यते । समचतुर्भुजे
हि क्षेत्रे “समश्रुतौ तुल्यचतुर्भुजे च तथायते तद्भुज
कोटिघातः” इत्यनेन चतुर्हस्तमितभुजस्य कोटिर्त्वन
कल्पितस्य इतरतथाविधभुजेन गुणिते १६ हस्तमितं
क्षत्रफलम् अतस्तद्भुजस्य क्षेत्रफलस्य १६ हस्तस्य मूलं
४ हस्तात्मकोभुजः । एवं त्रिहस्तमितकोटेर्भुजरूपतया
कल्पनेन समचतुर्भुजक्षेत्रकरणे उक्तरीत्या तत्फलं
९ हस्ताः क्षेत्रफलं कोटिरूपभुजस्य तन्मूल ३ हस्तरूपता । अनयो
र्योगः २५ हस्ताः, यस्य च क्षेत्रस्य कर्ण्णरूपभुजत्वेन
कल्पने समचतुर्भुजकरणे पूर्व्वोक्तं २५ हस्तमितफलं तुल्यं
भवति तादृशसमचतुर्भुजे क्षेत्रे २५ अङ्कस्य मलरूपा
कर्णमितिः । तथाहि पञ्चहस्तमितसमचतुर्भुजक्षेत्रे
भुजकोटिरूपचतुर्भुजत्वेन कल्पनेन समचतुर्भुजेत्र-
फलयोः १६, ९, हस्तात्मकयोः समावेशः इत्यतः
भुजकोटिवर्गयोगमूलरूपता कर्ण्णस्य युक्ता । एवमन्य-
त्रापि उपपाद्यमिति बहवः ।
अन्यथाप्यत्रोपपत्तिः प्रदर्श्यते भुजं कोटिं कर्ण्णञ्च व्या-
सस्थानायं कृत्वा वृत्तार्द्धक्षेत्रकरणे तत्र भुजव्यासक क्षत्रस्य
“व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्चसहस्रभक्ते ।
रुद्राहते शक्रहृतेऽथ वा स्यात् स्थूलं फलमिति” रीत्या
भुज ४ रूपव्यासस्य वर्गे १६ रुद्र ११ गुणिते १७६ । शक्र
१४ हृते १७६१४ स्थूलंफलं तदर्द्धं १७६२८, वृत्तक्षेत्रा-
र्द्धस्य स्थूलं फलम् । एवं कोटिरूप ३ व्यासवर्गः ९ । ११ गुणितः
९९ । शक्र १४ भक्तः, ९९१४ तदर्द्धं ९९२८ तस्य क्षेत्रफलम्
अनयोर्योगः २७५२८ इदं कर्णव्यासकवृत्तक्षेत्रार्द्धफलतुल्यम्
तादृशफलेन कर्ण्णमानानयनञ्च गुणहारादिव्यत्ययेन कार्य्यं
यथा २७५२८ शक्र १४ गुणितः २७५ । २ । रुद्र ११ भक्तः
२५२ एतच्च तत्क्षेत्रफलंतच्च द्विगुणितं २५ तस्य मूलं
५ कर्ण्णः । एवं सूक्ष्मफलं तु मुजकोटिकर्ण्णव्यासके वृत्त-
क्षेत्रे व्यासस्य वर्गे भनवाग्नि ३९२७ गुणिते ५००० भक्ते
भवति तत्रोक्तरीत्या भुजकोटिव्यासकक्षेत्रे फलयोग
तुल्यता कर्ण्णव्यासकवृत्तक्षत्रफलस्येति कल्प्यम् । अयमेव
पक्षः भास्कराचार्य्यस्याभिमतः कर्णस्य भुजकोटिवर्गयो-
गमूलात्मकत्वेन तेनाभिधानात् यथानिर्द्दिष्टवृत्तक्षेत्र
फलस्य व्यासवर्गघटितत्वेन तेनामिधानाच्च । अतस्तथा
प्रत्यभिज्ञायते इत्यस्माभिः नवोनः उपपत्तिपथ उद्भावितः ।
वृत्तान्तर्गतसमत्रिकोणानां ये भुजा उक्तास्तेषां तथा
मानत्वे उपपत्तिर्दर्श्यते । तत्र क्रमज्याशब्दे २३०३ पृ०
सिद्धान्तोक्ताः २४ अर्द्धजीवा दर्शिताः । तत्र चक्रकला
२१६०० तुल्यः परिधिः । ताश्च कलाः “व्यासे भनन्दाग्नि-
३९२७ हते विभक्ते खवाणसूर्य्यैः १२५० परिधिः स
सूक्ष्मः” इत्युक्तरीत्या वैपरीत्येन खवाणसूर्य्य १२५०
हताः २७०००००० । भनवाग्नि ३९२७ भक्ताः । ६८७६
व्यासस्तदर्द्धं ३४३८ इयमन्तिमज्या त्रिज्येति चोच्यते ।
तत्रानुपातार्थं चक्रकलातुल्य २१६०० परिधिवृत्तस्यान्तः
स्थत्रिकोणादीनां क्रमेण भुजाः साध्यन्ते । तत्र चक्र
कलानां २१६०० क्रमेण त्रिचतुरादिभिर्भक्तानामर्द्धानि
क्रमेण चापार्द्धानि स्युः । तानि च ३६०० । २७०० । २१६०।
१८०० । १५४३ । १३५० । १२०० । क्रमेण एतत्कलामि-
तानि । “तत्त्वाश्विभक्ताअसवः कला वा यल्लब्धसंख्या
पृष्ठ २४०५
गतशिञ्जिनी, सा । गतैष्यजीवातरशेषघातात् तत्त्वाश्वि-
लब्ध्या सहितेपिसता स्यात्” इत्युक्तारीत्या ताः कलाः
क्रमेण तत्त्वाश्वि २२५ भक्ताः क्रमेण त्र्यस्रे १६
चतुरस्रे । १२ पञ्चास्रे ९ । १३५ । शेषः षड़स्रे ८ । सप्तास्रे ६ । १९३ ।
शेषः अष्टास्रे ६ । नवास्रे ५ । ७५ शेषः तथाच त्रिकोणे
क्रमज्यासु पठिता षोड़शी २९७७ । अर्द्धजीवा ।
चतुरस्रे तत्रोक्ता द्वादशी २४३१ पञ्चकोणे तत्रोक्ता
नवमी १९१० गता एष्या दशमी २०९३ । तयोरन्तरं
१८३ । शेषकला १३५ तयोर्घातः २४७०५ तत्त्वाश्वि
२२५ भक्तो लब्धिः ११० अनया सहिता गतजीवा । २०२० ।
इयं अर्द्धजीवा । षड़स्रे तत्रोक्ता अष्टमी १७ । ९ ।
सप्तास्रे षष्ठी जीवा १३१५ गता । एष्या १५ २०
तयोरन्तरं २०५ । शेषकलाः १९३ अनयोर्घातः ३९५६५ ।
तत्त्वाश्विभक्ते १७५ लब्धिः अनया युक्ता गतजीवा १४९०
इयं सप्तास्रे अर्द्धजीवा । अष्टास्रे षष्ठी १३१५ ।
नवास्रे पञ्चमी ११०५ गता एष्या १३१५ तयोन्तरं २१०
शेषकला ७५ । तयोर्घातः २२५० तत्त्वाश्विभक्तः लब्धिः
१० अनया सहिता गतजीशा ११०५ । १११५ नवास्रे
अर्द्धजीवा । एताद्विगुणाः क्रमेण चक्रकला २१६०० तुल्य
परिधिकवृत्ते समत्र्यस्रादीनां भुजाः यथा ५९५४ । ४८६२।
४०४० । ३४३८ । २९८० । २६३० । २२३० । क्रमेण भुजाः । यदि
चक्रकलापरिधिव्यासार्द्धे ३४३८ । क्रमेण एते भुजाः
तदा फलेच्छयोः समानजातीयत्वकरणेन षष्टिगुणित-
प्रकृतव्यासार्द्धे क इत्यनुपाते फल द्विगुणितं किञ्चिन्यूना-
धिका षष्टिगुणिते १२०००० व्यासे त्रिद्व्यङ्गाग्निनभश्चन्द्रादयः
क्रमेणाङ्काःलब्धाः । यदि खखखार्क १२०००० व्यासवृत्ते एते
१०३९२३ । ९४८५३ । ७०५ ३४५ । ६०००० । ५२०५५ । ४५९२२ ।
४१०३१ । क्रमेण भुजाः तदा इष्टव्यास २००० वृत्ते के
इत्यनुपातेन उक्तानि फलानि भुजमानानि
स्युरिति
अत्र वृत्तान्तर्गंतं त्रिकोणञ्च समत्रिकोणं तत्र सर्वेषां
भुजानां तुल्यत्वात् । तथाहि परिधितृतीयांश
रूपाणां सर्व्वचापांशानां तुल्यतया तुल्यचापांशेषु
जीवास्थानीयभुजानां तुल्यत्वौचित्वात् ।
अन्यान्यक्षेत्रेषूपपत्तिर्लीलावतीटीकायां दर्शिता विस्तर-
भयान्नोल्लिखिता ।
९ स्थानमात्रे “धर्म्मक्षेत्रे कुरुक्षेत्रे” गीता । तत्र केदारे
“यादृशं तूप्यते वीजं क्षेत्रे कालोपपादिते” येऽक्षेत्रिणो
वीजवन्तः परक्षेत्रे प्रवापिणः” मनुः
कलत्रे “अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः” याज्ञ०
देहे “इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते” गीता ।
क्षेत्रज्ञः “क्षेत्रक्षेत्रज्ञयोरेवम्” । “गीता क्षेत्रेष्वेवमजोऽय-
मात्मा” श्रुतिः तीर्थस्थाने “प्रविशन्तस्तु तत्क्षेत्रं सर्वे स्यु
र्विष्णुमूर्त्तयः” । उत्कलख० । क्षेत्र विद्यतेऽस्य इनि क्षेत्रिन्,
ठन् क्षेत्रिक क्षेत्रस्वामिनि त्रि० “फलं त्वनभिसन्धाय
क्षेत्रिणां वीजिनां तथा” कुर्व्वन्ति क्षेत्रिणोयद्वद् प्रत्यक्ष
क्षेत्रिकस्यार्थः” “क्षेत्रिकस्यैव तद्वीजम्” मनुः । एतस्मि-
न्नुपपदे कर्म्मभूते कर्त्तरि कृञः टः । क्षेत्रकरक्षेत्रकारिणि
त्रि० स्त्रियां ङीप् ।

