वाचस्पत्यम्/कोसल

विकिस्रोतः तः
पृष्ठ २२७४

कोसल पु० ब० व० । कुस--अलच् । देशभेदे । तेऽभिजनोऽस्य तेषां

राजा वा ष्यञ् । कौसल्य पित्रादिक्रमेण तद्देशवासिनि
बहुषु तस्य लुक् कोसलाः । कोशलशब्दे विवृतिः ।
कोसलदेशश्च द्विविधः पूर्व्वोत्तरभेदात् “कोसलाधिपतिं
चैव तथा वेण्वातटाधिपम् । कान्तारकांश्च समरे तथा
प्राक्कोसलान्नृपान्” मा० स० ३० अ० “दक्षिणाये च
पाञ्चालाः पूर्व्वाः कुन्तिषु कोसलाः” १३ अ० उत्तरकोस-
लास्तु कोशलशब्दे । र्निताः

कोहल पु० कौ हलति स्पर्द्धते अच् पृषो० । १ वाद्यभेदे

मेदि० २ मद्यभेदे च हेम० ३ नाटकशास्तकर्पृमुनिभेदे
तस्यापत्यम् शिवा० अण् । कौहल तदपत्ये पुंस्त्री०
डलयोरैक्यात् कोहड़ोऽप्वत्र

कोहनीय पु० ऋषिभेदे “उपयातायार्घ्यमिति कोहनीयाः”

गीभि० गृ० सू० । उपयातायाच र्य्यंसमीपं गतायार्घ्यं
देयमिति कोहनीया आचार्य्या आहुः” सं० त० रघुनन्दनः

कोहित पु० । ऋविभेदे । ततोऽपत्ये शिवा० अण् ।

कौहित तदपत्ये पुंस्त्री०

कौकिली स्त्री कोकिलेन दृष्टा अण् । कोकिलर्षिदृष्टायां

सौत्रामण्याम् । “द्वे सौत्रामण्यौ कोकिली चरकसौत्रा-
मणी च” लाग्या० श्रौ० सू० ।

कौकुट्टक पु० व० ब० । देशभेदे स च दक्षिणस्थः । “अथापरे

जनपदा दक्षिणा भरतर्षभ!” इत्युपक्रमे “कौकुट्टकास्तथा
कोलाः कौङ्कणाः मालवानवाः” भा० भी० ९ अ० ।

कौकुन्तक पु० ब० व० । जनपदभेदे ।

कौकुर पु० ब० व० । कुकुराणां देशः अण् । १ देशभेदे ।

“अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह” भा०
सभा० ५१ अ० । कुकुराः यादवभेदाएव स्वार्थे अण् ।
कुकुरवंश्ये २ नृप्रभेदे । “श्रुत्वा विनष्टान् वार्ष्णेयान्
सभोजान्धककौकुरान्” भा० मौ० ५ अ० ।

कौकृत्य न० कुत्सितं कृत्यं स्वार्थे अण् । १ अयुक्तकरणे

२ अंनुतापपिवये च मेदि० ।

कौक्कुटिक पु० कुकुटीं मायां, पादपतनदेशञ्च पश्यति ठक् ।

१ दाम्भिके, कीटादिबधभीत्या पादक्षेग्रस्थानमात्रद्रष्टरि संन्या-
मिनि च मेदि० । सन्यासी हि हिंसाभयात् पादन्यास प्रदेश-
पर्य्यन्तमेव पश्यन् दूरात् चक्षुः संयम्य यातीति तथात्वम् ।

कौक्कुटिकन्दल पुं स्त्री कुक्कटस्यायम् इञ् कौकुट्टिः स इव

कन्दलः । (वेड़ासाप) सर्पभेदे त्रिका० स्त्रियां ङीष् ।

कौक्ष त्रि० कुक्षौ बद्धः असिभिन्नः । कुक्षिवद्धे अलङ्कारादौ

कौक्षक त्रि० कुक्षौ देशभेदे भवः धूमा० वुञ् । कुक्षिदेशभवे

कौक्षेघ त्रि० कुक्षौ भवः “वृतिकुक्षीत्यादिना” पा० ढञ् । कुक्षौ

भवे । “असिं कौक्षेयमुद्यम्य चकारापनसं मुखम्” भट्टिः

कौक्षेयक पु० कुक्षौ वद्धः असिः ढकञ् । कुक्षिबद्धे खङ्गे

“कौक्षेयकेण सन्निहितविषधरेणेव चन्दनलता” काद० ।
“बद्धतीक्ष्णकौक्षेयक” दशकुमा० ।

कौङ्क पु० कोङ्कएव स्वार्थे अण् । कोङ्कणदेशे शब्दरत्ना०

कौङ्कण पु० ब० व० । कोङ्कण + स्वार्थे अण् । १ कोङ्कणदेशे

“कौङ्कणाः मालवानपाः” भा० भी० ९ अ० । तस्य राजा
अण् २ तद्देशनृपे च ।

कौङ्किण न० ब० व० । कोङ्कण + पृषो० । कोङ्कणदेशे शब्दर० ।

कौञ्च पु० क्रुञ्चएव स्वार्थे अण् पृषो० । क्रौञ्चपर्व्वते त्रिका० ।

कौञ्जायन्य पु० कुञ्जा० गोत्रापत्ये चफञ् ततः स्वार्थे ञ्य ।

१ कुञ्जर्षिगोत्रापत्ये स्त्रियान्तु न ञ्य किन्तु गोत्रप्रत्ययान्त-
त्वात् ङीष् कौञ्जायिनी सा च २ ब्राह्मण्याम् जटाधरः ।

कौञ्जि पुंस्त्री० कुञ्जस्यर्षेरनन्तरापत्यम् अतैञ् । कुञ्जर्षेरन-

न्तरापत्ये स्त्रियां वा ङीप् ।

कौट त्रि० कूटे अद्रिशृङ्गे भवः उत्सा० अञ् । १ कुटजवृक्षे

(कुरची) भावप्र० कुट्यां प्रायभवः अण् । २ स्वतन्त्रे
त्रि० । कूटस्य भावः अण् । ३ मिथ्याकथने ४ मिथ्यासाक्ष्ये च

कौटकिक त्रि० कूटमेव कूटकं मांसकूटं तत्पण्ठमस्य ठञ् ।

मांसविक्रेतरि शब्दरत्ना०

कौटज पु० कुटमेव कौटं तत्र जातः । कुटजवृक्षे रायमुकुटः

कौटजभारिक त्रि० कुटजस्य भारं हरति वहत्यावहति वा

वंशा० ठञ् । १ कुटजभारहारिणि २ तद्वाहके ३ तदावहके च

कौटजिक त्रि० कुटजं भारभूतं हरति वहति आवहति वा

ठञ् । भारभूतकुटजस्य १ हारके २ वाहके ३ आवाहके च

कौटतक्ष पु० कोटः स्वतन्त्रः तक्षा टच् समा० । स्वतन्त्रे तक्षणि

कौटल्य न० कुट--कलच् स्वार्थे ष्यञ् । कौटिल्यशब्दार्थे हेमच०

कौटसाक्ष्य न० कूटसाक्षिणोभावः कर्म्म वा ष्यञ् । मिथ्या-

साक्ष्ये “कौटसाक्ष्यं सुहृद्बधः” मनुना सुरापाणसमान-
तोक्त्या तस्यानुपातकमा । कौटसाक्ष्यदण्डश्च मनुना
दर्शितो यघा
“यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत्तत् कार्य्यं निवर्त्तेत कृतञ्चाप्यकृतं भवेत् । लोभान्मो-
हाद्भयान्मैत्रात् कामात् क्रोधात्तथैव च । अज्ञानाद्बा-
लभावाच्च साक्ष्यं वितथमुच्यते । एषामन्यतमे स्थाने
यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांश्च प्रवक्ष्याम्य-
पृष्ठ २२७५
नुपूर्व्वशः । लोभात् सहस्र दण्ड्यश्च मोहात् पूर्व्वन्तु
साहसम् । भयाद्वै मध्यमं दण्ड्यो मैत्रात् पूर्व्वं चतुर्गुणम् ।
कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् । अज्ञानाद् द्वे
शते पूर्णे बालिश्याच्छतमेव तु । एतानाहुः कौटसाक्ष्ये
प्रोक्तान् दण्डान्मनीषिमिः । धर्म्मस्याव्यभिचारार्थमधर्म्म-
नियमाय च । कौटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको
नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणन्तु विवासयेत्” ।

कौटि पुंस्त्री कूटस्यापत्यम् इञ् । कूटस्य मिथ्याशंसिनोऽपत्ये

स्त्रियां तु क्रौड्यादि० ष्यङ् । कौट्या

कौटिक त्रि० कूटेन मृगबन्धनयन्त्रेण चरति ठक् । मांस-

विक्रयोपजीविनि अमरः । कूट + चतुरर्थ्यां कुमु० ठक् ।
कूटसन्निकृष्टदेशादौ त्रि० ।

कौटिलिक त्रि० कुटिलिका व्याधानां गतिभेदः कर्म्मारोप

करशभूतं लौहञ्च तया हरति मृगान् अङ्गारान् वा ।
“अण् कुटिलिकायाः” पा० अण् । १ व्याधे २ कर्म्मकारे
च सि० कौ० ।

कौटिल्य न० कुटिलस्य भावः ष्यञ् । १ वक्रीभावे “नित्यं

कौटिल्ये गतौ” पा० । “कौटिल्यं कचनिचये करचरणाधरत
लेषु रागस्ते” का० प्र० तच्चोपपातकम् “कन्याप्रदानं तस्यैव
कौटिल्यं व्रतलोपनम्” या० स्मृतेः । उपपातकशब्दे
विवृतिः । स्वार्थे ष्यञ् । २ चाणक्यमुनौ पु० राजनि०
“आकर्ण्य आःज्ञातम् । कौटिध्वः--कुटिलमतिः स एष
येन क्रोधाग्नौ प्रसभमदाहि नन्दवंशः” मुदाराक्षसम्

कौटीगव्य पुंस्त्री कुटीगोरृषिभेदस्य गोत्रान्यम् गर्गा०

यञ् । कुटीगोरृषेर्गोत्रापत्ये । तस्य छात्रः कण्वादि०
अण यलोपः । कौटीगव, तच्छात्रे ।

कौटीय त्रि० कूट + चतुरर्थ्यां कृशाश्वा० छणु । कूटसन्निकृष्टदेशादौ

कौटीर्य्य त्रि० कुटीरः केवल एव स्वार्थे ष्यञ । केवले असहा-

ये । कोटिरीर्य्या यस्याः । २ दुर्गायाम् स्त्री “कौटीर्य्यां
मदिरां चण्डामिलां मलयवासिनीम्” हरिवं० १७८ अ०

कौटुम्ब त्रि० कुटम्बं तद्भरणं प्रयोजनमस्य अण् । कुटुम्ब

भरणोपयोगिद्रव्ये । आहरेदित्यनुवृत्तौ “अन्यथा कौटु-
म्बम्” आश्व० गृ० सू० २, ६, १०,

कौटुम्बिक त्रि० कुटम्बे तद्भरणे प्रसृतः ठक् । कुटुम्बभर-

णेव्यापृते “कौटुम्बिकः क्रुध्यति वै जनाय” भाग० ५५,
१३, ९, । कुटुम्बे भवः ठक् । २ कुटुम्बमध्यपातिनि । “यत्र
कौटुम्बिका दारापत्यादयोनाम्ना, कर्म्मणा वृकशृगाला
एव” भाग० ५, १४, ५,

कौट्या स्त्री कूटस्यापत्यम् इञ् स्त्री कौटिः सैव क्रौड्या ष्यङ्

१ कूटापत्यस्त्रियाम् कूट + चतुरर्थ्याम् । संङ्काशा० ण्य ।
२ कौट्य कूटसन्निकृष्टदेशादौ त्रि०

कौठारिकेय त्रि० स्वल्पा कुठारी कुठारिका तस्याः इदम्

शुभ्रा० ढक् । स्वल्पकुठारसम्बन्धिनि

कौडविक त्रि० कुडवस्य वापः ठञ् । कुडववापयोग्ये क्षेत्रादौ

कुडवं तत्परिमितमन्नं सम्भवति पचति अवहरति वा
ठक् । २ स्वस्मिन् कुडवमितान्नसमावेशके कटाहादौ ३
तत्पाचके सूदादौ ४ तदवहारके च स्त्रियां ङीप् । कुडवः
परिमाणमस्य ठञ् । ५ कुडवपरिमिते । संख्यापूर्ब्बकत्वे
पूर्ब्बपदस्य न वृद्धिः द्विकौडवेकः । अद्धपूर्ब्बकस्य तु वा
वृद्धिः आ(अ)र्द्धकौडविकः । असंज्ञायान्तु ठञोलुक् ।
द्विकुडवम् अर्द्धकुडवम् इत्यादि ।

कौडेयक त्रि० कुद्ड--काकर्श्ये ण्यत् संयोगादिलोपः कुड्या

तत्र जातादि कत्त्र्या० ढकञ् “कुड्याया यलोपश्च” पा०
ग० यलोपः । कार्कर्श्यकरणार्हायां भूमौ जातादौ

कौणकुत्स्य पु० ऋषिभेदे । “भरद्वाजः कौणकुत्स्य

आर्ष्णिषेणोऽथ गौतमः” मा० आ० ८ अ० ।

कौणप पु० कुणपः शवः भक्ष्यत्वेन विद्यतेऽस्य, अण्कुणपस्तद्भ-

क्षणं शीलमस्य ण वा । राक्षसे अमरः “न कौष्णपाः शृङ्गि-
णो वा न देवा नच भा० आ० १७० अ० मानुषाः” स्त्रियां ङीष्

कौणपदन्त पु० कौणपस्य दन्ताइव दन्ता अस्य । भीष्मे त्रिका०

कौणपाशन पु० कौणपानामशनमिवाशनमस्य । सर्पभेदे

“हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः” भा०
आ० ३५ अ० नागनामोकौ

कौण्डपायिन् पु० ब० व० कुण्डमेव कौण्डं तेन पिबत्ति सोमं

पा--णिनि । सोमयागकारियजमानभेदेषु ।

कौण्डपायिन न० कुण्डपायिनामिदम् अण् नि० प्रकृति-

भाबः । कुण्डपायिनां (कुण्डेन सोमपायिनाम्)सम्बन्धि-
नि अयनरूपे सत्रभेदे कुण्डपायिनामयनशब्दे विवृतिः ।

कौण्डल त्रि० कुण्डलमस्त्यस्य ज्योत्स्ना० अण् । कुण्डल

युक्ते त्रि० स्त्रियां ङीष् ।

कौण्डलिक त्रि० कुण्डल + चतुरर्थ्या कुमु० ठक् । कुण्डल सन्निकृष्टदेशादौ

कौण्डाग्नक त्रि० कुण्डस्येदमण् कौण्डे अग्नौ भवः वृद्धा-

द्यग्न्युत्तरपदत्वात् वुञ् । कुण्डसम्बन्धिबह्निभवे

कौण्डायन त्रि० कुण्डस्यादूरदेशादि पक्षा० चतुरर्थ्यां

फक् । कुण्डसन्निकृष्टादेशादौ

कौण्डिनेयक त्रि० कुण्डिने जातादि कत्त्र्या० ढकञ् । कुण्डिननगरजातादौ

पृष्ठ २२७६

कौण्डिन्य पुं स्त्री कुण्डिनस्यर्षे र्गोत्रापत्यं गर्गा० यञ् । कुण्डि-

न गोत्रापत्ये । “कौण्डिन्यात् कौण्डिन्य” शत० ब्रा० १४ । ५ ।
५ । २० । स्त्रियां तु ङीपि यलोपः “पाराशरकौण्डिनी-
पुत्रात् पाराशरकौण्डनीपुत्रः” शत० ब्रा० १४ । ९ । ४ । ३०
वंशब्राह्मणे । कुण्डिनस्य युवापत्यम् गर्गा० यञि
यञन्तात् फक् । कौण्डिन्यायन कुण्डिनस्य युवापत्ये पुंस्त्री
“कौण्डिन्यायनाच्च कौण्डिन्यायनः” शत० ब्रा० १४ । ५५ ।
२० । कौण्डिन्यस्य छात्रः कण्वा० अण् यलोपश्च ।
कौण्डिन कौण्डिन्यस्यछात्रे । बहुषु अणोलुक् कुण्डिनादे-
शश्च कुण्डिनः । स्त्रियां तु न लुक् किन्तु गोत्रत्वात्
ङीष्यलोपौ कौण्डिनी ।

कौण्डिल्यक पु० १ सुश्रुतोक्ते शकृन्मुत्रविषे जन्तुभेदे विषश-

ब्दे विवृतिः । २ तत्रोक्ते कीटमेदे च कीटशब्दे विवृतिः

कौण्डोपरथ पु० । आयुधजातिसंघे ततः स्वार्थे छ ।

कौण्डोपरथीय तदर्थे । “आहुस्त्रिगर्त्तषष्ठास्तु कौण्डो-
परथदाण्डिकाः क्रोष्टुकिर्जालमालिश्च ब्रह्मगुप्तोऽथ
जालकिः” सि० कौ० ।

कौतस्कुत त्रि० कुतः कुतोभवः अण् टिलोपः कस्का० । कुतस्कुतोभवे ।

कौतस्त त्रि० कुतस्त्येभवः अण् नि० वेदे यलोपः ।

कुतस्त्यभवे । “कौतस्तावध्वर्यू अरिमेजयश्च जनमेऊयश्च”
पारा० ब्राह्म० ।

कौतुक न० कुतुकस्य भावः युवादि० अण् प्रज्ञा० स्वार्थे अण्

वा । १ कुतूहले अमरः । तच्च अद्भुतजिज्ञासातिशयः ।
“कौतुकागारमागात्” कुमा० । २ मङ्गलार्थहस्तसूत्रे
शाश्वतः “वैवाहिकैः कौतुकप्तंविधानैः” कुमा० । ३
उत्सवे ४ अभिलाषे ५ नर्म्मणि ६ हर्षे ७ परम्परायातमङ्गले
८ गीतादिभोगे ९ भोगकाले च हेम० ।

कौतूहल न० कूतूहलस्य तदन्वितस्य भावः कर्म्म वा युवा०

अण् प्रज्ञादि० स्वार्थे अण् वा । कुतूहले “विस्तरश्रवणे
जातं कौतूहलमतीव मे” भा० आ० ६२ अ० । “महत्
कौतूहलं मेऽस्ति हरिश्चन्द्रकथां प्रति” मार्क० ८ । १ ।

कौतूहल्य न० कुतूहल + ब्राह्मणा० स्वार्थे ष्यञ् । कुतूहले

कौतोमत पु० कुतोमतस्यापत्यम् ऋष्यण् । ऋषिभेदे ।

“सहस्रवाहुर्गोपत्य इति कौतोमतेन” गोपथब्राह्मणम् ।

कौत्स पुं स्त्री कुत्सस्य ऋषेरपत्यम् ऋष्यण् । कुत्सापत्ये

“भूर्भुवः स्वरिति जपित्त्वा कौतसोहिङ्करोति” आश्व० श्रौ०
सू० १ । २ । ५ । “कौत्साय दत्त्वा कन्यान्तु हंसीं नाम
यशस्विनीम्” भा० आनु० १३७ अ० । “कौत्सः प्रपेदे
वरतन्तुशिष्यः” रघुः । बहुषु तस्य लुक् । कुत्साः
तदपत्येषु । कुत्सेन दृष्टं साम अण् । कुत्सर्षिदृष्टे
विकृतियागे गेये सामभेदे । तच्च साम वेगाबे १६ प्र०
२ अर्द्धे १० गानम् । “कौत्सं भवति काण्वं भवति” श्रुतिः ।

कौथुम त्रि० कुथुमं वेदशाखाभेदमधीते वेद वा अण् । १ कुथुम-

शाखाध्यायिनि तद्वेत्तरि च । तस्य कार्त्तकौजपादित्वात्
द्वन्द्वे पूर्वपदं प्रकृत्या । कठकौथुमाः इत्यादि । “अनुवादे
चरणानाम्” पा० द्वन्द्वे एकवत् प्रत्यष्ठात् कठकौथुमम् ।
“स्थेणोर्लुङि” वार्त्ति० स्थाधातोरिण्धातोश्च लुङ्प्रयोग
एव तस्य तथात्वं नियमितम्

कौदालीक पुंस्त्री० रजक्यां तीवराज्जाते संकीर्ण्णवर्ण्णभेदे ब्रह्मवै० जातिशब्देविवृतिः

कौद्रविक न० कोद्रवो निमित्तमस्य ठञ् । सौवर्चललवणे

राजनि०

कौद्रवीण न० कोद्रवस्य भवमं क्षेत्रं कोद्रव + खञ् । कोद्रव धान्यभवनयोग्ये क्षेत्रे अमरः

कौद्रा(न्द्रा)यण पुं स्त्री० कुद्र(न्द्र)स्य ऋषेर्युवापत्यम् इञ

कौ द्रिः(न्द्रिः) इञ्न्तत्वात् यून्यपत्ये फक् । कुद्रि(न्द्रि)
नामर्षेर्युवापत्ये ततः अरीह० चतुरर्थ्यां वुञ् ।
कौन्द्रायणक तत्सन्निकृष्टदेशादौ त्रि०

कौनख्य न० कुनखिनोभावः ष्यञ् टिलोपः । कुत्सितनख-

रूपे रोगभेदे तच्च सुवर्ण्णस्तेयमहापातकजचिह्नम्
“सुवर्ण्णचौरः कौनख्यम्” मनूक्तेः ।

कौन्तायनि त्रि० कुन्ती + चतुरर्थ्यां कर्ण्णा० फिञ् । कुन्तीनिर्वृत्तादौ

कौन्तिक कुन्तः प्रहरणमस्य ठञ् । कुन्तास्त्रेण युद्धकारके

अमरः ।

कौन्ती स्त्री कुन्तिषु देशेषु भवा अण् ङीप् । भस्मगन्धिन्योषधौ अमरः

कौन्तेय पु० कुन्त्या अपत्यम् ढक् । १ युधिष्ठिरादिषु त्रिषु ।

“कौन्तेय! प्रतिजानीहि न मे कर्म्मफले स्पृहा” गीता
२ अर्ज्जुनवृक्षे राजनि० तस्य तत्तुल्यनामत्वात्तथात्वम् ।

कौप त्रि० कूपस्येदमण् । कूपसम्बन्धिनि जलादौ “सक्षार

पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु” सुश्रुते तद्गुणा
उक्ताः । “वसन्ते कौपं प्रास्रवणं वा ग्रीष्मेष्वेवम्”
सुश्रुतोक्तकाले तस्य सेव्यता । स्त्रियां ङीप् ।

कौपीन न० कूपे पतनमर्हति खञ् अकार्य्ये नि० । १ अकार्य्ये

२ पापे ३ गुह्यप्रदेशे अमरः ४ चीरे त्रिका० ५ मेखलाबद्धे
वस्त्रखण्डे (कप्नी) मेदि० तद्धारणेन कूपे पतनात् तस्य
तथात्वम् । अकार्य्यवदाच्छाद्यत्वात् ६ पुरुषलिङ्गे शब्दचि० ।
तदावरकतया वस्त्रखण्डस्य कौपीनत्वम् । “कौपीनवन्तः
खलु भाग्यवन्तः” पुरा० “कौपीनाच्छादनं यावत्तादिच्छे-
चीवरम्” भा० आ० ९१ अ० । “अबलास्वल्पकौपीनाः
सुहृदः सत्यजिष्णवः” भा० अनु० ४६ अ० ।
पृष्ठ २२७७

कौपोदकी स्त्री कौमोदकी पृषो० । विष्णुगदायां द्विरूपकोषः ।

कौमार पु० अपूर्ब्बपतिकां कुमारीमुपपन्नः पतिः “कौमारा

रापूर्ब्बवचने” पा० नि० । अपूर्ब्बपतिकायाः कुमार्य्या
१ वोढरि । कुमारस्य भावः “प्राणभृद्वयो वचनत्वात् अञ् ।
“जातः कुं पृथिवीं पद्भ्यां मारयेत् स कुमारकः । इति
प्रधानतो विद्धि कौमारं प्राग्भवावदतः” इत्युक्तावधिके
“कौमारं पञ्चमावधि” इत्यन्ते २ वयोवस्थाभेदे न० ।
“देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा” गीता ।
“पिता रक्षति कौमारे भर्त्ता रक्षति यौवने” मनुः ।
कुमार एव स्वार्थे अण् । ३ कुमारे शब्दचिन्ता० । कुमारस्य
सनत्कुमारस्येदम् अण् । ४ सर्गभेदे पु० स च सर्गः सनत्
कुमारादिसर्ज्जनपूर्ब्बकत्वात् तन्नामकः । “कौमार आर्षः
प्राजपत्योमानव इत्यादिसर्गनामानि” श्रीधरः । “सएव
प्रथमं देवः कौमारं सर्गमाश्रितः । चचार दुश्चरं ब्रह्मा
ब्रह्मचर्य्यमखण्डितम्” भान० १, ३, ७, “वैकारिकस्तु यः
प्रोक्तः “कौमारस्तूभवात्मकः” भाग० ३, १, २०, ५,
५ कुमारसम्बन्धिनि त्रि० “तत्र विद्याव्रतस्नातः कौमारं
व्रतमास्थितः” भा० व० ९५ अ०

कौमारायण पुंस्त्री० कुप्तारस्य गोत्रापत्यं नड़ा० फक् ।

कुमारनामकर्षिगोत्रापत्ये ।

कौमारिकेय पुंस्त्री० कुमारिकाया अपत्यं शुभ्रा० ढक् । कानीने

कौमारी स्त्री अपत्नीकं कुमारं पतिमुपपन्ना स्त्री “कौमा-

रापूर्व्ववचने” पा० नि० ङीप् । १ अगृहीतदारान्तरस्य पत्युः
१ भार्य्यायाम् । कुमारस्येयमण् ङीप् । २ कुमार सम्बन्धि-
चेष्टादौ “कौमारीं दर्शयेश्चेष्टाम्” भाग० ३, २, २८, कुमा-
रस्य कार्त्तिकेयस्येयम् अण् ङीप् । ३ कार्त्तिकेयशक्तौ ।
“कौमारी शक्तिहस्ता च मयूरवरबाहना । योद्धु
मभ्याययौ क्रुद्धं रक्तवीजं महासुरम्” कौमारीशक्ति
निर्भिन्नाः केचिन्नेशुर्महासुराः” देवीमाहात्म्यम्

कौमुद पु० “कौ मोदन्ते जनायस्मिन् कौमुदस्तेन कीर्त्तितः”

इक्तुक्तलक्षणे १ कार्त्तिकमासे । “एतैरन्यैश्च राजेन्द्रैः
पुरा मांसं न भक्षितम् । शारदं कौमुदं मासं ततस्ते
स्वर्गमाप्लुयुः । कौमुदं तु विशेषेण शुक्लपक्षं नराधिप! ।
वर्ज्जयेत् सर्वमांसानि धर्म्मोह्यत्र विधीयते” म० त० भार०

कौमुदी स्त्री कुमदस्येयं प्रकाशकत्वात् प्रिया अण् ङीप् ।

१ न्योत्लायाम् अमरः । “शशिना सह याति कौमुदी”
कुमा० १ तद्वत्प्रकाशिकायाम् “त्वमस्य लोकस्य च नेत्रकौ-
मुदी” कुमा० कौमुदस्येवम् अण् ङीप् । “कुशब्देन मही
ज्ञेया मुद हर्षे० ततोद्वयम् । धातुज्ञैर्नियमैश्चैव तेन सां
कौमुदी स्मृता” इत्युक्तायां २ कार्त्तिकपौर्ण्णमास्यां “कौ
मोदन्ते जनायस्यान्नानाभावैः परस्परम् । हृष्टास्तुष्टाः
सुखापन्नास्तेन सा कौमुदी मता” इत्युक्तायाम् ३ आश्विन
षौर्ण्णमास्याम् “आश्विने षौर्ण्णगास्यान्तु चरेज्जागरणं निशि
कौमुदी सा समाख्याता कार्य्या लोकविभूतये” ति० त०
लौङ्गोक्तेः । ४ दीपोत्मवतिथौ दीपोत्वतिथिं प्रकृत्य
भविष्योत्तरे “कौमोदन्ते जनायस्यां तेन सा कौमुदी मता”
“सखीजनोद्वीक्षणकौमुदीमुखम्” रघुः कौमुदी दीपोत्
वातिथिः” इति मल्लि०” ५ उत्सवे धरणिः” ६ कार्त्तिकोत्सवे
त्रिका० । स्वार्थे क । ह्रस्वे कौमुदिका ज्योत्स्नायाम् ।
संज्ञायां कन् । उमासखीभेदे शब्दरत्ना० कुमुद + चतुरर्थ्यां
कुमुदा० ठक् । कौमुदिक कुमुदसन्निकृष्टदेशादौ त्रि०

कौमुदीचार पुं न० कौमुद्या ज्योत्स्नाया चारः प्राशस्त्यमत्र

काले । आश्विनपौर्ण्णमास्वाम् त्रिका०

कौमुदीपति पु० ६ त० । चन्द्रे हारा० कौमुदीनाथादयाऽप्यत्र

कौमुदीवृक्ष पु० कौमुद्याः प्रकाशिकायाः दीपशिखाया वृक्ष

इवाधारः । दीपवृक्षे (पितुतलसुज्) हारा०

कौमोदकी स्त्री कोः पृथिव्याः पालकत्वात् मोदकः कुमोदको

विष्णुः तस्येयम् अण् । विष्णुगदायाम् अमरः “कौमो-
दकी मोदयति स्म चेतः” माघः । “देवैरनादिवीर्य्यस्य गदा
तस्यापरे करे । निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमुदकीति
सा” हरि० ९२ अ०

कौमोदी स्त्री कुं मोदयति अण् कुमोदः विष्णु स्तस्ये यमण

ङीप् । विष्णुगदायाम् शब्दरत्ना०

कौम्भकारि पुं स्त्री० कुम्भकारस्यापत्यं शिल्पित्वात् पक्षे इञ् ।

कुम्भकारापत्ये स्त्रियां वा ङीप् । पक्षे ञ्य । कौम्भ-
कार्य्य तत्रार्थे ।

कौम्भायन त्रि० कुम्भस्य सन्निकृष्टदेशादि पक्षा० फक् । कुम्म-

सन्निकृष्टदेशादौ

कौम्भायनि त्रि० कुम्भ + चतुरर्थ्यां कर्णा० फिञ् । तत्सन्निकृष्टदेशादौ

कौम्भेयक त्रि० कुम्भ्यां जातादि कत्त्र्या० ढकञ् । कुम्भीजातादौ

कौम्भ्य त्रि० कुम्भ + चतुरर्थ्या । सङ्काशा० ण्य । कुम्भसन्निकृष्टदेशादौ

कौरयाण पु० कुरयाणस्य (शत्रुं प्रति कृतयानस्य) अयम् अण्

वेदे पृषो० । शत्र प्रति कृतयानस्य सम्बन्धिनि तत्पुत्रादौ
“पाकस्थ मा कौरयाणः ऋ० ८ । ३ । २१ तद्भाष्ये तथार्थोक्तेः
पृष्ठ २२७८

कौरव पुंस्त्री० कुरोरपत्यादि उत्सा० अञ् तद्देशस्य रा जा

अण् तेषु भवो वा अण् । १ कुरुवंश्ये “तस्यान्ववायः
सुमहान् यस्य नाम्ना स्थ कौरवाः । कुरोस्तु पुत्राश्चत्वारः”
हरिवं ६२ अ० । २ तद्देशनृपे पु० ३ कुरुसम्बन्धिनि ४ तद्दे-
शभवे च त्रि० । स्त्रियां ङीप् । “द्रुपदः कौरवान् दृष्ट्वा
प्राधावत समन्ततः । शरजालेन महता मोहयन् कौरवीं
चमूम्” भा० आ० १३८ अ० “क्षेत्रं क्षत्रप्रधनपिशुनं
कौरवं तद्भजेथाः” मेघदूतम् ।

कौरवक त्रि० कुरौ तद्वंशे जातादि “विभाषा कुरुयुगेति

पा० वा वुञ् । १ कुरुवंशोद्भये । कुववकस्येदमण् । २
कुरवकसम्बन्धिनि

कौरवायणि पुंस्त्री कुरोरपत्यम् तिका० फिञ् । कुरुवंश्ये

कौरवेय पुंस्त्री कुरोपत्यं बा० ढक् । कुरुवंश्ये । “समा हि

कौरवेयाणां वयं ते चैव पुत्रक!” भा० आ० १४२ अ० ।
“विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत!” मा० व०
८ अ० ।

कौरव्य पुंस्त्री० कुरोवपत्यम् कुर्ब्बादि० ण्य । १ कुरुवंश्ये ।

“कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलम्”
वेणीस० । तस्यापत्यं तिका० फिञ । कौरव्यायणि
कुरुकुलोत्पन्ने ब्राह्मणादावपत्ये पुं स्त्री कुरूणां राजा
ण्य । २ कौरव्य कुरुदेशराजे । स्त्रियां ङीप् कौरवी
स्त्री । ण्यान्तत्वात् यून्यपत्ये फिञो लुक् । कौरव्यः
पिता पुत्रश्च सि० कौ० ।

कौरुकत्य पुं स्त्री कुरुकतस्यर्षेरपत्यम् गर्गा० यञ् । कुरु-

कतस्यर्षेरपत्ये युवापत्ये फिञ् । कौरुकत्यायनि तदीय
युवापत्ये पुंस्त्री

कौरुज(जा)ङ्गल त्रि० कुरुजङ्गले जातादि अण् उत्त-

रपदस्य वा वृद्धिः । कुरुजङ्गलमवे

कौरुपाञ्चाल त्रि० कुरुपञ्चालदेशे प्रसिद्धः अण् उभयपद

वृद्धिः । कुरुषु पञ्चालेषु च प्रसिद्धे । “प्रज्ञातं कौरुपा-
ञ्चालं यच्चतुरवत्तम्” शत० ब्रा० १, ७, २, ८, कौरुपाञ्चालो
वा अयं ब्रह्मा ११ । ४ । १ । २ ।

कौर्प्य पु० “क्रियतावुरिजित्तमकुलीरलेयपाथेययूककौर्पा-

ख्याः । तौक्षिकआकोकेरो हृद्रोगश्चान्त्यभं चेत्थम्”
रीपिकोक्ते वृश्चिकराशौ ।

कौर्म्म न० कूर्म्ममधिदूत्य कृतो ग्रन्थोः अण्, कूर्म्मस्वेदम् अण्

वा । १ कूर्म्मदुराणे २ कूर्म्मसम्बनि नि० ।

कौल त्रि० कुले भवः श्वभिन्नः अण् । सत्कुलभवे १ कुलीने

शुनि तु कौलेयक इत्येव । कुले कुलाचारे रतः तं वेत्ति
वा अण् । २ तन्त्रोक्तकुलाचाररते ३ तदाचारवेदिनि
च । “दिव्यभावरतः कौलः सर्वत्र समदर्शनः” कुला-
र्ण्णवः । “पशोर्वक्त्राल्लब्धमन्त्रः पशुरेव न संशयः । वीरा-
ल्लब्धमनुवीरेः कौलाच्च ब्रह्मविद्भवेत्” महानीलतन्त्रम् ।
कुल कुलाचारमधिकृत्य कृतो ग्रन्थः अण् । ४ कुलाचार-
प्रवर्चके ग्रन्थे कौलोपनिषदादौ ।

कौलक त्रि० कूले भवः सौवीरः धूमा० वुञ् । कूलभवे सौवीरे

कौलकेय त्रि० कुले सत्कुले भवः बा० ठक् कुक् च । १

सत्कुलोद्भवे । कौलटेय + पृषो० । २ असतीपुत्रे पुंस्त्री शब्दरत्ना० ।

कौलटिनेय पुंस्त्री भिक्षुक्याः सत्या अपत्यम् ढक् इनादेशश्च ।

सत्या भिक्षुक्याः अपत्ये अमरः स्त्रियां ङीप्

कौलटेय पुंस्त्री कुलटायाः सत्याः असत्या वा अपत्यम् ढक् ।

सत्याः असत्याश्च भिक्षुक्याः अपत्ये अमरः । स्त्रियां ङीप् ।

कौलटेर पुंस्त्री कुलटायाः असत्या अपत्यम् आचारेण क्षुद्र-

त्वात्(“क्षुद्राभ्यः”)पा० ढ्रक् । बन्धक्याः अपत्ये अमरः ।

कौलत्थ त्रि० कुलत्थेन संस्कृतम् अण् । कुलत्थसंस्कृते

“पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः” सुश्रु० ।

कौलत्थीन न० कुलत्थस्य भवनं क्षेत्रम् खञ् । कुलत्थोत्प-

त्तियोग्ये क्षेत्रे

कौलपुत्रक न० कुलपुत्रस्य भावः मनोज्ञा० वुञ् । कुलपुत्रभावे

कौलव पु० ववाद्दिषु तृतीये तिथ्यर्द्धरूपे चरकरणभेदे ।

करणशब्दे १६९० पृ० विवृतिः

कौलालक त्रि० कुलालेन कृतं संज्ञायां वुञ् । कुलालकृते

शरावादौ असंज्ञायान्तु अण् कौलाल तत्कृते । तस्येदमण्
कौलाल तद्सम्बन्धिनि त्रि० “रथचक्रं वा कौलालचक्रं
वा” शत० व्रा० ११ । ८ । ४ । १

कौलिक त्रि० कुलादागतः ठक् । १ कुलपरम्परागते

आचारादौ । कुले कुलागमे सिद्धः ठक् । तन्त्रोक्ते २ कुलाच-
रे । कौलं कुलधर्मं प्रवर्त्तयति ठक् । ३ कुलधर्मप्रवर्त्तके
शिवे । शब्दमा० । ४ पाषण्डे त्रिका० । कुलं तदाचारः
प्रयोजनमस्यठक् । ५ कौले ब्रह्मविदि “शन्नः कौलिकः” श्रुतिः

कौलितर पु० कुलितरस्यापत्यम् ऋष्यण् । शम्बरासुरे “उ त

दासं कौलितरं वृहतः पर्व्वतादधि । अवाहान्निन्द्र” शम्ब-
रम्” ऋ० ४ । ३ । ०१४ कुलितरनाम्नोऽपत्यं शम्बरमसुरम्” मा०

कौलिशायनि त्रि० कुलिश + चतुरर्थ्यां कर्णा० फिञ् कुलिश

सन्निकृष्टदेशादौ
पृष्ठ २२७९

कौलिशिक त्रि० कुलिश + अङ्गुल्या० इवार्थे ठक् । कुलिशसदृशे

कौलीन त्रि० कौ पृथिव्यां लीनः ७ त० अलुक स० । १ भूमिल-

ग्ने । कुलादागतः खञ् । २ कुलक्रमागते “सदश्व
इवमर्य्यादां कौलीनां नायवर्त्तत” रामा० आ० ८७ अ० । ली भावे
क्त को लीनं लयी यस्यात्, कुलीनं भूमिलयमर्हति अण्
वा । भूमिलग्नतासाधने ३ अपवादे “कौलीनमात्माश्रय-
माचचक्षे” “कौलीनर्मातेन गृहान्निरस्ता” रघुः “मा
कौलीनादसितनयने! मय्यविश्वासिनी भूः” मेवः
अपवादे हि भूमिलग्नैव लोकोभवतीति तस्य तथात्वम् ।
४ गुह्ये ५ जन्ये (युद्धे) ६ कुकार्ये ७ पशुसर्पाणां युद्धे च
न० मेदि० तेषां भूमिलग्नतासाधनत्वात्तथात्वम् ।

