वाचस्पत्यम्/कासार

विकिस्रोतः तः
Jump to navigation Jump to search


पृष्ठ २०४४

कासार पु० कस्य जलस्यासारीऽत्र । १ सरोवरे विंशत्या रगणै-

रचिते २ दण्डकच्छन्दोभेदे च वृत्त० टी० । ३ पक्वान्नभेदे
न० भावप्र०
“घृते तप्ते विनिःक्षिप्य कटाहे पाचयेन्मनाक् ।
ततस्तत्र विनिःक्षिप्य खण्डं भागसमं पचेत् । ततश्चाकृष्य
तत् पात्रे क्षिप्त्वा सम्यक् सुचिक्कणे । चतुरस्रीकृतं ह्येतत्
भवेत् कासारसंज्ञकम् । कासारं रुचिदं श्रेष्ठं नातिरूक्षं
नपिच्छिलम् । हृल्लासकफपित्तघ्नं विरुचौ रुचिकारकम् ।
प्रक्षिप्य माषाशृङ्गाटकशेरूणां पृथक् पृथक् । शालूकस्य
च कर्त्तव्यं कासारं खण्डसर्पिषा” ।

कासारि पु० ६ त० । कासमर्द्दवृक्षे भावप्र० कासमर्द्दशब्दे विवृतिः ।

कासालु पु० कासकारी आलुः । कोङ्कणदेशप्रसिद्धे आलुक-

भेदे राजनि०

कासीस न० कासीं क्षुद्रकासं स्यति सो--क । (हिराकस्)

उपधातुभेदे दन्त्यद्वयवानयमित्येके काशीसशब्दे विवृतिः ।
“कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा” सुश्रु० ।

कासृति स्त्री० कुत्सिता सृतिः सरणम् । कुत्सितगतौ

“न कासृत्या ग्रामं प्रविशेत्” गोभि०

कास्तीर न० ईषत्तीरमस्यास्ति कोःका नि० सुट् । ईषत्तीर-

युक्ते नगरभेदे सि० कौ० ।

कास्मर्य्य पु० काश्मर्य्य + पृषो० शस्य सः । गाम्भार्य्याम्

काहका स्त्री काहला + पृषो० लस्य कः । काहलावाद्ये द्वि-

रूपकोषः ।

काहल पुंस्त्री कुत्सितं हलति लिखति हन--अच्, कोः का ।

१ विड़ाले २ कुक्वुटे, स्त्रियां ङीष् ३ शब्दमात्रे पु० ४ महाढ-
क्कायाम्, स्त्री टाप्मेदि० ५ धुस्तूराकारे वाद्यशब्दभेदे
६ अप्सरोभेदे स्त्री शब्दच० ७ अध्यक्तवाक्ये न० हेमच० ।
८ शुष्के ९ भृशे, १० खले च त्रि० मेदि० ।

काहलापुष्प पु० काहलेव पुष्पमस्य । धुस्तूरे शब्दमा०

काहलि पु० कं सुखमाहलति ददाति आ + हल + इन् ६ त० ।

१ शिवे “मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः
भा० आनु०१ ७ अ० २ तरुण्यां युवत्यां स्त्री ङीप् मेदि० ।

काही स्त्री ईषदाहन्ति आ + हन--ड गौरा० ङीष् । कुटज-

वृक्षे राजनि०

कि ज्ञाने जुहो० पर० सक० अनिट् । चिकेति अकैषीत् ।

चिकाय । वैदिकोऽयं धातुः

किंयु त्रि० किमिच्छति मान्तत्वेन निषेधेऽपि वेदे क्यच् ततः

छन्दसि उ । किमिच्छौ “किंयुर्विप्रोनद्योजोहवीति”
ऋ० ३, ३१, ४, “किंयुः किमिच्छुः” भा०

किंराजन् पु० कःकुत्सितो राजा क्षेपार्थत्वात् न टच्समा० ।

कुत्सिते राजनि । किमः प्रश्नार्थकत्वे तु टच् । किं
राजइत्येव ब० व० । किंराजन् निन्दितनृपयुक्ते देशादौ त्रि०

किंवत् त्रि० किं विद्यतेऽस्य मतुप् मान्तत्वात् मस्य वः ।

किंविशिष्टे स्त्रियां ङीप् । कस्येव कस्मिन्निव वा वति ।
किंतुल्यार्थे षष्ठ्यन्तार्थे सप्तम्यन्तार्थे च अव्य० ।

किंवदन्ति(न्ती) स्त्री किम् + वद--झिच् वा ङीप् । जनश्रुतौ

सत्ये असत्ये वा लोकप्रवादे अमरः । “इति व्याधानां
मुखात् किंवदन्ती श्रूयते” हितो० । “अस्ति किलैषा
किंवदन्ती--अस्माकं कुले कालरात्रिकल्पा विद्या नाम
राक्षसी समुत्पस्यते” प्रबोधच०

किंवा अव्य० किञ्च वा च द्वन्द्वः । १ वितर्के २ सम्भावनायां

३ पक्षान्तरद्योतने च मेदि० पदद्वयमित्यन्ये

किंशारु पु० कुत्सितं शॄणाति किम् + शॄ--ञुण् । १ धान्या-

द्यग्रभागे, अम० “शूर्पशोध्रितकणकिंशारुकांस्तण्डुलान-
सकदद्भिः प्रक्षाल्य” दशकु० २ वाणे० ३ कङ्कपक्षिणि च मेदि०
“किञ्जरयोः श्रिणः” उणा० सू० “शॄहिंसायाम् इत्यु-
ज्ज्वलदत्तोक्तेः शान्तमध्योऽयं शब्दक० दन्त्यमध्यपाठः
प्रामादिकएव । गतिकारकोपदत्वेन तत्पु० प्रकृतिस्वरः ।

किंशुक पु० किञ्चित् शुकैव शुकतुण्डाभपुष्पत्वात् ।

१ पलाशे अमरः “फलस्तनस्थानविदीर्ण्णरागिहृद्विश-
च्छुकास्यस्मरकिंशुकाशुगाम्” नैष० “किंशुकाम्भोजबकु-
लचूताशोकादिपुष्पितैः” सुश्रुतः “ते (दैत्या) हेमनिष्का-
भरणाः कुण्डलाङ्गदधारिणः । निहता बह्वशोभन्त
पुष्पिता इव किंशुकाः” भा० व०१०५ अ०” । अस्यच निर्ग-
न्धत्वम् “विद्याहीना न शोभन्ते निर्गन्धाइव किंशुकाः”
चाणक्यः । फलहीनत्वञ्च “अविज्ञाय फलं योहि कर्म्मे-
त्येवानुधावति । स शोचेत् फलवेलायां यथा किंशुकसे-
चकः” रामा० २ नन्दिवृक्षे राजनि०

किंशुलकं पु० किंशुक + किंशुलुकादीनाम्” पा० नि० लुमध्यता ।

पलाशवृक्षे शब्दर० । अस्य गिरिशब्दे परे दीर्घः ।
किंशुलुकागिरिः (पलाशप्रधानपर्व्वतः)

किंशुलुकादि पु० गिरौ परे दीर्घनिमित्ते पा० उक्ते शब्दगणे

स च गणः किंशुलुक शाव नड़ अञ्जन भञ्जन लोहित
कुक्कुट ।

किंस त्रि० किं स्यति सो--क सवनादि० पूर्व्वपदस्थनिमित्तात्

न षत्वम् । कुत्सितच्छेदके तद्गणे किसेति पाठान्तरम्
पृषो० अनुस्वारलोपः । तदर्थे
पृष्ठ २०४५

किंसखि पु० कः कुत्सितः सखा किमःक्षेपार्थत्वात् न टच्समा० ।

कुत्सिते सख्यौ “स किंसखा साधु न शास्ति योऽधि-
पम्” किरा० प्रश्नार्थे किमः टच्समा० । किंसखैत्येव ।

किंस्वित् अव्य० द्वन्द्वः । वितर्के गणर० स्थाणुरयं किंस्वित्

पुरुषः । स्थाणुत्वपुरुषत्वाभ्यां वितर्कोऽत्र गम्यते ।

किकि पु० कक इन् पृषो० इत्त्वम् । १ नारिकेले राजनि० ।

किकीतिशब्दकारके २ चाषपक्षिणि (स्वर्ण्णचातक) शब्दमा० ।

किकिदिव पु० किकीत्यव्यक्तशब्देन दीव्यति दिव--क ।

चाषपक्षिणि । इन् । किकिदिविरप्यत्र शब्दमा० ।

किकिन् पु० किकीतिशब्दोऽस्त्यस्य वीह्या० इनि । काषपक्षिणि

किकीदिविरिति पदद्वयम् अमरव्याख्याने क्षीरस्वामी ।

किकिर स्त्रि० कॄ--घञर्थे कर्म्मणि क वेदे पृषो० आदौ

क्यागमः । कीर्ण्णे “आविश्य किकिरा कृणु पत्नीनाम्”
ऋ० ६, ५३, ७, “किकिरा कीर्ण्णानि” भा० सुपां सुलुगित्यादि
ना आच् । एतेन किकिराशब्दकल्पनं चिन्त्यम् ।

किकीदि(दी)वि पु० किकीतिशब्देन दीव्यति दिव--इन्

उणा० सू० किकीदिवीति निर्द्देशात् नि० दीर्घः । चाषे सि०
कौ० अत्र पूर्व्वोत्तरपदयोर्ह्रस्वदीर्घविनिमये किकिदीविरि
त्यपि तत्रैव सि० कौ० । “साकं यक्ष्म प्रपत चाषेण
किकिदीविना” ऋ०१०, ९७, १३ ।

किक्किट त्रि० कुत्सिते । “किक्किटाकारेण ग्राम्याः पशवो-

भवन्ति” तैत्ति० स०

किक्किश पु० सुश्रुतोक्ते दैहिके कृमिभेदे । “केशरोमनखादाश्च

दन्तादाः किक्किशास्तथा” कृमिशब्दे विवृतिः

किक्किसाद पु० “राजिमन्तस्तु” इत्युपक्रमे “गोधूमकः

किक्किसाद इति सुश्रुतोक्ते सर्पभेदे । सर्पशब्दे विवृतिः

किखि पु० स्त्री० (ख्याँक शेयालि) शृगालभेदे त्रिका०

किङ्कणी स्त्री किञ्चित्कणति कण--शब्दे इन् ङीप् ।

क्षुद्रघण्टिकायां हेमच०

किङ्कर त्रि० किञ्चित् करोति अच् । १ दासे सेवके स्त्रियान्तु

टाप् । किङ्करस्य पत्नी ङीष् । २ किङ्करी दासपत्न्याम् स्त्री
“अवेहि मां किङ्करमष्टभूर्त्तेः” रघुः । “विप्रस्य किङ्करो
भूपो वैश्यीभूपस्य भूमिप! । सर्वेषां किङ्करः शूद्रो
ब्राह्मणस्य विशेषतः” पुरा० । किङ्करस्य गोत्रापत्यं नडा०
फक् । कैङ्करायण तद्गोत्रापत्ये पुंस्त्री ।

किङ्कल पु० सात्वतवंश्ये नृपभेदे । “भजमानस्य निम्लोचिः किङ्कलो-

मुष्टिरेव च” भाग० ९, २४, ५, नडादौ किङ्कलेति वा पाठः
ततो गोत्रापत्ये फक् । कङ्किलायन तद्गोत्रापत्ये पुंस्त्री०

किङ्किणी स्त्री किङ्किणी + पृषो० इत्त्वम् । १ क्षुद्रघण्टिकायाम्

अम० । तदाकारफले २ विकङ्कतवृक्षे राजनि० “रथेन
काञ्चनाङ्गेन कल्पितेन यथाविधि । शैव्यसुग्रीवयुक्तेन
किङ्किणीजालमालिनाः” भा० आ० २२० अ० “सौभाग्यं
महदाप्नोति किङ्किणीं प्रददद्धरेः” विष्णुध० पु० “भग्नं भीमेन
मरुता भवतोरथकेतनम् । पातितं किङ्किणीजालम्”
वेणी० । ३ अम्लरसायां द्राक्षायां “रुद्रधरः जलजम्बूवृक्षे
हलायुधः “कट्फलं किङ्किणी द्राक्षा लकुचं मोचमेव
च” हारी० । कंशब्दः किण इव यस्यां स्तुतौ गौरा० ङीषु ।
तन्त्रसारोक्ते ५ देवीस्तुतिभेदे सा च “किं किं दुःखं
सकलजननि! क्षीयते न स्मृतायाम्” इत्यादिस्तुतिः ।

किङ्किणीका स्त्री कण--शब्दे ईकन् प्रकृतेः किङ्किणादेशः ।

क्षुद्रवण्टिकायाम् । “तमुवाह वाहः सशब्दचामीर
किङ्किणीकः” कुमा० । अभूमिपालान् भोजान् स्वाना-
तिष्ठत् किङ्किणीकिनः हरिव० ३८ । अस्य पुंस्त्वमपि
“किङ्किणीकविभूषितान्”

किङ्किणीकाश्रम पुंन० भा० प्रसिद्धे तीर्थभेदे । “वैमानिक

उस्पृश्य किङ्किणीकाश्रमे तथा निवासेऽप्सरसां
दिव्ये कामचारी महीयते” भा० अनु० २५ अ० ।

किङ्किर पुंस्त्री किञ्चित् किरति वियोगिनं रागाय वा कॄ--क ।

१ म्रमरे २ कोकिले ३ अश्वे च सारस्वतः स्त्रियां जातित्वात्
ङीष् । ३ कामे पु० ४ गजकुम्भे न० ५ रक्तवर्ण्णे पु० ६ तद्वति त्रि०

किङ्किरात पुं० किङ्किरं रक्तवर्णमतति अत--अण् । अशोक-

वृक्षे जटा० भरनमितशिरः “शेखरैः किङ्किरातैः” रत्ना० ।

किङ्किराल पु० किङ्किराय रक्ततायै अलति कार्य्यान्नोति

अल--अच् ३ त० । वर्वूरे वैद्य० तस्य निर्यासयोगेन
रक्तवर्णस्थिरत्वकरणात् तस्य तथात्वम् ।

किङ्किरिन् पु० किङ्कर + इनि । (वैचि) विकङ्कतवृक्षे जटा०

किङ्किल अव्य० किम् + किल + द्वन्द्वः । “किङ्किलेति कोपा-

श्रद्धयोः” गणरत्नोक्ते १ कोपे २ अश्रद्धायाञ्च । “न मर्षये न
श्रद्दधे किङ्किल भवान् वृषलं याजयेत्” भवत्कर्त्तृकं
शूद्रयाजनं कोपविषयः अश्रद्धाविषयश्च । तदर्थक
किङ्किलशब्दयोगे लिङ् ।

किञ्च अव्य० किञ्च च च द्व० । १ आरम्भे, २ समुच्चये, ३ साकल्पे,

४ सम्भावनायाञ्च मेदि० ५ अवान्तरे जटा०
पृष्ठ २०४६

किञ्चन अव्य० किम् + चन मुग्ध० पदद्वयमित्यन्ये । १ असाकल्ये,

२ अल्पे च किम् + चन--अच् । ३ हस्तिकर्ण्णपलाशे पु०
शब्दरत्ना० “असाकल्ये तु चिच्चन” इत्यम-
रोक्तेः चलेति भिन्नं पदम् अतएव मयू० अकिञ्चनशब्दो-
निपातितः ।

