वाचस्पत्यम्/कुम्भक

विकिस्रोतः तः
पृष्ठ २११६

कुम्भक पु० कुम्भ + स्वार्थे क० कुम्भ इव कायति प्रकाशते निश्च-

लत्वात् कै--क वा । प्राणयामाङ्गे वायुरोधन ध्यापारभेदे
कुम्भशब्दं विवृतिः । “कुम्भकोनिश्चल श्वासः” या० स्मृ० ।

कुम्भकर्ण पु० कुम्भ इव कर्णावस्य । रावणानुजे राक्षसभेदे

स च विश्रवसः केकस्यां जातः तदुत्पत्तिकथा रामा०
उत्त० का० सुमालिकन्यया केकस्या अग्निहोत्रकाले
सन्ध्यासमये पुत्रमभिलष्यन्त्या प्रार्थितेन विश्रवसा राक्षस
योनिपुत्रप्राप्ति रूपो वरोदत्तः । यथा “दारुणायां तु वेला
यां यस्मात्त्वं मामुपस्थिता । शृणु तस्मात् सुतान् भद्रे!
यादृशान् जनयिष्यसि । दारुणान् दारुणाकारान् दारुणा
भिजनप्रियान् । प्रसविष्यसि सुश्रोणि! राक्षसान् क्रूर-
कर्म्मण” इत्युपक्रमे “एवमुक्ता तु सा कन्या राम!
कालेन केनचित् । जनयायास बीभत्सं रक्षोरूपं
सुदारुणम् । दशग्रीवं महादंष्ट्रम् नीलाञ्जन वयोपमम् ।
ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्द्धजम्” इति
रावणोत्पत्तिमुक्त्रा “तस्य त्वनन्तरं जातः कुम्भकर्ण्णो
महाबलः । प्रमाणात् यस्य विपुलं प्रमाणं नेह विद्यते । ततः
शूर्पनखा नाम संजज्ञे विकृतानना । विभीषणस्तु धर्म्मात्मा
केकस्याः पश्चिमः सुतः” इति । भा० व० १७४ अ० तु पुष्पोत्
कटातस्तस्योत्पत्तिरुक्ता” यथा
“पुलस्त्यस्य तु यः क्रोधादर्द्धदेहोऽभवन्मुनिः । विश्र-
वा नाम सक्रोधः स वैश्रणमैक्षत । बुबुधे तन्तु सक्रोधं
पितरं राक्षसेश्वरः । कुवेरस्तत्प्रसादार्थं यतते स्म सदा
नृप! । स राजराजो लङ्कायां निवसन्नरवाहनः । राक्षसीः
प्रददौ तिस्रः पितुर्वै परिचारिकाः । ताः सदा तं
महात्मानं सन्तोषयितुमुद्यताः । ॠषिं भरतशार्द्दूल! नृत्यगीत-
विशारदाः । पुष्पोत्कटा च राका च मालिनी च
विशाम्पते! । अन्योन्यस्पर्द्धया राजन्! श्रेयस्कामाः
सुमध्यमाः । तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् ।
लोकपालोपमान् पुत्रानेकैकस्या यथेप्सितान् । पुष्पोत्क-
टायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ । कुम्भकर्णदशग्रीवौ
वलेनाप्रतिमौ भुवि । मालिनी जनयामास पुत्रमेकं
विभीषणम् । राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ।
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् । स बभूव
महाभागो धर्म्म गोप्ता क्रियारतिः । दशग्रीवस्तु सर्वेषां
श्रष्ठो राक्षसपुङ्गबः । महोत्साहो महावीर्य्यो
महासत्वपराक्रमः । कुम्भकर्णो बलेनासीत् सर्वेभ्योऽभ्यधिको
युधि । मायावी रणशौण्डश्च रौद्रश्व रजनीचरः” ।
तस्य ब्रह्मतोवरप्राप्तिरुक्ता रामा० उ० का० १० सर्गे यथा
“इत्युक्त्वा कुम्भकर्णाय वरंदातुमवस्थितम् । जापप्रतिं
सुराःसर्वे वाक्यंप्राञ्जलयोऽब्रुवन् । न तावत्
कुम्भकर्णाय प्रदातव्योवरस्त्वया । जानौषे हि
यथा लोकांस्त्रासयत्येष दुर्मनाः । नन्दनेऽप्सरसः
सप्त महेन्द्रानुचरा दश । अनेन माक्षिता ब्रह्मन्नृषयो-
मानुषास्तथा । अलब्धवरपूर्णेन यत् कृतं राक्षसेन तु ।
यद्येष वरलब्धःस्याद्भक्षयेद्भुवनत्रयम् । वरव्याजेन मोहो-
ऽस्मैदीयताममितप्रभ! । लोकानां स्वस्ति चैवं स्याद्भवेदस्य
च संमतिः । एवमुक्तः सुरैर्ब्रह्माऽचिन्तयत्पद्मसम्भवः ।
चिन्तिता चोपतस्थेऽस्य पार्श्वे देवी सरस्वती । प्राञ्जलिः
सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता
देव! किं कार्यंकरवाण्यहम् । प्रजापतिस्तु तां प्राप्तां
प्राह वाक्यं सरस्वतीम् । वाणि! त्वं राक्षसेन्द्रस्य
भव वाग् देवतेप्सिता । तथेत्युक्ता प्रस्थिता सा प्रजा-
पतिरथाब्रवीत् । कुम्भकर्ण! महाबाहो! वरंवरय योमतः ।
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वावचनमब्रवीत् । स्वप्तुंवर्षाण्य-
मेकानि देवदेव! ममेप्सितम् । एवमस्त्विति तञ्चोक्त्वा
प्रायात् ब्रह्मासुरैः समम् । देवी सरस्वती चैव राक्षसं तं
जहौ पुनः । ब्रह्मणा सह देवेषु गतेषु च नभस्तलम् ।
विमुक्तोऽसौ सरस्वत्या स्वां संज्ञां च ततोगतः । कुम्भ-
कर्णस्तु दुष्टात्मा चिन्वयामास दुःखितः । ईदृशं
किमिदं वाक्यं ममाद्य वदनाच्च्युतम् । अहं व्यामोहितो
देवैरिति मन्ये तदागतैः”
स च रामेण हत इति रामा० स्थितम् भारते तु लक्ष्म-
णेन निहत इति स्थितम् यथा भा० वन० २८६ अ०
“कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः । अभिदुद्राव
सौमित्रिमुद्यम्य महतीं शिलाम् । तस्यापि पततस्तूर्णं
क्षुराभ्यामुच्छ्रितौ करौ । चिच्छेद निशिताग्राभ्यां स
बभूव चतुर्भुजः । तानप्यस्य भूजान् सर्वान् प्रगृहीतशि-
नायुधान् । क्षुरैश्चिच्छेद लघ्वुस्त्नं सौमित्रिः प्रतिदर्शयन् ।
स बभूवातिकायश्च बहुपादशिरोभुजः । तं ब्रह्मास्त्रेण
सौमित्रिर्ददाराद्रिचयोपमम् । स पपात महावीर्य्यो
दिव्यास्त्राभिहतो रणे । महाशनिविनिर्दग्धः पादपोऽ-
ङ्कुरवानिव । तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम् ।
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन् भयात्” ।
उत्पत्तौ बधे च विरोधस्तु कल्पभेदात् समाधेयः । स च
विष्णुपारिषदविजयावतारः सनत्कुमारादिमुनिशापात्
आसुरभावमापेदे तत्कथा भाग० अनुसन्धेया ।
पृष्ठ २११७

कुम्भकामला स्त्री कुम्भाख्या कामला । भावप्र० उक्ते

कामलारोगभेदे । “कामला बहुपित्तैषा कोष्ठशाखा
ग्रया मता” तत्र कोष्ठाश्रयां कामलामाह “कालान्तरात्
खरीभूता कृच्छ्रा स्यात् कुम्भकामला” अधिकं कामलाशब्दे
१८९९ पृ० उक्तम् । सुश्रुते तु कुम्भाह्वयमित्युक्तं यथा “मका-
मलापालकिपाण्डुरोगकुम्भाह्वयो लाघरकोऽलसाख्यः”
इत्युपक्रम्य “वक्ष्यामि लिङ्गान्यथ कामलायाः” इत्युक्त्वा
कामलालक्षणादिकमुक्त्रा च “भेदांस्तु तस्याः शृणु
कुम्भसाह्वं शोको महांस्तत्र च पर्वभेदैः” तेन कम्भैत्येव
तस्या नामान्तरम् ।

कुम्भकार पुंस्त्री कुम्भं करोति कृ--अण् उप० स० ।

(कुमार) १ जातिभेदे अमरः । सा च जातिः “वैश्यायां
विप्रतश्चौरात् कुम्भकारः सौच्यते” उसनसोक्ता
ब्रह्मवैवर्त्तेतु “मालाकारात् चर्म्मकार्य्यां कुम्भकारोव्यजा-
यत” इति “पट्टिकाराच्च तैलिक्यां कुम्भकारो बभूवह”
इति पुराणान्तरं तेन उत्तमाधमवर्ण्णसङ्करत्वात् जाति
भेदस्तु देशभेदेन व्यवस्थाप्यः । जातित्वात् स्त्रियां ङीष् ।
२ कुम्भकारके त्रि० स्त्रियां टाप् सि० कौ० मुग्धबोधमते
ततोऽपि ईप् तन्मते षण्प्रत्ययविधानात् । “यत् कुम्भका-
रपयनोपरिपङ्कलेपस्तापाय केबलमहो न च तापशान्त्यै”
उद्भटः ३ कुक्कुभविहगे पुंस्त्री० हेम० स्त्रियां ङीष् ।

कुम्भकारिका स्त्री कुम्भस्येव कार आकारोयस्याः कप्

अतइत्त्वम् । १ कुलत्थायाम् (कुरथि कलाइ) राजनि०
तस्यास्तदाकारत्वात् तथात्वम् । कुम्भंकरोति कृ--ल्वुल् ।
कुम्भकारक कुम्भकर्त्तरि त्रि० स्त्रियां टाप् अतैत्त्वम् ।

कुम्भकारी स्त्री कुम्भस्येव कार आकारोऽस्याः गौरा० ङीष् ।

१ कुलत्थायाम् राजनि० २ मनःशिलायां जटाध० कुम्भ-
कारस्य कुलालस्य पत्री ङीष् ३ कुलालभार्य्यायाञ्च ।

कुम्भकेतु पु० कुम्भः केतौ ध्वजे यस्य । शम्बरासुरसेनापतिभेदे

“कुम्भकेतुः सुदंष्ट्रश्च केशिरित्येवमादवः” हरि० १६३ अ०

कुम्भचक्र न० नर० ज० उक्ते चक्रभेदे । चक्रशब्दे विवृतिः ।

कुम्भज पु० कुम्भाज्जायते जन--ड ५ त० । १ अगस्त्ये मुनौ

कुम्भयोनिशब्दे विवृतिः । २ वशिष्ठे मुनौ ३ द्रोणाचार्य्ये
च ४ घटजाते त्रि० कुम्भजन्मकुम्भजातादयोऽप्यत्र ।

कुम्भतुम्बी स्त्री कुम्भ इव तुम्बी । अलाबूभेदे राजनि०

तद्गुणास्तत्रैवोक्तायथा “मधुरा कुम्भतुम्बी तु शीता
पित्तहरा मता । रस्या ज्वरापहा प्रोक्ता श्वा-
सकासकफास्रमुत्”

कुम्भदासी स्त्री कुम्भिकायां (पाना) शब्दरत्ना०

कुम्भनाभ पु० कुम्भैव नाभिरस्य अच्समा० । बलिदैत्यपुत्रभेदे

“बलेः पुत्रशतं त्वासीत् वाणज्येष्ठं नराधिप! ।
धृतराष्ट्र श्च सूर्य्यश्च चन्द्रमाश्चेन्द्रतापनः । कुम्भनाभो
गर्द्दभाक्षः कुक्षिरियेवमादयः” हरिव० २ अ०

कुम्भपद्यादि बहुब्रीहौ पादशब्दान्त्यलोपङीष्निपातन

निमित्ते शब्दगणभेदे स च गणः
“कुम्भपदी एकपदी जलपदी शूलपदी मुनिपदी
गुणपदो शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी
तृणपदी द्विपदी त्रिपदी षट्पदी दासीपदी शितपदी
विष्णुपदी सुपदी निष्पदी आर्द्रपदी कुनिपदी कृष्णपदी
शुचिपदी द्रुपदी सूकरपदी शकृत्पदी अष्टपदी स्थूण-
पदी अपदी सूचीपदी” ।

कुम्भपाद त्रि० कुम्भ इव स्फीतः पादोऽस्य कुम्भपद्या० स्त्रीत्वेन

विशेषोक्तेर्नान्त्यलोपः । घटतुल्यपादयुक्ते श्लीपदरोगयुते
स्त्रियां कुम्भपद्या० अन्त्यलोपः ङीष् च । कुम्भपदी
इतिभेदः ।

कुम्भमण्डूक पु० कुम्भे मण्डूक इव । कुम्भमात्रगम्यदेशतया

निन्द्ये । पात्रेसमितादित्वात् क्षेपेऽस्य समासः तेन नास्य
समासान्तरघटकता । युक्त्यारोह्यादित्वात् आद्युदात्तोऽयम्

कुम्भमुद्रा स्त्री “दक्षाङ्गुष्ठं पराङ्गुष्ठे क्षित्वा हस्तद्वयेन तु ।

सावकाशामेकमुष्टिं कुर्य्यात्” कुम्भमुद्रिका सा तन्त्र
सारोक्ते मुद्राभेदे कलसमुद्रादयोऽप्यत्र स्त्री

कुम्भयोनि पु० कुम्भः योनिरुत्पत्तिस्थानमस्य । १ अगस्त्ये मुनौ

“प्रससादोदयादम्भः कुम्भयोनेर्महौजसः” रघुः । २ वशिष्ठे
मुनौ । तयोः यथा च ततौत्पत्तिस्तथाह रामा० उ० का०
९३ अ० “अशरीरः शरीरस्य कृते न्यस्य महामुनिः ।
वसिष्ठस्तु महातेजा जगाम पितुरन्तिकम् । सोऽभिवाद्य ततः
पादौ देवदेवस्य धर्मवित् । पितामहमथोवाच वायुभूतैदं
वचः । भगवन्निमिशापेन विदेहत्वमुपागमम् । देवदेव!
महादेव! वायुभूतोऽहमण्डज! । सर्वेषां देहहीनानां
महद्दुःखं भविष्यति । लुप्यन्ते सर्वकार्य्याणि हीनदेह
स्य वै प्रभो! । देहस्यान्थस्य सद्भावे प्रसादं कर्तुमर्हसि ।
तमुवाच ततोव्रह्मा स्वयंभूरमितप्रभः । मित्रावरुण-
जन्तेज आविशत्वं महायशः! । अयोनिजस्त्वं भविता-
तत्रापि द्विजसत्तम! । धर्मेण महता युक्तः पुनरेष्यसि मे
वशम् । एवमुक्तस्तु देवेन अभिवाद्य प्रदक्षिणम् । कृत्वा
पितामहं तूर्णं प्रययौ वरुणालयम् । तमेव कालं मित्रीऽ-
पि वरुणत्वमकारयत् । क्षीरोदेन सहोपेतः पूज्यमानः
सुरेश्वरैः । एतस्मिन्नेव काले तु उर्वशी परमाप्सराः । यद्र-
पृष्ठ २११८
च्छया तमुद्देशमागता सखोभिर्वृता । तां दृष्ट्वा रूपसप-
न्नां क्रीड़न्तीं वरुणालये । तदाऽऽविशत्परो हर्षो वरुणं
चोर्वशीकृते । स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।
वरुणोवरयामास मैथुनायाप्सरोवराम् । प्रत्युवाच ततः
सा तु वरुणं प्राञ्जलिः स्थिता । मित्रेणाहं वृता साक्षा-
त्पूर्व मेव सुरेश्वर! । वरुणस्त्वव्रवीद्वाक्यं कन्दर्पशरपीड़ि-
तः । इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देक्निर्मिते ।
एव मुत्सृज्य सुश्रोणि! त्वय्यहं वरवर्णिनि! । कृतकामो-
भविष्यामि यदि नेच्छसि स गमम् । तस्य तल्लोकनाथस्य
वरुणस्य सुभाषितम् । उर्वशी परमप्रीता श्रुत्वा वाक्य-
मुवाच ह । काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् ।
भावश्चाप्यधिकं तुभ्यन्देहो मित्रस्य तु प्रभो! । उर्वश्या
एवमुक्तस्तु रेतस्तन्महदद्भुतम् । ज्वलदग्निसमप्रख्यं तस्मिन्
कुम्भे न्यवासृजत् । उर्वशी त्वगमत् तत्र मित्रोवै यत्र
देवता । तान्तु मित्रः सुसंक्रुद्धौर्वशीमिदमब्रवीत् ।
मयाऽभिमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता । पतिमन्यं
वृतवती किमर्थं दुष्टचारिणि! । अनेन दुष्कृतेन त्वं
मत्क्रोधकलुषीकृता । मनुष्यलोकमास्थाय कञ्चित्काल-
श्रिवत्स्यिसि” इति तस्य तस्यां शापमुक्त्वा
“यः स कुम्भो रघुश्रेष्ठ! तेजःपूर्णोमहात्मनोः । तस्मिं-
स्तेजोमयौ बिप्रौ सम्भूताघृषिसत्तमौ । पूर्वं समभवत्तत्र
अगस्त्योभगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं
तस्मादपाक्रमत् । तद्धि तेजस्तु मित्रस्य उर्वश्याः पूर्वमा-
हितम् । तस्मिन् समभवत्कुम्भे तत्तजोयत्र वारुणम् ।
कस्यचित्त्वय कालस्य मि त्रावरुनसंभवः । वसिष्ठस्ते-
जसा युक्तो जज्ञे इक्ष्वाकुदैवतम्” ।
अत्रैवमाख्यायिका प्रथममुर्वशीं मित्रो दृष्ट्वा तामागन्त्रितवान्
तयाच त्वन्निवासमागमिष्यामीत्युक्तस्तदा वरुणलोकस्थ एव
मित्रस्तद्दर्शनाद्धटस्खलितं निजतेजः कुम्भे उत्सृज्य
स्वन्निवास जगाम पश्चाद्वरुणोऽपि तां दृष्ट्वा स्खलितं तेजः
कुम्भे व्यसृजत् ततोमित्रनिवासंगता मित्रेण शप्ता चेति ।
रामा० श्लोकस्यायमर्थः नाहं सुतस्तवेति यद्यपि मित्रे-
णापि कुम्भे रेत उत्सृष्टं तथापि तवैकस्य पुत्रो न
भवामीत्युक्त्वाऽपाक्रामत् । एवमुक्तौ वीजमाह तद्धि तेजैति
अगस्त्योत्पत्तिहेतुभूतं मित्रस्व तेजः पूर्वमुर्वशीनिमित्त-
वरुणवीर्यविसर्गात्पूर्ब माहितं यस्मिन् कुम्भे तस्मिन्नेव
कुम्भे वारुणं तेजः समभवत् संगतमभवत् यत्र कुम्भे
मित्रस्व तेज आसीत् अतस्तेजोन्तरसंगमादुत्प-
त्तेर्नैकस्य तव सुत इत्युक्तमगस्त्येन मित्रं प्रति ।
“अगस्त्यश्च वशिष्ठश्च मित्रावरुणयोरृषी । रतः सुषि-
चतोः कुम्भे उर्वश्याः सन्निधौ तथा” भाग० ६ । १८ । ५ ।
३ अप्सरोभेदेस्त्री “गोपाली सहजन्या च कुम्भयोनिः
प्रजागरा” भा० व० ४३ अ० । ४ द्रोणाचार्य्ये पु० तदुपत्ति-
कथा द्रोणशब्दे वक्ष्यते ५ द्रोणपुष्पीवृक्षे पु० राजनि०

कुम्भरेतस् पु० अग्निभेदे । “हविषा यो द्वितीयेन सोमेन

सह युज्यते । रथप्रभूरथाध्वा च कुम्भरेताः सौच्यते”
भा० व० २१८ अ० अग्निवंशवर्णने । कुम्भस्थितं रेतः
कारणमस्य । २ अगस्त्ये ३ वसिष्ठे मुनौ तयोर्यथा तथात्वं
तथा कुम्भयोनिशब्दे उक्तम्

कुम्भला स्त्री कुम्भं कुम्भाकारं लाति ला--क । (मुण्डिरी)

मुण्डीरिकालतायाम् रत्नमा०

कुम्भबि(ब)ल न० ६ त० । कुम्भस्थे गर्त्ते अन्तोदान्तोऽयम्

कुम्भवीज पु० कुम्भ इव वीजसस्य (रोठा) करञ्ज भेदे राजनि०

कुम्भशाला स्त्री कुम्भपाकार्थं शाला । (पोयान) (कुमा-

रशाला) कलसपाकार्थे गृहे हेमच०

कुम्भसन्धि पु० कुम्भयोर्हस्तिशीर्षस्थमांसपिण्डयोः सन्धिः ।

आरक्षाख्ये हस्तिकुम्भमध्यस्थाने त्रिका०

कुम्भसम्भव पु० संभवत्यस्मात् सम् + भू--अपादानेऽप् कम्भः

सम्भवोऽस्य । १ अमस्त्ये २ वसिष्ठे ३ द्रोणाचर्य्येच तत्रा-
गस्त्यवशिष्ठयोस्ततौत्पत्तिकथा कुम्भयोनिशब्दे उक्ता

कुम्भसर्पिस् न० सुश्रुतोक्ते कलसे एकादशशतव सरोषिते

घृतभेदे “पुराणं तिमिरश्वासपीनसज्वरकासनुत् ।
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् । एकादशशतञ्चैव
वत् सरानुषितं घृतम् । रक्षोघ्नं कुम्भसर्पिः स्यात्
परतस्तु महाघृतम्” ।

कुम्भा स्त्री कुत्सित वृत्त्या उम्भा पूर्त्तिरस्याः शक० । वेश्यायां शब्दभा०

कुम्भाण्ड पु० कुम्भैवाण्डोऽस्य । वाणासुरस्य मन्त्रिभेदे

“इत्येवमुक्तः प्रहसन् कुम्भाण्डमिदमब्रवीत्” हरिव०
१७५ अ० “एतस्मिन्नन्तरे तत्र कुम्भाण्डाय महात्मने
कुम्भाण्ड! मन्त्रिणां श्रेष्ठ । प्रीतोऽस्मि तव सुव्रत! ।
एतद्दत्त्वाऽभयं तस्मै कुम्भाण्डाय महात्मने । विवाहमकरोत्
तत्र सोऽनिरुद्धस्य वीर्यवान्” हरिव० १८८ अ० । स्वार्थे क ।
तत्रैव । सच कुष्माण्डे न० गौरकुष्माण्ड्याम् स्त्री राजनि०

कुम्भाधिप पु० ६ त० । शनिग्रहे तस्य तदधिपत्वात्

कुम्भातीशादयोऽप्यत्र पु०
पृष्ठ २११९

कुम्भिका स्त्री कुम्भस्तदाकारोऽस्त्यस्याः ठन् । (पाना) जलो

रेजाते तृणभेदे अमरः । तत्पर्य्यायादि भावप्र० उक्तं यथा
“वारिपर्णी कुम्मिका स्याच्छैवालं शैवलञ्च तत् । वारि-
पर्णो हिमा निक्ता लघ्वी स्वाद्वी सरा कटुः । दोशत्र-
यहरी रूक्षा शोणितं ज्वरशोषहृत्” ।
२ पाटलावृक्षे ३ द्रोणपुष्प्याञ्च राजनि० । “वर्त्मान्ते पिडका
ध्माता भिद्यन्ते च स्ववन्ति च । कुम्भिकावीजसदृशा
कुम्भिकाः सन्निपातजाः” माधवोक्ते ४ नेत्रवर्त्मस्थरोगभेदे
सुश्रुते दीर्घमध्यत्वेनायं पठितः यथा “पृथग्दोषाः
समस्ताश्च यदा वर्त्मव्यपाश्रयाः । सिरा व्याप्यावतिष्ठन्ते
वर्त्मस्वधिकमूर्च्छिताः । विवर्द्ध्य मांसं रक्तञ्च तदा वर्त्म-
व्यपाश्रयान् । विकारान् जयन्त्याशु नामतस्तान्निबोधत ।
उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा” इत्युप-
क्रम्य कुम्भीकवीजप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः ।
आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः” ।
तेन माधवग्रन्थे दीर्घमध्यपाठः समुचितः । कुम्भीक
पिडकेत्यत्र पुंवद्भावआर्षः । कुम्भा--स्वार्थे क । ५ वेश्या-
याम् शब्दमाला ६ कट्फले भावप्र० कट्फलशब्दे तद्वाक्यादि

कुम्भिन् पुंस्त्री० कुम्भोऽस्त्यस्य इनि । १ हस्तिनि २ कुम्भीरे

हेमच० स्त्रियां ङीप् । ३ गुग्गुलौ जटा० । ४ कल
सरधारिणि त्रि० स्त्रियां ङीप् “उदकं कुम्भिनीरिव”
ऋ० १ । १९१ । १४ । ङीवन्तः । ५ जयपालवृक्षे राजनि०
कुम्भिवीजं जयपालवीजमित्युक्तेः ६ पृथिव्यां “गौरिला-
कम्भिनी क्षप्रेति” मा० २०, ५४ श्लो० व्या० मल्लिनाथ-
धृतकोषात् ।

कुम्भिपाकी स्त्री कुम्भिना पाकोयस्याः गौरा० ङीष् । कट्फले

भावप्र० शब्दकल्पद्रुमः भावप्र० कट्फलपर्य्याये कट्फल-
शब्दे दर्शिते तद्वाक्ये कुम्भिकाऽपिचेत्येव पाठः क्वचित्
कुम्भिपाक्यपीति पाठः तन्मूलं मृग्यम् ।

कुम्भिमद कुम्भिनः गजस्य मदः । हस्तिमदे गन्धद्रव्यभेदे राजनि०

कुम्भिल पु० कु--उम्भ--इलच् शक० । १ चौरे २ श्लोकांर्थचौरे

३ शालमत्स्ये ५ श्याले च हेमच०

कुम्भी स्त्री कुम्भ + अल्पार्थे ङीष् । १ क्षुद्रे कुम्भे तदाकृतित्वात्

२ उखायां ३ पाटलावृक्षे ४ कुम्भिकायां वरिपर्ण्ण्याम्
(पाना) ५ कट्फले च हेमच० कोङ्कणे प्रसिद्धे कुम्भीपुष्पे
६ पर्पटवृक्षे । अस्य शुणाः “कुम्भी वातकफहरी” राजनि०
७ दन्तीवृक्षे राजनि० । तत्र जातादि कत्र्या० ढकञ् ।
कौम्भेयक तत्र जातादौ त्रि० । कर्ण्णादि० चतुरर्थ्यां फिञ् ।
५ कौम्भायनि तत्सन्निकृष्टदेशादौ त्रि० ।

कुम्भीक पु० कुम्भीव कायति कै--क । १ पुन्नागवृक्षे । रत्न-

मा० २ कुम्भिकायां (पाना) कुम्भीकवीजप्रतिमाः” सुश्रुतः
सुश्रुते अयं प्रियङ्ग्वादिगणे उक्तः यथा
“प्रियङ्गुसमङ्गाघातकीपुन्नागरक्तचन्दनचन्दननोचरसरसा-
ञ्जनकुम्भीकस्रोतोऽञ्जनपद्मकेसरयोजनवल्ल्यो दीर्घमूला
चेति” । तत्र पुन्नागस्य पृथक्कीर्त्तनात् कुम्भिकापरत्वम् ।
सुश्रुते नेत्ररर्त्मस्थे ३ रोगभेदे कुम्भिकाशब्दे तद्वाक्य-
मुदाहृतम् तत्रोक्ते ४ शूकरोगोपद्रवभेदे च यथा
“अथातः शूकदोषनिदानं व्याख्यास्यामः । लिङ्गवृद्धिमि-
च्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च
व्याधयो जायन्ते । तद्यथा सर्षपिका, अष्ठीलिका,
ग्रथितम्, कुम्भीका, अलजी, मृदितम्, सम्मूढपि-
डका, अवमन्थः, पुष्करीका, स्पर्शहानिः, उत्तमा,
शतपोनकः, त्वक्पाकः, शोणितार्वुदम्, मांसार्वुदम्,
मांसपाकः, विद्रधिः, तिलकालकश्चेति” इति विभज्य
तल्लक्षणमुक्तं यथा “कुम्भीका तक्तपित्तोत्था जाम्बवा-
स्थिनिभाऽशुभा”
“कुम्भिका रक्तपित्ताभ्यामिति भावप्र० ह्रस्वमध्यपाठस्तु
लिपिकरप्रमाद्यत् । ततः समूहे खलादि० इनि । तद्रो-
गसमूहे स्त्री “कुम्भीकिनीं शर्कराञ्च तयैवोत्सङ्गिनी-
मपि” “कुम्भीकिनी सह शर्करया लेख्या” सुश्रुतः
सुश्रुतोक्ते क्लीवभेदे पु० “स्वे गुदे ब्रह्मचर्य्याद्यः स्त्रीषु पुंवत्
प्रवर्त्तते कुम्भीकः सच विज्ञेयः । इत्युक्त्वा” “आसेक्यश्च
सुगन्धी च कुम्भीकः सेर्ष्यकस्तथा । अरेतसैपे ज्ञेया
अशुक्रः पण्डसंज्ञितः” तल्लक्षणं तत्रोक्तम् ।

कुम्भीधान्य(क) कुम्भीमितं धान्यमस्य वा कप् । वर्षभोग्य-

सञ्चितधान्ये गृहस्थमेदे
“कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।” मनुः
“वर्षनिर्व्वाहोचितधान्यादिधनः कुम्भीधान्यः” “प्राक्
सोमिकीः क्रियाः कुर्य्यात् यस्यान्नं वार्षिकं भवेदिति” याज्ञ-
बल्क्येन गृहस्थस्य वार्षिकसञ्चयाभ्यनुज्ञानात् । मनुरपि
यदा वानप्रस्थस्यैव “समानिचयएव वा” इत्यनेन समासञ्चयं
वक्ष्यति तदपेक्षया बहुपोष्यवर्गस्य गृहिणः समुचितः
संवत्सरसञ्चयः” कुल्लू० । मेधातिथिस्तु यावता धान्यादि-
धनेन बहुभृत्यदारादिमतः त्रिसंवत्सरस्थितिर्भवति तावत्
सुवर्णादिधनवानपि कुशूलधान्यक इत्यभिधाय कुम्भी
उष्ट्रिका षाण्मासिकधान्यादिनिचयः कम्भीधान्यक
इति व्याख्यातवान् । गोविन्दराजस्तु कुशूलधान्यक
पृष्ठ २१२०
इत्येतद्व्याचक्षाणः धान्यकोष्ठसञ्चयो वा स्यात्
द्वादशाहमात्रपर्य्याप्तधनः इति कुम्भीधान्यक इत्येतद्व्या-
चष्टे । उष्ट्रिकाप्रमाणधान्यादिसञ्चयोवा षड़हमात्रपर्य्या-
धनः इति” । तेन २ तदर्थयोरपि

कुम्भीनस पु० कुम्भीव नसा नासायस्या । १ क्रूर सर्पे मेदि० २ रावण

मातृष्वस्रेय्यां लवणासुरजनन्यां स्त्री ङीष् । तदुत्पत्तेः
तस्या मधुदैत्येन हरणस्य च कथा रामा० उत्तर० का० २५ अ०
“विभीषणस्तु संक्रद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य
पापस्य कर्म्मणः फलमागतम् । मातामहस्य योऽस्माकं
ज्येष्ठोभ्राता सुमालिनः । माल्यवानिति विख्यातोवृद्धः प्रा-
ज्ञोनिशाचरः । पितृज्येष्ठो जनन्या नोह्यस्माकं चार्य
कोऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत् ।
मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा । भवत्यस्माक-
मेवैषा भ्रातॄणां धर्मतःस्वसा । सा हृता मधुना राजन्नसुरेण
बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।
कुम्भकर्णे महाराज! निद्रामनुभवत्यथ । निहत्य राक्ष-
सश्रेष्ठानमात्यानिह संमतान् । धर्षयित्वा हृता राजन्!
गुप्ताप्यन्तः पुरे तव । श्रुत्वापि तन्महाराज! क्षान्तमेव
हतोन सः । यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः ।
तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मतेः । अस्मिन्नेवाभिसं-
प्राप्तं लोके विदितमस्तु ते । विभीषणवचः श्रुत्वा राक्षसेन्द्रः
स रावणः । दौरात्म्येनात्मनोद्धूतस्तप्ताम्भा इव
सागरः । ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ।
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तुनः । भ्राता मे
कुम्भकर्णश्च ये च मुख्या निशाचराः । वाहनान्यधिरो-
हन्तु नानाप्रहरणायुधाः । अद्य तं समरे हत्वा मधुं
रावणनिर्भयम् । सुरलोकं गमिष्यामि युद्धाकाङ्क्षी
सुहृद्वृतः । अक्षोहिणीसहस्राणि चत्वार्यग्य्राणि रक्षसा-
म् । नानापहरणान्थाशु निर्ययुर्युद्धकाङ्क्षिणाम् । इन्द्र
जित्त्वग्रतः सैन्यात्सैनिकान् परिगृह्य च । जगाम रावणो
मध्ये कुम्भकर्णश्व पृष्ठतः । विभीषणश्च धर्म्मात्मा लङ्कायां
धर्म्ममाचरत् । शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।
खरैरुष्ट्रैर्हयैर्दृप्तैः शिशुमारैर्महोरगैः । राक्षसाः
प्रययुः सर्वे कृत्वाऽऽ काशं निरन्तरम् । दैत्याश्च शतशस्तत्र
कृतवैराश्च दैवतै । रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन् हि
पृष्ठतः । स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।
न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् । सा च प्रह्वाञ्जलिर्भू-
त्वा शिरसा चरणौ गता । तस्य राक्षसराजस्य त्रस्ता
कुम्भीनसो तदा । तां समुत्थापयामास न भेतव्यमिति
ब्रुवन् । रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ।
साऽब्रवीद्यदि मे राजन्! प्रसन्नस्त्वं महाभुज! । भर्तारं
न ममेहाद्य हन्तुमर्हसि मानद! । नहीदृशं भय किं
चित्कुलस्त्रीणामिहोच्यते । भयानामपि सर्वेषां वैधव्यं
व्यसनं महत् । सत्यवाग्भव राजेन्द्र! मामवेक्षस्व
याचतीम् । त्वयाप्युक्त “महाराज! न भेतव्यमिति स्वयम् ।
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् । क्व चासौ
तव भर्त्ता वै मम शीघ्रं नितेव्यताम् । सह तेन
गमिष्यामि सुरलोकं जयाय हि । तव कारुण्यसौहार्दान्नि-
वृत्तोऽस्मि मधोर्बधात्”
तस्याः पतिपुत्रयोश्चरितवर्णनं रामा० उत्त० ६१ अ० यथा
“पूर्वं कृतयुगे राजन्दैतेयःसुमहामतिः । लोलापुत्रोऽभव-
ज्ज्येष्ठो मधुर्नाम महासुरः । ब्रह्मण्यश्च शररण्यश्च
बुद्ध्या च परिनिष्ठितः । सुरैश्च परमोदारैः प्रीतिस्तस्याऽतु-
लाऽभवत् । स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ।
बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतोवरः । शूलं शूलाद्वि-
निष्कृष्य महावीर्य्यं महाप्रभम् । ददौ महात्मा सुप्रीतो
वाक्यंचैतदुवाच ह । त्वयाऽयमतुलो धर्मोमत्प्रसाद-
करः श्रुभः । प्रीत्या परमया युक्तोददाम्यायुधमुत्तमम् ।
यावत् सुरैश्च विप्रैश्च न विरुध्येर्महासुर! । तावच्छूलं
तवेदं स्यादन्यथा नाशमेष्यति । यश्च त्वामभियुञ्जीत
युद्धाय विगतज्वरः । तं शूलोभस्मसात्कृत्वा पुनरेष्यति
ते करम् । एवं रुद्राद्वरं लब्ध्वा भूयएव महासुरः ।
प्रणिपत्य महादेवं वाक्यमेतदुवाच ह । भगवन्! मम
वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव । सुराणा-
मीश्वरोह्यसि । तं ब्रुवाणं मधु देवः सर्वभूतपतिः
शिवः । प्रत्युवाच महादेवोनैतदेवं भविष्यति । मा
भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं
तु शूलमेतद् गमिष्यति । यावत् करस्थः शूलोऽयं भविष्यति
सुतस्य ते । अबध्यः सर्वभूतानां शूलहस्तो भविष्यति ।
एवं मधुर्वरं लब्ध्वा देवात् सुमहदद्भुतम् । भवनंसोऽ
सुरश्रेष्ठः कारयामास सुप्रभम् । तस्य पत्नी महाभा-
गा प्रिया कुम्मीनसीति या । विश्वावसोरपत्यं साप्यन
लायां महाप्रभा । तस्याः पुत्रो महावीर्योलवणोनाम
दारुणः । बाल्यात् प्रभृति दुष्टात्मा पापान्येव समाचरत् ।
तं पूत्रं दुर्विनीतं तु दृष्ट्वा कोधसमन्वितः । मधुःस शोकमा
पेदे न चैनं किञ्चिदब्रवात् । संविहाय इमं लोकं प्रवि-
पृष्ठ २१२१
ष्टोवरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।
स प्रभावेण शूलस्य दौरात्म्ये नात्मनस्तथा । सन्तापयति
लोकास्त्रीन्विशेषेण च तापसान्” । सचासुरः शत्रुघ्नेन
हतः तत्कथा रामा० उत्त० । ६३ अ० । स (शत्रुत्नः) मुमो-
च महावाणं लवणस्य महोरसि । उरस्तस्य विदार्य्याशु
प्रविवेश रसातलम्” ।