क्षेत्रकर्कटी स्त्री क्षेत्रजाता कर्कटी । वालुक्यां कर्कटीभेदे राजनि०

क्षेत्रचिर्भिटा स्त्री क्षेत्रजाता चिर्भिटा । पाण्डुफलायां

चिर्भिटाभेदे राजनि०

क्षेत्रज पु० क्षेत्रे जायते जन--ड ७ त० । “यस्तल्पजः प्रमीतस्य

क्लीवस्य व्याधितस्य च । स्वधर्म्मेण नियुक्तायां स पुत्रः
त्रेजः स्मृतः” इति मनूक्ते १ पुत्रभेदे नियोगधर्म्मश्च
मनुनोक्त्वा निषिध्य च वाग्दानोत्तरमेव पतिमरणे
विहितः यथा
“देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्ग्नियुक्तया ।
प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिक्षये । विधवायां
नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्
पुत्त्रं न द्वितीयं कथञ्चन । द्वितीयमेके प्रजनं मन्यन्ते
स्त्रीषु तद्विदः । अनिर्व्वृत्त नियोगार्थं पश्यन्तो
धर्म्मतस्तयोः । विधवायां नियोगार्थे निर्वृत्ते तु
यथाविधि । गुरुवच्च स्नुषावच्च वर्त्तेयातां परस्परम् ।
नियुक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतः । तावुभौ
पतितौ स्यातां स्नुषागगुरुतल्पगौ । नान्यस्मिन् विधवा
नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि
नियुञ्जाना धर्म्मं हन्युः सनातनम् । नोद्वाहिकेषु
मन्त्रेषु नियोगः कीर्त्त्यते क्वचित् । न विवाहविधावृक्तं
विधवावेदनं पुनः । अयं द्विजैर्हि विद्वद्भिः पशुधर्म्मो
विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशा-
सति । स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां सङ्करं चक्रे कामोपहतचेतनः । ततः प्रभृति
पृष्ठ २४०६
यो मोहात् प्रर्मातपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं
तं विगर्हन्ति साधवः । यस्या म्रियेत कन्याया वाचा
सत्ये कृते पतिः । तामनेन विधानेन निजो विन्दत
देवरः । यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताप्रसवात् सकृत् सकृदृतावृतौ” ।
वृहस्पतिना “उक्तो नियोगो मनुना निषिद्धः स्वयमेव
हि” इत्यादिना तन्निषेधौक्तः । मिताक्षरायामप्ययं पक्षो
द्व्यामुष्यायणप्रसङ्गे समर्थितः यथा
“अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्य-
सौ रिक्थी पिण्डदाता च धर्म्मतः” या० । “अपुत्रो
गुर्वनुज्ञातः” इत्याद्युक्तविधिना अपुत्रेण देवरादिना
परक्षेत्रे परभार्य्यायां गुरु नियोगेनोत्पादितःपुत्रौभयोर्वीज
क्षोत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च
धर्म्मत इत्यस्यायमर्थः । यदाऽसौ नियुक्तोदेवरादिःस्वय-
मप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तोयं जनयति
स द्विपितृकोद्व्यामुष्यायणोद्वयोरपि ऋक्थहारी पिण्डदा-
ता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणःपुत्रार्थं
यतते तदा तदुत्पन्नः क्षेत्रिणएव पुत्रोभवतिन वीजिनः-
सच नियमेन वीजिनोरिक्थहारी पिण्डदोऽपीति ।
यथोक्तंमनुना “क्रियाभ्युपगमात् क्षेत्रं वीजार्थं यत् प्रदी-
यते । तस्येह भागिनौ दृष्टौ वीजी क्षेत्रिकएवचेति” ।
क्रियाभ्युपगमादिति अत्रोत्पन्नमपत्यमावयोरुभयोरपि-
भवत्विति संविदङ्गीकरणाद्यत् क्षेत्रं क्षेत्रस्वामिना वीजिने
वीजवपनार्थं दीयते तस्मिन् क्षेत्रौत्पन्नस्यापत्यस्य
वीजक्षेत्रिणौ भागिनौ दृष्टौ महर्षिभिः । तथा । “फलं-
त्वनभिसन्धाय क्षेत्रिणां वीजिनां तथा । प्रत्यक्षं
क्षेत्रिणामर्थो वीजाद्योनिर्व लीयसीति” मनुः । “फलं
त्वनभिसन्धायेति अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वि-
त्येवमनभिसन्धाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं
क्षेत्रिणएव । यतोवीजाद्योनिर्वलीयसी गवाश्वादिषु-
तथादर्शनात् । अत्रापि नियोगोवाग्दत्ताविषयएव
इतरस्य नियोगस्य मनुना गिषिंद्धत्वात् “देवराद्धा सपिण्डाद्धा
स्त्रिया सम्यग्नियुक्तया । प्रजेस्पिताधिगन्तव्या सन्तानस्य
परिक्षये । विधवायां नियुक्तस्तु घृताक्तोवाग्यतोनिशि ।
एकमुत्पादयेत्पुत्रं न द्वितीय कथञ्चन” इत्येवंनियोगमुपंन्यस्य
मनुः स्वयमेव निषेधति । “नान्यस्मिन् विधवा नारी
नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना
धर्म्मंहन्युःसनातनम् । नोद्वाहिकेषु मन्त्रेषु नियोगः-
कीर्त्त्यते क्वचित् । न विवाहविधावुक्तंविधवावेदनं-
पुनः । एवंद्विजैर्हि विद्वद्भिःपशुधर्मोविगर्हितः ।
मनुष्याणामपि प्रोक्तोवेने राज्यं प्रशासति । स
महीमखिलां भुञ्जन् राजर्षिप्रवरःपुरा । वर्णानां सङ्करञ्चक्रे
कामोपहतचेतनः । ततःप्रभृति योमोहात् प्रमीतपतिकां
स्त्रियम् । नियोजयत्यपत्यार्थे गर्हन्ते तं हि साधवः”
इति । नच विहितप्रतिषिद्भत्वाद्विकल्प इति मन्तव्यम्
नियोक्तॄणां निन्दाश्रवणात् । स्त्रीधर्म्मेषु व्यभिचारस्य-
बहुदोषश्रवणात् संयमस्य प्रशस्तत्वाच्च । यथाह
मनुरेव “कामं तु क्षपयेद्देहं पुष्पमुलफलैःश्रुभैः । नतु