किञ्चित् अव्य० किम् + चित् किञ्च चिच्च समा० वा । १ असाकल्ये,

२ अल्पे च राजनि० । अस्य पदद्वयत्वमते १ अकिञ्चित्कर
इत्यादौ सह सुपेति समास इति वोध्यम् । इदन्तया
निर्द्देष्टुमशक्यत्वमेव किञ्चित्त्वम् । “कम्पेन किञ्चित् प्रति-
गृह्य मूर्द्ध्नः” रघुः “किञ्चित् प्रकाशस्तिमितोग्रतारैः” ।
“आवर्ज्जिता किञ्चिदिव स्तनाभ्याम्” कुमा० ।

किञ्चिलिक पु० किञ्चित् चुलुम्पति सौत्रः चुलुम्प--डु संज्ञायां

कन् । (केंचो) महीलताख्ये कीटमेदे अम० पृषो०
किञ्चिलिकोऽप्यत्र अमरटी० ।

किञ्जप्य न० किञ्चिज्जप्यं यत्र । भा० प्रसिद्धे तीर्थभेदे किन्दानशब्दे दृश्यम् ।

किञ्जल न० किञ्चित् जलमत्र । पद्मादेः केशरे शब्दर० पृषो०

ललोपे” किञ्जलमप्यत्र राजनि० ।

किञ्जल्क पु० किञ्चित् जलति जल--अपवारणे क तस्य नेत्त्वम् ।

पुष्पादेः १ केशरे, २ पुष्परेणौ, ३ नागकेशरे च मेदि० पद्ममध्य-
स्थे केशाकारे पदार्थे । “केचित् किञ्जल्कसङ्काशाः केचित्
पीताः पयोधराः” भा० व०१८८ अ० । “पद्मोदरच्युतरजः
किञ्जल्कारुणतां गतैः” भा० व०१५८ अ० “किञ्जल्किनीं
ददौ चार्ब्धिमालामम्लानपङ्कजाम्” देवीमा अमरे पुंस्त्वं
जटाधरे क्लीवतेत्युभयलिङ्गता तद्गुणादिकं भावप्र०
उक्तं “किञ्जल्कः शीतलोरूक्षः कषायो ग्राह-
कोऽपि सः । कफपित्तवृषानाहरक्तार्शोविषशोथजित्”
तत्र पुष्पकेशरे “हिरण्यस्रजोयाजयेयुः वज्रकिञ्जल्काः
शतपुष्करा होतुः” आ० श्रौ० ९, ४, ५ “वज्रैःकृतकिञ्जल्काः
कृतकेशरा” होतुः स्रजःकार्य्याः नारा०

किट गतौ सक० भये अक० भ्वा० पर० सेट् । केटति अकेटीत्

किकेट प्रनिकटति ।

किटकिटाय किटकिटेत्यव्यक्तशब्दकरणे डाच्--क्यच्--नामधातुः

किटकिटायते अकिटकिटायीत् “दन्तात् किटकिटायते
उद्गताक्षोजिह्वां खादति” सुश्रुतः

किटि पु० किट--गतौ इन् किच्च । शूकरे अमरः स्त्रिया

मिदन्तत्वात् वा ङीप्

किटिभ पु० किटिरिव भाति कृष्णत्वात् भा--क । १ केशकीटे

(उकुण) हेम० । २ सर्पदंशनोपद्रवभेदे न० सुश्रु० । “दद्रवः
कर्णिकाश्चैव विसर्याः किटिभानि च । तैर्भवनीह द-
ष्टानां यथास्वञ्चाप्युपद्रवाः” । “पिडकोपचयश्चोग्राः विसर्पाः
किटिभानि च । पर्व्वभेदोरुजस्तीव्रोज्वरोमूर्च्छा च
दारुणाः । दौर्बल्यमरुचिश्वासोवमथुर्लोमहर्षणम् । “दष्ट-
रूपं समासोक्तमेतच्च व्यासतः शृणु” सुश्रु० । तल्लक्षणं
तत्रोक्तं यथा । “यत् स्रावि वृत्तं घनमुग्रकण्डु तत्
स्निग्धकृष्णं किटिभं वदन्ति”

किट्ट न० किट--क्त नि० इडभावः । १ धातूनां मले, २ तैलाद्य-

धोभागस्थे मले च “पृथक् किट्टं पृथङ्मलम्” योगार्ण्णवः ।
“आहारस्य रसः सार सारहीनो मलद्रवः । सिरामि
स्तत्तलं नीतं वस्तिं मूत्रत्वमाप्तुयात् । शेषं किञ्चित्,
च यत्त्वस्य तत्पुरीषं निगद्यते” भावप्र० ।

किट्टवर्ज्जित न० ३ त० । शुक्रे चरमधातौ यथा च तस्य

पाके किञ्चित् मलशून्यत्वं तथोक्तं भावप्र० तच्च
असृक्करशब्दे ५६० पृ० उक्तम् ।

किट्टाल पु० किट्टमालाति आ + ला--क । १ ताम्बकलसे किट्ट-

रूपेण अलति पर्य्यान्नोति अल--अच् । २ लौहमले मेदि०

किण पु० कण गतौ अच् पृषो० अत इत्त्वम् । (घेंटा) ।

(कड़ा) १ शुष्कब्रणे, २ मांसग्रन्थौ, ३ घर्षणजे चिह्ने च ।
“ज्याघातरेखाकिणलाञ्चनेन” रघुः “कराभ्यां किणजा-
ताग्यां शनकैः संववाहतुः” भा० व० १४४ अ० ।

किणि स्त्री किणाय तन्निवृत्तये प्रभवति बा० इन् । अपामार्गे शब्दर०

किणिही स्त्री किण--अस्त्यर्थे इनि किणिनो व्रणान् हन्ति

हन--ड गौ० ङीष् । अपामार्गे अमरः । “इङ्गुदी--कि-
णिही--दन्ती--सरला--देवदारुभिः” सुश्रु०

किण्व न० उल्वादि० नि० । १ सुरावीजे २ पापे च मेदि०

सुरावीजद्रव्यभेदश्च नानाविधः सौत्रामणीशब्दे वक्ष्यते,
भावप्र० “सुरावीजन्तु किण्वकम्” इति परिभाष्य “सुरावीजं
यवगोधूमतण्डुलादि” इति व्याख्यातं सुश्रुते तु कल्वस्य
तण्डुलादिती भिन्नत्वेन निर्द्देशः कृतः यथा
“वैरेचनिकमूलानां क्वाथे माषान् सुभावितान् । सुधौतां-
स्तत्कषायेण शालीनाञ्चापि तण्डुलान् । अवक्षुद्यैकतः
पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् । शालितण्डुल
चूर्णञ्च तत्कषायोष्मसाधितम् । तस्य पिष्टस्य भागांस्त्रीन्
किण्वभागविमिश्रितान् । मण्डोदकार्थे क्वाथञ्चदद्यात्तत्य-
र्व्वमेकतः । निदध्यात्कलसे तान्तु सुरां जातरसां पिवेत्”
“किण्वादिभ्योमदशक्तिवत्” सां० सू० । अयं शब्द पु० न०
इति भरतः । तस्मै हितम् अपूपा० यत् छ वा किण्व्य
किण्वीत्य तत्साधने द्रव्ये त्रि०
पृष्ठ २०४७

कित संशये रोगापनयने च चा० पर० सक० सेट् एतदर्थे स्वा-

र्थेसन् । चिकित्सति अ चकित्सीत् चिकित्सा चिकित्-
सितुम् चिकित्सितः । वासे अक० न सन् इच्छायां सक०
न सन् । केतति अकेतीत् । केतनं केतुः

कित ज्ञाने जुहो० पर० सक० सेट् वैदिकोऽयम् । चिकित्ति

अकेतीत् । “यं नोअचिकेत् चित्रभानो” ऋ०१०, ५१, ३,

कित पु० कित--क ।? ऋषिभेदे तस्य गोत्रापत्यम् अश्वादि०

फञ् । कैतायन तद्गोत्रापत्ये पुं स्त्री०

कितव पु० कि--भावे--क्त कितेन वाति वा--क । १ द्यूतकारके

२ धुस्तूरवृक्षे अमरः ३ वञ्चके, ४ खले, च त्रि० मेदि० ५
चौरनामकगन्धद्रव्ये, पु० शब्दरत्ना० । “यन्मा पितेव कितवं
शशास” ऋ० २, २९, ५ । घृतकारके “कितवानक्षै-
र्दिध्यासमप्रति” अथ० ७, ५, १, “स्तेनाः माहसिका-
धूर्त्ताः कितवा योधकाश्च ये । असाक्षिणश्च ते दृष्टा-
स्तेषु सत्यं न विद्यते” नारदः । “कितवाद्यूतकराः”
रघु० । द्यूते विशेषः या० मिता० दर्शितोयथ
“द्रष्टारोव्यवहाराणां साक्षिणश्च त एवहि” या० “द्यूतव्य-
वहाराणां द्रष्टारस्त एव कितवा एव राज्ञा नियोक्तव्याः
न पुनःश्रुताध्यनसम्पन्ना इत्यादि नियमोऽस्ति । साक्षिणश्च
द्यूते द्यूतकारा एव कार्य्याः न तत्र स्त्रीबालकितवेत्यादि-
निषेधोऽस्ति । क्वचित् द्यूतन्निषेद्धुन्दण्डमाह” मि० “राज्ञा
सचिह्नन्निर्वास्याः कूटाक्षोपधिदेविनः” या० “कूटैरक्षा-
दिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये
दीव्यन्तितान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्रान्निर्वास
येत् । नारदेन निर्वासने विशेष उक्तः “कूटाक्षदेविनः
पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमालामासज्य सह्ये
षां विनयः स्मृत” इति । यानि च मनुवचनानि द्यूतनिषे-
धपराणि “द्यूतं समाह्वयञ्चैव यः कुर्य्यात्कारयेत वा ।
तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः” इत्यादी-
नि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभि-
करहितद्यूतविषयतया च योज्यानि” मि० किञ्च “द्यूत-
मेकमुखं कार्य्यन्तस्करज्ञानकारणात्” या० । “यत्पूर्वोक्तं
द्यूतन्तदेकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्य्यम् ।
राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः तस्कर-
ज्ञानकारणात् तस्करज्ञानरूपम्पर्य्यालोच्य प्रायशः
चौर्यार्जितधना एव कितवाभवन्त्यतश्चौरविज्ञानार्थ
मेकमुखंकार्य्यम्” मिता० । “ग्लहे शतिकवृद्धेस्तु सभिकः
पञ्चकं शतम् । गृह्णीयाद्घूर्त्तकितवात् इतराद्दशकं
शतम्” या० । “यदाऽश्रौषं वाससां तत्र राशिं
समाक्षिपत् कितवो मन्दबुद्धिः” भा० आ० १ अ० । कितवस्य
गोत्रापत्यम् अश्वा० फञ् । कैतवायन तद्गोत्रापत्ये पुंस्त्री ।
उत्करा० चतुरर्थ्यां छ । कितवीय तन्निर्वृत्तादौ
अनन्तरापत्येतिका० झिञ् । कैतवायनि तदपत्ये पुंस्त्री०
तैकायनिशब्देन द्वन्द्वे फिञो लुक्, बहुत्वे । तैकायनय-
श्च कैतवायनयश्च तिककितवाः, । अस्य व्याघ्रादि० उपमित-
समासः । कितवधूर्त्तः । शौण्डा० ७ त० । अक्षकितवः । वञ्चके
“तव कितव! किमाहितैर्वृथा नः” माघः ६ रोचन-
नामगन्धद्रव्ये राजनि० ।

किन्तनु पु० का कुत्सिता तनुरस्य । (माकडसा) ख्याते कीटभेदे त्रिका०

किन्तमाम् अव्य० कुत्सितार्थे किम् + बहूनां मध्ये एकस्याति

शये तमप् आसु । बहुषु मध्ये प्रकृष्टे कुत्सिते

किन्तराम् अव्य० कुत्सितार्थे किम् + द्वयोर्मध्ये एकस्यातिशये

तरप् आमु । द्वयोर्मध्ये प्रकृष्टे कुत्सिते ।

किन्तु अव्य० किञ्च तु च द्व० । १ पूर्व्ववाक्यसङ्कोचज्ञापने,

२ प्रागुक्तविरुद्धार्थे, ३ किंपुनरित्यर्थे च मेदि० ।

किन्तुघ्न पु० तिथ्यर्द्धरूपकरणभेदे करणशब्दे विवृतिः

किन्दत पु० भारतप्रसिद्धे कूपभेदरूपे तीर्थे “किन्दतं कूप

मासाद्य तिलप्रस्थ प्रदाय च । गच्छेत परमां सिद्धिमृणै
र्मुक्तः कुरूद्वह!” भा० व०८३० अ० ।

किन्दम पु० ऋषिभेदे सहि मृगरूपेण मृगीरूपधारिण्या

स्त्रिया सह सङ्गमकाले पाण्डुना मृगबुद्ध्या हतः ।
तत्कथा भा० आ० ११८ अ० यथा “राजा पाण्डुर्महारण्ये
मृगव्यालनिषेविते । चरन् मैथुनधर्म्मस्थं ददर्श
मृगयुग्मकम् । ततस्ताञ्च मृगीं तञ्च रुक्मपुङ्खैः स पत्रिभिः ।
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः । स च
राजन्! महातेजा ऋषिपुत्रस्तपोधनः । भार्य्यया सह
तेजस्वी मृगरूपेण सङ्गतः” इत्युपक्रम्य पाण्डुं प्रति
तच्छरविद्धस्य तस्य शापदानमुक्तं तत्रैव यथा
“मृग उवाच । नाहं घ्नन्तं मृगान् राजन्! विगर्हेचा-
त्मकारणात् । मैथुनन्तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः ।
सर्व्वभूतहिते काले सर्व्वभूतेप्सिते तथा । को हि विद्वान्
मृगं हन्याच्चरन्तं मैथुनं वने । अस्यां मृग्याञ्च राजेन्द्र!
हर्षान्मैथुनमाचरम् । पुरुषार्थफलं कर्त्तुं तत्त्वया
विफलीकृतम् । पौरवाणां महाराज! तेषामक्लिष्टकर्म्मणाम् ।
वंशे जातस्य कौरव्य! नानुरूपमिदन्तव । नृशंसं कर्म्म
सुमहत् सर्व्वलोकविगर्हितम । अस्वर्ग्यमयशस्यञ्चाप्यधर्म्मिष्ठञ्च
पृष्ठ २०४८
भारत! । स्त्रीभोगानां विशेषज्ञः शास्त्रधर्म्मार्थतत्त्ववित् ।
मार्हस्त्वं सुरसङ्काश! कर्त्तुमस्वर्ग्यमीदृशम् । त्वया नृशंस-
कर्त्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ!
त्रिवर्गपरिवर्ज्जिताः । किं कृतं ते नरश्रेष्ठ! मामिहाना-
गसं घ्नता । मुनिं मूलफलाहारं मृगवेशधरं नृप! ।
वसमानमरण्येषु नित्यं शमपरायणम् । त्वयाहं हिंसितो
यस्मात्तस्मात्त्वामप्यहं शपे । द्वयोर्नृशंसकर्त्तारमवशं
काममोहितम् । जीवितान्तकरो भाव एवमेवागमिष्यति ।
अहं किमिन्दमो नाम तपसा भावितो मुनिः । व्यपत्र-
पन्मनुष्याणां मृग्यां मैथुनमाचरम् । मृगो भूत्वा मृगैः
सार्द्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्य-
त्यविजानतः । मृगरूपधरं हत्वा मामेवं काममोहि-
तम अस्य तु त्वं फलं मूढ़! प्राप्स्यसीदृशमेव हि ।
प्रियया सह संवासं प्राप्य कामविमोहितः । त्वमप्यस्या-
मवस्थायां प्रेतलोकं गमिष्यसि । अन्तकाले हि संवासं
यया गन्तासि कान्तया । प्रेतराजपुरं प्राप्तं सर्व्वभूतदु-
रत्ययम् । भक्त्या मतिमतां श्रेष्ठ! सैव त्वानुगमिष्यति ।
वर्त्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा त्वाञ्च
सुखं प्राप्तं दुःखमभ्यागमिष्यति” ।