कुम्भीनसि पु० बलिदानवे “शम्बरस्य च या माया

या माया नमुचेरपि । बलेः कुम्भीनसेश्चैव सर्व्वास्ता-
योषितोविदुः” भा० आ० २२३८ अ

कुम्भीपाक पु० नरकभेदे कारणसहितं तत्स्वरूपमुक्तं

भाग० ५ २६ १६ “महारौरवः कुम्भीपाकः कालसूत्र
ञ्चेत्यादिना नरकान् विभज्य “यस्त्विह वा उग्रः
पशून् पक्षिणो वा प्राणे उपरन्धयति तमपकरुणं
पुरुषादैरपि गर्हितममुत्र यमानुचराः कुम्भीपाके तप्त-
तैलै उपरन्धयन्ति” “करम्भवालुकातापान् कुम्भी
पाकांश्च दारुणान्” मनुः । “स्तुतिवादमिपं मत्वा
कुम्भीपाके महीयते” प्रा० त० ।

कुम्भीर पुंस्त्री० कुम्भिनं हस्तिनमपोरयति ईर--अण् ।

जलजन्तुभेदे नक्रे अमरः स्त्रियां ङीष् । “संवत्सग्न्तु कुम्भी
रस्ततोजायेत मानवः” भा० आनु० १११ अ० । कर्म्मविपाक-
शब्दे विवृतिः ।

कुम्भीरमक्षिका स्त्री कुम्भीरोपपदा मक्षिका शाक० त० । (कुमीरे पोका) कीटभेदे हारा० ।

कुम्भीरासन न० “अथ वक्ष्ये महादेव! कुम्भीरासनमुत्त-

मम् । पादोपरि पदं दत्त्वा शीर्षोपरि करद्वयम् । तिष्ठे-
द्दण्डाकृतिर्भूमौ कुम्भीरासनमुच्यते” रुद्रया० उक्ते
आसनभेदे

कुम्भील पुंस्त्री कुम्भीर + रस्य लः । कुम्भीरे अमरम ला

स्त्रियां ङीष् । संज्ञायां क । चौरभेदे कुम्भिलशब्दार्थे

कुम्भीवीज न० ६ त० । जयपालवृक्षवीजे राजनि० ।

कुम्भोदर पु० शिवपारिषदभेदे । “कुम्भोदरं नाम निकुम्भमि-

त्रम्” रघुः । कुम्भतुल्यमुदरमस्य । तथोदरे त्रि० स्त्रियां ङीष्

कुयव पु० कुत्सितेन यौति यु--अच् ।” असुरभेदे “कुत्साय

शुष्णं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा”
ऋ० ४ ।१६ । १२ । “कुयवं कुयवनामासुरम्” भा० “श्रुष्णं पिप्रुं
कुयवं वृत्तमिन्द्र । यदाबधीः” ऋ० १, १०३, ८ । कुगतिस० ।
२ कुत्सिते धान्ये “क्षीरेण स्नातः कुयवस्य योषे” ऋ० १ ।
१०४ । ३ । “पूर्ण्णतरञ्च मे कुयवञ्च मे” “यजु० १८ । ११
“कुयवं कुधान्यम्” वेददी प०

कुयवाच् पु० असुरभेदे “नि दुर्योणे कुयवाचमृधि श्रेत्”

ऋ० १ । १७४ । ७ । “कुयवागित्येतन्नामानमसुरम्” भा०

कुर शब्दे तुदा० पर० अक० सेट् । कुरति अकोरीत् । चुकोर

कुरटः ।

कुरका स्त्री कुर--क सैव कायति कै--क । सल्लकीवृक्षे राजनि० ।

कुरङ्कुर पुंस्त्री कुरं शब्दं करोति कृ--अच् पृ० मुम् । सारस-

पक्षिणि हेमच० स्त्रियां ङीष् ।

कुरङ्कुर पुंस्त्री० कुरमित्यव्यक्तं शब्दं कुरति कुर--क ।

सारसखगे हारा० स्त्रियां ङीष् ।

कुरङ्ग पुंस्त्री० कौ रङ्गति--अच् । “कुरङ्ग ईषत्ताम्रः स्याद्ध-

रिणाकृतिको महान्” इत्युक्तचिह्ने १ मृगभेदे २ मृगमात्रे
अमरः स्त्रियां ङीष् । “कुरङ्गमातङ्गपतङ्गभृङ्ग-
मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न
हन्यते यः सेवते पञ्चभिरेव पञ्च” भाग० व्या० श्रीधरः
तन्मांसगुणा भावप्र० यथा “कुरङ्गो वृंहणोबल्यः
शीतलः पित्तहृद्गुरुः । मधुरोवातहृत् ग्राही किञ्चित्
कफकरोमतः । हरिणस्य गुणैस्तुल्यः कुरङ्गः कथितोबुधैः”
२ तारलोहे ३ तीर्थभेदे न० “करतोयां कुरङ्गे च त्रिरात्रे
पोषितोनरः । अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः
भा० आनु० २५ अ० । स्यार्थे क । कुरङ्गक तत्रार्थे

कुरङ्गनयना स्त्री कुरङ्गस्येव नयनमस्याः । सुन्दरनेत्राय

स्त्रियां “किन्त्वेका यमुना कुरङ्गनयनानेत्राम्बु भिर्वर्द्धते”
उद्भटः । कुरङ्गाक्ष्यादयोप्यत्र “कुरङ्गाक्षीवृन्दं तमनु-
सरति प्रेम तरलम्” कर्पूरस्तवः ।

कुरङ्गनाभि पु० ६ त० । मृगमदे गन्धद्रव्ये राजनि० तस्य तन्नाभे-

र्जातत्वादभेदोपचारात्तथात्वम् कस्तूरीशब्दे गुणाद्युक्तम् ।

कुरङ्गम पुंस्त्री० कौ रङ्गं मिमीते मा--ड । हरिणमेदे

कुरङ्गे मृगे त्रिका० स्त्रियां ङीष् ।

कुरङ्गिका स्त्री कौ--रङ्गोऽस्त्यस्य ठन् । मुद्गपर्ण्याम् राजनि०

कुरचिल्ल पुंस्त्री० कुरे शब्दे चिल्लति चिल्ल--शैथिल्ये अच् ।

कर्कटे हेमच० स्त्रियां टाप् ।

कुरट पुंस्त्री० कुर--अटन् किच्च । चर्म्मकारे त्रिका० स्त्रियां जातित्वात् ङीष्

कुरण्ट(क) पु० कुर्य्यते शब्द्यते कुर--कर्म्मणि अण्टक् ।

पोतझिण्टाम् स्वार्थे क । तत्रार्थे अमरः ।

कुरण्ड पु० कुर--अण्डक् १ साकरुण्डवृक्षे राजनि० ।

२ अण्डवृद्धिरोगे हेमच० तन्निदानादि माधवनिदा-
नोक्तं
यथा“क्रुद्धोऽनूर्द्धगतिर्वायुः शोथशूलकरश्चरन । मुष्कौ
पृष्ठ २१२२
--वङ्क्षणतः प्राप्य फलकोपाभिवाहिनोः । प्रपीड्य धमनी
र्वृद्धिं करीति फलकोषयोः । दोषास्रमेदोमूत्राम्भोभिर्वृद्धः
सप्तधा गदः । मूत्रान्द्रजातावनिलाद्धेतुभेदश्च
केवलम् । वातपूर्णाङ्गतस्पर्शे रूक्षोवातादहेतुरुक् ।
पक्वोडुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् ।
कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक् । कृष्ण-
स्पोटावृतः पित्तवृत्तिलिङ्गश्च रक्तजः । कफवन्मेदसा
वृत्तिर्मृदुस्तालफलोपमः । मूत्रवारणशीलस्य मूत्रजः स
तु गच्छतः । अम्भोभिः पूर्णदृतिवत् क्षोभं याति
सरुङ्मृदुः । मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः ।
वातकोपिभिराहारै, शीततोयावगाहनैः । धारणे रण
भाराध्वविषमाङ्गप्रवर्त्तनैः । क्षोभणैः क्षुभितश्चान्यैः
क्षुद्रान्त्रावयवं यदा । पवनो विगुणीकुत्य स्वनिवेशादधो-
नयेत् । कुर्य्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तथा ।
उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक् स्तममवतीं
स वायुः । प्रपीडितोऽन्तःस्वनवान् प्रयाति प्रध्मापयन्नेति
पुनश्च मुक्तः । अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः”

कुरण्डक पु० कुरण्टक + पृषो० । कुरण्टकवृक्षे रायमुकुटः

कुरर पुंस्त्री० कुड् शब्दे क्ररन । (कुरल) विहगे अमरः

स्त्रियां जातित्वात् ङीष् । “तत्र मामनयद्रक्षः क्रोश-
न्तीं कुररोमिव” भा० व० अ० ९१०८ “देवीं रोरूय-
माणां कुररीमिवार्त्ताम्” भा० स० २३५१ ङीषन्तः
२ मेष्यां हेमच० ।

कुरराङ्घ्रि पु० कुररस्याङ्घ्रिरिव । देवसर्षपे राजनि०

कुररोरुता स्त्री० “कुररोरुता नजभजैर्लगयुक्” इत्युक्त

लक्षणे चतुर्द्दशाक्षरपादके वर्ण्णवृत्तभेदे । “अनतिचिरो-
ज्झितस्य जलदेन चिर स्थितबहुबुद्बुदस्य पयसोऽनु-
कृतिम्” मावः ।

कुरल पुंस्त्री० कुरर + रस्य लः । स्वनामख्याते पक्षिभेदे

स्त्रियां जातित्वात् ङीष् । २ चूर्ण्णकुन्तले पु० धरणिः ।

कुरव पु० अल्पमकरन्दवत्त्वादलीनामीषद् रवो यत्र । १ रक्त-

भिण्ट्याम्, २ कुरवके, शब्दर० ३ सितमन्दारे च ।
कुगतिस० । ४ कुत्सितशब्दे । बहु० । ५ तथाशब्दयुक्ते त्रि० ।
ततः स्वार्थे क । तेष्वेवार्थेषु(कुडचि) इति ख्याते ६ पुष्प-
वृक्षे । “कुरवकस्तवकव्यतिषङ्गिणीति” माघः ।

कुरस पु० कुत्सितोरसोऽत्र । १ मद्यभेदे बहु० । २ कुत्सितरस-

युक्ते त्रि० । ३ गोजिह्वालतायां स्त्री टाप् । कुगतिस० ।
२ कुत्सिते रमे पु० ।

कुराह पुंस्त्री० कुलाह + लस्य रः । ईषत्पाण्डुवर्ण्णे कृष्णजङ्घे

अश्वभेदे हेमच० ।

कुरी स्त्री कुं भूमिं राति रा--क गौरा० ङीष् । तृणधान्यभेदे राजनि० ।

कुरीर न० “कुञ उच्च” उणा० कीरन् उच्च । १ मैथुने उज्ज्व-

दत्तः । २ शीर्षावयवमेदे च । “कुरीरमस्य शीर्षणि” अथ०
६, १३८, ३, “स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओ
पसः ऋ० १०, ८५, ८,

कुरु पु० कृ--क उच्च । १ चन्द्रवंश्ये आजमीढनृपप्रपौत्रे १

राजभेदे “योऽजमीढसुतस्त्वन्य ऋक्षः संवरणस्ततः । तपत्यां
सूर्य्यकन्यायां कुरुक्षेत्रपतिः कुरुः । परीक्षित्
सधमुर्जह्नुर्निषधश्च कुरोः सुताः” भाग० ९, २२, ३, यथा च
तस्य तपत्यामुद्भयः तथोक्तं भा० आ० १३४ अ०
“एवमासीन् महाभागा तपती नाम पौर्व्विकी । तव
वैवस्वती पार्थ! तापत्यस्त्वं यया मतः । तस्यां सञ्जनयामास
कुरु संवरणो नृपः । तपत्यां तपतां श्रेष्ठ! तापत्यस्त्वं”
ततोऽर्ज्जुन!” । कुरोर्निवासः जनपदे अणोलुप् लुपि
व्यक्तिवद्वचनता । २ तदीयनिवासदेशभेदे पु० भूम्नि ।
“कुरून् स्वपिति” सि० कौ० । स च देशः वृह० स० १४ अ०
कूर्म्मविभागे “साकेतकुरुकालकोटिकुकुराश्च पारि-
पात्रनगः । औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमि-
दम्” मध्यस्थतयोक्तं तत्सीमादि च “हस्तिनापुरमा-
रभ्य कुरुक्षेत्रस्य दक्षिणे । पञ्चालपूर्ब्बभागे तु कुरुदेशः
प्रकीर्त्तितः, इति शक्तिसङ्कमतन्त्रे उक्तम् । “आ मत्स्येभ्य-
कुरुपाञ्चालदेश्याः” भा० क० २०८ श्लोकः । तेषां राजनि अण
बहुषु तस्य लुक् । ३ तद्देशराजे पु० भृस्नि “कुरूणां सृञ्ज-
यानाञ्च पुरोहित आस” शत० व्रा० २, ५, “उवाच पार्थ ।
पश्यैतान् समवेतान् कुरूनिति” गीता । “श्रियः कुरूणाम-
धिपस्य पालनीम्” किरा० तस्येदम् अण् । कौरव तदपत्ये
पुंस्त्री “ऋक्षात् स वरणो जज्ञे कुरुः संवरणात्तथा ।
यः प्रयागमतिक्रस्य कुरुक्षेत्रञ्चकार ह । पुण्यञ्च रमणो-
यञ्च पुण्यकृद्भिर्निषेवितम् । तस्यान्ववायः सुमहान् यस्य
नाम्ना स्थ कौरवाः” हरिवं ०३३ अ० कुर्या० अपत्येण्य । कौरव्य
तदपत्ये पुंस्त्री बहुषु तस्य लुक् । क्वचिन्न “कौरव्याः
पशवः प्रियापरिभवक्ले शोपशान्तिः फलम्” वेणीसं० ।
कौरव्ये साधवः अण् । कौरव्या इति तु माधवः । “स्त्रि-
यामवन्तिकुन्तिकुरुभ्यः” इति स्त्रियां लुकि नृजतित्वादृङ्
कुरूः । ४ ओदने मेदि० । ५ कण्ठकारिकायां शब्दच० पियव्र-
तराजपौत्रे ६ आग्नीध्रराजपुत्रभेदे “तस्यासुह वा आत्म-
पृष्ठ २१२३
जान् स राजवर आग्नीध्रोनाभिकिंपुरुषहरिवर्षे लावृत-
रम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजन-
यत्” भाग० ५ स्क० २८ अ० १९ श्लो० तत्पुत्रकुरुराज्य-
त्वेन ७ उत्तरकुरुनामके तद्वर्षे च । तत्प्रमाणञ्च उत्तर-
कुरुशब्दे १० ९४ पृ० दर्शितम् । पुराणसर्व्वस्वे विष्णुपु०
“नाभिञ्च प्रथमं बर्षं ततः किंपुरुषं स्थितम् । हरिवर्षं तथैवा-
न्यत् मेरोर्दक्षिणतः स्थितम् । रम्यकञ्चोत्तरं वर्षं तथैवानु
हिरण्मयम् । उत्तराः कुरुवश्चैव यथा वै भारतं तथा ।
इलावृतञ्च तन्मध्ये सौवर्ण्णोमेरुत्तमः” इति । अतस्तत्पुत्र-
नवकनाम्ना नवानां वर्षाणां ख्यातिरिति । तत्सन्नि-
वेशादिकं तत्रैवोक्तं यथा
“भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्योत्तर-
सम्भोधिं समभ्येति महामुने! । वङ्क्षुश्च पश्चिमगिरीन-
तीत्य सकलांस्ततः । पश्चिमं केतुमालाख्यं वर्षमभ्येति
सार्णवम् । तथा चालकनन्दापि दक्षिणेनेत्य भारतम् ।
प्रयाति सागरं भृत्वा सप्तभेदा महामुने । आनील
निषधायामौ माल्यवद्गन्धमादनौ । तयोर्नध्यगतो मेरुः
कर्णिकाकारसांस्थितः । भारताः केतुमालाश्च भद्राश्वाः
कुरवस्तथा । पद्मानि लोकपद्मस्य मर्य्यादाश्चैव बाह्यतः ।
जठरोदेवकूटश्च मर्य्यादापर्व्वातातुभौ । तौ दक्षिणोत्तरा-
यामावानीलनिषधायतौ । मेरोः पश्चिमदिग्भागे
यथापूर्व्वौ तथा स्थितौ । त्रिशृङ्गोजारुधिश्चैव उत्तरे वर्ष-
पर्व्वतौ । पूर्व्व पश्चायतावेतावर्णवान्तव्यवस्थितौ । इत्येते
मुनिवर्योक्ता मर्य्यादापर्व्वतास्तवः । जठराद्याः स्थिता-
मेरोर्येषां द्वौ द्वौ चतुर्द्दिशम् । मेरोश्चतुर्द्दिशं ये तु
प्रोक्ताः केशरपर्वताः । शीतान्त्याद्या मुने! तेषामतीपेह
मनोरमाः । शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः ।
सुरम्याणि तथा तेषु काननानि पुराणि च । लक्ष्मोवि-
ष्णूग्निसूर्य्यादि देवानां मुनिसत्तम! । तान्यायतनरम्याणि
जुष्टानि वरकिन्नरैः । गन्धर्व्वयक्षरक्षांसि तथा दैतेयदा-
नवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ।
भौमाह्येते स्मृताः स्वर्गा धर्मिणामालया मुने! । नैतेषु
पापकर्माणो यान्ति जन्मशतैरपि । भद्राश्वे भगवान्
विष्णुरास्त हयशिरा द्विज! । वराहः केतुमाले तु भारते
कूर्मरूपधृक् । मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः ।
विश्वरूपेण सर्व्वत्र सर्व्वः सर्व्वेश्वरोहरिः । सर्वस्याधार-
भूतोऽसौ मैत्रेयास्तेऽखिलात्मकः । यानि किंपुरुषा-
द्यानि वर्षास्यष्टौ महामुने! । न तेषु शोकोनोनोहो
नोद्वेगः क्षुद्भयादिकम् । सुस्थाःप्रजा निरातङ्काः सर्व्वदुः
खविवर्जिताः । दशद्वादशवर्षाणां सहस्राणि स्थिरा-
युषः । न तेषु वर्षवर्य्येषु भौमान्यम्भांसि तेषु वै ।
कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । सर्वष्वेतेषु
वर्षेषु सप्त सप्त कुलाचलाः । नद्यश्च शतशस्तेभ्यः प्रसूता
या द्विजोत्तम!” । विजित्य यः प्राज्यमयच्छदुत्तरान्
कुरूनकुप्यं वसु वासवोपममः” किरा० ८ यज्ञादिकर्त्तरि त्रि०
कुरुश्रवणशब्देउदा० ।

कुरुकन्दक पुंन० कुरव इव विस्तीर्ण्णः कन्दोऽस्य कप् । मूलके (मूलो) शब्दमाला ।

कुरुकुल्ला स्त्री श्यामाशक्तिभेदे “काली कपालिनी कुल्ला

कुरुकुल्ला विरोधिनी” श्यामाकवचम्

कुरुक्षेत्र न० कुरुणा चन्द्रवंश्यनृपभेदेन कृष्टं क्षेत्रम्,

करुदेशान्तरगतं वा क्षेत्रम् शाक० मध्यपदलोपः । तीर्थभेदे
तद्विवृतिः भा० शल्य० ५३ अ०
“ऋषय ऊचुः । प्रजापतेरुत्तरवेदिरुच्यते सनातनी राम!
समन्तपञ्चकम् । समीजिरे तत्र पुरा दिवौकसो वरेण
सत्रेण महावरप्रदाः । पुरा च राजर्षिवरेण धीमता
बहूनि वर्षाण्यमितेन तेजसा । प्रकृष्टमेतत् कुरुणा
महात्मना ततः कुरुक्षेत्रमितीह पप्रथे । राम उवाच ।
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना । एतदिच्छाम्यहं
श्रोतुं कथ्यमानं तपोधनाः! । ऋषय ऊचुः । पुरा किल
कुरुं नाम कर्षन्तं सततोत्थितम् । अभ्येत्य शक्रस्त्रिदिवात्
पर्य्यपृच्छत कारणम् । इन्द्र उवाच । किमिदं वर्त्तमे
राजन्! प्रयत्नेन परेण च । राजर्षे । किमभिर्मतं येनेयं
कृत्यते क्षितिः । कुरुरुवाच । इह ये पुरुषाः क्षेत्रे
मरिष्यन्ति शतक्रतो! । ते गमिष्यन्ति सुकृतान् लोकान्
पापविवर्ज्जितान् । अवहस्य ततः शक्रो जगाम त्रिदिवं
पुनः । राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ।
आराभ्यागम्य चैवैनं भूयो भूयोऽवहस्य च । शतक्रतुरनिर्विण्णः
पृष्ट्वा पृष्ट्वा जगाम ह । यदा तु तपसोग्रेण चकर्ष वसुधां
नृपः । ततः शक्रोऽब्रवीद्देवान्राजर्षेयच्चिकीर्षितम् ।
एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः । वरेण च्छन्द्यतां
शक्र! राजर्षिर्यदि शक्यते । यदि ह्यत्र प्रमीता वै स्वर्गं
गच्छन्ति मानवाः । अस्मानमिष्ट्वा क्रतुभिर्भागो नो न
भविष्यति । आगम्य च ततः शक्रस्तदा राजर्षिम-
ब्रवीत् । अलं खेदेन भवतः क्रियतां वचनं मम ।
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः । युधि वा
निहताः सम्यगपि तिर्य्यग्गता नृप! । ते स्वर्गभाजो
पृष्ठ २१२४
राजेन्द्र! भविष्यन्ति महामते! । तथाऽस्त्विति ततो राजा
कुरुः शक्रमुवाच ह । ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरा-
त्मना । जगाम त्रिदिवं भूयः क्षिप्रं बलनिसूदनः ।
एवमेतद्यदुश्रेष्ठ! कृष्टं राजर्षिणा पुरा । शक्रेण चाभ्यनु-
ज्ञातं ब्रह्माद्यैश्च सुरैस्तथा । नातः परतरं पुण्यं भूमेः
स्थानं भविष्यति । इह तप्स्यन्ति ये केचित् तपः
परमकं नराः । देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् ।
ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः । तेषां
सहस्रगुणितं भविष्यत्यचिरेण वै । ये चेह नित्यं
मनुजा निवत्स्यन्ति शुभैषिणः । यमस्य विषयं ते तु न
द्रक्ष्यन्ति कदाचन । यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनु-
जेश्वराः । तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति ।
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः । कुरु-
क्षेत्रनिबद्धां वै तां शृणुष्व हलायुध! । पांशवोऽपि कुरु-
क्षेत्राद्वायुना समुदीरिताः । अपि दुष्कृतकर्माणं नयन्ति
परमां गतिम् । सुरर्षभा व्राह्मणसत्तमाश्च तथा नृगाद्या
नरदेवमुख्याः । इष्ट्वा महार्हैः क्रतुभिर्नृसिंह! संत्यज्य
देहान् सुगतिं प्रपन्नाः । तरन्तुकारन्तुकयोर्यदन्तरं
रामह्रदानान्तु मचक्रकस्य । एतत् कुरुक्षेत्रसमन्तपञ्चकं प्रजा-
पतेरुत्तरवेदिरुच्यते । शिवं महापुण्यमिदं दिवौकसां
सुसंमतं सर्वगुणैः समन्वितम् । अतश्च सर्वे निहता नृपा
रणे यास्यन्ति पुण्यां गतिमक्षयां सदा । इत्युवाच स्वयं
शक्रः सह ब्रह्मादिभिस्तथा! तच्चानुमोदितं सर्वं ब्रह्म-
विष्णुमहेश्वरैः ।
“कुरुक्षेत्रे परीणहि स्थलेऽप्यग्न्याधेयमन्वारम्भणीयान्तं
भवति” कात्या० २४ । ६ । ३४ ।
कुरुक्षेत्रं च ब्रह्मर्षिदेशः । “कुरुक्षेत्रञ्च मत्स्याश्च पञ्चालाः
शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः”
मनूक्तेः । इदं संवरसुतकुरुनृपराज्यान्तर्गतमत स्तन्नाम्ना
पथितम् अतएव कुरुशब्ददर्शिते भाग० वाक्ये “कुरुक्षे-
त्रपतिं कुरुमित्युक्तम् । भा० आ० ९४ अ० । “ततः
संवरणाद्देवी तपती सुषुवे कुरुम् । राजन्नेतं प्रजाः
सर्वा धर्म्मज्ञ इति मेनिरे । तस्य नाम्नाऽभि विख्यातं
पृथिव्यां कुरुजाङ्गलम् । कुरुक्षेत्रं च तपसा पुण्यं
चक्रे महातपाः” इति ।
कुरुक्षेत्रस्थतीर्थमहात्म्यं भा० व० ८३ अ० उक्तं यथा “ततो
गच्छेत राजेन्द्र! कुरुक्षेत्रमभिष्टुतम् । पापेभ्यो
यत्र मुच्यन्ते दर्शनात् सर्वजन्तवः । कुरुक्षेत्रं गमिष्यामि
कुरुक्षेत्रे वसाम्यहम् । य एबं सततं ब्रूयात् सोऽपि
पापैः प्रमुच्यते । पांशवोऽपि कुरुक्षेत्रे वायुना समुदी-
रिताः । अपि दुष्कृतकर्म्माणं नयन्ति परमां गतिम् ।
दक्षिणेन सरस्वत्यादृषद्वत्युत्तरेण च । ये वसन्ति कुरुक्षेत्रे
ते वसन्ति त्रिपिष्टपे । तत्र मासं वसेद्वीर! सरस्वत्यां
युधिष्ठिर! । यत्र व्रह्मादयो देवा ऋषयः सिद्धचारणाः ।
गन्धर्व्वाप्सरसो यक्षाः पन्नगाश्च महीपते! । ब्रह्मक्षेत्रं
महापुण्यमभिगच्छन्ति भारत! । मनसाप्यभिकामस्य कुरु-
क्षत्रं युधिष्ठिर! । पापानि विप्रणश्यन्ति ब्रह्मलोकञ्च
गच्छति । गत्वा हि श्रद्धया युक्तः कुरुक्षत्रं कुरूद्वह! ।
फलं प्राप्नोति च तदा राजसूयाश्वमेधयोः । ततो मङ्क-
णकं नाम द्वारपालं महाबलम् । यक्षं समभिवाद्यैव
गोसहस्रफलं लभेत् । ततो गच्छेत धर्म्मज्ञो विष्णोः
स्थानमनुत्तमम् । सततं नाम राजेन्द्र! यत्र सन्निहितो
हरिः । तत्र स्नात्वा च नत्वा च त्रिलोकप्रभवं हरिम् ।
अश्वमेधमयाप्नोति विष्णुलोकञ्च गच्छति । ततः परिप्लवं
गच्छेत्तोर्थं त्रैलोक्यविश्रुतम् । अग्निष्टोमातिरात्राभ्यां
फलं प्राप्नोति भारत! । पृथिवीतीर्थमासाद्य गोसहस्रफलं
लभेत् । ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप! ।
दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात् । सर्पदेवीं
समासाद्य नागानां तीर्थमुत्तमम् । अग्निष्टोममवाप्नोति
नागलोकञ्च विन्दति । ततो गच्छेत धर्म्मज्ञो द्वारपालं
तरन्तुकम् । तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।
ततः पञ्चनदं गत्वा नियतो नियताशनः । कोटितीर्थमु-
पस्पृश्य हयमेधफलं लभेत् । अश्विनोस्तीर्थमासाद्य
रूपवानभिजायते । ततो गच्छेत धर्म्मज्ञो वाराहं तीर्थ-
मुत्तमम् । विष्णुर्वराहरूपेण पूर्वं यत्र स्थितोऽभवत् ।
तत्र स्नात्वा नरश्रेष्ठ! अग्निष्टोमफलं लभेत् । ततो
जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत् । स्नात्वा
फलमवाप्नोति राजसूयस्य मानवः । एकहंसे नरः स्नात्वा
गोसहस्रफलं लभेत् । कृतशौचं समासाद्य तीर्थसेवी
नराधिप । पुण्डरीकमयाप्नोति कृतशौचो भवेच्च सः ।
ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः । उपोष्य
रजनीमेकां गाणपत्यमवाप्नुयात् । तत्रैव च महाराज!
यक्षिणीं लोकविश्रुताम् । स्नात्वाभिगम्य राजेन्द्र! सर्व्वान्
कामानवाप्नुयात् । कुरुक्षेत्रस्य तद्द्वारं विश्रुतं
भरतर्षभ! । प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः । सम्मितं
पुष्कराणाञ्च स्नात्वाच्चर्य पितृदेवताः । जामदग्न्येन रा-
पृष्ठ २१२५
मेण कृतन्तत् सुमहात्मना । कृतकृत्यो भवेद्राजन्नश्वमेधञ्च
विन्दति । ततो रामह्रदात् गच्छेत् तीर्थसेवी समाहितः ।
तत्र रामेण राजेन्द्र! तरसा दीप्ततेजसा । क्षात्त्रमुत्साद्य
वीरेण ह्रदाः पञ्च निवेशिताः । पूरयित्वा नरव्याघ्र!
रुधिरेणेति विश्रुतम् । पितरस्तर्षिताः सर्वे तथैव प्रपि-
तामहाः । ततस्ते पितरः प्रीता राममूचुर्नराधिप! ।
पितर ऊचुः । राम! राम! महाभाग! प्रीताः स्म तव
भार्गव! । अनया पितृभक्त्या च विक्रमेण च ते प्रभो! ।
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते । एवमुक्तः स
राजेन्द्र । रामः प्रहरतां वरः । अब्रवीत् प्राञ्जलिर्व्वाक्यं
पितॄन् स गगनेस्थितान् । भवन्तो यदि मे प्रीता यद्य-
नुग्राह्यता मयि । पितृप्रसादमिच्छेयं तप आप्यायनं
पुनः । यच्च रोषाभिभूतेन क्षत्त्रमत्सादितं मया । ततश्च
पापान्मुच्येयं युष्माकं तेजसाप्यहम् । ह्रदाश्च तीर्थीभूता
मे भवेयुर्भुवि विश्रुताः । एतच्छ्रुत्वा शुभं वाक्यं रामस्य
पितरस्तदा । प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ।
तपस्ते वर्द्धतां भूयः पितृभक्त्या विशेषतः । यच्च रोषाभि-
भूतेन क्षत्त्रमुत्सादितं त्वया । ततश्च पापान्मुक्तरत्वं
निहतास्ते स्वकर्म्मभिः । ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति
न संशयः । ह्रदेष्वेतेषु यः स्नात्वा पितॄन् सन्तर्पयिष्यति ।
पितरस्तस्य वै प्रीत दास्यन्ति भुवि दुर्लभम् । ईप्सितञ्च
मनःकामं स्वर्गलोकञ्च शाश्वतम् । एवं दत्त्वा वरान्राजन्!
रामस्य पितरस्तदा । आमन्त्र्य भार्गवं प्रीत्या तत्रैवान्त-
र्हितास्ततः । एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ।
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः । राममभ्यर्च्च्य
राजेन्द्र! लभेद्बहु सुवर्णकम् । वंशमूलकमासाद्यतीर्थ-
सेवी कुरूद्वह! । स्ववेशमुद्धरेद्राजन्! स्नात्वा वै वंशमूलके ।
कायशोधनमासाद्य तीर्थं भरतसत्तम! । शरीरशुद्धिः
स्नातस्य तस्मिं स्तीर्थे न संशयः । शुद्धदेहश्च संयाति
शुभाल्लो काननुत्तमान् । ततो गच्छेत धर्म्मज्ञ! तीर्थं
त्रैलोक्यविश्रुतम् । लोका यत्रोद्धृताः पूर्बं विष्णुना
प्रभविष्णुना । लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपू-
जितम् । स्नात्वा तीर्थ वरेराजन्! लोकानुद्धरते स्वकान् ।
श्रीतोर्थञ्च समासाद्य स्नात्वा नियतमानसः । अर्च्चयित्वा
पितॄन् देवान् विन्दते श्रियमुत्तमाम् । कपिलातीर्थमासाद्य
ब्रह्मचारी समाहितः । तत्र स्नात्वार्च्च यित्वा च पितॄन्
स्वान् दैवतान्यपि । कपिलानां सहस्रस्य फलं विन्दात
मानवः । सूर्य्यतीर्थं समासाद्य स्नात्वा नियतमानसः ।
अर्च्चयित्वा पितॄन् देवानुपयासपरायणः । अग्निष्टोमम-
वाप्नोति सूर्य्यलोकञ्च गच्छति । गवां भयनमासाद्य
तीर्थसेवी यथाक्रमम् । तत्राभिषेकं कुर्व्वाणो गोसहस्रफलं
लभेत् । शङ्खिनीतीर्थ मासाद्य तीर्थसेवी कुरूद्वह! ।
देव्यास्तीर्थे नरः स्नात्वा लभते वीर्य्यमुत्तमम् । ततो गच्छेत
राजेन्द्र! द्वारपालं करन्तुकम् । तच्च तीर्यं सरस्वत्यां
यक्षेन्द्रस्य महात्मनः । तत्र स्नात्वा नरो राजन्नग्निष्टो-
मफलं लभेत् ॥” “धर्म्मक्षेत्रं कुरुक्षेत्रं द्वादशयोज-
नावधि” हारा० २ देवयजनस्थाने “कुरुक्षेत्रेऽमी देवा
यज्ञं तन्वते” शत० व्रा० ४ । १ । ५ । १३ । “तेषां कुरुक्षेत्रं
देवयजनं यस्मादाहुः कुरुक्षेत्रं देवानां देवयजनं
तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगच्छति तदेव मन्यते इदं
देवयजनमिति तद्धि देवानां देवयजनम्” शत० व्रा०
१४ । १ । १ । २ अस्मिन् पक्षे च कुरु देवयज्ञाधारभूतं
क्षेत्रम् आधारे कर्त्तृत्वोपचारात् कर्त्तरि कुप्रत्यय इति
मन्त्रव्यम् । ३ अविमुक्ते क्षेत्रे च । देवयजनपरताऽविमुक्त-
परता चास्य “धर्म्मक्षेत्रे कुरुक्षेत्रे” इति गीताव्या०
नीलकण्ठेन समर्थिता यथा “तत्र वेदे तेषां कुरुक्षेत्रं
देवयजनमासेति” कर्भकाण्डप्रसिद्धं कुरुक्षेत्रमन्यत् “अवि-
मुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां
ब्रह्म सदनम्” इत्यविमुक्ताख्यं ब्रह्मप्राप्तिस्थानभूतं कुरुक्षे-
त्रमन्यत् ब्रह्मसदनत्वं चास्य “अत्र हि जन्तोः प्राणे-
षूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती
भूत्वा मोक्षी भवतीति” वाक्यशेषेण व्युत्पादितम्
एतद्व्यावृत्त्यर्थं धर्मक्षेत्रे इति विशेषणं कुरुदेशान्तरगतं
हि कुरुक्षेत्रं धर्मक्षेत्रमेव न तु तत् ब्रह्मसदनं
प्रवर्ग्यकाण्डे तस्य धर्मक्षेत्रत्वमात्रश्रवणात्”

