वाचस्पत्यम्/कुण

विकिस्रोतः तः


पृष्ठ २०७६

कुण आभाषणे, मन्त्रणे च अद० चु० उभ० सक० सेट् । कुणयति ते अचुकुणत् त । प्रनिकुणयति

कुण उपकरणे शब्दे च तुदा० पर० सक० सेट् । कुणति

अकोणीत् । प्रनिकुणति उपकरणं दानादिना पोषणम् ।

कुणक पु० कुण्यते उपक्रियते कुण--कर्म्मणि घञर्थे क तत

अनुकम्पायां कन् । बालके शिशौ । “तं त्वंणकुणकं
कृपणं स्रोतसानुवाह्यमानमभीक्ष्य” “तस्य हवा एण
कुणके उच्चैस्तरामेतस्मिन् कृतनिजाभिमानस्याहरह
स्तत्पोषणपालनप्रीणनलालनानुध्यानेन” “अहो वतायं
हरिणकुणकः कृपणः” इति च भाग० ५, ८, ७, ८, ९,
“एणकुणकं हरिणबालकम्” श्रीधरः ।

कुणञ्ज पुंस्त्री० कुणं शब्दकारकं स्वरभेदं जरयति अन्तर्भूत-

ण्यर्थे जॄबा० ड पृषो० मुम् । वनवास्तूके शाकभेदे
(वनवेथुया) “कुणञ्जो मधुरोरुच्यो दीपनः पाचनोहितः ।
तच्छाकं तु त्रिदोषघ्नं मधुरं रुचिकारकम् । ईषत्कषायं
संग्राहि पित्तश्लेष्महरं लघु” राजनि० । स्त्रीत्वमप्यत्र ।

कुणञ्जर पु० कुणं जरयति हृ--बा० खच् । वनवास्तूके राजनि०

कुणप पु० कण--कपन् संप्र० । त्यक्तप्राणे मृतदेहे शवे अमरः

“वाराणस्यां महाराज । दर्शनेप्सुर्महेश्वरम् । तस्या द्वारं
समासाद्य न्यसेथाः कुणपं क्वचित् । तं दृष्ट्वा यो निवर्त्तेत
स संवर्त्तो महीपते!” । नारदोक्तौ “कुणपं स्थापयामास
नारदस्य वचः स्मरन् । यौगगद्येन विप्रश्च पुरीद्वारम-
थाविशत्” “ततः स कुणपं दृष्ट्वा सहसा संन्यवर्त्तत” भा०
आश्व०६ अ० । “शोणितवर्ण्णवेदनं कुणपगन्ध्यनल्पं
रक्तेन” सुश्रु० अर्द्धर्ञ्चा० पा० । २ पूतिगन्धे पु० ३
तदति त्रि० सेदि० । “कुणपं मस्तुलाङ्गाभं सुगन्धं क्वथितं बहु”
माधवनि० “तस्य देवा यावन्मात्रमिव गन्धस्यापजघ्नुस्तं
पशुष्वदधुः स एव पशुषु कुणपगन्धस्तस्मात् कुणपग-
न्धान्नपिगृह्णीत” शत० ब्रा० ४, १, ३, ८, । (वड़शा)
४ अस्त्रभेदे । “शक्तिभिः कवचैश्चित्रैः कुणपै रङ्कु
शरपि” भा० भी० ५७ अ० । कुणपलक्षणन्तु हेमा० प०
ख० लक्षणसमुच्चये दर्शितं यथा
“जमदग्निं प्रति उशनाः प्रोवाच साधु पृष्टं कुणपा
नां विधानं यथापृष्टं कथयामि शृणु विंशत्यङ्गुलोऽष्टा-
दशाङ्गुलः षोडशांङ्गुलश्चेति श्रेष्ठमध्याधमत्वेन कुणपोऽ-
ङ्गुलमाने त्रिविधोभवेदेवं पलप्रमाणे विंशतिपलः
षोडशपलोद्वादशपलश्चेति । बालयोग्यानामेतत् प्रमाणमुक्त-
मबालानां तु कुणपस्त्रिंशत्पलः श्रेष्ठः पञ्चविंशतिप-
लोमध्यमः विंशतिपलस्तु निकृष्टः, श्रेष्ठश्चतुर्विंशत्यङ्गुलो
द्वाविंशत्यङ्गुलोमध्यमः कनिष्ठस्तु विंशत्यंङ्गुलो भवेत्”
कणपेति पाठान्तरम् । ५ शवतुल्ये निश्चैतन्ये जड़े देहादौ
“आश्चर्य्यमेतत् यदसत्सु सर्व्वदा महद्विनिन्दा
कुणपात्मवादिषु” भाग० ४, ४, १४, “कुणपं जडं श-
रीरं तदेवात्मेति वदन्ति ये तेषु” श्रीधरः । गौरा०
ङीष् । ६ विट्शारिकायां (गुइयाशालिक) स्त्री० मेदि०

कुणारु त्रि० क्वण--शब्दे बा० आरु संप्र० । क्वणनशीले

“सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र! संपिनक्कुणारुम्”
ऋ० ३, ३०, ८, “कुणारुं क्वणनशीलम्” मा० ।

कुणाल पु० क्वण--कालन् संप्र० । देशभेदे सि० कौ० ।

कुणि पु० कुण--इन् । १ तुन्दवृक्षे मेदि० । २ आदानादिक्रिया

मन्दकरान्विते त्रि० अम० । “दौहदविमाननात् कुब्जं
कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं
जनयति, सुश्रु०” गर्भो वातप्रकोपेण दौहदे चावमानिते ।
भवेत्कुब्जः कुणिः पङ्गुः मूको मिन्मिण एव च” सुश्रु०
कुणेर्भावः ष्यञ् । कौण्य हस्तस्यादानादिविघातरूपे
दोषे “एकादशेन्द्रियबधाः” सा० का० व्याख्यायां कौमुद्यां
“बाधिर्य्यं कुष्ठितान्धत्वम् जडताऽजिध्रता तथा । मूकता
कौण्वपङ्गुत्वक्लैव्योदावर्त्तमन्दताः” इन्द्रियभेदेन क्रिया-
विघातभेदो दर्शितः ।

कुणिन्द पु० क्वण--भावे किन्दच् संप्र० । शब्दे उज्ज्वलद०

कुणिपदी स्त्री कुणिरिव कुण्ठितशक्तिः पादोऽस्याः कुम्भप-

द्या० ङीष् पद्भावश्च । क्रियामन्दपादयुक्तस्त्रियाम् ।

कुण्टक त्रि० कुटि--ण्वुल् । स्थूले शब्दरत्ना० ।

कुण्ठ त्रि० कुठि--वैकल्ये अच् । १ क्रियासु मन्दे अकर्म्मण्ये

अमरः “पूर्वं तपोवीर्ष्यमहसु कुण्ठम्” कुमा० “विभाव-
सोस्तुल्यमकुण्ठमण्डलम्” (सुदर्शनम्) भा० आ०१९ अ० ।
२ मूर्खे मेदि० । कर्त्तरि क्त कुण्ठित तत्रार्थे । “वृत्रस्य
हन्तुः कुलिशं कुण्ठितास्रीव लक्ष्यते” कुमा० ।

कुण्ठक त्रि० कुठि--ण्वुल् । १ सङ्गुचिते क्रियामन्दे । २ सूर्खे

पु० शब्दमा० ३ तत्प्रघानदेशभेदे पु० भूम्नि । “मालवा
वल्लवा श्चैव तथैवापरवल्लवाः । कुलिन्दाः कालकाश्चैव
कुण्ठकाः करटास्तथा” भा० भी० ९ जनपदकथने ।