किन्दर्भ पु० ऋषिभेदे तस्यापत्यम् विदा० अञ् । कैन्दर्भ तदपत्ये पुंस्त्री०

किन्दान न० किञ्चिदपि दानमावश्यकं यत्र । भारतप्रसिद्धे

सरकतीर्थस्थे तीर्थभेदे सरकमुपक्रस्य “किन्दाने च नरः
स्नात्वा किञ्जप्ये च महीपते! । अप्रमेयमवाप्तोति दानं
जप्यञ्च भारत!” भा०, व०, ८३ अ० ।

किन्दास पुं कः कुत्सितोदासः । निन्दिते दासे ततः अनार्ष-

त्वात् अपत्ये विदा० अञ् । कैन्दास तदपत्ये पुंस्त्री० ।

किन्धिन् पुं कुत्सिता धीरस्त्यस्य व्रीह्या० इनि । अश्वे त्रिका०

स्त्रियां ङीप् ।

किन्नर पुंस्त्री कः कुत्सितो नरः तुरङ्गवदनत्वात् ।

देवयोनिभेदे स च पुलस्त्यर्षिपुत्रभेदः । “राक्षसाश्च
पुलस्वस्य वानराः किन्नरास्तथा । यक्षाश्च मनुजव्याघ्र!
पुत्रास्तस्य च धीमतः” भा० आ० ६६ अ० । “किन्नरान्
वानरान् मत्स्यान् विविधांश्च विहङ्गमान्” मनुः स्त्रियां
ङीष् । “ऋक्षीषु च तथा जाता वानराः किन्नरीषु च”
रामा० । किञ्चित्क्वणत्किन्नरमध्युवास” “उद्गास्यता-
मिच्छति किन्नराणाम्” कुमा० । “किमिदं किन्नर-
कण्ठि! सुप्यते” रघुः । २ वर्षभेदे च किम्पुरुशब्दे
विवृतिः ३ अर्हदुपासकभेदे हेम० ।

किन्नरेश पुं ६ त० । कुवेरे तस्य तदधिपत्वकथा काशी० ख०

१३ अ० यथा “वरं ददामि ते वत्स! तपसाऽनेन तोषितः ।
निधीनामधिनाथस्त्वं गुह्यकानामपीश्वरः । यक्षाणां
किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत! । पतिः पुण्य-
जनानाञ्च सर्ब्बेषां धनदोभव” किन्नरेश्वरादयोऽप्यत्र

किन्नु अव्य० किञ्च नु च द्व० । १ प्रश्ने, २ वितर्के ३ सादृश्ये

४ स्थाने च जटाधरः पदद्वयमित्येके ।

किप्य पु० सुश्रुतोक्ते पुरीषजे कृमिभेदे । “अयवा वियवाः

किप्याश्चिप्या गण्डूपदास्तथा । चुरवोद्विमुखाश्चैव सप्तैवैते
पुरीषजाः” सुश्रु० ।

किम् त्रि० कु--शब्दे बा० डिमु । १ कुत्सिते २ जिज्ञासिते ३ वितर्क-

विषये । ४ कुत्सायां ५ गर्हणे ६ वितर्के ७ प्रश्ने ८ सादृश्ये,
(प्रकारे) ९ करणे च अव्य० जटा० १० ईषदर्थे ११
अतिशये गणरत्नम् । तत्र त्रिलिङ्गस्य सर्व्वनामता के
कस्मै इत्यादि “के यूयं स्थल एव संप्रति वयं प्रश्नोविशे-
षाश्रयः” सा० द० । “कस्मै नाथ! समर्प्य कैरवकुलं व्योमा-
न्तमालम्बसे” उद्भटः । “केषां नैषा भवति कविता कामिनी
कौतुकाय” प्रसन्नरा० । “कस्मिंश्चिद्वनोद्देशे भासुरकोनाम
सिंहः प्रतिवसति” पञ्चतन्त्रम् । “कस्मिन्नु खलु विज्ञाते सर्वं
विज्ञातं भवति” मुण्डकश्रुतिः । निन्दितार्थे किंराजा
किङ्गौः इत्यादि । “किंराजा यो न रक्षति” “स
किंसस्रा साधु न शास्ति योऽधिपम्” किरा० इत्यादि तत्र
ईषदर्थे न किमप्यस्यास्ति । किञ्चिदपि नास्तीत्यर्थः
अतिशये किमप्येष प्रगल्भसे अतिशयितं प्रगल्भसे इत्यर्थः
अव्ययस्य प्रश्ने “किमिदं किन्नरकण्ठि सुप्यते” रघुः
तत्र किंशब्दशक्तिबोधादिप्रकारो गदाधरेण शक्तिवादे
दर्शितो यथा ।
“किंपदस्य जिज्ञासिते शक्तिः एतदेव स्वीयजिज्ञासाज्ञाप-
नाय किंपदघटितप्रश्नवाक्यं प्रयुज्यते । तत्रोद्देश्यवा-
चककिंपदस्य समभिव्याहृतपदोपस्थाप्यतावच्छेदकधर्मा-
बच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तृजि-
ज्ञासितो धर्मः प्रवृत्तिनिमित्तं उपस्थाप्यतावच्छेदकत्वा-
न्तमुपलक्षणतयानुगमकं शाब्दबोधे तदभानात् । एवञ्च
कः पचतीत्यतः पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्दे-
श्यतावच्छेदकत्वेन जिज्ञासितो यो धर्म्मस्तद्वान्पचती-
त्याकारोऽन्वयबोधः प्रतिपाद्यते किञ्चिद्धर्मावच्छिन्नोद्दे-
श्यतानिरूपितपाककृतित्वाबच्छिन्नबिधेयताशालिज्ञानं
भबत्वित्याकारिकाया जिज्ञासायास्तादृशबोधविषयकतया
पृष्ठ २०४९
तादृशेच्छाविययीभूतज्ञानजनकाद्ब्राह्मणः पचतीत्युत्त-
रवाक्यात्तन्निवृत्तिरिति तादृशप्रश्नानन्तरं तथैवोत्तरं प्रयु-
ज्यते । न चैवं प्रमेयः पचतीत्युत्तरवाक्यमेव कथं तादृ-
शप्रश्नानन्तरं न प्रयुज्यते तज्जन्यज्ञानस्यापि तादृशे-
च्छाविषयत्वादिति वाच्यं जिज्ञासाविषयीभूतस्वसम-
भिव्याहृतपदोपस्थाप्यविधेयन्यूनवृत्तिधर्म्मावच्छिन्नएव
तादृशकिंपदस्य शक्त्यभ्युपगमात् । अभेदेन स्वार्थान्वितो-
द्देश्यवाचकपदान्तरसमभिव्याहृतकिंपदस्य शक्यता-
वच्छेदकगर्भे च स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षित-
धर्मन्यूनवृत्तित्वमपि धर्म्मांशे विशेषणं देयमतः को ब्रा-
ह्मणः पचतीत्यादिप्रश्नानन्तरञ्चैत्रः पचतीत्यादिकमु-
त्तरवाक्यं प्रयुज्यते नतु मनुष्यः पचतीत्यादिकं मनुष्य-
त्वादेर्ब्राह्मणत्वाद्यन्यूनवृत्तित्वात्तदवच्छिन्नोद्देश्यकत्वेन ज्ञा-
नविषयेच्छायास्तत्राप्रतीतेः एवं यत्रोद्देश्यतावच्छेदके
किंपदार्थस्याभेदेनान्वयस्तत्र तदन्वयितावच्छेदकधर्म्माव-
च्छिन्नबिशेषणतापन्नतदन्वयितावच्छेदकधर्मन्यूनवृत्तिधर्मा-
बच्छिन्नोद्देश्यतावच्छेदकताकप्रकृतज्ञानगोचरेच्छा किंप-
देन बोध्यतेऽतः कति घटाः सन्तीत्यादौ डतिप्रत्ययार्थे
संख्यादौ किंपदार्थख जिज्ञासितधर्म्मावच्छिन्नस्याभेदे-
नान्वयात् संख्यात्वन्यूनवृत्तिदशत्वत्वाद्यवच्छिन्नोद्देश्यताव-
च्छेदकताकबोधजनकं दशसंख्यका घटाः सन्तीत्यु-
त्तरं तत्र प्रयुज्यते । यत्रोद्देश्यतावच्छेदकीभूतविभक्त्या-
द्यर्थे भेदेन किंपदार्थान्वयः कस्य पुत्रः सुन्दर इत्यादौ
तत्र यादृशसम्बन्धेन यदवच्छिन्ने यदन्वयस्तत्र तादृश-
सम्बन्धेन विशेषधर्म्मावच्छिन्नविशेषिततदवच्छिन्ननिष्ठोद्दे-
श्यतावच्छेदकतावच्छेदकताकप्रकृतबिधेयज्ञानगोचरेच्छा
प्रतीयते एवं विधेयवाचककिंपदस्य स्वसमभिव्याहृत-
पदोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्म्मावच्छिन्नोद्देश्यता-
निरूपितविधेयतावच्छेदकतया जिज्ञासितो विशेषधर्म्म-
स्तदवच्छिन्ने शक्तिरित्ययं क इत्यादौ इदन्त्वावच्छिन्नांशे
बिधेयतावच्छेदकत्वेन जिज्ञासितधर्म्मवानित्याकारकोऽन्वय-
बोधः । तेन तद्विषयकजिज्ञासाजनकज्ञानजनकं चायं
ब्राह्मण इत्याद्युत्तरवाक्यं तादृशप्रश्रानन्तरं प्रयुज्यते ।
एवं यत्र वेधेये विधेयतावच्छेदके वा किंपदार्थस्य
तदवच्छेदकधर्मस्याभेदेन वान्वयः इदं किम् इदं किंधनं
भवतः कति पुत्राः भवान् कस्य पुत्र इत्यादौ रीतिः
पूर्ववदूहनीया “किमिन्दुः किं पद्मं किमु मुकुरविम्बं
किमु मुखं किमब्जे किं मीनौ किमु मदनवाणौ
किमु दृशौ । कटौ वा गुच्छौ वा कनककलशौ वा किमु
कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला”
इत्यादावव्ययकिमो वाशब्दस्येव वितर्कोऽर्थः । वितर्कश्च
प्रयोक्तुः सम्भावनात्मकं ज्ञानं तदर्थस्य च विशेष्यतास-
म्बन्धेन प्रथमान्तपदोपस्थाप्यविशेष्ये प्रकारितासम्बन्धेन
तत्र च विशेषणस्य चन्द्रादेरन्वयः नामार्थेनाव्ययार्थस्य
भेदान्वयेऽविरोधात् । यत्र विशेषणवाचकमपि प्रथमान्तं
तत्राभेदसम्बन्धावच्छिन्नप्रकारितासंसर्गः यत्र तु प्रकृत्यर्थस्य
विशेष्यतया स्वार्थबोधकं विभक्त्यन्तं, यत्र किंपदासत्त्वे
तादृशविभक्त्यन्तसमुदायार्थस्य विशेष्ये यादृशसम्बन्धे-
नान्वयस्तादृशसम्बन्धावच्छिन्नप्रकारितैव तादृशार्थस्य
किंपदार्थे संसर्गोऽतः किमिन्दुरित्यादावभेदेन चन्द्रादि-
प्रकारिका घनमिदं किं चैत्रस्येत्यादावाश्रयत्वादिसम्बन्धेन
चैत्रस्वत्वादिप्रकारिका सम्भावना नियमतः प्रतीयते
किमिन्दुरित्यादौ सम्भावनाबोधोत्तर तत्प्रयोजकाह्लाद-
कत्वादिप्रतीतिस्त्वार्थी । कुत्सार्थकमपि क्वचित्किंपदं
यथा किङ्गौरित्यादौ ।”

किमिच्छक त्रि० किमिच्छसि किमिच्छसीति पृच्छति पृषो० ।

किमिच्छसि किमिच्छसीति प्रश्नकारके भोजनाद्यर्थमाह्वा-
नाय नियुक्ते १ भृत्यादौ । “सुमनोमोदकै रत्नैर्हिरण्येन
च भूरिणा । गोभिर्वस्त्रैश्च राजेन्द्र! विविधैश्चकिमिच्छकैः”
भा० शा० ३८ “किमिच्छसि किमिच्छसीतिप्रश्नकारकैर्भृत्यैः
विविधैर्गोवस्त्रादिभिर्निमन्त्रयद्भिः” नीलक० । किमिच्छसीति
प्रश्चेन दानार्थं कायति शब्दायतेऽत्र पृषो० । २ मार्कण्डेयपु-
राणीक्ते व्रतभेदे पु० तद्व्रते हि “पुरोहितस्य वीराया-
(तन्नामराजमहिष्याः) वदतोऽर्थिजनं प्रति । कः किमि-
च्छति दुःसाध्यम् कार्य्यं किंसाध्यतामिति । करन्धमस्य
महिषी किमिच्छकमुपोषिता । राजपुत्रोऽप्यविक्षित्तु श्रुत्वा
पौरोहितं वचः । प्रत्युवाचार्थिनः सर्व्वान् राजद्वारमु-
पागतान् । मया साध्यं शरीरेण कार्य्यं किञ्चित् ब्रवीतु
मे । मम माता महाभागा किमिच्छकमुपोषिता । शृण्वन्तु
मेऽर्थिनः सर्व्वे प्रतिज्ञातं मयात्र वै । किमिच्छथ ददाम्येवं
क्रियमाणे किमिच्छके” अर्थिनोऽभिलाषानुरूपदानार्थ
केच्छाप्रश्नपूर्व्वकं तद्दानं विहितमिति तस्य तथात्वम् ।
३ इच्छाविषयप्रश्नपूर्व्वकेष्टेच्छानुरूपदेयमात्रेऽपि “प्रति
श्रयान् सभाः कूपान् प्रपाः पुष्करिणीस्तथा । नैत्यकानि
च सर्व्वाणि किमिच्छकमतीव च” भा० शा०६६८५ श्लो०
पृष्ठ २०५०

किमीदिन् त्रि० किमिदानीमिति चरति किम् + इदानी-

म् + इनि पृषो० । किमिदानीमित्येवं चरणशीले पिशुने-
खले “द्वेषे धत्तमनवायं किमीदिने” ऋ० ७, १०४, २,
“किमीदिने किमिदानी मतिचरते पिशुनाय” भा०
“विलुपन्तु यातुधाना अत्रिणो ये किमीदिनः” अथ० १, ७, ३,

किमु अव्य० कै--डिमु । १ प्रश्ने, २ निषेधे, ३ वितर्के, ४ निन्दा-

याञ्च मेदि० “किमु भीरुररार्य्यसे” भट्टिः

किमुत अव्य० किञ्च उत च द्व० । १ प्रश्ने, २ वितर्के ३ विकल्पे,

४ अतिशये च । कैमतिकन्यायः तस्य शब्दद्वयात्मकत्वे तन्न
स्यादिति बोध्यम् “आहो उताहो किमुत वितर्के किं
किमूत च” हेम० किमु--उत इति छेदः तेन किमू-
तेत्येकशब्दकल्पनं चिन्त्यम्