नामापि गृह्णीयात्पत्यौ प्रेते परस्यत्विति” जीवनार्थं पुरुषा
न्तराश्रयणं प्रतिषिध्य “आसीतामरणात् क्षान्ता नियता-
व्रह्मचारिणी । योधर्म्मएकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ।
अनेकानि सहस्राणि कौमारव्रह्मचारिणाम् । दिवं
गतानि विप्राणामकृत्वा कुलसन्ततिम् । मृते भर्तरि साध्वो स्त्री
ब्रह्मचर्य्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते
व्रह्मचारिणः । अपत्यलोभाद्या तु स्त्री भर्तारमति
वर्तते । सेह निन्दामवाप्नोति परलोकाच्च हीयत” इति
पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्विहित-
प्रतिषिद्धत्वाद्विकल्पैति न युक्तम् । एवं विवाह-
संस्कृतानियोंगे प्रतिषिद्धे कस्तर्हि धर्म्मोनियोग इत्यतआह
“यस्याग्नियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन
विधांनेन निजोविन्देत देवरः । यथाविध्यधिगम्यैनां
शुक्लवस्त्रां शुचिव्रताम् । मिथोभजेताप्रसवात्सकृत्सकृट्टता-
वृताविति” । यस्मै वाग्त्ता कन्या स प्रतिग्रहमन्तरेणैव
तस्याः पतिरित्यस्मादेष गम्यते । तस्मिन् प्रेते देवरस्तस्य-
ज्येष्ठःकनिष्ठोवा निजःसोदरोविन्देत परिणयेत् ।
यथाविधि यथाशास्त्रमधिगम्य परिणीयानेन विधानेन घृता-
भ्यङ्गवाङ्गियमादिना । शुक्लवस्त्रां शुचिव्रतां मनोवांक्वाय-
संयमां मिथोरहस्यागर्भग्रहोणात्प्रभृत्येकैकं वारं गच्छेत् ।
अयञ्च विवाहोवाचनिकोघृताभ्यङ्गादिनियमवन्नियुक्ताभिग-
मनाङ्गमिति न देवरस्य भार्य्यात्वमापादयत्यतस्तदुत्पन्नम-
पत्यं क्षेत्रस्वामिनएव मवति न देवरस्य संविदा तूमयोरपि”
अनेन सन्दर्भेण प्रमीतपतिकायां नियोगनिषेधात्
सधवायामनिषेधः तेन पाण्डुराजेन कुन्त्यां माद्र्यां च
नियोगद्वारा पुत्राणामुत्पादनं न विरुद्धम् ।
वस्तुतः “अनेकधा कृताः पुत्रा ऋषिभिर्यैः पुरातनैः न
शक्यन्तेऽधुना कर्त्तुं शक्तिहीनैरिदन्तनैः” इति वृहस्प-
पृष्ठ २४०७
तिना शक्तिहोनानामेवेदानीन्तनानां तथाचरणस्य
निषेधात् शक्तिशालिभिऋषिभिस्तस्याचरणं न निषि-
द्धं तेषां तपःप्रभावात् तत्पापक्षयसम्भवात् । अतएव
मृतपतिकयोरपि अम्बिकाम्बालिकयोर्विचित्रवीर्य्यभा-
र्य्ययोर्नियोगात् व्यासेन धृतराष्ट्रपाण्डुरूपक्षत्रजयोरुत्-
पादनं न विरुद्धम् । अतएवादित्यपुराणे कलिवर्ज्य-
प्रकरणे “देवरेण सुतोत्पत्तिर्दत्तकन्या प्रदीयते” इत्युक्तं
कालिकापुराणे च तत्प्रकरणे “दत्तौरसेतरेषां च पुत्र-
त्वेन परिग्रहः” इत्युक्तम् । धृतराष्ट्रादीनां तु कलियुगोत्
पन्नत्वेऽपि वासुदेवस्य भूमावस्थितिपर्य्यन्तं कलिधर्म्माणां
प्रादुर्भावाभावान्न विरोधः । अतः कलौ तस्य सर्व्वथा
निषेधात् तद्विषये विशेषी नाभिहिता । २ क्षेत्रजात-
मात्रे त्रि० ३ श्वेतकण्टकार्य्यां ४ शशाण्डुल्यां ६ गोमूत्रि-
कायां ६ शिल्पिकायां ७ चविकायाञ्च स्त्री राजनि०

क्षेत्रज्ञ पु० क्षवमात्मत्वेन सर्व्वज्ञत्वेन वा जानाति ज्ञा--क ।

१ आत्मत्मत्वेन देहाद्यभिमानिनि जीवे २ सर्व्वज्ञे परमेश्वरे ।
“इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते । एतद्योवेत्ति
तं प्राहुः क्षेत्रज्ञ इति तद्विदः । क्षेत्रज्ञञ्चापि मां विद्धि
सर्वक्षेत्रेषु भारत! । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं
मम! तत् क्षेत्रं यच्च यादृक् चं यद्विकारि यतश्च यत् ।
स च योयत्प्रभावश्च तत् समासेन मे शृणु । ऋषिभि-
र्बहुवा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव
हेतुमद्भिर्विनिश्चितैः । महाभूतान्यहङ्कारोबुद्धिरव्यक्त-
मेव च । इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः । इच्छा
द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत् क्षेत्रं
समासेन सविकारमुदाहृतम्” गीता । “अव्ययः पुरुषः
साक्षी क्षेत्रज्ञोऽक्षर एव च” विष्णु स० ३ साक्षिणि च ।
“प्रकृत्यास्तु विकाराये क्षेत्रज्ञस्तैरधिष्ठितः” नचैनं ते
प्रजानान्ति स तु जानाति तानि वै” भा० शा० २४३ अ० ।
“यस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते” इति मनूक्ते
४ अन्तर्यामिणि “हृदि स्थितः कर्म्मसाक्षी क्षेत्रज्ञो यस्य
तुष्यति” भा० आ० ३०१६ श्लो० । ५ वटुकभैरवे “क्षेत्रज्ञः
क्षत्रियोविराट्” वटुकस्तवः । ६ विदग्धे त्रि० मेदि० ७ कृषके
त्रि० शब्दरत्ना० ८ क्षेत्रज्ञातरि त्रि० “तद्यथा हिरण्य-
निधिं निहितमक्षेत्रज्ञ उपर्य्युपरि सञ्चरन्तो न विन्देयुः”
छा० उ० । ततः व्राह्मणा० भावे ष्यञ् क्षेत्रज्ञ्य युवा०
अण् । क्षैत्रज्ञ तद्भावे न० ।

क्षेत्रदूती स्त्री क्षेत्रे दूतीव । श्वेतकण्टकारिकायाम् राजनि० ।

क्षेत्रपति पु० ६ त० । त्रेस्वामिनि “जीवं त्रेपतिं प्राहुः

केचिदग्निमथापरे । स्वतन्त्र एव स कश्चित् क्षेत्रस्य पतिरि-
ष्यते” तन्त्र० क्षेत्रपतेरपत्यादि पत्युत्तरपदत्वेऽपि अश्व-
पत्यादौ पाठातण् । क्षैत्रपत तदपत्यादिषु त्रि० ।