कुण्ड न० कुण्ड्यते रक्ष्यते जलं वह्निर्वाऽत्र कुडि--रक्षणे

आधारे--अच्णिलोपः । जलाधारे वृत्ताकारे १ पात्रभेदे(कुण्डा)
“भुवं कोष्णेन कुण्डोध्नी” रघुः “अत्सरुका कुण्डप्रति
रूपाश्चमसाः” कात्या० श्रौ० २४, ४, ४, “अत्सरुकाः
अवृन्तकाः कुण्डप्रतिरूपा वृत्ताकाराः” कर्कः । २ देवादिखात-
जलाशये अगस्त्यकुण्डं सप्तर्षिकुण्डं सोमकुण्डम् ३
कमुण्डलौ स्त्री गौरा० ङीष्मेदि० । होमार्थमग्न्याधारे ४ स्था-
नभेदे । तल्लक्षणादिकं हेमा० दा० ख० दर्शितं तथा ।
“भविष्यत्पुराणे “वेदिपादान्तरंत्यक्त्वा कुण्डानि नव पञ्च
पृष्ठ २०७७
वा । वेदास्राण्येव तानि स्युर्व्वर्त्तुलान्यथ वा क्वचित् ।
वेदास्राणि, चतुरस्राणि । आम्नायरहस्ये “कुण्डानि
चतुरस्राणि वृत्तनालाकृतीनि वा । नव पञ्चाथ वा चैकं
कर्त्तव्यं लक्षणान्वितम् । नवकुण्डविधाने तु दिक्षु कुण्डा-
ष्ठके स्थिते । नवमं कारयेत् कुण्डं पूर्वेशानदिगन्तरे ।
विधाने पञ्च कुण्डानामीशाने पञ्चमं भवेत्” । ज्ञानरत्ना-
वल्याम् “दिक्षु वेदास्रवृत्तानि पञ्चमं त्वीशगोचरे” ।
नारदीयेऽपि “यत्रोपदिश्यते कुण्डचतुष्कन्तत्र कर्म्मणि ।
वेदास्रमर्द्धचन्द्रञ्च वृत्तं पद्मनिभं तथा । कुर्यात् कुण्डानि
चत्वारि प्राच्यादिषु विचक्षणः । कुण्डवेद्यन्तरञ्चैव
सपादकरसम्मितम् । पीठबद्धन्तु यत्कुण्डं सुप्रमाणं
सुगर्त्तकम्” । बह्वृचपरिशिष्टे “भुक्तौ मुक्तौ तथा पुष्टौ
जीर्ण्णोद्धारे विशेषतः । सदा होमे तथा शान्तौ वृत्तं
वरुणदिग्गतम्” । कामिके तु तत्तद्दिक्षु तत्तत्फलार्थं
कुण्डोक्तिर्यथा ऐन्द्य्रां--स्तम्भे चतुष्कोणमग्नौ भागे
भगाकृति । चन्द्रार्द्धं मारणे याम्ये, नैरृते हि त्रिकोणकम् ।
वारुण्यां शान्तिके वृत्तं, षड़स्र्युच्चाटनेऽनिले । उदीव्यां
पौष्टिके पद्मं रौद्र्यामष्टास्रमुक्तिदम्” । सर्वेषु चैतेषु
होमानुसारेण हस्तादिमानं क्षेत्रफलमुपकल्पनीयम् ।
तदुक्तं भविष्यपुराणे “मुष्टिमानं शतार्द्धे तु शते चारत्नि-
मात्रिकम् । सहस्रे त्वथ होतव्ये कुर्यात्कुण्डं करात्मकम् ।
द्विहस्तमयुते तच्च लक्षहोमे चतुःकरम् । अष्टहस्तात्मकं
कुण्डं कोटिहोमेषु नाघिकम्” । मुष्टिमानमिति, बद्धमु-
ष्टिहस्तमात्रमित्यर्थः । इदानीं चतुरस्रादिकुण्डानामुद्धा-
रक्रमोऽभिधीयते । चतुरस्रं तावदाह विश्वकर्म्मा “कृत्वा
प्राक् सूत्रमर्द्धाङ्कं दक्षिणोत्तरमत्स्ययोः । न्यस्य सूत्रं ततः
कोणैरङ्कितैश्चतुरस्रकम्” । पूर्व्वङ्केनाप्युपायेन प्राचीं
निश्चित्य प्राक्पश्चिमायातां रेखामालिख्य तामर्द्धभागे
लाञ्छयित्वा दक्षिणोत्तरदिशोर्स्मत्स्यद्वयं कुर्य्यात् सूत्रोपरि
सूत्रान्तरनिपातनात् स्वस्तिकमध्याकृतिः शिल्पशास्त्रेषु
मत्स्य इत्युच्यते । मत्स्यद्वयनिष्पत्तिश्चात्रैवं कार्य्या । पूर्वो-
क्तरेखापरिमितस्य सूत्रस्यादिं तस्याएव रेखाया मूले
निधाय तत्सूत्रान्तरं परिभ्राम्य वृत्तं रचयेत् तस्या
एवरेखाया अपरप्रान्ते तस्यैव सूत्रस्यादिं निधाय तत्सूत्रा
न्तं परिभ्राम्य द्वितीयान्तं कुर्य्यात् एवं वृत्तद्वये कृते
दक्षिणोत्तरदिशोर्मत्स्यद्वयं निष्पद्यते अथ मत्स्यद्वये पूर्वोक्त-
रेखालाञ्छने चैकं सूत्रं निष्पात्य दक्षिणोत्तरायतां रेखां
लिखेत् । एवं दिक्ष साधितासु विदिक्साधनार्थं कोणान्
लाञ्छयेत् । तत्रायं प्रकारः--पूर्वनिष्पन्नरेस्वाप्रान्तच-
तुष्टयस्य प्रत्येकं पार्श्वद्वये चिकीर्षितपरिमाणस्यार्द्धमर्द्धं
निधाय तत्सन्धौ कोणलाञ्छनानि कुर्य्यात् ततः कोणला-
ञ्छनेषु सूत्रचतुष्टयनिपातनात् पूर्वदिश्युदङ्मुखयोनिकं
चतुरस्रं कुण्डं कुर्य्यात् । योन्याकारादीनामुद्धारश्चतु-
रस्रप्रकृतिकस्तु कामिकशास्त्रात् “पञ्चमांशं पुरोन्यस्य
मध्ये वेदांशमानतः । भ्रमादश्वत्थपत्रामं कुण्डमाग्नेय-
मुच्यते” । क्षेत्रस्य पञ्चमभागं पुरःप्राच्यां दिशि विन्यस्य
मध्ये कोणसूत्रस्येति शेषः । वेदांशः, तुरीयांशः ।
भ्रमात्, सूत्रान्तपरिभ्रमणेन अश्वत्थपत्राकारं कुण्डमाग्ने-
यदिशि कुर्य्यादिति । तत्रायं निर्म्माणप्रकारः पूर्वोक्त-
न्यायेन समचतुरस्रीकृतस्य क्षेत्रस्य पश्चिमरेखामध्यात्
पूर्वरेखामध्यभेदिनीं क्षेत्रसूत्रपञ्चमांशाधिकां गर्भरेखा-
मालिख्य नैरृत्यदेशे कोणसूत्रन्तुरीयांशे लाञ्छयित्वा
तल्लाञ्छनोपरि विन्यस्तादेः सूत्रस्य पूर्वोक्तगर्भरेखामूलवि-
न्यस्तं प्रान्तं परिभ्राम्य बहिर्वृत्तार्द्धं निष्पाद्य वायव्यको-
णेऽप्येवमेव वृत्तार्द्धं रचयेत् । ततो गर्भरेखाप्रान्तात्
वृत्तद्वयप्रान्तस्पर्शि सूत्रद्वयं निपात्य पिष्पलपत्राकार-
माग्नेयदिश्युदङ्मुखयोनिकं योनिकुण्डं विदध्यात् ।
“चतुरस्रे ग्रहैर्भक्ते त्यक्त्वाद्यन्तौ तदं शकौ । मध्यसप्तांश-
माने तु कुण्डं खण्डेन्दुवत् क्रमात्” । चतुरस्रे क्षेत्रे
ग्रहैर्नवभिर्विभक्ते आद्यन्तौ त्यक्त्वा अवशिष्टसप्तमांशमा-
नेन सूत्रभ्रामणात् खण्डेन्दुसदृशं कुण्डं कुर्य्यात् । अत्रैवं
कृतिः--चतुरस्रं क्षेत्रं नवधा विभज्य तत्र प्रयमोऽन्ति-
मश्चेति भागद्वयं परिमृज्य अवशिष्टसप्तभागादिमरेखाग-
र्भदेशे सूत्रादिं निधाय तस्यैव भागसप्तकस्यान्तिमरेखाग-
र्भदेशे सूत्रान्तं निवेश्य तत्सूत्रपरिभ्रामणेन प्रथमरेखातुल्यं
विश्रान्तप्रान्तवृत्तार्द्धं विरचयेत् । अथ प्रथमरेखाप्रान्तद्वय-
मपि वृत्तार्द्धे संयोज्य दक्षिणदिगवस्थितमुत्तराशाभिमुखयो
निकं कुण्डं चन्द्रखण्डं विदध्यात् । “त्रिभागवृद्धितो
मत्स्यैस्त्रिभिर्नैशाचरं भवेत्” । स्थानत्रये तृतीयांशत्रयं
वृद्ध्या मत्स्यत्रयेण नैशाचरं नैरृत्यदिक्सम्बन्धि कुण्डं
कुर्य्यात् । इहायं सम्प्रदायः । पूर्ववत्समचतुरस्रं क्षेत्रं
निर्म्माय तत्तिरश्चीनपश्चिमरेखामध्यात् तिर्य्यगवस्थितपूर्व-
रेखामध्यभेदिनीं क्षेत्रसूत्रतृतीयभागाधिकां गर्भरेखामा-
लिख्य पूर्वोक्तपश्चिमरेखाप्रान्तद्वयमपि क्षेत्रसूत्रवषीयभा-
गाधिकं कुर्य्यात् ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरे-
खाप्रान्तद्वयमपि क्षेत्रसूत्र तृतीयभागाधिकं कुर्य्यात् ।
पृष्ठ २०७८
ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरेखाप्रान्तद्वयस्पर्शिसू-
त्रद्वयं निपात्य नैरृत्यदिशि पूर्वाभिमुखयोनिकं त्रिकोणं
कुण्डमुत्पादयेत् । एवञ्च विधीयमाने स्यानत्रये तृतीयां-
शत्रयवृद्धिस्तत्रैव मत्स्यत्रयमपि निष्पद्यत इति । “कर्म्मा-
र्द्धाष्टांशसंन्यासाद्वृत्तं कुण्डमिहोदितम् । कर्म्मसूत्रार्द्धस्य
योऽष्टमांशस्तस्य संन्यासात् सम्यक् न्यासात् वृत्तं कुण्डं
स्यादिति । अत्रैवं रचनाप्रकारः चतुरस्रे क्षेत्रे
कोणात् कोणान्तरगामिनः सूत्रस्यार्द्धं कोणार्द्धशब्दवाच्य-
मष्टधा विभज्य यावानष्टमो भागस्तावन्तं भागं
चतुर्द्दिक्षु बहिर्विन्यसेत् । ततः क्षेत्रगर्भदेशे सूत्रादिं
निधाय वहिःस्थिताष्टमभागविन्यस्तं तस्यैव सूत्रस्य प्रान्तं
सर्वतः परिभ्राम्य पश्चिमदिशि पूर्वाभिमुखयोनिकं वृत्तकुण्डं
कुर्य्यात् । “षड्भागवृद्धितो मत्स्यैश्चतुर्भिः स्यात् षडस्रकम्”
क्षेत्रपार्श्वयोः प्रत्येकं षष्ठभागवृद्धं कृत्वा अवशिष्टदिशो-
र्मत्म्यचष्टयमुत्पाद्य सूत्रषड्कुपातात् षडस्रकुण्डनिष्पत्ति-
रिति । अत्रैवं सम्प्रदायः--समचतुरस्रं क्षेत्रं षोढ़ा
विभज्य यावान् षष्ठोभागस्तावता मानेन क्षेत्रस्य दक्षि-
णोत्तरपार्श्वे समन्ताद्वर्द्धयित्वा तदेव क्षेत्रमायतचतुरस्रं
सम्पादयेत् । अथानन्तरोक्तपार्श्वद्वयरेखास्पर्शिनीं दक्षि-
णोत्तरायतां गर्भरेखां रचयेत् । ततः क्षेत्रमध्यादुत्तर-
पांर्श्वरेखामध्याच्च पूर्वोक्तगर्मरेखार्द्धपरिमितमेकैकं सूत्रं
निपात्य पूर्वोशानदिशोरन्तराले मत्स्यमुत्पाद्य तेनैव प्रका-
रेण पश्चिमवायव्ययोरन्तराले मत्स्यं कुर्य्यात् । अथ भूयोऽ-
पि क्षेत्रमध्याद्दक्षिणपार्श्वरेखामध्याच्च प्रागुक्तगर्भरेखा-
प्रान्तद्वयात् लाञ्छनचतुष्टयस्पर्शिसूत्रचतुष्टयं निपा-
तयेत् । एवं लाञ्छनानन्तरालस्थितसूत्रद्वयेन सह सूत्र-
षट्कयोगाद्वायव्यदिशि प्राङ्मुखयोनिकं षट्कोणकुण्डं
कुर्य्यात् । “चतुरस्राष्टभागेन कर्णिका स्याद्विभागशः । तद्ब-
हिस्त्येकभागेन केसराणि प्रकल्पयेत् । तृतीये दलमध्यानि
तुरीये दलकोटयः । भ्रामणात् पद्मदलं स्याद्दलाग्रं दर्श-
येद्बहिः” । चतुरस्रस्य अष्टधा विभक्तस्य मध्ये अष्टमभा-
गेन कर्णिका स्यात् कर्णिकाया बहिः परिधिस्थे द्वितीये
अष्टमभागे विन्यासे केसराणि स्यः । केसराद्वहिः परिधि-
स्थिते तृतीये अष्टमभागे विन्यासे दलमध्यानि कल्प-
यित्वा चतुर्थे दलकोटीं विधाय चतुरस्राद्बहिर्द्दला-
ग्राणि दर्शयेत् । अत्राप्यष्टमभागेनेति सम्बध्यते । विभा-
गश० विभागे विभागे सर्वदिग्भागेष्वित्यर्थः । भ्रामणात्,-
सूत्रस्येति शेषः एतच्च पद्मदलं सर्वत्र योजनीयम् ।
अयमर्थः--चतुरस्रं क्षेत्रं प्रागग्राभिरुदगग्राभिश्च रेखा-
भिरष्टधा विभज्य मध्यदेशे लाञ्छयित्वा क्षेत्राद्बहिश्च-
तुर्द्दिक्षु समन्तादपरमष्टभागं विन्यसेत् सत्येवं लाञ्छ-
नात् परितः प्रतिदिशं पञ्चपञ्चाष्टमभागावधिरेखा भवन्ति ।
ततः पूर्वोक्तलाञ्छनोपरि विन्यस्तादेस्तत्तद्रेखाविन्यस्त-
प्रान्तस्य च सूत्रस्य परिभ्रामणात् पञ्च वृत्तानि सम्पाद्य
वृत्तातिरिक्तरेखाः परिमार्ज्जयेत् । ततः प्रथमे वृत्ते कर्णि-
का द्वितीये केसराणि तृतीये दलमध्यानि चतुर्थे दलको-
टयः पञ्चमे दलाग्रानोति कृत्वा अष्टदल’ पूर्वाभिमुख-
योनिकं पद्मकुण्डमुत्तरदिशि कुर्य्यात् । इदानीमेतदेव
कुण्डं प्रकारान्तरेणोच्यते “वृत्तकुण्डं समं चान्यद-
थवान्यप्रकारतः । वृत्तकुण्डं पुरा कृत्वा चतुर्द्धाऽऽमेख-
लं भजेत् । उत्सेधञ्च तथा कृत्वा कर्णिका सार्द्धका
भवेत् । अवशिष्टं दलं वेददलमष्टदलन्तु वा” यथा प्रती-
च्यां दिशि वृत्तकुण्डमभिहितमिहापि तथेव कृत्वा तन्मध्ये
यथाविभागं पद्मकुण्डं कुर्य्यादिति । अथवेत्यादिना तृतीयः
प्रकार उच्यते पूर्वं वृत्तकुण्डमेव आमेखलं प्रेखलम-
वधीकृत्य अन्तश्चतुर्द्धा भजेत् । वृत्तकुण्डमध्ये अन्यस्या
पि समभागस्य वृत्तत्रयस्य करणाच्चतुर्थक्षेत्रविभागः
कार्य्यैत्यर्थः । ततः क्षेत्रमध्ये सार्द्धभागेन विस्तृता
कर्णिका विधेया । उत्सेधञ्च तथा कृत्वेति, कर्णिकाया
उच्छ्रयमपि सार्द्धभागेन कृत्वेत्यर्थः । अवशिष्टेन सार्द्धभा-
गद्वयेन केसरव्यतिरिक्तानि दलान्येव कुर्य्यात् । एवञ्चतुर्द्द-
लमष्टदलं वा पद्मकुण्डं कुर्य्यात् । “क्षेत्रात् द्वादशमं
भागं चतुर्द्दिक्षु तदन्तरे । विन्यस्य तत्प्रमाणेन तुर्य्यां-
शमपरं नयेत् । तस्य कर्णप्रमाणेन तद्भुजास्वपि लाञ्छ-
येत् । तत्राष्टसूत्रसंयोगादष्टास्रं कुण्डमुच्यते” । द्वादशधा
विभक्तस्य क्षेत्रस्य यावान् द्वादशो भागस्तावन्तं भाग
चतुर्द्दिक्षुविन्यस्य, तदन्तरे, तस्य क्षेत्रस्य अन्तरे बहिः-
प्रदेशे “अन्तरं बहिर्योगोपर्सव्यानयोरिति” ज्ञापकादन्तर-
शब्दोऽत्र बहिर्वचनः । तत् प्रमाणेनेति तस्य वहिर्विन्यस्तद्वा-
दशभागस्य परिमाणेन अपरं द्वितीयं तुर्य्यास्रं चतुरस्रं
नयेत् प्रणयेत् कुर्य्यात इति यावत् । तुर्य्यास्रमिति,
स्वार्थिकोऽत्र पूरणप्रत्ययः । तस्य कर्णप्रमाणेनेति ।
कोणात् कोणान्तरस्पर्शिसूत्रं शिल्पशास्त्रेषु कर्ण
इति प्रसिद्धम् । इह तु क्षेत्रगर्भादारभ्य चतुष्कोण-
गामिनः पृथगेव चत्वारः कर्णा इत्यभिप्रायेण कर्णार्द्ध-
मपि कर्णशब्देनोक्तम् तेनायमर्थः । बाह्यस्थितचतुर-
पृष्ठ २०७९
स्रस्य गर्भदेशावघिर्यावान् कर्णस्तावता मानेन तद्भुजासु
तस्य कर्णस्य भुजासु लाञ्छयेत् । अत्र बाह्यचतुरस्र
सूत्राण्येव कर्णोभयपार्श्ववर्त्तीनि निजभुजाकारतया
भुजाशब्देनोच्यन्ते । अयमाशयः--बाह्यचतुरस्रसम्बन्धि-
न्येकस्मिन् कोणे कर्णार्द्धपरिमितस्य सूत्रस्यादिं विधाय
तत्सूत्रं चतुरस्ररेखोपरि प्रसार्य्य सूत्रप्रान्ते लाञ्छयेत् ।
एवं प्रतिकोणं सूत्रादिं निधाय प्रातिलोम्यानुलोम्येन सूत्र
प्रसारणात् तत्तत्प्रान्ते लाच्छयन् प्रतिदिशं लाञ्छनद्वय-
करणाद्दिक्चतुष्टयेन लाञ्छनेषु सूत्राष्टकनिपातनादष्टास्र-
कुण्डं कुर्य्यादिति । अयमिह निर्म्माणप्रकारः--पूर्व-
वच्चतुरस्रीकृतस्य क्षेत्रस्य बहिश्चतुर्द्दिक्ष द्वादशमं भागं
विन्यस्य तत्परिमाणेन अपरं चतुरस्रं कुर्य्यात् । अथ
तदीयकर्णार्द्धपरिमितस्य सूत्रस्य प्रतिकोणमादिं विधाय
चतुरस्ररेखोपरि प्रसारणात् तत्तत्प्रान्तेषु लाञ्छयन्
दिक्चतुष्टयेन लाच्छनाष्टकं कृत्वा तल्लाच्छनोपरि सूत्रा-
ष्टकनिपातनादैशानदिशि पूर्वाभिमुखयोनिकमष्टास्रकुण्डं
कुर्य्यात् । इदानीं दिग्नियममन्तरेणैव तत्तत्कर्म्मोपयोगि-
तया विज्ञानललितोपदिष्टं कुण्डमुच्यते । “सप्तमांशं-
बहिर्न्यस्य कृत्वा वृत्तमिह भ्रमात् । चतुर्थभागान्न्यूनेन
पूर्वक्षेत्रेण सम्भितैः । घनुर्ज्याकृतिभिः पञ्चसूत्रैः पञ्चा-
स्रकुण्डकम् । होमे प्रशस्यते भूतशाकिनीग्रहनिग्रहे” ।
चतुरस्रस्य क्षेत्रश्य बहिःप्रदेशे चतुर्द्दिक्षु क्षेत्रसप्तमांशं वि
न्यसेत् । ततः क्षेत्रगर्भविन्यस्तादेः बाह्यस्थितसप्तमांशोपरि
विन्थस्तप्रान्तस्य सूत्रस्य सर्वतः परिभ्रामणात् वृत्तं निष्पा-
दयेत् । पूर्वक्षेत्रेणेति, बहिस्थितवृत्तापेक्षया, पूर्वक्षेत्रश-
ब्देन आन्तरञ्चतुरस्रक्षेत्रमेवोच्यते । ततश्चायमर्थः आन्त-
रचतुरस्रस्य यद्दैर्घ्यं ततः स्वकीयचतुर्थभागान्न्यूनं कृत्वा
यन्मानं भवति तावता मानेन परिमितं सूत्रं निधाय
तादृशानि पञ्च सूत्राणि बाह्यवृत्तस्यान्तर्विन्यस्य सूत्र-
सन्धौ कोणं कुर्य्यात् । तानि च पञ्च सूत्राणि प्रत्येकं
प्रान्तद्वयसंस्पृष्टवृत्तत्वात् धनुर्ज्याकृतीनि धनुरारूढ़मौ-
र्वीसदृशानि स्युः । ततः पञ्चसूत्रातिरिक्तं सर्वं परिमृज्य
पञ्चास्रकुण्डं रचयेत् । तच्च ग्रहनिग्रहादिहोमे प्रयो-
ज्यम् । “दशमांशं बहिर्न्यस्य कृत्वा वृत्तमिह भ्रमात् ।
भक्त्वा क्षेत्रं चतुःषष्ठ्या तद्भागैः त्रिंशता त्रिभिः ।
समानसूत्रं तादृक्षात् सप्तास्रं सूत्रसप्तकात् । अभिचारोपशा-
न्त्यर्थं होमकुण्डमिति स्मृतम्” । इहापि चतुरस्रस्य
क्षेवस्य दशमभागं चतुर्द्दिक्षु वहिर्विन्यस्य पूर्ववत् वृत्तं
कुर्य्यात् । अथ पूर्वक्षेत्रं चतुःषष्ट्या विभज्य तेषां चतुः-
षष्टिसंख्यानां भागानां मध्ये त्रयस्त्रिंशत्संख्यैर्भागैः
परिमितं सूत्रं कृत्वा तादृशानि सप्त सूत्राणि वृत्तस्यान्ते
विन्यस्य सप्तास्रं कुण्डं कुर्य्यात् । अत्रापि सूत्राणां
धनुर्ज्याकारत्वं सूत्रसन्धौ कोणनिर्म्माणं सप्तसूत्रातिरिक्तप-
रिमार्ज्जनं चेति पूर्ववदेव वेदितव्यम् । एतच्च कुण्डमभि-
चारदोषोपशमनहोमेषु प्रयोज्यम् । आह विश्वकर्म्मा
“यावन्मात्रः कुण्डविस्तार उक्तस्तावत् खातस्यापि मानं
प्रदिष्टम् । यादृक् कुण्डस्याकृतिः संप्रदिष्टा तादृग्रूपं
मेखलाया विदध्यात् । स्थापने सर्वकुण्डानां ध्वंजायः सर्व-
सिद्धिदः” । सर्वेषु चैतेषु प्रोक्तमानाद्वृद्धाङ्गुलयवादि न्यू-
नमतिरिक्तं वा विधाय ध्वजायः साधनीयः । विस्तारे
दैर्ध्यगुणिते अष्टभिर्विभक्ते यद्येकः परिशिष्यते तदा
ध्वजाय इति । “खातेऽधिके भवेद्रोगो हीने धेनुधनक्षयः ।
वक्रकुण्डे तु सन्तापो मरणं भिन्नमेखले । मेखलार-
हिते शोकोऽभ्यधिके वित्तसंक्षयः । भार्य्याविनाशनं प्रोक्तं
कुण्डे योन्या विना कृते । अपत्यध्वंसनं प्रोक्तं कुण्डं
यत् कण्ठवर्ज्जितम्” । खातहीने भवेद्रोगः इत्यादिना
खातादिलक्षणरहितस्य कुण्डस्यानिष्टफलत्वदर्शनादि-
दानीं खातादीनामेव लक्षणमभिधीयते । तद्यथा
मोहचूडोत्तरशास्त्रे “चतुर्विंशतिमं भागमङ्गुलं परिकल्प्य
तु । चतुर्विंशाङ्गुलं हस्तं कुण्डानां परिकल्पयेत् ।
हस्तमात्रं खनेत्तिर्य्यगूर्द्धं मेखलया सह” । मुष्टिमानं
शतार्द्धे त्वित्यादिना प्रसिद्धेनैव हस्ताङ्गुलव्यवहारेण
होमानुसारात् कुण्डमानमुक्तम् । इयन्तु खातादिमान
कथनार्थं परिभाषा क्रियते । चिकीर्षितकुण्डक्षेत्रं
चतुर्विंशतिधा विभज्य यावान् चतुर्विंशतिमो भागस्तावत्-
परिमाणमङ्गुलं परिकल्प्य चतुर्विंशत्या अङ्गुलैर्हस्तं
परिकल्पयेत् । ततस्तेन हस्तेन परिमितं सर्वकुण्डानां
तिर्य्यक्खातमानं विधाय मेखलासहितस्य खातस्य तेनैव
हस्तेन परिमितमूर्द्ध्वमानंविदिध्यात् । प्रथमे उक्तम्
“कुण्डं जिनाङ्गुलम् । तिर्य्यगूर्द्ध्वमेखलया सह” जिनाङ्गुलं
चतुर्विंशत्यङ्गुलम् । प्रतिष्ठासारसंग्रहेऽपि “पञ्च--त्रि-
मेखलोच्छ्रायां ज्ञात्वा शेषमधः खनेत्” । विश्वकर्म्मणाप्यु
क्तम् “व्यासात् खातः करः प्रोक्तो निम्नस्तिथ्यङ्गुलेन
तु” । तिथ्यङ्गुलानि--पञ्चदशाङ्गुलानि खार्तस्य नित्य-
त्वम् । “उन्नता सा नवाङ्गुलैरिति, वक्ष्यमाणत्वान्मेखलात्र-
यपक्षे नवाङ्गुलं प्रथममेखलयोत्सेध इत्युभयोश्चतुर्विं-
पृष्ठ २०८०
शत्यङ्गुलत्वम् । कण्ठमानमुक्तं कालोत्तरे “खाताद्बाह्ये-
ऽङ्गुलः कण्ठः सर्व्वकुण्डेष्वयं विधिः” । खातमेखलयो
रन्तराले अङ्गुलमानेन कण्ठमोष्ठापरपर्य्यायं कुर्य्यात् ।
सारसमुच्चये “खाताद्बाह्याङ्गुलः कण्ठस्तद्वाह्ये मेखला
क्रमात् । मेखलालक्षणमुक्तं कामिके” “क्षेत्रार्कांशेन
तस्यौष्ठः स्यात्तद्वेदर्नुभागतः । मेखलापृथुतोच्छ्रायः
कुण्डाकारा तु मेखला । सर्वेषान्तु प्रकर्त्तव्या
मेखलैकात्र लाघवात्” । क्षेत्रस्य अर्कांशेन--द्वादशांशेन कुण्ड-
स्यौष्ठः कण्ठशब्दवाच्यः स्यात् तद्वेदभागतः कुण्डचतुर्थां-
शतो मेखलायाः पृथुता विस्तारः । तथा ऋतुभागतः
षष्ठभागेन मेखलोच्छ्रायः कार्य्यः । पिङ्गलामतेऽपि
“खातादेकाङ्गुलं त्यक्त्वा मेखलानां स्थितिर्भवेत् ।
मेखलैकाथवा तिस्रो भूतसंख्याथवा प्रिये” । भूतसंख्याः--पञ्च-
संख्याः । उक्तञ्च प्रथमे “कण्ठाङ्गुलाद्बहिः कार्य्या
मेखलैका पड़ङ्गुला । चतुस्त्रिड्यङ्गुला यद्वा तिस्नः
सर्वत्र शोभनाः” । यदा एका मेखला तदा सा विस्तारो-
त्सेधाभ्यां षड़ङ्गुला विधेया “एका षड़ङ्गुलोत्-
सेधविस्तारा मेखला मतेति “पिङ्गलोक्तेः । यदा तु
गेखलात्रयपक्षस्तदा क्रमेण चतुस्त्रिद्व्यङ्गुलमानाः कर्त्त-
व्याः । मोहचूड़ोत्तरे “मेखलात्रितयं कार्य्यं
कोणरामयमाङ्गुलैः । कोणाः--चत्वारः । रामाः--त्रयः ।
यमौ--द्वौ । तत्र सर्वान्तिमा, द्व्यङ्गुला । मध्यस्था त्र्य-
ङ्गुलाः । कुण्डकण्ठसन्निहिता चतुरङ्गुला इति । सत्येवं
प्रथममेखलाथाः कुण्डकण्ठादारभ्य नवाङ्गुल उत्सेधःस्या-
त् । लक्षणसंग्रहेऽपि “प्रथमाष्टाङ्गुला व्यासादुन्नता सा
नवाङ्गुलैः । मध्या तु त्र्यङ्गुला बाह्ये तृतीया तु
यमाङ्गुला । मेखलाः पञ्च वा कार्य्याः षट्पञ्चाब्धित्रिपक्ष-
कैः” प्रथमा कुण्डसन्निहिता आन्तरोत्सेधनवाङ्गुला वाह्ये
तु चतुरङ्गुलैव । अब्ध्याङ्गुला--चतुरङ्गुला । अब्धयः-
चत्वारः । पक्षौ--द्वौ । योनिलक्षणमुक्तं स्वायम्भुवे
“मेखलामध्यतो योनिः कुण्डार्द्धा त्र्यंशविस्तृता । अङ्गु-
ष्ठमानोष्ठकण्ठा कार्य्याश्वत्थदलाकृतिः । प्रागग्नियाम्य-
कुण्डानां प्रोक्ता योनिरुदङ्मुखा । पूर्वमुखाः स्मृताः-
शेषा यथाशोभं समन्विताः । मेखलाया गर्भदेशे कुण्डा-
र्द्धदीर्घा कुण्डष्टतीयांशविस्तृता योनिःकार्य्या । अत्रौष्ठ-
शब्देन योन्यग्रमुच्यते । कण्ठशब्देन च योनिमेखला
अङ्गष्ठशब्दः, अङ्गुलपर्य्यायः । एकाङ्गुलपरिमाणेन
योनेरग्रं मेखलाञ्च कुर्य्यादित्यर्थः “विस्तारोऽष्टाङ्गलो
योनेरग्रमङ्गुलसं मितमिति” पिङ्गलोक्तेः । नारदीये
कुण्डत्र्यंशप्रविस्तारा योनिरुच्छ्रयताङ्गुलम् । कुण्डा-
र्द्धेन तु दीर्घा स्यात् कुण्डोष्ठी बोधिपत्रवत्” । कुण्डो-
ष्ठीति यथा कुण्डे द्वादशांशेन ओष्ठो विहित एवं
योनेरपि द्वादशभागेन ओष्ठः कार्य्य इत्यर्थः । तथा
कुण्डे प्रविष्टओष्ठो यस्या इति । बोधिपत्रम्, अश्वत्थप-
त्रम् । त्रैलोक्यसारे “दीर्घात् सूर्य्याङ्गुला नाभिस्त्र्यंशो-
ना विस्तरेण तु । एकाङ्गुलोच्छ्रिता सा तु प्रविष्टाभ्यन्तरे
तथा । कुम्भद्वयसमायुक्ता चाश्वत्थदलवन्मता । अङ्गुष्ठ-
मेखलायुक्ता मध्ये त्वाज्यधृतिस्तथा । दक्षस्था पूर्वयाम्ये
तु वामस्था पश्चिमोत्तरे । नवमस्यापि कुण्डस्य योनिर्द्द-
क्षदलस्थिता” । सूर्य्याङ्गुला--द्वादशाङ्गुला । त्र्यंशोनेति-
दैर्घ्यतृतीयांशन्यूनविस्तारा । एकेनाङ्गुलेनोच्छ्रिता तथा,
एकेनाङ्गुलेन कुण्डमध्ये प्रविष्टा । कुम्भद्वयसमायुक्तेति-
पूर्व्वोक्ताग्नेयकुण्डस्य तुल्याकृतेर्योनेर्तुध्नदेशस्थितं वृत्तद्वय-
मेव गजकुम्भाकृतित्वात् कुम्भशब्देनोक्तम् । तेनात्र कुण्ड-
स्थलाकृतिर्वटद्वयं मृत्पिण्डद्वयं वा स्थाप्यमिति तद्ग्रा-
हम् । अङ्गुष्ठमेखलेति, एकाङ्गुलमानया मेखलया परिवे-
ष्टितेत्यर्थः । मध्ये त्विति, यथा श्रुचि घृतधारणया बिलं
क्रियते तथा योनिमध्येऽपि बिलं कर्त्तव्यमित्यभिप्रायः ।
दक्षस्थेति, पूर्व्वाग्नेययाप्यकुण्डेषु दक्षिणभागे उत्तराभि
मुखा योनिः कार्य्या नैरृत्यादिकुण्डेषु तु पश्चिमभागे प्राङ्
मुखा विधेया । नवम इति, अष्टदिक्षु कुण्डाष्टकं
विधाय पूर्वोशानदिशोरन्तराले यन्नवमं कुण्डं चतुर्द्दिक्षु
वा कुण्ढचतुष्टयं कृत्वा ईशानदिशि यत् पञ्चमं कुण्डं
तयोरपि दक्षिणभागेऽपि योनिः कार्य्येत्यर्थः” ।
तत्र विशेषक्षेत्रफलादिकं कुण्डोद्द्योते उक्तंयथा
“शारदातिलके “अष्टास्वाशासु रम्याणि कुण्डान्येता
न्यनुक्रमात् । चतुरस्रं योनिरर्द्धचन्द्रं त्र्यस्रञ्च वर्त्तुलम् ।
षडस्रं पङ्कजाकारमष्टास्रन्तानि नामतः । आचार्य्यकुण्डं-
मध्येस्याद्गौरीपतिमहेन्द्रयोरिति” सिद्धान्तशेखरे “पुर-
न्दरेशयोर्मध्ये वृत्तं वा चतुरस्रकम् । तदाचार्य्यं विनि-
र्द्दिष्टमिति” अयमुत्तमः पक्षः । अथ पञ्चकुण्ड्येककुण्ड-
निवेशनं यथा “आशेशकुण्डैरिह पञ्चकुण्डी चैकं
यदा पश्चिमसोमशैवे । वेद्याः सपादेन करेण यद्वा पादा-
न्तरेणाखिलकुण्डसंस्था” आशा--दिक् तत्र कुण्डानि
चतुरस्रवृत्तार्द्धवृत्तपद्मानि ईशदिशि कुण्डं चतुरस्रं वृत्तं
वा तैः पञ्चकुण्डीनिवेशनं स्यात् यदा चैकमेव कुण्डं
पृष्ठ २०८१
तदा पश्चिमे उत्तरे वा ऐशान्यां वा स्यात् परन्तु चतुरस्रं,
वेद्याः सकाशात्तानि सर्व्वाणि कुण्डानि सपादेन करेण
त्रिंशदङ्गुलान्तरेण वा पादान्तरेण द्वादशाङ्गुलान्तरेण
वा वेदीपादान्तरेण वेद्याश्चतुर्थांशेन वा मण्डपे नवकोष्ठे
कृतेऽष्टसु भागेषु मध्ये भवत्तीति व्याख्या” नारदीये “यत्रो-
पदिश्यते कुण्डचतुकं तत्र कर्म्मणि । वेदास्रमर्द्धचन्द्रं
च वृत्तं पद्मनिभं तथा” । चतुःकुण्डपक्षे खातोनास्ती-
त्युक्तं भारदीये “पीठवद्वर्त्तयेत्कुण्डं सुप्रमाणमगर्त्तकम्
कुर्य्यात् कुण्डानि चत्वारि प्राच्यादिषु विचक्षणः । पञ्चमं
कारयेत् कुण्डनीशदिग्गोचरं द्विजेति” अयं मध्यमः पक्षः ।
कैश्चित्पूर्व्वेशयोरिति लिखितन्तदसत् सोमशम्भौ “एवं
वा शिवकाष्ठायां प्रतीच्याङ्कारयेद्बुधः “आचार्य्या अपि
“अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरस्रमेकमेव” इयं
कनिष्टः पक्षः । नवग्रहाधिकारे वसिष्ठसंहितायाम् “कुण्ड-
न्तन्मध्यभागे तु कारयेच्चतुरस्रकम् । वितस्तिद्वयखातं तत्
कुण्डं तु चतुरङ्गुलमिति । वेदीपादान्तरन्त्यक्त्वा कुण्डानि
नवपञ्च वेति” । नारदीये “कुण्डपेद्यन्तरञ्चैव सपादकरसंमित-
मिति” कैश्चित्त्रयोदशाङ्गुलमप्यन्तरमुक्तं तत्र मण्डपानुसा-
रेण व्यपस्था । अथ वर्णविशेषस्य स्त्रीणाञ्च कुण्डविशेषमाह
“विप्राच्छ्रुत्यस्रं च वृत्तं च वृत्तांर्द्धं त्र्यस्रं स्याद्वेदकोणानि
वापि । सर्वस्याहुर्वृत्तरूपाणि चान्ये योन्याकाराण्यङ्गना-
नां मतानि “विप्रादारभ्य विप्रक्षत्रियविट्शूद्राणां
चतुःकोणवृत्तवृर्त्तार्द्धत्रिकोणानि भवन्ति । अथवा विप्रादि
वर्णेषु चतुःकोणानि वर्त्तुलानि वा सर्व्वाणि कुण्डानि
भवन्ति यदा स्त्री यजमाना तदा योन्याकाराण्येव कुण्डानि
भवन्तीति व्याख्या । शारदायाम् “विप्राणां चतुरस्रं स्या-
द्राज्ञां वर्त्तुलमिष्यते । वैश्यानामर्द्धचन्द्राभं शूद्राणां त्र्यस्र-
मीरितम् चतुरस्रन्तु सर्वेषां केचिदिच्छन्ति तान्त्रिकाः” ।
पञ्चरात्रे “सर्वाणि तानि वृत्तानि चतुरस्राणि
वा सदा” सनत्कुमारः “स्त्रीणां कुण्डानि विप्रेन्द्र!
योन्याकाराणि कारयेदिति” । अथ प्राच्यादिकुण्डेषु
फलविशेषमाह “सिद्धिः पुत्राः शुभं शत्रुनाशः
शान्तिर्मृतिच्छिदे वृष्टिमारोग्यसुक्तं हि फलं प्राच्या-
दिकुण्डके” प्राच्यादिकुण्डेष्वष्टस्वष्टौ फलानि स्युः ।
शारदायाम् “सर्वसिद्धिकरं कुण्डंचतुरस्रमुदा-
हृतम् । पुत्रप्रदं योनिकुण्डमर्द्धेन्द्वाभं शुभप्रदम् । शत्रु-
क्षयकरन्त्र्यस्रं वर्त्तुलं शान्तिकर्मणिछेदमारणयोः षष्ठं
षडस्रं पद्मसन्निभम् । वृष्टिदं रोगशमनं कुण्डमष्टास्रमी-
रितम्” । कामिके तु फलान्तरम् “ऐन्द्र्यां स्तम्भे चतुः-
कोणमग्नौ भीगे भगाकृति । चन्द्रार्द्धं मारणे याम्ये, द्वेषे
त्र्यस्रन्तु नैरृते । वारुण्यां शान्तिकेवृत्तं, षडस्न्यु च्चटि-
नेऽनिले । उदीच्यां पौष्टिके पद्मं रौद्य्रामष्टास्रि भुक्तिदमिति”
अथ होमसंख्यया कुण्डमानम् । “शतार्द्धेरत्निः स्याच्छत-
परिमितेऽरत्निविततः सहस्रे हस्तःस्यादयुतहवने हस्त-
युगलम् । चतुर्हस्तं लक्षे प्रयुतहवने षट्करमिभैः ८ ककुबु-
भिर्वा १० कोणैर्नृपकरमपि प्राहुरपरे” शतार्द्धमिते पञ्चाश-
न्मिते होमे रत्निमितं कुण्डं, शतमिते अरत्रिमितं,
सहस्रमिते होमे हस्तमितं, दशसहस्रमिते द्विहस्तं, लक्ष-
होमे चतुर्हस्तमित’ दशलक्षहोमे षड्ढस्तमितं, कोटि-
होमेऽष्टहस्तमितं दशहस्तमितं वा । केचित् षोडश-
करमपि प्रांहुरितिव्याख्या भविष्यपुराणे “मुष्टिमानं
शतार्द्धेतु शते चारत्निमात्रकम् । सहस्रे त्वथ होतव्ये
कुण्डङ्कुर्य्यात्करात्मकम् । द्विहस्त्रमयुते तच्च लक्षमाने
चतुःकरम् । दशलक्षमिते होमे षट्करं सम्प्रचक्षते ।
अष्टहस्तात्मकं कुण्डं कोटिहोमेषु नाधिकम्”
शारदायाम् “दशहस्तमितं कुण्डं कोटिहोमेऽपि शस्यते”
स्कान्दे “कोटिहोमे चतुर्हस्तं चतुर्हस्तं समन्ततः
योनिवक्त्रद्वयोपेतन्तदप्याहुस्त्रिमेखलमिति” इदं प्राय
स्थूलहव्यविषयम् “अथ केषांचिन्मते कुण्डमाना
“लक्षैकवृद्ध्यादशलक्षकान्तङ्करैकवृद्ध्यादशहस्तकञ्च । कोट्य-
र्द्धदिग्विंशतिलक्षलक्षदले मुनीष्वर्तुकृशानुहस्तम्”
लक्षस्यैकवृद्ध्या दशलक्षकाणामन्तं समाप्तीकृत्यादश
लक्षकान्तम् एकलक्षमारभ्य लक्षवृद्ध्या दशलक्षपर्यन्त-
मित्यर्थः करस्य एकवृद्ध्यादशहस्तकम्पर्यादीकृत्येत्यादश-
हस्तकम् एककरमारम्य एककरवृद्ध्या दशहस्तं
यावत्कुण्डं प्राहुरिति पूर्वेणान्वयः कोटेरर्द्धे पञ्चाशल्लक्षे
दशविंशतिलक्षे लक्षदले पञ्चाशत्सहस्रे क्रमात् सप्त-
पञ्चषट्त्रिकरं कुण्डमिति व्याख्याः शारदायाम्
“एकहस्तमितं कुण्डं लक्षहोमे विधीयते । लक्षाणां दशकं
यावत्तावद्धस्तेन वर्द्वयेत्” सिद्धान्तशेखरे “लक्षार्द्धे त्रिकरं
कुण्डंलक्षहोमे चतुःकरम् । कुण्डं पञ्चकरम्प्रोक्तं
दशलक्षाहुतौ क्रमात् । षड्ढस्तं लक्षविंशत्यां, कोट्यर्द्धे सप्त-
हस्तकमिति” । इदमेव कुण्डमानङ्कामिकादिमतं सिद्धान्त
शेखरशारदाहेमाद्रिप्रमुखैः प्राचीनैः राघवभदृरामवाजपे
यिकुण्डरत्नाकरकुण्डकौमुदीकारादिभिर्नवीनैश्च लिखितं
कुत्रचिदन्यथापि कुण्डमानान्युक्तानि तानि तत्तत्प्रकरण-
पृष्ठ २०८२
वशात्तत्कर्मविशेषे द्रष्टव्यानि । अथैकहस्ताद्दशहस्तान्तं
यावत्कुण्डेषु भुजकोटिमानम् “वेदाक्षोणि युगाग्नयःशशि-
युगान्यष्टाब्धयस्त्रीषवोऽष्टाक्षावह्निरसारसाङ्गकमिता नेत्र-
र्षयोऽक्षस्वराः । अङ्गुल्यो,ऽथ यवाः स्वमभ्रमिषवः खं पञ्च-
षट् सागराः सप्ताभ्रं मुनयस्त्वमी निगदिता वेदास्रके
बाहवः” । एकहस्ते कुण्डे चतुर्विंशत्यङ्गुलान्यायाम-
विस्तारौ, द्विहस्ते चतुस्त्रिंशदङ्गुलानि । इमानि पादोन
लिक्षाचतुष्टयन्युनानि अल्पान्तरत्वात् पूर्णान्येव धृतानि ।
त्रिहस्ते एकचत्वारिंशदङ्गुलानि । चतुर्हस्ते अष्टचत्वा-
रिंशदङ्गुलानि । पञ्चहस्ते पञ्चयवाधिकानि त्रिपञ्चाश-
दङ्गुलानि । षड्ढस्ते त्रिपदोनैकोनषष्टिः, सप्तहस्ते सार्द्ध-
त्रिषष्टिः । अष्टहस्ते यवोना सप्तषष्टिः । नवहस्ते द्विसप्ततिः
दशहस्ते यवोना १ षट्सप्ततिरिति षोडशहस्ते षण्णवतिः
चतुर्भुजे कुण्डे मुजाउक्ता इति व्याख्या । अत्रोपपत्तिः
एकहस्तस्य चतुर्विंशत्यङ्गुलात्मकस्य भुजकोटिघातः
क्षेत्रफलं तच्च षट्सप्तत्यधिकपञ्चशती ५७६ । एतत्पदमेक-
हस्तक्षेत्राङ्गुलानि चतुर्विंशतिः । एवं क्षेत्रफलस्य द्व्यादिगु-
णस्य मूलं चतुस्त्रिंशदाद्यङ्गुलानि भवन्ति । अथ योनिनि-
वेशनम् “कुण्डत्रयी दक्षिणयोनिरैन्द्र्याः सौम्याग्रका
स्यादितराणि पञ्च । पश्चाद्भगानीन्द्रदिगग्रकाणि योनिर्न
कोणे न च योनिकुण्डे” ऐन्द्र्याः प्राच्या आरभ्य कुण्डत्र-
यी चतुरस्रयोनिवृत्तार्द्धरूपा दक्षिण्णयोनिः स्यात् उत्तराग्रा
अर्थाद्धोता उदङ्मुखः । इतराणि पञ्च कुण्डानि त्र्यस्रिवृ-
त्तषडस्रिपद्माष्टास्राणि प्रत्यग्योनीनि प्रागग्राणि अर्थाद्धो-
ता प्राङ्मुखः । नवममपि कुण्डं दक्षिणयोन्युदगग्रम् ।
योनिः कोणे योनिकुण्डे च न कार्येति व्याख्या । स्वायम्भुवे
“प्रागग्नियाम्पकुण्डानां प्रोक्ता योनिरुदङ्मुखी । पूर्व्व-
मुखा स्थिताः शेषाः यथाशोभं व्यवस्थिताः” इति । त्रैलो-
क्यसागरे “नवभस्यापि कुण्डस्य योनिर्दक्षदले स्थितेति”
अन्यत्र “नार्पयेत् कुण्डकोणेषु योनिं तान्तन्त्रवित्तमः” इति
“योनिकुण्डे तथा यीनिं, पद्मे नाभिं विवर्जयेदिति” । अथ
सर्वेषां कुण्डानां प्रकृतिभूतं चतुरस्रमाह “द्विघ्नव्यासन्तू-
र्यचिह्नं मपाशं मूत्रं शङ्कौ पश्चिमे पूर्ब्बगेऽपि । दत्त्वाक-
र्पेत् कोणयोः पाशतुर्य्यं स्यादेवं वा वेदकोणे समानम्” ।
इष्टव्यासाद् द्विगुणितं व्यासं चतुर्थांशकृतचिह्नं सपाशं
मूत्रं पूर्व्वपश्चिमस्थयोः शङ्क्वोर्दत्त्वा दक्षिणोत्तरसूत्रमध्ये
यथामध्यचिह्नं भवति तथा कोणयोः पाशाच्चतुर्थांशे
आकर्पेत् एवमन्यतोऽपि । एवं कृते समचतुरस्रं स्यात् इदमेव
सर्वेषां कुण्डानां मूलमिति व्याख्या । उक्तं च “चतुरस्रमिदं
प्रोक्तं सर्वकुण्डेषु कारणमिति” अत्र “समश्रुतौ तुल्य
चतुर्भुजे च तथाऽऽयते तद्भुजकोटिघातः” क्षेत्रफलं
षट्सप्तत्यधिकपञ्चशती ५७६ एतावदेव योन्यादिकुण्डेषु
एकहस्तेषु यथा क्षेत्रफलं सम्पद्यते तथा यतितव्यमिति ।
अथ योनिकुण्डमाह “क्षेत्रे जिनांशे तु पुरःशरांशान्
संवर्ध्य च स्वीयरदांश ३२ युक्तान् । कर्ण्णाङ्घ्रिमानेन
लिखेन्दुखण्डे प्रत्यक्पुरोऽङ्काद्गुणतोभगाभम्” । चतुरस्रे-
क्षेत्रे चतुर्विंशतिधा भक्ते सति पञ्चांशान् स्वीयद्वात्रिंशदं
शयुक्तान् अग्रे संवर्द्ध्य ततश्चतुर्धा विभक्तस्य क्षेत्रस्य
पश्चिमचतुरस्रद्वयमध्याङ्कात् कर्ण्णसूत्रस्य चतुर्थांशेन प्रत्यक्-
पश्चिमभागे इन्दुखण्डे वृत्तार्द्धद्वयं विद्वन् । लिख । ततः
पूर्वाङ्काद्दक्षिणोत्तरसंलग्नं वृत्तार्द्धं याबन्नीयमानगुणद्वय-
तो भगाकारं योनिकुण्डंस्यादिति व्याख्या । अथ क्षेत्रफ-
लानयनम् अत्र क्षेत्र त्रयं पूर्ब्बाङ्काद्दक्षिणोत्तरसूत्राग्रं
यावन्नीयमानसूत्रद्वयं त्रिकोणमेकं, तथा दक्षिणोत्तरसूत्रा-
ग्रात्पूर्वापरसूत्रान्वं यावन्नीयमानसूत्रद्वयादपरं त्रिको-
णम् उभयवृत्तार्द्धे मिलित्वा एकं वृत्तमिति तृतीयं,
क्षेत्रत्रयफलयोगे पूर्ण्णफलम् तत्र प्रथमस्य क्षेत्रफलं यथा
अत्र लम्बः अङ्गुलानि १७ यवः १ यूका २ । भूः २४ “लम्बेन-
निघ्नं कुमुखैक्यखण्डमिति” । अत्र मुखाभावाद्भूमध्यमेव
लम्बेन गुणितं सज्जातं प्रथमं क्षेत्रफलम् अङ्गुलानि २०५
यवाः ७ । अथापरस्य लम्बः १२ भूःसैव अत्रापि तयैव
रीत्या क्षेत्रफलं १४४ । अथ वृत्तार्द्धयोरेकं वृत्तं तत्फलं
यथा तत्र वृत्तव्यासः १६, ७, ४, १ “व्यासस्य वर्गे भनवाग्निनिघ्ने
सूक्ष्मं फलं पञ्चसहस्रभक्ते” इति व्यासवर्गः २८८
० । ० । २ । अयम्भनवाग्नि ३९२७ निघ्नः पञ्चस--
५००० भक्तोजातं क्षेत्रफलंवृत्तस्य ११६ । १ । ४ । ५ । त्रया-
णां योगे क्षेत्रफलं पूर्णं ५७६ । ० । ४ । ५ । अत्र लिक्षा
पञ्चकं यूकाचतुष्टयञ्चाधिकम् अल्पान्तरत्वाददोषः । ध्वजा-
यसिद्धिश्चान्यन्नोक्ता । “स्थापने सर्व्वकुण्डानां ध्वजायः
सर्वसिद्धिदः । शतांशोवाधिकं हीनं ह्रासवृद्धी न
दूषयेत् । आयदोषविशुद्ध्यर्थं क्रियते शास्त्रकोविदैरिति” ।
एतत्क्षेत्रस्योत्तराग्रत्वात् उदीचीप्राचीवद्व्यवहर्त्तव्या
एवमन्ययोरपि । पदार्थादर्शे “चतुर्विंशतिधा मध्य
सूत्रं भक्त्वा पुरोन्यसेत् । पञ्चांशान् वैककस्य त्रीन्विंशाशान्
कोणपादतः । वृत्तार्द्धेस्तो मध्यतिर्यक् सूत्रान्तञ्च ततोऽर्प-
थेत् । पुरो वर्द्धितसूत्रान्तं, सूत्रे द्वे स्याद्भगाकृतिरिति”
पृष्ठ २०८३
“इमानि कुण्डानि कादिग्रथविरुद्धानीयतादरणीयानि ।
तानिवचनानि तु तदाकारत्वमात्रसम्पादकानि न क्षेत्रफ-
लपूर्तिफराणि तत्र शिव्यक्लेशोमा भूदिति स्थूलमार्गेण
योन्याद्याकारमात्रं प्रतिपाद्यते । योगणितानभिज्ञस्तेन
चतुरस्रकण्डं तण्डुलादिना पूरयित्वा तानेव
तण्डुलान् योन्यादिकुण्डे धृत्वा तत्पूर्त्तौ तोष्टव्यमिति ।
अङ्गलयवयूकालिक्षाः कृत्वा गोमूत्रिकारीत्या गणयित्वा
अष्टभिर्भागे गृहीते फले उपर्य्युपरि च योज्यमाने
फलायुतपद्यते अंशसवर्णनादि कुण्डमात्रेष्विति ज्ञेयम् ।
वृत्तार्द्धकुण्डमाह “स्वशतांशयुतेषुभागहीन स्वध-
रित्रीमितकर्कटेन मध्यात् । कृतवृत्तदलेऽग्रतश्च जीवां
विदधातीन्दुदलस्य साधु सिद्ध्यै” । स्वीयशतांशेन युतोय
इषुभागः पञ्चमांशः अर्थात् क्षेत्रस्यैव, तेन हीना
चासौ स्वभूमिः क्षेत्रन्तन्मितेन कर्कटेन सूत्रेण वा
मध्याङ्गात् कृतं यद्वृत्तार्द्धन्तस्मिन्पूर्वापरां रेखाञ्जीवारूपां
वृत्तार्द्धस्य सिद्ध्यै साधु स्याद्यथा, तथा करोतु विद्वानि-
ति व्याख्या । अत्र क्षेत्रफलम् क्षेत्रस्य पञ्चांशोऽङ्गुलाद्यः
४ । ६ । ३ । १ । ५ । तस्य शतांशोऽङ्गुलाद्यः ० । ० । ३ ।
० । ४ । अनेनान्वितः पञ्चांशः ४ । ६ । ६ । २ । १
अनेनोना क्षेत्रभूमिः १९ । १ । १ । ५ । ७ एतद्व्यासा-
र्द्धंद्विगुणं व्यासः ३८ । २ । ३ । ३ । ६ । अत्रापि व्यासस्य वर्गः
१४४४ । ५ । २ । ५ । ४ । भनवोग्निनिव्ने ३९२७ ।
पञ्चसहस्रभक्ते इत्यादि रीत्या क्षेत्रफलम् ११५२ ।
२ । २ । ६ । २ । एतद्वृत्तस्य फलम् अस्यार्द्धं वृत्ता-
र्द्धक्षेत्रफलम् ५७६ । १ । ३ । १ अत्रापि ध्वजाय-
सिद्धिः । अथ त्र्यस्निवृत्तकण्डमाह “वह्न्यशं पुरतो-
निधाय च पुनः श्रोण्योश्चतुर्थांशकञ्चिह्नेषु त्रिषु सूत्र-
दानतैदं स्यातत्र्यस्रि कथोज्झितम् । विश्वांशैः स्वजि-
नांशकेन सहितैः क्षेत्रे जिनांशे कृते व्यासार्द्धेन मिते-
न मण्डलमिदंस्याद्वृत्तसंज्ञं शुभम्” अत्र पूर्वार्त्वोक्तं कुण्डं
व्याख्यायते क्षेत्रस्य तृतीयांशम्पूर्वतोनिधाय ततौभ-
यश्रोण्योश्चतुर्थांशं निधाय दक्षिणत उत्तरतश्च दत्त्वा त्रि-
चिह्नेषु सूत्रदानात् कष्टरहितं त्र्यस्रि जायते इति
तृतीयांशोऽष्टाङ्गुलानि मध्यसूत्रे योजितानि जातोलम्बः
पश्चिमभज उभतश्चतुर्थांशः षडङ्गुलानि योजितानि
जातानि भूः ३६ अत्र मुखाभावात् भूमेरर्द्धं कृतम्
१८ इदं लम्बेनानेन निघ्नञ्जातं अत्र क्षेत्रफलम् ५७६
समभुजे क्षेत्रफलञ्च सिद्ध्यतीति कष्टोज्झितमित्युक्तम्
किञ्चिद्भुजवैषम्यं न दोषाय अत्रापि ध्वजाय एवेति ।
अथोत्तरार्द्धेन वृत्तमाह क्षेत्रे चतुर्विंशतिभक्ते सति
त्रयोदशांशैः सह चतुर्विंशत्यंशयुतैः मितेन व्यासार्द्धेन
मण्डलं यद्वृत्तं तत् वृत्तसंज्ञं कुण्डं सुन्दरं स्यात् ।
अथ क्षेत्रफलानयनम् अत्र त्रयोदशानाञ्चतुर्विंशांशोऽङ्घु-
लाद्यः० ४ । २ । ५ । ३ । अनेन युतास्त्रयोदश १३ ।
४ । २ । ५ । २ । इदं व्यासार्द्धभेतद्द्विगुणं व्यासः २७ ।
० । ५ । २ । ४ अत्र० व्यासस्य वर्गेऽस्मिन् ७३९ । ० । ३ ।
१ । २ भनवाग्निनिघ्ने० पञ्चसहस्रभक्ते इत्यादिना क्षेत्रफ-
लम् ५७६ । ० । ६ । ० । अत्रापि ध्वजाय एवेति । अथ
षडस्रमाह “भक्ते क्षेत्रे जिनांशैर्धृतिमितलवकैः स्वाक्षिशैलां-
शयुक्तैर्व्यासार्द्धं मण्डले तन्मितधृतगुणके कर्कटे सेन्दुदिक्तः ।
षट्चिह्नेषु प्रदद्याद्रसमितगुणकानेकमेकन्तु हित्वा नाशे
सन्ध्यंशदोषामपि च धृतिकृते नेत्ररम्यं षडस्रम्” । क्षेत्रे-
चतुविंशतिधा विभक्ते सति अष्टादशांशैः स्वद्वासप्ततित-
मांशयुक्तैस्तावता व्यासार्द्धेन वृत्ते कृते सति तेनैव-
व्यासार्द्धेन मिते गुणके सूत्रे सति कर्कटे वा उत्तरदिक्तो
धृते सति परावर्त्तनेन षट्चिह्नानि भवन्ति तेषु
षट्सु चिह्नेषु षट्सूत्राणि एकान्तरेण परस्परलग्नानि
दद्यात् ततः सन्धौ ये अङ्गदोषाः षड्भुजास्तेषां नाशे-
धृतिकृते मण्डलस्य विनाशे षडस्नि रमणीयञ्जायत
इति व्याख्या अस्मिन् षडस्रे व्यासः ३६ । ४ । ०
अत्रोत्तराग्रं त्रिकोणमेकं महत् तद्भुजमानं त्रिद्व्यङ्काग्रि
नभश्चन्द्रैर्वृत्तव्यासे समाहते । खखखाभ्रार्क १२०००० संभक्ते
लभ्यन्ते क्रमशोभुजाः” इति त्रयाणां भुजानां मानं ३१ ।
४ । ३ । ० उत्तराग्रात् पूर्ब्बापरभुजमव्यं यावन्नीयमानं सूत्रं
लब्धश्चतुर्थांशोव्यासएव २७ । ६ । ० भुजाः, एवं भूः मुखा-
र्भावद्भूम्यर्द्धं १५ । ६ । ३ । ४ लम्बेन निघ्नमित्यादिना जातं क्षेत्र-
फलं ४३२ । ५ । ३ अथास्य महतस्यिभुजस्य त्रिष्वपि
भुजेषु त्रीणि त्र्यस्राणि समान्येव लुय्नानि भवन्ति तत्रैकस्य
फलमानीय त्रिगुणं कृत्वा पूर्ब्बफले योजितं सत् पूर्ण्णं
क्षेत्रफलं स्यात् । तत्र दक्षिणकोणाग्रात् पूर्वापरभुज-
मध्यंनीयमानं सूत्रं लम्बः ९ । १ । ० अयं व्यासचतुर्थांशः
भुजत्थंशोभूमिः १० । ४ । २ । ३ सर्वत्रत्र्यंश एव भुजसम्पातात्
अत्र मुखाभाकाद्भूमेरर्द्धं ५ । २ । १ । १ । इदं लम्बेन गुणितं
क्षेत्रफलं ४८ । ० । ४ । २ । १ । जातं इदं त्रियुणं त्र्यस्ताणामपि
फलं १४४ । १ । ४ । ६ । ३ । इदं पूर्वक्षेत्रफलेऽस्मिन् ४३२ । ५ । ३
योजितं ५७६ । ७ । १ । ४ । ६ । इदपकिञ्चिदधिकैकयुकाधिकं
पृष्ठ २०८४
सप्तयवाधिकं अल्पान्तरत्वाददोषः । अय वा व्यासोयूकया
न्यूनः कार्य्यः । ध्वजायसिद्धिश्च । अथ वा किमेतावता
प्रयासेन लघुत्रिकोणं कुण्डंक्षेत्रं द्वादशांशः तत्क्षेत्रफलं
स्यात् द्वादशगुणितं पूर्ण्णंक्षेत्रफलम् । अथेदङ्कुण्डं स्वबुद्धि
विलासमात्ररचितमिति नोपेक्षणीयं यतः षट्कोणता
समभुजताफलं च सम्पद्यते एव “मानाधिक्ये भवेद्रोगोमान
हीने दरिद्रता” इत्यादिदोषापत्तिरपि नास्ति । अथ वक्तव्यं
प्राचीनकृतकुण्डविरुद्धन्तर्हि दृश्यते च प्राचीनकृतकु-
ण्डेषु परस्परविरुद्धता इदमेव कुण्डं रामवाजपेयिभि
र्विषमभुजं मृदङ्गाकारं कृतं राघवभट्टादिभिः समभुज-
मेव कारितं लक्ष्मणाचार्यादयोऽप्यन्यथैवोचुः तस्मादस्म
दुक्ते नेत्ररभणीये समभुजे क्षेत्रफलसंवादिनि षट्--कोणे
विद्वद्भिर्नानादरैभाव्यमिति । अथ ये प्राचीनकृतावेवाग्र-
हिणस्तेषान्तोषायापि समभुजमाह “अथ वा जिनभ-
क्तकुण्डपानात्तिथिभागैः स्वखभूपभागहीनैः । मितकर्क-
टकोद्भवे तु वृत्ते विधुदिक्तः समषड्भुजैः षडस्तम्”
अथवा चतुर्विंशतिभक्ते कुण्डमाने सति स्वीयषष्ठ्यधि-
कशतभागेन हीनैः पञ्चदशभागैर्मितोयः कर्कटस्तदुद्भवे
वृत्ते उत्तरदिकः सकाशात् समैः षद्भिर्मुजैर्दत्तैः परस्पर-
लग्नैः षडस्रं वृत्तमार्जमेन भवतीति व्याख्या । अथ क्षेत्र
फलानयनं तत्र ‘वृत्तव्यासे द्विसंभागे षडस्रे स्युर्भुजाः स्फुटा’
इति भुजमानम् १४ । ७ । २ । २ क्षेत्रमध्ये दक्षिणोत्तरां
रेखान्दत्त्वा ऊर्ध्वं भुजसंपाततः पूर्ब्बापरं रेखाद्वयम्
अधोभुजसंपातावधि दद्यात् एवं कृते चतुरस्रद्वयं परस्पर-
लग्नं भवति पूर्ब्बापररेखयोर्दक्षिणोत्तररेखया
सहसम्पातश्चतुर्थांशे एव भवति सैवाबाधा तन्मानं ७ । ३ । ५
भुजः १४ । ७ । २ “स्वावाधाभुजकृत्योरन्तरमूलं प्रजायते लम्बः”
इति साधितोलम्बः १२ । ७ । १ । अयमेव मध्यलम्बः “लम्बेन
निघ्नं कु २९ । ६ । ४ मुखै १४ । ७ । ५ । २ क्य ४४ । ५ । ६ खण्डम्”
२२ । २ । ७ । इति जातं क्षेत्रफलं २८८ । १ । १ । ६ एवमपरस्या
पि खण्डस्य । उभययोगे ध्वजायसिद्धिश्चेति । अथ पद्म-
कुण्डमाह “अष्टांशाच्च युतश्च वृत्तशरके तत्रा-
दिभे कर्ण्णिकायुग्मे षोडश केशराणि चरमे स्वाष्टत्रि-
भागोनिते । भक्ते षोडश केशराणि च धृते स्युः कर्क-
टेऽष्टौ छदाः सर्वांस्तान् खन कर्णिकां त्यज निजाया-
मौच्च्यकं स्यात् कजम्” । क्षेत्रस्याष्टमांशादष्टांशवृद्ध्या च
वृत्तपञ्चके कृते सति तत्र पञ्चकमध्ये प्रथमं तत्कर्णिका,
द्विनीये षोडश केशराणि, द्वितीयं केशरस्थानमित्यर्थः ।
अन्तिमे पञ्चमे वृत्ते स्वस्य अङ्गुलत्रयात्मकस्याष्टत्रिंशदं
शोनितस्य षोडशसु स्थानेषु दिक्षु विदिक्षु तदन्तराले च
समतया भाजिते तस्मिन्वृत्ते पञ्चचिह्नान्तरे दिशि विदिशि
च कर्कटके धृते सति परावर्त्तनेनाष्टौ पत्राणि जायन्ते
सर्वांस्त्रान् केशरादीन् केशरवृत्ततृतीयचतुर्थवृत्तानि
पत्राणि च हे विद्बन्! खन कर्णिकां त्यज मा खन । कीदृ-
शींनिजः स्वकीयश्चायामो विस्तारस्तत्तुल्यमौच्च्यं यस्यास्तां,
कजंपद्मकुण्डम् वहिर्वृत्तमार्जनेन स्यादिति व्याख्या ।
अथ क्षेत्रफलानयनम् अत्रोपान्तिमस्य चतुर्विंशत्यङ्गुलस्य
पूर्ब्बवत् क्षेत्रं ४५ । २ । ३ । १ अन्तिमवृत्तस्यास्य २९ । ३ । ४ । क्षेत्र-
फलं ६९९ । ४ । ५ । ० । अनयोरन्तरार्द्धम् १२३ । ४ । ६ । ० इदं
पूर्ब्बक्षेत्रफले योजितं वा अन्तिमवृत्तक्षेत्रफलम् । प्रवर्त्तितं-
सज्जातं पूर्णं फलं ५७६ । ० । १ यूकोनं फलमायात्य-
तोऽदोषः । अन्तिमवृत्ते लिक्षामात्रवर्द्धनेन ध्वजायसिद्धि-
श्चेति । अत्रान्तिमवृत्ते पत्रान्तरार्द्धभूसंग्रहोर्द्धभूत्यागश्च
बुद्धिमता प्रत्यक्षतएवोपलब्धव्यः । अथाष्टास्रिकुण्ड-
माह “क्षेत्रे जिनांशे गजचन्द्रभागैः स्वाष्टाश्वि--२८
भागेन युतैस्तु वृत्ते । विदिग्दिशोरन्तरतोऽष्टसूत्रैस्तृतीय
मुक्तैरिदगष्टकोणम्” । क्षेत्नचतुर्विंशतिभागे कृते सत्य-
ष्टादशभामैः स्वीथाष्टाविंशेन युतैः कर्कटकेन वृत्ते कृते
सति विदिग्दिशोर्भध्ये कृताष्टचिह्नेभ्यः अष्टभुजेभ्यस्तृती-
यांशमिलितैः चिह्नद्वयं विधाय तृतीयचिह्नेन योजितैर-
ष्टकोणं वृत्तमार्जनान्मध्यस्थाष्टदोःखण्डमाजेनाच्च भवती-
ति व्याख्या । अथ “क्षेत्रफलानयनं व्यासाद्विं १८ । ५ । १ । ० ।
व्यासः ३७ । २ । २ । अथ “द्विद्विनन्देषुसागरैर्वृत्तव्यासे
समाहते । खखखाम्नार्कसंभक्ते लभ्यन्ते क्रमशो भुजाः” इति
१४ । २ एतद्वृहद्भुजमानं दक्षिणोत्तररेखा कोटिः
आयते क्षेत्रेभुजकोटिघातः क्षेत्रफलम् । भुजकोटिज्ञानं तु
वृहद्भुजतुल्यं मध्येऽन्तरम् १४ । २ । २ याभ्योत्तररेखोभय-
प्रान्तवर्त्तिरेखा खण्डमाने योजितं सत्कोटिः स्यात् यथा
दक्षिणोत्तरपूर्ब्बापररेखा खण्डयोगादूर्ध्वरेखातिर्यग्रेखे
भुजकोटिरूपे तदग्रान्नीयमानो महामुजएव कर्णः
१४ । २ । २ । ५ । ० । अस्य वर्गार्द्धमूलं तिर्यग्ररूपभुजकोटिमानं
लघुः १० । ० । ६ । २ । यतोऽत्र भुजकोटियर्गयोगः कर्णवर्गो
भवति इदं कोटिमानं द्विघ्नं सत् पूर्ब्बभुजे योजितं जाता
कोटिः दक्षिणोत्तररेखारूपा ३४ । ३ । ५ । ४ । एतद्वृहद्भुज-
पातफले ४९२ १ । १ । २ । अथ कोणक्षेलयोः फलं लघुभु-
ज--वर्गेण तुल्यमेतत् १०१ । ७ । ६ । पूर्ब्बफलादस्मा ४९२ ।
पृष्ठ २०८५
१ । १ । २ । च्छोधितं सज्जातं फलम् ३९० । १ । ३ । २ । अस्मिन्
पूर्ब्बापरकोणानां चतुर्णां फलं योजितं सत्पूर्ण्णं फलं
स्यात् । तत्र पूर्ब्बकोणयोः फलं यथा वृहद्भुजोभुजः
१४ । २२ । पूर्व्वापररेखाखण्डं कोटिः १० । ० । ६ । २ । अनयोर्घातः
१४४ । १ । ५ । ६२ अस्मात्कोणक्षेत्रफलमेतत् ५० । ७ । ७ शोधितं
सज्जातं पूर्व्वकोणयोः फलम् ९३ । १ । ६ । एतदेवापरकोणयोः,
अतोद्विघ्नमेतत् १८६ । ३ । ४ । पूर्व्वक्षेत्रफलेऽस्मिन् ३९० । १ । ३ । २ ।
योजितं सज्जातं क्षेत्रफलं ५७६ । ५ । ० । ० । अल्पान्तरत्वा-
ददोषः ध्वजायसिद्धिश्च । इदं सर्वथा नेत्ररमणीयमि-
त्यङ्गीकर्त्तव्यम् । अथ प्रकारान्तरेण समाष्टभुजाष्टास्र
कुण्डमाह “माध्ये गुणे वेदयमैर्विभक्ते शक्रैर्निजा-
द्र्यब्धिलवेन युक्तैः । वृत्ते कृते दिग्विदिशोऽन्तराले गजैर्भुजैः
स्यादथवाष्टकोणम्” । माध्ये गुणे--सूत्रे चतुर्विंशतिभक्ते
स्वसप्तचत्वारिंशदंशसहितैश्चतुर्दशभिर्व्यासार्द्धेन मण्डले कृते
तत्र दिग्विदिशोर्मध्ये कृताष्टसूत्रैः परस्परसंलग्नैरष्ट-
कोणम् प्रकारान्तरेण प्राचीनकृतिरसिकाभिमतं कुण्डं
वृत्तमार्जनाद्भवतीति व्याख्या । अथ क्षेत्रफलानयनम्
“चन्द्रर्त्तुनन्दाकृतिभि २२९६१ र्व्यासार्द्धे तु समाहते ।
खखखाभ्राग्निसंभक्ते ३०००० लभ्यन्ते क्रमशोभुजाः”
इति भुजमानं १० । ७ । ४ । ३ । ४ । “ततःज्याव्यासयोगान्तर-
घातमूलं व्यासस्तदूतो दलितः शरः स्यादिति” । जातः
शरः १ । ० । ७ । २ । ६ । अथ याम्यभुजस्योभयान्तात् समुखापर
भुजप्रान्तद्वयं यावत् सूत्रद्वयं कुर्य्यात् । एवङ्कृते तिर्यग्दीर्घ-
चतुरस्रं पार्श्वयोर्विषमभुजचतुरस्रद्वयञ्चस्यात् तत्र व्यासा-
दस्मात् २८ । ४ । ६ । सकाशाद्द्विगुणं शरं विहाय शेषोदीर्वच-
तुरस्रस्य भुजः । अथ वा ज्याव्यासवर्गात्तरमूलं भुजः किं
शरकरणप्रयासेन २६ । ३ । ० । अष्टास्रिभुजएव कोटिः आयते
भुजकोटिघातः क्षेत्रफलम् २८८ । ४ । ४ । अथ विषमभुजचतु-
र्भुजक्षेत्रफलम् जीवार्द्धशरोनव्यासार्द्धंविषमचतुर्भुजे लम्बः
७ । ५ । ५ । ० । ज्यैव मुखं दीर्घचतुरस्रभुज एव भूः लम्बेन
निय्नंकु २६ । ३ । ० मुखै १० । ७ । ४ । ३ । क्य ३७ खण्डम् १८ । ५ । २ । १
क्षेत्रफलम् १४४ । ३ । ६ । ४ एवमपरस्यापि त्रयाणां
योगः ५७६ । १ । ४ ध्वजायसिद्धिश्च । अथवाष्टधनुषां
फलमानीय वृत्तफलात् संशोध्यापि क्षेत्रफलं स्यादिति
अस्मिन्समाष्टभुजे राघवभट्टादिभिरुक्ते शारदातिलका
दिवाक्यैः सह महान्विरोधस्तस्मादस्मदुक्तमष्टास्रि नेत्र
रम्यंक्षेत्रफलसंवादिसमभुजमेवादरणीयमिति” ।
अथखातलक्षणं कण्ठलक्षणञ्चाह । “खातं क्षेत्रसमं प्राहु-
रन्ये तु मेखलां विना । कण्ठोजिनांशमानः स्यादर्कांऽ
श इति चापरे” । कुण्डखननं क्षेत्रसम कुण्डस्य या
वान्विस्तार आयामश्च तावत्खननमाद्यमेखलया
सहितं कुण्डे कार्यम् योन्यादिकुण्डेषु विस्तारायामयो
र्नानात्वाच्चतुरस्रस्यैवायामविस्तारौ ग्राह्यौ । अन्ये तु
मेखलां वर्जयित्वा भूमावेव तावत्खननं कार्य्यमित्याहुः ।
कण्ठोऽपि क्षेत्रचतुविंशत्यंशमानः खाताद्बहिः कार्य्यः
समन्तादेकाङ्गुलमितः । अन्ये क्षेत्रद्वादशांशपरिमिन इति
प्राहुरिति व्याख्या । सिद्धान्तशेखरे “खातं कुण्डप्रमाणं
स्यादूर्द्धमेखलया सह” प्रतिष्ठासारसंग्रहे “पञ्चत्रिमेखलो-
च्छ्रायं ज्ञात्वाऽशेषमधः खनेत्” मोहमूलोत्तरे “हस्तमात्र
खनेत्तिर्यगूद्ध्वं मेखलया सहेति” । अथ पक्षान्तरे शारदाति-
लके “यावान् कुण्डस्य विस्तारः खननं तावदीरितमिति” ।
प्रयोगसारे “चतुरस्रञ्चतुःकोष्ठे सूत्रैः कृत्वा यथा पुरा ।
हस्तमात्रेण तन्मध्ये तावन्निम्नायतं खनेत्” । गणेशवि
मर्शिन्याम् “चतुर्विंशाङ्गुलायामं तावत्खातसमन्वित
मिति” पक्षद्वैधे वयन्तु “स्मृतिद्वैधे तु विषयः कल्यनीयः
पृथक् पृथगिति” वचनात् होमाल्पत्वबहुत्वयोरन्थतर
पक्षावाश्रयणीयाविति युक्तमुत्पण्यामः । “औचित्यादर्थात्
परिमाणमिति” कात्यायनोक्तिः । लोकान्तरे “खाताद्बाह्ये-
ऽङ्गुलः कण्ठः सर्वकुण्डेष्वयं विधिः । चतुर्विशतमोभागः
कुण्डानामङ्गुलं स्मृतांमति” । एतत्पारिभाषिकमङ्गलं
सर्वत्र बोद्धव्यम् । सीमशम्भौ “बहिरेकाङ्गुलः कण्ठो-
द्व्यङ्गुलः क्वचिदागमः” इति तेनाद्यः पक्षएव श्रेयान्
बहुसंभतत्वात् । अथ मेखलानामधमतादिपक्षमाह
“अधमा मेखलैका स्यान्मध्यमं मेखलाद्वयम् । श्रेष्ठा स्तस्रोऽ
थवा द्वित्रिपञ्चस्वधमतादिकम्” । एकमेखलापक्षोऽधमो
द्विमेखलो मध्यः, त्रिमेखलः श्रेष्ठः । अथ पक्षान्तरे द्विमेख-
लोऽधमः त्रिमेखलोमध्यः पञ्चमेखलः श्रेयान् एकमेख-
लोऽधमाधम इति व्याख्या । क्रियासारे “नामियोनिस-
मायुक्तं कुण्डं श्रेष्ठं त्रिमेखलम् । कुण्डं द्विमेखलं
मध्यन्नीचं स्यादेकमेखलमिति” लक्षणसंग्रहे “मुख्य स्तु पञ्च-
ताः प्रोक्तामध्यमास्तिस्रा एव च । द्वे स्यातामवमे पक्षे-
एका सा त्वधमाधमेति” सोमशम्भुना तु विशेष उक्तः
“त्रिमेखलं द्विजे कुण्डं क्षत्रियस्य द्विमेखलम् । मेखलैका
तु वैश्यस्येति” अथ खातं समेखलं क्षेत्रसमनिति
स्पष्टंवदन्मेखलालक्षणमाह “अष्टधा विहितकुण्डशरांशैःस-
ङ्खनेद्भुवमुपर्यनलांशैः । मेखलाविरचयेदपि तिखःषड्-
पृष्ठ २०८६
गजार्कलवविस्तृतिपिण्डाः “अष्टधा भक्तस्य क्षेत्रस्य यः
त्र्यङ्ग लात्मकोभागस्ताडशैः पञ्चभिर्भार्गर्भुवं खनेत् उपरि-
त्रिमिस्तादृशैर्भागैस्तिस्रोमेखला रचयेत् कीदृशीः
षडष्टद्वादशांशाः चतुस्त्रिद्व्यङ्गुलमितास्तैस्तुल्यविस्तारौ-
च्च्यं यासान्ता इति व्याख्या । विश्वकर्मा “व्यासात्-
खातः करः प्रोक्तोनिम्नन्तिथ्यङ्गुलेन तु । कण्ठात् परं
मेखला तु उन्नता सा नवाङ्गुलैरिति” । क्रियासारे
“प्रधानमेखलोत्सेधौक्तमत्र नवाङ्गुलम् । तद्वाह्यमेखलोत्-
सेवमङ्गुलद्वितयंक्रमात् । चतुस्त्रिद्ब्यङ्गुलव्यासीमेख-
लात्रितयस्य तु” योगिनीहृदयेऽपि “मेखलाः शृणु मे
देवि! हस्तादिषु विशेषतः । षण्णागार्कांशसम्भागैर्मिताः
स्युर्भोपिताः शुभाः” इति । अथ प्रकारान्तरेण मेखलालक्षणं
नाभिलक्षणं चाह “रसांशकादुन्नतविस्तृताश्च तिस्रोऽथवैका
युगभागतुल्या । पञ्चाथवा षट्शरवेदरामद्व्यंशैस्तताः स्युर्न-
वभागपिण्डाः । आद्यापरास्तच्छरभागहीना जिनांशकण्ठा-
द्बहिरेव सर्वाः । कुण्डानुसारा अपि मेखलाः स्युरर्काङ्ग-
भागौच्च्यततिस्तु नाभिः । कुण्डाकारोनाभिरम्भोजसाम्यो-
वाब्जेऽयं नेनांशहानिर्दलाग्रे । शेषक्षेत्रे वह्निवृत्तैः समे
ते स्युर्वै कर्ण्णैः केशराः पत्रकाणि” अथवा क्षेत्रषडं-
शादुन्नताः षडंशेनैव विस्तृतास्तिस्रो मेखला भवन्ति
अथैकयेखलापक्षमाह एकैवमेखला क्षेत्रचतुर्थांशोच्चा
तत्तृतीयांशविस्तृता च स्यात् । पञ्चमेखलापक्षमाह ।
अथ पञ्च मेखलाः कार्याः षट्पञ्चचतुस्त्रिद्ब्यङ्गुलैः
पारिभाषिकैर्विस्तृताः । अथपञ्चमेखलानामुच्चता माह
तत्रादिमा नवभागः पिण्डःऔच्च्यं यस्याः सा
पारिभाषिकनवाङ्गुलोच्चा स्यात् अपरा मेखलास्तस्या
आद्याया यः शरांशः पञ्चांशस्तेन हीना भवन्ति यथा
एकहस्ते कुण्डे प्रथममेखला नवाङ्गुलोच्चा अस्याः पञ्च-
मांगः १ । ६ । ३ । १ । ५ एष एकद्वित्रिचतुर्गुणः
प्रथममेखलामाने न्यूनः कृतः सन् तदधःस्थानां मेखला-
नामौच्च्यं स्यात् यथेदं द्वितीयमेखलौच्च्यम् ७ । १ । ४
६ । ३ एवमपरासामपि द्रष्टव्यम् । ताः मेखलाः सर्वाःक्षेत्र
चतुर्विंशतिभागमितात् कण्ठाद्बहिरेव भवन्ति कीदृश्यः
कुण्डानुकाराः योन्यादिकुण्डेषु योन्याद्याकाराएव स्वुः
अपिरेवार्थे । अथ नाभिलक्षणमाह नाभिर्द्वादशांशेनोच्चः
षडंशेन विस्तृतः कुण्डानुकारः याडशञ्चतुरस्राद्याकारं
कुण्डं तादृशोनाभिः । अथवा नामिरम्भोजसमः कमलाकारः
कार्यः अयं नाभिरव्जे पद्मकुण्डे{??}म् भवति तत्र नाभि-
रूपायाः कर्णिकायाः समत्वात् । अथ पद्मावारकरणं
नाभेरुच्यते दलाग्रे दलाग्रनिमित्तं द्व्यङ्गुलोच्चे
चतुरङ्गुलविस्तारायामे नाभौ इनांशहानिर्द्वादशांशत्यागः
कार्यः शेषमवशिष्टं क्षेत्रं तस्मिन् वृत्तत्रयं समभागेन
कार्यम् । तत्र मध्यचिह्नात् प्रथमं वृत्तं कर्णिका द्वि-
तीयं वृत्तङ्केशरस्थानं तृतीयं पत्राणि तद्बहिरवशिष्ट
द्वादशांशेन दलाग्राणि रचयेदिति व्याख्या । वाशिष्ठ्याम्
“प्रथमं मेखला तत्र द्वादशाङ्गुलविस्तृतिः । चतुर्भिरङ्गु-
लैस्तस्याश्चोन्नतिश्च समन्ततः । ततश्चोपरिवप्रः स्याच्चतु-
रङ्गुलमुन्नतः । अष्टाभिरङ्गुलैः सम्यग्विस्तीर्णश्चोन्नतस्त
था” । पिङ्गलामते “एका षड़ङ्गुलोत्सेधविस्तारा
मेखला मतेति” लक्षणसंग्रहे तु विशेष उक्तः । “चतु-
रङ्गुलविस्तारोत्सेधा चैकैव मेखलेति” तन्त्रान्तरे “षष्ठां-
शेनाष्टमांशेन मेखलाद्वितयं विदुरितिः अयं पक्षोऽ
बहुसंमतत्वादुपेक्षित एव । सिद्वान्तशेखरे “षड्-
वाणाब्धिवह्निनेत्रमिताः स्युः पञ्च मेखलाः” इति लक्षण
संग्रहे “पञ्च वा मेखलाः कार्याः षट्पञ्चाब्धित्रिपक्षकैः ।
प्रथमा कुण्डसहितोत्तरोत्सेधनवाङ्गुलेति” पिङ्गला-
मते “खातादेकाङ्गुलन्त्यक्त्वा मेखलानां स्थितिर्भवेदिति”
शारदायाम् “कुण्डानां यादृशं रूपं मेखलानाञ्च
तादृशम्” इति तत्रैव “कुण्डानां कल्पयेदन्तर्नाभिमम्बुज-
सन्निभम् । तत्तत्कुण्डानुरूपं वा मानमस्य निगद्यते”
मुष्ट्यरत्निरत्निहस्ता नाभेरुत्सेधता मता । नेत्रवेदाङ्गुलोपे-
तेति” पद्मेनाभिं विवर्जयेदिति प्रागेव लिखितम् । अम्बुजा-
कारकरणं तत्रैव “पद्मकुण्डेतु क्षेत्रस्य द्वादशांशं बहिः
सुधीः । तन्मध्येविभजेद् वृत्तैस्त्रिभिः समविभागतः । आद्यं
स्यात् कर्णिकास्थानं केशराणां द्वितीयकम् । तृतीयन्तत्र
पत्राणां मुक्त्वांशेन दलाग्रकमिति” अथ योनिलक्षणमाह
“योनिर्व्यासार्द्धदीर्घा विततगुणलवादायताब्धिद्विभागा-
त्तुङ्गातावत् समन्तात् परिधिरुषरिगस्तावदग्रेण
रम्यम् । निम्नं कुण्डं विशन्ती बलयदलयुगेनान्विताधो
विशाला, मूलात् सच्छिद्रनालान्तरवटरुचिराश्वत्थ
पत्राकृतिः स्यात्” योनिर्व्यासार्द्धेन दीर्घा विस्तारतृतीयां
शेन विस्तीर्णा चतुर्विशांशेनोच्चा चतुर्विंशांशेन परिधि
र्मेखला यस्वाः सा तावतैवाग्रेण चतुर्विशांशे-
न निम्नं यथा तथा कुण्डं प्रति विशन्ती बलयदल
युगेन वृत्तार्द्धद्वयेन युता अधो विशाला अर्थादुपरिख-
ल्पसंकोचनवतीमूलात्स्थलात्सकाशात् मध्ये सच्छिद्रं बालं
पृष्ठ २०८७
यस्थाःसा पद्मनालाकारत्वान्नालोक्तिः । अन्तर्मध्ये
अवटोगर्त्तः स्रुचि धृतधारणार्थं यद्वत्तेन रुचिरा सुन्दरा
सा अश्वत्थपत्राकृतिः स्य्यादिति व्याख्या । वायवीये
“मेखलां मध्यतः कुर्यात् पश्चिमे दक्षिणेऽपि वा । शोभनां
मध्यतः किञ्चिन्निम्नामुन्मीलितां शनैरिति” योनि-
मिति शेषः । त्रैलोक्यसारे “दीर्घा सूर्याङ्गुला योनिस्त्र्यं
शोना विस्तरेण तु । एकाङ्गुलोच्छ्रिता सा तु प्रविष्टा-
ऽभ्यन्तरे तथा । कुम्भद्वयार्द्धसंयुक्ता साश्वत्थदलवन्मता ।
अङ्गुष्ठमेखलायुक्ता मध्ये वाज्यधृतिस्तथेति” पञ्च-
रात्रे “अर्काङ्गुलोच्छ्रितां योनिं विदध्यात्तावदायताम्”
तावद्दीर्घाम् एकाङ्गुलोच्छ्रिता इत्यस्य विवरणम् अङ्गुष्ठ-
मेखलायुक्तेत्यत्र अङ्गुलद्वयमुच्छ्रायः कुत्रचिदुक्तः अङ्गुलं
परिधिरिति द्वादशाङ्गुलोच्छ्रायः अयं न प्रायोबहुसंम-
तपक्षः अतोऽस्मदुक्त एकाङ्गुलोच्छ्रायपक्षोबहुसंम-
तःकार्यः । शारदायाम्” “मूलादारभ्य नालं स्याद्योन्या
मध्ये सरन्ध्रक मिति” द्वादशाङ्गुलमेखलापक्षेयोनिलक्षण
माह “अथार्काङ्गुलपक्षे तु मेखलानान्दशाङ्गुलैः ।
विस्तृता तिथिभिर्दीर्वाङ्गुलिभिर्योनिरिष्यते” मेखलानां
दशाङ्गुलैर्विस्तृता तिथ्यङ्गुलैर्दीर्घा योनिः स्यादिति
व्याख्या । प्रयोगसारे “स्थितां प्रतीच्यामायामे
सम्यक् पञ्चदशाङ्गुलाम् । द्विपञ्चाङ्गुलविस्तारां षट्
चतुर्द्व्यङ्गुलाः क्रमात् । त्रयोदशाङ्गुलोत्सेधां बोनिं
कुण्डस्य कारयेत्” । केचित् योनिक्षेत्रस्य दीर्घचतुरस्ररूप
स्य यत्फलं तस्य मूलमानीय तावत्समचतुरस्रं
संशोध्य योनिकुण्डवद्योनिं साधयेदित्याहुः” । अधिकं
कुण्डार्काटौ दृश्यम् ।
“रसं पिबेत् कुमारोऽयं त्वत्प्रसादात् महाबलः । बलं
नागसहस्रस्य यस्मिन् कुण्डेप्रतिष्ठितम् । यावत् पिबति
बालोऽयं तावदस्मै प्रदीयताम्” । “एकोच्छ्वासात्तत्र कुण्डे
पिबति स्म महाबलः । एवमष्टौ स कुण्डानि ह्यपिबत्
पाण्डुनन्दनः” भा० आ० १२८ अ० । “साधुभिर्गर्हितं
कर्म्म चण्डालस्य विधीयते । तस्मात् गोरजसा ध्वस्त-
मपां कुण्डे निषिञ्चति” भा० आनु० १०१ अ० । कण्ड्यते
कुलमनेन कुडि--दाहे करणे घञ् । अमृते भर्तरि
५ जारजाते स्त्रियां टाष् । “परदारेषु जायेते द्वौ सुतौ
कुण्डगोलकौ । पत्यौ जीवति कुण्डःस्यात् मृते
भर्त्तरि गोलकः । तौ तु जातौ परक्षेत्रे प्राणिनौ
प्रेत्य चे ह च । दत्तानि हव्यकव्यानि नाशयेते प्रदा-
यिनाम्” मनुः । “ब्राह्मणा एव संपूज्या पुण्य
स्वर्गमभीप्सता । श्राद्धकाले तु यत्नेन भोक्तव्याह्यजुगु-
प्सता । दुर्वचाः कुनखी कुष्ठी मायावी कुण्डगोलकौ ।
वर्ज्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः” भा० व०
१९९ अ० । “द्विजात् द्विजातिभार्य्यायां सवर्ण्णायामुत्पान्न-
कुण्डगोलकयोः संस्कारार्हता यथाह “प्रयोगपारिजाते
ब्राह्मे “ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स
इति श्रुतिः । तस्माच्च षण्डबधिरकुब्जवामनपङ्गुषु ।
जडगद्गदरोगार्त्तशुष्काङ्गविकलाङ्घ्रिषु । मत्तोन्मत्तेषु
मूकेषु शयनस्थे निरिन्द्रिये । ध्वस्तपुंस्त्वेषु चैतेषु
संस्काराः स्युर्यथोचितम् । मत्तोन्मत्तौ न मंस्कार्याविति
केचित् प्रचक्षते । कर्म्मस्वनधिकाराच्च पातित्यं नास्ति
चैतयोः । तदपत्यञ्च संस्कार्य्यमपरे प्राहुरन्यथा । संस्कार-
मन्त्रहोमादीन् करोत्याचार्य्यएव तु । उपनेयाश्च विधि-
वदार्य्यस्य समीपतः । आनीयाग्निसमीपं वा सावित्रीं
स्पृश्य वाचयेत् । कन्यास्वीकरणादन्यत् सर्वं विप्रेण
कारयेत् । एवमेव द्विजैर्जातौ संस्कार्य्यौ कुण्डगोलकौ”
अतस्तस्य ब्राह्मणत्वेऽपि श्राद्धेऽन्नदाननिषेध इति
विशेषः । अत्रेदं बोध्यम् । “अशुल्कोपहृतायां तु
पिण्डदा वोढुरेव ते” स्मृत्युक्तेः शुल्कदानं विना
उपगतपरस्त्रियां जातस्य वोटुरेव पुत्रत्वं शुल्कदाने तु
उत्पादयितुरेवेति । अतएव “यन्मे माता प्रलुलोभ रेतः”
इत्यादि श्रुत्या क्षेत्रिणएव पिण्डदत्वं भङ्ग्योक्तम् । अस्य
प्रस्थेन सह समासे आद्युदात्तता । तेन निर्वृत्ताद्यर्थे
चतुरर्थ्यां अश्मा० र । कुण्डर तन्निर्वृत्तादौ त्रि०
कुडि--दाहे भावे अ । ६ दाहे स्त्री ।