किम्पच त्रि० किं पचति पच--अच् । कृपणे रायसु० । सहि

आत्मोदरपूर्त्तिसमर्थमात्रं पचति नागन्तुकातिथिभ्योदा-
नपर्य्याप्तम् । इति तस्य तथात्वम् ।

किम्पचान त्रि० किम् + पल--आनच् । आत्मोदरपूर्त्तिमात्रप-

र्य्याप्तपाककर्त्तरि कृपणे अमरः ।

किम्पाक पु० कुत्सितः पाकोयस्य । (माखाल) महाकाल लतायां रत्नमा०

किम्पुना स्त्री भा० प्रसिद्धे नदीभेदे “किम्पुना च विशल्या च

तथा वैतरणी नदी” भा० स०९ वरुणसभावर्ण्णने । “वित-
स्ताञ्च महाभाग! कावेरीञ्च महानदीम् । शोणञ्च पुरुष-
व्याघ्र! विशल्यां किम्पुनामपि” भा० व० १८८ अ०

किम्पु(म्पू)रुष पु० कुत्सितः पु(पु)रुषः । देवयोनिभेदे

देवगायके अमरः । स च अश्वाकारजघनः नराकारमुखः ।
किन्नरस्तु अश्वाकारवदनः नराकारजघन इति तयोर्भेदः ।
अतएव “राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा”
इति पुलस्त्यस्य वंशमुक्त्वा “पुलहस्य सुताः राजन्!
शलभाश्च प्रकीर्त्तिताः । सिंहाः किम्पुरुषा व्याघ्रा यक्षा-
ईहामृगास्तथा” भा० आ० ६६ अ० पुलहवंशे किम्पुरुषस्य
कीर्त्तनम् । अतएव भाग० ८, २०, १३, “नेदुर्मुहुदु-
न्दभयः सहस्रशोगन्घर्व्वकिम्पूरुषकिन्नराजगुः” ।
तयोर्भेदेन निर्द्देशः । “स यं पुरुषमालभत स
किम्पुरुषोऽभवत्” शत० व्रा० १, २, ३, ९, किंपुरुषावासे
२ वर्षभेदे । कुत्सितपुरुषत्वसाम्यात् परस्परमभेदाभिप्रायेण
उभयोरप्युभयपरता तेन क्वचित् किन्नरवर्षमित्युच्यते
क्वचिच्च किम्पुरुषवर्षम् इति । तदधिष्ठानदेशभेदश्च वर्षभेदः
स च “किंन्नरवर्षमतो हरिवर्षमिति विभज्य” “माल्य-
वज्जलधिमध्यवर्त्ति यत् तत्तु भद्रतुरगं (मुखेन तुरगतु-
ल्यम्) जगुर्बुधाः” सि० शि० उक्तः भाग० ५, १९, “किम्पुरुषे
वर्षे इत्युक्तम् । “देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षि-
तम्” भा० स० २७ अ० । “द्रुमः किंपुरुषेशश्च उपास्ते
धनदेश्वरम्” भा० स० १० अ० । “काश्मीरराजो गोनर्द्दः
करूषाधिपतिस्तथा । द्रुमः किम्पुरुषश्चैव पर्व्वतीयोह्य-
नामयः” हरिवं० ९२ अ० ।
“प्रियामुखं किम्पुरुषश्चुचुम्बे” “यदृच्छया” किम्पुरुषा-
ङ्गनानाम्” कुमा० ।

किम्पुरुषेश्वर पुं ६ त० १ कुवेरे कुम्पुरुषवर्षेश्वरे २ द्रुमाभिधेराजनि च ।

किम्भरा स्त्री किञ्चित् बिभर्त्ति भृ--अच् । नलीनामगन्धद्रव्ये

शब्दच०

कियत् त्रि० किमु + परिमाणे, वतुप् किमः क्यादेशः वस्य यः ।

किंपरिमाणे “गन्तव्यमस्ति कियदित्यसकृद् ब्रुवाणा” सा०,
द०, “मदर्थसन्देशमृणालमन्थरः प्रियःकियद्दूरमिति
त्वयोदिते” “भवेदमीभिः कमलोदयः कियान्” नैष०,
स्त्रिया० ङीप् “निविशते यदि शूकशिखा पदे सृजति सा
कियतीमिव न व्यथाम्” नैष० ।

कियदेतिका स्त्री कियत् एतत् आरभ्यमाणं करोति णिचि

डिद्वत्त्वे टिलोपे ण्वुल् । उद्योगे उत्साहे हेम० । त्रिका०
कियेतदकेति पाठः प्रामादिकः ।

कियाम्बु त्रि० कियदम्बुयत्र वेदे पृषो० तोलोपः । किंप्रमाणा-

म्बुयुक्ते “कियाम्ब्वत्र रोहतु पाकदूर्व्वा व्यल्कशा”
ऋ० १०, १६, १३, ।

कियाह पुं रक्तवर्ण्णे अश्वे हेमच० ।

कियेधास् अव्य० कियत्प्रकारे इत्यर्थे निरु६ २० “वृत्राय

वज्रमीशानः कियेधाः” व०, १, ६१, १२, “कियेधाः कियद्धा--
इति” भा० ।

किर पुंस्त्री कॄ--क । १ शूकरे अमरः स्त्रियां जातित्वात् ङीष्

२ विक्षेपकमात्रे त्रि० । कीर्य्यतेऽत्र आधारे कॄ--घञर्थे क ।
३ अवस्करविक्षेपदेशे पर्य्यन्तभूमौ । किरातः

किरक पुं स्वल्पः किरः अल्पे कन् । १ वालशूकरे २ लेखके च त्रिका०

किरण पुं कीर्य्यते परितः कॄ--कर्म्मणि क्यु । सूर्य्यादेः

रश्मौ “स्वकिरणपरिवेषोन्मेषशून्यः प्रदीपः” रघुः
“एकोहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणे-
ष्विवाङ्कः” कुमा० । ततः अरीहणा० चतुरर्थ्या वुञ् ।
कैरणक तन्निर्वृत्तादौ त्रि०

किरणमालिन् पुं किरणानां मालाऽस्त्यस्य इनि । सूर्य्ये हारा० ।

किराटिका स्त्री० किरे पर्य्यन्त भूमौ अटति अट--ण्वुल् ।

वर्य्यन्व भूमिचारिण्यां शारिकायां पक्षिण्याम् शब्दचि०
पृष्ठ २०५१

किरात पुंस्त्री किरमवस्करादेर्निःक्षेपस्थानं पर्य्यन्तभूमिमतति

अत + अण उप० स० । १ नीचजातिभेदे स च अवस्करनिः-
क्षेपस्थानपर्य्यन्तदेशाश्रयः व्याधादिः । जातिशब्दे विवृतिः ।
“तप्तकुण्डं समारभ्य रामक्षेत्रान्तकं शिवे! । किरात-
देशो विज्ञेयो विन्द्यशैलेऽवतिष्ठते” इति शक्तिसं-
गमोक्ते २ देशभेदेपु० भूम्नि । वृहत् स० कूर्म्मविभागे
३ ऐशान्यमुक्ते ३ देशभेदे च “ऐशान्यां मेरुकनष्टरा-
ज्येण्रपक्रमे “वनराज्यकिरातचीनकौलिन्दाः इत्युक्तम्
तद्देशानां राजा अण् । कैरात तद्देशनृपे वहुषु
अणोलुक् । किराताः । ते च क्रमशो वेदानध्ययनादिना
वृषलत्वमाप्ता यथाह मनुः “शनकैस्तु क्रियालोपादिमाः
स्युः क्षत्रजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन
च” । पौण्ड्रकाश्चौड्रद्रविड़ाः काम्बोजा यवनाः शकाः ।
पारदापह्नवाश्चीना किराताःदरदाः खसाः” इति । जातौ
स्त्रियां ङीष् । ४ मत्स्यभेदे पुंस्त्री० “किरातस्तथा स्त्रियां
चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः” केशवोक्तेः
५ चामरवाहिन्यां स्त्री । “नौसंश्रयां पार्श्वगतां किरा-
तीम्” रघुः “किरातीं--चामरग्राहिणीं दासीम्”
मल्लि० । तपस्यदर्ज्जुनप्रसादार्थं किरातरूपेण गतत्वात् ६ शिवे
तस्य पत्न्यां तथारूपायां ७ पुर्गायां स्त्री ङीष् “किराती
ञ्चीरवसनां चौरसेनानमस्कृताम् । आज्यपां सोमपां सौम्यां
सर्व्वपर्व्वतवासिनीम्” हरिवं० १७८ अ० दुर्गास्तवे । तत्र व्याधे
“मुक्ताफलैः केशरिणां किराताः” “यद्वायुरन्विष्टमृगैःकि-
रातैः, कुमा० । ८ भूमिनिम्बे पुं० राजनि० ९ घोटकर-
क्षके सारस्वतः । १० अल्पतनौ त्रि० मेदि० । “पर्य्य-
न्ताश्रयिभिर्निजस्य सदृशं नाम्रः किरातैः कृतम्” रत्ना० ।
अत्र स्वनामसदृशत्वञ्च वानरभिया सङ्कोचितदेहत्वे-
नाल्पतनुत्वात् स्वनामसमानुपूर्व्वीकपदबोध्याल्पतनुत्वक-
रणात् पर्य्यन्ताश्रयित्वविशेषणाद्वा तथात्वम् तत्र भूनि-
म्बगुणाद्युक्तं भावप्र० यथा “किरातः सारको रूक्षः-
शीतलस्तिक्तको लघुः । सन्निपातज्वरश्वासकफपित्तास्र-
दाहनुत् । कासशोथतृषाकुष्ठ ज्वरव्रणकृमिप्रणुत् । स्वार्थे
क । किरातक भूमिनिम्बे राजनि० । किरातं शिवमधिकृत्य
कृतोग्रन्थः अण् कैरात भारतवनपर्व्वान्तर्गतेऽवान्तर
पर्व्वभेदे तत्रत्यकथा भा० व०३९ अ० यथा
“गतेषु तेषु सर्वेषु तपस्विषु महात्मसु । पिनाकपाणि-
र्भगवान् सर्वपापहरो हरः । कैरातं वेशमास्थाय
काञ्चनद्रुमसन्निभम् । विभ्राजमानो विपुलो गिरिर्मेरु-
रिवापरः । श्रीमद्धनुरुपादाय शराश्चाशीविषोपमान् ।
निष्पपात महावेगो दहनो देहवानिव । देव्या
सहोमया श्रीमान् समानव्रतवेशया । नानावेशधरैर्हृष्टै-
र्भूतैरनुगतस्तदा । किरातवेशसंछन्नः स्त्रीमिश्चापि
सहस्रशः । अशोभत तदा राजन्! स देशोऽतीव भारत! ।
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा । नादः प्रस्रवणा-
नाञ्च पक्षिणाञ्चाप्युपारमत । स सन्निकर्षमागम्य पार्थ-
स्याक्लिष्टकर्म्मणः । मूकं नाम दनोः पुत्रं ददर्शाद्भुत-
दर्शनम् । वाराहं रूपमास्याय तर्जयन्तमिवार्ज्जुनम् ।
हन्तुं परमदुष्टात्मा तमुवाचाथ फाल्गुनः । गाण्डीवं
धनुरादाय शरांश्चाशीविषोपमान् । सज्यं धनुर्धरं
कृत्वा ज्याघोषेण निनादयन् । यन्मां प्रार्थयसे हन्तुम-
नागसमिहागतम् । तस्मात्त्वां पूर्वमेवाहं नेताऽद्य
यमसादनम् । दृष्ट्वा तं प्रहरिष्यन्तं फाल्गुनं दृढ़ध-
न्विनम् । किरातरूपी सहसा वारयामास शङ्करः ।
मयैष प्रार्थितः पूर्वमिन्द्रकीलसमप्रमः । अनादृत्य च
तद्वाक्यं प्रजहाराथ फाल्गुनः । किरातश्च समं तस्मि-
न्नेकलक्ष्ये महाद्युतिः । प्रमुमोचाशनिप्रख्यं शरमग्नि-
शिखोपमम् । तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपे-
ततुः । मूकस्य गात्रे विस्तीर्ण्णे शैलसंहनने तदा ।
यथाऽशनेर्विनिर्घोषो वज्रस्येव च पर्व्वते । तथा तयोः
सन्निपातः शरयोरभवत्तदा । स विद्धो बहुभिर्व्वाणै
र्द्दीप्तास्यैः पन्नगैरिव । ममार राक्षसं रूपं भूयः कृत्वा
विभीषणम् । स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम् ।
किरातवेशसंछन्नं स्त्रीसहायममित्रहा । तमब्रवीत्
प्रीतमनाः कौन्तेयः प्रहसन्निव । को भवानटते शून्ये
वने स्त्रीगणसंवृतः । न त्वमस्मिन् वने घोरे बिभेषि
कनकप्रभ! । किमर्थञ्च त्वया विद्धो वराहो मत्परिग्रहः ।
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः । कामात्
परिभवाद्वाऽपि न मे जीवन् विमोक्ष्यसे । न ह्येष
मृगयाधर्म्मो यात्वयाऽद्य कृतो मयि । तेन त्वां भ्रंशयि-
ष्यामि जीवितात् पर्वताश्रयम् । इत्युक्तः पाण्डवेयेन
किरातः प्रहसन्निव । उवाच श्लक्ष्णया वाचा पाण्डवं
सव्यसाचिनम् । न मत्कृते त्वया वोर! भीः कार्य्या
वनमन्तिकात् । इयं भूमिः सदाऽस्माकमुचिता वसतां वने ।
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः? । वयन्तु
बहुसत्वेऽस्मिन्निवसामस्तपोधन! । भवांस्तु कृष्णवर्णाभः
सुकुमारः सुखोचितः । कथं शून्यमिमं देशमेकाकी
पृष्ठ २०५२
विचरिष्यति । अर्ज्जुन उवाच । गाण्डीवमाश्रयं
कृत्वा नाराचांचाग्निसन्निभान् । निवसामि महारण्ये
द्वितीय इव पावकः । एष चापि महाजन्तुर्मृगरूपं
समाश्रितः । राक्षसो नहतो घोरी हन्तुं मामिह
चागतः । किरात उवाच । मयैष धनुर्निर्मुक्तैस्ता-
ड़ितः पूर्वमेव हि । वाणैरभिहतः शेते नीतश्च यमसा-
दनम् । ममैष लक्ष्यभूतो हि मम पूर्वपरिग्रहः । ममैव
च प्रहारेण जीविताद्व्यपरोपितः । दोषान् स्वान्नर्ह-
सेऽन्यस्मै वक्तुं स्ववलदर्पितः । अवलिप्तोऽसि मन्दात्मन्!
न मे जीवन् विमोक्ष्यसे । स्थिरो भवस्व मोक्ष्यामि
सायकानशनीरिव । घटस्व परया शक्त्या मुञ्च त्वमपि
सायकान् । तस्य तद्वचनं श्रुत्वा किरातस्यार्ज्जुनस्तदा ।
रोषमाहारयामास ताड़यामास चेषुभिः । ततो हृष्टेन
मनसा प्रतिजग्राह सायकान् । भूयोभूय इति प्राह
मन्दमन्देत्युवाच ह । प्रहरस्व शरानेतान्नाराचान्म-
र्म्मभेदिनः । इत्युक्तो वाणवर्षं स मुमोच सहसाऽ-
र्ज्जुनः । ततस्तौ तत्र संरब्धौ राजमानौ मुहुर्मुहुः ।
शरैराशीविषाकारैस्ततक्षाते परस्परम् । ततोऽर्ज्जुनः
शरवर्षं किराते समवासृजत् । तत्प्रसन्नेन मनसा प्रति-
जग्राह शङ्करः । मुहूर्त्तं शरवर्षं तत् प्रतिगृह्य पिना-
कधृक् । अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ।
स दृष्ट्वा वाणवर्षन्तु मोघीभूतं धनञ्जयः । परमं विस्म-
यञ्चक्रे साधु साध्विति चाब्रवीत् । अहोऽयं सुकुमा-
राङ्गो हिमवच्छिखराश्रयः । गाण्डीवमुक्तान्नाराचान्
प्रतिगृह्णात्यविह्वलः । कोऽयं देवो भवेत् साक्षात् रुद्रो
यक्षः सुरोऽसुरः । विद्यते हि गिरिश्रेष्ठे त्रिदशानां
समागमः । नहि मद्वाणजालानामुत्सृष्टानां सहस्रशः ।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् । देवो
वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः । अहमेनं
शरैस्तीक्ष्णैर्नयामि यमसादनम् । ततो हृष्टमना
जिष्णुर्नाराचान्मर्म्मभेदिनः । व्यसृजच्छतधा राजन्!
मयूखानिव भास्करः । तान् प्रसन्नेन मनसा भगवान्
लोकभावनः । शूलपाणिः प्रत्यगृह्णाच्छ्रिलावर्षमिवाचलः ।
क्षणेन क्षीणवाणोऽथ संवृत्तः फाल्गुनस्तदा । भीश्चैन-
माविशत्तीव्रा तं दृष्ट्वा शरसंक्षयम् । चिन्तयामास
जिष्णुश्च भगवन्तं हुताशनम् । पुरस्तादक्षयौ दत्तौ तूणौ
येनास्य खाण्डवे । किं नु मोक्ष्यामि धनुषा यन्मे वाणाः
क्षयं गताः । अयञ्च पुरुषः कोऽपि वाणान् ग्रसति
सर्वशः । हत्वा चैनं धनुष्कोठ्या शूलाग्रेणेव कुञ्जरम् ।
नयामि दण्डधारस्य यमस्य सदनं प्रति । प्रगृह्याथ
धनुष्कोठ्या ज्यापाशेनावकृष्य च । मुष्टिभिश्चापि
हतवान् वज्रकल्पैर्म्महाद्युतिः । संप्रयुद्धो धनुष्कोठ्या
कौन्तेयः परवीरहा । तदप्यस्य धनुर्द्दिव्यं जग्राह गिरि-
गोचरः । ततोऽर्ज्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत ।
युद्धस्यान्तमभीप्सन् वै वेगेनाभिजगाम तम् । तस्य
मूर्द्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि । मुमोच भुजवी-
र्य्येण विक्रम्य कुरुनन्दनः । तस्य मूर्द्धानमासाद्य
पफालासिवरो हि सः । ततो वृक्षैः शिलाभिश्च योधयामास
फाल्गुनः । तदा वृक्षान्महाकायः प्रत्यगृह्णादथो
शिलाः । किरातरूपो भगवांस्ततः पार्थो महाबलः ।
मुष्टिभिर्वज्रसङ्काशैर्धूममुत्पादयन् मुखे । प्रजहार
दुराधर्षे किरातसमरूपिणि । ततः शक्राशनिसमैर्मुष्टिभि-
र्भृशदारुणैः । किरातरूपी भगवानर्दयामास पाण्डवम् ।
ततश्चटचटाशब्दः सुघोरः समपद्यत । पाण्डवस्य च
मुष्टीनां किरातस्य च युध्यतः । सुमुहूर्त्तन्तु तद्युद्धम-
भबल्लोमहर्षणम् । भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ।
जघानाथ ततो जिष्णुः किरातमुरसा बली । पाण्डवञ्च
विचेष्टन्तं किरातोऽप्यहनद्बली । तयोर्भुजविनिष्पेषात्
सङ्घर्षेणोरसोस्तथा । समजायत गात्रेषु पावकोऽङ्गा-
रधूमवान् । तत एनं महादेवः पीड्य गात्रैः सुपीड़ि-
तम् । तेजसा व्यक्रमद्रोषाच्चेतस्तस्य विमोहयन् ।
ततोऽभिपीड़ितैर्गात्रैः पीण्डीकृत इवाबभौ । फाल्गुनो
गात्रसंरुद्धो देवदेवेन भारत! । निरुच्छ्वासोऽभवच्चैव
सन्निरुद्धो महात्मना । पपात भूम्यां निश्चेष्टो गतसत्व
इवाभवत् । स मुहूर्त्तन्तथा भूत्वा सचेताः पुनरुत्थितः ।
रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः । शरण्यं
शरणं गत्वा भगवन्तं पिनाकिनम् । मृण्मयं स्थण्डिलं
कृत्वा माल्येनापूजयद्भवम् । तच्च माल्यं तदा पार्थः
किरातशिरसि स्थितम् । अपश्यत् पाण्डवश्रेष्ठो
हर्षेण प्रकृतिङ्गतः । पपात पादयोस्तस्य ततः प्रीतोऽ-
भवद्भवः । उवाच चैनं वचसा मेघगम्भीरगीर्हरः ।
जातविस्मयमालोक्य तपःक्षीणाङ्गसंहतिम् । भव उवाच ।
भो भो फाल्गुन! तुष्टोऽस्मि कर्म्मणाऽप्रतिमेन ते ।
शौर्य्येणानेन धृत्या च क्षत्त्रियो नास्ति ते समः । समं
तेजसि वीर्य्यञ्च ममाद्य तव चानघ । प्रीतस्ते ऽहं
महाबाहो! पश्य मा भरतर्षभ! । ददामि ते विशालाक्ष!
पृष्ठ २०५३
चक्षुः पूर्व्व ऋषभवान् । विजेष्यसि रणे शत्रूनपि सर्वान्
दिवौकसः । प्रोया च तेऽहं दास्यामि यदस्त्रमनिवा-
रितम् । त्वं हि शक्तो मदोयं तदस्त्रं धारयितुं
क्षणात् । वैशम्पायन उवाच । ततो देवं महादेवं
गिरिशं शूलपा णनम् । ददर्श फाल्गुनस्तत्र सह देव्या
महाघुतिम् । स जानुभ्यां महीं गत्वा शिरसा प्रण-
पत्य च । प्रसादवामास हरं पार्थः परपुरञ्जयः” ।

