सामग्री पर जाएँ

वाचस्पत्यम्/क्रान्तिक्षेत्र

विकिस्रोतः तः
पृष्ठ २३१५

क्रान्तिक्षेत्र न० क्रान्तिज्ञानार्थं क्षेत्रम् । सि० शि० उक्ते

अपमक्षेत्राकारे पदार्थे यथा
“क्षेत्राणि वक्ष्येऽपमसंभवानि संक्षेपतोऽक्षप्रभवाणि चातः ।
भुजोऽपमः कोटिगुणो द्युजीवा कर्णस्त्रिभज्या त्रिभुजे-
ऽपमोत्थे । मेषादिजीवाः श्रुतितोऽपवृत्ते तद्भूमिजे
क्रान्तिगुणा भजाः स्युः । तत्कोटयः स्वद्युनिशाख्यवृत्ते
व्यासार्द्धवृत्ते परिणा मतानाम् । चापेषु तासामसवस्तती
ये तेऽधो विशुद्धा उदया निरक्षे” सि० शि०

क्रान्तिज्या स्त्री क्रान्तिवृत्तक्षेत्रस्थे सि० शि० उक्ते अक्ष-

क्षेत्रावयवभेदे । अक्षक्षेत्रशब्दे ४२ पृ० अक्षक्षेत्राणि
उक्तानि । तन्मानानयनम् ।
“युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् खलु
भुक्तभोग्यौ । जिनांशमौर्व्या १३९७ गुणितार्कदोर्ज्या
त्रिज्यी ३४३८ द्धृता क्रान्तिगुणोऽस्य वर्गम् । त्रिज्या-
कृतेः ११८१९८४४ प्रोज्झ्य पदं द्युजीवा क्रान्तिर्भबेत्
क्रान्तिगुणस्य चापम् । अक्षप्रभासंगुणितापमज्या तद्द्वाद-
शांशो भवति क्षितिज्या सि० शि० ।
“अत्र खेटादित्युपलक्षणम् । यस्मात् खेटाल्लग्नाद्वाऽपमः
साध्यस्तस्मात् सायनांशादेव । तथा यस्मादुदयसम्बन्धिनौ
भुक्तभोग्यकालौ साध्यौ तस्मादपि सायनांशादेव ।
सायनार्कस्य दोर्ज्या जिनभागज्यवा गुणिता त्रिज्यया
भक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम् ।
अस्योपपत्तिः । विषुवत्क्रान्तिवृत्तयोर्याम्योत्तरमन्तरं क्रा
न्तिः । तयोः संपाते क्रान्त्यभावः । ततस्त्रिभेऽन्तरे परमा
जिन २४ तुल्यभागाः । अतस्तत्संपातादारभ्य क्रान्तिः
साध्या । उदयाश्च तत एव । स तु संपातो मेषादेः प्रागप्र-
नांशतुल्येऽन्तरे । अतः सायनांशात् खेटात् क्रान्तिर्भुक्त-
भोग्यकालौ चेत्युक्तम् । यदि त्रिज्यातुल्यया भुजज्य-
या जिनांशज्यातुल्या क्रान्तिज्या लभ्यते तदेष्टज्यया-
किमिति । फलं क्रान्तिज्या विषुवद्वृत्तात् तिर्यग्रूपा
भवति । क्रान्तिज्या भुजस्त्रिज्या कर्णस्तद्घर्गान्तरपदम-
होरात्रवृत्तव्यासार्धम् । सैव द्युज्या” प्रमि० ।
देशभेदे कालभेदेन रवेः क्रान्तिज्याज्ञानार्थं प्रश्नपूर्वकं सि०
शि० निर्ण्णीतं यथा
“मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखे!
काले पञ्चघटोमिते दिनगते यद्वा नते तावति । केनाप्यु
ज्जयिनीगतेन तरणेः क्रान्ति तदा वेत्सि चेन्मन्ये त्वां
निशितं सगर्वगणकोन्मत्तेभकुम्भाङ्गुशम्” ।
“हे गणक! केनचित् किलोज्जयिनीगतेन यदा
दिनगते पञ्चघटीमिते काले मार्तण्डः सममण्डलं प्रविष्टो
दृष्टस्तदा कियती क्रान्तिज्येत्येकः प्रश्नः । अथान्यः
तावति पञ्चघटीमिते नते वा काले समण्डलं प्रविष्टो दृष्ट-
स्तदा च या क्रान्तिज्या तां त्वं चेद्वेत्सि तदा सगर्वगण
कोन्मत्तेभकुम्भाङ्कुशं निशाणोद्धृतं त्वामहं मन्ये” प्रनि०
“या स्याद्रवेरुन्नतकालजीवाभीष्टा हृतिः सा प्रथमं
प्रकल्प्या । अर्का१२ क्षभावातहताक्षकर्णकृत्योद्धृता
स्यादपमज्यकाऽस्याः । चरादिकेनेष्टहृतिः प्रसाध्या
क्षुण्णस्तया क्रान्तिगुणोऽसकृच्च । तदाद्यहृत्या विहृतः
स्फुटः स्यात् सहस्ररश्मौ सममण्डलस्थे” सि० शि० ।
“रवेः समण्डलप्रवेशे य उन्नतकाल उद्दिष्टस्तस्य जीवा
सा तावत् प्रथममिष्टहृतिः कलप्या । ततो द्वादशगुणया-
क्षया गुण्या पलकर्णवर्गेण भाज्या । सा किल स्थूला
क्रान्तिज्या भवति । तस्याः क्रान्तिज्याया द्युज्यां
कुज्यां चरज्यां चरं च कृत्वा “अथोन्नतादूनयुताच्चरेण” इत्या-
दिमेष्टहृतिः साध्या । तया पूर्वमागता क्रान्तिज्या गुण्या ।
आद्यहृत्या कल्पितया भाज्या । फलं स्फुटासन्ना क्रा-
न्तिज्या भवति । अत्रोपपत्तिः । अत्रोन्नतवालजीवातुल्या
प्रथमं तद्धृतिः कल्पिता । तस्या अनुपातेन शङ्कुः । यदि
पलकर्णेन द्वादशकोटिस्तदा तद्धृतिकर्णेन किमिति । अत्र
तद्धृतेर्द्वादशगुणः पलकर्णो हरः । फलं सममण्डलश-
ङ्कुः । पुनरन्योऽनुपातः । यदि पलकर्णेनाक्षभा भुजो
लभ्यते तदा सममण्डलशङ्कुतुल्येन कर्णेन किमिति । फलं
क्रान्तिज्या स्थूला । अस्याः क्रान्तिज्यायाश्चरादिकेन
“अथोन्नतादूनयुताच्चरेण” इत्यादिनेष्टहृतिः साध्या ।
तां तद्धृतिं प्रकल्प्य पुनः क्रान्तिज्या साध्या । एवमसकृ-
द्यावदविशेषः । तत्रासकृत्कर्मणि त्रैराशिकेन क्रियोपमं-
हारः कृतः । यदि कल्पितया हृत्येयं क्रान्तिज्या लभ्यते
तदेदानीमानीतया किमिति । एवं क्रान्तिज्या स्फुटा
स्यादित्युपपन्नम् । इदानीं द्वितीयप्रश्नस्योत्तरमाह” प्रमि०
“तदा नतज्यात्रिभजीवयोर्यद्वर्गान्तरं तत् पलमाकृ-
तिघ्नम् । तेनोद्धृतो व्यासदलस्य वर्गो वेदेन्द्र १४४ निघ्नोऽथ
सरूपलब्ध्या । व्यासार्धवर्गाद्विहृतात् पदं स्यात् क्रा-
न्तिज्यका सा त्रिभशिञ्जिनीघ्नी । जिनांशमौर्व्या विहृ-
ताऽथचापादग्रे प्रवक्ष्ये च यथा रविः स्यात्” सि० शि० ।
पृष्ठ २३१६


“यदा सममण्डलं प्रविष्टो दृष्टस्तदा या नतघटिका-
स्तासां जीवा तस्या वर्गेण त्रिज्यावर्गो रहितः ।
ततः पलभावर्गेण गुण्यः । तेन भाज्यस्त्रिज्यावर्गः ।
किंविशिष्टः वेदेन्द्र १४४ गुणितः । तत्र यत् फलं लभ्यते
तन सैकेन त्रिज्यावर्गाद्भक्ताद्यन्मूलं लभ्यते सा क्रान्ति-
ज्या स्यात् । सा क्रान्तिज्या त्रिज्यागुणा जिनां-
शज्यथा भक्ता यत् फलं तस्य चापाद्यथा रविर्भवति
तथाग्रे वक्ष्ये” प्रमि० ।
क्रान्तिज्याविशेषेण रव्यादिज्ञानादिकमपि तत्रोक्तं विस्तर
भयात् नोक्तम् । क्रमज्याशब्दे २३०३ पृ० दर्शिते २ क्रम-
ज्यारूपे पदार्थे च ।

क्रान्तिपात पु० क्रान्त्यर्थं पातः विषुवत्क्रान्तिवलययोः

अश्वधातादिवत् चतुर्थ्यर्थे ६ त० । सि० शि० उक्ते क्रान्ति-
निमित्ते विषुवत्क्रान्तिवृत्तयोः संपाते । सि० शि० तद्विवृतिर्यथा
विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् । तद्भ-
गणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे । अयनचलनं
यदुक्तं मुञ्जालाद्यैः स एवायम् । तत्पक्षे तद्भगणाः
कल्पे गोऽङ्गर्तुनन्दगोचन्द्राः । तत्संजातं पातं क्षित्प्वा
खेटेऽपमः साध्यः । क्रान्तिवशाच्चरमुदयाश्चरदललग्नागमे
तत क्षेप्यः सि० शि० । “क्रान्त्यर्थं पातः क्रान्तिपातः । पातो
नाम सपातः । कयोः विषुवत्क्रान्तिवलययोः । नहि
तयोर्मेषादावेव संपातः । किंतु तस्यापि चलनमस्ति
येऽयनचलनभागाः प्रसिद्धास्त एव विलोमगस्य क्रान्ति
पातस्य भागाः । मेषादेः पृष्ठतस्तावद्भागान्तरे क्रान्तिवृत्ते
विषुवद्वृत्तं लम्बमित्यर्थः । नहि क्रान्तिपातो नास्तीति
वक्तुं शक्यते प्रत्यक्षेण तस्योपलब्धत्वात् । उपलब्धिप्र-
कारमग्रे वक्ष्यति । तत् कथं ब्रह्मगुप्तादिभिर्निपुणैरपि
नोक्तः? इति चेत् । तदा खल्पत्वात् तैर्नोपलब्धः । इदानीं
बहुत्वात् साम्प्रतैरुपलब्धः । अत एव तस्य गतिरस्तीत्य-
वगतम् । यद्येवमनुपलब्धोऽपि सौरसिद्धान्तोक्तत्वादागम-
प्रामाण्येन भगणपरिध्यादिवत् कथं तैर्नोक्तः? सत्यम्
अत्र गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम् । तर्हि
मन्दोच्चपातभगणा आगमप्रामाण्येनैव कथं तैरुक्ताः? इति
नच वक्तव्यम् । यतो ग्रहाणां मन्दफलाभावस्थानानि
प्रत्यक्षेणैवोपलभ्यन्ते । तान्येव मन्दीच्चस्थानानि ।
यान्येव विक्षेपाभावस्थानानि नान्येव पातस्थानानि । किं तु
तेषां गतिरस्ति नास्ति वेति सन्दिग्धम् । तत्र मन्दोच्च-
पातानां गतिरस्ति चन्द्रमन्दोच्चपातवदित्यनुमानेन
सिद्धा । सा च कियती तदुच्यते । यैर्मगणैरुपलब्धि-
स्थानानि तानि गणितेनागच्छन्ति तद्भगणसंभवा वार्षिकी
दैनन्दिनी वा गतिर्ज्ञेया । नन्वेवं यद्यन्यैरपि भगणै-
स्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः
प्रामाण्यम् । सत्यम् तर्हि साम्प्रतोपलब्ध्यनुसा रणी
कापि गतिरङ्गीकर्तव्या । यदा पुनर्महता कालेन
महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां
समानधर्माण एवोत्पत्स्यन्ते । ते तदुपलब्ध्यनुसारिणीं
गतिमुररीकृत्य शास्त्राणि करिष्यन्ति । अत एवायं गणित-
स्कन्धो महामतिमद्भिर्धृतः सन्ननाद्यन्तेऽपि काले
खिलत्वं न याति । अतोऽस्य क्रान्तिपातस्य भगणाः कल्पे-
ऽयुतत्रयं तावत् सूर्यसिद्धान्तोक्ताः । तथा मुञ्जालाद्यैर्य-
दयनचलनमुक्तं स एवायं क्रान्तिपातः । ते गोऽङ्गर्तु-
नन्दगोचन्द्रा १९९६६९ उत्पद्यन्ते । अथ च थे वा ते
वा भगणा भवन्तु । यदा येऽंशा निपुणैरुलभ्यन्ते तदा
स एव क्रान्तिपात इत्यर्थः । तं तिलोमगं क्रान्तिपातं
ग्रहे प्रक्षिप्य क्रान्तिः साध्या” प्रमिता० ।

क्रान्तिवृत्त न० सि० शि० उक्ते--क्रान्तिवलयाकारे वृतक्षेत्रे ।

तन्निवेशनप्रकारादि च गोलबन्धे तत्रोक्तं यथा
“याग्योत्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलं ध्रुव-
यष्टिबद्धम् । षष्ट्यङ्कमत्र सममण्डलवत् तृतीयं नाड्याह्वयं
च विषुबद्वलयं तदेव” सि० शि० यथा खगोले क्षितिजं
याम्योत्तरं च तदाकारमपरमाधारवृत्तद्वयं ध्रुवयष्टिस्थं
कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलाकारं घटीषष्ट्या
चाङ्कितं कार्यम् । तन्नाडीवृत्तं विषुवद्वृत्तसंज्ञं च “इदा-
नीं क्रास्तिवृत्तमाह” प्रमि० । “क्रान्तिवृत्तं विधेयं गृहाङ्कं
म्रमत्यत्र भानुश्च भार्धे कुभा भानुतः । क्रान्तिपातः प्रतीपं
तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत्” सि० शि०
“अथान्यत् तत्प्रमाणमेव वृत्तं कृत्वा तत्र मेषादिं प्रकल्प्य
द्वादशराशयोऽङ्क्याः । तत् क्रान्तिवृत्तसंज्ञम् । तस्मिन्
वृत्ते रविर्भ्रमति । तथा रवेर्भार्धान्तरे भूभा च । तथा
तत्र क्रान्तिपातो मेषादेर्विलोमं भ्रमति । तथा ग्रहाणां
विक्षेपपाताः प्रस्थुटा विलोमं भ्रमन्ति । अतः क्रान्ति-
पातादीनां स्थानानि तत्राङ्क्यानि । इदानीं क्रान्तिवृत्तस्य
निवेशनमाह” प्रमि०
“क्रान्तिपाते च पाताद्भषट्कान्तरे नाडिकावृत्तलग्नं
विदध्यादिदम् । पाततः प्राक् त्रिभे सिद्धभागैरुदग्-
दक्षिणे तैश्च भागैर्विभागेऽपरे” सि० शि०
पृष्ठ २३१७
“क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यच्चिह्नं कार्यम् । ते
चिह्ने नाडीवृत्तेन संसक्ते कृत्वा पातचिह्नादग्रतस्त्रिभेऽ-
न्तरे नाडीवृत्ताद्भागचतुर्विंशत्योत्तरतो यथा भवत्यपरवि-
भागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भागैर्यथा भवति तथा
बध्नीयात्” । प्रमि० अविकंक्रान्तिशब्दे दृश्यम् । क्रान्ति-
बलयक्रान्तिमण्डलादयोऽप्यत्र ।

क्रान्तिसाम्य न० ६ त० । ग्रहाणां तुल्यक्रान्तौ । यद्यपि सर्व

ग्रहाणां क्रान्तिसाम्यमस्ति तथापि चन्द्रार्कयोः क्रान्ति-
साम्यस्य मङ्गलकार्य्ये वर्ज्जनीयता १८६५ पृ० उपयमशब्दे
विस्तरेण दर्शिता । क्रान्तिसाम्ये च ग्रहाणामवनत्यभावः
सू० सि० दर्शितोयथा “अक्षोदग्मध्यभक्रान्तेः साम्ये
नावनतेरपि” सू० सि०
“अक्षांशा उत्तरा ये मध्यभस्य मध्यलग्नस्य क्रान्त्यं-
शाः । अत्र मध्यलग्नशब्देन दशमभावस्त्रिभोनलग्नं वा
ग्राह्यमुभयपक्षेऽप्यदोषः । अनयोस्तुल्यत्वेऽवनतेर्नतेः
अपिशब्दाद् सम्भवो न अभाव इत्यर्थः” रङ्गनाथः ।

क्रान्तिसूत्र न० सि० शि० उक्ते ध्रुवस्पर्शिनि क्रान्तीनां सूत्रा-

कारे योगभेदे । “सर्व्वतः क्रान्तिसूत्राणां ध्रुवे योगो-
भवेद्यतः । विषुवन्मण्डलप्राच्या ध्रुवे याग्या तथोत्तरा”
सि० शि० ।

क्रान्तु पुंस्त्री क्रम--तुन् वृद्धिश्च । पक्षिणि उज्ज्वलद० ।

क्रायक त्रि० क्री ण्वुल् । १ क्रेतरि अमरः २ क्रयजीविनि भरतः

तच्चिन्त्यं तत्र क्रयिक इत्येव साधु जीवतीत्यर्थे व्यस्ता-
दपि क्रयशब्दात् ठन्विधानात् ।

क्रावन् त्रि० क्रम--वनिप् “विड्वनोरनुनासिकस्यात्” पा०

सस्यात् क्रान्तरि “दधिक्रावणोऽकारिषं जिष्णोरश्वस्य
वाजिनः” यजु० २३ । ३२ । स्त्रियां ङीप् रश्चान्तादेशः क्रावरी ।

क्रिमि पु० क्रम--इन् अतैच्च । १ कृमौ क्षुद्रजन्तौ उज्ज्वल०

२ रोगभेदे कृमिशब्दे २१९४ पृ० विवृतिः । “क्रमयस्तु द्विधा-
प्रोक्ताः वाह्याभ्यन्तरभेदतः । बहिर्मलकफासृग्विड्जन्म-
भेदाच्चतुर्वधाः । नामतो विंशतिविधा बाह्यास्तत्र
मलोद्भवाः” “तिलप्रमाणसंस्थानवर्ण्णाः केशाम्बराश्रयाः ।
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः” माधवः ।
“क्रिमयः क्रभिलं यथा” भाग० ३, ३१, २८,

क्रिमिकण्टक न० क्रिमौ कण्टकमिव । कृमिकण्टकशब्दार्थे मेदि०

क्रिमिघ पु० क्रिमिं हन्ति हन--टक् । १ विडङ्गे रमानाथः ।

२ क्रमिनाशके त्रि० स्त्रियां ङीप् । सा च ३ सोमराज्यां
स्त्री शब्दच० ।

क्रिमिज न० क्रिमेर्जायते जन--ड ५ त० । १ अगुरुचन्दने अमरः २ लाक्षायां स्त्री रत्नमाला ।

क्रिमिशत्रु पु० क्रिमेः शत्रुरिव नाशकत्वात् । रक्तपुष्पके

(पालदाभाँदार) शब्दच० ।

क्रिमिशात्रव पु० क्रिमेः शात्रवैव नाशकत्वात् । विट् खदिरे शब्दच० ।

क्रिमिशैल पू० क्रिमिनिर्म्मितः शैलः । वल्मीके (रुइ-

डिपि) त्रिकाण्ड०

क्रिय पु० क्रिया ग्रहाणामाद्यगतिक्रिया विद्यतेऽत्र अच् ।

मेषराशौ दीपिका कौर्पशब्दे २२७८ पृ० प्रमाणं दृश्यम् ।
“क्रियैणतौलीन्दुभतोनवांशाः” नील० ता० ।

क्रिया स्त्री कृ--भावे करणादौ वा यथायथं श । १ आरम्भे

२ निष्कृतौ (प्रायश्चित्ते) ३ शिक्षायां ४ पूजायां ५ संप्रधारणे
(विवादविचाराङ्गे साधने) ६ सामाद्युपाये । ७ न्यायादिम-
तसिद्धे उत्क्षपणादी कर्म्मणि व्याकरणमतसिद्धे ८ धात्व-
र्थे ९ चेष्टायां (परिस्पन्दे) १० चिकित्सायां च अमरः ।
११ करणे (अनुष्ठाने) हेम० । १२ श्राद्धे क्षीरस्वामी । १३ शौचे
शब्दरत्ना० । १४ प्रयोगे च तत्र न्यायमतसिद्धा क्रिया कर्म्म-
शब्दे १७५५ पृ० दर्शिता । कर्म्मत्वलक्षणन्तु औलूक्यशब्दे
सर्व्व० द० वाक्ये १५८६ पृ० उक्तम् तत्र अनित्यमात्र-
समवेतत्वे सतीतिशुद्धम् नित्यमात्रसमवेतत्वाभावादित्य-
शुद्धम् अनित्यमात्रसमवेतत्वाभावादिति शुद्धम् । वैयाक-
रणमते तु धात्वर्थः क्रिया तत्स्वरूपशाब्दबोधप्रकारादि
शब्दार्थरत्नेऽस्माभिर्निरूपितं यथा
“क्रिया च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेना-
भिधीयमानेति बोध्यम् । “व्यापारो भावना सैवौत्पादना
सैव च क्रियेति” हर्य्युक्तेः “यावत्सिद्धमसिद्धं वा साध्य-
त्वनाभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधी-
यते” इति “साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते”
इति च वाक्यपदीयाच्च । “यावदिति सर्व्वमित्यर्थः तदेव
विवृणीति सिद्धमसिद्धं वेति । सिद्धं वर्त्तमानध्वंसप्रति-
योगि, तद्भिन्नमसिद्धं तच्च वर्त्तमानं भविष्यच्चेति द्विविधं
तेनापचत् पक्ष्यति पचतीत्यादौ सर्वत्र साध्यत्वेन असत्व-
रूपत्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेन
दर्शितेति भावः । यौगिकत्वमप्याह आश्रितक्रमरूपत्वा-
दिति । आश्रितःक्रमो रूपं यस्यास्तत्त्वात् पूर्वापरीभूता-
वयवकत्वादित्यर्थः । तदीयावयवानामधिश्रयणाद्यधःश्रय-
णपर्य्यन्तानां क्रमेणोतपत्तेः क्रियापदेन तत्समुदायो
ऽभिधीयते यत्र च न क्रमिको व्यापारोऽस्ति तत्र रूढि-
रादरणीयेति पौर्वापर्य्यारोपेण वा सर्वत्र फलस्य स्वजन-
पृष्ठ २३१८
कव्यापारगतपौर्वापर्य्यारोपवत् यौगिकत्वम् । अतएव
फलमात्रबोधकस्यापि क्वचित् धातुत्वसिद्धिरिति
फलितार्थः । इयांस्तु विशेषः पाकैत्यादौ धातुना साध्यत्वेनो
पस्थाप्यायाः क्रियायाःसिद्धक्रियारूपे घञर्थे विशेषणत्वं
पचतीत्यादौ तु नैवमिति । अतएव “साध्यत्वेन क्रिया तत्र
तिङ्पदैरभिधीयते” इति वाक्यपदीयकारिकाव्याख्यायां
भूषणसारदर्पणे तिङ्पदैरित्यतदगुणसंविज्ञानबहुव्रीहिणा
तिङन्तपदैर्धातुभिरित्यभिरितम् । तेन सर्वत्र धातोः
साध्यरूपकियाबोधकत्वम् । किञ्चक्रमिकावयवानामेकदाऽ
सत्त्वेऽपि यत्किञ्चिदवयवसत्त्वकाले वर्त्तमानत्वव्यवहारः
अवयवावयविनोरभेदारोपात् । भूतभविष्यत्त्वव्यवहारस्तु
सर्वेषामवयवानां भूतभविप्यत्त्वयोरेव नतु यत्किञ्चित्-
क्रियाव्यक्तिभूतत्वादौ । उक्तञ्च वाक्यपदीये “गुणभूतैरवयवैः
समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रिपेति
व्यपदिश्यते” इति । अस्यार्थः क्रमिकतत्तद्व्यापारं प्रति
गुणभूतैर्गुणभावेन भासमानैरवयवैरुपलक्षितः बुद्ध्या
एकत्वबुद्ध्यः प्रकल्पितोऽभेदो यस्मिन् तद्रूपः क्रमजन्मनां
व्यापाराणां समूहः क्रियेति । अत्र क्षणनश्वराणां
व्यापाराणां मेलनासिद्ध्या बुद्ध्येत्युक्तम् तथा च वुद्धिजन्य-
संस्कारद्वारा तेषां मेलनसम्भवैतिं भावः । अतएव
भाष्ये “क्रिया हि नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूता-
वयवा न शक्यते पिण्डीभूता निदर्शयितुमिति” व्यापार-
समुदायात्मिकायाः कि यायादर्शनायोग्यत्वोक्त्या तदवय-
वानां तद्विषयत्वं व्यतिरेकमुखेन दर्शितम् । तस्याश्चाभि-
न्नैकबुद्धिविषयतया एकत्वव्यवहारैत्यपि बोध्यम् ।
अथपाऽनेकव्यापारव्यकिवृत्तिर्जातिरेव क्रियेति सिद्धान्तवल्प
आदरणीयः । तस्याश्च व्यक्तिद्वारैव साध्यत्वम् अस्ति च
पचित्वादिकं जातिः पचतीत्याद्यनुगतव्यवहारात् तज्जा-
तेश्चैक्यादेकत्वव्यवहार इति मन्तव्यम् । तदुक्तं वाक्य
पदीये “जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्तिनीम् ।
असाध्यां, व्यक्तिरूपेण सा साध्येत्यभिधीयते” इति । युक्तञ्चै-
तत् सवेत्रैव लाघवाज्जातिशक्तिस्वीकारेण पच्यादिधातू-
नामपि तत्रैव शक्तिरुचितेति दिक् । सा च क्रिया
धातुवाच्या फलव्यापारोभयरूपा, तद्वि शष्टस्यपा वा
“फलव्याफारयोर्धातुः” इत्यग्रिमवचनात् । व्यवस्थापयिष्यते च
मतभेदेव फलव्यापारयोः पृथक्शक्त्या विशिष्टशक्त्या वा
धातुवाच्यता । अत्र फलांशस्य कर्त्तुरुद्देश्यत्वेऽपि प्राधा-
न्याभावात् व्यापारस्यैवं पाधान्यं समुचितं तस्य च
साध्यतया कर्मातिरिक्तसर्वकारकाणां तत्रैव स्वस्वव्यापा
रद्वारा साधकत्वेनान्वयः कर्मणस्तु फल एव, क्रियाजन्य-
फलाश्रयतयैव तस्योद्देश्यत्वादिति विवेकः । उक्तञ्च
वाक्यपदीये “प्राधान्यात्तु क्रिया पूर्वमर्थस्य प्रविभज्यते ।
साध्यप्रयुक्तान्यङ्गानि फलं तस्याः प्रयोजकमिति” । अर्थस्य
फलस्य तदपेक्षयेत्यर्थः । प्राधान्यात् विशेष्यत्वात् साध्यं
प्रयुक्तं यैः तानि साध्यसाधकानि अङ्गानि कारका-
णीत्यर्थः । अत्र फलस्य क्रियाप्रयोजकत्वाभिधानं
तदुद्देशेनैव क्रियायां प्रवृत्तिरित्येव सिन्धाय । तथा च
सर्वो लोकः स्वाभीष्टफलमभिप्रेप्सुस्तत्साधानाय यतते
लभते च ततस्तत्तत्फलमुपायसंसाधनेन । एवं च क्रि-
याफलं विक्लित्त्यादिकमभीप्सुः पाकाय यतमानो जनः
पाकसंसाधनेन फलं लभते । ततश्च फलसाधनतया
पाकादेरपीष्टत्वात् साध्यत्वम् । फलावशिष्टक्रियायाधात्व-
र्थत्वमते तु विशिष्टत्वेनैवेष्टत्वात् विशिष्टस्यैव साध्यत्वमिति
विशेषः । कारकान्वयस्त्वेतन्मते पूर्वोक्तदिशावसेयः एकदे-
शान्वयस्वीकाराच्च न कर्म्मणोऽनन्वय इति बोध्यम् ।
तथाचैवं रीत्या साध्यत्वेन क्रियां जानता जनेन तस्याः
प्राधान्यबुबोधयिषयैवाख्यातान्ततय धातुः प्रयुज्यते
अन्यथा कृदन्ततयेति । एवञ्च मावकृदन्तस्थले धातुना
साध्यरूपक्रियावबोधनेऽपि तस्याः प्रत्ययार्यसिद्धरूप
क्रियाविशेषणत्वेन न प्राधान्यम् “भावप्रधानमाख्या-
तमित्यादि” निरुक्तवचनस्य, “प्रकृतिप्रत्ययार्थयोः
प्रत्ययार्थप्राधान्यमिति” न्यायस्य च परस्परं विरोधपरी-
हाराय न्यायस्य आख्यात तिरिक्तविषयत्वव्यवस्थाप-
नम् । हरिणापि धातुभावकृतोः क्रियावाचित्वावि-
शेषेऽपि धातुना साध्यत्वेन, कृता तु सिद्धत्वेन क्रियाया
बोधनमिति व्यवस्थापितं यथा “साध्यत्वेन क्रिया
तत्र धातुरूपनिबन्धना । सिद्धभावस्तु यस्तस्याः स
घञादिनिबन्धनः” इति “आख्यातशब्दे भागाभ्यां साध्यसाधनव-
र्त्तिता । प्रकल्पिता यघा शास्त्रे स घञादिष्वपि क्रमः”
इत्येताभ्याम् । भागाभ्यां पश्य मृगोधावतीत्यादौ
तिङन्ताम्यां साध्यसाधनवर्त्तितेति मृगोधावतीत्येतस्य साधन-
त्वमपरस्य साध्यत्वं क्रियाकारकभावेन तयोरन्वयात्
घञर्थक्रियायास्तु इतरक्रियायामेव साधनत्वसिति विवेकः ।
साध्यत्वञ्च लिङ्गसंख्यानन्वयित्वं तद्विपरीतं सिद्धत्वं
तथाच घञाद्युपस्थाप्यक्रियायाः लिङ्गसंख्यान्वयित्वेनापर-
क्रियायां साधनत्वम् । युक्तञ्चैतत् यत् घञन्तादौ द्विवि-
पृष्ठ २३१९
धक्रियायाभानं कारकाणां साध्यक्रियायामेवान्वयोपग-
मात् कृदन्तस्थले कारकविभक्तिप्रयोगस्य सर्व्वजनीतया
साध्यत्वेन तदुपस्थितावेव कारकान्वयोपपत्तिः । “साध्यस्य
साधनाकाङ्क्षेति” “नियतं साधने साध्यं क्रिया नियतसा-
धनेति” “साध्यत्वेन निमित्तानि क्रिया परमपेक्षते” इति
चाभियुक्तोक्तेः । अतएव स्तोकं पाक इत्यादौ द्वितीयान्त-
तोपपद्यते साध्यक्रियाफलस्य विशेषणेऽपि द्वितीयानुशास-
नात् । घञाद्युपस्थाप्यक्रियाविशेषणस्य तु विशिष्यलिङ्गतया
प्रथमाद्यन्तता “कृदभिहितो भावो द्रव्यवत् प्रकाशत”
इतिभाव्योक्तेः । कृदभिहितः कृता बोधितः । भावो भावना
धात्वर्थस्वरूपमिति यावत् द्रव्येण तुल्यं प्रकाशते द्रव्यध-
र्म्मान् लिङ्गसंख्याकारकत्वानि भजते इति यावत् । अत्र
द्रव्यत्वं लिङ्गसंख्यान्वयित्वमेव योग्यत्वात् न तु पृथिव्या-
द्यात्मकत्वं ज्ञानपाकादौ तदभावात् । नापि “वस्तूपलक्ष-
ण यत्र सर्व्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोऽर्थो
भेद्यत्वेन विवक्षितः” इति पारिभाषिकसर्वनामपरामर्शयो
ग्यत्वादिरूपं, साध्यक्रियाया अपि तथात्वेनाविशेषापत्तेः ।
किन्तु सत्वपधानानि नामानीत्येकवाक्यतया सत्वद्रव्ययोः
पर्य्यायत्वस्य बहुषुस्थलेषु दशनात् सत्वभूतत्वमेव द्रव्यत्वमिति
फलितार्थः “क्रिया न युज्यते” इत्यादिना लिङ्गाद्ययोग-
स्यासत्वलक्षणत्वाभिधानात् तद्योगस्यैव सत्वलक्षणत्वौचि-
त्यादिति तु तत्त्वम् । वैयाकरणादिमते चल इत्यादौ
क्रियायां शक्तिः “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु
च” काव्यप० उक्तेः । “असम्पादयतः कञ्चिज्जातिद्रव्य-
क्रियागुणैः” माघः । प्रयोगे “तस्मिन्नु पायाः सर्व्वे नः
क्रूरे प्रतिप्रहतक्रियाः” कमा० “प्रतिहतक्रियाः विफल-
प्रयोगाः” मल्लि० करणे (अनुष्ठाने) “वचसस्तस्य सपदि
क्रिया केवलमुत्तरम्” मावः । “यथाक्रमं पुंसतनादिकाः
क्रियाः” रघुः । “आम्नायस्य क्रियार्थत्वादानर्थक्यमतद-
र्थानाम्” “तद्भूतानां क्रियार्थेन समाम्नायः” जै० सू० ।
शिक्षायाम् “क्रिया हि वस्तूपहिता प्रसीदति” रघुः
“चिकित्साया “क्रियाः (मोघाः) सर्व्वा गतायुषः” सुश्रु० ।
कर्म्मणि (स्पन्दे) “क्षितिर्जलं तथा तेजः पवनीमन एव च ।
परापरत्वमूर्त्तत्वक्रियावेगाश्रया अमी” भाषा० । “यदा-
श्रया क्रिया तमविकुर्व्वती नैवात्मानं लभते” शा० भा० ।
“क्रियैव कालः इति मते सुतरां नाधिकरणता” ति० त०
रघु० । संयोग विभागयोरसमवायिकारणतावच्छेद-
कतया क्रियात्वजातिसिद्धिः । “क्रियां जातिं योग्यवृत्ति
समवायं च तादृशम् । गृह्णाति चक्षुःसम्बन्धादालोको
द्भूतरूपयोः” भाषा० तेन योग्यवृत्तेस्तस्याः प्रत्यक्षता” धात्वर्थे
व्यापारे “तेन तुल्यं क्रिया चेद्वतिः” क्रियासमभिहारे
यङ्” “स्वरितञितः कर्त्तृभिप्राये क्रियाफले” पा० ।
“क्रियया यमभिप्रैति” वार्त्ति० “क्रियायाः परिनिष्पत्ति-
र्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा
स्मृतम्” “कर्त्तृकर्म्मव्यवहितामसाक्षाद्धारयत् क्रियाम् ।
उपकुर्व्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम्” “क्रिया-
कृतविशेषाणां सिद्धिर्यत्र न विद्यते । दर्शनादनुमानाद्वा
तत् प्राप्यमिह कथ्यते” । “निर्द्दिष्टविषयं किञ्चिदुपात्त-
विषयं तथा । अपेक्षितक्रियञ्चेति त्रिधाऽपादानमिष्यते”
“धातूपात्तक्रिये नित्यं कारके कर्त्तृतेष्यते” इति च भर्तृ-
हरिः । “क्रियासमभिहारेण विराध्यन्तं क्षमेत कः”
माघः । धात्वर्थे फले । “कर्म्मवत् कर्म्मणा तुल्यक्रियः”
पा० कर्म्मणा कर्म्मस्थक्रियया तुल्यक्रियः समानाधि-
करणक्रियः कर्म्मस्थमात्रस्थक्रियारूपफलकैत्यर्थः । क्रिया-
विशेषणम् । अत्र च यथा फलस्य विशेषणत्वेऽपि द्वि-
तीया तथा क्रियाविशेषणशब्दे वक्ष्यते । क्रियान्वयिनश्च
हरिणा दर्शिता यथा
“संबोधनान्तं कृत्वोऽर्थः कारकं प्रथमोवतिः । धातु-
सम्बन्धाधिकारविहितमसमस्तनञ् । तथा यस्य च भावेन
षष्ठी चेत्युदितं द्वयम् । संम्बन्धश्चाष्टकस्यास्य क्रिय-
यैवावधार्य्यताम्” । व्यवहाराङ्गक्रियायाम् उदा० क्रिया-
पादशब्दे वक्ष्यते । श्राद्धे “चतुर्द्दश्यां क्रियाः कार्य्या
अन्येषान्तुविगर्हिताः” म० त० मरीचिः । “मृते पितरि
पुत्रेण क्रिया कार्य्या विधानतः” शु० त० मरीचिः ।
“सपिण्डसन्ततिर्वापि क्रियार्हा नृप! जायते” तत्रैव
विष्णुपु० । “ये सपिण्डीकृताः प्रेता न तेषां च पृथक्-
क्रिया” ति० त० शाता०