कौलीरा स्त्री कुलीरः तच्छृङ्गाकारोऽस्त्यस्याः अच् । कर्क-

टशृङ्ग्याम् (काँकडाशिङा) राजनि०

कौलेय त्रि० कुले + भवः बा० ढक् । सत्कुलीत्पन्ने भरतः

कौलेयक पु० कुले भवः श्वा ढकञ् । १ कुलागते कुक्कुरे ।

अमरः २ सत्कुलीने मेदि० ।

कौलेशभरवी स्त्री त्रिपुराभैरवीभेदे । “सम्पत्प्रदाभै-

रवीवत् विद्धि कौलेशभैरवीम् । हसाद्याः सैव देवेशि!
त्रिषु वीजेषु पार्वति!” ज्ञानार्ण्णवः । “त्रिकूटे
हसाद्याश्चेत् तदा कौलेशभेरवी भवति” तन्त्रसारः

कौल्माषिक त्रि० कुल्माषे साधु ठञ् । कुलमाषसाधने

कौल्माषीण न० कुल्माषाणां भवनं क्षेत्रम् खञ् । कुल्माष

धान्थोत्पत्तियोग्ये क्षेत्रे

कौल्य त्रि० कुले भवः ष्यञ् । सत्कुलीने द्विरूपकोषः ।

कौवल न० कुवलमेव प्रज्ञा० स्वार्थे ण । कोलिफले द्विरूपको० ।

कौविदार्ष्य त्रि० कोविदार + चतुरर्थ्यां प्रगद्या० ञ्य ।

कोविदारसन्निकृष्टदशादौ ।

कौवेर त्रि० कुवेरस्येदम् कुनेरोदेवताऽस्य वा अण् । १ कुवेर

संवन्धिनि २ तद्देवताके च “कौवेरमथ याम्यञ्च चक्राते
वरुणस्य च” देवीमा० । “यानं सस्मार कौवेरम्” रघः ।
“कौवेरदिग्भागमपास्य मार्गम्” माघः । स्त्रियां ङीप् ।
“दिग्विमागे तु कौवेरी दिक् शिवाप्रीतिदायिनी” ति० त०
पु० । “ततः प्रतस्थे कौवेरीम्” रघुः । ३ कुष्ठवृक्षे (कुड़)
न० शब्दरत्ना० ।

कौवेरिकेय पुं स्त्री० कुवेरिकाया अपत्यम् शुभ्रा० ढक् । कुवेरिकाया अपत्ये ।

कौश न० कुशाः मूम्ना सन्त्यत्र अण् । १ कान्यकब्जदेशे

हेमच० । स्वार्येऽण् । २ कुशशीपे “शाकं ततः शाल्मलमत्र
कौशम्” सि० शि० । कशशब्दे २१४५ पृ० विवृतिः ।
कुशस्येदं तद्विकारो वा अण् । ३ कुशसम्बन्धिनि ४ तन्मये
पवित्रादौ । “तत्र वासाय शयने कौशे सुखमुवास ह”
भा० अनु० १९ अ० । स्त्रियां ङीप् । “कौश्यां वृष्यां
समासीनम्” भा० अनु० ५४ अ०

कौशल न० कुशलस्य भावः युवा० अण् । दक्षतायाम् “सीमे-

व पद्मासनकौशलस्य” भट्टिः । “आन्वीक्षिकी कौशला-
नाम्” “धोगः कर्म्मगु कौशलम्” गीता । “हावहारि
हसितं वचनानां कौशलं दृशि विकारविशेषः” माघः ।

कौशलि पुंस्त्री० कुशलाया अपत्यं बाह्वा० इञ् । कुशलाया

अपत्ये स्त्रियां वा ङीप् । यून्यपत्ये फञ् । कौलशायन-
तदीययुवापत्ये पुंस्त्री

कौशलिका स्त्री कुशलस्य पृच्छा ठक् । १ कुशलप्रश्ने ।

कुशलाय मङ्गलाव दीयते ढक् । २ उपायने उपढौकने ।
त्रिका० ।

कौशली स्त्री कुशलाय दीयते तस्य पृच्छा वा अण् । १ उपढौकने २ कुशलप्रश्ने च त्रिका० ।

कौश(स)लेय स्त्री कोश(स)ल्याया अपत्यं ढक् यलोपः ।

श्रीरामे दशरथपुत्रे

कौशल्य न० कुशलमेव व्राह्म० ष्यञ् । १ कुशले । भावे ब्राह्म०

ष्यञ् । २ दक्षतायाम् । “दृष्ट्वा कौशल्यमन्योन्यं
रथष्वेयावतस्थिरे” भा० व० २४४ अ०

कौश(स)ल्या स्त्री कोश(स)लदेशे भवा ञ्यु । कोश(स)लदेश

भवायां श्रोराममातरि दशरथपत्नीभेदे ।

कौश(स)ल्यातनय पु० ६ त० । सीतापतौ श्रीरामे तब्सुतादयोऽयत्र ।

कौश(स)ल्यायनि पु० कौश(स)ल्यायाअपत्यम् फिञ् । श्रीरामे

त्रिका० “म्रियामहे न गच्छामः कौश(स)ल्यायनिवल्लभाम्”
भट्टिः । कौश(स)ल्य पत्यार्थकता जयमङ्गलयामुक्ता ।

कौशाम्ब त्रि० कुशाम्बेन निर्वृत्तः अण् । १ कौशाम्बराज-

कृते २ तत्कृते पुरीभेदे स्त्री ङीप् । “कृशाम्बस्तु महातेजाः
कौशाम्वोमक्ररोत् पुरीम्” रामा० । साच पुरो
गौडदेशान्तर्गतवत्सभूमिगता । “अस्ति वत्स इति ख्यातोदेश
इत्युपक्रमे” कौशाम्बी नाम तत्रास्ति मध्यभाते
महापुरी” कथासरित्सागरः । “अस्ति गौ डविषये कौशा-
म्बा नाम नगरो” हिता० । “निष्कौशम्बिः” सि० कौ०

कौशाम्बेय पुंस्त्री कुशाम्बस्य गोत्रापत्यम् शुभ्रा० ढक् ।

कुशाम्बनृपवश्ये

कौशिक न० कुशिकस्यापत्यं ऋष्यण् कुशेन दृतः अध्या० ठञ् ।

कुशिके तद्वंशे भवः अण् वा । १ इन्द्रे २ भेचके पुंस्त्री०
उमयत्र “अणकुवत् सोढुतधीरलोचतः सहलरश्मेरिव
पृष्ठ २२८०
यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाव
बिभ्यद्दिवसानि कौशिकः” माघः । इन्द्रस्य कुशिकपुत्रत्व-
प्राप्तिकथा “कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम् ।
लभेयमिति तं शक्रस्त्रासादभ्येत्य जग्मिवान् । स गाधि-
रभवद्राजा मघवान् कौशिकः स्वयम्” हरिवं० १ अ० ।
“कुशिकस्तु तपस्तेपे” इत्यपक्रम्य “अत्युग्नतपसं दृष्ट्वा
सहस्राक्षःपुरन्दरः । समर्थं पुत्रजनने स्वमेवांशमवासयत् ।
पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः । स गाधिर-
भवदाजा मघवान् कौशिकः स्वयम्” हरिवं० २७ अ० ।
कुशैर्वृतत्वाद्वा कौशिकत्वमस्य यथाह तत्रै
“जात मात्रस्तु भगवानदित्यां स(शक्रः)कुशैर्वृतः । तदा
प्रभृति देवेशः कौशिकत्वमुपागतः” हरि० २२७ अ० ।
३ गुग्गुलौ ४ व्यालग्राहिणि (सापुड़े) अमरः । ६ नकुले
७ कोषाध्यक्षे मेदि० । ८ कोषकारे शब्दरत्ना० ९ शृङ्गार-
रसे त्रिका० १० मज्जनि हेम० ११ अश्वकर्णवृक्षे
राजनि० । कुशिक्रस्य गोत्रापत्यम् विदा० अञ् । १२ विश्वा-
मित्रमुनौ स हि कुशिकपुत्रस्य गाधेरपत्यम् । कुशि-
कशब्दे तन्मूलं दृश्यम् । “अपिबच्च ततः सोममिन्द्रेण
सह कौशिकः” भा० आ० १७५ अ० ।
१३ पौरववंश्ये नृपभेदे । “पारीक्षितस्य द्वौ पुत्रौ” इत्युप-
क्रमे “प्रतिष्ठायाश्च द्वौ पुत्रौ पैप्पलादिश्च कौशिकः” हरिव
१९१ अ० । जरासन्धनृपस्य हंसनामके १४ सेनापतिभेदे “स
तृ(जरासन्धः)सेनापती! राजा सस्मार भरतर्षभ! ।
कौशिकं चित्रसेनञ्च तस्मिन् युद्धे उपस्थिते । ययोस्तो नामनी
राजन् हंसेति डिम्बकेति च” भा० स० २१ अ० । तस्य च
कौशिकवंश्यत्वात् तथात्वम् । १५ असुरभेदे “खसृमः
शालवदनः करालः कौशिकः शरः” हरिव० ४२ अ० ।
कुशिकवंशोद्भवत्वात् १६ नदीभेदे स्त्री तस्या उत्पत्तिकथा
रामा० आ० ३४ अ०
“कुशवशप्रसूतोऽस्मि कौशिको रघुनन्दन! । पूर्व्वजा
भगिनी चापि मम राघव! सुब्रता । नाम्ना सत्यवती नाम
ऋचोके प्रतिपादिता । सशरीरा गता स्वर्गं भर्त्तार-
मनुवर्त्तिनी । कौशिकी परमोदारा पवृत्ता च महानदी ।
दिव्यपुष्पोदका रम्या हिमवन्तमुपाश्रिता । लोकस्य
हितकार्यार्थं प्रवृत्ता भगिनी मम । ततोऽहं
हिमवत्पार्श्व वसानि नियतः सुखम् । भगिन्यां स्नेहसं-
यक्तः कौशिक्यां रघुनन्दन! । सा तु सत्यवती पुण्या
सत्ये धर्म्मे प्रतिष्ठिता । पतिव्रता महाभागा कौशिकी
सरिता वरा”
“तत्र मासं वामेद्वीर! कौशिक्यां भरतर्षभ! । अश्वमे
धस्य यत् पुण्यं तन्मासेनाधिगच्छति” भा० व० ८१ अ० । “कुशि-
कस्याश्रमं गच्छेत् सर्व्वपापप्रमोचनम् । कौशिकीं तत्र
गच्छेत महापापप्रणाशिनीम् । राजसूयस्य यज्ञस्य फलं
प्राप्नोति मानवः” तत्रैवाध्याये । “इयञ्च नदी हिमवतः
निःसृता चम्पानगरसन्निकृष्टे उत्तरपारे गङ्गायां सङ्गतो ।
“ततोगच्छेत राजेन्द्र! । चम्पकारण्यसुत्तमम्” ततैत्युक्ते-
स्तस्यास्तत्सन्निकृष्टत्वम् । १८ यशोदाकन्यात्वेनोत्पन्नायां
योगमायायाम् । कौशिकेन्द्रेण भगिनीत्वेन कल्प-
नेन विष्णुना तस्यास्तन्नामकरणात्तथात्वं यथोक्तम्
“तत्र त्वां शतदृक् शक्रोमत्प्रदिष्टेन कर्म्मणा । अभिषेकेणा
दिव्येन दैवतैः सह योक्ष्यसे । तत्रैव त्वां भगिन्यर्थे
ग्रहीष्यति स वासवः । कुशिकस्य तु गोत्रेण कौशिकी
त्वं भविष्यसि” हरिव० ५८ अ० योगमायां प्रति विष्णूक्तिः ।
“आर्य्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी” भा०
हरि० ५९ अ० । पार्व्वत्याः शरीरकीश(षा)त्निःसृतं १९
देवीमूर्त्तिभेदे तस्य च मूर्द्धन्यमध्यतापीति भेदः तन्मूलं
देवीमाहात्म्यवाक्यं तच्च कोशशब्दे दर्शितं नाठ्ये २० वृत्ति-
भेदे अलङ्कारशब्दे लक्षणादिकं दृश्यम्

कौशिकप्रिय पु० ६ त० । श्रीरामे विश्वामित्रप्रियात्वरणात्तस्य० तथात्वम्

कौशिकफल कौशिक कोशस्थं फलमस्य । नारिकेले शब्दरा०

कौशिका स्त्री कोशएव स्वार्थे क अतैत्त्वम् । पानपात्रे

चषके हेम०

कौशिकात्मज पु० ६ त० । १ इन्द्रपुत्ने जयन्ते २ अर्जुने च शब्दमाला ३ विश्वामितपुत्रे च

कौशिकायनि पु० कुशिकस्यापत्यम् बा० फिञ । यजुर्वेद-

वंशब्राह्मणस्थे ऋषिभेदे “कौशिकायनेः कौशिकायनिः”
शत० ब्रा० १४ । ५ । ५ । २१

कौशिकायुध न० ६ य० । इन्द्रचापे शरत्ना०

कौशिकाराति पु० ६ त० । १ काके राजनि० तस्य पेचकारातित्वं

च तेन सह नित्यविरोधित्वात् । तत्कथा काकोलू-
कशब्दे दृश्या कौशिकारिप्रभृतयोऽप्यत्र पु०

कौशिकिन् पु० ब० व० कौशिकेन प्रोक्तमधीयते णिनि

विश्वामित्रप्रोक्ताध्यायिषु

कौशिक्योज पु० कौशिक्या इव ओजोयस्य पृषो० सलोपः

शास्वोटवृक्षे (सेओड़ा) राजनि०
पृष्ठ २२८१

कौशिज पु० ब० व० देशभेदे “पञ्चालाः कौशिजाश्चैव

नैकपृष्ठाः धुरन्धराः” भा० भी० ९ अ० जनपदकथने

कौशी(षी)धान्य न० कोशे(षे)भवा कौशी(षी) कर्म्मधा० ।

कोश(ष)जाते धान्ये तिलादौ । “सर्व्वमेवैतदहः कोशी-
(षी)धान्यं विवर्ज्जयेत्” का या० श्रौ० २ । १ । १०

कौशे(षे)य न० कोशा(षा)दुत्थितम् ढक् । कृमिकोषादिजाते

वस्त्रे अमरः “निर्नार्भि कौशे(षे)यमुपात्तरागम्” कुमा०
“कौशेयं व्रजदपि गाढतामजस्रम्” माघः “लाक्षालो-
हितकौशे(षे)यपरिधानम्” काद० “कौषेयाविकयोरूषौ”
मनुना तच्छोधनद्रव्यसुक्तम्

कौश्य त्रि० कुशस्येदम् ष्यञ् । १ कुशसंम्बन्धिनि शयनादौ

“प्रास्कन्दच्छयने कौश्ये वृष्ट्यां शस्यमिव प्लवम्” भा०
अनु० ७१ अ० । कुशस्य गोत्रापयं बा० ष्यञ् । २ कुशगोत्रजे
ऋषिभेदे पु० “तं होवाच सुश्रदाः कौश्यः” शत० व्रा० १० ।
५ । ५ । ४ “कौश्यः कुशगोत्रजः” भा० । तेन ब्राह्मणे
कौष्य इति मूर्द्धन्ययुक्तप ठस्तु प्रामादिकः ।

कौशा(सा)रव पु० कशा(षा)रोरफयम् ऋष्यण् । कुशा(षा)

रोर्मुनेरपये मैत्येये “यावतः कृतवान् प्रश्रान् क्षत्ता
कौशारवाग्रतः” माग० १ । १३ । ३ “कौशारवस्य मैत्रेयस्याग्रतः”
श्रीधरः “ननु ते तत्त्वमंराध्य ऋणिः कौशारवोऽन्तिमे”
भाग० २ । ४ । ३ वाह्वा० इञ् । कौशारविरप्यत्र “यत्र
कौशारवेस्तस्य संवादोऽध्यात्मसंश्रितः” भाग० २ । १० । ५२

कौषिक त्रि० कौशिक + पृषो० । १ कौशिकशब्दार्थे मेदि० २ दुर्गा

मूर्तिभेदे स्त्री “शरीरकोषाद्यत्तस्याः पार्वत्याः
निःसृताम्विका । कौग्रिकीति समाख्याता ततोलोकेषु
गीयते” देवीमा० “कायकोपान्निःसूता या कालिकायास्तु
भेरव! । सा कौषिकीति विख्य ता चारुरूपा मनोह-
रा” कालिका० पु० ६० अ०

कौषीतक पु० कुषीतकत्थापत्यम् ऋष्यण् । कुषीतकर्षिपुत्रे

बह्वृचां प्रत्यहं तर्पणीये ऋषिभेदे कहोडे “कहोडं
कौषीतकमित्यादि” आश्व० गृ० ३ । ४ । ४ । २३ ऋषितर्पणे ।
कुषीतकस्यापत्यम् इञ् । कौषीतकिरपि कहोड़े ऋषौ
“तदुहोवाच कहोड़ः कौषितकिः” शत० व्रा० २ । ४ । २ । १ ।
तत्सम्वन्धित्वात् कौषितकिब्राह्मणं कौषीतकी उपनिषच्च
ऋग्वेदातर्गता ।

कौषीतकिन् पु० ब० व० । कौषीतकेन प्रोक्तमधीयते णिनि ।

कौषीतकेन प्रोक्ताध्यायिषु । “सदस्य सप्तदशं कौषीतक्ति-
वः समामनन्ति आश्व० गृ० १ । २३ । ५ ।

कौ(षी)तकी कुषीतकस्याषत्यम् ऋष्यण् ङीप् । अगस्त्य

पत्न्यां त्रिका०

कौषीतकेय पुंस्त्री कुषीतक + बा० अपत्ये ढक् । कुषी-

तकस्यापत्ये कहोड़े “अथ हैनं कहोड़ः कौषीतकेयः
पप्रच्छ” शत० ब्रा० १४ । ६ । ४ । १ ।

कौष्ठवितक त्रि० कुष्ठविदि तद्विद्यायां साधु कल्या० ठक् दस्य

चरर्त्वेन तान्ततयाठस्य कैत्येके । कुष्ठविद्यासाधौ । दस्य
चर्त्वाभावमाश्रित्य तान्तत्वाभावेन कौष्ठविदिक इत्यन्ये
तन्मतेनैव तथारूपं २१५४ पृ० उक्तम्

कौसीद्य न० कुत्सितं सीदत्यस्मिन् सीद + वा० आधारे श स्वार्थे

ष्यञ् । १ आकस्ये २ तन्त्रायाञ्च हेम० । कुसीदस्य भावः
ष्यञ् । ३ वृद्धिरूपकुसीदवृत्तौ शब्दचि०

कौसुम न० कुसुमेन निर्वृत्तमण् । १ पुष्पाञ्जने अमरः । तस्ये-

दमण् । २ पुष्मसम्बन्धिनि त्रि० “विनयति सुदृशो दृशोः
परागं प्रणयिनि कौसुममानवानिलेन” माघः

कौसुम्भ पु० कुसुम्भ + स्वार्थे श्चण् । १ अरच्यकुसुम्भे २ शाकभेदे

राजनि० । कुसुम्भेन रक्तम् अण् । ३ कुसुम्भारागरञ्जिते
वस्त्रादौ त्रि० “कौसुम्भ पृथु कुचकुम्भसङ्गि वासः” म घः ।
तस्येदमण् । कुसुम्भसम्ब न्धनि त्रि० “दिनकरकरसङ्गव्यक्त
कौसुम्भरागम्” माघः । उभयतः स्त्रियां ङीप् ।

कौसुरुविन्द पु० दशरात्रसाध्ययागभेदे “कौसुरुविन्दः”

कात्या० श्रौ० सू० २३ । ५ । १८ । “द्वितीयो दशरात्र एततसंज्ञः”
सं० व्या० । प्रायणीययागानन्तरं कौसुरुविन्ददशरात्रस्य २ प्रथमे
त्र्यहे च “कौसुरुविन्दः प्रथबन्त्र्यहः” कात्या० २४ । ३ । १

कौसुरुविन्दि पु० कुसुरुबिन्दस्यापत्यम् इञ् । तदपत्ये उद्दा-

लके सुनौ “कौसुरुविन्दिरुद्दालक आरुणौ ब्रह्मचर्य्यमु-
वास” शत० ब्रा० १२ । २ । २ । १३ ।

कौसृतिक त्रि० कुसृत्या चरति ठक् । मायाकारके शाठ्ययुक्ते जटाध०

कौस्तुभ पु० कु भूमिं स्तुम्नाति कुस्तुभोजलधिः तत्र भवः

अण् । विष्णोर्वक्षःस्थे “कौस्तुभस्तु महातेजाः कोटि-
सूर्य्यसमप्रभः” इत्युक्तलक्षणे मणिभेदे । तस्य समुद्रादुत्-
पत्तिकथा हरिवं० २२ अ०
“सुरासुरगणाः सर्वे सहिता लवणाम्भसः । मन्दरंपुष्करं
कृत्वा नेत्रं वासुकिमेव च । समाः सहस्नं मथितं जग
मोषधिभिः सह । क्षीरभूतं समायोगादमृतं समपद्यत!
तज्जह्रुरसुराः पूर्वमाक्रान्ता लोभमन्थुना । तदा पश्चाज्ज
ह्रुर्द्देवाः कामतेजोबलान्विताः । धन्वन्तरिस्तथा मद्यं
श्रीर्द्देवीकौस्तुभोमणिः । शशाङ्को विमलश्चापि समुत्तस्थ
पृष्ठ २२८२
वमन्ततः” । “ततः शतसहस्रांशुर्म्मथ्यमानात्तु सागरात् ।
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः । श्रीरनन्तर
मुत्पन्ना घृतात् पाण्डुर वासिनो । सुरा देवी समुत्पन्ना
तुरगः पाण्डरस्तथा । कौस्तुभस्तु मणिर्द्दिव्यौत्पन्नो
घृतसम्भवः । मरीचिविकचः श्रीमान् नारायण
उरोगतः” भा० आ० १८ अ० “उच्चैः श्रवाहयश्रेष्ठो मणिरत्नञ्च
कौस्तुभम्” रामा० उक्तेः क्रीवत्वमपि
“कौस्तुभाख्यमपांसारं बिभ्राणं वृहतोरसा” “सकौस्तुभं
ह्रेपयतीव वक्षः” रघुः । २ तैलभेदे न० “वृतार्थे गोघृतं
ग्राह्यं तदभ बे तु माहिषम् । आज्यं, वा तदभावे तु
साक्षात्तैलं ग्रहीष्यते । तैलाभावे ग्रहीतव्यं तैलं जर्त्ति-
लसम्भवम् । तदभावेऽतसोस्नेहं कौस्तुभं सर्षपोद्भवम् ।
वृक्षस्नेहोऽथवा ग्राह्यः पूर्व्वाभावे परःपरः” कर्कधृतं
मण्डनवाक्यम् । कौस्तुभमित्यत्र कौसुम्भमिति पाटस्तु
सम्यक् । ३ तन्त्रोक्ते मुद्राभेदे “अनामाङ्गुष्ठसंलग्ना दक्षिणस्य
कनिष्ठिका । कनिष्ठयान्यया बद्धा तर्ज्जन्या दक्षया
तथा । वामानामाञ्च बध्नीयात् दक्षिणाङ्गुष्ठमूलके । अङ्गु-
ष्ठमध्यके भूयः संयेज्य सरलाः पराः । चतस्रोऽप्यत्र
संलग्ना मुद्रा कौस्तुभसंज्ञिका” तन्त्रसारः ।

कौस्तुभवक्षस् पु० कौस्तुभोवक्ष स यस्य । विष्णौ हारा०

कौस्तुभहृदयादयोऽप्यत्र पु० । एवं कौस्तुभलक्षणादयोप्यत्र ।

क्नथ बधे वा० चु० उभ० पक्षे भ्वा० पर० सक० सेट् घटादि ।

क्नथयति--ते क्नथति अचिक्नथत्--त अक्नथीत्--अक्नाथीत् ।
क्नथयां--बभूव आस चकार--चक्रे--चक्नाथ ।

क्नस दीप्तौ कौटिल्ये च दिवा० पर० अक० सेट् । क्रस्यति

अक्नसीत्--अक्नासीत् चक्नास । घटा० क्नसयति--ते ।
अचिक्रसत्त उदित् क्नसित्वा--क्नस्त्वा ।

क्नस दीप्तौ वा० चु० उभ० पक्षे भ्वा० अक० सेट् घटादि क्नस-

यति--ते । क्नसति । अचिक्नसत्--त अक्नसीत्--अक्नासीत्
क्नमयां बभूव आसचकार चक्रेचक्रासाउदित् क्रसित्वा--क्नस्त्वा ।
“म्य् ह्वृतौ क्नस् कुसिकि च भासने कुस्य इर्श्लिषि”
वोपदेवव्याख्याने “परोऽनुवन्धः पूर्वेषामेकवाक्यस्थधातुषु” इति
तदुक्तिमाश्रित्य भ्रान्त्या दुर्गादासेन क्नस इदित्त्वमुक्तम्
तच्चिन्त्यम् । पा० धातुप्राठे चुरादिषु “त्रसिपिसि कुसि
दशि कुसीत्यादिनां कुसेरेवेत्वमुक्तेः दिवादिषु च क्नुसु
ह्वरणदीप्त्योरित्युक्तेः वटादौ च जनीजृष क्नसु रञ्ज
इति पाठाञ्च इदित् क्नसधातोरदर्शनात् । अतः परानुबन्धस्य
को स्येवात्र प्रवृत्ति दनात्व वा चुरादित्वम् अन्यथा
कुसिवत् क्नसीत्येव मूलकृत् पठेत् । न च तथाऽपाठि
अतस्तस्य नेदित्त्वम् ।

क्नूय दुर्गधे आर्द्रीमावे शब्दे च भ्वा० आत्म० अक० सेट् ।

कूयते अक्नूयिष्ट चुक्नूय । णिचि क्नोपयति ते । अस्य
चेलार्थककर्म्मण्वुपपदे णमुल् चेलङ्गोपम् वस्त्रक्नोपम् ।
“यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृधे मदनेन”
माघः । “वस्त्रं क्नोपयित्वा परिषिच्येत्यर्थः” मल्लि० ।
अभि + अतिव्याप्त्या आर्दीभावकरणे पतीभावकरणे च सक०
“आपो वै सर्वमन्नं ताभिर्हीदमभिक्रूयमिवादन्ति”
शत० ब्रा० १४ । १ । १ । १४ । यान्तत्वात् ताच्छील्ये नातोयुच्
किन्तु तृच् । क्नूयिता इत्येव ।

क्मर कोटिल्ये मा० पर० अक० सेट् । क्मरति अक्मा(क्म)रीत् चक्मार ।

क्य त्रि० कः प्रजापतिस्तस्मै हितः यत् । प्रजापतिहिते । “वेत्थ

चत्वारि क्यानां क्यानीति” प्रश्ने “एतान्येव चत्वारि क्यानां
क्यानि” शत० ब्रा० १० । ३ । ४ । २ । ४ । भा० तथार्थतोक्ता

क्याम्बू स्त्री क्यं प्रजापतिहितमस्तुयत्र ऊङ् । दूर्वाभेदे

“क्याम्बूरत्ररोहतु शाण्डदूर्वा व्यल्कशा” अथ० १८ । ३ । ६ ।

क्रंश प्रकाशने भ्वा० सक० सेट् क्रंशति अक्रंशीत् चक्रांश ।

“क्रंशतेर्वा प्रकाशयतिकर्म्मणः । निरुक्तकारः २ । २५ ।

क्रकच पु० क्र इति कचति शब्दायते कच--शब्दे अच । १ ग्रन्थि-

लाख्ये वृक्षे मेदि० । २ दारुदारणास्त्रे करपत्रे (करात)
पु० न० अमरः । ज्योतिषोक्ते ३ योगभेदे च । तल्लक्षणञ्च
“षष्ठ्यादितिथयो मन्दात् विलोमं क्रकचः स्मृतः” इति
“यथा शनौ षष्ठी, शुक्रे सप्तमी, गुरावष्टमी, बुधे नवमी, भौ
मे दशमी, सोमे एकादशी, रवौ द्वादशी, एते योगाः क्रक-
चख्या ज्ञेयाः पीयू० धा० । यदाह नारदः “त्रयोदश म्यु-
र्मिलने संख्ययोस्तिथिवारयोः” क्रकचो नाम योगोऽयं
मङ्गलेष्वतिगर्हिनः”

क्रकचच्छद पु० क्रकच इव छदो यस्य । केतकीवृक्षे त्रिका० क्रकचदलादयोप्यत्र

क्रकचपत्र पु० क्रकच इव पत्रमस्य । १ साकवृक्षभेदे राजनि०

२ केतकीवृक्षे च ।

क्रकचपाद(ट्) पु० क्रकचमिप पादो यस्य वा अन्त्यलोपः ।

कृकलासे हारा०

क्रकचपृष्ठी स्त्री क्रकच इव पृष्ठं यस्याः ङीष् । (कै) मत्स्यभेदे । त्रिका० ।

क्रकचव्ययद्वार पु० लीलावत्युक्ते क्रकचच्छेद्यवस्तुनोवेतन

ज्ञानार्थे तत्फलज्ञापके गणितभेदे यथा
“क्रकचव्यवहारे करणसूत्रं वृत्तम् । पिण्डयोगदल-
मग्रमूलयोर्दैर्घ्यसङ्गुणितगङ्गुलाप्लकम् । दारुदारणपथैः
पृष्ठ २२८३
समाहतं षट्स्वरेषुविहृतं करात्मकम् । उदाहरणम् ।
मूले नखा(२०)ङ्गुलमितोऽथ नृपा(१६)ङ्गुलोऽग्रे पिण्डः
शताङ्गुलमितं किल यस्य दैर्घ्यम् । तद्दारुदारणपथेषु
चतुर्षु किं स्याद्वस्तात्मकं वद सखे! गणितं द्रुतं मे ।
(तदाकारदर्शनचित्रम्)
२० क्राकअंदारुविषमम् २६,
१००
न्यासः
पिण्डयोग ३६ दलं । १८ । दैर्घ्येण १०० सङ्गु-
णितं १८०० । दारुदारणपथैश्चतुर्भिगुणितं ७२०० ।
षटस्वरेषु ५७६ विहृत जातं करात्मकंगणितं २५२ ।
क्रकचान्तरे करणसूत्रं सार्द्धवृत्तम् । छिद्यते तु यदि
तिय्यपुक्तवत्पिण्डविस्तृतिहतेः फलं तदा । इष्टिकाचिति-
दृषच्चितिखातक्राकचव्यवहृतौ खलु मूल्यम् । कर्म्मकार-
जनसम्प्रतिपत्त्या तन्मृदुत्वकठिनत्ववशेन । उदाहरणम् ।
यद्विस्तृतिर्द्दन्त ३२ मिताङ्गुलानि पिण्डिस्तथा षोडश
यत्र काष्ठे । छेदेषु तिर्य्यङ्गवसु प्रचक्ष्वकिं स्यात् फलं
तत्र करात्मकं मे ॥
न्यासः विस्तारः ३२ पिण्डः । १६ । पिण्डविस्तृतिहतिः
(तदाकारचित्रम् ।)
३२
१६ का क व्यं का ष्ठि स न न् १६
३२
५१२ । दारुदारणमार्गैर्नवभिर्हता ४६०८ ।
षट्स्वरेषु ५७६ विहृता जातं फलं हस्ताः । ८ ।”

क्रकचा स्त्री क्रकचस्तदाकारोऽस्त्यस्याः अर्श० अच् टाप् ।

केतकीवृक्षे रत्नमा० ।

क्रकण पु० क्र इति कणति शब्दायते कण--अच् । (कयार)

पक्षिभेदे अमरः स्त्रियां जातित्वात् ङीष् ।

क्रकर पु० क्र इति शब्दं कर्त्तुं शीलमस्य ताच्छील्ये ट ।

क्रकण (कयार) १ पक्षिणि अमरः स्त्रियां ङीष् ।
२ करीरवृक्षे ३ करपत्रास्त्रे च पु० ४ दीने त्रि० मेदि०
“चोरयित्वा तु पत्रोर्ण्णं क्रकरत्वं नियच्छति” भा० अनु०
१११ अ० । “चकोरकलविङ्कमयूरक्रकरेत्याद्युपक्रमे
“विष्करालधवः शीतमधुराः कषाया दोषशमनाश्च” इति
सामान्यत उक्त्वा “वातपित्तहरा वृष्या मेधाग्निवल
वर्द्धनाः । लघवः क्रकराः हृद्यास्तथा चैवोपचक्रकाः”
सुश्रु० तन्मांसगुणा उक्ताः ।

क्रतु पु० कृ--कतु । १ यूपसहिते, सोमसाध्ये यज्ञे, २

संकल्पे, ब्रह्मणोमानसे पुत्रे ३ ऋषिभेदे, ४ धैश्वदेवभेदे, ५ इन्द्रि
येषु च । ६ विष्णौ तस्य सर्व्वयज्ञमयत्वेन सयूपयज्ञ
रूपत्वमपीष्टं यथाह “यज्ञईज्यो महेज्यश्च क्रतुः सत्रं सतां
गतिः” विष्णुस० । “सर्व्वयज्ञस्वरूपत्वात् यज्ञः यूपसहि-
तोयज्ञः क्रतुरिति” भाष्यम् । तेन क्रतुशब्दस्य यूपस-
हितयज्ञबोधकता । अतएव तत्तद्यागे यूपविशेषाः
शतपथव्राह्मणादौ उक्ताः । तत्र सोमसाध्ययागाश्च त्रय
क्रतवः “त्रीन् क्रतूनन्वाहाग्नेयमुषस्यमाश्विनम्” श्रुतौ
“इत्य ग्नेयः क्रतुः अथोषस्यः” “अथाश्विनः” आश्व० सौ०
४ । १३ । ८ । १४ । १ । १५ । १ । सूत्रेषु दर्शिताः । अन्येऽपि क्रतदी-
वेदेषु दर्शितास्ततएवा वगम्याः । संकल्पश्च कामनाधीनः
चित्तवृत्तिभेदः यथोक्तम् “कामः क्रतुः कर्म्म जन्मेत्येवमेषां
क्रमोभवेत् । पुंसोया विषयापेक्षा स काम इति भण्यते ।
सएव वर्द्धमानश्चेत् क्रतुत्वं प्रतिपद्यते” । “सचेरतिशयः
काम्ये विषये क्रतुरीर्य्यते” इत्युक्ते ७ रुचेराधिक्ये
च । ८ प्रज्ञायां निघ० । ९ स्तवनादिकर्म्मणि च ।
“पुरुष्टुत! क्रत्वा नः सस्ति” ऋ० ४ । २१ । १० । “क्रत्वा
कर्म्मणा स्तुत्यादिहेतुना” भा० । क्रतुनामा मुनिश्च “ब्र-
ह्मणोमानसाः पुत्रा विदिताः षण्महर्षयः । मरीचिर-
त्र्यङ्गिरारसौ पुलस्त्यः पुलहः क्रतुः” भा० आ० ६५ अ०
उक्तः । “क्रतोरपि क्रियाभार्य्या वालिखिल्यानसूयत ।
ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा” भाग० ४ । १ । ३२ ।
तद्वंशाद्युक्तम् “ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजा-
पतीन् मरीचिमत्र्यङ्गिरसौ पुलस्व्यं पुलहं क्रतुम् ।
वसिष्ठञ्च महातेजाः सोऽसृजत् सप्त मानसान्” हरिवं०
१ अ० । विश्वेदेवाश्च त्रयोदश यथा
“आत्मार्थे चासृजत् पुत्त्रान् लोककर्तॄन् पितामहः । विश्वे
प्रजानां पतयो येभ्यो लोका विनिःसृताः । विश्वेशं प्रथमं
नाम महातपसमात्मजम् । सर्व्वाश्रमपदं पुण्य नाम्ना
पृष्ठ २२८४
धर्म्मंस सृष्टवान् । दक्षं मरीचिमत्रिञ्च पुलस्त्यं पुलहं
क्रतुम् । वशिष्ठं गौतमञ्चैब भृगुमङ्गिरसं मनुम् ।
अथर्तभूता इत्येते ख्याताश्चैव महर्षयः । त्रयोदश सुता
येषां वंशा वै संप्रतिष्ठिताः” । हरिवं० ३०४ अ०
जटाधरेण तु “विश्वेदेवा दश स्मृता” इत्युक्तम् । गणदे-
वता शब्दे तन्मूलं वक्ष्यते । कल्पभेदादविरुद्धम्
तत्र प्रज्ञा निश्चयः अध्यवसायः यथाह
“अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो
भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत” छा० उ० ।
“कथमुपासीत । स क्रतुं कुर्वीत क्रतुर्निश्चयोऽध्यवसायश्च
एवमेव नान्यथेति अविचलः प्रत्ययस्तं क्रतुं कुर्वीतोपासी
तेत्यनेन व्यवहितेन सम्बन्धः । किं पुनः क्रतुकरणेन
कर्त्तव्यं प्रयोजनम्? कथं वा क्रतुः कर्त्तव्यः? क्रतुकरणं
धाभिप्रेतार्थसाधनं कथम्? इत्यस्यार्थस्य प्रतिपादनार्थमथे-
त्यादिग्रन्थः । अथ खल्विति हेत्वर्थः । यस्मात् क्रतुमयः
क्रतुपायोऽध्यवसायात्मकः पुरुषो जीवः । यथाक्रतुर्या-
दृशः क्रतुरस्य सोऽयं यथाक्रतुर्यथाध्यवसायो यादृङ्नि-
श्चयोऽस्मिँल्लोके जीवन्निह पुरुषो भवति । तथेतोऽस्माद्दे-
हात् प्रेत्य मृत्वा भवति । क्रत्वनुरूपफलात्मको भवतीत्यर्थः
एवं ह्येतच्छास्त्रतो दृष्टम् । “यं यं वापि स्मरन् भावं
त्यजत्यन्ते कलेवरमित्यादि” यत एवं व्यवस्था शास्त्रदृ-
ष्टाऽतः स एवं जानन् क्रतुं कुर्व्वीत यादृशं क्रतुं वक्ष्या-
मस्तम् । यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं
फलमतः स कत्तेव्यः क्रतुः” भा० । १० आषाढमासे
चातुर्मास्यादियागारम्भकत्वात् तस्य तथात्वम् “वाजाय
स्वाहा प्रसवाय स्वाहाऽपिजाय स्वाहा क्रतपे
स्वाहा वसवे स्वाहाऽहर्पतये स्वाहाह्ने मुग्धाय स्वाहा
मुग्धाय वैनंशिनाय स्वाहा, विनंशिन आन्त्यायनाय स्वा-
हान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाघिपतये
स्वाहा प्रजापतये स्वाहा” यजु० १८ । २८ । “वाजादीनि चैत्रा-
दिमासानां नामानि तन्नाम गृहीत्वा होतव्यमित्यर्थः
अन्नप्राचुर्द्याच्चैत्रोऽन्नरूपः, प्रसवायानुज्ञारूपाय जलक्री-
ड़ादौ अभ्यनुज्ञादानात् प्रसवो वैशाखः । अपिजाय
अप्सु जायत इत्यपिजः सप्तभ्या अलुक् जलक्रीड़ारत-
त्वादपिजो ज्यैष्ठः । क्रतवे यागरूपाय चातुर्मास्यादि
यागप्राचुर्य्यात् क्रतुरषाढ़ः” वेददो० ।