क्षेत्रपर्पटी स्त्री क्षत्रे पर्यटीव । (तेपापड़ा) इति ख्याते

क्षुपभेदे वैद्यकम् ।

क्षेत्रपाल त्रि० क्षेत्रं पालयति पालि--अण् । १ क्षेत्ररक्षके

त्रि० । २ भैरवभेदे पु० । तद्भेदाः प्रयोगसारे उक्ता यथा
“भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्त्तिताः । मातृकावी-
जभेदेन सम्भिन्ना नामभेदतः । अजरश्चापकुम्भश्च इन्द्र-
स्तुतस्ततःपरः । ईड़ाचारश्चोक्थसंज्ञ ऊष्माद ऋषिसूदनः ।
ॠमुक्ती ऌप्तकेशश्च ॡप्तकश्चैकदंष्ट्रकः । ऐरावतश्चौघबन्धु-
रौषधेशस्तथैव च । अञ्जनश्चास्त्रवारश्च कबलः खरुखा-
नलः । गोमुख्यश्चैव घण्टादोङमनाश्चण्डवारणः ।
छटाटोपो जटालाख्यो झङ्कारश्च ञदुश्चरः । टङ्कपाणिस्तथा-
चान्यष्ठानबन्धुश्च डामरः । ढक्कारवी णवर्णश्च तडिद्देह
स्थिरस्तथा । दन्तुरोधनदश्चान्योनतिक्तान्तः प्रचण्डकः ।
फट्कारोबीरसंघश्च भृङ्गाख्यो मेघभासुरः । युगान्तो
रौद्ररूपश्च लम्बोष्ठो वसुमांस्तथा । शूकनन्दः षडालाख्यः
सुनामा हम्बुकस्तथा । एते भेदाः समाख्याता मातृका-
क्षरयोनिकाः” । क्षेत्रपालकथनप्रयोजनं यथा “नाम
पद्यस्य बर्णानां यो वर्णो मातृकान्तरे । दृश्यते प्रथमं तत्र
तत्रायं क्षेत्रपालकः । तत्र तत्र विशिष्टात्मा भेदैरेतैर्व्यव-
स्थितः । ततो विशिष्टो यष्टव्यः क्षेत्रपालस्तु सर्वतः । क्षत्र-
पालमसंपूज्य यः कर्म कुरुते क्वचित् । तस्य कर्मफलं हन्ति
क्षेत्रपाली न संशयः” । तन्त्रोक्ते २ पश्चिमद्वारपाले भैरव-
भेदे च “गणेशं वटुकं चैव क्षेत्रपालञ्च योगिनीः । पूर्बादि-
क्रमयोगेन द्वारपालान् प्रपूजयेत्” तन्त्र० ३ क्षेत्रपालके त्रि०

क्षेत्रफल न० क्षेत्रस्य फलम् । १ मूम्यादिक्षेत्रजाते शस्यादौ ।

लीलावत्याद्युक्ते त्रिकोणादिक्षेत्रभवे २ हस्तादिरूपे (कालि)
फले क्षत्रशब्दे विवृतिः ।

क्षेत्रमालिका स्त्री क्षेत्रं मालयति मल--णिच्--ण्वुल् । वचायां वैद्यकम् ।

क्षेत्ररुहा स्त्री क्षेत्रे रोहति रुह--क । १ वालुक्यां कर्कटीभेदे

राजनि० । २ क्षेत्रजातमात्रे त्रि० ।

क्षेत्रव्यवहार पु० लीलावतीप्रदर्शिते त्रिकोणादिक्षेत्रफलादितत्त्वज्ञापके व्यवहारभेदे ।

क्षेत्रसम्भव त्रि० क्षेत्रे सम्भवति सम् + भू--अच् । १ क्षेत्रजाते

“क्षेत्रसम्भवफलं घनं भवेत्” लीला० । २ भूमिजातमात्रे
त्रि० । ३ भिण्डाक्षुपे पु० राजनि० ।
पृष्ठ २४०८

क्षेत्रसम्भूत पु० क्षेत्रे संभूतः । १ कुन्दरे पु० शब्दचि० २ भूमि-

भवे त्रि० ।

क्षेत्रसाधस् त्रि० क्षेत्रं साधयति साधि--असुन् । क्षेत्रसाधके

“सपर्य्यन्त पुरुप्रियं मित्रं न क्षत्रसाधसा” ऋ० ८, ३१, १४ ।

क्षेत्राजीव त्रि० क्षेत्रं तत्फलं शस्यं आजीवति आ--जीव-

अण् । कर्षके अमरः ।

क्षेत्राधिदेवता स्त्री ६ त० । सिद्धस्थानतीर्थाधिष्ठातृदेवता-

भेदे । तन्नामोच्चारणञ्च श्रोशब्दोच्चारणपूर्वं कार्य्यं यथाह
सं० त० प्रयोगसारः “देवं गुरुं गुरुस्थानं क्षेत्र क्षत्रा-
धिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत्” ।

क्षेत्राधिप स्त्री ६ त० । १ मेषादिद्वादशराशिस्वामिषु कुजा-

दिषु क्षेत्रशब्दे विवृतिः । २ क्षेत्रस्वामिनि त्रि० ।

क्षेत्रामलकी स्त्री त्रे जाता आमलकी । भूम्यालक्याम् शब्दमा० ।

क्षेत्रिक त्रि० क्षेत्रमस्त्यस्य ठन् । क्षत्रस्वामिनि । “ओघवाता-

हृतं वीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद्वीजम्”
मनुः । इनि क्षेत्रिन् अप्यत्र क्षेत्रशब्दे उदा० । “याव-
च्छस्यं विनश्येत्तु क्षेत्री तस्य फलं लभेत्” याज्ञ० ।

क्षेत्रिय त्रि० परक्षेत्रे देहान्तरे चिकित्स्यः परक्षत्रस्य क्षेत्रि-

यजादेशः । देहान्तरे चिकित्स्ये अप्रतीकार्य्ये १ रोगे “दण्डो-
ऽयं क्षेत्रियो येन मय्यपातीति साऽब्रवीत्” भट्टिः । क्षत्र-
मस्त्यस्य वा० घ । २ क्षेत्रस्वामिनि त्रि० । “क्षेत्रियस्यात्यये
दण्डो भागाद्दशगुणोभवेत् । ततोऽर्द्धदण्डोभृत्यानामज्ञानात्
क्षत्रियस्य तु” मनुः क्षत्रियस्येत्यत्र क्षेत्रिकस्येति पाठान्त-
रम् । क्षेत्रे भवः बा० घ । ४ क्षेत्रजाते तृणादौ त्रि० क्षेत्रे
स्वपरक्षत्रमात्रे प्रसितः बा० वः । ५ परदाररते पु० मेदि० ।

क्षेत्रेक्षु पु० क्षेत्रे इक्षुरिव । यावनाले (जुह्नारी) ख्याते राजनि०

क्षेप पु० क्षिप--घञ् । १ निन्दायां, २ विक्षेपे, ३ प्रेरणे, ४ लेपने

५ हेलायां ६ लङ्घने हेम० । करणे घञ् । ६ गर्वे मेदि०
७ विलम्बे हेम० । कर्मणि घञ् । ८ गुच्छे त्रिका० । तत्र
निन्दायां, “सत्यासत्यानृतंस्तोत्रे न्यूनाङ्गेन्द्रियरो
गिणाम् । क्षेपं करोति चेद्दण्ड्यः” याज्ञ० । “क्षेप-
संप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः” भा० शा० ४९ अ० ।
“क्षेपयुक्तैर्वचोभिः” भा० आ० ५५५ श्लो० । विक्षेपे
दृष्टिक्षेपः अपटीक्षेपः । विलम्बे “कृतक्षणक्षेप-
मुदैक्षताच्यतम्” माघः । कर्मणि घञ् । क्षिप्यमाणे
कट्टकशब्दे पृ० २०७१ उदा० फलान्यधोधस्तदधो निवेश्यः”
लीला० क्षेप + स्वार्थे कातत्रार्थे “भाज्यीहारः क्षेपक-
श्चापवर्त्त्य” इत्यादि तत्र शब्दे लीलावतीवाक्यमुक्तम् ।