कुण्डक पु० धृतराष्ट्रपुत्रभेदे । “कुण्डकश्चित्रसेनश्च सुवर्च्चाः

कनकध्वजः” भा० आ० १८६ अ०, कुण्ड + स्वार्थे क । २ कुण्डार्थे,

कुण्डकीट पु० कुण्डे योनिकुण्डे कीटैव विचारशून्यत्वात् ।

१ पतितब्राह्मणपुत्रे २ जारजातब्राह्मणपुत्रे ३ दासीकामुके
४ चार्ब्बाकवचनाभिज्ञे पुरुषे च मेदि० ।

कुण्डगोलक न० कुण्डे गोलं गोलाकारं कं जलमत्र ।

१ काञ्जिके हेमच० । स० द्वन्द्वः । २ कुण्डगोलकयोः समा हारे च ।

कुण्डङ्ग पु० कुण्डं तदाकारं गच्छति गम--बा० ख डिच्च ।

निकुञ्जिकावृक्षे हेम० तस्य लतादिनाऽपिधानेन कुण्डा-
कारत्वात्तथात्वम्

कुण्डज पु० धृतराष्ट्रपुत्रभेदे “कुण्डजश्चित्रकश्चैव दुःशला च शताधिका” भा० आ० ६७ अ० ।