क्रतुदोषनुद् पु० क्रतूनामिन्द्रियाठां दोषं नुदति क्विप् ।

प्राणायामे शब्दचि० “दह्यन्ते ध्मायमानानां धातूनाञ्च
यथा मलाः । प्राणायामैस्तथा दोषाः शाम्यन्तीन्द्रियगो
चराः” मनूक्तेस्तस्येन्द्रियदोषनाशकत्वम्

क्रतुद्रुह् पु० क्रतवे द्रुह्यति द्रुह--क्विप् । १ असुरे जटाधरः नास्तिके च

क्रतुद्विष् पु० क्रतवेद्वेष्टि द्विष--क्विप् । १ असुरे त्रिका० २

नास्तिके च ।

क्रतुध्वंसिन् पु० क्रतुं दज्ञयज्ञं ध्वंसयति ध्वन्स--णिच्-

णिनि । शिवे अमरः । वीरभद्रद्वारा तद्यज्ञध्वंसंनात्तस्य
तथात्वम् तत्कथा काशी० ८९ अ० यथा
“महावीरोऽसि रे भद्र! मम सर्व्वगणेष्विह । वीरभद्रा-
ख्यया त्वं हि प्रथितिं परमां व्रज । कुरु मे सत्वर कार्य्यं दक्ष
यज्ञं क्षयं नय । ये त्वां तत्रावमन्यन्ते तत्साहाय्यविधायि-
नः । ते त्वयाप्यवपमन्तव्या व्रज पुत्त्र! शुभोदय! । इत्याज्ञां
मूर्द्ध्निचाधाय स ततः पारमेश्वरीम् । हरं प्रदक्षिणीकृत्य
जग्मिवानतिरंहसा । ततस्तदनुगान् शम्मुः स्वनिश्वासस-
मुद्भवान् । शतकोटिमितानुग्रान् गणानन्यानवासृजत् ।
ते गणा वीरभद्रं तं यान्तं केचित् पुरोगताः । केचित्त-
दनुगा याताः केचित्तत्पाश्वेतोययुः । अम्बरं तैः
समाक्रान्तं तेजाविजितभास्करैः । शृङ्गाग्राणि गिरीणां
च कैश्चिदुत्पाटितानि वै । आचूडमूलाः कैश्चिच्च विधृता
वै शिलोच्चयाः । उत्पाट्य महतो वृक्षान् केचित् प्राप्ता-
मख ङ्गणम् । कैश्चिदुत्पाटितायूपाः केचित्कुण्डान्यपूर-
यन् । मण्डपं ध्वंसयामासुः केचित् क्रोधपरा गणाः ।
अचीखगन् यज्ञवेदीः केचिद्वै शूलपाणयः । अभक्षयन्
हवींष्यन्ये पृषदाज्यं पपुः परे । दध्वंसुरन्नराशींश्च
केचित् पर्व्वतसन्निभान् । केचिद्वै पायसाहाराः केचि-
द्वै क्षीरपायिणः । केचित् पक्वान्नपुष्टाङ्गा यज्ञषात्रा-
न्यचूर्ण्णयन् । अमोचयन् स्रुचां दण्डान् केचिद्दोर्दण्डशा
लिनः । व्यभञ्जन् शकटान् केचित् पशून् केचिदलोलुप-
न । अग्निं निर्वापयामासुः केचिदत्यग्नितेजसः । स्वयं
परिदधुश्चान्ये दुकूलानि मुदा युताः । जगृहुः केचन
पुनारत्नानां पर्वतं कृतम् । एकेन च मगो देवः पश्यंश्च-
क्रे विलोचनः । पुष्णोदन्ताबहीसन्थः पातयामास
कोपनः । यज्ञः पलायितो दृष्ट्वा केनचिन्मृगरूपघृक् ।
शिरोविरहितश्चक्रे तेन चक्रेण दूरतः” ।

क्रतुपुरुष पु० क्रतुः पुरुष इव । पुरुषाकारे क्रतुमये यज्ञव-

राहे । तद्रूपवर्णनञ्च हरिवं० २२४ अ०
“वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः । अग्निजिह्वो दर्भ-
रोमा ब्रह्मशीर्षो महातपाः । अहरात्रेक्षणधरो वेदाङ्ग-
पृष्ठ २२८५
श्रुतिभूषणः । आज्यनासः स्रुवतुण्डः सामषोषस्वनो
महान् । सत्यधर्म्ममयः श्रीमान् क्रमविक्रमसत्कृतः ।
क्रियासत्रमहावोणः पुशुजानुर्म्मखाकृतिः । उद्गात्रन्त्रो
होमलिङ्गो वीजौषधिमहाफलः । वाय्वन्तरात्मा सत्रस्फिक्
विकृतः सोमशोणितः । वेदिस्कन्धो हविर्गन्धो हव्यक-
व्यातिवेगवान् । प्राग्वंशकायो द्युतिमान्नानादीक्षाभिर-
न्वितः । दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्म्मौष्ठरुचकः प्रवर्ग्यावर्त्तभूषणः । नानाच्छन्दोग-
तिपथो गुह्योपनिषदासनः । छायापत्नीसहायो वै
मणिशृङ्ग इवोच्छ्रितः । भूत्वा यज्ञपराहोऽसौ द्रागधः
पाविशद्गुरुः” ।
“रूपं तवैतन्ननु दुष्कृतात्मगां दुर्दर्शनं देव! यदध्वरात्मकम् ।
छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातु-
र्होत्रम् । स्रुक्तुण्ड आसीत् स्रुव ईश! नासयोरिडो
दरे चमसाः कर्णरन्घ्रे । प्राशित्रमास्ये ग्रसते ग्रहास्तु ते
यच्चर्वणन्ते भगवन्नग्नितोत्रम् । दीक्षानुजन्मोपसदः शिरो
धरं तेप्रायणीयोदयनीयदंष्ट्र! । जिह्लाप्रवर्ग्यस्तव शीर्षकं
क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते । सोमस्तु रेतः
सवनान्यवस्थितिः संस्थाविभेदास्तव देव! धातवः! सत्राणि
सर्वाणि शरीरसन्धयस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः” ।
भाग० ३ । १३ अ० ।
“यज्ञात्मतां प्रपञ्चयन्तः स्तुवन्ति रूपमित्यादि चतुर्भिः
छन्दांसि गायत्र्यादीनि यज्ञाङ्गभूतछन्दआद्यनुवादेन
भगवदवयवता विधीयते बर्हिःशब्दे दीर्घाभाव आर्षः
दृशि चक्षुषि चातुर्होत्रं हौत्रादिचतुष्टयं कर्म्म । स्रुक्
जुहूः । तुण्डे मुखाग्रे । स्रुवोनासिकयोः । इडाभक्षण
पात्रं चमसा ग्रहाश्च सोमपात्राणि । प्राशित्रं ब्रह्मभाग
पात्रं ग्रस्यतेऽनेनेति ग्रसनं मुखान्तर्वर्त्ति च्छिद्रं चर्वणं
भक्षणम् । दीक्षा दीक्षणीयेष्टिः । अनुजन्म वारं बारम्
अभिव्याप्तिः । उपसदस्तिस्र इष्टयः शिरोधरं ग्रीवा । प्रा-
यणीया दीक्षानन्तरेष्टिः उदयनीया समाप्तीष्टिः ते एव
दंष्ट्रे यस्य । प्रवर्ग्यो महावीरः प्रत्युपसदः पूर्ब्बं क्रियते ।
सभ्योहोम रहितोऽग्निः आसबथ्यः औपासनाग्निः ततो
द्वन्द्वैक्यं तव क्रतुरूपस्य शीर्षकं शिरः । चितयः इष्टका-
चयनानि पञ्च असवः प्राणाः । प्रातःसवनादीनि
अवस्थितिरासनं बाल्याद्यवस्था वा । अग्निष्टोमोऽत्य-
ग्निष्टोमः उक्थः षोडशी वाजपेयोऽतिरात्रः आप्तोर्यामः
इति सप्त संस्थाविभेदाः सप्त त्वडमांसादिधातवः । सत्राणि
द्वादशाहादीनि वहुयागसङ्घातरूपाणि, असोमा--यज्ञाः
ससोमाः क्रतवस्तद्रूपस्त्वं इष्टिर्यजनं अनुष्ठानञ्च तदेव
बन्धनं यस्य सः” श्रीधरः ।

क्रतुपशु पु० क्रतोरङ्गं पशुः । अश्वे हारा० तस्य अश्वमेधे प्राशस्त्यात् तथात्वम् ।

क्रतुप्रा पु० क्रतून् कर्म्माणि प्राति प्रा--पूर्त्तौ क्विप् । कर्म्मपूरके

“महश्चर्कर्म्यर्वतः क्रतुप्राः” ऋ० ४ । ३९ । २ । “क्रतुप्राः कर्मणां
पूरकः” भा० ।

क्रतुभुज् पु० क्रतुं क्रतुदेयं हविर्भुङ्क्ते भुज--क्विप् । देवे

क्रतुदेयद्रव्यत्यागोद्देश्यत्वात्तेषामचेतनत्वेऽपि तद्भो-
गित्वं बोध्यम् चेतनत्वे तु तेषां मनुष्यादीनामिव भोगो-
नास्ति किन्तु दृष्टिमात्रेण यथाह “न वै देवा अश्नन्ति
पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति” छा० उ० ।

क्रतुराज् पु० क्रतुषु राजते राज--क्विप् । १ अश्वमेधेयज्ञे तस्य

सर्वयज्ञानां श्रेष्ठत्वात् तथात्वम् । “यथाश्वभेधः क्रतुराट्
सर्वपापापनोदनः” मनुः २ राजसूये च शब्दचि०

क्रतुविक्रयिन् त्रि० क्रतुं तत्फलं विक्रीणाति वि + क्री-

णिनि । स्वकीयक्रतुफलस्य अन्यदीयत्वख्थापनेन
ततोधनग्राहके । “पिशुनानृतिनोश्चापि क्रतुविक्रयिण-
स्तथा” मनुः ।

क्रतुस्थला स्त्री अप्सरोभेदे “पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ” यजु० १५ । १५ ।

क्रतुस्पृश् त्रि० क्रतुमिन्द्रियं स्पृशति क्विन् । इन्द्रियस्पर्शि-

नि “अपश्यन् हृदिस्पृक् क्रतुस्पृक्” आश्व० श्रौ० ५ । १०५

क्रतूत्तम पु० कतुषूत्तमः । राजसूययज्ञे त्रिका० ।

क्रत्वर्थ पु० क्रतवेऽयम् अर्थेन सह नित्यस० विशेष्यतिङ्गता

च, क्रतुरर्थोयस्य वा । क्रतूपकारके । तल्लक्षणादिकञ्च
जै० सू० भाष्ययोर्दर्शितं यथा
“अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा” १ सू० । “तृतीयेऽध्याये
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोग-
लक्षणमुक्तम् । इह इदानीं क्रत्वर्यपुरुषार्थौ जिज्ञास्येते,
--कः क्रत्वर्थः? कः पुरुषार्थः? इति, यापि प्रयोजका-
प्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थ-
पुरुषार्थजिज्ञासैव । कथम्? । अङ्गं क्रत्वर्थः, प्रधानं
पुरुषार्थः, फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः,
प्रयोजकः कश्चित् पुरुषार्थो, ऽप्रयोजकः क्रत्वर्थः । तस्मात्
“क्रत्वर्थपुरुषार्थयोर्जिज्ञासा”--इति सूत्रितम् । तत्र
अथातःशब्दौ प्रथमे एवाध्याये प्रथमसृत्रे वर्णितौ ।
अथेति प्रकृतं शेषविनियोगलक्षणमपेक्षते । अतः--इति
क्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते । क्रतये यः, स
पृष्ठ २२८६
क्रत्वर्थः, पुरुषाय यः, स पुरुषार्थः । जिज्ञासाशब्दोऽपि
तत एव समधिगतः,--ज्ञातुमिच्छा जिज्ञासा--इति ।
तदेतत् प्रतिज्ञासूत्रम्,--“क्रत्वर्थपुरुषार्थयोर्जिज्ञासा”--
इति” । (४ । १ । १) शवरभाष्यम्
“यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाऽवि-
भक्तत्वात्” सू० २ ।
“अथ किंलक्षणः क्रत्वर्थः, किंलक्षणः पुरुषाथः इति
लक्षणं वाच्यं, तथा हि लवीयसी प्रतिपत्तिः,
उपदेशे गरीयसी तदुच्यते,--यस्मिन् प्रीतिः पुरु-
षस्यं, (यस्मिन्कृते पदार्थे पुरुषस्य प्रीतिर्भवति) स पुरु-
षार्थः पदार्थः । कुतः? । तस्य लिप्सा अर्थेन च
भवति, न शास्त्रेण, क्रत्वर्थो हि शास्त्रात् अवगम्यते, न
अन्यथा, अविभक्तो हि पुरुषार्थः प्रीत्या, यो यः प्री-
तिसाधनः स पुरुषार्थः । पुरुषार्थं लक्षिते तद्विपरीतः
क्रत्वर्थः--इति क्रत्वर्थस्य लक्षणं सिद्धम् (१ वर्ण्णकम्) ।
एवं वा सूत्रं वर्ण्यते,--दर्शपूर्णमासयोराम्नायते,--‘अन-
तिदृश्यं स्तृणाति अनतिदृश्यमेवैनं प्रजया पशुभिः करो
ति० इति तथा आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात्,
वत्सजानुम् पशुकामस्य वेदिं कुर्यात्, गोदी हनेन पशुकामस्य
प्रणयेत्”--इत्येवमादीति । तत्र संशयः,--किम् एवञ्जा-
तीयकाः क्रत्वर्थाः उत पुरुषार्थाः--इति । किं प्राप्तम्--
क्रत्वर्थाः इति । कुतः? प्रत्यक्ष उपकारस्तेभ्यो दृश्यते
क्रतोः, पुरीषहरणं वेदिस्तरणं च, तदुक्तं, (२ । १ । ३ सू०)
द्रव्यगुणसंस्कारेषु वादरिः’--इति । तस्मात् क्रत्वर्थाः-
एवं प्राप्ते ब्रूमः, यस्मिन प्रीतिः पुरुषस्य स पुरुषार्थ एव
इति, पीतिस्तेभ्यो निर्वर्त्त्यते, तस्मात् एते पुरुषार्थाः--इति ।
‘ननु प्रत्यक्षः उपकारः क्रतोर्दृश्यते--इत्युक्तम्’ । उच्यते-
सत्यं दृश्यते, न तु क्रतोरुपकाराय एभ्यः सङ्कीर्त्तितेभ्यः,
फलेभ्य एते श्रूयन्ते, न च य उपकरोति स शेषः, यस्तु
यदर्थः श्रूयते, स तस्य शेषः--इत्युक्तं(३ । १ । २ सू०)‘शेषः
परार्थत्वात्’--इति । (२ वर्णकम्)
एवं वा, द्रव्यार्जनम् उदाहरणम्, इह द्रव्यार्जनंतैस्तै
र्नियभैः श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्य
जयादिना, वैश्यस्य कृष्यादिना । तत्र सन्देहः,--किं
क्रत्वर्थो द्रव्यपरिग्रहः उत पुरुषार्थ इति । किं प्राप्तम्
क्रत्वर्थो नियमात्, यद्येष पुरुषार्थः स्यात्, नियमोऽन-
र्थको भवेत्, प्रत्यक्षेण एतत् अवगम्यते,--नियमादनिय-
माच्चार्जितं द्रव्यं पुरुषं प्रीणयति--इति, तस्मात् क्रत्वथुः
कामश्रुतिभिश्चास्य सहैकवाक्यता दृष्टा, इतरथा, अनुमे-
येन फलवाक्येन सहैकवाक्यतां यायात् । लिङ्गं चापि
भवति,--’अग्नये क्षामवते पुरोड़ाशमष्टाकपालं निर्वपेत्,
यस्याहिताग्नेः सतोऽग्निर्गृ हान् दहेत्, यस्य हिरण्यं
नश्येदाग्नेयादीनि निर्वपेत्--इत्येवमादि तद्धि द्रव्योपघाते
चोद्यते यदि द्रव्यपरिग्रहः कर्मार्थः तत एतदपि सति
सम्बन्धे कर्मार्थम्--इत्युच्यते इतरथा असति सम्बन्धे
कर्म्मार्यम्--इत्यनुमीयते फलं च अस्य कल्प्येत । तस्मात्
यजतिश्रुतिगृहीतं द्रव्यार्जनं येन बिना यागो न निर्व-
र्त्त्यते, स यागस्य श्रुत्या परिगृहीतः--इति गम्यते ।
तस्मात् क्रत्वर्थः--इति ।
एवं प्राप्ते ब्रूमः,--पुरुषार्थः--इति । यस्मिन् कृते
पदार्थे प्रीतिः पुरुषस्य भवति तस्मात् अस्य लिप्सा
अर्थलक्षणा शरीरधारणार्था यस्य शरीरं ध्रियते व्यक्तं
तस्यास्ति द्रव्यं शरीरिणां यागः श्रूयते तस्मात् विद्यमा-
नद्रव्यस्य विनियोग उच्यते । न द्रव्यार्ञनं श्रुतिगृहीतं
विनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य यागो निर्व-
र्त्त्यत एव, तस्मात् पुरुषार्थो द्रव्यपरिग्रहः ।
अपि च, यदि शास्त्रात् कर्मार्थं द्रव्यार्जनं, तन्नान्यत्र
विनियुज्येत तयार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात् ।
अपि च उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः,
तत्र एतन्नोपपद्यते,--अपि वा एष सुवर्गाल्लोकाच्छिद्यते,
यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वा
अतिपातयेत्’--इति एवञ्च सति प्रयोगकालाद्बहिरेतदङ्गं
सदनुपकारकं स्यात् । न च आधानवत् भवितुमर्हति, तत्र
हि वचनं--वसन्तेऽग्निमादधीत--इति न चैतत् अङ्गम्
अथ युदुक्तं--नियमवचनम् अनर्थकं पुरुषार्थे द्रव्यपरि-
ग्रहे सति--इति । उच्यते, नैतावता पुरुषार्थता व्याव-
र्त्त्यतेप्रत्यक्षा हि सा, त्वया च परोक्षया युक्तिबुद्ध्या व्यपदि
श्यते, न च परोक्षं प्रत्यक्षस्य बाधकं भवति, तस्मात्
नियमवचनात् काममपरमदृष्टं कल्प्येत न तु दृष्टहानम्
तस्मात् यत् पुरुषस्य प्रयोजनं प्रीतिः तदर्थं धनस्य
अर्जनम्--इत्येवं च सति व्रीहिणा यागः कर्त्तव्यः प्रीत्यर्थ-
मर्जितेन वा क्रत्वर्थमर्जितेन वा न अत्र कश्चित् विशेषः
प्रीत्यर्थम् उपार्जितोऽपि व्रीहिः व्रीहिरेव, कर्मार्थम्
उपार्जितोऽपि व्रीहिः व्रीहिरेव । तस्मात् न प्रयोगचो-
दनागृहीतं द्रव्यार्जनम् । अथ यदुक्तम्--अनुमेयेनाप्रकृ-
तेन वा शव्देन युष्मत्पक्षे नियमख एकवाक्यता, अस्मत्पक्षे
पृष्ठ २२८७
तु दृष्टेन प्रयोगपचनेन--इति नैष दोषः अस्मत्पक्षेऽपि
दृष्टेन भुजिना न फलवचनेन । ‘कथं तर्हि--नियमाद-
दृष्ट भवति--इति गम्यते’ । यथैव भवदीये पक्षे ।
आह अस्मत्पक्षे फलवत एकवाक्यभावात् फलवत
उपकरोति इति गम्यते’ । उच्यते अस्मत्पक्षेऽपि
फलवत एवैकवाक्यभावः, एतावांस्तु विशेषः--तव श्रुतं फलं
मम तु दृष्टम् । अथ यत् लिङ्गम् उक्तं--गृहदाहादिषु
कर्म श्रूयते--इति । तत्र उच्यते यद्यपि न क्रत्वर्थं द्रव्या-
र्जनं तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावाय
वा क्षामवत्यादीनां विधानम् उपपद्यत एव । तस्मात्
पुरुषार्थं द्रव्यार्जनं प्रीत्या हि तदविभक्तम्” भाष्यम्
तत आरभ्य क्रत्वर्थाः पदार्थास्तत्र दर्शिताः ततएवावगम्याः

क्रत्वादि पु० पाणिन्युक्ते सोः परतः स्थितस्य आद्युदा-

त्ततानिमित्ते शब्दगणे । स च गणः “क्रतु दृशीक
प्रतीक प्रतूर्ति हव्य भग” ।

क्रत्वीश्वर न० क्रतुता स्थापितमीश्वरलिङ्गम् । काश्याम्

क्रतुना मुनिना स्थापिते शिवलिङ्गमेदे “वरणायास्तटे
रम्ये क्रत्वीश्वरमनुत्तमम् । वाशिष्ठमीश्वरञ्चैव लभते
वसतिंत्विह” काशी० १८ अ०

क्रथ बधे भा० पर० सक० सेट् घटा० । क्रथति अक्रथीत्--अक्रा

थीत् । चक्राथ, णिच्--क्रथयति--ते । अचिक्रयत् त

क्रथ प्रतिहर्षे चु० उभय० सक० सेट् घटा० । क्राथयति--ते

अचिक्रथत्--त । क्रथयां--बभूव आस चकार चक्रे

क्रथन न० क्रथ--बधे ल्युट् । १ मारणे २ छेदने च “राजन्योच्चांसकूट

क्रथनपटुरिति” प्रवीधचन्द्रोदयः । ३ दानवभेदे पु० ।
“क्रथनश्च महावीर्य्यः” भा० आ० ६७ अ० ।

क्रथनक पुंस्त्री क्रथने दन्तकरणककण्टकच्छेदने प्रसृतः कन् ।

उष्ट्रे अमरः स्त्रियां जातित्वात् ङीष् ।

क्रथकैशि(शी)क पु० ब० व० देशभेदे “सपाण्ड्यान् क्रथकैशी-

कान्” भा० स० १३० श्लो० “अथेश्वरेण क्रथकैशिकानाम्”
“प्रत्युज्जगाम क्रथकैशिकस्तम्” रघुः । ह्रस्वमध्यात्
संज्ञायां कन् । सितागुरुणि न० शब्दच० ।

क्रद रोदने वैकल्ये अक० आह्वाने सक० भ्वा० पर० इदित्

सेट् । क्रन्दति अक्रन्दीत् चक्रन्द । भावे क्रन्द्यते क्रन्दि-
तम् । अव्यक्तशब्दकरणे “अक्रन्ददाग्नः स्तनयन्निव द्यौः”
यजु० १२ । ६ । अक्रन्दत् क्रन्दति विस्फूर्जति” वेददी० ।
“यदक्रन्दः प्रथमं जायमानः” यजु० २९, १२ ।
  • अनु + क्रन्दनेनानुगमने सक० अनुक्रन्दति पुत्रम् क्रन्दनेनानुयाति
  • अभि + आभिमुख्येन शत्रुप्रभृतेराह्वाने सक० । “अभिक्रन्दन्
वृषायसे” ऋ० १० । २१ । ८ । “अभिक्रन्दन् आभिमुख्येन
युद्धार्थं शत्रूनाह्वन्” भा० । “आभिमुख्येन शब्दकरणे
अक० । “अभिक्रन्द स्तनय गर्भम्” ऋ० ५ । ८३ । ७ ।
“अभिक्रन्द भूम्यभिमुखं क्रन्द शब्दाय” मा० ।
  • आ + आह्वानपूर्ब्धकरोदने सक० । “आक्रन्दत् भीमसेनं
वै” भा० व० १५७ अ० । सम्यक्क्रन्दने च “आक्रन्दिषुः
सखीनह्वन्” भट्टिः । “तदीयमाक्रन्दितमार्त्तसाधोः” रघुः ।
  • सम् + आ + सम्यगाह्वानपूर्ब्बकक्रन्दने “हा तात! धर्म्मरा-
जेति समाक्रन्दन्महाभये” मा० आश्र० १०७३ श्लो०
  • नि + यथानामशब्दोच्चारणे । “न्यकन्दीज्जन्म प्रब्रुवाणो
यथास्य शब्दस्तथा नामेरयति वाचम्” निरु० ९ । ४ ।
  • प्र + स्तवने “प्र वः स्पडक्रन्त् सुविता यः” ऋ० ५ । ५९ । १ ।
“अक्रन् स्तौति” भा० वेदे गणव्यत्ययात् शपीलुक् ।
  • वि + विशेषेण क्रन्दने । सम् सम्यक् क्रन्दने ।

क्रद वैकल्ये म्वा० आत्म० अक० सेट घटादि० । क्रदते अक्रदिष्ट

चक्रदे णिच् क्रदयति । यङ् वेदे कनिक्रद्यते यङ
लुकि कनिक्रत्ति कनिक्रदीति “उपस्थे वृषभः
कनिक्रदत्” ऋ० ९ । ७७ । ५ । “कनिक्रदत् शब्दं कुर्वन्” मा० ।
  • अनु + अनुगमने सक० । “संनशेयं क्षौणीरनुचक्रदे” ऋ०
८ । ३ । १० । “अनचक्रदे अनुगच्छति” भा० ।

क्रन्द निरन्तरशब्दकरणे चुरा० अक० उभ० सेट् । प्रायेणाङ्-

पूर्ब्बः आक्रन्दयति ते आचक्रन्दत् त । आक्रन्दयाम्
बभूव आस चकार चके ।

क्रन्दन न० क्रदि--भावे ल्युट् । १ शोकादिनाऽश्रुपातहेतुव्यापारे

रोदने शब्दरत्ना० योधवीरादेः २ आह्वाने च अमरः
३ विड़ाले पुंस्त्री शब्दमा० । स्त्रियां जातित्वात् ङीष् ।

क्रन्दित न० क्रदि--भावे क्त । रोदने अमरः । आह्वाने

मेदि० योधानां चीत्कारशब्दकरणे शब्दरत्ना० ।

क्रप कृपायाम् भ्वा० अक० आत्म० सेट् घटादि । क्रपते अक्र-

पिष्ट चकपे णिचि क्रपयति ते । “उतस्तासुर्मधवन्नक्रपिष्ट”
ऋ० ७ । २० । ९ । वेदेऽस्य क्वचित् सप्रसाणम् । “उतो द्यपन्त
धीतयो देवानां नाम विभ्रतीः” ऋ० ९ । ९९ । ४ । “विन्दन्त
ज्योतिश्च कृपन्त धीभिः” ऋ० ४ । १ । १४ । “मर्तानां चिदुर्व-
शीरकृपन्” ऋ० ४ । २ । १८ । “विश्वे देवा अकृपन्त समीच्यो-
र्निष्पतन्त्यः” ऋ० १० । २४ । ५ । “काविं कृपमाणमकृणुतं
विचक्षे” ऋ० १ । ११६ । १४ ।
पृष्ठ २२८८

क्रम पादविक्षेपणेन गतौ भ्वा० पर० सक० सट् । अस्य सार्व्व-

धातुके वा श्यन् सेडमन्तत्वात् अतिङि णिति ञिति चिणि
परे न वृद्धिः । कर्त्तरि क्रम्यति क्रामति । क्रम्येत्--क्रामेत् ।
क्रम्यतु क्रामतु । अक्रम्यत् अक्रामत् । अक्रमीत् । चक्राम ।
क्रमिता कम्यात् क्रमिष्यति । अक्रमिष्यत् । कर्म्मणि
क्रम्यते । अक्रमि । णिचि इण्ण मुलो र्वा वृद्धिः । क्रमयति--ते ।
अचिक्रमत्--त । कर्म्मणि क्रम्यते । अक्र(क्रा)मि । क्र(क्रा)
मितासे क्रमयितासे । कृत्सु क्रमणीयम् । क्रमितव्यम् क्रम्यम्
क्रमणम् । क्रमकः । क्रमी । क्रमिता । क्रान्तिः । क्रमितुम् ।
उदित् क्रमित्वा क्रान्त्वा । संक्रम्य । क्रमं क्रमम् । णिचोणमुलि
वा वृद्धिः क्र(क्रा)मं क्र(क्रा)मम् । क्रम्यन् क्रामन् । क्रमिष्यन्
क्रमिष्यमाणः । ण्यन्तस्य क्रमयिता क्रमितः । क्रमयितुम् ।
क्रमयितव्यम् । क्तिन्नास्ति युच् क्रमणा । क्रम--यन् माणः
क्रमयिष्यन् । कर्म्मणि क्रम्यमाणः । क्र(क्रा)मिष्यमाणः ।
क्रमयिष्यमाणः । सनि चिक्रमिषति आत्म० चिक्रंसते ।
“समुद्रात् पश्चिमे पूर्वं दक्षिणादपि चौत्तरा । क्रामत्यनु-
दिते सूर्य्ये वाली व्यपगतक्लमः” रामा० कि० ८० अ० । “देवा
इमाल्ल्ॐकानक्रमन्त” शत० व्रा० ६ । ७ । २ । १० “विष्णुस्त्वा
क्रमताम्” यजु० १ । ९ । “पादेनाक्रम्यारोहतु” वेददी० ।
“हत्वा रक्षांसि लवितुमक्रमीन्मारुतिः पुनः” भट्टिः
“वृतोद्विजाग्र्यैरभिपूज्यमानः चक्राम वज्रीव दितेः सुतेषु”
भा० आ० १९३ अ० । “क्रमं वबन्ध क्रमितुं सकोपः”
“क्रन्त्वा क्रन्त्वा स्थितं क्वचित्” भट्टिः । परोपक्रमवत्
अप्रतिवन्धादौ आत्म० । “न तत्र क्रमते मृत्युर्नजरा
न च पावकः” भा० आनु० ८३ अ० । “हरेर्यदक्रामि
पदैककेन खम्” नैषधे अक्रामीत्यसाधु । स्वार्थेणिचि-
कथञ्चित् साधु इत्यन्ये । निष्ठायां नेट् क्रान्त इत्यादि
कौटिल्ये यङ् चंक्रम्यते नागः । “सोऽपि चंक्रम्यमाणः
कूपे पपात” भा० आ० ७०० श्लो० ।
  • अति + अतिक्रमणे उल्लङ्घने सक० । “स नदीः पर्वतांश्चापि
सलिलानि सरांसि च । अचिरेणातिचक्राम खेचरः खे
चरन्निप” भा० आ० ४६५२ श्लो० । “अत्यक्राममिमान् मासां
स्तद्बधं परिचिन्तयन्” रामा० युद्ध० ८८ अ० ।
  • अभि + अति + आभिमुख्येनातिक्रमणे सक० । “न दिष्टमभृति-
क्रान्तुं शक्यं बुद्ध्या बलेन च” भा० स० १०५१ श्लो० ।
  • वि + अति + वैपरीत्येन क्रमणे । “तदन्तः पुरमासाद्य व्यतिच-
क्राम तं जनम्” रामा० बाल० ७० अ० । विशेषेण
अतिक्रमे च । “स लोकानाहिताग्नीनामृषीणां पुण्यकर्म्मणा-
ग । देवानाञ्च व्यतिक्रम्य ब्रह्मलोकमवाप ह” रामा०
आर० ९ अ० । “एवं हि सुमहान् कालोव्यत्यक्रामत तस्य
वै” भा० अनु० ४५५ श्लो० । “विवाहे च व्यतिक्रमः” उद्वा० त०
  • सम् + अति + सम्यगतिक्रमणे । “अवन्तीमृक्षवन्तञ्च समतिक्रम्य
पर्वतम्” भा० व० २३१ श्लो०
  • अधि + आधिक्येन क्रमणे
  • अनु + परिपाट्या क्रमणे । “श्रद्धा रतिर्भक्तिरनुक्रमिष्यति”
भा० ३ । २५ । २५५ । “महर्षिभिरनुक्रान्तं धर्म्मपन्थानमास्थि-
तः” रामा० उ० ४७ अ० । “परिपाटी ह्यनुक्रमः” अमरः ।
  • अप + अपसरणे अक० “हित्वा सेनामपचक्राम चापि”
भा० आ० १ । १७७ श्लो० ।
  • अभि + आभिमुख्येन गमने सक० “तमभिक्रम्य सर्वेऽद्य वयं
वाऽर्थामहे वसु” भा० व० ८३१ अ० । “प्रदक्षिणमभिक्रम्य
सर्वे प्राञ्जलयः स्थिताः” भा० अनु० ६०४७० “आरम्भे च
“नेहाभिक्रमनाशोऽस्ति” गीता अभिक्रमः आरभ्यमाणः ।
  • अव + अपसरणे हिंसने च सक० । “अवक्रामन्तः प्रपदैरमि-
त्रान्” ऋ० ६ । ७५ । ७ । “अषक्रामन्तः हिंसन्तः” भा० ।
  • अनु + अव + अनुगमने प्रवेशे च सक० । “एतास्तेजोमात्राः
समभ्याददानो हृदयमेवान्ववक्रामति” शत० व्रा० १४ । ७ ।
२ । १ । “मृतिकाले हृदयस्थां बुद्धिमेवान्वागच्छति” भा० ।
  • आ + बलपूर्वकास्कन्दने । “आकामन्नागभवने तदा नागकु,
मारकान्” भा० आ० ५०१८ श्लो० । “आरोहणे च आक्रा-
न्तिसम्मानितपादपीठम्” कुमा० । उद्गमे अक० तत्र दीप्त्या-
न्वितस्योद्गमे आत्म० । “भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमते
जलम् । तावद्गर्भं विजानीयात्तदूर्द्ध्वं तीरमुच्यते” प्रा० त०
दानधर्म्मः । एवं सूर्य्य आक्रमते इत्यादि । अन्यत्र आक्रा-
मति । अत्यादिपूर्वकस्याङस्तु तत्तदर्थविशिष्टारोहणादि-
द्योतकता । “सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुः
  • उत् + उदये अक० । “यज्ञस्य शींर्षाच्छिन्नस्य उदक्रामत्” शत०
व्रा० १४ । १ । २ । १३ । ऊर्द्ध्वक्रमणे च “न तस्य प्राणा
उत्क्रामन्ति इहैव समवलीयन्ते” श्रुतिः । “कस्मिन्नुत्क्रान्ते
सर्व्वमिदमुत्क्रान्तम्” श्रुतिः । “तान् कृत्वा पतगश्रेष्ठः
सर्वानुत्क्रान्तजीवितान्” भा० आ० ३२ अ० । “विष्वङ्ङन्या
उत्क्रमणे भवन्ति” छा० उप० । उल्लङ्घने सक० ।
उत्क्रमः । --वेपैरीत्येन क्रमणे अक० “क्रमोत्क्रमान्मे-
षतुलादिमानम्” ज्यो० त०
  • अनु + उद् + उत्क्रमणानुसरणे सक० । “प्राणमनूत्क्रामन्तं
सर्वे प्राणा अनूत्क्रामन्ति” शत० ब्रा० ७ । २ । ३ ।
  • वि + उद् + वैपरीत्येन विशेषेण च लाङ्घने सक० ऊर्द्ध्वं गतौ अक०
पृष्ठ २२८९
“इन्द्रियाणि वीर्य्याणि व्युदक्रामन्” शत० व्रा० १२ । ७ । १ । ९ ।
“व्युत्क्रान्तरजसोऽमलाः” भा० अनु० १३१९ श्लो० ।
“व्युत्क्रमात् प्रेतश्राद्धानि योमोहात् धर्म्ममोहितः”
ति० त० देवलः ।
  • उप + आरम्भे सक० आत्म० । उपक्रमते आरभते इत्यर्थः ।
“उपक्रमस्व पुरुरूपमाभर वाजम्” ऋ० ८ । १ । १४ ।
“उपक्रमोपसंहारौ” वेदान्तसा० । “योयस्य विहितः कालः
कर्म्मणस्तदुपक्रमे । तिथिर्याऽभिमता सा तु कार्य्या नोप
क्रमोज्झिता” बौधा० । गत्यर्थमात्रद्योतकत्वे नात्मनेप-
दम् “मागधेषूपचक्राम भगवांश्चण्डकौशिकः” भा० स०
१८ अ० । अप्रतिबन्धे उत्साहे वृद्धौ च आत्म० । ऋचि
उपक्रमते बुद्धिः न प्रतिहन्यते इत्यर्थः अध्ययनाय
उपक्रमते उत्सहते । उपक्रमन्ते शास्त्राणि स्फीतानि
भवन्ति इत्यर्थः । एवंपरापूर्वकस्य केवलस्य च एष्वर्थेषु
अकर्म्मकता आत्मनेपदञ्च । अन्योपसर्गपूर्वकत्वे तत्तद-
र्थेषु, परोपपूर्व्वस्यार्थात्तरे च न तङ् । उपसर्गराहित्ये
अन्यार्थेऽपि वा तङ् । कामति क्रमते इति । आङि तु
ज्योतिरुद्गमने आत्मनेपदमिति भेदः । विपूर्वकस्य विशेषो
वक्ष्यते समादिपूर्व्वकोपशब्दस्य तत्तदर्थविशिष्टारम्बद्यो
तकता । वक्तुं समुपचक्रमे ।
  • नि + नितरां क्रमणे अवश्यक्रमणे । “कर्म्मन् वाजी न्यक्र-
मीत्” ऋ० ९ । ३६ । १ । “न्यक्रमीत् नितरामक्रमीत्” भा०
  • अनु + नि + अनुक्रमणे । “सप्तपदान्यनुनिक्रामति” शत० ब्रा०
३ । ३ । १ । १ ।
  • निर्(स्) + निम्मरणे “जिगीषया महीं पाण्डुर्निरक्रामत् पुरात्
प्रभो!” भा० आ० ११३ अ० । अस्य क्वचिदात्मनेपदित्वम् “वाता-
पे! निष्क्नमस्वेति पुनः पुनरुवाच ह” भा० व० ९९ अ० ।
  • अभि + निर्(स्) + आभिमुख्येन निःसरणे । “अभिनिष्क्रामति
द्वारम्” पा० । “स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्ज-
द्वारम्” सि० कौ० “प्रविश्य चाभिनिष्क्रान्तं सुग्रीवं
वानरर्षभाः” रामा० किष्कि० २५ अ०
  • वि + निर्(स्) + विशेषेण निःसरणे “यथा प्रविश्यान्तरमन्तकस्य
को वै मनुष्योहि विनिष्क्रमेत” भा० व० १०२७३ अ० ।
  • परा + वलेनाक्रमणे आत्म० सक० । “यत्र तपः पराक्रम्य व्रतं
धारयत्युत्तरम्” अथ० १० । ७ । ११ । अप्रतिबन्धादौ
उपोपसर्गवत् । तत्रोत्साहे “पानीयार्थे पराक्रान्ता यत्र
ते भ्रातरोहताः” भा० महा० ९१ श्लो० । पराक्रनः ।
  • परि + भ्रनणे अक० । “परिक्रामति संसारे चक्रवत् बहुवेदनः”
भा० व० २०८ अ० । परितोगमने सक० । “परिक्रामति
यः सर्वाल्ल्ॐकान् संत्रासयन् बलात्” भा० ८६ । १३ । ३० ।
  • सम् + परि + सम्यक् वेष्टनाकारेण परितो गमने सक० “बहूनि
संपरिक्रम्य तीर्थान्यायतनानि च” भा० आ० १२ श्लो०
पर्य्यटने अक०
  • प्र + आरम्भे आत्म० । “प्रचक्रमे वक्तुमनुज्भितक्रमः” रघुः ।
अनारम्भे तु न आत्म० “विष्णोर्यत्परमं पदं प्रदक्षिणं
प्रक्रानन्ति” भाग० ५ २२ । १७ श्लो० ।
  • प्रति + प्रतिरूपक्रमे सक० “यं स्रुवेण प्रतिक्रामति” शत० व्रा०
३ । ४ । ४ । ९ । प्रतिकूलक्रमणे निवृत्तौ अक० । “भद्रे! प्रति-
क्राम नियच्छ वाचम्” भा० व० २६८ अ० ।
  • वि + पादविहरणे अक० आत्म० । “साधु विक्रमते वाजी” सि० कौ०
“त्रेधा विष्णुरुरुगायोवित्तक्रमे” तैत्ति० । पादाकरणके तु
न तङ् । वाजिना विक्रामति । “ते विक्रमन्तः स्फुरता
दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः” भा० आ० १८ अ० ।
इत्यत्र न तङ् “ततएनं महादेवः पीड्य गात्रैः सुपीडि-
तम् । तेजसा व्यक्रमद्रोषात् चेतस्तस्य विमोहयन्”
भा० व० ३९ अ० । दीर्घाभाव आर्षः । वीर्य्यातिशयेन
पराक्रमे अक० । “ते यूयं त्वरिताः सर्वे विक्रमध्वं प्लव-
ङ्गमाः” रामा० किष्कि० ५८ अ० । तङ् आर्षः । एवं
“ताञ्च विक्रमसे जेतुम्” भा० स० १९६ श्लो० तङ् आर्षः ।
“वेः पादविहरणे” पा० योगविभागाद्वा क्वचिदन्यत्रापि
तङ् इत्यन्ये ।
  • अधि + वि + आधिक्येन पराक्रमे “यजमानायाविविक्रमस्व”
कात्या० २३ । ३ । १ ।
  • निर् + वि + विशेषेण निःसरणे । “भित्त्वा कुक्षिं निर्विचका-
म विप्रः” भा० आ० ७६ अ०
  • सम् + एकत्रस्थितस्यान्यत्र संचरणे सक० “कार्मुकं तु परित्य-
ज्य झषं (मृगम्) संक्रमते रविः” ति० त० भवि० पु० ।
“रविसंक्रान्तिरेव च” तत्रैव । “जीवः संक्नमतेऽन्यत्र कर्म्मबन्ध-
निबन्धनः” भा० व० २० ८ अ० । तङार्षः । “औपसर्गिकरोगाः
सक्रामन्ति नरान्नरम्” सुश्रु० । “संक्रामन्ति हि पापानि
तैलविन्दुरिवाम्भसि” पराशरः “कालोह्ययं संक्रमितुं
द्वितीयम्” रघुः । सम्यक् क्रमणे सक० “संक्रामन्तौ बहून्
देशान् शैलाच्छैलं वनाद्वनम्” रामा० आर० ७६ अ० ।
  • अनु + सम् + आनुरूप्येण आनुपूर्व्येण च संक्रमणे । “इष्टापूर्त्त
मनुसंक्राम विद्वन्!” अथ० १८ । २ । ५ ।
  • उप + सम् + सामीप्येन संक्रसणे सक० “सविशेषणे हि विधि-
पृष्ठ २२९०
निषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे”
दीधितौ न्यायवाक्यम् “एतमन्नमयात्मानमुपसंक्रामति” तैत्ति०
  • प्रति + सम् + प्रतिकूलसङ्क्रमणे निवृत्तौ “तावन्न संसृतिरसौ
प्रतिसंक्रमेत” भाग० ३ । ९ । १० श्लो० । “प्रतिसंक्रामयद्विश्वम्”
४ । २४ । ४९ श्लो० प्रतिसंक्रामयत् निवर्त्तयत् ।