क्षेपक त्रि० क्षिप--ण्वुल् । १ विक्षेपकर्त्तरि ग्रन्थकृदकृतांशस्य

तद्ग्रन्थमध्ये सन्निवेशके च । क्षेप + स्वार्थे क । क्षिप्यमाणे
यथा लीलावत्यां “पादोन्पद्याकतुल्यटङ्कैरित्यादि”
श्लोकद्वयम् ।

क्षेपण न० क्षिप--ल्युट् । १ अपवादे २ लङ्घने ३ मारणे ४ विक्षपे

५ यापने च । “आयुषः क्षेपणार्थञ्च तु दातव्यं स्त्रीधनं
विना” हरीतः “उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं
स्मृतम्” मनुः । करण ल्युट् । ६ क्षेपसाधने मल्लव्यापार-
भेदे (फेलान) “क्षेपणैर्मुष्टिभिश्चैवावरोहोद्धूतनिःस्वनैः”
भा० वि० १३ अ० “क्षेपणं कथ्यते यत्तु स्थानात् प्रच्यावनं
हठात्” तद्याख्यायां नीलकण्ठधृतं मल्लशास्तम् ।

क्षेपणि(णी) स्त्री क्षिप बा० अनि वा ङीप् । १ नौकादण्डे

(दांड़) अमरः । २ जालभेदे (क्षेपलाजाल) मेदिनिः ।

क्षेपणीय पु० क्षिप--अनीयर् । “क्षेपणीयोभिन्दिपालः खङ्गो-

दीर्घमहाफलः” यादवोक्तलक्षणे १ भिन्दिपालेऽस्त्रे,
२ क्षेप्यमात्रे पाषाणादिके त्रि० । “नाराचक्षेपणीयाश्म-
निष्पेषपतितानलम्” रघुः ।

क्षेपिमन् पु० क्षिप्रस्य भावः पृथ्वा० इमनिच्” क्षेपादेशः । शीघ्रतायाम् ।

क्षेपिष्ठ त्रि० अतिशयेन क्षिप्रः इष्टन् क्षेपादेशः । अतिशय-

शीघ्रे “वायुर्वै क्षेपिष्ठा देवता” श्रुतिः । ईयसुन् ।
क्षेपीयस् तत्रार्थे त्रि० स्त्रियां ङीप् ।

क्षेम पु० क्षि--मन् । १ चोरनामगन्धद्रव्ये । २ लब्धवस्तुनोरक्षणे

पु० न० अर्द्धर्चादि० मेदिनिः । “उपेयादीश्वरञ्चैव
योगक्षेमार्थसिद्धये” याज्ञ० लब्धस्य रक्षणं क्षेमः” आ० त०
रघु० । “यन्ता च मे धर्त्ता च ये क्षेमश्चमे” यजु० १८, ७०,
क्षेमः विद्यमान धनादे रक्षणशक्तिः” वेददी० । ३ विद्य-
मानसत्ताकस्य वस्तुनः स्वाधिकरणे विशिष्ट बुद्धि नियामक
सम्बन्ध विशेष व्यवस्थापने क्षेमिकशब्दे विवृतिः । ४ कुशले
न० ५ तद्वति त्रि० अम० । “गृहाण राज्यं विपुलं क्षेमं
निभृतकण्टकम्” भा० व० २५९७६ श्लो० “कृतःक्षेमः
पुनः पन्थाः” भा० व० ४४४ श्लो० “श्वश्रूश्वशुरभर्त्तृणां मम
क्षेमास्तु शर्वरी” २९८ अ० । ६ मुक्तौ न० हेम० “भविता सहदेवस्य”
इत्युपक्रमे “अथ मागधराजानो भाविनोये वदामिते”
“ततः श्रुतञ्जयाद्विप्र! शुचिस्तस्य भविष्यति । क्षेमोऽथ
सुव्रतस्तस्माद्धर्म्मस्तत्र समन्ततः” भा० श० ९, २२, ३० अ० उक्ते
सहदेववंश्ये ७ नृपभेदे पु० । “जन्मसम्पद्विपत्क्षेमं
प्रत्यरिः साधकोबधः । मित्रं परममित्रं च” ज्यो० उक्ते
स्वजन्मतारावघिके चतुर्थप्रयोदशद्वाविंशे ८ नक्षत्रे च न० ।
पृष्ठ २४०९

क्षेमक पु० क्षेम--स्वार्थे क । १ चोरनामगन्धद्रव्ये जटा०

२ राक्षसभेदे, “एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप!
पुण्यां निवेशयामास क्षेमको नाम राक्षसः” हरि० २९ अ०
३ पाण्डुवंश्ये नृपभेदे । “दण्डपाणिर्निमिस्तस्य क्षेमको
भविता ततः” इत्युपक्रमे “क्षेमकं प्राप्य राजानं संस्थं
प्राप्स्यति तै कलौ” भा० ९, २२, २९ श्लो० ।

क्षेमकर त्रि० क्षेमं करोति कृ--अच् ६ त० । १ मङ्गलकारके

“पन्यानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः!”
भा० आश्व० ३५ अ० ।

क्षेमकार त्रि० क्षेमं करोति कृ--अण् उप० स० । मङ्गलकारके

“पितुः प्रियङ्करी भर्त्ता क्षेमकारस्तपस्विनाम्” भट्टिः

क्षेमकृत् त्रि० क्षेमं करोति कृ--क्विप् ६ त० । १ कृतमङ्गले

२ उपात्तस्य रक्षके परमेश्वरे पु० । “अनियन्ता निवृत्तात्मा
संक्षेप्ता क्षेमकृच्छिवः” विष्णुसं० ।

क्षेमङ्कर त्रि० क्षेमं करोति “क्षेमप्रियमद्रेऽण् च” पा०

चकारात् खच् मुम् च । क्षेमकारके ।

क्षेमङ्करी स्त्री “क्षेमान् देवेषु सा देवी कृत्वा दैत्यपतेः क्षयम् ।

क्षेमङ्करी शिवेनोक्ता पूज्या लोके भविष्यसि” देवीपु० ४०
अ० उक्ते १ देवीभेदे, २ शङ्खचिल्ल्याञ्च । “कुङ्कमारुणस-
र्वाङ्गि! कुन्देन्दुधवलानने । मत्स्यमांसप्रिये! देवि!
क्षेमङ्करि! नमोऽस्तु ते” इति तत्प्रणाममन्त्रः

क्षेमदर्शिन् त्रि० क्षेमं पश्यति दृश--णिनि । मङ्गलदर्शिनि

स्त्रियां ङीप् । कोसलाधिपराजभेदे । “कोसलानामाधिपत्यं
संप्राप्तं क्षेमदर्शिनम्” “स काकं पञ्चरे बद्ध्वा विषयं क्षे-
मदर्शिनः” भा० शा० ८२ अ० ।

क्षेमधन्वन् पु० रामवंश्ये राजभेदे । “रामस्य तनयोजज्ञे कुश

इत्यभिविश्रुतः” इत्युपक्रमे “नभस्य कुण्डरीकस्तु क्षेमधन्वा
ततः स्मृतः” हरि० १५ फ० । “स क्षेमधन्वानमयोधय-
द्वली” रघुः ।