कुण्डजठर पु० कुण्डैव जठरमस्य । १ कुण्डाकारोदरे २ ऋ

षिभेदे पु० “आत्रेयः कुण्डजठरोद्विजः कालघटस्तथा”
भा० आ० ५३ अ०,
पृष्ठ २०८८

कुण्डधार त्रि० कुण्डं कुण्डाकारं धारयति धारि--अण् उ

प० स० । नागभेदे, “मणिमान् कुण्डधारश्च कर्कोटक-
धनञ्जयौ” भा० स० ९ अ०,

कुण्डपायिन् पु० भूम्नि कुण्डेन कुण्डाकारचमसेन पिबन्ति

सोमम् पा--णिनि । कुण्डेन सोमपायिषु सयजमान
षोडशर्त्विक्साध्यसत्रभेदकारिषु

कुण्डपायिनामयन न० ६ त० अलुक् स० । सत्रभेदे तदिति-

कर्त्तव्यतादिकम् आश्व० श्रौ० १२ । २ । ३--सूत्रादौ उक्तं यथा
“कुण्डपायिनामयनम्” सू० । “एतन्नामकमिदं सत्रमधि-
कृतं वेदितव्यम्” वृ० । “मासन्दीक्षिता भवन्ति” सू० । “अयं
मासशब्द एकान्नविंशतिरात्रे उपचरितः, एकान्नविंशति-
रात्रादिकं सावनवद्भवतीत्यर्थः” वृ० । “ते मासि सोमं
क्रीणन्ति” सू० । “अयमप्युपचार एव दीक्षाकाले ।
मास्यतीते दीक्षिताः सोमं क्रीणन्तीत्यर्थः” वृ० । “तेषां
द्वादशोपसदो भवन्ति” सू० । “सात्रिकाणान्दीक्षाणामपवादो
दीक्षाविधिः, तथा सात्रिकाणामुपसदामपवादोऽयमुपस-
द्विधिः” वृ० । “सोममुपनह्य प्रवर्ग्यपात्राण्युत्साद्योपनह्य
वा मासमग्निहोत्रं जुह्वति” सू० । “उपत्सस्वतीतासु प्रव-
र्ग्य पात्राण्युत्साद्योपनह्य वा तानि तानि, ते एकं मासम्
अग्निहोत्रं जुह्वति सायं प्रातः” वृ० । “प्रातरुपक्रमः
सायमपवर्गः” सू० “प्रातःकालस्य प्रथमप्राप्तत्वात् उपसत्काले
द्वादशाहेऽतीतेऽग्नि होत्रस्य प्रातरारम्भान्नैमित्तिकादग्नि-
होत्रात् कर्म्मात्तरमेतदिति न्यायविदां प्रसिद्धम्” वृ० ।
“मासं दर्शपूर्णमासाभ्यां यजन्ते” सू० । “अग्निहोत्र-
मासेऽतीते ततः अनन्तरमेकं मासं दर्शपूर्णमासाभ्यां
यजन्ते” वृ० । “कृष्णपक्षेऽहरहः पौर्णमास्या, शुक्लपक्षेऽह-
रहरमावास्यया, मित्रावरुणयोरयने तथा दृष्टत्वात्”
सू० । “एवमत्र सम्पादनीयम्--यथा कृष्णपक्षादौ
पौर्णमास्याऽहः सम्भवति, तत्र दीक्षारम्भः कर्त्तव्य
इति” वृ० । “मासं वैश्वदेवेन” सू० । “अहरहरनेन
यष्टव्यम् । वैश्वानरपार्जन्या तु न भवति आरम्भा-
र्थत्वात्तस्याः, स चारम्भःसत्रे न प्रसक्त इति” वृ० । “भासं
वरुणप्रघामैः मासं शाकमेधैः एतैरहरहर्यजेरन्” मू०
“एकाहेनापवृज्य प्रकृतेर्द्व्यहसमापनीयत्वाद्द्व्यहेन वा कुर्य्या-
त् । अध्वर्युप्रत्ययात्समापनमिति स्थितिः” वृ० । “मासं
शुनासीरोषेण” मू० । “अनेनाप्यहरहरेव” वृ० । “यदहर्मासः
पूर्यते तदहरिष्टिं समाप्याग्निप्रणयनादिधर्मोत्सादनादि
वौपवसथिकं कर्म० कृत्वा श्वोभूते प्रसुनुयुः” सू० । “यस्मिन्नहनि
मासः पूर्यते तस्मिन्नहनि शुनासीरीयेष्टिं समाप्य
तदनन्तरं यदि पूर्वमेव प्रवर्ग्यपात्राण्युत्सादितानि तदाग्नि-
प्रणयनाद्यौपवसथिकंकर्म कृत्वा सुत्यारम्भः” वृ० । “तद्धैक
उपसद्भ्य एवानन्तरं कुर्वन्ति तथादृष्टत्वात् सौत्यान्मासा-
नग्निहोत्रादीन् वदन्तः” सू० । “तदिदमग्निप्रणयनाद्यौप-
वसथिकं कर्म कुण्डपायिनामयने अग्निहोत्रादिमासेभ्यः
कर्त्तव्यमित्युक्तम् तत्रैक आहुः तत्कर्माग्निहोत्रादि-
मासेभ्यः प्रागुपसद्भ्योऽनन्तरं कर्त्तव्यमिति । तत्र हेतु-
माहुः प्रकृतौ तथादृष्टत्वादिति । न त्वग्निहोत्रादिमा-
सेभ्य उपरिष्टात्, क्रियमार्णे वा औपवसथिके सुत्यानन्तर-
स्य विद्यमानत्वादिति । तथादृष्टत्वात्साधारणमिति,
तत्परिहारार्थमग्निहोत्रादिमासान् सौत्यानिति । कथम्?
अस्य सत्रस्य गवामयनप्रकृतिकत्वात्तस्य सांवत्सरिकत्वात्
कुण्डपायिनामयने त्रिवृदादयः षण्मासा एकः पक्षः,
अग्निहोत्रादयः षण्मासा अपरः पक्ष इति मन्यमानाः ।
एवं च उपसदाञ्च सुत्याञ्च सुत्ये औपवसथिकस्य कृतत्वान्न
कश्चिद्धेतुदोष इति वदन्तोऽग्निहोत्रादिमासेभ्यः प्रागुप-
सद्भ्यः ऊर्ध्वमौपवसथिकं कुर्वन्ति । एतदुक्तम् भवति ।
अग्निहोत्रादिमासान् सुत्यानिति मन्यमानाः तेभ्यः
पुरस्तादुपसद्भ्य ऊर्ध्वं औपवसथिकं कर्म केचित् कुर्वन्ति
प्रकृतौ तथादृष्टत्वादिति । यदेतदग्निहोत्रादिमासान्
सौत्यानिति वदन्ति तदनुपपन्नम् । कुतः? सोमयागस्वरू-
पत्वात् सुत्यानाम्’ अग्निहोत्रादीनां तु हविर्यज्ञस्वरूप-
त्वादसुत्यत्वमिति । यत्पुनरिदमुक्तं गवामयनप्रकृतिकत्वा-
दग्निहोत्रादिमासैः पूर्वपक्षसिद्धिरिति । तदयुक्तम्
सोमयागानामेव गवामयनप्रकृतिकत्वं पूर्वपक्षस्त्वमुत्तरपक्ष-
स्त्वञ्चेति । अग्निहोत्रादयोऽस्मिन् सत्रे अप्राकृता
आगन्तवः कर्मविशेषाः अतस्तेषान्तत्स्थानापन्नत्वमपि न स
म्भवति । अतस्तेषां सुत्यत्वन्न सम्भवति । सुत्यत्वासम्भ-
वे तथादृष्टत्वादित्यस्य हेतोः साधारण्यादसाधकत्वादित्य-
नेनाभिप्रायेणोक्तं भगवताचार्येण “तदनुपपन्नम् इति” वृ०
“पश्वर्थंद्ध्यग्निप्रणयनन्तस्य च श्वःसुत्यानिमित्तम्” सू० । “परो-
क्तस्य हेतोरसाधकत्वमुक्त्वा स्वपक्षं समर्थयति । औपवसथेषु
कर्मसु यः पशुभागः सः श्वःसुत्यानिमित्तमिति प्रत्यक्षं श्रू-
यते ‘अग्नीषोमाभ्यामिन्द्रो वृत्रमहंस्तावेनमब्रूताम्’
इत्यादिना । अतो वचनात् पशोः सुत्यानन्तर्यमेव स-
पृष्ठ २०८९
म्पादनीयम् । तत्र यदग्निप्रणयनन्तत् सोमयागार्थमेब
पशोरप्युपकरोति प्रसङ्गादिति पश्वर्थमित्युक्तम् । अतोऽ-
ग्निप्रणयनस्य पशोः श्वःसुत्यानन्तर्यमेव कर्त्तुं युक्तम्” वृ० ।
“अतिप्रणीतचर्यायां च वैगुण्यं दर्शपूर्णमासयोः
तथाग्निहोत्रस्य” सू० “एवं तावदौपवसथिकस्य अग्निप्रणयना-
देरग्निहोत्रादिमासेभ्य ऊर्द्ध्वमेव कर्त्तव्यतां प्रतिपाद्येदा-
नीमग्निप्रणयनस्याग्निहोत्रादिमासेभ्यः पुरस्तात् क्रिया-
यां दर्शपूर्णमासयोरग्निहोत्रस्य च वैगुण्यं भवती-
ति प्रतिपादयति । कुतः? इति चेत्, प्रकृतौ नैयमिकेऽति-
प्रणीते उत्तरवेद्यान्तयोर्यागादिदर्शनात् । अतो वैगुण्यकर-
त्वादग्निप्रणयनन्तावत् पुरस्तान्न कर्त्तव्यमित्यस्य विशेषोऽ-
न्येभ्य इत्युक्तम्” वृ० । “सदो हविर्धानान्याग्नीध्रीयाग्नि-
षोमप्रणयनवसतीवरीग्रहणानि पश्वर्थानि भबन्ति सुत्या-
र्थान्येके” सू० । “एवंतावदौपवसथिकेषुयः, सःश्वःसुत्यानि-
मित्तत्वादग्निहोत्रादिमासेभ्य ऊर्ध्वं कर्त्तव्यैत्युक्तम् ।
अग्निप्रणयनञ्च सुत्यार्थत्वात् पशोरप्युपकारकत्वाच्च
पुरस्तात् क्रियायाञ्चाग्निहोत्रादीनां वैगुण्यकरत्वात्तद्वदि-
त्युक्तम् । इदानीं येषां श्वःसुत्यावचनं नास्ति श्रुत्यादिभि-
स्तु सुत्याङ्गभावोऽस्त्येव अङ्गभावश्च सन्निपत्योपकार-
द्वारेण, तेषां सुत्याकर्मणोद्देशादिसाधन इत्यकल्परूपाणां
सदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तात् करणे किञ्चि-
ददृष्टं दृष्टं वा प्रयोजनं नास्ति । तेषां पुरस्तात् करणे
प्रमाणं च नास्ति, कुतः?” वृ० । “तत्कालाश्चैव तद्गुणाः”
सू० । “यस्य प्रधानस्य यः कालः स एव कालस्तद्गुणानां
प्रधानकाल एव अङ्गानां मुख्यकाल इत्यर्थः ।
तदेतन्न्यायविदां प्रसिद्ध्वम् । अत एव प्रसिद्धवदुप-
दिष्टवानाचार्यः ‘तत्कालाश्चैव तद्गुणाः, इति ।
एतदुक्तं भवति यस्मात् प्रधानकाला एव प्रधानगुणाः
तस्मात् सदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तादक्रियैव ।
तत्कालाश्चैव तद्गुणा इति चशब्दोऽत्र पठितः प्रधान-
काले च गुणाः कर्त्तव्या इत्यर्थः । सदआदीनाम्पश्वर्थ-
तावचनम् अभ्युपगम्य सदआदोनि पश्वर्थानि वा भवन्तु,
सुत्यार्थानि वा, सर्वथा तावदग्निहोत्रादिभ्यः पुरस्तात्
क्रिया न स्यादित्ययमभिप्रायः । अङ्गानां प्रधानकाल-
त्वमुक्त “तत्कालाश्चैव तद्गुणाः, इति । यानि पुनरङ्गानि
ब्रधानकालाद्विप्रकृष्टानि, यथा ‘अग्निमारुतादूर्ध्वमनुयाजै-
श्वरन्ति” इति तेषां पश्वर्थता नास्ति सौमिकैः पदार्थैर्व्य-
वधानादिति । अतोऽनुयाजसदृशानि कर्मान्तराणि सोमा-
ङ्गत्वेनैव विधीयन्त इति प्राप्ते उच्यते” वृ० । “सिद्धस्वभा-
वानां न व्यवधानादन्यत्वं यथा पृष्ठ्याभिप्लवयोः” सू० ।
“प्रकृतौ सिद्धस्वभावानां पदार्थानां विकृतौ पदार्थान्तर-
व्यवधानमात्रेण तेषामन्यत्वं न स्यात् । अनन्यत्वे च प्रा-
कृतोषकारत्वेनाङ्गत्वमपि स्यात् । प्राकृतानां विकृतावुप-
कारद्वारेण हि पदार्थानां प्राप्तानानामनुपकारकत्वमित्ययुक्तं
यदि परं व्यवधानादन्यत्वं भवति । अतो विप्रकृष्टकाला
अपि पदार्थास्तद्गुणा एव भवन्ति, तद्ध्यनपगमादिति कर्मा-
न्तरत्वपक्षे वाक्यभेदादिति प्रसज्येत । यथा पृष्ठ्याभिप्लव-
योरिति व्यवधानादन्यत्वाभावे दृष्टान्तः । यथा पृष्ठ्यस्य
वाभिप्लवस्य वान्यस्य वा सङ्घाते रूपविशेषस्य मध्ये
यजमानमरणस्य निमित्तेन नैमित्तिकमहरन्तरमुप-
जायते तत्र तेन व्यवधानमस्ति, तथा पृष्ठ्यादिसङ्घा-
तविशेषबुद्धिर्नापैति तद्वदत्रापीति । यस्माद्व्यवधानात्
पदार्थान्यत्वं नास्ति, अत एवौपवसथिकस्याग्निहो-
त्रादिमासेभ्यः पुरस्तात् क्रियाशङ्कानिराकरणार्थमिदं
प्रकरणमारब्धम् । कानिचिदङ्गानि तत्कालानि कानि-
चिद्विप्रकृष्टकालानीत्येवमुभयथा व्यवहारोऽस्ति । सर्वथा
तावदग्रिहोत्रादिमासेभ्यः पुरस्तादौपवसथिकं न कर्त्त-
व्यमिति प्रकरणार्थः” वृ० । “सगुणानां ह्येव कर्मणामुद्धार
उपजनो वा” सू० “अयमप्यग्निहोत्रादिमासेभ्यः उपरि-
ष्टादौपवसथिकक्रियायां हेतुः । यस्मात् प्रधानकर्मणामु-
द्धारे उपजने--उत्कर्षे च सगुणानामेव सर्वत्रोद्धारादिर्दृष्टः
यथा स्नानभोजनविहाराणामहरहः कार्याणाङ्कस्यचिदु-
द्धारे सगुणस्यैवोद्धारो दृष्टः, उत्कर्षे च सगुण एवोत्कृष्यते,
एतेषां नित्यकार्याणामन्तराले अन्यन्नैमित्तिकमुपजायमानं
सगुणमेवोपजायते, एवमत्रापि वैशेषिकैरग्निहोत्रादिभि-
रुत्कृष्यमाण, सौत्यं कर्म आत्मनो गुणभूतेन औपवसथिकेन
सहोत्कृष्यते । हिशब्दः प्रसिद्धौ । यस्मात् सर्वत्र उद्धा-
रोपजनोत्कर्षाः सगुणानामेव दृष्टाः तस्मादत्रापि सगुणस्य
सौत्यस्य उत्कर्षो युक्त इति सूत्रार्थः” वृ० । “सुब्र-
ह्मण्या त्वत्यन्तम्” सू० । “प्रासङ्गिकोऽयं सुब्रह्मण्यावि-
चारः प्रकृतावुपसत्सुत्याकालत्वात् । सुब्रह्मण्यायाः
अग्निहोत्रादिमासानाञ्च सुत्योपसदभावात् सुब्रह्मण्याया
अभावशङ्का स्यात्, तत इदमुच्यते । सुब्रह्मण्याया अयं
विशेषः । अत्यन्तं--नित्यं कर्त्तव्या, अग्निहोत्रादिमासेष्वपि
अप्राकृतोऽयङ्काल इति नोत्स्रष्टव्या । अनवधृतेहका-
लसंशयत्वात् । प्रकृतावुपसत्सुत्याकाला सती सुब्रह्मण्या
पृष्ठ २०९०
तकालविशेषविशिष्टाऽऽहूयते । इह पुनरप्राकृतत्वात्कालस्य
तेनोपलक्षणं प्रकृत्या सुब्रह्मण्याया अयुक्तमिति मन्य-
मानेनानवधृता कालसङ्ख्याविशेषणाऽऽह्वातव्या । सुत्यामा-
गच्छेति कालसंशयत्वादित्यस्यायमर्थः । प्रकृतौ द्वादशा-
हे सुत्यानीत्यादयःसङ्ख्याविशेषाः किमुपसदहःसङ्ख्या-
विशेषप्रयुक्ताः आहोस्वित्प्राक्सुत्याबन्त्यहानि । तत्र तदहः-
सङ्ख्याप्रयुक्ता इत्येवङ्कालसंशयत्वादित्यर्थः” वृ० ।
“उत्सर्गमेके सुत्योपसद्गुणत्वात्” सू० । “सुब्रह्मण्याया
उत्सर्गमेके इच्छन्ति सुत्योपसद्गुणत्वात् । किमिदं सुत्यो-
पसद्गुणत्वमिति? सुत्यानामेवायङ्गुणो नोपसदां क्रमा-
ल्लिङ्गं बलीय इति । अतोऽयमुपसदाङ्गुण उपसत्का-
लवर्त्तित्वात् उपसद्गुणत्वोपचारः अग्निहोत्रादिमासा-
नामसुत्यत्वात् उपसत्कालत्वात् सुव्रह्मण्योत्सर्गमेक
आहुरित्यर्थः” वृ० । “क्रिया त्वेव प्रवृत्ते ह्यन्तमगत्वाऽवस्थाने
दोषः” सू० । “अस्याः क्रियैव निश्चीयते सोमयागसाध-
नसंस्कारत्वात् मन्त्रस्य, प्रकृतौ सोमयागादूर्ध्वं यावत्सु-
त्याकालस्तावदाहूयते । तद्वदत्राप्याह्वातव्या । तावतः-
कालस्योपसत्स्वेवैतत्सम्बन्धादस्या उपसत्सम्बन्धः तदभा-
वान्नास्यास्त्यागो युक्तः । अत्रायमपि विशेषोऽस्ति ।
औचित्यादपि न त्याज्या । आदितआरभ्य सर्वेष्वेवाहः-
स्वाह्वयन्ति कथमिदानीं नाह्वयन्ति । नूनमयं सोमोऽ-
स्मभ्यन्न दास्यत इति देवतायाः शङ्का स्यात् तन्निवृत्त्य-
र्थमाह्वातव्या । प्रारब्धस्य मध्ये त्यागस्य कारणाभा-
वात् त्यागे दोष एव स्यादित्यभिप्रायः । परवदर्थविचा-
रोऽत्र स्वपदार्थपरिज्ञानार्थ एव । अतिप्रैषः श्वःसुत्यरू-
पोह्यत इति” वृ० । “त्रिवृता मास पञ्चदशेन मासम्
सप्तदशेन मासम् एकविंशेन मासम् त्रिणवेन मासम्
अष्टादशत्रयस्त्रिंशानि द्वादशाहस्य दशाहानि ।
महाव्रतञ्चातिरात्रश्च” सू० । “अत्र पृष्ठ्यस्य पञ्चभिरहोभिः पञ्च
मासाः कर्त्तव्याः । षष्ठेनाष्टादशाहानि दशरात्रो
महाव्रतमुदयनीयः । कृत्स्नोक्तत्वान्नात्र प्रायणीयः” वृ० । “सर्वेण
यज्ञेन यजन्ते य एतदुपयन्ति” सू० । “स्तुतिवादोऽयं
बहूनामत्र सम्भवादृत्विक्समासोऽनेन सूत्रकारेण न सूत्रितः ।
स कर्त्तव्यश्चेत् परप्रत्ययादेव कर्त्तव्यः” नारायणवृत्तिः
कात्या० श्रौ० २४, ४, २, सूत्रादौ विशेष उक्तो यथा
“कण्डपायिनामयनं पौर्णमासीदीक्षम्” सू० । कुण्डपा-
विनामयनमिति सत्रस्य संज्ञा तस्य पौर्णमास्यां दीक्षा
भवति” कर्कः । “चतुर्य्यो वाऽपरपक्षस्य” सू० । इति वि-
कल्पः फाल्गुनापरपक्षस्य वा चैत्र्यां पौर्णमास्यामिति”
कर्कः “मासं दीक्षाः” सू० । “तस्य भवन्ति” कर्कः । “सोम-
मुपनह्य सुत्यास्थानेषु मासमग्निहोत्रं जुह्वति” सू० ।
सोमोपनहनं कृत्वा यानि सुत्यास्थानानि तेष्वग्निहोत्र-
होमः । अग्निहोत्रं च सायारम्भं प्रातरपवर्गम् तत्र
द्वावपि होमौ कालैक्यात्तन्त्रेणोपक्रमितव्यौ । प्रधानस्य
तु भेदः चतुर्गृहीतेनाग्नेयीं सायमाहुतिं हुत्वा पुनश्चतु-
र्गृहीतेन सौरीमाहुतिं जुहोति तन्त्रेणोत्तरां जुहोति ।
गार्हपत्यकार्य्यं तत्र प्रागभिहितेएव न शालाद्वार्थ्ये,
ज्योतिष्टोमे हि तच्छ्रुतम् न चाग्निहोत्रं ज्योतिष्टोमः
न च तदङ्गत्वमिति आहवनीयस्त्वतिप्रणीत एव” कर्कः
“सोमबन्धनपूर्वकम् अत्राग्निहोत्रशब्दोनित्याग्निहोत्रधर्मा-
तिदेशार्थः ततश्च तद्धर्मकं कर्मान्तरं मासपूर्तिपर्य्यन्तं
प्रत्यहं भवति” सं० व्या० । “दर्शपूर्णमासाभ्यां मासम्” सू० ।
“नयेयुः” कर्कः । “पक्षादौ यद्यद्धविस्तत्सर्वस्मिन्” सू० ।
“पक्षस्यादौ प्रतिपदि यद्यद्धविस्तदेव सर्वस्मिन् पक्षे भवति
सकले शुक्ले दर्शेष्टिः, सकले कृष्णे पौर्णमासेष्टिः” सं० व्या० ।
“सारस्वते च प्रथमे” सू० । “एवमेव” कर्कः “तन्त्रेण वा
समस्तचोदितत्वात्” सू० । “वाशब्दः पक्षव्यावृत्तौ
तन्त्रेणैव दर्शपूर्णमासौ कर्त्तव्यौ समस्तयोर्हि चोदना “दर्श-
पौर्ण्णमासाभ्यां मासमिति” नह्यत्र कालभेदकः तस्मादग्नि-
होत्रवदत्रापि तन्त्रमेव” कर्कः “नदर्शपौर्णमासस्य पक्ष-
भेदेनानुष्ठानम् किं तर्हि तन्त्रेण कर्तव्यौ” कुतः? समस्त
चोदितत्वात् समस्तयोरेव दर्शपौर्ण्णमासयोः प्रत्यहं मास
पर्यन्तं विहितत्वात् सारस्वते तु पक्षभेदेनैव, तत्र तथैव
विधानात्” सं० व्या० । ‘अग्निहोत्रं च” सू० । “अस्य सूत्रस्य
पूर्वमेवाभिहितो न्यायः” कर्कः तन्त्रेण न तु नित्याग्नि-
होत्रवत्सायम्प्रातः पृथक्पृथगिति अतो दिवसे एव
सायम्प्रातस्तनमग्निहोत्रं तन्त्रेणैव होतव्यम् एककालत्वाद-
ङ्गानि तन्त्रेण प्रधानाहुतयस्तु भिन्नाः” सं० व्या० । “पृथङ्-
मासाश्चातुर्मास्यपर्वभिः” सू० “नीयन्वे वैश्वदेवेन मासम्”
“वरुणप्रघासैर्मासम् साकमेधैर्मासम् शुनासीरीयेण
मासमिति ताण्ड्य० श्रुतेः” कर्कः । “पृथक् पृथक्-
चत्वारो मासा नेयाः” सं० व्या० । “साकमेधा दर्शपूर्ण-
मासवत्” सू० । “तन्त्रेणेत्युक्तो न्यायः” कर्कः । “सोमा
वा सामान्वात्” सू० । “एते अग्निहोत्रादयः सोमा वा
भवन्ति कुतः सामान्यात् सत्रं हि सोमयागैः पूरणीयम्”
सं० व्या० । “न जुहोतिशब्दात्” सू० । “नैतदेवम् सोमा इति कुतः?
पृष्ठ २०९१
एतत्? जुहोतिशब्दात् “मासमग्निहोत्रं जुहोतीति” जु
होतिशब्दोऽत्र भवति न चासौ सोमयागेषु प्रसिद्धः तस्मान्न
सोमा इति” सं० व्या० । “काममितरे” सू० । “इतरे तर्हि
दर्शपूर्णमासादयो भवन्तु सोमाः न हि तत्र जुहोतिशब्द
इति नेत्युच्यते दर्शपूर्णमासादयः शब्दा निरुपपदा एव
दर्शपौर्ण्णमासादोन् सोमान् प्रत्थाययन्ति सोमोपपदाः
निरुपपदाश्चैते मासं दर्शपौर्ण्णमासाभ्यामिति तस्माद्दर्श-
पौर्ण्णमासादयोऽपि न सोमा एते” सं० व्या० । दर्शपीर्ण्ण-
मासादयः कामं सोमा भवन्तु यतस्तत्र जुहोतिशब्दो-
नास्ति परमार्थतस्तु तेऽप्यत्र सोमा न भवन्ति यतो दर्श-
पूर्णमासादयः शब्दा निरुपपदा अत्र श्रूयन्ते न चातु-
र्मास्यसोमा दर्शपूर्णमाससोमा इत्येवं सोमोपपदाः
अतस्तेऽपि न सोमा इति सिद्धान्तः । एवं षण्मासाः
परिपूर्णाः मासश्चात्र सर्वत्र सावनस्त्रिंशद्दिनात्मकः
अथोत्तरेषु षट्सु मासेष्वहान्याह” कर्कः । “दृतिवातवतोरयन-
पूर्वपक्षेण षण्मासान्” सू० । “दृतिवातवतोरयनस्य पूर्व्व-
पूर्व्वपक्षेण षण्मासान् नयेयुः । तत्र विशेषमाह” कर्कः
“उत्तमे त्रयोऽभिप्लवा दशरात्रो महाव्रतम्” सू० । “उत्तमे
द्वादशे मासे एतान्यहानि भवन्ति” सं० व्या० । “उपरिष्टा-
दतिरात्रं भवति” सू० । “अनुग्रहश्रुतेः यदन्यतरतोऽति-
रात्रस्तेनाहीन इति” देव० “अन्ते एक उदयनीयातिरात्र
एव भवति न प्रायणीय इत्यर्थः” कर्कः । “उभयतो वा” सू०
“अतिरात्रो भवति सत्रत्वात् अनुग्रहश्रुतिस्तु अहीनत्वेन
संस्तौति तत्कथम्? हविर्यज्ञैर्व्यवहितत्वात्” देव०
“अथवोभयतोऽतिरात्रं भवति प्रायणीयश्चोदयनीयश्चात्र द्वावपि
भवत इत्यर्थः” सं० व्या० । “हविर्यज्ञेभ्योऽतिरात्रमेके
सोमानन्तर्यात्” स० हविर्यज्ञेभ्योऽवसितेभ्यः एके प्रायणीयम-
तिरात्रमिच्छन्ति एवं सोमानन्तर्यं भवतिए के तन्नेच्छन्ति
अग्नीषोमीयोत्तरकालता हि तस्य प्रकृतौ दृष्टा इहापि तद्व-
देव तस्मात् प्रागेव हविर्यज्ञेभ्यः प्रायणीयः” कर्कः उभयतो
ऽतिरात्रपक्षे प्रायणीयमतिरात्रमेके आचार्याः” हविर्यज्ञे
भ्योऽग्निहोत्रदर्शपूर्णमासचातुर्मास्यपर्वभ्यः परं कुर्वन्ति
एवं हि सर्व्वेषां सोमयागानामानन्तर्यमव्यवधानं कृतं
भवति इतरथा हविर्वज्ञैर्व्यवधानं स्यात् एके एतन्न
वाञ्छन्ति यतः प्रकृतौ प्रायणीयस्याग्नीषोमीयोत्तरकालता
दृष्टा इहापि च तद्वदेवानुष्ठानं युक्तम् तस्माद्धविर्यज्ञेभ्यः
पूर्व एव प्रायणीयो भवति । अन्येभ्यः सत्रेभ्योऽत्र विशे-
षमाह” सं० व्या० । “अत्सरुकाः कुण्डप्रतिरूपाश्चमसाः” सू० ।
अत्सरुकाः अवृन्तका कुण्डप्रतिरूपाः वृत्ताकाराः कर्कः ।
“अत्र अत्सरुका अवृन्ता मूलज्ञापकचिह्नदण्डरहिताः
कुण्डप्रतिरूपाः कुण्डाकारा वृत्ताश्च भवन्ति” सं० व्या० । “पञ्च-
र्त्विजस्त्रीणि त्रीणि कर्माणि कुर्युः” सू० । “अत्र कुण्डपा-
यिनामयने वक्ष्यमाणाः पञ्चर्त्विजस्त्रीणित्रीणि कर्म्माणि
कुर्वन्ति त्रयाणांत्रयाणामृत्विजां कर्माणि एकैकः करोति”
स० व्या० “होताध्वर्यवपोत्रीये च” सू० । “चशब्दाद्धौत्रं च”
कर्कः । “उद्गाता नैष्ट्राच्छावाकीये” सू० । “मैत्रावरुणो ब्रह्मत्व-
प्रातिहर्त्रे” । “प्रस्तोता ब्राह्मणाच्छंसिग्रावस्तोत्रोये”
सू० । “सर्वत्र प्रथमान्तः कर्ता” सं० व्या० “प्रतिप्रस्थाताग्नी-
ध्रौन्नेत्रे” सू० । “चकारःस र्वत्रानुवर्त्तते” कर्कः । “मुख्या-
सनेभ्योऽनुसंसर्पमितराणि” सू० । “आसनशब्दः स्थान-
वाची मुख्यस्थानेभ्यः अनु सृप्त्वा--सृप्त्वा परकीयाणि
कर्माणि कुर्युः स्वकर्मकर्त्तृकस्य चरितार्थत्वात्” कर्कः ।

कुण्डपायिनामयनन्याय पु० जैमिन्युक्ते कुण्डपायिनामय-

ननामकसन्ने ऽग्निहोत्रपदस्य प्रकृताग्निहोत्रात् कर्म्मान्त
रत्वप्रतिपादके न्यायभेदे स च न्यायो जै० सू० दर्शितोयथा
“प्रकरणान्तरे प्रयीजनान्यत्वम्” जै० सू० । “कुण्डपायिना-
मयने श्रूयते--सायम् अग्निहोत्रं जुहोति, मासं दर्श-
पूर्णमासाभ्यां यजते” इत्येवमादि । तत्र सन्दिह्यते,--किं
नियते अग्निहोत्रे नियतयोश्च दर्शपूर्णमासयोर्मासो
विधीयते कालः? अथ किं नियताग्निहोत्रात् नियताभ्याञ्च
दर्शपूर्णमासाभ्यां कर्मान्तरविधानम्?--इति । किं तावत्
प्राप्तं?--नियतेषु कालविधिः इति कुतः? कालविधिस-
रूप एष शब्दोमासमिति । कथं कालविधिसरूपता? ।
यत् अग्निहोत्रंजुहोति--इति विदितं, मासमित्यविदितम् ।
एवं च अग्निहोत्रशब्दो दर्शपूर्णमासशब्दश्च न अर्थान्तर-
वृत्तीभविष्यतः तस्मात् कालविधिः । ननु कुण्डपायिनाम-
यनप्रकरणं बाध्येतैवम्’ । कामं बाध्यतां, वाक्यं हि
बलवत्तरम् । एवं प्राप्ते ब्रूमः,--प्रकरणान्तरे श्रूय-
माणं वाक्यं यस्य प्रकरणे तस्य वाचकं भवितुमर्हति ।
ननु प्रत्यक्षोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च
गुणविधिः । न,--इत्युच्यते । कथम्? । उपसद्भिश्चरित्वेति
ह्युक्त्वा इदमभिधीयते, न च, उपसदोऽग्निहोत्रस्य
दर्शपूर्णमासयोश्च सन्ति । तस्मात् अशक्यः तत्र मासविधिः
‘अथ उच्येत,--उपसदोऽपि विधीयन्ते’--इति । तथा
गुणबिधानार्थेऽस्मिन् वाक्ये अनेकगुणविधानात् वाक्यम्
भिद्येत! अस्मिन् पक्षे पुनरतन्त्रम् अग्निहोत्रशब्दो न
पृष्ठ २०९२
कर्म विशेक्ष्यति तेन वाक्यमेदो न भविष्यति । तस्मात्
कर्मालरम् इति सिद्धम्” भाव्यम् ।
तत्त्ववोधिन्यां विवृतमेतत् यथा
“उपसद्भिश्चरित्वा मासमग्निहीत्रं जुहोति दर्शपौर्ण्णमा-
साभ्यां मासं यजेतेति” श्रूयते । उपसदश्च ज्योतिष्टोमयागे
दीक्षादिवसादूर्द्ध्वं सोमाभिषवदिवसात् पूर्ब्बकर्त्तव्या
होमविशेषा इति माधवाचार्य्यप्रभृतियाज्ञिकमीमांसकाः
तत्परिपाटी च(डावका) इत्यस्मद्देशप्रसिद्धजलपात्रसदृशाका-
रकम्बुग्रीवादिवदनेकरेखाविशिष्टाग्रभागमहावीराख्यपा-
त्रबिशेषः तत्संस्थानं यथा तस्मिन् पात्रे यवागूस-
हितं दधि कृत्वा संदंशाकारकाष्ठद्वयेन तस्य ग्रीवां धृत्वा
दक्षिणावर्त्तेन परावृत्य एकवारं तत्र स्थितं प्रतप्तं
यवागूदधि जुहोति वामावर्त्तेनापरवारमिति वारद्वयहो-
मेनैकोपसषद्भवतीति याज्ञिकप्रसिद्धिः । उपसद्भिरि-
त्यभेदे तृतीयाश्वमेधेनेत्यादिवत् तथाच उपसद्यागा-
चरणं कृत्वेत्यर्थः एतेन “उपसत्कथ्यते त्वत्र सतिलैर्व्री-
हिभिश्चरुरिति मीमांसानभिज्ञस्य कल्पनं निरस्तं
मीमांसासन्निबन्ध्रा केनापि तथानभिधानात् । अत्र “याव-
ज्जीवमग्निहोत्र जुहोतीति” श्रुतिप्राप्ताग्निहोत्रमनूद्य
उपसदानन्तर्य्यं माससाध्यत्वञ्चेति गुणद्वयं विधीयते किं
वा विशिष्टकर्म्मान्तरमिति संशंये नायं कर्म्मान्तरविधि
र्गौरवात् किन्तु कॢप्ताग्निहोत्रे गुणद्वयविधिर्लाघवा-
त् नच प्रकरणान्तरपठितत्वेनाग्निहोत्रपदानुकॢप्तस्योप-
स्थितिरिति वाच्यम् अग्निहोत्रशब्दस्य तत्रैव शक्तेर्नाना-
र्थत्वाभावाच्च प्रकरणान्तरेऽशुम्पस्थितिसम्भवात् न च कथं
त्रष्टैवाग्निहोत्रपदशक्तिः कौण्डपायिनामयनेऽपि तच्छक्ति
सम्भवादि ते वाच्यं “यावज्जीवमग्निहोत्रं जुहोतीति”
श्रुत्युक्ताग्निहोत्रस्य “यदग्नये च प्रजापतये च सायं
प्रातर्जुहोतीति” श्रत्या देवताकाङ्क्षानिरासेनाग्निहोत्रपदस्य
यागनामपरत्वेन तत्र रूढ़त्यात् इह तु देवताकाङ्क्षानि-
रासार्थम् अग्नेर्हीत्रमिति व्युत्पत्तिकल्पनेनाग्निदेवता
कत्वरूपोपाधिहोत्रगुणयोगाद्गौणत्वस्वापि ज्ञापितत्वात्
नानाशक्तिकल्पने गौरवादिति प्राप्रे उच्यते प्राप्ते
कर्म्मणि गुणद्वयविधाने वाक्यभेदापत्तेः तथाहि किं
मास एव विधीयते उतौपसद्भिश्चरित्वेति उपसदपि, नाद्यः
नित्याग्निहोत्रे उपसदोऽसत्त्वेन तस्यापि विधातव्यत्वा-
दित्युभयगुणविधौ वाक्यभेदापत्तेः प्रधानानुवादेन गुण-
पकारकाङ्गतया एकगुणविधानेनाकाङ्क्षानिवृत्तौ
विधेयान्तरं प्रति आकाङ्क्षामुत्थाय्य वाक्यान्तरकल्पनेना-
ग्निहोत्रं मासं कुर्य्यान् अग्निहोत्रमुपसदनन्तरं कुर्य्या-
दिति विधिद्वये पर्य्यवसानात् अपूर्ब्बद्वयं विधेयं स्यात् तत्र
प्रत्येकगुणानुष्ठाने प्रत्येकमपूर्ब्बमित्यपूर्ब्बद्वयं मिलितानुष्ठा-
ने च प्रत्येकजन्यापूर्व्वद्वयम् उभाभ्यां विलक्षणमपूर्व्वं
वा जन्यत इति गौरवं विशिष्टैककर्म्मविधाने गुणानां
प्रधानस्वरूपनिर्ब्बाहकाङ्गतया साङ्गप्रधानजन्यमेकमेवा-
पूर्ब्बंविधेयं स्वादित्यपूर्बैक्यादेकविधिः । अतएवोक्तं
“प्राप्तेकर्म्मणि नानेकोविधातुं शक्यते गुणः । अप्रा-
प्ते तु विधीयन्ते बहवोऽप्येकयत्नतः” । विध्यन्तरप्राप्ते
प्रधाने अनेकगुणोविधातुं न शक्यते वाक्यभेदापत्ते-
रिति शेषः अप्राप्ते तु प्रधाने बहवोऽपि गुणा
एकयत्नत एकवाक्यात् विधीयन्ते नानागुणविशिष्टैकप्रधा-
नविधिसम्भवेनापूर्बैक्यादित्यर्थः । नचैकगुणविविष्टापर-
गुणोविधेयः यथाग्निहोत्रमुपसदनन्तरंमासंकुर्य्यादिति
न वाक्यभेद इति वाच्यम् गुणानां परस्परं विशेषण-
विशिष्यभावेनान्वयवोधे निराकाङ्क्षत्वात् तथाच जैमिनि-
सूत्रं “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्” । गुणा-
नां विशेषणानां अङ्गानाञ्च परस्परमसम्भन्धः विशेष्यवि-
शेषणभावेन नान्वयः परार्थत्वात् द्वयोरपि विशेष्यान्वयि-
त्वात् तथासत्येव कथं नान्वयस्तत्राह समत्वात् द्वयोरे-
व परसाकाङ्क्षतया तुल्यरूपत्वात् न परस्परं गुणप्रधा-
नभावः । यत्तु परस्परवैशिष्ट्येन गुणद्वयैकविधित्वे
विनिगमकाभावादुभयोरपि विशेष्यत्वेन विशेषणत्वेन च
विधेयत्वेन वाक्यभेदे इति, तन्न विनिगमकाभावेन वाक्य-
स्य द्वैविध्येऽपि नापूर्ब्बभेदकल्पना किन्तु कारणतावच्छे-
दकभेदेन कारणभेदमात्रम् अन्यथा ईदृशवाक्यभेदस्य
विशिष्टैकप्रधानविधिपक्षेऽपि सम्भवात् । किमुपसदानन्त-
र्य्यविशिष्टे माससाध्यत्ववैशिष्ट्यं माससाध्यत्वविशिष्टे वा
उपसदानन्तर्यवैशिष्ट्यमिति विनिगमकाभावात् । नचैकत्र
द्वयमिति न्यायेन विशेष्ये युगप द्विशेषणद्वयमिति वाच्यं वेदे
विशिष्टवैशिष्ट्यबोधस्यौत्सर्गिकत्वात् । किञ्च विशेष्यविशेषण
भावस्य द्वैविध्येऽपि बिशिष्टस्यानतिरिक्ततया कारणैक्यात्
कार्य्यैक्याच्च न कार्य्यकारणभावमैदोऽपि एकाङ्गापूर्वं
प्रत्येव परस्परसापेक्षतया उभयोर्हेतुत्वादिति वाक्यार्थैक्या-
न्नोक्तिभेदरूपवाक्यभेदोदोषाय कारणतावच्छेदकगौर-
पृष्ठ २०९३
तथाचैतादृशलाघववृंहितकौण्डपायिनामयनप्रकरणपाठ
एव कर्म्मा तरत्वे प्रमाणं तथाच सिद्धान्तसूत्रम् “प्रकर-
णान्यत्वे प्रयोजनान्यत्वमिति” अतएव प्रकरणाद्वाक्यस्य
बलीयस्त्वात् शक्त्या नित्याग्निहोत्रस्योपस्थित्या गुणवि-
धिरित्यपि निरस्तं तस्योक्तगौरवपराहतत्वात् । एवञ्च
गौण्याग्निहोत्रपदप्रयोगस्तद्धर्म्मातिदेशार्थः अतएव
“देवश्राद्धादौ श्राद्धशब्दोगौणस्तद्धर्म्मप्राप्त्यर्थः कौण्ड-
पायिनामयन इवाग्निहोत्रशब्द इति” श्राद्धविवेकः ।

कुण्डपाय्य पु० कुण्डेन कुण्डाकारेण चमसेन पीयते

सोमोऽत्र आधारे यत्--पा० युगागमश्च । कुण्डपायिनामय-
मयननामके सत्रभेदे “यस्ते शृङ्गवृषो नपात् प्रणपात्
कुण्डपाय्यः” ऋ० ८, १७, १३

कुण्डभेदिन् पु० धृतराष्ट्रपुत्रभेदे, “अनाधृष्यः कुण्डभेदी

विरावी दीर्घलोचनः” भा० आ० ६७ अ०

कुण्डल पुंन० अर्द्धर्चा० । कुण्डते कुण्डयते कुडि--दाहे कुडि-

रक्षायां वा कर्त्तरि कर्म्मणि वा वृषा० कलच्, कुण्डं
कुण्डाकारं लाति ला--क कुण्डस्तदाकारोऽस्त्यस्य
सिध्मादित्वाल्लच् वा । १ कर्ण्णभूषणभेदे “कनककुण्डलवान्
किरिटी” विष्णुध्या० २ बलये ३ वेष्टने मेदि० “मण्ड-
लानि पताकाश्च मरीचीः कुण्डलानि च” सुश्रु० “अथै-
तान्युपकल्पयीत समावर्त्त्यमाने मणिकुण्डले वस्त्रयुग-
मित्यादि” आश्व० गृ० कुण्डले आबध्नीत” तत्रैव” ते
च सौवर्ण्णे एव यथाह मनुः “यज्ञोपवीतं वेदञ्च उभे
रौक्मे च कुण्डले” “ताडकाचलकपालकुण्डला” रघुः

कुण्डलना स्त्री कुण्डलं वेष्टनं करोति कुण्डल + णिच्--भा-

वे युच् । वेष्टनकरणे (वेडा देओया) “फणिभाषितभाष्य-
फक्किका विषमां कुण्डलमामवापिता” नैष० ।

कुण्डलिका स्त्री मात्रावृत्तभेदे तल्लक्षणं यथा “कुण्डलिका

सा कथ्यते प्रथमं दोहा यत्र । वोलाचरणचतुष्टयं प्रभ-
वति विमलं तत्र । प्रभवति विमल तत्र पदमतिसुललित-
यमकम् । अष्टपदी सा भवति विमलकविकौशलगमकम् ।
अष्टपदी सा भवति सुखितपलितमण्डलिका कुण्डलि-
नायकभणिता विबुधकर्णे कुण्डलिकेति”

कुण्डलिन् पुंस्त्री कुण्डलं पाशाकारं वेष्टनं वा स्त्यस्य इनि ।

१ सर्पे स्त्रियां ङीप् २ वरुणे तस्य पाशास्त्रवत्त्वात्
तथात्वम् । ३ मयूरे पुंस्त्री मेदि० ४ चित्रमृगे ५ वेष्टनयुक्ते
त्रि० स्त्रियां ङीष् । सा च (जिलेपी) इतिख्याते पक्वान्न-
भेदे भावप्र० तत्पाकप्रकारो दर्शितो यथा
“नूतनं घटमानीयं तस्यान्तः कुशलोजनः । प्रस्थार्द्ध्वपरि
माणेन दध्नाऽम्लेन प्रलेपयेत् । द्विप्रस्थां समितां तत्र दध्यम्लं
प्रस्थसम्मितम् । वृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपे-
त् । आतपे स्थापयेत्तावद्यावद्याति तदम्लताम् ।
ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजने तु तत् । परिभ्राम्य
परिभ्राम्प तत् सन्तप्ते घृते क्षिपेत् । पुनः पुनस्तदावृत्त्या
विदध्यान्मण्डलाकृतिम् । तां सुपक्वां घृतान्नीत्वा सितापाके
तनुद्रये । कर्पूरादितुगन्धेन स्नपयित्वोद्धरेत्ततः । एषा
कुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा । धातुवृद्धिकरी
वृष्या रुच्या च क्षिप्रतर्पणी” ।
तन्त्रसारप्रसिद्धे मूलाधारस्थिते षट्चक्रमध्यवर्त्तिस्थे
देवीभेदे यथा “ध्यायेत् कुण्डलिनीं सूक्ष्मां मूलाधार
निवासिनीम् । तामिष्टदेवतारूपां सार्द्धत्रिबलयान्विताम् ।
कोटिसौदामनीभासां स्वयम्भूलिङ्गवेष्टिनीम् । तामु-
त्थाप्य महादेवीं प्राणमन्त्रेण साधकः । उद्यद्दिनकरो-
द्द्योतां यावच्छ्वासं दृढ़ासनः । अशेषाशुभशान्त्यर्थं
समाहितमनाश्चिरम् । तत्प्रभापटलव्याप्तं शरीरमपि
चिन्तयेत्” इति

कुण्डशायिन् पु० धृतराष्ट्रनृपपुत्रभेदे “अपराजितः कुण्ड

शायी विशालाक्षो दृढाधरः” भा० आ० १७ अ०

कुण्डाशिन् पु० धृतराष्ट्रनृपपुत्रभेदे । “कुण्डाशी विरजाश्चैव

दुःशला च शताधिका” भा० आ० ११७ अ० । “अमृ-
ते जारजः कुण्डोमृते भर्त्तरि गोलकः । यस्तयो
रन्नमश्नाति स कुण्डाशीति कय्यते” देवलोक्ते २ कुण्डगोल
कयोरन्नभक्षके त्रि० स्त्रियां ङीप् “अगारदाही गरदः
कुण्डाशी सोमविक्रयी” मनुः “अव्रती वृपलीभर्ता
कुण्डाशी सोमविक्रयी” भा० आनु० १४३ अ०

कुण्डिक पु० कौरवे राजभेदे । “धृतराष्ट्रोऽथ राजासीत्

तस्य पुत्रोऽथ कुण्डिकः । हस्तीवितर्कः कुण्डाक्षः कुण्डि-
नश्चापि पञ्चमः” भा० आ० ९४” अयञ्च धृतराष्ट्रः
दुर्योबनपितुर्भिन्नः कुरुवंश्यः तत्रैव विस्तरः ।

कुण्डिका स्त्री कुडि--ण्वुल् । १ कमण्डलौ हेमच० ।

२ पिठरे (कुँडि) शब्दच० ।

कुण्डिन् त्रि० कुडि--णिनि--कुण्ड + अस्त्यर्थे इनिर्वा ।

१ कुण्डयुक्ते स्त्रियां ङीप् “रावणस्तु यतिर्भूत्वा मुण्डः-
कुण्डी त्रिदण्डधृक्” भा० व० २७७ अ० “दण्डी छत्री
च कुण्डी च द्विजानां घारणस्तथा” भा० व० १४ अ० इत्यु-
क्ते २ शिवे पु० “रत्नभाण्डभेदे स्त्री “सन्ति निष्कसह-
पृष्ठ २०९४
स्राणि कुण्डिन्यो भरिताः शुभाः” भा० स० ५९ अ०” कुण्डि-
न्यः पात्रभेदाः “भाण्डिन्य इति वा पाठः” नीलक० ।
कुण्डिन इति पाठस्तु प्रामादिकः

कुण्डिन पु० कुरुवंस्ये नृपभेदे । १ कुण्डिकशब्दे उदा० २

भोजदेशस्थे पुरभेदे न० “कुण्डिने पुण्डरीकाक्ष! भोजपुत्रस्य
शासनात्” हरिवं० १०४ अ० तच्च दक्षिणदेशस्थम् ।
“राजर्षेर्यादवस्यासीद्विदर्भो नाम वै सुतः । विन्ध्यस्य
दक्षिणे पार्श्वे विदर्भां यो न्यवेशयत् । क्रथकौशिकमु-
ख्याश्च पुत्त्रास्तस्य महात्मनः । बभूवुर्वीर्य्यसम्पन्नाः
पृथग्वंशकरा नृपाः । तस्यान्ववाये भीमस्य जज्ञिरे
वृष्णयो नृष! । क्रथस्य त्वंशुमान् वंशे कैशिकस्य तु
भीष्मकः । हिरण्यरोमेत्याहुर्यं दाक्षिणात्येश्वरं जनाः ।
अगस्त्यगुप्तामाशां यः कुण्डिनस्थोऽन्वशान्नृपः” ।
“विलासिनः कुण्डिनमण्डनायितम्” नैष० । “तस्माद
पावर्तत कुण्डिनेश्वरः” रघुः ३ ऋषिभेदे पु० । तस्य गोत्रा-
पत्यम् गर्गा० यञ् । कौण्डिन्य तद्गोत्रापत्ये पुंस्त्री
“ब्राह्मणेभ्यो दधि दीयतां कौण्डिन्याय तक्रम् । बहुषु
तस्य लुक् । कुण्डिनास्तद्गोत्रापत्येषु भूम्नि । “कुण्डि-
नानां वासिष्ठमैत्रावरुणकौण्डिन्येति” आश्व० श्रौ० १२,
१५, २,

कुण्डीर पुं कुड़ि--ईरन् । १ मनुष्ये २ वलवति त्रि० धरणी ।

कुण्डृणाची स्त्री कुटिलगतौ । “पताति कुण्डृणाच्या”

ऋ० १ । २९ । ६० “कुण्डृणाच्या--वक्रया गत्या” भा० ।

कुण्डोद पु० भारतप्रसिद्धे पर्ब्बतभेदे “कुण्डोदःपर्ब्बतोरम्यो

बहुमूलफलोदकः नैषधस्तृषितोयत्र जलं शर्म्म च लब्ध-
वान्” भा० व० ८७ अ० ।

कुण्डोदर पु० कुण्ड इव उदरमस्य । १ नागभेदे । कर्करा-

कर्करौ नागौ कुण्डोदरमहोदरौ” भा० आ० ३५ अ० ।
२ अप्रशस्तोदरयुक्ते त्रि० । ततःक्षेपे “उदराश्वेषु” पा०
परेषु पूर्व्वमन्तोदात्तम् ।

कुत आस्तरणे सौ० प० सक० सेट् । कोतति अकोतीत् । चुकोत ।

कुतनु पुं कुत्सिता तनुरस्य । १ कुवेरे त्रिका० कुवेरशब्दे

विवृतिः २ कुत्सितदेहान्विते त्रि० । कुगतिस० । ३ कुत्सि-
तदेहे स्त्री ।

कुतन्त्री स्त्री कुगतिस० । कुत्सितायां वीणायाम् । सेव ।

३क्षुद्रदण्डे स्त्री । “स ददर्श श्वमांसस्य कुतन्त्रीं विततां
मुनिः” (विश्वामित्रः) भा० शा० १४ अ० “कुतन्त्रीं दण्डिकाम्”
नीलकण्ठः ।

कुतप पु० कुत्सितं पापं तपति कुं भूमिं तपति--तप--अच्

कुतकपन् वा । १ सूर्य्ये २ वह्नौ ३ अतिथौ ४ गवि ५ भागिनेये
६ द्विजातौ च ७ दौहित्रे ८ वाद्यभेदे ९ नेपालकम्बले १०
कुशतृणे च न० मेदि० । पञ्चदशधा विभक्तदिनस्याष्टमे ११ भागे
अमरः अर्द्धर्चादि “मध्याह्नः खड्गपात्रञ्च तथा नेपाल-
कम्बलम् । रौप्य दर्भास्त्रिलाः शाकं दौहित्रश्चाष्टमः
स्मृतः” इति स्मृत्युक्तेषु अष्टसु पदार्थेषु । “कुत्सितं
पापमित्याहुस्त्रस्य सन्तापकारिणः । अष्टावेतेयस्तस्मात् कुतपा
इति विश्रुताः” इति स्मृत्युक्तेस्तेषां तथात्वम् । अह्नो-
मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा । तत्राष्टमो
मुहूर्त्तोशः स कालः कुतपःस्मृतः” स्मृतिः । स च
एकोद्द्विष्टश्राद्धारम्भकालः “कुतपप्रथमे भागे
एकोदिष्टमुपक्रमेत् । आवर्त्तनसमीपे वा तत्रैव नियतात्म-
वान्” कालमा० व्यासोक्तेः । “आवर्त्तनं पश्चिमदिगव-
स्थितच्छायायाः पूर्व्वपदिग्गतिकालः कुतपशेषपदण्ड
इत्यर्थः” रघु० । “आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं
बुधः । विधिज्ञो विधिमास्थाय रीहिणं तु न लङ्घ-
येत्” गौतमः । “दिवसस्याष्टमे भागे सन्दीभवति
भास्करः । स कालः कुतपोज्ञेयः पितॄणां दत्तमक्षयम्”
मत्० पु० “त्रीणि श्राद्धे प्रशस्यन्ते दौहित्रः कुतपस्तिलाः”
मनूक्तौ दौहित्रतिलानां पृथङ्मिर्द्देशातुक्तकाल-
परता । तथाच तत्रैव मुख्यत्वम् दौहित्रादौ परिभाषि-
कत्वमिति विवेकः । ज्योत्स्नादि० चतुरर्थ्याम् अण् ।
कौतप तन्निर्वृत्तादौ त्रि० ।