क्रियाकल्प पु० क्रियायां चिकित्सायां कल्पोविधिः । सुश्रुतोक्ते

उत्तरतन्त्रे अष्टादशाध्यायप्रतिपाद्ये क्रियाभेदे । “अथातः
क्रियाकल्पं व्याख्यामः” इत्युपक्रमात् तस्योक्तेस्तथात्वम्

क्रियाकार पु० क्रियां शिक्षारम्भं करोति कृ--अण् उप० स० ।

१ नवच्छात्रे त्रिका० २ कार्य्यकारकमात्रे त्रि० स्त्रियां
टाप् सि० कौ० । मुग्ध० मते ईप् इति भेदः ।

क्रियाद्वेषिन् त्रि० क्रिया व्यवहाराङ्गसाधन साक्षिलेख्या-

दिकं द्वेष्टि द्विष--णिनि ६ त० । विवादे--पञ्चबिधहीनार्गत-
हीनप्रतिबादिनि “अन्यवादी क्रियाद्वेषी नोपस्थाता
पृष्ठ २३२०
निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः”
मिता० नारदः तल्लक्षणं यथा “लेख्यं च साक्षिणश्चैव
क्रिया ज्ञेया मनीषिभिः । तां क्रियां द्वेष्टि योमोहात्
क्रियाद्वेषी स उच्यते” वीरमि० कात्या० ।

क्रियापाद पु० क्रिया विवादसाधनं पादैव । चतुष्पादव्यव-

हारे साध्यार्थसाधनरूपे तृतीये पादे । १ पूर्व्वपक्षः स्मृतः
पादोद्वितीयोश्चोत्तरः स्मृतः । ३ क्रियापादस्तथान्यश्च
तृतीयो ४ निर्ण्णयस्ततः” वृह० । तस्य व्यवहारपादत्वं
तद्विशेषादि वीरमित्रोदये निर्ण्णीतं यथा
“अथ क्रियापादः । तत्र तदुपयोगिप्रत्याकलितं प्रथमं
निरूप्यते । विज्ञानयोगिना तस्य व्यवहारपादत्वानभ्युप
गमेऽपि क्रियादानोपयोगित्वाभ्युपगमात् । अन्यैस्तु
व्यवहारपादत्वस्यैव खीकारात् क्रियापादप्रागभावस्तू-
भयसम्मतः । प्रत्याकलितन्नाम भाषोत्तरयोरर्थिप्रत्यर्थिभ्यां
लिखितयोः क्रियोपन्यसनमनयोर्मध्ये कस्य स्यात्का
चास्मिन् वादे क्रिया स्याद्धीनवादी वानयोर्मध्येक इत्यादिः
ससभ्यप्राड्विवाकस्य सभापतेः सभ्यस्य प्राड्विवाकस्य
वा परामर्श उच्यते । तथा च वृहस्पतिः “ये तु तिष्ठन्ति
करणे तेषां सभ्यैर्विभावना । कलयित्वोत्तरं सभ्यैर्द्दात-
व्यैकस्य वादिनः” । करणे धर्माधिकरणे ये तिष्ठन्ति
वादिनः प्रतिवादिनश्च तेषामुत्तरं मिथ्यादिचतुर्भेदं
कलयित्वा विचार्य्य एतदुत्तरे कस्य क्रियोपन्यास उचित
इति निर्धार्य्य विभाव्यते साध्यमनयेति विभाबना
क्रियाप्रमाणमिति यावत् । एकस्य वादिनोऽर्थिप्रत्यर्थ्य-
न्यतरस्य सभ्यैर्दातव्या उपन्यसनीयत्वेनाज्ञापयितव्ये-
त्यर्थः । कात्यायनोऽपि “लिखिते शोधिते सम्यक् सति
निर्दोष उत्तरे । अर्थिप्रत्यर्थिनोर्वापि क्रियाकरणमिष्यते” ।
क्रियाकरणं क्रियोपन्यासः । पृनर्वृक्षस्पतिः “श्रुत्वा
पूर्वोत्तरं सभ्यैर्निर्द्दिष्टा यस्य भावना । विभावयेत् प्रतिज्ञातं
सोऽखिलं लिखितादिना” । विभाव्यते साध्यते साध्यमन-
येति विभावना क्रियैव । पूर्वोत्तरं पूर्वपक्षमुत्तरञ्चेत्यर्थः ।
द्वन्द्वैकबद्भावः । निर्दिष्टा ब्रूहीत्युपदिष्टा । कस्मिन्नुत्तरे
कस्य क्रिया क्रियारहिंतञ्च किमुत्तरमित्यपेक्षयामाह
व्यासः “प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्द्दिशेत् क्रि-
याम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्” ।
प्राङ्ग्यायकारणोत्तरयोः प्राङ्ग्याये कारणे च साधिते-
ऽर्थिसाध्यस्य ग्रहणस्य धारणासाधकत्वाद्व्यर्थं साधनं
ग्रयर्थिनाऽव्य पगमाच्चेति तत्रैव साध्यत्वाविर्भावात्तदुप-
न्यासकारिण एव प्रत्यर्थिनः प्रमाणोपन्यासस्तत्साधनायो-
चितः । अर्थिसम्बन्धविरहप्रत्यर्थिसम्बन्धयोर्द्वयोरषि
तेनैव निर्णयात् । मिथ्योत्तरे तु वादिनः प्रमाणमपेक्ष्यं
यदि प्रतिज्ञातेऽर्थे प्रमाणाभाव एव प्रत्यर्थ्यभिमतोऽर्थि-
प्रतिज्ञातसाध्यहैत्वभावः सिध्यतीति तत्परिहाराय भावा-
भावयोर्भावस्यैव साध्यत्वौचित्याच्चार्थिन एव क्रिया ।
सम्प्रतिपत्तौ तु नैकस्यापि साध्यमस्तीति निरर्थकत्वात्
क्रियैव नास्तीत्यर्थः । वृहस्पतिः “प्रतिज्ञाम्भावयेद्वादी
प्रत्यर्थी कारणन्तथा । प्राग्वृत्तं वादविजयं जयपत्रेण
भावयेत्” प्रतिज्ञाम्प्रतिज्ञातार्थम् । इदञ्च परिशेषा-
न्मिथ्योत्तरविषयम् । प्राग्वृत्तं प्राङ्ग्यायं जयपत्रे-
णेति प्राङ्ग्यायदर्शि भृत्योपलक्षणम् । मनुः “अपह्नवेऽ-
घमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेद्देशं
कारणं वान्यदुद्दिशेत्” । दिशति कथयति यथादृष्टमर्थमिति
देश साक्षी । मेधातिथिस्तु ऋणादिप्रयोगदेशवर्त्तिनः
साक्षिणो देशशब्देन लक्ष्यन्व इत्याह । अन्यत्कारणं
प्रमाणं साक्षिभिन्नं लेख्यादि । मेधातिधिना तु “करणं
वा समुद्दिशेदिति” पठित्वा करणशब्दः प्रमाणसामान्य-
वाचकोऽपि गावलोवर्दन्यायेन साक्षिभिन्नकरणमाचष्टे
पृथगुपादानात् । कारणं वा समुद्दिशेदिति पाठेऽप्यय-
मेवार्थः” इत्युक्तम् ॥ यत्र मिथ्याप्रत्यवस्कन्दनयोः कृत्-
स्नपक्षव्यापिता । यथा कश्चिच्छृङ्गग्राहिकया कञ्चिद-
भियुक्ते मदीयेयङ्गौरमुकस्मिन् काले नष्टास्य गृहे दृष्टा
यतः । तत्राभियुक्त उत्तरयति मिथ्यैतत् । एतत्प्रदर्शि-
तनाशकालात प्रागेवास्या मद्गृहेऽवस्थितत्वादिति ।
इदन्तावत्पक्षपतिक्षेपक्षमतममित्यनुत्तरत्वानर्हम् । कारणो-
पन्यासान्न शुद्धं मिथ्योत्तरम् । एकदेशाभ्युपगमाभावाच्चा-
र्थिना लिखितोऽर्थ इत्यादि प्रागुक्तप्रत्यवस्कन्दनलक्षणं
नास्कन्दति । साध्यभेदाय प्रतिज्ञाभेदापादकत्वाभावाच्च न
पक्षैकदेरम् यत्सत्यमित्युत्तरं युगपद्व्यवहारासम्भवकृतं
युगपदनुत्तरम् । तस्मात्सकारणं मिथ्योत्तरमेवेदम् अन्य-
तरसाधनेनापि विवादपर्यवसानात् । अत्र “मिथ्याक्रिया-
पूर्ववादे” इति वचनात् “कारणे प्रतिवादिनीति” वचनाच्चान्य-
तरस्य यथारुचिक्रियोपन्यास इति भाति यद्यपि, तथापि
मिथ्याक्रियेत्यादेः शुद्धमिथ्याविषयत्वेनैतद्विषयत्वाभावात्
“कारणे प्रतिवादिनीति” वचनात् प्रतिवादिन एवात्र
क्रिया । नचास्यापि शुद्धप्रत्यवस्कन्दनविषयत्वादेतद्विषयु-
त्वाऽभावप्रसङ्गेन न कस्यापि क्रिया प्राप्नोतीतिनिर्णय-
पृष्ठ २३२१
मतिबन्ध एषेति वाच्यम् । यतः प्रसिद्धप्रत्यवस्कन्दनेऽपि
ग्रहणाद्यभ्युपगमेन प्रतिद नादिकारणोत्तरतैवास्यासम्भा-
बिनीति वाच्यम् एकदेशाभ्युपगमस्य प्रायिकत्वात् । कार
णोपन्यासस्यैवोत्तरान्तरासङ्कीर्णतया तल्लक्षणत्वावश्यम्भा-
वात् । एवं च कृत्स्नपक्षव्यापि सप्राङ्ग्यायं मिथ्योत्तर-
मपि द्रष्टव्यम् । यथा प्राक्तनाभियोग एव । यद्येवं
प्रतिपदति मिथ्यैतत् । यतः प्रागयमस्मिन्नभियोगे मया
व्यवहारमार्गेण पराजित इति । अत्रापि प्राङ्ग्याय-
कारणोक्त्रौ” इत्यादिप्राक् प्रदर्शितवचनात् प्रत्यर्थिन एव
क्रियोपन्यासः । प्राङ्ग्यायसिद्धौ प्रतिज्ञायाः प्रकटमेव
मिथ्यात्वपर्यवसानादस्य शुद्धप्राङ्ग्यायविषयत्वासम्भवा-
देतादृशप्राङ्ग्यायविषयताया अप्यवर्जनीयत्वात् । पक्ष-
प्रतिक्षेपक्षमस्यास्य प्राग्वदेवानुत्तरत्वानर्हत्वात् । यत्र तु
क्वारणप्राङ्ग्याययोः कृत्स्नपक्षव्यापितयैकोत्तरत्वन्तत्र
पत्यर्थिना प्राङ्ग्याय एव साधनीयः । कारणसाधनस्य
तदन्तर्भूतत्वात् । यथा रूपकशतमनेन मामकं गृहीत-
मित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तत्वादिदा-
नीमस्मै न धारयामि । अस्मिन्नेवार्थे प्रागमुनाहमभि-
युक्तश्चतुष्पाद्ध्यवहाररीत्यामुम्पराजितवानिति । इदानीं
हीनपरिज्ञानोपायः तत्र मनुः । “बाह्यैर्विभावयेल्लिङ्गै-
र्भावमन्तर्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टि-
तेन ह” । स्वरो विकृतो गद्गदत्वादिः । वर्णोऽप्यस्वाभा-
विकः कृष्णत्वादिः । इङ्गितं स्वेदवेपथुरोमाञ्चादि ।
आकारो विकृतो भ्रुवः क्रियादिः । चक्षुः कातरम् ।
त्वेष्टितं वृथास्थानात् स्थानान्तरगमनादि । याज्ञवल्क्यः
“देशाद्देशान्तरं याति सृक्वणी परिलेढि च । ललाटं
स्विद्यते चास्य मुखं वैबर्ण्यमेति च । परिशुष्यत्स्खल-
द्वाक्यो विरुद्धम्बहु भाषते । वाक्चक्षुः पूजयति नो
तयोष्ठौ निर्भुजत्यपि । स्वभावाद्विकृतिं गच्छेन्मनो वाक्कायक-
र्मभिः । अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्त्तितः ।”
मनोवाक्कायकर्मभिर्य्यः स्वभावाद्विकृतिङ्गच्छेत् न भया
दिनिमित्तमसावभियोगे साक्ष्ये वा दुष्टः परिकीर्त्तितः ।
मन आदि विकृतीरेव विविच्य दर्शयति । देशान्तरं याति
नचैकत्रावतिष्ठते । सृक्वणी ओष्ठप्रान्तौ परिलेढि जिह्वया
पुनः पुनः परिघटयतीति । कर्मणो विकृतिः । अस्य
ललाटं स्विद्यते स्वेदविन्दुवृन्दाङ्कितम्भवति । सुखं वैवर्ण्यं
वर्णान्यत्वं पाण्डुत्वकृष्णत्वादि एनि प्राप्नोतीति कायस्य ।
परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सगद्गदं स्खलद्व्यत्यस्त-
पदवर्णं वाक्यं यस्य सः । बहु अनुपयुक्तं विरुद्धं
पूर्वापरविरोधवद्भाषते । परोक्तां वाचम्प्रतिवचनदानेन,
इति बाचः । चक्षुश्च परस्य प्रतिवीक्षणेन न पूजयति
नाभिनन्दतीति चक्षुषः । मनोविकृतेर्ल्लिङ्गम्परकीयमनोवि-
कृतेरप्रत्यक्षत्वात् । तथा ओष्ठौ निर्भुजति वक्रयत्युपर्यधो
भावेन चालयतीति कायस्यैव विकृतिः । मनुरेव
“आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविका-
रैश्च ज्ञायतेऽन्तर्गतं मनः” कात्यायनः “आकारेङ्गित-
चेष्टाभिस्तस्य भावं विभावयेत् । प्रतिवादी भवेद्धीनः
सोऽनुमानेन लक्ष्यते । कम्पः स्वेदोऽथ वैवर्ण्यमोष्ठशो-
षाभिमर्षणम् । भूलेखनं स्थानहानिस्तिर्य्यगूर्द्ध्वनिरीक्ष-
णम् । स्वरभेदश्च दुष्टस्य चिह्नप्राहुर्मनीषिणः” । प्रति-
वादिशब्देन परस्परप्रतिपक्षवादित्वादुभयोर्ग्रहणम् ।
अभिमर्षणञ्जिह्वयोष्ठप्रान्तावलेहनं द्वन्द्वैकवद्भावः । श्री-
रामायणे “आकारं छाद्यमानोऽपि न शक्यो विनि-
गूहितुम् । बलाद्धि विवृणोत्येष भावमन्तर्गतं नृणाम्” ।
अनेन च पराजसम्भावनामात्रम्प्रतिपाद्यते तस्य च
फलं क्रियादिपरामर्शे सभ्यादीनामत्यवधानेन व्यवहारशे-
षविचारः । नत्वेतावता पराजयनिश्चयो साक्ष्यनिर्णयो वा,
नैसर्मिकनैमित्तिकविकारयोर्वैलक्षण्यस्य विवेक्तुमशक्यत्वात् ।
यद्यपि कोऽपि निपुणतममतिर्विवेक्तुं शक्नुयात् तथापि
न पराजयनिमित्तमसाक्षित्वनिबन्धनं वा दण्डादिकार्यं
सम्भवति । न हि निपुणभिषगभियोगमूलकमरणनिश्चये-
ऽपि मृतकार्य्यमार्याः समाचरन्ति । योगीश्वरः “सन्दि-
ग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । नचाहूतो
वदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः” । सन्दिग्धमधमर्णादि-
भिरनभ्युपगतमेवार्थं यः स्वतन्त्रः प्रमाणनिरपेक्ष
एव साधयेदासेधादिना राजादिभ्यो ऽनिवेद्यैव तस्माज्जि-
घृक्षति तदुपरि दण्डाद्यापादयति वा स हीनो दण्ड्यो-
भवति । न परं प्रकृतार्थहानिमाप्तो त प्रत्युत स्वात-
न्त्र्यमिबन्धनं राजदण्डमपि दातुमर्हति । यश्च स्वयमभ्यु-
पे नेतंसाधन वा साधितंयाच्यमानो निष्पतेत्
पलायेत । सोऽपि तथा दण्ड्यः साधितं धनञ्च दाप्यः ।
यश्चाहूतोऽभियुक्तोराज्ञा चाहूतः सदसि न किञ्चिद्वदति
स प्रकृतार्थहानिं दण्डञ्च प्राप्नोति । प्रकरणात् दुष्टपरि-
ज्ञानमेव मा मूदिनि दण्डग्रहणं दण्ड्योऽपि शास्योऽ
यर्थान्न हीयत इति स्वार्थान्न हीयत इत्यर्थादहीनत्वदर्श
नादत्र तन्माभदिति हीन ब्रहणम् नारदोऽपि । “अन्यवादी
पृष्ठ २३२२
क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपलायी च
हीनः पञ्चविधः स्मृतः । अन्यवादी तथा हीनः स एव
विकृताननः । पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः ।
वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः” । कात्या
यनेनापि “श्रावथित्वा यदा कार्यं त्यजेदन्यद्वदेदसौ ।
अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते” । यश्च कञ्चिद-
भियुज्य नाहमेनमभियुञ्जे इत्येवंविरुद्धमभिदधीत सोऽ
प्यन्यवादी तथा हीन इत्याह स एव “न मयाभि-
हितं कार्यमभियुज्य परं वदेत् । विब्रुवंश्च भवेदेव
हीनन्तमपि निर्दिशेत्” । तथा पत्रे लिखितं पूर्वपक्षमप्यन्यथा
कुर्वन्नन्यवादी तथा हीन इत्याह स एव “लेखयित्वा
तु यो वाक्यमूनं वाऽभ्यधिकं पुनः । वदेद्वादी स हीयेत
नाभियोगन्तु सोऽर्हति” । अभियोगं पर्वपक्षं नार्हति
वादित्वयोग्यो न भवतीत्यर्थः । क्रियाद्वेषिणोऽनुपस्थातुश्च
हीनतायास्तेनैव विवरणं कृतम् “लेख्यं च साक्षिणश्चैव
क्रिया ज्ञेया मनीषिभिः । तां क्रियां द्वेष्टि यो मोहात्
क्रियाद्वेषी स उच्यते । आह्वानादनुपस्थानात् सद्य एव
स हीयते” । निरुत्तरतयां हीनमप्याह स एव “ब्रूही-
त्युक्तोऽपि न ब्रूयात् सद्यस्तद्धनमर्हति । द्वितीयेऽहनि
दुर्षुद्धेर्विद्यात्तस्य पराजयम्” । पराजयं तच्चिह्नं
हीनताम् । अतएव हारीतः “सापदेशं हरेत्कालमब्रुवंश्चापि-
संसदि । उक्त्वा वची विब्रुवंश्च हीयमानस्य लक्षणम्” ।
मापदेशं सव्याजम् । यथाह कात्यायनः “व्याजेनैव
तु यत्रासौ दीर्घकालमतिक्रमेत् । सापदेशं तु तद्विद्या-
द्वादहातिकरं स्मृतमिति” । आहूतप्रपलायी
अभियोगपरिहारार्थमाह्वानबुद्ध्या प्रच्छन्नचारी । एतेषामु-
त्तरोत्तरस्य हीनता गुर्पी त ज्ञापयितुं “हीनः पञ्चविध”
इत्युक्तं न परिसंख्यार्थमन्येपामपि हीनत्वस्मरणात् ।
हीनतागुरुत्वज्ञापनंदण्डभूयस्त्वार्थम् । यथोक्तङ्कात्याय-
नेन “अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान्दश ।
नोपस्थाता दश द्वे च पोडशैव निरुत्तरः । आहूतप्र-
पलायी च पणान्दाप्यस्तु विंशतिम्” । अत्रापि विशेष
उक्तस्तेनैव “त्रिराहूतमनायातमाहूतप्रपलायिनम् ।
पञ्चरात्रम तक्रान्तं विनयेत्तं महीपतिः” कात्यायनेनैव
प्रकारान्तरेणापि हीनः उक्तः । “श्रावितव्यवहाराणामेकं
यत्र प्रभेदयेत् । वादिनं लोभयेच्चैव हीनन्तमपि निर्द्दि-
शेत्” । श्रावितव्यवहाराणां सभ्यादीनां मध्ये एकमपि
शः प्रभेदवेत् अन्यद्वारानुरोधाद्युत्पादनेनेत्यर्थ ।
वृहस्पतिरपि “मयं करोति भेदं वा भीषणं वा निरो-
धनम् । एतानि वादिनो यस्य व्यवहारे स हीयते” ।
भयादीनि व्यस्तसमस्तानि येन कृतानि स हीयत इत्यर्थः ।
भयं करोति भीषणामन्यमुखेन भयोत्त्पादनमिति शेषः ।
मनुरपि “अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः ।
यश्चाधरोत्तरानर्थान् विगतान्नावबुध्यते । अपदिश्या-
पदेशञ्च पुनर्य्यस्त्वपधावति । सम्यक् प्रणिहितञ्चार्थं
पृष्टः सन्नाभिनन्दति । असम्भाष्ये साक्षिभिश्च देशे सम्भा-
षते मिथः निरुच्यमानं प्रश्नञ्च नेच्छेद्यश्चापि निष्यतेत् ।
व्रूहीत्युक्तश्च न ब्रूयात् उक्तञ्च न विभावयेत् । न च
पूर्वापरं विद्यत्तस्मादर्थात् स हीयते । ज्ञातारः सन्ति
मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थकारणैरेतैर्ही-
नन्तमपि निर्दिशेत्” । अदेश्यमनुपयोगासत्यत्वादिना
निर्देशानर्हं दिशति कथयति यः । यश्च कथितमपि
न मयेदमुक्तमित्यपलपति । यश्चाधरोत्तरानर्थान् पूर्बापरा-
भिहितान्विगीतान्विरुद्धांस्तत्त्वेन नावबुध्यते । यश्चापदे-
शं व्याजं पोडादिकमपदिश्योद्भ्यव्यापधावति अपसरति
सभातः । यश्च सम्यक् प्रणिहितं सम्यक् प्रणिधानेना-
कलितमपि परोक्तमर्थं पृष्टः सन्नाभिनन्दति अनुवादप्रत्यु-
त्तरदानादिना ना द्रयते । मेधातिथिस्त्वदेशमिति पठित्वा
भाषावादिलिखितदेशभिन्नमसम्भाविपं वा देशम् । यद्वाऽ-
भियोक्ता दिशेद्देशमित्यत्रेव देशशब्देन साक्षिणो व्याख्याय
साक्षिनिर्देशः । अकाले सम्भावितसाक्षिणो निर्दिशती त”
व्याचख्यौ । यश्च ज्ञातारः साक्षिणो ममोक्तेर्थे सन्तीति
सभायामुक्त्वा के ते वदेत्युक्तो न वदेत्तान् । अत्र मा मां
ज्ञातारः । यथार्थवाद्यहमिति जानानाः साक्षिण इति
यावत् । द्वितीयैकवचनान्तस्यास्मच्छब्दस्य द्वितीयाया इत्यनेन
माम् इत्यस्य मा इत्यादेशः । नतु मे इति षष्ठ्यन्तमेतत् ।
“खलर्थतृनामिति” तन्निषेधात् । तेन मेति सन्धिरपि
समाहित इति मेधातिथिः । आचार्यास्तु व्याकरणाधिक-
रणे सन्धिकरणमत्रापशब्द इति पूर्वपक्षप्रसङ्गेन वदन्तः
षष्ठ्यन्ततामेवास्य मन्यन्ते मे सन्तीति सम्बन्धान्न तृती-
यासम्बन्धप्रयुक्तषष्ठीप्रतिषेधावकाश इति तेषामभिसन्धिः ।
सन्ति ज्ञातार इत्युक्त्वेति कल्पतरुलिखितपाठस्त्वनाकर
एवाचार्य्यमेधातिथिभ्यामवृतत्वादति ध्येयम् । सिद्धान्ते
त्वाचार्य्याणां छान्दसत्वमत्र समाधिरभिमतः । एतैः
कारणैर्व्यस्तैः समस्तैर्वा बादिप्रतिवादिनोरन्यतरं
हीनन्निर्दिशेदित्यर्थः हीनवादितया दण्डार्हतामात्रन्न प्रकृ-
पृष्ठ २३२३
तार्थहानिरिति प्रमादपरिहारार्थमेवायं प्रपञ्चः
“छलन्निरस्येत्यादि” वचनात् । अतएव नारदोऽपि “सर्वेष्वर्थ-
विवादेषु वाक्छले नावसीदति । परस्त्रीभूम्यृणादाने
शास्योऽप्यर्थान्न हीयते” । अस्यार्थः अर्थविवादेषु सर्वेषु
वाक्छले प्रमादाभिधाने पूर्व्वप्रपञ्चितेऽपि नावसीदति प्रकृ-
तादयोन्न हीयते । अत्रोदाहरणमात्रं परस्त्रीत्यादि ।
एतेषु प्रमादाभिधानेऽपि शास्योदण्ड्योऽपि यथा न प्रकृ-
तार्थाद्धीयते इति एवं सर्वेष्वर्थविवादेष्वित्यर्थः । अन्यथा
परस्त्रीत्यादेरानर्थक्यमेव भवेत् । अर्थविवादोपादनान्म-
न्युकृतेषु प्रकृतार्थादपि हीयतैत्यर्थादुक्तं भवति ।
यथाऽहमनेन शिरसि ताड़ित इत्यावेद्य भाषादिसमये हस्तेन
पादे ताड़ित इति वदन् दण्ड्यः पराजितश्च भवति ।
मन्युकृतावेशादसदेव ताड़नादिकमयमस्मिन्नारोप्यावेदित-
वान् धर्म्माधिकरण इति प्रतीतेः । अतएव “दोषानुरूपं
संग्राह्यः पुनर्वादो न विद्यते” इति वार्हस्पत्यः पुनर्वाद-
निवेधोऽपि मन्युकृतव्यवहारविषय एव । संग्राह्योदण्डमि-
त्यर्थात् । असम्भाव्ये सम्भाषणानर्हे बिजन इति यावत् ।
नेच्छेत् श्रुतमप्यश्रुतवत्कुर्य्यात् । राजकार्य्यादिव्याजमु-
त्पाद्य ग्रामान्तरङ्गच्छेत् । ब्रूहीत्यादि गतार्थम् । अन्या-
देशमित्यादौ व्रूहीत्यादौ च बहुकृत्वोऽपि तथ्यं वदित-
व्यमिति शावरभाष्योक्तरीत्यास्मिन् प्रकरणे पुनरुक्ति
र्नदोष इति भगवान्मेधातिथिराह । क्वचिदर्थविवादेऽ-
प्यर्थहानिः सन्दिग्धार्थमित्यनेन दर्शिता । नारदोऽप्याह
“अनिवेद्य तु यो राज्ञे सन्दिगधेऽर्थे प्रवर्तते । प्रसह्य स
विनेयः स्यात्स चाप्यर्थे न सिध्यति” । प्रवर्त्तते साधयति
बलादिनेत्यर्थः । वृहस्पतिरपि “आहूतप्रपलायी च
मौनी साक्षिपराजितः । स्ववाक्यप्रतिपन्नश्च हीनवादी
चतुर्विधः” । साक्षिपराजितः साक्षिवचनाद्यः पराजि-
तः, स्ववाक्यप्रतिपन्नः संप्रतिपत्त्युत्तरदाता, अनयोर्दृ-
ष्टान्तत्वेनोपादानम् । यथाऽनयोरविप्रतिपन्नार्थहानि
स्तथान्ययोरपीत्यर्थः । अत्राप्युत्तरोत्तरहीनताधिक्य
तिपादनार्थं चतुर्विघग्रहणन्न पर्तिसङ्ख्यार्थमन्यथान्येषान्तत्क-
थनं विरुध्येत । कस्मिन् कदा हीनकार्य्यमित्यत्र
कालावधिरुक्तस्तेनैव “प्रपलायी त्रिपक्षेण मौनकृत् सप्तभि
र्दिनैः । साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते” इति
साक्षिभिन्नस्तत्पराजितः यश्च सामान्यान् साक्षिणो विर्दिश्य
पश्चाद्विशिष्य निर्दिशेत् मनुना ज्ञातारः इत्यनेन हीनत-
योक्तेः तत्रापि कालाबधिं वृहस्पतिरेवाह “साक्षिणस्तु
समुद्दिश्य यस्तु तान्न विवादयेत् । त्रिंशद्रात्रात्त्रिपक्षाद्वा
तस्य हानिः प्रजायते” इति । दैविकराजिकान्तराये
त्ववध्यतिक्रमेऽपि न दोष इत्यप्याह स एव “आचारक-
रणे दिव्ये कृत्वोपस्थाननिर्णयम् । नोपस्थितो यदा
कश्चिच्छलन्तत्र न कारयेत् । दैवराजकृतो दोषस्तस्मिन्
काले यदा भवेत् । अवघित्यागमात्रेण न भवेत्
स पराजितः” । इति आचारकरणे व्यवहारकरणे । छल
न्तत्रन कारयेदिति वदता यत्र वचनेनार्थहानिः प्रतिपा-
दिता तत्रैव पुनर्विवादाभावोऽन्यत्र तु हीनतानिमित्तं
दण्डं कृत्वा पुनर्वादः प्रवर्त्तनीय एवेति सूचितम् । यत
आह कात्यायनः “पलायनानुत्तरत्वादन्यपक्षाश्रयेण
वा । हीनस्य गृह्यते वादो न स्वबाक्यजितस्य च” ।
स्ववाक्यजितस्येति प्रकृतार्थहानिनिमित्तोपलक्षणन्तेनैव
विवृतमिदम् “यो हीनचिह्नेन जित तस्योद्धारं
विदर्बुधाः । स्ववाक्यहीनोयस्तु स्यात् तस्योद्धारो न विद्यते”
इति । उद्धारः पुनर्व्यबहारः । अत्रापि स्ववाक्यहीन
इति प्रकृतार्थहानिनिमित्तोपलक्षणम् । विवादमुप-
क्रम्य राजानं वञ्चयित्वाऽन्योन्यं यौ वादिपतिवादिनौ
स्वयमेव विवादान्निवर्तेते तयोरुभयोरपि दण्ड्यत्वमाह
वृहस्पतिः “पूर्वोत्तरे सन्निविष्टे विचारे सम्प्रवर्त्तिते ।
प्रशमं ये मिथो यान्ति दाप्यास्ते द्विगुणन्दमम्” ।
मिथ इत्यनेन राज्ञो निवेदनमकृत्वैबाऽन्योन्यशमयानोक्तेः
राज्ञेऽनिवेदनमवगम्यते । कात्यायनस्तु स्पष्टमाह
“आवेद्याप्रगृहीताज्ञं प्रशमं यान्ति ये मिथः । सर्वे
द्विगुणदण्डाः स्युर्विप्रलम्भान्नृपस्य ते” इति । द्विगुणो
दण्डस्तु पराजयनिमित्तदण्डापेक्षया न तु विवादास्पदी-
भूतद्रव्यापेक्षया अद्रव्यविवादेष्यव्याप्तेः । राज्ञे निवेद्या-
ऽन्योन्यरुच्या राजानुरोधेनैव वा सन्धिकरणे तु न दण्ड-
इत्यर्थसिद्धं स्पुटीकृतं वृहस्पतिना “पूर्बोत्तरेऽभि-
लिखिते प्रक्रान्तो कार्य्यनिर्णये । द्वयोरुत्तरयोः सन्धिः
स्याद् दुःखण्डयोरिव । साक्षिसमभविकल्पस्तु भवेत्तत्रो-
भयोरपि । दोलायमानौ यौ सन्धिं कर्यातान्तौ
विचक्षणौ । प्रमाणसमता यत्र भेदः शास्त्रचरित्रयाः । तत्र
राजाज्ञया सन्धिरुभयोरपि शस्यते । धर्मार्थोपग्रहः
कीर्त्तिर्भवेत्साम्येन भूभृतः । न क्लिश्यन्ते साक्षिसभ्या
वैरञ्च विनिवर्त्तते । निग्रहानुग्रहं दण्डं धर्मं प्राप्य
यशोऽयशः । विग्रहाज्जायते नृणां पुनर्दोषस्तथैव च । तस्मा-
त्कुलगणाध्यक्षधर्मज्ञाः समदृष्टयः । अद्वेषलोभाद्यद्ब्रूयु-
पृष्ठ २३२४
स्तत्कर्तव्यं विजानतेति” । साक्षिसभ्यविकल्प इति
उभयोरप्यर्थिप्रत्यर्थिनोः किमेते वक्ष्यन्तीति साक्षिसभ्यवि-
षयको विकल्पो भवेत् तत्र कार्य्यनिर्णये दोलायमानौ
सन्देहदोलारूढौ यावर्थिप्रत्यर्थिनौ सन्धिं कुर्य्यातान्तौ
विचक्षणौ चतुरौ पराजयजनिताऽप्रतिष्ठादितिरोधाना-
दित्यर्थ इति कल्पतरुः । रत्नाकरस्तु “साक्षिणां सभ्यानाञ्च
विकल्पः परस्परविरोधः इत्याह । प्रमाणसमतेति ।
यत्र सभ्यानां वादिद्वयपक्षे प्रमाणं साम्यं प्रतिभाति । यत्र
च शास्त्रचरित्रयोर्भेदः शास्त्रे शास्त्रान्तरेण चरित्रे
व्यवहारे चरित्रान्तरेण भेदो विप्रतिपत्तिर्नतु शास्त्रव्यवा-
हारयोः परस्परम्भेदः धर्मशास्त्राविरोधे व्यवहारस्यार्थ-
शास्त्रत्वेन दुर्बलत्वात्” इति व्याचख्यौ । तत्र राजाज्ञया
सन्धिः कार्य्यत्वेन प्रशस्यते धर्म्मार्थोपग्रहादिहेतुत्वात्
निग्रहानुग्रहाद्यव्यवस्थानिवर्त्तकत्वाञ्च । तस्मादित्यादिना
राजाज्ञैव केवलं न सन्धिहेतुः कुलगणाध्यक्षादिवचोऽपि
राजवचनसममिति प्रतिपाद्यते । एतच्च प्रत्याकलितं
सभ्यैरवश्यमादर्त्तव्यमित्याह नारदः “प्रमाणानि प्रमाणज्ञैः
परिपाल्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैर-
व्यवस्थितैः” । अस्यार्थः स्मृतिचन्द्रिकाकारेणैवमुक्तः
“अब्धवस्थितैः प्रमाणेः प्रमाणानि प्रमाणकर्त्तारः प्रमाण-
शब्देन लक्ष्यन्ते । ते सीदन्ति विनश्यन्ति निर्णयं नाप्नु-
वन्ति । अतः प्रत्याकलनकौशलेन प्रमाणज्ञैः सभ्यैर्यत्न-
तस्तानि प्रमाणानि परिपाल्यानि यथा व्यवस्थादुःस्थि-
तानि न भवन्ति तथा विवेचनीयानीत्यर्थ इति” । वयन्तु-
अव्यवस्थितैर्मूलशैथिल्यादिना दुःस्थितैः प्रमाणैः प्रमाणानु-
ग्राहकैस्तर्कैः प्रमाणानि साक्ष्यादीनि सोदन्ति निर्णया-
क्षमाणि भवन्ति, हि यतोऽतः प्रमाणज्ञैः प्रमाणानि
यत्नतः परिपाल्यानि सत्तर्कपरिशुद्ध्यनुग्रहेण तत्त्व-
निर्णयफलानि कार्य्याणीति व्याचक्ष्महे । अनयोश्च व्या-
ख्यानयोस्तारतम्यन्तत्त्वविद्भि र्धवेचनीयम् । इदञ्च प्रत्याक-
लितं व्यवहर्त्तृसम्बन्धाभावात् व्यवहारदर्शिमात्रकर्त्तृकत्वाच्च
व्यवहारपादचतुष्टायान्तुर्भूतमिति मिताक्षराकारस्य
सम्भतम् नत्वनुपादेयम्, एतदन्तरेण तृतीयक्रियापादानव
तारात् । तथाहि उत्तराभिधानानन्तरमर्थिप्रत्यर्थिनोः
कस्य क्रिया का वा क्रियेति परामर्शलक्षणस्य प्रत्याक-
लितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद्व्यवह-
र्त्तृसम्बन्धाभावाच्च न व्यवहारपादत्वमिति । अपरा-
र्कस्तु “साध्यसिद्धिपदेन जयपराजयावधारणलक्षणं
प्रत्याकलितं योगीश्वरवचने लक्षणया गृह्यत इति वदन्
क्रियोपन्यासोत्तरकालीनविचारस्य सभ्यैः क्रियमाणस्य
प्रत्याकलितरूपतामभिप्रैति” । “सम्प्रतिपत्त्युत्तरेण क्रियापादे
नापि जयपरजयावधारणलक्षणप्रत्याकलितपाद इति द्विपा
त्त्वमेवेति” व्रुवाणो वाचस्पतिरपि तदेवानुबध्नाति । कल्पतरु-
स्मृतिचन्द्रिकाकारौ मिताक्षराकारवदेवोत्तरलेखनान्तरभा-
वितानां हीनपरिज्ञानसन्धिकरणक्रियादानानां क्रियापाद
प्राग्भाविनां प्रत्याकलितत्वमभिहितवन्तौ । व्यवहारोपयो-
गित्वाद् वृहस्पत्यादिवचनानां प्रागस्मल्लिखितानामनुरोधाच्च
व्यवहारपादत्वं परन्तदनभ्युपगतवन्तौ क्रियापादप्राग्-
भावितत्वमेव तु तस्य युक्तम् । यै तु तिष्ठन्ति करण
इत्यादिवचनात् व्यवहारपादत्वमस्तु नवेत्यन्यदेतत् । यत्तु
साध्यसिद्धेर्व्यवहारफलत्वान्न व्यवहारपादत्वं युक्तमिति
तन्न व्यवहारभावनया फलापवर्गिण्याः फलनिरूप्यत्वेन
फलस्य तदंशत्वेन तत्पादत्वे बाधकाभावात् । अतएव त्र्यं
शा भावनेति मीमांसकानामुद्घोषः । तात्पर्य्यपरिशुद्धावु-
दयनाचार्यस्तु प्रमाणोपन्यासमेव प्रत्याकलितमभिमन्यते
यथाह “यद्यपि परीक्षायां न वादिप्रतिवादिनौ स्तः ।
पृच्छोपक्रममात्रेण द्वितोयोपयोगात् । सम्भवेऽपि
तयोर्विषयोपस्थापनमात्रपर्यवसानात् स्थेयस्यैव परीक्षकत्वम् ।
तथापि पूर्वपक्षोत्तरपक्षप्रत्याकलितनिष्कर्षभेदेन चतुष्पा-
द्व्यवहारप्रवर्त्तनात् फलतो न कश्चिद्विशेषः । एककर्त्तृ
कत्वेऽपि ताबत एव व्य पारकलापस्य विचारे विद्यमान-
त्वात् तस्मादप्यनिपुणो देशकस्तथाषि देश्यं सावगममेवं ति” ।
वस्तुतस्तु न प्रमाणोपन्यासस्तस्य प्रत्याकलितत्वेनाभि-
प्रोतः । किन्तु सभिककृतः प्रमाणोपष्टम्भककृत्तर्कादिपरा-
मर्श एव । यतो न शास्त्रीयकथायां व्यवहारवत्पूर्वप-
क्षोत्तरपक्षौ स्वामिमतसहेतुकसाध्यनिर्देशमात्रपरौ ।
किन्तु पूर्वपक्षिणा कण्टकोद्धारोत्तरपक्षदूषणपुरःसरं
स्वपक्षे स्थिरीकृते सिद्धान्तवादिना तदुभयप्रतिक्षेपेण स्वपक्ष-
साधकप्रमाणप्रख्यापन प्रथमं क्रियते । ततः स्थे-
यैस्तदुभयविवेकाख्यप्रत्याकलितेन निष्कर्ष एकतरपक्षनि-
र्द्धारणरूपः क्रियते । तावता कथासमाप्तिर्वादे, जल्पवित-
ण्डयोस्तु सभिकादीनामुत्तरोऽपि व्यापारो विद्यत
इत्यादि लक्षणमाकरे । अत्र तु साक्ष्यादिविलक्षणं
मानमुत्तरभेदेन नियत प्रागुपन्यासानर्हमिति न पूर्वोत्तर-
पादान्तरर्गतिस्तस्य । अतएव प्रत्याकलितस्यात्रोत्तरे कस्य
क्रियेत्यादिविमर्शस्य स्थेयकृतस्य पत्याकलितस्य प्राच्यत्वं
पृष्ठ २३२५
प्रमाणोपन्यासात्तत्र तु प्रतीच्यत्वमेव स्थेयकृतप्रमाणसा-
ध्वसाधुतां विनैकरूपता चेत्यस्तु विस्तरः । एवं प्रत्याक-
लितमाकलितम् । अधुना क्रियापादो विविच्यते । तत्र
कात्यायनः । वादिना यदभिप्रेतं स्वयं साधयितुं स्फु-
टम् । तत्साध्यं साधनं येन तत्साव्यं साध्यतेऽखिलम् ।
सारभूतं पदं मुक्त्वा निःसाराणि बहून्यपि । संसाधयेत्
क्रियायान्तु ताञ्जह्यात् सारवर्जिताम् । पक्षद्वयं साधयेद्या
ताञ्जज्याद्दूरतः क्रियाम् । क्रियां बलवतीमुक्त्वा दुर्बलां
योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तान्नाप्नुयात्
क्रियामिति” । ताम्बलवतीम् । तेन प्रागेव प्रबलं प्रमाण
मुद्भाव्यं दुर्बलप्रमाणालम्बनेन पराजितस्य पश्चात्प्रबल
प्रमाणोपन्यासावसरो नास्तीत्यर्थः । अतएवाह नारदः
“निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं
साक्षिणो वापि पूर्वमावेदितं नचेति” । निर्णिक्ते शोधिते
अन्यतरजयपराजयान्यतरावधारणं प्रापित इति यावत् ।
पूर्वमेव दुर्बलप्रबलसकलप्रमाणोपन्यासे कृते तु सर्वप्रमाणा-
नुसारेण छलं निरस्येत्यभिधानात् निर्णयः । पश्चादु-
द्भावितन्तु कृत्रिम वादिशङ्काकलङ्कितमित्यनुपादेयमेवेत्यर्थः ।
अतएव पूर्ववाक्येऽपि मुक्त्वेति पुनरिति चोक्तम् । सएव
“यथा पक्वेसु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णि-
क्तव्यवहाराणां प्रमाणमफलं तथति” । उत्तरे पत्रनि-
वेशिते साध्यसिद्धेः साधनाय तत्साधननिर्देशङ्कः कुर्य्यादि-
त्यपेक्षिते याज्ञवल्क्य आह “ततोऽर्थी लेखयेत्सद्यः प्रति
ज्ञातार्थमाधनम्” । तत उत्तरलिखनानन्तरमर्थी अर्थ्यत
इत्यर्थः साध्यं सोऽस्याऽस्तीत्यर्थी साध्यवान् सद्य
एवाविलम्बेन प्रतिज्ञातस्य प्रतिज्ञाविषयस्यार्थस्य साध्यस्य
साधनम् साध्यतेऽनेनेति साधनं प्रमाणम् । साधनादि लौकिक-
मलौकिकं वा लेखयेत् लेखकद्वारा । स्वयं वा लिखेदित्यपि
द्रष्टव्यम् दृष्टार्थत्वात् अत्र सद्य इति वदन्नु त्तराभि-
धाने कालबिम्बनमप्यनुमन्यते । तच्च विशेषपरिभाषायां
विवक्ष्यते । अर्थी लेखयेदित्यनेन सम्प्रतिपत्तौ न कस्याप्य-
र्थित्वमिति न कोऽपि साधनं लेखयेदिति पादद्वयेनैव
व्यवहारनिर्वाहः तथाचोक्तम् “द्विपात्सम्प्रतिपत्तिस्तिष्ठति
मिथ्योत्तरे पूर्ववादिन एवार्थित्वात् सएव साधनं
लेखयेत् । कारणोत्तरप्राङ्ग्यायोत्तरयोस्तुं प्रत्यर्थ्येव साध्य-
वान् कारणप्राङ्न्याययोस्तस्यैव साध्यत्वादिति स एव
लेखयेदित्युक्तं भवति । तेन “प्राङ्ग्यायकारणोक्तौ तु
प्रत्यर्थी निर्दिशेत् क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्र-
तिपत्तौ न सा भवेत् । मिथ्या क्रिया पूर्ववादे कारणे
प्रतिवादिनि । प्राङ्ग्यायेऽपि तथैव स्यात् प्रतिपत्तौ न सा
भवेदिति” व्यासादिस्मुत्युक्तोऽर्थिपदेन सङ्क्षेपतः सर्व
एवोक्तो भवति । अत्र चण्डेश्वरः “साहसस्तेयपारुष्य-
गोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्य-
त्रेच्छया स्मृतः” । इत्यत्र सद्यो विवादयेदुत्तरन्दापयेदित्य-
नेन प्रत्यर्थिपक्षस्य लिखने विलम्बप्राप्तौ साहसादिषु
तत्पक्षमपि सद्य एव लेखयेदिति योऽपवादः स यदि प्राग्-
भाषावादिपक्षलिखने विलम्बोक्त्यार्थप्राप्तः प्रत्यर्थि-
पक्षलिखनविलम्बः स्यात् तदैव घटते नान्यथेत्येतद्वा
क्यव्याख्याने यदर्थिपदेन प्रत्यवस्कन्दनप्राङ्ग्याययोः
प्रत्यर्थ्येवाऽर्थी जात इति स एव साधनं लेखयेदिति ।
प्रत्यर्थिनोऽपि ग्रहणमिति मिताक्षराकारव्याख्या-
नं तत्पूर्वापरविरोधान्मन्दमित्याह” । तदतिसाह-
सम् भाषोत्तरवादिपक्षमात्रलेस्वनपरत्वं यद्यनयोर्वा-
क्ययोस्तर्हि साधनपदान्वये समासानुपपत्तेः सन्दर्भ-
विरोधाच्च साधनलेखनस्यैवोत्तरलिखनोत्तरमाकाङ्क्षि-
तत्वात् साहसादिष्वप्युत्तरभेदव्यवस्थया द्वयोरपि पूर्व-
वाक्योपात्तसाधनलेखने सद्यस्त्वर्थाक्षिप्तोत्तरलेखनविलम्बा-
पवादोपपत्तेः । नचोत्तरलेखनं सर्वत्र प्रत्यर्थिन एवेति
तद्विलम्बानुमतिविमत्योस्तं प्रत्येव प्रतिपादनार्हमिति
वाच्यम् एतावतापि क्रियोपन्यासप्रतिपालवचनस्या-
र्थिपदेन भाषावादिमात्रग्रहणाग्रहे नियामकाभावात् ।
प्रत्युत मिथ्याक्रियेत्यादिवचनार्थसंग्रहाय द्वयोरपि ग्रह-
णमर्थिपदेनेत्यस्यैव युक्तत्वात् । एवं सति मिताक्षरायां
पूर्वापरविरोधापादनमज्ञानविलसितमेवेत्यास्तां तावत् ।
वृहस्पतिः “द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी
तथा । एकैकानेकधा भिन्ना मुनिभिस्तत्त्ववादिभिः ।
साक्षिलेख्यानुमानञ्च त्रिविधा मानुषी क्रिया” । साक्षि-
लेख्यानुमानमिति द्वन्द्वैकवद्भावः । “साक्षी द्वादशभेदस्तु
लिखितं दशधा स्मृतम् । अनुमानन्तु द्विविधन्नवधा
दैविकी क्रिया” । इदं संख्याभिधानन्न नियमाय भेदा-
न्तराणामपि प्रमाणप्रकरणे वक्ष्यमाणत्वात् । कात्यायनः
“लिखितं साक्षिणोभुक्तिः प्रमाणन्त्रिविधं विदुः । लेशो-
द्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः” । लेशोऽन्यथानु-
पपन्नो धर्मस्तस्योद्देशोविमर्शो युक्तिरित्यर्थः । “पूर्ववा-
देऽपि लिखिते यथाऽक्षरमशेषतः । अर्थी तृतीयपादे
तु क्रियया प्रतिपादयेत्” । पूर्ववादो भाषालिखितं पूर्व-
पृष्ठ २३२६
पक्षतया लिखितं उत्तरमिति यावत् । तृतीयपादः
प्रत्याकलिताख्यः तस्मिन् सति क्रियया प्रमाणेन प्रति-
पादयेत् साध्यमिति शेषः । भाषोत्तरप्रत्याकलिताख्य-
पादत्रये सति क्रियया स्वकार्य्यमर्थी साधयेदिति तात्प-
र्थ्यार्थः । कार्य्यक्रियाशब्दौ व्याचष्टे व्यासः “कार्य्यं
हि साध्यमित्युक्तं साधनन्तु क्रियोच्यते । द्विभेदा सा
पुनर्ज्ञेया मानुषी दैविकी तथेति” । साधनं प्रमाणं प्रत्या-
कलितस्य तृतीयव्यवहारपादत्वमभ्युपगच्छता स्मृतिच-
न्द्रिकाकारेणैवमिदं वचो व्याख्यातम् । मिताक्षराकार-
मते तु तृतीयपादक्रिययेति स एवार्थः । साक्षी-
द्वादशभेद इत्यादिप्रमाणप्रकरणे प्रपञ्चयिष्यामः । याज्ञ-
वल्क्यः “प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति-
तम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते” इति ।
दिव्येष्वन्यतममित्यर्थः । कात्यायनः “यद्येकी मानुषीं
ब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषीं तत्र गृह्णीया
न्नतु दैवीं क्रियां नृपः । यद्येकदेशप्राप्तापि क्रिया विद्येत
मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम्” ।
एकदेशप्राप्ता साध्यैकदेशविषया । अत्र यद्येको वादी
मानुषीं साक्ष्याद्यन्यतमां क्रियां स्वपक्षसाधकतयोपन्य-
सत्यन्यस्तु तत्प्रतिपक्षतया दैविकीन्तदर्थादितरवादि--पक्ष-
सिध्यसिध्योः सुलभत्वेन न दिव्यापेक्षेति प्रथमवचनार्थः ।
एवमेकोऽपि वादी साध्यानेकत्वे साध्यैकदेशमपि यदि
प्रमाणेन साधयति तदैकदेशविभावितन्यायेनैकदेशान्तर-
स्यापि सिद्धेर्वक्ष्यमाणत्वान्न दिव्यावसर इति द्वितीय-
याक्यार्थः । दिव्यस्वरूपप्रमाणयोरागमैकगम्यत्वान्मानुष
प्रमाणसम्भव एव दिव्यस्य प्रामाण्यमिति मुनिवचननि-
चयपर्य्यालोचनयावगम्यते । अन्यान्यपि क्वचित् क्वचि-
त्केषाञ्चित् प्रमाणानां प्राधान्यामिप्रायेण व्यवस्थापकानि
वचनान्यृषीणां यथा “क्रिया न दैविकी प्रोक्ता विद्य-
मानेषु साक्षिषु । लेख्ये च सति वादेषु न स्याद्दिव्यं न
साक्षिणः” इति कात्यायनः । पितामहः “स्यावरेषु विवा-
देषु दिव्यानि परिवर्ज्जयेत् । साक्षिभिर्लिखितेनाथ
भुक्त्या चैतान् प्रसाधयेत्” । इदमपि साक्ष्यादिसमक्षं
स्थावरविषयविवादेषु सुलभमतस्तत्सम्भवान्वेषणमेव
कार्यमित्येवम्परन्न सर्वथा दिव्यपरिहारपरम् । सर्वथा
साक्षाद्यसम्भवेऽपि दिव्याग्रहणे निर्णयाभावप्रसङ्गात् ।
कात्यायनः “दत्तादत्तेषु भृत्यानां स्वामिनां निर्णये
सति । विक्रीयादानसम्बन्धे क्रीत्या धनमनिच्छति । द्यूते
समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं
प्रोक्तन्न दिव्यं नच लेख्यकम् । पूगश्रेणीगणादीनां या
स्थितिः परिकीर्त्तिता । तस्यास्तु साधनं लेख्यन्न दिव्यन्न
च साक्षिणः । द्वारमार्गक्रियाभोग जलवाहादिषु क्रिया ।
भुक्तिरेव तु गुर्व्वी स्यान्न दिव्यं नच साक्षिणः” । दत्ता-
दत्ते प्रतिश्रुत्याप्रदाने दत्त्वा पुनः प्रत्यावृत्य ग्रहणे
वा दत्ताप्रदानिके विवादपद इति यावत् । भृत्यानामि-
त्यादिना वेतनादाने । विक्रीयादानेत्यादिना क्रयविक्र-
यानुशये इतरद्व्यक्तम् । दत्तादत्तादिषु वृद्धानां लिखित-
करणाप्रसिद्धेर्भुक्तेश्चासम्भवात् साक्षिणश्च तादृशविषये
सुलभत्वान्मानुषप्रमाणसम्भवे च दिव्यासम्भवान्न दिव्यं
नच लेख्यकमित्युक्तम् । पूगादीनां संविदि तु बहुकर्तृ-
कायां लिखितं विना न निर्वाहः सर्वेषां व्यवहर्तृ-
त्वान्नोदासीनसाक्षिसम्भवो मानुषसत्त्वे च दिव्यानवकाश
इत्यभिसन्धायामिहितन्न दिव्यं च साक्षिण इति ।
द्वारनार्गादिष्वपि गमनागमनादिरूपभोगस्यैव परं भावा-
ल्लेख्यस्य चाप्रसिद्धेर्मानुषाभाव एव च दिव्यावकाशान्न
दिव्यमित्यादि भुक्तिरेव तु गुर्व्वी त चोक्तम् । एवं सर्व-
वचनानि विवेचनीयानि । अतएव “अरण्ये निर्जने
रात्रावन्तर्वेश्मनि साहसे । न्यासापह्नवने चैव दिव्या
सम्भवति क्रियेति” नारदेन सम्भवतीत्युक्तम् । स एव
“यदा साक्षी न विद्येत विवादे वदतां नृणाम् । तदा
दिब्यैः परीक्षेत शपथैश्च वृथग्विधैः । स्त्रीणां शीलामि-
योगे च स्तेयसाहसयोरपि । एष एव विधिर्दृष्टः सर्वा-
र्थापह्नवेषु चेति” । कात्यायनः “गूढसाहसिकानान्तु
प्राप्तं दिव्यैः परीक्षणम् । युक्तिलेशेङ्गिताकारवाक्चक्षु-
श्चेष्टितैर्नृणाम् । अलेख्यसाक्षिके दैवीं व्यवहारे विनि-
र्दिशेत् । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत्” ।
वृहस्पतिः “मणिमुक्तप्रबालानां कूटकृन्न्यासहारकः ।
हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा ।
महापापाभिशापेषु निःक्षेपहरणे तथा । दिव्यैः कार्य्यं
परीक्षेत राजा सत्स्वपि साक्षिषु । चिरन्तनोपांशुकृत-
चिरनष्टेषु साक्षिषु । पदुष्टेषु समानेषु दिव्यैः कार्य्यं
विशोधयेत्” । अत्र सत्स्वपि साक्षिष्वित्यनेनैतादृशि
विषये साक्षिण एव तावन्न सम्भवन्ति । सम्भवन्तोऽपि वा
कथञ्चित्कूटतया प्रायः प्रदुष्टा इति विवक्षितं न तु
यथाश्रुतम् । चिरन्तनकृते उपांशुकृते रहसि कृते इत्यनेन
लेख्याद्यसम्भवमेवोपलक्षयति । अतएवाग्रे चिरनष्टषु
पृष्ठ २३२७
प्रदुष्टेषु समानेष्वित्यनेनासाक्षिवन्निमित्तान्युपलक्षितवान् ।
व्यासः “प्रथमे यत्र भिद्यन्ते साक्षिणश्च तथाऽपरे ।
परेव्यश्च तथाचान्ये तं वादं शपथैर्नयेत्” । भिद्यन्ते प्रभेदं
प्रतिपद्यन्ते । कात्यायनः “समत्वं साक्षिणां यत्र दिव्यै-
स्तत्रापि शोधयेत् । प्राणान्तिकविवादेषु विद्यमानेषु
साक्षिषु । दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः” ।
साक्षिषु विद्यमानेष्वपि तत्र दोषावष्टम्भेन दिव्यमालम्बत
इत्यर्थः । समत्वं साक्षिणां यत्रेति । यत्रोभाम्यां भाषा-
वादिभ्यामुपन्यस्तानां साक्षिणां गुणतः सङ्ख्यातश्च
तुल्यत्वमित्यर्थः । व्यासः “न मयैतत्कृतं लेख्यं कूटमे-
तेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येन
निर्ण्णयः” । लेख्यदोषोद्भावने लेख्ये निर्णयाक्षमे तदारूढ-
साक्षिषु सुतरां दण्डापूपकन्यायेन दोषोद्भावनान्मानुषा-
सम्भवे दिव्येन निर्णयः कार्य्य इत्यर्थः । प्रजापतिः
“यन्नामगोत्रैर्य्यल्लेख्यं तुल्यं लेख्यं क्वचिद्भवेत् ।
अगृहीतधने तत्र कार्य्यो दिव्येन निर्णयः” । मूललेख्येन
नामगोत्रैस्तुल्यं लेख्यान्तरविपरीतार्थं यदा तदा तदप्रमा-
णीकृत्य दिव्येन निर्णयः कार्य्य इत्यर्थः । कात्यायनः
“यत्र स्यात्सोपधं लेख्यं तद्राज्ञे श्रावितं यदि ।
शोधयेत्तत्तु दिव्येन राजा धर्मासनस्थितः” । सोपधं यत्र
छलकृतं यच्च मिथ्योत्तरे पूर्बवादिनः क्रियादानं नोत्तरवा-
वादिन इति प्रागुक्तं तत्र भाषावादिनो मानुषप्रमाणस-
म्भवादुत्तरवादिनश्च तदसम्भवान्मानुषसम्भवे च दिव्यानव-
सरादिति न्यायमूलमिति । यदि तत्रापि भाषावादिनो
दिव्यभिन्नप्रमाणाभावस्तदा “न कश्चिदभियोक्तारं दिव्ये-
षु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं
दिव्यविशारदैरिति” कात्यायनीयादुत्तरवादिन एव दिव्यं
देयम् । पूर्वार्द्धेनार्थिनो दिव्यनिषेधात् प्रत्यर्थिनोऽर्था-
त्सिद्धौ पुनः परार्द्धेन तद्विधाने सिद्धे सत्यारम्भो
नियमायेति न्यायेन निषेधदार्ढ्यार्थत्वम् । प्राङ्ग्यायकारणो-
त्तरयोः क्रियापदमुभयक्रियापरमपि मिथ्योत्तरे मानुषमा-
त्रपरं कात्यायनीयानुरोधात् । नचैवमनुषङ्गानुपपत्तिः
तदर्थकतयोभयान्वयस्यानुषङ्गहेतुत्वन्न यावदर्थकत्वस्य विरु-
द्धार्थकत्वे व्यवायवत्सन्निधिबाधेनानुषङ्गस्य तुल्ययोगि-
तानिबन्धनस्य भङ्गः किञ्चिदर्थानन्वयेऽपि तुल्ययोग्य-
तायाः सत्त्वात्तदभङ्गात् । थदा तु प्रत्यर्थी सन्दिहान
स्तदा तस्याधिकारनिश्चयाभावान्मानुषप्रमाणाभावेऽपि न
दिव्यं किन्त्वर्थिनोऽधिकारनिश्चयादिति ध्येवम् । नच “न
कश्चिदिति” कात्यायनवचनविरोधः अधिकारानिश्चये
तत्प्रवृत्त्यसम्भवात् । ‘धनं धनी साधयतीति’ लोकप्रवादोऽपी-
दृग्विषयाभिप्रायक एव । यत्र विवादविषये प्रत्यर्थी स
न्दिहानस्तत्र तस्योत्तरानर्हतयेति व्यवहारतत्त्वलिखन-
न्त्वतत्त्वमेव अज्ञानरूपमिय्योत्तरार्हत्वात् । अज्ञानस्य
निश्चयाभावरूपस्य सन्देहेऽपि सम्भवात् प्रत्यर्थिन एव
सर्वत्रोत्तरकर्त्तृत्वाच्च । यदा तु द्वयोरपि मानुषप्रमाणा-
भावो दिव्यानध्यवसायश्च तदा निर्णयोपायमाह पिता-
महः “लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः ।
न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः । निश्चेतुं
येन शक्याः स्युर्वादाः सन्दिग्धरूपिणः । तेषां नृपः प्रमा-
णं स्यात्सर्वस्य प्रभुरिष्यते” इति । तादृग्व्यवहारे नृपेणै-
वोभयापीड़या स्वेच्छया काञ्चन व्यवस्थां कृत्वा देया
सोभाभ्यान्नातिक्रमर्णायेत्यर्थः । दिव्यावान्तरभेदादि सर्वदि-
व्यप्रकरणे वक्ष्यामः ।