क्षेमधूर्त्त पु० ब० व० वृह० सं० कूर्म्मविभागे “श्यामाकाः क्षेम

धूर्त्ताश्च” इति उत्तरस्यामुक्ते देशभेदे ।

क्षेमधूर्त्ति पु० कैकेयदेशाधिपे राजभेदे । “वृहत्क्षेत्रमथा-

यन्तं कैकेयं दृढ़विक्रमम् । क्षेमधूर्त्तिं महाराज!
विव्याधोरसि मार्गणैः” भा० द्रो० १०७ अ० । “गणः
क्रोधवशो नाम यस्ते राजन्! प्रकीर्त्तितः । ततः सञ्जज्ञिरे
वीराः” इत्युपक्रमे “कारुक्षेमश्च राजानः क्षेमधूर्त्ति
स्तथैव च” भा० आ० ६७ अ० ।

क्षेमफला स्त्री० क्षेमं फलं यस्य । उदुम्बरवृक्षे शब्दच० । क्षेमाफलेति पाठे पृषो० ।

क्षेममूर्त्ति स्त्री दुर्य्योधनभ्रातृभेदे “उग्रश्रवाः उग्रसेनः क्षेम-

मूर्त्तिस्तथैव च” भा० आ० ६७ अ० ।

क्षेमवृद्धिन् त्रि० क्षेमस्य वृद्धमस्त्यस्य इनि । क्षेमवर्द्धनये

ततः वाह्वा० इञ् । क्षैमवृद्धि तदपत्ये पु० स्त्री० ।

क्षेमा स्त्री १ देवीमूर्त्तिभेदे “निस्त्रिंसे पूजयेत् क्षेमां सर्वकाम-

फलप्रदाम्” देवी० पु० ४७ अ० । २ अप्सरीभेदे च “अम्बिका
लक्षणा क्षेमा देवी रम्भा मनोरमा” भा० आ० १२३ अ० ।

क्षेमाधि पु० मिथिलाधिपे राजभेदे । “अरिष्टनेमिस्तस्यापि

श्रुतायुस्तत् सुपार्श्वकः । ततश्चित्ररथोयस्य क्षेमाधिर्मि-
थिलाधिपः” भाग० ९, १३, १४ ।

क्षेमासन न० “अथ क्षेमासनं वक्ष्ये यत् कृत्वा प्रेक्षयेद्दिवम् ।

दक्षहस्ते दक्षषादं केवलं स्थापयेत् सुधीः” इति रुद्रयाम-
लोक्ते आसनभेदे ।

क्षेम्य द्रि० क्षेमाय साधु यत् । कुशलयोग्ये “सायं मनुष्याश्च

पशवश्च क्षेम्या भवन्ति” श्रुतिः ।

क्षेय त्रि० क्षेतुं योग्यः क्षि--यत् । क्षेतुंयोग्ये ।

क्षेव सेवने भ्वा० पर० सक० सेट् । क्षेवति अक्षेवीत् चिक्षेव ।

क्षै क्षये भ्वा० पर० अक० अनिट् । क्षायति अक्षासीत् चक्षौ ।

क्षेयं क्षाता क्षामः ।

क्षैत त्रि० क्षितेरयम् अण् । १ क्षितिसम्बन्धिनि २ क्षीणता-

सम्बन्धिनि च “यशस्तरोयशसां क्षैतो अस्मे” ऋ० ९, ९७, ३,

क्षैतयत पु० क्षैताय क्षीणतायै यतते यत--अच् । क्षीणता-

यै यतमाने ऋषिभेदे तस्यापत्यादि तिका० फिञ् । क्षैत-
यतायनि तदपत्यादौ

क्षैत्र न० क्षेत्राणां समूहः भिक्षा० अण् । १ क्षेत्रसमूहे । स्वार्थे

अण् । २ क्षेत्रे च “वैश्वानरं क्षैत्रजित्याय देवाः” यजु०
३३, ६० । क्षेत्रमेव क्षैत्रं तस्य जित्यं जयस्तस्मै यजमा-
नस्य क्षेत्राप्त्यै” वेददी०

क्षैमिक त्रि० क्षेमेण निर्वृत्तं ठञ् । १ लब्धस्य रक्षणोप-

योगिनि २ विद्यमानसत्ताकस्य वस्तुनः स्व्यधिकरणे स्वति-
शिष्टवुद्धिनियामकसम्बन्धव्यवस्थापननिर्वाह्ये जन्यत्वे च ।
यथा दुःखात्यन्तामावस्य मोक्षत्ववादिमते अत्यन्ताभाव-
स्याजन्यत्वेऽपि स्वप्रतियोगिदुःखानुत्पादनद्वारा स्वाधि-
करणे स्वविशिष्टबुद्धिनियामकदुःखाकालीनस्वरूप
सम्बन्धनिर्वाहकत्वं तत्त्वज्ञानस्येति दुःखात्यन्ताभावस्य
क्षैमिकी तत्त्वज्ञानसाध्यता । एवं कृतिसाध्यत्वस्य विध्य-
र्थत्वमते “एकादश्यामुपवसेत्” इत्यादौ अहोरात्र
भोजनाभावस्य क्षैमिकं कृतिसाध्यत्वम् । “भावोयथाऽ-
पृष्ठ २४१०
भावः कार्य्यवत् कारणं मतः” इत्युदयनाकार्य्यैरमावमात्रस्य
दृष्टान्तविधया कार्य्यत्वोक्तिः क्षैमिकविषया । एतेन
प्रायश्चित्तविवेकटीकायां श्रीकृष्णतर्कालङ्कारेणात्यन्ता-
भावस्य क्षैमिकजन्यत्वस्य निराकरणम् निरस्तम्
प्रतियोग्यकालीनस्वरूपसम्बन्धविशेषस्यैवात्यन्ताभावविशि-
ष्टबोधनियामकत्वेन तादृशसम्बन्धस्य तत्त्वज्ञानकृत्या-
दिनिर्वाह्यत्वान् स्वाधिकरणे सति हि दुःखे भोजने
वा तादृशस्वरूपसम्बन्धाभावात् विशिष्टबुद्धेरनुदयात्
तस्य तत्त्वज्ञानादिप्रयोज्यत्वमेवमन्यत्रोहाम्

क्षैरह्रद त्रि० क्षीरह्रदस्येदम् शिवा० अण् । क्षीरह्रद-

सम्बन्धिनि ।

क्षैरेय त्वि० क्षीरे संस्कृतम् ढञ् । १ क्षीरे संस्कृते परमान्ने न०

हेम० । २ यवाग्वां स्त्री ङीप् ।

क्षोड़ पु० खोड़--घञ् पृषो० । १ आलाने गजबन्धन्याम् शब्दचि०

क्षोण त्रि० क्षि--बा० डोन । क्षयशीले । “महः क्षोणस्याश्विना

कण्वाय” ऋ० १, ११७, ८ क्षोणस्य क्षयणस्य निरु० ६, ६,

क्षोणि(णी) स्त्री क्षै--बा० डोनि वा ङीप् । १ पृथिव्यां

निघ० । “मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो
निखिलजीवनिकायकेतुः” भाग० २, ७, १३ । २ एकसंख्यायाञ्च

क्षोद पु० क्षुद--घञ् । १ चूर्ण्णने पेषणे अमरः कर्म्मणि

घञ् । २ रजसि च हेम० । “आनेमिमग्नैः शितिकण्ठपक्ष
क्षोदद्युतश्चुक्षुभिरे रथौघैः” माघः “षष्ठः खण्डनखण्ड
खाद्यंसहजक्षोदक्षमे” नैष० ।