कुरुक्षेत्रीयोग पु० एकस्मिन् सावने तिथिनक्षत्रयोगाना

क्षयरूपे ज्यो० उक्ते १ योगभेदे । २ कुरुक्षेत्रे मृत्युसू-
चके ग्रहयोगभेदे च । “पञ्चग्रहयुते मृत्यौ लग्नसंस्थे
वृहस्पतौ । सौम्यक्षेत्रगते लग्ने कुरुक्षेत्रे मृतिर्भवेत्”
जातकामृते योगाध्यायः ।

कुरुजाङ्गल न० जङ्गलमेव जाङ्गलं कुरुषु जाङ्गलम् ।

१ कुरुक्षेत्रे “तस्य नाम्नाऽभिविख्यातं पृधिव्यां कुरुजा-
ङ्कलम् । कुरुक्षेत्रं स(कुरुः) तपसा पुण्यं चक्रे
महातपाः” भा० आ० ९४ अ० “यदा परीक्षित् कुरु-
जाङ्गले वसन्” भाग० १, १६, ११, कुरवश्च जाङ्गलाश्च द्व० ।
“कुरुदेशे जाङ्गलदेशे च पुं भूम्नि “कथमालक्षितः पौरैः
पृष्ठ २१२६
संप्राप्तः कुरुजाङ्गुलान्” भाग० १, ४, ७, कुरवो जाङ्गलाश्च
देशभेदाः” श्रीधरः” । कुरवश्च लाङ्गलञ्च “विशिष्टलिङ्गो
नदीदेशोऽग्रामतः” पा० समा० एकवद्भावे कुरुजाङ्गलम् ।
३ तत्समाहारे न०

कुरुट पु० कुत्सितं रोटति रुट--दीप्तिप्रतिषाते क । सितावरकशाके राजनि० ।

कुरुण्ट पु० कुत्सितं रुण्टति रुटि--स्तेये अच् । पीतझि-

ण्ट्याम् पीताम्लाने मेदि० । स्वार्थे क । तत्रार्थे अमरः

कुरुण्टी स्त्री कु + रुटि--स्तेये अच् गौरा० ङीष् । १ दारु

पुत्तलिकायां मेदि० । २ ब्राह्मण्यां जटा०

कुरुत पु० कुर--बा० उतक् । वंशनिर्मिते वृहदाकारे पात्रभेदे

सैव पादोऽस्य हस्त्या० नान्त्यलोपः । कुरुतपादैत्येव ।

कुरुतीर्थ न० भारतप्रसिद्धे तीर्थभेदे तच्च तीर्थं “यत्र

ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः । सैमापत्येन देवाना-
मभिषिक्तो गुहस्तदा । तैजसस्य च पूर्व्वेण कुरुतीर्थं
कुरूद्वह! कुरुतीर्थे नरः स्रात्वा ब्रह्मचारी जितेन्द्रियः ।
सर्व्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते” भा० व० ६८ अ०
उक्तम् ।

कुरुनदिका स्त्री यथाल्पिका नदी कुरुनदिकेत्युच्यते इत्युक्तायामल्पायां नद्याम् ।

कुरुपिशङ्गिला स्त्री कुरु इत्यनुकरणशब्दकरणेन मूलाव-

यवभक्षिकायां गोधायाम् “कईभरे पिशङ्गिला कईं कुरु-
पिशङ्गिला” इति प्रश्ने “अजारे पिशङ्गिला श्वावित्
कुरुपिशङ्गिला” यजु० २३ । ५५ । ५६ । उत्तरम् “श्वावित्
गोधा कुरुपिशङ्गिला । कुरुशब्दाऽनुकरणे पिश--अवयवे
इति धातोरिगुपधेति कप्रत्ययः कुरु इति शब्दानुकुर्व्वाणा
पिशान् मूलाद्यवयचान् गिलति । पिशङ्गिला मूला-
नि शतं कुक्षौ स्थापयति शतञ्च भक्षयतीति गोधायाः
स्वभावः” वेददीपः ।

कुरुम्ब न० कुर--बा० उम्बच । (कमलालेषु) १ कुलपालके

जम्बीरभेदे शब्दच० । २ द्रोणपुष्प्यां स्त्री० ठाप् राजनि०
गौरा० ङीष् । सैंहलीवृक्षे राजनि० । स्वार्थे व तत्रार्थे

कुरुराज् पु० कुरुषु राजते राज--क्विप् । दुर्योधने त्रिका०

कुरूणां राजा टच्समा० । कुरुराजोऽप्यत्र

कुरुल पु० कुर + उलक् । ललाटस्थे चूर्ण्ण कुन्तले हेमच०

कुरुवक पु० कु + रु--क--कुत्सितं रुवोभ्रमरो यत्र कष् ।

१ रक्तझिण्ट्याम् अमरः २ पीतझिण्ट्यां हेम०

कुरुवर्ष न० कुरुसंज्ञकं वर्षम् । जम्बुद्वीपस्थे उत्तरकुरु-

संज्ञके वर्षभेद उत्तकुरुशब्दे १०९४ पृ० विवृतिः

कुरुविन्द पु० कुरून् मूलकारणत्वेन विन्दति विद--श मुचा०

मुम् । १ मुस्तायाम् अमरः २ माषे राजनि० ३ काचलवणे
४ माणिक्यरत्ने न० राजनि० । ५ कुरुविल्वरत्ने ६ कुष्माषे
ब्रीहिभेदे मेदि० ७ दर्पणे ८ हिङ्गुले च न० शब्दचि०

कुरुविल्व पु० कुरुषु विल्वैव । १ पद्मरागमणौ त्रिका० संज्ञायां

क । कुरुविल्वक कुल्माषे (वनकुरथि) रत्नमा०

कुरुविस्त पु० कुरुषु विख्यातः विस्तः । स्वर्ण्णपले अमरः

कुरुवृद्ध पु० कुरूणा जनपदानां राजानः तद्राजस्य तद्धितस्य

बहुषु लुक् तेषु कुरुषु वृद्धः । भीष्मे । “तस्य संजनयन्
हर्षं कुरुवृद्धः पितामहः” गीता ।

कुरुश्रवण त्रि० कुरवः यज्ञकर्त्तारः तेषां श्रवणः स्तोतॄणां

श्रोता श्रु--नन्द्या ल्यु । ऋत्विजां स्तुतिश्रोतरि “कुरुश्रबण
मावृणि राजानं त्रासदस्यवम् ऋ० १०, ३३ अ० “कुरुश्रवण!
ददतोमवानि” ऋ० १० । ३२ । ९ । हे कुरुश्रवण! कुरवः
ऋत्विजः तेषां स्तुतीनां श्रोतः!” भा०

कुरूटिनी स्त्री किरीटिनी + वेदे पृषो० । किरीटयुक्तायां

सेनायाम् “बाहिनी विश्वरूपा कुरूटिनी अथ० १०, १, १५

कुरूप्य न० ईषत् रूप्यं शुभ्रत्वेन सादृश्यात् । १ रङ्गनामके

धातौ राजनि० कोः पृथिव्याः कुस्थानात् वा आगत०
रूप्यप् । पृथिव्याः कुस्थानाद्वा २ आमते त्रि०

कुर्कुट पुंस्त्री० कुरित्यव्यक्तं शब्दं कुटति कुट--क । कुक्कुटे

हारा० “श्वानः कुर्कुटचण्डालाः समस्पर्शाः प्रकीर्त्तिताः ।
रासभोष्ट्रौ विशेषेण तस्पात्तान्नैव संस्पृशेत्” पञ्चत०
स्त्रियां जातित्वात् ङीष्

कुर्कुटाहि पु० कुर्कुटतुल्यमहति अह--इन् । कुर्कुटा भे खगे स्त्रियां ङीष्

कुर्कुर पुंस्त्री० कुरित्यव्यक्तंशब्दं कोरति कुर--क । कुक्-

कुरे रायमुकुटः “कुर्कुराविव कूजन्तौ” अथ० ७, ९५, २,
“उपकर्त्तुमपि प्राप्तं निःस्व मन्वन्ति कुर्कुरम्” पञ्चत० ।

कुर्चिका स्त्री कूर्चिका पृषो० । कूर्चिकाशब्दार्थे अमरटीका

कुर्ण्णज पु० कुलञ्जनवृक्षे गन्धमूले राजनि० ।

कु(कू)र्द्द क्रीडायां भ्वा० आत्म० अक० सेट् । कु(कू)र्द्वते

अकु(कू)र्द्दष्ट चुकु(कू)र्द्दे । अर्थवत्परिभाषया
नकुरछुरामिति निषेधाप्रवृत्तावपि दीर्घमध्यान्तरपाठसाम-
र्थ्यात् रेफे परे न दीर्घः इति सूचितम् । तेन कुर्द्द-
नमित्यादौ न दीर्घः ।

कु(कू)र्दन न० कु(कू)र्द्द--भावे ल्युट् । क्रीडायां (कोदा) अमरः ।

कु(कू)र्पर पु० कुर--क्विप् कुः पिपर्त्ति अच् परः कर्म्म० । १

जानुनि, २ कफोणौ च । भेदि० दीर्घमध्यपाठान्तरे नि० दीर्घः
पृष्ठ २१२७

कु(कू)र्पास पुंन० कुर्परे अस्यते आस्ते का घञ् पृ० । स्त्रीणां

कञ्चुलिकायां (कांचुली) स्वार्थे क । तत्रैवार्थे । “प्रस्वे-
दवारिसविशेषविषक्तमङ्गे कु(कू)र्पासकं क्षतनखक्षतमुत्-
क्षिपन्ती” माघः । “मनोज्ञकु(कू)र्पासकपीडितस्तना”
रत्ना०

कुर्व्वत् पुंस्त्री कु--शतृ । १ चर्म्मकारे

२ भृत्ये त्रि० विश्वः ३ कर्त्तरि त्रि० । स्त्रियां ङीप् ।

कुर्व्वद्रूप पु० कुर्वत् फलोन्मुखं रूपं यस्य । बौद्धमतसिद्धे

फलजननाय योग्ये धान्यादौ वीजे । स च वौद्धमते
अतिशयात्ना सहकारिभिराधीयते इति स्थितम् यथा
“अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयते इत्यु-
भ्युपगम्यते तर्हि प्राचीनभावोऽनतिशयात्मा निवृत्तः
अम्यश्चातिशयात्मा कुर्व्वद्रूपादिपदवेदनीयो जायत इति”
सर्व्वदर्शनसं० । क्षणिकशब्दे बौद्धशब्दे च विवृतिः ।

कुर्व्वाण त्रि० कृ--शानच् । १ भृत्ये २ कारके च शब्दचि० ।

कुर्व्वादि पु० अपत्ये ण्यप्रत्ययनिमित्ते पाणिन्युक्ते शब्दगणभेदे

“सच गणः कुरु गर्गर मङ्गुष अजमार रथकार वावदूक
(सम्राजः क्षत्रिये) कवि विमति कापिञ्जलादि वाक्
वामरथ पितृमत् इन्द्रलाजी एजि वातकि दाभोष्णीषि
गणकारि कैशोरि कुट शलाका मुर पुर एरका शुभ्र अभ्र
दर्भ केशिनी (वेणा छन्दसि) शूर्प णाय श्यावनाय
श्यावरथ श्यावपुत्र सत्यङ्कार वड़भीकार पथिकार मूढ
शकन्धु शङु शाकम् शाकिन् शालीन कर्त्तृ हर्त्तृ इन
पिण्डी (वामरथस्य कण्वादिवत् खरवर्जम्) कौरव्य

कुल बन्धे संहतौ च भ्वा० पर० अक० सेट् । कोलति

अकोलीत् चकोल । कुलम् । वंशेएवास्य प्रयोग इति वदन्
दुर्गादासः आकुलः सङ्गुलैत्यादिप्रयोगमपश्यन् परास्तः ।
आ + व्यग्रतायाम् चञ्चलतायाम् । आकोलति “किमे-
तदित्याकुलमीक्षितं जनेः” माषः “उदपतद्दिवमाकुल
लोचनैः” भट्टिः ।
सम् + सङ्कीर्ण्णतायाम् सङ्कुल युद्धम् भा० द्रो० प० । “अलि-
कुलसंकुलकुसुमनिराकुलेत्यादि” जयदेवः । “शङ्खकुला-
कुलेन” माघः ।

कुल न० कुल--क, कुङ् शब्दे कर्म्मणि बा० लक्, कुंभूमिं

लाति ला--क, कौ भूमौ लीयते “अन्येभ्योऽपि” पा० ड०
यथायथम् व्युत्पत्तिः । १ जनपदे देशे । मध्यमहलद्वयेन
यावती भूमिः कृष्यते तावत्यां २ भूमौ “दशी कुलन्तु
भुञ्जीत” मनुः । “अष्टागवं धर्म्महलं षड्गवं जीवि-
तार्थिनाम् । चतुर्गवं गृहस्थानां द्विगवं ब्रह्मघातिनाम्”
हारीतस्मरणात् “षड्गवं मध्यमं हलमिति तथाविष-
हलद्वयेन यावती भूमिः कृष्यते तावद्भूमिः
कुलमित्युच्यते कुल्लू० । ३ गोत्रे ४ वंशे । ५ सजातिगणे विप्र-
कुलम् पक्षिकुलम् । स्वगकुलाय कुलायनिलायिताम् माघः
तत्र सत्कुलधर्म्माश्च “आचारो विनयो विद्या प्रतिष्ठा-
तीर्थदर्शनम् । निष्ठा वृत्तिस्तपोदानं नवधा कुललक्षणम्” ।
अभियुक्तोक्ताः तस्य नाशकधर्म्माश्च कूर्म्म पु० १५ अ० उक्ता यथा
“गोभिश्च घोटकैर्विप्र! कृष्या राजोपसेवया । कुलान्य-
कुलतां यान्ति यानि हीनानि वृत्ततः । कुविवाहैः क्रिया
लोपैर्वेदानध्ययनेन च । कुलान्यकुलवां यान्ति ब्राह्मणा
तिक्रमेण वै । अनृतात् पारदार्य्याच्च तथाऽभक्ष्यस्य भक्ष-
णात् । अश्रौतधर्म्माचरणात् क्षिप्रं नश्यति वै कुलम् ।
अश्रोत्रियेषु वेदानां वृषलेषु तथैव च । विहिताचार-
हीनेषु क्षिप्रं नश्यति वै कुलम्” ।
मनुना तु कुलनासवृद्ध्योः कारणमुक्तं यथा
“शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम् । न
शोचन्ति तु यत्रैता वर्द्धते तद्धि सर्वदा । जामयो यानि
गेहानि शपन्त्यपतिपूजिताः । तानि कृत्याहतानीव
विनश्यन्ति समन्ततः । तस्मादेताः सदा पूज्या भूषणा-
च्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ।
सन्तुष्टो भार्य्यया भर्त्ता भर्त्रा भार्य्या तथैव च । यस्मि-
न्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् । यदि हि
स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात् पुनः
पुंसः प्रजन न प्रवर्त्तते । स्त्रियान्तु रोचमानायां सर्वं
तद्रोचते कुलम् । तस्यान्त्वरोचमानायां सर्व्वमेव न
रोचते । कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च । शिल्पेन
व्यवहारेण शूद्रापत्यैश्च केबलैः । गोभिरश्वैश्च यानैश्च
कृष्या राजोपसेवया । अयाज्ययाजनैश्चैव नास्तिक्येन
च कर्म्मणाम् । कुलान्याशु विनश्यन्ति यानि हीनानि
मन्त्रतः । मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।
कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद् यशः” ।
कुलरक्षार्थंविवाह विषये त्याज्यकुलानि मनुनोक्तानि यथा
“महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः । स्त्रीसम्ब-
न्धे दशैतानि कुलानि परिवर्ज्जयेत् । हीन क्रियं निष्पु-
रुषं निश्छन्दोरोमशार्शसम् । क्षय्यामयाव्यपस्मारिश्वित्रि
कुष्ठिकुलानि च” । ६ गृहे ७ देहे च ८ श्रेष्ठे त्रि० मेदि० ।
“जीवप्रकृतितत्त्वञ्च दिक्कालाकाशमेव च । क्षित्यप्तेजो
वायवश्च कुलमित्यभिधीयते” तन्त्रोक्तेषु ९ जीवादिषु १० कु-
पृष्ठ २१२८
लिके शिल्पिकुलप्रधाने पु० भरतः । कुले भवः यत् कुल्य
ख । कुलोन, दृकञ् । कौलेयक कुलोद्भवे त्रि० अश्वादि० चतुरर्थ्या
यः । कुल्यकुलसन्निकृष्टदेशादौ त्रि० बलादि० देशे मत्प मस्य
वः । कुलवत् कुलयुक्ते त्रि० स्त्रियां ङीप् कुलवती
तत्र सजातीयसंघे “यस्याश्चलद्वारिधिवारिवीचिच्छटो-
च्छलच्छङ्खकुलाकुलेन” माघः अलिकुलसङ्कुलेत्यादि जयदेवः
पृथिव्याधारे मूलाधारे लीयते--ली + ड । ११ कुलकुण्डल्यां
स्त्री उपचारात् तदुपासके तन्त्रोक्ते १२ आचारविशेषयुक्ते
कुलाचाराधिकारेणैव कुलचन्द्रिका कुलक्रमदीपिका
कुलचूडामणिकुलार्ण्णवादयवस्तन्त्रग्रन्थाः १३ भूमिलग्ने च
त्रि० । १४ तन्त्रोक्ते तिथिनक्षत्रवारभेदे त्रि० कुलतिथि-
कुलनक्षत्रकुलवारशब्दे कुलाचारशब्दे च विवृतिः ।

कुलक न० कुल--क कौ लीयते ली--ड वा ततः संज्ञायां कन् ।

१ पटोललतायां २ परस्परसंवद्धश्लोकपञ्चके च मेदि०
“कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम्” सा० द० ।
३ काकेन्दौ पु० अमरः ४ वल्मीके पु० ५ कुलश्रेष्ठे त्रि० मेदि०
६ मरुवकवृक्षे पु० रत्नमा० । ७ हरितसर्थे पुंस्त्री० राजनि० ।
८ कुपीलौ पु० मावप्र० । ९ शिल्पिकुलप्रधाने त्रि० भरतः ।

कुलकर्कटी स्त्री नित्यकर्म्म० । चीनकर्कट्यां राजनि० ।

कुलकुण्डलिनी स्त्री कौ पृथिवीतत्त्वाधारे मूलाधारे लीयते

ली--ड कर्म्म० । तन्त्रोक्ते मूलाधारे सर्पीवदवस्थिते
शिवशक्तिभेदे कुलकुण्डलीत्यप्यत्र स्त्री । तत्स्वरूपा-
दिकं शारदायामुक्तम् यथा “ततश्चैतन्यरूपा सा सर्व्वगा
विश्वरूपिणी । शिवसन्निधिमासाद्य नित्यानन्दगुणो-
दया । दिक्कालाद्यनवच्छिन्ना सर्व्ववेदार्थगा शुभा ।
परापरविभागेन परशक्तिरियं स्मृता । योगिनां
हृदयाम्भोजे नृत्यन्ती नित्यमञ्जसा । आधारे सर्व्वभूतानां
स्फुरन्ती विद्युदाकृतिः । शङ्खावर्त्तक्रमाद्देवी सर्व्वमा-
वृत्य तिष्ठति । कुण्डलोभूतसर्पाणामङ्गश्रियमुपेयुषी ।
गुणिता सर्व्वगात्रेषु कुण्डली परदेवता । विश्वात्मना
प्रबुद्धा सा सूते मन्त्रमयं जगत् । सर्व्वदेवमयी देवी सर्व
मन्त्रमयी शिवा । सर्वतत्त्वमयी सालात् सूक्ष्मा सूक्ष्म-
तरा विभुः । त्रिधामजननी देवी सोमसूर्य्याग्निरूपिणी ।
त्रिभेदनेजसां कर्त्री शब्दब्रह्मस्वरूपिणी । द्विचत्वारिंश-
द्वर्ण्णामा पञ्चाशद्वर्ण्णरूपिणी” । विवृतमेतत् पदार्थादर्शे
राघवभट्टेन यथा “कुण्डलिनोत उत्पत्तिमाह
ततश्चैतत्येति । तदुक्तं “मूलाधारात् प्रथममुदितोयस्तु
शब्दः पराख्यः पश्चात् पश्यन्त्यघ हृटयगोबुद्धियुग्
मध्यमाख्यः । वक्त्रे वैखरर्य्यथ रुरुदिषोरस्य जन्तोः
सुषुम्णाबद्धस्तस्माद्भवति पवनप्ररितोवर्णसंघः” । ततः
शरीरोत्पत्त्यनन्तरं चैतन्यरूपा अतएव शब्दब्रह्मयी
सा देवी कुण्डली परदेवता सर्वगात्रेण गुणिता अतएव
विश्वात्मना सर्वात्मना प्रबुद्धा जातप्रबोधा मन्त्रमयं
जगत् सूत इति दूरेण सम्बन्धः । तत्र मूलाधारे
कुण्डलीभूतसर्पवन्नाडीवर्त्तते तन्मध्ये वायुवशादस्याः
सङ्करणमेव गुणनम् । चैतन्यरूपेति स्वरूपाख्यानं सा
प्रसिद्धा सर्वमावृत्य तिष्ठतीत्यनेन कर्त्तृव्याप्तिर्दर्शिता विश्व-
रूपिणीत्यनेन विषयव्याप्तिः । शिवसन्निधिमासाद्य स्थि-
तेति शेषः अनेन शैवसिद्धान्ते शक्तिशब्दवाच्येयमि-
त्युक्तं सन्निधिशब्दोऽप्यौपचारिवः तन्मते शिवशक्त्योर-
भेदात् तदुक्तमभिनवगुप्तपादाचार्य्यैः “शक्तेश्च शक्ति-
मद्रूपाद्व्यतिरेकंन वाच्छति । तादात्म्यमनयोर्नित्यं वह्नि
“हनयोरिव” । यद्वा सम्पस्यङ्निधिस्वरूपं शिवस्वरूपं
प्राप्येत्यर्थः वक्ष्यति च “पिण्डम्भवेत् कुण्डलिनी शिवा-
त्मेति” गुणानां सत्वरजस्तमसामुदयोयस्याः सा नित्या-
नन्दा चासौ गुणोदया च सा नित्यानन्दगुणोदया तेन
कुण्डलिनीस्वरूपमुक्त गुणोदयेत्यनेन साङ्ख्यमते प्रकृति
वाच्येयमित्युक्तं यदाहुः “प्रधानमिति यामाहुर्या शक्ति-
रिति कथ्यते” इति इदानीमध्यात्माधिभूताधिदैवादि
विषयादिज्योतिषक्रमेण तस्या व्याप्तिमाह दिक्वालेति
सर्व्वदेहानुगेति देहव्याप्तिः परापरविभागेन काचन परा
शक्तिः काचनापरा तद्विभागेनापीयं परशक्तिरेव यदाहुः
“भूमिरापोऽनलोवायुः खंमनोबुद्धिरे व च । अहङ्कार
इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं
विद्वि मे पराम् जीवभूतां महावाहो । ययेदं धार्प्यते
जगत्” (गीता) । यद्वा परः स्थूलः अपरः महास्थूलः
महदादिः तद्विभागेन परशक्तिः स्थूला शक्तिः स्थूलात्-
स्थूलेत्युक्तेः । अनेन महदादिव्याप्तिः यद्वा सव्व देहानुगेत्य-
नेन प्राकृतशब्दतोर्थ तश्व पुंस्त्रीनपुं सकलिङ्गव्याप्तिर्द्दर्शित
शब्दतो यथा शिव इत्युच्यते कण्डलिनीत्युच्यते प्रधानमिति
एवंभूतापि सा स्त्रीत्वेनैव निर्द्दिश्यत इव्याह परापरेति
परा पुंप्रकृतिः अपरं नपुंसकप्रकृतिस्तद्विभागेन इयं
परशक्तिःस्मृता अयमर्थः यद्यपि लिङ्गत्रयवाच्या तथापि
तूर्णमेवाचलभक्तिभारपरिश्रान्तमक्तजनसमस्ताकाङ्क्षाक-
ल्पबल्ली परशक्तिषब्दवाच्येति । अत एव शुभा रमणी-
या यदाहुराचार्य्याः” पुंनपुंसकयोस्तुल्याप्यङ्गनायां वि-
पृष्ठ २१२९
शिष्यत” इति नित्यक्लिन्नाम्नायेऽपि “सर्व्वत्रावच्छिता-
प्येषा कामिनीषु विशेषतः । प्रकाशते ततस्तासामतिवृत्तिं
न कारयेदिति” अञ्जसा तत्त्वं न योगिनां हृदयाम्भोजे
नृत्यन्तीत्यस्य तैरेव गुरूपदेशेन ज्ञायते इत्यर्थः । “दृश्या
तैरेव सा देवी सदा देशकदेशितैरित्युक्तेः सर्वभूतानाम् आधारे
मूलाधारचक्रे स्फुरन्ती अनेन स्थाननिर्देशः विद्युदाकृति-
रित्यनेन ध्यानमुक्तं यदाहुः “तड़ित्कोटिप्रख्यां स्वरुचि-
जितकालानलरुचिमिति” अथ बानेन अनेकशब्दोत्-
पत्तिहेतुत्वेनानेकधा भवतीत्युक्तं ङ्खमध्ये य आवर्त्तः
स यथा शङ्खमध्यमावृत्य तिष्ठति तद्वदियमपि देवीत्यर्थः ।
इदमवान्तरवाक्यं भिन्नमेव शङ्खेति कुण्डलीत्यनयोर्हे
तुहेतुमद्भावेन योजना । कुण्डलीभूता कुण्डलाकारतां
प्राप्ता ये सर्पा तथाभूता । केचन कुण्डलीति भिन्नं पदं
वर्णयन्ति भूतानि सर्पाश्च ते यथा कुटिलगतयस्तद्वदिय-
मपीत्यर्थः इति तत्र कुण्डली परदेवतेत्यनेन पुनरुक्तिः ।
सर्व्वदेवमयीति देवव्याप्तिः दीव्यतीति देवी तेजोरूपेत्यर्थः
अनेन तेजोव्याप्तिः । सर्वमन्त्रमयीति मन्त्रव्याप्तिः । शिवा
शिवरूपेत्यर्थः यद्वा शिवा कल्याणरूपा । साक्षात् सर्व-
तत्त्वमयीति तत्त्वव्याप्तिः । सूक्ष्मा सूक्ष्मतरा विमुरिति
विरोधः परिहारस्तु सूक्ष्मा स्वरूपतः सूक्ष्मतरा दुर्ज्ञाना
यद्वा सूक्ष्मात् त्रसरेणोरपि सूक्ष्मतरा अणुतरा अनेना
ण्वादिव्याप्तिर्द्दर्शिता तदुक्तं “बालाग्रस्य सहस्रधा
विदलितस्यैकेन भागेन या सूक्ष्मत्वात् सदृशी त्रिलो जन
नीति” विभुः इयत्तया ज्ञातुमशक्या । त्रिधामेति सूर्यसो-
माग्निरूपा । यद्वा त्रिधामेति स्थानत्रयं पातालभूखर्गरूपा
अनेन स्थानव्याप्तिर्दर्शिता द्विचत्वारिंशद्वर्ण्णात्मा भूतलि
पिमन्त्रमयी पञ्चाशद्वर्णरूपिणीति मातृकामयी” ।
तस्या ध्यानादिकमुक्तं प्रयोगसारे यथा
“मूलाधारे कुण्डलिनीं ध्यात्वा संपूजयेन्नरः । ध्यानं
तस्याः प्रवक्ष्यामि येन योगी प्रजायते । प्रसुप्तभुज-
गाकारां स्वयम्भूलिङ्गमाश्रिताम् । विद्युत्कोटिप्रभां
देवीं विचित्रवसनान्विताम् । शृङ्गारादिरसोल्लासां सर्व्व-
दा कारणप्रियाम् । एवंध्यात्वा कुण्डलिनीं ततोयजेत्
समाहितः । मनसा गन्धपुष्पाद्यैः संपूज्य वाग्भवं जपेत् ।
ततोवै तोषयेत्ताञ्च स्तवेनानेन साधकः । “रुद्रजामले”
अथ प्रातः समुत्थाय पशुरुत्तमपण्डितः । गुरूणां चरणा-
म्भोजं मङ्गलं शीर्षपङ्कजे । विभाव्य पुनरेवं हि श्रीपदं
भावयेधृदि । पूजयित्वा च विविधैरुपचारैर्नमेत् स्तवैः ।
त्रैलोक्यं तेजसा व्याप्तां मण्डलस्थां महात्सवाम् । तड़ि-
त्कोटिप्रभादी प्तिंचन्द्रकोटिसुशीतलाम् । सार्द्धत्रिबलया-
कारां स्वयम्भूलिङ्गवेष्टिताम् । उत्थापयेन्महादेवीं
महावक्त्रां मनोन्मनीम् । श्वासोच्छ्वासादुद्गच्छन्तीं द्वाद-
शाङ्गुलरूपिणीम् । योगिनीं खेचरी वायुरूपां मूलाम्बु-
जस्थिताम् । चतुर्व्वर्णस्वरूपां तां वकारादिकसान्तकाम् ।
कोटिकोटिसहस्रार्ककिरणोज्ज्वलमोहिनीम् । महासू-
क्ष्मपथप्रान्तरन्तरान्तरगामिनीम् । त्रैलोक्यरक्षितां वाक्य
देवतां शब्दरूपिणीम् । महाबुद्धिप्रदां देवीं सहस्रदल
गामिनीम् । महासूक्ष्मपथेतेजोमयीं मृत्युस्वरूपिणीम् ।
कालरूपां ब्रह्मरूपां सर्वत्र सर्वचिन्मयीम् । ध्यात्वा पुनःपुनः
शीर्षे सुधाब्धौ विनिवेशिताम् । सुधापानंकारयित्वा
पुनःस्थाने समानयेत् । समानयनकाले तु सुषुण्मामध्य-
मध्यके । अमृताभिप्लुतां कृत्वा पुनःस्थानेषु पूजयेत् ।
ऊर्द्ध्वोद्गमनकाले तु महातेजोमयींस्मरेत् । प्रतिप्रयाण
काले तु सुधाधाराभिराप्ल्ताम् । कुलकुण्डलिनीं देवी
ममृतानन्दविग्रहाम् । ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सर्व-
सिद्धीश्वारोभवेत् । तस्मिन् स्थाने महादेवौ विभाव्य
किरणोज्ज्वलाम् । अमृतानन्दमूर्त्तिं तां पूजयित्वा
शुभां मुदा । मानसोच्चारवीजेन मायां वा कामवीज-
कम् । पञ्चाशद्वर्णमालाभिर्जत्वानुलोमतस्तथा । विलोमेन
पुनर्जत्वेति”

कुलक्क पु० कु + लक्क--आप्तौ भावे घञ् । करताल्याम् हारा० ।

कुलक्षया स्त्री कुलस्य क्षयोयस्याः । १ शूकशिम्ब्या शब्द-

चि० ६ त० । २ कुलनाशे पु० । “कुलक्षयकृतं दोषं
मित्रद्रोहे च पातकम्” । “कुलक्षये प्रणश्यन्ति
कुलधर्म्माः सनातनाः” गीता ।

कुलघ्न त्रि० कुलं हन्ति हन--टक् । वंशधातके । “सङ्करो-

नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरोह्येषां
लुप्तपिण्डोदकाक्रयाः । दोषरतः कुलघ्नानां वर्णसङ्कर
कारकैः । उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः ।
उत्सन्नकुलधर्म्माणां मनुष्याणां जनार्द्दन! । नरके नियतं
वासोभवतीत्यनुशुश्रुमः” गीता । तत्र यथोत्तरंकार्य्य
मुक्तं तत्रैव “कुलक्षये प्रणश्यन्ति कुलधर्म्माः सनातनाः ।
धर्म्मे नष्टे कुलं कृत्स्नमधर्म्मोऽभिमवत्युत । अधर्म्माभि
भवात् कृष्ण! प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु
वार्ष्णेय! जायते वर्णसङ्करः । सङ्कशेनरकायैव
कुलघ्नानां कुलख च” एतदुत्तरं कुलघ्नशब्दे दर्शितम्
पृष्ठ २१३०

कुलज त्रि० कुले सत्कुले जायते जन--ड । १ सत्कुलोद्भवे ।

२ कुलपालिकायां स्त्री टाप् शब्दरत्ना०

कुलञ्ज पु० कुं पृथिवीं रञ्जयति रञ्ज--णिच् अण् रस्य लः ।

कुलञ्जनवृक्षे राजनि० नन्द्या० ल्यु । कुलञ्जनोऽप्यत्र “कुल-
ञ्जनः कुटुस्तिक्तः उष्णश्च दोपनस्तथा । मूत्रदोषविनाशी
च” राजनि० तद्गुणा उक्ताः