क्रियाफल न० ६ त० । “उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्च

चतुर्विधम् । क्रियाफलं प्राहुरार्य्या” कैवल्ये तन्न विद्यते”
वेदा० प्र० उक्ते १ कर्म्मफके उत्पत्त्यादौ, २ यागादिजन्ये
पुण्यापुण्यादौ च । क्रियाजन्ये तृप्तिस्वर्गादिरूपे प्रयो-
जनापरपर्य्यायरूपे ३ फले “स्वरितञितः कर्त्त्रभिप्राये
क्रियाफले” पा० । विवृत्तञ्चैतदस्माभिः शब्दार्थरत्ने यथा
“स्वरितञिद्धातूत्तरतङः कर्त्तृगामिन्येव सति क्रियाफ-
ले कर्त्तृवाचकत्वं नान्यथा तत्र फलञ्च न धातूपस्थाप्यं,
जानात्यादीनां ज्ञानरूपफलस्य समवायेन कर्त्तृनिष्ठतया
सर्वदैव जानीतेऽत्येव प्रयोगापत्तेः जानातीत्यादेरपला-
पापत्तेश्च नेष्यते तु तथा शास्त्रकारैः । नापि क्रियाजन्यवे-
तनदक्षिणारूपलाभादि गौणं फलमिह विवक्षितं तथा
सति सूदादेस्तादृशफलवत्त्वेन सूदः पचते ऋत्विजोयजन्ते
इत्यादिप्रयोगापत्तेः । किन्तु फलतीति व्युत्पत्त्या प्रयोज-
नापरनाम क्रियाजन्यं तृप्तिस्वर्गादिरूपमेव मुख्यं फलं
ग्राह्यं यथोक्तं हरिणा “यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते
पचादयः । तत् प्रधानं फलं तासां न लाभादि प्रयोजन-
मिति” । प्रसिद्ध्यर्थं निष्पत्त्यर्थं पचादयः पाकादयः । तत्
तासां पचादीनां प्रधानं फलमित्यर्थः । फलस्य प्राधान्य-
ञ्चेतरापेक्षया बोध्यं तेन इतरेच्छानधीनेच्छाविषयत्वस्य
तस्य सुखादिष्वेव सत्त्वेऽपि क्वचित्साक्षात्सुखादिरूप
प्रयोजनालाभे तत्साधनरूपेपरफख्स्यापि ग्रहणमिति
द्रष्टव्यम् । तेन अपाद्वदैत्यादिसूत्रविहिततङः सुखादि-
पृष्ठ २३२८
रूपमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम् । क्रियोद्देश्ये
संयोगविभागादिरूपे फलविशिष्टष्यापारस्य धात्वर्थ-
तावादिमते धात्वर्थतावच्छेदकरूपे ४ फले पृथक्शक्तिवा-
दिमते कर्त्त्राख्यातस्थले तद्धातूपस्थाप्ये धात्वर्थाऽंशे
विशेषणतया भासमाने तद्धातुजन्ये ५ संयोगादिके फले च ।
इत्थमेव शब्दार्थरत्नेऽस्माभिर्दर्शितं यथा
“तत्र फलतीतिव्युत्पत्त्या फलं नाम तद्धात्वर्थजन्यं संयोग
विभागादि, गम्यादौ विभागस्य फलत्ववारणाय तद्ध्वातू-
पस्थाप्यत्वेन विशेषणेऽपि विभागाजन्यसंयोगस्य
पतनफलत्वमते विभागस्य तद्धात्वर्थजन्यत्वात् तद्धातूपस्थाप्यत्वा-
दतिव्याप्तिरतस्तद्धात्वर्थे विशेषणतया भासमानत्वेनैब
विशेषणीयं गम्यादौ च विभास्य तद्धात्वर्थे विशेषणतया
भासमानत्वाभावात् न फलत्वप्रसङ्गः । मञ्जूषाकृन्मते
तु कर्त्तृप्रत्ययस्थले तथाभासमानत्वमिति विवेकः ।
क्रियाविशेषणादेर्धात्वर्थे विशेषणत्वेऽपि तज्जन्यत्वाभावा-
न्न फलत्वप्रसङ्गः । विशेषणत्वञ्च साक्षादेव विवक्षितं तेन
घटं करोतीत्यादौ घटादेः धात्वर्थक्रियाजन्यस्य विभक्त्य-
र्थद्वारा तद्विशेषणत्वेऽपि न फलत्वापत्तिः” इति ।

क्रियाभ्युपगम पु० क्रियायाः कर्षणादिक्रियार्थमभ्युपगमः

चतुर्थ्यर्थे ६ त० । अत्र क्षेत्रे उत्पन्नस्य शस्यस्य उभयोः
फलभागितेतिनियमेन कर्षणाद्यर्थमन्यक्षेत्रस्वीकारे ।
“क्रियाभ्युपगमात्त्वेतद्वीजार्थं यत् पदीयते । तस्येह
भागिनौ दृष्टौ वीजी क्षेत्रिक एव च” मनुः ।

क्रियाभ्यावृत्ति स्त्री क्रियाया अभ्यावृत्तिः । क्रियायाः

पौनपुन्ये । “क्रियाभ्यावृत्तिगणने कृत्वसुच्” पा० ।
विवृतमेतदस्माभिः शब्दार्थरत्ने यथा
“क्रियायाएव पौनःपुन्यसम्भवेनाभ्यावृत्तिपदेनैव क्रिया-
प्राप्तौ पुनः क्रियाग्रहणेन इतराशे विशेषणतानापन्नसा-
ध्यक्रियाया एवाभ्यावृत्तौ तेषां साधुत्वज्ञापनात् पञ्चकृत्वः-
पचतीत्येव प्रयोगः नतु पञ्चकृत्वःपाकैत्यपि । केचित्तु
“द्विर्ब्बचनेऽचीति” पा० निर्द्देशात् साध्यरूपकियान्वये
एव तेषां साधुत्वं तेन भावघञत्तादावपि धातुना साध्य-
क्रियाया अभिधानात् पञ्चकृत्वः पाक इत्यपि भवत्येव ।
सिद्धरूपक्रियायां तदन्वयविवक्षायां तु नैवं तेन तत्र पञ्च
इत्येव स्यादिति प्राहुः”