कुतस् अव्य० कस्मात् किम् + तसिल् किमः कुः । १ कस्मादि

तिहेतुविषये १ प्रश्ने २ निह्नवे च विश्वः । ३ आक्षेपविषये हेतौ
“मदमूढ़वृद्धिषु विवेकिता कुतः?” माघः “कुतस्त्वा कश्म-
लमिदं विषमे समुपस्थितम्” गीता । “कुतस्तु खलु
भोम्यैवं स्यात् कथमसतः सज्जायेत” श्रुतिः । ततः आक्षे
पतिशयार्थे तरप् तमप् वा आमु० च० कुतस्तराम् कुतस्त-
माम् आक्षेपविषयहेत्वतिशये अव्य० ततोभवार्थे त्यप् ।
कुतस्त्य कुतोभवे त्रि० । “कुतस्त्यं भीरु! यत्तेभ्यो द्रुह्य-
द्भ्योऽपि क्षमामहे” भट्टिः ।

कुतुक न० कुत बा० उकङ् । १ कौतूहले फलनिरपेक्षतया

कर्त्तुमौत्सुक्ये अमरः । “क्रमविगलितपुच्छैरभिमत-
मास्तां बधेन किं शिखिनः । कुतुकिनि! पुनर्न लाभो
विषधरविषमं वनं भविता” उद्भटः । ततो युवा० स्वार्थे
अण् । कौतुक कौतूहले न० ।
पृष्ठ २०९५

कुतुप पुं न० कुतस + पृषो० । १ पञ्चदशधा विभक्तदिवसस्याष्टमां-

शे शब्दरत्ना० । हृस्वा कुतूः डुपच् । (छोटकुपा) चर्म्म
मये ह्रस्वे २ स्नेहपात्रे पु० अमरः ।

कुतुम्बुरु न० कुगतिस० । कुत्सिततिन्दुकीफले शब्दचि०

कुतू स्त्री कुत--बा० कू । चर्म्ममय स्नेहपात्रे (कुपो) अमरः

कुतू(कू)णक पु० “कुतू(कू)णकः क्षीरदोषाच्छिशूनामेव

वर्त्मनि । जायते तेन तन्नेत्रं कण्डूरं च स्रवेन्महुः ।
शिशुः कुर्य्याल्ललाक्षिकूटनासावघर्षणम् । शक्तो नार्कप्रभां
द्रष्टुं न वर्त्मोन्मीलनक्षमः” इति माधवनिदानोक्ते
बालानां नेत्रवर्त्मरोगभेदे (कुतुया)

कुतूहल न० कुतूं चर्म्ममयं स्नेहपात्रमिव हृदयं हलति

हल--अच् । अपूर्ब्बवस्तुदिदृक्षातिशयजन्ये चेष्टाभेदे
फलनिरपेक्षतया चिकीर्षिते १ कौतुके अमरः “प्रिया-
वियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना
मनागभूत्” नैष० । “कुतूहलाच्चारुशिलोपवेशम्” भट्टिः ।
“अथस्ति मे शकुन्तलादर्शनं प्रति कुतूहलम्” शकु० २
प्रशस्ते ३ अद्भुते च त्रि० हेमच० । “रम्यवस्तुसमालोके
लोलता स्यात् कुतूहलम्” सा० ट० उक्ते ४ नायकयोर्भावभेदे
न० । तारका० इतच् । कुतूहलित जातकौतुके त्रि० ।
स्वार्थे युवा० अण् । कौतूहल कौतुके न० अमरः ।

कुतृण न० । कुगतिस० । (पाना) कुम्भ्याम् शब्दर० ।

कुतोनिमित्त त्रि० कुतः किं निमित्तं यस्य किम् + प्रथमार्थे

तसिल् ब० व० । किन्निमित्ते किंहेतुके । “कुतोनिमित्तः
शोकस्ते” रामा० ।

कुत्र अव्य० किम् + सप्तम्याः त्रल्--किमः कुः । कस्मिन्नित्यर्थे प्रश्नविषये

आक्षेपविषये च अधिकरणे “हा सीता केन नीता मम
हृदयगता केन वा कुत्र दृष्टो” महानाट० “कुत्राशिषः
श्रुतिसुखा मृगतृष्णिरूपाः” भाग० ७ । ९ । २५ । ततो
भवार्थेत्यप् । कुत्रत्य कस्मिन्भवे त्रि० “कस्यापि कुत्रत्य इहापि
कस्मात्” भाग० ५ । १० । २० ।

कुत्रचित् अव्य० कुत्र + चित् मुग्ध० । क्वचिदित्यर्थे असाक-

ल्येन कस्मित् देशे काले वेत्यर्थे । “असुरेभ्योभयं नास्ति
युष्माकं कुत्रचित् क्वचित्” भा० व० १४२ अ० । कुत्रचित् देशे
क्वचित् काले इत्यर्थः । पा० अमरमते पदद्वयमिति भेदः ।
“विशिष्टं कुत्रचिद्वीजं स्त्रीयोनिस्त्वेव तु कुत्रचित्”
मनुः । चन । कुत्रचन तत्रार्थे अव्य० ।

कुत्स निन्दने चुरा० आत्म० सक० सेट् । कुत्सयते अचुकुत्सत

कुत्सयाम् बभूव आस चक्रे । कतसयमानः कुत्सयित्वा
सं कुत्स्य । कुत्स्यः कुत्सितः कुत्सनं कुत्सा कुत्सः ।
कुत्सना । कर्म्मणि कुत्स्यते अकुत्सि अकुत्सिषाताम्-
अकुत्सयिषाताम् “वहत्कुत्समार्ज्जनेन शतक्रतुः” ऋ०
१ । ६३ । ३ । कुत्सायशुष्ममशूषम्” ऋ० ४ । १६ । ४२ “कुत्सि-
तानि कुत्सनैः” पा० । कुत्सकः । “परिवित्तिः परीवेत्ता
ब्रह्मघ्नोयश्च कुत्सकः” भा० शा० ३४० अ० । “यदाऽश्रौषं कर्ण्ण
मासाद्य मुक्तं नावघीत्भीमं कुत्सयित्वा वचोभिः” भा०
आ० अ० “नास्तिक्यम् वेदनिन्दाञ्च देवतानाञ्च
कुसनम्” मनुः । “नैतच्छतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव
कुत्सयन्” भा० आ० ५२८६ श्लो० । अत्र परस्मैपदमार्षम्

कुत्स पु० कुत्सयते संसारं कुत्स--अच् । १ ऋषिभेदे तस्या-

पत्यम् ऋष्यण् । कौत्स तदपत्ये पुंस्त्री “कौत्सः प्रपेदे
वरतन्तुशिष्यः” रघुः । वहुषु तस्य “अत्रिभृगु कुत्मेति”
पा० लुक् । कुत्साः तदपत्येषु । कृ--बा० स पृषो० ।
२ कुर्वति त्रि० । “कुत्साएते हर्य्यश्वाय” ऋ० ७ । २५ । ५ ।
“कुत्साः कुर्ब्बाणाः । करोतेः कुत्सशब्दनिष्पत्तिः”
भा० । ततः पक्षा० चतुरर्थ्यां फक् । कौत्सायन तन्नि-
र्वृत्तादौ त्रि० ।

कुत्सकुशिकिका स्त्री कुत्सानां कुशिकानां च मैथुनम्

“द्वन्द्वाद्वुन्वैरमैथुनयोः” पा० मैथुने वुन् । कुत्सगो-
त्राणां कुशिकगोत्राणाञ्च स्त्रीपुंसां मैथुने ।

कुत्सन न० कुत्स--भावे ल्युट् । १ निन्दने “देवतानाञ्च कुत्-

सनम्” मनुः । कुत्स्यते ऽनेन करणे ल्युट् । २ निन्दासाध-
नधर्म्मे उपचारात् ३ तद्युक्ते त्रि० । “कुत्सितानि कुत्स-
नैः” पा० । वैयाकरणखसूचिः । प्रश्नविस्मरणार्थखसूचि-
त्वेन धर्म्मेण वैयाकरणस्य निन्दनात्तादृशधर्म्मस्य
कुत्सनत्वम् तद्वत्त्वाच्च खसूचकस्य तथात्वम् ।

कुत्सला स्त्री कुत्स--कर्म्मणि बा० कलच् कुत्सं निन्दां

लाति ला--क वा । नीलीवृक्षे शब्दच० । तस्य क्रय-
विक्रययोः निन्दितत्वात् तथात्वम् नीलीशब्दे विवृतिः ।

कुत्सा स्त्री कुत्स--भावे अ । निन्दायाम् अमरः ।

“गुरुकुत्सामतिश्च या” भा० अनु० ६५८९ श्लोकः ।

कुत्सित न० कुत्स--कर्म्मणि क्त । १ कुष्ठनामौषधौ (कुड़)

राजनि० २ निन्दिते त्रि० “कुत्सितानि कुत्सनैः” पा० ।
भावे क्त ३ निन्दायाम् न०

कुथ क्लेशे (क्ॐथपाड़ा)इदित् भ्वोदि० अक० सेट् । कुन्यति अकुन्थीत् चुकुन्थ कुन्थ्यात्

कुथ पूतिगन्धे दिवा० पर० अक० प० सेट् । कुथ्यति अकोथीत् ।

प्रनिकुथ्यति णिचि कोथयति (प्ॐथा) निखनने । तस्य
पूतिभावसाधनत्वात्तथात्वम् । “अप्रकाशे देशे कोथयेत्”
सुश्रुतः ।
पृष्ठ २०९६

कुथ पुंस्त्री० कुथ--पूतीभावे क कुन्थ--निष्कर्षे--क नलोपोवा ।

“कुथा १ कन्था समाख्याता कुथः स्यात् २ करिकम्बलम् ।
कुथः ३ कुगः कुथः ४ कीटः ५ प्रातःस्नायी द्विजः कुथः, इत्युक्ते
ष्वर्थभेदेषु लिङ्गभेदस्तु रूपभेदादुन्नेवः । “कुथेन नागेन्द्र-
मिवेन्द्रवाहनम्” । “आक्षिप्तकेतुकुथसैन्यगजच्छलेन” माघः ।
“शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्” भा० स०
५१ अ० । हस्तिकम्बले पुंस्त्री अमरः । “महत्या
कुथयास्तीर्ण्णां पृथिवीलक्षणाङ्कया” रामा० । “तत्र कुशे
“शाद्वलेषु यदाशिश्ये वनान्ते वनगोचरा । कुथास्तरण-
तल्पेषु किं स्यात् सुखतरं ततः” रामा० ।

कुथुम पु० सामवेदशाखाभेदे । तं वेत्ति इनि । कुथुमिन् अण्

वा । कौथुम तच्छाखाष्यायिनि । सामवेदशब्दे विवृतिः ।
कुथुमिना प्रोक्तमधीयते अण् नान्तस्य टिलोपे सब्रह्म-
चारिपीठसर्पिसमापिकुथुमीत्यादि” वा० टिलोपः । कौथुम
तत्प्रोक्ताध्यायिषु भूम्नि त्रि० ।

कुथोदरी स्त्री कुम्भकर्ण्णपौत्र्यां निकुम्भदुहितरि । सा च

कल्किना हता यथाह कल्किपु० १६ अ०
“मुनय ऊचुः । शृणु विष्णुयशःपुत्र! कुम्भकर्णात्म-
जात्मजा । कुथोदरीति विख्याता गगनार्द्धसमुत्थिता ॥
कीलकञ्जस्य महिषी निकञ्जजननी च सा । हिमाल-
ये शिरः कृत्वा पादौ च निषधाचले ॥ शेते स्तनं
पाययन्ती निकञ्जं प्रस्नुतस्तनी । तस्या निश्वासवातेन विवशा
वयमागताः ॥ दैवेनैव समानीताः प्राप्तास्तव
पदाम्बुजम् । मुनयो रक्षणीयास्ते रक्षःसु च विपत्सु
च ॥ इति तेषां वचः श्रुत्वा कल्किः परपुरञ्जयः ।
मेनागणैः परिवृतो जगाम हिमवद्गिरिम्” ।
इत्युपक्रम्य तया सह युद्धे ससैन्यकल्केस्तदुदरवेशमुप-
वर्ण्य्य “कल्किः कमलपत्राक्षः सुरारातिनिसूदनः ।
वाणाग्निचेलचर्म्मभ्यां कम्बलैर्यानदारुभिः । प्रज्वाल्योदर-
मध्येन करवालं समाददे ॥ तेन खड्गेन महता
कुक्षिं निर्भिद्य बन्धुभिः । बलिभिर्भ्राष्टभिर्व्वाहैर्वॄतः
शस्त्रास्त्रपाणिभिः । वहिर्व्वभूव सर्व्वेशः कलिकः
कल्कविनाशनः । सहस्राक्षो यथा वृत्तकुक्षिं दम्भोलि-
नेमिना ॥ योनिरन्ध्राद्गजरथास्तुरगाश्चाभवत् बहिः ।
नासिकाकर्णविवरात् केऽपि तस्या विनिर्गताः । ते निर्गता
स्ततस्तस्याः सैनिका रुधिरोक्षिताः । तां विव्यधुर्निः-
क्षिपन्तीं तरसा चरणौ करौ ॥ ममार सा भिन्नदेहा
भिन्नकुक्षिशिरोधरा” ।

कुद मिथ्योक्तौ चु० सक० उभ० सेट् । कोदयति ते । अचूकुदत् । धातुपाठः ।

कुदाल पु० कुंभूमिं दलति दल--भेदने अण् उप० स० ।

कुद्दाले (कोदाल) रमानाथः ।

कुदिन न० कोः पृथिव्याः भ्रमणेन दिनम् । १ सावनदिने ।

तदुक्तं सू० सि० । “ओदयादोदयं भानोः सावनं तत्
प्रकीर्त्तितम् । सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः”
“सूर्य्यस्योदयादुदयकालमारभ्याव्यवहितोदयकालपर्यन्तं यत्
कालात्मकं तत् सावनं मानज्ञैरुक्तम् । एतेनोदयद्बया-
न्तरात्मककालस्य गणनया सावनानि वसुद्व्यष्टाद्रीत्या-
दिना मध्यमाधिकारोक्तानि भवन्ति । तद्व्यवहारमाह ।
यज्ञकालविधिरिति यज्ञस्य यः कालस्तस्य गणना तैः
सावनैः । तुकारोऽन्यमाननिरासार्थकैवकारपरः” रङ्गना० ।
निरुपपदसावनदिनस्य सूर्य्यसंवन्धिसावनदिनपरत्वं युगे
तत्संख्या च तत्रैव दर्शिता यथा
“ओदयादोदयं भानोर्भूमिसावनवासराः” ॥
“ननु भोदया भगणैरित्यादिना पूर्बं सर्वेषां सावनदि-
वसा उक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्य्यसावनस्व-
रूपकथनच्छलेनोत्तरमाह । ओदयादिति । सूर्य्यस्योदय-
कालमारभ्याव्यवहिततदुदयकालपर्यन्तं यः कालः स
एको दिवसः । इति ये दिवसास्ते भूमिसावनवासराः ।
भूदिवसा उदयस्य भूसम्बन्धेनावगमात् सावनदिवसा-
श्चेत्यर्थः । तथा च निरुपपदसावनभूमिशब्दाभ्यां
सूर्य्यस्य वासरा एव नान्येषां सोपपदत्वाभावादिति
भावः” रङ्गना० । ते कियन्त इत्यतस्तत्प्रमाणमाह
“वसुद्व्यष्टाद्रिरूपाङ्क सप्ताद्रितिथयोयुगे” सू० सि० ।
“अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिता १५७७९१७८२८
युगे सूर्य्यसावनदिवसाः” रङ्गना० । सि० शि० अन्यथोक्तं यथा
“भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः
१५७७९१९४५०००० । भभ्रमास्तु भगणैर्विवर्जिता यस्य
तस्य कुदिनानि तानि वा” सि० शि० ।
“एषामुपपत्तिः प्रागेवोक्ता । एकस्मिन् रविवर्षे यावन्तो
भभ्रमाः स्युस्तावन्त एवैकोना रविसावनदिवसा भवन्ति ।
यतो रविः प्राग्गत्या एकं पर्यायं गतः । अतो भगणसं
ख्ययोना भभ्रमाः क्वहा भवन्ति । एवमन्येषामपि
ग्रहाणां कुदिनानि स्युरित्युपपन्नम्” प्रमि० ।
“इनोदयद्वयान्तरं तदर्कसावनं दिनम् । तदेव मेदिनी-
पृष्ठ २०९७
दिनं भवासरस्तु भभ्रमः” इति सिद्धान्तशिरोमणिः ।
“इनोदयद्वयान्तरमिति । अर्कोदययोरन्तरं यत् तदर्कसा-
वनं दिनम् । तदेव कुटिनसंज्ञं ज्ञेयम् । अतोऽपि
पूर्ववन्मासवर्षादिकल्पना । अत्रार्कग्रहणमुपलक्षण तेना-
न्येषामपि ग्रहाणां तदुदयद्वयान्तरं तत्सावनमिति” प्रमि० ।
तद्दिवसस्य कार्य्यविशेषे आदर्त्तव्यतामाह सू०
सि०“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमा
ग्रहभुक्तिस्तु सावनेनैव गृह्यते” ।
“सूतकं जन्ममरणसम्बन्धि । आदिपदग्राह्यं चिकित्सि-
तचान्द्रायणादि तस्य परिच्छेदो निर्णयः । दिना-
घिपमासेश्वरवर्षेश्वराः । तथा--समुच्चये । ग्रहाणां
गतिर्मध्यमा । तुकारात् स्फुटगतेर्निरासः तस्याः प्रति-
क्षणं वैलक्षण्याद्दिनसम्बन्धस्याभावात् । एतेन स्पष्टगत्या
स्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति सूचितम् ।
सावनमानेन । एवकारादन्यमाननिरासः” प्रमि० ।
“प्रायश्चित्तं सूतकाद्यं चिकित्सा यज्ञाद्येवं कर्म
वारादिकं च । शास्त्रे त्वस्मिन् खेचराणां च चारा
विज्ञातव्याः सावनात् भास्करीयात्” श्रीपतिः ॥
कुवासरभूमिदिनादयोऽप्यत्र । २ ज्योतिषनिषिद्धे दिने च

कुदृष्टि स्त्री कुत्सिता दृष्टिः ज्ञानम् । वेदबाह्यतार्किक कल्पना-

याम् । “या वेदवाह्याः स्मृतयो याश्च काश्च कुदृष्टयः” मनुः ।

कुदेह पु० कुत्सितोदेहोऽस्य । १ कवेरे २ कुत्सितदेहयुक्ते

त्रि० । कुगतिस० ३ कुत्सिते देहे पु० । कुदेहमानाहिवि-
दष्टदृष्टेः” भाग०५ । १२ । ३ ।

कुद्दार पु० कुंपृथ्वीं दारयति दृ--विदारे अण् पृषो० । १ कुद्दा-

लेभूमिविदारणाज्जाते २ कोविदारवृक्षे अमरटीका ।

कुद्दाल पु० कुं भूभिं दलति दल--अण् उप० स० पृषो० ।

चोविदारे वृक्षे अमरटी० २ भूभिदारणास्त्रे (कोदाल) मेदि० ।
“समासाद्य बिलं तच्चाप्यखनन् सागरात्मजाः । कुद्दालै
र्ह्रेषुकैश्चैव समुद्रं यत्नमास्थिताः” भा० व० १०७ अ० ।
“कुद्दालं दात्रपिटकं प्रकीर्ण्णं कांस्यभाजनम्” भा० शा०
२२८ अ० । हस्त्यादि० बहुव्रीहौ एतत्पूर्व्वस्य पादस्य
नान्त्यलोवः कुद्दालपादः । स्वार्थे क । कुद्दालक तत्रार्थे ।

कुद्मल न० कुद्मल + पृषो० । विकाशोन्मुखे पुष्पमुकुले अमरटी०

कुद्य न कुद--क्यप् । भित्तौ अमरटीका ।

कुद्र मिथ्योक्तौ इदित् चु० उभ० सक० सेट् । कुन्द्रयति अचुकु-

न्द्रत् । प्रनिकुन्द्रयति नोपधकरणेनैवेष्टसिद्धौ इदित्करणं
स्वरार्थम ।

कुद्रङ्क पु० कुत्सितः रङ्कश्चिह्नमस्य पृषो० । मञ्चोपरिस्थे मण्डपे

त्रिका० ।

कुद्रङ्ग पु० कुत्सितोरङ्गोयत्र पृषो० । मञ्चकोपरिस्थे मण्डपे हारा०

कुद्रव पु० कुं भूमिं द्रवति द्रावयति द्रु--अन्तर्भूतण्यर्थे--अच् ।

कोद्रवे धान्यभेदे (कोदो) भरतः ।

कुद्रि पु० ऋषिभेदे तस्यापत्यं गृष्ट्या० ढञ् । कौद्रेय तदपत्ये पुंस्त्री० ।

कुधान्य स० कुत्सितं धान्यं कुगतिस० । कुत्सिते धान्यभेदे

स च सुश्रुते गुणसहितोदर्शितोयथा
“कोरदूषकश्यामाकनीवारशान्तनुतुवरकोद्दालकप्रियङ्गुमधू
लिकानान्दीमुखकुरुविन्दगवेधुकावरुकतीनपर्णीमुकुन्दक-
वेणुयवप्रभृतयः कुधान्यविशेषाः” ॥ उष्णाः कषायमधुरा
रूक्षाः कटुविपाकिनः । श्लेष्मघ्ना बद्धनिष्यन्दा वातपि-
त्तप्रकोपणाः । कषायमधुरास्तेषां शीतपित्तापहाः
स्मृताः । कोद्रवश्च सनीवारःश्यामाकश्च सशान्तनुः । कृष्णा
रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः । यथोत्तरं प्रधानाः
स्यूरूक्षाः कफहराः स्मृताः । मधूली मधुरा शीता
स्निग्धा नान्दीमुखी तथा । विशोषी तत्र भूयिष्ठं
वरकः समुकुन्दकः । रूक्षा वेणुयवा ज्ञेया वीर्य्योष्णाः
कटुपाकिनः । बद्धमूत्राः कफहराः कषाया वातकोपनाः”

कुध्र पु० कुं पृथिवीं धारयति धृ--मूलविभुजादि० क ६ त० ।

महीध्रे पर्वते हला० ।

कुनक पुंस्त्री करटे स्त्रियां जातित्वात् ङीष् ।

कुनख पु० कुत्मितो नखोऽत्र । सुश्रुतोक्ते रोगभेदे (कुनि)

तल्लक्षणं तत्रैवोक्तं यथा । “अभिघातात् प्रदुष्टो योनखों
रूक्षोऽसितः खरः । भवेत्तु कुनखं विद्यात् कुलीनमिति
संज्ञितम्” । कुनखे विधिरप्येष” सुश्रु० । ६ व० । कुत्-
सितनखयुक्ते त्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष् ।

कुनखिन् त्रि० कुनखो रोगोऽस्त्यस्य इनि । कुनखरोगयुक्ते

सच रोगो भुक्तावशिष्टसुवर्ण्णस्तेयरूपजन्मान्तरीण
महापातकचिह्नं यथाह विष्णुः
“अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये
लक्षणानि भवन्ति कुष्ठ्यतिपातकी, ब्रह्महा यक्ष्मी, सुरापः
श्यावदन्तकः, सुवर्णहारी कुनखी गुरुतल्पगोदुश्चर्म्मा” ।
“कुनखी श्यावदन्तश्च द्वादशरात्रं चरित्वा तद्दन्तनखावुद्ध-
रेयाताम्” विष्णुः । स्त्रियां ङीप् । सच रोगः गर्भाव-
स्थायां मातुर्दोषभेदाज्जायते तदुक्ते सुश्रुते “दिवा-
स्वपन्त्याः स्वापशीलोऽञ्जनादन्धो रोदनात् विकृतदृष्टिः
स्नानानुलेपनात् दुःखशीलस्तैलाभ्यङ्गात् कुष्ठी नखा-
पृष्ठ २०९८
वकर्त्तनात् कुनखीत्यादि । कुनखी च श्राद्धकाले वर्ज्जनी-
यः यथाह मनुः “वर्ज्याःस्युर्हव्यकव्ययोः । प्रेष्यो ग्रामस्य
राज्ञश्च कुनखी श्यावदन्तकः” । “दुर्वर्ण्णः कुनखी कुष्ठी
मायावी कुण्डगोलकौ, वर्ज्जनीयाः प्रयत्नेन” भा० व०
१९९ । श्राद्धे वर्जनीयोक्तौ ।

कुनट पु० कुत्सितं नटति--नट--अच् । १ श्योनाकभेदे राजनि०

गौरा० ङीष् । कुनटी २ मनःशिलायाम् अमरः ३ वन्याके
राजनि० । कुत्सितोनटः कुग० स० । ४ कुत्सिते नटे पु० ।

कुनलिन् पु० ईषत् नलोऽस्त्यस्य इनि । वकवृक्षे त्रिका० ।

तस्य फलेषु ईषन्नलाकारत्वात्तथात्वम् ।

कुनह(ट) पु० कूर्म्मविभागे वृह० सं० ऐशान्यामुक्ते १ देशभेदे

“ऐशान्यां मेरुकनष्टराज्येत्युपक्रमे “भल्लोपनीलजटा-
सुरकुनह(ट)खसकुचिकाख्याः” इति तत्रोक्तत्वात् । कु +
नह--अच् । २ कुतासतबग्धके त्रि० ।

कुनाथ पु० कुत्सितोनाथः । १ कुत्सितपालके । “कुना-

थस्याजितात्मनो यथा सार्थस्य” भाग० ५ । १४ । ४ ।
“हतास्म्यहं कुनाथेन नपुंसा वीरमानिना” भाग० ९ ।
१४ । ४ । कुपालककुपत्यादयोऽप्यत्र । कोर्नाथः । २
महीनाथे राजनि पु० ।

कुनाभि पु० ईषत् नाभिरिव आवर्त्तवत्त्वात् । १ वातमण्ड-

ल्याम् (घुर्णावातास) त्रिका० । २ निधिभेदे हेमच० ।

कुनामत् त्रि० कुत्सितं प्रातरस्मरणीयं नामास्य ।

अतिकृपणे स्त्रियां वा डाप् ङीप् । तस्यापत्यं बाह्वा० इञ् ।
कौनामि तदपत्ये पुंस्त्री० । तस्येदम् काश्या० ष्ठञ्ञिठौ ।
कौनामिक तत्सम्बन्धिनि त्रि० ष्ठञि स्त्रियां ङीष्
ञिठि टाप् इदुच्चारणार्थः इति भेदः ।

कुनाशक पु० ईषत् नाशयति स्पर्शनात् नश--णिच्-

ण्वुल् । दुरालभायाम् यवासे (आल्कुसी) अमरः ।

कुनिषञ्ज पु० दशममनोः पुत्रभेदे । “दशमे त्वथ पर्य्याये

द्वितीयस्यान्तरे मनोः” इत्युपक्रमे “मनोः सुतौत्तमा-
जाश्च कुनिपञ्जश्च वीर्य्यवान्” हरिवं० ७ अ० ।

कुन्च वक्रणे अनादरे च भ्वा० पर० सक० सेट् । कुञ्चति

अकुञ्चीत् चुकुञ्च चुकुच(ञ्च)तुः । कुञ्चनम् आ + सङ्कोचने
आकुञ्चति मंकोचयति । वि प्रसारणे । विकुञ्चति प्रसा-
रयति सङ्कुचितः णिच् आकुञ्चितः “आकुञ्चितसव्य-
पादम्” भट्टिः ।

कुन्त पु० कुं भूमित्तिमुनत्ति उन्द--बा० त शकन्ध्वा० । गबेधु

कायां (गड़गड़े) १ धान्यभेदे । २ प्रासास्त्रे च मेदि० । ३ क्षुद्र-
कीटभेदे (उकुन्) कुन्तलः । ४ चण्डभावे विश्वः । कुन्तास्त्र-
लक्षणं हेमा० परिख० लक्षणसमुच्चये उक्तं यथा
“उक्ता कुन्तोत्पत्तिरनन्तरं कुन्तद्रव्यं वक्ष्यते वेणुर्वेत्रं
विल्वश्चन्दनो वर्द्वनं शिशंपा खदिरोदेवदारुर्घण्टारोह-
श्चेति कुन्तस्य दण्डद्रव्याणि तत्र सप्तहस्तप्रमाणः
श्रेष्ठः । षड्भिर्हस्तैर्मध्यमः । पञ्चहस्तश्च निकृष्टो भवति
लोहस्याकारौ द्वौ भवतः एकं पुष्कलावर्त्तकं द्वितीयं
चीनोत्थितं तत्तु तीक्ष्णं, यत्तु पुष्कलावर्तकं तल्लोहं
मृदु । तयोस्त्वियं परीक्षा यत्ताडितं नदति तत्तीक्ष्णं
यन्निःशब्दं तत्मुदु, निपाते यद्भिद्यते तत्तीक्ष्णं, यन्नमति
तत्पुष्कलावर्त्तं मृदु । तत्र चीनोद्भवं भवत्यप्रशस्तं पुष्फ-
नावर्त्तकमेव प्रशस्यते । कुन्तस्य फलं च मृदुना
लोहेन कर्त्तव्यं तीक्ष्णेन लोहेन धारा कार्या तयोर-
लाभे शेषाणि लाहानि शोधयित्वा कुन्तफलं तैः
कारयेत् । तत्र सप्रपर्ण्णशाकखर्जूरीवेत्रकरवीरवेस्थू-
नां तालफलकयोः केतक्याः स्रुह्या वा पत्राकारः
कुशाग्रस्य सन्निभश्च । तथा कर्णसंस्थानं वा कर्त्तव्य तच्च
निर्व्रणं मनोदृष्टिहरन्तोक्ष्णं शुभञ्च श्रेष्ठं षोड़शाङ्गुला-
यामं, मध्यमं चतुर्द्दशाङ्गुलायाममधमं द्वादशाङ्गुलं भवति ।
अङ्गलविस्तारं सार्द्धाङ्गुलविस्तारं द्व्यङ्गुलविस्तारञ्च
क्रमाद्भवति । द्वियववैपुल्यं सार्द्वैकयववैपुल्यमेकयववैपु-
ल्यञ्च । तत्र श्लोकाः । वेण्वादिदुमजातीनां कार्यो दण्डः
सच त्रिधा । सप्तषट्पहलश्च उत्तमो मध्यमोऽधमः ।
तस्याकारौ च द्वौ स्यातां सचीनं पुष्कलं तथा । तत्रैक-
तीक्ष्णं लोहस्य द्वितीयं मृदुनस्तथा । तत् फलं मृदुलोहेन
धारा तीक्ष्णेन कारयेत् । सप्तपर्ण्णादिप्रत्राणां समाकारं
फलं भवेत् । षोड़शाङ्गुलमायामोद्व्यङ्गुलञ्चापि विस्तृतम् ।
यवद्वितयवैपुल्यं श्रेष्ठं कुन्तफलं भवेत् । मध्वमाधमयो-
र्हानिर्द्व्यङ्गुलार्द्धाङ्गुलं क्रमात् । आयाने विस्तृते वत्स ।
वैपुल्ये च यथाक्रमम् । सुशब्दत्वं मृदुगन्धत्वंसुपीतत्वं वर्ण्ण-
पजितत्वञ्चेति फलगुणाः । चम्पकोत्पलचन्दनागुरुपद्मो-
शीरपत्ररसानां सुगन्धिदानाम् भवति फलस्य गन्धसंपत् ।
तया युक्तं फलमतिक्रम्यापि रूपं पूजितं भवति
वसागन्धि मत्स्यगन्धि गोमूत्रगन्धि दुर्गन्धि च निन्दितं
भवति । मधुरं यद्ययवाम्लं यत्कषायं भवति
तल्लक्ष्मीप्रवर्द्धनं, यल्लवणं कटुकं तिक्तं वापि रूक्षं
क्षयावहं तन्निर्द्दिशेत् । शब्दस्तु हिरण्यस्थालीशब्दवत्
घण्टाशब्दवच्च प्रशस्तो, झर्झरीभिन्नपात्रशब्दवद्भेरीः
पृष्ठ २०९९
शब्दवच्च शब्दो निन्दितो भवति । वैदूर्यनिभं चन्द्रसमान
वर्ण्णकसम्मितोत्फलसदृशवर्ण्णं निर्मलाकाशसवर्ण्णमतसी
पुष्पनिभं वा कुन्तफलं श्रियं भर्तुर्ददाति, मधुकोशस-
मानवर्ण्णं श्यामलोहवर्ण्णं मक्षिकासवर्ण्णं निन्दितं
भवति । हंसशुकमयूरताम्रचूडघटनन्द्यावर्त्तकूर्ममत्स्य
सरित्प्रभा अन्ये च मङ्गलशंसिनः पदार्थाः कुन्तव्रणेषु
यदि दृश्यन्ते तदा ते धर्मकामार्थसाधकाविनिर्द्दिष्टाः ।
पादुकीलूकपादपवायसश्चगृध्रजम्बूकनिगलकृकलासाश्चे-
त्येवं निन्दिताः पदार्था दृश्यन्ते व्रणेषु ते दृष्टाः श्रिय-
मपहरन्ति वत्सेति व्रणलक्षणम् । छाया वक्ष्यते ध्वज-
पताकाचामरच्छत्रतोरणशिविकावेश्माङ्कुशवर्द्वमानभृङ्गा-
रगजतुरङ्गायस्मिन् कुन्तफले दृश्यन्ते धौतच्छाया-
न्तरगतास्तं कुन्तमपुण्यकृतोन लभन्ते नकुलर्क्षवृक-
सूकरमहिषवायसोलूकवल्मीकादयो ये निन्दितायदि
कुन्ते स्युर्धौतव्यक्ते तदा स कुन्तः श्रियं भुज्यमाना-
मपि विनाशयेद्यस्तादृशङ्गुन्तं बिभृयात् । स बधं बन्धं
सद्योलभेत तस्य महिंषी वा । चूलिकयोर्व्याघ्रनखस्य
शुक्लानि चूर्ण्णानि समभागानि कारयेत् । तत् चूर्ण्णितं
कृत्वा तेन चूर्णेन फले घर्षोपघर्षितं कुन्तफलं निर्मलं
भवति दुर्गन्धं न भवेत्तथा मलेन न लिप्यते । तच्च वर्मको-
षसमन्द्वितं समाहितं कारयेन्नालिकाबन्निर्व्रणं सुदृढ़ा
यामेन अनुबन्धेन सुश्लिष्टैश्छादैर्वलक्षकैः सुवर्णमये रजत
मये वा वर्मणि रत्नालङ्कृतैर्नलिका श्लिष्टा कर्त्तव्या ।
स्कन्धेदृढ़परिग्रहश्च तथाचोक्तं कुन्तस्य कर्त्तव्यं नलिका-
सहजं वा । नलिका चात्र प्रमाणतः श्रिष्टा कार्या हरीत-
कीसदृशन्तालफलसमानं विल्वफलाकारं ककुभकपित्थ-
फलसदृशं वा वृत्तमष्टास्रं वा कलशामलकाकारं वा
भवति सर्वोपस्क रान्वितं कुन्तायुधं षष्टिपलं श्रेष्ठं-
पञ्चाशत्पलं मध्यमं चत्वारिंशत्पलं निकृष्टमिति प्रबल-
रिपुविनाशकं क्रियान्वितञ्च कुन्तं कारयेन्नतु स्यप्रमा-
णादधिगौरवं, यो हि कायसारस्य बलमविदित्वा कुन्तमा-
युधमावहेत् सादिकस्तस्याजीर्णमजानतः पुरुषंस्येवाति
भुक्तमशनं कुन्तायुधं विषीभवति । इत्यौशनसे कुन्तलक्षणम्”
कुन्ताः प्रविशन्तीत्यत्र कुन्तधारिसि लक्षणेत्यालङ्कारिकाः ।
“शक्तिकुन्तध्वजरथावाजिवारणगोदृषाः” सुश्रु० । “शक्ति
कुन्ताद्यायुधानीति” मुश्रुतः ।

कुन्तल पु० कुन्तं क्षुद्रकीटं (उकुण) लाति ला--क । १ केशे

“कापि कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं
स्तनौ नाभिपङ्कजं दर्शयेत् स्कुटम्” सा० द० । तदाव
कारत्वात् २ ह्रीवेरे च अमरः । कुत्तलाकारं केशाग्रा-
कारं लाति ला--क । ३ यवे ४ चषके पानपात्रे ५
लाङ्गले च विश्वः । ६ ध्रुवकभेदे “वर्णैः षोड़शभिः कार्य्यः
कुन्तलो लघुशेखरैः । शृङ्गारे च रसे प्रोक्त आनन्द-
फलदायकः” इति संगीतदामो० । “कामगिरिं समारभ्य
द्वारकान्तं महेश्वरि! । श्रीकुन्तलाभिधोदेशः कथितः
पूर्ब्बसूरिभिः” शक्तिसङ्गमतन्त्रोक्ते ७ देशभेदे पु० भूम्नि-
“स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुः” सा० द० ।
“अथापरे जनपदा दक्षिणा भरतर्षभ” इत्युपक्रमे
“जिल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः” भा० भी० ९ अ०
दक्षिणात्यजनपदोक्तौ । तेषां राजा अण् । कौन्तल तद्दे-
शनृपे । बहुषु तस्य लुक् । क्वचित् एकत्वेऽपि लुक् ।
“आकर्षः कुन्तलश्चैच मालवाश्चान्ध्रकास्तथा । द्राविड़ाः
सिंहलाश्चैव राजा काश्मीरकस्तथा” भा० स० १ अ० । ते
अभिजनोऽस्य अण् । कौन्तल पित्रादिक्रमेण तद्देश-
वासिनि । बहुषु तस्य लुक् ।

कुन्तलवर्द्धन पु० कुन्तलान् वर्द्धयति वृध--णिच्--ल्यु ।

भृङ्गराजे (भीमराज) राजनि० । तद्रससेवनेन हि
केशवृद्धिरियि वैद्यकप्रसिद्धिः ।

कुन्तलिका स्त्री कुन्तलाग्राकारो विद्यतेऽस्याः ठन् अत

इत्त्वम् । दध्यादिच्छेदत्यां १ छुरिकाभेदे पालिकायाम
हारा० । २ बालानामौषधौ (बाला) स्त्री सुश्रुतः । यथा
“कुन्तलिकाकुरण्टिकाप्रभृतानीत्युपक्रमे “स्वादुपा-
करसाःशीताः कफघ्नाश्चातिपित्तलाः । लवणार्द्रर-
सारूक्षाः सक्षाराः वातलाः सराः । स्वादुतिक्ता कुन्तलिका” ।