कुलटा स्त्री० कुलात् कुलान्तरं व्यभिचारार्थमटति अट--अच्

शक० । व्यभिचारिण्यां स्त्रियाम् । या तु भिक्षार्थं
कुलमटति सा कुलाटा इति तत्र न शक० । इति भेदः

कुलटी स्त्री कुत्सितं रट्यते रट--भाषणे घञर्थे क गौरा०

ङीष् रस्य लः । मनःशिलायां रत्नमाः

कुलतन्तु पु० कुलस्य तन्तुरिव । कुलावलम्बने “मया च सत्य-

वत्या च कृष्णेन च महात्मना । समवस्थापितं भूयो-
युस्माहु कुलतन्तुषु” भा० आ० ११० अ०

कुलतिथि स्त्री द्वितीयाषष्ठीदशमीभिन्नासु समतिथिषु

चतुर्थ्यष्टमीद्वादशीचतुर्द्दशीषु यथोक्तं तन्त्रसा० “द्वितीया
दशमी षष्ठी कुलाकुलमुदाहृतम् । विषमाश्चाकुलाः सर्व्वाः
शेषाश्च तिथयः कलाः”

कुलत्थ पु० कुलं भूलग्नं सत् तिष्ठति स्था--क पृषो० । १ कलाय-

भेद (कुलत्थकलाइ) २ वनकुलत्थे स्त्री टाप् रत्नमा० ।
तत्पर्य्यायादि भावप्र० उक्तं
“कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ । कुलत्थः
कटुकः पाके कषायः रक्तपित्तकृत् । लघुर्विदाही वीर्य्योष्णः
श्वासकासकफानिलान् । हन्ति हिक्काश्मरीशुक्रदाहा-
नाहान् सपीनसान् । स्वेदसंग्राहको मेदोज्वरकृमि
हरः परः ।” भावप्र० कुलत्थिकेति निर्द्देशात् स्त्रीत्व-
मपि सा च उपचारात् ३ तदुत्थाञ्जने ४ वनकुलत्थायां च
स्त्री राजनि० “कुलाली लोचनहिता चक्षुष्या कुम्भ-
कारिका लुलत्थिकेति” राजनि० वनकुलत्थापर्य्यये
उक्तेः । स्वार्थे क । तत्रैवार्थे राजनि० कुलत्थे भावप्र०
संज्ञायां कन् । कुलत्थाञ्जनाकारप्रस्तरभेदे अमरः ।

कुलत्थाञ्जन न० कुलत्थया कृतमञ्जनम् । अञ्जनभेदे “प्रला-

पहारि चक्षुष्यं कषायं कटुकं हिमम् । विषविष्फोटक-
ण्डूनां नाशकं व्रणदोषहृत्” राजान० तद्गुणा उक्ताः

कुलदीप पु० कुले कुलाचारे विहितोदीपः तन्त्रसारोक्ते

कुलाचाराङ्गे १ दीपभेदे “अर्केन्दुसितवाट्यालतूल
निर्म्मि तवर्त्तिकम् । प्रदीपं तत्र संस्थाप्य अस्त्रैस्तत्र
प्रपूजयेत् । हते तस्मिन् कुलदीपे विघ्नौश्च परिभूयते ।
तदचश्चास्त्रमन्त्रेण निखनेत् कुलदीपकम्” कुलं
दीपयति अण् उप० स० । २ कुलप्रकाशके कुलश्रेष्ठे त्रि०

कुलदेवता स्त्री० कुले पूज्या देवता । १ कुलक्रमेणोपास्य

देवतायाम् गौर्य्यादिषु षोडशसु मातृषु मध्ये २ मातृभेदे
च । ताश्च गृह्यपरिशिष्टे उक्तायथा “गौरी पद्मा शची
मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा
मातरो लोकमातरः । शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया
सह । आदौ विनायकः पूज्यो अन्ते च कुलदेवता”

कुलदेवी स्त्री कुलैः कुलाचारैरुपास्या देवी । १ तन्त्रोक्ते

देवीभेदे कुलदेवताश्च तन्त्ररा० उक्तायथा
“त्रिपुरा त्रिपुरेशी च सुन्दरी पुरसुन्दरी । श्रीमालिनी
च सिद्धात्मा महात्रिपुरसुन्दरी । प्रकटास्या तथा गुप्ता
तथा गुप्ततरा परा । सम्प्रदायाकुला कोला रहस्याति-
रहस्यगा । परस्पररहस्या च तथा कामेश्वरी शुभा ।
भगमाली नित्यक्लिन्ना भैरवी वह्निसुन्दरी । महाविद्येश्चरी
दूती त्वरिता कुलसुन्दरी । नित्या नीलपताका च
विजया सर्वमङ्गला । ज्वालांशुमालिनी चित्रा वशिनी
शुभगाकुला । पूर्ण्णाख्या च तथा वत्सा कामेशी
मोहिनी तथा । विमला वरुणा देवी जयिनी कूलभैरवी ।
सर्वेश्वरी तथा कौली वागिशी सर्वकामिनी । सिद्धेश्वरी
तथा चोग्रा दुर्गा महिषमर्द्दिनी । स्वप्नावती शूलिनी
च मातङ्गी सुरसुन्दरी । महाकाली महोग्राच चित्र-
रूपा महोदरी । प्राणविद्या तथैकाक्षी चैकपादा
महाङ्कुशा । वामा शिवा तथा ज्येष्ठा सुरूपा चारुहासि-
नी । त्रिखण्डा त्रिशिरा गौरो विन्ध्याचलनिवासिनी ।
क्षोभिणी मोदिनी भद्रा ललिता बहुरूपिका । सर्व्व-
सम्पत्करी तारा भवानी विश्वहारिणी । कुलेश्वरी
महाविद्या कथिता तव भैरव!” । कुलैः कुलजैरुपास्या
देवी २ वंशपरम्परया उपास्ये देवीभेदे च

कुलद्रुम पु० “श्मेष्मान्तकः करञ्जश्च विल्वाश्वत्थकदम्बकाः ।

निम्बो वटोडुम्बरौ च धात्री चिञ्चा दश स्मृताः” इत्यु-
क्तेषु श्मेष्मान्तकादिषु दशसु

कुलधारक पु० कुलं धारयति स्थिरीकरोति धृ--णिच्--ण्वुल् । वंशरक्षके पुत्रे त्रिका०

कुलधुर्य्य त्रि० कुलेषु धुर्य्यः अग्र्यः । कुलश्रेष्ठे

कुलनक्षत्र न० “वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहतम् ।

कुलानि समधिष्ण्यानि शेषाणि चाकुलानि वै” तन्त्रसा०
उक्तेषु साभिजित्काष्टाविंशतिनक्षत्रमध्ये आर्द्राभिन्न-
समसंख्यक्रेषु नक्षत्रेषु तत्फलमुक्तं तत्रैव “तिथिवारे च
नक्षत्रे अकुले स्थायिनोभयम् । कुलाख्ये जयिनो नित्यम्
साम्यञ्चैव कुलाकुले”
पृष्ठ २१३१

कुलनायिका स्त्री० तन्त्रोक्ते कुलैः सेव्ये नायिकामेदे । शक्ति-

साधनतन्त्रे १ पटले तद्भेदादिकमुक्तं यया
“नटी कापालकी वेश्या रजकी नापिताङ्गना । ब्राह्मणी
शूद्रकन्या च तथा गोपालकन्यका । मालाकारस्यकन्या-
च नव कन्याः प्रकीर्त्तिताः । विशेषवैदग्ध्ययुताः सर्वाएव
कुलाङ्गनाः । रूपयौवनसम्पन्ना शीलसौभाग्यशालिनी ।
पूजनीया प्रयत्नेन ततः सिद्धिर्भवेद्ध्रुवा” । अत्र विशेष-
यति निरुक्ततन्त्रे १४ पटले । “नटी कापालिकी वेश्या
रजकी नापिताङ्गना । योगिनी श्वपची शुण्डी भूमीन्द्र-
तनया तथा । गोपिनी माल्यकारस्य कन्या कार्यविभेदतः ।
चतुर्वर्णोद्भवा रम्या कापाली सा प्रकीर्त्तिता । पूजाद्रव्यं
समालोक्य वेशाचरणमिच्छति । चतुर्वर्णोद्भवा रम्या सा
वेश्या परिकीर्त्तिता । पूजाद्रव्यं समालोक्य रजोऽवस्थां
प्रकाशयेत् । सर्ववर्णोद्भवा रम्या रजकी सा प्रकीर्त्तिता ।
पूजाद्रव्यं समालोक्य कुलजा वीरमाश्रयेत् । संत्यज्य
पशुभर्त्तारं कर्म्म चाण्डालिनी स्मृता । विपरीतरता
पत्यौ पात्रं या परिपृच्छति । सर्ववर्णोद्भवा रम्या सा शौण्डी
परिकीर्त्तिता । सर्बदा यन्त्रसंस्कारो यस्याश्च परिजायते ।
भूमीन्द्रजा तु रम्याऽसौ सर्ववर्णोत्भवा प्रिथे! । आत्मानं
गोपयेद्या च सर्वदा पशुसङ्कटे । सर्ववर्णोद्भवा रम्या गोमिनी
सा प्रकीर्त्तिता । पूजाद्रव्यं समालोक्य या मालां परिकी-
र्त्तयेत् । सर्ववर्णोद्भवा रम्या मालिनी सा प्रकीर्त्तिता” ।
वेश्यायाविशेषस्तु तत्रैवोक्तः । “गुप्तवेश्या महावेश्या कुलवे-
श्यामहोदया । राजवेश्या देववेश्या ब्रह्मवेश्या च सप्तधा ।
कुलजा गुप्तवेश्या स्यात् निर्लजा मदनातुरा । पशुभ-
र्त्राश्रिता लोके गुप्तवेश्या प्रकीर्त्तिता । कुलजा कुलवे-
श्या स्यात् महावेश्या प्रकीर्त्तिता । भगलिङ्गकला-
भिश्च चुम्बयेच्च पुनः पुनः । एवंविधा कुलीना चेत् ब्रह्म-
वेश्या प्रकीर्त्तिता । दिव्यशक्तिर्वीरशक्तिस्तासां सङ्गे
प्रकीर्त्तिता । चतुर्वर्णोद्भवानाञ्च शङ्गिताः परिभाषि-
ताः । वेश्यावद्भ्रमते यस्मात् तस्माद्वेश्या प्रकीर्त्तिता ।
वर्णसङ्करतो जाता सर्ववेश्या प्रकीर्त्तिता” । कुलकामि-
न्यादयोऽप्यत्र

कुलनाश पु० ६ त० । १ कुलर्ध्वसे तत्कारणं कुलशब्दे उक्तम्

तदभावकारणञ्च “यावच्च वेदधर्म्माः स्युर्यावत् स्वाच्छङ्क-
रार्च्चनम् । यावत् स्याच्छुचि कृत्यञ्च तावन्न कुलनाशनम् ।
कुलं भूलग्नं नाश्राति न + अश + अच् सुप् सुपेति समासः ।
२ उष्ट्रे पुंस्त्री० हेमच० तस्योन्नतकन्धरतया उन्नत
प्रदेशस्थकण्ठकार्देभूक्षणाद्भूलग्नादेरभक्षर्णन तथात्वम्
स्त्रियां जातित्वात् ङीष् ।

कुलनाशन न० कुलं नाशयत्यनेन नश--णिच्--करणे ल्युट् ।

वंशध्वंससाधने । “मुसलं कुलनाशनम् । यथा च
मुसलेन वृष्णिप्रभृतिकुलनाशनं तथा भा० सौ० १ अ० उक्तं यथा
“विश्रामित्रञ्च कण्वञ्च नारदञ्च तपोधनम् । सारणप्रमुखा
वीरा ददृशुर्द्वारकां गतान् । ते तान् शाम्बं पुरस्कृत्य
भूषयित्वा स्त्रियं यथा । अव्रुवन्नुपसङ्गम्य दैवदण्डनि-
पीडिताः । इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ।
ऋषयः साधु जानीत किमयं जनयिष्यति । इत्युक्तास्ते
तदा राजन् विप्रलम्भप्रधर्षिताः । प्रत्युब्रुवस्तान्मुनयो
यत्तच्छृणु नराधिप! । वृष्ण्यन्धकविनाशाय मुसलं
वोरमायसम् । वासुदेवस्य दायादः शाम्बोऽयं जनयिष्यति ।
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः । उच्छेत्तारः
कुलं कृत्स्नमृते रामजनार्द्दनौ । समुद्रं यास्यति श्री-
मांस्त्यक्त्वा देहं हलायुधः । जरा कृष्णं महात्मानं
शयानं भुवि भेत्स्यति । इत्यब्रुवंस्ततो राजन्! प्रल-
ब्धास्तैर्दुरात्मभिः । मुनयः क्रोधरक्ताक्षाः सभीक्ष्याथ
परस्परम् । तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः ।
अथाब्रवीत्तदा वृष्णीन् श्रुत्वैवं मधुसूदनः । अन्तज्ञो मतिमां-
स्तस्य भवितव्यं तथेति तान् । एवमुक्त्वा हृषीकेशः प्रवि-
वेश पुरन्तदा । कृतान्तमन्यथा नैच्छत् कर्त्तुं स जगतः
प्रभुः । श्वोभूतेऽथ ततः शाम्बो मुसलं तदसूत वै । येन
वृष्ण्यन्धककुले पुरुषा भस्मभात्कृताः । वृष्ण्यन्धकविना-
शाय किङ्करप्रतिमं महत् । असूत शापजं घोरं तच्च
राज्ञे न्यवेदयन् । विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकार-
यत् । तच्चूर्णं सागरे चापि प्राक्षिपन् पुरुषा नृप!”
चूर्णीकृतस्य तर्स्यसमुद्रे एरकाभावमुक्त्वा एरकाभूतेन
सुसलेन ३ अ० परस्परनाशोवर्णितः यथा
“ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा । युयुधान-
मथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा । हन्यमाने तु शैनेये
क्रुद्धो रुक्मिणिनन्दनः । तदनन्तरमागच्छन्मोक्षयिष्यत
शिनेः सुतम् । स भोजैः सह संयुक्तः सात्यकिश्चान्धलैः
सह । व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ ।
बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः । हतं दृष्ट्वा
तु शैनेयं पुत्रञ्च यदुनन्दनः । एरकाणान्तदा मुष्टि
पृष्ठ २१३२
कोपाज्जग्राह केशवः । तदभून्मुसलं घोरं वज्रकल्पम-
योमयम् । जघान कृष्णस्तांस्तेन ये ये प्रमुखतोऽभवन् ।
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा । जघ्नुरन्यो-
न्यमाक्रन्दे मुसलैः कालचोदिताः । यस्तेषामेरकां कश्चि-
ज्जग्राह कुपितो नृष! । वज्रभूतेव सा राजन्नदृश्यत तदा
विभो । तृणञ्च मुसलीभूतमपि तत्र व्यदृश्यत । ब्रह्मदण्ड-
कृतं सर्वमिति तद्विद्धि पार्थिव! । अविध्यन् विध्यते
राजन्! प्रक्षिपन्ति स्म यत्तृणम् । तद्वज्रभूतं मुसलं व्यदृश्यत
तदा दृढ़म् । अबधीत् पितरं पुत्रः पिता पुत्रञ्च भारत! ।
मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् । पतङ्गा इव
चाग्नौ ते निपेतुः कुकुरान्धकाः । नासीत् पलायने बुद्धि-
र्बध्यमानस्य कस्यचित् । तत्रापश्यन्महाबाहुर्ज्जानन्
कालस्य पर्य्ययम् । मुसलं मभवष्टभ्य तस्थौ स मधुसूदनः ।
शाम्बञ्च निहतं दृष्ट्वा चारुदेष्णञ्च सान्वयम् । प्रद्युम्नञ्चा-
निरुद्धञ्च ततश्चुक्रोध माधवः । गदं वीक्ष्य शयानञ्च भृशं
कोपसमन्वितः । स निःशेषं तदा चक्रे शार्ङ्गचक्रगदा-
धरः । तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः ।
दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् । भगवन्निहताः
सर्वे त्वया भूयिष्ठशो नराः । रामस्य पदमन्विच्छ तत्र
गच्छाम यत्र सः ।” भावे ल्युट् । २ वंशनाशने च ।

कुलन्धर पु० कुलं वंशं धारयति धृ--बा० खच् मुम् च । वंश

धरे “युधिष्ठिरोलब्धराज्योदृष्ट्वा पौत्रं कुलन्धरम्” भा०
१, १३, १४,

कुलपति पु० “मुनीनां दशसाहस्रं योऽन्नदानादिपोषणात् ।

अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः” पुराणोक्त
लक्षणे १ मुनिभेदे । “लोमहर्षणपुत्र उग्रश्रवाः सौतिः
पौराणिको नैमिषारण्ये । शौनकस्य कुलपतेर्द्वादश-
वार्षिके सत्रे” भा० आ० १ अ० १ श्लो० । “ततोऽब्रवीत्
कुलपतिं पादौ संगृह्य भारत!” भा० आनु० ९ अ० ३३० । २
वंशश्रेष्ठे च कुलनायकादयोऽप्यत्र । अश्वपत्या० अपत्यादिषु
प्राग्दीव्यतीयेषु अर्थेषु अण् । कौलपत तदपत्याद्यर्थेषु ।

कुलपत्र(क) पु० कुलं भूमिलग्नं पत्रमस्य । दमनकवृक्षे

राजनि० । वा कप् । तत्रार्थे । भावप्र० कुलपुत्रक इति
क्वचित्पाठे पृषो० ।

कुलपर्व्वत “पु० माहेन्द्रोमलयः सह्यः शक्तिमानृक्षपर्वतः ।

विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्व्वताः” विष्णुपु० उक्ते-
षु १ जम्बुद्वीपस्थवर्षसीमाकारकेषु माहेन्द्रादिषु सप्तसु
वर्षाचलेषु पर्वतेषु । एतेषां यथा वर्षमर्य्यादाकारित्वं तथा
इलावृतशब्दे ९८४ पृ० शि० सि० वाक्येनोक्तम् । प्लक्षादि-
द्वीपेषु कुलाचलाश्च विष्णुपु० दर्शिता यथा तत्र २ प्लक्षद्वीपे
“मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां
नामानि शृणुष्व मुनिसत्तम! गोमेदश्चैव चन्द्रश्च नारदो
दुन्दुमिस्तथा । सोमकः सुमनाः शैलो वैभ्राजश्चैव
सप्तमः” शाल्मले । ३ “वर्षाचलेषु रम्येषु सर्वेष्वेतेषु
चानघ! । तत्रापि पर्वताःसप्त विज्ञेया रत्नयोनयः । रसाभि-
व्यञ्जकास्तेषु तथा सप्तैक निम्नगाः । कुमुदश्चोन्नतश्चैव
तृतीयश्च वलाहकः । द्रोणोयत्र महौषध्यः स चतुर्थो
महीधरः । कङ्गश्च पञ्चमः षष्ठो महिषः सप्तमस्तथा ।
कुसुद्वान् पर्वतवरः” । ४ कुशद्वीपे “विद्रुमाह्वयशैलश्च द्युतिमान्
पुष्पवांस्तथा । कुशेशयो हरिश्चैव सप्तमो मन्दराचलः ।
वर्षाचलास्तु सप्तैव तत्र द्वीपे महामुने”! ५ क्रौञ्चद्वीपे
“तत्रापि देवगन्धर्वसेविताः सुमनोहराः । वर्षाचला महा
बुद्धे! तेषां नामानि मे शृणु । क्रौञ्चश्च वामनश्चैव
तृतीयश्चान्धकारकः । चतुर्थो हरशैलश्च स्वभाभिर्भासव
न्नभः । देवावृत् पञ्चमश्चैव तथाश्वः पुण्डरीकभाज् ।
६ शाकद्वीपे । “तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः ।
पूर्ब्बस्तत्रोदयगिरिर्जलाधारस्तस्तथाऽपरः । तथा रैवतकः
श्यामस्तथैवास्तगिरिर्द्विजः! । आम्बिकेयस्तथा रम्यः
केशरी पर्वतोत्तमः” । तत्तद्द्वीपस्थेषु उक्तेष्वपि सप्तसु वर्षा-
चलेषु ७ पुष्करद्वीपे तु एकएव मानसोत्तरशैलस्तादृक्
यथाक्तं भा० ५०, २०, २१, तद्द्वीपमध्ये एक एवार्वा-
चीनवर्षयोर्मर्य्यादाकारकोऽ युतयोजनोच्छ्रायायामः” ।
विष्णुपु० । भागवतयोस्तेषां नामभेदः कल्पभेदादविरुद्धः ।
कुलगिरिकुलाचलवर्षाचलादयोऽप्यत्र । “माहेन्द्रशुक्तिम-
लयर्क्षकपारियात्राः । सह्यः सविन्ध्य इह सप्त कुलाच-
लाख्याः शि० सि० इह जम्बुद्वीपे ।

कुलपालक त्रि० कुलं पालयति पालि--ण्वुल् (कमला

नेवु) १ कुरुम्बे पु० शब्दच० २ वंशपालके त्रि० स्त्रियां टाप्
अतहत्त्वम् । सा च कुलस्त्रियाञ्च

कुलपालि स्त्री कुलं पालयति पालि--इन् । कुलवत्यां स्त्रियां वा ङीप् ।

कुलपुत्र पु० कुलरक्षकः पुत्रः । वंशधरे पुत्रे ततः भावे

कर्म्मणि च मनोज्ञा० वुञ् । कौलपुत्रक तद्भावे
तत्कर्म्मणि च न०

कुलप्रसूत त्रि० कुले सत्कुले प्रसूतः । सत्कुलजाते

कुलबधू स्त्री कुले गेहे एव स्थिता बधूः । गृहमात्रस्थिता-

यां योषिति । “ब्रूते ब्रूतां व्रजकुलबधूः कापि साध्वी
ममाग्रे” उद्भटः कुलयोषिदाददयोऽप्यत्र” असंस्कृतप्रमी-
तानां त्यागिनां कुलयोषिताम्” मनुः
पृष्ठ २१३३

कुलभृत्या स्त्री कुलैः वंशभवैः भृत्या भरणम् भृ--भावे क्यप्

६ त० । गर्भिण्या दीहदादिदानरूपायां परिचर्य्यायाम्
जटा० । कुलस्य भृत्या । २ वंशभरणे च ।

कुलम्पुन न० कुलं पुनाति पू--बा० खश् मुम् च । भारतोक्ते

तीर्थभेदे “कुलल्पुने नरः स्नात्वा पुनाति स्वकुलानि
च भा० व० ८३ अ०

कुलम्भर(ल) पु० कौ भूमौ रम्भे सन्धिकरणादिव्यपारे लीयते

आसक्तः ली--बा० ड लस्य रः अन्तस्थस्यं तु वा रः ।
चौरे हारा० ।

कुलर त्रि० कुल + अश्मादि० चतुरर्थ्यां र । कुलसन्निकृष्ट देशादौ ।

कुलवत् त्रि० कुलं प्रहस्तकुलमस्त्यस्य बला० वा मतुप् मस्य

वः । प्रशस्तकुलजे स्त्रियां ङीष् । सा च कुलस्त्रियां
गृहमात्रावस्थितायां स्त्रियाम् ।

कुलवर्ण्णा स्त्री० कुलैः वैद्यकुलैः वर्ण्णो गुणोत्कीर्त्तनं यस्याः

वर्ण्ण--भावे घञ् ३ त० । रक्तत्रिवृति (लालतेओडि) राजनि० ।

कुलवार पु० “रविश्चन्द्रो गुरुः सौरिश्चत्वारश्चाकुला इमे ।

“भौमशुक्रौ कुलाख्यौ तु बुधवारः कुलाकुलः”
तन्त्रसा० उक्तयोः कुजशुक्रवारयोः ।

कुलविद्या स्त्री कुलक्रमागता विद्या । १ वंशक्रमागतविद्या-

याम् । कुलैः स्वकुलैः शिक्षणीया विद्या । “२ आन्वीक्षि-
कीत्रयीप्रभृतिविद्यायाम् “तमादौ कुलविद्यानामर्थमर्थ-
विदां वरः” रघुः

कुलविप्र पु० कुलक्रमागतः विप्रः । वंशक्रमागते पुरोहिते क्षीरस्वामो कुलपुरोहितादयोऽप्यत्र

कुलव्रत न० कुले चर्य्यं व्रतम् । कुलक्रमेण कर्त्तव्ये व्रते

“गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्” रघुः ।

कुलश्रेष्ठिन् त्रि० कुलेषु श्रेष्ठी । शिल्वकुलप्रधाने अमरः

कुलसंख्या स्त्री कुले संख्या कीर्त्तिः । वंशमध्ये गणना-

याम् वंशश्रेष्ठतायाम् “मन्त्रतस्तु समृद्धानि कुलान्यल्प-
धनानि च । कुलसंख्याञ्च गच्छन्ति कर्षन्ति च मह
द्यशः” मनुः

कुलसत्र न० कुलैः कुलजैरनुष्ठेयं सत्रम् । पित्रादिक्रमेणा-

नुष्ठये सहस्रवर्षसाष्ये कार्ष्णाजिनिमतसिद्धे सत्रभेदे तच्च
कात्या० श्रौ० १, ६, २३, दर्शितं यथा
“कुलसत्रमिति कार्ष्णाजिनिः” सू० । “कार्ष्णाजिनि र्मुनि-
रित्याह एवं कथयति यत् कुलसत्रमेतत् सहस्रसंवत्-
सरं भवति कुलस्य पितृपुत्रपौत्रप्रपौत्रतत्पुत्रादिरूपस्य
वंशस्येतत्भवति न त्वेकस्य कस्यचित् असम्भवात् ।
मनुष्याधिकारं चैतत् प्रारब्धं चावश्यं समापनीयं नचैकः
शक्नोति समापयितुमिति यथा शक्यते तथा समापनीय
मिति गम्यमाने ये वहवस्ते शक्नुवन्ति तेन तत्कुलीनाः
क्रमेण कैश्चिदारब्धं कैश्चिन्मध्येऽनुष्ठितं केचित्
समापयिष्यन्तीत्येवं कुलसत्रं कार्ष्णागिनिमन्यते” कर्कः वर्ष
शब्दस्य दिनपरत्व कल्पनेन कात्यायनेनेदं दूषितम् ।

कुलसम्भवः कुलं सम्भवोऽस्य । वीज्ये कुलजाते अमरः ।

कुलसाधक त्रि० कुलेन कुलाचारेण साधकः । तन्त्रोक्ते

कुलाचारेण साधकभेदेषु तेंच तन्त्रसारे दर्शिताः यथा
“उपासकान्महादेव! शृणु चैकमनाः खयम् । मनुश्चन्द्रः
कुवेरश्च मन्मथस्तदनन्तरम् । लोपामुद्रामुनिर्नन्दी शक्रः
स्कन्दः शिवस्तथा । क्रोधभट्टो रुरुश्चैव पञ्चमश्च प्रकी-
र्त्तितः । दुर्व्वासा व्याससूर्य्यौ च वशिष्ठश्च पराशरः ।
और्व्वोवह्निर्यमश्चैव निरृर्तोवरुणस्तथा । वायुर्विष्णुः
स्वयम्भूश्च भैरवो दानवस्तथा । अनिरुद्धो भरद्वाजो
दक्षिणामूर्त्तिरेव च । गणपाः कुलपाश्चैव लक्ष्मीर्गङ्गा
सरस्वती । रात्रीदेवः प्रमत्तश्च उन्मत्तः कुलभैरवः ।
क्षेत्रपालो हनूमांश्च दक्षो गरुड़ एव च । काश्यपः
कौशकुन्तौ च जमदग्निर्भृर्गुस्तथा । वृहस्पतिर्यदु-
श्रेष्ठो दत्तात्रेयो युधिष्ठिरः । अर्जुनो भीमसेनश्च द्रो-
णाचार्य्यो वृषाकपिः । दुर्य्योधनस्तथा कुन्ती सीता च
रुक्मिणी तथा । सत्यभामा द्रोपदी च उर्वशी च तिलो-
त्तमा । पुष्पदन्तो महाबुद्धो वाणः कालश्च मन्दरः ।
कैलासः क्षीरसिन्धुश्च उदधिर्हिमवांस्तथा । नारदश्च
महावीराः कामतो वीरसाधकाः । महाविद्याप्रसादेन
स्वस्वकर्म्मसमन्विताः । एतेषां वत्स! नामानि विद्या
विद्योपसेविनाम् । प्रातःकाले शुचिर्भूत्वा यः पठेत् प्रय-
तात्मवान् । पूजायां वा शुचिर्भूत्वा प्रसीदामि कुलान्वये ।
अशुचिर्वानिरालम्ब्यमालम्ब्य च कुलान्तिके । नित्य
पूजाफलं तस्य ददामि वरमीप्सीतम् ।”
कुलवीरकुलोपासकादयोऽप्यत्र

कुलसौरभ न० कुलं श्रेष्ठं सौरभमस्य । मरुवकवृक्षे शब्दमा०

कुलस्त्री स्त्री कुले गृहे स्थिता स्त्री । कुलपालिकायाम् अमरः

कुलहुण्डक पु० कुलाय संघाय हुण्डते हुडि--संघे ण्वुल् ।

आवर्त्ते हारा० कुलहुण्डकोऽप्यत्र त्रि० पृषो० ।

कुलाकुल त्रि० तन्त्रोक्तेषु तत्संज्ञकतिथिवारनक्षत्रेषु ।

कुलाचारशब्दे विवृतिः
पृष्ठ २१३४

कुलाकुलचक्र न० कुलञ्च अकुलं कुलाकुलम् तर्योविचारार्थं

चक्रम् । तन्त्रोक्ते ग्राह्यमन्त्रस्य शुभाशुभताज्ञानार्थे
चक्रभेदे तद्विवृतिः तन्त्रसारे
“कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह” । इत्यु-
क्रम्य निबन्धे “वाय्वग्निभूजलाकाशपञ्चाशल्लिपयः क्रमात् ।
पञ्च ह्रस्वाः पञ्च दीर्घा विन्द्वन्ताः सन्धिसम्भवाः (यादया) ।
कादयः पञ्चशः षक्षलसहान्ताः समीरिताः” ।
अ आ एकचटतपयषा मारुताः । इ ई ऐ ख छ ट थ फ
रक्षा आग्नेयाः । उ ऊ ओ ग ज ड द बललाः
पार्थिवाः । ऋ ॠ औ घ झ ढ ध भ वसा वारुणाः । ऌ
ॡ अं ङ ञ ण नमशहा नाभसाः । “साधकस्याक्षरं
पूर्ब्बं मन्त्रस्यापि तदक्षरम् । यद्येकभूतदैवत्यं जानी-
यात् स्वकुलं हि तत् । भौमस्य वारुणं मित्रमाग्ने-
यस्यापि मारुतम् । मारुतं पार्थिवानाञ्च शत्रुराग्नेय-
मम्भसाम्” । चकारादाग्नेयं पार्थिवानां शत्रुः ।
तथाच रुद्रयामले “पार्थिवे वारुणं मित्रं तैजसं शत्रु-
रीरितः । ऐन्द्रवारुणयोः शत्रुर्मारुतं स प्रकीर्त्तितः ।
नाभसं सर्वमित्रं स्यात् विरुद्धे नैव शीलयेत् । मित्रे
सिद्धिः समाख्याता उदासीने न किञ्चन । मृत्युर्व्या-
धिरमित्रे च स्वकुले सिद्धिरुत्तमा” ।

कुलाङ्गार न० कुलस्याङ्गारमिव उपमितस० । कुलाधमे

वंशदृषके “धङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रु-
हम्” भाग० १ । १४ । ३७ ।