क्षोदक्षम त्रि० क्षोदं क्षमते क्षम--अच् । विचारसहे “षष्ठः

खण्डनखाद्यसहजक्षोदक्षमे” नैष० ।

क्षोदस् न० क्षुद--असुन् । जले निघ० ।

क्षोदित न० क्षुद--णिच्--क्त । १ चूर्ण्णिते पेषिते शब्दचि० ।

क्षोदिमन् पु० क्षुद्रस्य भावः इमनिच् क्षोदादेशः । क्षुद्रतायाम् ।

क्षोदिष्ठ त्रि० अतिशयेन क्षुद्रः इष्ठन् क्षोदादेशः । अतिक्षुद्रे ।

क्षोदीयस् त्रि० अतिशयेन क्षुद्र ईयसुन् क्षोदादेशः । क्षुद्रतरे

“वृहत्सहायः कार्य्यान्तं क्षोदीयानपि गच्छति” माघः
स्त्रियां ङीप् ।

क्षोधुक त्रि० क्षुध--वा० उकञ् । क्षुधायुक्ते ।

“क्षोधुका हास्यप्रजाश्च भवन्ति” शत० ब्रा० १, ५, २, ७ ।

क्षोभ पु० क्षुभ--घञ् । १ सञ्चलने “स नूपुरक्षोभपदाभिरासीत्”

“रथक्षोभपरिश्रान्तः” रघुः । २ विकारे च “क्षोभमाशु
हृदयं न यदूनाम्” माघः । “अथेन्द्रियक्षोभमयुग्मनेत्रः”
कुमा० ।

क्षोभक पु० “दुर्जराख्यस्य पूर्वस्यां पुरं नाम वरासनम् । तद्दक्षिणे

महाशैलः क्षोभको नाम नामतः” कालिकापु० ७ अ०
उक्ते कामाख्यतीर्थस्थनगरभेदे । क्षुभ--ण्वुल् । २ क्षोभ-
कारके त्रि० ।

क्षोभण त्रि० क्षुभ--णिच्--ल्यु । १ क्षोभजनके । २ कामवाणविशेषे

पु० पञ्चवाणशब्दे विवृतिः ३ शिवे पु० । “नमो बुद्धाय
लुब्धाय क्षुब्धाय क्षोभणाय च” भा० शा० २८६ अ०
शिवसहस्रनाम । ४ विष्णौ । “उद्भवः क्षोभणो देवः श्रुत-
गर्भोरमेश्वरः” विष्णुसं० तस्य च सृष्टिकाले प्रकृत्यादि-
क्षोभकत्वात्तथात्वम् यथाह विष्णु पु० “प्रकृतिं पुरुषं
चैव प्रविश्यात्मेच्छया प्रभुः । क्षोभयामास भगवान् सर्ग-
कालेऽव्ययाव्ययौ” । भावे ल्युट् । ५ क्षोभणे न० ।

क्षोम न० क्षु--मन् । १ मण्डपोपरिशालायाम्(चिलेघर)शब्दचि० ।

२ अट्टे भरतः ३ गणहासके पु० जटाधरः संज्ञायां कन् ।
तत्रार्थे ४ चोरनामगन्धद्रव्ये पु० शब्दचि० ।

क्षौ(ण)णी स्त्री क्षु--वा० नि वृद्धिश्च वा ङीप् । १ घरण्याम्

अमरः । अन्या व्युत्पत्तिः ब्रह्मवै० पु० २०७ अ० उक्ता यथा
“इज्या च यागधाराच्च क्षौणी क्षीणा लये च या ।
महालये क्षयं यान्ति क्षितिस्तन प्रकीर्त्तिता” तेन
क्षीणाशब्दात् पृषो० साधु । २ एकसंख्यायाञ्च ।

क्षौणीप्राचीर पु० क्षौणी प्राचीर इव यस्य । समुद्रे जटा० ।

क्षौणीभुज् पु० क्षौणीं भुनक्ति अवति भुज--क्विप् । क्षिति

पालके राजनि

क्षौद्र न० क्षुद्राभिः सरघाभिर्निर्वृत्तम् अण् । “मक्षिकाः कपिलाः

सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु । मुनिभिः क्षौद्रमित्युक्तं
तद्वर्णात् कपिलं भवेत्” इति भावप्र० उक्ते १ मधुनि
अमरः । “सक्षौद्रपटलैरिव” रघुः । “गुणैर्माक्षिकवत्
क्षौद्रं विशेषान्मेहनं परम्” भावप्र० । २ जले मेदि० ।
३ चम्पकवृक्षे पु० शब्द च० । ४ क्षितिकणे पांशौ न०
शब्दचि० ५ मागध्यां जाते जातिसङ्करभेदे पु० स्त्री०
“चतुरो मागधी सूते क्रूरान् मायोपजीविनः । मांसं
स्वादुकरं क्षौद्रं सौगन्ध्यमिति विश्रुतम्” भा० अनु०
४८ अ० । क्षुद्रस्य भावः अण् । ६ क्षुद्रतायां न० ।

क्षौद्रक्य न० क्षुद्रकः आयुधजीविसंघः स्वार्थे ञ्यट् ।

आयुधजीविसंघे टित्त्वसामर्थ्यात् स्त्रियां ङीप् क्षौद्र
कीत्यप्यत्र स्त्री सि० कौ० ।

क्षौद्रज न० क्षौद्रात् जायते जन--ड । (मोम) ख्याते १ सिक्-

थके राजनि० । २ मधुजातमात्रे त्रि० ।

क्षौद्रधातु पु० कर्म० । माक्षिके उपधातुभेदे वैद्यकम् ।

पृष्ठ २४११

क्षौद्रप्रिय पु० क्षौद्रमिव प्रियः स्वादुत्वात् । १ जलमधूकद्रुमे

६ व० । २ मधुप्रिये त्रि० ।

क्षौद्रमेह पु० क्षौद्रमिव मेहः । मधुमेहे इक्षु मेहशब्दे ९१० पृ०

सुश्रुतवाक्ये तल्लक्षणं दृश्यम् “कषायं मधुरं रूक्षं
क्षौद्रमेहं वदेतबुधः” भावप्र० ।

क्षौद्रेय न० क्षौद्रे भवः ठञ् । (मोम) सिक्थके राजनि० ।

क्षौम न० क्षु--मन् प्रज्ञा० स्वार्थे अण् । १ दुकूले पट्टवस्त्रे ।

“श्रियः पद्मनिषण्णायाः क्षौमान्तरितभेखले” रघुः
“क्षौममाकुलतया विचकर्ष” माघः “वसीरन्नानुपूर्व्येण
शाणक्षौमाविकानि च” मनुः । क्षुमाया अतस्या विकारः
अण् । २ शणभेदजातवस्त्रे स्त्रियां ङीप् क्षौमी कन्था ।
क्षौमेण दुकूलेन परवृती रथः अण् । ३ दुकूलपरिवृते रथे
पु० । ३ हर्म्यभेदे पु० न० कोटिल्यः । अट्टे अमरः । अट्टश्च
प्राकाराग्रस्थितवलगृहमिति केचित् । मण्डपोपरि-
निर्म्मित गृहम् (चिलेषर) इत्यन्ये ।

क्षौमिक पु० क्षौममिव कायति कै--क । चोरनामगन्धद्रव्ये । शब्दचि० ।

क्षौमी स्त्री क्षुमैव स्वार्थे प्रज्ञा० अण् ङीप् । १ अतस्यां

(मसिना)ख्याते वृक्षे । क्षुमाया विकारः कन्था अण्
ङीप् । २ क्षुमाजातशणकृतकन्थायां स्त्री ।