क्रम पु० क्रम--भावकरणादौ यथायथं घञ् मान्तत्वादवृद्धिः ।

१ पादविक्षेपे २ पादे हेमच० अर्थानां नैयत्येन ३ पूर्वापराव-
स्थाने । ४ कल्पे अनुष्ठाने अमरः ५ सामर्थ्ये (सामर्थ्यहेतु-
कव्यापारे) ६ आक्रमणे च मेदि० । ७ वेदसंहितानुसारि-
पाठतद्विलोमरूपे पाठभेदे । ऋग्वेदशब्दे तत्स्वरूपभेदादिकं
१४११ पृ० चरणव्यूहवाक्यतद्भाष्याभ्यां दर्शितम् । ८ विष्णौ
“ईश्वरोविक्रमी धन्वी मेधावी विक्रमः क्रमः” विष्णुस० ।
‘क्रमणात् प्राणरूपेण गगनात् । क्रमणहेतुतया । (प्राणि-
गमनसाधनपादविन्यासहेतुभूतरथ्यादिप्रकाशनाधिष्ठातृसू-
र्य्यादिदेवरूपतया) वा क्रमः” भा० ९ परिपाट्यां यथोचित
सन्निवेशे मेदि० । शेषशेषिभावे अधिकृताधिकारे वा
सत्येव वैदिककर्म्मणोरनुष्ठाने पौर्वापर्य्यरूपक्रम ग्रहण-
मिति शा० भा० स्थितम् तन्नियामकश्च श्रुत्यर्थपाठप्रवृत्तिका-
ण्डमुख्यभेदात् षड्विधः तस्य च कर्म्मविशेषे विशेषेण ग्रा-
ह्यता तद्विवृतिः मीमांसा ५ अ० । १ पा० भाष्ययोर्दर्शिता यथा
“श्रुतिलक्षणमानुपूर्व्यं तत्प्रमाणत्वात्” जै० १ सू०
“चतुर्थेऽध्याये प्रयोजकाप्रयोजकलक्षणं वृत्तं, तन्न विस्मर्त्त-
व्यम्, इह इदानीं क्रमनियमलक्षणम् उच्यते, तत् श्रुत्यर्थ
पाठप्रवृत्तिकाण्डमुख्यैर्वक्ष्यते, श्रुत्यादीनाम् च बलाब-
लम् । आदितस्तु श्रुतिक्रसश्चिन्त्यते,--किं यथाश्रुति
पदार्थानाम् क्रमआस्थेयः, उत अनियमेन?--इति ।
किं पाप्तम्?--एकत्वात् कर्त्तुः, अनेकत्वाच्च पदार्थानाम्,
अवश्यम्भाविनि क्रमे लाघवात् प्रयोग आश्रुभावाच्च
अनिमः--इत्येवं प्राप्ते ब्रूमः
“श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात्--इति श्रु-
तिर्ग्रहणम् अक्षराणां, तन्निमित्तं यस्य क्रमस्य, स साधु
क्रमः । शुतिगमाणका हि वैदिका अर्थाः नैषामन्यत्
प्रमाणमस्ति (१ । १ । २ सू०)--इत्युक्तम् । किम् इह उदाह-
रणम्? । सत्रे दीक्षाक्रमं विधत्ते, ‘अध्वर्युर्गृहपतिं
दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारं, ततो
होतारं ततस्तं प्रतिप्रस्थाता दीक्षयित्वा अर्द्धिनो दीक्षयति,
ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्राव-
रुणं होतुः, ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षय-
ति, अग्नीध्रं ब्रह्मणः, प्रतिहर्त्तारम् उद्गातुः, अच्छा-
वाकं होतुः ततस्तमुन्नेता दीक्षयित्वा पादिनो दोक्षयति,
पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः,
ततस्तमन्यो ब्राह्मणो सुब्रह्मस्योदीक्षयति, ब्रह्मचारी वा
आचार्य प्रेषितः--इति । अनियमेन क्रमः कर्त्तव्यो,
यथा पूर्वः पक्षः, यथा तर्हि सिद्धान्तः, एष एव क्रमः
कर्त्तव्यः--इति ।
तत्र आह, अन्याय्यं श्रुतिवचनम्--इति । उच्यते, --कि-
मयं न साधुः? न न साधुः--इति ब्रूमः । न्याय्यं तर्हि
न ब्रूमः,--न साधुः क्रमः--इति, किं तर्हि?--उक्तस्य
पुनर्वचनमन्याय्यम्--इति । उच्यते,--साधोर्वचनं बहुशो-
ऽष्युच्यमानं न्याय्यमेव, असाधोस्तु सकृदप्यन्याय्यम् ।
आह सकृद्वचनेन ज्ञातस्य पुनर्वचने न प्रयोजनम् इति,
उच्यते भवति अविस्मरणमपि प्रयोजनम् इत्युक्तम् ।
वृत्तिकारेण तत् कार्यम्--इति चेत् । सूत्रकारस्याप्य-
विशेषो वृत्तिकारेण । (१ म वर्णकम्)
अथवा अर्थान्तरमेव इदम् तत्र हि अन्य एव संशयो
विचारो निर्णयश्च,--श्रुतिप्रमाणकोधर्मः अन्यप्रनालकोवा?
इति संशयः । प्रत्यक्षादीनाम् अधिगम्यनिमित्तत्वात् न
तत्प्रमाणकः, अतीन्द्रियत्वाच्चोदनालक्षणः--इति विचा-
रः । चोदनालक्षणः एव--इति निर्ण्णयः । इह तु सिद्धे
तत्प्रमाण्ये व्यवहारक्रमस्य साधुत्वावधारणम्(। २ य वर्णकम्)
अथ वा श्रुतिविचारोऽयं--किं पदार्थाः कर्त्तव्याः?
इति विधानम्? किं वा क्रमो विधीयते?--इति ।
अनेकार्थविधानानुपवत्तेः क्रमे अनुवादः, पदार्थानां विधिः,
अवदानवाक्येष्विव पादार्थविधानं श्रुत्या, क्रमविधानं
वाक्येन, तस्मात् न क्रमो विधीयते--इयि पूर्वः पक्षः ।
ननु अवदानवाक्येषु क्रमो विधीयते सत्यं विधीयते,
पाठेन, न श्रुत्या, ये ऋत्विजस्ते यजमानाः “इति तु
दीक्षायाः प्राप्तत्वात् क्रमविधानार्था श्रुतिः--इति सिद्धान्तः ।
तस्मात् अपुनरुक्तम्--इति” (३ म वर्णकम्) । भाष्यम्
“अर्थाच्च” २ सू०
“किम् एष एव उत्सर्गः? उत न, सर्वत्र श्रुतिवशेनैव
भवितुमर्हति--इति उक्तं हि,--“चोदनालक्षणोऽर्थोधर्मः”
एवं प्राप्ते ब्रूमः--अर्थाच्च (सामर्थ्याच्च) क्रमो विधीयते-
इति, गुणभूवोहि पदार्थानां क्रमोभवति, यच्च यस्य
निर्वर्त्यमानस्य उपकरोति, स तस्य गुणभूतः, यस्मिंश्चाश्री-
यमाणे पदार्थः एव न सम्पद्यते, न स गुणभूतः विनापि
पृष्ठ २२९१
तेन, न वैगुण्यम् । एवं प्रयक्षक्रमस्य गुणभावो यत्र,
तत्र अर्थेन स एवाश्रयितव्यः । यथा “जाते वरं ददाति,
जातमञ्जलिना गृह्णाति जातमभिप्राणिति”--इति अर्थात्
पूर्वमभिप्राणितव्यम् ततः अञ्जलिता गृहीतव्यः, ततो
वरोदेयः,--इति, तथा विमोकः पूर्वमाम्नातः, पश्चात्तद्योगः,
अर्थात् विपरीतः कार्यः । याज्यानुवाक्ये तु विपर्ययेण
आम्नाते, विपर्ययेण कर्त्तव्ये, न अत्र पाठक्रमोमीयते,
यतो देवतेपलक्षणार्थाऽनुवाक्या, प्रदानार्था याज्या,
“अग्निहोत्रम् जुहोति” --इति पूर्वमाम्नातम्, “ओदनं
पचति”--इति पश्चात्, असम्भवात् पूर्वमादनःपक्तव्यः ।
प्रैषप्रेषार्थौतु विपर्ययेण आम्नातौ, तौ च विपर्य्ययेण
कर्त्तव्यौ” माष्यम्
“अनियमोऽन्यत्र” ३ सू०
अन्यस्मिन् विषये क्रमस्य नियमो नास्ति, यथादर्शपुर्णमा-
सयोर्याजमानानां प्रयाजानुमन्त्रणादीनाम् नानाशाखा-
न्तरसमाम्नातानाम् “वसन्तमृतूनाम् प्रीणामि”--इत्येव-
मादीनाम्, “एको धर्म,--इत्येवमादीनाञ्च” भा०
“क्रमेण वा नियामकता क्रत्वेकत्वे तद्गुणत्वात्” ४ सू०
“दर्शपुर्णमासयोराम्नातम्”--“समिधो यजति तनूनपातं
यजति इड़ो यजति बर्हिर्यजति स्वाहाकारं
यजति”--इति । तत्र संशयः--किम् अनियतेनैव क्रमेण
एषाम् अष्टष्ठानम्? उत यः पाठक्रमः स एव
नियम्येत?--इति । किंप्राप्तम्?--नियमकारिणः शास्त्रस्या-
भावात् अनियमः--इति । एवं प्राप्ते ब्रूमः--क्रमेण,
एव नियम्येत एकस्मिन् क्रतौ--इति । कुतः? । तद्गुण-
त्वात्, तद्गुणत्वं हि गम्यते पदार्थानाम्, यथा, स्नायात्
अनुलिम्पेत, भुञ्जोत--इति च क्रमेण अनुष्ठानम् अवगम्यते,
वाक्यात् पदार्थानाम्, यथा चादृष्टार्थेषु उपदिश्यमानेषु,
कश्चित् ब्रूयात्,--“देवाय धूपो देयः पुष्पाण्यवकरितव्यानि
चन्दनेनानुलेप्तव्यः उपहारोऽस्मै उपहर्त्तव्यः” एवं कृते
देवस्तुष्यति,--इति, तमन्यः प्रतिब्रूते, नैतदेवं, न प्रथमं
धूपो दातव्यः, प्रथमं पुष्पाणि अवकरितव्यानि--इति, एवं
मन्यते--धूपदानस्य प्राथम्यम् अनेन उक्तम्--इति ।
तस्मात् वाचनिक एषाम् एष क्रमः--इति” भा०
“अशाब्द इति चेत्, स्याद्वाक्यशब्दत्वात् । ५ सू०
इति चेत्, पश्यसि, “अथैवं गम्यमाने अशाब्दः एव
क्रमः । कथं? पदार्थपूर्वको वाक्यार्थः पदेभ्यश्च
पदार्था एव अवगन्यन्ते न क्रमः । स्यात् एतदेवं, यदि
पदार्थानाम् समूहस्य श्रकणं प्रत्यायकम् अर्थस्य स्यात्, न
तु समुदायः प्रत्यायकः, --इत्युक्तं “तद्भूतानां कियार्थेन
समाम्नायः” (१ । १ । २५ अ०) इत्यत्र । तस्मात् क्रमस्य
वाचकशबदाभावात् व्यामोह एष क्रमोऽवगम्यते । एवं
चापूर्वासत्तिरनुग्रहीष्यते, इतरथा सापि विप्रकृष्येत
वटीयन्त्र इव । दर्शयिष्यति च”--“हृदयम्याग्रेऽवद्यति,
अथ जिह्वायाः, अथ वक्षसः,--इति । यदि नियामकः
पाठक्रमः ततो न विधातव्यनेतत नियामके हि पाठकमे
पाठक्रमात् एव प्राप्नुयात्” भा०
“अर्थकृते वानुमानं स्यात्, क्रत्वेकत्वे परर्थत्वात् स्वेन
त्वर्थेन सम्बन्धः, तस्मात्स्वशवदमुच्येत” ६ सू०
“एकस्मिन् क्रतावेकत्वात् कर्तुः, अनेकन्मिन् पदार्थेऽर्थकृत-
त्वात् क्रमस्य, तत्र एष एव क्रमो नियम्येतानुमानेन ।
कुतः? परार्थत्वात् वेदस्य, परार्थो हि वेदो
यद्यत् अनेन शक्यते कर्त्तुम्, तस्मै--तस्मै प्रयोजनाय एष
समाम्नायते, शक्यते च अनेन पदार्थो विधातुम्, शक्यते
च क्रियाकाले प्रतिपत्तुम् । तस्मात् वेदः पदार्थांश्च
विधातुम् उपादेयः, क्रियाकाले च प्रतिपचुम्, न शक्यते
विशेषः--विधातुमयं समाम्नायते, न प्रतिपत्तुम्--इति,
अवम्यमाने विशेषे उभयार्थम् उपादीयते--इति
गम्यते । प्रतिपत्तुं च अनेन क्रमेण शक्यते,
नान्येन, अत एव च कृत्वा पाठक्रमापचारे, विनष्ट--इत्यु-
च्यते, इतरथा हि यत् यस्य प्रयोजनं, तस्मिन् निर्वर्त्त्य-
माने एव किं नष्टं स्यात्, अदृष्ट कल्प्येत, तच्च ।
अन्याय्यं दृष्टे सति । तस्मात् स्वशब्दः क्रमः--य एव
पदार्थानां वाचकः शब्दः स एव क्रमस्यापि” भा०
“तथा चान्यार्थर्दर्शनम्” ७ सू०
“एवं च अन्यार्थं दर्शयति”--“व्यत्यस्तमृतव्या उपदधाति” ।
“व्यत्यस्तं षोड़शिनं शंसति” । “आश्विनो दशमो गृहते तं
तृतीयं जुहोति”--इति, यदि अनियमेन उपधानं
शंसनं च, व्यत्यस्तवचनम् अनर्यकं स्यात्, न हि कथञ्चित्
अव्यत्यासः--इति । तथा आश्विनस्य तृतीयस्य होमानुवादो
न अवकल्पेत, यदि पाठक्रमेण नियमः--इति ।
तथा“अभिचरता प्रतिलोमं होतव्यम्” प्राणानेव अस्य प्रतीचः
प्रतियैति”--इति क्वचित् प्रतिलोमं विदवदनुलोभं दर्श-
यति, तदुपपद्यते, यदि पाठक्रमेण प्रयोगः, इतरथाः
सर्व्वमनुलोमं स्यात् प्रतिलोमदर्शनं नोपपद्येत! तथा
“चतुर्थोतगयोः प्रतिसमानयति”--इति, उक्त सति,
पृष्ठ २२९२
“अतिहायेडोवर्हिः प्रतिसमानयति,--इति उच्यते तेन
वर्हिषः चतुर्थतां दर्शयति, सा पाठक्रमे नियामकेऽव
कल्पते” भा०
“प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्” ८ सू०
“वाजपेये “सप्तदश प्राजापत्यान् पशून् आलभते”--इति
श्रूयते । तेषु पशुषु चोदकप्राप्ताःप्रोक्षणादयो धर्माः,
तत्र प्रथमः पदार्थो यतः कुतश्चिदारब्धव्यः द्वितीयादिषु
भवति संशयः,--किं तत एव द्वितीयोऽपि पदार्थ
आरब्धव्यः? उत द्वितीयादिषु अनियमः?--इति । किं तावत्
प्राप्तम्? नियमकारिणः शास्त्रस्याभावात् अनियमः--इति ।
एवं प्राप्ते, ब्रूमः,--यतः पूर्व आरब्धः, ततएव द्वितीया-
दयोऽपि पदार्था आरब्धव्याः--इति । कुतः एतत्? ।
‘तदुपक्रमात्’ सर्वे हि पदार्था प्रधानकालात् न विप्रक्र-
ष्टव्याः, प्रधानं हि चिकीर्षितं, कृतं वा तेषां निमित्त,
सहवचनं हि भवति”--‘पदार्थैः सह प्रधानं कर्त्तव्यम्’--
इति । वहुपदार्थसमाम्नानात्तु अवश्यम्भावी विपकर्षः,
तथापि तु यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुम्,
तावद्भिर्व्यवधानम् अवश्यं कर्त्तव्यम् । ततोऽभ्यविकेन न
व्यवधातव्यम्--इति, यदि द्वितीयं पदार्थमन्यत आरभेत,
ततोऽधिकैरपि व्यवदध्यात्, तथा प्रयोगवचनं बाधेत! ।
‘ननु तथा सति कश्चिदलपैर्व्यवहितो भविष्यति’ ।
उच्यते,--अनुमतानां व्यवधायकानां त्यागेन कश्चित्
अभ्यधिको गुणो भवति--इति तस्मात् यतः पूर्वयदार्थ
आरब्धः तत एव उत्तर आरम्भणीयः--इति” भा०
“मर्वमिति चेत्” ९ सू०
“इति चेत् पश्यसि, प्रधानाविप्रकर्षेण प्रयोगवचना-
नुग्रहः--इति, सर्वं तर्हि--गुणकाण्डम् एकस्मिन्
अपवर्जयितव्यं, यथा सौर्यादिषु” भा० ।
“नाकृतत्वात्” १० सू० ।
“नैतदेवम्, सहप्रयोगे एवहि ग अनुष्ठितः स्यात्” भा० ।
“क्रत्वन्तरवदिति चेत्” । ११ सू०
“अथ यदुक्तं,--यथा क्रत्वन्तरेषु सौर्यादिषु--इति, तत्
परिहर्त्तव्यम्” भा०
“नासमवायात्” १२ सू०
“न तेषामर्थात् क्रमः प्राप्नोति, यो नियम्येत, अङ्गाश्रयो
हि नियमो भवितुमर्हति, अनङ्गासमाश्रयस्य स्वयमङ्गता
कल्प्येत” भा०
“स्थानाच्चोत्पत्तिसयोगात्” १३ सू०
“एकविंशेन कतिरात्रेण प्रजाकामं याजयेत्, त्रिणवेना-
जस्कामं, त्रयस्त्रिंशेन प्रतिष्ठाकामम्” इत्येवमादि श्रूयते ।
तत्र आगमेन सङ्ख्यापूरणम्--इति वक्ष्यते । तत्र आगमे
क्रियमाणे, किम् अनियमजक्रमाः संर्व्वा ऋच
आगमयितव्याः? उत काण्डक्रमेभ्यः? इति । किं प्राप्तम्?-
अनियमेन--इति । कुतः? अतिरात्रे त्रिणवादि
शब्दार्थेनैताः प्राप्नुवन्ति, तत्र एतासां प्राप्नुवतीनाम्
प्राठक्रमो नास्ति--इति । एवं प्राप्ते उच्यते,--यदासां
सामाम्नाये स्थानं, तेनैता अत्र नियम्यन्ते याः पूर्वं
सामाम्नाताः, ताः पूर्वमेव प्रयोक्तव्याः, आनुपूर्व्यस्य हि
दृष्टमेतत् प्रयोजनम्, यदुत्तरस्फुरणं, तदपि चिकीर्षित-
मेव--इति । त्रिणवादिशब्दैः अतिरात्रे यौगपद्येन
आसां प्रप्तेः पाठक्रमस्य अविषयः--इति अधिकरणान्तरम्
--इति भवति मतिः । समाम्नायपाठक्रमादेव अत्र
नियमः--इति पुनरुक्ततागम्यते--इति अन्यथा वर्ण्यते” १ मव०
“साद्यस्क्रे श्रूयते,--सह प्रशूनालमते,--इति अत्र
एषोऽर्थः समधिगतः”--सवनीयकाले त्रयाणाम् आलम्भः
--इति । अथ अत्र पाठक्रमात्, किम् अग्नीषोमीयः
पूर्वम् आलब्धव्यः? उत स्थानक्रमात् पूर्वं सवनीयः इति ।
कुतः? । पाठक्रमात् । एवं प्राप्ते ब्रूमः,--सवनीयः पूर्वं,
“स्थानात्, यदि पूर्वम् अग्निषोमीयः स्यात्, सवनीय
स्थानं व्याहन्येत! “आश्विनं गृहीत्वा त्रिवृता यूपं
परिवीय” इति । “ननु इतरथापि पाठक्रमोबाध्येत,
बाध्यतां, तस्य हि प्रतिषेधार्थः सहशब्दः समाम्नातः,
अप्रतिषिद्धं च आश्विनग्रहस्थानम्, तन्न बाधित-
व्यम्” (२ वर्ण्णकम्) भा०
“मुख्यक्रमेण वाङ्गानां तदर्थत्वात्” १४ सू०
“स्वारस्वतौ भवतः एतत् वै द्विदैवत्यं मिथुनम्”--इति
श्रूयते । तत्र सन्देहः,--किं स्त्रीदैवत्यस्य प्रथमं धर्माः?
उत पुंदैवत्यस्य?--इति । नियमकारिणः शास्त्रस्य
अभावात् अनियमः,--इति प्राप्ते ब्रूमः,--मुख्यक्रमेण वा
नियमः स्यात्--इति स्त्रीदैवत्यस्य हि पूर्वं याज्यानुवाक्ययोः
समाम्नानं, “प्रणो देवी सरस्वती”--इति । तस्मात् स्त्री-
दैवत्यस्य पूर्वं प्रदानेन मवितव्यम्, तस्मात् स्त्रीदैवत्यस्य
पूर्वं धर्माः कार्याः, तथा हि प्रधानकालता भवति
अङ्गानाम्, इतरथा, यैः पादर्थैर्व्यवधानं सामर्थ्यात्
अनुज्ञातं तेभ्योऽधिकैरपि व्यवधानं स्यात्” । भा०
“प्रकृतौ तु स्वशब्दत्वात् यथाक्रमं प्रतीयेत” १५ सू०
पृष्ठ २२९३


“दर्शपूर्णमासयोः पूर्वमौषधधर्माः समाम्नाताः, ततः
आज्यस्य । तत्र सन्देहः,--किम् अग्नीषोमीयधर्मा-
णाम्, मुख्यक्रमेण पूर्वम् आज्यस्य धर्माः कर्त्तव्याः!
उत यथाप ठम्?--इति । मुख्यक्रमानुग्रहेण आज्यस्य
पूर्वम्,--इति प्राप्ते ब्रूमः,--प्रकृतौ यथापाठं प्रतीयेत,
स्वशब्दो हि तेषां पाठक्रमः, सः अन्यथा क्रियमाणो
बाधितः स्यात्, सहत्वस्य पुनरुपसङ्ग्राहकः प्रयोगवचनः
खक्रमेण पदार्थे सन्निकृव्यकार्ण न बाधितो भविष्यति ।
अपि च पाठक्रमे स्वशब्दः,--“स्वाध्यायोऽध्येतव्यः”
मुख्यक्रमेण प्रयोगवचनैकवाक्यता सूक्ष्मा” भा०
“मन्त्रतस्तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्मात्
उत्पत्तिदेशः सः” १६ मू०
“दर्शपूर्णमासयोः, आग्नेयस्य पूर्वं मन्त्रपाठः, उत्तरो
ब्राह्मणस्य । तत्र सन्देहः--कतमः पाठो बलीयान्?--इति ।
उच्यते,--अनियमः, नियमकारिणः शास्त्रस्य अभावात्--इति ।
एवं प्राप्ते ब्रूमः,--मन्त्रपाठो बलीयान् । कुतः?
पयोगरूपसामर्थ्यात्--प्रयोगाय मन्त्रस्य रूपसामर्थ्यं,
तदस्य सामर्थ्यं येन मन्त्रः प्रयुज्यते, तस्य च प्रयुज्य-
मानस्य क्रमो दृष्टाय भवति । "ननु च ब्राह्मणपाठस्य
अपि तदेव प्रयोजनम्’ । उच्यते--उत्पत्तिदेशः सः’--अ-
परमपि तस्य प्रयोजनं कर्मोत्पत्त्यर्थं मविष्यति” भा०
“तद्वचनाद्विकृतौ यथाप्रधानं स्यात्” १७ सू०
“अस्ति अध्वरकल्पा नामेष्टिः,--‘आग्नावैष्णवम् एकादश-
कपालं निर्वपेत्, सरस्वती आज्यभागा स्यात् वार्हस्प-
त्यश्चरुः’--इति । तत्र सन्देहः--किम् आग्नेयविकारस्य
वार्हस्पत्यस्य पूर्वं धर्माः कार्य्याः, चोदको बलवत्तरः,
प्रयोगवचनात्, उत उपांश्रयागविकारस्य प्रयोगव-
चनो बलवत्तरः, चोदकात्?--इति । किम् प्राप्नम्?-
‘विकृतौ’ अस्यां ‘यथाप्रधानं स्यात्’ ‘तद्वचनात्’--तेषां
साक्षाद्वचनक्रमो विकृतौ, तेन सन्निहितानाम् उपसं-
हारकः प्रयोगवचनो हि प्रत्यक्षः, तद्भर्माणां च
आनुमानिकः चोदकेन हि स प्राप्तः । तस्मात् प्रत्यक्षः
प्रयोगवचनो बलवत्तरः, तेन चोदक आनुमानिको
बाध्यते भा०
“विप्रतिपत्तौ वा प्रकृत्यन्वयाद्यथाप्रकृति” १८ सू०
मुख्याङ्गक्रम--विप्रतिपत्तौ वा यथा प्रकृतौ, तथैव
विकृतौ भवितुमर्हति--इति । कुतः? । ‘प्रकृत्यन्वयात्’
यादृशाः प्रकृतौ षर्माः, तादृशा एव विकृतौ भवितु-
मर्हन्ति--इति, मुख्यक्रमेण क्रियमाणा न प्रकृतिवत् कुतः
स्युः? । चोदको हि प्रयोगवचनात् बलत्तरः, स हि
उत्पादयति प्रापयति च । प्रापितान् अभिसमोक्ष्य
प्रयोगवचन उपसंहरति, स प्राप्तेषु उत्पन्नः प्राप्तिनिमि-
त्तक उत्तरकालं पूर्वप्राप्तं न बाधितुमर्हति चोदकं, प्रत्य,
क्षोऽपि सन्, बहिरङ्गत्वात्, यथाप्राप्तानेवोपसंहरिष्यति ।
तस्मात् पूर्वं बार्हस्पत्यस्य धर्माः, तत आज्यस्य” भा० ।
एतच्च स्पष्टतया तत्त्ववोधिन्यां दर्शितं यथा
“अग्निहोत्रं जुहोति यवागूं पचतीत्यादौ
अनुष्ठेयानामनुष्ठानक्रमनियमोऽस्ति नवेति । तत्र न
क्रमनियमः तत्प्रापकप्रमाणाभावादिति प्राप्ते क्रम-
नियमप्रापकाण्याह श्रुत्यर्थपठनस्थानमुख्यप्रावर्त्तिकाः
क्रमाः । १ श्रुतिरानन्तर्य्यबोधकमथशब्दक्त्वाप्रत्ययादिकम् ।
२ अर्थः प्रयोजनं, ३ पठनं पाठक्रमः ४ स्थानं स्वस्थानस्थितिः,
यथा आश्विनक्रत्वहसामीप्यं सवनीयपशोः, । स्थानं स्वो-
त्पत्तिवाक्यमिति केचित् । ५ मुख्यं प्रधानं कर्म्म । ६
प्रवृत्तिः प्रवर्त्तनक्रमः । प्रावर्त्तिकेति तद्धितेन प्रवृत्तिगम्य-
त्वाभिधायकेन श्रुत्यादिपदानां श्रुतिगम्यत्वादिपरत्वं
सूचितं तथा च श्रुत्यादीनि क्रमप्रापकाणीति । अत्र
श्रुत्यादीनां क्रमप्रापकताबोधकसूत्राणि बहूनि उक्तानि-
तानि च ग्रन्थगौरवभयात् निखिव्यमाणसूत्रार्थविवेचनेन
व्यक्तीभविष्यत्त्वाच्च न लिखितानि । तत्र श्रुतितोय
था “द्वादशाहसत्रयागे “अध्वर्युर्गृहपतिं दीक्षयित्व
ब्रह्माणं दीक्षयति ततौद्गातारं ततो होतारमिति”
आनन्तर्य्यार्थकक्त्वाप्रत्ययेन क्रमोबोध्यते । यथा वा “हृदये
स्याग्रेऽवद्यति, अथ जिह्वायः अथ वक्षसः” इति
अथशब्देन । अयं च क्रमोऽन्येभ्यो बलवान् शब्दलभ्यत्वात् ।
एवमेषां पूर्व्वत उत्तरोत्तरं दुर्ब्बलं बोध्यम् । नन्वथादि
शब्दादुपस्थितस्यापि क्रमस्य धात्वर्थरूपक्रियात्वाऽभावेन
कथं विधेयत्वं तदिदमुक्तं प्रापकप्रमाणाभावादिति
चेदुच्यते यथा दध्ना जुहोतीत्यादौ अक्रियारूपं दधिद्रव्यं
क्रियाविशेषणं सद्विधोयते दधिसाधनकं होमं कुर्य्यादिति
तथा इदमनेन क्रमेण कर्त्तव्यमिति क्रियाविशेषणतया
क्रमोविधीयते । तथा च सूत्रम् “श्रुतिलक्षण्यमानुपू-
र्व्वंतत्प्रधानत्वात्” आनुपूर्व्यं श्रुतिगम्यं विधिगम्यं तस्य
क्रमस्य प्रधानत्वात् दध्यादिवत् क्रियाविशेषणत्वेन विधे-
यत्वात । तच्च क्वचित् श्रुतशब्दादथादितः क्वचिच्चा-
र्थादितोऽनुमानादिति विशेषः । इत्थञ्च श्रुतिगम्यं श्रुति
पृष्ठ २२९४
शब्दलभ्यमित्यर्थः सूत्रबौध्य इति भावः । श्रुतिगम्यं
श्रुतिलभ्यमानुपूर्व्यं ग्राह्यमिति शेषः । “अथ अध्वर्य्युर्गृ-
हपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति” इत्यादौ
दीक्षैव विधीयते श्रुतितस्तद्विध्यवगमात् क्रमस्तु वाक्यार्थो
न विधेय इति । तद्विध्यवगमाभावात् तदुक्तं
“वाक्यार्थो विधिरन्याय्यः श्रुत्यर्थविधिसम्भवे । तस्माद्-
दीक्षाविधिः पाठाद्दीक्षाणां प्राप्यते क्रमः” । उच्यते ।
द्वादशाहसत्रे य एव यजमानास्तएव ऋत्विजः” इति
व्रह्मादीनां सर्वेषामृत्विजां यजमानत्वेन यजमान-
दीक्षां विधिप्राप्तामनूद्य अनेनाप्राप्तक्रमएव विधीयते ।
तदुक्तं “सर्वेषां यजमानत्वात् दीक्षप्राप्तेरचोदनात् ।
क्रमस्तु नान्यतः प्राप्त इति सोऽत्र विधीयते” ।
“अर्थाच्चेति” सूत्रम् । २ अर्थात् यथाग्निहोत्रं
जुहोति यवागुं पचतीत्यत्र यवागूपाकस्य होमः प्रयो-
जनं तच्च होमानन्तरपाके सति न सम्भवति होमोऽपिच
यवागूं विना न निष्पद्यत इति पाकानन्तरं होमः ।
अतएव गृहपत्यादिदीक्षासु पाठप्राप्तक्रमस्यैवादृतत्वात्
इंहापि होमपाकयोः पाठप्राप्तक्रमोग्राह्य इति
निरस्तं पाठक्रमग्रहणे विहितार्थानिष्पत्तेः । न च जुहो-
तीत्यस्य सामान्यप्राप्ताज्यादिद्रव्यकत्वमिति द्रव्यान्तरेण
होमः यवागूपाकस्य च ऋत्विग्भक्षादिरूपप्रयोजना-
न्तरं कल्पनीयम् अथवा यवागूमित्यस्य जुहोतीत्यनेनान्व-
यात् पचतीत्यस्य कर्म्मान्तरमध्याहार्य्यमिति वाच्यं
तत्कल्पकाभावात् गौरवात् विलम्बोपस्थितेः । द्वितीये
यवाग्वाहोमद्रव्यत्वाङ्गीकारेणार्थक्रमस्याभ्युपगमाच्च यवागूं
जुहोतीत्यन्वये पाकं विना यवाग्वाअसम्भवेन पाकस्या-
वश्यकत्वाच्च । अत एवार्थक्रमः पाठक्रमाद्बलवान् जुहो-
तीत्यनेनाकाङ्क्षितद्रव्यान्तरसाध्यहविरादिना होमनिश्च-
यात् तत्र प्रवृत्तिः यवागूपाकस्य च प्रयोजनान्तरमव-
गव्य तदर्थं पाके प्रवृत्तिरिति तादृशावगमस्य कल्पनासा-
पेक्षत्वेन विलम्बितत्वात् आसत्तिवशात् यवागूमित्यनेन
जुहोतीत्यस्यान्वयात् यवागूपाकस्य होमप्रयोजनकत्वात्तस्य
झटित्यवगमात् । अर्थात् युक्तेरिति कश्चित् तन्न । पठन
स्थानादीनामपि युक्तिलभ्यत्वेन विभागानुपपत्तेः ।
अतएव प्रयोजनवशात्तु नियम इति शास्त्रदीपिका ।
माधवाचार्य्यस्तु “यवागूं पचति यवाग्वाग्निहोत्रं जुहो-
तीति श्रुतिमभिधाय तृतीयया यवाग्वाहोमसाधनत्व-
मवगम्यत इत्याह ।