कुलाचार पु० ६ त० । कुलोचिते धर्म्मे “जीवः प्रकृतितत्त्वञ्च

दिक्कालाकाशमेव च । क्षित्यप्तेजीवायवश्च कुलमित्यभि-
धीयते । ब्रह्मबुद्ध्या निर्विकल्पमेतेष्व चरणञ्च यत् ।
कुलाचारः स एवोक्तो धर्म्मकामार्थमोक्षद” इत्युक्तरूपे
सर्व्वत्र ब्रह्मदृष्टिसाधके २ ज्ञानभेदे तन्त्रोक्ते ३ आचार
भेदे च तन्त्रसारे तदाचारप्रकारो दर्शितो यथा
“कालीतन्त्रे “अथाचारं प्रवक्ष्यामि यत्कृतेऽमृत-
मश्नुते । सर्व्वभूतहिते युक्तः समयाचारपालकः ।
अनित्यकर्म्मसंत्यागी नित्यानुष्ठानतत्परः । मन्त्राराधन
मात्रेण शिवभावेन तत्परः । परस्यान्देवतायान्तु सर्व-
कर्म्मनिवेदकः । अन्यमन्त्रार्च्चनश्रद्धा अन्यमन्त्रप्रपू-
जनम् । कुलस्त्रीवीरनिन्दाञ्च तद्द्रव्यस्यापहारणम् ।
स्त्रीषु रोषं प्रहारञ्च वर्ज्जयेन्मतिमान् सदा । स्त्रीमयञ्च
जगत् सर्वं स्वयंभूवत् तथा भवेत् । पेयञ्चर्व्यं तथा
चोष्यं भक्ष्यं लेह्यं गृहं सुखम् । सर्व्वञ्च युवतीरूपं
भावयेन्मतिमात् सदा । कुलजां युवतीं वीक्ष्य
नमस्कुर्य्यात् समाहितः । यदि भाग्यवशाद्देवि! कुलदृष्टिः
प्रजायते । तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत्” ।
तासां भगादिदेवीनाम् । तास्तु “भगिनीं भगचिन्ताञ्च
भगास्यां भगमालिनीम् । भगदत्तां भगाङ्गाञ्च भगकर्ण्णां
भगत्वचाम् । भगनासां भगस्तनीं भगस्थां भगसर्पि-
णीम् । संपूज्य ताभ्योगन्धाद्यै र्मानसैर्गुरुमेव च ।
नमस्कृत्य पुमानेवं क्षमखेति ततः सुधीः । वालां वा
यौवनोन्मत्तां वृद्धां वा सुन्दरीं तथा । कुत्सितां वा
महादुष्टां नमस्कृत्य विभावयेत् । तासां प्रहारं निन्दाञ्च
कौटिल्यमप्रियन्तथा! सर्वथा न च कुर्य्यात्तु चान्यथा-
सिद्धिरोधकृत् । स्त्रियोदेवाः स्त्रियः प्राणास्त्रियश्चैव
विभूषणम् । स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रिया
अपि । विपरीतरता सा तु भविता हृदयोपरि । तद्ध-
स्तारचितं पुष्पं तद्धस्तारचितं जलम् । तद्धस्तारचितं द्रव्यं
देवताभ्यो निवेदयेत् । स्त्रीद्वेषो नैव कर्त्तव्यो विशेषात्
पूजनं महत् । जपस्थाने महाशङ्खं निवेश्योर्द्धं
जपञ्चरेत् । स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात् कुलजां
शुभाम् । भक्ष्यं ताम्बूलमन्यच्च भक्षद्रव्यं
यथारुचि । भक्त्याप्यशेषभक्ष्याणि भुक्त्वा शेषं जपञ्चरेत्” ।
कालीतन्त्रे “दिक्कालनियमोतात्र स्थित्यादिनियमोन
च । जपे न कालनियमोनार्चादिषु वलिष्वपि । स्वेच्छा-
नियम उक्तश्च महामन्त्रस्व साधने । वस्त्रास्तरस्थान
देहागारपुष्पादिवारिणः । शुद्धिं नचाचरेत्तत्र
निर्व्विकम्पं मनश्चरेत्” । कुलार्ण्णवे “कुलाचारगृह-
ङ्गत्वा भक्त्या पापविशुद्धये । याचयेदमृतं कौलं
तदभावे जलं पिबेत् । कुलाचारेण यद्दत्तं कृत्वा पात्रेण
भक्तितः । ममस्कृत्य च गृह्णीषादन्यथा नरकं व्रजेत्” ।
अन्यत्रापि “न वृथा गमयेत् कालं द्यूतक्रीड़ादिना सुधीः ।
गमयेद्देवतापूजाजपयामस्तवादिना । वीराणां
जपयज्ञस्तु सर्वकाले प्रशस्यते । सर्वदेशे सर्वपीठे कर्त्तव्यो
नात्र संशयः” । शिवागमे “शक्तिः शिवः शिवः शक्तिः
शक्तिर्ब्रह्मा जनार्द्दनः । शक्तिरिन्द्रो रविः शक्तिः शक्ति-
श्चन्द्रो ग्रहा ध्रुवम् । शक्तिरूपं जगत् सर्वं योन जानाति
नारकी” । वीरतन्त्रे “स्नानादि मानसं शौचं मानसं
प्रवरोजपः । मानसं पूजनं दिव्यं मानसन्तर्पणादिकम् ।
सर्व्व एव शुभः कालो नाशुभोविद्यते क्वचित् । न
विशेषोदिवा रात्रौ न सन्ध्यायान्तथा निशि । सर्वदा पूज-
पृष्ठ २१३५
येद्देवीमस्नातः कृतभोजनः । महानिश्यशुचौ देशे वलिं
मन्त्रेण दापयेत्” । यत्तु “रात्रायेव महापूजा कर्त्तव्या-
वीरन्दिवते! । न दिने सर्व्वथा कार्य्या शासनान्मम
सुब्रते”! तत् पुनः कुलदेवताविषये । महानिशा तु तत्रैव
“अर्द्धरात्रात् परं यच्च मुहूर्त्तद्वयमेव च । सा महारात्रि-
रुदिष्टा तद्दत्तमक्षयन्तु वै” गान्धर्व्वे, “पृथ्वीमुतुमतीं
वीक्ष्य सहस्रं यदि नित्यशः । तदा वादी स्वसिद्धान्तहतः
क्षितितलं विशेत्” । “पर्व्वते हस्तमारोप्य निर्भयोयत-
मानसः । कवितां लभते सोऽपि अमृतत्वञ्च गच्छति” ।
अत्रापि सहस्रमिति सम्बन्धः । पृथ्वीं स्त्रियं, नित्यश
इति शोड़शदिनं यावत् । पर्वतं स्तनम् । अन्यच्च
नीलतन्त्रे “पद्मं दृष्ट्वा तथा विम्बं खञ्जनं शिखरन्तथा ।
चामरं रविविम्बञ्च तिलपुष्पं सरोरुहम् । त्रिशूलं
वीक्ष्य जप्त्वा च शतशः शुद्धभावतः । सुसुखं प्रसादं सुखं
सुलोचनं सुहास्यकम् । सुवेशं सुगतिं गन्धं सुगन्धं सुखमे
व च । लभते च यथासंख्यं शृणु पार्वति! सादरम्” ।
पद्मं मुखं, विम्बमधरं, खञ्जनञ्चक्षुः, शिखरं मस्तकं, चामरं
केशं, रविविम्बं सिन्दूरं, तिलपुष्पं नासिकां, सरोरुहं नाभिं,
त्रिशूलं त्रिवेणीम्, सादृश्यत्वात् । भावचूड़ामणौ “एकाकी
निर्जने देशे श्मशाने विजने वने । शून्यागारे नदीतीरे
निःशङ्कोविहरेत् सदा । महाचीनद्रुमे देवीं ध्यात्वा
तत्र प्रपूजयेत् । तद्द्रुमोद्भवपुष्पेण पूजयेद्भक्तिभावतः ।
स भवेत् कुलदेवश्च कुलद्रुमगतः शुचिः । ब्रह्मतरोर्म्महा-
पीठे देवीं ध्यात्वा यथाविधि । तत्सुधारसधारेण तर्प-
येन्मापृकाननम् । महाचीनद्रुमलतावेष्टितः साधको-
त्तमः । रात्रौ यदि जपेन्मन्त्रं सवै कल्प द्रु मोभवेत् ।
तिथिक्रमेण संख्याभिर्लताभिर्वेष्टितो यदि । तदा मासेन
सिद्धिः स्यात् सहस्रजपमानतः । अष्टम्याञ्च चतुर्द्दश्यां
द्विगुणं यदि दृश्यते । तत्रैव महती सिद्धिर्द्देवतानां
सुदुर्लभा” । कुलचूडामणौ “शृणु पुत्र! रहस्यं मे
समयाचारसम्भवम् । येन हीना न सिध्यन्ति जन्मकोटि-
सहस्रतः । मानवः कुलशास्त्राणां कुलचर्य्यानुचारिणाम् ।
उदारचित्तः सर्वत्र वैष्णवाचारतत्परः । परनिन्दासहिष्णुः
स्यादुपकाररतः सदा । पर्वते विपिने वापि निर्ज्जने
शून्यमण्डपे । चतुष्पथे कला(स्त्री)मध्ये यदि दैवाद्गतिर्भ-
वेत् । क्षणं स्थित्वा मनुंजप्त्वा नत्वा गच्छेद्यथासुखम् ।
गृध्रं वोक्ष्य महाकालीं नमङ्कुर्य्यादलक्षितम् । क्षेमङ्करीं
तथा वीक्ष्य जम्बुकीं यमदूतिकाम् । कुस्वरश्येनभूकाकौ
कृष्णमार्ज्जारमेव च” । दृष्ट्वा नमङ्कुर्य्यादिति शेषः । मन्त्रस्तु
“कृशोदरि! महाचण्डे! मुक्तकेशि! वलिप्रिये! ।
कुलाचारप्रसन्नास्ये! नमस्ते शङ्करप्रिये! । श्मशानञ्च
शवं दृष्ट्वा प्रदक्षिणमनुव्रजन् । प्रणम्यानेन मनुना मन्त्री
सुखमवाप्नुयात् । घोरदंष्ट्रे! करलास्ये! किटिशब्दनि-
नादिनि! । घोरघोरवास्फाले! नमस्ते! चितिवासिनि! ।
रक्तवस्त्रं तथा पुष्पं विलोक्य त्रिपुरां तथा ।
प्रणमेद् दण्डवद्भूमौ इमं मन्त्रं पठेन्नरः । बन्धू-
कपुष्पसङ्काशे त्रिपुरे! भयनाशिनि! । भाग्योदयसमुत्-
पन्ने! नमस्ते वरवर्ण्णिनि! । कृष्णवर्ण्णं तथा पुष्पं
राजानं राजपूरुषम् । हस्त्यश्वरथशस्त्राणि फलकान्
वीरपूरुषान् । महिषं कुलदेवञ्च दृष्ट्वा महिषमर्द्दिनीम् ।
प्रणम्य जयदुर्गां वा स च विघ्नैर्न्नलिप्यते । जय!
देवि! जगद्धात्रि०! त्रिवुराद्ये! त्रिदैवते! भक्तेभ्योवरदे!
देवि! महिषघ्नि! नमोऽस्तु ते । मद्यभाण्डं
ममालोक्य मत्स्यं मांसं वरस्त्रियम् । दृष्ट्वा च
भैरवीं देवीं प्रणम्य विमृषेन्मनुम् । घोरविघ्नविनाशाय
कुलाचारसमुद्भये! । नमामि! वरदे! देवि! कुण्डलाभ्यां
विभूषिते! । रक्तधारासमाकीर्ण वदने! त्वां नमाम्यहम् ।
सर्वविघ्नहरे! देवि! नमस्ते हरवल्लभे! । एतेषां दर्शने
चैव यदि नैवं प्रकुर्वते । शक्तिमन्त्रं षुरस्कृत्य तस्य
सिद्धिर्न्न जायते” तथा कुलचूड़ामणौ “कुलवारे कुला-
ष्टम्यां चतुर्दश्यां विशेषतः । योगिनीपूजनन्तत्र प्रधानं
कुलपूजनम् । यथा विष्णुतिथौ विष्णुः पूजितो
वाश्छितप्रदः । तथा कुलतिथौ दुर्गा पूजिता वरदायिनी ।
कुलवारादिनियमोजामले “वरिश्चन्द्रो गुरुः सौरिश्च-
त्वारश्चाकुलाइमे । भौमशुक्रौ कुलाख्यौ हि बुधवारः
कुलाकुलः । द्वितीया द्वादशी षष्ठी कुलाकुलमुदाहृतम् ।
विषमा श्चाकुलाः सर्व्वाः शेषाश्च तिथयः कुलाः”
विषमाः प्रतिपत् तृतीया पञ्चमी सप्तमी नवमी
एकादशी त्रयोदशी पञ्चदशी चकुलाख्या तद्भिन्नाः सर्व्वाः
शेषाश्च तिथयः कुलाः । “वारुणार्द्राभिजिन्मूलं कुला-
कुलमुदाहृतम् । कुलानि समधिष्ण्यानि शेषाणि च
कुलानि च । तत्फलमाह तत्रैव “तिथिवारे च नक्षत्रे
चाकुले स्थायिनो भयम् । कुलाख्ये जयिनो नित्यं
साम्यञ्चैव कुलाकुले” । एवं कुलवारादिकं ज्ञात्वा साधकः
कर्मकुर्य्यात्” । विवृतिश्च आगमे दृश्या ।

कुलाचार्य्य पु० कुलक्रमागतः आचार्य्यः । १ कुलगुरौ कुलस्य

वंशस्य व्याख्यायामाचार्य्यः । आधुनिककुलख्यापके विप्र-
भेदे । (घटक)
पृष्ठ २१३६

कुलाट पुंस्त्री कुलेन संधेनाटति अट--अच् ३ त० ।

क्षुद्रमत्स्य भेदे शब्दमा० स्त्रियां जातित्वात् ङीष्

कुलाय पु० कुलं पक्षिसंघातोऽयतेऽत्र अय--वञ् । १ पक्षिनिल-

ये नोडे, अमरः “खगकुलाय कुलायनिलायिताम्”
माघः वेदे त्वस्य क्लीवत्वमपि कुलायिनीशब्दे ता--व्रा०
वाक्ये उदा० दृश्यम् । २ स्थानमात्रे मेदि० कौ लायो-
गतिरस्मात् । ३ देहे न० ।

कुलायस्थ पुंस्त्री कुलाये नीड़े तिष्ठति स्था--क ७ त० ।

नीड़स्थे पक्षिमात्रे शब्दच० स्त्रियां जातित्वेऽपि संयोगोप-
धत्वात् टाप् । कुलायवासीत्यादयोऽप्यत्र स्त्रियां ङीप्

कुलायिका स्त्री कुलायः पक्षिवासस्थानं विद्यतेऽस्याम् ठन् ।

पक्षिशालायां (चिड़ियाखाना) । त्रिका० ।

कुलायिनी स्त्री व्युत्पत्तिः मा० भाष्योक्ता । त्रिवृत्स्तोमस्य

विष्टुतिभेदे तत्प्रकारादिकं ताण्ड्य० ब्रा० ३ अ० दर्शितं यथा ।
“अथ कुलायिनीं विष्टुतिन्दर्शयति” माधवभाष्यम्
“तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति
या मध्यमा सा प्रथमा, योत्तमा सा मध्यमा, या
प्रथमा सोत्तमा, तिसृभ्यो हिङ्करोति योत्तमा सा
प्रथमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा,
कुलायिनी त्रिवृतो विष्टुतिः” ब्रा०
“परिवर्त्तिन्याइव प्रथमः पर्य्यायः पराचीभिः । द्वि-
तीये पर्य्याये तृचस्य या मध्यमा ऋक् सा प्रथमा
कार्य्या । योत्तमा सा मध्यमा कार्य्या । या प्रथमा
सोत्तमा कार्य्या । तृतीयः पर्य्यायः निगदसिद्धः ।
कुलायिनी कुलायो नीडं पक्षिणां निवासस्थानं
तद्यथा व्यस्ततृणादिनिर्म्मितम् एवं व्यत्यासयुक्ता ऋचः
कुलायास्तैस्तद्वती कुलायिनी एतत्संज्ञा त्रिवृत्-
स्तोमस्य विष्टुतिरियम्”
“अस्यां विष्टुतौ कोऽधिकारीत्यत आह” भा०
“प्रजाकामो वा पशुकामो वा स्तुवीत प्रजा वै कुलाय-
म्पशवः कुलायङ्कुलायमेव भवति” ब्रा०
“प्रजानाम्पशूनाञ्च कुलायवदवस्थितिहेतुत्वात् कुलाय-
त्वेन स्तुतिः । कुलायिन्या स्तुवानोऽपि प्रजानां
पशूनाञ्च कुलायमेव आश्रयभूतो भवत्येव” ।
“पुनरप्यधिकारिविशेषं दर्शयति” भा०
“एतामेवानुजावराय कुर्य्यादेव तासामेवाग्रं परिय-
तीनां प्रजानामग्रम्पर्य्येति” ब्रा०
“अनु पश्चाज्जायत इत्यनुजः कनीयान् सहि निकृष्टः
तस्मादप्यवरो निकृष्टः अनुजावरस्तादृशाय यजमा-
नायेति । अग्रं परियतीनां लोके याः प्रजाः अग्रं
वयोगुणादिभिः श्रेष्ठपदं परियन्ति परितो गच्छन्ति
एतासामेव श्रैष्ट्यं परिगच्छन्तीनां प्रजानाम्मध्ये
स यजमानः अग्रं श्रेष्ठं पदं पर्य्येति परिगच्छति सर्व्वो-
त्कृष्टो भवतीत्यर्थः”
“सत्रेष्वहीनेषु च बहूनां यजमानानां फलसाम्यात्
कुलायिनीं विधत्ते” भा०
“एतामेव बहुभ्यो यजमानेभ्यः कुर्य्यात् यत्सर्वा अग्रिया
भवन्ति सर्वा मध्या सर्वा उत्तमाः । सर्वानेवैनान् समाव-
द्भाजः करोति नान्योन्यमपघ्नते सर्वे समावदिन्द्रिया
भवन्ति” ब्रा०
“एतामेव कुलायिनीन्त्रिवृतो विष्टुतिं बहुभ्यो
यजमानेभ्यः उद्गाता कुर्य्यात् यत् यस्माद्धेतोः तृचगताः
सर्वा ऋचः अग्रिया मुख्याः प्रथमा भवन्ति सर्वासु
मध्ये वर्त्तमाना भवन्ति सर्वाश्चोत्तमा भवन्ति तद्यथा
प्रथमे पर्य्याये प्रथमैव प्रथमा भवति । मध्यमे तु मध्यमा
प्रथमा भवति । उत्तरे उत्तमा प्रथमा भवति । एवं
सर्वासां प्राथम्यं जातम् । तथा प्रथमपर्य्याये मध्यमैव
मध्यमा द्वितीये पर्य्याये उत्तमैव मध्यमा तृतीये पर्य्याये
प्रथमैव मध्यमा । एवं सति तिस्रोऽपि मध्यमाः
सम्पन्नाः । तथा प्रथमे पर्य्याये उत्तमोत्तमा भवति ।
द्वितीये पर्य्याये प्रथमैवोत्तमा भवति । तृतीये पर्य्याये
मध्यमैवोत्तमा भवति । एवं सर्वा अप्युत्तमाः सम्पन्नाः ।
यस्मादेताः सर्वा ऋचः समानरूपाः ततो हेतोरनया
विष्टुत्या सर्वानेवैनान् यजमानानुद्गाता समावद्भाजः
समावच्छब्दः समपर्य्यायः समं फलं भजन्त इति
समावद्भाजः साम्येन फलभाजः करोति । अतएव नान्यो-
न्यमपघ्नते परस्परन्न हिंसन्ति । तथा सर्वे यजमानाः
समावदिन्द्रियाः समावद्वीर्य्याः समानसामर्थ्या भवन्ति” ।
“फलान्तरमाह” भा०
“वर्षुकः पर्ज्जन्यी भवतीमे हि लोकास्तृ चस्तान्
हिङ्कारेण व्यतिषजति” ब्रा०
“लोकस्थानीयानां तिसृणामृचामादौ प्रयुक्तेनैके-
नैव हिङ्कारेण व्यतिषञ्जनात् संयोजनात् त्रयाणां
लोकानां परस्परमुपकार्य्योपकारकभावो न वाधित
इति पर्ज्जन्यो वर्षणशीलो भवतीत्यर्थः” ।
पृष्ठ २१३७
“अस्यामपि विष्टुतौ बहुदोषाः सम्भवन्तीत्याह” भा०
“पापवसीयसन्तु भवति” ब्रा०
“तुशब्दः फलवैलक्षण्यद्योतनार्थः । पापं प्रसिद्धं
वसीयः पुण्यं तदुभयमेकाश्रयं भवति । इतरत् उद्य-
तीवाक्यशषवत् व्याख्येयम् । नञः भावोत्र विशेषः ।
इत्थं विष्टुतयस्तिस्रो विहिताः, तिसृष्वपि तासु
फलविशेषश्रवणान्निन्दादर्शनाच्च समानफलत्वात्सर्वानित्याः,
यत्र विशेषादेशः क्रियते निमित्तं वा कामो वा श्रूयते
ततोऽन्यः नित्यः । प्रयोगे आद्याभिरेताभिरेव स्तुतिभिः
स्तोमसम्पादनं कार्य्यं, तदाह सून्नकृत् । “प्रथमाभिर्वि-
ष्टुतिभिः स्तोमविधानमनादेशे ताः पक्षाः सर्वाभिप्रा-
याश्चेति” । पुनरपि यथाशिषं वा विदध्यादित्यादिना
खण्डशेषेण बहवः पक्षाः सूत्रकृतोपन्यस्ताः ते तत्रैव
बोद्धव्याः । नन्वेतास्वपि प्रत्येकं निन्दादर्शनात् कथमासां
नित्यत्वम् । नैष दोषः, उद्यत्यान्तावत् यो दोष उक्तः
अवर्षुकः पर्ज्जन्यो भवतीति, स कुलायिनीपरिग्रहे
परिह्रियते । यत्र हि वर्षुकः पर्ज्जन्यो भवतीत्या-
म्नातम् । यत्तु कुलायिन्यां दोषदर्शनं पापवसीयसन्तु
भवत्यधरोत्तरमित्यादि तदुद्यतीप्रयोगेण विहृतं तत्र
हि पापवसीयसो विधृतिरिति सा श्रूयते श्लक्ष्णेव तु
पापवसीयसन्तु भवति” ।
“अधरोत्तरमपावगतो रुध्यतेवगच्छत्यपरुद्धः पापीया
च्छ्रेयांसमभ्यारोहति जनता जनतामभ्येत्यन्योन्यस्य
प्रजा आददते न यथा क्षेत्रं कल्पन्ते” ब्रा०
“प्रथमाया मध्यमायाश्चान्ते प्रयोग इति यदस्ति
तदेतदधरोत्तरमनुष्ठानं यस्मिन् देशे क्रियते तत्र वा
ईश्वरा पशून्निर्मृज इति परिवर्त्तिन्यां यदपशुलक्षणं
दोषदर्शनं तदुद्यत्यां परिहृतं भवति । एषा वै प्रति-
ष्ठिता विष्टुतिरिति, तत्र हि वाक्यशेषः प्रजापशु-
समृद्ध्या हि प्रतिष्ठितो भवतीति” ।
एतत्सामयोनिः सूक्तविशेषः । तत्पाठप्रकारः साम
संहिताभाष्य उक्तोयथा “सामगानामुत्तराग्रन्थे
तृचात्मकानि सूक्तान्याम्नातानि यथा “उपान्मै गायता
नर” इत्याद्यं सूक्तं “दविद्यतत्या ऋचा” इति द्वितीयं
“पवमानस्य ते कव” इति तृतीयम्” तच्च उद्यतीशब्दे
११८३ पृ० दर्शितम् । एवमुद्यती विष्टुतिमुक्त्वा “एवं
परिवर्त्तिनी कुलायिनीति द्वे विष्टुती भवतः “इति
इत्युक्त्वा परिवर्त्तिन्या विष्टुतेः प्रकारमुक्त्वा कुलायिव्याः
प्रकारकथनाय प्रागुक्तं ता० व्रा० वाक्यमुदाहृत्य व्याख्या-
तम् । अत्र प्रथमसूक्ते “पराचीभिः अनुक्रमेणाम्ना-
ताभिः । तेन पाठक्रमएव । द्वितीये पर्य्याये मव्यमो-
त्तमप्रथमाः । तृतीयेतूत्तमाप्रथमामध्यमा इत्येवं
व्यत्यासेन” मन्त्राः (पूर्वोक्ताः) बोध्याः
२ कुलाययुक्ते त्रि० “ऊर्ण्णावन्तं प्रथमः सीद योनिम् ।
कुलायिनं घृतवन्तम् सवित्रे” ऋ० ६ । १५ । १६ । “कुलायिनं
गुग्गुल्वादिसंभरणोपेतम् तथा च श्रूयते “कुलायमिव
ह्येतद्यज्ञे क्रियते यत् पैतदारवाः परिधयो गुग्गुलूर्ण्णा-
स्तुकासुगन्धितेजनानि” ऐत० ब्रा०” भा० ।

कुलाल पुंस्त्री कुल--कालन, कुलमलति अल--अण्, कुलमा-

लाति आ + ला--क--वा । १ कुम्भकारे, (कुमार) अमरः
“कुलालजनकीऽपरः भाषा० “नमः कुलालेभ्यः कर्म्भारे-
भ्यश्च” यजु० १६ । २७ । २ कुक्कुभपक्षिणि मेदि० जाति-
त्वात् स्त्रियां ङीष् । ततः तेन कृतमित्यर्थे संज्ञायां
कुलाला० वुञ् । कौलालक तत्कृते शरावादौ त्रि०

कुलालादि पु० संज्ञायां तेन कृतमित्यर्थे वुञ्प्रत्ययनिमित्ते

पाणिन्युक्ते शब्दगणभेदे स च गणः “कुलाल वरुड
चण्डाल निषाद कर्म्मार सेना सिरिन्ध्र सैरिन्ध्र
देवराज परिषत् बधू मधु रुरु रुद्र अनडुह् ब्रह्मन्
कुम्भकार श्वपाक” कौलालकं वारुड़कम् इत्यादि

कुलाली स्त्री कुलमलति अल--अण् ङीप् । १ नीलोपलभेदे,

कपित्थाञ्जनप्रस्तरभेदे, अमरः २ आरण्यकुलत्थिकायाम्,
राजमि० ३ कुम्भकारभार्य्यायांञ्च । स्वार्थे क ह्रस्वः ।
कुलालिकाप्यत्र हेमच०

कुलाह पुंस्त्री० कुलमाहन्ति आ + हन--ड । ईषत्पीतवर्णे

कृष्णजानौ अश्वे हेमच० ततः संज्ञायां कन् । २
कृकलासे, (राङ्गाकुलेखाड़ा) इति ख्याते ३ शाकभेदे शब्द-
माला । “आमवातरक्तवातरोगनाशी कुलालकः”
राजवल्लभः

कुलाहल पु० कुलमाहलति स्पर्द्धते अच् । (कुकुरसोङ्गा) वृक्षभेदे रत्नमाला

कुलि पु० कुल--इन् किच्च । १ हस्ते त्रिका० । २ कण्टकारि

कायां स्त्री शब्दरत्ना० कृदिकारान्तत्वात् वा ङीप् ।

कुलिक त्रि० कुलमधीनत्वेन प्राशस्त्येन वास्त्यस्य ठन् । १

कुलश्रेष्ठे मेदि० २ शिल्पिकुल, प्रधाने अमरः । (कुलेखाड़ा) इति
प्रसिद्धे ३ शाकभेदे पु० मेदि० महानागान्तर्गते ४ नागभेदे
पु० “शेषः पद्मो महापाद्मः कुलिकः शङ्खपालकः । वासु-
किस्तक्षकश्चैव बालियोमणिभद्रकः । ऐवावतो धृतराष्ट्रः
पृष्ठ २१३८
कर्कोटकधनञ्जयौ” तिथित० पु० “ततोऽधस्तात् पाताले
नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्ख
श्वेतधनञ्जयधृतराष्ट्रशङ्खचूड़कम्बलाश्वतरदेवदत्तादयो
महाभोगिनो महामर्षा निवसन्ति” भाग० ५ । २४ । ३ ।
“कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः” हेमा० तद्रू-
पमुक्तम् । तन्त्रे तु तस्य पाटलतोक्ता । उग्रताराशब्दे
१०५६ पृ० तद्वाक्यमुक्तम्ः
“भुजेषु नागः कुलिकोऽङ्गदोमतः” । तस्य उग्रतारा-
ङ्गदभूषणत्वमुक्तम् । रव्यादिवारेषु दिवारात्र्योः ५ दुष्टमु०
हूर्त्तभेदे यथाह मुहु० चि०
“शक्रार्कदिग्वसुरसाब्ध्यश्विन्यः कुलिका रवेः । रात्रौ
निरेकास्तिथ्यंशाः शनौ चान्त्योऽपि निन्दितःः” । रविमा-
रभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथ्यं शामुहूर्त्ताः कुंलिकाः
स्युः । यथा रवौ दिने १४, मुहूर्त्तः चन्द्रे १२, मङ्गले
१०, बुधे ८, गुरौ ६, शुक्रे ४, शनौ २ कुलिकः रात्रावेते
निरेकाः कार्य्याः । यथा रवौ १३, चन्द्रे ११, भौमे ९, बुधे
७, गुरौ ५, शुक्रे ३, शनौ १, शनौ तु अन्त्यः पञ्चदशदशमु-
हूर्त्तोऽपि कुलिकः । एते निन्दिताः । अस्यापवादमाह गुरुः
“वारेशे सबले चापि बलाट्ये लग्नगे शुभे । कुलिकोद्भव-
दोषस्तु विनश्यति न संशयः । शुभे केन्द्रगते चन्द्रे शुभांशे
वा शुभेक्षिते । लग्नगे सबले वापि कलिकस्तु विलीयते”
अन्यत्र दोषमाह वशिष्ठः “निधनं प्रहरार्द्धे तु निःस्वत्वं
यमवण्टके । कुलिके सर्वनाशः स्यात् रात्रायेते न दोषदाः”
रात्रावेते न दोषदा इत्यस्यापवादो रत्नकोषे “तमस्विनी-
गन्धमुपेत्य वारदोषास्तथा शक्तिमनाप्नुवन्तः । अल्वं
समासाद्य विलासिनीनां कटाक्षवाणाइव निष्फलाः स्युः” न
वारदोषाः प्रभवन्ति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम् ।
दिवा शशाङ्कार्कजभूसुतानां सर्व्वत्र निन्द्यो बुध०
वारदोषः” । शुभकृत्यानामावश्यकत्वे देशभेदेनापवा-
दमाह गर्गः । “विन्धस्योत्तरकूले तु यावदातुहिनाच-
लम् । यमघण्टकदोपोऽस्ति नान्यदेशेषु विद्यते । मत्स्या-
ङ्गमगधान्ध्रेषु यमवण्टस्तु दोषकृत् । काश्मीरे कुलिकं
दुष्टमर्द्धयामस्तु सर्व्वतः” । कुलिकस्य विशेषप्रयोजनन्तु
“जपित्वा सितगुञ्जानां कुडकं कुलिकोदये” शारदायाम्
नवदुर्गाभिचारकर्म्माङ्गतयोक्तम् । तट्टीकायां राघवभट्टेन
च “मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्त्तैः कुलिका
भवन्ति । दिवा निरेकैरथ यामिनीषु ते गर्हिताः कर्म्मसु
शोभनेषु” इत्युक्तम् निरेकैः पूर्व्वोक्तमन्वादिमुहूर्त्तैरे-
कोनैरित्यर्थः” “न्यूनाधिमासकुलिकप्रहरार्द्धपातविष्कु-
म्भवज्रघटिकात्रयमेव वर्ज्यम्” मुहु० चि० तस्य सर्व-
कर्म्मणि वर्ज्जनीयतामाह

कुलिङ्ग पु० कौ पृथिव्यां लिङ्गति चरणार्थं गच्छति अच् ।

१ चटके, शब्दचि० २ धूम्याटे, (फिङ्गा) अमरः भूमिप्रत्या-
सन्नतया धान्यादिस्थलचारिणि ३ खगमात्रे च । ४ कुत्-
सितलिङ्गे न० । ब० । ५ तद्वति त्रि० । ६ कर्कटशृङ्ग्याम्
स्त्री गौरा० ङीष् । स्वार्थे क । कुलिङ्गक चटके हेमच० ।

कुलिङ्गाक्षी स्त्री० कुलिङ्गं कुत्सितलिङ्गमक्षी वफलमस्याः

षच् समा० ङीष् । (पेटारी) पटिकावृक्षे रत्नमाला

कुलिज त्रि० कुलौ हस्ते कण्टकारिकायां वा जायते जन--ड

७ त० । १ हस्तजाते नखादौ “कुलिजकृष्टे दक्षिणतोऽग्ने
सम्भारमाहरति” गृह्यम् २ कण्टकारीजाते च ततः
“कुलजात् लुक्खौ च” पा० तदन्तात् द्विगोः सम्भवति
अवहरति पचति वेत्यर्थेषु ठञ् तस्य लुक् वा ष्ठञ ख
वा । द्विकुलज द्वैकुलजिक द्विकुलजिक द्विकुलजीन । तत्र
सम्भवति, (कुलिजं स्वस्मिन् समावेशयति) तदपहारके
तत्पाचके च त्रि० । ष्ठञि स्त्रियां ङीष् अन्यतः टाप् ।

कुलिन् पु० कुल + अस्त्यर्थे बला० पक्षे इनि । १ पर्व्वते

शब्दचि० । २ सत्कुलवति त्रि० स्त्रियां ङीप् ।

कुलिन्द पु० भूम्नि १ देशभेदे “कुलिन्दाः कालवाश्चैव कुण्ठकाः

करटास्तथा” भा० भी० ९ अ० जनपदकथने । २ तद्रा-
जेषु च “शूरसेनाः भद्रकारा बोधाः शाल्वाः पटच्चराः ।
सुस्थलाश्च मुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह” भा० स०
१३ अ० । “पूर्ब्बं कुलिन्दविषये वशेचक्रे महीपतीन् ।
धनञ्जयो महाबाहुर्नातितीव्रेण कर्म्मणा” । “आनर्त्तान्
कालकूटांश्च कुलिन्दांश्च विजित्य सः” भा० स० १३ । २५ अ०
अयञ्च देशः वृहसं० कूर्म्मविभागे १४ अ० ऐशान्यामुक्तः
“वनराजकिरातचोनकौलिन्दाः” कुलिन्द + स्वार्थे अण्”
कौलिन्दाः ।

कुलिर पु० कुल--वा० इरन् + किच्च । १ कर्कटे शब्दरत्ना० । मेषादिषु २ चतुर्थे राशौ च

कुलिश पुंन० कुलौ हस्ते शेते शी--ड, कुलिनः पर्वतान्

श्यति शो--ड वा ईषत् लिशति कु + लिश--क--कौ
लिशति लिश--क वा यथायथं व्युत्पत्तिः । १ इन्द्रायुधे वज्रे
अशनिशब्दे ५७४ पृ० तदुत्पत्त्यादिकमुक्तं तत्स्वरूपा-
दिकं हेमा० परि० ख० लक्षणसमुच्चये औशन
सधनुर्वेदोक्तवक्तं तस्य तत्रैव दृश्यम् विस्तरभयान्नोक्तम्
“असयः शक्तिकुलिशपाशर्ष्टि कणषाः शराः” भा० व० २० अ० ।
“अवेदनाज्ञं कुलिशक्षतानाम्” कुमा० २ मत्स्यभेदे पु०
त्रिका० । ३ अस्थिसंहारवृक्षे रत्नमा० ।
पृष्ठ २१३९

कुलिशद्रुम पु० कुलिश इव द्रुमः । स्नुहीवृक्षे शब्द चि०

कुलिशधर पु० कुलिशं धरति धृ--अच् । वज्रधरे इन्द्रे

कुलिशभृदादयोऽप्यत्र पु०

कुलिशनायक पु० “स्त्रोपादद्वयमाकृष्य विमुमुक्षितलिङ्गकः ।

योनिञ्च पीड़येत् कामी बन्धः कुलिशनायकः”
रतिमञ्जर्य्युक्ते शृङ्गारबन्धभेदे । कुलिशनामक इति पाठः साधुः

कुलिशपाणि पु० कुलिशः पाणावस्य । इन्द्रे देवराजे

कुलिशाङ्गशा स्त्री बौद्धानां विद्यादेवीभेदे हेमच०

कुलिशासन पु० कुलिशमिब दृढ़मासनमस्य । शाक्यमुनौ त्रिका०

कुली स्त्री कुल--क गौरा० ङीष् । १ कण्टकारिकायाम्

अमरः २ वृहत्यां राजनि० । ३ पत्नीज्येष्ठभगिन्याम्
(वड़शाली) हेमच०

कुलीक पुंस्त्री० कुल--बा० ईकन् किच्च । पक्षिमात्रे स्त्रियां

जातित्वेऽपि टाप् । “सोमाय लवानालभते त्वष्ट्रे कौलीकान्
गोषादीर्देवानां पत्नीभ्यः कुलीका देवजामिभ्यः” यजु० २४
२४ कुलीक + स्वार्थेऽण् कौलीकान् पक्षिणः” तिस्रः
कुलीकाः पक्षिणीर्देवाजामिभ्य देवबधूभ्यः” वेद दी० ।

कुलीन पुंस्त्री० कुले जातः ख । १ सत्कुलजे हये स्त्रियां

ङीष् । तन्त्रोक्ते २ कुलाचारयुक्ते ३ उत्तमकुलजाते
त्रि० । कौ पृथिव्यां लीनः । ४ भूमिलग्ने त्रि० । संज्ञायां
कन् । कुलीनक वनमुद्गे पु० हेमच०

कुलीनस न० कुलिलीनं भूलग्नं स्यति सो--अन्तकर्म्मणि क । जले हेम० ।

कुलीपय त्रि० जलचरजन्तुभेदे “मित्राय कुलीपयान्,

वरुणाय नक्रान्” यजु० २४, २१ । “कुलीपयान् जलजान्
मित्राय” वेददी० । नाक्रोमकरःः कुलीपयस्तेऽकूपारस्य”
यजु० २४ । ३५ “नाक्रः मकरः कुलीपयस्ते त्रयः जलचर
विशेषाः” वेददी०

कुलीर पुंस्त्री० कुल--संस्त्याने ईरन् किच्च । १ कर्कटे(केँकडा)