किराततिक्त पु० किरातो भूनिम्बैव तिक्तः (चराता) वृक्षे

अमरः “किराततिक्तस्तु हिमस्तिक्तः पित्तकफापहः” भावप्र०

किरातार्ज्जुनीय न० किरातञ्चार्ज्जुनञ्चाधिकृत्य कृतोग्रन्थः

“द्वन्द्वाच्छः” पा० छ । भारबिकविप्रणीते अष्टादशसर्गात्मके
महाकाव्यभेदे

किराताशिन् पु किरातानश्नाति अश--णिनि ६ त० । गरुडे

शब्दर० तस्य किराताशनकथा भा० आ० २८ अ० यथा
“इत्युक्तो गरुड़ः सर्पैस्ततो मातरमब्रवीत् । गच्छाम्यमृ-
तमाहर्त्तुं भक्ष्यमिच्छामि वेदितुम् । विनतोवाच ।
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् । निषादानां सहस्रा-
णि तान् भुक्त्वाऽमृतमानय । न च ते ब्राह्मणं हन्तुं
कार्य्या वुद्धिः कथञ्चन । अबध्यः सर्व्वभूतानां ब्राह्मणो
ह्यनलोपमः । अग्निरर्को विषं शस्त्रं विप्रो भवति
कोपितः । गुरुर्हि सर्व्वभूतानां ब्राह्मणः परिकीर्त्तितः ।
एवमादिभीरूपैस्तु सतां वै ब्राह्मणो मतः । स ते तात!
न हन्तव्यः संक्रुद्धेनापि सर्व्वथा । ब्राह्मणानामभिद्रोहो
न कर्त्तव्यः कथञ्चन । न ह्येवमग्निर्नादित्यो भस्म
कुर्य्यात्तथानघ! । यथा कुर्य्यादभिक्रुद्धो ब्राह्मणः संशित-
व्रतः । तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम् ।
भूतानामग्रभूर्ब्बिप्रो वर्ण्णश्रेष्ठः पिता गुरुः । गरुड़
उवाच । किंरूपो ब्राह्मणो मातः किंशीलः किंपरा-
क्रमः । किंस्विदग्निनिभो भाति किंस्वित् सौम्यप्रदर्शनः ।
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः । तन्मे
कारणतो मातः! पृच्छतो वक्तुमर्हसि । विनतोवाच । यस्ते
कण्ठमनुप्राप्तो निगीर्णं वड़िशं यथा । दहेदङ्गारवत् पुत्र!
तं विद्याब्राह्मणर्षभम् । विप्रस्त्वया न हन्तव्यः संक्रुद्धे-
नापि सर्व्वदा । प्रोवाच चैनं विनता पुत्रहार्द्दादिदं
वचः । जठरे न च जीर्य्येद्यस्तं जानीहि द्विजोत्तमम् ।
पुनः प्रोवाच विनता पुत्रहार्द्दादिदं वचः । जानात्यप्यतुलं
वीर्य्यमाशीर्ब्बादपरायणा । प्रीता परमदुःखार्त्ता नागै-
र्व्विप्रकृता सती” । “सौतिरुवाच । ततः स मातु-
र्ब्बचनं निशम्य वितत्य पक्षौ नभ उत्पपात । ततो
निषादान् बलवानुपागतो वुभुक्षितः काल इवान्त-
कोऽपरः । स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय
नभः स्पृशन्महत् । समुद्रकुक्षौ च विशोषयन् पयः
समीपजान् भूधरजान् विचालयन् । ततः स चक्रे
महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट् । ततो
निषादास्त्वरिताः प्रवव्रजुर्यतो मुखं तस्य भुजङ्गभोजिनः ।
तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्द्दिताः
खगाः । सहस्रशः पवनरजोविमोहिता यथाऽनिलः
प्रचलितपादपे वने । ततः खगो वदनममित्रतापनः
समाहरत् परिचपलो महाबलः । निसूदयन् बहुविधमत्स्य-
जीविनो बुभुक्षितो गगनचरेश्वरस्तदा” ।

किराति स्त्री किरेण समन्तात् जलक्षेपेण अतति गच्छति अत

इन् ३ त० । १ गङ्गायां जटा० तस्या योजनपर्य्यन्तजलक्षेपेण
हिमाचलात् समुद्रपर्य्यन्तगमनात्तथात्वम् । वा ङीप् ।
तत्रैव । २ किरातवेशधारिण्यां दुर्गायाञ्च तस्याः किरात-
वेशधारणं यथा तथा, किरातशब्दे दर्शितम् ।

किरातिनी स्त्री किरातदेश उत्पुत्तिस्थानत्वेनास्त्यस्या इनि

ङीप् । जटामांस्यां शब्दर० ।

किरि पुंस्त्री किरति भूमिम् कृ--कृष्यादि० इक् । भूविदारे

१ शूकरे अमरटी० भरतः स्त्रियां ङीप् । २ मेघे च तस्य
जलक्षेपकत्वात् तथात्वं किरिकः

किरिक पु० किरिर्मेघ इव कायति कै--क । सजलमेघ

तुल्ये रुद्रभेदे । “नमो वः किरिकेभ्यो देवानां हृदयेभ्यः”
यजु०१६, ४६ ।

किरिटि न० किरिणा शूकरेण टल्यते विक्लव्यते टल विक्लवेडि । हिन्ताले अमरः २ फले त्रिका० ।

किरीट पुंन० कॄ--ईटन् किच्च । १ मुकुटे ३ शिरोवेष्टने (पागड़ि)

च शब्दचि० दशाननकिरीटभ्यः सा० द० । किरीटबद्धाञ्ज
योनिपेतुः” रघुः

किरीटमालिन् पु० मल--सम्बन्धे णिनि ६ त० । अर्ज्जुने शब्दचि० ।

किरीटिन् पु० किरीटोऽस्त्यस्य इनि । अर्ज्जुने भा० वि०

४४ अ० । “पुरा शक्रेण मे बद्धं युध्यतो दानवर्षभैः ।
किरीटं मूर्द्ध्नि सूर्य्याभं तेनाहुर्मां किरीटिनम्” उत्तर-
समीपेऽर्ज्जुनेन स्वनामभेदनिरुक्तिकथनात्तस्य
तथात्वम् । शक्रेण तस्य मूर्द्धनि किरीटयोजनकथा च “ततो-
मातलिसंयुक्तं मयूरसमरोमभिः । हयैरुपेतं प्रादान्मे
रथं दिव्यं महाप्रभम् । बबन्ध चैव मे मूर्द्ध्नि किरीट-
मिदमुत्तमम् । स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ।
पृष्ठ २०५४
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् । नागराजमिवा
सिं च गाण्डीवे समयोजयत्” इति भा० व०१६१ अ० ।
२ किरीटयुक्तमात्रे त्रि० । “किरीटिनं गदिनं चक्र-
हस्तम्” गोता स्त्रियां ङीप्

किरोडाट धौर्त्त्ये आकृतिगणत्वात् कण्ड्वा० यक प० सेट्

अक० । किरोडाट्यति अकिरोडाटीत् ।

किर्म्मि स्त्री कॄ--कि नि० मुट् । १ पलाले (पोयाल) २ गृहे ३ स्वर्ण

पुत्तलिकायाञ्च मेदि० । वा ङीप् किर्म्मीत्यपि तत्रार्थे

किर्म्मिर त्रि० किर्म्मीर + पृषो० वेदे हस्वः । चित्रवर्ण्णयुक्ते ।

“नक्षत्रेभ्यः किर्म्मिरं चन्द्रमसे किलासम्” यजु० ३०,
२१ । पुरुषमेधे

किर्म्मीर पु० कॄ--गम्भीरा० ईरन् नि० । नागरङ्गे

(नारेङ्गी) १ जम्बीरभेदे । २ राक्षसभेदे । ३ चित्रवर्ण्णे च
मेदि० ४ तद्वति त्रि० ।

किर्म्मीरजित् पु० किर्म्मीरं राक्षसभेदंजितवान् जि--भूते-

क्विप् । मीमसेने तद्वधकथा भा० व०११ अ० यथा
“प्रत्युवाचाथ तद्रक्षो धर्म्मराजं युधिष्ठिरम् । अहं
वकस्य भ्राता वै किर्म्मीर इति विश्रुतः” इत्युपक्रम्य “ततो
भीमो महाबाहुरासह्य तरसा द्रुमम् । दशव्याममथो-
द्विद्वं निष्पत्रमकरोत्तदा । चकार सज्यं गाण्डीवं वज्रनि-
ष्पेषगौरवम् । निमेषान्तरमात्रेण तथैव विजयोऽर्ज्जुनः ।
निवार्य्य भीमो जिष्णुं तं तद्रक्षो मेघनिस्वनम् ।
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत! । इत्युक्त्वैनमभिक्रु-
द्धः कक्षामुत्पीड्य पाण्डवः । निष्पिष्य पाणिना पाणिं सं
दष्टौष्ठपुटो बली । तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ।
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्द्धनि । पातयामास
वेगेन कुलिशं मघवानिव । असंभ्रान्तन्तु तद्रक्षः समरे
प्रत्यदृश्यत । चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ।
तदुदस्तमलातन्तु भीमः प्रहरतां वरः । पदा सव्येन
चिक्षेप तद्रक्षः पुनराव्रजत् । किर्म्मीरश्चापि सहसा
वृक्षमुत्पाट्य पाण्डवम् । दण्डपाणिरिव क्रुद्धः समरे
प्रत्यधावत” । इत्युपक्रम्य तयोर्युद्धमुपवर्ण्य
“अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः । धूनयामास
वेगेन वायुचण्ड इव द्रुमम् । स भीमेन परामृष्टो दुर्व-
लो वलिना रणे । व्यस्तम्भत यथाप्राणं विचकर्ष च
पाण्डवम् । तत एनं परिश्रान्तमुपलभ्य वृकोदरः ।
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा । विनदन्तं
महानादं भिन्नभेरीस्वनं बली । भ्रामयामास सुचिरं
विष्फुरलमचेतनम् । तं विषीदन्तमाज्ञाय राक्षसं
पाण्डुनन्दनः । प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ।
आक्रभ्य च कटीदेशे जानुना राक्षसाधमम् । षीड़या-
मास पाणिभ्यां तस्य कण्ठं वृकोदरः । अथ जर्ज्जर-
सर्ब्बाङ्गं व्याविद्धनयनाम्बरम् । भूतले भ्रामयामास
वाक्यञ्चेदमुवाच ह । हिड़िम्बवकयोः पाप! न त्वमश्रुप्रमा-
र्ज्जनम् । करिष्यसि गतश्चापि यमस्य सदनं प्रति । इत्ये
वमुक्त्रा पुरुषप्रवीरस्तं राक्षसं क्रोधपरीतचेताः । विस्र-
स्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यतुमुत्सर्ज्ज” ।
किर्म्मीरहादयोऽप्यत्र ।