३ पठनाद्यथा “समिधोयजति तनूनपातं यजतीत्या-
दिषु दर्शपौर्ण्णमासाङ्गप्रयाजादिषु क्रमपठितानां
क्रमेणानुष्ठानम् । नन्वत्र गृहपत्यादिदीक्षायामिव
क्रमबोधकशब्दाभावात् यवागूपाकस्येव साध्याभावाच्च
कथं क्रमनियम इति चेत् न, तथैव लोकप्रतिपत्तेः ।
तथा च सूत्रं “क्रमेण वानियम्येत क्रत्वेत्वे तद्गुण-
त्वात्” । तदुक्तं “यथापाठमनुष्ठानं तथैव प्रतिपत्तितः ।
स्मृतिप्रयोगवेलायां वाक्यैरेव च कर्म्मणाम्” । आसनं
स्वागतमित्यादिषु क्रमपाठस्थेषु आसनादिषु गन्ध-
पुष्पादिषु तथैवानुष्ठानं लौकिकाः प्रतिपद्यन्ते । अयं
स्थानादिक्रमतोबलवान् तदपेक्षया शीघ्रोपस्थितेः ।
४ स्थानाद्यथा । साद्यस्क्रनामकः कश्चिद्यागविशेषः
ज्योतिष्टोमविकृतिः । तत्र श्रूयते “सह पशूनालभते”
इति तत्र च प्रकृतियागज्योतिष्ठोसे अग्नींषोमीयपशु-
रावसथ्यपूर्ब्बदिने आलभ्यते, सवनीयः पशुः सूत्या-
दिने प्रातःसवने आश्विनग्रहग्रहणादूर्द्ध्वमालभ्यते तथा
च श्रुतिः “आश्विनग्रहं गृहीत्वा त्रिवृता यूपं
परिवीय सवनीयसाग्नेयं पशुमुपाकरोतीति” अनुबन्ध्यपशु-
रावसथ्यादूर्द्ध्वमालभ्यते विकृतौ सायस्क्रे त्रयोऽपि पशवः
सहालभ्यन्ते सहालभनमेकस्मिन् सवनीयस्थाने सूत्या-
दिने आलभनं तत्र च प्रकृतौ ज्योतिष्टोमे अग्नी-
षोमीयस्य प्रथममुपाकरणं ततोविकृतावपि अग्नीषोमीयस्य
प्रथममुपाकरणनिति प्राप्ते “स्थानाच्चोत्पत्तिसंयोगात्”
उत्पत्तिसंयोगात् । उत्पत्तिवाक्यात् प्राप्तात् स्थानात्
उपाकरणस्थाने प्रथमं सवनीयपशोरालभनीयत्वेन
सवनीयपशोः स्थानप्राथम्यात् । तथाचोक्तं सह पशुना
आदृतपरिपाट्या पशुना सह कार्य्यः” अयम्भावः सवनीय-
पशोः स्थानमपि ग्रहसमीपम् अन्ययोस्तु अन्यत्, तत्र
प्रकृतौ “आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परिवीया-
ग्नेयं सवनीयपशुमुपाकरोतीति” श्रूयते त्रिवृता
कुशमेखलया त्रिरावृत्त्या परिवीय संवेष्ट्य इत्यर्थः ।
अत्र प्रकृतौ तथा श्रुतेस्तदतिदेशात् विकृतावपि सवनीय
पशूपाक णात् पूर्व्वमाश्विनग्रहो ग्राह्यः । ततश्च
गृहीते तस्मिन् समोपे स्वस्थानस्थितस्य सवनीयपशोरेव
प्रथममुपस्थितिस्तस्मैव प्रथममुपाकरणं न तु प्रकृतौ प्रथम
मुपाकरणमग्नीषोमीयपशोः, तस्य प्रथममनुपस्थितेः
इतरयोः सहोपाकरणानुरोधात् स्वस्थानात् सवनीयप
शोः स्थानादितरयोरपि स्वस्थानभ्रष्टयोः ततोः
पृष्ठ २२९५
प्रथममुपस्थापकामावात् प्रकृतिदृष्टक्रमेणालभनम् ।
तदुक्तम् “आश्विनग्रहणेनासौ पर्य्युपास्थाप्यते यतः ।
इतरश्चलितः स्यानान्नोपस्थाप्येत केनचित् । तयोस्तु
प्रकृतौ दृष्टः क्रमोग्राह्योमनीषिभिः” । यत्तुस्थानक्रभो
यथा एकोद्दिष्टे पार्व्वणधर्म्मातिदेशात् कुशासनदानाद्य
नुष्ठानं तत्र पार्व्वणे यस्मिन् स्थाने यत् क्रियते तस्य
एकोद्दिष्टऽपि तथेत्युदीच्येनोक्तं तन्न शास्त्रदीपिकादि
मीमांसानिबन्धाननादृत्य स्वकपोलरचितत्वात् स्थान
षदार्थमुख्यार्थत्यागात् मुख्यार्थत्वे स्थानस्यैव लाभेन
क्रमालाभात् “प्रकृतिवद्विकृतिरिति न्यायेनैव तल्लाभात्
स्थानक्रमानुपयोगाच्चेत्यलमाग्रहेण । मुख्यक्रमादयं
बलवान् ।
५ मुख्याद्यथा । चित्रयागे सप्तहविषां मध्ये
चतुर्थपञ्चमावित्थमाम्नायेते “सारस्वतौ भवतः” इति
एतद्विदैवत्यं मिथुनमिति” वाक्यशेषात् स्त्रीपुंदैवत्यं यागद्वयं
विहितं तच्च सरस्वती च सवस्वांश्चेति समासे “पुमान्
स्त्रिया” इति सूत्रेणैकशेषात् देवतार्थेन प्रत्ययाल्लभ्यते
तयोश्च यागयोर्निर्व्वापादयो धर्म्माविधिप्राप्ताः तत्र स्त्रीया-
गम्य पुंयागस्य वा प्रथमं निर्वापः कार्य्य इति संशयः ।
अत्रश्रुत्यर्थपठनंस्थानप्रवृत्तीनां अन्यतमस्यापि प्रक्रमाभावा
दनियमात् स्वेच्छया कर्त्तव्य इति प्राप्ते आह “मुख्य-
क्रमेण वाङ्गानां तदर्थत्वात्” सू० । मुख्यस्य प्रधानस्य
क्रमेणाङ्गानां क्रमोग्राह्यः तदर्थत्वात् अङ्गानां प्रधा-
नार्थत्वात् प्रधानोद्देश्यकप्रवृत्तिसाभत्वादिति यावत्
हौत्रकाण्डे याज्यानुवाक्ये “प्रणोदेवी सरस्वतीति”
पूर्वमाम्नातं “पार्थिवांशः सरस्वतः” इति पश्चादाम्नात-
मिति याज्यानुवाक्यापाठक्रमात् स्त्रीदेवताकस्य होमस्य
प्रथममनुष्ठानं पश्चाच्च पुंदेवताकस्यानुष्ठानं प्रतीयते
अतस्तदङ्गनिर्वापादीनामपि तथैव पौर्वापर्य्यं युक्तमिति
भावः । नन्वत्रयेन क्रमेण याज्यानुवाक्ययोः प्रवृत्ति-
स्तेलैक निर्वापादीनामपीति प्रावर्त्तिकनियमसम्भवे
किनिति मुख्यक्रमादपि नियमः सन्मवतीति चेदुच्यते
दर्शपौर्ण्णमासयोः सान्नाय्यस्य दधिरूपहविषोधर्म्माः
शाखाप्रहरणादयः पूर्वं प्रवर्त्तन्ते तत्राग्नेयस्य धर्म्मानि-
र्वापादयः याज्यानुवाक्ययोस्तु पाठयशात् प्रथममा-
ग्नेयहोमः पश्चात् सान्नाव्यस्येति विपरीता प्रदृत्तिः
तत्र किंमुख्यक्रमात् प्रथममाग्नंयस्याभिघारणादित्रयाणां
मध्ये आग्नेयस्य प्रथमं प्रवृत्तिः? किंवा भूतभाविप्रवृत्ति-
द्वयवशादनिमम इति प्राप्ते मुख्यक्रमाभिधानम् । तस्मा-
त्तत्र मुख्यक्रमादाग्नेयस्य प्रथममभिघारणम् एवञ्च सति
अङ्गप्रधानयोर्यावदनुज्ञातमेव व्याधानं स्यादितरथा तु
पश्चाद् भाविप्रधानस्य प्रथमं क्रियमाणमङ्गं प्रधानेना-
त्यन्तव्यवहितं स्यान्मुख्य क्रमेण नियमे । इयांश्च विशेषः
सुख्यक्रमे प्रधानप्रवृत्तिरङ्गानां नियमकारणं, प्रवृत्ति
क्रमे त्वङ्गानां मिथः प्रत्यासत्तिरिति ।
६ प्रवृत्तेर्यथा वाजपेये “सप्तदश प्राजापत्यान्
पशूनालभेतेति” श्रूयते तेषाञ्चोपाकरणनियोजनादयः
संस्कारा विहिता उपाकरणं प्रोक्षणं नियोजनं
यूपेबन्धन तत्र चेदृशे पशावुपक्रसः ईदृशे च
समाप्तिरिति नियमकारिणः शास्त्रस्याभावात् ऐच्छिकेन
क्रमेणोपाकरणसंस्कारः उत उपकृतानाञ्चयूपे नियो-
जनसंस्कारः पश्चात् कर्त्तव्यः? इति तत्रापि नियम
कारिणां श्रुत्यर्थपठनादीनामभावान्नास्ति क्रमनियमः
ऐच्छिक एव क्रम इति प्राप्ते आह “प्रवृत्त्या तुल्यका-
लानां गुणानां तदुपक्रमात्” सू० तुल्यकालानामेककाल
प्रवृत्तानां गुणानामङ्गानामुपाकरणादीनां प्रवृत्त्या उपा
करणप्रथमसंस्कारे स्वेच्छातः प्रवृत्तेः तत्क्रमेण तवुपक्र-
मात् प्रथमोपाकृतपशुक्रमात् प्रवृत्तिक्रमोग्राह्यः । अत्र-
ब्रूमः स्वेच्छातोयस्य पशोः प्रथममुपाकरणं क्रियते तस्यैव
प्रथमनियोजनादि कार्य्यं, तदनन्तरं तदुत्तरोपाकृतस्य
नियोजनमेवेत्यपरापरस्यापीत्यर्थः । प्रथमगुणारम्भत्यागे
कारणाभावात् । अयमभिप्रायः प्रावर्त्तिकक्रमस्वीकारे
प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयो-
र्म्मध्ये पश्वन्तरेष्वनुष्ठितैरुपाकरणैः षोडशभिरेव व्यवधानं
भवति तच्चाभ्यनुज्ञातं सप्तदशे विधानात् प्रावर्त्तिकं कमं
परित्यज्य पश्वन्तराणां पूर्ब्बं नियोजनं कृत्वा पश्चात्
प्रथमपशोर्शियोजषं यदि क्रियते तदा द्वात्रिंशद्भिः
पदाथैर्व्यवधानं स्यात् तच्च नाभ्यनुज्ञातम् तदुक्तम्,
“प्रवृत्त्या वा नियम्येत प्रत्यासत्तेरनुग्रहात् । अन्यथा
व्यवधानं स्यादनुज्ञाताधिकैर पीति” ।
कात्यायनश्रौतमूत्र १ । ५ । १ सूत्रादौ तद्भाव्ये च क्रमविशेषा
स्तेषां बलाबलञ्चीक्तं यथा
“कर्मणामानुपूर्व्यं न युगपद्भावात्” १ सू० । आनुपूर्व्यं
पौवापर्य्यं क्रम इत्यनर्थान्तरम् कर्मणामिति अग्न्यन्वधा-
नादीनामङ्गकर्मणामनुष्ठाने आनुपूर्व्यं न भवति क्रमनि-
यमो न भवति । कुतः? युगपद्भावात् अतस्तान्यङ्गानि
पृष्ठ २२९६
यदा प्रधानेनापेक्ष्यन्ते तदा युगपद्भावेनैव यौगपद्येनैव
सहैव सम्वन्धं प्राप्नुवन्ति न क्रमेण । ततश्चैषां नियमेन
क्रमेणामुष्ठाने कारणाभावात् कर्तुरेकत्वादवश्यम्भाविनि
क्रमे येन केनचिदनियतेन क्रमेणानुष्ठानम्” भा०
“अर्थनिर्वृत्तेश्च” २ सू० । “येन केनचितक्रमेणाङ्गानुष्ठाने
क्रियमाणे अर्थनिर्वृत्तिरङ्गकलापनिष्पत्तिः सुखेनैव भवति
नियतक्रमेण क्रियमाणे तु नियतक्रमस्यानागतस्य वस्तुतः
प्रतीक्षणेन बिलम्बाद्बहुना कालेन स्यात् तथा सति
प्रयेगे प्राशुभावो न स्यात् प्रधानप्रत्यासत्त्या कालो
ह्यङ्गानां विहितः अङ्गानां नियतक्रमेणानुष्ठाने च
सोऽपि अतिक्रान्तः स्यादिति तस्मादङ्गानुष्ठाने क्रमनियमो
नेति पूर्वः पक्षः । सिद्धान्तमाह” भा० “स्याद्वानुपूर्व्यनियमः
श्रुत्यर्थक्रमेभ्यः” ३ सू० । वाशब्दः “पूर्बपक्षनिरासार्थः ।
अग्न्यन्वाधानादीनामङ्गकर्मणामानुपूर्व्यनियमः स्यात् अनु
ष्ठाने क्रमनियमोभवेत् नानियमः । केभ्यः प्रमाणेभ्यः श्रुत्य-
र्थक्रमेभ्यः श्रुतेः अर्थात्क्रमाच्च । १ श्रुतेस्तावत् यथा द्वादशाहे
सन्ने “तेषां गृहपतिः प्रथमो दीक्षते” (शत० ब्रा० १२ । १ । १ । १)
“अथ ब्रह्माणं दीक्षयति अथोद्गातारम् अथ होतारमित्यादि”
नात्र ब्रह्मादीनां दीक्षा विधीयते यजमानत्वादेव तस्याः
प्राप्तेः क्रमस्य त्वन्यतः पाप्त्यभावात् स एवात्र विधीयते ।
तथा “तस्मादेप दशमो ग्रहो गृह्यते तृतीय एव वषट्-
क्रियते” इति शत० ब्रा० (४ । १ । ५ । १६) अयमपि श्रुति-
क्रम एव । २ अर्थादपि क्रमोऽवगम्यते तद्यथा पेषणसं-
यवनयोरवघातपेषणयोश्च “अग्निहोत्रं जुहोति यवागूं
पचतीति” क्रमेण श्रुतेऽपि अर्थात् पूर्वं पाकस्ततोहोम
इति होमद्रव्यं हि यवागूः तदुत्पत्त्यर्थः श्रुत्या लिङ्गेन
च पाकः । स च पश्चात् क्रियमाणोऽवर्थकः स्यात्
होमोऽप्यसति द्रव्ये न निर्वर्तेतातः पक्त्वा होमः कार्य्यः ।
३ क्रम ४ पाठक्रमः । स च द्विपिधः श्रुतिपाठक्रमो मन्त्रपा-
ठक्रमश्च, उभयविधोऽपि क्रमनियमे कारणं भवति, नियतेन
हि क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च वर्तेते । तत्रै-
वमवगम्यते येन क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च
तेनैव क्रमेणानुष्ठानमिति क्रमान्तरेणानष्ठाने त्ववगतस्य
क्रमस्य त्यागः अनवगतस्य क्रमस्योपादानमित्यसंगतं स्यात्
तस्मात् पाठक्रमादपि क्रमनियमोऽङ्गकर्म्मणां
भवतीति” कर्कभाप्यम्
“प्राकृतं च विकृतौ” ४ सू० । “अतोऽपि कारणात्
पाठक्मेणाङ्गकर्मणामनुयनं भवति यतो विकृतौ
प्राकृतमेवक्रमं श्रुतिरनुवदति यथा महापितृयज्ञे “स तत
एव प्राक्गृह्णाति स्तम्बयजुर्हरति” इत्यादिना “स यज्ञोपवीती
भूत्वाज्यानि गृह्णातीत्येवमन्तेन” (शत० ब्रा० २ । ६ । १ । १२)
अत्राज्यग्रहणे यज्ञोपवीतित्वविधिपरे वाक्ये प्राकृतं
क्रमं दर्शयति यदि पाठक्रमेणानुष्ठानं न स्यात् तदानेनैव
क्रमेणानुवादो न स्यात् । अपरे त्वन्यथा व्याचक्षते प्राकृतं
च विकृतौ, विकृतौ प्राकृतवैकृतयोः कर्मणोः संनिपाते
प्राकृतं पूर्वं कर्त्तव्यम् पश्चात् वैकृतमिति । तद्यथा
“प्रकृतौ प्रास्यतृणं चक्षुष्पा” इत्यात्मानमालभेत” इति
(कात्या० ३ । ६ । १५) प्रस्तरतृणानुपहरणानन्तरमात्मालम्भ
उक्तः विकृतौ च “प्रहृत्य तृणं तेन चरतीति”
कात्या० (४ । ४ । ११) तृणानुप्रहरणानन्तरं वाजिनयाग
उक्तः तत्र पूर्बं प्राकृतमात्मालम्भोदकस्पर्शरूपं कृत्वा पश्चा-
द्वाजिनयागः कर्तव्यः । तथा प्रकृतौ हविरासादबोत्तर
कालं हविरालम्भात्मालम्भोदकालम्भाः विहिताः विकृतौ
च “आसाद्य हर्वीष्यग्निं मन्थति” इत्यग्निमन्थनम्, (शत०
ब्रा० ३ । ४ । १९) हविरासादनोत्तरकालं विहितम्
तत्र पूर्वं प्राकृता हविरालम्भात्मालम्मोदकालम्भाः,
पश्चाद्वैकृतमग्निमन्थनम् । एवम् “अथासाद्य स्रुचोऽप
उपस्पृश्य राजानं प्रपादयति” (शत० ब्रा० २ । ६ । ३ । १७)
इत्येतदप्यूदाहार्यम्, अत्रापि पूर्वं प्राकृताहविरा-
लम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतं सोमप्रपादना-
दि । तथा पितृयज्ञे परिषेकात् प्रागिडाभक्षणमार्जनप-
वित्रप्रतिपत्तिदक्षिणादानान्यत एव सिद्धानि । सुत्यायां
च सवनीयपुरोडाशानां निर्वपनादूर्द्ध्वभावितः प्रागलङ्कर-
णाद् ये पदार्थाः तेषां प्राक्प्रचरणीयहोमादतएवानुष्ठानं
सिद्धम् । अतएव पशो प्राकृतं पूर्वमित्यस्य बाधनाय
यत्नं करोति “उत्तराघारमाघार्यं पशुं पूर्वं समनक्तीति”
(कात्या० ६ । ४ । २ सू०) अत्र पूर्वमित्यनेन प्राकृतध्रुवा-
समञ्जनात् पूर्वं पशुसमञ्जनं विदधाति । तस्मात्समी
चीनमेतद्व्याख्यानम् । अथ क्रमप्रमाणानां विरोधे
बलाबलं निर्णीयते । यत्र पाठक्रमार्थक्रमयोर्विरोधो भवति
तद्यथा । स वै “पर्णशास्वया वत्सानपाकरोति तामा-
च्छिनत्तीति” (शत० व्रा० १ । ७ । १ । १ । २) पाठक्रमः अर्थ-
स्त्वनेन क्रमेण न सिध्यति न ह्यच्छिन्नया वृक्षस्थया
शाखया वत्सापाकरणं कर्तुं शक्यते वत्साकापरणायैव
च छेदनमिति तत्र किं पाठक्रमाध्यवसानम्? उतार्थक्र-
मादिति? संशये आह” कर्कमाष्यम्
पृष्ठ २२९७