जलचरजन्तुभेदे अमरः स्त्रियां ङीष् । २ कर्कटराशौ
च । कर्कटशब्दे विवृतिः ।

कुलीरशृङ्गी स्त्री कुलीरः कुलीरावयव इव शृङ्गमस्याः

गौरा० ङीष् । (काँकडा शिङ्गा) वृक्षे रत्नमा० कुली-
रविषाणीत्यप्यत्र स्त्री

कुलीराद् पु० कुलीरमत्ति अद्--क्विप् । ककर्टशिशौ तस्योत्

पत्त्यैव स्वप्रसूतिगर्भविनाशनेन तद्भक्षकत्वात्तथात्वम्

कुलीश पुंन० कुलिश + पृषो० । वज्रे--सारमुन्दरी

कुलुक न० कुल--बा० उलच् किच्च । जिह्वामले हेमच०

कुलुक्कगुञ्जा स्त्री कौ भूमौ लुक्का गुप्ता गुञ्जेव । उल्काम्मौ

हारा० ।

कुलुङ्ग पुंस्त्री कुरङ्ग + पृषो० । हरिणभेदे स्त्रियां टाप ।

“सोमाय कुलुङ्ग आरण्योऽजो नकुलः शकाः” यजु० २४
३२ । “कुलुङ्गः कुरङ्गः हरिणः” वेददी० “साध्येभ्यः
कुलुङ्गान्” यजु० २४ । २७

कुलुञ्च त्रि० कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चति हरति, कुत्-

सितं लुञ्चति वा लुन्च--अण् । चौरभेदे “उष्णी-
षिणे गिरिचराय कुलुञ्चानां पतये नमः” यजु० १६ । २२ ।

कुलूत पु० भूम्नि देशभेदे सच देशः वृं० सं० कूर्म्मविभागे

वायव्यामैशन्याञ्च उक्तः यथा “दिशि पश्चिमोत्तरस्याम्”
इत्युपक्रमे “अश्मककुलूतलहड़स्त्रीराज्यनृसिंह-
वनस्थाश्च” “ऐशान्यां मेरुकनष्टराज्यमित्युपक्रमे
“अभिसारदरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः” । तेन कुलू-
तदेशोद्विधा । तत्र भवः अण् । कौलूत तत्र भवे त्रि०
बहुषु तस्य लुक् कुलूताः । तेषां राजा अण् । कौलूत
तद्राजे वहुषु तस्य लुक् । कुलूता तद्राजाः ।

कुलेचर पु० कुले जलसमीपे चरति चर--अच् अलुक्स० ।

उद्भिदे शाकभेदे “क्षवककुलेचरवंशकरीरप्रभृतीनि
कफहराणि सृष्टमूत्रपूरोषाणि” सुश्रुतः ।

कुलेश्वर पु० ६ त० । १ शिवे २ वंशपतौ च शब्दमा०

कुलेय त्रि० कुले भवः वा० ढ । कुलजाते “बभूव तत् कुलेया-

नां द्रव्यकार्य्यमुपस्थितम्” भा० आ० १७८ अ०

कुलोत्कट पुंस्त्री० कुलेन उत्कटः । १ कुलीनाश्वे शब्दच०

२ उत्कृष्टकुलजाते त्रि०

कुलोद्वह त्रि० कुलं वंशभारं रक्षणादिकमुद्वहति उद् +

वह--अच् । कुलपालके कुलस्रेष्ठे “पुत्रोममानुरूपश्च
शूरश्चेति कुलोद्वहः” भा० वि० ३५ अ०

कुल्फ पुंन० । कल--संख्यांने फक् अस्य उच्च । १ रोगभेदे

२ गुल्के च उज्ज्वलद० । “अष्ठीवन्तौ परि कुल्फौ च देहत्”
ऋ० ७, ५०, २, “अयमेवादक्षिण ऊरुर्वरुणप्राघास” इत्यु-
पक्रमे “कुल्फावेवैन्द्राग्नं हविः” शत० व्रा० ११ । ५ । २ । ३ ।
“अयमेवोत्तरऊरुरित्युपक्रमे “कुल्फावेवैन्द्राग्नं हविः
तस्मादिमौ द्वौ कुल्फाविति च” ११ । ५ । २ । ५ । “जानुद-
घ्नोद्वितीयः कुल्फदघ्नस्तृतीयः” शत० व्रा० १२ । २ । १ । ३० ।
पृष्ठ २१४०

कुल्मल न० कुश--क्मलच् लश्चान्तादेशः । १ पापे उज्ज्वलद० ।

“तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा” अथ० २
३०, ३० । २ तद्वति त्रि० “अपाष्ठाच्छृङ्गात् कुल्मलान्निरवोचमहं
विषम्” ऋ० ४, ६, ५, जिह्वा ज्या भवति कुल्मलम् ५, १८, ८,

कुल्माष पु० कोलति कुल--क्विप् कुल् भाषोऽस्मिन् ७ ब० ।

“अर्द्धस्विन्नाश्च गोधूमा अन्येच चणकादयः । कुल्माषा
इति कवन्ते इत्युक्तेषु १ अर्द्धस्विन्नगोधूमादिषु वैद्यकम्
“कुल्माषा गुरवो रूक्षा वातला भिन्नवर्च्चसः” भावप्र०
“सक्तून् विलेपीं कुल्माषं जलञ्चापि शुभं पिबेत्”
सुश्रु० । “वलाकां वारुणीकुल्माषाभ्याम्” (नाश्नीयात्) ।
सुश्रु० । “कणपिन्याकफलीकरणकुल्माषस्थालीपुरीषा-
दीन्यमृतबदव्यवहरति” भाग० ५, ९, १०, । कुत्-
सिता माषाः पृषो० । २ निन्दितमाषे च “स हेभ्यं कुल्-
माषान् खादन्तं बिभिक्षे” छान्द० उ० “कुल्माषान्
कुत्सितान् माषान्” शा० भाष्यम् । ३ सूर्य्यस्य पारिपा-
र्श्विकभेदे ४ शूकधान्ये यवादौ च शब्दचि० । ५ काञ्जिके
६ मसीपरिणामे च न० शब्दचि० ।
“कुलमाषाः कुलेषु सीदन्तीति” निरुक्तोक्ते ७ कुत्सितार्थे
त्रि० “कुल्माषांश्चिदाहवेत्यवकुत्सिते” निरुक्तकारः ।
कुल्माषाः प्रायेणान्नमस्याः अञ् स्त्रियां ङीप् । कौल्-
माषी पूर्ण्णिमा । ८ माषादिमिश्रार्द्धभ्रष्टभक्ते (खेचडी)
भरतः । ९ रोगभेदे शब्दरत्ना० १० वनकुलत्थे रत्नमा० ।

कुल्माषाभिषुत न० ३ त० । काञ्चिके क्षीरस्वामी ।

कुल्मास न० कुल्माष + पृषो० । कुल्माषशब्दार्थे भरतः ।

कुल्य न० कुल--क्यप् । १ अस्थ्नि अमरः । २ अष्टद्रोणपरिमाणे

शूर्पे ३ आमिषे च मेदि० । कुले भवः यत् । ४ कुलजाते
५ मान्येच त्रि० मेदि० । कुल + चतुरर्थ्या बला० य । ५
कुलसन्निकृष्टदेशादौ त्रि० । कुलाय हितं यत् । ६ कुलहिते
त्रि० “वृत्तीश्च कुल्याः पशुभूतवर्गान्” भाग० ७ । ६ । १३ ।
कुल्यायां भवः यत् यलोपः । ९ कुल्याभवे त्रि० “नमः
कुल्याय त्व सरस्याय च” यजु० १६, ३७ कृत्रिमेऽल्पे १०
सरिद्भेदे स्त्री अमरः ११ पयःप्रणाल्याम् १२ जीवन्त्या-
मौषधौ १२ नदीमात्रे च स्त्री० मेदि० “मैन्धवारण्यमासाद्य
कुल्यानां कुरु दर्शनम्” भा० व० १०४०८ श्लो० । “घृत-
कुल्याश्च दघ्नश्च नद्यो बहुशतास्तथा” भा० व० ८५३० श्लो० ।
ऋषिकुल्या घृतकुल्या दधिकुल्या मधुकुल्या इत्यादि ।

कुल्यासन न० कुलाय कुलाचारायहितं यत् कुल्यमासनम् ।

“अथकुल्यासनं वक्ष्ये यत् कृत्वा कुलिको भुवि ।
एकहस्तो मास्तकस्थोऽधःशीर्षा नाभिगे करे” इति रुद्रयाम-
लोक्ते आसनभेदे

कुल्लूक पु० मन्वर्थमुक्ताबलीनामटीकाकारकविद्वद्भेदे “श्रीमद्भ-

ट्टदिवाकरस्य तनयः कुल्लूकभट्टोऽभवत्” तट्टीकोपक्रमः ।

कुल्व कुल--उल्वा० नि० १ लीमराहित्यरूपे । (टाक) रोगभेदे

२ तद्युक्ते त्रि० “अथैतानष्टौ विरूपानालमते अतिदीर्घं
चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं
चातिकुल्वं चातिलोमशं च अशूद्रा अब्राह्मणास्ते प्राजा-
पत्याः” यजु० ३० । २२ । “अतिकुल्वं रोमरहितम्” वेददी०

कुव न० कुं भूमिं वाति गच्छति वा--क, कुङ् शब्दे कूउवञ्

वा । १ जलजे, पुष्पमात्रे, २ उत्पले च हेमच० ।

कुवकालुका स्त्री कुवमिव कायति कै--क आलुका ।

घोलीशाके । राजनि०

कुवङ्ग न० ईषद् वङ्गं गुणेन । सीसके राजनि० ।

कुवचस् त्रि० कुत्सितं वचोऽस्य । १ कुत्सितवादकथके अमरः

कुगतिस० । २ परीवादकथने न० । कुवाक्मादयोप्यत्र न० ।

कुवज्र न० कुत्सितं वज्रं हीरकमिव कायति कै--क ।

वैक्रान्तमणौ राजनि० ।

कुवम पु० कौ पृथिव्यां वमति वर्षति जलं वम--अच् । १ सूर्य्ये

“कुलं कुलञ्च कुवमः कुवमः कश्यपोद्विजः” भा० आनु०
९३ अ० “कुः पृथिवी तस्यां वमति वर्षतीति कुवमआदित्यः
“आदित्याद् जायते वृष्टिरिति” श्रुतेः सर्वोऽप्यादित्योऽ-
हमेव मत्तएव सर्व्वेषामादित्यानामुत्पत्तेः” नीलकण्ठः ।
कुपपीः इति पाठान्तरे” सूर्य्यएवार्थः । कुत्सितं वमति ।
२ निन्दितवमनकारके त्रि०

कुवर पु० कुत्सितं व्रियते वृ--अप् । १ तुवरे २ कषाये २ तद्वति त्रि० रायमुकुटः

कुवल न० कौ वलति वल--अच् । १ उत्पले २ मुक्ताफले च

मेदि० ३ वदर्य्यां स्त्री० गौरा० ङीष् । तस्याः फलम् अण्
लुक् । ४ वदरीफले न० । कौ वलनात् । ५ जले । ६ सर्पोदरे च
न० कुबलेशयः । प्रस्थे परे समासे कर्क्यादि० अस्य नादुदात्तता ।
तस्य पाकः पील्वादि० कुणच् । कुवलकुण तत्पाके पु० ।

कुवलय न० कोर्वलयमिव शोभाहेतुत्वात् । १ उत्पले, अमरा

२ श्वेतोत्पलेनीलोत्पले राजनि० “कस्त्वं साधो!
कुवलयदलश्यामविस्तीर्णदृष्टे! इत्युद्धवदूतम् । ततः तारका०
इतच् । कुवलयित जातकुवलये त्रि० । “कुवलयित
गवाक्षालोचनैरङ्गनानाम्” रघुः । कोर्वलयम् ६ त० । ४
भूमण्डले न० “यतो भूवलयं सर्व्वं श्रान्तोऽयं विचरिष्यति ।
अतः कुवलयो नाम्ना ख्यातिं लोके प्रयास्यति” इत्युक्त
निरुक्तियुते ५ असुरभेदे पु० ।
पृष्ठ २१४१

कुवलयानन्द पु० कुवलयं भूमण्डलसानन्दयति आ + नन्द--अण

उप० स० । चन्द्रालोकस्यालङ्कारमयूखव्याख्याने अप्य-
दीक्षितकृते ग्रन्थभेदे ६ त० । २ कुमुदस्यानन्दे च ।
“अमुं कुवलयानन्दमकरोदप्पदीक्षितः । नियोगाद्वेङ्कटपते-
र्निरुपाधिकृपानिधेः । चन्द्रालोकोविजयतां शरदागमस-
म्भवः । हृद्यः कुवलयानन्दोयत्प्रसादादभूदयम्” ।
तद्ग्रन्थसमाप्तौ “तस्माच्च कुवलयानन्दः स्वग्रन्थोऽभूत् कुवल-
यस्यकुमुदस्यानन्दैति च श्लेषैति” चन्द्रिका

कुवलयापीड त्रि० कुवलयमापीडः भूषणं यस्य । नीलोत्-

पलभूषणवति १ जने कंसासुरस्य हस्तिरूपधारिणि २ दैत्य-
भेदे पु० । “नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
कंसञ्च बलिनां श्रेष्ठं सगणं देवकीसुतः । न्यहनत्
गोपवेशेन क्रीड़ासक्तोहि केशवः” हरिवं० १०६ अ० “राजा
कुवलयापीडः समाजद्वारि कुञ्जरः । तिष्ठत्विति समाज्ञाप्य
प्रेक्षागारमुपाययौ” हरि० ८६ अ०

कुवलयाश्व पु० कुब(व)लाश्वनामके धुन्धुमारे नृपभेदे । स्वार्थे

क तत्रार्थे “वृहदश्वस्तु श्रावन्तिस्ततः कुवलयाश्वकः । यः
प्रियार्थसुतङ्कस्य धुन्धुनामासुरं बली । सुतानामेक-
विंशत्या सहस्रैरहनद्युतः । धुन्धुमार इति ख्यात-
स्तत्सुतास्ते च जज्वलुः । धुन्धुर्मुखाग्निना सर्व्वे त्रय-
एवावशेषिताः” भाग० ९ । ६ । १८ । १९ । कुबलाश्वशब्दे
तच्चरितादि ।

कुवलयिनी स्त्री कुवलयानां संवः खलादि० इनि । उत्पलिन्याम् राजनि० ।

कुवलाश्व पु० कौ पृथिव्यां वलते वल अच् तादृशोऽश्वोऽस्य ।

कुवलयाश्वे धुन्धुमारे नृपभेदे ।

कुवलेशय पु० कुवले जले शेते शी--अच् ७ त० अलुक्स० ।

विष्णौ “कुमुदः कुवलेशयः” विष्णुस० । “क्षितौ
वलनात् सञ्चलनात् कुवलं जलं तस्मिन् शेषोदरे शेते इति
कुवलेशयः, कुबलं वदरीफलं तन्मध्ये शेते कुवलेशयः
तक्षकः सोऽपि भगवतोविभूतिरिति वा हरिः
कुवलेशयः । कौ भूमौ वलति संव्रीयते सर्पाणामुदरं कुवलं
तस्मिन् शेषोदरे शेते इति कुवलेशय इति” भाष्यम् ।

कुवाद त्रि० कुत्सित वदति अण् । अपरदोषकथनशोले ।

अमरः । भावे घञ् कुगतिस० । २ कुत्सितवादे ।

कुबाहुल पुंस्त्री वहति कु + वह--वा० उलञ् । उष्ट्रे

शब्दचन्द्र० स्त्रियां ङीष् ।

कुवि(चि)क पु० भूम्नि देशभेदे अयञ्च देशः वृह० सं०

कूर्म्मविभागे ऐशान्यामुक्तः । “ऐशान्यामित्युपक्रमे
कुनटखषधोषकुचि(वि) काख्याः” इति

कुविद् अव्य० कुः भूमिरिव विद्यते ज्ञायते बाहुल्यात्

विद--भावे क्विप् ६ त० । १ बाहुल्ये ३ प्रशंसायाञ्च । चादि-
गण व्याख्याने मनोरमा । उच्चैर्वत् ३ तद्वभि च “कुवित्सस्य
प्रहि व्रजम्” ऋ० ६ । ४५ । २४ । “कुविद्वहुशः स्यति
हिनस्ति” भा० “कुविन्नो अस्य वचसः” ऋ० २ । १६ । ७
कुविद्वहु” भा० । “स त्वष्टा चुक्रोध कुविन्मे पुत्र
मबधीत्” शत० व्रा० १ । ६३ । ६ । “कुविदङ्ग नमसा वृधा-
सः” ऋ० ७ । ९१ । १ । कुविदिति बहुनाम । अङ्गेति
क्षिप्रनास कुविद्बहुशोऽङ्ग क्षिप्रं कृतेन नमसा” भा० ।
“कुविद् अङ्ग” इति पदग्रन्थेपदद्वयतया विभागः । एतेन
कुविदङ्गेति एकशब्दकल्पनं चिन्त्यम् । कुत्सितं बेत्ति
विद--ज्ञाने कर्त्तरि क्विप् । ४ कुज्ञानवति त्रि० ।

कुविद्या स्त्री कुगतिस० । १ निन्द्यविदायाम् । ब० । २ तद्वति त्रि०

कुविद्यास त्रि० कुविद्यां स्यति हिनस्ति सो--क । कुविद्या

निरासके । ततः कृशाश्वादिषु विकुट्यासेत्यत्र पाठान्तरे
ऽस्य पाठात् चतुरर्थ्यां छण् । कौविद्यासीय तत्स-
न्निकृष्टदेशादौ त्रि० ।

कुविन्द पुंस्त्री कुं भूं कुत्सितं वा विन्दति विद--श ।

तन्तुवाये शूद्रागर्भे विश्वकर्म्मणो जाते जातिसङ्करभदे
अमरः

कुविम्ब पु० न० । कोर्विम्बं कुत्सितं विम्बं वा । १ भूमण्डले २ निन्दितमण्डले च त्रिका०

कुविवाह पु० । कुगतिस० वर्ण्णभेदेन निन्दनीयविवाहे

मनुना वर्ण्णभेदेन ब्राह्माद्यष्टविवाहेषु निन्द्या-
निन्द्यत्वमुक्तं यथा
“चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् ।
अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत” मू०
“चतुर्णामिति । चतुर्णामपि वर्णानां व्राह्मणादीनां
परलोके इह लोके च कांश्चित् हितान् कांश्चिदहितान्
इमान् अभिधास्यमानान् अष्ट संक्षेपेण भार्य्याप्राप्तिहेतून्
विवाहान् शृणुत” कुल्लूकभट्टटीका
“ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ।
गान्धर्वो राक्षसश्वैव पैशाचश्चाष्टमोऽधमः” मू०
“त एते नामतो निर्द्दिश्यन्ते ब्राह्म इति । ब्राह्मराक्ष-
सादिसंज्ञा चेयं शास्त्रादौ संव्यवहारार्था स्तुतिनिन्दाप्र-
दर्शनार्था च । ब्रह्मण इवायं ब्राह्मः रक्षस इवायं राक्षसः
नतु ब्रह्माद्रिदेवताकत्वं विवाहानां सम्भवति । पैशा-
चस्याधमत्वाभिधान निन्दातिशयार्थम्” टी०
“यो यस्य धर्म्म्यो वर्णस्य गुणदोषौ च यस्य यौ ।
पृष्ठ २१४२
तद्वः सर्व्वं प्रवक्ष्यामि प्रसवे च मुणागुणान्” मू०
“य इति । धर्म्मादनोपेतो धर्म्म्यः यो विवाहो यस्य
वर्णस्य धर्म्म्योयस्य विवाहस्य यौ गुणदोषौ इष्टानिष्ट-
फले तत्तद्विवाहोत्पन्नापत्येषु ये गुणागुणास्तत् सर्व्वं
युष्माकं प्रकर्षेणामिधास्यामि । वक्ष्यमाणानुकोर्त्तनमिदं
शित्याणां सुखग्रहणाथम्” टी०
“षडानुपूर्व्व्या विप्रस्य क्षत्त्रस्य चतुरोऽवरान् । विट्-
शूद्रयोस्तु तानेव विद्याद्धर्म्म्यान्न राक्षसान्” मू०
“षडिति । ब्राह्मणस्य ब्राह्मादिक्रमेण षट् । क्षत्रि-
यस्य, अवरानुपरितनानासुरादींश्चतुरः, बिट्शूद्रयोस्तु
तानेव राक्षसवर्जितानासुरगान्धर्व्वपैशाचान् धर्म्मादन-
पेतान् जानीयात्” टी०
“चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः” मू०
“चतुर इति । ब्राह्मणस्य प्रथमपठितान् ब्राह्मादींश्चतुरः,
क्षत्त्रियस्य राक्षसमेकमेव, वैश्यशूद्रयोरासुरमेतान् श्रे-
ष्ठान् ज्ञातारो जानन्ति । अतएव ब्राह्मणादिष्वासुरा-
दीनां पूर्ब्बविहितानामप्यत्रानुपादानं जघन्यत्वज्ञाप-
नार्थं तेन प्रशस्तविवाहासम्भवे जघन्यस्यापि परिग्रह
इति दर्शितम् । एवमुत्तरत्रापि विगर्हितपरित्यागो
बोद्धव्यः” टी०
“पञ्चानान्तु त्रयो धर्म्म्या द्वावधर्म्म्यौ स्मृताविह ।
पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन” मू०
“पञ्चानामिति । इह पैशाचप्रतिषेधादुपरितनानां
प्राजापत्यादीनां ग्रहणम् । तेषु मध्ये प्राजापत्यगा-
न्धर्व्वराक्षसास्त्रयो धर्म्मादनपेता । तत्र प्राजापत्यः
क्षत्त्रियादीनामप्राप्तो विधीयते व्राह्मणस्य विहितत्वादनू-
द्यते । गान्धर्व्वस्य च चतुर्णामेव प्राप्तत्वादनुवादः ।
राक्षसोऽपि वैश्यशूद्रयोर्व्विधीयते ब्राह्मणस्य क्षत्त्रिय-
वृत्त्यवस्थितस्यापि, आसुरपैशाचौ न कर्त्तव्यौ ।
कदाचनेत्यविशेषाच्चतुर्णामव निषिध्यते । अत्र यं वर्णं प्रति
यस्य विवाहस्य विधिनिषेधौ तस्य तं प्रति विकल्पः सच
विहितासम्भवे बोद्धव्यः” टी०
“पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्व्वचोदितौ ।
गान्धर्व्वो राक्षसश्चैव धर्म्म्यौ क्षत्त्रस्य तौ स्मृतौ” मू०
“पृथिगिति । पृथक्पृथगिति प्राप्तत्वादनूद्यते । मिश्रा-
विति विधीयते । पृथक्पृथक् मिश्रौ वा पूर्व्वविहितौ
गान्धर्वराक्षसौ क्षत्त्रस्य धर्म्म्यौ मन्वादिभिः स्मृतौ ।
यदा स्त्रीपुंसंयोरन्योन्यानुरागपूर्ब्ब कसंवादेन परिणेता
युद्धादिना विजित्य तामुद्वहेत्तदा गन्धर्वराक्षसौ मिश्रौ
भवतः” दी०
“कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्य
कुलतां यान्ति ब्राह्मणातिक्रमेण च” मनुः दुर्विवाहा
दथोऽप्यत्र “जायन्ते दुर्विवाहेषु ब्रह्मधर्म्मद्विषः सुताः ।
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा” मनुः ।

कुवृत्ति स्त्री० कुगतिसमा० । १ निन्दिताचरणे २ ईयच्चरणे च

ब० ब० । ३ तद्युक्ते त्रि०

कुवृत्तिकृत् पु० कुवृत्तिमीषदावरणरूपं चरणं करोति कृ--क्विप्

(काँटाकरम्चा) १ करञ्जभेदे शब्दचि० । २ निन्दित-
चेष्टाकारके त्रि० शब्दचि०

कुवेणि(णी) स्त्री ईषत् वेणन्ते मत्स्या अस्याम् वेण--इन्,

वा ङीप्) मत्स्यधान्याम् (खालुइ) अमरः

कुवेर न० कुत्सितं वेरमस्य । धनदे उत्तरदिक्पाले देवभेदे

कुबेरशब्दे विवृतिः कुवेरोत्पत्यादिकं रामा० उ० का०
३ स० वर्ण्णितं यथा
“ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामनिः । ददौ
विश्रवसे भार्यां स्वसुतां देवयर्णिनीम् । प्रतिगृह्य तु
धर्मेण भरद्वाजसुतान्तदा । प्रजान्वीक्षिकया बुद्ध्या
श्रेयोह्यस्य विचिन्तयन् । मुदा परमया युक्तो विश्रवा मुनि
पुङ्गवः । स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्वृतम् । तस्मिन् जाते
तु संहृष्टः स बभूव पितामहः । दृष्ट्वा श्रेयस्करीं
बुद्धिं धनाध्यक्षो भविष्यति । नाम चास्याकरोत् प्रीतः
सार्द्धं देवर्षिभिस्तदा । यस्माद्विश्रवसोऽपत्यं सादृश्या
द्विश्रवा इव । तस्माद्घैश्रवणो नाम भविष्यत्येष विश्रुतः ।
स तु वैश्रवणस्तत्र तपोवनगतस्तदा । अवर्धताहुति
हुतो महातेजा यथाऽनलः । तस्याश्रमपदस्थस्य बुद्धि-
र्जज्ञे महात्मनः । चरिष्ये परमं धर्मं धर्मो हि
परमा गतिः । स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः । पूर्णे वर्षसह-
स्रान्ते तं तं विधिमकल्पयत् । जलाशी मारुताहारो
निराहारस्तथैव च । एवं वर्षसहस्राणि जग्मुस्ता-
न्येकवर्षवत् । अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः
सह । गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ।
परितुष्टोऽस्मिते वत्स! कर्मणाऽनेन सुव्रत! । वरं वृणी-
ष्व भद्रन्ते वरार्हस्त्वं महामते! । अथाब्रवीद्वैश्रवणः पि-
पृष्ठ २१४३
तामहमुपस्थितम् । भगवन्! लोकपालत्वमिच्छेयं
लोकरक्षणम् । अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।
ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् । अहं
वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः । यमेन्द्रवरु-
णानाञ्च पदं यत्तव चेप्सितम् । तद्गच्छ वत्स! धर्मज्ञ!
निधीशत्वमवाप्नुहि । शक्राम्बुपयमानाञ्च चतुर्थस्त्वं
भविष्यसि । एतच्च पुष्पकं नाम विमानं सूर्यसन्नि-
भम् । प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।
स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् । कृतकृत्या
वयं तात! दत्त्वा तव वरद्वयम् । इत्युक्त्वा स गतो ब्रह्मा
स्वस्थानं त्रिदशैः सह । गतेषु ब्रह्मपूर्बेषु देवेष्वथ
नभस्तलम् । धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ।
भगवन्! लब्धवानस्मि वरमिष्टं पितामहात् । निवासनं
न मे देवो विदधे स प्रजापतिः । तं पश्य भगवन्! कञ्चि-
न्निवासं साधु मे प्रभो! । न च पीड़ा भवेद्यत्र प्राणि-
नोयस्य कस्य चित् । एवमुक्तस्तु पुत्रेण विश्रवा मुनि
पुङ्गवः । वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तम! ।
दक्षिणस्योदधेस्तीरे त्रिकूष्टो नाम पर्वतः । तस्याग्रे तु
विशाला सा महेन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या
निर्मिता विश्वकर्मणा । राक्षसानां निवासार्थं
यथेन्द्रस्यामरावती । तत्र त्वं वस भद्रन्ते लङ्कायां नात्र
संशयः । हेमप्राकारपरिखायन्त्रशस्त्रसमावृता ।
रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा । राक्षसैः सा
परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः
सर्वै रसातलतलङ्गतैः । शून्या संप्रति लङ्का सा प्रभु-
स्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छपुत्र!
यथासुखम् । निर्दोषस्तत्र ते वासो न बाधस्तत्र कस्य चित् ।
एतच्छ्रुत्वा स धर्मात्मा धर्मिष्ठं वचन पितुः । निवा-
सयामास तदा लङ्कां पर्वतमूर्धनि । नैरृतानां
सहस्रैस्तु हृष्टैः प्रमुदितैः सदा । अचिरेणैव कालेन
संपूर्णा तस्य शासनात् । स तु तत्रावसत् प्रीतो धर्मात्मा
नैरृतर्षभः । समुद्रपरिखायां स लङ्कायां विश्रवा-
त्मजः । काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।
अभ्यागच्छद्विनीतात्मा पितरं मातरञ्च ह ।”

कुवेरक पु० कुवेर इव कायति कै--क । १ नन्दोवृक्षे अमरः

स्वार्थे क । २ धनदे ३ नन्दीवृक्षे मेदि० ४ अर्हदुपासकमेदे हेम०

कुवेराक्षी स्त्री० कुवेरस्याक्षीव पिङ्गपुष्पत्वात् षच् समा०

ङीष् । १ पाटलावृक्षे अमरः २ लताकरञ्जो राजनि०

कुवेराचल पु० ६ त० । कैलासपर्वते त्रिका० कुवेरपर्वता-

दयोऽप्यत्र पु०

कुवेल न० कुवेषु जलजपुष्पेषु मध्ये ईं शोभां लातिला--क । उत्पले हेमच०

कुवैद्य पु० कुगतिस० । सुश्रुताद्युक्तक्रियोल्लङ्घनेन स्वेच्छया

विपरीताचारिणि वैद्येतल्लक्षणदोषादिकं सुश्रुते उक्तं यथा
“यस्तु केवलशास्त्रज्ञः कर्म्म स्वपरिनिष्ठितः । स मुह्य-
त्यातुरम्प्राप्य प्राप्यं भीरुरिवाहवम् । यस्तु कर्म्मसु
निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः । स सत्सु पूजां
नाप्नोति बधं चार्हति राजतः । उभावेतावनिपुणावसमर्थौ
स्वकर्म्मणि । अर्द्धवेदधरावेतावेकपक्षाविव द्विजौ ।
ओषध्योऽमृतकल्पास्ते शस्त्राशनिविषोपमाः । भवन्त्यज्ञै-
रुपहतास्तस्मादेतौ विवर्जयेत् । छेद्यादिष्वनभिज्ञो यः
स्नेहादिषु च कर्म्मसु । स निहन्ति जनं लोभात्
कुवैद्यो नृपदोषतः । यस्तूभयज्ञो मतिमान् स समर्थोऽर्थ-
साधने । आहवे कर्म्म निर्वोढुं द्विचक्रः स्यन्दनो यथा”
“कुवैद्ये कितवे शठे । चाटचारणदासेषु दत्तं भवति
निष्फलम्” स्मृतिः

कुश द्युतौ इदित् वा चुरा० पक्षे भ्वादि० पर० सक ० सेट् ।

कुंशयति ते कुंशति अचुकुंशत्--त अकुंशीत् ।
कुंशयां बभूव आस चकार चक्रे चुकुंश । प्रनिकुंशति