क्रियायोग पु० क्रियैव योगः योगोपायः । “तपःस्वाध्यायेश्वर

प्रणिधानानि क्रियायोगाः” इति पातञ्जलसूत्रमाष्याद्युक्ते
योगोपायभूते क्रियाभेदे । तस्य योगोपायत्वादिदर्शकं
तद्वाक्यं कर्म्मयोगशब्दे ४७११ पृ० दर्शितम् । “ज्ञानयोगस्तु
योगस्य यस्तु साधनमात्मना । यस्तु बाह्यार्थसंयोगः क्रि-
यायोगः स उच्यते । प्रधानं कारणं योगोमुक्तेर्मुनि-
वरोत्तम! । क्रियायोगस्तु योगस्य परमं तच्च साधनम्”
अग्निपु० । मत्स्यपु० ५२ अ० विस्तरेणोक्तं यथा
“कर्म्मयोगञ्च वक्ष्यामि यथा विष्णुविभाषितम् ।
ज्ञानयोगसहस्राद्धि कर्म्मयोगः प्रशस्यते । कर्म्मयोगो-
द्भवं ज्ञानं तस्मात्तत्परमम्पदम् । कर्म्मज्ञानोद्भवं ब्रह्म
न च ज्ञानमकर्म्मणः । तस्मात कर्म्मणि युक्तात्मा
तत्त्वमाप्नोति शाश्वतम् । वेदोऽखिलो धर्म्ममूलमाचारश्चैव
तद्विदाम् । अष्टावात्मगुणास्तस्मिन् प्रधानत्वेन संस्थिताः ।
दया सर्वेषु भूतेषु क्षान्तीरक्षाऽऽरतुस्य तु । अनसूया
तथा लोके शौचमन्तर्बहिर्द्विजाः! । अनायासेषु कार्येषु
माङ्गल्याचाससेवनम् । न च द्रव्येषु कार्पण्यमार्तेषूपा-
र्जितेषु च । तथाऽस्पृहा परद्रव्ये परस्त्रीषु
च सर्व्वदा । अष्ठावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः ।
अयमेव क्रियायोगो ज्ञानयोगस्य साधकः । कर्म्मयोगं
विना ज्ञानं वस्यचिन्नेह दृश्यते । श्रुतिस्मृत्युदितं धर्म-
मुपतिष्ठेत् प्रयत्नतः । देवतानां पितॄणाञ्च मनुष्याणाञ्च
सर्व्वदा । कुर्यादहरहर्यज्ञैर्भूतर्षिगणतर्पणम् । स्वाध्या-
यैरर्चयेच्चर्षीन् होमैर्विद्वान् यथाविधि । पितॄन् श्राद्धैर-
न्नदानैर्भूतानि वलिकर्म्मभिः । पञ्चैते विहिता यज्ञाः
पञ्चसूनापनुत्तये । कण्डनी पेषणी चूल्ली जलकुम्भी
प्रमार्जनी । पञ्च सूना गृहस्थस्य तेन स्वर्गे न गच्छति ।
तत्पापनाशनायामी पञ्चं यज्ञाः प्रकीर्तिताः । द्वाविंशति
स्तथाष्टौ च ये संस्काराः प्रकीर्त्तिताः । तद्युक्तोऽपि न
मोक्षाय यस्त्वात्मगुणवर्जितः । तस्मादात्मगुणोपेतः श्रुति-
कर्म्म समाचरेत् । गोब्राह्मणानां वित्तेन सर्वदा भद्रमा-
चरेत् । गोभूहिरण्यवासोभिर्गन्धमाल्योदकेन च ।
पूजयेद् ब्रह्मविष्ण्वर्करुद्रवस्वात्मकं शिवम् । व्रतोपवासै
र्विधिवत् श्रद्धया च विमत्सरः । योऽसावतीन्द्रियः शान्तः
सूक्ष्मोऽव्यक्तः सनातनः । वासुदेवो जगन्मूर्त्तिस्तस्य
सम्भूतयो ह्यमो । ब्रह्मा विष्णुश्च भगवान् मार्त्तण्डो
वृषवाहनः । अष्टौ च वसवस्तद्वदेकादशगणाधिपाः ।
लोकपालाधिपाश्चैव पितरो मातरस्तथा । इमा विभूतयः
प्रोक्ताश्चराचरसमन्विताः । ब्रह्माद्याश्चतुरो मूलमव्यक्ता-
धिपतिः स्मृतः । ब्रह्मणा चार्थ सूर्येण विष्णुनाथ शिवेन
वा । अभेदात् पूजितेन स्यात् पूजितं सचराचरम ।
पृष्ठ २३२९
ब्रह्मादीनां परन्धाम त्रयाणामपि संस्थितिः । वेदमूर्ता-
वतः पूषा पूजनीयः प्रयत्नतः । तस्मादग्निद्विजमुखान्
कृत्वा सपूजयेदिमान् । दानैर्व्रतोपवासैश्च जपहोमादिना
नरः । इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्-
सलस्य । विकर्म्मभीतस्य सदा न किञ्चित् प्राप्तव्यमस्तीह
परे च लोके” । २ क्रियासम्बन्धे “उपसर्गाः क्रियायोगे”
पा० पद्मपुराणे क्रियायोगसारे विवृतिः ।

क्रियार्थ त्रि० क्रिया अनुष्ठानमर्थोऽभिधेयोयस्य । कर्त्तव्यवि-

धिबोधके वेदादिवाक्यभेदे तादृशवाक्यखौव प्रामाण्यम्
मीमांसायां स्थापितं यथा
“आम्नायस्य क्रियार्थत्वादानार्थक्यमतदार्थानाम्” जै० सू० ।
“क्रिया कथमनुष्ठेया इति तां वदितुं समाम्नातारो
वाक्यानि समासनन्ति यानि क्रियां नावगमयन्ति क्रिया-
सम्बद्धं वा किञ्चित् तान्येव भूतमर्थमन्वाचक्षते”
“अतस्तेषामानर्थक्यम् (अप्रामाण्यम्)” इति च शवरमा० ।
“चोदनालक्षणोऽर्थो धर्म्मः” जै० सू० । “चोदनेति क्रियायाः
प्रवर्त्तकं वचनमाहुः । चोदना हि भूतं भवन्तं भविष्यन्तं
सूक्ष्मं व्यवहितं विप्रकृष्टमित्येव्रंजातीयकमर्थं शक्नो-
त्यवगमयितुं नान्यत् किञ्चनेन्द्रियमिति” भा० । तेन क्रि-
याप्रवर्त्तकवेदभागानामेव प्रामाण्यम् अर्थवादानां
भूतार्थानां तु क्रियार्थेन सहैक वाक्यत्वाद् प्रामाण्यं यथाह
तत्रैव “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः”
जै० सू० । “वायव्यं श्वेतमालभेत भूतिकामः” “वायु-
र्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागेनोपधावतीति
सएवैनं नूतिं गमयतीति” वायुर्वैक्षेपिष्ठा देवतेत्यत्र यद्यपि
क्रिया नावगम्यते क्रियासम्बद्धं किञ्चित्, तथापि विध्यु-
द्देशैनैकवाक्यत्वात् प्रमाणं भूतिकामैत्येवमन्तोविध्यु-
द्देशः तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः” ।
“पदानां साकाङ्क्षत्वात् विधेः स्तुतेश्चैकवाक्यत्वं भवति
भूतिकाम आलभेत, कस्मात्? यतो वायुःक्षेपिष्ठेति” ।
“स्तुत्यर्थेम विधीनां स्युः स्तुतिशब्दाः स्तुवन्तः क्रियां,
प्ररोचयमानाः अनुष्ठातॄणामुपकरिष्यन्ति क्रियायाः” इति
च भा० । “तद्भूतार्थानां तु क्रियार्थेन समाम्नायः” जै०
सू० तेन सहैकवाक्यात् प्रामाण्यमिति स्थितम् । तदेतन्मतं
विशदीकृत्य पूर्बपक्षीकृत्य शा० सू० भाष्याभ्यां निराकृतं यथा
“कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते? यावता
‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” इति क्रिया-
बरत्वं शास्त्रस्य प्रदर्शितम्, अतोवेदान्तानामानर्थक्यम्, अ-
क्रियार्थत्वात् । कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियावि-
धिशेषत्वमुपासनादिक्रियान्तरविधानार्थत्वं वा । न हि
परिनिष्ठितवस्तुस्वरूपप्रतिपादनं सम्भवति प्रत्यक्षादिवि
षयत्वात् परिनिष्ठितवस्तुनः । तत्प्रतिपादने च हेयोपादेय-
रहिते पुरुषार्थाभावात् । अत एव “सीऽरोदीत्” इत्या-
दीनामानर्थक्यं मा भूदिति “विधिना त्वेकवाक्यत्वात् स्तु-
त्यर्थेन विधीनां स्युः” इति स्तावकत्वेनार्थवत्त्वमुक्तम् ।
मन्त्राणाञ्च “इषे त्वा” इत्यादीनां क्रियातत्साधनाभिधायित्वेन
कर्मममबायित्वमुक्तम् । न क्वचिदपि वेदवाक्यानां विधि-
संस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा । न च
परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वा-
द्विधेः । तस्मात् कर्म्मापेक्षितकर्त्तृदेवतादिस्वरूपप्रकाशनेन
क्रियाविधिशेषत्वं वेदान्तानाम् । अथ प्रकरणान्तरभया-
न्नैतदभ्युपगम्यते तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम् ।
तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते” भाष्यम् ।
“तत्तु समन्वयात्” शारीरकसूत्रम् ।
“तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । तद् ब्रह्म सर्वज्ञं सर्वशक्ति
जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादवगम्यते ।
कथम्? समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्यानि तात्-
र्य्येणैव तस्यार्थस्य प्रतिपादकत्वेन समनुगतानि “सदेव
सौम्येदमग्र आसीत्” “एकमेवाद्वितीयं ब्रह्म” “आत्मा वा
इदमेक एवाग्र आसीत्” “तदेतद् ब्रह्मापूर्वमनपरमनन्त-
रमबाह्यम्” “अयमात्मा ब्रह्म सर्व्वानुभूः” “ब्रह्मवेदमृतं
पुरस्ताद्” इत्यादीनिं । न च तद्गतानां पदानां ब्रह्मस्वरूप-
विषये निश्चिते समन्वयेऽवगम्यमानेऽर्थान्तरकल्पना युक्ता,
श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । न च तेषां कर्त्तृदेवतादि-
स्वरूपप्रतिपादनपरतावसीयते । “तत् केन कं पश्येद्”
इत्यादिक्रियाकारकफलनिराकरणश्रुतेः । न च परिनि-
ष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वम् । “तत्त्वम-
सि” इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् ।
यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति नैष दोषः
हेयोपादेयशून्यब्रह्मात्मावगमादेव सर्वक्लेशप्रहाणात्
पुरुशार्थसिद्धेः” । तत्रैव सूत्रे व्याख्यानशेषे
“यदपि शास्त्रतात्पर्य्यबिदामनुक्रमणम् । “दृष्टो हि
तस्यार्थः कर्मावबोधनमित्येवमादिः” तद्धर्म्मजिज्ञामाविषयत्वा-
द्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्ठव्यम् । अपि च आम्रा-
यस्य क्रियार्थत्वादानाथक्यमतदर्थानाम्” इत्येतदेकान्ते-
नाम्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गः प्रवृत्तिनिवृत्ति-
पृष्ठ २३३०
विधितच्छेषव्यतिरेकेण भूतञ्चेद्वस्तूपदिशति भव्यार्थ-
त्वेन„ कूटस्थनित्यं भूतं नोपदिशतीत्यत्र को हेतुः ।
न हि भूतमुपदिश्यमानं क्रिया भवति । अक्रियात्वेऽपि
भूतस्य क्रियासाधनत्वात् क्रियार्थ एव भूतोपदेश इति
चेत्, नैष दोषः क्रियार्थत्वेऽपि क्रियानिर्वर्त्तनशक्ति-
मद्वस्तूपदिष्टमेव । क्रियार्थन्तु प्रयोजनं तस्य । न चैता-
वता वस्त्वनुपदिष्टं भवति । यदि नामोपदिष्टं किं तवं
तेन स्यादिति? उच्यते, अनवगतात्मवस्तूपदेशश्च तथैव
भवितुमर्क्षति, तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्नि-
वृत्तिः प्रयोजन क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाध-
नवस्तूपदेशेन । अपि च “ब्राह्मणो न हन्तव्यः” इति
चैवमाद्या निवृत्तिरुपदिश्यते । न च सा क्रिया नापि
क्रियासाधनम् । अक्रियार्थानामुपदेशोऽनर्थकश्चेत् ब्रा-
ह्मणो न हन्तव्यः” इत्यादिनिवृत्त्युपदेशानामानर्थक्यं
प्राप्तं, तच्चानिष्टम् । न च स्वभावप्राप्तहन्त्यर्थानुरागेण
नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृ-
त्त्यौदासीनव्यतिरेकेण । नञश्चैष स्वभावी यत् स्वसम्ब-
न्धिनोऽभावं बोधयति, अभावबुद्धिश्चौदासीन्यकारणं सा
च दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति, तस्मात् प्रसक्त-
क्रियाया निवृत्त्यौदासीन्यगेव “ब्राह्मणो न हन्तव्यः”
इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजापतिव्रता-
दिभ्यः । तस्मात् पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थ-
वाक्यानामानर्थक्याभिधानं द्रष्टव्यम् । यदप्युक्तं कर्त्त-
व्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात्
(सप्तद्वीपा वसुमतीत्यादिवदिति) तत् परिहृतं रज्जुरियं
नायं सर्प इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात्”
भा० । क्रिया अर्थः प्रयोजनं यस्य । २ क्रियानिमित्ते
त्रि० । “तुमुण्ण्वुलौ क्रियार्थायां क्रियायाम्” पा० ।

क्रियावत् त्रि० क्रियाऽस्त्यस्य मतुप् मस्य वः । १ क्रियाविशिष्टे

२ क्रियानिरते अमरः “यः क्रियावान् सपण्डितः” चाण० ।
“त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम्” भा०
व० ३ अ० । ३ क्रियाश्रये कर्त्तरि च “पश्चात् क्रियावता कर्त्त्रा
योगोभवति कर्म्मणा” हरिः । कृतपूर्व्विशब्दे दृश्यम् ।

क्रियावसन्न त्रि० क्रिययाऽवसन्नः । साक्ष्यादिप्रमाणेनावसन्ने

पराजिते वादिनि प्रतिवादिनि च । “यस्योचुः साक्षिणः
सत्यां प्रतिज्ञां स जयो भवेत्” इत्युपक्रम्य “स्वयमभ्युप-
न्नोऽपि स्वचर्य्यावसितोऽपि सन् । क्रियावसन्निऽप्यर्हेत
परं सभ्यावधारणम्” व्य० त० नारदः । क्रियावसन्नः
साक्ष्यादिना प्राप्तपराजयः” रघुनन्दनः ।

क्रियावादिन् त्रि० क्रियां क्रियासाध्यं वदति वद--णिनि ।

व्यवहारे साक्ष्यादिप्रमाणरूपक्रियासाध्ययुक्ते वादि-
नि (फैरादी) मिता० ।

क्रियाविशेषण न० ६ त० । धात्वर्थसाध्यरूपक्रियायाः शाब्द-

बोधे विशेषणत्वेन भासमाने पदार्थे । शब्दार्थरत्ने विवृतिः
“आख्यातं सकारकविशेषणमिति” भाष्योक्तवाक्यलक्षणे
विशेषणपदस्य कारकविशेषणक्रियाविशेषणोभयपरतया
कारकविशेषणानां क्रियाविशेषणानां कारकभिन्नसम्बो-
धनादीनां च वाक्यघटकत्वम् । तानि च वाक्यपदीये
कतिचित् संगृह्य प्रदर्शितानि यथा “संबोधनान्तं कृत्वो-
ऽर्थः कारकं प्रथमोवतिः । धातुसम्बन्धाधिकारनिष्पन्नम-
नमस्तनञ् । तथा यस्य च भावेन षष्ठी चेत्यु दितं
द्वयम् । सम्बन्धश्चाष्टकस्यास्य क्रिययैवावधार्य्यताम्” ।
अत्र यद्यपि सम्बोधनस्य सर्व्वत्र प्रकृतक्रियान्वयित्वं न
सम्भवति तथापि जानीहीत्यध्याहृतक्रियान्वयितया
तस्याश्च प्रकृतक्रियायामन्वयात् परम्परया भवत्येव प्रकृत-
क्रियान्वयित्वम् । तथाहि “सिद्धस्याभिमुखीभावमात्रं
सम्बोधनं विदुः । प्राप्ताभिमुख्यः सम्बोध्यः क्रियासु
विनियुज्यते” इति वाक्यपदीये क्रियासु नियोज्यस्यैव
संबोध्यतोक्त्या विनियोगविषयक्रियायामेव तस्य माधुत्वात्
ब्रजानि देवदत्तेत्यादौ तु देवदत्तस्य गमनक्रियायां
विनियोगाभावेनाध्याहर्त्तव्यायां जानीहीत्यादिक्रियाया-
मेवान्वयौचित्यात् तत्क्रियायाञ्च व्रजानीत्यादिक्रियाया
विषयत्पादिसम्बन्धेन विशेषणत्वादेकवाक्यत्वम् । अन्यथा
व्रजानि देवदत्तेत्यनयोरुभयवाक्यघटकत्वे तयोश्च परस्पर-
नन्वयेनैकवाक्यत्वाभावेन समानवाक्यमात्रविषयनिघातानुप-
पत्तेः । तथाहि पदादित्यधिकृत्य सर्व्वमनुदात्तमपदादा-
विति” चोपक्रम्य आमन्त्रितस्य चेति” सूत्रेण अष्टमाध्याये
पदादुत्तरवर्त्तिनो ऽपादादिस्थितस्यामन्त्रितस्य षष्ठाध्याय-
विहिताद्युदात्तत्वं निहत्य सर्व्वामुदात्तत्वं विहितं
वार्त्तिककारेण च “समानवाक्ये निघातयुष्मदस्मदादेशाः”
इत्यनेन आद्युदात्तत्वनिवातः एकवाक्यएव ध्यवस्थापि-
तोऽतः ब्रजानि देवदत्तेत्यनयोरुक्तरीत्येकवाक्यत्वएव
निघातो नान्यथेति । उक्तञ्ज वाक्यपदीये “संबोधनपदं यच्च
तत् क्रियायाविशेषणम् । व्रजानि देवदत्तेति निघातोऽत्र
पृष्ठ २३३१
तथासतीति” । अत्रेदं बोध्यम् विशेष्यतेऽनेनेति व्युत्प-
त्त्या विशेषणपदं भेदाभेदान्यतरसम्बन्धेनान्वयिविशेषणपरं
तत्र कारकादीनां भेदसम्बन्धेन क्रियायामन्वयात् भेदवि-
शेषणत्वम् स्त्रोकं पचतीत्यादौ तु विक्रित्तिरूपधात्वर्थफले,
द्रुतं गच्छतीत्यादौ धत्वर्थव्यापारे गत्यादौ च अभेदेनान्व-
यात्स्तोवादेरभेदविशषणत्वम् । अत्रायं भेदः साध्यरूपक्रि-
याया विशेषणत्वे तस्याश्च लिङ्गसंख्यान्वयित्वाभावेन तद्विशे-
षणस्य साममान्यत्वात् क्लीवता उत्सर्गतोभावाख्यातवदेकव-
चनान्तता च तेन स्तोकं पच्यते इत्यादि साधु । घञद्यान्ते
तु साष्यसिद्धोभयक्रिययोर्धातुप्रत्ययाभ्यां बोधनस्य क्रिया-
शब्दे दर्शितत्वेन धातुबोध्यसाध्यरूपक्रियाविशेषणत्वविव-
क्षायामेकवचनक्लीवता घञ्वाच्यसिद्धक्रियान्वयविवक्षायां तु
विशेष्यस्य लिङ्गसंख्यान्वयित्वेन तद्विशेषणस्य द्विवचनपुं-
स्त्वत्वादि । अतएव “सञ्चारो रतिमन्दिरावधि सखी
कर्ण्णावधि व्याहृतमिति” “आगमीनिष्फलस्तत्रभुक्तिः स्तो-
कापि यत्र नो” इति च प्रयोगः संगच्छते । फलविशिष्टस्य
कर्मणः कर्म्मसंज्ञाविधानेन व्यपदेशिवद्भावपरिभाषया
साध्यक्रियाविशेषणस्य कर्म्मत्वम् तेन स्तोकभीशब्दस्य
कारकपर्ब्बकत्वात् यण् । तत्र पदसाधुतामात्रार्थं द्विती-
यामात्रविधाने तन्न स्यात् इति बोध्यम् । अस्य च
एकवचनान्ततेत्युक्तिरप्यौत्सर्गिकी क्वचित् द्विवचनादिप्रयोगो-
भवत्येव उक्तञ्च हरिणा “एकत्वेऽपि क्रियाख्याते साधना-
श्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रय
इति” । उत्सर्गतएकत्वे सत्यपि साधनाश्रयसंख्ययाख्याते
क्रिया भिद्यते इत्यर्थः । अत्राख्यात इत्युपादानात्
आख्यातार्थाश्रयसंख्ययैव क्रियाभेदो नतु तृतीयाद्युप-
स्थाप्याश्रयसंख्ययापि तेन चैत्राभ्यां सुप्यते इत्यादौ न
द्विवचनादि नवा नामार्थलिङ्गेन क्रियाभेदो लिङ्गस्ये
तरपदोपात्तत्वात् । एवञ्च लिङ्गसंख्यानन्वयित्वरूपासत्व-
लक्षणे संख्याविशेषस्य साक्षादनन्वयित्वयिवक्षणाल्लिङ्गमा-
त्रस्य वा तथात्वविवक्षणान्न दोषैत्यनुसन्धेयम् । उष्ट्रा-
सिका आस्यन्ते हतशायिकाः शय्यन्ते इत्यादि भाव्योदा-
हरणे च उपमानोष्ट्रासनादिबाहुल्येनोपमेयासनादेर्बा-
हु त्यस्य विवक्षणाष्ट्रवेऽपि बहुवचनादीत्याकरे स्पष्टम् ।
उष्ट्रासिकापदञ्च द्वितीयाबहुवचनान्तं क्रियाविशेषणतया
द्वितोयोत्पत्तेर्बाहुत्येनैवोपमानविवक्षणात् बहुबवचनम्”
अत्र मतभेदेन शब्दशक्ति प्र० विशेषोदर्शितो यथा
“भावविहितानामपि घञादीनामुक्तैव गतिः तत्रापि
भावपदस्य धत्वर्थस्वरूपपरत्यात् । अन्यथा पाकं पश्ये-
त्यादौ धत्वर्थस्य पचनादेः कर्म्मत्वादावन्वयापत्तेः सुबर्ये
धात्वर्थस्यान्वयस्याव्युत्पन्नत्वात् इत्यमेव च स्तोकः पाक
इत्यादिप्रयोगस्य परिशिष्टाद्युक्तस्य प्रामाण्यम् अन्यथा
स्तोकादीनां धत्वर्थे विशेषणत्वे नियमतो द्वितीयापत्तेः
अतएव “सञ्चारोरतिमन्दिरावधि सखीकर्णावधिव्याहृतम्”
इत्यादिकं काव्यम् “आगमोनिष्फलस्तत्र भुक्तिः स्तोकापि
यत्र नो” इत्यादिः स्मतिश्च सङ्गच्छतैति नव्याः । स्वोत्तर-
प्रत्ययार्थसाकाङ्क्षस्यैव धातोरर्थे विशेषणतापन्नस्य बोधने
तदर्थकनाम्नोद्वितीयाद्यपेक्षा नतु धातुमात्रस्य तथाच स्तोकः
पाक इत्यादिरेव प्रमाणं नतु स्तोकं पाकैत्यादिः ।
पृथग्रूपक्रियाया विशेषणं कर्म्मेत्याद्यनुशिष्टेरपि
तत्रैव तात्पर्य्यात् । अतएव स्तोकं स्थीयते साधु गतं
चकितं द्रष्टव्यमित्यादौ धात्वर्थस्य तिङाद्यर्थकालादिसा-
काङ्क्षत्वान्न तद्विशेषणस्य द्वितीयाद्यनुपपत्तिरिति तु
शाब्दिकसम्प्रदायः” ।
भेदसम्बन्धेन क्रियायामन्वयिविशेषणे तु पौनःपुन्येन
गच्छति अतिशयेन पचति समेनैति विषमेनैतीत्यादिषु
प्रकृत्यादि० तृतीया । क्वचित् धात्वर्थस्य करणत्वेनान्वये
तद्विशेषणोभूतात् तृतीयादि यथा स्वर्गकामोऽश्वमेधेन
यजेत” इत्यादौ यागेनेष्टं भावयेदिति भाट्टमते यागस्य
करणतया भावनायामन्वयात् अश्वमेधस्य तत्राभेदविशेषण-
त्वेन तद्वद्विभक्तिकत्वम् । अन्यमते तु नाम्ना शिव इत्यादि-
वत् अभेदे तृतीयेति भेदः । मुग्धबोधे “कर्मक्रियाविशेषणे-
त्यादि” कर्मसंज्ञाद्वितोयाविधानञ्च अभेदान्वयिविशेषणप-
रम् । भेदविशेषणे तु तृतीयैष । तत्रायं विशेषः क्रिया-
याम् अभेदसम्बन्धेनान्वयविवक्षायां द्वितीया । अभेद-
प्रकारकान्वयविवक्षयां तु तृतीया ।

क्रियाशक्ति स्त्री क्रियैव शक्तिः । जगदुत्पपत्तिसाधने

परमश्वेरस्य शक्तिभेदे । सा च ब्राह्मीरूपा यथोक्तं शा०
ति० पदार्थादर्शे च “सच्चिदानन्दविभवात् सकलात्
परमेश्वरात् । आसीच्छक्तिस्ततोनादोनादाद्विन्दुसमुद्भवः ।
परशक्तिमयः साक्षात् त्रिधाऽसौ भिद्यते पुनः ।
विन्द र्नादोवीजमिति तस्य भेदाः समीरिताः । विन्दुः
शिवात्मको वीजं शक्तिर्नादस्तयोर्मिथः । समवायः
समाख्यातः सर्व्वागमविशारदैः । रौद्री विन्दोस्ततोनादा-
ज्ज्येष्ठा वीजादजायत । वामा, ताभ्यः समुत्पन्ना
रुद्रब्रह्मरमाधिपाः । ते ज्ञानेच्छाक्रिवात्मानो वह्नीन्द्व-
पृष्ठ २३३२
र्कन्वस्वरूपिणः” शा० ति० । व्याख्यातमेतत् पदार्थादर्शे
“अविद्याशवलितत्येन जड़त्वे कथं तस्य सूष्टिकर्त्तृत्व-
मिति? शङ्कां वारयति सच्चिदानन्दविभवादिति अनेना-
विद्योपहितत्वेऽपि तस्य न स्वरूपहानिरित्यर्थः ।
सकलाच्छक्तिरासीदिति योजना । शक्तिसहितोदेवः पुनः
शक्तिस्तस्मात् सा कथमासीदिति? चेत् सत्यं या
अनादिरूपा चैतन्याध्यासेन महाप्रलये सूक्ष्मा स्थिता तस्या-
गुणवैषम्यानुगुणतया सात्विकराजसतामसस्रष्टव्यप्रपञ्च-
कार्य्यसाधने उच्छूनरूपत्वमेवोपचारादुत्पत्तिः । इदं
सांख्यमतेनोक्तम् । प्रयोगसारे “तस्माद्विनिर्गता शक्तिः
सर्वगा विश्वसम्भवा” । वायुसहि० “शिवेच्छया परा शक्तिः
शिवतत्त्वैकतां गता । ततः परिस्फुरत्यादौ सर्गे तैलं
तिनादिवेति” । पञ्चरात्रेऽपि “एवमालोच्य सर्गादौ सच्चि-
दानन्दरूपिणीम् । समस्ततत्त्वसंबन्धत्वात् स्फर्त्त्यधि
ष्ठातृरूपिणीम् । व्यक्तां करोति तां नित्यां प्रकृतिं
परमः पुमान्” तस्या एव नादविन्दू सृष्ट्य पयोम्यवस्था
रूपौ तदुक्तं प्रयोगसारे “नादात्मना पबुद्धा सा निरामय
पदोन्मुखी । शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा
स्मृता । सैव सर्गक्षमा” अन्यत्रापि “अभिव्यक्ता परा शक्ति
रविनाभावलक्षणा । अखण्डा परचिच्छक्तिर्मता चिद्रु-
पिणी विभुः । समस्ततत्त्वभावेन विवर्त्तेच्छासमन्वि-
ता । प्रयाति विन्दुभावं च क्रियाप्राधान्यलक्षणम्” ।
इच्छाशक्त्यादिरूपतया विन्दीस्त्रैविध्यमाह परेति
साक्षात् परशक्तिमयः अतः पश्चात्तदवस्थात्मकत्वमेवोक्तम्
अमौ त्रिधा भिद्यते । एतौ नादबिन्दू प्रथमोक्तनादविन्द-
भ्यामन्यौ तदुक्तं “स विन्दुर्भवति त्रिधा” । विन्द्वादेर्भे-
दत्रयस्वरूपमाह विन्दुरिति । ततस्तस्मात् विन्दोः रौद्री
यतस्तस्याः शिवमयत्वम् अतोऽन्वर्थताऽपि । नादाज्ज्ये-
ष्ठेति । सर्वश्रेष्ठत्वेनावस्थितत्वेनार्न्वर्थता ज्ञेया ।
वीजाद्वामा अजायतेति सम्बन्धः तस्याः सुन्दरत्वादन्वर्थत्वम् ।
तदुक्तं प्रयोगसारे “विन्दुः शिवात्मकस्तत्र वीजं शक्त्या-
त्मकं स्मृतम् । तयोर्योगे भवेन्नादस्तेभ्यो जातास्त्रिश-
क्तयः । रौद्री विन्दोः समुद्भूता ज्येष्ठा नादादजायत ।
वामा वीजादभूच्छक्तिस्ताभ्यो देवास्त्रयो ऽभवन्” । ते इति
ज्ञानमिच्छा क्रिया च तदात्मानस्ते रुद्रब्रह्मरमाधिपाः
क्रमेणच्छाशक्तिक्रियाशक्तिज्ञानशक्तिस्वरूपाः । अतएव
रुद्रादयः निरोधकाले वह्नीन्द्वर्क स्वरूपिणः शक्तेरेवावस्था-
विशेषा ज्ञेयाः एषामिच्छाक्रियाज्ञानित्मकशक्तित उत्पन्न
त्वात् । वक्ष्यते च “इच्छाज्ञानक्रियात्मानः” इति । ईश्वर-
प्रत्यभिज्ञायाम् “यतैच्छति तज्ज्ञातुं कर्त्तुं वा स्वेच्छया
क्रियाम् । अनन्तरं हि तत् कार्य्यज्ञानं दर्शनशक्तितः ।
ज्ञानशक्तिस्तया ज्ञेयोयोऽसौ स्थूलसमुद्यमः । सा क्रियाश-
क्तिरुदिता यतः सर्व्वं जगत् सृजेत्” गोरक्षसंहितायाम्
“इच्छा क्रिया तथा ज्ञानं रौद्री व्राह्मी तु वैष्णवी ।
त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति”

क्रियासमभिहार पु० सम् + अभि + हृ--वञ् ६ त० । क्रि-

यायाः पौनःपुन्ये । “क्रियासमभिहारे घञ्” पा० “क्रि-
यासमभिहारेण विराष्यन्तं क्षमेत कः?” इति माघः ।

क्रियास्नान न० क्रियाङ्गं स्नानम् । शङ्खोक्ते स्नानविधि-

भेदे तत्प्रकारो यथा
“क्रियास्नानं प्रवक्ष्यामि यथावद्विधिपूर्व्वकम् । मृद्भिरद्भिश्च
कर्त्तव्यं शैचमादौ यथाविधि । जले निमज्य उन्मज्य
उपस्पृश्य यथाविधि । तीर्थस्यावाहनं कुर्य्यातत् प्रव-
क्ष्याम्यशेषतः । प्रपद्ये वरुणं देवमम्भसां पतिमर्च्चितम् ।
याचेत देहि मे तीर्थं सर्वपापापनुत्तये । तीर्थमावाहयि-
स्यामि सर्व्वाधविनिसूदनम् । सान्निध्यमस्मिन् तोवे च
क्रियतां मदनुग्रहात् । रुद्रान् प्रपद्ये वरदान् सर्वानप्सु
सदस्तथा । सर्वानप्सुसदश्चैव प्रपद्ये प्रयतः स्थितः ।
देवमंशुसदं वह्निं प्रपद्येऽघनिसूदनम् । आपः पुण्याः
पवित्राश्च प्रपद्ये शरणं तथा । रुद्राश्चाग्निश्च सर्पश्च
वरुणस्त्वाप एव च । शमयन्त्याशु मे पापं माञ्च रक्षन्तु
सर्वशः । हिरण्यवर्णातिसृभिर्ज्जगतीति चतसृभिः ।
शन्नोदेवीति च तथा शन्नआपस्तथैव च । इदमापः प्रवहते
द्वृप्रचञ्च समुदीरयेत् । एवं सम्मार्जनं कृत्वा च्छन्दआर्षञ्च
देवताः । अघमर्षणसूक्तञ्च प्रपठेत् प्रयतः सदा । छन्दो-
ऽनुष्टुप् च तस्यैव ऋषिश्चैवाघमर्षणः । देवता भाववृ-
त्तश्च पापक्षवे प्रकीर्त्तितः । ततोऽम्भसि निमग्नः स्यान्त्रिः
पठेदघमर्षणम् । प्रदद्यान्मूर्द्धनि तथा महाव्याहृति-
भिर्जलम् । यथाश्वमेघः क्रतुराट् सर्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम् । अनेन
विधिना स्नात्वा स्नातवान् धौतवाससा । परिवर्तितवासास्तु
तीर्थनामानि संजपेत् । उदकस्यापदानात्तु स्नानशाटीं न
पीड़येत् । अनेन विधिना स्नातस्तीर्थस्य फलमश्नुते” ।

क्रियेन्द्रिय न० क्रियायाः साधनमिन्द्रियम् । वाक्पादादौ

कर्म्मोन्द्रिये हेम० ।
पृष्ठ २३३३

क्रिवि पु० कृवि--इन् नि० । १ कूपे निघण्टुः २ कर्त्तरि ३ हिंसके

त्रि० “रुद्र! यत्ते क्रिविपरं नाम” यजु० १० । २० ।
४ असुरभेदे “अभ्योजसा क्रिविं युधाः” ऋ० २, २३, २,
“क्रिविं नामासुरम्” भा० । ५ पञ्चालदेशे पु० व० व० ।
“आप्तोर्यामोऽतिरात्रस्तेन हैतेन क्रैय्यः पञ्चालो राजा”
“क्रिवय इति ह वै पुरा पञ्चालानाचक्षते” शत० व्रा०
१३, ५, ४, ७,

क्रिविस् त्रि० कृवि--इसु नि० । हिंसके “यत्रा वोदिद्युद्रदति क्रिविर्दती” ऋ० १, १६६, ६,

क्री क्रये (मूल्यदानेन द्रव्यग्रहणे) क्य्रा० उभ० सक० अनिट् ।

क्रीणाति क्रौणीते अक्रैषीत् अक्रेष्ट । चिक्राय चिक्रिये
क्रेतव्यः क्रयणीयः क्रेयः क्रयार्थे प्रसारिते क्रव्यः क्रायकं
क्रेता क्रीणन् क्रीणानः । क्रीतः क्रीत्वा विक्रीय । क्रेतुम् ।
कर्म्मणि क्रीयते अक्रायि आक्रयिषाताम्--अक्रेषाताम् ।
चिक्रिये । “कैमं दशभिर्ममेन्द्रं, क्रीणाति धेनुभिः” ऋ० ४,
२४, १०, “शुक्रं त्वा शुक्रेण क्रीणामि” यजु० ४, २६, । “क्री-
णीयाद्यस्त्वपत्यार्थं मात्रापित्रोर्यमन्विकात्” मनुः “कच्चित्
सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्” भा० स० कच्चिद-
ध्यायः । “सोमं राजानमक्रीणंस्तस्मात् प्राच्यां दिशि
क्रीयते” ऐत० १, १२, “शूद्रानीतैः क्रयक्रीतैः (जलैः)
कर्म्म कुर्व्वन् पतत्यधः” स्मृतिः । अनुशयशब्दे उदा० ।
  • अप्र + मूल्यादिदानेन वशनयने । “सा चेदस्मै न दद्यात्
काममेनामपक्रीणीयात्” शत० ब्रा० १४, ९, ४, ७, “तदा एनां
स्वपत्नीं वस्त्राभरणभोग्यादिदानेन कामं यथाशक्तिवैभव-
मपक्रीणीयात् वशं नयेत्” भा० ।
  • अभि + अभिलक्ष्यीकृत्य विक्रये संस्कारविशेषे च । “एकं वा
एष क्रीययाणोऽभिक्रीयते छन्दसामेव राज्याय” शत०
ब्रा० ३, ३, २, ३, “एषः क्रीयमाणः क्रयेण सम्पाद्यमागः
सोमः एकं वै एकं खलु प्रयोजनमभिलक्ष्य विक्रीयते
अभिषबादिना स्वात्मना संस्क्रियते वा” भा० ।
  • अव + धनादिना वशनयने । “ब्राह्मणं क्षत्रिय वा सहस्रेण
शताश्वेभावक्रीय” सांङ्ख० श्रौ० सू० १५, १०, १०,
  • आ + इवत्क्रये । “भार्य्यां शुल्काक्रीताम्” दशकुमा०
  • उप + सामीप्येन क्रये । “घटादीनुपक्रीय” हितो० ।
  • निस् + (र्) विक्रये क्रयानुरूपमूल्यदाने च । “न निष्क्रयवि-
सर्गाभ्यां भर्त्तुर्भार्य्या विमुच्यते” मनुः । “निष्क्रयो-
विक्रयः” उ० त० रघु० । “भोः केशव! मदीयस्त्वमद्भिर्दत्तोऽसि
सत्यया । स त्वं मामनुगच्छस्व कुरुष्व यद्व्रवीम्यहम् ।
प्रथमः कल्प इत्येवमब्रवीन् मधुसूदनः । व्रजन्तमनुवव्राज
नारदञ्च जनार्द्दनः । परिहासान् बहुविधान् कृत्वा मुनि
वरस्ततः । तिष्ठस्य गच्छामीत्युक्ता परिहासविचक्षणः ।
अपनीय ततः कण्ठात् पुष्पदामैनमव्रवीत् । कपिलां
गां सवत्सां मे निष्क्रयार्थं प्रवच्छ मे । तिलं कृष्णाजिभं
शूर्पं प्रयच्छ तप्तकाञ्चनम् । एषोऽत्र निष्क्रयः कृष्ण!
विहितो वृषकेतुना” हरि० १३५ अ० ३ निष्कृतौ ।
“तपोदानोपहारेषु व्रतेषु नियमेषु च । इज्याध्यायनध-
र्म्मेषु योनाऽऽसक्तः स निष्क्रयः” वसिष्ठः
  • परि + नियतकालं भृत्या स्वीकारे अनियतकालस्वत्वोत्पादकात्
क्रयात् तस्य नियतकालत्वेन न्यूनता । तद्योगे करणस्य
वा सम्प्रदानसंज्ञा । शतेन शताय वा परिक्रीतः” सि० कौ० ।
“सम्भोगाय परिक्रीतः कर्त्ताऽस्मि तव नाप्रियम्” भट्टिः
“भक्त्यै मुक्तिः परिक्रीता सद्भिर्षिष्णोरुषाऽरिभिः” मुग्ध० ।
“कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्” भट्टिः ।
क्रयशब्दे २३०५ पृ० दर्शितम् जै० सूत्रवाक्यादि उदा० ।
  • वि + मूल्यग्रहणेन स्वस्वत्वध्वंसपरस्वत्वापादकव्यापारे “वस्नेव
विक्रीणावहा इषमूर्ज्जं शतक्रतो!” यजु० ३, ४९, विक्री-
णीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः” मनुः
अनुशयशब्दे भूरि उदा० ।
  • सम् + सम्यक् क्रये “न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्”
भा० आ० १६० अ० ।
“परिव्यवेभ्यः क्रियः” पा०
अकर्त्तृपामिन्यपि क्रियाफले तङ् ।