“विरोधेऽर्थस्तत्परत्वात्” ५ सू० “पाठक्रमार्थक्रमयोर्विरोधे
अर्थक्रमएव बलीयान् न पाठक्रमः । कुतः? तत्परत्वात्
पाठस्यार्थपरत्वात् अर्थार्थत्वात् कार्यसिद्ध्यर्थत्वादित्यर्थः ।
तेन पूर्वं छेदनम् पश्चात्तया छिन्नया शाखया वत्सापा-
करणमिति । अथ यत्र श्रुतेः श्रुतिपाठक्रमस्य च विरो-
धो भवति तद्यथा “संस्थिते यज्ञे ब्राह्मणं तर्पयितवै
ब्रूयादिति” (शत० ब्रा० १ । ७ । ३ । २८) श्रुतिः कर्मणि समाप्ते प्रैषं
विदधाति पाठक्रमात्तु स्विष्टकृतः पश्चात् प्राशित्रावदानाच्च
पूर्वमिति तत्र केन क्रमेणानुष्ठानमिति? संशये सत्याह” भा०
“श्रुतिः क्रमादानुमानिकत्वात्” ६ सू० “क्रमादिति श्रुतिपाठ
क्रमाच्छ्रुतिर्बलीयसी तेन श्रुतिप्रतीतक्रमेणैव संस्थिते
कर्मणि प्रैषोच्चारणम् न पाठक्रमेण । कुतः आनुमानि-
कत्वात् पाठक्रमण्य अर्थाच्छ्रुतेः प्रत्यक्षत्वादिति ज्ञेयम्,
प्रत्यक्षा हि श्रुतिः संस्थिते यज्ञे इति । पाठक्रमे त्वनु-
मानम्, अतोऽनेन क्रमेण पदार्था अनुष्ठेयाः यतोऽनेनैव
क्रमेण पाठ इति । दुर्वलं च प्रत्यक्षादनुमानम् । अतः
श्रुतिक्रमेणानुष्ठानमिति सिद्धम् । एवम् “तस्मादेष दशमो
ग्रहो गृह्यते तृतीय एव वषट्क्रियते” (श० ब्रा० ४ । १ । ५ । १६)
इत्येतदप्यत्रोदाहयणम् किं श्रुतिमन्त्रपाठात्तृतीयस्थाने
गृह्यते? उत श्रुतिबलाद्दशमे? इति तत्र श्रुतिबलात्तु दशमे-
इति सिध्यति । अथ यत्र चोदनापाठक्रमस्य मन्त्रपाठ-
क्रमस्य च परस्परं विरोधो भवति । यथाज्याधिश्रयणे
“सोऽसावाज्यमधिश्रयतीषे त्वेति” धिश्रयणं विधाय
तदनन्तरमेव “तत्पुनरुद्वासयत्यूर्जे त्वेति” (शत० ब्रा० १ । २ ।
२ । ६ ) चोदनापाठक्रमः । मन्त्रपाटे आज्याधिश्रयण-
मन्त्रानन्तरं “घर्मोऽसि विश्वायुरित्यादिम् (यजु० १ । २२)
पत्नीसन हनमन्त्रान्तं मन्त्रगणं पठित्वा आज्योद्वासनमन्त्र
“ऊर्जे त्वोत” पठितः । पूर्वाधिकरणे हि क्रमा-
च्छुतेः प्रत्यक्षत्वाद्वलीयस्त्वमुक्तम् अत्रोभयोः प्रत्यक्ष-
त्वात्किं चोदनापाठक्रमेणाज्योद्वासनं कर्तव्यमुतमन्त्र-
पाठक्रमेणेति संशये सत्याह” भा० “मन्त्रचोदनयो-
र्मन्त्रबलं प्रयोगित्वात्” ७ सू० । “मन्त्रचोदनयोरिति
मन्त्रपाठचोदनापाठयोर्विरोधे मन्त्रबलम् मन्त्रपाठएव
चलवानित्यर्थः । कुतः? प्रयोगित्वात् मन्त्राणाम्,
मन्त्रा हि कर्म्मकाले प्रयुज्यन्ते पठ्यन्ते न चोदना
वाक्यानि अतो मन्त्रपाठः पदार्थानां सन्निकृष्टः चोदना-
पाठस्तुविप्रकृष्टः । तथा हि समिधो यजति” (शत० ब्रा० १ ।
५ । ३ । ९ ।) इत्यनेन पदार्थो विहितः सोऽनुष्ठानवेलायां
येन वाक्येन विहितस्तद्वाक्यं स्मारयति तेन वाक्येन
स्मृतेनानुष्ठानवेलाया स्वपदार्थः स्मारितः सन्ननुष्ठीयते,
इतीतरेतराश्रयं स्थात् अर्थेन वाक्यं स्मार्य्यते वाक्येन
चार्थ इति नैष दोषः सामान्यविशेषभेदात् सामान्येन हि
दार्शिकमङ्गं कर्त्तव्यमित्यवगम्यते विशेषस्मरणार्थं विधा-
यकं वाक्यमालोचयति तेन चालोचितेन पश्चात्तदर्थ-
विशेषः स्मारितोऽनुष्ठीयते अनुष्ठितश्चासौ झटित्येव द्वि-
तीयं पदार्थ न स्मारयति अर्थानां ग्रन्थानपेक्षेण रूपेण
पौर्वापर्य्यस्यानवकॢप्तत्वात् किं तर्ह्यनुष्ठानोत्तरकालं
योऽसौ कृतस्तमालोचयति समिद्यागोऽयं कृत इति स चालो-
च्यमानो येन समिधो यजतीत्यनेन (शतपथ) १ । ५ । ३ । ९ । ब्रा-
ह्मणवाक्येन विहितस्तत्स्मारयति तच्च स्मृतं स्वादुत्तरम्
“तनूनपातं यजतीत्येतत् स्मारयति कुतः? पाठात् ततः
परं हि तत्पठितमिति तद्ब्राह्मणं पुनः पदार्थं विदधाति
विधिरेव तस्य कार्य्यम् न स्मृतिः अनुष्ठानवेलायां तदेव
ब्राह्मणं विधिव्यापारं कृत्वा चिरनिवृत्तव्यापारं प्रयोग-
कालाद्बहिर्मूतं स्मारकमपेक्षितम् । अयं मन्त्रपाठाद्ब्रा-
ह्मणपाठे विप्रकर्षः । मन्त्रः पुनरन्तःक्रतु प्रयुज्यमानः
परिसमाप्यमान उत्तरं मन्त्रं पर्युपस्थापयति । स चोत्तरो
मन्त्रः पर्य्युपस्थाप्य उत्तरं पदार्थं पर्य्युपस्थापयन्नेव
पर्य्युपतिष्ठते । तस्मात्तत्रालोचनान्तरापेक्षाभावान्नास्ति
विप्रकर्षः । एतदुक्तं भवति स्मारकक्रमेण तावदनुष्ठानक्रमः
न च मन्त्रे अनन्यार्थे सति ब्राह्मणस्य स्मारकत्वम्
अप्रयुज्यमानतया सामर्थ्याभावात् । न हि निर्वपामीति-
वन्निर्वपेदिति पदमुच्चारितमनुष्ठानौपयिकमनुष्ठेयप्रका-
शनं करोति किं तु सम्बन्धिमात्रतया प्रयोगबहिर्भूतं सत्
अनेन वाक्येनेदं विहितमत एतत्करोमीत्येवमालोचनेन
स्मारकं भवति । मन्त्रस्तु प्रयुज्यमान एवाभिधानत एव
स्मारक इति सन्निकृघृः । विप्रकृष्टाच्च सन्निकृष्ट
बलवदित्येवं प्राप्तेआह” माष्यम् “न समत्वात्” ८ सू० ।
“मन्त्रपाठ एव बलवान् यदुक्तं तन्न कुतः? समत्वात् मन्त्र-
पाठचोदनापाठयोः । कथमुभयोः समता उच्यते मन्त्रः
कर्मणि करिष्यमाणस्य कर्म्मणः स्मरणार्थं प्रयुज्यते,
चोदना तु कर्मणो विधायिका अत एव चोदनायाः प्रवृत्तिः
पूर्व्वम् यतः पदार्थे विहिते सति पश्चात्तत्स्मरणार्थे मन्त्रः
प्रयुज्यते अतः सममेवैतदिति प्राप्ते सिद्धान्तमाह” भा०
“गुणानां तु भूयस्त्वात्” ९ सू० । “तुशब्दः पूर्वपक्षनिरासार्थः ।
नैतदुभयं समम् किन्तु मन्त्रपाठ एव बलवान् । कुतः?
पृष्ठ २२९८
मन्त्रेषु गुणानां भूयस्त्वात् गुणानां बाहुल्यात् यतः
चोदनापाठापेक्षया मन्त्रेषु बहवो गुणाविद्यन्ते । तद्यथा
कर्मकाले उच्चारणे पदार्थस्मारके यतो मन्त्रा अर्थवादादि-
कृतव्यवधानरहिताः क्रमेण पठ्यन्ते तेनोत्तरमुत्तरं पदार्थं
झटिति स्मारयितुं शक्नुवन्ति नैवं चोदनापाठः विधेयार्थ-
स्तावकवाक्यसंदर्भव्यवहितत्वेन मन्त्रवत्स्मारयितुमशक्त-
त्वात् । न च कर्मकाले तस्योच्चारणं विहितं मन्त्रवत् ।
श्रुतिरपि मन्त्राणां गुणभूयस्त्वमाह “तस्मादेतदृषिणाभ्य-
नूक्तमित्यादिना(शत० ब्रा० १ । ७ । ४ । ४ ।)यो हि स्वप्रतिपादितस्या-
र्थस्य प्रामाण्यार्थमन्यस्योक्तिं प्रदर्शयति स आत्मापेक्षया
उत्कृष्टस्यैव दर्शयति नानिकृष्टस्य तेन गूणभूयस्त्वं मन्त्रेषु
अतो मन्त्रपाठ एव बलवानिति सिद्धम् । पदार्थानां
क्रमनियमे श्रुयादीनि त्रीणि प्रमाणान्युक्तानि तेषां
विरोधे बलाबलं चोक्तम् अथेदं चिन्त्यते । यत्र बहूनि
प्रधानानि सह क्रियन्ते यथा दर्शपूर्णमासयोराग्नेयोपां-
शुयाजाग्नीषोमीयैन्द्राम्नादीनि यथा चातुर्मास्यपर्वसु
वाजपेयेऽतिरात्रपशुवशापृश्निसप्तदशप्राजापत्येषु च तत्रारा-
दुपकारकाण्यङ्गानि सर्वेषां तन्त्रेण क्रियन्तेइति । वक्ष्य-
ति कर्मणां युगपद्भावस्तन्त्रमित्यत्र(कात्या० १ । ७ । १ ।) तेन न
तेषु क्रमन्विन्ता संनिपत्योपकारकाणि तु द्रव्यसंस्काररू-
पाणि प्रतिप्रधानभेदेन कर्त्तव्यानि तत्र चिन्त्यते तानि
कि कैकस्य सर्वाणि कृत्वापरस्य कर्त्तव्यानि? किं वा
समान एकैकः पदार्थः सर्वेषां कर्त्तव्यः? इति । तत्रैकै-
कं प्रधानमत्यवहितानि स्वाङ्गान्यपेक्षते तत्राङ्गानां प्रधा-
नकालत्वस्य न्याय्यत्वादेकैकस्मिन् गुणकाण्डमपवृञ्ज्यात
इतरथा हि पदार्थानुसमये सति स्वप्रधानाद्विप्रकृष्येरन् यद्ये-
कस्यासादनं कृत्वापरस्य तदेव क्रियते तदा पूर्वस्यासादन-
योर्व्यवायः स्वात् सहवचनं त्वारादुपकारकसाहित्यमा-
त्रेणाप्युपपद्यते तस्मात्काण्डानुसमयएवेति प्राप्तेआह” भा०
“तुल्यसमपापे, सामान्यपूर्वमानुपूर्व्ययोगात्” १० सू० । “तुल्यसम-
वाये तुल्यानां प्रधानानां सह प्रयोगे द्रव्यसस्काररूपाणि
सनिपत्योपकारकाण्यङ्गानि सामान्यपूर्वं कर्त्तव्यानि पूर्वः
पूर्वः पदार्थः सर्वेषां समानः सडशः कर्त्तव्यः । तद्य-
था बहुषु हविःषु प्रथभं सर्वेषां विभस्मीकरणम् ततः
सर्वेषां पात्रीस्थापना ततः सर्वेषां तत्र व्यभिधारः ततः
सर्वेषां पात्रीपूपस्तारः ततः सर्वेषामुद्वासनम् ततः
सर्वेषां वेद्यामासादनम् ततः सर्वेषामालम्भः इत्येवं
पदार्था समवः कर्त्तव्यः । यद्येकैकस्मिन् गुणकाणा-
मपवृज्यते तथा सति क्रमेण प्रयोगात् प्रयोगवाक्यावग-
तस्य साहित्यस्य बाधः स्यात् न हि वचनेनाविशेपतः
साहित्यमवगम्यमानं काल्पनिकेन प्रधानासत्तिमात्रे-
णारादुपकारकविषयमात्रं कल्पयितुं शक्यते । तस्मा-
त्पदार्थानुसमयः । कुतः? आनुपूर्व्ययोगात् पदार्थानां
तन्मन्त्राणां च एवं क्रियमाणे पदार्था आनुपूर्व्येण
अनक्रनेण युज्यन्ते तन्मन्त्राश्च अन्यथोत्तरपदार्थकरणान-
न्तर पूर्व्वेषु क्रियमाणेषु आनुपूर्व्ययोगो न स्यात् । “पौर्ण-
मास्यां पौर्णमास्या यजेत” इत्यनेन वाक्येन पौर्णमासीशब्द
बोध्यानां तत्सग्बद्धानां त्रयाणां यागानां साङ्गानामेक-
कालप्रयोगोऽवगम्यते अतो यस्मिन्नेव क्षणे एकस्याधिश्र-
यणं कर्तव्यमापतति तस्मिन्नेवापरस्याधिश्रयणं कर्तव्यं
सदशव्यतया केवलं न क्रियते द्वितीये तु क्षणे न कश्चि-
द्धेतुर्येन पूरोडाशान्तरं नाधिश्रियेत अतः प्रथमं पदार्थं
सर्व्वेषां कृत्वा ततोद्वितीयादिः पदार्थः सर्व्वेषां कर्त्तव्यः ।
एवं बहुषु पधानेषु सर्व्वत्र पदार्थानुसमय एव न्याय्योन
काण्डानुसमयो इति स्थितम् । यत्र तु प्रधानविरोधो
भवति पदार्थानुसमये क्रियमाणे । तत्र काण्डानुसमय ए
वेति वाचनिकेन साहित्येन पदार्थानुसमयः प्राप्तोऽपि
प्रधानविरोधात्त्यक्तव्यः । पुरोडाशाङ्गं ह्यधिश्रयणादयः
तदङ्गं च क्रमः पदार्थानुसमयरूपः तदाश्रयणे च सुतप्त
कपालसंयोगात् पुरोडाशशोषप्रसङ्गः । न चाङ्गानु
रोधेन प्रधानबाधोयुक्तः । तेनातिबहुषु हविःष्वेकैकस्य
पुरोडाशस्याधिश्रयणं प्रथनमद्भिरभिमर्शनं चेत्यन्तं
काण्डानुसमयः कार्यः । यत्र तु नास्ति प्रधानबाघः
द्वित्रिचतुरादिहविःषु, तत्र भवतु पदार्थानुसमयः । दाह
सम्भवशङ्कायां तु उद्वासनमपि व्युत्क्रमेण कार्य्यम्
यदुक्तम् पूर्व्वस्य पदार्येकृते तस्मिन्नेव द्वितीयस्य क्रियमाणे
पूर्व्वस्य व्यवधानमिति तत् सहत्वविधिबलात्
परिह्रियते । एवं च सति वाजपेये आग्नेयैन्द्राग्नसारस्वती
वशापृश्निसप्तदशप्रजापत्येपु द्वाविंशतिसंख्येषु पशुष्वेक-
विंशत्या पदार्थेः समानासमानजातीयैर्व्यवधानमिष्यते
न न्यूनाधिकेः । अन्ये त्वसमानजातीयैरेव । अनेनैव
मुख्यक्रमप्रावृत्तिकक्रमावुक्तौ भवतः । तथाहि यत्र बहूनि
प्रधानानि भवन्ति तत्र यो मुख्यानां प्रधानानां क्रम
स्तेनैव क्रमेण तदङ्गानां क्रमोभवति यथा पौर्णमा-
सेष्ठ्यां प्रथममाग्नेययागः ततोऽग्नीषोमीययागः अत
आग्नेपस्य प्रथमं ग्रहणम् ततोऽग्नीषोमीयस्य, एवं
पृष्ठ २२९९
प्रोक्षणादावपि । अयं मुख्यक्रमः अनेन क्रमेण यद्यङ्गा
न्यनुष्ठीतन्ते तदाङ्गाना नियता प्रधानप्रत्यासत्ति
रनुगृहीता भवति एवं ह्यङ्गप्रधानयोर्यावदनुज्ञात-
मेव व्यवधानं भवति इतरथा तु पश्चाद्भाविनः प्रधानस्य
प्रथमाङ्गं क्रियमाणं प्रधानेनात्यन्तं व्यवहितं स्वात् ।
अथ प्रवृत्तिक्रम उच्यते यत्र बहूनि हवींषि भवन्ति
समानदैवतानि यथा वाजपेये पशवः तत्र चोपा
करणादयः संनिपातिनः प्रतिपश्वावर्तनीयाः । तेषां
चावृत्तिर्नैकस्य पशोः कार्त्स्न्येन कृत्वा परस्यापि तथैव
क्रियन्त इत्येवम् । किं तर्हि? सर्व्वेषामुपाकरणं यतः
कुतश्चित् पशोरारभ्य कृत्वा ततः सर्व्वेषां नियोजन
मित्युक्तम् । तत्र प्रथमे पदार्थे उपाकरणे अनियम एव
यतः कुतश्चित् पशोरारभ्य कर्त्तव्यः । द्वितीयश्च पदार्थो
नियोजनरूपः किं प्रथमो यत आरब्धः तत एवारम्भ-
णीयः? उत तत्राप्यनियम एवेति? तत्र क्रमनियमका-
रणानां श्रुत्यर्थपाठानामभावदनियमे प्राप्ते उच्यते प्रवृत्त्यैव
नियमः । प्रथमः पदार्थो येन क्रमेण कृतः सएव क्रम
उत्तरेष्वपि नियोजनादिषु नियम्यते । कुतः? पदार्थैः सह
प्रधानं कर्त्तव्यमिति वचनात् सर्व्वेपदार्थाः प्रधानकालान्न
विप्रक्रष्टव्याः कथं? पदार्थैः सह प्रधानस्य वचनम् यावता
“दर्शपूर्णमासाभ्यां यजेत प्राजापत्यैश्चरन्तः” इत्यादिषु प्रघा-
नमात्रं श्रूयते उच्यते, समीहितं भावयेद्यागेनेत्थमिति हि
यजेतेत्यस्यार्थः । तत्र यस्यामेव वेलायां स्वर्गो भावने
कर्तृत्वं प्रतिपद्यते तस्मिन् क्षणे करणेतिकर्त्तव्यते अपि
व्याप्रियेते । अयमर्थः नात्र प्रधानं कर्तव्यं श्रूयते किंतु
प्रधानेन स्वर्गः कार्य इति करणविभक्तिनिर्देशाद्यागेनेष्टं
कार्यमस्मिन्काले कुर्यादिति तेन स्वकार्यं सेतिकर्तव्य-
ताकेन कर्तुं शक्यते नान्यथा । तस्मात्त्रितयस्य फलकर-
णेतिकर्तव्यत्वस्य युगपद्यजेतेत्मनेन कर्तव्यतयोच्यते । ततोऽ
न्यथा करणेतिकर्तव्यताकत्वमेव न स्यात् न हि पश्चाद्भा-
वि करणं भवति । तथा भविष्यति भाव्ये भूते च करणे
असावेव दोषः न हि विनष्टं करणं भवतीति । तथा
करणेतिकर्तव्यतयोरपि मिथो विप्रकर्षे अयमेव दोषः । न
हि विनष्टमनागतं वानुग्राहकं भवति । तेन शब्दवस्तु
भ्यामेककालतैषां तयाणाम् । ततः प्रधाने सेतिकर्तव्यताके
एकस्मिन् क्षणे सह कर्तव्ये प्राप्ते सति एकः कर्ता बहूनि
प्रधानानि इतिकर्तव्यतो वा असमर्थः कर्तु, यौगपद्येने-
त्यवश्यम्मावी कियानपि विप्रकर्षः । ईदृशेनापि विप्रक-
र्षेण सहैव पदार्थाः कृता भवन्ति । प्रयोगवचनो हि
यावतः पदार्थातनुष्ठापयति तावद्भिरवर्जनीवतया यावान्
कालो व्याप्यते तावानेकः कालः तावति च काले
सर्वेषां कालो विधीयते न त्वेकस्मिन् क्षणे अशक्यार्थवि-
धिप्रसङ्गात् । तेन प्रत्यासत्तिरेतेषां साहित्यम् नैकक्षण-
वर्तित्वम् । यद्येवम् प्रयोगवचनेनैव क्रमस्य सिद्धत्वात् श्रु-
त्यादिभिः किं क्रियते? अनियतक्रमेणानुष्ठानं प्राप्नोतीति
क्रमनियमे तेषां व्यापारः । यस्मात्प्रयोगविधिर्नैकक्षणव-
र्त्तित्वं विधत्ते प्रत्यासत्तिमात्रम् । तस्मात् प्रधानं चिकी-
र्षितगमनागतं कृतं वा तेषां प्रधानार्थानामनुष्ठापकम्!
करिष्यमाणेन कृतेन वा प्रधानेन प्रत्यासत्तिमात्रमङ्गा-
नां तत्साहित्यम् नैकक्षणवर्तित्वम् । तत्राग्न्यन्वाधा-
नादीनां करिष्यमाणं प्रधानं निमित्तम् स्विष्टकृदादीनां तु
कृतम् । तेनैवमवस्यम्भाविनि विप्रकर्षे केचित्पदार्थाः
क्षणव्यवहिताः प्रधानेनापेक्ष्यन्ते केचिद्द्वाभ्यां क्षणाभ्यां
व्यवहिताः केचिद्बहुभिरिति । एवं वाजपेयपशुष्वपि
अग्न्यम्बाधानादि प्रागुपाकरणात् साधारण्यं सर्वपशूनां सह
अनुभूतम् । उपाकरणादयोऽपि संनिपत्योपकारका-
स्तन्त्रेणाविभवादावर्तयितव्या अपि साहित्येनैव पशुभि-
रनुभवितव्याः । यदैकस्योपाकरणम् तदैवेतरेषामपि कुतः?
सहचोदितत्वात्पशूनां साङ्गानाम् । तत्रैव सहानुभवि-
तव्ये सति यस्य पशोः प्रथममुपाकरणं क्रियते तस्य प्रा-
कृतेन पाटेन यद्यपि द्वितीयः पदार्थो नियोजनरूपः
स्थाप्यते तथापि सहवचनादेव एकविंशतिक्षणव्यवहितं
द्वितीयं पदार्थमाकाङक्षति । द्वितीयस्तु पशुर्विंशत्योपा-
करणक्षणैर्व्यवहितमेकेन प्रथमस्य पशोर्नियोजनक्षणेन च
व्यवहितं स्वीयं द्वितीयं पदार्थमाकाङ्क्षति । एवं तृती-
यादयोऽपि पशवः सजातीयविजातीयव्यवहितानात्मीया-
न् पदार्थानपेक्षते । अन्त्यस्तुविजातीयैः पूर्वोपाकृतानामेक-
विंशतेः पशूनां नियोजनक्षणैर्व्यवहितमेव द्वितीयं
पदार्थमपेक्षते । तदेवं संनिपत्योपकारकागालोच्य ईदृशी
एकविंशतिक्षणव्यवधानापेक्षा प्रधानानां नवति । ततश्च
यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुं तावद्भिर्व्यबधानमग-
त्यावश्यं कर्त्तव्यम् अतोऽभ्यधिकैस्तु न व्यवधातव्यम् ।
यद्येकं पदार्थमेकस्य कृत्वा द्वितीयोऽपि पदार्थस्तस्यैव
क्रियते ततः सहवधनं नोपपद्येत । एवं सर्वत्र तृती
यादिष्वपि पदार्थेषु योज्यन् । प्रथमपदार्थक्रम एव द्विती-
यादिष्वपि समाश्रयितव्यः इतरथा केषां चन ब-
पृष्ठ २३००
हूत्यप्यधिकैरपि क्षणैर्व्यवहितानि स्युः । न च तद्यु-
क्तम् । न चैवं केषांचिदल्पैर्व्यवधानं गुणो भविष्यतीति
वाच्यम् यथाधिकैर्व्यवधानेऽश्रुतकरणम् एवं न्यूनैरपि
व्यवधाने अश्रुतकरणमेव । तस्मादेकविंशतेः पशूनां साहि
त्यसम्पत्तये प्रयेगविधिनायं क्रमः पदार्थानां मिथ
एकविंशतिक्षणव्यवधानात्मकोऽपेक्षितः । स न्यूनेरधिकैश्च
व्यववाने बाध्येत । अतः सर्वेषां तुल्यप्रत्यासत्तिसिद्धये प्रथ-
मपदार्थक्रम एव द्वितीयादिष्वाश्रयणीय इति सिद्धम् ।
अत्राङ्गानां मिथः प्रत्यासत्तिर्नियमकारणम् मुख्यक्रमे
तु अङ्गानां प्रधानप्रत्यासत्तिरिति विशेषः । मुख्यक्रमप्र-
वृत्तिक्रमयोर्विरोधे च मुख्यक्रमो बलीयान् । तद्यथा
दर्शपूर्णमासयोः सांनाय्यधर्माः शाखाच्छेदनादयः पूर्वं
प्रवर्त्तन्ते पश्चादाग्नेयधर्माः, प्रदानं त्वाग्नेयस्य प्रथमम् पश्चा-
त्सांनाय्यस्य ततः स्विष्टकृदवदानं प्रयाजशेषाभिघारणं
प्राणदानं वेद्यामासादनादिकं च कि प्रकृत्तिक्रमात्
सांन्ताय्यस्य पूर्वं मवति? उत मुख्यक्रमादाग्नेयस्ये ति?
संदेहादनियमे प्राप्ते मुख्यक्रमो बलीयानित्युच्यते ।
अस्मिन्हि आश्रीयमाणे अल्पीयांसः प्रथमपदार्थाः प्रधा-
नाद्विप्रकृध्यन्ते अन्ये सर्वे संनिकृष्टा भवन्ति प्रवृत्तिक्रमे तु
बहूनां विप्रकर्षः । पूर्वं तु मुख प्रवृत्तिभ्यां बलीयसा
पाटक्रमेण मुख्यक्रमो बाध्यते प्राणदानादिषु पाठक्रमा-
भावात् प्रवृत्तिक्रमो मुख्यक्रमेण बाध्यते । अथ स्थानप्रमा-
णनुच्यते । साद्यस्क्रे “सह पशूनालभेत” इति (शत० २२, ३,
२८,) श्रूयते साहित्यं च सवनीयस्य स्थाने । तत्र किमु-
पाकरणादौ अनियमः? अथवाग्नीषोमीयस्य प्रथममुपा-
करणम्? अथवा सवनीयस्येति? । तत्र नियमकारणा-
भावादनियमे प्राप्ते प्रकृतिवद्वाग्नीपोमीयस्य प्राथम्ये प्राप्ते
उच्यते सवनोयस्वव प्रथममुपाकरणम् । अग्नीषोमप्रणय-
नानन्तरमग्नीषोमीयस्योपस्थानम् । स तेनोपस्थितोऽपि
सहालभ्यवचनेन तत्स्थानाच्चलितत्वादननुष्ठितोऽत्र तु
न तस्य किंचिदुसस्थापकमस्ति । सवनीयस्तु स्वस्थानाद-
प्रचलितः सन्नाश्विनग्रहणादुपस्थितत्वात्तदनन्तरमुपाक्रि-
यते । ततः साहित्यवचनादितरोपाकरणम् । अतः
सवनोयस्यैव प्राथम्यम । इतरयोस्तु कथं क्रमः? अनिपम
एव तयोरुपस्थाने विशेषाभावात् । अथवा प्रकृतिदृष्ट
पौर्वापर्यमसति बाधेऽनुग्रहीतव्यमित्यग्नीषोमीयमुपाकृ-
त्यानूबन्ध्योपाकरणमिति । तदेवं श्रुत्यथपठनस्थानमुख्य-
प्रवृत्तिसंज्ञानि षट प्रमाणानि क मनियमकारीण्यक्तानि
तेषां परस्परविरोधे च पूर्वं--पूर्वं बलवत् उत्तरमुत्तरं च
दुर्बलमिति । तदुक्तम् “श्रुत्यर्थपठनस्थानमुख्यासत्तिप्रवृत्ति-
भिः । एकाख्यातगृहीतानां नियतः कर्मणां क्रमः ।
विरोधे पारदौर्बल्यमेतेषामपि पूर्ववदिति” भा०
(पूर्व्ववत् श्रुतिलिङ्गादिवत्)
क्रमस्य विनियोगसाधनता जै० सू० भाष्ययोर्दर्शिता यथा
“क्रमश्च देशसामान्यात्” ३ । ३ । १२ सू०
“अथ किमेतावन्त्येव विनियोगकारणानि? । न,--इ-
त्य च्यते । किं च क्रमश्च देशसामान्यात्, क्रमवतामा-
नुपूर्व्येणोपदिश्यमानानां यस्य पर्याये यं धर्ममामनति
तस्य तं प्रति आकाङ्क्षा अनुमीयते, सत्यामाकाङ्क्षायामे-
कवाक्यभावः, तस्मात् ततो विनियोगः--इति । किमि-
होदाहरणम्? किं च प्रयोजनम्? । आनुपूर्व्यवतां
यागानामनुमन्त्रणेष्वाम्नातेषु उपांशुयाजस्य क्रमे “दब्धि-
र्नामासीति” समाम्नातः, तस्य आकाङ्क्षामुत्पाद्य तेन
एकवाक्यतां यात्वा तत एव विनियोगमर्हति--इति,
तथा च ऐन्द्राग्नं कर्म वियातसजातस्य अस्ति भ्रावृ-
व्यवतः, तस्य याज्यानुवाक्यायुगलमप्याम्नायते ऐन्द्राग्नम्,
“इन्द्राग्नी रोचनादिवः प्रवर्षणिभ्यः”--इत्येकम्, अपरं
“इन्द्राग्नी नवतिं पुरः श्लथद्वृत्तम्”--इति । तत्र
लिङ्गाद्विनियोगे सिद्धे विशेषविनियोगो भवति, पूर्वं
युगलं पूर्व्वस्य ऐन्द्राग्नास्य, उत्तरमुत्तरस्य--इति, एतत्
उदाहरणम् प्रयोजनञ्च” भा०
क्रमप्रकरणयोरेकत्र समवाये प्रकरणं बलीयः । क्रमसमा-
ख्ययोस्तु क्रमो वलीययान् “श्रुति--लिङ्ग वाक्य--प्रक-
रण--स्थान--समाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्” सू० ।
“श्रुतिर्द्वितीया क्षमता च लिङ्गं वाक्यं पदान्येव तु
संहतानि । सा प्रक्रिया या० कथमित्यपेक्षा स्थानं क्रमो
योगबलं समाख्या” पार्थसारथिमिश्रैर्विनियोगसाध-
कानां श्रुत्यादीनां लक्षणोक्त्या स्थानशब्दस्य क्रमवाच-
कतावगतेः । विवृतमेतत् तत्त्वबोधिन्यां यथा
“योगबलं प्रसिद्धावयवशक्ति--समाख्या योगार्थेन प्रवृत्तं
पदम् । यथा हौत्रमाध्वर्य्यवमौद्गात्रमिति । दर्शपौर्ण्ण-
मासादिषु याज्ययाजकपाठादयोघर्म्मा ऋग्वेदोक्ताहौत्र
संज्ञकाः, दोहननिर्व्वापादयो यजुर्व्येदोक्ता, आध्वर्य्यव
संज्ञकाः, स्तोत्रपाठादयः सामवेदोक्ता औद्गात्रसंज्ञकाः
पदार्था उक्ताः । तत्रास्यैते धर्म्मा इति नियामका-
भावात् स्वेच्छया सर्व्वेषां सर्व्वकरणप्रसक्तौ होतु-
पृष्ठ २३०१
रिदं हौत्रमिति प्रकृतिप्रत्ययरूपावयवशक्तिलभ्यार्थ
योगवलरूपसमाख्यया हौत्रादिकर्त्तव्यत्वं प्रतीयते ।
एवं, हौत्रं जुहोति औद्गात्रं जुहोतीत्यादौ” हौत्रा-
देर्होमकर्वृत्वं प्रतीयते । होता ऋग्वेदी अध्वर्थुर्य्यजु-
र्व्वेदा उद्गाता सामवेदी “अध्वर्त्यूद्गावृहोतारोयजुः-
सामर्ग्विदः क्रमादिति” कोषात् । न च समुदाये शक्तिः
प्रमाणाभावात् अतएवोक्तं भट्टपादैः “पाकन्तु पचिरेवाह
कर्त्तारं प्रत्ययोऽप्यकः । पाकशिष्टः पुनः कर्त्ता वाच्योनान्यस्य
कस्यचित्” । पाकशिष्टः पाकविशिष्टः”
शवरभाष्ये उदा० यथा “अथ प्रकरणस्य क्रमस्य च
विरोधे किमुदाहरणम् । राजसूयप्रकरणेऽभिषेचनी
यक्नमे शौनःशेफाख्यानादि आम्नातं, यदि प्रकरणं
बलवत् सर्वेषां, तदङ्गम्, यदि क्रमः, अभिषेचनीयस्यैव ।
किं तावत्प्राप्तम्?--तुल्यबले एते कारणे--इति । कुतः? ।
न तावत् विशेषमुपलभामहे, नावगच्छाम इदं वलीयः--इति ।
तस्मात् तुल्यवले एते कारणे--इति । अपि च प्रकरणं
वाक्येन बाधितं, तस्मात् बाध्येत क्रमेणापि--इति” ।
“एवं प्राप्ते ब्रूमः,--प्रकरणं क्नमात् बलीयः । कुतः! ।
अर्थविप्रकर्षात् । कोऽत्रार्थविप्रकर्षः! । प्रकरणवतः
साकाङ्क्षत्वात् तत्सन्निधानाम्नातेन परिपूर्णेनाप्यवक-
ल्पेत एकवाक्यत्वम्, न तु क्रमवतः, क्रमेण आम्नातेन,
अनेकस्याम्नायमानस्य सन्निधिविशेषाम्नानमात्रं हि
क्रमः तत्र सन्निधिविशेषाम्नानसामर्थ्यात् क्रमवतः
सन्निधावाम्नातस्यानुपलभ्यमानमेव आकाङ्क्षावत्त्वमस्ति
--इत्यवगन्तव्यम् । प्रकरणे तु प्रकरणवतः प्रत्यक्षम्,
न च प्रकरणवता क्रमवता च यौगपद्येन एकवाक्यता
सम्भवत्याम्नातस्य--इति विरोधः । तत्र प्रकरणे प्रत्यक्षं
साकाङ्क्षत्वं, क्रमआनुमानिको बाधितुमर्हति । साका-
ङ्क्षत्वात् एकवाक्यत्वम्, एकवाक्यत्वादभिधानसामर्थ्यं,
सामर्थ्यात् श्रुत्यर्थः--इति सन्निकृष्टः प्रकरणस्य श्रुत्यर्थो,
विप्रकृष्टः, क्रमस्य । तस्मात् क्रमप्रकरणयोः प्रकरणं
बलवत्तरम्--इति” ।
“अथ यदुक्तं,--वाक्येनापि हि तत् बाधितम्,
अतोऽम्येनापि तत् बाधितव्यम्--इति, नैतत्, बाधितस्यानु-
ग्रहो न्याय्यो, न बाधितं बाधितव्यम्--इति” ।
अथ क्रमसमाख्ययोर्विरोधे किमुदाहरणं! किं
बलवन्तरम्!--इति । पोरोड़ाशिकम्--इति समाख्याते
काण्डे सान्नाथ्यक्रमे “शुन्धध्वं दैवाज्याय कर्मणे”--इति
शुन्धनार्थो मन्त्रः समाम्नातः । तत्र सन्दिहते, किं
समाख्यानस्य बलीयस्त्वात् पुरोडाशपात्राणां शुन्धने विनि-
योक्तव्यः, (मन्त्रः) उत क्रमस्य बलीयस्त्वात् सान्नाय्यपात्रा-
णाम्?--इति । किं तावत्प्राप्तम्?--तुल्यबले एते कारणे
स्याताम् । कुतः? अविशेषात्, यदि वा समाख्यैव
बलीयसी, बाधितो हि क्रमः प्रकरणेनापि इति” ।
“एवं प्राप्ते ब्रूमः,--क्रमो बलीयात् । कुतः? । अर्थ-
विप्रकर्षात् । कः पुनरत्रार्थविप्रकर्षः? । निर्ज्ञाते प्रकर-
णेने केनापि सहैकवाक्यत्वे यत् सन्निधावाम्नायते,
तत्र आकाङ्क्षा परिकल्प्यते, नैकवाक्यतेत्यवगम्यते,
लौकिकश्च शब्दः समाख्या, न च, लोक एवंविधेषु
अर्थेषु प्रनाणम् । तस्मात् क्रमो बलीयान्”
विवृतमेतत् तत्त्वबोधिन्यां यथा
“स्थानप्रकरणयोर्यथा । पश्विष्टिसोसयागाबहवः
परस्परनिरपेक्षेणापि प्रत्येकं फलवन्तः समप्राधान्याः ।
ते च मिलिता राजसूयः । तन्मध्येऽभिषेचनीयाख्यः
कश्चित् सोमयागविशेषः तत्सन्निधौ अक्षदेवनादिकं
श्रूयते । यथा “अक्षैर्दीव्यति राजन्यं जिनाति शौनः-
शेफमाख्यापयतीति” जिनाति जयति । शौनःशेफं वह्वृच
ब्राह्मणे आम्नातं शुनःशेफमुनिविषयमुपाख्यानमिति
माधवाचार्य्यः । एतेन शुनः शेफमुनेश्चरित्रं पुराणप्रसि-
द्धमित्युदीच्यव्याख्यानं निरस्तं, वैदिके कर्म्मणि वैदिको-
पाख्यानस्यैवोचितत्वाच्च “शौनः शेफं शृणोतीति”
पाठकल्पनमपि कल्पनमेव माधवचार्य्यादिभिर्वेदज्ञैराख्यापय-
तीत्यस्य लिखितत्वात् । तत्र च सान्निध्यरूपस्थानबलात्
अक्षदेवनादेरभिषेचनीयाङ्गत्वं लभ्यते प्रकरणात्तु सर्व्वयागा-
त्मकराजसूयस्य इति कर्त्तव्यताकाङ्क्षया अक्षदेवनादयो-
विहिता इति । प्रकरणबलात् राजसूयाङ्गत्वमक्षदेवनादेः
राजसूयश्च बहुयागात्मक इति तत्र सर्व्वेषामङ्गत्वं, सर्व्वा-
ङ्गत्वञ्च राजसूयघटकीभूतसर्व्वयागजन्यफलशिरस्का
पूर्ब्बोपकारद्वारा सर्व्वोपकारकत्वम् । अत्र चाकाङ्क्षायाः
कॢप्तत्वाद्वाक्यलिङ्गश्रुतिरूपत्रितयकल्पनं व्यवधानम्
अभिषेचनीयस्याक्षदेवनादेराकाङ्क्षा नास्ति तस्य ज्योतिष्टोम-
विकृतित्वेन प्रकृतिवद्विह्नतिम्यायात् अतिदिष्टैः प्रकृ-
तीभूत ज्योतिष्टोमाङ्गैरेवेतिकर्त्तव्यताकाङ्क्षानिवृत्तेरिति
सन्निधिपाठबलात् आकाङ्क्षामुत्थाप्य तद्द्वारा वाक्यलिङ्ग
श्रुतीनां कल्पनीयतया चतुर्भिर्व्यवहितमङ्गत्वज्ञानमिति
प्रकरणाद्विलम्बेन ज्ञापकं स्थानं दुर्व्वकमिति । तस्वात्
पृष्ठ २३०२
प्रकरणात् सर्व्वयागात्मकराजसूयाङ्गमक्षदेवनादिक-
मिति । ननु सर्व्वाङ्गमभिषेचनीयाङ्गमेव वा उभयथापि
राजसूये तेषां कर्त्तव्यत्वाद्विचारोऽयमनुपयुक्त इति । न
च प्रत्येकराजसूये प्रत्येकयागकाले तेषामनुष्ठानार्थं
विचार इति वाच्यं तथा सति प्रत्येकाङ्गत्वेन प्रत्येक-
जन्यकलिकापूर्ब्बोपकारकतया फलशिरस्कापूर्ब्बानुपकार-
कत्वात् राजसूयाङ्गत्वानुपपत्तेः । न च कलिकापूर्ब्ब
द्वारैव फलशिरस्कापूर्ब्बोपकारकत्वमिति वाच्यं तत्तदङ्गा
पूर्वाणां प्रत्येकं षट्त्वस्य तोषाञ्च षट्कलिकापूर्ब्बं प्रति-
कारणत्वस्य कल्पनायां महागौरवात् । तस्माद्राजसूयाङ्ग-
त्वेनाक्षदेवनादीनां सकृदेनुष्ठानं तत्तदङ्गापूर्ब्बद्वारा फल
शिरस्कापूर्व्वोपकारकत्वं लाघवादितिचेत् सत्यं अक्ष-
देवनादीनाभभिषेचनीयाङ्गत्वे यत्र प्रधानतया स्वतन्त्रे-
णाभिषेचनीयानुष्ठानं तत्राप्यक्षदेवनादिकरणापत्तेर्वा-
रणार्थं विचारारम्भात् । अतएवाकाङ्क्षायाः कल्प्यत्वं
स्थानप्राप्तौ दोष इति सङ्गच्छते अन्यथा राजसूयाङ्गत्वेना
भिषेचनीयेऽपि तस्याः क्लप्तत्वात् । एवञ्चाभिषेचनीय
सन्निधौ पाठस्तत्काले कर्त्तव्यताज्ञापनार्थमिति ध्येयम् ।
स्थानसमाख्ययोर्यथा । बहुमन्त्रानुक्त्वा “एतत् पौरोडाशिकं
काण्डम्” इत्युक्तं पुरोडाशमन्त्रकाण्डे च “शुन्धध्वं दैवा-
ज्याय कर्म्मणे देवयाज्ययै” इति मन्त्रः पठितः तत्र च
शुन्धध्वमिति मन्त्रलिङ्गात् पात्रशोधने मन्त्रस्य विनियोग
प्रतीयते स च पुरोडाशस्येदं पौरीडाशिकमिति प्रकृति
प्रत्ययार्थरूपसमाख्याबलात् पुरोडाशकाण्डोक्तानामु-
च्छृङ्खलयज्ञादीनामपि कृत्स्न पुरोडाशपात्रशोधने प्रती-
यते अथ च सान्नाय्यहोससन्निधाने मन्त्रः श्रूयते यथा
“सान्नाय्यान् ग्रहान् गृह्णाति” शुन्धध्वं दैवाज्याय कर्म्मणे
देवयाज्यायै सान्नाय्येन जुहोति” इत्यादिदध्योदनरूपस-
न्निधानपाठात् स्थानबलात् सान्नाय्यपात्रशोधनाङ्गत्वम् ।
तथाहि पौरोडाशिकमित्यत्र प्रकृत्या पुरोडाश उच्यते
तद्धितेन च मन्त्रादिकलापरूपं काण्डमुच्यते तद्धितवा-
च्यकाण्डपदार्थमन्त्रादेः पुरोडाशसम्बन्धित्व तु न कस्या-
पि पदस्यार्थः, किन्तु समभिव्याहारलभ्यम् । तदुक्तम्
“नैतदेवं समाख्या हि न सम्बन्धाभिधायिनी । पाकं
हि पचिरेवाह कर्त्तारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः ।
कर्त्ता वाच्योनैकस्य कस्यचित्” । तथा च पौरडाशिकपदस्य
तन्ममन्त्रसान्निध्यं विना तद्धितवाच्यकाण्डपदार्थे मन्त्रे
पुरोडाशसम्बान्धत्व न लभ्यतं समाख्यान्यथानुपपत्त्या
पौरोडाशिकपदस्य मन्त्रसान्निध्यं कल्पनीयमन्यथा
समाख्याया अकिञ्चित्करत्वम् । सांनाय्यहोमस्यापि पुरोडा-
शकाण्डपातितया तत्सम्बन्धेऽपि समाख्यासम्भवाच्चेति
सान्नाय्येन मन्त्रस्य सान्निध्यं कल्प्यमिति प्रकरणादिक-
ल्पनाचतुष्टयमात्रव्यवहितमिति सिद्धं समाख्यातः स्थानं
बलवदिति । तदुक्तम् । “एकद्वित्रिचतुःपञ्चवस्त्वन्तरप्र-
काशनम् । लिङ्गादीनाञ्च वैषम्यं श्रुत्यपेक्षं विधीयते ।
बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा । मध्यमानान्तु
बाध्यत्वं बाधकत्वन्त्वपेक्षया” । स्थानसमाख्ययोर्विरोधे
पार्थसारथिमिश्रमाधवाचांर्य्यदेवनाथप्रभृतिभिरेवं व्या-
ख्यातम्” ।
पौर्व्वापर्य्यरूपक्रमोद्विविधः कालिकोदैशिकश्च तत्र वैदि-
ककर्म्मानुष्ठाने श्रुत्यादिभिः यः क्रमोनियमितः स सर्व्वोऽपि
कालिकः । दैशिकस्तु “क्रमान्मेषादयः, स्मृताः” एव
इत्यादौ राशिचक्रपूर्व्वापरदेशस्थितत्वात्तेषां दैशिकक्र-
मवत्त्वम् । “वृत्तानुपूर्व्व्ये च नचातिदीर्घे” कुमा०
इत्यत्रापि दैशिकक्रमः । क्वचित् उपदेशक्रमेण पदार्थानां
क्रमवत्त्वम् यथा “वर्ण्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा”
या० स्मृ० । अत्र ब्राह्मणादीनां वर्ण्णानां चतुर्ण्णां क्रमे-
णोपदेशात् तत्क्रमेण ब्राह्मणादीनाम् क्रमिकत्वम् ।
एवं “तासां वर्ण्णक्रमेणैव ज्यैष्ठ्यं पूजा च वेश्म च”
मनुवाक्ये “अध्वर्य्यूद्गातृहोतारो यजुःसामर्ग्विदः
क्रमात्” इत्यमरवाक्येच उपदेशक्रमात् क्रमवत्त्वम् । गर्भा-
धानादीनां संस्काराणासपदेशक्रमेणैव क्रमिकत्वम्
क्वचित् पदार्थगतोत् पत्त्यादिक्रमेणापि पदार्थक्रमोऽभि
धीयते इत्याद्यूह्यम् । सं एवम् लक्षक्रमव्यङ्ग्य असंलक्ष्य-
क्रमव्यङ्ग्य इत्यादावपि तथात्वम् ।
अत्र क्रमणे “सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः”
भा० व० ११८७ श्लो० । “न्यवर्त्ति तैरर्द्धनभःकृतक्रमैः”
नैष० । पादे “पदानि त्रीणि दैत्यैन्द्र! सम्मितानि पदा
मम” इत्युपक्रमे “त्रिभिः क्रमैरसन्तुष्टोद्वीपेनापि
न पूर्य्यते” भाग० ८ । १९ । १९ । बलिं प्रतिवामनोक्तिः ।
“अपि क्रमैरिमाल्लोकान् विश्वकायः क्रमिष्यति” तत्रैव
२६ श्लो बलिं प्रति शुक्रोक्तिः । सामर्थ्ये “क्रर्भ बबन्ध
क्रमितुं सकोष” भट्टिः क्रमं सामर्थ्यं बबन्ध चकार
क्रमितं क्रमं यत्सामर्थ्यं तच्चकारेत्यर्थः” जयम० ।
सानथ्यहतुव्यापारविशेष एव क्रमशब्दार्थ इति तु न्या-
य्यम् । अतएव न क्रमः सज्जीकृत आसीत्” “त्वया स-
पृष्ठ २३०३
ज्जीकृतक्रमेण स्थातव्यम्” “तद्ग्रहणार्थं मया क्रमः
सज्जीकृतः” “सिंहोऽपि क्रमं कृत्वा निः सृतः” इति च
पञ्चत० तत्परतैव । परिपाट्याम् “प्रचक्रमे वक्तुमनु-
ज्झितक्रमः” रघुः “नेत्रक्रमेणोपरुरोध सूर्य्यम्” रघुः ।
नेत्रक्रमेणांशुपरिपाट्या” मल्लि० । आनुपूर्व्ये “क्रमाच्चतस्रश्च-
तुरोर्ण्णवोपमाः” “रघुः क्रमाद्यौवनभिन्नशैशवः” रघुः ।
आनुपूर्ब्बी च वस्तुभेदात् भिन्ना तत्र शब्दस्यानुपूर्वी
अव्यवहितोत्तरोच्चार्य्यमाणत्वम् इतरस्य तु अव्यवहितो
त्तरकालवर्त्तित्वम् यथा प्रथमं शैशवं ततोयौवनं ततो
जरेति वयोविशेषाणां, विद्यानान्तु वेदपूर्ब्बकत्वमितर-
विद्यानां तथात्वात् । एवं पदार्थगतानुपूर्व्यविशेषः
यथायथमूह्यः । सच अयुगपद्भावः । “अर्थक्रियाकारित्वं च
क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः
समस्ति” सर्व्व० स० बौ० द० । “क्रमज्ञानं क्रमाभिधा-
नव्याप्तम्” दायभागः । अनुष्ठाने । “इत्थमस्य वितत-
क्रमे क्रतौ” माघः “विततक्रमे विततानुष्ठाने” मल्लि० ।
१० विन्यासे “उत्क्रान्तवर्ण्णक्रमधूसराणाम्” रघुः ।
“उत्क्रान्तवर्ण्णक्रमाः शीर्ण्णवर्ण्णविन्यासाः” मल्लि० ।
११ पङ्के च न० “क्रमः शक्तौ परीपाट्यां क्रमं
चरणपङ्कयोरितिविश्वोक्तेः पादे क्लीवतापि ।

क्रमक त्रि० क्रमं वेदपाठभेदमधीते वेद वा क्रमा० वुन् ।

१ वेदपाठविशेषरूपक्रमाध्यायिनि २ तद्वेत्तरि च ।

क्रमजित् पु० नृपभेदे “अनूपराजोदुर्द्धर्षः क्रमजिच्च सुदर्शनः”

भा० स० ४ अ० ।

क्रमज्या स्त्री ग्रहाणां स्पष्टाधिकारे सि० शि० उक्ते

घतुर्विंशत्यर्द्धजीवाभेदे तन्मानं तत्रोक्तं यथा
“तत्त्वाश्विनो नन्दसमुद्रवेदाश्चन्द्राद्रिषट्का गगनाङ्कनागाः
पञ्चाभ्ररुद्रास्तिथिविश्वतुल्या आद्यैर्निरुक्ता नखवाण-
चन्द्राः । नन्दावनीशैलभुवो दिगङ्कचन्द्रा हुताशग्रहपू-
र्णदस्राः । तुरङ्गषट्काकृतयः कुरामसिद्धाः शराष्टेषुयमाः
क्रमेण । गजाश्विभान्यङ्कशराष्टदस्रास्तुरङ्गसप्तग्रहलोच-
नानि । अम्भोधिकुम्भ्यभ्रगुणास्तुरङ्गशैलेन्दुरामा रसभू-
तदन्ताः । कुदन्तलोका द्वितुरङ्गदेवा गोऽभ्राब्धिलोकाः
कुगुणाब्धिरामाः । भुजङ्गलोकाब्धिगुणाः क्रमज्या” मू०
“इह हि स्पष्टीकरणप्रभृति सर्वकर्मार्घज्याभिः प्रतिपा-
द्यते । यतो ग्रहवलये कोऽप्यवधिभूतः प्रदेशोमध्य-
शब्देनोच्यते । तस्मान्मध्यसूत्रात् तिर्यक्स्थोग्रहो वलये-
ऽर्धज्याग्रे भवति । अतोऽर्धज्याभिः सर्वं कर्म । तत्र
भगणकलाङ्कितवृत्तचतुर्थांशे ईदृशान्येव चतुर्विंशति-
र्ज्यार्धानि भवन्ति” प्रमिता० । २४ क्रमज्याङ्काश्च यथा
२२५ । ४४९ । ६७१ । ८९० । ११०५ । १३१५ । १५२० ।
१७१९ । १९१० । २०९३ । २२६७ । २४३१ । २५८५ ।
२७२८ । २८५९ । २९७७ । ३०८४ । ३१७७ । ३२५६ ।
३३२१ । ३३७२ । ३४०९ । ३४३१ । ३४३८ ।
तासां तथामानं समर्थितं सू० सि० रङ्गनाथाभ्यां यथा
“राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते । तत्तद्वि-
भक्तलब्धोनमिश्रितं तद् द्वितीयकम् । आदोनैवं क्रमात्
पिण्डान् भक्त्वा लब्धोनसंयुताः । खण्डकाः स्युश्चतुर्विंश-
ज्ज्यार्धपिण्डाः क्रमादमी” सू० सि० ।
“एकराशिकलानामष्टादशशतानामष्टमोंऽशस्तत्त्वाश्विमितः
२२५ प्रथममाद्यं ज्यार्धं सम्पूर्णजीवार्धपिण्डकः कथ्यते
तदभिज्ञैः । ततः प्रथमज्यार्धात् तेन प्रथमज्यार्धेन भक्ता-
ल्लब्धेन हीनमन्यस्याप्रसङ्गात् प्रथमज्यार्धमनेन युक्तं तत्
प्रथमज्यार्धं द्वितीयकं ज्यार्धं भवति द्विगुणप्रथममे-
कोनम् । तृतीयादीनामानयनार्थमुक्तप्रकारमतिदिशति
आद्येनेति । प्रथमज्यार्द्धपिण्डेन । एवमुक्तरीत्या क्रमात्
सिद्धपिण्डान् भक्त्वा लब्धैरूनमाद्यं खण्डमनेन युताः
खण्डका असिद्धाव्यवहितसिद्धज्यार्धपिण्डा असिद्धपिण्डा
भवन्ति । यथा प्रथमखण्डं २२५ प्रथमभक्तं फलं १ तेन
हीमं खण्डं २२४ तेन युक्तं द्वितीयखण्डं ४४९ । तच्च
प्रथमभक्तं फलम् २ अर्धाधिकावयवस्यैकाधिकत्वेन ग्रह-
णस्य साम्प्रदायिकत्वात् । फलैक्येन ३ रीनं प्रथमम् २२२
अनेन द्वितीयखण्डो ४४९ युतस्तृतीयम् ६७१ । एवमिदं
प्रथमखण्डभक्तं फलम् ३ अनेन पूर्वफलैक्येन ३ युतं जातं
सर्व्वफलैक्यम् ६ अनेन प्रथमं खण्डं हीनम् २१९ अनेन
तृतीय ६७१ युतं चतुर्थम् ८९० । एवमिदं प्रथमखण्डभक्तं
फलं ४ पूर्व्वलब्धैक्येन ५ रीनं प्रथमखण्डरूपं २१९
ज्यान्तररूपखण्डकमतेन ४ हीनं २१५ चतुर्थ ८९० युतं
पञ्चमं ११०५ एवमग्रेऽपि । अथोक्तरोत्याऽसङ्ख्यखण्डानां
सम्भवात् खण्डनियममाह स्युरिति । एवं चतुर्वंशत्स-
ङ्ख्याका ज्यार्धपिण्डाः कार्या न तदधिकाः ।
“एकविंशाच्च विंशाच्च षष्ठात् पञ्चदशादपि । सप्तमाद्द्वादशात्
सप्तदशान्नार्धोत्तरं मतम्” इति ब्रह्मसिद्धान्तोक्तस्थलेऽर्धा-
धिकावयवस्यैकाधिकत्वेन न ग्रहणम् इतिध्येयम् ।
गणितस्याविकृतत्वात् सिद्धाः पिण्डाः कथं नोक्ताः? इत्यत
आह क्रमादिति । अमी सिद्धाः पिण्डाः क्रमात्
पृष्ठ २३०४
समनन्तरमेवोच्यन्ते । अत्रोपपत्तिः । समायां भूमौ वृत्तं
भगणकलाङ्कितं तिर्यगूर्ध्वाधरव्यासमितरेखाभ्यां चतुर्भागं
कार्यं तत्रोर्द्ध्वरेखासक्तपरिधिप्रदेशादुभयत्र समविभागं
विगणय तदग्रयोर्बद्धं सूत्रं वृत्ते द्विगुणविभागमितस-
म्पूर्णचापस्य सम्पूर्णज्या । अत्र गणिते ऊर्द्ध्वरेखातो
ऽर्द्धज्याया एव प्रयोजनात् तदर्घचापस्यज्यार्धमर्धज्या ।
एवं वृत्तचतुर्थांश ऊर्द्ध्वरेखातोऽभीष्टांशानां चापार्धाका-
राणामर्धज्या अमीष्टा गण्याः । तत्र भगवता स्वेच्छया
वृत्तचतुर्धांशे त्रिराशिमिते चतुर्विंशज्ज्याः कल्पितास्त-
ज्ज्ञानं तु वृत्ते चक्रकलानामङ्कितत्वात् तत्परिधिव्यासार्धं
त्रिराशिज्यान्तिमा ३४३८ । यदा भनन्दाग्निमितपरिधौ
३९२७ खवाणसूर्य १२५० मितो व्यासस्तदा चक्रकलापरि-
धौ क इत्यनुपातेन व्यासानयनम् । यथा चक्रकलाः
२१६०० खवाणसूर्य १२५० पुणाः २७०००००० भनन्दाग्नि
३९२७ भक्ता व्यासः ६८७६ एतदर्धमन्तिमा ज्या ३४३८ ।
अथ वृत्ते चापज्ययोर्विवेके तयोरतुल्यत्वमपि भगवता
कोऽपि वृत्तभागः समोऽस्त्यन्यथामलकादौ सर्षपाद्य-
वस्थानं न स्यादिति मत्वा तद्भागस्यज्या तत्तुल्यैवेत्युक्तम् ।
“वृत्तस्य षण्णवत्यंशो दण्डवद्दृश्यते तु सः” इति
शाकल्योक्तेः प्रथमज्या चक्रकलाद्वादशांशरूपैकराशिकला-
नामष्टमोऽंशस्तत्त्वाश्विमितः २२५ एतन्मितमेव प्रथमचाप-
मत एतदन्तरेणाभीष्टा ज्याश्चतुर्वंशत् । अथ चतुर्विंशति
जीवानां यथोत्तरमुपचयात् तदन्तररूपखण्डानां
यथोत्तरमपचयस्य वृत्ते ज्याङ्कनेन प्रत्यक्षत्वाज्ज्यान्तररूप-
खण्डानामन्तरं यथोत्तरमुपचितमिति द्वाविंशतित्रयो-
विंशतिचतुर्विंशतिज्यानामन्तरयोरन्तरमिदं परमं खण्डा-
न्तरं सूक्ष्मज्योत्पत्तिप्रकारेणावगतं १५ । १६ । ४८ ।
अथ यदि त्रिज्ययेदं खण्डकान्तरं तदा प्रथमज्यया
किमित्य नुपातेन फलप्रमाणयोः फलेनापवर्त्त्य प्रमाणस्थाने
तत्त्वाश्विनोऽनेन भक्तः प्रथमर्ज्या फलं पूर्व्वद्वितीय-
खण्डयोरन्तरम् । अनेन पूर्ब्बखण्डं हीनं द्वितीयं
खण्डं भवति । तत्र पूर्ब्बखण्डं प्रथमज्यातुल्यमेव ।
द्वितीयखण्डं प्रथमज्यायां युतं द्वितीयज्या । एवमस्या-
स्तत्वाश्विभागलन्धं द्वितीयतृतीयखण्डकयोरन्तरमनेन
द्वितीयखण्डमूनं तृतीयखण्डमित्यनेन द्वितीयज्या युता
तृतीयज्या । एवं चतुर्थ्याद्याः । तत्र पूर्बमर्धाभ्यधिकग्र-
हणेनोत्तरत्राधिकान्तरपातसम्भावनया क्वचित् क्वचिदर्धा-
भ्यधिकावयवस्यैकाधिकत्वेन ग्रहणम् इत्युपपन्नं श्लोक-
द्वयम्” रङ्ग० । उत्क्रमज्याङ्कास्तु ज्याशब्दे वक्ष्यन्ते

क्रमण पु० क्रामत्यनेन करणे ल्युट् । १ चरणे हेम० ।

२ यदुवंश्ये नृपभेदे “कृमिश्च क्रमणश्चैव धृष्णः शूरः
पुरञ्जयः” हरिवं० ३८ अ० । भावे ल्युट् । ३ पादन्यासे न० ।
“पृष्ठे त्वधर्म्मं क्रमणेषु यज्ञम्” भाग० ८, १०, २१, “पदै-
श्चतुर्भिः क्रमणेऽपि तस्य नः” नैष० ।