कुश श्लेषे दि० पर० सक० सेट् । कुश्यति । अकुशत्--अको-

शीत् । चुकोश । कुक्षिः कोशः

कुश पु० न० कौ शेते शी--क, कुं पापं श्यति शो--ड वा ।

१ स्वनामख्याते तृणे अमरः । “कुशोन्मृष्टगर्भक्लेदवति
२ रामसुते “रिपुनागाङ्कुशं कुशमिति” रघुः ।
३ योत्त्रे, च पु० मेदि० घृतसमुद्रेणावृते ४ द्वीपभेदे पु० ।
५ जले न० मेदि० । कुशेशयः । ६ सर्पोदरे शङ्कराचार्य्यः
“कौशं बर्हिः” कात्या० १ । २ । १२ तस्यासंस्कृतकुशा-
र्थतामाह “बर्हिःकौशं कुशा दर्भाः तस्येदं कौशं
कुशमात्रमेव बर्हिःशब्देनोच्यते न संस्काराः, कुतः?
अन्वयव्यतिरेकाभ्यां जातिवाचित्वाद्वर्हिःशब्दस्य, यत्र
यत्र बर्हिःशब्दप्रयोगस्तत्रतत्र जातिरित्यस्या व्याप्ते
र्लोके बेदे च नास्ति व्यभिचारः, संस्कारव्याप्तेस्तु लौकिक
प्रयोगे व्याभिचारो दृश्यते क्कचिद्देशविशेषे लौकिकव्यव-
हारे जातिमात्रमुपजीव्य विना संस्कारं बर्हिःशब्दः
प्रयुज्यते बर्हिरादाय गावो गता इति तस्माज्जाति
वाची बर्हिःशब्दः । असंस्कृतं कुशमात्रं बर्हिःशब्देनोच्यत
इत्यर्थः । प्रयोजनं बर्हिषि प्राञ्च्युदञ्चि च प्रास्यती
पृष्ठ २१४४
त्यादौ संस्कारा न कर्त्तव्याः । स्मृतौ कुशाभावे तु
काशाः स्युः काशाः कुशसमाः स्मृताः । काशाभावे ग्रहीतव्या
अन्ये दर्भा यथोचिताः । दर्भाभावे स्वर्ण्णरूप्यताम्रैः कर्म्म-
क्रियाः सदा । कुशकाशशरा दूर्वायवगोधूमवाल्वजाः ।
सुवर्णं रजतं ताम्रं दश दर्भाः प्रकीर्तिताः । स्नाने होमे
तथा दाने स्वाध्याये पितृतर्पणे । सपवित्रौ सदर्भौ वा करौ
कुर्व्वीत नान्यथा । सर्वेषां वा भवेद्द्वाभ्यां पवित्रं ग्रथितं
न वा । सपवित्रः सदर्भो वा कर्माङ्गाचमनं चरेत् ।
नोच्छिष्टं तत् सदर्भं च दर्भोच्छिष्टं तु वर्जयेदिति” कर्कः
कर्म्माङ्गकुशलक्षणादिकं श्रा० त० आह यथा
“ब्रह्मपुराणे “सपिञ्जलाश्च हरिताः पुष्टाः स्निग्धाः
समाहिताः । गोकर्णमात्राश्च कुशाः सकृच्छिन्नाः समूल-
काः । पितृतीर्थेन देयाः स्युर्दूर्व्वा श्यामाक एव च ।
काशाः कुशा बल्वजाश्च तथान्ये तीक्ष्णरोमशाः । मौञ्जा-
श्च शाद्वलाश्चैव षड्दर्भाः परिकीर्त्तिताः” । तीक्ष्णरोमशा
इति वल्वजानां विशेषणं तेन तेषामलाभे “शूकतृणशर-
शीर्षयुत्तवल्वजोलपशुण्ठवर्जं सर्व्वतृणानीति” गोमिलेन
तद्व्यतिरिक्तवल्वजानां निषेधोबोद्धव्यः । सपिञ्जलाः
साग्राः स्निग्धा अकर्कर्शाः पुष्टा न सूक्ष्माः समाहिता
निर्दोषाः शाद्वला इति मौञ्जस्य विशेषणम् । शूकानि
फलपुष्पमञ्जर्य्य स्तायेषां तृणानां सन्ति तानि शूकतृणानीति
भट्टनारायणचरणाः । गोकर्णमात्रा विस्तृताङ्गुष्ठानामि-
कापरिमिताः । विष्णुः “कुशस्थाने काशं दूर्व्वां वा
दद्यादिति” कृतमुष्टिहस्तपरिमिताः कुशाः प्रस्तर-
णार्थाः तथाच वायुपुराणम् “रत्निप्रमाणाः शस्ता चै
पितृतीर्थेत संस्कृताः । उपमूले तथा लूनाः प्रस्तरार्थे
कुशोत्तराः” । वर्ज्यकुशानाह हारीतः “चितौ दर्भाः
पथि दर्भाः ये दर्मा यज्ञभूमिषु । स्तरणासनपिण्डेषु
षड्दर्भान् परिवर्जयेत् । पिण्डार्थं ये स्तृता दर्भा यैः कृतं
पिवृतर्पणम् । मूत्रोच्छिष्टप्रलेपे तु त्यागस्तेषां विधीय-
ते” । छन्दोगपरिशिष्टम् “धृतैः कृते च विण्मूत्रे
त्यागस्तेषां विधीयते । नीवीमध्ये च ये दर्भा व्रह्म-
सूत्रे च ये धृताः । पवित्रांस्तान् विजानीयाद्घथा काय
स्तथा कुशाः । आचम्य प्रयतो नित्यं पवित्रेण द्विजो-
त्तमः । नोच्छिष्टन्तु भवेत्तत्र भुक्तशेषं विवर्जयेत्’ ।
अत्र विशेषः निर्ण्णयसिन्धौ
पृथ्वीचन्द्रोदये तद्ग्रहणकालमाह दक्षः “समित्पुष्य-
कुशादीनां द्वितीयः परिकीर्तितः । अष्टधा विभक्तदिनस्य
द्वितीयोभाग इत्यर्थः । तत्रैव यमः “समूलस्तु भवेद्दर्भः
पितॄणां श्राद्धकर्मणि । मूलेन लोकान् जयति
शक्रस्य सुमहात्मनः” व्यासः “तर्पणादीनि कार्याणि
पितॄणां यानि कानि चित् । तानि स्युर्द्विगुणैर्दर्भैः
सप्तपत्रैर्विशेषतः” शालङ्कायनः “सपिण्डीकरणं
यावदृजुदर्भैः पितृक्रिया । सपिण्डीकरणादूर्ध्वं
द्विगुणैर्विधिवद्भवेत्” शङ्खः “अनन्तर्गर्भिणं साग्रङ्कौशं द्विद-
लमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रिचित्”
हारीतः “पवित्रं ब्राह्मणस्यैव चतुर्भिर्दर्भपिञ्जलैः ।
एकैकं न्यूनमुद्दिष्टं वर्णेबर्णे यथाक्रमम्” । स्मृत्यर्थसारे
“सर्वेषां वा भवेद्वाभ्यां पवित्रं ग्रथितं नवम्” रत्नावल्याम्
“द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः” हेमाद्रौ स्कान्दे
“अनामिकाधृता दर्भाह्येकानामिकयापि वा । द्वाभ्या-
मनामिकाभ्यां तु धार्ये दर्भपवित्रके” पवित्राभावे तु तत्रैव
सुमन्तुः “समूलाग्रौ विगर्भौ तु कुशौ द्रौ दक्षिणे करे । सव्ये
चैव तथा त्रीन्वै बिभृयात् सर्वकर्मसु” । बौधायनः “हस्त-
योरुभयोर्द्वौद्वावासनेऽपि तथैव च” दर्भग्रहणे मन्त्रमाह
शङ्खः “विरिञ्चिना सहोत्पन्न! परमेष्ठिनिसर्गज! ।
नुद सर्वाणि पापानि दर्भ! स्वस्तिकरोभव” । स्मृत्यर्थसारे
“हुम्फट्कारेण मन्त्रेण सकृच्छित्त्वा समुद्धरेत्” भरद्वाजः
“प्रेतक्रियार्थं पित्रर्थमभिचारार्थमेव च । दक्षिणाभि-
मुखश्छिन्द्यात् प्राचीनावीतिकोद्विजः” । कुशाभावे
अपरार्के सुमन्तुः “कुशाः काशाःशरो गुन्द्रोयवा दूर्वाऽ-
थ वल्वजाः । गोकेशमुञ्जकुन्दाश्च पूर्वाभावे परः परः” ।
काशादौ विशेषमाह शङ्खः “काशहस्तस्तु नाचामेत्कदा-
चिद्विधिशङ्कया । प्रायश्चित्तेन युज्येत दूर्वाहस्तस्तुथैव च”
पृथ्वीचन्द्रोदये यमः “मासि मास्युत्द्धृता दर्भा मासि
मास्येव चोदिताः” । षड्त्रिंशन्मते “मासेमासेत्वमावास्यां
दर्मो ग्राद्ध्योनवः स्मृतः” गृह्यपरिशिष्टे “ये च पिण्डा
श्रिता दर्भा यैः कृतं पितृतर्पणम् । अमेध्याऽशुचिलिप्ता ये
तेषां त्यागो विधीयते” लघुहारीतः “पथि दर्भाश्चितौ
दर्भाये दर्भायज्ञभूमिषु । स्तरणासनपिण्डेषु षट् कुशान्
परिवर्जयेत् । ब्रह्मयज्ञे च ये दर्भा ये दर्भाः पितृतर्पणे ।
हतामूत्रपुरीषाभ्यान्तेषां व्यागो विधीयते” हेमाद्रौ
“अन्यानि च पवित्राणि कुशदूर्वात्मकानि च । हेमात्मक-
पवित्रस्य ह्येकां नार्हन्ति वै कलाम्”
भाद्रामावास्यागृहीतदर्भस्यायातयामतामाह हेमा०
श्रा० ख० हारीतः “मासे नभस्यमावास्या तस्या
पृष्ठ २१४५
दर्भोच्चयो मतः । अयातयामास्ते दर्भां विनियोज्याः
पुनः पुनः”
तस्योत्पत्तिरुक्ता भाग० ३, २० अ० “बर्हिष्मती नाम पुरी
सर्व्वसम्पत्समन्विता । न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं
विधुन्वतः । कुशकाशास्तत्र चासन् शश्वद्धरितवर्च्चसः ।
ऋषयोयैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे” ।
पूजादौ तस्य तत्प्रतिनिधेर्वा धारणमावश्यकम् यथाह
वरदातन्त्रे १ प० “पूजाकाले सर्व्वदैव कुशहस्तो भवेच्छुचिः ।
तर्ज्जन्या रजतं धार्य्यं स्वर्ण्णं धार्य्यमनामया ।
कुशकार्य्यकरं यस्मान्नतु वन्याः कुशाः कुशाः । कुशेन
रहिता पूजा विफला कथिता मया” सधवायास्तद्धार-
णनिषेधमाह ब्राह्मणसर्व्वस्वे स्मृतिः । “न स्पृशेत्
तिलदर्भांश्च सधवा तु कथञ्चन” ।
तत्पर्य्यायभेदादिकं भावप्र० उक्तं यथा “कुशोदर्भस्तथा
बर्हिः सूच्यग्रोयज्ञभूषणम् । ततोऽन्योदीर्घपत्रःस्यात् क्षुर
पत्रस्तथैव च । दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम् ।
मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित्” । “एते
लूनशिखास्तस्य दशनैरचिरोद्गतैः । कुशकाशाविराजन्ते
वटवः सामगाइव” । रामपुत्रकुशस्य नामनिरुक्तिसहितोत्
पत्तिकथा रामा० उत्त० का० ६६ स० यथा
“यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् । तामेव
रात्रिंसीतापि प्रसूता दारकद्वयम् । ततोऽर्धरात्रसमये
बालका मुनिदारकाः । वाल्मीकेः प्रियमाचख्युः
सीतायाः प्रसवं शुभम् । भनवन्! रामपत्नीसा प्रसूता दा
रकद्वयम् । ततोरक्षां महातेजः! कुरु भूतविनाशिनीम् ।
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्र
प्रतीकाशौ देवपुत्रौ महौजसौ । जगाम तत्र हृष्टात्मा
ददर्श च कुमारकौ । भूतघ्नीञ्चाकरोत्ताभ्यां रक्षां रक्षो-
विनाशिनीम् । कुशमुष्टिमुपादाय लवञ्चैव तु स द्विजः ।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।
यस्तयोः पूर्ब्बजोजातः स कुशैर्मन्त्रसत्कृतैः । निर्मार्ज
नीयस्तु तदा कुश इत्यस्यनाम तत् । यश्चावरो भवेत्ताभ्यां
लवेन स समाहितः । निर्माजनीयोवृद्धाभिर्लवेति च
स नामतः । एवं कुशलवौ नाम्ना ताबुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः । ता
रक्षाञ्जगृहुस्तां च मुनिहस्तात् समाहिता! । अकुर्वंश्च
ततोरक्षान्तयोर्विगतकल्मषाः । तथा तां क्रियमाणां च
वृद्धाभिर्गोत्रनाम च । सङ्कीर्तनञ्च रामस्य मीतायाः
प्रसवौ शुभौ” । “मयाप्तं रामत्वं कुशलवसुता नत्व-
विगता” सा० द० । कुशद्वीपमानस्थानाद्युक्तं विष्णु०
पु० यथा
“सुरोदकः परिवृतः कुशद्वीपेन सर्व्वतः । शाल्म-
लस्य तु विस्ताराद्द्विगुणेन समन्ततः । ज्योतिष्मतः
कुशद्वीपे सप्त पुत्राः शृणुष्व तान् । उद्भिदोरेणुमांश्चैव
सुरथोलम्बनो धृतिः । प्रभाकरोऽथ कपिलस्तन्नाम्ना
वर्षविश्रुतिः । तस्मिन् वसन्ति मनुजाः सह दैतेयदानवैः ।
तथैव देवगन्धर्व्वयक्षकिम्पुरुषादिभिः । वर्णास्तत्रा
ऽपि चत्वारो निजानुष्ठानतत्पराः । दमिनः शुष्मिणः
स्नेहा मन्देहाश्च महामुने! । ब्राह्मणाः क्षत्रियाः वैश्याः
शूद्राश्चानुक्रमोदिताः । यथोक्तकर्म्मकर्तृत्वात् स्वाधिकार-
क्षयाय ते । तत्र यत्तत् कुशद्वीपे ब्रह्मरूपं जनार्द्दनम् ।
यजन्तः क्षपयन्नग्र्यमधिकारफलप्रदम् । विद्रुमो
हेमशैलश्च द्युतिमान् पुष्पवांस्तथा । कुशेशयो हरिश्चैव
सप्तमो मन्दराचलः । वर्षाचलास्तु सप्तैव तत्र द्वीपे
महामुने! । नद्योऽपि सप्त तासाञ्च शृणु नामान्यनुक्र-
मात् । धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ।
विद्युद्धस्ता मही चैव सर्वपापहरास्त्विमाः । अन्याः सह
स्रशस्तत्र क्षुद्रनद्यस्तथाचलाः । कुशद्वीपे कुशस्तम्बः
संज्ञया तस्य तत् स्मृतम् । तत्प्रमाणेन स द्वीपो वृतोदेन
समावृतः” ।
भाग० ५, २० अ० अन्यथैवायं वर्ण्णितः यथा
“एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन
यथा पूर्व्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस्तद्द्वीपा-
ख्यापनो ज्वलन इवापरः सुशस्परोचिषस्ता दिशोविरा-
जयति । तद्द्वीपपतिः प्रियब्रतो राजन्! हिरण्यरेता नाम
स्वंद्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप
आतिष्ठत्! वसुवसुदानदृढ़रुचिनाभिगुप्तसत्यव्रतविप्रनाम
देवनामभ्यः तेषां वर्षेषु सीमागिरयोनद्यश्चाभिज्ञाताः
सप्तैव । बभ्रुश्चतुःशृङ्गकपिलश्चित्रकूटोदेवानीक ऊर्द्ध-
रोमा द्रविण इति । रसकुल्या मधुकुल्या मित्रविन्दा
श्रुतिविन्दा देवगर्भा घृतच्युता मन्द्रमालेनि यासां
पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलक
संज्ञा भगवन्तं जातवेदसरूपिणं कर्म्मकौशलेन यजन्ते” ।
कल्पभेदान्नामभेदः समाधेयः । कुशद्वीपोऽप्यत्र पु० “कुशोऽ-
भूत् काञ्चनः कौशे स्वयम्भूश्चितिमर्हति” । कुत्सिते
आचरणे शेते शी--ड । ७ पापिष्ठे ८ मत्ते च त्रि० भेदि० ।
पृष्ठ २१४६
९ नृपभेदे पु० “अजकस्य तु दायादो वलाकाश्वो महीपतिः ।
बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत्” हरि० २७ अ०

कुशकण्डिका स्त्री कुशैः कण्डिकेव । वैदिकाग्निसंस्का-

रभेदे स च वेदिभेदेन भिन्नः तत्प्रकारश्च ऋग्विदिनाम्
कालेशीकृते, यजुर्वेदिनाम् पशुपतिकृते, सामवेदिनां
भयदेवभट्टकृते ग्रन्थे उक्तः संक्षेपेण तुलादानादिपद्धतौ
तदनुसारिप्रकारोऽस्माभिर्दर्शितः । पृषो० कस्य लोपे
कुशण्डिकाऽप्यत्र स्त्री “सर्व्वेषामाहुतियुक्तकर्म्मणाम्
कुशण्डिकासंस्कृताग्निसाध्यत्वात् सैव प्रथमसभिधीयते” भवदेवः

कुशकाश न० नित्यः समाहारद्व० । कुशकाशानां समाहारे

क्वचित् इतरेतरसमास आर्षप्रयोगे दृश्यते यथा “इमे
लूनशिखास्तस्य दशनैरचिरोद्गतैः । कुशकाशा विराजन्ते
वटवः सामगाइव” विष्णुपु० इति केचित् । कुशसहिताः
काशा इत्येव तत्र वाक्यमित्यन्ये

कुशधारा स्त्री० नदीभेदे

कुशध्वज पु० जनकस्य नृपस्यानुजे भ्रातरि । “तस्य पुत्रद्वयं

जज्ञे धर्म्मज्ञस्य महात्मनः । ज्येष्ठोऽहमनुजोवीरोमम
भ्राता कुशध्वजः” रामा० आ० का० ७१ स०
“जनकोक्तिः । तस्य राज्यञ्च साङ्काश्यनगरआसीत् यथोक्तं
तत्रैव “साङ्काश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्” ।
“भ्राता यवीयान् धर्म्मज्ञ ऐषराजा कुशध्वजः” सच
भरतशत्रुघ्नयोः श्वशुरः तत्कथा तत्रैव ७२ सर्गे दृश्यां
“निमिवंशज जनकस्यात्मजे नृपभेदे “स्वर्ण्णरोमा सुतस्तस्य
ह्रस्वरोमा व्यजायत । ततः सीरध्वजोजज्ञे यज्ञार्थं
कर्षतो महीम् । सीता सीराग्रतोजाता यस्मात्
सीरध्वजः स्मृतः । कुशध्वजस्तस्य पुत्रस्ततो धर्म्मध्वजो
नृपः” इति भाग० ९ । १३ । १२ । अनयोर्विरोधः कल्प-
भेदात् समाधेयः “पार्थिवीमुद्वहद्रघूद्वहो लक्ष्मण-
स्तदनुजामथोर्म्मिलाम् । यौ तयोरवरजौ वरौजसौ तौ
कुशध्वजसुते सुमध्यमे” रघुः

कुशनाभ पु० कुशैव नाभिरस्य अच् समा० । वलाकाश्व

पौत्रे कुशपुत्रे नृपभेदे “अजकस्य तु दायादो वलाकाश्वो
महीपतिः । बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ।
कुशपुत्रा बभूबुर्हि चत्वारोदेववर्चसः । कुशिकः कुशनाभश्च
कुशाश्वो मूर्तिमांस्तथा” हरिवं २७ अ० । कन्याकुब्जशब्दे
तच्चरितानि दर्शितानि तस्य राजधानी महोदयनामपुरं
यथा रामा० आदि० ३२ स० “कुशनाभस्तु धर्म्मात्मा पुरां
चको महोदयम्” ।

कुशनेत्र पु० मारीचिपुत्रभेदे असुरे “शुश्रूषुश्चण्डशक्तिश्च

कुशनेत्रः शशिध्वजः । यथामति मया प्रोक्ताः मारीचेः
कीर्तिवर्द्धनाः” हरिवं० २४० अ०

कुशप न० कुश--बा० कपन् । पानपात्रे उणादिकोषः

कुशपुष्प न० कुशाकारं पुष्पमस्य । १ ग्रन्थिपर्णे वृक्षे रत्नमा० ।

कुशाश्च पुष्पाणि च समा० द्व० । २ कुशपुष्पाणां समाहारे
“कुशपुष्पं समिद्वारि ब्राह्मणः स्वयमाहरेत्” स्मृतिः

कुशप्लवन न० भारतप्रसिद्धे तीर्थभेदे “कुशप्लवनमासाद्य

ब्रह्मचारी समाहितः । त्रिरात्रमुषितः स्नात्वा अश्व-
मेधफलं लभेत्” भा० व० ८५ अ०

कुशर पु० कुत्सितः शरः । शरसदृशे अन्तश्छिद्रे तृणभेदे ऋ०

भा० माधवः “शरासः कुशरास” अ० ६ । १९१ । ३१ ।

कुशल न० कुश--कलन् । १ कल्याणे । २ तद्वति त्रि० । कुशान्

लाति ला--क । ३ कुशग्राहके त्रि० । कौ पृथिव्यां शलति
चलयति कर्य्याणि शल--अच् । ४ कार्य्यचतुरे त्रि० ।
अस्य च कुशग्राहकत्वे यौगिकत्वम् चतुरे लाक्षणिकत्व-
मिति काव्यप्रकाशकारआह तदेतन्मतं सा० द० निराकृत्य
दक्षतायां रूढत्वमस्य व्यवस्थापितं यथा
“केचित् तु “कर्म्मणि कुशलः” इति रूढावुदाहरन्ति ।
तेषामयमभिप्रायः । “कुशं लाति” इति व्युत्पत्तिलभ्यः
कुशग्राहिरूप्रो मुख्योऽर्थः प्रकृतेऽसम्भवन् विवेचकत्वसा-
धर्म्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति” । तदन्ये
न मन्यन्ते । कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽप्रि
दक्षरूपस्यैव मुख्यार्थत्वात् । अन्यद्धि शब्दानां व्युत्प-
त्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् । व्युत्पत्तिलभ्यस्य
मुख्यार्थत्वे “गौः शेते” इत्यत्रापि लक्षणा स्यात् ।
“गमेर्डोः” इति गमधातीर्डोप्रत्ययेन व्युत्पादितस्य गोशब्दस्य
शयनकालेऽपि प्रयोगात्” ।
अत्रेदमभिदध्महे । “गसेर्डोरिति औणादिकडोप्रत्यया-
न्तस्य गोशब्दस्य “उणादयोऽव्युत्पन्नाः प्रातिपदि-
कानि” पा० उक्तत्वात् न यौगिकतासम्भवः अवयवल-
भ्यार्थाभावात् अतस्तस्य गवादौ रूढतैव! “आतोऽनु-
पसर्गे कः” पा० उक्तेकप्रत्ययस्य कृत्त्वेन व्युत्पन्नत्वात्
अवयवार्थलभ्यार्थसत्त्वान्न गोशब्दतुल्यता “किञ्च
उणादीनां व्युत्पन्नत्वपक्षेऽपि गोशब्दस्यावयवार्थयोगात् पङ्क-
जादिपदवत् अर्थविशेषे योगरूढत्वं गोशब्दे वक्ष्यते ।
अतएव गोशब्दस्य रूढत्यकल्पनमत्युत्पन्नत्वपक्षमाश्रित्यै-
वेति विवेव्यमिति । मण्डपशब्दस्य मण्डपानकर्त्तृतात्-
पृष्ठ २१४७
पार्य्यकत्वे यौगिकता जनाश्रयपरत्वे रूढत्वमिव कुशल
शब्दस्य रूढ़यौगिकत्वमेव युक्तम् “पप्रच्छ कुशलं
राज्ये” रघुः । “मयाप्तं रामत्वं कुशलवसुता न त्वधि-
गता” सा० द० । “प्रसारयन्ति कुशलाश्चित्रां वाचं
पटीमिव” माघः । “तदनुप्रवेशमथ वा कुशलः” माघः ।
कुश + अस्त्यर्थे सिध्मा० लच् । ५ कुशयुक्ते त्रि० । ततः
अस्त्यर्थे इनि । कुशलिन् तद्युक्ते त्रि० स्त्रियां ङीप् ।
“कुशलिनी वत्सस्य वार्त्ताऽपि न” सा० द० । “माञ्च
कुशलिनी ब्रूयाः” भा० उ० १३६ अ० । शौण्डा० एतस्य
७ त० । कर्म्म कुशलः । श्रेण्यादि० अभूततद्भावार्थे समा० ।
कुशलकृतः कुशलभूतः । अनेन सह कुमारशब्दस्य समासे
कुमारस्य विशेष्यत्वेऽपि श्रमणादि० परनिपातः । कुमार
कुशलः । ततः ब्राह्मणादि० कर्म्मणि भावे च ष्यञ् ।
कौशल्य दक्षतायाम् न० । युवा० तदर्थे अण् । कौशल
तदर्थे “योगः कर्म्मसु कौशलम्” गीता ।

कुशलत पु० द्वि० । पुष्पवतोरिव एकशक्त्या रामसुतयोः हेमच०

कुशलिन् त्रि० कुशल + अस्त्यर्थे इनि । कल्याणवति । “कुश-

लिनी वत्सस्य वार्त्तापि न” सा० द० ।

कुशली स्त्री कुशैव लीयते ली--ड गौरा० ङीष् । अश्मन्तकवृक्षे वैद्य० ।

कुशविन्दु पु० भूम्नि देशभेदे । “वातायना दशार्ण्णाश्च

रोमकाः कुशविन्दवः” भा० भी० ९ अ० जनपदकथने ।

कुशस्थल न० कुशप्रधानं स्थलम् । १ कान्यकुब्जदेशे हेमच० ।

“कुशस्थलं वृकस्थलं माकन्दं वारणावतम् । देहिमे चतु
ग्रामान् कञ्चिदेकञ्च पञ्चमम्” वेणीसं० २ पुरीभेदे स्त्री
ङीष् जटाधरः सा च प्राक् रेवतनृपेण निर्म्मिता पश्चात
यदुभिः संस्कृता यथा हरिवं० १३३ अ०
“इति सञ्चित्य सर्वे च प्रतीचीं दिशमाश्रिताः ।
कुशस्थलीं पुरीं रम्यां रेवतेनोपशोभिताम् “विहाय मथुरां
रम्यां मानयन्तः पिनाकिनम् । कुशस्थलीं द्वारवतीं
निवेशयितुमीप्सवः” हरिवं० ३६ अ० ।
“आनर्त्तविषयश्चासीत् पुरी तस्य कुशस्थली” हरिवं० १० अ० ।

कुशा स्त्री कुश--क । १ रज्ज्वां मेदि० २ मधुकर्कट्याम् शब्दच०

३ वल्गायां हेमच० । कुशाशब्दे परे अयसः सत्वम्
अयम्सहिता कुशा अयस्कुशा सि० कौ० । सामगानां
स्तोत्रीयगणनार्थे औदुम्बरे ४ शङ्कौ च शब्दचि० ।

कुशाकर पु० कुशैराकीर्य्यते समन्तादग्रेण मूलाच्छादनेन

वेष्ट्यतेऽत्र आ + कॄ--आधारे अप् । यज्ञाग्नी । स हि
कुशकण्डिकायां कुशैराव्रियते ।

कुशाक्ष पुंस्त्री कुशैव सूक्ष्माग्रमक्षि अस्य षच् समा० । वानरे शब्दमाला

कुशाग्र न० ६ त० । कुशस्याग्रे । “कुशाग्रेणापि कौन्तेय!

न स्प्रष्टव्यो महोदधिः” भा० व० ११० २३ श्लो० । कुशस्या
ग्रमिव सूक्ष्मत्वात् । २ कुशाग्रतुल्यसूक्ष्मे ३ अतिदुर्बोध-
ग्राहके “कुशाग्रबुद्धे । कुशली गुरुस्ते” रघुः । कुशा-
ग्रमिव इवार्थे छ । कुशाग्रीय कुशाग्रतुल्ये त्रि० “कुरु
बुद्धिं कुशाग्रीयामनुकामीनतां त्यज” भट्टिः ।

कुशादिक मावप्रकाशोक्ते तैलभेदे यथा

कुशाग्निमन्थशैरीयनलदर्भेक्षुगोक्षुराः । कपोतवङ्कावसुक-
वसिरेन्दीवरीशराः । धातक्यरलुवन्दाकाः कर्णपूराश्म-
भेदकाः । एषां कल्ककषायाभ्यां सिद्धं तैलं प्रयोजयेत् ।
पानाभ्यञ्जनयोगेन वस्तिनोत्तरवस्तिना । शर्कराश्मरिरोगेषु
मूत्रकृच्छ्रे च दारुणे । प्रदरे योनिशूले च शुक्रदोषे
तथैव च । वन्ध्यागर्भकरं प्रोक्तं तैलमेतत् कुशादिकम्” ।

कुशाम्ब पु० निमिवंश्ये नृपभेदे कुशनृपसुते । “कुशनाभ-

शब्दे हरिवं० वाक्यम्” रामा० उ० ३२ स० “ब्रह्मयोनि-
र्महानासीत् कुशोनाम महातपाः” इत्युपक्रमे “स
महात्मा कुलीनाबां युक्तायां सुमहारथान् । वैदर्भ्यां
जनयामास चतुरः सदृशान् सुतान् । कुशाम्बं कुशनाभञ्च
असूर्तरजसं वसुम्” नामभेदः कल्पभेदात् अविरुद्धः ।
“प्रत्यग्रयः कुशाम्बश्च यमाहुर्मणिवाहनम्” भा० आ० ६३ अ०
कुशाम्बेन निर्वृत्ता अण् ङीप् । तत्कृतपुरीभेदे “कुशाम्बस्तु
महातेजाः कौशाम्बीमकरोत् पुरीम्” रामा० उ० ३२ स०
निर्गतः कौशाम्ब्याः निष्कौशाम्बिः सि० कौ० । कुशाम्बस्या-
पत्यं शुभ्रा० ढक् । कौशाम्बेय तदपत्ये पुंस्त्री० ।

कुशारणि पु० कुशं जलं शापार्थमुदकमरणिरिवास्य । दुर्वा-

ससि मुनौ त्रिका० तस्य शापजलेनैव सर्वनाशकत्वात्
तथात्वम् ।

कुशाल्मलि पु० कुत्सितः शालमलिः । रोहितकवृक्षे । राजनि०

कुशावती स्त्री कुश--अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घः ।

रामात्मजकुशस्य राजधान्याम् पुर्य्याम् । “स निवेश्य
कुशावत्यां रिपुनागाङुशं कुशम्” । “कुशावतीं श्रोत्रिय-
सात् स कृत्वा” रघुः । रामा० उ० का० तु कोशलेष्वे वैतद-
भिषेकोवर्ण्णितः । “कोशलेषु कुशं वीरमुत्तरेषु तथा
सवम् । अभिषिच्य महात्मानाबुभौ रामः कुशीलवौ” ।
अतोरघुवाक्यं पुराणान्तरानुसारीति विवेच्यम् ।
पृष्ठ २१४८

कुशावर्त पु० कुशस्य जलस्यावर्त्तोयत्र । गङ्गावतारतीर्थे “गङ्गा

द्वारे कुशावर्त्ते विल्वके नीलपर्वते । तथा कणखले सात्वा
धूतपाप्मा दिवं व्रजेत्” भा० आनु० १७०० श्लो० ।
“उपगम्य कुशावर्त्त आसीनं तत्त्ववित्तमम्” भाग०
३ । २० । ५ । “कुशावर्त्ते गङ्गाद्वारे” श्रीधरः । २ भरतनृप-
पुत्रभेदे । “तमनु कुर्शावर्त इलावर्त्तो ब्रह्मावर्त्तो मलयः
केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव नवतिप्र-
धानाः” भाग० ५ । ४ । १० । तद्राज्यत्वात् कुशावर्त्तस्य
तत्संज्ञत्वम् ।

कुशाश्व पु० सूर्य्यवंश्ये नृपभेदे “सृजञ्जयस्य सुतः श्रीमान्

सहदेवः प्रतापवाम् । कुशाश्वः सहदेवस्य पुत्रः परमधा-
र्म्मिकः” रामा० आ०

कुशासन न० कुशैर्निर्म्मितमासनम् । कुशनिर्म्मिते आसने

“कुशासनमनन्तरम्” श्राद्धक्रमः । तत्स्वरूपादि श्रा० त०
“अथ कुशासनम् तत्र गोभिलः “पित्र्ये द्विगुणांस्तु
दर्भान् पवित्रपाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पङ्क्तिमूर्द्ध-
न्यं पृच्छति सर्वान् वा सर्वत्रासनेषु दर्व्भानास्तीर्य्येति”
पित्र्ये पित्रर्थदाने तत्रादौ जलगण्डूषप्रक्षेपः । ततोद्वि
गुणभुग्नकुशपत्रत्रयं पितॄणामासनार्थं दद्यात् एतच्च आदौ
विश्वदेवपक्षे कृत्वा पितृपक्षे कर्त्तव्यं तथा च याज्ञवल्क्यः
“पाणिप्रक्षालनं दत्त्वा उषन्तस्त्वेत्यृचा पितॄन्” ।
प्रक्षाल्यतेऽनेनेति प्रक्षालनं जलं तेन तूष्णीं ब्राह्मण-
पाणौ जलंदत्त्वा विष्टरार्थमासनार्थमिति दीपक-
लिका । कुशान् ऋजून दद्यात् । व्यक्तमाहाश्वलायनः
“अपः प्रदाय दर्भान् द्विगुणभुग्नानासनं प्रदाय” इति
आसनमित्यनेनोपवेशनीयत्वप्रतीते र्हस्तं तददानं प्रती-
यते । तथाच कार्ष्णाजिनिः “दर्भांश्चैवासने दद्यान्न तु
पाणौ कदा चन । पितृदेवमनुष्याणामेवं तृप्तिर्हि
शाश्वती” । अत्र पितृदेवमनुष्येभ्योऽपि कुशासनदानं प्र
तीयते । अत्र दैविकत्वेन कुशानां ऋजुत्वमिति विशेषः ।
देवपितृविप्रवोर्दक्षिणवामयोः कुशासनस्यापनमाह श्रा
द्धसूत्रभाष्यधृतवचनम् । “पितॄणामासनं दद्याद्वाम-
पार्श्वे कुशान् सुधीः । दक्षिणे चैव देवानां सर्वत्र श्राद्ध-
कर्म्मसु” । कोः पृथिव्या २ शासने च । अब्राह्मणोऽपि
कुशासनसहितः”