क्री त्रि० क्री--क्विप् । क्रेतरि कारकोपदत्वेऽपि संयोगोपध-

त्वात् नयण्, किन्तु इयङ् । यवक्रियौ यवक्रिय इत्यादि ।

क्रीड़ खेलने भ्वा० पर० अक० सेट् । क्रीडति अक्रीडीत् ।

चिक्रीड क्रीडिता । क्रीडितव्यः क्रीड्यः क्रीडकः क्रीडिता ।
क्रीडः । क्रीडा । क्रीडितः । क्रीडनं क्रीडितुम् । क्रीडि-
त्वा विक्रीद्व्य । “एष सोमो अधित्वचि गवां क्रीडत्यद्रिभिः”
ऋ० ९, ६६, २६, “माता च पिता च तेऽग्रे वृक्षस्य क्री-
डतः” यजु० २३, २५, चिक्रीड चैव प्रजहास चैव” भा०
व० १०४२ श्लो० “क्रीडारसं निर्विशतीव नाल्ये” कुमा ।
अस्मादर्षे प्रयोगे तङपि दृश्यते । ब्रह्मशङ्करशक्राद्यैर्देववृ-
न्दैः पुनः पुनः । क्रीडमे त्वं मरव्याघ्र । बालः क्रीडनकै-
रिव” भा० व० ५०४ श्लो०
अन्वाद्युपसर्गे ततद्व्योत्यार्थविशिष्टे क्रीडने तत्र “क्रीडो-
ऽनुसंपरिभ्यश्च” पा० एम्यः चकारात् आङश्च तङ् साध्व-
नुक्रीडमानानि पस्य वृन्दानि पक्षिणाम्” भट्टिः ।
आक्रीडमानोहृष्टात्म श्रीमान् वायुसुतोययौ” भा० व०
पृष्ठ २३३४
१४६ अ० । “फलान्यादत्स्व चित्राणि परिक्रीडख सानु-
षु” भट्टिः । “मरुतस्तमभितः परिचिक्रीडुः” शत०
व्रा० २, ५, २, २०, आर्षस्तङभावः । समस्तु अकूजने अव्य-
क्तशब्दामावे एव तङ । “समोऽकूजने” वार्त्तिककृता
नियमात् “हरः संक्रीडमानश्च उमया सह पर्व्वते”
रामा० आ० ४७, १०, तेनास्य कूजनार्थताऽपि किन्तु
तत्र न तङ् “संक्रीडति चक्रम्” सि० कौ० । “तैस्तैर्वि-
हारैर्बहुभिर्दैत्यानां कामरूपिणाम् । समाः संक्रीडतां
तेषाम्” भा० आ० २०९ अ० । अत्र आर्षः तङभावः ।

क्रीड पु० क्रीड--घञ् । परीहासे शब्दरत्ना० ।

क्रीडक न० क्रीड--ण्वुल् । १ क्रीडाकारके । २ द्वाःस्थे सेवके त्रिका० ।

क्रीडचक्र न० “इदं क्रीडचक्रं सदीर्घं समस्तैर्यकारैः

समेतम्” वृ० र० उक्ते छन्दोभेदे ।

क्रीडन न० क्रीड--भावे--ल्युट् । १ खेलायाम् “उदकक्रीडनं

नाम कारयामास भारत!” मा० आ० १२८ अ० ।
“बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि” महाना० । करणे
ल्युट् । २ क्राडासाधने । “यथा हिरण्याक्ष उदारवि-
क्रमोमहामृधे क्रीडनवन्निराकृतः” भाग० ३, १९, १४,
स्वार्थे क । तत्रार्थे “क्रीडसे त्वं नरव्याघ्र! बालः क्री-
डनकैरिव” भा० व० १२ अ० ।

क्रीडनीय त्रि० क्रीड--करणे वा० अनीयर् क्रीडनाय साधु

छ वा । क्रीडसाधने । “क्रीडतः कीडनीयानि ददुः
पक्षिगणांश्च ह” भा० अनु० ८६ अ० ।

क्रीडा स्त्री क्रीड--भावे अ । १ परीहासे २ खेलने च “क्रीडारसं

निर्विशतीव बाल्ये” कुमा० । “आत्मरतिरात्मक्रीडआत्म-
मिथुन आत्मानन्द छा० उप० । “तोयक्रीडानिरत
युवतिस्नानतिक्तैर्मरुद्भिः” मेघ० “क्रीडायासश्रमशम-
पटवः” माघः । क्रीडागृह, क्रीडाशैल, क्रीडोद्यानादयः
क्रीडार्थ गृहादौ । क्रीडासचिव नर्म्मसचिवे

क्रीडाताल पु० “एकएव प्लुतोयत्र क्रीडातालः स कथ्यते”

इति संगीतदामोदरोक्ते तालभेदे ।

क्रीडानारी स्त्री क्रीडायाः क्रीडार्थं नारी अश्ववासादि-

वत् चतुर्थ्यर्थे ६ त० । क्रीडार्थायां वेश्यारूपायां
नार्य्याम् । “वेश्या निवेशिता वीर! द्वारवत्यां
सहस्रशः । सामान्यास्ताः कुमापाणां क्रीडानार्य्यो महात्मं-
नाम्” हरि० १४७ अ० ।

क्रीडायान न० क्रीडार्थं य नम् चतुर्थ्यर्थे ६ त० । पुष्परथे शब्दचि०

क्रीडारत्न न० क्रीडाया रत्नमिव । रतौ त्रिका०

क्रीडारथ पु० क्रीडायाः क्रीडार्थो रथः चतुर्थ्यर्थे ६ त० ।

पुष्परथे “क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः”
भा० आ० ५३ अ०

क्रीडारसातल न० श्रीगदितलक्षणयुते उपरूपकमेदे यथा

“प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम् ।
प्रसिद्धनायकं गर्भविमर्षाभ्यां विवर्ज्जितम् । भारती
वृत्तिबहुलं श्रीतिशब्देन संयुतम् । मतं श्रीगदितं नाम
विद्वद्भिरुपरूपकम् यथा क्रीडारसातलम्” सा० द०

क्रीडि त्रि० क्रीड--इन् । क्रीडके । “आ क्रीडयो न मातरं

तुदन्तः” ऋ० १० । ९४ । १४ ।

क्रीडिन् त्रि० क्रीड--बा० ताच्छील्ये इनि । १ क्रीडाशीले

२ वायुभेदे पु० “क्रीडिभ्यः संसृष्टान् मरुद्भ्यः” यजु० २४ ।
२६ “क्रीडी च शाकी चाज्जेषी” यजु० १७ । ८५
“क्रीडी सदाक्रीडाशीलोमरुत्” वेददी० ।

क्रीडु त्रि० क्रीड उन् । क्रीडाकारके । “क्रीडुर्मखो न मंहयुः

पवित्रं सोम! गच्छसि” ऋ० ९ । २० । ७

क्रीत त्रि० क्री--कर्म्मणि क्त । १ मूल्यदानेन स्वत्वास्पदीभूते

कृते । “शूद्रानीतैः क्रयक्रीतैः (जलैः) कर्म्म कुर्व्वन्
पतत्यधः” स्मृतिः । २ गौणपुत्रभेदे पु० । “क्रीतश्च नवमः सयेन
क्रीतः” विष्णु ंसं० । भावे क्त । ३ क्रये न० क्रीतानुशयः ।
पुत्रभेदास्तल्लक्षणानि च योगीश्वरेण दर्शितानि यथा
“औरसो धर्म्मपत्नीजस्तत्समः पुत्रिकासुतह् । क्षेत्रजः
क्षेत्रजातस्तु सगोत्रेणेतरेण वा । गृहे प्रच्छन्न उत्प-
न्नो गूढ़जस्तु सुतः स्मृतः । कानीनः कन्यकाजातो
मातामहसुतोमतः । अक्षतायां क्षतायां वा जातः पौन
र्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रोदत्तको
भवेत् । क्रीतश्च ताभ्यां विक्रीतः, कृत्रिमः स्यात् स्वयंकृतः ।
दत्तात्मा तु स्वयन्दत्ती गर्भे विन्नः सहोड़जः । उत्
सृष्टो गृह्यते यस्तु सोऽपविद्धोभवेत् सुतः” । “अदूर-
बान्धवमिति देशभाषाविप्रकृष्टस्य प्रतिषेधः एवं क्रीतस्वय-
न्दत्तकृत्रिमेष्वपि योज्यं समानन्यायत्वात् । क्रीतस्तु
विक्रीतः मातापितृभ्यां पूर्व्ववत् तथैकं पुत्रं ज्येष्ठञ्च वर्ज-
यित्वा आपदि । सवर्ण इत्येव यत्तु मनुनोक्तम् “क्री-
णीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः
सुतस्तस्य सदृशोऽसदृशोपिऽवेति” तद्गुणैः सदृशोऽसदृशो
वेति व्याख्येयं न ञात्या “सजातीयेष्वयम्प्रोक्तस्तनयेषु
मर्या विधिः” इत्युप संहारात्” मिता० । स्वार्थे क ।
तत्रार्थे । “कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
पृष्ठ २३३५
स्वयं दत्तश्च शौद्रश्च षडदायादबान्धवाः” इति मनूक्तेः तस्य
पिवृमावृभिन्नदायानधिकारित्वम् । दत्तकर्मामांसा-
मते “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम च” पराशरेण
कलिधर्म्मप्रस्तावे चतुर्ण्णामेव ग्राह्यताया उक्तेः दत्तकच-
कामते “दत्तौरसेतरेषाञ्च पुत्रत्वेन परिग्रहः” इत्यादि
पुराणे दत्तौरसभिन्नानां कलौ वर्ज्यत्वोक्तेश्च क्रीतपुत्रस्य
न कलौ कर्त्तव्यता ।

क्रीतानुशय पु० क्रीते क्रये अनुशयः । “क्रयविक्रयानुशयश्च”

इति मनुक्ते अष्टादशविवादान्तर्गते विवादभेदे अनुशय-
शयशब्द १८६ पृ० तद्विवृतिर्दृश्या । अधिकं वीरमित्रोदये
दर्शितं यथा
“अथ क्रीतानुशयोव्यवहारपदम् । तत्स्वरूपमाह
नारदः “क्रीत्वा मूल्येन यत् पण्यं क्रेता न बहु मन्यते ।
क्रीतानुशय इत्येतद्विवादपदसुच्यते” इति । न बहु
मन्यते--सम्यगसम्यगिति पूर्ब्बं न विचार्य्य गृहीत
मित्यर्थः । क्रीतं परीक्षणीयमित्याह वृहस्पतिः “परीक्षेत
स्वयं क्रीतमन्येषाञ्च प्रदर्शयेत् । परीक्षितं बहुमतं
ग्रहीता न पुनस्त्यजेदिति” । अन्येषां पण्यगुणदोषविदा-
मिति शेषः । नारदोऽपि “क्रेता पण्यं परीक्षेत प्राक् स्वयं
गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुन-
रिति” । चर्मादीनां परीक्षा सद्यः कार्या तथा च व्यासः
“चर्म्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च । वसुकुप्यहिर-
ण्यानां सद्य एव परीक्षणमिति” । अत्र वसुशब्देन रूप्यं
गृह्यते । कुप्यं रूप्यहेमव्यतिरिक्तं त्रपुसीसादिकम् ।
तथा च हेमरूप्ये प्रस्तुत्याहामरसिंहः “ताभ्यां यदन्यत्त-
त्कुप्यमिति” । क्रीतपण्यद्रव्यविशेषेण परीक्षणकाला-
वधिमाह भारदः “त्र्यहाद्दोह्यं परीक्षेत पञ्चाहाद्वा-
ह्यमेव तु । मुक्तावज्रप्रबालानां सप्ताहं स्यात्परीक्षणम् ।
द्विपदामर्द्ध्वनासन्तु पुंसान्तद्द्विगुणं स्त्रियाः । दशाहं
सर्ववीजानामेकाहं लोहवाससाम् । अतोऽर्वाक्पण्यदोषस्तु
यदि सञ्जायते क्वचित् । विक्रेतुः प्रतिदेयं तत् क्रेता
मूल्यमवाप्नुयादिति” । त्र्यहात् क्रयदिनादारभ्येति शेषः ।
पञ्चाहादित्यादावप्येवमेव शेषोऽवगन्तम्यः । त्र्यहं
विक्रेतृप्रतिदेयमित्यादिविधिदर्शनात् त्र्यहाद्दोह्यमित्यादि
परीक्षणं प्रीतिदोह्यादिदव्यविषयमिति गम्यते इति स्मृति
चन्द्रिका । दोह्यं महिष्यादिकम् वाह्यं बलीवर्दादिकम् ।
मुक्ताग्रहणं रत्नोपलक्षणम् । द्विपदाम्पुंसान्दासानामि-
त्यर्थः । तद्द्विगुणं मासादित्यर्थः स्त्रियादास्याइत्यर्थः ।
पूर्ब्बोदाहृतचर्म्मकाष्ठेत्यादिव्यासवचनेन भक्षणाद्यर्थं
गृहीतानां धान्यादीनां सद्यःपरीक्षणाभिधानात् सर्व-
वीजानामित्यत्र वीजशब्दोवृद्ध्यर्थं गृहीतधान्यपरः ।
अन्यथा सद्यःपरीक्ष्यत्वप्रतिपादकव्यासवचनविरोधः स्यात् ।
अतोऽर्वाक् त्र्यहादेरभ्यन्तर इत्यर्थः । कात्यायनोऽपि
“भूमेर्दशाहोऽनुशयः क्रेतुर्विक्रेतुरेव चेति” । भूमेर्गृह-
क्षेत्रादिरूपाया अनुशयः परावर्त्तनयोग्यः कालः परीक्षा-
काल इति यावत् । यथोक्तपरीक्षाकालातिक्रमे दोष
दर्शने न प्रतिदानमित्याह स एव “अविज्ञातन्तु यत्
क्रीतं दुष्टं पश्चाद्विभावितम् । क्रीतन्तत् स्वामिने देयम्पण्यं
कालेऽन्यथा न त्विति” । अविज्ञातं परीक्षाशैथिल्या-
त्तत्त्वतोऽपरिज्ञातम् । दुष्टं विभाबितं दोषवत्तया ज्ञात-
मित्यर्थः । काले परीक्षाकाले । अन्यथा तत्कालात्यये
दुष्टतया परिभावितमपि तत् स्वामिने न देयम् । अविज्ञा-
तन्तु यत्क्रीतमित्यनेन यत् क्रयात् प्राक् अपरीक्ष्य क्रीत-
न्तत् परीक्षासमये दोषदर्शने परावर्त्तनीयम् । यत्तु-
परोक्ष्य गृहीतं तन्न परावर्त्तनीयमिति । दर्शितमर्थं
नारदआह “क्रीत्वा नानुशयं कुर्य्याद्बणिक्पण्यवि-
चक्षणः । क्षयं वृद्धिञ्च जानीयात् पण्यानामागमन्तथा ।
क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । परीक्ष्या-
भिमतं क्रीतं विक्रेतुर्न भवेत् पुनरिति” । अनुशयं पश्चा-
त्तापम् । पण्यानां अश्वादीनां अस्मिन्देशे मूल्यहानि-
रस्मिन्देशे तदाधिक्यमिति क्षयवृद्धी एतद्देशसम्भवमित्या-
गमञ्च क्रयात् प्रागेव जानीयादित्यर्थः । दोषदर्शनमन्त-
रेण परीक्षाकाल एव प्रत्यर्पणे विशेषमाह कात्यायनः
“क्रीत्वा चानुशयं पश्चात् त्यजेद्दोषादृते नरः । अजुष्टमेव
काले तु स मूल्याद्दशमं बहेत् । क्रीत्वा गच्छन्ननुशयं
क्रयी हस्तमुपागते । षद्भागन्तस्य मूल्यस्य दत्त्वा क्रीतं
त्यजेन्नरः” इति । अजुष्टमनभिभुक्तम् । काले परीक्षाकाले
अत्र मूल्यदशमभागदानं यदुपभुज्यमानमपि न नश्यति
भूम्यादिकं तद्विषयम् उपभोगविनश्वरवीजादिविषयं षड्
भागदानमिति व्यवस्था ज्ञेया । ननु विजानताऽप्यनुशयो
न कार्यः “क्रीत्वा नानुशयम् कुर्य्यादिति” निषेधसद्भावा-
दिति चेत्सत्यं अपवादस्य सत्त्वात् स चापवादोदर्शितो
नारदेन “क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यविक्षतमिति” । मन्यत
इत्यनेन वस्तुतो दोषाभाव उक्तः । द्वितीयादिदिवसे प्रत्य-
र्पणे विशेषमाह स एव “द्वितीयेऽह्नि ददत् क्रेता मू-
पृष्ठ २३३६
ल्यात्त्रिंशांशमाहरेत् । द्विगुणं तु तृतीयेऽह्नि परतः
केतुरेव तदिति” । परतः तृतीयाहात् परतः क्रेतुरेव तत्
क्रीत्वा अनुशयादिकं न कुर्य्यादित्यर्थः । यत्तु मनुवचनम्
“क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ।
सोऽन्तर्दर्शाहात्तद्द्रव्यं दद्याच्चैवाददीत वेति” तदुपभोगे नश्व-
रछत्रगृहयानशयनादिविषयम् । यत्तू पभोगेन विकारप्रा-
पितं सदोषसपि तत् परीक्षाकालमध्येऽपि न प्रतिदेयमि-
त्याह नारदः “परिभुक्तन्तु तद्वासः कृष्णरूपं मलीमसम् ।
सदोषमपि तत् क्रीतं विक्रेतुर्न भवेत्पुनरिति” । वासो-
ग्रहणमुपलक्षणमिति मदनरत्ने । वासोविषयतैवास्योति
माधवीये । पण्यानां देशकाले उपचयापचयौ ज्ञातव्या-
वित्याह नारदः “क्षयं वृद्धिञ्च जानीयात्पण्यानामा-
गमन्तथेति” । अश्वादिपण्यानामस्मिन् कालेऽस्मिन्देशे
च क्षयं वृद्धिं वा जानीयात्तथागमं कुलीनत्वादिज्ञा-
नार्थम् उत्पादकजन्मभूम्यादिकञ्च जानीयादित्यर्थः ।
क्रयकाले मूल्यक्षयवृद्धिदोषदर्शनमन्तरेण क्रोतविक्रीतयोः
पत्यर्पणे पुनर्ग्रहणे दण्डमाह याज्ञवल्काः “वृद्धिं क्षयं
वा बणिजा पण्यानामविजानता । क्रीत्वा नानुशयः
कार्य्यः कुर्वत् षट्भागदण्डभागिति” । वृद्धिं मूल्यवृद्धिम्
अविजानता क्रेत्रा एवं मूल्यक्षयमविजानता विक्रेत्रेत्य-
र्थः । परीक्षाकालातिक्रमेण प्रत्यर्पणे दण्डमाह मनुः
“ग्रहणे तु दशाहस्य न दद्यान्नापि दापयेत् । आददा-
नो ददच्चैव राज्ञा दण्ठ्यः शतानि षडिति” । दशाह-
ग्रहणं परीक्षाकालस्य पूर्ब्बोक्तस्योपलक्षणम् । सर्वमेत-
त्परिभाषणमृते परिभाषण तु तदनुसारेणैव प्रतिदानं
तदभावादिकं मन्तव्यम्” । क्रयानुशयोऽप्यत्र ।

क्रुञ्च् पुंस्त्री० क्रुन्च--क्विन् “दधृगित्यादि०” पा० नि० नलोपा-

भावः (क्ॐचघक) १ वकभेदे अमरः स्त्रियां टाप् । २ हंसे च
“अद्भ्यः क्षीरं व्यापिबत् क्रुङ्ङाङ्गिरसोधिया । ऋतेन
सत्यमिन्द्रियम्” यजु० १९ । ७३ “आङ्गिरसः अङ्गानां रसः
प्राणोयथा क्रुङ् हंसोभूत्वा धिया प्रज्ञया अद्भ्यः
सकाशात् क्षोरं दुग्धमपिबत् पिबति संसृष्टाभ्यां क्षीरोदकाभ्यां
क्षीरमेब हंसः पिबतीति जातिस्वभावः” वेददी० ।

क्रुञ्च पुंस्त्री० क्रुन्च--अच् । (क्ॐचवक) वकभेदे अमरः

“वायवे बलाका इन्द्राग्निभ्यां क्रुञ्चान्” यजु० २४ । २२
“कलविङ्को लोहिताहिः पुष्करसादस्ते त्वाष्ट्रा, वाचे
क्रुञ्चः” यजु० २४ । ३१ स्त्रिथां संयोगोपधत्वात् टाप् ।
पुंयोगे तु अजा० टाप् । टावन्तः । २ वीणाभेदे स्त्री शब्द-
रत्ना० । ततः चतुरर्थ्यां नडादि० छ कुख्रस्वश्च । क्रुञ्च-
कीय तत्सन्निकृष्टदेशादौ । क्रुञ्चा वीणास्त्यस्य क्रुञ्चावकी
अस्त्यत्र वा मतुप् यवादि० न मस्य वः । क्रुञ्चामत्
तद्युक्ते त्रि० ३ क्रौञ्चपर्व्वते पु० हेमच० । स्वार्थे अण् ।
क्रौञ्च स्वनामख्याते पर्व्वतेक्रौञ्चदारणः । वकभेदे च “ददर्श
भगवांस्तत्र क्रौञ्चयोश्चारुदर्शनम्” “यत् कौञ्चमिथुना-
देबमबधीः काममोहितम्” रामा० आ० २ स० । स्त्रियां
तु अणन्तत्वात् ङीप् । “निशम्य रुदर्ती क्रौञ्चीमिदं
वचनमब्रवीत्” रामा० आ० २ स०

क्रुड निमज्जने घमीभावे च तु० कुटा० प० अक० सेट् ।

क्रुडति अक्रुडीत चुक्रोड--क्रोडः ।

क्रुथ हिंसने क्य्रा० प० सक० सेट् चान्द्राः । क्रुथ्नाति अक्रो-

थीत् चुक्रोथ । क्रोथः ।

क्रुध कोपे दिवा० पर० अक० सोपसर्गः सक० अनिट् । क्रु-

ध्यति मृत्यभभिक्रुध्यति ऌदित् अक्रुधत् । चुक्रोध--क्रोद्धा
क्रीत्स्यति । क्रोद्धव्यम् क्रोध्यम् क्रोधनीयम् क्रोद्धा क्रोधी
क्रुद्धः । क्रुध्यन् क्रोधः । क्रुद्ध्वा संक्रुध्य “चुक्रोध पुरुषा-
दकः” भा० आ० १५३ अ० “द्रुमेभ्यः क्रुध्यमानास्ते
तपोदीपितमन्यवः” भाग० ६, ४, ५, अत्र तङ् आर्षः शक्त्यादौ-
चानश् वा । “क्रुध्यन् कुलं धक्ष्यति विप्रवह्निः” भट्टिः “क्रोधं
विभो! संहर संहरेति” कुमा० । “क्रुधद्रुहेर्य्या-
सूयार्थानां यं प्रति कोपः” पा० कोपविषयस्य संपदा-
नता । अरये क्रुध्यति । “क्रुधद्रुहोरुपसृष्टयोः कर्म्म” पा०
सोपसर्गस्य तस्य सम्प्रदानस्य कर्म्मता “कुध्यन्तं न
प्रतिक्रुध्येत्” मनुः । “भृत्यमभिक्रुध्यति” सि० कौ०
अन्वाद्युपसर्गात् परस्तु तत्तदुपसर्गद्योत्यार्थयुक्तक्रोधे सक०
  • प्रति + वैपरीत्येन क्रोधने सक० “क्रुध्यन्तं न प्रतिक्रुध्येत्” मनुः

क्रुध् स्त्री क्रुध--सम्प० भावे क्विप् । कोपे कामव्याघात

हेतुके चित्तवृत्तिभेदे अमरः “इतिक्रुधाऽऽक्रुश्यत तेन
केतकम्” नैष० । हलन्तत्वात् वा टाप् क्रुधा

क्रुध्मिन् त्रि० क्रुध--बा० मिनि किच्च । क्रोधयुक्ते “शुभ्रो वः

शुष्मः क्रुध्मी मनांसि” ऋ० ७ । ५६ । ८

क्रुन्च(ञ्च) कौटिल्ये, अल्पीभावे च अक० पर० सेट् । क्रुञ्चति

अक्रुञ्चीत् चुक्रोञ्च । क्रुञ्चः क्विन् क्रुड् अत्र “चोः कुः”
पा० चवर्गान्तत्वेन कुत्वप्राप्तौ दधृगिव्यादिना क्विनं विधाय
“क्विन् प्रत्ययस्य कुः” पा० क्विनन्तस्य पृथक् क्रुत्वविधानात्
संयोगान्तलोपात् प्राक् कुः । भावे क्रच्यते अक्रुञ्चि ।
केचित्तुदधृगादिसूत्रे क्रुञ्चामिति निर्द्देशत् क्रुञ्चेति ञो-
पृष्ठ २३३७
पधे सौत्रं धातुमाहुः तन्मते भावे क्रुञ्च्यते इत्येव ।
एतन्मते क्र्वङ् इत्यत्र क्विनि नलोपाभावे न निपातकल्पना

क्रुन्थ क्लेशे श्लेषे च क्य्रा० पर० अक० सेट् हलायुधः ।

क्रुथ्नाति अक्रुन्थीत् कुक्रुन्थ अयमपाणिनीयः

क्रुमु त्रि० क्रम--उन् वेदे पृषो० । सर्व्वत्र क्रमणंशीले “क्रुमु-

र्मा वः सिन्धुर्निरीरमत्” ऋ० ५ । ५३ । ९ । “क्रुमुः सर्व्वत्र
क्रमणशीलः” भा०

क्रुमुक पु० क्रम--उक वेदे पृषो० । गुवाके “क्रुमुकमपि कुर्य्यात्

एषा वा अग्नेः प्रिया तनुः यत्क्रुमुकः” तैत्ति० ५ । १०९ । ५

क्रुश रोदने अक० आह्वाने आक्रोशे च सक० भ्वा० प०

अनिद् । क्रोशति अक्रुक्षत् । चुक्रोश क्रोक्ष्यति । क्रोष्टा
क्रुष्टः क्रोशन् क्रोशः क्रोशनः क्रोष्टुः । “रसन्नरण्या-
न्यां सायमक्रुक्षदिति मन्यते” ऋ० १० । १४६ । ४ “वृहद्वद-
न्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु” ऋ१० । ९४
४ “एष क्रोशति दात्यूहस्तं शिखी प्रतिकूजति” रामा०
अयो० ५६ अ० । कर्म्मणि क्रुश्यते अक्रोशि “इतिक्रुधा-
क्रुश्यत तेन केतकम्” नैष०
अत्याद्युपदर्गात् परस्तु तत्तद्द्योत्यार्थयुक्ते रोदनादौ
  • अनु + दयायाम् अनुरोदने च सक० । अनुक्रोशा (दया) “न
तायुमनुक्रोशन्ति क्षितयोभरेषु” ऋ० ४ । ३८ । ५
“किमनुक्रुश्य वैकल्यमुत्पादयसि मेऽनघ!” भा० अनु० ५ अ०
  • आ + अप्रियकथने सक० । “शतं ब्राह्मणमाक्रुश्य क्षत्रियोदण्ड-
मर्हति” मनुः । “प्रत्याक्रोशेदिहाक्रुष्टः” भा० अनु०
४५६२ श्लो० । “आक्रुष्टः पुरुषः सर्व्वं प्रत्याक्रोशेदनन्त-
रम्” भा० व० १९१ श्लो० । “हा प्रिये! क्वासि नष्टासि
व्याक्रोशन्न्यपतत् क्षितौ” रामा० आ० ८६ अ०
  • उद् + उच्चराह्वाने सक० “उदक्रोशन् स पाण्डवान्” भा०
आ० ७४८ श्लो० । उच्चैरोदने च अक०

क्रुश्वन् पुंस्त्री क्रुश--क्वनिप् । शृगाले उज्ज्वल० स्त्रियां

ङीप् रश्चान्तादेशः क्रुश्वरी ।

क्रुष्ट न० क्रुश--भावे क्त । १ रोदनरवे । कर्म्मणि क्त । २ कथिताप्रिये ३ आहूते च त्रि० ।

क्रूड क्रुडवत् । क्रूडति अक्रूडीत् चुक्रोड “तस्य रेतः

परापतत् तदग्निर्योनिनोपागृह्णादयसा तदक्रूडयत्तत्क्रूड्यमानं
गवि न्यदधत् तदिद पयः” श्रुतिः ।

क्रूर त्रि० कृत--रक् धातोः क्रूः । १ निर्दये २ कठिने अमरः

३ हिंसके ४ उग्रे च मेदि० । “तस्याभिषेकसंभारं कल्पितं
क्रूरनिश्चया” रघुः । “तस्मिन्नुपायाः सर्व्वेनः क्रूरे
प्रतिहतक्रियाः” कुमा० । “दृढकारी मृदुर्दान्तः क्रूराचा-
रैरसंवसत्” मनुः । तस्य भावः ष्यञ् क्रौर्य्य न०, तल्
क्रूरता स्त्री, त्वक्रूरत्व न०, निर्द्दयत्वे हिंसने काठिन्ये
उग्रत्वे च । “ओजोऽथ युग्मं विषमः समश्च क्रूरोऽथ
सौम्यः पुरुषोऽङ्गना च । चरस्थिरद्व्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः” दोपिकोक्ते मेषादिषु मध्ये
५ विषमराशौ पु० “अर्द्धोनेन्द्वर्कसौराराः पापाः सौम्या-
स्तथा परे । पापयुक्तोबुधः पापोराहुकेतू च पापदौ”
ज्योति० उक्ते ६ ग्रहभेदेच “यथा दृष्टफला क्रूरास्तथा
सौम्याः शुमप्रदाः । क्रूरयुक्तः पुनः सौम्योज्ञेयः क्रूर-
फलप्रदः” “इदञ्च सौम्यक्रूराणां फलं स्थानवशात्
समम् । एतदेव फलं विद्धि सौम्यैः क्रूरैर्विपर्य्ययात्”
“ग्रहाः सौम्यास्तथा क्रूरा वक्राः शीघ्रोचनीचगाः” इति
“तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेण यत् । सर्व्वेषु
शुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः । न नन्दति विवाहे
च यात्रायां न निवर्त्तते । रोगाद्विमुच्यते रोगी वेधवेला-
कृतोद्यमः । रोगकाले भवेद्वेधः क्रूरखेचरसम्भवः”
“क्रूरावक्रा महाक्रूरा इति च ज्यो० त० पापग्रहार्थ
परतया क्रूरशब्दप्रयोगात् । क्रूरवेधप्रकारस्तु चक्र-
शब्दे सर्व्वतोभद्रचक्रे वक्ष्यते । ७ रक्तकरवीरे पु० ८ श्येन-
पक्षिणि ९ कङ्कपक्षिणि च पुंस्त्री० राजनि० स्त्रियां
जातित्वात् ङीप् । १० रक्तपुनर्णवायां स्त्री राजनि०

क्रूरकर्म्मन् त्रि० क्रूरं हिंसकं कर्म्म यस्य । १ हिंसाकर्म्म-

कारिणि “क्रूरकर्म्मकृताञ्चैव शतशोगुरुतल्पगः” मनुः ।
२ कटुतुम्बिनीवृक्षे पु० राजनि० ।

क्रूरकोष्ठ त्रि० क्रूरं कठिनं कोष्ठं यस्य । धातुवैषम्बकृते

बद्धकोष्ठाशये । “क्रूरकोष्ठस्यावितीक्ष्णाग्नेरल्पनौषधमल्प-
गुणं वा भक्तवत् पाकमुपैति तत्र समुदीर्ण्णदोषा यथाका-
लमनिर्ह्रियमाणा व्याधिं बलबिभ्रमञ्चापादयन्ति” सुश्रु० ।

क्रूरगन्ध पु० क्रूर उग्रोगन्धोऽस्य । १ गन्धके राजनि०

२ तीक्ष्णगन्धमात्रे त्रि० क्रूरः गन्धएकदेशोऽस्याः टाप् ।
कन्थारीकृक्ष तीक्ष्णकण्टकायाम् राजनि० ।

क्रूरदृश् त्रि० क्रूरा दृग् यस्य, क्रूरं पश्यति दृश--क्विन् २ त०

स० वा । १ पिशुने खले २ शनैश्चरग्रहे पु० मेदि० ।
३मङ्गलग्रहे “आरोवक्रः क्रूरदृक् चावनेयः” ज्यो० त० ।
कर्म्म० । नील० ता० उक्ते स्थानविशेषस्थितानां ग्रहाणां
स्थानविशेषे ४ क्षुताख्यदृष्टौ रिपुदृष्टौ स्त्री । ३५५ पृ०
अरिशब्दे विवृतिः । क्रूरस्य ग्रहविशेषस्य दृक । ५ पापग्र-
हदृष्टौ स्त्री ।
पृष्ठ २३३८