कुन्तलोशीर न० कुन्तल इवोशीरम् । (वाला) नामोषधौ राजनि० ।

कुन्ताप पु० । १ वैदिके ऋचां पाठप्रकारभेदे तत्प्रकारः आश्व०

श्रौ० ८ । ३ । ७ । ८ । ९ । सू० दर्शितोयथा
“तस्मादूर्ध्वं कुन्तापम्” सू०
“तस्माद्वृषाकपेरूर्ध्वं कुन्तापं शंसेत् । तस्मादूर्ध्वमिति
वचनात् माध्यन्दिने वृषाकपौ प्रविष्टे तदनन्तरं कुन्ता-
पः स्यादसति प्रवेशे तृतीयसवनेऽपि तस्य प्रवेशो नास्तीति
गम्यते” नारा० वृ० । “तस्यादितश्चतुर्दशविग्राहं निनर्द्य
शंसेत” सू० । “तस्य कुत्तापस्यादितश्चतुर्दश ऋचो विगृह्य
निनर्दोऽयमपूर्व इति तस्याः स्वरूपनिदर्शनमाह” वृ० ।
“तृतीयेषु पादेषूदात्तमनुदात्तपरं यत् प्रथमं तन्निमर्देत्” मू०
वृषाकपिसूक्तम्
पृष्ठ २१००
“तृतीयेषु पादेष्वादितो यदक्षरं तदनुदात्तीकृत्य ब्रूयात् ।
एतदुक्तं भवति तृतीयेषु प्रथममादित इत्यर्थः ।
आदितो ये द्वे अक्षरे तयोः पूर्ब्बमनुदात्तं, तस्मात् प्ररं
द्वितीयम् उदात्तं यथा भवेत् तथा निनर्देत्, नितरां
ब्रूयादित्यर्थः । तदेवमुच्चारणं निनर्दशब्देनोच्यत
इत्यर्थः” नारायणवृत्तिः ।
उदराभ्यन्तरस्थिते २ अन्त्रभेदे न० । “उदरमेकविंशं विंश-
तिर्वा अन्तरुदरे कुन्तापान्युदरमेकविंशं तस्मादुदरमेक-
बिंशः” शत० व्रा० १२ । २ । ४ । १२ । “अथ यत्कुन्तापमासीत्
यो मज्जा स सार्द्धं समभवत्” तत्रैव १३ । ४ । ४ । ८ ।

कुन्ति पु० भूम्नि कम--झिच् पृषो० । १ देशभेदे “कुन्तयोऽवन्त

यश्चैव तथैवापरकुन्तयः” भा० भी० ९ अ० जनपदोक्तौ
तेषां राजा अण् । कौन्त तद्देशनृपे पु० बहुषु तस्य लुक् ।
कुन्तयः तन्नृपेषु भूम्नि । “सुस्थलाश्च मुकुट्टाश्च कुलिन्दाः
कुन्तिभिः सह । साल्वायनाश्च राजानः” भा० स० १३ अ० ।
विदर्भवंशजे क्रथस्य पुत्रे ३ नृपभेदे “तस्यां विदर्मोऽजन-
यत् पुत्रौ नाम्ना कुशक्रथौ” इत्युपक्रमे “क्रथस्य कुन्तिः
पुत्रोऽभूद्रुचिस्तस्याथ निर्वृतिः” भाग० ९ । ३ । २ । “कुन्तेः
सख्युः पिता शूरोह्यपुत्रस्य पृथामदात्” तत्रैव २४ अ०
१९ श्लो० । कार्त्तकौ० सुराष्ट्रेण सहद्व० प्रकृतिस्वरः

कुन्तिभोज पु० कुन्तिसंज्ञको भोजः भोजदेशाधिपः । पृथा-

पितरि कुन्तिसंज्ञके भेजराजे नृपभेदे “पृथां दुहितरं
वव्रे कुन्तिस्तां कुरुनन्दन! । शूरःपूज्याय वृद्धाय कुन्ति-
भोजाय तां ददौ” हरिवं० ३५ अ० ।

कुन्तिसुता स्त्री ६ त० । वसुदेवभगिन्यां कुन्तिभोजाय पित्रा

शूरेण दत्तकत्वेन दत्तायां पृथायाम् । कुन्तीशब्दे
विवृतिः कुन्तितनयादयोऽप्यत्र स्त्री ।

कुन्ती स्त्री वसुदेवभगिन्यां कुन्तिभोजदत्तकसुतायां पृथा याम्

युधिष्ठिरादिमातरि तत्कथा यथा “महिष्यां जज्ञिरे
शूराद्भोज्यायां पुरुषा दश” इत्युपक्रमे वसुदेवाद्युत्पत्ति-
मुक्त्वा “पञ्च चास्य वराङ्गनाः । पृथुकीर्त्तिः पृथा चैव
श्रुतदेवी श्रुतश्नवाः । राजाधिदेवी च तथा पञ्चैता
वीरमातरः । पृथां दुहितरं वव्रे कुन्तिस्तां कुरुनन्दन! ।
शूरः पूज्याय वृद्धाय कुन्तिभोजाय तां ददौ । तस्मात्
कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा” हरिवं० ३५ ।
इत्युक्त्वा “पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत्”
हरिवं० ३५ अ० उक्तम् ।

कुन्तीतनय पु० ६ त० । कुन्त्यां धर्म्मादितो जातेषु ३ युधि-

ष्ठिरादिषु त्रिषु सूर्य्या जाते ४ कर्ण्णे च । तत्कथा यथा
“यस्यां (कुन्त्याम्) स धर्म्मविद्राजा धर्म्माज्जज्ञे युधि-
ष्ठिरः । भीमसेनस्तथा वातादिन्द्राच्चापि धनञ्जयः” हरिवं०
३५ अ० । कर्ण्णोत्पत्तिकथा भा० आ० १११ अ० यथा
“शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् । तस्य कन्या
पृथा नाम रूपेणाप्रतिमा भुवि । पितृस्वस्रीयाय सुता-
मनपत्याय भारत! । अग्र्यमग्रे प्रतिज्ञाय खस्यापत्यं स
सत्यवाक् । अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षि-
णे । प्रददौ कुन्तिभोजाय सस्ता सख्ये महात्मने ।
नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने । उग्रं
पर्य्यचरत्तत्र ब्राह्मणं शंसितव्रतम् । निगूढनिश्चयं धर्म्मे
यं तं दुर्व्वाससं विदुः । तमुग्रं शंसितात्मानं सर्व्वयत्नै-
रतोषयत् । तस्यै स प्रददौ मन्त्रमापद्धर्म्मान्ववेक्षया ।
अभिचारादिभिर्युक्तमब्रवीच्चैव तां मुनिः । यं यं देवं
त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसादेन
तव पुत्रो भविष्यति । तथोक्ता सा तु विप्रेण कुन्ती
कौतूहलान्विता । कन्या सती देवमर्कमाजुहाव
यशस्विनी । सा ददर्श तमायान्तं भास्करं लोकभावनम् ।
विस्मिता चानवाद्याङ्गी दृष्ट्वा तन्महदद्भुतम् । तां
समासाद्य देवस्तु विवस्वानिदमब्रवीत् । अयमस्म्यसितापाङ्गि ।
ब्रूहि किं करवाणि ते । कुन्त्युवाच । कश्चिन्मे ब्रा-
ह्मणः प्रादाद्वरं विद्याञ्च शत्रुहन्! । तद्विजिज्ञास-
याह्वानं कृतवत्यस्मि ते विभो! । एतस्मिन्नपराधे त्वां
शिरसाहं प्रसादये । योषितो हि सदा रक्ष्याः
स्वपराधेऽपि नित्यशः । सूर्य्य उवाच । वेदाहं सर्वमे-
वैतत् यद्दुर्व्वासा वरं ददौ । संत्यज्य भयमेवेह
क्रियतां सङ्गमो मम । अमोघं दर्शनं मह्यमाहूत-
श्चास्मि ते शुभे! । वृथाह्वानेऽपि ते भीरु! दोषः स्यान्नात्र
संशय । वैशम्पायन उवाच । एवमुक्ता बहुविधं
सान्त्वपूर्ब्बं बिवस्वता । सा तु नैच्छद्वरारोहा कन्याह-
मिति भारत! । बन्धुपक्षभयाद्भीता लज्जया च
यशस्विनी । तामर्कः पुनरेवेदमव्रवीद्भरतर्षभ! । मत्प्रसा-
दान्न ते राज्ञि! भविता दोष इत्युत । एवमुक्त्वा स
भगवान् कुन्तिराजसुतां तदा । प्रकाशकर्त्ता तपनः
सम्बभूव तया सह । तत्र वीरः समभवत् सर्वशस्त्र-
भृतांवरः! आमुक्तकवचः श्रीमान् देवगर्भः श्रियान्वितः ।
सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः । अजायत
सुतः कर्णः सर्व्वलोकेषु विश्रुतः । प्रादाच्च तस्य कन्यात्व
पृष्ठ २१०१
पुनः स परमद्युतिः । दत्त्वा च तपतां श्रेष्ठो दिवमा-
चक्रमे ततः । दृष्ट्वा कुमारं जातं सा वार्ष्णेयी
दीनमानसा । एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् ।
गूहमानापचारं सा बन्धुपक्षभयात्तदा । उत्ससर्ज्ज-
कुमारं तं जले कुन्ती महाबलम्” ।
युधिष्ठिरादुत्पत्तिस्तत्रैव १२२ । १२३ अ० यथा
“एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच
वरारोहा भर्त्तुः प्रियहिते रता । पितृवेश्मन्यहं
बाला नियुक्ताऽतिथिपूजने । उग्रं पर्य्यचरन्तत्र ब्राह्म-
णं शंसितव्रतम् । निगूढनिश्चयं धर्म्मे यन्तं दुर्वा-
ससं विदुः । तमहं शंसितात्मानं सर्व यत्नैरतोषयम् ।
स मेऽभिचारसंयुक्तमाचष्ट भगवान् वरम् । मन्त्रन्त्वि-
मञ्च मे प्रादादब्रवीच्चैव मामिदम् । यं यं देवं त्वमे-
तेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा
वशं ते समुपैव्यति । तस्य तस्य प्रसादात्ते राज्ञि! पुत्रो
भविष्यति । इत्युक्ताहं तदा तेन पितृवेश्मनि भारत! ।
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः । अनुज्ञाता
त्वया देवमाह्वयेयमहं नृप! । तेन मन्त्रेण राजर्षे! यथा
स्यान्नौ प्रजा हिता । आवाहयामि कं देवं ब्रूहि
सत्यवतांवर! । त्वत्तोऽनुज्ञाप्रतीक्षां मां बिद्व्यस्मिन्
कर्म्मणि स्थिताम् । पाण्डुरुवाच । अद्यैव त्वं
वरारोहे! प्रयतस्व यथाविधि । धर्म्म मावाहय शुभे! स हि
देवेषु पुण्यभाक् । अधर्म्मेण न नो धर्म्मः संयुज्येत
कथञ्चन । लोकश्चायं वरारोहे! धर्म्मोऽयमिति मन्यते ।
धार्म्मिकश्च कुरूणां स भविष्यति न संशयः । धर्म्मेण
चापि दत्तस्य नाधर्म्मे रंस्यते मनः । तस्माद्धर्म्मं
पुरस्कृत्य नियता त्वं शुचिस्मिते! । उपचाराभिचाराभ्यां
धर्म्ममावाहयस्व वै । वैशम्पायन उवाच । सा तथोक्ता
तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता
प्रदक्षिणमवर्त्ततं” । “संवत्सरधृते गर्व्भे गान्धार्य्या
जनमेजय । आह्वयामास वै कुन्ती गव्र्भार्थे धर्म्म-
मच्युतम् । सा बलिं त्वरिता देवी धर्म्मायोपज-
हाव ह । जजाप विधिवज्जप्यं दत्तं दुर्व्वाससा
पुरा । आजगाम ततो देवो धर्म्मो मन्त्रबलात्ततः ।
विमाने सूर्य्यसङ्काशे कुन्ती यत्र जपस्थिता । विहस्य
तां ततो ब्रूयाः कुन्ति! किन्ते ददाम्यहम् । सा तं
विहस्यमानापि पुत्रं देह्यब्रवीदिदम् । संयुक्ता सा हि
धर्म्मेण योगमूर्त्ति धरेण ह । लेभे पुत्रं वरारोहा सर्व्व-
प्राणभृतां हितम् । ऐन्द्रे (ज्येष्ठाभे) चन्द्रसमायुक्ते
सुहूर्त्तेऽभिजितेऽष्टमे । दिवामध्यगते सूर्य्ये तिथौ पूर्णे-
ऽतिपूजिते । समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम् ।
जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी । एष धर्म्म-
भृतां श्रेष्ठो भविष्यति नरोत्तमः । विक्रान्तः सत्यवाक्
चैव राजा पृथ्व्यां भविष्यति । युधिष्ठिर इति ख्यातः
पाण्डोः प्रथमजः सुतः । भविता प्रथितो राजा त्रिषु
लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ।
धार्म्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् ।
प्राहुः क्षत्रं बलज्येष्ठं बलश्रेष्ठं सुतं वृणु । ततस्तथोक्ता
भर्त्रा तु वायुमेवाजुहाव सा । ततस्तामागतो वायुर्मृ-
गारूढो महाबलः । किन्ते कुन्ति! ददाम्यद्य ब्रूहि यत्ते
हृदि स्थितम् । सा सलज्जा विहस्याह पुत्रं देहि
सुरोत्तम! । बलबन्तं महाकायं सर्व्वदर्षप्रभञ्जनम् ।
तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः । तमप्यतिबलं
जातं वागुवाचाशरीरिणी । सर्ब्बेषां बलिनां श्रेष्ठो
जातोऽयमिति भारत । इदमत्यद्भुतं चासीज्जातमात्रे
वृकोदरे । यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्ण-
यत् । कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल ।
नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् । ततः
स वज्रसङ्घातः कुमारो न्यपतद्गिरौ । पतता तेन शतधा
शिला गात्रैर्विचूर्णिता । तां शिलां चूर्णितां दृष्ट्वा
पाण्डुर्व्विस्मयमागतः । यस्मिन्नहनि भीमस्तु जज्ञे
भरतसत्तम! । दुर्य्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप! ।
जाते वृकोदरे पाण्डुरिदं भूयोंऽन्वचिन्तयत् । कथं नु
मे वरः पुत्रो लोकश्रेष्ठो भवेदिति । दैवे पुरुषकारे च
लोकोऽयं सम्प्रतिष्ठितः । तत्र दैवन्तु विधिना कालयु-
क्तेन लभ्यते । इन्द्रो हि राजा देवानां प्रधान इति
नः श्रुतम् । अप्रमेयबलोत्साहो वीर्य्यवानमितद्युतिः ।
सन्तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् । यं दास्यति
स मे पुत्रं स वरीयान् भविष्यति । अमानुषान्मानु-
षांश्च संग्रामे स हनिष्यति । कर्म्मणा मनसा वाचा
तस्मात्तप्स्ये महत्तपः । ततः पाण्डुर्महाराजोमन्त्र-
यित्वा महर्षिभिः । दिदेश कुन्त्याः कौरव्यो व्रतं
संवत्सरं शुभम् । आत्मना च महाबाहुरेकपाद-
स्थितोऽभवत् । उग्रं स तप आस्थाय परमेण
समाधिना । आरिराधयिषुर्द्देवं त्रिदशानां तमीश्वरम् ।
भार्य्यया सह धर्म्मात्मा पर्य्यतप्यत भारत! । तन्तु कालेन
पृष्ठ २१०२
महता वासवः प्रत्यपद्यत । शक्र उवाच । पुत्रं तव
प्रदास्यामि त्रिषु लोकेषु विश्रुतम् । ब्राह्मणानां
गवाञ्चैव सुहृदाञ्चार्थसाधकम् । दुर्हृदां शोकजननं सर्व्व-
बान्धवनन्दनम् । सुतं तेऽग्र्यं प्रदास्यामि सर्व्वामित्र-
विनाशनम् । इत्युक्तः कौरवो राजा वासवेन
महात्मना । उवाच कुन्तीं धर्म्मात्मा देवराजवचः स्मरन् ।
उदर्कस्तव कल्याणि! तुष्टो देवगणेश्वरः । दातुमिच्छति ते
पुत्रं यथा सङ्कल्पितं त्वया । अतिमानुषकर्म्माणं यशस्विन-
मरिन्दमम् । नीतिमन्तं महात्मानमादित्यसमतेजसम् ।
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् । पुत्रं जनय
सुश्रोणि! धाम क्षत्रियतेजसाम् । लब्धः प्रसादो देबे-
न्द्रात् तमाह्वय शुचिस्मिते! । वैशम्पायन उघाच ।
एवमुक्ता ततः शक्रमाजुहाव यशस्मिनी । अथाजगाम
देवेन्द्रो जनयामास चार्ज्जुनम्” । कुन्त्या अपत्यं ढक् ।
कौन्तेय तदपत्ये “कौन्तेय प्रतिजानीहि” गीता ।

कुन्थ क्लेशे श्लेषे च क्र्यादि० प० अक० सेट् । कुथ्नाति

अकुन्थीत् चुकुन्थ प्रनिकुथ्यात् ।

कुन्थु पु० कुन्थ--उन् । बौद्धभेदे हेमच० कुन्थुरवेति पाठान्तरम् ।

कुन्द पु० कुन्द इव श्वेतत्वात्, कूं पृथिवीं कश्यपाय ददाति

दा--क वा । १ विष्णौ तस्य कुन्दोपमाङ्गत्वात् स्वच्छतया
स्फकवन्निर्मलत्वात् “श्वेतारक्तस्तथा पीत इदानीं कृष्णतां गतः”
इत्युक्तेः युगावतारे सत्ययुगे श्वेतत्वाद्वा, परशुरामाय-
तारे कश्यपाय भूमिदानाद्वा तथात्वम् । यथाह हरिवंशे
“सर्व्वपापविशुद्ध्यर्थं वाजिमेधेन चेष्टवान् । तस्मिन्-
यज्ञे महादाने दक्षिणां भृगुनन्दनः । मारीचाय ददौ
प्रीतः कश्यपाय वसुन्धराम्” । कुं भूमिभुनत्ति उन्द-
अण् शक०, कौतेः अव्दा० दन् मुमच् वा । २ कुन्दरुनाम-
गन्धद्रव्ये ३ भ्रमियन्त्रभेदे (कुँद) ४ कुवेरस्य निधिभेदे च
पु० मेदि० ५ करवीरवृक्षे पु० राजनि० स्वनामख्याते
ख्याते ६ पुष्पप्रधानवृक्षे पुंन० पुष्पे न० अमरः । “कुन्दं शीतं
लघु श्लेष्मशिरोरुग्वातपित्तहृत्” भावप्र० । “कुन्दकुद्मला
ग्रदतः स्मितैः” माघः । “कुन्देन्दुसुन्दररुचिः” सा०
द० । “शङ्कराय न दातव्याः कुन्दशेफालिकाजवाः” पुरा० ।
७ पद्मे च कुन्दिनी त्रिका० । शाल्मलद्वीप्रस्थे ८ वर्ष
पर्व्वतभेदे । शाल्मलद्वीपवर्ण्णने भाग० ५, २० अ० । “तेषु
वर्षेष्वद्रयो नद्यश्च सप्तैवाभिज्ञाताः सुरसः शतशृङ्गो
वामदेवः कुन्दः कुमुदः पुष्पवर्षः सहस्रस्रुतिरिति” ।
विष्ण्पु० तु एषां नासान्तराणि दृश्यन्ते “कुमुदश्चोन्नतश्चैव
तृतीयश्च वलाहकः । द्रोणोयत्र महौषध्यः स चतुर्थो
महीधरः । कुन्दस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा ।
कुमुद्वान् पर्व्वतवरः” अनयोः कल्पभेदादविरोधः ।

कुन्दक पु० कुन्द + संज्ञायां कन् । १ कुन्दरुवृक्षे राजनि०

स्वार्थे क । २ कुन्दशब्दार्थे

कुन्दम पुंस्त्री० कुन्देन मीयते शुभ्रवर्ण्णत्वात् मा--घञर्थे

क । विड़ाले त्रिका० स्त्रियां जातित्वात् ङीष् । तस्य च
पाणिभिन्नषष्ठ्यन्तात् परस्य चूर्णां० तत्पुरुषे आद्युदात्तता-
तत्र गणे मुकुन्द इति पाठान्तरम् । तेन सह श्रेण्या-
दित्वात् तत्पुरुषः ।

कुन्दमाला स्त्री ग्रन्थभेदे सा० द० ।

कुन्दर पु० कुन्दवत् शुद्धानि धर्म्मानुबन्धीनि फलानि राति

ददाति रा--क, कुं धरां दारयति हिरण्याक्षजिघां-
सया वराहरूपावतारे दृ--अच् पृषो० सुम् । १ विष्णौ ।
“कुमुदः कुन्दरः कुन्दः” विष्णुस० । कुं भूमिं
दारयति अन्तर्भूतण्यर्थे दृ--अच् पृषो० । कलिङ्गेषु
(कुन्दरा) विख्याते २ तृणभेदे पु० राजनि० । तस्य पर्य्यायोक्ति-
द्वारा लक्षणं राजनि० दर्शितम् । “कण्डुरो दीर्घपत्रः
खरच्छदः रसालक्षेत्रसंभूतः मृगवल्लभः” । “ज्ञेयं कुन्द-
रमूलन्तु स्थौल्यशैत्योपकारकम् । पित्तातिसारनाशि स्यात्
गोधनानां प्रशस्यते । बलपृष्टिकरञ्चैव” राजनि० तद्गु-
णा उक्ताः ।

कुन्दिनी स्त्री कुन्दानां पद्मानां समूहः खला० इनि । पद्मसमूहे त्रिका० ।

कुन्दु पु० कुं भूमिं दृणाति दृ बा० डु । १ मूषिके शब्दरत्ना० ।

२ कुन्दुरुनाम गन्धद्रव्ये स्त्री ।

कुन्दुर पु० कुं भूमिं दारयति दृ--विदारे उरन् पृषो० ।

कुन्दुरुनामगन्धद्रव्ये भरतः ।

कुन्दुरु पुंस्त्री कुं भूमिमुनत्ति उन्द--जत्र्वा० नि० । स्वनाम-

ख्याते गन्धद्रव्यभेदे अमरः । “कुन्दुरुर्मधुरस्तीक्ष्णस्तिक्त
स्त्वच्यः कटुर्हरेत् । ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफा-
निलान्” भावप्र० । स्वार्थे क । तत्रैव पुंस्त्री राजनि० ।
स च तुश्रुते एलादिगणे पठितः । स च गणो यथा
“एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरे-
णुका व्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टकचोचचोरक-
बालकगुग्गुलुसर्जरसतुरष्क्रकुन्द रुकाऽगुरुस्पृक्को शीरभद्र-
दारुकुङ्कुमानि पुन्नागकेशरञ्चेति । एलादिको वातकफौ
निहन्याद्विषमेव च । वर्ण्णप्रसादनः कण्डूपिटकाको-
ठनाशनः” ।
पृष्ठ २१०३

कुप आच्छादने इदित् वा चुरा० उभ० पक्षे भ्वादि० पर० सक०

सेट् । कुम्पयति ते कुम्पति अचुकुम्पत् त अकुम्पीत् । कुम्प-
याम् बभूव आस चकार--चक्रे । चुकुम्प । प्रनि कुम्प्यात्

कुप द्युतौ चुरा० उभ० अक० सेट् । कोपयति ते अचूकुपत् त ।

कोपयाम् बभूव आस चकार चक्रे । कुपितः कोपः
कोपनम् कुपित्वा प्रकुप्य । “प्रोचुः प्राञ्जलयो विप्राः
प्रहृष्टाः कुपितत्वचः” भाग० ३, १६,

कुप रोषे दिवा० सक० प० सेट् । कुप्यति इरित् अकुपत्

अकोपीत् चुकोप । “यस्मिन् यस्मिन् ऋतौ ये ये दोषाः
कुप्यन्ति देहिनाम्” सुश्रु० । “तस्य तद्ववनं श्रुत्वा रूक्षं
रूक्षाक्षरं बहु । चुकोप बलिनां श्रेष्ठः” भा० स० ४१ अ० ।
“कुपितकपिकपोलक्राड़ताम्रस्तमांसि । उद्भटः “द्रुह्य
कुप्यसि याचके” भा० आ० ७८ अ०” अस्य आर्षे पदव्य-
त्ययोऽपि दृश्यते । “नन्दते कुप्यते चापि तथा हुङ्गार-
यत्यपि” भा० आनु० १४ अ० । “न च कुप्ये महासर्प!
न चात्मानं विगर्हये” भा० ब० १७९ अ० । उपसर्गपू-
र्ब्बकस्य तत्तदुपसर्गद्योत्यार्थपरत्वम् यथा प्रकोपः संकोपः
अतिकोषः इत्यादि । “क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति
कोपः” पा० कर्म्मणः सम्प्रदानता ।

कुपथ पु० कुत्सितः पन्थाः कुगतिसमा० अच् समा० । १

कुत्सिते पथि शब्दरत्ना० । “स्वधर्म्म पथमकुतोभयम् विहाय
कुपथपाषण्डमसमञ्जसं संप्रवर्त्तयिष्यति” भाग० ५, ६,
१० श्लो । स सेव्यत्वे नास्त्यस्य अर्श० अच् । २ असुरभेदे “प्र-
मदो मयश्च कुपथोहयग्रीवश्च वीर्य्यवान्” हरि० ३ अ०
“तथा निकुम्भः कुपथश्च दानवः” हरि० २४१ अ० ।
सएव सुपार्श्वनृपरूपेण द्वापरे आविर्भूतः “कुपथस्तु
महावीर्य्यः श्रीमान् राजन्! महासुरः । सुपार्श्व इति
विख्यातः क्षितौ जज्ञे महीपतिः” भा० आ० ६७ अ० ।

कुपन पु० कुप--क्यु । हिरण्याक्षसैन्यस्थे असुरभेदे “शरभः

शलभश्चैव कुपनः कोपनः क्रथः” हरिवं० ४२ अ० ।

कुपय त्रि० गुप--क्यप् पृषो० । गोपंनीये । “आ साच्यं

कुपयं वर्द्धनं पितुः” ऋ० १, १४०, ३, “कुपयं गोपनीयम्” भा०

कुपाणि त्रि० कुत्सितः पाणिरस्य । वक्रहस्ते बाहुकुण्ठे

(कोपा) । जटा०

कुपिञ्जल पुंस्त्री कुत्सितः पिञ्जल इव पुच्छोऽस्य । पक्षिभेदे

स्त्रियां ङीष् ततः शिवा० अण् । कौपिञ्जल तदपत्ये पुंस्त्री० ।

कुपिनिन् पु० कुपिनी मत्स्यधानी अस्त्यस्य व्रीह्या० इनि ।

मत्स्यधारके कैवर्त्ते त्रिका० ।

कुपिनी स्त्री गुप्यते मत्स्योऽत्र गुप--वा० इनि किच्च ङीप्

पृषो० । (माछेरखालुइ) मत्स्याधारे पात्रभेदे शब्दरत्ना० ।

कुपिन्द पुंस्त्री कुप--किन्दच् । तन्तुवाये उणादिको० ।

कुपीलु पु० कुत्सितः पीलुः कुगतिस० । (माकड़ातेन्दु)

काकेन्दुवृक्षे मावप्र० । यस्य फलं (कुचिला) इतिख्यातम् ।
तत्पर्यायगुणादि मावप्र० उक्तं यथा
“तिन्द को यस्तु कथितो जलदो दीर्घपत्रकः । कुपीलुः
कुलकः कालस्तिन्दुकः कालपीलुकः । काकेन्दुर्विष-
तिन्दुश्च तथा मर्कटतिन्दुकः । कुपीलु शीतलं
तिक्तं वातलं मदकृल्लघु । पादव्यथाहरंग्राहि
कफपित्तास्रनाशनम्” ।

कुपुत्र पु० कुत्सितः पुत्रः कुगतिस० । कुत्सिते पुत्रे १ “तादृशं

फलमाप्नोति कुपुत्रैः सन्तरँस्तमः” मनुः । ब० व्री० । २ कुत्सित
पुत्रयुक्ते त्रि० । भावे कर्म्मणि च ततो मनोज्ञा० वुञ् ।
कौपुत्रिका तद्भावे स्त्री । कोः पृथिव्याः पुत्रः । ३ मङ्ग-
लग्रहे ४ नरकासुरे च ।

कुपूय त्रि० कुत्क्तितं पूयते पूय--विसरणे अच् । जात्याचारादिनिन्दिते अमरः

कुप्य न० गुप--क्यप् नि० । स्वर्णरूप्याभ्यामन्यस्मिन् १ तेजसादौ

धातौ, अमरः (दस्ती) इति ख्याते २ धातौ च

कुप्यशाला स्त्री कुप्यस्य तत्पात्रादिनिर्म्माणस्य शाला । (काँ-

सारिर दोकान) कांस्यादिपात्रनिर्म्माणगृहे हेमच० ।

कुप्रिय त्रि० कु + प्री--क । जघन्येहला० ।

कुप्लव पु० कुगतिस० । तृणादिनिर्म्मिते उडपे शब्दचि० ।

“यादृशं फतमाप्नोति कुप्लवैः सन्तरन् जलम्” मनुः

कुब स्तृतौ (आच्छादने) इदित् वा चुरा० उभ० पक्षे भ्वा० पर०

सक० सेट् । कुम्बयति ते कुम्बति अचुकुम्बत् त अकुम्बीत् ।
कुम्बयाम्--बभूव आस चकार चक्रे चुकुम्ब । कुम्बा

कुबल त्रि० कुत्सितं बलमस्य । निन्दितबलयुक्ते ।

कुबलाश्व त्रि० कुबलोऽश्वोऽस्य । १ दुर्वलाश्वयुक्ते सूर्य्यवंश्ये

२ नृपभेदे तस्यधुन्धुमारसंज्ञाप्राप्तिः भा० व० २०१ अ०
उक्ता यथा “मार्कण्डेय उवाच । इक्ष्वाकौ संस्थ्यिते
राजन्! शशादः पृथिवीमिमाम् । प्राप्तः परमधर्म्मात्मा सोऽयो-
ध्यायां नृपोऽभवत् । शशादस्य तु दायादः ककुत्स्थो नाम
वीर्य्यवान् । अनेनाश्चापि काकुत्स्थः पृधुश्चानेनसः सुतः ।
विष्वगश्वः पृथोः पुत्रस्तस्मादद्रिश्च जज्ञिवान् । अद्रेश्च
युवनाश्वस्तु श्रावस्तस्यात्मजोऽभवत् । तस्य श्रावस्तकोज्ञेयः
श्रावस्ती येन निर्म्मिता । श्रावस्तस्य तु दायादो
वृहदश्वो महाबलः । वृहदश्वस्य दायादः कुबलाश्व इति
पृष्ठ २१०४
स्मृतः । कुबलःश्वस्य पुत्राणां सहस्राण्येकविंशतिः ।
सर्वे विद्यासु निष्णाता बलवन्तः सुदारुणाः । कुबलाश्वश्च
पितृतो गुणैरभ्यधिकोऽभवत् । समये तं पिता राज्ये
वृहदश्वोऽभ्यषेचयत् । कुबलाश्वं महाराज । शूरमुत्तम-
धार्म्मिकम् । पुत्रसंक्रामितश्रीस्तु वृहदश्वो महीपतिः ।
जगाम तपसे धीमांस्तपोवनममित्रहा” । इत्युपक्रम्य
मधुकैटभयोःसमुत्पत्तिबधकथान्ते २०३ अ०
“मार्कण्डेयौवाच । धुन्धुर्नाम महाराज! तयोः
पुत्रोःमहाद्युतिः । स तपोऽतप्यत महत् महावी-
र्य्यपराक्रमः । अतिष्ठदेकपादेन कृशो धमनिसन्ततः ।
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ।
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् । अबध्योऽहं भवेयं
वै वर एष वृतो मया । एवं भवतु गच्छेति तमुवाच
पितामहः । स एवमुक्तस्तत्पादौ मूर्द्ध्नाऽऽस्पृश्य जगाम ह ।
स तु धुन्धुर्वरं लब्ध्वा महावीर्य्यपराक्रमः । अनुस्मरन्
पितृबधं द्रुतं विष्णुमुपागमत् । स तु देवान्
सगन्धर्वान् जित्वा धुन्धुरमर्षणः । बबाधे सर्वानसकृद्विष्णुं
देवांश्च वै भृशम् । समुद्रे बालुकापूर्णे उज्जालक इति
स्मृते । आगम्य च स दुष्टात्मा तं देशं भरतर्शभ! ।
वाधते स्म परं शक्त्या तमुतङ्काश्रमं विभो! । अन्तर्भू
मिगतस्तत्र बालुकान्तर्हितस्तथा । मधुकैटभयोः पुत्रो
धुन्धुर्भीमपराक्रमः । शेते लोकविनाशाय तपोबलमुपा-
श्रितः । उतङ्कस्याश्रमाभ्यासे निःश्वसन् पावकार्च्चिषः ।
एतस्मिन्नेव काले तु राजा सवलवाहनः । उतङ्कविप्रस-
हितः कुबलाश्वो महीपतिः । पुत्रैः सह महीपालः ।
प्रययौ भरतर्षभ! । सहस्रैरेकविंशत्या पुत्राणामरिम-
र्द्दनः । कुबलाश्वो नरपतिरन्वितो बलशालिनाम् ।
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः । उतङ्कस्य नियो
गेन लोकानां हितकास्यवा । तस्मिन् प्रयाते दुर्द्धर्षे
दिवि शब्दो महानभूत् । एष श्रोमानबध्योऽद्य धुन्धु-
मारो भविष्यति । दिव्यैश्च पुष्पैस्तं देवाः समन्तात् पर्य्य-
वाकिरन् । देवदुन्दुमयश्चापि नेदुः स्वयमनीरिताः ।
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः । विपां-
शुलां महीं कुर्वन् ववर्ष च सुरेश्वरः । अन्तरीक्षे विमा-
नानि देवतानां युधिमिर! । तत्रैव समवृश्यन्त धुन्धुर्यत्र
महासुरः । कुबलाश्वस्य धुन्धोश्च युद्धं कौतूहलान्विताः ।
देवगन्धवसहिताः समवैक्षत्महर्षयः । नारायणेन कौरव्य!
तेजसाप्यायितस्तदा । स गतो न्रपतिः क्षिप्रं पुत्रैस्तैः
सर्वतो दिशम् । अर्णवं खानयामास कुबलाश्वोमहीपतिः ।
कुबलाश्वस्य पुत्रैश्च तस्मिन् वै बालुकार्णवे । सप्तभिर्द्दिवसैः
खात्वा दृष्टो धुन्धुर्म्महाबलः । आसीद्घोरं वपुस्तस्य
बालुकान्तर्हितं महत् । दीप्यमानो यथा सूर्य्यस्तेजसा
भरतर्षभ! । ततो धुन्धुर्म्महाराज! दिशमावृत्य
पश्चिमाम् । सुप्तोऽभूद्राजशार्द्दूल! कालानलसम-
द्युतिः । कुबलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः ।
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्म्मुसलैरपि । पट्टिशैः परिघैः
प्रासैः खड्गैश्च विमलैः शितैः । स बध्यमानः
संक्रुद्धः समुत्तस्थौ महाबलः । क्रुद्धश्चाभक्षयत्तेषां
शस्त्राणि विविधानि च । आस्याद्वमन् पावकं स
संवर्त्तकसमं तदा । तान् सर्वान्नृपतेः पुत्रानदहत् स्वेन
तेजसा । मुखजेनाग्निना क्रुद्धो लोकानुद्वर्त्तयन्निव ।
क्षणेन राजशार्द्दूल! पुरेव कपिलः प्रभुः । सगरस्यात्म-
जान् क्रुद्धस्तदद्भुतमिवाभवत् । तेषु क्रोधाग्निदग्धेषु
तदा भरतसत्तम! । तं प्रबुद्धं महात्मानं कुम्भकर्ण
मिवापरम् । आससाद महातेजाः कुबलाश्वो महीपतिः ।
तस्य वारि महाराज! सुस्राव बहु देहतः । तदापीयत
तत्तेजो राजा वारिमयं नृप! । योगी योगेन वह्निञ्च
शमयामास वारिणा । ब्रह्मास्त्रेण च राजेन्द्र! दैत्यं
क्रूरपराक्रमम् । ददाह भरतश्रेष्ठ! सर्वलोकाभयाय वै ।
सोऽस्त्रेण दग्ध्वा राजर्षिः कुबलाश्वो महासुरम् ।
सुरशत्रुममित्रघ्नं त्रैलोक्येशैवापरः । धुन्धोर्बधात्तदा
राजा कुबलाश्वो महामनाः । धुन्धुमार इति ख्यातो
नाम्नाऽप्रतिरथोऽभवत्” ।

कुवे(बे)र पु० कुम्बति धनम् कुबि--एरक् नि० नलोपश्च

कुत्सितं वेरमस्य इति वा । १ धनदे यक्षराजे
अमरः “कुत्सायां क्वितिशब्दोऽयं शरीरं वेरमुच्यते ।
कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” वायुपु० ।
“कुवेरोभव नाम्ना त्वंमम रूपेर्व्यया सुत!” काशीख०
देवीशापोक्तेस्तस्य तथात्वम् । “कुवेरस्य मनःशल्यं
शंसतीव पराभवम्” कुमा० । तस्येदमण् । तत्सम्बन्धिनि त्रि०
स्त्रियां ङीप् “कौवेरदिग्भगमपास्य मार्गम्” मावः ।
क्षुभ्ना० पाठात् कुवेरवनमित्यादौ न णत्वम् वाकप् । कुवे-
रकोऽप्यत्रार्थे कुगतिस० । २ निन्दितदेहे न० ।

कुबेराक्षी स्त्री कुवेरस्याक्षीव पिङ्गलं पुष्पमस्याः षच् समा०

ङीष् । १ पाटलविक्षे २ लताकरञ्जे च राजनि० ।

कुबे(वे)राचल पु० ६ त० । कैलासपर्वते जटा० तस्य कुवे-

रावासत्वात्तथात्वम् । कुवे (वे) राद्रिप्रभृतयोऽप्यत्र ।
पृष्ठ २१०५

कुब्ज पु० ईषत् उब्जमार्ज्जावं यत्र शक० । १ अपामार्गे

राजनि० २ खड्गे शब्दमा० । (कुज) ३ हृदयपृष्ठरोगे पु०
“हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् । क्रुद्धो
वायुर्य्यदा कुर्य्यात् तदा तं कुब्जमादिशेत्” माधवोक्तं
तल्लक्षणम् । ४ तद्युक्ते (कुजो) त्रि० । “कुब्जा नीचतयैव
यान्ति शनकैरात्मेक्षणाशङ्किनः” रत्ना० । सच राज्ञामन्तः
पुरसहायभेदो यथाह सा० द० तद्वदवरोधे इत्युपक्रमे
“वामनषण्डकिरातम्लेच्छाभीराः शकारकुब्जाद्याः”
अवरोधाधिकारिकुब्जलक्षणमुक्तं वृह० स० ६९ अ०
“पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथ
सामी । पूर्वोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणु
लक्षणैस्तान्” । “कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात्
क्षीणः किञ्चित् पूर्ब्बकाये नतश्च । हंसासेवी नास्तिको
ऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात् कृतज्ञः ।
कलास्वभिज्ञः कलहप्रियश्च प्रभूतभृत्यः प्रमदाजितश्च । सम्पूज्य
लोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तः सततोद्यतश्च” ।

कुब्जक पु० कौ उब्जति उब्ज--ण्वुल शक० । अतिसुरभिपुष्पे

वृक्षभेदे “चम्पकात् पुष्पशतकादशोकं पुष्पमुत्तमम् ।
अशोकपुष्पसाहस्रात् सेवतीपुष्पमुत्तमम् । सेवतीपुष्पसाह-
स्रात् कुब्जकं पुष्पमुत्तमम्” शब्दचि० । नरसि० पुरा०
“कुब्जकः सुरभिः स्वादुः कषायानुरसः सरः । त्रिदोष-
शमनो वृष्यः शीतहर्त्ता च स स्मृतः” इति भावप्र० ।