कुशिंशपा स्त्री कुत्सिता शिंशपा । कपिलशिंशपायां राजनि०

कुशिक पु० कुशः कुशनामा नृपः जनकत्वेनास्त्यस्य ठन् । गाधि

नृपजनके विश्वामित्रपितामहे नृपभेदे तत् कथा यथा
“कान्यकुब्जे महानासीत् पार्थिवो भरतर्षभ! ! । गाधी-
ति विश्रुतो लोके कुशिकस्यात्मसम्भवः । तस्य धर्म्मात्मनः
पुत्रः समृद्धबलवाहनः । विश्वामित्र इति ख्यातो बभूव
रिपुमर्द्दनः । भा० आ० १७४ अ०
“कुशवंशप्रसुतोऽस्मि कौशिको रघुनन्दन!” रामा० आ०
“कुशिकस्यात्मजः श्रीमान् गाधिर्नाम जनेश्वरः । भा० आ० ४ अ०
“कुशपुत्रा बभूबूर्हि चत्वारोदेववर्च्चसः । कुशिकः कुशना-
भश्च कुशाश्वो मूर्त्तिमांस्तथा” कुशिकस्तु तपस्तेपे” इत्यु-
पक्रमे “स गाधिरभवद्राजा भगवान् कौशिकः स्वयम्”
हरिवं० २७ । अ० कुशिकचरितं च भा० आनु० ५२ अध्या-
याबधि ५६ अ० पर्य्यन्ते
“अत्राप्युदोहरन्तीममितिहासं पुरातनम् । च्यवनस्य च
संवादं कुशिकस्य च भारत! । एतं दोषं पुरा दृष्ट्वा
भार्गवश्च्यवनस्तदा । आगामिनं महाबुद्धिः स्ववंशे
मुनिसत्तमः । निश्चित्य मनसा सर्वं गुणदोषं बलाबलम् ।
दग्धुकामः कुलं सर्व्वं कुशिकानां तपोधनः । च्यवनः
समनुप्राप्य कुशिकं वाक्यमब्रवीत् । वस्तुमिच्छा समुत्पन्ना
त्वया सह ममानध! ।
कुशिक उवाच । भगवन् सह धर्म्मोऽयं पण्डितैरिह
धार्य्यते । प्रदानकाले कन्यानामुच्यते च सदा बुधैः ।
यत्तु तावदतिक्रान्तं धर्म्मद्वारं तपोधनम् । तत् कार्य्यं
प्रकरिष्यामि तदनुज्ञातुमर्हसि । भीष्म उवाच ।
अथासनमुपादाय च्यवनस्य महामुने! । कुशिको भार्य्यया
सार्द्धमाजगाम यतो मुनिः । प्रगृह्य राजा भृङ्गारं
पाद्यमस्मै न्यवेदयत् । कारयामास सर्व्वाश्च
क्रियास्तस्य महात्मनः । ततः स राजा च्यवनं
मधुपर्कं यथाविधि । ग्राहयामास चाव्यग्रो महात्मा
नियतव्रतः । सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत् ।
भगवन्! परवन्तौ स्वो ब्रूहि किं करवावहै । यदि राज्यं
यदि धनं यदि गाः संशितव्रत! । यज्ञदानानि च तथा
ब्रूहि सर्व्वं ददामि ते । इदं गृहमिदं राज्यमिदं
धर्म्मासनञ्च ते । राजा त्वमपि शाध्युर्वीं योऽहं
स परवांस्त्वयि । एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा ।
कुशिकं प्रत्युवाचेदं मुदा परमया पुनः । न राज्यं
कामये राजन्न धनं न च योषितः । न च गा न च वै
देशान्न यज्ञं श्रूयतामिदम् । नियमं कञ्चिदारप्स्ये
युवयोर्यदि रोचते । परिचर्य्योऽस्मि यत्ताभ्यां युवाभ्या-
मविशङ्कया । एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः ।
प्रत्यब्रूताञ्च तमृषिमेवमस्त्विति भारत । ।
अथ तं कुशिको हृष्ट प्रावेशयदनुत्तमम् । गृहोद्देशं
पृष्ठ २१४९
ततस्तस्य दर्शनीयमदर्शयत् । इयं शय्या भगवतो
यथाकाममिहोष्यताम् । प्रयतिष्यावहे प्रीतिमाहर्त्तुं ते
तपोषन! । अथ सूर्य्योऽतिचक्राम तेषां संवदतां तथा ।
अथर्षिर्नोदयामास पानमन्नं तथैव च । तमपृच्छत्ततो राजा
कुशिकः प्रणतस्तदा । किमन्नजातमिष्टन्ते किमुपस्था
पयाम्यहम् । ततः स परया प्रीत्या प्रत्युवाच नराधि-
पम् । औपपत्तिकमाहारं प्रयच्छस्वेति भारत! ।
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः । यथोपप-
न्नमाहारं तस्मै प्रादाज्जनाधिप! । ततः स भुक्त्वा
भगवान् दम्पती प्राह धर्म्मवित् । सप्तुमिच्छाम्यहं निद्रा
बाधते मामिति प्रभो! । ततः शय्यागृहं प्रार्थ्य भगवा-
नृषिसत्तमः । संविवेश नरेशस्त सपत्नीकः स्थितोऽभवत् ।
न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः । संवाहि-
तव्यौ मे पादौ जागृतव्यञ्च तेऽनिशम् । अविशङ्कस्तु
कुशिकस्तथेत्येवाह धर्म्मवित् । न प्रबोधयतान्तौ च
तं तथा रजनीक्षये । यथा तथा महर्षेस्तु शुश्रूषापरमौ
तदा । बभूवतुर्म्महाराज! प्रयतावथ दम्पती । ततः स
भगवान् विप्रः समादिश्य नराधिपम् । सुष्वापैकेन
पार्श्वेन दिवसानेकविशतिम् । स तु राजा निराहारः
सभार्य्यः कुरुनन्दन! । पर्य्युपासत तं हृष्टश्च्यवनाराधने
रतः । भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः ।
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः । तमन्वगच्छ-
तां तौ तु क्षुधितौ श्रमकर्षिदौ । भार्य्यापती मुनिश्रेष्ठ-
स्तावेतौ नावलोकयन् । तयोस्तु प्रेक्षतोरेव यार्गवा-
णां कुलोद्वहः । अन्तर्हितोऽभूठ्राजेन्द्र! ततो राजाऽपतत्
क्षितौ । स मुहूर्तं सनाश्वास्य सह देव्या महाद्युतिः ।
पुनरन्वेषणे यत्नमकरोत् परमं तदा” ५२ अ०
युधिष्ठिर उवाच । तष्मिन्नत्तर्हिते विप्रे राजा
किमकरोत्तदा । भार्य्या चास्य महाभागा तन्मे ब्रूहि
पितामह! । भीष्म उवाच । अदृष्ट्वा स महीपालस्तमृषिं
सह भार्य्यया । परिश्रान्तो निववृते व्रीडितो
नष्टचेतनः । स प्रविश्य पुरीं दीनो नाभ्य-
भाषत किञ्चन । तदेव चिन्तवामास च्यवनस्य
विचेष्टितम् । अथ शून्येन मनसा प्रविश्य स्वगृहं
नृपः । ददर्श शयने तस्मिच्छयानं भृगुनन्दनम् ।
विस्मितौ तावृषिं दृष्ट्वा तदाश्चर्य्यं विचिन्त्य च । दर्शना-
त्तस्य तु तदा विश्रान्तौ सम्बभूबतुः । यथास्यानन्तु तौ
स्थित्वा भूयस्तं संववाहतुः । अथापरेण पार्श्वेन सुष्वाप
स महामुनिः । तेनैव च स कालेन प्रत्यबुध्यत् स
वीर्य्यवान् । न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्किता ।
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशांपते! । तैलाभ्यङ्गो
दीयतां मे स्नास्येऽहमिति भारत! । तौ तथेति प्रति
श्रुत्य क्षुधितौ श्रमकर्षितौ । शतपाकेन तैलेन महार्हे-
णोपतस्थतुः । ततः सुखासीनमृषिं दम्पती संववाह-
तुः । न च पर्य्याप्तमित्याह भार्गवः सुमहातपाः । यदा
तौ निर्विकारौ तु लक्षयामास भार्गवः । तत उत्थाथ
सहसा स्नानशालां विवेश ह । कॢप्तमेव तु तत्रासीत् स्ना
नीयं पार्थिवोचितम् । असत्कृत्य च तत् सर्वं तत्रैवान्तर
धीयत । स मुनिःपुनरेवाथ नृपतेः पश्यतस्तदा । नासूया-
ञ्चक्रतुस्तौ च दम्पती भरतर्षभ! । अथ स्नातः स भगवान्
सिंहासनगतः प्रभुः । दर्शयामास कुशिकं सभार्य्यं
कुरुनन्द्रन! । स हृष्टवदनो राजा सभार्य्यः कुशिको
मुनिम् । सिद्धमन्नमिति प्राज्ञा निर्विकारो न्यवेदयत् ।
आनीयतामिति मुनिस्तञ्चोवाच नराधिपम् । स
राजा समुपाजह्रे तदन्नं सह भार्य्यया । मांसप्रकारा-
न् विविधांञ्छाकानि विविधानि च । रसालापूपकांश्चि-
त्रान्मोदकानथ खाण्डकान् । रसान् नानाप्रकारांश्च वत्यञ्च
मुनिभोजनम् । फलानि च विचित्राणि राजभोग्यानि
भूरिशः । वदरेङ्गुदकाश्मर्य्यभल्लातकफलानि च ।
गृहस्थानाञ्च यद्भोग्यं यच्चापि वनवासिनाम् । सर्वमाहा-
रयामास राजा शापभयात्ततः । अथ सर्वमुपन्यस्तम-
ग्रतश्च्यवनस्य तत् । ततः सर्वं सभानीय तच्च शय्यासनं
मुनिः । वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह ।
सर्वमादीपयामास च्ययनो भृगुनन्दनः । न च तौ चक्रतु
क्रौधं दम्पती सुमहामती । तयोः सम्प्रेक्षतोरेव
पुनरन्तर्हितोऽभवत् । तथैव च स राजर्षिस्तस्थौ तां
रजनीं तदा । सभार्य्यो वाग्यतः श्रीमान्न कोपं स
समाविशत् । नित्यं संस्कृतमन्नन्तु विविधं राजवेश्मनि ।
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः । वस्तञ्च
विविधाकारमभवत् समुपार्ज्जितम् । न शशाक ततो
द्रघुमन्तरं च्यवनस्तदा । पुनरेव च विप्रर्षिः प्रोवाच
कुशिकं नृपम् । सभार्य्यो मां रथेनाशु वह यत्र ब्रवी-
म्यहम् तथेति च प्राह नृपो निर्विशङ्कसापोधनम् ।
क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः । इत्युक्तः
स मुनी राज्ञा तेन हृष्टेन तद्वचः । च्यवनः प्रत्युवाचेदं
हृष्टः परपुरञ्जय! । सज्जीकुरु रथं क्षिप्रं यस्ते
पृष्ठ २१५०
सांग्रामिको रथः । सायुघः सपताकश्च शक्तीकनकयष्टि-
मान् । किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः ।
जाम्बूनदनिबद्धैश्च परमेषुशतान्वितः । ततः स तत्त-
थेत्युक्त्वा कल्पयित्वा महारथम् । भार्य्यां वामे धुरि तदा
चात्मानं दक्षिणे तथा । त्रिदण्डं वज्रसूच्यग्रं प्रतोदं
तत्र चादधत् । सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत्
भगवन्! क्व रथोयातु ब्रवीतु भृगुनन्दन! । यत्र वक्ष्यसि
विप्रर्षे! तत्र यास्यति ते रथः । एवमुक्तस्तु भगवान् प्रत्यु-
वाचाथ तं नृपम् । इतः प्रभृति यातव्यं पदकं पदकं
शनैः । श्रमो मम यया न स्यात्तथा मे च्छन्दचारिणौ ।
सुसुखञ्चैव वोढव्यो जनः सर्वश्च पश्यतु । नोत्सार्य्याः
पथिकाः केचित्तेभ्यो दास्ये वसु ह्यहम् । ब्राह्मणेभ्यश्च ये
कामानर्थयिष्यन्ति मां पथि । सर्वन्दास्याम्यशेषेण धनं
रत्नानि चैव हि । क्रियतां निखिलेनैतन्मा विचारय
पार्थिव! । तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् ।
यद्यद्ब्रूयान्मुनिस्तत्तत् सर्वं देयमशङ्कितैः । ततोरत्नान्यनेका-
नि स्त्रियो युग्यमजाविकम् । कृताकृतञ्च कनकं गजेन्द्राश्चा-
चलोपमाः । अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः ।
हाहाकृतञ्च तत् सर्वमासीन्नगरमार्त्तवत् । तौ तीक्ष्णा-
पेण सहसा प्रतोदेन प्रतोदितौ । पृष्ठे विद्धौ कटे चैव
निर्विकारौ तमूहतुः । वेपमानौ निराहारौ पञ्चाशद्रा-
त्रिकर्षितौ । कथञ्चिदूहतुर्वीरौ दम्पती तौ रथोत्तमम् ।
वहुशो भृशविद्धौ च वहन्तौ च क्षतोद्भवम् । ददृशाते
महाराज! पुष्पिताविव किंशुकौ । तौ दृष्ट्वा पौरवर्गस्तु भृशं
शोकसमाकुलः । अभिशापभयत्रस्तो न च किञ्चिदुवाच ह ।
द्वन्द्वशश्चाब्रुवन् सर्वे पश्यध्वं तपसो बलम् । क्रुद्धा अपि
मुनिश्रेष्ठं वोक्षितुं नेह शक्नुमः । अहो भगवतो वीर्यं
महर्षेर्भावितात्मनः । राज्ञश्चापि मभार्य्यस्य धैर्य्यं पश्यत
यादृशम् । श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः ।
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ।
“भीष्म उवाच । ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलो-
द्भहः । बहु विश्राणयामास यथा वैश्रवणस्तथा ।
तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत् । ततोऽस्य
भगवान् प्रीतो बभूव मुनिसत्तमः । अवतीर्य्य रथश्रेष्ठात्
दम्पती तौ मुमोच ह । विमोच्य चैतौ विधिवत्ततो
वाक्यमुवाच ह । स्निग्धगम्भोरया वाचा भार्गवः सुप्र-
सन्नया । ददानि वां वरं श्रेष्ठं तं ब्रूतामिति
भारत! । सुकुमारौ च तौ विद्धौ कराभ्यां मनिसत्तमः ।
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम! । अथाब्रवीन्नृपो
वाक्यं श्रमो नास्त्यावयोरिह । विश्रान्तौ च प्रभावात्ते
ऊचतुस्तौ च भार्गवम् । अथ तौ भगवान् प्राह प्रहृ-
ष्टश्च्यवनस्तदा । न वृथा व्याहृतं पूर्व्वं यन्मया तद्भ-
विष्यति । रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् ।
किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव! । गम्यतां
स्वपुरं पुत्त्र! विश्रान्तः पुनरेष्यसि । इहस्थं मा
सभार्य्यस्त्वं द्रष्टासि श्वो नराधिष! । न च मन्युस्त्वया कार्य्यः
श्रेयस्ते समुपस्थितम् । यत् काङ्क्षितं हृदिस्थं ते तत्
सर्वं हि भविष्यति । इत्येवमुक्तः कुशिकः प्रहृष्टेना-
न्तरात्मना । प्रोवाच मुनिशार्द्दूलमिदं वचनमर्थवत् ।
न मे मन्युर्म्महाभाग! पूतौ स्वो भगवंस्त्वया । संवृत्तौ
यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ । प्रतोदेन
व्रणा ये मे सभार्य्यस्य त्वया कृताः । तान्न पश्यामि
गात्रेषु स्वस्थोऽस्मि सह भार्य्यया । इमां च देवीं
पश्याभि वपुषाऽप्सरसोपमाम् । श्रिया परमया युक्तां
यथा दृष्टा पुरा मया । तव प्रसादात्सं वृत्तमिदं सर्वं
महामुने! । नैतच्चित्रन्तु भगवंस्त्वयि सत्यपराक्रम! ।
इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा । आगच्छे-
थाः सभार्य्यश्च त्वमिहेति नराधिप । इत्युक्तः
समनुज्ञातो राजर्षिरभिवाद्य तम् । प्रययौ वपुषा युक्तो
नगरीं देवराजवत् । तत एनमुपाजग्मुरमात्याः सपुरो-
हिताः । बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ।
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् । प्रवि-
वेश पुरं हृष्टः पूज्यमानोऽथ वन्दिभिः । ततः प्रविश्य
नगरं कृत्वा पूर्बाह्णिकीः क्रियाः । भुक्त्वा सभार्य्यो
रजनीमुवास स महाद्युतिः । ततस्तु तौ नवमभिवीक्ष्य
यौवनं परस्परं विगतरुजाविवामरौ । ननन्दतुः शयनगतौ
वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तदा ।
अथाप्यृषिर्भृगुकुलकीर्त्तिबर्द्धनस्तपोधनो वनमभिराम-
मृद्धिमत् । मनीषया बहुविधरत्नभूषितं ससर्ज यन्नो
नगरे शतक्रतोः” इति ५३ अ०
“भीष्म उवाच । ततः स राजा रात्र्यन्ते पतिबुद्धो
महामनाः । कृतपूर्बाह्णिकः प्रायात् सभार्य्यस्तद्वनं प्रति ।
ततो ददर्श नृपतिं प्रासादं सर्वकाञ्चनम् । मणिस्तम्भस-
हस्राद्यं गन्धर्वनगरोपमम् । तत्र दिव्यानमिप्रायान्
ददर्श कुशिकस्तदा । पर्व्वतान् रूप्यसानूंश्च नलिनीश्च
सपङ्कजाः । तत्र शालाश्च विविधास्तोरणानि च भारत!।
पृष्ठ २१५१
शाद्वलोपचितां भूमिं यथाकाञ्चनकुट्टिमाम् ।
सहकारान् प्रफुल्लांश्च केतकोद्दालकान् धवान् ।
अशोकान् सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् । चम्पकांस्ति-
लकान् भव्यान् पनसान् वञ्जुलानपि । पुष्पितान् कर्णि-
कारांश्च तत्र तत्र ददर्श ह । श्यामान् वारणपुष्पांश्च
तथाऽष्टपादिका लताः । तत्र तत्र परिकॢप्ता ददर्श स
महीपतिः । वृक्षान् पद्मोत्पलधरान् सर्वर्त्तुकुसुमांस्तथा ।
विमानप्रतिमांश्चापि प्रासादाञ्छैलसन्निभान् । शीतलानि
च तोयानि कचिदुष्णानि भारत! । आसनानि विचि-
त्राणि शयनप्रवराणि च । पर्य्यङ्कान् रत्नसौवर्णान्
परार्द्ध्यास्तरणावृतान् । भक्ष्यभोज्यमनन्तञ्च तत्र
तत्रोपकल्पितम् । वीणानादाञ्छुकांश्चैव सारिकान्
भृङ्गराजकान् । कोकिलाञ्छतपत्रांश्च सकोयष्टिककु-
क्कुभान् । मयूरान् कूक्कुटांश्चापि दात्यूहान
जीवजीवकान् । चकोरान् वानरान् हंसान् सारसांश्चक्रसा-
ह्वयान् । समन्ततः प्रमुदितान् ददर्श सुमनोहरान् ।
क्कचिदप्सरसां संघान् गन्धर्वाणाञ्च पार्थिव! । कान्ताभिर-
परांस्तत्र परिष्वक्तान् ददर्श ह । न ददर्श च ताम् भूयो
ददर्श च पुनर्नृपः । गीतध्वनिं सुमधुरं तथैवाध्यापनध्वनिम् ।
हंसान् सुमधुरांश्चापि तत्र शुश्राव पार्थिवः । तं दृष्ट्वाऽ-
त्यद्भुतं राजा मनसाऽचिन्तयत्तदा । खप्नोऽयं चित्तविभ्रंश
उताहो सत्यमेव तु । अहो सह शरीरेण प्राप्तोऽस्मि
परमाङ्गतिम् । उत्तरान् वा कुरून् पुण्यानय वाऽप्यमरा-
वतीम् । किञ्चेदं महदाश्चर्य्यं संपश्यामीत्यचिन्तयत् । एवं
सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् । तस्मिन् विमाने सौवर्णे
मणिस्तम्भसमाकुले । महार्हे शयने दिव्ये शयानं भृगु-
नन्दनम् । तमप्ययात् प्रहर्षेण नरेन्द्रः सह मार्य्यया ।
अन्तर्हितस्ततो भूयश्च्यवनः शयनञ्च तत् । ततोऽन्यस्मिन्
वनोद्देशे पुनरेव ददर्श तम् । कौश्यां वृष्यां समासीनं
जपमानं महाव्रतम् । एवं योगबलाद्विप्रो मोहयामास
पार्थिवम् । क्षणेन तद्वनञ्चैव ते वै चाप्सरसां गणाः ।
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत । निःशब्दमभवच्चाप्रि
गङ्गाकूलं पुनर्नृप! । कुशबल्मीकभूयिष्ठं बभूव च यथा
पुरा । ततः स राजा कुशिकः सभार्य्यस्तेन कर्म्मणा ।
विस्मयं परमं प्राप्य तद्दृष्ट्वा महदडुतम् । ततः प्रोवाच
कुशिको भार्य्यां हर्षसमन्वितः । पश्य भद्रे! यथा मावा
श्चित्रा दृष्टाः सुदुर्लभाः । प्रसादाद्भृगुमुख्यस्य किमन्यत्र
तपोबलात् । तपसा तदवाप्यं हि यत्तु शक्यं मनोरथैः ।
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते । तपसा हि
सुतप्तेन शक्यो मोक्षस्तपोवलात् । अहो प्रभावो ब्रह्मर्षे-
श्च्यवनस्य महात्मनः । इच्छयैष तपोवीर्य्यादन्यान्
लोकान् सृजेदपि । ब्राह्मणा एव जायेरन् पुण्यवाग्बुद्धि-
कर्मणः । उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते ।
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ।
ब्राह्मणस्य प्रभावाद्धि रथे युक्तौ स्व धुर्य्यवत् । इत्येवं
चिन्तयानः स विदितश्च्यवनस्य वै । सम्प्रेक्ष्योवाच
नृपतिं क्षिप्रमागम्यतामिति । इत्युक्तः सहभार्य्यस्तु सोऽभ्य-
गच्छन्महामुनिम् । शिरसा वन्दनीयन्तमवन्दत च
पार्थिवः । तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् ।
निषीदेत्यब्रवीद्धीमान् सान्त्वयन् पुरुषर्षभ! । ततः प्रकृति-
मापन्नो भार्गवो नृपतेर्नृप! । उवाच श्लक्ष्णया वाचा
तर्पयन्निव भारत! । राजन्! सम्यग् जितानीह पञ्च पञ्च-
स्वयं त्वया । मनःषष्ठानीन्द्रियाणि कृच्छान्मुक्तोऽसि तेन
वै । सम्यगाराधितः पुत्त्र! त्वया प्रवदतां वर । । न हि
ते वृजिनं किञ्चित् सुसूक्ष्ममपि विद्यते । अनुजानीहि
मां राजन्! गमिष्याभि यथागतम् । प्रीतोऽस्मि तव
राजेन्द्र! वरश्च प्रतिगृह्यताम् ।
कुशिक उवाच । अग्निमध्यगतेनेव भगवन् सन्निधौ मया ।
वर्त्तितं भृगुशार्द्दूल! यन्न दग्वोऽस्मि तद्वहु । एष एव
वरो मुख्यः प्राप्तो मे भृगुनन्दन! । यत्प्रीतोऽसि मया
ब्रह्मन्! कुलं त्रातञ्च मेऽनघ! । एष मेऽनुग्रहो विप्र!
जीविते च प्रयोजनम् । एतद्राज्यफलञ्चैव तपसश्च फलं
मम । यदि त्वं प्रीतिमान् विप्र! मयि वै भृगुनन्दन! ।
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि । ५४ अ०
“च्यवन उवाच । वरश्च गृह्यंतां मत्तो यश्च ते संशयो
हृदि । तं प्रब्रूहि नरश्रेष्ठ । सर्व्वं सम्पादयामि ते ।
कुशिक उवाच । यदि प्रीतोऽसि भगवंस्ततो मे वद
भार्गव! । कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ।
शयनञ्चैकपार्श्वेन दिवसानेकविंशतिम् । अकिञ्चिदुक्त्वा
गमनं बहिश्च मुनिपुङ्गव! । अन्तर्द्धानमकस्माच्च पुनरेव च
दर्शनम् । पुनश्च शयनं विप्र! दिवसानेकविंशतिम् ।
तैलाभ्यक्तस्य गमनं भोजनञ्च गृहे मम । समुपानीय
विविधं यद्दग्धं जातवेदसा । निर्याणञ्च रथेनाशु
सहसा यत् कृतं त्वया । धनानाञ्च विसर्गश्च वनस्यापि च
दर्शनम् । प्रासादानां बहूनाञ्च काञ्चनानां महामुने! ।
मणिविद्रुमपादानां पर्य्यङ्कानाञ्च दर्शनम् । पुनश्चादर्शनं तस्य
पृष्ठ २१५२
श्रोतुमिच्छामि कारणम् । अतीव ह्व्यत्र सुह्यामि चिन्तयानो
भृगूद्वह! । नचैवात्राधिगच्छामिसर्व्वस्यास्य विनिश्चयम् ।
एतदिच्छामि कात्र्स्न्येन सत्यं श्रोतुं तपोधन!
च्यवन उवाच । शृणु सर्वमशेषेण यदिदं येन हेतुना ।
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव! । पितामहस्य
वदतः पुरा देवसमागमे । श्रुतवानस्मि यद्राजंस्तन्मे
निगदतः शृणु । ब्रह्मक्षत्त्रविरोधेन भविता कुलसङ्करः ।
पौत्त्रस्ते भविता राजस्तेजोवीर्य्यसमन्वितः । ततस्ते
कुलनाशार्थ महं त्वां समुपागतः । चिकीर्षन् कुशिकोच्छेदं
सन्दिधक्षुः कुलन्तव । ततोऽहमागम्य पुरे त्वामवोचं
महीपते! । नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति ।
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे । तेन जीवसि
राजर्षे । न भवेथास्त्वमन्यथा । एवं बुद्धिं समास्थाय
दिवसानेकविंशतिम् । सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति
पार्थिव! । यदा त्वया सभार्य्येण संसुप्तो न प्रवीधितः ।
अहन्तदैव ते प्रीतो मनसा राजसत्तम! । उत्थाय चास्मि
निष्क्रान्तो यदि मां त्वं महीपते! । पृच्छेः क यास्यसी-
त्येवं शपेयं त्वामिति प्रभो! । अन्तर्हितः पुनश्चास्मि पुनरेव
च ते गृहे । योगमास्थाय संसुप्तो दिवसानेकविंशतिम् ।
क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप! । एवं बुद्धिं
समास्थाय कर्षितौ वां क्षुधा मया । न च तेऽभूत्
सुसूक्ष्मोऽपि मन्युर्म्मनसि पार्थिव! । सभार्ष्यस्य नरश्रे-
ष्ठ! तेन ते प्रीतिमान हम् । भोजनञ्च समानाय्य यत्तदा
दीपिसं मया । क्रुध्येथा यदि मात्सर्य्यादिति तन्मर्षि-
तञ्च मे । ततोऽहं रथमारुह्य त्वामवोचं नराधिप! ।
सभर्य्यो मां बहस्वेति तच्च त्वं कृतवांस्तथा । अविशङ्को
नरपते । प्रीतोऽहञ्चापि तेन ह । धनोत्सर्गेऽपि च कृते न
त्वां क्रोधः प्रधर्षयेत् । ततः प्रीतेन ते राजन्! पुतरेतत्
कृतं तव । सभार्य्यस्य वनं भूयस्तद्विद्धि मनुजाधिप्!
प्रीत्यर्यं तव चैतन्मे स्वर्गसन्दर्शनं कृतम् । यत्ते वनेऽ-
स्मिन्नपते! दृष्टं दिव्यं निदर्शनम् । स्वर्गोद्देशस्त्वया राजन्!
स्वशरीरेण पार्थिक । । मुहूर्त्तमनुभूतोऽसौ सभार्य्येण
नृषोत्तम! । निदर्शतार्थं तपसो धर्म्मस्य च नराधिप! ।
तत्तवासोत् स्पृहा राजं स्तच्चापि विदितं मया ।
ब्रह्मण्यं काङ्क्षसे हि त्वं वपश्च पृथिवीपते! । अवमन्य
नरेन्द्रत्वं देवेन्द्रत्वं नराधिप! । एवमेतद्यथात्थ त्वं ब्राह्मण्यं
तात! दुर्ल्लभम् । ब्राह्मणे सति चर्पित्वं ऋषित्वे च
तपखिता । भविष्यत्येष ते कामः कौशिकात् कौशिको द्वि-
जः । तृतीयं पुरुषं तुभ्यं ब्राह्मणत्वं गमिष्यति ।
वंशस्ते पार्थिवश्रेष्ठ! भृगूणामेव तेजसा । पौत्त्रस्ते भविता
विप्रस्तपस्वी पावकद्युतिः । यः सदेवमनुष्याणां भयमु-
त्पादयिग्यति । त्रयाणामेब लोकानां सत्यमेतद्व्रवीमि
ते । वरं गृहाण राजर्षे! यत्ते मनसि वर्त्तते । तीर्थ-
यात्रां गमिष्यामि पुरा कालोऽभिवर्तते ।
कुशिक उवाच । एष एव वरो मेऽद्य यम्त्वं प्रीतो
महामुने! । भवत्वेतत् यथात्थ त्वं भवेत् पौत्त्रो ममानथ! ।
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः । पुनश्चा-
ख्यातुमिच्छामि भगवन्! विस्तरेण वै । कथमेष्यति बिप्रत्यं
कुलं मे भृगुनन्दन । कथासौ भविता बन्धुर्मम् कश्चापि
सम्मतः । ५५ अ०
च्यवन उवाच । अवश्यं कथनीयं मे तवैतन्नरपुङ्गव! ।
यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप! । भृगूणां
क्षत्त्रिया याज्या नित्यमेतज्जमाधिप! । ते च भेदं
गमिष्यन्ति दैवयुक्तेन हेतुना । क्षत्त्रियाश्च भृगून् सर्वान्
वधिष्यन्ति नराधिप! । आ गर्भादनुकृन्तन्तो दैवदण्डनि-
पीडिताः । तत उत्पत्स्यतेऽस्माकं कुलगोत्रविवर्द्धनः ।
जर्यो नाम महातेजा ज्वलनार्कसमद्युतिः । स त्रैलो-
क्यविनाशाय कोपाग्निं जनयिष्यति । महीं सपर्वत-
वनां यः करिष्यति भस्मसात् । कञ्चित् कालन्तु वह्निञ्च
स एव शमयिष्यति । समुद्रे वडवावक्त्रे प्रक्षिप्य सुमि-
सत्तमः । पुत्त्रं तस्य महाराज! ऋचीकं भृमुनन्दनम् ।
साक्षात् कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनव! । क्षत्त्रिया-
याणामभावाय दैवयुक्तेन हेतुना । स तु तं प्रतिमृ-
ह्यैव पुत्त्रे संक्रामयिष्यति । जमदग्नौ महाभागे तपसा
भावितात्मनि । स चापि भृगुशार्द्दूलस्तंवेदं धारयिष्यति ।
कुलात्तु तव धर्म्मात्मन् कन्यां सोऽधिगमिष्यति ।
उद्भावनार्थं भवतो वंशस्त्र भरतर्षभ! । गाधेर्दुहितरं
प्राप्य पौत्रीं तव महातपाः । ब्राह्मणं क्षत्रधर्म्माणं
पुत्रमुत्पादयिष्यति । क्षत्रियं विप्रकर्माण वृहत्पतिमिवौ-
जसा । विश्वामित्रं तव कुते गाधेः पुत्त्रं सुधार्मिकम् ।
तपसा महता युक्तं प्रदास्यति महाद्युते! । स्त्रियौ तु
कारण तत्र परिवर्त्ते भविष्यतः । पितामहनियो-
गाद्वै नान्थथैतद्भविष्यति । तृतोये पुरुषे तुभ्यं ब्राह्मण-
त्वमुपैष्यति” ।
“भीष्म उवाच ॥ कुशिकस्तु मुनेर्वाक्यं च्यवनस्य
महात्मनः । श्रुत्वा हृष्टोऽभवद्राजा वाक्यञ्चेदमुवाच ह
पृष्ठ २१५३
एवमस्त्विति धर्मात्मा तदा भरतसत्तम! । च्यवनस्तु
महातेजाः पुनरेव नराधिपम् । वरार्थं नोदयामास
तमुवाच स पार्थिवः । वाढमेवं करिष्यामि कामं त्वत्तो
महामुने! । ब्रह्मभूतं कुलं मेऽस्तु धर्म्मे चास्य मनो
भवेत् । एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः ।
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा । एतत्ते
कथितं सर्वमशेषेण मया नृप! । भृगूणां कुशिकानाञ्च
अभिसम्बन्धकारणम् । यथोक्तमृषिणा चापि तदा तदभव-
न्नॄप!” ५६ अ० । कुशिकस्थापत्यम् अण् । कोशिक
तदपत्ये पुंस्त्री० स्त्रियां ङीप् हेमच० मुनिभेदार्थकता-
मालोक्य जमदग्निपित्रर्थकतोक्तिः कल्पद्र मे तन्मूला-
न्यत्रोक्तिश्च चिन्त्या । २ सर्ज्जवृक्षे हेमच० । ३ विभीतकवृक्षे
पु० विश्वः ४ केकरे त्रि० ५ अश्वक्वर्ण्णवृक्षे राजनि० ६ तैलशेषे
पु० शब्दमा० कुशी + स्वार्थे क । कुशिका ७ फाले स्त्री

कुशित त्रि० कुश--इतच् । जलमिश्रिते उणा०

कुशिन् त्रि० कुशोऽस्त्यस्य इनि । कुशयुक्ते “दिनेऽष्टमे तु

विप्रेण दीक्षितोऽहं यथाविधि । दण्डी मुण्डी कुशी
चीरी घृताक्तोमेखलीकृतः” भा० आनु० १४ अ० २ वाल्मीके
मुनौ हेमच० ।

कुशिम्बि(म्बी) स्त्री कुत्सिता शिम्बी पृषो० वा ह्रस्वः ।

शिम्बीभेदे सुश्रु० । “सहाद्वयं मूलकजाश्च शिम्बा कुशि-
म्बिवल्लीप्रभवाश्च शिम्बाः । ज्ञेया विपाके मधुरा रसे च
बलप्रदाः पित्तनिषर्हणाश्च सुश्च ।

कुशी स्त्री कुश--अयोविकारेऽर्थे ङीप् नि० । लौहविकारे फाले मेदि० ।

कुशी(सी)द न० कु + सद--श पृषो० वा सस्य शः । वृद्ध्यर्थं

धनप्रयोगे अमरः “कुशी(सी)दवृद्धिर्द्धैगुण्यं नात्येति
सकृदाहृता” या० स्मृतिः । २ रक्तचन्दसे तन्त्रसा० ।
“साक्षा कुशी(सी)दसिन्दूरं गोमयञ्च करीषकम् ।
विलोड्य ग्रटिकां कृत्वा जपर्सख्याञ्च कारयेत्”

कुशी(सी)रक पु० कुत्सितः शी(सीरोयत्र कर्षणे वा कप् ।

कर्षणेन कुण्ठितहलके क्षेत्रादौ । ततः चतुरर्थ्यां सख्या०
ढञ् । कौशी(सी)रकेय तत्सन्निकृष्टदेशादौ त्रि० ।

कुशीलव पु० कुत्सितं शीलं कुगति० अस्त्यर्थे व, कुशीलं वाति

वा--क--वा । १ कीर्त्तिसञ्चारके नटे, २ चारणे, ३ गायके च ।
कुशीलववृत्त्यर्थं नाट्यप्रचारकत्वात् ४ वाल्मीकौ मुनौ ।
शब्दचि० ५ नटमात्रे अमरः । “यन्नाट्यवस्तुनःपूर्ब्बं
रङ्गविघ्नोपशान्तये” कुशीलवाः प्रकुर्व्वन्ति सा० द० ।
कुशश्च लवश्च पृशो० । ६ कुशलवयोः द्वि० हेमच० । “अभि-
षिच्य महात्मानावुभौ रामः कुशीलवौ” रामा० सु०
१०७ स० । त्रिकाण्डशेषे कुशीवशः इति वाल्मीक्यर्थे
पाठः लिपिकरप्रमादकृतः ।

कुशुम्भ पु० कु + शुम्भ अच् । कुसुम्भशब्दार्थे हारा०

कुशूल पु० कुश--कूलच् । १ तुषाग्नौ, जटाधरः २ अन्नकोष्ठके,

इष्टकादिनिर्म्मिते धान्यादिस्थापनार्हे ३ स्थाने च ।
हेमच० “कुशूलपूरणाढकैः” स्मृतिः

कुशूलधान्यक पु० कुशूलपरिमितं धान्यं यस्य । यावता-

धान्थेन वर्षत्रयं स्वस्य स्वकुटुम्बस्य स्रकृत्यस्य निर्वाहो
भवति ताबन्मात्रसञ्चितधान्ये १ विप्रे । कुम्भीधान्यशब्दे
विवृतिः ।

कुशेशय न० कुशे जले शेते शी--अच् अलुक् स० । १ पद्मे,

“कुशेशयैरत्र जलाशयोषिताम्” माघः । २ सारसपक्षि-
णि, अमरः । ३ कर्णिकारवृक्षे शब्दचिन्ता० । कुशद्वीपस्थे
४ पर्व्वतभेदे पु० कुशशब्दे विवृतिः

कुशोदक न० कुशसंसृष्टमुदकम् शाकत० । दानार्थे कुशसहिते जले

कुष निष्कर्षे क्र्यादि० पर० सक० सेट् । कुष्णाति अकोषीत् ।

निरस्तु वेट् निरकोषीत् निरकुक्षत् । चुकोष । निष्कर्षश्चेह
इयत्तापरिच्छेदः, मध्यस्थितस्य, वस्तुनो बहिर्निःसार-
णञ्च । “शिवाः कुष्णान्ति मांसानि” “ततोऽकुष्णात्
दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्” भट्टिः । क्त्वा सेट्
कित् । “कुषित्वा जगतां सारम्” भट्टिः कर्म्मकर्त्तरि
सार्व धातुके श्यन् वा प० । कुष्यति ते वा पादः ।
आर्द्धधातुके तु न परैस्मपदम् श्यन्सन्नियोमशिष्टत्वात्
कोषिषीष्ट पादः ।
  • अनु + सादृश्येन बर्निस्मारणे तूलेनानुकुष्णाति
  • अभि + आभिमुख्येन निःसारणे “न बालकर्ण्णनासास्रोतो
दशनविवराण्यभिकुष्णोयात्” सुश्रुतः
  • अव + अधोनिःसारणे तूलैरवकुष्णाति सि० कौ० ।
  • निर् + निष्कासने । निरकुक्षत् निरकोषीत् “निष्क्रोष्टा
निष्कोषिता । “निष्कोषितव्यान्निष्कोष्टु प्राणान् दशमु-
खात्मजात् । आदाय परिधं तस्थौ बलान्निष्कुषित-
द्रुमः” भट्टिः “कीटनिष्कुषितं धनुः” भट्टिः “उपान्तयो
र्निष्कुषितं विहङ्गैः” रघुः । आर्षे तु गणव्यत्ययोऽपि
क्वचित् दृश्यते “यमपुरुषा अयस्मयैरग्नितप्तैः संदंशंस्त्वचि
निष्कुषन्ति” भाग० ५ । २६ । १९ ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कुम्भक&oldid=314812" इत्यस्माद् प्रतिप्राप्तम्