क्रूरधूर्त्त पु० क्रूरः कृष्णत्वात् तत्सदृशः धूर्त्तः । कृष्णधत्तू-

रके राजनि०

क्रूरप्रसादन त्रि० क्रूरमपि प्रसादयति प्र + सद + णिच्--ल्यु ।

भक्ते सेवके शब्दचि० ।

क्रूरराविन् पुंस्त्री० क्रूरमुग्रं रौति रु--णिनि । द्रोणकाके राजनि० स्त्रियां ङीप् ।

क्रूरलोचन पु० क्रूरं लोचनमस्य । शनिग्रहे हारा० तद्दृ-

ष्ट्याहिंसकत्वात् तस्य तथात्वम् । यथा च तद्दृष्ट्या
घातकत्वं तथा इभाननशब्दे ९८१ पृ० उक्तम्

क्रूराकृति त्रि० क्रूरा आकृतिर्यस्य । १ कठिनमूर्त्तिके २ रावणे

पु० शब्दमा० । कर्म्म० । ३ कठिनायां मूर्त्तौ स्त्री

क्रेङ्कित न० क्रेङ्केत्यव्यक्तं शब्दं करोति णिच्--भावे क्त ।

क्रेङ्केत्यव्यक्तशब्दभाषणे “निरुध्यमाना चक्रेण चक्री
क्रेङ्कितभाषणैः” काशीख०

क्रेणि त्रि० क्री--नि । क्रेतरि--शस्यक्रेणिः उज्ज्वलद०

क्रेय त्रि० क्री--कर्म्मणि यत् । क्रेतव्ये अमरः

क्रैडिन त्रि० क्रीडी मरुत् देवताऽस्य अण् वेदे नि० नलोपा-

भावः । क्रीडिदैवत्ये साकमेधीये तृतीयाहे प्रातःसवनिके
अण्डद्वयशिश्नरूपे हविषि । “शिश्नान्येवास्य क्रैडिनं
हविः शिश्नैर्हि क्रीडतीवायमेवावाङ् प्राणः” शत०
११, ५, २, ४ “अण्डौ लिङ्गं चेति त्रीणि शिश्नानि”
भा० “तृतीयेऽहन्युपांश्वन्तर्यामौ हुत्वा पौर्ण्णादर्व्वं प्रातः
सवनिकेषु क्रैडिनम्” आश्व० श्रौ० ९ । २ । १५ तद्द्रव्यम-
धिकृत्य इष्टिः छ । क्रैडिनीया इष्टिभेदे सा च इष्टिः
द्यात्या० श्रौ० ५, ७, १ सूत्रादौ दर्शिता । तस्याः पद्धतिश्च
संक्षेपेण कर्कभाष्ये दर्शिता यथा
“अथ क्रैडिनीया द्विहविष्केष्टिरुच्यते तत्र मरुद्भ्यः क्री-
डिम्यः सप्तकपालः, अदित्यै चरुः, इमे हविषी समानतन्त्रे
भवतः प्रतीष्ट्युद्धरणपक्षे क्रैडिन्यादित्येष्ट्यर्थमिष्ट्यद्धरणे
क्रैडिन्यादित्येष्टिभ्यामहं यक्ष्ये इति । वरणे षात्रासादने
सप्तकपालानि एका चरुस्थाली, दक्षिणा अन्वाहार्यः
शतावदानानन्तरम्, मेक्षणम् विंशतिरिध्मकाष्ठानि पुरोडाशपा-
त्र्येका अन्यत्सर्वं प्रकृतिवत् । ग्रहणे मरुद्भ्यः क्रीडिभ्यो
जुष्टम्, अदित्यै जुष्टम् । प्रोक्षणे मरुद्भ्यः क्रीडिभ्यस्त्वा
जुष्टम् अदित्यै त्वा जुष्टम् । नानावीजपक्षे तद्द्भर्मा उक्ताः
एकवीजपक्षे करणान्ते विभज्यालम्भः इदं मरुता क्रीडि-
नाम्; इदमदित्याः । प्राणदाने मरुतः क्रीडिनो गच्छ, अदि
तिं गच्छ, सप्तदशेन वज्रेणेत्यवबाधने । उत्तमप्रयाजे इदमग्नये
सोमाय मरुन्न्यः क्रीडिभ्योऽदित्यै देवेभ्य इत्यादि । प्रधान-
यागे मरुद्भ्यः क्रीडिभ्योऽनुब्रूहि मरुतः क्रीडिनो यज
इदं मरुद्भ्यः क्रीडिभ्यः, अदित्याअनुघ्रूहि अदितिं यज
इदमदित्यै, मेक्षणेन चरोरवदानम् । स्यिष्टकृदादि पुरोडा-
शस्य प्राशित्रेडाव्यतिरिक्तं न भवति चरोस्तु सर्वं भवत्येव ।
व्यूहने मरुतां क्रीडिनामदित्या उज्झितिम् मरुतः क्री-
डिनोऽदितिस्तमपनुदन्तु । प्रस्तरहोमे इदमग्नये सोमाय
मरुद्भ्यः क्रीडिभ्योऽदित्यै देवेभ्य इति । अन्यत्कर्मापव-
र्गान्तं प्रकृतिवत् इति”

क्रैव्य पु० क्रिवीणां पञ्चालानां राजा बा० ञ्य । क्रिविदेश

राजभेदे क्रिविशब्दे उदा०

क्रोञ्च पु० क्रुञ्च अच् वा० गुणः । “कैलासे धनदावासे क्रौञ्चः

क्रोञ्चोऽभिदीयते” इति वृहद्धारावल्युक्ते क्रौञ्चपर्व्वते
क्रोञ्चदारणः कार्त्तिकेयः इति रायमुकुटः

क्रोड पुंस्त्री० क्रुड--घनीभावे संज्ञायां घञ् । १ शूकरे “क्रोड-

कुलदश्यमानभद्रमुस्तारसामोदः” काद० “नदी सैबालदिग्-
धाङ्गं हरिश्मश्रुजटाधरम् । लग्नौ शङ्खनखैर्गात्रैः क्रोडै-
श्चित्रैरिवार्पि तम्” भा० अनु० ५० अ० । २ भुजयोरन्तरे (कोल)
न० स्त्री० अमरः “कुपितकपिकपोलक्रोडताम्रस्तमांसि” उद्भटः
३ वृक्षकोटरे “हा हा हन्त तथापि जन्मविटपिक्रोडे
मनोधावति” उद्भटः । घनीभूते ४ वक्षोमध्यभागे पु०
“इन्द्रस्य क्रोडोऽदित्यै पाजस्यम्” यजु० २५, ८ “क्रोडस्य
घनीभूतवक्षोमध्यभागपरता वेददीपे उक्ता । क्रोड़ं
तु वक्षोभुजान्तरे देहाशभेदः । “हृदयं जिह्वां
क्रोडं सव्यसकिथ पूर्वनडकं पार्श्वे यकृत् वृक्कौ-
गुदमध्यं दक्षिणा श्रोणिरिति जौहवानि” कात्या०
श्रौतसू० ६, ७, ६ “क्रोडं बक्षोभुजान्तरम्” कर्क “शेष-
मिडापात्र्यामासिच्य क्रोडमनस्थीनि च प्रास्यति श्रोणि
वर्ज्जम्” कात्या० श्रौतसू० ६, ८, १३, । ५ अश्वानामुरसि
६ उत्तरस्थग्रामभेदै शब्दचि० ७ वाराहीकन्दे पु० राजनि०
८ शनिग्रहे पु० मेदिनिः

क्रोडकन्या क्रोडस्य शूकरस्य कन्येव प्रियत्वात् । वाराहीक-

न्दे राजनि० ।

क्रोडचूडा स्त्री क्रोडे चूडा यस्याः । सहाश्रावणिकावृक्षे (वड थुलकुडि) राजनि०

क्रोडपत्र न० क्रोडे उपचारात् मध्ये स्थितं पत्रम् ७ त० ।

ग्रन्थलेखने भ्रमात् क्रुटितग्रन्धस्य परिपूरणाय ग्रन्य-
स्थपत्रयोर्मध्ये चिह्नविशेषेण लिखित्वा स्थापिते पत्रे ।

क्रोडपर्ण्णी क्रोडे कण्टकमध्ये पर्ण्णं यस्याः गौरा० ङीष् ।

कण्टकारिकायाम् शब्दच०
पृष्ठ २३३९

क्रोडपाद पुंस्त्री क्रोडे पादोऽस्य । कच्छपे हेम० क्रोडाङ्घ्रि

प्रभृतयोऽप्यत्र ।

क्रोडादि पु० पाणिन्युक्ते उपसर्ज्जनस्वाङ्गे ङीष्निषेध

निमित्ते शब्दगणे स च गणः “क्रोड नख खुर शाखा
उखा शिखा बाल शफ शूक” क्रोडादिराकृतिगणः तेन
भग गल घोण इत्यादयोऽपि ग्राह्याः

क्रोडी स्त्री क्रोड + जातौ, गौरा० वा ङीष् । १ वराहजाति-

स्त्रियां २ वाराहीकन्दे च राजनि० ।

क्रोडीकरण न० क्रीड + च्वि + कृ--भावे ल्युट् । आलिङ्गने हला०

क्रोडीमुख पुंस्त्री क्रोड्याः शूकर्य्यामुखमिव मुखमस्य ।

गण्डके (गाण्डार) राजनि० स्त्रियां जातित्वात् ङीष् ।

क्रोडेष्टा स्त्री क्रोडस्य इष्टा प्रिया । मुस्तके (मुथा) राजनि०

क्रोथ पु० क्रुथ--हिंसने भावे घञ् । हनने हेमच०

क्रोध पु० क्रुध--भावे घञ् । १ परापकाराय चित्तवृत्तिभेदे,

परानिष्टाभिलाषेण अनिष्टविषयद्वेषहेतुके चित्तवृत्तिभेदे ।
क्रोधश्च रौद्ररसस्य स्थायिभावः “रौद्रः क्रोधस्थायिभावो रक्तो
रुद्राधिदैवतः” सा० द० “कामएव कुतश्चित् पराहतः क्रो-
रूपेण परिणमते स च रजोगुणकार्य्यः “कामएष क्रोधएष
रजोगुणससुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह
वैरिणम्” गीतोक्तेः “यस्त्वया पृष्टोहेतुरेष काम एव । ननु
क्रोधोऽपि पूर्वं त्वयोक्तः “इन्द्रियस्येन्द्रियस्यार्थे” इत्यत्र, सत्यं
नासौ ततः पृथक् किन्तु क्रोधोऽप्येषएव, कामएव हि
केनचित् प्रतिहतः क्रोधात्मना परिणमते । पूर्व्वं पृथक्त्वेनो-
क्तोऽपि क्रोधः कामज एवेत्यभिप्रायेणैकीकृत्योच्यते जोगुर-
णात् समुद्भवतीति तथा” श्रीधरः । तस्य कामजत्वमपि
“सङ्गात् संजायते कामः कामात् क्रोधोऽमिजायते” गीता-
यामक्तम् । तत्कार्य्याणि उक्तानि “न कर्म्म क्रोधान्धः प्रभ-
वति विघातुं रणमृते” “अन्धीकरोति भुबनं बधिरीकरोति
धीरं सचेतनमचतनतां नयेत् क्रुत् । कृत्यं न पश्यति
नचात्महितं शृणोति धीमानधीतमपि न प्रतिसन्दधाति”
नीतिशा० “क्षमैव क्रोधविजये समर्थेति विवेकिनः । क्रोधः
कार्य्यविभङ्गाय तस्मात्तं क्षमया जयेत्” शकुनशा० स च
मृदुमध्याधिमात्रभेदेन त्रिधेति पा० साधन पादे ३४ सू०
भा० स्थितम् “क्रोधं विभो! संहर संहरेति” कुमा० ।
“क्रोधे क्षत्रगणः शरे दशमुखः पाणौ प्रलम्बासुरः”
सा० द० । “क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तक-
स्यान्तकोऽहम्” वेणी० । “विषमस्थं जगत्सर्व्वं व्याकुलं
समुदाहृतम् । जनानां जायते भद्रे! क्रोधे क्रोधः पर-
स्परम्” इत्युक्तलक्षणे षष्टिवर्षान्तर्गते अष्टत्रिंशत्तमे
२ बर्षभेदे पु० ।

क्रोधकृत् त्रि० क्रोधं करोति कृ--क्विप् । क्रोधकारिणि २

परमेश्वरे पु० “क्रोधहा क्रोधकृत् कर्त्ता विश्वबाहुर्महीधरः”
विष्णुसं० असाधून् प्रति क्रोधकर्तृत्वात् तस्य तथात्वम् “श्रुति
स्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्त्तते । आज्ञाच्छेदी मम
द्वेषी नरके प्रतिवर्त्तते” इति श्रुतिस्मृत्युदितकर्म्माना
चरणे ईश्वरद्विष्टत्वोक्तेः तस्य तादृशान् प्रति क्रोध-
कर्तृत्वम् । तच्च प्राणिनां स्वादृष्टविशेषात् भवति

क्रोधज त्रि० क्रोधात् जायते जन--ड ५ त० । १ क्रोधजाते

२ मोहे पु० मोहस्य क्रोधजत्वं गीतायामुक्तं यथा
“क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः”
क्रोधजाते द्विविधव्यसनान्तर्गते व्यसनाष्टके च यथाह
मनुः “पैशुन्य साहस द्रोहईर्ष्यासूयार्थदूषणम् । वा
गदण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः”

क्रोधन क्रुध--युच् । १ क्रोधशोले अमरः “यद्रामेण कृतं तदेव

कुरुते द्रौणायनिः क्रोधनः” वेणी० “वागदुष्टः क्रोधनो
हिंस्रः पिशुनः कविरेव च । स्वसूमः पितृवर्त्ती च नामभिः
कर्म्मभिस्तथा । कौशिकस्य सुता आसन् शिष्याः गर्गस्य
भारत!” हरि० २१३ अ० उक्ते गर्गशिष्ये २ कौशिक-
पुत्रभेदे । “रोगोमरणदुर्भिक्षं विरोधोत्तरसङ्कुलम् । क्रोधने
विषमं सर्वं समाख्यातं हरप्रिये!” इत्युक्तलक्षणे षष्टिसं-
त्सरान्तर्गते उनषष्टितमे ३ वर्षभेदे । “असिताङ्गोरुरुश्चण्ड
उल्मत्तःक्रोधनस्तथा” इति तन्त्रोक्ते ४ भैरवभेदे च पु० ।

क्रोधमूर्च्छित त्रि० क्रोधोमूर्च्छितो बहुलीभूतोऽस्य ३ त० वा ।

१ अतिकोपने “एवमुक्ता तु पार्थेन उर्व्वशी क्रोधमूर्च्छिता”
भा० व० ४६ अ० ५ त० । २ चोरनामगन्धद्रव्ये पु० शब्दर०

क्रोधवर्द्धन त्रि० क्रोधं वर्द्धयति वृध--णिच् ल्यु ६ त० । १

कोपस्य वर्द्धके अनिष्टसूचकवाक्यादौ २ असुरभेदे पु० “चन्द्र-
हन्ता क्रोधहन्ता क्रोधबर्द्धन एव च” हरि० २६३ अ०
असुरकथने । स एव भारतयुद्धकाले दण्डधारनृपत्वेना-
विर्भूतः यथा “क्रोधबर्द्धन इत्येव यस्त्वन्यः परिकी-
र्त्तितः । दण्डधारैति ख्यातः सोऽभवन्मनुजर्षभः” भा०
आ० ६७ अ० अशावतारे

क्रोधहन् पु० क्रोधं हन्ति हन्--क्विप् । १ विष्णौ “क्रोधहा

क्रोधकृत् कर्त्ता विश्वबाहुर्महीधरः” विष्णुसं० “साधूनां
क्रोधं हन्तीति क्रोधहा” भा० । २ कोपघातके त्रि०
पृष्ठ २३४०

क्रोधहन्तृ त्रि० क्रोधं हन्ति हन--तृच् ६ त० । १ कोपघातके

२ असुरभेदे पु० सच वृत्तासुरस्यावरजः । “क्रोधहन्तेति
यस्तस्य (वृत्तस्य) बभूवावरजोऽसुरः । दण्ड इत्यभिवि-
ख्यातः स आसीन्नृपतिः क्षितौ” भा० आ० ६७० ।
३ असुरभेदे पु० क्रोधवर्द्धनशब्दे दृश्यम्

क्रोधसम्भव त्रि० सम्भवत्यस्मात् सम् + भू--अपादाने अप्

क्रोधः सम्भवोऽस्य । कोपजाते “क्रोधात् भवति संमोहः”
गीता० भावे अप् ६ त० । २ कोपोत्पत्तौ “मार्ज्जारमूषिका-
स्पर्शे आक्रुष्टे क्रोधसम्भवे” क्रोधसम्भवे कोपोत्पत्तौ”
श्रा० त० रघुनन्दनः ।

क्रोधालु त्रि० क्रुध--बा० आलुच् । कोपशीले “क्रोधालुर्विपुलबलो निशाघिहारी” सुश्रुतः

क्रोधिन् त्रि० क्रुध--णिनि । कोपयुक्ते मारुतप्रकृतेरेव

तथात्वं भवति यथाह सुश्रुतः
“सप्त प्रकृतयो भवन्ति । दोषैः पृथक्३ द्विशः ३ समस्तैश्च? ।
शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः । प्रकृतिर्जाथते
तेन तस्या मे लक्षणं शृणु । तत्र जागरूकः शीतद्वेषी
दुर्भगः स्तेनो मत्सर्य्यनार्य्यो आन्धर्व्वचित्तः स्फुटितकर-
चरणोऽति सूक्षश्मश्रुनखकेशः क्रोधी दन्तनखखादी च
भवति । अधृतिरदृढसौहृदः कृतघ्नः कृशषरुषो धमनी-
ततः प्रलापी । द्रुतगतिरटनोऽनवस्थितात्मा वियदपि
गच्छति सम्भ्रमेण सुप्तः । अव्यवस्थितमतिश्चलदृष्टिर्मन्द
रत्नधनसञ्चयमित्रः । किञ्चिदेव विलपत्यनिबद्धं मारुत-
प्रकृतिरेष मनुष्यः” ।

क्रोश पु० क्रुश--भावे घञ् । १ रोदने २ आह्राने च । क्रोशति

यतः अपादाने घञ् । “हस्तेश्चतुर्भिर्भवतीह दण्डः क्रोशः
सहस्रद्वितीयेन तेषाम्” लीला० व० उक्ते८००० सहस्रकरमिते
अध्वपरिमाणे “चतुर्हस्तोधनुर्दण्डो नालिका तद्युगेन च ।
क्रोशोधनुः सहस्रेण गव्यूतिश्च चतुर्गुणा” हेमा० दा०
मार्क० पु० उक्तेः, “गव्यूतिः स्त्री क्रोशयुगम्” अमरोक्तेश्च
तस्य गव्यूतेरर्द्धमानता प्रतीयते हेमाद्रि० दा० आदित्य
पुराणे च “धनुःसहस्रे द्वेचापि गव्यूतिरुपदिश्यते” इत्यु-
क्त्या तु गव्यूतेर्द्विसहस्रधनुर्मितत्वात् तदर्द्धत्वेन चतुःस-
हस्रहस्तमितत्वमपि क्रोशस्य कार्य्यविशेषे गृह्यते इति
भेदः । ३ मुहूर्त्ते “दशदण्डे तु या पूजा तत्सर्व्वमक्षयं
भवेत् । षष्ठे क्रोशे महेशानि! तत्सर्व्वममृतोपमम् ।
सप्तमे क्रोशके देवि! द्रव्यतुल्यं न संशयः । अतःपरं
महेशानि । विपतुल्यं न संशयः” इति शक्तिस० त०
६ पटले । “क्रोशार्द्धं प्रकृतिपुरस्सरेण गत्वा” रघुः

क्रोशताल पु० क्रोशं व्याप्य तालः शब्दोऽस्य । ढक्कायां हारा०

क्रोशध्वनि पु० क्रोशं व्याप्य ध्वनिरस्य । ढक्कायां हारा०

क्रोशयुग न० ६ त० । क्रोशद्वयमिते गव्यूतौ अमरः

क्रोशिन् त्रि० क्रुश--णिनि । शब्दकारके उपमानपूर्व्वकतया

समासे क्रोशिनि परे पूर्व्वपदस्याद्युदात्तता । उष्ट्रकोशी

क्रोष्टु पुंस्त्री क्रुश--तुन् । १ शृगाले अमरः अस्य अस बुद्धौ

सर्व्वनामस्थाने परे नित्यं तृतीयादावचि वा, स्त्रियां तु
नित्यं तृज्वत् । क्रोष्टा क्रोष्ट्रारौ हे क्तोष्टो! । क्रोष्टून् ।
क्रोष्ट्रा क्रोष्टुना क्रोष्टुभ्यामित्यादि स्त्रियां ङीप् क्रोष्ट्री ।
“क्रोष्टा मायोरिन्द्रस्य गौरमृगः” “यजु० २४, ३२ “शार्द्दूलस्य
गुहां शऊन्यां नीचः क्रोष्टाऽभिमर्दति” भा० आ० २१३ अ०
२ यदुवंश्ये नृपभेदे पु० । “क्रोष्टोस्तु शृणु राजेन्द्र!
वंशमुत्तममव्ययम् । यदोर्वंशधरस्याय यज्वनः पुण्यकर्म्मि-
णः । क्रोष्टोर्वंशं हि श्रुत्वेमं सर्व्वपापैः प्रमुच्यते ।
यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः” “गान्धारी
चैव माद्री च क्रोष्टोर्भार्य्ये बभूवतुः” हरि० ३५ अ० स्वार्थे क ।
शृगाले “क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा” भा०
आ० १४० अ० । क्रोष्टुकपुच्छिका । क्रोष्टुर्गोत्रापत्यम् कुञ्जा०
च्फञ् क्रोष्टुः क्रोष्टञ्च । क्रौष्टायन ततः स्वार्थे अस्त्रियां
ञ्यः । क्रौष्टायन्य तद्गोत्रापत्ये पुंसि स्त्रियान्तु न
ञ्यः । जातित्वात् ङीष् क्रौष्टायनी ।

क्रोष्टुकपुच्छिका स्त्री क्रोष्टुकस्य शृगालस्य पुच्छमिव पुष्प

मस्त्यस्य ठन् । १ पृश्निपर्ण्याम् (चाकुलिया) (रामवासक्)
इत्यमरटीकायां स्वामी २ गोलोमिकायाम् राजनि०

क्रोष्टुकमेखला स्त्री क्रोष्टुकस्य मेखलेवास्त्यस्याः अच् ।

पृश्निपर्ण्यां (चाकुलिया) रत्नमा०

क्रोष्टकर्ण्ण पु० । ग्रामभेदे सोऽभिजनोऽस्य तक्षशिला० अञ् ।

क्रौष्ठुकर्ण्ण पित्रादिक्रमेण तद्ग्रामवासिनि स्त्रियां ङीप्

क्रोष्टुकशिरस् न० “वातशोणितजःशोफः जानुमध्ये महारु-

जः । शिरःक्रोष्टुकपूर्वन्तु स्थूलं क्रोष्टुकमूर्द्धवत्” सुश्रुतोक्ते
वातजे रोगभेदे । क्रोष्टुकशिरःखञ्जपङ्गुलवातवेदनासु
इत्यादि” “गृध्रसीविश्चाची क्रोष्ठुकशिरःखञ्जेत्यादि सुश्रु०

क्रोष्टुपाद पु० ऋषिभेदे तस्य गोत्रापत्यम् इञ् । क्रौष्टुपादि

तद्गोत्रापत्ये अस्त्रियां बहुत्वे यस्का० तस्य लुक् । क्रोष्टु-
पादाः स्त्रियान्तु क्रौष्ट्रपाद्यः । एवं क्रोष्टुमान, क्रोष्टुमा-
यशब्दौ ऋषिभेदयोः तदपत्ये इञ् बहुषु अस्त्रियाम्
यस्कादि० तस्य लुक् ।

क्रोष्टुपुच्छिका स्त्री क्रोष्टुःपुच्छमिवास्त्यस्याः ठन् । पृश्निप-

र्ण्याम् (चाकुलिया) रत्नमा०
पृष्ठ २३४१

क्रोष्टुपुच्छी स्त्री क्रोष्टोः पुच्छमिव पुच्छमस्याः ङीष् । पृश्नि-

पर्ण्ण्याम् (चाकुलिया) शब्दरत्ना०

क्रोष्टुफल पु० क्रोष्टोः प्रियं फलमस्य । इङ्गुदीवृक्षे राजनि०

क्रोष्टुविन्ना स्त्री क्रोष्टुना विन्ना प्राप्ता पुष्पाकारेण ३ त० ।

पृश्निपर्ण्याम् (चाकुलिया) अमरः । (विरालछाञि)
२ वृक्षे भरतः ।

क्रोष्टेक्षु पु० क्रोष्टुः प्रियं इक्षुः पृषो० । श्वेतेक्षौ राजनि०

क्रोष्ट्री स्त्री क्रोष्टुजातिस्त्री क्रोष्टुस्त्वज्वत् ऋदन्तत्वात् ङीप् ।

२ शृगालजातिस्त्रियाम् तत्प्रियत्वात् २ श्वेतभूमिकुष्माण्डे
अमरः । ३ कृष्णविदार्य्यां ४ लाङ्गल्याम् च मेदि०

क्रौञ्च पुंस्त्री० कुदृ + वार्थे प्रज्ञा० अण् । (क्ॐचवक) वकभेदे

स्त्रियाम् अणन्तत्वात् ङीप् । “निशम्य रुदतीं क्रौञ्चीम्”
रामा० बा० २ अ० । स्त्रियां टाप् इति वदन् भरतश्चिन्त्यः ।
अजादिषु क्रुञ्चशब्दस्यैव पाठात् तदप्रवृत्तेः । २
हिमवतः पौत्रे पर्व्वतभेदे “घनुर्विकृष्य व्यसृजद्वाणान् श्वेते
महागिरौ । बिभेद स (कार्त्तिकेयः) शरैः शैलं क्रौञ्चं
हिमवतः सुतम्” भा० व० २२४ अ० । तस्य हिमवत्पौ-
त्रत्वेऽपि सन्तानाभिप्रायेण सुतत्वोक्तिः । तस्य हिमवत्पु-
त्रमैनाकपुत्रत्व हरिवं० १८ अ० उक्तं यथा “एतेषां
मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतः
श्रेष्ठा यस्यां मैनाक उच्यते । मैनाकस्य सुतः श्रीमान्
क्रौञ्चोनाम महागिरिः । पर्व्वतप्रवरः पुत्रो नानारत्न-
समन्वितः” । ३ द्वीपभेदे ४ असुरभेदे । “क्रौञ्चे (द्वीपे) क्रौञ्चो-
हतोदैत्यः क्रौञ्चाद्रौ हेमकन्दरे । स्कन्देन युद्ध्वा सुचिरं
चित्रमायी सुमायिना । स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण
कर्म्मणा । केतुतामगमत्तस्य नाम्ना क्रौञ्चः स उच्यते”
मृगेन्द्रसंहिता । क्रौञ्चदैत्यश्च मयदानवपुत्रः यथाह
हरि० ४७ अ० “मयो ददर्श मायावी दानवान्दिवि
दानवः । स शिलाजालविततां गण्डशैलादृहासिनीम् ।
पादपोत्कृष्टकूटाग्रां कन्दराकीर्णकाननाम् सिंहव्याघ्रगणा-
कीर्णां नदन्तीं दैत्ययूथपैः । ईक्षार्मृगगणाकीर्णां पवना
घूर्णितद्रुमाम् । निर्म्मितां स्वेन पुत्त्रेण क्रौञ्चेनदिवि
कामगाम् । प्रथितां पार्व्वतीं मायां ससृजे स समन्ततः” ।
“षण्मुखचरितमिव श्रूयमाणक्रौञ्चवनिताप्रलापम्, काद०
५ कुररीखगेराजनि० । ६ अर्हतां ध्वजभेदे ७ राक्षसमेदे च
पु० हेम० । क्रौञ्चद्वीपस्थानञ्च “भूमेरर्द्धं क्षारसिन्धोरुदकस्थं
जम्बुद्वीपं प्राहुराचार्य्यवर्य्याः । अर्द्धेऽन्यस्मिन् द्वीपष-
टकस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः” इत्युपक्रमे-
जम्बुद्वीपमुक्त्वा । “शाकं ततः शाल्मममत्र कौशं क्रौञ्चं
च गोमेदकपुष्करे च । द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयो-
र्द्वीपमुदाहरन्ति” सि० शि० उक्तम् । तद्विवृतिः विष्णुपु०
“घृतोदश्च समुद्रोवै क्रौञ्चद्वीपेन संवृतः । क्रौञ्चद्वीपो
महाभाग । श्रूयताञ्चापरो महान् । कुशद्वीपस्य विस्ताराद्
द्विगुणो यस्य विस्तरः । क्रौञ्चद्वीपे द्युतिमतः पुत्राः
सप्त महात्मनः । तम्नामानि च वर्षाणि तेषाञ्चक्रे
महीपतिः । कुशलो मन्दगश्चोष्णः पीवरोऽथान्धकारकः ।
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने! । तत्रापि
देवगन्धर्व्वसेविताः सुमनोरमाः । वर्षाचला महाबुद्धे!
तेषां नामानि मे शृणु । क्रौञ्चश्च वामनश्चैव तृतीयश्चान्ध-
कारकः । चतुर्थोहरशैलश्च स्वभाभिर्भासयन्नभः । देवावृत्
पञ्चमश्चैव तथान्यः पुण्डरीकवान् । दुन्दुभिश्च महाक्रौञ्चो
द्विगुणस्ते परस्परम् । द्वीपा द्वीपेषु ये शैला यथा द्वीपानि
ते तथा । वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च । निवसन्ति
निरातङ्काः सह देवगणैः प्रजाः । पुष्कराः पुष्कला
धन्यास्तिष्याख्याश्च महामुने! । ब्राह्मणाः क्षत्त्रिया
बैश्या शूद्राश्चानुक्रमोदिताः । तैस्तत्र नद्यो मैत्रेय! या
पीयन्ते शृणुष्व ताः । सप्त प्रधाना शतशस्तथान्याः क्षुद्र
निम्नगाः । गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः । तत्रापि
वर्णैर्भगवान् पुष्कराद्यैर्जनार्द्दनः । योगी रुद्रस्वरूपस्तु
इज्यते यज्ञसन्निधौ । क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन
च । आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः ।
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य
विस्ताराद्द्विगुणेन महामते!” । “तथा वहिः क्रौञ्चद्वीपो
द्विगुण्णः स्वमनेन क्षीरोदेन परित उपकॢप्तः । वृतो यथा
कुशद्वीपो घृतोदेन । यस्मिन् क्रौञ्चो नाम पर्वतराजोद्वी-
पनामनिर्वर्त्तक आस्ते । योऽसौ गुहप्रहरणोन्मथित-
स्वकुञ्जोऽपि क्षीरोद्रेनाभिषिच्यमानो भगवता वरुणेना-
भिगुप्तोविभयो वभूव । तस्मिन्नपि प्रैयव्रतो घृतपृष्ठेना-
माधिपतिः स्वे द्वीप्रे वर्षाणि सप्त विभज्य तेषु पुत्रनाम-
सु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगबतः परमक-
ल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ।
आम्रोमधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो
वनस्पतिरिति वृतपृष्ठसुताः । तेषां वर्षगिरयः सप्त
सप्तैव नद्यश्चाभिख्याताः । शुक्लो वर्द्धमानो भोजन
उपवर्हणो नन्दोनन्दनः सर्वतोभद्र इति । अभया
पृष्ठ २३४२
अमृतौघा आर्य्यका तीर्थवती पवित्रवती शुक्लेति ।
यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषर्षभद्रविण-
देवकसज्ञावर्षपुरुषा आपोमयं देवमपांपूर्णेनाञ्जलिना
यजन्ते” भाग० ५, २०, १३, अन्यथोक्तं कल्पभेदादविरुद्धम् ।
८ सामभेदे न० “क्रौञ्चानि भवन्ति” श्रुतिः तच्च साम गेयगाने
१५ प्र० २ यार्द्धे ८, ९ गानम् । क्रौञ्चपर्वतश्च द्विविधः विष्णु-
पुराणोक्तक्रौञ्चद्वीपान्तर्गतः श्वेतगिरेः सन्निकृष्टस्थः
हिमवत्पौत्ररूपश्च तमेव प्रकृत्य “प्रालेयाद्रेरुपतटमति-
क्रम्य तांस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म
यत् क्रौञ्चरन्ध्रम्” मेघदूते वर्ण्णितम्” । क्रौञ्चादिव
हंसनिवहो निर्ज्जगाम गुणगुणः” काद०

क्रौञ्चदारण पु० क्रौञ्चं पर्व्वतं दारयति दृ--णिच् ल्यु ।

१ कार्त्तिकेये अमरः तद्दारणकथा क्रौञ्चशब्दे भा० व० २२४ अ०
वाक्यस्था । २ परशुरामे च तत्कथा क्रौञ्चरन्ध्रं शब्देदृश्या

क्रौञ्चपदा “क्रौञ्चपदा भ्मौ स्भौ ननना न्गाविषुशरवसुमुनि

विरतिरिह भवेत्” वृ० र० उक्ते पञ्चविंशत्यक्षरपादके
छन्दोभेदे

क्रौञ्चपदी स्त्री भारतोक्ते तीर्थभेदे “अश्मपृष्ठे पयस्याञ्च

निरविन्दे च पर्व्वते । तृतीयां क्रौञ्चपद्याञ्च व्रह्महत्यां
विशुध्यति” भा० आनु० २५ अ०

क्रौञ्चपुर न० यदुवंश्यसारमनृपनिर्म्मिते पुरभेदे “सारसेनापि

विहितं रम्यं क्रौञ्चपुरं महत् । चम्पकाशोकबहुलं वि
पुलं ताम्रमृत्तिकम् । वनवासीति विख्यातः स्फीतोजन
पदो महान् । पुरस्य तस्य तु श्रीमान् द्रुमैः सर्वर्त्तुकैर्वृतः ।
हरि० ९५ अ० “ततः सह्याचलयुतं सहार्य्येणाहमक्षयम् ।
आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम् । करवीर
पुरञ्चैव रम्यं क्रौञ्चपुरं तथा” ९६ अ० “तां (खट्वाङ्गीम्)
तीर्त्त्वा निम्रगां तत्र तांश्च दृष्ट्वा तपोधनान् । रम्यं
क्रौञ्चपुरं नाम गमिष्यामः पुरोत्तमम्” ०६ अ०

क्रौञ्चबन्धम् अव्य० क्रौञ्चमिव बद्ध्वा “बन्धः संज्ञायायाम्” पा०

णमुल् कसादिषु यथाविध्यनुप्रयोगः । क्रौञ्चमिव बद्ध्वा
बद्ध इत्यर्थे

क्रौञ्चरन्ध्र न० क्रौञ्चस्य रन्ध्रम् । मानसस्थहंसनिर्गममार्गे

क्रौञ्चपर्व्वतस्थे रन्ध्रे “हंसद्वारं भृगुपतियशोवर्त्म यत्
क्रौञ्चरन्ध्रम्” मेघ० । “मानसस्थायिनोहसाः क्रौञ्चरन्ध्रेण
सञ्चरन्ते इत्यागमः” मल्लि० क्रौञ्चादिव हंसनिवहो
निर्जगाम गुणगणः” काद० । तच्च रन्ध्रं परशुरामेण कृतं
गथा मेघदूतव्याख्याने मल्लिनाथआह
“पुरा किल भगवतो देवात् धूर्ज्जटेः धनुरुपनिषदम्
अधीयानेन भृगुनन्दनेन स्कन्दस्य स्पर्द्धया क्रौञ्चं
शिखरिणम् अतिनिशितविशिखमुखेन हेलया मृत्पिण्ड
भेदं भित्त्वा ततः क्रौञ्चभेदादेव सद्यःसमुज्जृम्मिते
कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालम्
आप्लावितमिति” कथा श्रूयते” ।