कुब्ज कण्टक पु० कुब्जः कण्टकोऽस्य । श्वेतखदिरे राजनि०

कुब्जा स्त्री कंसभवनस्थे सैरिन्ध्रीभेदे यां पद्भ्यामाक्रम्य कृष्णः

सुरूपां चकार तत्कथा भाग० १० स्क० ४१ अ० यथा
“अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविले-
सभाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छयान्तीं
प्रहसन्रसप्रदः । का त्वं वरोर्वे! तदुहानुलेपनं कस्याङ्गने!
वा कथयस्व साधु नः । देहावयोरङ्गविलेपमुत्तमं श्रेय
स्ततस्ते नचिराद्भविष्यति । स्वैरिन्ध्र्युवाच । दास्यस्म्यहं
सुन्दर! कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्म्मणि ।
मद्भावितंभोजपतेरतिप्रियं विना युवां कोन्यतमस्तद
र्हति । रूपपेशलमाधुर्य्यैर्हसितालापवीक्षिता । धर्षि-
तात्मा ददौ सान्द्रमुभयोरनुलेपनम् । ततस्तावङ्गरागेण
सुवर्णेतरशोभिना । संप्राप्तपरभागेण शुशुभाते सुरञ्जितैः ।
प्रसन्नोभगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं
कर्त्तुं मनश्चक्रे दर्शयन् दर्शने फलम् । पद्भ्यामाक्रम्य
प्रपदे द्व्यङ्गुलोत्तानपाणिना । प्रगृह्य चिवुकेऽध्यात्ममुद-
नीनमदच्युतः । सा तदर्जुसमानाङ्गी वृहच्छ्रोणिपयो-
धरा । मुकुन्दस्पर्शनात् सद्योबभूव प्रमदोत्तमा” ।

कुब्जाम्रक न० भारतप्रसिद्धे तीर्थभेदे “ततः कुब्जाम्रके

गच्छेत् तीर्थसेवी नराधिप! । गोसहस्रमवाप्नोति
स्वर्गलोकं च गच्छति” भा० व० ८४ अ० । तच्च तीर्थं
ब्रह्मावर्त्तसमीपस्थं तत्रैव विवृतिः ।

कुब्जिका स्त्री १ अष्टवर्षामां कन्यायाम् । “अष्टवर्षा च

कुब्जिका” अन्नदाकल्पः कालसङ्कर्षाशब्दे २००४ पृ० विवृतिः ।
२ देवीभूर्त्तिभेदे तस्याः पूजादिविधायकं तन्त्रं कुब्जिका
तन्त्रत्वेन प्रसिद्धम् तन्त्रसारे तत्प्रमाणं दृश्यम् ।

कुब्र न० कुबि--आच्छादने रन् ऋज्रेन्द्रेत्यादिना नि० ।

अरण्ये उज्ज्वलदत्तः । २ कुण्डे ३ कुण्डले ४ तन्तौ
५ शरणे ६ शकटे च संक्षिप्तसारवृत्तिः ।

कुब्र(व्र)ह्म पु० कुत्सितो ब्र(व्र)ह्मा वा टच् । कुत्सिते

ब्र(व्र)ह्मणि टजभावपक्षे कुब्र(ब्र)ह्मन्शब्दोऽप्यत्र ।

कुभ उन्दने भ्वा० पर० सक० सेट् । कोभति अकोभीत् चुकोभ ।

ऋ० भा० माधवसंमतोऽयम् ।

कुभ न० कुभ--क । उदके ऋ० भा० माधवः । कुभन्युशब्दे विवृतिः ।

कुभन्यु त्रि० कुभ--कर्म्मणि घञर्थे क कुभमुदकमिच्छति क्यच्

वा० अनङ् छन्दसि उ । आत्मनः सेकमिच्छति उदकस्य
सेक्तरि “छन्दस्तुभः कुभन्यवः ऋ० ५, ५२, १२,
कुभन्यवः कुभिरुन्दनकर्म्मा” भा० ।

कुभा स्त्री कोः पृथिव्याः भा । पृथिवीच्छायायाम् “राहुः

कुभामण्डलगः शशाङ्कम्” ज्योति० । उपरागशब्दे
१२८५ पृ० विवृतिः । कुगतिस० । २ कुत्सितदीप्तौ । “मा
वोरसानितभा कुभा” ऋ० ५, ५३, ९, “कुभा कुत्सित
दीप्तिः” भा० । ३ तद्युक्ते त्रि० ।

कुभृत् पु० कुं पृथिवीं बिभर्त्ति भृ--क्विप् । १ भूधरे शैले

२ सप्तसंख्यायाम् । एकादिशब्दे १५०८ पृ० विवृतिः
कुभृद्रेस्रिकं सप्तशालाकचक्रम् ज्योति० ।

कुमार केलौ अद० चुरा० उभ० अक० सेट् । कुमारयति ते

अचुकुमारत् त । कुमरयाम् बभूव आस चकार चक्रे ।

कुमार पु० कुमारयति क्रीडोत, कुत्सितो मारो यस्मात्,

कौमारयति दुष्टान् मृ--णिच्--अच् वा । १ कार्त्तिकेये,
नाट्यीक्तौ २ युवराजे, अम० ३ शुके पक्षिणि ४ अश्ववारके,
५ वरुणवृक्षे ६ पञ्चवर्षीये, बालके च मेदि० । “कौनारं
पञ्चमाब्दान्तं पौगण्डं दशमावधि” भाग० १० श्रीधर
पृष्ठ २१०६
धृतवचनम् । स्त्रियां वयोवाचित्वात् ङीष् । “त्रीणि
वर्षाण्युदीक्षेत कुमार्य्युतुमती सती” मनुः । ७ सिन्धुनदे
शब्दर० । ८ अर्हदुपासकभेदे हेमच० । ९ शाकद्वीपेश्वरपुत्रभेदे
१० तदीयवर्षभेदे च विष्णुपु० “शाकद्वीपेश्वरस्यापि भवस्य
सुमहात्मनः । सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त च ।
जलदश्च कुमारश्च सुकुमारो मणीवकः । कुमुदोदः,
समोदाकिः सप्तमश्च महाद्रुमः । तत्संज्ञान्यपि तान्येव सप्त-
वर्षाण्यनुक्रमात्” । ११ शुक्तिमत्पर्व्वतोद्भवे ऋषिकुल्या-
भेदे “ऋषिकुल्याः कुमाराद्याः शुक्तिमत्पादसम्भवाः”
विष्णुपु० । १२ सुन्दरे त्रि० । १३ अविवाहितावस्थायामुपचारात् ।
“कौमारा पूर्ब्बबचने” पा० । “अनेकानि सहस्राणि
कुमारव्रह्मचारिणाम् । दिबं गतानि विप्राणामकृत्वा
कुलसन्ततिम्” मनुः । अतएव अन्नदाकल्पे “एकवर्षा
भयेत्सन्ध्या इत्यादिना षोड़शवर्षान्ताया अपि कुमारीत्व
मुक्तम् । तत्र बालके “कुमारं माता बिभर्त्ति” ऋ०
५, २, १, कुमारस्य रेतः सिक्तं न सम्भवति” “शत० ब्रा०
१, ४, ५, ७, “कन्यानां संप्रदानञ्च कुमाराणाञ्च रक्षणम्”
मनुः नाट्योक्तिं विनापि काव्ये राजदारके कुमारशब्दः
प्रयुज्यते । “आप्तः कुमारानयनोत्सुकेन भोजेन दूतो-
रघवे विसृष्टः” । “कुमारसैन्यं सपदि स्थितं च तत्” रघुः
“तदानुजग्मतुः स्थाणुं कुमाराविव पाचकी” रामा० ।
विश्वसारोक्ते १५ मन्त्रमेदे पु० १६ विद्यायां स्त्री ङीप् ।
मन्त्रविशेषाणां संज्ञाभेदाश्च तन्त्रसारे दर्शिता यथा
विश्वसारे निबन्धे च । “छिन्नोरुद्धः शक्तिहीनः
पराङ्मुख उदीरितः । बधिरोनेत्रहीनश्च कीलितः
स्तम्भितस्तथा । दग्धःस्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ।
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः । हृतवीर्य्यश्च
भीमश्च प्रध्वस्तोबालकः पुनः । कुमारश्च युवा प्रौढोवृद्धो
निस्त्रिंशकस्तथा । निर्व्वीजः सिद्धिहीनश्च मन्दः
कूटस्तथा पुनः । निरंशकः सत्वहीनः केकरोजीवही-
नकः । धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधार्त्तकः ।
अतिदीप्तोऽङ्गहीनः स्यादतिक्रुद्धः समीरितः ।
अतिक्रूरश्च सुब्रीडः शान्तमानस एव च । स्थानभ्रष्टश्च
विकलोनिःस्नेहः परिकीर्त्तितः । अतिवृद्धः पीडितश्च
वक्ष्याम्येषन्तु लक्षणम् । मनोर्यस्वादिमध्यान्तेष्वानिलं
वीजमुच्यते । संयुक्तं वा वियुक्तं वा पुराक्रान्तस्त्रिधा पुनः ।
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः । आदिमध्या-
वसानेषु भूवीजद्वयलाञ्छितः । रुद्धमन्त्रः स विज्ञेयोभ-
क्तिमुक्तिविवर्जितः । मायात्रितयश्रीवीजराकाहीनस्तु
योमनुः । शक्तिहीनः स कथितो यस्य मध्ये न विद्यते ।
कामवीजं मुखे माया शिरस्यङ्कुशमेव च । असौ
पराङ्मुखः प्रोक्तोहकारो विन्दुलाञ्छितः । आद्यन्तमध्ये
विन्दुर्व्वा न भवेद्बधिरः स्मृतः । पञ्चवर्णोमनुर्यःस्याद्रेफा-
र्केन्दुविवर्ज्जितः । नेत्रहीनः स विज्ञेयो दुःखशो-
कामयप्रदः । आदिमध्यावसानेषु हंसप्रासादवाग्भवौ ।
हकारोविन्दुमान् जीवो वावश्चापि चतुःकलः । माया
नमामि च पदं नास्ति यस्मित् स कीलितः । एकं
मध्ये द्वयं मूद्ध्नि यस्मिन्नस्त्रपुरन्दरौ । न विद्येते स मन्त्रस्तु
स्तम्भितः सिद्धिवर्ज्जितः । वह्निर्वायुसमायुक्तो यस्य
मन्त्रस्य मूर्द्धनि । सप्तधा दृश्यते तन्तु दग्धमन्त्रं प्रचक्षते ।
अस्त्रंद्वाभ्यां त्रिभिः षड्भिरष्टभिर्दृश्यतेऽक्षरैः ।
स्रस्तः सोऽभिहितो यस्य मुखे न प्रणव स्मृतः । शिवो-
वा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः । आदौ
मध्ये तथा चान्ते यस्य मार्ण्णचतुष्टयम् । सएव
मलिनो मन्त्रः सर्वविघ्नसमन्वितः । यस्य मध्ये दकारोऽस्ति
कवचं मूर्द्धनि द्विधा । अस्त्रं तिष्टति मन्त्रः स
तिरस्कृत उदाहृतः । द्योद्वयं हृदये शीर्षे वषट्वौषट् तु
मध्यमे । सएव भेदितोमन्त्रः सर्वशास्त्रविवर्ज्जितः । त्रि-
वर्ण्णो हंसहीनोयः स सुषुप्तौदाहृतः । मन्त्रोवाप्यथ वा
विद्या सप्ताधिकदशाक्षरा । फट्कारपञ्चकादिर्योमदोन्म-
त्त उदाहृतः । तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः
स मूर्च्छितः । विरामेऽङ्गस्य यो मन्त्रो हृतवीर्य्यः स
उच्यते । आदौ मध्ये तथा चान्ते चतुरस्रयुतोमनुः ।
ज्ञातव्योभीम इत्येष यःस्यादष्टादशाक्षरः । एकोनविं-
शत्यर्ण्णो वा योमन्त्रस्तारसंयुतः । हृल्लेखाङ्कुशवीजाढ्यं
प्रध्वस्तं तं प्रचक्षते । सप्तवर्ण्णो भवेद्बालः कुमारोऽष्टा-
क्षरःस्मृतः । पोडशार्ण्णो युवा प्रौढ़श्चत्वारिंसल्लिपिर्म्मनुः ।
त्रिंशदर्णश्चतुःषष्टिवर्णोमन्त्रः शताक्षरः । चतुःशताक्षर-
श्चापि वृद्धः स परिकीर्त्तितः । नवाक्षरो ध्रुवयुतो
मनुर्निस्त्रिंश ईरितः । यस्यावसाने हृदयं शिरोमन्त्रौ च
मध्यतः । शिखा वर्म्म च न स्यातां वौषट्फट्कार एव
वा । शिबशक्त्यर्ण्णहीनो वा स निर्वीजः उदाहृतः ।
एषु स्थानेषु फट्कारः षोढा यस्मिन् प्रदृश्यते । स
मन्त्रः सिद्धिहीनःस्या न्मन्दःपङ्क्त्यक्षरोमनुः । कूट
एकाक्षरो मन्त्रः स एवोक्तोनिरंशकः । द्विवर्ण्णः सत्वहीनः
स्याच्चुतर्व्वर्ण्णस्तु केकरः । षडक्षरोजीवहीनः सार्द्धसप्ता-
पृष्ठ २१०७
क्षरोमनुः । सार्द्धद्वादशवर्णो वा धूमितः स तु निन्दितः ।
सार्द्धवीजत्रयस्तद्वदेकविंशतिवर्णकः । विंशदर्णस्त्रि-
शदर्ण्णोवःस्यादालिङ्गितः स्मृतः । द्वाविंशत्यक्षरो मन्त्रो
मोहितः परिकीर्त्तितः । द्वात्रिंशदर्णो मन्त्रोयः
सप्तविंशतिवर्णकः । क्षुधार्त्तः स तु विज्ञेयश्वतुर्विंशति-
वर्णकः । एकादशाक्षरोवाऽपि पञ्चविंशतिसंख्यकः ।
त्रयोविंएतिवर्णो वा मन्त्रोऽतिदीप्तईरितः । षड्विंश-
त्यक्षरोमन्त्रः षट्त्रिंशदर्णकस्तथा । त्रिंशदेकोनवर्णो वा
त्वङ्गहीनः स एव हि । अष्टाविंशत्यक्षरोय एकत्रिंशदथा-
पि वा । अतिक्रुद्धः स विज्ञेयो निन्दितः सर्वकर्म्मसु ।
त्रिंदशदक्षरकोमन्त्रस्त्रयस्त्रिंशदथापि वा । अतिक्रूरः
स सिज्ञेयो निन्दितः सर्वकर्म्मसु । चत्वारिंशत्तमा
विद्या त्रिषष्टिर्यावता भवेत् । तावत्संख्या निगदिता म
न्त्राः सदसंज्ञकाः । पञ्चषडक्षरा ये स्युर्मन्त्रास्ते
शान्तमानसाः । एकोनशतपर्य्यन्तं पञ्चषष्ठ्यक्षरादिति । ते सर्वे
कथितामन्त्राः स्थानभ्रष्टा न शोभनाः । त्रयोदशाक्षरा
ये स्युर्म्मन्त्राः पञ्चदशाक्षराः । विकलास्तेऽभिधीयन्ते
शतंसार्द्धशतंतथा । शतद्वयंद्विनयतिरेकहीना तथापि वा ।
यावच्छतत्रयं संख्या निःस्नेहास्ते प्रकीर्त्तिताः । चतुः-
शतमथारभ्य यावद्वर्णसहस्रकम् । अतिवृद्धः स मन्त्र-
स्तु सर्वशास्त्रविवर्ज्जितः । सहस्रार्णाधिका मन्त्रा
दण्डकाः पीड़िताह्वयाः । द्विसहस्राक्षरामन्त्राः खण्डशः-
सप्तधा कृताः । ज्ञातव्यास्तोत्ररूपास्ते मन्त्राएते
यथास्थिताः । तथा विद्याश्च वोद्धव्या मन्त्रिमिः सर्वकर्म्मसु ।
दोषानिमानविज्ञाय योमन्रं भजते बुधः । सिद्धिर्न
जायते तस्य कल्पकोटिशतैरपि” अथ मन्त्राणां
दोषशान्तिः तदुक्तं तत्रैव “छिन्नादिदुष्टाये मन्त्रास्तन्त्रे-
तन्त्रेनिरूपिताः । ते सर्वे सिद्धिमायान्ति मावृकार्णप्रभा-
घतः । मारकार्णैः पुटीकृत्य मन्त्रं विद्यां
विशेषतः । शतमष्टोत्तरं पूर्वं प्रजपेत् फलसिद्धये । तदा
मन्त्रोमहाविद्या यथोकफलदा भवेत् । मातृकापुटितं
कृत्वा मध्ये वर्णान्निधाय च । मत्त्रवर्णांस्ततः कुर्य्याच्छो-
धनन्तत्र सम्मतम् । बद्ध्वा तु योनिमुद्रां तां संङ्कोच्याधा-
रपङ्कजम् । तदुत्पन्नान् मत्त्रवर्णान् कुर्वतश्च गतागतान् ।
ब्रह्मरन्ध्रावधि ध्यात्वा वायुमापूर्य्य कुम्भयेत् । सहस्रं
प्रजपेन्मन्त्रं मत्रदोषोपशात्तये” । तथा । “एषु दोषेषु
प्राप्तेषु मायां काममथापि वा । क्षिप्वा चादौ श्रियं चैव
तद्दूषणविमुक्तये” । तथा । “तारसंपुटितोवापि दुष्टम-
न्त्रोऽपि सिध्यति । यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्य
सिध्यति” तथा । “प्रणवोमावृका देवी हृल्लेखेत्यमृत-
त्रयम् । अमृतत्रयसंयोगाद्दुष्टमन्त्रोऽपि सिध्यति”
तत्र विद्यायां “कुमारी या च विद्येयं त्वया शप्ता
पतिव्रते! । केवलं शिवरूपेण शक्तिरूपेण केबलम्”
मुण्डमा० । १७ स्वरोदयेक्ते बालादिचक्रस्थे स्वरभेदे
पु० चक्रशब्दस्थबालादिचक्रे विवृतिः । तत्र स्कन्दे “अग्ने
पुत्रः कुमारस्तु श्रीमान् शरवणालयः” भा० आ०
६६ अ० । “कुमारमभिगम्याय वीराश्रमनिवासिनम् ।
अश्वमेधमवाप्नोति नरो नास्त्यत्र न संशयः” भा० व०
८४ अ० । तस्य कन्दर्पापेक्षयाधिकसौकुमार्य्यात्तथात्वम् ।
१८ वालोपद्रावकग्रहभेदे “स्कन्दः सृष्टो भगवता देवेन
त्रिपुरारिणा । बिभर्त्ति चापरां संज्ञां कुमारः इति स
ग्रहः” सुश्रुतः । १९ शुद्धसुवर्ण्णे न० मेदि० । संज्ञायां कन् ।
वरुणवृक्षे तिक्तशाके । स्वार्थे क । बालके हेमच० ।
तस्येदं तस्य भावो वा अण् । कौमार शिशुत्वे बाल्या-
वस्थायां “देहिनोऽस्मिन् यथा देहे कौमारं यौवनं
जरा” गीता ।

कुमारकल्याण न० । चक्रदत्तोक्ते घृतभेदे तल्लक्षणं यथा

“शङ्खपुष्पी वचा ब्राह्मी कुष्ठं त्रिफलया सह । द्राक्षा
सशर्करा शुण्ठी जीवन्ती जीरकं बला । शठी दुरालभा
विल्वं दाडिमं सुरसः स्थिरा । मुस्तं पुष्करमूलञ्च
सूक्ष्मैला गजपिप्पली । एषां कर्षसमैर्भागैर्धृतप्रस्थं विपा-
चयेत् । कषाये कण्टकार्य्याश्च क्षीरे तस्मिंश्चतुर्भुणे ।
एतत् कुमारकल्याणं घुतरत्नं सुखप्रदम् । बलवर्णकरं
धन्यं पुट्यग्निबलवर्द्धनम् । छायासर्व्वग्रहालक्ष्मीक्रिमिदन्त-
गदापहम् । सर्वबालामयहरं दन्तोद्भेदं विशेषतः” ।

कुमारघातिन् त्रि० कुमारं हन्ति हन--णिनि । शिशुमारके ।

कुमारजीव पु० कुमारं जीवयति जीव--णिच् अण् उप०

स० । (जियापोता) जीवपुत्रवृक्षे रत्नमा० ।

कुमारदेष्ण पु० कुमाराणां दाता दा--बा० इष्णच् । कुमार

दातरि “कुमारदेष्णाः जयतः पुनर्हणः” “ऋ० १०, ३४,
७, कुमारदेष्णाः कुमाराणां दातारः, भा०

कुमारधारा स्त्री भारतोक्ते तीर्थभेदे । “पितामहसरो-

गत्वा शैलराजसमीपतः । तत्राभिषेकं कुर्वाणोह्य-
ग्निष्टोममवाप्तुयात् । पितामहस्य सरसः प्रस्रुता लोक
पावनी । कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता । यत्र
स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति । षष्ठकालो-
पवासेन मुच्यते भ्रूणहत्यया” भा० व० ८१ अध्याये स्थितम्
पृष्ठ २१०८

कुमारपालन पु० कुमारेण पाल्यते कर्म्मणि पालि--ल्युट् ।

शालिवाहने १ नृपे हेमच० । कुमारं पालयति पालि + ल्यु
उप० स० । २ बालकपालके त्रि० ।

कुमारभृत्या स्त्री भृ--क्यप् भृत्या भरणम् ६ त० । कुमार-

रक्षणोपायभूते सुश्रुतोक्ते कौमारभृत्याख्ये कौमारतन्त्रे ।
कुमारभृत्या अधिकृत्यम् प्रवृत्तं तन्त्रम् अण् । कौमारभृत्य
कुमाररक्षणोपायज्ञापके तच्छास्त्रांशे । “शल्यं शालक्यं
कायचिकित्सा भूतविद्या कौमारभृत्ये त्यादिना अष्टधा-
शास्त्रं विभज्य तल्लक्षणमुक्तं तत्रैव यथा
“कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोध-
नार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम् ।
विवृतमुत्तरत्र तत्रैव यथा
“नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् । अपस्मार-
शकुन्योञ्च रेवत्याश्च पुनःपृथक् । पूतनायास्तथान्धाया
मण्डिका शीतपूतना । नैगमेयचिकित्सा च ग्रहोत्पत्तिः
सयोनिजा । कौमारतन्त्रमित्येतच्छारीरेषु च कीर्त्तितम्” ।
तत्प्रकारस्तत्रैव उत्तरतन्त्रे दर्शितो यथा
“अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः ।
वालग्रहाणां विज्ञान साधनञ्चाप्यनतरम् । ऊत्पत्तिं
कारणञ्चैव सुश्रुतैकमनाः शृणु । १ स्कन्दग्रहस्तु प्रथमः
२ स्कन्दापस्मार एवच । ३ शकुनी ४ रेवती चैव ५ पूतना
चान्धपूतना ६ । पूतना ७ शीतनामा च तथैव ८ मुखमण्डि-
का । नवसो ९ नैगमेयश्च यः पिष्टग्रहसंज्ञितः । धात्रीमा-
त्रोःप्राक् प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान् ।
त्रस्तान् हृष्टांस्तर्ज्जितान् क्रन्दितान्वा पूजाहेतोर्हिंस्युरेते
कुमारात् । ऐश्वर्य्यस्थास्ते न शक्या विशन्तो देहं दुष्टं
मानुषैर्विश्वरूपाः । आप्तं वाक्यं तत्समीक्ष्याभिधास्ये
लिङ्गान्येषां यानि देहे भवन्ति । शूनाक्षः क्षतजसगन्धिकः
स्तनद्विड्वक्रास्यो हतचलितैकपक्ष्मनेत्रः । उद्विग्नः सुलु-
लितचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्च्चाः १ ।
निःसंज्ञो भवति पुनर्भवेद्विसंज्ञः संरब्धः करचरणैश्च नृत्य-
तीव । विण्मुत्रे सृजति विनद्य जृम्भमाणः फेनञ्च प्रसृ-
जति तत्सखाभिपन्नः २ । स्रस्ताङ्गो भयचकितो विहङ्ग-
गन्धिः संस्राविव्रणपरिपीडितः समन्तात् । स्फोटैश्च प्रत-
ततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ३ ।
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुख-
पाकवेदनार्त्तः । रेवत्या ४ व्यंथततनुश्च कर्णनासं मृद्नाति
घ्रुवमभिपीडितः कुमारः । स्रस्ताङ्गः स्वपिति सुखं दिवा
न रात्रौ विडमिन्नं सृजति च काकतुल्यगन्धिः । छर्द्या-
र्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृ-
हीतः ५ । यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभि-
र्ज्वरसहिताभिरर्द्यमानः । दुर्वर्णः सततमधःशयोऽम्लग-
न्धिस्तं ब्रूयुर्वरभिषजोऽन्धपूतनार्त्तम् ६ । उद्विग्नो
भृशम तवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः ।
विस्राङ्गो भृशमतिसार्य्यते च यस्तं जानीयाद्भिषगिह
शीतपूतनार्त्तम् ७ । म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो
बह्नाशी कलुषासरावृतोदरो यः । सोद्वेगो भवति च
मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकार्त्तः ८ । यः
फेनं वमति विनम्यते च मध्ये सोद्वेगं बिलपति चोर्द्ध्व-
मीक्षमाणः । जीर्य्येत प्रततमथो वसासगन्धि र्न्निःसंज्ञो
भवति हि नैगमेयजुष्टः ९ । प्रस्तब्धो यः स्तनद्वेषी
मुह्यते चाविशन्मुहुः । तं बालं न चिराद्धन्ति ग्रहः स
म्पूर्णलक्षणः । विरीतमतःसाध्यं चिकत्सेदचिरार्दितम् ।
गृहे पुराणहविषाभ्यज्य बालं शुचौ शुचिः । सर्षपान्
प्रकिरेत्तेषां तैलैर्दीप्रञ्च कारयेत् । सदा सन्निहितञ्चापि
जुहुयाद्ध्वव्यवाहनम् । सर्वगन्धौषधीवीजैर्गन्धमाल्यैर-
लङ्कृतम् । अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संस्म-
रन् । नमः स्कन्दाय देवाय ग्रहाधिपतये नमः ।
शिरसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम् । नीरु-
जो निर्विकारश्च शिशुर्म्मे जायतां ध्रुवम् ।
अथातः स्कन्दग्रहप्रतिषेधं व्याख्यास्यामः । स्कन्दग्रहो-
पसृष्टानां कुमाराणाञ्च शस्यते । वातघ्नद्रुमपत्राणांनिःक्वाथः
परिषेचने । तेषां मूलेषु सिद्धञ्च तैलमभ्यञ्जने हितम् ।
सर्वगन्धसुरामण्डकैटर्य्यावापमिष्यते । देवदारुणि
रास्नायां मधुरेषु द्रुमेषु च । सिद्धं सर्पिश्च सक्षीरं
पानमस्मै प्रयोजयेत् । सर्षपा सर्पनिर्म्मोको वचा काकादनी
घृतम् । उष्ट्राजाविगवाञ्चैव रोमाण्युद्धूपनं शिशोः ।
सोमवल्लीमिन्द्रवल्लीं शमीं विल्वस्य कण्टकान् । मृगाद-
न्याश्च मूलानि ग्रथितान्येव धारयेत् । रक्तानि माल्यानि
तथा पताका रक्ताश्च गन्धा बिविधाश्च भक्ष्याः । घण्टा
च देवाय बलिर्न्निवेद्यः सकुक्कुटः स्कन्दगृहे हिताय ।
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्य्यात्पुनः शालियवैर्न्न-
वैस्तु । अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं चाहु-
तिभिश्च वह्नेः । रक्षामतः प्रवक्ष्यामि बालानां फाप-
पृष्ठ २१०९
नाशिनीम् । अहन्यहनि कर्त्तव्या या भिषग्मिरत-
न्द्रितैः । तपसां तेजसां चैव यशसां वपुषां तथा ।
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु । ग्रह
सेनापतिर्देवो देवसेनापतिर्बिभुः । देवसेनापरिपुहरः पातु
त्वां भगवान् गुहः । देव देवस्य महतः पावकस्य च यः
सुतः । गङ्गोमाकृत्तिकानाञ्च स ते शर्म्म प्रयच्छतु । रक्त-
माल्याम्बरः श्रीमान् रक्तचन्दनभूषितः । रक्तदिब्यवपुर्द्देवः
पातु त्वां क्रौञ्चसूदनः” १ ।
“अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः । विल्वः
शिरीषो गोलोमी सुरसादिश्च यो गणः । परिषेके प्रयो-
क्तव्यः स्कन्दापस्मारशान्तये । सर्वगन्धविपक्वन्तु तैलम-
भ्यञ्जने हितम् । क्षीरवृक्षकषाये च काकोल्यादौ गणे
तथा । विपक्तव्यं घृते वापि पानीयं पयसान्वितम् ।
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् । गृध्रोलू-
कपुरीषाणि केशाहस्तिनखा घृतम् । वृषभस्य च रोमाणि
योज्यान्युद्धूपनेऽपि च । अनन्तां कुक्कुटीं विम्बीं मर्क्क-
टीञ्चापि धारयेत् । पक्कापक्कानि मांसानि प्रसन्नं रुधिरं
पयः । घृतोदनो निवेद्यश्च स्कन्दापस्मारिणोऽवटे ।
चतुःपथे च कर्त्तव्यं स्नानमस्य यतात्मना । स्कन्दाप-
स्मारसंज्ञोयः स्कन्दस्य दयितः सखा । विशाखसंज्ञश्च
शिशोः शिवोऽस्तु विकृताननः” २ ।
“अथातः शकुनीप्रतिषेधं व्याख्यास्यामः । शकुन्यभिपरीतस्य
कार्य्यो वैद्येन जानता । वेतसाम्रकपित्थानां निःक्वाथः
परिषेचने । कषायमधुरैस्तैलं कार्य्यमग्थञ्जने शिशोः ।
मधुकोशीरह्रीवेरशारिवोत्पलपद्मकैः । रोध्रप्रियङ्गुमञ्जि-
ष्ठागैरिकैः प्रदिहेच्छिशुम् । व्रणेषूक्तानि चूर्णानि पथ्या-
नि विविधानि च । स्कन्दग्रहे धूपनानि तानीहापि
प्रयोजयेत् । शतावरीमृगैर्वारुनागदत्तीनिदिग्धिकाः ।
लक्ष्मणां सहदेवीञ्च वृहतीञ्चापि धारयेत् । तिलतण्डु-
लकं माल्यं हरितालं मनःशिला । बलिरेष करञ्जेषु
निवेद्यो नियतात्मना । निकुञ्चे च प्रयोक्तव्यं स्नानमस्य
यथाविधि । स्कन्दग्रहोपशमनं घृतं तच्चेह पूजितम् ।
कुर्य्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः । अन्तरि-
क्षचरा देवी सर्वालङ्कारभूषिता । अवोमुखी तीक्ष्णतुण्डा
शकुनीते प्रसीदतु । दुर्द्दर्शना महाकाया पिङ्गाक्षी
भैरवस्वना । लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु” ३ ।
“अथातो रेवतीप्रतिषेधं व्याख्यास्वामः । अश्वगन्न्धाजशृङ्गी
च शारिवा सपुनर्न्नवा । सुहे विदारी च तथा कषायाः
सेचने हिताः । तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्ज्जरसेऽपि
वा । धवाश्वकर्णककुभधातकीतिन्द कीषु च । काकोल्या-
दिगणे चैवं पानीयं सर्प्पिरिष्यते । कुलत्थाः शङ्खचूर्णञ्च
प्रदेहाः सर्वगन्धिकाः । गृध्रोलूकपूरीषाणि यवा
यवफखी घृतम् । सन्ध्ययोरुभयोः कार्य्यमेतदुद्ध्वूपर्ने
शिशोः । वरुणारिष्टकमयं रूचकं सेन्दुकं तथा!
सततं धारयेच्चापि कृतं वा पौत्रजीविकम् । शुक्लाः
सुमनसो लाजाः पयः शाल्योदनं तथा । बलिर्न्निवेद्यो
गोतीर्थे रेवत्यै प्रयतात्मना । सङ्गमे च भिषक्-
स्नानं कुर्य्याद्वात्रीकुमारयोः । नानावस्त्रधरा देवी चित्रमा-
ल्यानुलेपना । चलत्कुण्डलिनी श्यामा रेवती ते
प्रसीदतु । लम्बा कराला विनता तथैव बहुपुत्रिका ।
रेवती सततं माता सा ते देवी प्रसीदतु” ४ ।
“अथातः पूतनाप्रतिषेधं व्याख्यास्यामः । कपोतवङ्काऽर-
लुको वरुणः पारिभद्रकः । आस्फोता चैव येज्याः स्युर्व्वा-
लानां परिषेचने । वचा व्यस्था गोलोमी हरितालं मनः
शिला । कुष्ठं सर्ज्जरसश्चवि तैलार्थे वर्ग इष्यते । हितं
घृतं तुगाक्षीर्य्यां सिद्धं मधुरकेषु च । कुष्ठतालीशखदिरं
चन्दनस्यन्दने तथा । देवदारुवचाहिङ्गुकुष्ठं गिरिकद-
म्बकः । एलाहरेणवश्चापि योज्या उद्धूपने सदा ।
गन्धनाकुलिकुम्भीकामज्जानो वदरस्य । कर्कटास्थि
घृतञ्चैव धूपनं सर्षपैः सह । काकादनीं चित्रफलां
विम्बीं गुञ्जाञ्च धारयेत् । मत्स्यौदनञ्च कुर्व्वीत कृशरं
पललं तथा । शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत् ।
उच्छिष्टेनाभिषेकेण शिरसि स्नानमिष्वते । पूज्या च
पूतना देवी बलिभिः सोपहारकैः । मलिनाम्बरसंवी-
ता मलिना रूक्षमूर्द्धजा । शून्यागाराश्रिता देवी दारकं
पांतु पूतना । दुर्द्दर्शना सुदुर्गन्धा कराला मेघका
लिका । भिन्नागाराश्रया देवी दारकं पातु पूतना” ५ ।
“अथातोऽन्धपूतनाप्रतिसेधं व्यास्थास्यामः । तिक्तकद्रु
मपत्राणां कार्य्यंः क्वाथोऽवसेचने । सुरासौवीरकं कुष्ठं
हरितालं मनःशिला । तथा सर्ज्जरसश्चैव तैलार्थमुपदि-
श्यते । पिप्पलः पिप्पलीमूलं वर्गो मधुरको मधु । शालपर्णी
वृहत्यौ च घृतार्थमुपदिश्यते । सर्व्वगन्धैः प्रदेहश्च
गात्रेष्वक्ष्णोश्च शीतलैः । पूरीषं कौक्कुटं केशांश्चर्म्म सर्प-
त्वचन्तथा । जीर्णाञ्च भिक्षुसङ्घाटीं धूपनायोपकल्पयेत् ।
कुक्कुटीं मर्कटीं शिम्बीमनन्ताञ्चापि धारयेत् । मांसमामं
तथा पक्वं शोणितञ्च चतुःपथे । निवेद्यमन्तश्च मृहे
पृष्ठ २११०
शिशोरक्षानिमित्ततः । शिशोश्च स्नपनं कुर्य्यात् सर्व्व गन्धा-
दिकैः शुभैः । कराला पिङ्गला मुण्डा कषायाम्बरबा-
सिनी । देवी बालमिमं प्रीता संरक्षत्वन्धपतना” ६ ।
“अथातः शीतपूतनाप्रतिषेमं व्याख्यास्यामः । कपित्थं
सुवहां विम्बीन्तथा विल्वं प्रचीबलम् । नन्दीं भल्लात-
कीञ्चापि परिषेके प्रयोजयेत् । वस्तमूत्रं गवां मूत्रं सुस्तञ्च
सुरदारु च । कुष्ठञ्च सर्व्वगन्धञ्च तैलार्थमवचारयेत् ।
रोहिणीसर्ज्जखदिरपलाशककुभत्वचः । निःक्वाथ्य
तस्मिन्निःक्वाथे सक्षीरं विपचेत्ततः । गृध्रोलूकपूरीषाणि
वस्तगन्धामहेस्त्वचः । निम्बपत्राणि मधुकं धूपनार्थे
प्रयोजयेत् । धारयेदपि लम्बाञ्च गुञ्जां काकादनीं तथा ।
नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम् । देव्यै देयश्चोप-
हारो वारुणीरुधिरं तथा । जलाशयान्ते बालस्य स्नपनं
चोपदिश्यते । मुद्गौदनाशना देवी सुराशोणितपायिनी ।
जलाशयालया देवी पातु त्वां शीतपूतना” ७ ।
“अथातोमुखमण्डिकाप्रतिषेधं व्याख्यास्यामंः । कपित्थ-
विल्वतर्क्कारीमांसीगन्धर्वहस्तकाः । कुवेराक्षी च योज्याः
स्युर्बालानां परिषेचने । सरसैर्भृङ्गवृक्षाणां
तथाजहरिगन्धयोः । तैलं वसाञ्च संयोज्य पचेदभ्यञ्जने
शिशोः । मधूलिकायां पयसि तुगाक्षीर्य्याङ्गणे तथा ।
मधुरे पञ्चमूले च कनीयसि वृतं पचेत् । वचासर्ज्जरसः
कुष्ठं सर्पिश्चोद्धूपने हितम् । धारयेदपि जिह्वाश्च
चाषचीरल्लिसर्प्पजाः । वर्णकं चूर्ण्णकं माल्यमञ्जनं पारदं
तथा । मनःशिलाञ्चोपहरेद्गोष्ठमध्ये बलिं तथा । पायसं
सपुरोडाशं बल्यर्थ मुपहारयेत् । मन्त्रपूताभिरद्भिश्च तत्रैव
स्नपनं हितम् । अलङ्कृता रूपवती सुभगा कामरूपिणी ।
गोष्टमध्यालयरता पातु त्वां मुखमण्डिका” ८ ।
“अथातो नैगमेयप्रतिषेधं व्याख्यास्यामः । विल्वाग्नि-
न्थिपूतीकाः कार्य्याः स्युः परिषेचने । सुरासौवीरधा-
त्याम्लैः परिषेकश्च शस्यते । प्रियङ्गुसरलानन्ताशत-
पुष्फाकुटन्नटैः । पचेत्तैलं सगोमूत्रैर्दधिमन्त्वम्लका-
ञ्जिकैः । पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च । पचेद्-
घृतञ्च मेधावी खर्ज्जूरीमस्तकेऽपि च । वचां वयस्थां
गोलोभों जटिलां चापि धारयेत् । उत्सादनं हितं
चात्र स्कन्दापस्मारनाशनम् । सिद्धार्थ कवचाहिङ्गु-
कुष्ठञ्चेंवाक्षतैः सह । भल्लातकाजमोदाश्च हितमुद्धूपनं
शिशोः । मर्क्कटोलूकगृध्राणां पूरीषाणि नवग्रहे । धूपः
सुप्ते जने कार्य्योबालस्यहितमिच्छता । तिलतण्डुलकं
माल्यं भक्ष्यांश्च विविधानपि । कुमारपितृमे-
धाय वृक्षमूले निवेदयेत् । अधस्ताद्वटवृक्षस्य स्नपनं
चोपदिश्यते । बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवे-
दयेत् । अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः ।
बालं पालयिता देवो नैगमेयोऽभिरक्षतु” ९ ।
“अथातोग्रहोत्पत्तिमध्यायं व्याख्यास्यामः । नव
स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः । श्रीमन्तो
दिव्यवपुषो नारीपुरुषविग्रहाः । एते गुहस्व रक्षार्थं
कृत्तिकोमाग्निशूलिभिः । सृष्टाः शरवणस्थस्य रक्षि-
तस्यात्मतेजसा । स्त्रीविग्रहा ग्रहा वे तु नाना-
रूपा मयेरिताः । गङ्गोमाकृत्तिकानाञ्च ते भागा
राजसा मताः । नैगमेयस्तु पार्व्वत्या सृष्टो मेषान-
नो ग्रहः । कुमारधारो देवस्य गुहस्यात्मसमः सखा ।
स्कन्दापस्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः । स
च स्कन्दसखो नाम विशाख इति चोच्यते । स्कन्दः-
सृष्टो भगवता देवेन त्रिपुरारिणा । बिभर्त्ति चापरां
संज्ञां कुमार इति स ग्रहः । बाललीलाधरो योऽयं देवो
रुद्राग्निसम्भवः । मिथ्याचारेषु भगवान् स्वयं नैष
प्रवर्त्तते । कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः ।
गृह्लन्तीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः । ततो भगवति
स्कन्दे सुरसेनापतौ कृते । उपतस्थुर्ग्रहाः सर्व्वे दीप्त-
शक्तिधरं गुहम् । उचुः प्राञ्जलयश्चैनं वृत्तिं नः संवि-
धत्स्व वै । तेषामर्थे ततः स्कन्दः शिवं देवमचोद-
यत् । ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।
तिर्य्यग्योर्नि मानुषञ्च दैवञ्च त्रितयं जगत् । परस्प-
रोपकारेण वर्त्तते धार्य्यतेऽपि च । देवा मनुष्यान् प्रीणन्ति
तैर्य्यग्योनींस्तथैव च । वर्त्तमानैर्य्यथाकालं शीतवर्षोष्ण-
मारुतैः । इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः ।
नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् । भागधेयं
विभक्तञ्च शेषं किञ्चिन्न विद्यते । तद्युष्माकं शुभा वृत्ति-
र्ब्बालेष्वेब भविष्यति । कुलेषु येषु नेज्यन्ते देवाः पितर
एव च । व्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा ।
निवृत्ताचारशौचेषु परपाकोपभोजिषु । उच्छन्नबलिभिक्षेषु
भिन्नकांस्योपमोजिषु । गृहेषु तेषु ये बालास्तान्
गृह्णीध्वमशङ्गिताः । तत्र वो विपुला वृत्तिः पूजा चैव
भविष्यति । एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति
चाप्यतः । ग्रहोपसृष्टा बालास्तु दुश्चिकत्स्यतमा मताः ।
वैकल्यं मरणं चाशु ध्रुवं स्कन्दग्रहे मतम् । स्कन्द-
पृष्ठ २१११
ग्रहोत्य ग्रतमः सर्वेष्वेव यतःस्मृतः । अन्योवा सर्वरूप-
स्तु न साध्यो ग्रह उच्यते” । “कुमारभृत्याकुशलै-
रनुष्ठिते भिषग्वराप्तैरथ गर्भभर्मणि” रघुः ।

कुमारयु पु० कुमारं कौमारं याति या--कु मित्रय्वादि०

नि० । युवराजे उज्ज्वलदत्तः

कुमारललिता स्त्री “कुमारललिता ज्स्गाः” वृत्त० र०

उक्ते १ सप्ताक्षारपादके छन्दोभेदे । कुमारं सुन्दरं
ललितं चेष्टितं, तादृशं ललितं, वा यस्य । २ सुकुमार-
चेष्टायां न० । ३ तद्युक्ते त्रि० ।

कुमारवाहिन् पु० कुमारं स्कन्दं वहति वह--णिनि ।

मयूरे शब्दरत्ना० । कुमारवाहनत्वात्तस्य तथात्वम् ।
बह--स्वार्थे णिच् ल्युट् ६ त० । कुमारवाहनमप्यत्र न० ।

कुमारसम्भव न० कुमारस्य कार्त्तिकेयस्य सम्भवमधिकृत्य

कृतोग्रन्थः अण् आख्यायिकायां तस्य लुक् । कालिदास
प्रणीते महाकाव्यभेदे ।

कुमारसू स्त्री कुमारं स्कन्दं सूते सू--क्विप् ६ त० । १ गङ्गा-

याम् २ हैमवत्याञ्च हेमच० । तयोस्तदुत्पत्तिस्थानत्वात्
तथात्वम् कुमारजनन्यादयोऽप्यत्र

कुमारहारित पु० यजुर्वेदसम्प्रायप्रवर्त्तके ऋषिभेदे “कुमार-

हारितात् कुमारहारितः” शत० ब्रा० १४, ५, ५, २२,

कुमारिका स्त्री कुमारी--स्वार्थे क संज्ञायां कन्, कुमार-

ण्वुल् वा । १ अनूढकन्यायाम् २ नवमल्लिकायां ३ स्थू-
लैलायां रत्नमा० । ४ घृतकुमार्य्यां ५ कुमारीशब्दार्थे ।
भारतवर्षस्य नवसु खण्डेषु ६ खण्डभेदे यथाह सि० शि० ।
“ऐन्द्रं कशेरुशकलं किल ताम्रपर्ण्णमन्यद्गभस्तिमदनश्च
कुमारिकाख्यम् । नागञ्च सौम्यमिह वारुणमन्त्यखण्डं
गान्धर्व्वसंज्ञमिति भारतवर्षमध्ये । वर्ण्णव्यवस्थितिरि-
हैव कुमारिकाख्ये शेषेषु चान्त्यजजनाः निवसन्ति सर्वे”
कशेरुशब्दे १८३५ पृ० विवृतिः

कुमारिन् त्रि० कुमारोविद्यतेऽस्य इनि । कुमारयुक्ते “पुत्रि-

णा ता कुमारिणाः ऋ० ८, ३१, ८ कुमारिणौ दम्पती
इत्यर्थः सुपां सुबित्यादिना पा० औस्थाने आच् ।

कुमारिल पु० मीमांसकभेदे “साधु कुमारिल स्वामिन्!