क्षौर न० क्षुरेण निर्वृत्तम् अण् । १ क्षुरकर्म्मणि केशकर्त्तने ।

तत्र विहितनक्षत्रादि क्षुरकर्म्मशब्दे २३८६ पृ० उक्त-
प्रायं विशेषोऽत्र कश्चिदभिधीयते
“व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे । न करोति
क्षौरकर्म अशुचिः सर्वकर्मसु । स च तिष्ठति कुण्डेषु
नखादीनाञ्च सुन्दरि! । तदेव दिनमानावदंतद्भोजी दण्ड-
ताड़ितः” व्रह्म वै० पु० २७ अ० । “चन्द्रशुद्धिर्यदा नास्ति
तारायाश्च विशेषतः । अक्षौरभेऽपि कर्त्तव्यं चन्द्रचन्द्र
जयोर्द्दिने” ज्यो० त० । “मानं क्षौरे हन्तिगुरुः शुक्रं शुक्रो-
धनं रविः । आयुरङ्गारको हन्ति सर्वं हन्ति शनैश्चरः”
श्रीपतिरत्नमाला । “आज्ञया नरपतेर्द्विजन्मनां दारकर्म मृत
सूतकेषु च । बन्धमोक्षमक्षदीक्षणेष्वपि क्षौरमिष्टमखिलेषु
चोडुषु” भोजदे० । “दवकार्ये पितृश्राद्धे रवेरंशपरिक्षये ।
क्षुरिकर्म न कुर्वीत जन्ममासे च जन्मभे” वृद्धगार्ग्यः,
“केशवमावर्त्तपरं पाटलिपुत्त्रं पुरीमहिच्छत्राम् ।
दितिम दतिञ्च स्मरतां क्षौरविधौ भवति कल्याणम्”
ज्यो० त० । अत्र क्रमो वराहपु० “श्मश्रुकर्म कारयित्वा
नखच्छेदमनन्तरम्” ज्योति० त० । “केशश्मश्रुलोम-
नखानि वापयीत शिखावर्ज्जम्” शु० त० गोभिलः ।
“रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च ।
मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम् । कृत्वा
तु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन् । रुधिरं
तद्भवेत्तोयं दाता च नरकं व्रजेत्” ब्रह्म० वै० पु०
नापितगृहे क्षौरनिषधो यथा “स्वयं माल्यं स्वयं
पुष्पं स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं
शक्रादपि हरेत् श्रियम्” कर्म्मलोचनः ।

क्षौरपव्य न० क्षुरं पविरिव स्वार्थे ष्यञ् ।

अतितीक्ष्णे “क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम्”
भाग० ६, ५, ८ ।

क्षौरिक पु० क्षौरं शिल्पत्वेनास्त्यस्य ठन् । नापिते शब्दमा०

क्ष्णु तेजने अदा० पर० सक० सेट् । क्ष्णौति अक्ष्णावीत् ।

चुक्ष्णाव । क्ष्णविता क्ष्णुतः । “वाचं क्ष्णुवानोदमयन्
सपत्नान्” अथ० ५ । २० । १ । “उभयतो हीदं वाचः क्ष्णुतम्”
शत० ब्रा० ६, ३, १, ३४ ।

क्ष्णुत त्रि० क्ष्णु--क्त । तीक्ष्णीकृते अमरः ।

क्ष्णोत्र न० क्ष्णु--करणे त्रल् । अस्त्रतेजने शाणाख्ये यन्त्रभेदे ।

“क्ष्णोत्रेणेव स्वधितिर्मांसशीतम्” ऋ० २, ३७, ७ ।

क्ष्मा स्त्री क्षमते भारं क्षम--अच् उपधालोपश्च । १ धरायाम् ।

अमरः “क्ष्मां लम्भयित्वा क्षमयोपपन्नम्” रघुः । “नचोदक
प्रवेशेन न च क्ष्माशयनादपि” भा० व० १९९ अ० ।
“क्ष्मया चरति परि सा वृणक्तु नः” निरु० धृता ऋक्
२ एकसंख्यायाञ्च ।

क्ष्माज पु० क्ष्माया जायते जन--ड । १ मङ्गलग्रहे २ नरकासुरे च

क्ष्मापति पु० ६ त० । भूपे क्ष्मानाथादयोऽप्यत्र ।

क्ष्माभुज् पु० क्ष्मां भुनक्ति अवति भुज--क्विप् । भूमिपाले

क्ष्माभृत् पु० क्ष्मां विभर्त्ति पालयति धारयति वा भृ--क्विप्

तुक् च । १ राजनि २ पर्वते च तस्य भूमिधरत्वात्तथात्वम् ।

क्ष्माय विधूनने कम्पने भ्वा० आत्म० अक० सेट् । क्ष्मायते ।

अक्ष्मायिष्ट चक्ष्माये ईदित् क्ष्मातः । “अक्ष्मायन्त महीं
गृध्राः” “चक्ष्माये च महीं रामः” भट्टिः । णिचि पुक्
यलोपश्च । क्ष्मापयति ।

क्ष्मील निमेषे भ्वा० पर० अक० सेट् । क्ष्मीलति अक्ष्मीलीत्

चिक्ष्मील । निमेषः पक्ष्मभिश्चक्षुयोरावृतिः ।

क्ष्विड स्नेहे भ्वा० आत्म० अक० मोक्षे सक० सेट् । क्ष्वेडते

ऌदित् अक्ष्विडत् । चिक्ष्विडे ञीदित् । क्ष्वेडितम् ।
आदत् क्ष्वेट्टम् क्ष्वेडितं तेन “नास्फोटपेन्नचाक्ष्वेडेत्”
मनुः । परस्मैपदमार्षम् एवं “क्ष्वेडन्तोधावमानाश्च
पृष्ठ २४१२
प्रणेदुस्ते महाजवाः” रामा० कि० ४५ अ० । “क्ष्वेडन्ति
घुघुरायन्ते ज्वलन्तीव च ये ब्रणाः” सुश्रुतः । अव्यक्त
दन्तशब्दकरणे अक० “क्ष्वेडितोत्क्रुष्टसङ्कुलः” भा०
आश्व० ५९ अ० ।

क्ष्विद मोचने सक० स्नेहे अक० भ्वा० आ० सेट् । क्ष्वेदते

ऌदित् अक्ष्विदत् ञीदित् क्ष्विण्णः आदित् क्ष्विसां
क्ष्वेदितं तेन ।

क्ष्विद कूजने दिवा० पर० अक० सेट् । क्ष्विद्यति । इरित्

अक्ष्नेदीत् अक्ष्विदत् । आदित्क्ष्विण्णं क्ष्वेदितं तेन ।

क्ष्वेड पु० क्ष्विड्--भावादौ घञ्, पचाद्यच् वा । १ अव्यक्तदन्त-

शब्दभेदे २ स्नेहे ३ मोचने ४ त्यागे । ५ कर्णामयभेदे कर्णगत-
रोगशब्दे १७०८ पृ० विवृतिः । ६ विषे पु० अम० ७
पीतघोषावृक्षे रत्नमा० ८ लोहितार्कपर्णफले न० मेदि० ९
वंशशलाकायां १० सिंहनादे ११ कोषातकीवृक्षे स्त्री राजनि०

क्ष्वेडित न० क्ष्विड भावे--क्त । सिंहनादे अमरः ।

क्ष्वेल संचालने, गतौ सक० क्रोडायाम् अक० भ्वा० पर० सेट् ।

क्ष्वेलति अक्ष्वेलीत् ॠदित् णिचि चङि न ह्रस्वः ।
अचक्ष्वेलत् । “ये तु विष्टभ्य गात्राणि क्ष्वेलन्ति च हसन्ति
च” (ये हरियथपाः) रामा० ६, २ अ० “दध्मुः शहांश्च
संहृष्टाः क्ष्वेलन्त्यपि यथापुरम्” ६, २६ अ० । “ते तदा
स्फोटयामासुः क्ष्वेलन्तश्च समन्ततः” ३७ अ० ।

क्ष्वेला स्त्री क्ष्वेल--अ । क्रीडायाम् । खार्थे क क्ष्वेलि-

कावत्र । “क्षेलिकया मृषा समाधिना आमीलित-
दृशं प्रेमसंरम्भेण चकितचवित आगत्य पृवदपरुष-
विषाणाग्रेण लुठति” भाग० ५ स्क० ८ अ० । गौरा० ङीष्
क्ष्वेलीत्यप्यत्र । “बाहुप्रसार परिरम्म करालकोरुनीविस्त-
नालभननर्म्मनस्वाग्रपातैः । क्ष्वेल्यावलोकहसितैद्रव्रज-
सुन्दरीणामुत्तम्भयन् रतिपतिं रमयाञ्चकार” भाग०
१० स्क० २९ अ० ।
इति श्री तारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचिते वाचस्पत्ये ककारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/क्षीरलता&oldid=57710" इत्यस्माद् प्रतिप्राप्तम्