क्रौञ्चसूदन पु० क्रौञ्चं मयदैत्यसुतं सुदयति सृद--णिच--ल्यु ।

कार्त्तिकेये तस्य तथात्वं क्रौञ्चशब्दे मृगेन्द्रसंहितावा
क्यात् ज्ञेयम् “स ते स्कन्दः प्रसीदतु” इत्युपक्रमे
“रम्यद्रिव्यवपुर्देवः पातु त्वां क्रौञ्जसूदनः” सुश्रुते उक्तम् ।
क्रौञ्चनिसूदकादयोऽप्यत्र “ऋषभद्वीपमासाद्य सेव्यं क्रौञ्च-
निसूदकम् । सरस्वत्यामुपस्पृश्य विमानस्थो विराजते”
भा० व० ८४ अ०

क्रौञ्चवत् पु० क्रौञ्चाः वकभेदा बाहुल्येन सन्त्यत्र मतुप्

मस्य वः । पर्व्वतभेदे “कैलासं क्रौञ्चवन्तं च तथाद्रिं
गन्धमादनम्” हरि० २०२ अ० । क्रौञ्चयुक्तमात्रे त्रि०
स्त्रियां ङीप् ।

क्रौञ्चादन न० अद्यते कर्म्मणि ल्युट् ६ त० । मृणाले २

चिञ्चोटके (चेँचको) ३ घेञ्चुलिकायां (घेँचु) मेदिनि० ४ पिप्पल्यां
शब्दरत्ना० पद्मवीजे स्त्री० राजनि० ङीप् ।

क्रौञ्चाराति पु० क्रौञ्चस्य दैत्यभेदस्यारातिः । १ कार्त्तिकेये हला०

२ परशुरामे च शब्दमाला क्रौञ्चरिपुप्रभृतयोऽप्यत्र ।

क्रौञ्चारण्य न० जनस्थानात् क्रोशत्रयान्तरे दण्डकारण्य

पार्श्ववर्त्तिनि वनभेदे “ततः परं जनस्थानात् त्रिक्रोशं
गम्य राघवौ । क्रौञ्चारण्यं विविशतुर्गहनं तौ
महौजसौ” रामा० आर० ६९ अ० । “ततः पूर्व्वेण गत्वा च
त्रिक्रोशं भ्रातरावुभौ । क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्र-
ममन्तिके” तत्रैवोक्तेः तस्य मतङ्गाश्रमात् त्रिक्रोशान्त-
रितपश्चिमस्थत्वम् ।

क्रौशशतिक त्रि० क्रोशशतादभिगमनमर्हति ठञ् । १ क्रोश-

शतादागन्तरि भिक्षौ । क्रोशशतं गच्छति ठञ् । २ क्रोश-
शतगन्तरि त्रि० । उभतः स्त्रियां ङीप् ।

क्रौष्ट्रायण्य पुंस्त्री० प्रकृतिग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्

क्रोष्त्र्या गोत्रापत्यम् कुञ्जा० च्फञ् ततः स्वार्थे अस्त्रियाम्
ञ्य । क्रौष्ट्रायण्यः क्रोष्टु गोत्रोत्पन्नस्त्रियागोत्रापत्ये । बहुषु
यस्का० लुक । क्रौष्ट्रायणाः तद्गोत्रापत्येषु । ततः
अरीहणा० चतुरर्थ्याम् वुञ् । क्रौष्ट्रायणक तन्निवृत्तातौ त्रि० ।
पृष्ठ २३४३

क्रौष्टुकि पुंस्त्री० क्रोष्टेव स्वार्थे क तस्यापत्यम् इञ् । १ क्रोष्टु-

कर्षेरपत्ये स्त्रियां ङीप् । २ ऋषिभेदे पु० । “तत्को
द्रविणोदाः? इन्द्र इति क्रौष्टुकिः” निरुक्त० ८, २

क्लथ बधे वा चुरा० उभ० पक्षे म्बा० प० सेट घटादि० । क्लथयति

ते क्लथति, अचिक्लथत् अक्लाथीत् अक्लथीत् । क्लथयां-
बभूवं आस चकार चक्रे चक्लाथ । मध्ये धृतस्यापव-
र्त्तने च । “पौष्णो विष्पन्दमाने मारुतः क्लथन्” यजु०
३९, ५, “क्लथनं मध्ये धृतस्यापवर्तनम्” वेददीपः

क्लद रोदने अक० आह्वाने सक० इदित् भ्वा० पर० सेट् ।

क्लन्दति अक्लन्दीत् । चक्लन्द । क्रन्द्यते

क्लद वैकल्ये दि० आत्म० अक० सेट् घटादि० । क्लद्यते अक्लादष्ट

चक्लदे । क्लदयति त अचिक्लदत् त ।

क्लद रोदने भ्वा० उभ० इदित् अक० सेट् । क्लन्दति ते अक्ल-

न्दीत् अक्लन्दिष्ट । चक्लन्द चक्लन्द । क्लन्द्यते “याः
क्लन्दास्तमिषीचयो ऽक्षकामामनो मुहः ताभ्यो गन्धर्व-
पत्नीभ्योऽप्सराभ्योऽकरं नमः” अथ० २, २, ५

क्लप अव्यक्तवाक्ये चुरा० उभ० अक० सेट् घटा० । क्लपयति-

ते अचिक्लपत्--त । क्लपयां बभूव आस चकार चक्रे

क्लम ग्लानौ दिवा० पर० अक० सेट् शमा० । क्लाम्यति अक्लमीत्

चक्लाम । उदित् क्लमित्वा--क्लान्त्वा । क्लान्तः । घञ्
न वृद्धिः क्लमः । क्लम्यते अक्लमि । “क्लमं ययौ कन्दुक-
लीलयाऽपि या” “अह्नाय सा नियमजं क्ललमुत्ससर्ज”
कुमा० “न चक्लाम न विव्यथे” भट्टिः “तपः क्लमं
साधयितुं य इच्छति” शकु०

क्लम ग्लानौ भ्वा० पर० अक० सेट् । क्लमति इरित् अक्लमत्

अक्लमीत् चक्लाम । क्लमित्वा । क्लमितः ।

क्लम पु० क्लम--भावे घञ् अवृद्धिः । “योऽनाय सः श्रमोदेहे

प्रवृद्धः श्वाससङ्गतः । क्लमः स इति विज्ञेय इन्द्रियार्थ
प्रवाधकः” । भावप्र० उक्ते श्रमभेदे ।

क्लमथ पु० क्लम--अथच् । आयासे अमरः ।

क्लमिन् त्रि० क्लम--घिनुण् अवृद्धिः । क्लान्तियुक्ते ।

क्लव भये दिवा० आत्म० अक० सेट् घटादि० । क्लंव्यते अक्ल-

विष्ट । चक्लवे । क्लवयति । वि--वैकल्ये विक्लवः ।

क्लान्त त्रि० क्लम--क्त । श्रमार्त्ते ।

क्लान्ति स्त्री क्लम--क्तिन् । परिश्रमे “क्लान्तिच्छिदोवनवनस्पतयस्तदानीम्” मावः ।

क्लिद आर्द्रीभावे दिवा० पर० अक० वेट् । क्लिद्यति । इरित् ।

अक्लिदत्--अक्लेदीत्--अक्लैत्सीत् । चक्लाद । क्लेदः । क्लिद्यन्
क्लेदी । क्लेदयति ते । अचिक्लिदत् त । “तेन क्लिद्यति
व्रणः” सुश्रु० । “सुवेशं पुरुषं दृष्ट्वा भ्रातर यदि वा
सुतम् । योनिः क्लिद्यति नारीणाम्” हितो० ।
“लुट्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च” भट्टिः ।
“कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत्” भा०
आ०१३५ । “नचैनं क्लेदयन्त्यापो न शोषयति मारुतः ।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च” गीता ।
“रक्तैरचिक्लिदद्भूमिम् सैन्यैश्चातस्तरद्धतैः” भट्टिः ।
उपसर्गविशेषपूर्शकस्तु तत्तदुपसर्गद्योत्यार्थविशिष्टे क्लेदे ।

क्लिद रोदने इदित् भ्वा० उभ० अक० सेट् । क्लिन्दति ते

अक्लिन्दीत् अक्लिन्दिष्ट । चिक्लिन्द चिक्लिन्दे । क्लिन्दितः ।
परिदेवने शोके सक० आत्म० । क्लिन्दते चैत्रम्” सि० कौ० ।

क्लिन्न त्रि० क्लिद--कर्त्तरि क्त । आर्द्रे (भिजे) क्लिदधातौ उदा०

क्लिन्नवर्त्मन् न० “अरुजं बाह्यतः शूनमन्तःक्लिन्नं स्रवत्यपि ।

कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते” सुश्रुतीक्ते नेत्रा-
वयवभेदवर्त्माश्रये रोगभदे ।

क्लिब पु० क्लप् क्विप् पृषो० । लोके । “ॐ क्रतो! स्मर क्लिवे-

स्मर कृतं स्मर” यजु० ४०, १५, “क्लवे कॢप्ताय लोकाय-
स्मर” माधवः । “कल्पते भोगाय क्लप् लोकः तस्मै स्मर
जशादेश आर्षः छन्दस्युभयथेति” पा० “पदान्तत्वात्” वेददी०

क्लिश उपतापे दिवा० आ० अक० उपतप्तीकरणे सक० सेट्

पा० । किश्यते अक्लेशिष्ट । क्लिशित्वा क्लिष्ट्वा । क्लिशितः
क्लिष्टः । कविकल्पमते अयमुभयपदो तेन “क्लिश्यन्नपि
हि मेधावी” प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्ल-
वीति” नृपात्मजौ चिक्निशतुः समीतौ” भट्टिः साधुः
सकर्म्मकत्वे “इन्द्रियैः कामवृत्तैस्तु क्लिश्यसे प्राकृतोयथा”
रामा० ति० १६, २७, अकर्म्मकत्वे “। क्लश्यते हि जनः
सर्व्वः तरमाणः पुनः पुनः” भा० व० १३५ अ० । “चिर
क्लिशित्वा मर्म्मावित्” भट्टिः परस्मैपदित्वे “त्रयः परार्थे
क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम्” मनुः । “हिम-
क्लिष्टप्रभावानि ज्योतींषीव मुखानि वः” कुमा० । “क्लेशः
फलेन हि पुनर्नवतां निधत्ते” कुमा० ।
उपसर्गपूर्ब्बकस्तु तत्तदुपसर्गविशेष्यद्योत्यार्थोपतापे

क्लिश बाधने सक० क्र्या० ऊदित् वेट् । क्लिश्नाति अक्लेशीत् अक्लि-

क्षत् चिक्लेश । क्लिष्टः । क्लेशः लिशित्वा क्लिष्ट्वा । क्लिशितः क्लि
ष्टः “इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्” कुमा० ।
“अयं मां सुदृढ क्षुद्रः कौरवाणां यशोहरः । क्लिश्नाति
नाहं तत् सोढुं चिरं शक्ष्यामि कौरव!” भा० स० ६७ ।
“असुरस्तारकोनाम त्वया दत्तवरः प्रभो! । सुरानृषींश्च
क्लिश्नाति कधस्तस्य विधीयताम्” भा० आनु० ८५ अ०
पृष्ठ २३४४
“किश्नन्निवास्य भुजमध्यमुरःस्थलेन” रघुः । अत्र मल्लि-
नाथः क्लिश्नन्निति पठित्वा क्लिश्नातिरयं सकर्म्मकः “क्लि-
श्नातिभुवनत्रयमिति दर्शनादिति व्याचख्यौ । तेन
टीकापुस्तके क्लिश्यन्निति पाठः प्रामादिकएव ।
उपसर्गविशेषात्तु तत्तदुपसर्गद्योत्यार्थयुक्ते बाधने ।
परि + सर्व्वतोबाधने । “परिक्लिश्यमाने” पा० ।

क्लिशित त्रि० क्लिश--क्त वा इट् । १ क्लेशयुक्ते २ उपतापिते च

क्लिष्ट त्रि० क्लिश--क्त वा इडभावः । १ केशयुक्ते २ पीडिते च ।

३ पूर्ब्बापरविरुद्धार्थके वाक्ये न० अमरः

क्लिष्टा स्त्री क्लिष्टं क्लेशः अस्त्यस्याम् अच् । पातञ्जलोक्ते

चित्तवृत्तिभेदे यथा
“वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” सू०
“क्लेशहेतुकाः कर्म्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्याति-
विषया गुणाधिकारविरोधिन्योऽक्लिष्टाः क्लिष्टप्रवाहपतिता
अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्ट-
च्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्काराः वृत्ति-
भिरेव क्लिश्यन्ते संस्कारैश्च वृत्तय इति एव वृत्तिसस्कार
चक्रमनिशमावर्त्तते तदेवम्भूतं चित्तमवसिताधिकारमात्म
कल्पेनावतिष्ठते प्रलयं वा गच्छतीति । ताः क्लिष्टाश्च
पञ्चधा वृत्तयः” भा०
“स्यादेतत् पुरुषो हि शक्ये, उपदिश्यते । न च वृत्तिनि-
रोधो वृत्तीरविज्ञाय शक्यो, न च सहस्रेणापि पुरुषा-
युषैरलमिमाः कैश्चित् परिगणयिंतुमसख्याताश्च कथ
निरोधव्या इत्याशङ्क्य तासामियत्तास्वरूपप्रतिपादनपर
सूत्रमवतारयति ताः पुनर्निरोद्धव्या बहुत्वे सति
चित्तस्य व्र्त्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः । वृत्तिरूपोऽ-
वयव्येकः । तस्य प्रमाणादयोऽवयवाः पञ्च ततस्तदवयवाः
पञ्चतय्यः पञ्चावयवा वृत्तिर्भवति ताश्च वृत्तयश्चैत्रमैत्रादि
चित्त--भेदात् बह्व्य इति बहुवचनमुपपन्नम् एतदुक्तं भवति
चैत्रो वा मैत्रो व काश्चित्सर्व्वेषामेव तेषां वृत्तयः पञ्चतय्यः
एव नाधिकैति! चित्तस्येति चैकवचनं जात्यभिप्रायं
चित्तानामिति तु द्रष्टव्यम् । तासामवान्तरविशेषमनुष्ठानोप-
योगिनं दर्शयति । क्लिष्टाऽक्लिष्टा इति । अक्लिष्टा
उपादेयाः क्लिष्टा निरोद्धव्यास्ता अपि परेण वैराग्येणेति ।
अस्य व्याख्यानम् । क्लेशहेतुका इति । क्लेशाः अस्मितादयो
हेतवः प्रवृत्तिकारणं यासां वृत्तीनान्तास्तथोक्ताः । यद्वा
पुरुषार्थं प्रधानस्य रजस्तमोमयीनां हि वृत्तीनां क्लेशका-
रित्वेन क्लेश्यैव प्रवृत्तिः क्लेशः क्लिष्टम् तदासामस्तीति
क्लिष्टा इति । यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिरत-
एव कर्म्माशयप्रचयक्षेत्रीभूताः प्रमाणादिकाः । खल्वयं
प्रतिपत्त्यर्थमवसाय तत्र सक्तोद्विष्टो वा कर्म्माशयमाचिनो-
तीति भवन्ति धर्म्माधर्म्मप्रचयप्रसवभूमयो वृत्तयः
क्लिष्टा इति अक्लिष्टा व्याचष्टे ख्यातिविषया इति ।
विधूतरजस्तमसो बुद्धिसत्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादः
ख्यातिस्तया विषयिण्या तद्विषयं सत्वपुरुषविवेकमुपलक्षयति
तेन सत्वपुरुषविवेकविषया यतः अतएव गुणाविकार
विरोधिन्यः कार्य्यकरणं हि गुणानामधिकारो विवेकख्या-
तिपर्य्यवसानञ्च त दति चरिताधिकाराणां तु गुणानाम-
धिकारं विरुन्धति इति अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो
वृत्तयः । स्यादेतत् वीतरागजन्मादर्शनात् क्लिष्टवृत्तय
एव सर्व्वप्राणभृतां न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्य-
क्लिष्टवृत्तयः । नचामूषां भावेऽपि कार्य्यकारिता विरोधि-
मध्यपातित्वात् । तस्मात् क्लिष्टानामक्लिष्टाभिर्निरेध-
स्तासां च वैराग्येण परेणेति मनोरथमात्रमित्यत
आह । क्लिष्टप्रवाहेति । आगमानुमानाचार्य्योपदेशप-
रिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रान्तरे तत्र
पतिताः स्वयमक्लिष्टाएव यद्यपि क्लिष्टप्रवाहपतिताः । न
स्वलु विशालग्रामे किरातशतसङ्कीर्णे प्रतिवसन्नपि व्राह्म-
णः किरातो भवति । अक्लिष्टच्छिद्रेष्विति निर्दशनम् ।
क्लिष्टान्तर्वर्त्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः स्व
संस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्या
ह तथाजातीयका इति । अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः
संस्कारा इत्यर्थः । तदिदं वृत्तिसंस्कार, अक्रमनिश
मावर्त्तते आनिरोधसमाधेः तदेवंभूतञ्चित्तं निरोधावस्थं
संस्कारशेषं भूत्वात्मकल्पेनाबतिष्ठत इत्यापाततः । प्रलयं
वा गच्छतीति परमार्थतः । पिण्डीकृत्य सूत्रार्थमाह ।
ता इति षञ्चधेत्यर्थकथनमार्थंन तु शब्दवृत्तिव्याख्यानं
तयपः प्रकारेऽस्मरणात् । ताः स्वसंज्ञाभिरुद्दिशति” विव०
“प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः” सू०
“निर्द्देशे यथावचनं विग्रहश्चार्थे द्वन्द्वसमास इतरेतरयोगः ।
यथाऽनित्याऽशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्याति-
रविद्येत्युक्तेऽपि न दिङ्मोहालातचक्रादिविभ्रम व्युद-
स्यन्ते । एवमिहापि प्रमाणाद्यभिधानेऽपि वृत्त्यन्तरसद्भा-
वशङ्कान व्युदस्येति तन्निरासाय वक्तव्यं पञ्चतस्य इति
एतावत्य एव वृत्तयोनापराः सन्तीति दर्शितं भवति” विव०

क्लिष्टि स्त्री क्लिश--क्तिन् । १ क्लेशे २ सेवायां च धरणिः ।

पृष्ठ २३४५

क्लीत पु० सुश्रुतोक्ते अग्निप्रकृतिके कीटभेदे । “क्लीतः कृमि-

सरारी च” सुश्रुतः कीटशब्द विवृतिः

क्लीतक न० क्लीव--क्विप् नि० वलोपः कियं तकति हसते अच् ।

मधूके (यष्टिमधु) । अमरः । “तत्र क्लीतकाश्वमारगुञ्जा
सुगन्धगर्गरककरघाटविद्युदिघाविजयानीत्यष्टौ मूलविषा-
णि” सुश्रुतः । २ करञ्जवीज “आत्मनि मन्त्रान् संनमयेत्”
“एकक्लीतकेन” आश्व० गृ० ३, ८, ७, ८, “करञ्जवीजस्य यत्रैकं
वीजं तदेकक्लीतकम्” नारा० वृ० ।

क्लीतकिका स्त्री क्रीतादागतः कन् क्रीतकः विक्रयः

निन्दायां ठन् रस्य लः । नील्यामोषधौ अमरः । नील्याः
विक्रयस्य निनिन्दितत्वमाह मिता० आपस्तम्बः” “रोमकूपे
यदा गच्छेद्रसो नील्यास्तु कस्यचित् । त्रिवर्णेषु च
सामान्यात्तप्तकृच्छ्र विशोधनम् । पालनंविक्रयश्चैव
तद्वृत्त्या चोपजीवनम । पतनञ्च भवेद्विप्रे त्रिभिः कृच्छ्रै
र्व्यपोहति”

क्लीतनक न० क्लीतं कीटभेदं नुदति नुद--बा० ड संज्ञायां

कन् । मधूलिकायाम् अतिरसायाम् राजनि० ।

क्लीब(व) वैकल्ये अप्रागल्भ्ये च भ्वा० आत्म० अक० सेट् ।

क्लीब (व)ते अक्लीबि(वि)ष्ट । चिक्लीबे(वे)क्लीबि(वि)त्वा ।
पा० मते अयं पवर्ग्यान्त्यः कविक० मते अन्त्यस्थान्त्यः ।
ऋदित् चङि अचिक्लीब(व)त् त ।

क्लीब(व) पु० न० । क्लीब(व)--क । पुंस्त्रीभिन्ने तृतीयप्रवृ-

तौ षण्डे । स च “न मूत्रं फेनिलं यस्य विष्ठा चाप्सु
निमज्जति । मेढ्रं चोन्मादशुक्राभ्यां हीनः क्लीवःस उच्यते”
इति कात्यायनोक्तलक्षणः । स च चतुर्द्दशविधः
नारदेन दर्शितोयथा ।
“चतुर्द्दशविधः शास्त्रे षण्डो दृष्टो मनीषिभिः । चिकित्-
स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः क्रमात् । निसर्गष-
ण्डॊ ऽनण्डश्च २ पक्षषण्ड ३ स्तथैव च । अभिशापात्
गुरो ४ रोगात् ५ देवक्रोधत् ६ तथैव च । ईर्ष्याषण्ड्य
७ स्तथाऽऽसेक्यो ८ वातरेता ९ मुखेभगः १० । आक्षेप्ता
११ मोघवीजश्च १२ शालीनो १३ ऽन्यापति १४ स्तथा ।
तत्राद्यावप्रतीकार्य्यौ पक्षाख्यं मासमाचरेत् । अनुक्र-
मात्त्रयस्याथ कालः संवत्सरः स्मृतः । ईर्ष्या षण्डा-
दयोयेऽन्ये चत्वारः समुदाहृताः । त्यक्तव्यास्ते पतितवत्
क्षतयोन्या अपि स्त्रियाः । आक्षेप्तृमोघवीजाभ्यां
कृतेऽपि पतिकर्मणि । पतिरन्यः स्मृतोनार्य्या वत्सरार्द्धं
प्रतीक्ष्य तु । शालीनस्यापि दृष्टस्त्रीसंयोगादुच्छ्रयेत्
ध्वजः । तं हीनवेगमन्यस्त्रीबालाद्याभिरुपाचरेत् ।
अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति । लभेत
स्वाम्यं भर्त्तानोएतकार्य्यं प्रजाकृते । अपत्यार्थं स्त्रियः
सृष्टाः स्त्री क्षेत्रं वीजिनो नराः । क्षेत्रं वीजवते देयं
सवीजी क्षेत्रमर्हति” अत्र “नष्टे मृते प्रव्रजिते क्लीवे वा
पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते”
इति क्लीवपतिपरित्यागे प्राप्ते क्लीवस्य चिकित्स्याचि-
कित्स्यत्वभेदेन द्वैविध्यमुक्त्वा चिकित्स्यस्य कालविशेष
पर्य्यन्तं सुश्रुताद्युक्तवाजीकरणादिना उपचर्य्यता
अचिकित्स्यस्य तु सर्वथा त्याज्यता दर्शिता । तत्र निसर्ग-
षण्डः मनूक्तो मातापित्रोः समवीर्य्यजातः । अनण्डः
अण्डहीनः छिन्नाण्डः कृतक्लीवश्च तौ द्वौ अप्रती-
कार्य्यौ अचिकित्स्यौ । पक्षाख्य पक्षव्यापकषण्ड
मासमाचरेत् चिकित्सेत् । त्रयस्य गुरोरभिशापरो-
गदैवकोपकृतकक्लैव्यस्य सवत्सर चिकित्स्यत्वम् । ईर्ष्या-
षण्डादयस्तु चत्वारः अचिकित्स्यत्वात् पतिततुल्यत्वेन
सर्वथा त्याज्याः न तत्र कालप्रतीक्षा । आक्षप्ता वीजस्य
ईषत्क्षेप्ता दर्शनमात्रादिना स्खलितवीर्य्यः मोघवीर्य्यः
अपत्योत्पादनायोग्यवीजः एतौ द्वौ षण्मासं चिकित्स्यौ
शालीनस्य तु चिकित्स्यत्वेन अत्याज्यता । अन्यपतेस्तु सर्वथा
त्याज्यता । अत्र क्षतयोन्या इति विशेषणात् क्लीवपति-
त्यागवचनं वागदत्ताविषयमिति कल्पनं निरस्तम् । नष्टे
मृतेइत्यादिवचनं युगान्तरविषयम् “दत्तायाश्चैव कन्यायाः
पुनर्दानं वरस्य च” इत्यादित्यपुराणे कलिवर्ज्यधर्म्मे-
ष्वभिधानात् इति माधवाचार्य्यः । अन्ये तु कलिधर्म्मप्रक-
रणे पराशरेण तथविधानात् स्मृतेः पुराणात् बलवत्त्वेन
कलावपि तत्प्रवृत्तिरित्याहुः । साम्प्रदायिकास्तु वेदार्था
नुभवजन्यमुनिप्रणीतवाक्यस्य व स्मृतित्वेन पुराणान्त-
र्गतधर्म्मविधायकनिषेधवाक्ययोरपि स्मृतित्वात् “द्वैधे
बहूनां वचनमिति” न्यायेन बहूनां तयासम्मत्यभावात्
शिष्टाचारविरोधाच्च पराशरवाक्यमनादृत्य बहुसम्मत एव
पक्ष आदरणीय इत्याहुः । इर्ष्याषण्डादिलक्षणं सुश्रु-
तोक्तम् । सुश्रुते तु नपुंसकोत्पत्तिकारणसहितास्तद्भेदा
अन्यथा दर्शिता यथा
“पित्रोरत्यल्पवीजत्वादासेक्यः पुरुषो भवेत् । स शुक्रं
प्राश्य लभते ध्वजोच्छ्रायमसंशयम् । यः पूतियोनौ
जायेत स सौगन्धिकसंज्ञितः । स योनिशेफसोर्गन्धमा-
घ्राय लभते बलम् । स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुं-
पृष्ठ २३४६
वत् प्रवर्त्तते । कुम्भीकः स च विज्ञेय ईर्ष्यकं शृणु
चापरम् । दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते ।
ईर्व्यकः स च विज्ञयः षण्डकं शृणु पञ्चमम् । यो
भार्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते । ततः स्त्रीचेष्टिताकारो
जायते षण्डसंज्ञितः । ऋतौ पुरुषवद्वापि प्रवर्त्तेताङ्गना
यदि । तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ।
आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा । सरेतस-
स्त्वमी ज्ञेया अशुक्रः षण्डसंज्ञितः । अनया विप्रकृत्या तु
तेषां शुक्रवहाः सिराः । हर्षात् स्पुटत्वमायान्ति
ध्वजोच्छ्रायस्ततो भवेत्” ।
तस्य दायानधिकारिता अनंशशब्दे १४३ पृ० उक्ता । तत्राय
विशेषः । “क्लीवोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको
जडः । अन्धोऽचिकित्स्यरोगाद्याभर्त्तव्याः स्युर्निरंश-
काः” या० व्याख्या मिता० “एतेषां विभागात् प्रागेव
दोषप्राप्तावनंशत्वत्वं न पुनर्विभक्तानां, विभागोत्तरकालम-
प्यौषधादिना दोषनिर्हरणे भागप्राप्तिरस्त्येव “विभक्तेषु
सुतोजातः सवर्ण्णायां विभागभाक्” इत्यस्य समानन्यायात् ।
क्लीवान्धौ यदि जन्मत आरभ्य तदा विभागानर्हावेव यदि
त्वत्तरा तदा, तदपगमश्चेदौषधादिना, तर्हि “दृश्याद्वा
तद्विभागः स्यादायव्ययविशोधितादिति” रीत्या विभागा-
र्हावेवेत्युक्तम्” । अत्रविशषः क्लीवादीनामनंशत्वात्तत्पु-
त्राणामप्यनंशत्वे प्राप्त इदमाह” मिता० “औरसाः
क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः” । या० “एतेषां
क्लीवादीनामौरसाः क्षेत्रजा वा पुत्रा निर्दोषा
अंशग्रहणविरोधिक्लेव्यादिदोषरहिता भागहारिणः,
अंशग्राहिणो भवन्ति । तत्र क्लीवस्य क्षेत्रजः पुत्रः सम्भव-
त्यन्येषामौरसा अपि । औरसक्षेत्रजयोर्ग्रहणं
इतरपुत्रव्युदासाथम् । क्लीवादिदुहितॄणां विशेषमाह
निता०” । “सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः” ।
या० “एतेषां क्लीवादीनां सुता दुहितरो यावद्विवाह
संस्कृता न भवन्ति तावद्भरणीयाः । चशब्दात्संस्कार्याश्च ।
क्लीवादिपत्नीनां विशेषमाह मिता० “अपुत्रायाषितश्चैषां भर्त-
व्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्त-
थैव च” या० । “एषां क्लीवादीनामपुत्राः पत्न्यः साधुवृत्तयः
सदाचाराश्चेद्भर्तव्या भरणीयाः । व्यभिचारिण्यस्तु
निर्वात्याः । प्रतिकूलास्तथैवच निर्वास्याभवन्ति भरणीया-
श्चाव्यभिच रिण्यश्चेत् । न पुनः प्रातिकूल्यमात्रेण
भरणमपि न कर्त्तव्यम्” मिता०
वीरमित्रोदये विशेष “क्लीवादीनामपि दारपरिग्रहेण पुत्रस
म्भव उक्ती मनुना “यद्यर्थिता तु दारैः स्यात् क्लीवादीनां
कथञ्चन । तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति” । तन्तु-
रपत्यम् । नच क्लीवादेरुपनयनाभावेन पतितत्वात् कथं
दारसम्बन्ध इति वाच्यम् । उपनयनानर्हतया अनुप-
नीतत्वे शूद्रवदपतितत्वात्” ।
एतच्चिन्त्यं “मुखेभगाश्च ये केचित् क्लीवप्राया नपुंसकाः ।
व्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः । महापात-
किनो ये च पतितास्ते प्रकीर्त्तिता” शु० त० ब्रह्मपु०
क्लीवस्य पतितत्वोक्तेः । केचित्तु तत्र उत्तरार्द्धे “पतितानां
न दाहःस्यान्नान्त्येष्टिर्नास्थिसञ्चयः पातः कर्त्तव्यो नचाश्रु
नाशौ च मुदकक्रिया” इत्युक्तेरशौचाद्यभावाङ्गमिदं
पातित्यंनान्यत्र । अतएव अनंशिगणनायां याज्ञवल्क्यादि-
भिः पतितात् पृथक् क्लीवस्य कीर्त्तनं सङ्गच्छते इत्याहुः ।
मनुनाऽस्यापाङ्क्तेयत्वमुक्तम् “आचारहीनः क्लीवश्च
नित्ययाचनकस्तथा” इत्युपक्रमे “एतान् विगर्हिताचारान-
पाङ्क्तेयान्द्विजाधमान्” इति । “अस्योत्पत्तौ कारणमुक्तं
मनुना । “पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिक
स्त्रियाः । साम्येऽपुमान् पुंस्त्रियौ वा क्षीणाल्पे च
विपर्य्ययः” “पुंसोवोजे अधिकेऽयुग्मास्वपि पुत्रो जायते स्त्री-
वीजेऽधिके युग्मास्वपि दुहितैव । अतोवृष्याहारादिना
निजवीजाधिक्यं भार्य्यायाश्चाहारलाघवादिना विजाल्प
त्वमवगम्यायुग्मास्वपि पुत्रार्थिना गन्तव्यमिति दर्शितं
स्त्रीपुंसायोस्तु वीजसाम्येऽपुमान् नंपुसकं जायते
पुंस्त्रियाविति यमौ निःसारेऽल्पे चोभयोरेव वीजे गर्भस्या-
सम्भवः” कुल्लू० ।
कर्त्तव्यकर्म्मसु २ निरुद्साहे ३ अधीरे ४ विक्रमहीने अमरः
तस्य भावः ष्यञ् । क्लेव्य न० । तल् क्लीवता स्त्री । त्व
क्लीवत्व न० तद्भावे “मा क्लेव्यं गच्छ कौन्तेय! नैतत्-
त्वय्युपपद्यते” गीता । “पुनरक्लावतया प्रकाश्यताम्”
रघुः । “अक्लीवतया धैर्य्येण” मल्लि० । “कोहि धर्म्मोऽस्ति
ते भीष्म! ब्रह्मचर्य्यमिद वृथा । यद्धारयसि मोहाद्भा
क्लीवत्वाद्वा न संशयः” भा० स० ४० अ० । क्लैव्यञ्च पुंस्त्वे-
न्द्रियोपघातः अशक्तिशब्दे ४७३ पृ० उदा० । जातस्य
क्लीवताकारणं च सुश्रुतेदर्शितं यथा “शुक्रवहेद्वे धमन्यौ
तयोर्तूलं स्तनौ वृषणौ च तत्र विद्धस्य क्लीवता चिरात्
प्रसेको रक्तशुक्रता च” । “क्लीवरूपांस्तिरीटिनः” अथ०
८, ६, ७, क्लीवैवाचरति ङ्यः क्विप् वा । क्लीवायते । क्वा-
पृष्ठ २३४७
वपि आत्म० क्लीबते मुग्ध० । ४ शब्दनिष्ठधर्म्मभेदे तद्विवृतिः
शब्दार्थरत्ने यथा
“लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मकोधर्म्मएव तद्विशेषश्च
पुंनपुंसकत्वादिः । तथा हि सर्व्वेषां त्रिगुणप्रकृतिका-
र्य्यतया शब्दानामपि तथात्वे न गुणगतविशेषाच्छब्देषु
लिङ्गविशेष इति कल्प्यते स च विशेषः शास्त्रे इत्थमभ्य
धायि । विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुसं-
कत्वं सत्वस्याधिक्ये पुंस्त्वम्, रजआध्यिक्ये स्त्रीत्वमिति ।
एवञ्च लिङ्गस्य शब्दधर्म्मत्वेऽपि शब्देन सहार्थाभेदा-
रोपात् असति वाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण
वा सर्व्वत्र तस्य विशेषणत्वम् शाब्दवोधे शब्दभानस्येष्ट-
त्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौ-
चित्यात् “न सोऽस्ति प्रत्ययीलोके यः शब्दानुगमादृते”
इतिप्रागुक्तेः “शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा ।
नो चेत् श्रोत्रादिभिः सिद्धोऽप्यसावर्थेऽवभासते” इतिहर्य्यु-
क्तश्च शब्दाना नामार्थतावगतेः । तथा प्रातिपदिकार्थः ।
अभेदविवक्षायां तु श्रोल्त्रादिभिरेव सिद्धः ज्ञातः सत् अर्थे
प्रकारतया भासते इति तदर्थः । युक्तञ्चैतत् पुंलिङ्गः
शब्दैतिव्यवहारात् “स्वमोर्नपुंसकादिति” पा० सूत्रे शब्दस्यैव
नपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयबाधाच्च
लिङ्गस्य शब्दधर्म्मत्वमन्यथैतेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहा-
रसूत्रनिर्द्देशासङ्गत्यापत्तेश्च । तथा अर्थभेदाच्छब्दभेद-
वत् लिङ्गभेदादपि शब्दभेदैति कल्प्यते प्रागुक्तधर्म्म विशे-
षरूपभेदकसद्भावात् । उक्तञ्च भाष्ये “एकार्थे शब्दान्यत्वा
द्दृष्टं लिङ्गान्यत्वमिति” । एवञ्च तटादिशब्दानामगेकलि-
ङ्गत्वव्यवहारः समानानुपूर्व्वीकत्वेनैव वस्तुतस्तषां भिन्ना-
नामव भिन्नलिङ्गत्वमिति दिक्” । “अकारादि क्षकारा-
न्तान् क्लीवहीनान् लिखेत्ततः । ॠऋवर्ण्णद्वयं ऌॡ
द्वयं क्लीबं प्रचक्षते” अकडमचक्रे तन्त्रसारोक्ते
ऋकारादिवर्णचतुष्के च