साधु” प्रबोधच०

कुमारी स्त्री कुमार + प्रयमवयोवचनत्वात् स्त्रियां ङीष् ।

१ अनूढकन्यायां वर्षभेदेन तन्नामभेदाः कालसङ्खर्षाशब्दे
उक्ताः तन्त्रसारे तत्पूजाफलसहितानाममेदा अन्यथा
उक्ता यया “होमादिकन्तु सकलं कुमारीपूजनं विना ।
परिपूर्णफलं न स्यात् पूजया तत्द्भवेद्धुवम् । कुमारीपु-
जया देवि! फल कोटिगुणं भवेत् । पुष्पं कुमार्य्यै यद्दत्तं
तन्मेरुसदृशं भवेत् । कुमारी भोजिता येन त्रैलोक्यं तेन
भोजितम्” । तत्र कुमारीनिर्णयः जामले “एकवर्षा
भवेत् सन्ध्या द्विवर्षा च सरखती । त्रिवर्षा त्रिविधा मूर्त्ति-
श्चतुर्वर्षा च कालिका । सुभगा पञ्चवर्षा तु । षड्वर्षा च
उमाभवेत् । सप्तभिर्म्मालिनी साक्षादष्टवर्षा च कुब्जिका ।
नवभिः कालसङ्कर्षा दशभिश्चापराजिता । एकादशे च
रुद्राणी द्वादशाब्दे तु भैरवी । त्रयोदशे महालक्ष्मी
द्विसप्ता पीठनायिकाः । क्षेत्रज्ञा पञ्चदशभिः षोडशे
चाम्बिका स्मृता । एबं क्रमेण संपूज्या यावत्पुष्पं न
दृश्यते । प्रतिपदादिपूर्णिमान्तं वृद्धिभेदेन पूजयेत् ।
महापर्व्वसु सर्वेषु विशेषाच्च पवित्रके । महानवम्यां
देकेशि! कुमारीञ्च प्रपूजयेत् । “कुमारिका ह्यहं नाथ!
सदा त्वंहि कुमारिका । अष्टोत्तरशतं वापि एकां वापि
प्रपूजयेत् । पूजिताः प्रतिपूज्यन्ते निर्दहन्त्यवमानि-
ताः । कुमारी योगिनी साक्षात् कुमारी परदेवता ।
असुरा दुष्टनागाश्च ये च दुष्टग्रहा अपि । भूतवे-
तालगन्धर्व डाकिनीयक्षराक्षसाः । याश्चान्याः देवताः सर्वा
भूर्भुवःखःस्थभैरवाः । पृथिव्यादीनि सर्वाणि व्रह्माण्डं
सचराचणम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
ते तुष्टा सर्वदेवाश्च यस्तु कन्यां प्रपूजयेत् । विधियुक्तं
कुमारीश्च भोजयेच्चैव भैरवीम् । पाद्यमर्घ्यन्तथा
धूपं कुङ्गुमञ्चन्दनं शुभम् । भक्तिभावेन संपूज्य कुमारी-
भ्योनिवेदयेत् । प्रदक्षिणत्रयं कुर्य्यादादौ मध्ये
तथान्ततः । पश्चाच्च दक्षिणा देया रजतंखर्णमौक्तिकैः ।
दक्षिणाश्च कुमारीभ्योदद्यात् प्रक्रमतस्ततः । विवाहयेद्य-
स्तु कन्यां ब्रह्महत्यां विनश्यति । गोहत्या च स्त्रीह-
त्या च सर्कपापं प्रणश्यति । यो यच्च पुण्यकाले च
कन्यादानं प्रकल्पयेत् । वालुकासागरं ज्ञेयं तावद्वद
सहस्रकम् । एकैकं कुलमुद्दिश्य रुद्रलोके महीयते”
कन्यादानन्तु तत्तदेवताप्रीतये इति सम्प्रदायः । वस्तुतस्तु
तत्तद्वर्षायाः कन्यायास्तत्तद्देवताबुद्ध्या शिवरूपत्वं सम्पदा-
नीये विभाव्य दद्यादिति रहस्मार्थः” कृष्णानन्दः ।
“सं प्राप्ते द्वादशे वर्षे कुमारीत्यभिधोबते इति स्मृत्युक्तायां
२ द्वादशवर्षी यकत्यायाम् ३ पार्वत्याम् ४ नवमल्लिकायां
५ नदीभेदे ६ घृतकुमार्य्याम् तत्पर्य्यायगुणादि भावप्रकाशे
उक्तं यथा “कुमारी गृहकन्या च कन्या वृतकुमारिका
पृष्ठ २११२
कुमारी भेदिनी शीता तिक्ता नेत्र्या रसायनी । मधुरा
वृंहणी बल्या वृष्या वातविषप्रणुत् । गुल्मप्लीहयकृद्-
वृद्धिकफज्वरहरी, हरेत् । ग्रन्थ्यग्निदग्धविस्फोट-
पलितत्वत्वगामयान्” ।
७ अपराजितायां ८ जम्बुद्वीपांशभेदे कुमारिकाखण्डे
९ सहायां मेदि० । १० सीतायां हेमच० ११ बन्ध्याकर्कट्याम्
१२ स्थूलैलायां १३ मोदिनीपुष्पे । १४ तरुणीपुष्पे १५ श्यामा-
पक्षिणि राजनि० ।

कुमारीक्रीडनक न० कुमारीभिः क्रीड्यतेऽनेन क्रीड--करणे

ल्युट् ततः यावादि० स्वार्थे क । कुमारीक्रीडासाधने द्रव्ये

कुमारीपुत्र पु० । १ कानीने कन्याकालोत्पन्ने पुत्रे स च

मातामहपुत्रः कानीनशब्दे विवृतिः । ततः प्रकारवचने
स्थूलादि० कन् । कुमारीपुत्रक तत्सदृशे त्रि०

कुमारीश्वशुर पु० ६ त० । विवाहात् पूर्ब्बं धर्षितकन्यायाः

भर्त्तुः पितरि । ततः प्रकारे स्थूला० कन् ।
तत्सदृशे त्रि०

कुमाल केलौ अद० चुरा० उभ० अक० सेट् । कुमालयति ते

अचुकुमालत् त । कुमालयां बभूव आस चकार चक्रे

कुमालक पु० कुमाल--ण्वुल् । सौवीरदेशे हेमच० ।

कुमुद् न० कौ मोदते मुद--क्विप् ७ त० । १ कैरवे मेदि० २ रक्तो-

त्पले त्रिका० । कुत्सिता मुदस्य । ३ कृपणे त्रि० मेदि० ।
४ अप्रीते च त्रि० शब्दर० । कुगतिस० । ५ कुत्सितमोदे स्त्री

कुमुद न० कौ मोदते कुद--क ७ त० । (सुँदि) कैरवे अमरः ।

“कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव”
पञ्चत० । “कुमुदं पिच्छिलं स्निग्धं मधुरं ह्रादि
शीतलम्” भाव० प्र० तद्गुणा उक्ताः । २ रक्तपद्मे मेदि०
३ रूप्ये हेमच० । ४ कर्पूरे पु० राजनि० अयमर्द्धचादि
५ शाल्मलिद्वीपस्थे वर्षपर्वतभेदे । कुन्दशब्दे उदा० ।
६ दक्षिणदिग्गजे अमरः तस्य श्वेतोत्पलनिभत्वा-
त्तथात्वम् । कु भूमि मोदयति मुद--अन्तर्भूतण्यर्थे-
क । ७ विष्णौ “कुमुदः कुन्दरः कुन्दः पर्जन्यः
पावकोऽनिलः” विष्णुस० । ८ पद्मे न० त्रिका० ।
“यस्य बाला बहुव्यासा दीर्घलाङ्गूलमाश्रिताः । ताम्राः
पीता शीताश्चैव प्रकीर्ण्णा घोरकर्म्मणः” रामा० उक्त
लक्षणे ९ वानरभेदे । “मुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन
च” भा० व० २८८ अ० । १० विष्णुपारिषदभेदे । “प्रहस्या-
नुचरा विष्णोः प्रत्यपेधन्नुदायुधाः” इत्युपक्रमे कुमुदः
कुमुदाक्षश्च विष्यक्सेनः पतत्त्रिराट्” भाग० ८, २१, १० ।
११ मेरोरुपष्टम्भगिरिभेदे पु० । “मन्दरोमेरुमन्दरः सुपार्श्वः
कुमुद इत्ययुतयोजनविस्तारोन्नतामेरोश्चतुर्द्दिशमवष्टम्भ-
गिरय उपक्लप्ताः” भा० ५, १६, १ “एवं कुमुदनिरूढोयः
शतवल्लोनाम वटस्तस्य स्कन्धेभ्योनीचानाः पयोदधिमधु-
गुडान्नाद्यम्बरमद्यासनाभरणादयः सर्व्वएव कामदुवा
नदाः कुमुदाग्रात् पतन्तस्तदुत्तरेणावृतमुपयोजयन्ति” तत्रैव
१२ सर्पभेदे कुमुद्घतीशब्दे रघुवाक्यम् । “कुमुदः कुमुदा-
क्षश्च तित्तिरः इलिकस्तथा० भा० आ ३५ अ० १३ दैत्यभेदे च ।
ततः कुमुदा० चतुरर्थ्यां ष्ठक् । कौमुदिक तत्सन्नि-
कृष्टादौ त्रि० । तत्रार्थे ष्ठच् । कुमुदिक तत्रार्थे त्रि०

कुमुदखण्ड न० कुमुदानां समूहः कमला० खण्डच् ।

१ कैरवसमूहे । ६ त० । २ कुमुदस्य भागे

कुमुदगन्ध्या स्त्री कुमुदस्येव गन्धमर्हति ष्यङ् । कुमुदगन्ध-

युक्तायां स्त्रियां ततः करीषगन्ध्याशब्ददर्शितं कार्य्यम् ।

कुमुदघ्नी स्त्री सुश्रुतोक्ते क्षीरविषवृक्षभेदे । यथा “कुमु-

दघ्नी स्रुही जालक्षीर्य्याणि त्रीणि क्षीरविषाणि” ।

कुमुदनाथ पु० ६ त० । चन्द्रे तस्य प्रकाशेन कुमुदस्य

प्रकाशात्तस्य तथात्वम् । कुमुदपत्यादयोऽप्यत्र

कुमुदबन्धु पु० ६ त० । चन्द्रे तत्प्रपाशकत्वात्तस्य तथात्वम्

कुमुदसुहृत्कुमुदबान्धवादयोऽप्यत्र ।

कुमुदवती स्त्री कुमुदानि सन्त्यस्यां मतुप् मस्य वः । कुमुदिन्याम् भरतः ।

कुमुदा स्त्री कुत्सितं मीदते मुद--क टाप् । १ कुम्भिकायां

(पाना) २ गाम्भारीवृक्षे मेदि० । ३ शालपर्ण्णीवृक्षे ४
कट्फले राजनि० । संज्ञायां कन् । कट्कले अमरः । गौरा०
ङीष् । कुमुदी कट्फले स्त्री शब्दरत्ना० ।

कुमुदाकर पु० ६ त० । कुमुदस्थाने ह्रदादौ “कुमुद्वतीनां

कुमुदाकरैरिव” मावः

कुमुदाक्ष पु १ नागभेदे २ विष्णुपारिषदभेदे च कुमुदशब्दे उदा०

कुमुदादि पु० पाणिन्युक्ते चतुरर्थ्यां ष्ठच्प्रत्ययनिमित्ते

शब्दगणभेदे स च गणः “कुमुद शर्करा न्यग्रोध इक्कट
सङ्कट कङ्कट गर्त्त वीज परिवाप निर्यास शकट कच
मधु शिरीष अश्व अश्वत्थ वल्वज यवास कूप विकङ्कट
दशग्राम” । कुमुदिक कुमुदसन्निकृष्टदेशादौ त्रि० स्त्रिर्या
षित्त्वात् ङीष् । तत्रैवोक्ते तदर्थे ष्ठक्प्रत्ययनिमित्ते
२ शब्दगणभेदे स च गणः । “कुमुद गोमय रथकार
दशग्राम अश्वत्थ शाल्मलि शिरीष मुनिस्थल कुण्डल कुट
मधुकर्ण्ण घास कुन्द शुचिकर्ण्ण” । कौमुदिक तत्सन्नि
कृष्टदेशादौ त्रि० स्त्रियां षित्त्वात् ङीष् ।
पृष्ठ २११३

कुमुदाभिख्य न० कुमुदस्येवाभिख्या शोभा यस्य श्वेतत्वात् ।

रौप्ये रजते धातौ शब्दचि०

कुमुदावास पु० कुमुदानामावासः । १ कुमुदप्राये देशे हेमच० २ कुमुदाधारस्थाने च

कुमुदिका स्त्री कौ मोदते मुद--हर्षे क ७ त० । कट्फले

अमरः

कुमुदिनी स्त्री कुमुदानि सन्त्यत्र देशे पुष्क० इनि । १ कुमुद-

युक्तदेशे पुष्करिण्यादौ २ कुमुदलतायां भरतः । “कुमु-
दिनीकुलकेलिकलालसः” भ्रमराष्टकम् । “पद्मिन्यां ये
गुणाः प्रोक्ताः कुमुदिन्याञ्च ते स्मृताः । सा तु मूलादि
सर्व्वाङ्गैः रक्ता समुटिता बुधैः” भावप्र० तद्गुणा उक्ताः
कुमुदानां समूहः खलादेराकृतिगणत्वात् इनि । ३ कुमु
दसभूहे च । “वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लो
ल्लसल्लोचनाः” पञ्चत०

कुमुदिनीनायक पु० ६ त० । चन्द्रे तदुदये कुमुदसंघप्र

काशात्तस्य तथात्वं कुमुदिनीपत्यादयोऽप्यत्र पु०

कुमुदेश पु० ६ त० । चन्द्रे कुमुदेश्वरादयोऽप्यत्र पु०

कुमुद्वत् त्रि० कुमुद + चतुरर्थ्यां ड्मतुप् झय इति मस्य वः ।

१ कुमुदयुक्तदेशादौ “हंसश्रेणीषु तारासु कुमुद्वत्सु च
वारिषु” रघुः स्त्रियां ङीप् । साच २ कुमुदलतायाम् ।
“ग्लपयति यथा शशाङ्कं कुमुद्वतीं न तथाहि दिवसः”
शकु० “कुमुद्वती भानुमतीव भावम्” रघुः “वाप्ये
वैदूर्य्यसोपानपद्मोत्पलकुमुद्वतीः” भा० ४ । ९ । ६४
कुमुदस्यास्ति मतुप् । २ कुप्रीतियुक्ते त्रि० स्त्रियां ङीप्
“प्रभातवाताहतिकम्पिताकृतिः कुमुद्वतीरेणुपिशङ्ग
विग्रहम् । निरास भृङ्गं कुपितेव पद्मिनी न मानिनीशं
सहतेऽन्यसङ्गमम्” भट्टिः मानिनीपक्षे कुमुद्युक्त
स्त्रीपरत्वम् । ३ कुमुदनागस्य भगिन्यां “इमा स्वसारञ्च
यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । इत्युप क्रमे
“संयोजयां विधिवदास समेतबन्धःकन्यामयेन कुमुदः
कुलभूषणेन” । “अतिथिं नाम काकुतस्थात् पुत्रमा
प कुमुद्वती” रघुः

कुमुद्वतीश पु० ६ त० । चन्द्रे कुमुद्वतीनाथतदीशादयोऽप्यत्र पु०

कुमुद्वतीवीज न० ६ त० । (वेरा) इतिख्याते कुमुदिनीवीजे

“भवेत् कुमुद्वतीवीजं स्वादु रूक्षहिमं गुरु” भावप्र०

कुमोदक पु० मोदयति मुद--णिच्--ण्वुल् ६ त० । १ विष्णौ

हेमच० सहि त्राणेन भारावतारणेन च पृथिव्या मोदक
इति तस्य तथात्वम् । तस्येदमण् ङीप् । कौमोदकी
तद्गदायाम् स्त्री

कुम्ब त्रि० कुवि--अच् । बाहुकुण्ठे (कोपा) जटा० “कुरीर

मस्य शीर्षणि कुम्बं चाधिनिदध्मसि” अथ० ६, १३८, ३

कुम्बा स्त्री कुबि--भावे अङ् । १ सुगहनायामावृतौ दृढ़

वेष्टने अमेध्यादिदृष्टिवारणाय वैदिके २ वेष्टनभेदे च
“तस्मिन्नुदीचीनकुम्बां शम्यां निदधाति” त्रैत्ति० । कुम्ब-
यति आच्छायति अच् । ३ स्थूलशाटके स्त्री त्रिका०

कुम्ब्या स्त्री कुबि--यत् । एकार्थप्रतिपादके विध्यर्थवादा-

त्मके वेदैकदेशब्राह्मणवाक्य भेदे माधवः । “तस्मादृत्तं
वा यजुर्वा साम वा गाथां वा कुम्ब्यां वाऽभिव्याहारेद्
व्रतस्वाध्यायाव्यवच्छेदाय” शत० ब्रा० ११ । ५ । ७ । १० ।

कुम्भ पु० कुं भूमिं कुत्सितं वा उम्भति उन्भ--पूरणे अच्

शक० । १ घटे, २ ह्रदोगभेदे, ३ हस्तिशिरःस्थमांसपिण्डद्वये,
“तैः किं मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः”
प्रसन्नराघवम् । ४ कुम्भकर्णस्य पुत्रे, ५ वेश्यापतौ, मेदि०
६ प्राणायामाङ्गे श्वासरोधके चेष्टाभेदे, “दशद्रोणा
भवेत् खारी कुम्भस्तु द्रोणविंशतिरित्युक्ते ७ परिमाणभेदे
“धान्यं दशभ्यः कुम्भेभ्योहरतोऽभ्यधिकं बधः” मनुः ।
ज्योतिषप्रसिद्धे मेषावधिके ८ एकादशराशौ च ।
९ गुग्गुलौ, १० त्रिवृति च न० ।
तत्रघटार्थककुम्भलक्षणमुक्तं हेमा० दा० परिभाषाप्र०”
“विष्णुधर्म्मोत्तरे “हैमराजतताम्रा वा मृण्मया
लक्षणान्विताः । यात्रोद्वाहप्रतिष्ठादौ कुम्भाः स्युरभिषे-
चने । पञ्चाशाङ्गुलवैपुल्या उत्सेधषोड़शाङ्गुलाः । द्वाद-
शाङ्गुलकं मूलं मुखमष्टाङ्गुलं भवेत्” । “पञ्चाशाङ्गुलेति
आशा दिशः, ताश्च, दशसंख्यावाचकत्वेन ज्योतिः-
शास्त्रादौ प्रसिद्धाः पञ्च च आशाश्च पञ्चाशाः
तावन्ति अङ्गुलानि वैपुल्यं येषां ते तथाभूताः । मध्यप्रदेशे
तिर्य्यग्मानेन पञ्चदशाङ्गुला इत्यर्थः । अथवा बाह्यप्रदेशे
बलयाकृतिना सूत्रेण नीयमाना मध्यस्थाने पञ्चाशद-
ङ्गुला इत्यर्थः । अस्मिन् पक्षे पञ्चाशाङ्गुलेति छान्दसः
प्रयोगः” हेमा० ।
तान्त्रिकमानन्तु तन्त्रसा० गौतमीये “हैमं रौप्य तथा
ताम्रं मार्त्तिक्यं वा स्वशक्तितः । वित्तशाठ्यं न कुर्वीत
कृते निष्फलमाप्नुयात् । षट्त्रिंशदङ्गुलं कुम्भं विस्तारो
न्नतिशालिनम् । षोड़शं द्वादशं वापि ततोन्यूनं
न कारयेत्” ।
प्राणायामाङ्गकुम्भकपरकुम्भप्रकारः विधा० पा० उक्तो-
यथा “कुम्भकः पूरकोरेचः प्राणायामस्त्रिलक्षणः ।
पृष्ठ २११४
पूरकं पूरणं वायोः, कुम्भकः स्थापनं क्वचित् । बहिर्निः-
सारणं तस्य रेचकः परिकीर्त्तितः । दक्षिणे रेचयेद्वायुं
वामेन पूरितोदरः । कुम्भेन धारयेन्नित्यं प्राणायामं
विदुर्बुधाः । अङ्गष्ठेन पुटं ग्राह्यं नासाया दक्षिणं पुनः ।
कनिष्ठानामिकाभ्याञ्च वासं प्राणस्य संग्रहे । अङ्गुष्ठत-
र्ज्जनीभ्यान्तु ऋग्वेदी सामगायनः । अङ्गुष्ठानामिकाभ्यां
तु ग्राह्यं सर्व्वैरथर्वभिः” याज्ञ० “दक्षिणे रेचकं
कुर्य्यात् वामेनापूर्य्य चोदरम् । कुम्भकेन जपं कुर्य्यात्
प्राणायामस्य लक्षणम्” शङ्ख्यः । विवृतमेतत् पात० सू०
भाष्यविवरणेषु यथा
“तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” सू०
“सत्यासनजये बाह्यस्य बायोराचमनं श्वासः । कोष्ठस्य
वायोर्निःसारणं प्रश्वासः तयोर्गतिविच्छेद उभयाभावः
प्राणायामः” भाष्यम्
“आसनानन्तरं तत्पूर्ब्बकतां प्राणायामस्य दर्शयन्
तल्लक्षणमाह रेचकपूरककुम्भकेष्वस्ति श्वासप्रश्वास-
योर्गतिविच्छेद इति प्राणायामसामान्यलक्षणमेतदिति
तथाहि यत्र बाह्यवायुराचम्यान्तर्धार्य्यते पूरके । तत्रापि
श्वासप्रश्वासयीर्गतिविच्छेदः यत्रापि कोष्ठोवायुर्विरेच्य
वहिर्धार्य्यते रेचके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदः
एवं कुम्मकेऽपि इति तदेतद्भाष्ये णीच्यते । सत्यास
नेति” वाचस्पतिविवरणम् ।
“वाह्याभ्यन्तरस्तम्मवृत्तिर्देशकालसंङ्ख्याभिः परिदृ-
ष्टोदीर्घसूक्ष्मः” सू०
“यत्र प्रश्वासपूर्ब्बको गत्यभावः स आभ्यन्तरः तृती-
यस्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद् भवति यथा तप्ते
न्यस्तमुपले जलं सर्वतः सङ्गोचमापद्यते । तथा द्वयोर्यु-
गपद्गत्यभावैति त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्य
विषयो देश इति कालेन परिदृष्टाः क्षणानामियत्ताव-
धारणेनावच्छिन्ना इत्यर्थः । सङ्ख्याभिः परिदृष्टाः
एतापद्भिः श्वासप्रश्वासैः प्रथम उद्घात स्तद्वन्निगृहीतस्यै-
तावद्भिः द्वितीय उद्घातः” एवं तृतीय एवं मृदुरेवं मध्य
एवं तीव्र इति सङ्ख्यापरिदृष्टः स खत्वयमेवमभ्यस्तो
दीर्घसूक्ष्मः” भाष्यम्
“प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति
यत्रेति । वृत्तिशब्दः प्रत्येकं संबध्यते ।
रेचकमाह यत्र पश्वासेति । पूरकमाह यत्र श्वासेति ।
कुम्भकमाह तृतीय इति । तदेव स्फुटयति यत्रोभयोः
श्वासप्रश्वासयोः सकृदेव विधारकात् प्रयत्नादभावो भवति
न पुनः पूर्ब्बवदापूरणप्रयत्नौधप्रविधारकप्रयत्नो नापि
रेचकप्रयत्नौवविधारणप्रयत्नोऽपेक्ष्यते किन्तु यथा तप्ते
उपले निहितं जलं परिशुष्यत् सर्वतः संकोचमापद्यते
एवमयमपि मारुतो वहनशीलो बलवद्विधारकप्रयत्ननि-
रुद्धक्रियः शरीरएव सूक्ष्मीभूतोऽवतिष्ठते न तु पूरयति
येन पूरकः, न तु रेचयति येन रेचक इति । इयानस्य
देशो विषयः प्रदेशः । वितस्तिहस्तादिपरिमितो निवाते
प्रदेशे ईशीकातूलादिक्रियानुमितो बाह्य एव नान्त-
रीऽप्यापादतलमामस्तकं पिपीलिकास्पर्शसदृशेनानुमितः
स्पर्शननिमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षण-
स्तेषामियत्तावधारणेनावच्छिन्ना स्वजानुमण्डलं पाणिना
त्रिः परामृश्य छोटिकावच्छिन्नः कालोमात्रा । ताभिः
षट् त्रिंशन्मात्राभिः परिमितः प्रथम उद्घातो मन्दः । स
एव द्विगुणीकृतो द्वितोयोमध्यमः स एव त्रिगुणीकृतस्त-
तीय स्तीव्रः तममिमं सङ्ख्यापरिदृष्टं प्राणायाममाह
सङ्ख्याभिरिति । स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रिया-
वच्छिन्नेन कालेन यथोक्तं छोटिकाकालसमानः प्रथमोद्-
घातकर्म्मतां नीतः उद्घातो विजितो वशीकृतो निगृहीतः
क्षणानामियत्ताकालो विवक्षितः श्वास प्रश्वासेयत्तासं ख्येति
कथञ्चिद्भेदः । स खल्वयं प्रत्यहमभ्यस्तो दिवसपक्षमासा-
दिक्रमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यं
समधिगमनीयः तया च सूक्ष्मो नतु मन्दतया” विव०
“बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सूत्रम्
“देशकालसङ्क्याभिर्वाह्यविषयः परिदृष्ट आक्षिप्तः । तथाभ्य-
न्तरविषयः परिदृष्ट आक्षिप्तः । उभयथा दीर्घसूक्ष्म
तत्पूर्व्वको भूमिजयात् । क्रमेणोभयोर्गत्यभावश्चतुर्थः
प्राणायामः । तृतीयस्तु विषयोनालोचितो गत्यभावः
सकृदारब्ध एव देशकालसष्ट्याभिः परिदृदो दीर्घसूक्ष्मश्च-
तुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात् क्रसेण भूमिज-
यादुभयाक्षेपपूर्बको गत्यभावचतुर्थः प्राणायामः इत्ययं
विशेषैति” भाष्यम्
“एवं त्रयोविशेषा लक्षिताः चतुर्थं लक्षयति बाह्येति
व्याचष्टे देशकालसङ्ख्यामिरिति आक्षिप्तोत्भ्यासवशी-
कृतादूपादवरोपितः सोऽपि दीर्घसूक्ष्म एवं तत्पूर्वको
बाह्याभ्यन्तरविषयः प्राणायामो देशकालसंख्यादर्शन
पूर्ब्बकः, न चासौ चतुर्थः तृतीयैव सकृत्प्रयत्नादह्नाय
जायते किन्त्वभ्यस्यमानस्तां तामवस्थामापन्नः तत्तदवस्था
पृष्ठ २११५
विजयानुक्रमेण भवतीत्याह भूमिजयादिति” ।
“ननूभयोर्गत्यभावस्तम्भवृत्तावप्यस्तीति कोऽस्मादस्य विशेष
इत्यत आह । तृतीय इति अनालोचनपूर्व्व सकृत्प्रय-
त्ननिर्वर्त्ति तस्तृतीयश्चतुर्थस्त्वालोचनपूर्वोबहुप्रयत्ननिर्वर्त्तनीय
इति विशेषः । तयोः पूरकरेचकयोर्विषयो नालोचितोऽय
तु देशकालसङ्ख्याभिरालोचित इत्यर्थः” विवरणम्
“ततः क्षीयते प्रकाशावरणन्” सू०
“प्राणायाममभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानाव-
रणीयं कर्म्म यत्तदाचक्षते । महामोहभयेन इन्द्र-
जालेन प्रकाशशीलं सत्वमावृत्य तदेवाकार्य्ये नियुङ्क्ते इति
तदस्य प्रकाशावरणं कर्म्म संसारनिबन्धनं प्राणायामा-
भ्यासात् दुर्बलं भवति प्रतिक्षणं च क्षीयते ।
तथाचोक्तम् “तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां
दीप्तिश्च ज्ञानस्येति” किञ्च धारणासु च योग्यता मनसः
प्राणायामाभ्यासादेव । “प्रच्छर्द्दनविधारणाभ्यां वा प्रा-
णस्येति” वचनात्” भाष्यम्
“प्राणायामस्यावान्तरप्रयोजनमाह ततैति ।
आव्रियतेऽनेन बुद्धिसत्वप्रकाशैत्यावरणं क्लेशः पाप्मा
च । व्याचष्टे प्राणायाममिति । ज्ञायतेऽनेनेति ज्ञानं
बुद्धिसत्वप्रकाशः विवेकस्य ज्ञानं विवेकज्ञानमावृणोतीति
विवेकज्ञानावरणीयं भव्योयप्रवचनीयादीनां कर्त्तरि
निपातनस्य प्रदर्शनार्थत्वात् कोपनीयरञ्जनीयवत्
अत्रापि कर्त्तरि कृत्यप्रत्ययः । कर्मशब्देन तज्जन्यमपुण्यं
तत्कारणं क्लेशं लक्षयति अत्रैवागमिनामनुमति-
माह यत्तदाचक्षत इति । महामोहोरागः तदवि-
निर्भागवर्त्तिन्यविद्याऽपि तद्ग्रहणेन गृह्यते ।
अकार्य्यमवर्म्मः । ननु प्राणायामश्चेत् पाष्मानं क्षिणोति
कृतं तर्हि तप्रसेत्यतआह दुर्बलं भवतीति न तु सर्वथा
क्षीयते अतस्तत्प्रक्षयाय तपोऽपेक्ष्याते इति अत्राप्याग-
मिनामनुमतिमाह तथा चोक्तमिति । मनुरप्याह
“प्राणायामैर्द्दहेद्दोषानिति” प्राणायामस्य योगाङ्गता
विष्णुपुराणोक्ता “प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते
तु यः । प्रणायामः स विज्ञेयः सवीजोऽवीजएव च ।
परस्परेणाभिभवं प्राणापानौ यदाऽनिलौ । कुरुतस्त-
द्विधानेन तृतीयं संयमात्तयोः” इति किञ्च व्यासः
“प्राणायामोहि मनः स्थिरीकुर्वन् धारणासु योग्यं
करोति” विवरणम्” प्राणायामशब्दे विवृतिः
कुम्भमानमुक्तं हेमा० दा० ख० परिभाषाप्रकरणे
भविष्यपुराणे “पलद्वयंतु प्रसृतं द्विगुणं कुड़वो मतः ।
चतुर्मिःकुड़वैः प्रस्थः प्रस्थाश्चत्वार आढकः । आढ़कैस्तैश्च-
तुर्भिश्च द्रोणस्तु कथितोबुधैः । कुम्भो द्रोणद्वयं शूर्पः
खारी द्रोणास्तु षोड़श” । विष्णु धर्म्मोत्तरे “पलञ्च
कुड़वः प्रस्थ आढ़को द्रोण एव च । धान्यमानेषु
बोद्धव्याः क्रमशोऽमी चतुर्गुणाः । द्रोणैः षोड़शभिः खारी
विंशत्या कुम्भौच्यते । कुम्भैस्तु दशभिर्वाधो धान्यसं-
ख्याः प्रकीर्तिताः” ।
वैद्यकपरिभाषायां कर्षशब्दे दर्शितं “चतुर्भिराढकैर्द्रोणः
कलसोनुल्वणोऽर्म्मणः । उन्मानञ्च घटोराशिर्द्रोणपर्य्याय
संज्ञितः । द्रोणाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः” भाव०
प्र० वाक्यम् । कुम्भराशिस्तु धनिष्ठाशेषार्द्धशतभिषापूर्व्व-
भाद्रपदात्रिपादाद्मकः स च ३६० अंशैर्विभक्तस्य राशिचक्रस्य
३०० त्रिशतोत्तरत्रिंशदंशात्मकः । तस्य स्वरूपादिकमुक्तं
नील० ता० “कुम्भोऽपदो ना दिनमध्यसङ्गप्रसूः स्थिरः
कर्वूरवर्ण्णवायुः । सिग्धोष्णखण्ड स्वरतुल्यधातुः शूद्रः
प्रतीची विषमोदयश्च” । तस्य स्वामी शनिः । स च
स्थिरराशिः “चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी
क्रमशः प्रदिष्टा” इत्युक्तेः । स च पुष्कराख्यः “पुण्यश्च पुष्क-
रश्चैव आधानाख्यस्तथैव च । श्रुथावृत्त्या भवन्त्येते नित्यं
द्वादश राशयः” ज्यो० त० । स च द्विपदराशिः । “मिथुनतुला-
घटकन्या द्विपदाख्याश्चापपूर्व्वभागश्च” तत्रोक्तेः “द्विपद-
वशगाः सर्वे सिहं विहाय चतुष्पदाः, सलिलनिलया
वश्या भक्ष्याः सरोसृपजातयः” तत्रैवोक्तेः तद्राशेः सिंहं
विना सर्वे राशयोवश्या जलजरा भक्ष्याः । स च राहो-
र्मूलत्रिकोणम् । “उच्चं नृयुग्मं घटभं त्रिकोणम्” इत्यु-
क्तेः । तत्र तुलादितो नवांणा ग्राहाः “चराणां
सत्रिकोणानां तच्चराद्या नवांशका” इत्युक्तेः कुम्भापे-
क्षया तुलाराशेर्नवमत्वात्तस्य चरत्वाच्च तथात्वम् तस्य
लङ्कायामुदयमानं उदयशब्दे ११३० पृ० दर्शितम् । देशभेदे
तु भिन्नकालेनेति लग्नकालशब्दे विवृतिः ।
११ प्रह्लादपुत्रभेदे “प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्व्वत्र
भारत! । विशेषतश्च कुम्भश्च निकुम्भैति नामतः”
भा० आ० ६५ अ० “प्रह्लादोऽश्वशिराः कुम्भः संह्रादोग
गनप्रियः” हरिवं० ४२ अ०
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कुण&oldid=314813" इत्यस्माद् प्रतिप्राप्तम्