किर्म्मीरत्वच् पु० किर्म्मीरा चित्रा त्वग्यस्य । नागरङ्गेजम्बीरभेदे त्रिका०

किल शौक्ल्ये क्रीडायाञ्च तुदा० पर० अक० सेट् । किलति

अकेलीत् चिकेल प्रनिकिलति

किल प्रेरणे चुरा० सक सेट् । केलयति ते अचीकिलत्” केलयाम् बभूवआस चकारचक्रे केलिः

किल अव्य० किल--क । १ वार्त्तायाम् २ अनुशयार्थे, ३ निश्चये,

४ संभाव्ये ५ प्रसिद्धार्थद्योतने ६ हेतौ ७ अरुचौ ८ अलीके
९ तिरस्कारे च । “दमयन्ती किलकिञ्चितं किल” नैष० ।
“अमूं किल त्वं त्रिदिवादवातरः” साघः । “तद्दघ्नं
तदवयती” किलात्मनोऽपि “तदपि न किल बाल पल्लवाग्रेति”
माघः, “ध्रुवं किलाव्याजमनोहरं वपुः” शकु० ।
१ किलेत्यागमारुचिन्यक्करणसंभाव्यहेत्वलीकेषु” गणरत्ने
उक्त्वा तत्तद्विषये उदाहृतं यथा आगमे, “कंसं जघान किलं
वासुदेवः” कृष्णकर्तृकं कंसहननमागमसिद्धमित्यर्थः ।
अरुचौ “एवं किल केचिद्वदन्ति” केषाञ्चिदेवं कथनं
वक्तुररुचिविषय इत्यर्थः न्यक्कारे “स किल योत्स्वते”
तस्य यीवनशक्तिराहित्यद्योतनात् तिरस्कारोगम्यते
सम्भावनायाम् “पार्थः किल विजेष्यते कुरून्” पार्थ
कर्त्तृककुरुविजयः सम्भवनाविषयैत्यर्थः । हेतौ “स
किलैवमुक्तवान्” तत्कथनस्यान्वत्र हेतुता द्योत्यते ।
अलीके “प्रसह्य सिंहः किल तां चकर्ष” रघुः । सिंहकर्त्तृकं
नन्दिनीकर्षणं वस्तुतोऽलीकं काल्पनिकत्वात् । अव्ययविशे-
षस्य अस्य शब्दान्तरसहकारेण प्रयोगविशेषो निरु-
क्तकारेण निरणायि यथा “किलेतिविष्याप्रकर्षे एवं
किलेत्यथापि न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे न किलै-
वम् । ननु किलैवम्” । इति प्रश्नानन्तरं तस्यानभ्युपगमे
न किलैवमिति, अभ्युपगमे तु ननु किलैवमिति प्रयोज्य-
मित्यर्थः तथाच तस्य एवंशब्दोत्तरता न--ननु
इत्येतच्छ्रब्दपूर्व्वकता च ।
पृष्ठ २०५५

किलकिञ्चित न० किल अलीकेन ईषत् चितं रचितम् ।

“स्मितशुष्करुदितहसितत्रासक्रोधश्रमादोनाम् । साङ्कर्य्यं
किलकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात्” सा० दर्पणोक्ते
स्त्रीणां भावभेदे यथा “पाणिरोधमविरोधितवाञ्छं
भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनश्च कृरुते
करभोरुर्हारि शुष्करुदितञ्च सुखेऽपि” माघः “त्वयि वीर!
पिराजते परं दमयन्तीकिलकिञ्चितं किल” नैष० ।

किलकिला स्त्री किल--क प्रकारे द्वित्वम् टाप् । १ हर्षध्वनौ

त्रिका० । “ततः किलकिलाशब्दस्तस्मिन् वदति पार्थिवे”
भा० आ०६१ अ । “जितशात्रवदर्पस्य प्रतिज्ञापूरणीकृतः ।
वीरस्य गर्जितं सिंहनादः किलकिला तथा” इत्युक्ते
वीरस्य २ सिंहनादे च विश्वः

किलाट पु० “नष्टदुग्धस्य पक्वस्य षिण्डं प्रोक्तः किलाटकः”

इति भावप्र० परिभाषिते विश्रथितदुग्धस्य पाकेन घनोभूते
पिण्डाकारे पदार्थे । तद्गुणाद्युक्तं तत्रैव यथा
“पेयूषञ्च किलाटश्च क्षीरशाकं तथैव च । तक्रपिण्ड
इमेवृष्या वृंहणा बलवर्द्धनाः । गुरवः श्लेष्मला हृद्या
वातपित्तविनाशनाः । दीप्ताग्नौ च विनिद्राणां विद्रधौ
चातिपूजिताम् । गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः
स्मृतः” । ततः स्वार्थे क । किलाटक तत्रार्थे । कूर्चिकायां
क्षीरविकारभेदे स्त्री हेमच० गौरा० ङीष् ।

किलाटिन् पुं किलति किल--क, अट--णिनि कर्म्म० । वंश वृक्षेहारा० ।

किलात पुं किल--शौक्ल्ये क किलमतति अत--अण् ।

ऋषिभेदे तस्य गोत्रापत्यम् विदा० अञ् । कैलात तद्गोत्रा-
पत्ये पुंस्त्री० “किलाताकुली इति हासुरब्रह्मावासतुः” ।
शत० व्रा० १, १, ४, १४,

किलास न० किल वर्ण्णेककिलमस्यति अस + अण् । १ सिध्मरोगे

(छुली)तदस्यास्ति अच् । २ तद्विशिष्टे त्रि० “चन्द्रमसे
किलासम्” यजु० ३०, २१, । “किलासं सिध्मरोगवन्तम्”
वेददी० । सिध्म च क्षुद्रकुष्ठभेदः यथाह सुश्रुतः “क्षुद्रकुष्ठमत
ऊर्द्ध्वं वक्ष्याम इत्युपक्रमे “कण्ड्वन्वितं श्वेतमपाकि सिद्म
विद्यात्तनु प्रायश ऊर्द्धकाये” इति तस्य लक्षणादिकमुक्त्वा
“किलासमपि कुष्ठविकल्पएव । तत्त्रिविधं वातेन पित्तेन
श्लेष्मणा चेति । कुष्ठकिलासयोरन्तरन्त्वग्तमेव किलास-
मपरिस्रावि च । तद्वातेन मण्डलमरुणं परुषं परिध्वंसि
च; पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहञ्च । श्लेष्मणापि
श्वेतं स्निग्धं बहुलं कण्डूमच्च । तेषु सम्बद्धमण्डलमन्ते-
जातं रक्तरोम चाऽसाध्यमग्निदग्धञ्च । कुष्ठेषु रुक्त्वक्-
सङ्कोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन ।
पाकावदरणाङ्गुलिपतनकर्ण्णनासाभङ्गाक्षिरोगसत्वोत्पत्तयः
पित्तेन । कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा” ।

किलासघ्न पु० किलासं हन्ति हन्--टक् । (काँकरोल)

ख्याते वृक्षे हेमच० ।

किलासनाशन त्रि० किलासं नाशयति नश--णिच्--ल्यु ।

सिध्मरोगनाशके औषधादौ “आसुरी चक्रे प्रथमेदं
किलासभेषजमिदं किलासनाशनम्” अथ० १, २४, २ ।

किलासिन् त्रि० किलासमस्त्यर्थे इनि । (छुली) रोगयुक्ते

स्त्रियां ङीप् ।

किलिञ्ज न० किल्यतेऽनेन किलि--इन् ततोजायते जन--ड

पृषो० मुम् । १ वीरणादिजाते कटे २ सूक्ष्मदारुणि च जटा० ।
त्रिका० पु० । तेन उभयलिङ्गता । स्यार्थे क । कटे काशादि-
रज्जौ च अमरः । “क्षुण्णान् यबान् निष्पूतान् रात्रौ
गोमूत्रपर्य्युषितान्” “महति किलिञ्जेशोषयेत् । आस्तीर्य्य
किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वे-
दयेत्” सुश्रुतः

किलिम न० किल--इमन् । देवदारुवृक्षे राजनि० ।

किल्विन् पु० स्त्री किल--शौक्ल्ये भावे क्विप् ततोऽस्त्यर्थे

बा० विनि । घीटके त्रिका० स्त्रियां नान्तत्वात् ङीप् ।

किल्विष न० किल--टिषच्--वुक् च । १ पापे २ अपराधे च

अमरः ३ रोगे मेदि० तस्य पापहेतुत्वात् तथात्वम् । “न
किल्विषादीषत्ते बस्व आकरः” ऋ०५, ३५, ४, “क्षीरं यदस्याः
पीयते तद्वै पितृषु किल्विषम्, अथ० ५, १९५ । “अपराधे ।
“कोमे लुब्धक! दोषोऽत्र बिद्यते यदि वालिश! ।
अस्वतन्त्रं च मां मृत्युर्विवशंयदचूचुदत् । तस्यैव वचना-
द्दष्टो न कोपेन न काम्यया । तस्य तत् किल्विषं लुब्ध!
विद्यते यदि किल्विषम्” इति लुब्धकं प्रति सर्पोक्तिः । पापे
“यद्यन्यवशगेनेदं कृतं तु पन्नगाशुभम् । कारणं वै त्वमप्यत्र
तस्मात्त्वमपि किल्विषी” सर्पं प्रति लुब्धकोक्तिः भा०
आनु०१ अ० । तत्र पूर्व्ववाक्ये दोषत्वेन कीर्त्तनात् अपकार-
परत्वम् । उत्तरत्र अशुभत्वेन कीर्त्तनात् पापपरत्वम् ।
“एवं सति न दोषो मे नास्ति बध्यो न किल्विषी ।
किल्विषं समवाये स्यात् मन्यसे यदि किल्विषम् “तत्रैव ।
कीर्त्तिभेदके कायिके ४ पापे च । “अपाघमप किल्विषम्”
यजु० ३५, ११, “किल्विषं कीर्त्तिभेदकं कायिकं पापम्”
वेददी० । ततः अस्त्यर्थे इनि । किल्विषिन् । तद्युक्ते त्रि० ।
पृष्ठ २०५६

किश(स)र पुंन० किम् + सृ--(शॄ)--अच् पृषो० । सुगन्धद्रव्यभेदे ।

तत् पण्यमस्य किश(स)रा० ष्ठन् । किश(स)रिक
किश(स)रविक्रयकर्त्तरि स्त्रियां षित्त्वात् ङीष् । शब्देन्दुशेखरे
तालव्यमध्यतया पठितः अन्यत्र दन्त्यमध्यतयेत्युभयरूपता

किशरा स्त्री० किञ्चित् शृणाति शॄ--अच् । शर्करासु । त

तोमध्वा० चतुरर्थ्यां मतुप् मस्य वः । किशरावत् तद्वति देशे

किश(स)रादि पुं पाणिन्युक्ते ष्ठन्प्रत्ययप्रकृतिभूते शब्द

गणे सच गणः “किश(स)र नरद नलद स्थासक तगर
गुग्गुलु उशीर हरिद्रा हरिद्रुपर्ण्णी” ।

किशल पुं न० किञ्चित्शलति शल--गतौ अच् पृषो० मलोपः ।

नवपल्लवे शब्दरत्ना० ।

किशलय पुं न० किञ्चित्शलति शल--चलने बा कयन् पृषो० ।

नवपल्लवे शब्दरत्ना० ।

किशोर पुं कश--शब्दे किशोरा० निपा० । १ अश्वशिशौ

२ तैलपण्यौषधौ ३ सूर्य्ये च मेदि० “किञ्चिच्छूरः किशोरः
स्यात् यतो हि दशमात् परम् । शूरत्वं दृश्यते किञ्चिदनुवृद्धं
दिने दिने” ३ इत्युक्तावस्थापन्ने त्रि० । स्त्रियां
वयोवाचित्वात् ङीष् किशोरी । “कौमारं पञ्चमाव्दान्तं
पौगण्ड दशतावधि । कैशोरमापञ्चदशात् यौवनञ्चं
ततः परम्” भाग० टीकाकृच्श्रीधरधृतवचनात् दशवर्षोत्तरं
पञ्चदशाव्दपर्य्यन्तवयस्कःकिशोर इति बोध्यम् ।

किष्क बधे चुरा० आत्म० सक० सेट् । किष्कयते अचिकिष्कत

किष्किन्ध पु० किं कि दधाति धा--क पारस्करा० सुट् षत्वं

मलोपः । वृह० स० कूर्मविभागे आग्नेय्यामुक्ते १ देशभेदे
“आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजटराङ्गाः”
इत्युपक्रमे “किष्किन्धकण्टकस्थलनिषादवास्त्राणि पुरिक-
दाशार्ण्णाः” इति । तत्रत्ये २ पर्व्वतभेदे च । ३ तत्रत्यवालि-
राज धान्यां ४ तत्रत्यगुहायाञ्च स्त्री शब्दर० । “त्वया सह
महाबाहो! किष्किन्धोपवने तदा” । “गच्छ लक्ष्मण!
जानीहि किष्किन्धायां कपीश्वरम्” । “किष्किन्धाद्वा-
रमासाद्य प्रबिवेशानिवारितः” भा० व० २८१ अ० ।
“गुहामासादयामास किष्किन्धां लोकविश्रुताम् । तत्र
वानरराजाभ्यामैन्देन द्विपदेन च । युयुधे दिवसान् सप्त”
भा० म० ३० अ० । दक्षिणदिग्विजये । किष्किन्धा अभिजनोस्य
सिन्ध्वा० अण् । कैष्किन्ध पित्रादिक्रमेण किष्किन्धागु-
हातत्पुरीवासिनि त्रि० स्त्रियां ङीप् ।