क्रमजटा स्त्री ऋग्वेदशब्दे १ ११ पृ० दर्शिते वेदपाठप्रकारभेदे ।

क्रमदण्डक पु० ऋग्वेदशब्दे १४११ पृ० दर्शिते वेदपाठप्रकारभेदे

क्रमदीश्वर पु० संक्षिप्तसारव्यारणकारके विद्वद्भेदे “संक्षिप्त-

सारमाचष्टे पण्डितः क्रमदीश्वरः” संक्षिप्रसारव्या० ।

क्रमपद पु० ऋग्वेदशब्दे १४११ पृ० दर्शिते “क्रमपारः क्रम-

पदः क्रमजटा क्रमदण्डकश्चेति चतुष्पारायणमित्युक्ते
वेदपाठप्रकारभेदे ।

क्रमपार पु० ऋग्वेदशब्दे १४११ पृ० दर्शिते वेदपाठप्रकारभेदे

क्रमपूरक पु० क्रमेण पूरयति वीजम् पूरि--ण्वुल् । वकवृक्षे

राजनि० तस्य पुष्पवृन्ते क्रमेण वीजपूरकत्वात्तथात्वम् ।

क्रमशस् अव्य० कारकार्थवृत्तेः क्रमात् + वोप्सायां शस् ।

क्रमं क्रमम्, क्रमेण क्रमेणेत्यादिकेऽर्थे “कामतस्तु
प्रवृत्तानामिमाःस्यु क्रमशोवराः” मनुः ।

क्रमसंग्रह पु० श्रीकृष्णतर्कालङ्कारकृते दायाधिकारिक्रम

ज्ञापके ग्रन्थभेदे ।

क्रमसन्दर्भ पु० अनुष्ठानज्ञानज्ञापके ग्रन्थभेदे ।

क्रमागत त्रि० क्रमेणागतः । १ कुलादिपरम्परया आगते

“तस्मिन् देशे य आचारः पाराम्पर्य्यक्रमागतः” मनुः
“अस्वतन्त्राः स्त्रियः सर्वाः पुत्रदासपरिग्रहाः । अस्वतन्त्र-
स्तत्र गृही यत्तु तस्य क्रमागतमिति” व्यव० त०
नारदः । २ पित्रादिक्रमेण प्राप्ते च “आगमोऽभ्यधिको भोगा-
द्विना पूर्ब्बक्रमागतात्” स्मृतिः । क्रमायातादयोऽप्यत्र

क्रमादि पु० वेत्त्यधीते वेत्यर्थे वुन् प्रत्ययप्रकृतिभूते पा० उक्ते

शब्दगणभेदे स च गणः “क्रम पद शिक्षा मीमांसा”

क्रमि पु० क्रम--इन् । कृमिपदार्थे । द्विरूपको० “आमाटो-

पापचीश्लेष्मशूलक्रमिविकारिणाम्” सुश्रु०

क्रमिक त्रि० क्रमादागतः ठन् । कुलक्रमागते । “आप्तैर-

लुब्धैः क्रमिकैस्ते च (कर्म्मन्ताः) कच्चिदनुष्ठिताः” भा०
स०५ अ० । क्रमोविद्यतेऽस्य ठन् । २ क्रमवर्त्तिनि । “क्रमि-
कं यन्नामयुगमेकार्थेऽन्यार्थबोधकम्” शब्दश० प्र०

क्रमिकण्टक न० क्रमौ कण्टकमिव तन्नाशकत्वात् । विडङ्गे

२ चित्राङ्गे (चिता) ३ उदुम्बरे च मेदि०
पृष्ठ २३०५

क्रमिघ्न न० क्रमिं हन्ति हन--ट १ विड़ङ्गे रत्नमा० । २

कृमिनाशकमात्रे त्रि० स्त्रियां ङीप् ।

क्रमिज न० क्रमिभ्योजायते जन--ड १ अगुरुचन्दने अमरः

२ लाक्षायां स्त्री रत्नमाला०

क्रमिशत्रु पु० क्रमेः शत्रुरिव । विड़ङ्गे रत्नमाला

क्रमु पु० क्रम उन् । गुवाके द्विरूपकोषः

क्रमुक पु० क्रम--उन् संज्ञायां कन् । १ पट्टिकालोध्रे २ गुवाक

वृक्षे ३ ब्रह्मदारुवृक्षे च अमरः ४ भद्रमुस्तके ५ कार्पासिका-
फले न० मेदि० अयं सालसादिगणे सुश्रुते उक्तः
“सालसाराजकर्ण्णखदिरकदरकालस्कन्दक्रमुकेत्याद्युक्रमे
“सालसारादिरित्येपः गुल्कुष्ठविनाशनः । मेहपाण्ड्वा-
मयहरः कफमेदोविशोषणः” सुश्रु० तद्गुणा उक्ता
“आस्वादितार्द्रकमुकाः समुद्रात्” माघः गौरा० ङीष् ।
६ गुवाके स्त्री शब्दरत्नमाला

क्रमेतर त्रि० ५ त० । क्रमात् वेदपाठप्रकारभेदात् भिन्ने । ततः

उक्था० तद्वेत्त्यरधीते वा ठक् । क्रामेतरक तद्वेत्तरि
तदध्येतरि च त्रि०

क्रमेल पुंस्त्री० क्रामति क्रम--विच् एलति अच् कर्म० । उष्ट्रे

स्वार्थे क । तत्रार्थे । उभयत्र जातित्वात् ङीष् ।

क्रय पु० क्री--भावे अच् । पणपूरणादिमूल्यदानेन विक्रेतुः

स्वत्वापनयनेन स्वत्वापादनव्यापारे (केना) । प्रतिरूपद्रव्य-
दानेन तथाचरणे तु न क्रयव्यवहारः इत्यतः द्रव्यपद-
मनूक्त्वा पणपूरणेत्युक्तम् । क्रयस्य स्वत्वहेतुत्वञ्च पूर्ब्ब-
स्वामिस्वत्वनाशादेव भवति सति तत्स्वत्वे सजातीयस्वत्वं
प्रति संजातीयस्वत्वस्य प्रतिबन्धकत्वेन क्रेतुः खतोत्पत्त्य
भावात् अतोमूल्यदानेन तत्स्वत्वापाकरणम् । तस्य च
स्वत्वहेतुत्वम् “सप्त वित्तागमा धर्म्याः दायोलाभः क्रयो-
जयः । विभागः संप्रयोगश्च सत्प्रतिग्रहएव च” स्मृतेः
“स्यामी ॠक्थक्रयसंविभागपरिग्रहाधिगमेषु” गोतम
स्मरणाच्च । क्रयादिरूपागमसहितभोगस्यैव स्वत्वे
प्रामाण्यं वीरमि० व्यवस्थापितं यथा
“सप्त स्थावरागमोपायान् प्रदर्शयं स्तत्र भुक्तेः प्रामाण्य-
माह वृहस्पतिः । विद्यया क्रयबन्धेन शौर्य्यभार्य्या-
न्वयागतम् । सपिण्डस्याप्रजस्यांशं स्थावरं सप्तधा मतम् ।
पित्र्यलब्धक्रयाधाने रिक्थशौर्य्यप्रवेदनात् । प्राप्ते सप्त-
विधे भोगः सागमः सिद्धिमाप्नुयात्” ।
विद्यया प्रातग्रहादिकप्रयोजिकया, खत्वोपाथःक्रयःप्र-
सिद्धः बन्धो बन्धकं सोपाधिकस्वत्वहेतुनष्टावधौ
चात्यन्तिकस्वत्वहेतुस्तदप्युत्तरत्र विवेचनीयम् । क्रय-
बन्धेनेति समाहारद्वन्द्व एकत्वम् । शौर्य्यागतं युद्धार्जि-
तम् । भार्य्यागतं विवाहकाले प्राप्तम् । अत्वयागतं पि
त्रादिक्रमोपात्तम् । अप्रजस्य सपिण्डस्यांशं रिक्थहरा-
न्तराभावे पिण्डदानाद्यधिकारितया प्राप्तम् । पित्र्ये-
त्यादिना प्रागुक्तानेव सप्तस्थावरागमोपायाननूद्य तत्र
भोगस्य प्रामाण्यं विधीयते । तत्र प्रवेदनं विवाहः । स एव
“क्रमागतः शासनिकः क्रयाधानागमान्वितः । एवं विधस्तु
यो भोगः स तु सिद्धिभवाप्नुयात् । संविभागक्रयप्राप्तं
पिवृलब्धञ्च राजतः । स्थावरं सिद्धिमाप्नोति भुक्त्या
हानिमुपेक्षया । प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिप-
न्थिनम् । तस्य तत्सिद्धिमाप्नोति हानिश्चोपेक्षया तथा ।
अध्यासनात् समारभ्य भुक्तिर्य्यस्याविघातिनी । त्रिंश-
द्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत्” ।
मूल्यं दास्यामीति मियमं कृत्वाऽपि ग्रहणादपि क्रयसि-
द्धिः यथाह विवादचि० कात्या० “पण्यं गृहीत्वा योमू-
ल्यमदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धि
वाप्लुयात्” अत्र विषये लेख्यपत्रकरणमाह वृहस्पतिः
“गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् । पत्रं
कायते यत्तुक्रयलेख्यं तदुच्यते” । तस्यानुशयकालश्च अनुशय
शब्देदर्शितः” । वैदिककर्म्माङ्गपरिक्रयादौ प्रायेण
यजमानस्यैवाधिकारः यथाह क्रयाधिकरणे जै० सू० भा०
“स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात्” ३ । ८ । १ सू० ।
“अस्ति परिक्रयः ज्योतिष्टोमे “द्वादशशतं दर्शपूर्ण-
मासयोः अन्वाहार्यम्” । तत्र सन्देहः किम् अध्वर्युणा
परिक्रेतव्या ऋत्विजः, उत स्वामिना? इति । किं
प्राप्तम्? समाख्यानात् अध्वर्युणा, इति प्राप्ते ब्रूमः,--‘स्वा-
मिकर्म परिक्रयः’ कस्मात्? कर्मणः तदर्थत्वात्, फलकामो
हि यजमानः यश्च फलकामः, तेन स्वयं कर्त्तव्यम्, स
यदि परिक्रीणीते, ततः स्वयं सर्वं करोति इति गम्यते,
अथ न परिक्रीणीते, न सर्व्वं कुर्यात् । तस्मात् स्वामी
परिक्रीणीते इति” शवरभाष्यम्
“वचनादितरेषां स्यात्” २ सू०
“किम् एष एबोत्सर्गः? न--इत्युच्यते,--‘वचनात्
इतरेषां स्यात्’ । यत्र बचनं भवति, तत्र बचनप्रा-
माण्यात् भबति परिक्रयः,--‘य एतामिष्टकाम् उपदध्यात्
स त्रीन् वरान् दद्यात्’--इति” भा० ।
सोमादिक्रयस्य द्रव्यसाध्यतया स्त्रीणां पित्रा विक्रीतत्वात्
पृष्ठ २३०६
स्वामिना च क्रीतत्वात् द्रव्यस्वामित्वाभावे यज्ञाधिकारित्वं
नास्तीत्याशङ्कायां सहपत्याऽधिकार इत्येतत् जै० ६ ।
१ । १० सूत्रादौ भाष्येच व्यवस्थापितं यथा
“द्रव्यवत्त्वात्तु पुंसां स्यात्, द्रव्यसंयुक्तं, क्रयविक्रया-
भ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्” १० सू० (पू०)
“पुंसां तु स्यात् अधिकारः, द्रव्यवत्त्वात्, द्रव्य-
वन्तो हि पुमांसो न स्त्रियः, द्रव्यसंयुक्त, च एतत् कर्म्म
‘व्रीहिहिर्यजेत, यवैर्यजेतं’--इत्येवमादि । कथम्?
अद्रव्यत्वं स्त्रीणां’ ‘क्रयविक्रयाभ्यां क्रयविक्रयसंयुक्ता
हि स्त्रियः, पित्रा विक्रीयन्ते, भर्त्त्रा च--क्रीयन्ते, विक्रीतत्वाच्च
पितृधनानामनीशिन्यः क्रीतत्वाच्च भर्तृधनानाम् ।
विक्रयो हि श्रूयते, ‘शतमधिरथं दुहितृमते दद्यात्,
“आर्षे गोमिथुनम्”--इति च । न च, एतत् दृष्टार्थे--सति
आनमनेऽदृष्टार्थं भवितुमर्हति । एवं द्रव्यैः समान
योगित्वं स्त्रीणाम्” भा० “तथाच अन्यार्थदर्शनम्” ११ सू०
‘या पत्या क्रीता सती “अथान्यैश्चरतिं--इति क्रीततां
दर्शयति” भा०
“तादर्थ्यात् कर्मतादर्थ्यम्” १२ सू० (आ० नि०)
‘आह, यदनया भक्तोपसर्पणेन वा कर्त्तनेन वा धनम्
उपार्जितं, तेन यक्ष्यते,--इति । उच्यते,--तदप्यस्वा न स्वं,
यदा हि सा अन्यस्य स्वभूता, तदा यत् तदीयं, तदपि
नस्यैव । अपिच, स्वामिनस्तया कर्म कर्त्तव्यं न तं
परित्यज्य स्वकर्मार्हति कर्तुम् । यत् तया अन्येन प्रका-
रेण उपार्ज्यते, तत् पत्युरेब स्वं भवितुमर्हति--इति ।
एवं च स्मरति, “भार्य्या दासश्च पुत्रश्च निर्द्धनाः सर्व
एव ते । यत्ते समधिगच्छन्ति, यस्य ते तस्य तद्धनम्”
इति’ भा०
“फलेत्साहाविशेषत्तु” (१३ सू० सि०) तुशब्दःपक्षं
व्यावर्त्तयति । न च एतदस्ति,--निर्द्धना स्त्री--इति,
द्रव्यवनी हि सा, फलोत्साहाविशेषात्, स्मृतिप्रमाण्यात्
अस्वया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात्
फलार्थिन्या यष्टव्यम्, यदि स्मृतिमनुरुध्यमाना परवशा
निर्द्धना च स्यात्, ‘यजेतं--इत्युक्ते सति न यजेत, तत्र
स्मृत्या श्रुतिर्बाध्येत । न च एतत्--न्याय्यम् । तस्मात्
फलार्थिनी सती स्मृतिमप्रगाणीकृत्य द्रव्यं परिगृह्णी-
यात् यजेत च--इति’ भा०
“अर्थेन च समवेतत्वात्” १४ सू०
अर्थेन च अस्याः समवेतत्रं भवति, एवं दानकाले
संवादः क्रियते,--“धर्म्मे च अर्थे च कामे च न अति
चरितव्यः’--इति । यत्तु उच्यते,--‘भार्यादयो निर्द्धनाः’-
इति स्मर्य्यमाणमपि निर्द्धनत्वम् अन्याय्यमेव, श्रुतिवि-
रोधात् । तस्मात् अस्वातन्त्र्यम् अनेन प्रकारेण उच्यते,
संव्यवहारप्रसिद्ध्यर्थम्” भा०
“क्रयस्य धर्म्ममात्रत्वम्” १५ सू० । (आ० नि०)
यत्तुक्रयः श्रूयते,--धर्म्ममात्रं तु तत्, नासौ क्रयः--इति,
क्रयो हि उच्चनीचपण्यपणो भवति । नियतं त्विदं दानं
शतमधिरथं, शोभनाम् अशोभनाञ्च कन्यां प्रति । स्मार्त्तं
च श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते । तस्मात्
अविक्रयोऽयम्--इति भा०
“स्ववतामपि दर्शयति” १६ सू०
‘पत्नी वै पारिणय्यस्य ईष्टे--पत्यैव गतमनुमतं क्रियते ।
तथा “भसदा पत्नीः सयाजयन्ति, भसद्वीर्या हि पत्नयः
भसदावा एताः परगृहाणाम् ऐश्वर्य्यमवरुन्धते” भा० ।
“स्ववतोस्तु वचनादैककर्म्यं स्यात्” १७ सू०
स्ववन्तावुभावपि दम्पती--इत्येवं तावत् स्थितम् । तत्र
सन्देहः,--किं पृथक् पत्नी यजेत, पृथक् यजमानः
उतसम्भूय यजेयाताम्! --इति । किं प्राप्तम्?--पृथक्त्वेन ।
कुतः? । एकवचनस्य विवक्षितत्यात्, उपादेयत्वेन कर्त्ता
‘यजेत’--इति श्रूयते तस्मात् एकवचनं विवक्ष्यते,--यथा
न द्वौ पुरुषौ सम्भूय यजेयाताम्, तथा अत्रापि द्रष्टव्यम् ।
एवं प्राप्ते व्रूमः,--“स्ववतोस्तु वचनात्तयोः सहक्रिया
एवं स्मरन्ति,--‘धर्म्मे चार्थे च कामे च नातिचरि-
तव्यः’--इति, तथा ‘सह धर्म्मश्चरितव्यः, सहापत्यम् उत्
पादयितव्यम्’--इत्युच्यते,--स्मृतिवचनेन श्रुतिवचनं युक्तं
बाधितुम्’ । न--इति व्रूमः,--इह किञ्चित् कर्म, स्त्रीपुं-
सवर्तृकमेव, यथा दर्शपूर्णमासौ--ज्योतिष्टोमः--इति,
यत्र पत्न्यवेक्षितेन यजमानावेक्षितेन च ऋतज्येन होम
उच्यते, तत्र अन्यतराभावे वैगुण्यम् ।
“ननु पुंसो यजमानस्य यजमानावेक्षितमाज्यं, स्त्रिया
यजमानायाः पत्न्यवेक्षितं भविष्यति’--इति । न--इति
आह,--नायम् ईक्षितृसंस्कारः, ईक्षितुः संस्कारो
यदि, तदैवं स्यात्, आज्यसंस्कारश्च अयं, गुणभूतौ ईक्षि-
तारौ, तत्र अन्यतरापाये नियतं वैगुण्यं, सर्वाङ्गोप
संहारी च प्रयोगवचनः । तत्र एतत् स्यात्,--स्त्रीयज-
माना पुमांसं परक्रेष्यात आज्यस्य ईक्षितारं पुमांश्च
स्त्रियन्त्ववेक्षित्रीम्--इति । तच्च न, पत्नीति हि यज्ञस्य
पृष्ठ २३०७
स्वामिनी इत्युच्यते, न क्रीता पत्नी--इति सम्बन्धि
शब्दोऽयं यजमानः--इति च स्वामी, क्रीतः । तस्मात्
स्त्रीपुंसयोरेकम् एवञ्जातीयकं कर्म्म--इति ।
“तत्र श्रुतिसामर्थ्यात्--‘यः--कश्चित्, यया कयाचित्
सह सम्भूय यजेत’--इति प्राप्ते इदम् उच्यते,--‘यस्त्वया
कश्चित् धर्म्मः कयाचित् सह कर्त्तव्यः, सीऽनया सह--
इति, तेन न श्रुतिविरोधः स्मृतेः--इति गम्यते । अथ
यदुक्तं,--केबलस्य पुंसोऽधिकारः केवलायाश्च स्त्रियाः,
‘यजेतं--इत्येकवचनस्य विवक्षितत्वात्--इति, तत्
परिहर्तव्यम् । इदं तावदयं प्रष्टव्यः--‘यजेत’--इत्ये-
कवचने विवक्षिते, षोड़शभिरृत्विग्भिः सहयागो
भवति इत्येवम् उच्यते, प्रतिकारकं क्रियाभेदः, याजमा-
नानेव पदार्थान् परिक्रयादीन् कुर्वन् ‘यजते’ इत्युच्यते
यजमानः, आध्वर्यवानेव कुर्वन् अध्वर्युर्यजति--इत्येवम्
उच्यते, यथा सम्भरणमेव कुर्वती स्थाली पक्तिं करोति--
इत्युच्यते, यस्य च कारकस्य य आत्मीयोव्यापारः, स
एकवचने विवक्षिते एकेन कर्त्तव्यो भवति--इति । एवं
चेत् यावान् व्यापारो यजमानस्य, स तावान् न सम्भूय
कर्त्तव्यः, एकेनैको याजमानेऽपरेणापरः । द्वादशे वा शते
एकेन षट्पञ्चाशत्, अपरेणापि षट्पञ्चाशत्--इति । इह
तु पत्नीव्यापारः अन्थ एव, न तत्र पत्नी प्रवर्त्तमाना
यजमानस्य एकत्वं विहन्ति, यथा अध्वर्युराध्वर्यवेषु प्रवर्त्त-
मानः । अवश्यं च सह पत्न्या यष्टव्यं, मध्यगं हि इदं
दम्पत्योर्धनं तत्र यागोऽवश्यं सह पन्न्या कर्त्तव्यः, इतरथा
अन्यतरानिच्छयां त्याग एव न संवर्त्तेत, तथाहि द्वितीयया
पत्न्या विना त्यागौनैवावकल्पते, यस्य द्वितीया पत्न्यस्ति,
तत्र क्रत्वर्थान् एका करिष्यति । कर्ष्टसंस्कारार्थेषु नैव
दोषः, सम्भवन्ति हि तानि सर्वत्र--इति” भा०
“लिङ्गदर्शनाच्च” १८ सू० ।
“लिङ्गं खल्वपि दृश्यते, ‘योक्त्रेण पत्नीं सन्नह्यति
मेखलया यजमानं निथुनत्वाय”--इति । यदि स्त्रीपुंसा-
येकब, योक्त्रस्य मेखलायाश्च विभागो वाक्यात् गम्यते,
मियुनसम्भषश्च, तदेतत् स्त्रीपुंससाधनके कर्म्मण्युपपद्य-
ते, न अन्यथा” भा०
“क्रीतत्वात्तु भक्त्या स्वामित्वमुच्यते” १९ सू०
“स्थितादुत्तरनुच्यते । तुशब्दः पक्षं व्यावर्त्तयति । नैतदस्ति,
यदुकं स्ववती स्त्री--इति, क्रीता हि सा, दृष्टार्थत्वात्
अधिरथशतदानस्य, अतो यदस्याः स्वामित्वम् उच्यते, तत्
भक्त्या यथा पूर्ण्णकोऽस्माकं वलीबर्द्दाताम् ईष्टे--इति,
एवं पत्न्यपि पारिणय्यस्य ईष्टे--इति” भा०
“फलार्थित्वातु स्वामित्वेनाभिसम्बन्धः” २० सू०
“नैतदस्ति, क्रयो मुख्यः, गौणं स्वामित्वम् इति,
फलार्थिनी हि सा, स्मृतिर्नादरिष्यते, स्मृत्यनुरोधात्
अस्वा स्यात्, स्ववती श्रुत्यनुरोधात्” भा०
“फलवत्तां च दर्शयति” २१ सू०
“सं पत्नी पन्या सुकृतेन गच्छतां यज्ञस्य धुर्यायु-
क्तावभूताम्, सञ्जानानौ विजहताम् अरातीर्दिवि
ज्यतिरजरमारभेताम्” इति दम्पत्योः फलं दर्शयति ।
तस्मात् अप्युभावधिकृतौ--इति सिद्धम्” शवरभाष्यम् ।
“शूद्रानीपैः क्रयक्रीतैः कर्म्म कुर्वन् पतत्यधः” स्मृतिः ।
क्रयनक्षपाणि मु० चि० पी० धा० वर्धितानि यथा ।
“क्रयर्क्षे विक्रयो नेष्टो विक्रयर्क्ष क्रयोऽपि न । पौष्णा
म्बुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः” मु० चि० ।
“अथ क्रयविक्रयनक्षत्रेषु परस्परनिषेधं वदन्क्रयवि-
क्रयनक्षत्राण्यनुष्टभाह क्रयर्क्षेइति । क्रयनक्षत्रे विक्रयो
न कार्यः, तथा विक्रयर्क्षे क्रयोऽपि न कार्यः,
नन्विदमयुक्तं विक्रयोनाम मौल्यं गृहीत्वा वस्तुदानं
क्रयोनाम मौल्यं दत्त्वा स्वग्रहणं यदा येन क्रयः कर्त्तव्यः
तदान्येग विक्रयोऽपि कर्त्तव्यस्तत्र क्रयविक्रयनक्षत्राणां
महाभेदादुभयविधमुहूर्त्तानुपपत्तिः उच्यते विक्रेत्रा
यदा मुहूर्तोविक्रयार्थं गृह्यते तदा क्रयिणोऽनुज्ञां लब्ध्वा
यावदिष्टं वस्तु स्वगृहात्पृथक् क्रियते, तत्कर्भ विक्रयशब्द-
वाच्यं यदा तु क्रयिणा क्रयमुहूर्त्तंप्राप्यते तदा विक्रेत्रेमू-
ल्यद्रव्यंदत्त्वा पृथक् कृतविक्रेतृवस्त गृह्यते तर्त्कमक्र
यशब्दवाच्यमिति मत्वात्र समाधिः । अथवा क्रयिविक्रेत्रो-
रन्यतरस्य कदाचित्मुहूर्तसम्भवोदुयोवनावश्य-
कत्वे । आवश्यकत्वे तु मुहूर्त्तगवेषणायां कालविल
म्बनिष्पत्तावन्येन तृतीयेन मुहूर्त्तविचारमनङ्गीकृत्य
समवस्तुप्राप्त्या वस्तुग्रहणसिद्धिसम्भवात् तदा विव्रेतु-
रेव मुहूर्त्तविचारः । एवं च क्रेतुरप्यवश्यविक्रेतव्यस्य
वस्तुतो यदा गृहीता सम्भवेतदैव मुक्षूर्तमनालोच्य वस्तु-
दानमावश्यकम् मुहूर्त्तविचारतः कालविलम्बे तावद्र-
व्यपाप्यनुपपत्तेः । तदा तु क्रयण एव मुहूर्त्तविचारः ।
मन्वेनमपि क्रयविक्रयनक्षत्राणां पार्थक्येनाभिधाना-
त्तयोः परस्परगतनिषेधो न युज्यते यथा राजदर्शन
विहितनक्षत्रेभ्योऽन्यनक्षत्रेषु राजदर्शनं निषिद्धमि-
पृष्ठ २३०८
त्यर्थाद्गम्यते, सर्वं “वाक्यं सावधारणं भवतीति” न्यायात्
उच्यते । क्रयनक्षत्रे क्रयः कार्य इत्युक्तेः बिक्रयस्य स्वतन्त्र
कर्मत्वात् तत्र क्रयर्क्षेनिषेधाभावः एवं विक्रयर्क्षेष्वपि
क्रयनिषेधाभावः तत्र निषेधे सत्यन्यनक्षत्राणां मध्यम-
त्वावगतेः कदाचित् क्रयनक्षत्राणां मध्यमत्वमङ्गीकृत्य
विक्रयस्य विहितमुहूर्त्तानुपलब्धौ तत्र मुहूर्त्तोमध्यमोऽपि-
ग्राह्यस्तदथेमपि वाचनिकस्तन्निषेधः अतः । क्रयविक्रयन
क्षत्रेभ्योभिन्ननक्षत्रेषु क्रयविक्रयौ मध्यमावित्य नुमिमः
निषेधस्य वाचनिकत्वमुक्तं दीपिकायाम् “यमादिशक्रा-
दिहुताशपूर्वावेष्टाः क्रये विक्रयणेऽतिशस्ताः । पौष्णाऽश्वि-
चित्राम्बुषवातकर्ण्णाः शस्ताः क्रये विक्रयणे निषिद्धाः” इति
अथ क्रयमुहूर्त्त उच्यते । तत्र पौष्णंरेवती अम्बुपः
शततारका अश्विनी वातः स्वाती श्रवणः चित्रा एतानि भानि-
क्रये शुभानि विक्रये निषिद्धानि च सम्मतिरत्रोक्तैव” ।

क्रयण न० क्री--भावे ल्युठ् । क्रये “वैश्यराजन्ययोः सोमे

न्यग्रोधस्तिभीनुपनह्येच्छन् भक्षाय क्रयणप्रभृत्यनुसोमम्”
कात्या० श्रौ० १०, ९, ३०, क्रयणप्रभृति (सोम) क्रयणादा
रभ्य” कर्कः । क्रयणस्येदम् छ । क्रयणीय क्रयणसम्बन्धि-
दिने । “अप्सूख्यभस्मावापनं क्रयणीयादौ” कात्या०
श्रौ० १६, ६, २३, आदौ कयणीयस्याह्नः” सं० व्या० ।

क्रयनियम पु० क्रवे नियमः । क्रेष्टविक्रेत्रोर्नियमभेदे । स च

नियमः “भूयसा वस्नमचरत् कनीयोऽविक्रीतो अकानिषं
पुनर्यन् । स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि
दुहन्ति प्रबाणम्” ऋ० ४, २४, ९, भाष्ये दर्शितो
यथा“अत्र ऋग्द्वेये संप्रदायविद्भिः पूर्वाचार्यैः केचित् श्लोकाः
पठ्यन्ते तएव लिख्यन्ते । “अल्पं यः पतिगृह्णाति
मूल्यं पण्येन भूयसा । स क्रेतारं पुनर्गच्छन्नविक्रीतस्त्वयं
मया । इति ब्रुवन् कामयते पुनर्मूल्यस्य पूरणम् । स
विक्रेता पुनर्मूल्यं भूयसा न प्रपूरयेत् । हीनं न लभते
वस्नंयदा विक्रीतवान् पुरा । यथासमयमेव स्यात्तयोर्न
पुनरन्यथा । अयं विक्रय एवेति समयश्चेत् कृतोभवेत् । अथ
मूल्यार्थमेतत् स्याद्विचार्यैव तु निर्णयः । इत्येवं समयो
ऽकारि तदा मूल्यं प्रपूर्यते । तत्मादादौ मया कार्य्यः ।
सभयोऽत्रेति चिन्तयत् । वामदेवो वशीकृथ शक्रं स्तोत्रेण
भूयसा । विक्रीणन् समयं चक्रैन्द्रं क इममित्यृव्वा ।
अतश्च द्व्यृच एकार्थो भूयसा वस्नमित्ययमिति ।
अयमर्थः प्रतिपाद्यते कश्चित् भूयसा भूम्ना पण्येन द्रव्येण
कनोयोऽल्पतरं वस्नं पसु मूल्पं धनमचरत प्राप्नोति पु-
नर्यन् क्रेतारं पुनर्गच्छन् स विक्रेतायमर्थो मयान विक्रीत
इति ब्रुवन् न कानिषं मूल्यपूर्त्तिं कामयते व्यत्ययेनोत्तम
पुरुषः । स विक्रेता भूयसा धनेन कनीयोऽल्पतरं मूल्यं
नारिरेचीत् क्रेतुः सकाशान्न रिक्तीकरोति न लभत
इत्यर्थः । दीना असमर्था दक्षाः समर्थाश्च वाणं वचनं
विप्रदुहन्ति यथोक्तं क्रयकाले तथैव लभन्ते”
“कैमं दशभिर्मभेन्द्रं क्रीणाति घेनुभिः यदा वृत्त्राणि
जंघनदथैनं मे पुनर्ददत्” ऋ० ४, २४, १०,
“मम मदीयमिदं स्वभूतमिन्द्रं धेनुभिः प्रीणयित्रीभिर्दश-
भिर्दशसंख्याकाभिः स्तुतिभिः कः क्रीणति क्रयं करोति
हे तदानींक्रेतारोयुष्माकं मध्य एवमपि समयः क्रियते
यदाऽयमिन्द्रो वृत्त्राणि त्वदीयान् शत्रून् जंघनत् हन्यात्
अथानन्तरमेवैनमिन्द्रं मे मह्यं पुनर्ददत् पुनर्दद्यात्” भा० ।
“निश्चित्य वस्त तन्मूल्यमुभयोः सम्मतौ शिवे! ।
परस्पराज्ञाकरणं क्रयसिद्धिस्ततो भवेदिति” । “क्रयसिद्धिर-
दुष्टानां गुणश्रवणतो भवेत् । विपर्यये तद्गुणानानन्थथा
भवति क्रयः” महा० नि० त०

क्रयलेख्य न० ६ त० । “गृहं क्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरा

न्वितम् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते
वृहस्पत्युक्तलक्षणे क्रयसूचकपत्रे (कवाला) ।

क्रयविक्रय पु० द्वि० व० । द्वन्द्वः १ क्रये विक्रये च । “आगम निर्ग-

मस्थानं तथा वृद्धिक्षयावुभौ । विचार्य्य सर्वपण्यनां
कारयेत् क्रयविक्रयौ । पञ्चरात्रे पद्मरात्रे पक्षे पक्षेऽथवा
गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः” मनुः ।
“आगमनियमोपयोगादेः पण्यानामनियतत्वात् अस्थिरा-
र्घाणां पञ्चरात्रे पञ्चरात्रे गते, स्थिरतरार्वाणां पक्षे पक्षे
गते बणिजामर्घविदां प्रत्यक्षं नृपतिराप्तपुरुषेण व्यबस्थां
(मूल्यस्य) कुर्य्यात्” कुल्लू० । “क्रयविक्रयानुशयश्च विबादः
स्यायिपालयोः” मनुः । क्रयसहितोविक्रयः शा० त० ।
२ क्रयसहितविक्रये । “देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।
नासन् कुतयुगे तात! तदा न क्रयविक्रयः” भा० व०
१४९ अ० । ३ तद्युक्ते बाणिज्ये “ऋणदानं तथाऽऽदानं
वस्तूनां क्रयविक्रयम् । न कुर्य्याद्गुरुणा सार्द्धं
शिष्योभूत्वा कथञ्चन” तन्त्रसा० ।

क्रयविक्रयानुशय पु० क्रये विक्रये चानुशयः पश्चात्तापः ।

मनूक्ते अष्ठादविवादान्तर्गते विवादभेदे । स च द्विविधः
क्रीतानुशयो विक्रीतानुशयश्च । अनुशयशब्दे १८६ पृष्ठे
तद्विवृतिः दृश्या । अधिकं कीतानुशमशब्दे वक्ष्यते ।
पृष्ठ २३०९

क्रयविक्रयिक पु० क्रयविक्रयाभ्यां जीवति ठत् । बणिग्जने

“वस्नक्रयविक्रयाट् ठन्” पा० क्रयविक्रयग्रहणं व्यस्तसमस्त
विषयम् तेन व्यस्तादपि ठन् । क्रयिक विक्रयिक तेन
जीविनि त्रि० ।

क्रयशीर्ष न० कपिशीर्ष + पृषो० । कपिशीर्षे त्रिका० ।

क्रयाक्रयिका क्रयसहितः अक्रयः शाक० स्वार्थे क

अतइत्त्वम् । क्रये अक्रये च ।

क्रयारोह पु० क्रयस्य क्रयार्थमारोहत्यत्र आ + रुह आधारे

घञ् चतुर्य्यर्थे ६ त० । हट्टे (हाट) हारा० ।

क्रयिक त्रि० क्रयेण जीवति क्रयात् व्य तादपि ठन् । बणिग्जने

“पर्य्यापतत् क्रयिकलोकमगण्यपण्येतित्यादि” माघः
क्रय + प्रयोजममस्त्यस्य ठन् । २ क्रेतरि “धनेन क्रयिको
हन्ति खादकश्चोपभोगतः । घातको बधबन्धाभ्याभित्येष
त्रिविधो बधः” भा० आनु० ११५ अ०

क्रय्य त्रि० क्रयाय क्रोतारः क्रणीयुरितिबुद्ध्या प्रसारितम्

क्रा--यत् “क्रय्यस्तदर्थे” पा० नि० । क्रयनिमित्तं हट्टे
प्रसारिते द्रव्ये “क्रय्यस्ते सोमो राजा इति क्रय्य इत्याह
सोमविक्रयी” शत० व्रा० ३, ३, ३, १,

क्रवण त्रि० क्रुङ--शब्दे ल्यु । १ स्तुतिकर्त्तरि “अत्रा न हार्द्दि

क्रवणस्य रेजते” ऋ० ५, ४४, ९, “क्रवणस्य स्तुतिकर्त्तुः”
भा० भावे ल्युट् । २ शब्दकरणे न०