कॢ गतौ आ० भ्वा० सक०अनिट् । क्लवते अक्लोष्ट चुकॢवे

कॢप्त त्रि० कृप--क्त । १ रचिते २ कल्पिते ३ विहिते ४ निर्म्मिते च

शब्दच० “पतिंवरा कॢप्तविवाहवेषा” कॢप्तेन सोपान
पथेन मञ्चम्” रघुः । ५ वापिते च “कॢप्तकेशनखश्मश्रुर्दान्तः
शुक्लाम्बरः शुचिः” मनुः ।

कॢप्तकीला स्त्री कॢप्तं कीलमत्र । (पाट्टा) इतिख्याते ।

निर्द्दिष्टकरग्रहणार्थं दत्तभूमिशस्यग्रहणोपयोगिस्वत्वज्ञापके
पत्रभेदे त्रि० ।

क्लेद पु० क्लिद--भावे घञ् । १ आर्द्रतायाम् । सा च जलवि

कारभेदः यथाह या० “रसात्तु रसनं शैत्यं स्नेहं
क्लेदं समार्द्दवम्” । “रसादुदकात् रसमेन्द्रियं शैत्यम-
ङ्गानां, स्नेहं स्निग्वताम् सृदुतासहितं क्लेदमार्द्रताम्”
मिता० । देहस्थः क्लेदश्च श्लेष्मकार्य्यः क्लेदनशब्दे
विवृतिः । “तदञ्जनक्लेदसमाकुलाक्षम्” “स तौ
कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया” रघुः । २ पूतीभावे शब्दचि०
“पदस्थितस्य पद्मस्य बन्धू वरुणमास्करौ । पदाच्च्यु-
तस्य तस्यैव क्लेदक्लेशकराबुभौ”

क्लेदक त्रि० क्लेदयति क्लिद णिच् ण्वुल् । १ क्लेदकारके

देहस्थकफे क्लेदनशब्दे विवृतिः । २ क्लेदकारके जलादौ
त्रि० । देहस्थदशवह्निमध्ये ३ वह्निभेदे अग्निशब्दे ५० पृ०
पदार्थादर्शवाक्यम् दृश्यम् । जलस्य क्लेदकत्वेऽपि तत्र
अग्नेः साहचर्य्यादेव तथात्वम् ।

क्लेदन् पु० क्लेदयति क्लिद--णिच्--कनिन् (चन्द्रे उणा०)

क्लेदन पु० क्लेदयति क्लिद--णिच् ल्यु । क्लेदकारके देहस्थे

श्लेष्मभेदे तद्विवृतिः भावप्रकाशे
“कफस्यैतानि नामानि क्लेदनश्चावलम्बनः । रसनः स्ने-
हनश्चापि श्लेष्मणः स्थानभेदतः । अथ क्लेदनादीनां
स्थानान्याह “आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु ।
स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्टत्यनुक्रमात्” । र्दाषाणां
सकलशरीरव्यापिनामपि पञ्च पञ्च स्थानानीति बाहुल्या-
भिप्रायेणेक्तानि । तथाच वागभटः “इति प्रायेण
दोषाणां स्थानान्येकीकृतात्मनाम । व्यापिनामपि जानीयात्
कर्म्माणि च पृथक् पृथक्” । चरकश्च “ते व्यापिनोऽंप
हृन्नाभ्योरधोमध्योर्द्ध्वसंश्रयाः” इति । अथ तत्तत्स्थानग-
तस्य श्लेष्मणः कर्म्माण्याह “क्लेदनः क्लेदयत्यन्नमात्मश-
क्त्यापराण्यपि । अनुगृह्णाति च श्नष्मस्थानान्यदक
कर्म्मणा” । अयमर्थः क्लेदनोऽन्नं क्लेदयति तेन संहत-
मन्नं भेदं प्राप्नोति । अपराण्यपि श्लेष्मस्थानानि
हृदयादीनि मार्गेण गत्वा तत्र तत्र हृदयालम्बनसन्धा
रणरसग्रहणसमस्तेन्द्रियतर्पणसन्धिसंश्लेषणाद्युदक कर्म्म-
भिरनुगृह्णानि उपकरोति । तथा च “रसयक्तात्मवीर्य्येण
सृदयस्थावलम्बनम् । त्रिकसन्धारणं चापि विदधात्यव-
लम्बनः” । त्रिकं शिरोबाहुद्वयसन्धिः । “उभावपि
ततः सौम्यौ तिष्ठतश्चान्तिके यतः । ततो “रसान्विजानी-
यात् रसनारसनौ समौ” । रसना ररुनेन्द्रियं ण्सनः
कण्ठस्थकफः । “स्नेहनः स्नेहदानेन समस्तन्द्रियतर्पणः ।
श्लेष्मणः सर्व्वसन्धीनां संश्लेषं विदधात्यसौ” । २ क्लेदका-
रक जलादौ त्रि० ।
पृष्ठ २३४८

क्लेदु पु० क्लिद--उन् । १ चन्द्रे उज्ज्वल० २ सन्निपाते त्रिका०

क्लेश पु० क्लिश भावे घञ् । उपतापे दुःख क्लिश्नन्ति क्लिश-

बाधते कर्त्तरि अच । पातञ्जनोक्तेषु अविद्यादिषु
पञ्चषु । “क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषविशेष
ईश्वरः” पात० सू० । “अविद्यादयः क्लेशाः” भा० ।
“क्लिप्नन्ति खल्वमी पुण्यं सांसारिकं विविधदुःखप्रहा-
रेणेति” विवरणम् । अविद्यादीनां यथाक्लेशहेतुत्वात्
तच्छब्दवाच्यत्वम् तया तेषां निरोधोपायश्च तत्रेव साधन-
पादे दर्शितो यथा
“अथ के क्लशाः कियनोवेति” मा०
“अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः पञ्च क्लेशाः” सू० ।
  • “इति पञ्च विपर्य्यया इत्यर्थः । ते स्पन्दमाना गुणा-
धिकारं दृढ़यन्ति परिणाममवस्थापयन्ति कार्य्यकारण-
स्रोतौन्नमयन्ति परस्परानुग्रहतन्त्रीमूत्वा कर्म्मविपाकं
चाभिनिर्हरन्ति” भाष्यम् ।
  • “पृच्छति अथेति । अविद्येति सूत्रेण परिहारः ।
अविद्यादयः क्लेशाः । व्याचष्ट पञ्च विपर्य्यया इति ।
अविद्या तावाद्वपर्य्यय एव अस्मितादयोऽप्यविद्योपादा-
नास्तदविनिर्भागवर्त्तिन इति विपय्ययाः । ततश्चाविद्या-
समुच्छेदे तेषामपि समुच्छेदोयुक्त इति भावः । तेषा-
मुच्छेतव्यताहेतुं संसारकारणत्वमाह ते स्पन्दमानाः ।
समुदाचरन्तो गुणानामधिकारं दृढ़यन्ति बलबन्तं कुर्व्वन्ति
अतएव परिणाममवस्थापयति अव्यक्तमडदहङ्कारपरम्प-
रया हि कार्य्यकारणत्रोत उन्नमयन्ति द्वद्भावयन्ति । यदर्थं
सर्व्वमेतत् कुर्वन्ति तद्वर्श० ति परस्परेति । कर्म्मणां
विपाको जात्यायुर्भोगलक्षणः पुरुषार्थ तममी क्लेशा
अभिनिर्हरन्ति निप्पादपन्ति । किं प्रत्येकं? नेत्याह
परस्परानुग्रहेति कर्म्मभिः क्लराः क्लेशैश्च कर्माणीति”
वाचस्पतिविवरणम् ।
  • “अविद्याक्षत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्” सू०
“अत्राऽविद्या क्षेत्रं प्रसवभूमिरुत्तरेपामस्मितादीनां
चतुर्विधकल्पितानां प्रसुप्ततनुपिच्छिन्नोदाराणाम् । तत्र का
प्रमुप्तिः? चेतसि शक्तमात्रपतिष्ठानां वीजभावोपगमः
तस्य प्रबोध आलम्बने संमुखीभावः प्रसंख्यानवतो दग्धक्ले
शवीजस्य संमुखीभूतेऽप्यालम्बतेनाऽसौ पुनरस्ति दग्धवीजस्य
कतः प्ररोहृ इति । अतः क्षीणक्लेशः कुशलश्चरमदेह
इत्युच्यते तत्रैव सा दग्धवीजभावा पञ्चमी क्लेशावस्था
नान्यत्रेति सतां क्लेशानां तदा वीजसामर्थ्यं दग्धमिति
विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता
प्रसुप्तिर्दग्धवीजानाम् अप्ररीहश्च । तनुत्वमुव्यते प्रतिप-
क्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य
विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तोति
विच्छिन्नाः कथं? रागकाले क्रोधस्यादर्शनात् । न हि
रागकाले क्रोधः समुदाचर त रागश्च क्वचित् दृश्यमानो
विषयान्तरे नास्ति, नैकस्यां स्त्रियां चैत्रोरक्त इति अन्यासु
स्त्रीषु विरक्तः, किन्तु तत्र रागोलब्धवृत्तिः, अन्यत्र
भविष्यद्वृत्तिरिति स हि तदा प्रसुप्ततनुर्विच्छिन्नोभवति ।
विषये यो लब्धवृत्तिः स उदारः । सर्व्वएवै ते क्लेशविषयत्वं
नातिक्रामत्ति । कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारोवा
क्लेशः? इति, उच्यते सत्यमेवैतत् किन्तु विशिष्टानामेवैतेषां
विच्छिन्नादित्वं यथैव प्रतिपक्षभावमातोनिवृत्तं तथैव
स्वव्यञ्जकाञ्जनेनाभिव्यक्तम् इति सर्व्वे एवामी क्लेशा
अविद्याभेदाः कस्मात्? सर्व्वेषु अविद्यैवाभिप्लवते यदविद्यया
वस्त्वाकार्य्यते तदेवानुशेरते क्लेशाः विपर्य्यासप्रत्ययकाले
उपलभ्यन्ते क्षीयमाणां चाविद्यामनुक्षीयन्त इति” भा० ।
  • “हेयानां क्लेशानामविद्यामूलत्वं दर्शयति अविद्याक्षेत्र-
मित्यादि । तत्र का प्रसुप्ति रति स्वोचितामर्थक्रियामकुव तां
क्लेशानां सद्भावे न प्रमाणसस्तीत्यभिप्रायः पृच्छतः । उत्तरं
चेतसीति । मा नामार्थक्रियां कार्षुः क्लेशाः विदेह-
प्रकृतिलयानां वीजभाव प्राप्तास्तु ते शक्तिमात्रण
सन्ति क्षोर इव दधिनोऽविवेकख्यातेरन्यदस्ति कारणं
तद्बन्ध्यतायाम् अतोविदेहप्रकृतिलया विवेकख्याति
विरहिणः प्रसुप्तक्लेशा न यावदवधिकालं प्राप्नुवन्ति,
ततः प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशास्तेषुतेषु विषयेषु
संमुत्रीभवन्ति । शक्तिमात्रेण प्रतिष्ठा येषां ते
तथोक्ताः । तदनेनोत्पत्तिशक्तिरुक्ता वीजभाबोपगम इति च
कार्य्यशक्तिरिति । ननु विवेकख्यातिमतोऽपि क्लेशाः
कस्मान्न प्रसुप्ताः? इत्यत आह प्रसंख्यानवत इति ।
चरमदेहो न तस्य देहान्तरसुत्पत्स्यते यदपेक्षयास्य
देहः पूर्व इत्यर्थः । विदेहादिष्वित्यर्थः नान्यत्र ननु सतो
नात्यन्तविनाश इति किमिति तदीययोगर्द्धिबलेन
विषयसंमुखीभावेन क्लेशाः प्रबुध्यन्ते इत्यत आह
सतामिति । सन्तु क्लेशाः दग्धस्तेषां प्रसङ्ख्यानाग्निना
वीजभाव इत्यर्थः । क्लेशप्रतिपक्षः क्रियायोगस्तस्य
पृष्ठ २३४९
भावनमनुष्ठानं तेनोपहवास्तनवः अयवा स यगज्ञान-
मविद्यायाः प्रतिपक्षः, भेददर्शनमस्मिमाया माध्यस्थ्य
रागद्वेषयोः, अनुवन्धवुद्धिनिवृत्तिरभिनिवेशस्येति । विच्छि-
त्तिमाह तथेति । क्लेशानामन्यतमेन समुदाचरता-
ऽभिभवाद्वाऽत्यन्तविषयसेवया वा विच्छिद्यविच्छिद्य तेन
तेनात्मना समुदाचरन्ति आविर्भवन्ति वीजीकरणाद्यु पयोगे-
न वाभिभावकदौर्बल्येत् वेति । वीपसया च विच्छदममुदा-
चारयोः पीनःपुन्यं दर्शयता यथाक्तात् प्रतुप्तात् भेद
उक्तः । रागेण वा समुदाचरता विजातीयः क्रोधीऽभिभयते
सजातीयेन वा विषयान्तरवर्त्तिना रागेणैव विषयान्तर-
वर्त्ती रागोऽभिभूयत इत्याह रागेति भविष्यद्वलेस्त्रयी
गतिः यथायोगवेदितव्येत्याह । सहीति भविष्यद्वृ-
त्तिक्लेशमात्रपरामर्शि सर्वनाम । न चैत्ररागपरामर्शि तस्य
विच्छिन्नत्वादेवेति । उदारमाह विषय इति । ननु
उदार एव पुरुषान् क्लिश्नातीति भवतु क्लेशो अन्येत्वकि
श्ननः कयं क्लेशा? इत्यत आह । सर्व एवैतेइति क्ले-
शविषधत्वं क्लेशपदवाच्यत्वं नातिक्रामन्ति उदारतामाप
द्यमानाः अतएव तेऽपि हेयाइति भावः । क्लेशत्वेनैकतां
सन्यमानश्चोदयति कस्तार्ह? इति । क्लेशत्वेन समानत्वेऽपि
यथोक्तावस्थाभेदाद्विशेष इति परिहरति उच्यते सत्यमिति
स्यादेतदविद्यतो भवन्तु क्लेशाः, तथाप्यविद्यानिवृत्तौ
कस्मान्निवर्त्तन्ते? न खलुपटः कुविन्दनिवृत्तौ निवर्त्तते
इत्यत आह मर्वएवेति भेदाइव भेदास्तदविनिर्भागवर्त्तिन
इति यावत् कस्मात्? इति प्रश्नः । उत्तरं सर्वे ष्वति तदेव
स्फुटयति यदिति आकार्य्यते समारोप्यते शेषं सुगमम्
“प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम् । विच्छि-
न्नोदारूपाश्चक्लेशाविषयसङ्गिनामिति” संग्रहः” विव० ।
“क्लेशप्रहाणमिह लब्धसवीजयोगाः” “क्लेशकर्मफल
भोगवर्ज्जितम्” माघः । “दाशरथ्योः क्षणक्लेशः” रघुः
“क्लेशः फलेन हि पुनर्नवतां निधते” कुमा०
“यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम्” मनुः ।
“तत्याजननिरेवास्तु जननीक्लेशकारिणः” माघः २ कोपे
३ व्यवसाये मेदि० । तयोरपि तद्धेतुत्वात्तथात्वम् ।
“अथे क्लेशतमसोः” पा० हन्तेःड । क्लेशापहः पुत्र

क्लेशक त्रि० क्लिश--वुञ् । क्लेशशीले “ण्वुला सिद्धे वुञ्-

विधानं ताच्छील्यादिषु वासरूपन्यायेन तृजादयो न
सि० कौ० । तेन क्लेशितेत्यादि असाधु । कर्त्तरि
णिनिस्तु भवत्यव । “निःश्वासेनाधरकिसलपक्लशिना विक्षिप-
न्तीम्” माघः ताच्छील्ये इत्युक्ते कर्त्तरि तृच् भवत्येव
तेन “विद्वांस्तथेव यः शक्तः क्लिश्यमानो न कुप्यति ।
अनाशयित्वा क्लेष्टारं परलोके च नन्दति” भा० व० ३९ अ०

क्लैतकिक न० क्लीतकेन निर्वृत्तम ठञ् । मद्ये शब्दचन्द्रिका ।

क्लोमन् न० क्लुगतौ मनिन् । हृदयस्याषोभागे दक्षिण

कुक्षिस्थे मांसपिण्डाकारे पदार्थे “तस्याधोवामतः प्लीहा
फुप्फुसश्च दक्षिणतो यकृत् क्लोम” सुश्रुतः । “वपावसाव-
हननं नाभिः क्लाम यकृत् प्लिहा” या० । अवहनन
फुप्फुषः प्लीहा आयुर्वेदप्रसिद्धः तौ च मांसपिण्डाकारौ
सव्यकक्षिगतौ । यकृत् कालकं, क्लाम मांसपिण्डस्तौ च
दक्षिणकुक्षिगतौ” मिता० । “वृक्कयोः प्लीह्नि यकृति हृदय
क्लोम्नि वा तथा । श्वासो यकृति तृष्णा च पिपासा
क्लोमजेऽधिका । नामीष्टहृदय क्लोमनिवद्धास्त्वष्टादश”
कण्ठहृदयनेत्रक्लेमनाडीषु मण्डलाः” शुष्कक्लोमगलाननः”
इति च सुश्रुतः । सर्व्वे नान्ता अदन्ताः स्युरित्युक्ते
क्लोममप्यत्र भरतः । क्लोम च पिपासास्थानमिति वैद्यकम् ।
अतएव सुश्रुते पिपासा क्लोमजेऽधिका इत्युक्तम् “निष्कु-
तीत्य क्लोम” दशकुमा० “वल्मीकान् क्लोमभिः” यजु०
२५, ८, अस्य पुंस्त्वमपि । “यकृत् क्लोमानं वरुणोभिषज्यन्”
यजु० १९, ८५

क्लोश पु० क्रोश + रस्यलः । भये । “सिन्धूरिव प्रवण आशुया

यतो यदि क्लोशमनुष्वनि” ऋ० ६, ४६, १४, क्लेशेति
भयनाम” भा०

क्व अ० किम् + अ किमः कुः । कस्मिनित्यर्थे “के द्रुमास्ते

क्व वा ग्रामे सन्ति केन प्ररोपिताः” सा० द० “स्थायं स्थायं
क्वचिद्यान्तं क्रान्त्वा च क्रन्त्वास्थितं क्वचित्” भट्टिः
क्वशब्दौ स्वार्थान्वितयोर्महदन्तरं सूचयतः । “क्वसूर्य्य-
प्रमवो वंशः क्व चाल्पविषया मतिः” रघुः । सूर्य्यवंशकवि
प्रज्ञयोर्विषयविषयिभावोऽत्यन्तमसम्भवीति गम्यते । एवमन्य
त्रापि यथायथमूडम् । ततो भवार्थे त्यप् त्यक् वा कृत्य
कस्मिन् भधे अर्थे त्रि० । ततः स्वार्थे क टापि । क्वत्यिका ।
मुग्धवोधमते अस्मात् चिच्चनौ क्वचित् क्वचन । “क्वचित्
क्वचित् विवरणे गूढभावः प्रकाश्यते” विवरणटीका ।
“क्वचन पतनयोग्यं देशमन्विष्यताधः” नैष० । अमरमते
द्वे पदे इति भेदः तयोः समासे कादाचितकपदसिद्धिः

क्वङ्गु पु० कु + अगि उन् । कङ्गौ (काङ्नी) धान्यभेदे हेमच०

पृष्ठ २३५०

क्वण अव्यक्तशब्दे भ्वा० पर० अक० सेट् । क्वणति अक्वाणीत्-

अक्वणीत् चक्वाण । ज्वला० क्वणः क्वाणः । कणितम् ।
विलोलघण्टाक्वणितेन नागाः” रघुः “दुःसहा हि
परिक्षिप्तः क्वणद्भिरलिगाथकैः” अक्वाणिषुश्च्युतोत्-
साहाः” चक्वणाशङ्कितोयोद्धम्” “विभूषणानां क्वणित-
ञ्च षट्पदः” भट्टिः “किञ्चित्कणाकिन्नरमध्युव स” कुमा०
उगप्रादिपूर्वः वीणायाः शब्दे अमरः । णिच्
क्वणयति ।

क्वण पु० क्वण--अप् । १ वीणायाः शब्दे, अमरः २ ध्वनिमात्रे

हेमच० । कर्त्तरि अच् । ३ शब्दकारके त्रि०

क्वणन न० क्वण--भावे ल्युट् । १ वीणायाः शब्दे (कनकन) इति

२ शब्दभेदे । कर्त्तरि ल्यु । ३ क्षुद्रहण्डिकायां (छोट-
हाडि) त्रिका० ।

क्वथ निष्पचने (क्वाथशब्दोक्तपाकभेदे) भ्वा० पर० सक० सेट् ।

क्वथति एदित् अक्वथीत् चक्वाथ क्वाथः । क्वथ्यमानः ।
णिच् क्वाथयति “जलाशयेषु तप्तेषु क्वथ्यमातेषु वह्निना”
भा० आ० ३२६ अ० “पक्षान्तयोर्वाप्यश्नीयात् यवागूं
क्वथितां सकृत्” मनुः

क्वथित त्रि० क्वथ--क्त । १ अतिशयपक्वे व्यञ्जनादौ, २ दशमूलपा

चनादौ च हेमच० । भावप्र० क्वथितजलगुणा उक्तायथा
“क्वथितस्य जलस्य शीतलीकृतस्य विशेषमाह सुश्रुतः ।
“शृताम्बु तत् त्रिदोषघ्नं यदन्तर्वाप्यशीतलम् । अरूक्षम-
नभिष्यन्दि कृमिवृट् ज्वरहृल्लवु । धारापातेन विष्टम्भि
दुर्ज्जरं पवनाहतम् । भिनत्ति श्लष्मसंघातं मारुतञ्च-
पकर्षति । अजीर्णं जरयत्याशु पीतमुष्णोदकं निशिः”
अन्तर्वाष्पशीतलम् पिहितमेव शीतलम्”

क्वथिता स्त्री भावप्र० उक्ते (कड़ी) इतिख्याते पदार्थे “स्थाल्यां

घृते वा तैले वा हरिद्राहिङ्गु भर्जयेत् । अवलेहनसं-
युक्तं तक्रन्तत्रैव निःक्षिपेत् । एषा सिद्धा समरीचा
कथिता कथिता बुधैः । अवलेहनम् । (अरिहन) इति
लोके । “क्वथिता पाचनी रुच्या लघ्वी वह्निपदीपनी ।
कफानिलविबन्धप्नी किञ्चित्पित्तप्रकोपिणी । अलीकमत्स्याः
शुष्का वा किं वा क्वथितया पुनः । वृंहणा रोचना
वृष्या वल्या वातगदापहा । कोष्ठशुद्धिकरी शुक्ता
किञ्चित्पित्तपकोपनी । अर्द्दिते सहनुस्तम्भे विशेषेण
हिता स्मृतौ” ।

क्वल पु० कु + अल--अच् । प्रौढवदरफले “कुवलं यत् पूतीकै

र्वा पर्णवल्कैर्वातञ्च्यात् सौम्यं तद्यत् क्वलेराक्षसं तत्
तद्यत् तण्डुलर्वैश्चदेवं तद्यदातञ्चनेन मानुषं तद्यद्दध्ना यत्
मेन्द्रदध्नातनक्ति सन्द्रत्वाय” इति तैत्ति० २ । ५ । ३ । ५ “सोमव-
ल्लीसमानाया लतायाः खण्डाः पूतीकाः । पलाशकाष्ठ
स्यांशाः पर्णवल्काः । प्रौढबदरफलानि क्वलाः । ईषदम्ल-
तक्रम तञ्चनं पूतीकादिभिराञ्चनं सोमप्रियम्” भा० ।

क्वाण पु० क्वण भावे घञ् । १ शब्दे उपनिप्रादिपूर्ब्बकतु वीणा-

याःशब्दे अमरः । ज्वला० कर्त्तरि ण । २ शब्दकर्त्तरि त्रि०

क्वाथ पु० क्वथ--करणे घञ् । १ अतिदुःखे हेम० । दुःखेन हि

चित्तं क्वय्यमानमिव भवतीति तस्य तथात्वम् वैद्यकोक्ते
जलादेः पाकभेदे यथा भावप्रकाशे
“पानीयं षोड़शगुणं क्षुण्णं द्रव्यपले क्षिपेत् । मृत्पात्रे
क्वाथयेद् ग्राह्यमष्टमांशावशेषितम् । कर्षादौ तु पलं
यावद्दद्यात् षोड़शिकं जलम् । ततस्तु कुड़वं यावत्तोयमष्टगुणं
भवेत् । चतुर्गुणमतश्चोर्द्धं यावत्प्रस्थादिकं जलम् ।
षोडशिकं षोड़शगुणम् । “तज्जलं पाययेद्धीमान् कोष्णं
मृद्वग्निसाधितम् । शृतः क्वाथः कषायश्च निर्यूहः स
विगद्यते” । क्वाथपानमात्रामाह “मात्रोत्तमा पले
तत् स्यात् त्रिभिरक्षैस्तु मध्यमा । जघन्या च पलार्द्धेन
स्नेहकाथौषधेषु च । तन्त्रान्तरे “क्वाथ्यद्रव्यपले वारि द्वि-
रष्टगुणमिव्यते । चतुर्भागावशिष्टन्तु पेयं पलचतुष्टयम् ।
दीप्तानलं महाकायं पाययेदञ्जलिं जलम् । अन्ये त्वर्द्धं
परित्यज्य प्रसृतिं तु चित्किसकाः । क्काथत्यागमनिच्छन्त-
स्त्वष्टभागावशेषितम् । पारम्पर्योपदेशेन वृद्धवैद्याः
पलद्वयम्” । अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षया
गुरुत्वात् दीप्तानलं महाकायं पलद्वयं पाययेन्मध्यमाग्नि
मल्पकायं पलमात्रं पाययेत् मात्रोत्तमा पलेनस्यादित्यादि
वचनात् । “काथे क्षिपेत् सिताश्चां शैश्चतुर्थाष्टमषोडशैः ।
वातपित्तकफातङ्के विपरीतं मधु स्मृतम् । जीरकं गुग्गु-
लुं क्षारं लवणं च शिलाजतु । हिङ्गु त्रिकटुकं चैव
क्वाथे शाणोन्मितं क्षिपेत् । क्षीरं घृतं गुडं तैलं मूत्रं
चान्यत् द्रयं तथा । कल्क चूर्णा दकं क्वाथे निःक्षिपेत्
कर्षसंमितम् । तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः ।
औषधं हेमरजतमृद्भाजनपरिस्थितम् । पिवेत् प्रसन्न-
हृदयः पीत्वा पात्रमधोमुखम् । बिधायाचम्य सलिलं
ताम्बूलाद्युपयोजयेत्” ।
क्वाथसेवनप्रकारादि भावप्र० दर्शितं यथा
“तत्रानुक्ते प्रभातं स्यात्कषायेषु विशेषतः । मुखयभैषज्यस-
म्बन्धो निषिद्धस्तरुणज्वरे । तोयपेयादिसंस्कारे त्वदोषं
तत्र भेषजम्” । मुख्यभेषजं क्वाथः तस्य सम्बन्धः पानम् ।
यतआह “न कषायं प्रशंसन्ति नराणां तरुणे ज्वरं ।
पृष्ठ २३५१
कषायेणाकुलीभता दोषा जेतुं सुदुस्तराः” । आकुली-
भूताः प्रवृद्धाः स्वमार्गं परिन्यज्य इतस्ततेगताः । अत्र
कषायशब्देन क्वाथो गृह्यते । उक्ताश्च क्वाथस्य पर्य्यायाः ।
“शृतं काथःकषायश्च निर्य्यूहः स निगद्यत, इति ।
“तोयपेयादिसंस्कारे निर्द्दोषं तत्र भेषजमिति” । तत्र
तरुणज्वरे भेषजम् मुख्यभेषजं क्वाथरूपं न तु कल्कनमु-
द्दिश्य कषायः प्रतिषिध्यत इति कल्कनं तोयपेयायवा-
ग्वादिकम् । ननु “स्वरसश्च तथा कल्कः काथश्च
हिमफाण्टकौ । ज्ञेया कषायाः पञ्चैते लघवः स्युर्यथो-
त्तरम्” इति वचनात् स्वरसादयोऽपि कथं न निषिध्यत्ते ।
तत्राह “तत्र यस्तु कषायः स्यात्स वर्ज्ज्यस्तरुणज्वरे”
इति । चतुर्थमागावशेषकरणेनाष्टमभागशेषकरणे च
कषायवर्णः कषायरसश्च स्यात् । स कषायः क्वाथः स
तरुणज्वरे निषिद्धः । कषायस्य लक्षणमाह, “पादशिष्टः
कषायः स्यात्” । अतः षड़ङ्गादिस्तरुणज्वरे न निषिद्धः
पाकादूर्द्धपाके चोक्तलक्षणाभावेन कषायत्वाभाबात् ।
अथ तरुणज्वरे कषायस्य दोषमाह “दोषा वृद्धाःकषा-
येण स्तम्भितास्तरुणज्वरे । स्तभ्यन्ते न विपच्यन्ते कुर्व-
न्ति विषमज्वरम्” । कषायेण स्तम्भिता प्रवृत्तये निवा-
रिताः । यत आह कषावरसगुणात् “कषायः स्तम्भनः
शीतोरूक्षः पित्तकफापहः” इत्यादि । स्तभ्यन्ते आध्मानं
कुर्वन्ति न विपच्यन्ते सुखेन न विपच्यन्ते दुःखं दत्त्वा-
विलम्बेन विपच्यन्ते इति यावत्” ।

क्वाथोद्भवः न० क्वाथादुद्भवति उद् + भू--अच् । तुल्याञ्जने अमरः ।

क्वेल कम्पे अक० गतौ सक० प० सेट् कबि० । क्वेलति

अक्वेलीत् ऋदित् चङि अचिक्वेलत् त ।

क्ष पु० क्षि--बा० ड । १ संवर्त्ते २ राक्षसे ३ नरसिंहे ४ विद्यति

५ क्षेत्रे ६ क्षेत्रपाले ७ नाशे च मेदि० । तस्य वाचकशब्दाः
तन्त्रशास्त्रे वर्ण्णाभिधाने उक्ता यथा
“क्षः कोपस्तुम्बुकः कालोरूक्षः संवर्त्तकः परः । नृसिं-
होविद्युता माया महातेजा युगान्तकः । परात्मा क्रोध-
संहारौ वर्णात्तो मेरुवाचकः । सर्वाङ्गः सागरः कामः
संयोगान्तस्त्रिपूरकः । क्षेत्रपालो महाक्षोभी मातृका-
न्तोऽनलः क्षयः । मुखं कव्यवहानन्ता कालजिह्वा
गणेश्वरः । छायापुत्रश्च संघातोमलयश्रीर्ललाटगः” अत्र संयो-
गान्त इत्युक्तेः शब्दकल्पद्रुमेक्षकारस्य वर्ण्णान्तरत्वकल्पनम्
लोकशास्त्रविरुद्धत्वादतीव प्रामादिकम् । तथाहि
अस्य कषयाः संयागजत्वेन कादित्वम । पृथग्वर्ण्णत्वे
चक्षमे चुक्षोद चिक्षेपेत्यादिकपदं न सिद्ध्येत् असंयक्त-
तया हलादिशेषाप्रसक्तौ कवर्गादित्वाभावेन चुत्वा-
प्रसक्तेः । किञ्च संयुक्तवर्ण्णात् पूर्ब्बस्य गुरुत्वेन “निपीय
यस्य क्षितिरक्षिणः कथाम्” नैषधे “लाङ्गूलविक्षप
विसर्पिशोभैः कुमारादौ काव्ये च “गजारूढ़ोयाति-
क्षितिपतिरित्यादौ” “दक्षिणे कालिकेति” च भैवरतन्त्रोक्त
कालीस्तवे च सर्वत्र तत्पूर्ब्बस्य गुरुत्वे सत्येव छन्दोनु-
गुणता असंयुक्तवर्ण्णत्वे सर्बत्र छन्दोभङ्गः स्यात् । न च
तस्यासंयुक्ततया क्वचिदपि तत्पूर्ब्बस्य लघुत्वं दृष्टम् ।
अतएव कविकल्पद्रमे” “स्वदाद्यन्तादिमक्रमः” इति प्रति-
ज्ञाय कादिष्वेव क्षकारादिधातुपाठः मेदिन्यादौ कोषेऽनि
तथैव कादिषु तस्य पाठः ।
तन्त्रेतु कषयोः संयोगजत्वेऽपि मातृकावर्ण्णानामेक-
पञ्चाशत्संख्यापरिपूर्त्त्यै लकारवत् पृथक कीर्त्तनं
न्यासादिकार्य्यार्थं “पञ्चाशल्लिपिभिर्माला विदिता सर्व्व-
कर्मसु । अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता ।
क्षर्णं मेरुमुखं तत्र कल्पयेनमुनिसत्तम! । अनया सर्त्र-
मन्त्राणां जपः सर्वसमृद्धिदः” इति गोतमतन्त्रोक्तजपा-
ङ्गमालाकल्पनार्थञ्च न वर्ण्णान्तरत्वार्थम् । एवं सर्वसामञ्जस्ये
वर्णान्तरत्वकल्पनं लोकशास्त्रविरुद्धत्वादुपेक्ष्यम् । “विशेषं
कथयाम्यद्य प्रोच्चार्य्याः कण्ठतः स्वराः । ऋद्वयं जिह्वया
मूर्द्ध्ना ऌद्वयं दत्तजिह्वया । मुखस्थानाद्धलोवाच्याः क्षकारः
कण्ठघातजः” इति वरदातन्त्रे १० पटले तस्य कण्ठ-
स्थानोच्चर्य्यत्वीक्तिरपि आद्यककाराभिप्रायेण द्रष्टव्या ।
“अतएव षान्ताः स्युर्यदि वा क्षान्ता वर्ण्णानामनुरोधतः ।
पृथक् क्रमेण वक्ष्यन्ते तथाऽप्येते समन्वयात्” विश्व-
प्रकाशे तस्य उभयरूपतासमन्वय उक्तः । तत्समन्वयश्च-
उक्तरीत्या बोध्यः । एतेन वङ्गानां खतुल्यत्वेन मैथि-
लानां च तस्य छकारत्वेनोच्चारणं प्रामादिकमेव ।

क्षज कृच्छ्रजीवने इदित् चुरा० उभ० अक० सेट् । क्षञ्जयति

ते अचक्षञ्जत् त । क्षञ्जयां बभूव आस चकार चक्रे ।

क्षज बधे भ्वा० आ० सक० सट् घटा० । क्षजते अक्षजिष्ट ।

चक्षजे षित् क्षजा । क्षजयति ते अचिक्षजत् त ।

क्षज गतौ दाने च भ्वा० आत्म० इदित् सक० सेट् । क्षञ्जते

अक्षञ्जिष्ट चक्षञ्जे । कर्म्मणि क्षञ्ज्यते घटा० क्षञ्जयति
इणि अक्ष(क्षा)ञ्जि णमुलि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम्
अनुपधाया अपि दीर्घः