किष्किन्धा(न्ध्या)काण्ड न० वाल्मीकिरामायणान्तर्गते

किष्किन्धाधिकारेण वालिसुग्रीबादीनामितिवृत्तप्रतिपादके
काण्डभेदे ।

किष्किन्धी स्त्री किष्किन्ध + गौरा० ङीष् । किष्किन्धपर्व्वत-

गुहायाम् “अभ्येत्य सर्व्वे किष्किन्ध्याम्” भा० व० २७९ अ० ।

किष्किन्ध्य पु० किष्किन्ध + स्वार्थे यत् । १ किष्किन्धशब्दार्थे

२ तत्रत्यपर्वतगुहायां ३ वालिराजघान्यां च स्त्री ।

किष्किन्ध्या(न्ध्या)धिप पु० ६ त० । वालिनामके वानरराजे

जटा० शब्दर०

किष्कु पु० स्त्री० किष्क--उन्, किम् + कै--भु पृषो० मलोपः

पारस्क० सुट्षत्वम्वा । १ वितस्तौ द्वादाङ्गुलपरिमाणे चतुर्विश-
त्यङ्गुल परिमाणे २ हस्तमाने मेदि० २ प्रकीष्ठे ३ कफोणेरधो-
मणिबन्धपर्थ्यन्ते च ४ कुत्सिते त्रि० विश्वः “दशविष्कुसहस्रां
तां मापयामास सर्वतः” भा० स० १३० अ० “दशकिष्कुसह-
स्राणि समन्तादायताऽभवत्” भा० स० ३ अ० । “अवर्द्धत
महातेजाः किष्कून्राजंस्त्रयोदश” भा० व० १२६ अ० ।

किष्कुपर्व्वन् न० किष्कुमितं वितस्तिमितं हस्तमितं वा

पर्वास्य । १ वंशे (वाँश) २ इक्षौ ३ पोटगले (नडा)च मेदि०

किसल पुंन० किमीषत् सलति सल--गतौ अच् पृषो०

मलोपः । नवपल्लवे त्रिक० ।

किसलय पुंन० किम् ईषत् सलति--सल गतौ बा० कयन्

पृषो० । नवपल्लवे अमरः । “किसलयैः सलयैरिव पाणिभिः”
रघुः । तारका० जातार्थे इतच् । किसलयित नवपल्लविते ।
किसलयश्च नवपत्रादियुक्तशाखाग्रस्थितः पल्लवः ।

की अव्य० कुत्सायाम् ।

कीकट पु० की + कट--अच् । “चरणाद्रिं समारभ्य गृध्रकूटा-

न्तकं शिवे! । तावत् कीकटदेशःस्यात् तदन्तर्मगधोभवेत्
शक्तिसङ्कमीक्ते १ देशभेदे । तद्देशवासिजनवाचित्वेऽस्य
भूम्नि “साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः”
भाग० ७, १०, २० । उपचारात् देशेऽपि भूम्नि “ततः कलौ
संप्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धोनाम्ना जिनसुतः
कीकटेषु भविष्यति” भाग० १, ३, २५ । ४ निर्द्धने ५ कृपणे
च त्रि० मेदि० । ६ वोटके पुं स्त्री विश्वः स्त्रियां
जातित्वात् ङीष्

कीकश पु० कीति कशति कश--शब्दे अच् । चण्डाले । शब्दचि० ।

कीकस पु० कीति कसति कस--गतौ अच् । १ कृमिजन्तुभेदे

२ अस्थ्नि न० अमरः ३ कठिने त्रि० मेदि० । “यदन्तर्न्य-
स्तकीकसम्” अमरः । शब्दरत्ना० स्त्रीत्वमपि “तस्मादिमा
उभयत्र पर्शवोवद्धाः कीकसासु च जत्रुषु च” शत० व्रा०
८, ६, २, १० । कीकसेश्वरः काशीखण्डशब्दे उदा०
पृष्ठ २०५७

कीकसास्य पुंस्त्री० कीकसमास्येऽस्य । पक्षिणि हारा०

स्त्रियां जातित्वे ऽपि संयोगोपधत्वात् टाप् । तस्य च
मुखस्थास्थ्नो दृष्टिगोचरत्वात् तथात्वम् । कीकस-
मुखादयोऽप्यत्र

कीकि पुंस्त्री० कीतिशब्दं कायति कै वा० डि । चाषपक्षिणि अमरटीका स्त्रियां ङीप् ।

कीचक पु० कीत्यव्यक्तं चकति चक--तृप्त्यादौ अच् । १ दैत्यभेदे

“कीचका नाम ते वंशा ये स्वनन्त्यनिलाहताः” इत्युक्ते
२ वेणुभेदे (तलतार्वाश)अमरः । “यः पूरयन् कीचक-
रन्ध्रमागान् दरीमुखोत्थेन समीरणेन” कुमा० “सङ्कीर्ण-
कीचकवनस्खलितैकबालेत्यादि” माघः विराटराजश्याले
३ केकयात्मजे विराटसेनाधिपभेदे च कीचकस्य द्रौपद्या-
मनुरागादिकथा भा० वि० अ०
यथा“तस्मिन् वर्षे गतप्राये कीचकस्तु महाबलः । सेनापति-
र्विराटस्य ददर्श द्रुपदात्मजाम् । तां दृष्ट्वा देवगर्भाभां
चरन्तीं देबतामिव । कीचकः कामयामास कामवाणप्र-
पीड़ितः” । इत्युपक्रम्य सैरिन्ध्रीरूपां द्रोपदीं प्रति
तत्प्रार्थने तया तस्य प्रत्याख्यानमुपवर्ण्णितं
यथा“सैरिन्ध्र्युवाच । मा सूतपुत्त्र! मुह्यस्व माऽद्यात्याक्षीः
स्वजीवितम् । जानीहि पञ्चभिदेवैर्न्नित्यं मामभिरक्षि-
ताम् । न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम । ते
त्वां निहन्युः कुपिताः साध्वसून् मा व्यनीनशः ।
अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि । यथा निश्चेतनो
बालः कूलस्थः कूलमुत्तरम् । तर्त्तुमिच्छति मन्दात्मा तथा
त्वं तर्त्तुमिच्छसि । अन्तर्म्महीं वा यदि वोर्द्ध्वमुत्पतेः
समुद्रपारं यदि वा प्रधावसि । तथाऽपि तेभ्यो न
विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः । त्वं
कालरात्रीमिव कश्चिदातुरः किं मां दृढ़ं प्रार्थयसेऽद्य
कीचक! । किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षु-
रिव मन्यसे हि माम्” १३ अ० । तयैवं निरस्तेन तेन
स्वभगिनीं सुदेष्णां प्रति तस्यावश्यतासम्पादनप्रार्थने
तया तत्रोपायविधानं वर्णितं
यथा“प्रत्याख्यातो राजपुत्त्र्या सुदेष्णां कीचकोऽब्रवीत् ।
अमर्य्यादेन कामेन वोरेणाभिपरिप्लुतः । कीचकौवाच ।
यथा कैकेयि! सेरिन्ध्री समेयात्तद्विधीयताम् । येनोपायेन
सैरिन्ध्री भजेन्मां गजगामिनी । तं सुदेष्णे! परीप्स-
स्व नो चेत् प्राणान् प्रहासिषम् । वैशम्पायनौवाच ।
तस्य सा बहुशः श्रुत्वा वाचं विलपतस्तदा । विराटम-
हिषी देवी कृपाञ्चके मनस्विनी । स्वातन्त्र्यमभिसन्धाय
तस्यार्थमनुचिन्त्य च । उद्योगञ्चैव कृष्णायाः सुदेष्णा
सूतमब्रवीत् । सुदेष्णोवाच । पर्व्वणि त्वं समुद्दिश्य
सुरामन्नञ्च कारय । तत्रैनां प्रेषयिष्यामि सुराहारीं
तवान्तिकम् । तत्र सम्प्रेषितामेनां विजने निरवग्रहे ।
सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि । वैशम्पा-
यनौबाच । इत्युक्तः स विनिष्क्रम्य भगिन्या वचनात्त-
दा । सुरामाहारयामास राजार्हां सुपरिष्कृताम् ।
मद्यांश्च विविधाकारान् बहूंश्चोच्चावचांस्तदा । कारया-
मास कुशलैरन्नपानं सुशोभनम् । तस्मिन् कृते तदा देवी
कीचकेनोपमन्त्रिता । सुदेष्णा प्रेषयामास सैरिन्ध्रीं
कीचकालयम्” । तत्प्रेषिताया द्रौपद्याः कीचकेन कथादि
“द्रौपद्युवाच । संप्रैषीद्राजपुत्त्री मां सुराहारीं तवान्ति-
कम् । पानमाहर मे क्षिप्रं पिपासा मयि चाब्रवीत् ।
कीचकौवाच । अन्या भद्रे! नयिष्यन्ति राजपुत्त्र्याः
प्रतिश्रुतम् । इत्येनां दक्षिणे पाणौ सूतपुत्त्रः परामृशत् ।
द्रौपद्युवाच! यथैवाहं नाभिचरे कदाचित् पतीन्मदाद्वै-
मनसाऽपि जातु । तेनैव सत्येन वशीकृतं त्वां द्रक्ष्यामि
पापं परिकृष्यमाणम् । वैशम्पायन उवाच । स तामभि-
प्रेक्ष्य विशालनेत्रां जिघृक्षमाणः परिभत्र्सयन्तीम् ।
जग्राह तामुत्तरवस्त्रदेशे स कीचकस्तां सहसाऽऽक्षिपन्ती-
म् । प्रगृह्यमाणा तु महाजवेन मुहुर्विनिश्वस्य च
राजपुत्त्री । चिक्षेप तं गाढ़समृष्यमाणा प्रवेपमानाऽतिरु-
षा शुभाङ्गी । तया समाक्षिप्ततनुः स पापः पपात
शाखीब निकृत्तमूलः । सा गृहीता विधुन्वाना भूमावा-
क्षिप्य कीचकम् । सभां शरणमागच्छद्यत्र राजा युधि-
ष्ठिरः । तां कीचकः प्रधावन्तीं केशपाशे परामृशत् ।
अथैनां पश्यतो राज्ञः पातयित्वा पदाऽबधीत् । तस्या
योऽसौ तदाऽर्केण राक्षसः सन्नियोजितः । स कीचक-
मपोवाह वातवेगेन भारत! । स पपात तदा भूमौ
रक्षोवलसमाहतः । विघूर्णमानो निश्चेष्टश्छिन्नमूल इव
द्रुमः” । भा० वि० १५ अ०

कीचकजित् पु० कीचकं जितवान् जि--भूते क्विप् । भीमसेने

कीचकभिदादयोऽप्यत्र भीमेन तस्य बधकथा च भा०
वि० २२ अ० । तत्रायं संक्षेपः कीचकधर्षितया द्रौपद्या
तद्बवार्थं प्रार्थितेन भीमेन एकाकिना नाट्यशालायां
त्वया रात्रौ आ गतेन सह मममेलनं भविष्यतीति कीचकं
प्रति सङ्केतदानाय भीमेन नोदितया द्रौपद्या तथाऽनुष्ठिते
भीमस्य नाट्यशालायां रात्रौ द्रौपदीस्थानीयतयाग्रेप्रवेशे
तत्र कीचकगतौ तयोर्युद्धादिकमुपवर्ण्ण्य भीमेन कीच-
पृष्ठ २०५८
कस्य बध होद्देदि करपाद--प्रवेशनञ्चेति वर्ण्णितं यथा
“भीमोऽथ प्रथम गत्वा रात्रौ च्छन्न उपाविशत् । मृगं
हरिरिवादृश्यः समाकाङ्क्षत कीचकम् । कीचकश्चाप्यलङ्कृत्य
यथाकाममुपागमत् । तां वेलां नर्त्तनागारं पाञ्चालीस-
ङ्गमाशया । मन्यमानः स सङ्केतमागारं प्राविशत्ततः ।
प्रविश्य च स तद्वेश्म तमसा संवृतं महत् । पूर्व्वागतं
गतस्तत्र भीममप्रतिमौजसम् । एकान्तावस्थितं
चैनमासंसाद सुदुर्म्मतिः । शयानं शयने तत्र मृत्युं सूतः
परामृशत् । पतङ्गः पावकं दीप्तं सिंहं क्षुद्रपशुर्यथा ।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह । उपसंगम्य
चैवेनं कीचकः काममोहितः । हर्षोन्मथितचित्तात्मा
स्मयमानोऽभ्यभाषत । प्रापितं ते मया वित्तं बहुरूपमन-
न्तकम् । त्वत्कृते धनरत्नाद्यं दासीशतपरिच्छदम् ।
रूपलावण्ययुक्ताभिर्युवतीभिरलङ्कृतम् । गृहं सान्तः-
पुरं सुभ्रु! क्रीडारतिविराजितम् । तत् सर्व्वं त्वां
समुद्दिश्य सहसा समुप गतः । आबालान्मां प्रशंसन्ति सर्व्वा
गृहगताः स्त्रियः । सुवासा दर्शनीयश्च नान्योऽस्ति
त्वादृशः पुमान् । भीम उवाच । दिष्ट्या त्वं दर्शनीयो-
ऽसि दिष्ट्यात्मानं प्रशंससि । ईदृशस्तु त्वया स्पर्शः
स्पृष्टपूर्व्वो न कर्हिचित् । स्पर्शं वेत्सि विदग्धस्त्वं
कामधर्म्मविचक्षणः । स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुष-
स्त्विह । वैशम्पायन उवाच ।
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः । सहसोत्पत्य
कौन्तेयः प्रहस्येदमुवाच ह । अद्य त्वां भगिनी पाप!
कृष्यमाणं मया भुवि । द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव
महाद्विपम् । निराबाधा त्वयि हते सैरिन्ध्री विचरिष्य-
ति । सुखमेवं चरिष्यन्ति सैरिन्ध्य्राः पतयस्तथा । ततो
जग्राह केशेषु माल्यवत्सु महाबलः । स केशेषु
परामृष्टो बलेन बलिनां वरः । आक्षिप्य केशान् वेगेन
बाह्वोर्जग्राह पाण्डबम् । बाहुयुद्धं तयोरासीत् क्रु-
द्धयोर्नरसिंहयोः । वसन्ते वासिताहेतोर्ब्बलवद्गजयो-
रिव । कीचकानान्तु मुख्यस्य नराणामुत्तमस्य च ।
बालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः” ।
ततस्तयोर्युद्धमुपवर्ण्योक्तम् “मुहूर्त्तन्तु स तं वेगं सहित्वा
भूरिदुःसहम् । बलादहीयत तदा सूतो भीमबलार्द्दितः ।
तं हीयमानं विज्ञाय भीमसेनो महाबलः । वक्षस्यानीय
वेगेन ममद्दैनं विचेतसम् । क्रोधाविष्टो विनिश्वस्य
पुनश्चैनं वृकोदरः । जग्राह जयतां श्रेष्ठः केशे-
ष्वेव तदा भृशम् । गृहोत्वा कीचकं भीमो विरुराव
महाबलः । शार्द्दूलः पिशिताकाङ्क्षी गृहीत्वेव
महामृगम् । तत एनं परिश्रान्तमुपलभ्य वृकोदरः । योक्त्र-
यामास बाहुभ्यां पशुं रशनया यथा । नदन्तञ्च महानादं
भिन्नभेरीसमस्वनम् । भ्रामयामास सुचिरं विष्फुरन्तम-
चेतसम् । प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः ।
अपीडयत कृष्णायास्त्रदा कोपोपशान्तये । अथ तं भग्न-
सर्व्वाङ्गं व्याविद्धनयनान्तरम् । आक्रम्य च कटीदेशे
जानुना कीचकाधमम् । अपीडयत बाहुभ्यां पशुमार-
ममारयत् । तं विषीदन्तमाज्ञाय कीचकं पाण्डुनन्दनः ।
भूतले भ्रामयामास वाक्यञ्चेदमुवाच ह । अद्याहम-
नृणो भूत्वा भ्रातुर्भार्य्यापहारिणम् । शान्तिं लब्धास्मि
परमां हत्वा सैरिन्ध्रिकण्ठकम् । इत्येवमुक्त्वा पुरुष
प्रवीरस्तं कीचकं क्रोधसरागनेत्रः । आस्रस्तवस्त्राभरणं
स्फुरन्तमुद्भ्रान्तनेत्रं व्यसुमुत्सर्ज्ज । निष्पिष्य पाणिना
पाणिं सन्दष्टोष्ठपुटो बली । समाक्रम्य च संक्रुद्धो
बलेन बलिनां वरः । तस्य पाणी च पादौ च शिरो
ग्रीवाञ्च सर्व्वशः । काये प्रवेशयामास पशोरिव पिनाक-
धृक् । तं सम्मथितसर्व्वाङ्गं मांसपिण्डोपमं कृतम् ।
कृष्णायै दर्शयामास भीमसेनो महाबलः” ।