क्रविष्ण, त्रि० क्रु--बा० इष्णुच् । क्रव्यादे राक्षसादौ “क्रव्यात्

क्रविष्णुर्विविनोतु वृक्णम्” ऋ० १, ८७, ४,

क्रविस् न० क्लब--इसुन्लस्यरः । मांसे क्रव्ये । “यदश्वस्य क्रविषो

गन्धोअस्ति” ऋ० १, ०६२, ९, १२, “क्रविषः मांसस्य” भा०

क्रव्य न० क्लव--यत् लस्य रः । आममांसे अमरः । “स्थपटगत-

मपि क्रव्यमव्यग्रमति” मालती० । “क्रव्यादाः प्राणिनां
क्रव्यं दुदुहुः स्वकलेवरात्” भाग० ४, १८, २३, । मांस-
भेदास्तद्गुणाश्च सुश्रुते उक्ता यथा
“अत ऊर्द्ध्वं मांसवर्गानुपदेक्ष्यामः तद्यथा--जलेशया
आनूपा ग्राम्याः क्रव्यभुज एकशफा जाङ्गलाश्चेति
षण्मांसवर्गास्तेषां वर्गाणामुतरोत्तरं प्रधानतमाः । ते
पुनर्द्विविधा जाङ्गला आनूपाश्चेति । तत्र जाङ्गलवर्गोऽ-
ष्टविधः तद्यथा--जाङ्गला विष्किराः प्रतुदा गुहा-
शयाः पसहाः पणेमृगा विलेशया ग्राम्याश्चेति । तेषां
जाङ्गलविष्किरौ प्रधानतमौ तावेणहरिणर्ष्यकुरङ्गकरा-
लकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो-
जाङ्गाला मृगाः कषाया मधुरा लघवो वातपित्तहरा-
स्तीक्ष्णा हृद्या वस्तिशोधनाश्च । कषायो मधुरो हृद्यः
पित्तासृक्कफरोगहा । संग्राही रोचको बल्यस्तेषा-
मेणो ज्वरापहः । मधुरो मधुरः पाके दोषघ्नोऽनल-
दीपनः । शीतली बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः ।
एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते । न कृष्णो
नच ताम्रश्च कुरङ्गः सोऽभिधीयते । शीतासृक्पित्तश-
मनी विज्ञेया मृगमातृका । सन्निपातक्षयश्वासका
सहिक्काऽरुचिप्रणुत् । लावतित्तिरिकपिञ्जलवर्त्तीरवर्त्ति-
कावर्त्तकनप्तृकावार्तीकचकोरकलविङ्कमयूरक्रकरोपचक्र-
कुक्कुटसारङ्गशतपत्रककुतित्तिरिकुरराहुकयवलकप्रभृतय-
स्त्याहणा विष्किरा लघवः शीतमधुराः कषाया
दोघशमनाश्च । संग्राही दीपनश्चैव कषायमधुरो लघुः ।
लावः कटुविपाकश्च सन्निपाते च पूजितः । ईषद्गुरू-
ष्णमधुरो वृष्यो मेधाग्निवर्द्धनः । तित्तिरिः सर्वदोषघ्नो
ग्राही वर्णप्रसादनः । हिक्काश्वासानिलहरो विशेषाद्गौ-
रतित्तिरिः । रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः ।
कफोत्थेषु च रोगेषु मन्दवाते च शस्यते । वातपित्तहरा
वृष्या मेधाग्निबलवर्द्धनाः । लघवः क्रकरा हृद्यास्तथा
चैवोपचक्रकाः । कषायः स्वादुलवणस्त्वच्यः केश्यो
रुचिप्रदः । मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियकार्श्यकृत् ।
स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः । वृंहणः
कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः । वातरोगक्षयवमी-
विषमज्वरनाशनः । कपोतपारावतभृङ्गराजपरभृत-
कोयष्टिककुलिङ्गगृहकुलिङ्गगोक्षोडकडिडिमाणकशतप-
त्रकमातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालह्वा-
लदूषकसुगृहीखञ्जरीटकहारीतदात्यूहप्रभृतयः प्रतु-
दाः । कषायमधुरा रूक्षाः फलाहारा मरुत्कराः ।
पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः । सर्वदोषक-
रस्तेषां भेदाशी मलदूषकः । कषायस्वादुलवणो गुरुः
कालकपोतकः । रक्तपित्तप्रशमनः कषायविशदोऽपि च ।
विपाके मधुरश्चापि गुरुः पारावतः स्मृतः । कुलिङ्गो
मधुरःस्निग्धः कफशुक्रविवर्द्धनः । रक्तपित्तहरो वेश्म-
कुलिङ्गस्त्वतिशुक्रलः । सिंहव्याव्रवृकतरक्ष्वृक्षद्वीपिमा-
र्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः । मधुरा
गुरवः स्निग्धा बल्या मारुतनाशनाः । उष्णवीर्य्या हिमा
नित्यं नेत्रगुह्यविकारिणाम् । काककङ्ककुररचाषभास-
शशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः । एते
सिंहादिभिः सर्वे समाना वायसादयः । रसवीर्य्यविपा-
पृष्ठ २३१०
केषु विशेषाच्छोषिणे हिताः मद्गुमूषिकवृक्षशायि-
कावकुशपूतिघासवानरप्रभृतयः पर्ण्णमृगाः । मधुरा
गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः । सृष्टमूत्रपुरीषाश्च
कासार्शःश्वासनाशनाः । श्वाविच्छल्यकगोधाशशवृषदंशलो-
पाकलोमशकर्ण्णकदलीमृगप्रियकाऽजगरसर्पमूषिकनकुल-
महाबभ्रुप्रभृतयो विलेशयाः । वर्चोमूत्रं संहतं
कुर्य्युरेते वीर्य्ये चोष्णाः पूर्ब्ब वत् स्वादुपाकाः । वातं हन्युः
श्लेष्मपित्ते च कुर्य्युः स्निग्धाः कासश्वासकार्श्यापहाश्च ।
कषायमधुरस्तेषां शशः पित्तकफापहः । नातिशीतल-
वीर्य्यत्वाद्वाते साधारणो मतः । गोधा विपाके मधुरा
कषायकटुका स्मृता । वातपित्तप्रशमनी वृंहणी
बलवर्द्धिनी । शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः ।
प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः । दुर्नामा-
निलदोषघ्नाः कृमिदूषीविषापहाः । चक्षुष्या मधुराः
पाके सर्पा मेधाग्निवर्द्धनाः । दर्वीकरा दीपकाश्च तेषूष्णाः
कटुपाकिनः । मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमा-
रुताः । अश्वाश्वतरगोखरोष्ट्रवस्तेरभ्रमेदःपुच्छकप्रभृतयो
ग्राम्याः । ग्राम्या वातहराः सर्वे वृंहणाः कफपित्त-
लाः । मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः ।
नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः । छगलस्त्व
नभिस्यन्दी तेषां पीनसनाशनः । वृंहणं मांसमौरभ्रं
षित्तश्लेष्मावहं गुरु । मेदःपुच्छोद्भवं वृष्यमौरभ्रंसदृशं
गुणैः । श्वासकासप्रतिश्यायविषमज्वरनाशनम् । श्रमा
त्यग्निहितं गव्यं पवित्रमनिलापहम् । औरभ्रवत्सलवणं
मांसमेकशफोद्भवम् । अल्पाभिस्यन्द्ययं वर्गो जाङ्गलः
समुदाहृतः । दूरे जनान्तनिलया दूरे पानीयगोचराः ।
ये मृगाश्च विहङ्गाश्च ते ऽल्पाभिस्यन्दिनो मताः ।
अतीवासन्ननिलयाः सभीपेदकगोचराः । ये मृगाश्च
विहङ्गाश्च महाभिस्यन्दिनस्तु तें । आनूपवर्गस्तु पञ्चविधः
तद्यथा कूलचराः प्लवाः कोशस्थाः पादिनो मत्स्या-
श्चेति । तत्र गजगपयमहिषरुरुचमरसृमररोहित
वराहखङ्गिगोकर्णकालपुच्छकोन्द्रन्यङ्क्वरण्यगवयप्रभृतयः
कूलचराः पशवः । वातपित्तहरा वृष्यामधरा
रसपाकयोः । शीतला बलिनः स्निग्धा मूत्रलाः कफवर्द्ध-
नाः । विरूक्षणी लेणनश्च वीर्योष्णः पित्तदूषणः ।
खाद्वम्ललवणस्तेषां गजः श्लेद्मानिलापहः । गवयस्य तु
मांसं हि स्निग्धं मधुरकामजित् । विपाके मधुरं
चापि व्यवायस्य तु वर्द्धनम् । स्निग्धोष्णमधुरो वृष्यो
महिषस्तर्पणो गुरुः । निद्रापुंस्त्वबलस्तन्यवर्द्धनो मांस-
दार्ढ्यकृत् । रुरुमांसं समधुरं कषायानुरसं स्मृतम् ।
वातपित्तोपशमनं गुरु शुक्रपवर्द्धनम् । तथा चमरमांसन्तु
स्निग्धं मधुरकासजित् । विपाके मधुरं चापि वातपित्त-
प्रणाशनम् । सृमरस्य तु मांसञ्च कषायानुरसं स्मृतम् ।
वातपित्तोपशमनं गुरु शुक्रविवर्द्धनम् । स्वेदनं वृंहणं
वृष्यं शीतलं तपणं गुरु । स्निग्धं श्रमानिलहरं वाराहं
वलवर्द्धनम् । कफघ्नं खङ्गिपिशितं कषायमनिलापहम् ।
पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् । गोकर्ण-
मांसं मधुरं स्निग्धं मृदु कफावहम् । विपाके मधुरञ्चापि
रक्तपित्तविनाशनम् । हंससारसक्रौञ्चचक्रवाककुररका-
दम्बकारण्डवजीवञ्जीवकवकबलाकापुण्डरीकप्लवशरारी-
मुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्कर-
शायिकाकोनालकाम्बुककुक्कुटिकामेघरावश्वेतचरणप्रभृतयः
प्लवाः संघातचारिणः । रक्तपित्तहराः शीता
स्निग्धा वृष्या मरुज्जितः । सृष्टमूत्रपुरीषाश्च मधुरा
रसपाकयोः । गुरूष्णमधुरः स्निग्धः स्वरवर्ण्णबलप्रदः ।
वृंहणः शुक्रलस्तेषां हंसो मारुतनाशनः । शङ्खशङ्ख-
नखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः । कूर्मकुम्भीर-
कर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः । शङ्खकू-
र्मादयः स्वादुरसपाका मरुन्नुदः । शीताः स्निग्धा हिताः
पित्ते वर्चस्याः श्लेष्मवर्द्धनाः । कृष्णकर्कटकस्तेषां बल्यः
कोष्णोऽनिलापहः । शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनि-
लपित्तहा । मतस्यास्तु द्विविधा नादेयाः सामुद्राश्च तत्र
नादेयाः । रहितपाठीनपाटलाराजीववर्भिगोमत्स्य-
कृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्राप्रभृतयो नादेयाः ।
नादेया मधुरा मत्स्या गुरवोमारुतापहाः । रक्तपित्तकरा-
श्चोष्णा वृष्याः स्निग्धाल्पवर्चसः । कषायानुरस्तेपां शष्प-
शैवालभोजनः । रोहितो मारुतहरो नात्यर्थं पित्तको-
पनः । पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः ।
दूषयेदम्लपित्तन्तु कुष्ठरोगं करात्यसौ । मुरलो वृंहणो
वृष्यः स्तन्यश्लेष्मकरस्तथा । सरस्तडागसम्मृताः स्निग्धाः
स्वादुरसाः स्मृताः । महाह्रदेषु बलिनः स्वल्पेऽम्मस्यबलाः
स्मृताः । तिमिमिङ्गिलकुलिशपाकमत्स्यनिरालकमन्दि-
वारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः
सामुद्राः । सामुद्रा गुरवः म्निग्धा मधुरा नातिपित्तलाः ।
उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्द्धनाः ।
बलावहा विशेषेण मांसाशित्वात्समुद्रजाः । तेषामप्य-
पृष्ठ २३११
निलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ । स्निग्धत्वात् स्वादु-
पाकत्वात् तयोर्वाप्या गुणोत्तराः । नादेया गुरवो
मध्ये यस्मात्पुच्छास्यचारिणः । सरस्तडागजानान्तु
विशेषेण शिरोलघु । अदूरगोचरा यस्मात्तस्मादुत्सोदपा-
नजाः । किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते ।
अधस्ताद्गुरवो ज्ञेया सत्स्याः सरसिजाः स्मृताः । उरोवि-
चरणात्तेषां पूर्वमङ्गं लघु स्मृतम् । इत्यानूपो महाभि-
स्यन्दिमांसवर्गो व्याख्यातः । तत्र शुष्कपूतिव्याधितविष-
सर्पहतदिग्धविद्धजीर्ण्णकृशबालानामसात्म्यचारिणां
मांसान्यभक्ष्याणि यस्माद्विगतव्यापन्नापहतपरिणताल्पासंपू-
र्ण्णवीर्य्यत्वाद्दोषकराणि भवन्ति । अरोचकं प्रति-
श्यायं गुरु शुष्कं प्रकीर्त्तितम् । विषव्याधिहतं मृत्युं,
बालं छर्दिञ्च कोपयेत् । कासश्वासकरं वृद्धं त्रिदोषं
व्याधिदूषितम् । क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् ।
एभ्योऽन्येषामुपादेयं मांसमिति । स्त्रियश्चतुष्पादेषु पुमांसो
विहङ्गेषु महाशरीरेष्वल्पशरीरा अल्पशरीरेषु महाश-
रीराः प्रधानतमा एवमेकजातीयानां महाशरीराः
प्रधानतमाः । स्थानादिकृतं मांसस्य गुरुलाघवमुपदे
क्ष्यामः तद्यथा--रक्तादिषु शुक्रान्तेषु घातुषूत्तरो-
त्तरेषु गुरुतरास्तथा सक्थिस्कन्धक्रोडशिरःपादकर-
कटीपृष्ठचर्म्मकालेयकयकृदन्त्राणि । शिरःस्कन्धं
कटीपृष्ठं सक्थिनी चात्मपक्षयोः । गुरुपूर्वं विजानीयाद्धात-
वस्तु यथोत्तरम् । सर्वस्य प्राणिनो देहे मध्यो गुरुरुदा-
हृतः । पूर्वभागो गुरुः पुंसामधोमागस्तु योषिताम् ।
उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् । पक्षोत्-
क्षेपात्समो दिष्टो मध्यभागस्तु पक्षिणाभ् । अतीव रूक्षं
मांसन्तु विहङ्गानां फलाशिनाम् । वृंहणं मांसमत्यर्थं
खगानां पिशिताशिनाम् । मत्स्याशिनां पित्तकरंवातघ्नं
धान्यचारिणाम् । जलजानूपजा ग्राम्याः क्रव्यादेकश-
फास्तथा । प्रसहाविलवासाश्च ये च जाङ्गलसंज्ञिताः ।
प्रतुदा विष्कराश्वैव लघवः स्युर्य्यथोत्तरम् । अल्पाभि-
स्यन्दिनश्चैव यथापूर्वमतोऽन्यथा । प्रमाणाधिकास्तु
स्वजातौ चाल्पसारा गुरवश्च । सर्वप्राणिनां सर्वशरीरे-
भ्योये प्रधानतमा भवन्ति यकृत्प्रदेशवर्त्तिनस्तानाददीत
प्रधानलाभाभावे मध्यमवयस्कं साद्यस्कमक्लिष्टमुपादेयं
मासमिति । भवति चोत्र । वयः शरीरावयवाः स्वभावो
धातवः क्रियाः । लिङ्ग पमाणं संस्कारो मात्रा चास्मिन्
परीक्षिता” ।

क्रव्यघातन पु० क्रव्यस्य क्रव्यार्थ घात्यतेऽसौ हन--स्वार्थे

णिच्--कर्म्मणि ल्युट् चतुर्थ्यर्थे ६ त० । १ मृगमात्रे
शब्दच० । क्रव्यार्थं घातयन्ति घाति--ल्यु । मांसार्थघातके
रुरुरूपे मृगभेदे “यत्र निपतितं पुरुषं क्रव्यादा नाम
रुरवस्तं क्रव्येण घातयन्ति” भाग० ५ । २६ । १५ तस्य
तथात्वोक्तेः “क्रव्येण निमित्तेन मांसार्थम्” श्रीधरः

क्रव्यभुज् पु० क्रव्यं भुङ्क्ते भुज--क्विन् । १ क्व्यादे राक्षसे

२ क्रव्यादे रुरुरूपे मृगभेदे च “ससैन्धवः क्रव्यभुगेणमांस
योर्हितः ससर्पिः समधुः पुटाह्वयः” सुश्रु० । ३ मांसभो-
क्तृमात्रे त्रि० ।

क्रव्याद् पु० क्रव्यं मांसमत्ति अद--क्विप् । १ राक्षसे २ मांसा-

शिनि त्रि० मेदि० “क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्ग-
मः । रघुः” क्रव्यादः गृध्रादयः” मल्लि० “क्रव्याद्भिश्च हतस्या-
न्यैः” मनुः “क्रव्याद्भिः व्याघ्रादिभिः” कुल्लू० “श्वशृ-
गालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव” मनु० च ३ शवदा-
हके अग्निभेदे “अपाग्ने अग्निमामादं जहि निष्क्रव्यादं
सेधैत्ययं वा आमाद् येनेदं मनुष्याः पक्त्वाऽश्नन्ति अथ
येन पुरुषं दहन्ति स क्रव्याद् एतविवैतदुभावतोऽपहन्ति”
शत० ब्रा० १ । २ । १ । ४ । “हे अग्ने! गार्हपत्य ।
आमादमग्निमपजहि परित्यज तथा क्रव्यादमग्निं निःसेध
निःशेषं दूरे गमय” वेददी० “योऽग्निं क्रव्यात् प्रविवेश
यो गृहम्” ऋ० १० । १६ । १० क्रव्याद्योनिप्राप्तिश्च गुरुत-
ल्पगमनमहापातकावशेषवतां मनूक्ता यथा “तृणगुल्म-
लतानाञ्च क्रव्यादां दंष्ट्रिणां तथा । क्रूरकर्म्मकृताञ्चैव
शतशो गुरुतल्पगः”

क्रव्याद पु० क्रव्यमत्ति अद--अण् उप० स० । १ राक्षसे २ मांस-

भोजिमात्रे त्रि० स्त्रियां टाप् सि० की० । “क्रव्यादः
शवभक्षणे” विधानपा० ५०पृ० उक्ते ३ बह्निभेदे ।
वह्नेश्च क्रव्यादत्वं भा० आ०७ अ० भुगुणा सर्वभक्षत्वे-
शापे अग्नये दत्ते तत्परिहारार्थं शवरूपक्रव्यादनादुक्तम्
“कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा । हुतभुक् सर्व-
लोकेषु सर्व्वभक्षत्वमेष्यति” इत्युपक्रमे “लोकानामिह
सर्व्वेषांत्वं कर्त्ता चान्त एव च । त्वं धारयसि
लोकांस्त्रीन् क्रियाणाञ्च पवर्त्तकः । स तथाकुरु लोकेश ।
नोच्छिद्येरन् यथा क्रियाः । कस्मादेवं विमूढस्त्वमीश्वरः
सन् हुताशन! । त्वं पवित्रं सदा लोके सर्व्वभूतगतिश्च
ह । स त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । अपाने
ह्यर्च्चिषोयास्ते सर्वं भोक्ष्यन्ति ताः शिखिन्! । कन्यादा
पृष्ठ २३१२
च तनुर्या ते स सर्वं भक्षयिष्यति । यथा सूर्य्यांशुभिः
स्पृष्टं सर्वं शुचि विभाव्यते । तथा त्वदर्च्चिर्भिर्दग्धं सर्वं
शुचि भविष्यति । त्वमग्ने! परमं तेजः स्वप्रभावाद्वि-
निर्गतम् । स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो! ।
देवानां चात्मनो भागं गृहाण त्व मुखे हुतम्” ।
क्रव्याच्छब्ददर्शिते शत० व्रा० वाक्येन ऋग्वेदवाक्येन च
तस्य कर्म्मादावपसारणमुक्तम् । “क्रव्यादमग्निं प्रहिणो-
मि दूरं यमराज्ञो गच्छतु रिप्रवाहः । इहैवायमितरो
जातवेदा देवेभ्योहव्यं वहतु प्रजानन्” ऋ० १०, १६, ९, भा०
“आहिताग्निमरणे एतदादिके द्वे ऋचौ औपास-
नोद्वासने विनियुक्ते तत्र प्रथमायाः पूर्ब्बार्द्धन दक्षिणस्यां
दिशि चतुष्पथादावौपासनाग्निं निरस्यति उत्तरे
शान्तिकर्म्मार्थमादत्ते । “क्रव्यादं क्रव्यमामिषं तदत्तीति तीव्र-
मग्निं दूरं विप्रकृष्टे देशे प्रहिणोमि प्रगमयामि । रिप्रं
पापं तस्य वोढा सोऽग्निः यमराज्ञो यमो राजा येषां
तान् यमराजकान् प्रदेशान् गच्छतु प्राप्नोतु अथ
शान्तिकर्म्मार्थमुपासने इतरः क्रव्यादादन्यो जातवेदा अग्नि-
रिहैव देशे देवेभ्यो देवार्थं हव्यं वहतु” भाष्ये दक्षि-
णपश्चिमदेशे तस्याग्नेः प्रक्षेपणोक्तेः । ४ मांसभक्षके मृगभेदे
“यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण
घातयन्ति” भाग० ५, २६, १५, ।
क्रव्यादाश्च व्याघ्रदयस्तद्योनिप्राप्तिश्च अभक्ष्यभक्षणपा-
पात् भवतीति मनुनोक्तं “हिंस्रा भवन्ति क्रव्यादाः
कृमयोऽभक्ष्यभक्षणात्” क्रव्यादा व्याघ्रादयः कुल्लू० क्रव्या-
दिन्पभृतयोऽप्यत्र स्त्रियां ङीप् ।

क्रशि नामधातुः कृशं करोति णिच् ऋतोरः । क्रशयति ते

अचक्रशत् त । क्त क्रशितः । “क्रशितं शरीरमशरीरशरैः”
माघः । क्रशितं कृशीकृतम् ।

क्रशिमन् पु० कृशस्य भावः दृढ़ा० इमनिच् ऋतोरः । कार्श्ये

“सुभ्रुवां क्रशिमशालिनि मध्ये” माघः ।

क्रशिष्ठ त्रि० अतिशयेन कृशः इष्ठन् ऋतोरः । अतिशय

कृशे । ईयसुन् । क्रशीयस् तत्रार्थे त्रि० । स्त्रियां ङीप् ।

क्रा त्रि० क्रम्--विट् मस्यात् । क्रान्तरि उदधिक्राः ।

क्राकचिक त्रि० क्रकचः करपत्रं तत्क्रियया जीवति ठक् ।

करपत्रक्रियोपजीविनि (कराति) । “मायूरकाः क्राकचि-
काः वेवकारुचकास्तथा” रामा० अयोध्याकाण्डे ८३ अ०

क्राथ पु० क्रथदेशानां राजा अण् । १ राहुग्रहावतारे दक्षि-

णापथेश्वरे नृपभेदे “ग्रहन्तु सुषुये यन्तु सिंहिकार्केन्दु
मर्द्दनम् । स क्राथ इति विख्याता बभूव मनुजाधिपः”
भा० आ० ६७ अ० । “तमन्वयुर्नृपाश्चैव दक्षिणापथवासि-
नः । क्राथोऽंशुमान् श्रुतर्वा च वेणुदारिश्च वीर्य्यवान्”
हरिवं० ११८ अ० । २ रामसेनापतिवानरमेदे च “नलनीला-
ङ्गदक्राथमैन्दद्विविदपालिता । ययौ सुमहती सेना
राघवस्यार्थसिद्धये” भा० व० २८३ अ० । ३ नागभेदे “ह्लादः
क्राथः शितिकण्ठोग्र्यतेजास्तथा नागौ चक्रमन्दातिचण्डौ”
भा० मौ० ४ अ० । क्रथ--भावे घञ् । ४ मारणे पु० हेम०

क्रान्त पुंस्त्री क्रम--कर्त्तरि क्त । १ वोटके स्त्रियां जाति-

त्वेऽपि संयोगोपधत्वात् टाप् । कर्म्मणि--क्त । २ आक्रा-
न्ते ३ आरूढे च त्रि० “क्रान्तं रुचा काञ्चनवप्रभाजा”
माघः “अश्वक्रान्ते! “रथक्रान्ते! विष्णुक्रान्ते!
वसुन्धरे!” स्नानमन्त्रः । ४ पादेन्द्रिये न० । “मनसीन्दुं
दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम्” मनुः “क्रान्ते
पादेन्द्रिये” कुल्लू० । भावे--क्त । ५ क्रमणे न० । कृदभिहि-
तो भावोद्रव्यवत् प्रकाशते” इत्युक्तेः ६ क्रमणकर्म्मणि
न० “विष्णोः क्रान्तमसीतीमे लोकाः विष्णोर्विकमणं
विष्णोर्विक्रान्तं विष्णोः क्रान्तम्” शंत० ब्रा० ५ । ४ । २ । ६ ।
कर्त्तरिक्त । ७ वृहत्यां स्त्री राजनि० ८ अतीते त्रि० क्रान्तदर्शी

क्रान्तदर्शिन् त्रि० क्रान्तमस्मद्बाह्येन्द्रियविषतामतिक्रान्तं वस्तु

भूतादि सर्व्ववस्तु द्रष्टं शीलमस्य दृश--णिनि । १ अतीतादि
वस्तुद्रष्टरि २ सर्वज्ञे ब्रह्मणि न० कविशब्दे १८३१ पृ० दृश्यम् ।

क्रान्ति स्त्री० क्रम--भावे क्तिन् । १ पादविक्षेपे २ गतौ च हेम०

अयनशब्दे २२९ पृ० दर्शिते ज्योतिषप्रसिद्धे अपमशब्दार्थे-
तत्रानुक्तमविकं सू० सि० रङ्गनाथाभ्यां दर्शितं यथा
“ननु गोले वृत्ते द्वादशराशीनां सत्त्वादन्यथा चक्रकला-
नुपपत्तेरित्यत्रैकवृत्ताभावात् कथं राश्यङ्कनं? राशिविभा-
गानुपपत्तिश्च अन्तरालभागस्याकाशात्मकत्वादित्यतो वृत्त-
कथनच्छलेन पूर्वोक्तं स्पष्टयन् सूर्य्यस्तद्वृत्ते भगणभोगं
करोतीत्याह” रङ्ग० । “अयनादयनं चैव कक्षा तिर्बक्
तथाऽपरा । क्रान्तिसञ्ज्ञा तया सूर्य्यः सदा पर्येति
भासयन्” सू० सि० । “अयनस्थानमारभ्यायनं परिवर्त्तनं तदयन-
स्थानपर्यन्तम् । चकार आरम्भसमापत्योर्भिन्नाथनस्थानमि-
रासार्थकः । अपरा गोले आधारवृत्तप्रमाणा वृत्तरूपा कक्षा
तथा राश्यङ्कमार्गेण । एवकारोऽन्यमार्गष्यवच्छेदार्थकः ।
तिर्यक् उक्तवृत्तानुकारविलक्षणानुकारा क्रान्तिसञ्ज्ञा
क्रमण क्रान्तिः ग्रहगमनभोगज्ञानार्थं वृत्तं तत्सञज्ञमुपक-
ल्पितम् । अयनविषुवद्द्वयसंज्ञं कान्तिवृत्त द्वादशराश्य-
पृष्ठ २३१३
ङ्कित गोले निबन्धयेदिति तात्पर्यार्थः । भासयन्
भुवनानि प्रकाशयन् सन् सः सूर्य्यः । एतेन चन्द्रादीनां
निरासः । सदा निरन्तरं तया क्रान्तिसञ्ज्ञया कक्षया
पर्येति स्वशक्त्या गच्छन् भगणपरिपूर्तिभोगं करोति ।
सूर्य्यगत्यनुरोधेन नियतं क्रान्तिवृत्तं कल्पितमिति भावः ।
ननु चन्द्राद्याः क्रान्तिवृत्तेकुतोन गच्छन्तीत्यत आह” रङ्ग०
“चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः । ततोऽप-
कृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात्” सू० “चन्द्रादयोऽर्क-
व्यतिरिक्ता ग्रहाः स्वकैःस्वकीयैः पातैः पाताख्यदैवतैर-
पमण्डलं क्रान्तिवृत्तमाश्रितैः स्वस्वगोलस्थानेऽधिष्ठितै-
स्ततः क्रान्तिवृत्तान्तर्गतग्रहभोगस्थानादित्यर्थः ।
चकाराद्विक्षेपान्तरेणाप्रकृष्टा दक्षिणत उत्तरतो वा कर्षिता
भवन्ति । अतः कारणादपक्रमात् क्रान्तिवृत्तान्तर्गतस्व-
भोगस्थानादित्यर्थः । दक्षिणत उत्तरतो वा विक्षेपान्तेषु
गणितागतविक्षेपकलाग्रस्थानेषु भूस्थजनैर्दृश्यन्ते ।
तथा च क्रान्तिवृत्तं यथा विषुवन्मण्डलेऽवस्थितं तथा क्रा-
न्तिवृत्ते पातस्थाने तत्षड्भान्तरस्थाने च लग्नमुक्तपरम-
विक्षेपकलाभिस्तत्त्रिभान्तरस्थानादूर्ध्वाधःक्रमेण दक्षि-
णोत्तरतो लग्नं च वृत्तं विक्षेपवृत्तं चन्द्रादिगत्यनुरोधेन
खं स्वं भिन्नं कल्पितं तत्र गच्छन्तीति भावः” रङ्ग०
क्रान्तिस्पष्टताप्रकारश्च सू० सि० रङ्गनाथाभ्यां दर्शितो यथा
“अथ दिनरात्रिमानज्ञानार्थं चरानयनं विवक्षुः प्रथमं
तदुपयुक्तां स्पष्टक्रान्तिमाह” रङ्गना० “विक्षेपापक्रमैकत्वे
क्रान्तिर्विक्षेपसंयुता । दिग्भेदे वियुता स्पष्टा भास्करस्य
यथा गता” सू० सि०
“यस्य ग्रहस्य स्पष्टक्रान्तिरभीष्टा तस्य ग्रहस्यायनांशसं-
स्कृतस्य भुजज्यातः परमापक्रमज्येत्यादिना क्रान्तिरय-
नांशसंस्कृतग्रहगोलदिक्का ज्ञेया । तस्य विक्षेपोऽपि
पूर्वोक्तप्रकारेण पातोनगीलदिक्को ज्ञेयः । गोलस्तु मेषा-
दिवट् कमुत्तरस्तुलादिषट्कं दक्षिणः । अथ शरक्रान्त्यो-
रेकदिक्त्वेन क्रान्तिः कलाद्या कलाद्या कलात्मकनिक्षेपेण
युता तयोर्दिगन्यत्वे क्रान्तिर्व्विक्षेपेण वियुताऽन्तरिता
शेषदिक्का स्पष्टा क्रान्तिः स्यात् । ननु सूर्य्यस्य विक्षेपा-
भावात् कथं स्पष्टा क्रान्तिर्ज्ञेयेत्यत आह भास्करस्येति ।
सूर्य्यस्य यथागता पूर्वागता क्रान्तिरेव स्पष्टा क्रान्तिः ।
अत्रोपपत्तिः । विषुवद्वृत्ताद्ग्रहविम्बकेन्द्रपर्य्यन्तं याम्य-
मुत्तरं वान्तरं स्पष्टकान्तरिति तयोरेकदिक्त्वे तद्योगतु-
ल्यमन्तरं, भिन्नदिक्त्वे तदन्तरमितमन्तरमिति । अत्र
शरस्य क्रान्तिसंस्कारयोग्यत्वसम्पादिका क्रिया लोकश्रमभ-
यात् स्वल्पान्तरत्वाच्चोपेक्षिता भगवता कृपावता । अन्यथा
शरस्य ध्रुवाभिमुखत्वे भगवदुक्तमायनट्टक्कर्म्म कथमव्या-
हतं स्यादित्यलम्” रङ्गनाथः ।
रवेर्देशक्रान्तिवशेन दिनरात्रिभेदः सू० सि० रङ्गनाथा-
भ्याम् “हानिवृद्धी सदा वामं सुरासुरविभागयोः” इति
दिनरात्र्योर्हानिवृद्धी सुरासुरविभागयोर्भवत इत्युप-
क्रम्य विशदीकृत्य दर्शितो यथा
“मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽधिका । देवांशे च
क्षपाहानिर्विपरीतं तथाऽऽसुरे । तुलादौ द्युनिशोर्वाम
क्षयवृद्धी तयोरुभे । देशक्रान्तिवशान्नित्यं तद्विज्ञानं
पुरोदितम्” सू० “मेषादौ षड्भे उदगुत्तरगोले सूर्य्ये सति
उत्तरतो यथोत्तरं सदा यावदुत्तरगोले देवांशे जम्बूद्वीपे-
ऽधिका यथोत्तरमधिका वृद्धिर्निरक्षदेशीयदिने । तुका-
राद्यथोत्तरं सूर्य्यस्योत्तरगमने यथोत्तरं दिने वृद्धिः
परमोत्तरगमनात् परावर्त्तते । यथोत्तरं न्यूना वृद्धिरि-
त्यर्थः । क्षपाहानी रात्रेरपचयः । चः समुच्चये ।
आसुरे समुद्रादिदक्षिणभागे तथा दिनरात्र्योः क्षयवृद्धी
विपरीतं व्यस्तम् । दिने हानीरात्रौ वृद्धिरित्यर्थः ।
तुलादौ षड्भेदक्षिणगोले सूर्य्ये सति तयोर्जम्बूद्वीपसमुद्रा
दिदक्षिणभागयोर्दिनरात्र्योरुभे द्वे क्षयवृद्धी उभचयाप-
चयौ वामं व्यस्तम् । अयमर्थः जम्बूद्वीपे दिनरात्र्यो-
रुत्तरगोलस्थवृद्धिक्षयक्रमेण क्षयवृद्धी स्तः । समुद्रादि
दक्षिणभागे दिनरात्र्योर्वृद्धिक्षयौ स्त इति । मनु क्षय-
वृद्ध्योः कियन्मितत्वमित्यतः पूर्ब्बोक्तं स्मारयति
देशक्रान्तिवशादिति । तद्विज्ञानं तयोः क्षयवृद्ध्योर्ज्ञानं
सङ्ख्याज्ञानं नित्यं प्रत्यहं देशक्रान्तिवशात् । देशप-
लभा क्रान्तिरेतदुभयानुरोधात् पुरा पूर्बखण्डस्पष्टाधि-
कारे “क्रान्तिज्या विषुवद्भघ्नी क्षितिज्या द्वादशोद्धृता ।
त्रिज्यागुणाहोरात्रार्धकर्ण्णाप्ता चरजासवः” । तत्कार्मुक-
मित्यनेन दिनरात्र्योरर्ध उक्तम् तद्द्विगुणं दिनरा-
त्र्योरित्यर्थसिद्धम् । अत्रोपपत्तिः । निरक्षदेशे ध्रुव-
द्वयलग्नक्षितिजवृत्तं तत उत्तरभागे स्वस्थानक्षितिजं
स्वभूगोलमध्यस्थमुत्तरध्रुवादधो दक्षिणध्रुवाच्चोच्चमित्यत
उत्तरगोले निरक्षक्षितिजादधो दक्षिणगोल ऊर्ध्वमिति
पञ्चदशघटिका निरक्षदेशदिनार्धं क्षितिजान्तररूपचरेण
गोलक्रमेण युतहीनं दिनार्धं रात्र्यर्धं च विपरीतम् ।
एवं दिक्षिणभागेऽभीष्टदेशे क्षितिजमुत्तरघ्रुवादुन्नतं दक्षिण-
पृष्ठ २३१४
ध्रुवान्नतमिति निरक्षक्षितिजान्निरक्षक्षितिजं गोलक्रमे-
णोर्ध्वाध इत्युत्तरभागाद्व्यस्तम् । अथोक्तस्यावधिदेशं
विवक्षुः प्रथभं तदुपयुक्तानि क्रान्त्यंशयोजनान्याह” रङ्ग०
“भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम् ।
अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः” सू० सि० ।
“भूवृत्तं भूपरिधियोजनमानं प्रागुक्तमभीष्टक्रान्त्यंशैर्गुणितं
द्वादशराशिभागैः षष्ट्यधिकशतत्रयमितैर्भक्तं लब्धयोजनैः
कृत्वा सूर्य उपरि आकाशे स्थितो वर्तमानो दक्षिणत
उत्तरतो वा याति गच्छति । क्रान्त्यभावे तु निरक्ष-
देशोपर्येव परिभ्रमति । अत्रोपपत्तिः । निरक्षदेशान्मे-
रोरुत्तरदक्षिणाग्राभिमुखं सूर्य्यः क्रान्त्यंशैर्गच्छति ।
तद्योजनज्ञानं तु भगणांशैर्मेर्वग्रद्वयनिरक्षदेशस्पृष्टभूपरि-
धियोजनानि तदा क्रान्त्यंशैः कानीत्यनुपातेनेत्युपपन्न
म् । अथ दिनमानानयनगणितस्यावघिदेशज्ञानं श्लोकाभ्या-
माह” रङ्ग० । “परमापक्रमादेवं योजनानि विशोधयेत्
भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः । अयनान्ते
विलोमेन देवासुरविभागयोः । नाड़ीषष्ट्या सकृदह-
र्निशाप्यस्मिन् सकृत् तथा” सू० सि० “परमक्रान्तिभागाच्चतु-
र्विंशन्मितात् एवं पूर्वोक्तरीत्या योजनानि जातानि ।
भूपरिधेः पूर्वोक्तस्य चतुर्थांशात् परिवर्जयेत् । अवशि-
ष्टानि यानि यत्सङ्ख्यामितानि योजनानि भवन्ति तैर्यो
जनैर्देवासुरविभागयोर्निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्यौ
देशौ तयोरित्यर्थः । अनयान्त उत्तरदक्षिणायनसन्धौ
कर्कादिस्थे सूर्य्ये दक्षिणोत्तरायनसन्धौ मकरादिस्थे
सूर्य्ये विलोमेन व्यत्यासेन सकृदेकवारं नाडीषष्ट्या
घटीषष्ट्याहर्दिनमान भवति । अस्मिन्नेताट्टशे देशे तस्मिन्ने-
वायनसन्ध्यासन्ने सकृदेकवारं तथा षष्टिघटीमिता विलो-
मेन रात्रिर्भवति । अपिशब्दो दिनेन समुच्चयार्थः ।
एतदुक्तं भवति--कर्कादिस्थे सूर्षे निरक्षदेशादत्तरतद्योज-
नान्तरितदेशे षष्टिघटीमितदिनं तदैव निरक्षदेशाद्दक्षिण-
तद्योजनान्तरितदेशे षष्टिघटीमिता रात्रिः । मकरादिस्थे
सूर्य्ये तादृशोतरभागे षष्टिघटीमिता रात्रिर्दक्षिणभागे
तादृशे षष्टिमितं दिनमिति । अत्रोपपत्तिः--परमक्रा-
न्तियोजनानि भूवृत्तचतुर्थांशयोजनेभ्यो हीनानि ।
निरक्षदैशात् तन्मितयोजनान्तरितो यो दक्षिणोत्तरदेशस्त-
स्मान्मेरोदक्षिणोत्तराग्रं क्रमेण परमक्रान्तियोजनान्त-
रितम् । अतस्तत्र लम्बांशाश्चतुर्विंशतिः पलांशाश्च षट्
षष्टिरिति । तद्देशै क्रान्तिवृत्तानुकारं क्षितिजमित्यय-
नान्ते पञ्चदशघटीमितमहोरात्रवृत्तचतुर्भागखण्डं
निरक्षतद्देशक्षितिजयोरन्तरालरूपं चरमत उक्तरीत्या
दिनार्घं रात्र्यर्धं वोक्तरोत्या यथायोग्यं त्रिंशत् तद्द्विगुणं
षष्टिघटीमिततन्मानं गणितरीत्योपपन्नम् । युक्तं
चैतत् अयनान्ताहोरात्रवृत्तस्यैकस्य तत्क्षितिजप्रदेश
एकत्रैव संलग्नत्वाद्द्विधा संलग्नत्वाभावात् प्रवहभ्रमित-
सूर्य्यपरिवर्त्तपूर्त्तिः षष्टिघटीभिर्दर्शनमदर्शनं यथायोग्यं
तद्गोलस्थित्या प्रत्यक्षसिद्धमेवेति । अथोक्तदिनरात्रि-
मानगणितं तदवधिदेशपर्यन्तं दक्षिणोत्तरभागयोर्नाग्रे-
इत्याह” रङ्ग० “तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः ।
परतो विपरीतोऽयं भगोलः परिवर्त्तते” सू० “तदन्तरे
निरक्षदेशोक्तावधिदेशयोरन्तरालदक्षिणोत्तरविभागदेशे
षष्ट्यन्ते षष्टिवटीमध्ये क्षयवृद्धी अपचयोपचयावुक्तरीत्या
दिनरात्र्योर्यथायोग्यं भवतः । परतोऽवधिदेशादग्रिम-
देशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो भगोलो
नक्षत्राद्यधिष्ठितो मूर्ती गोलो विपरीतोऽवधिदेशान्तर्गत-
देशसम्बन्धी गणितसिद्धा परिवर्त्तते भ्रमति । तत्रोक्त-
रीत्या दिनरात्र्योर्वृद्धिक्षयो न भवत इत्यर्थः । त्रिज्या-
धिकाराच्चरानयनानुपपत्तेः चरस्वरूपासम्भवाच्च तथा
विपरीतगोलस्थितिं श्लोकाभ्यां प्रदर्शयति” रङ्ग० “ऊने भूवृ-
त्तपादे तु द्विज्यापक्रमयोजनैः । घनुर्मृगस्थः सविता
देवभागे न दृश्यते । तथा च सुरभागे तु मिथुने कर्कटे
स्थितः । नष्टच्छायामहीवृत्तपादे दर्शनमादिशेत्” सू० “द्वि-
राशिज्या ये क्रान्त्यंशास्तेषां योजनैः पूर्वावगतैर्भूपरि-
धिचतुर्थांशे हीने कृते सति । तुकारान्निरक्षदेशात्
तद्योजनान्तरिते देशे देवभाग उत्तरभागे धमुर्भकरराशि-
स्थोऽर्कस्तद्देशवासिभिर्न दृश्यते । धनुर्मकरस्येऽर्के तेषां
रात्रिः सदा स्यादित्यर्थः । असुरभागे निरक्षदेशाद्दक्षिण-
प्रदेशे । चः समुच्चयार्थः । तुकारात् तद्योजनान्तरित-
प्रदेशे मिथुने कर्के कर्कराशौ स्थितोऽर्कस्तथा तद्देव-
वासिभिर्न दृश्यते । नष्टच्छायामहीवृत्तपादे अभावं
प्राप्ता महीच्छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे
सूर्य्यस्य दर्शनं सदा कथयेत् । यत्र भूच्छायात्मिका
रात्रिर्नास्ति तत्र दिननित्यर्थः । तथा च निरक्षदेशात्
नद्योजनान्तरितोत्तरप्रदेशे कर्कमिथुनस्थोऽर्को दृश्यते
तद्योजनान्तरितदक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यते इति
फलितार्थः । अतएव “त्र्यंशयुङ्नवरसाः पलांशका यत्रा
तत्र विषये कदाचन । दृश्यते न मकरो न कार्मुकां
किञ्च कर्किमिथुनौ सदोदितौ” इति भास्कराचार्थोक्तं
नङ्गच्छते” रङ्गनाथः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कोसल&oldid=57706" इत्यस्माद् प्रतिप्राप्तम्