कीज त्रि० किमस्य कथंजात इति वा पृषो० । अद्भुते “यः शक्रो

मृक्षो अश्व्यो यो वा कीजो हिरण्मयः” ऋ०८ । ६६ ।
३० । कीज इत्यद्भुतमाह” भा०

कीट बन्धे वर्णे च चुरा० उभ० सक० सेट् । कीटयति ते

अचीकिटत्--त । कीटयाम् बभूव आस चकार चक्रे कीटः ।

कीट पु० कीट--अच् । कृमिभ्यः स्थूले क्षुद्रजन्तुभेदे । स्वार्थे

क । तत्रार्थे २ मागधजातौ च धरणिः । ३ कठिने त्रि०
मेदिनिः । कीटभेदलक्षणादिकं सुश्रुते दर्शित
यथा“अथातः कीटकल्पं व्याख्यास्यामः । सर्पाणां शुक्रवि-
ण्मूत्रशवपूत्यण्डसम्भवाः । वाय्वग्न्यम्बुप्रकृतयः कीटास्तु
विविधाः स्मृताः । सर्वदोषप्रकृतिभिर्युक्ताश्चापरिणामतः ।
कीटत्वेऽपि सुघोरास्ते सर्व्व एव चतुर्व्विधाः । कुम्भीन-
सस्तुण्डिकेरी शृङ्गी शतकुलीरकः । उच्चिटिङ्गोऽग्निनामा
च विच्चिटिङ्गो मयूरिका । आवर्त्तकस्तथोरभ्रसारिका-
मुखवैदलौ । शरावकुर्द्दोऽभीराजी परुषश्चित्रशीर्षकः ।
शतबाहुश्च यश्चापि रक्तराजिः प्रकीर्त्तितः । अष्टादशेति
वायव्याः कीटाः पवनकोपनाः । तैर्भवन्तीह दष्टानां
रोगा वातनिमित्तजाः । कौण्डिल्यकः कणभको वरटी
पृष्ठ २०५९
पत्रवृश्चिकः । विनासिका ब्रह्मणिका विन्दुलो भ्रमरस्तथा ।
वाह्यकी पिच्चिटः कुम्भी वर्च्चःकीटोऽरिमेदकः । पद्मकीटो
दुन्दुभिको मकरः शतपादकः । पञ्चालकः पाकमत्स्यः
कृष्णतुण्डोऽथ गर्द्दभी । क्लीतः कृमिसरारी च यश्चा-
प्युत्क्लेशकः स्मृतः । एते ह्यग्निप्रकृतयश्चतुर्विंशाः प्रकी-
र्त्तिताः । तैर्भवत्तीह दष्टानां रोगाः पित्तनिमित्तजाः ।
विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः । सैरेयकः
प्रचलको बलभः किटिभस्तथा । सूचीमुखः कृष्णगोधा
यश्च काषायवासिकः । कीटगर्द्दभकश्चैव तथा त्रोटक एव
च । त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ।
तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः । तुङ्गीनासो
विचिलकस्तालको वाहकस्तथा । कोष्ठागारी क्रिमिकरो
यश्च मण्डलपुच्छकः । तुङ्गनाभः सर्षपिकोऽवल्गुली
शम्बुकस्तथा । अग्निकीटश्च घोराः स्युर्द्वादश प्राणनाश-
नाः । तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्षवत् ।
तास्ताश्च वेदनास्तीव्रारोगा वै सान्निपातिकाः । क्षाराग्नि-
दग्धवद्दंशो रक्तपीतसितारुणः । ज्वराङ्गमर्द्दरोमाञ्च-
वेदनाभिः समन्वितः । छर्द्यतीसारतृष्णा च दाहो
मोहोविजृम्भिका । वेपथुश्वासहिक्वाश्च दाहः शीतञ्च दारु-
णम् । पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च ।
दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च । तैर्भवन्तीह
दष्टानां यथास्वञ्चाप्युपद्रवाः । येऽन्ये तेषां विशेषास्तु
तूणं तेषां समादिशेत् । दूषीविषप्रकोपाच्च तथैव विषलेप-
नात् । लिङ्गं तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः ।
प्रसेकोऽरोचकश्छर्द्दिःशिरोगौरवशीतता । पिडकाको-
टकण्डूनां जन्म दोषविभागतः । योगैर्न्नानाविधैरेषां
चूर्ण्णानि गरमादिशेत् । दूषीविषप्रकाराणां तथैवाप्यनुलेप-
नात् । एकजातीनतस्तूर्द्ध्वं कीटान् वक्ष्यामि भेदतः ।
सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च । त्रिकण्ठ-
कः कुणी चापि हस्तिकक्षोऽपराजितः । चत्वार एते
कणभा व्याख्यातास्तीव्रवेदनाः । तैर्दष्टस्य श्वयथुरङ्गमर्दो
गुरुता गात्राणां दंशःकृष्णश्चभवति । प्रतिसूर्य्यं पिङ्गभासी
बहुवर्णो महाशिराः । तथा निरुपमश्चापि पञ्च गौधे-
रकाः स्मृताः । तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्प-
वत् । रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः । गलगोली
श्वेतकृष्णा रक्तराजी रक्तमण्डला सर्व्वश्वेता सर्षपिका
इत्येवं षट् ताभिर्दष्टे सर्षपिकावर्ज्जं दाहशोफक्लेदा
भवन्ति । सर्षपिकया हृदत्यपीडातिसारश्च । शतपद्यस्तु
परुषा कृष्णा चित्रा कपिलिका पीतिका रक्ता श्वेता
अग्निप्रभा इत्यष्टौ ताभिर्दष्टे शोफो वेदना दाहश्च हृदये
श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं
श्वेतपिडकोत्पत्तिश्च । मण्डूकाः कृष्णः सारः कुहको
हरितो रक्तो यववर्णाभो भृकुटी कोटिकश्चेत्यष्टौ
तैर्दष्टस्य दंशकण्डूर्भवति पीतफेनागमश्च वक्त्रा-
त् । भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चाति-
तिमात्रम् । विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः
पिडकाभिश्चीयते शीतज्वरार्त्तश्च पुरुषो भवति ।
अहिण्डुकाभिर्दष्टेतोददाहकण्डूश्वयथवो मोहश्च । कण्डू-
मकाभिर्दष्टे पीताङ्गश्छर्द्द्यतीसारज्वरादिभिरभिहन्यते ।
शूकवृन्तादिभिर्दष्टे कण्डूकोठाः प्रवर्द्धन्ते शूकञ्चात्र
लक्ष्यते । पिपीलिकाः स्थूलशीर्षा संवाहिका ब्राह्मणि-
काङ्गुलिका कपिलिका चित्रवर्णेति षट् ताभिर्दष्टे दंशे
श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः । मक्षिकाः कान्ता-
रिका कृष्णा पिङ्गलिका मधूलिका काषायी स्थालिकेत्येवं
षट् ताभिर्दष्टस्य दाहशोफौ भवतः । स्थालिका काषायी-
भ्यामेतदेव पिडकाश्च सोपद्रवा भवन्ति । मशकाः
सामुद्रः परिमण्डलो हस्तिमशकः कृष्णः पार्वतीय इति पञ्च
तैर्दष्टस्य तीव्रकण्डूर्दंशशोफश्च पार्वतीयस्तु कीटैः प्राणह-
रैस्तुल्यलक्षणः । नखावकृष्टेऽत्यर्थं पिडकाः सदाह-
पाकाभवन्ति । जलौकसां दष्टलक्षणमुक्तं चिकित्सि-
तञ्च । भवन्ति चात्र । गोधेरकःस्थालिका च ये च
श्वेताग्निसंप्रभे । भृकुटीकोटिकश्चैव न सिध्यन्त्येकजातिषु ।
शवमूत्रपुरीषैस्तु सविषैरवमर्षणात् । स्युः कण्टदाहको-
ठारुः पिडकातोदवेदनाः । प्रक्लेदवांस्तथास्रावो भृशं
सम्पाचयेत्त्वचम् । दिग्धविद्धक्रियास्तत्र यथावदवचारयेत् ।
नावसन्नं नचोत्सन्नमतिसंरम्भवेदनम् । दंशादौ विपरी-
तार्त्ति कीटदष्टं सुबाधकम् । कीटैर्दष्टानुग्रविषैः सर्पवत्
समुपाचरेत् । त्रिविधानान्तु सर्पाणां त्रैविध्येन क्रिया
हिता । स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत् ।
अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात् । विषघ्नञ्च
विधिं सर्वं कुर्य्यात् संशोधनानि च” । २ कीटाख्येषु राशिषु

कीटगर्द्दभक पु० कीटभेदे कीटशब्दे विवृति० ।

कीटघ्न पु० कीटं हन्ति हन--टक् । गन्धके राजनि० ।

कीटजा स्त्री० कीटेभ्यो जायते जन--ड । १ जतुनि लाक्षायाम्

रत्नमाला० २ कीटजातमात्रे त्रि० ।

कीटपादिका स्त्री कीटाःपादे मूलेऽस्याः कप् अतैत्त्वम् ।

पृष्ठ २०६०

कीटमणि पु० कीटेषु मणिरिव । खद्योते शब्दचि० ।

कीटमातृ स्त्री कीटस्य मातेव मूले बहुलकीटप्रसवात् ।

हंसपदीवृक्षे भावप्र० ।

कीटमारी स्त्री कीटान् मारयति सेवनेन मृ--णिच्--अण्

उप० स० गौरा० ङीष् मुग्ध० मते षण् ईप् । हंसपदीवृक्षे
राजनि० ।

कीटमेष पु० कीटोमेष इव । नदीतीरे सिकतामध्ये स्थायिनि (उच्चिङिड़ा) इतिख्याते कीटभेदे शब्दचि० ।

कीटसंज्ञ पु० कीटः संज्ञा यस्य । “कर्कटवृश्चिकमीना

मकरान्त्यार्द्धञ्च कीटसज्ञाः स्युः” ज्यो० उक्तेषु कर्कटादिषु
राशिषु कीटाख्यादयोऽप्यत्र । यद्यप्येषां सर्वेषां
कीटसंज्ञा तथापि क्वचित् कीटशब्दस्य वृश्चिकराशि-
मात्रपरता यथा “हरिः कीटघटेन च” पताकीवेथे
वृश्चिकस्यैव सिंहकुम्भाभ्यां वेधात्तस्यैव ग्रहणम् ।

कीडेर पु० कील--एरच् लस्य डः । तण्डुलीयशाके--भाबप्र० ।

कीदृक्ष त्रि० कस्येव दर्शनमस्य किम् + दृश--क्स क्यादेशे दीर्घः ।

किम्प्रकारे । क्विन् । कीदृश् । कङ् । कीदृश तत्रार्थे त्रि०
तत्र कङि स्त्रियां ङीप्, क्से टाप् इति भेदः । “प्रिये! स
कीदृक् भविता तव क्षणः” नैष० । “यद्येतानि जयन्ति
हन्त परितः शस्त्राण्यमोघानि मे तद्भोः कीदृगसौ विवे-
कविभवः कीदृक् प्रबोधीदयः” प्रवोधच० ।

कीनाश पु० कुत्सितं नाशयति, कीचनाशि अच् क्लिश्नाति

नि० वा । १ यमे “विधेहि कीनाशनिकेतनातिथिम्”
माघः । २ वानरे पुंस्त्री अभरः स्त्रियां जातित्वात् ङीष् ।
३ पशुकेः । ४ क्षुद्रे ५ कर्षके च त्रि० मेदि० । “कीनाशो
गोवृषो यानमलङ्कारश्च वेश्म च । विप्रस्यौद्धारिकं
देयमेकांशश्च प्रधानतः” मनुः “कीनाशः कर्षकः” कुल्लू० ।
“शुनं न फाला विकृषन्तु भूमिं शुनं कीनाशा
अभियन्तु वाहैः” ऋ०४, ५७, ८, “कीनाशाः बलीवर्द्धरक्षकाः”
भा० । “नाद्रियन्ते यथापूर्व्वं कीनाशाइव गोजरम्” भाग० ३,
३०, ११ । क्षुद्रे “य उद्यतमनादृत्य कीनाशमभियाचते ।
क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः” भाग० ३२२, १२

कीर पुंस्त्री कीति ईरयति ईर--णिच्--अच् । १ शुके पक्षि-

भेदे अमरः । “खगवागियमित्यतोऽपि किं न मुदं
धास्यति? कीरगीरिव” नैष० जातित्वात् स्त्रियां ङीष् ।
२ काश्मीरदेशे पु० भूम्नि मेदि० अल्पार्थे कन् । कीरक
शुकशावे संज्ञायां कन् । वृक्षभेदे क्षपणके च धरणिः

कीरवर्ण्णक न० कीरस्येव वर्ण्णोऽस्य कप् । (स्थौणेयक) नाम

सुगन्धिद्रव्ये राजनि० ।

कीरि पु० कीर्य्यते विक्षिप्यते कॄ--बा० ये १ स्तोत्रे “कीरिणा

देवान्नमसोपशिक्षन्” ऋ० ५, ४०, ८, “कीरिणा स्तोत्रेण”
भा० २ स्तुत्यादिषु विक्षिप्ते त्रि० । “थस्या हृदा कीरिणा
मन्थमानः” ऋ० ५, ४, १०, “कीरिणा स्तत्यादिषु विक्षिप्तेन
हृदा” भा० ३ स्तोतरि त्रि० निरु० “वसु स्तुवते कीरये”
ऋ० ६, २३, ३, “कीरिरितिस्तो नाम” भा० “सखायं
कीरिचोदनम्” ऋ० ६, ४५, १९, “कीरीणां स्तोतॄणां
चोदनं प्रेरयितारम्” भा० ।

कीरेष्ट पु० कीरस्य इष्टः । १ आम्रवृक्षे २ आखोटवृक्षे

(आखरोट) ३ जलमधूकवृक्षे च राजनि० ।

कीर्ण्ण त्रि० क्वृ--क्त । १ आच्छन्ने २ निहिते ३ विक्षिप्ते ४

हिंसिते च मेदि० । “श्रमविवृतनुखभ्वंशिभिः कीर्ण्णवर्त्मा”
शकु० । “कीर्ण्णं शनैरनुकपोलमनेकपानाम्” माघः ।

कीर्ण्णि स्त्री० कॄ--भावे क्तिन् नि० निभावः । १ विक्षेपे २

हिंसने ३ आच्छादने च ।

कीर्त्तन न० चु० कृत--कीर्त्तादेशः सौत्र--कीर्त्त--वा भावे ल्युट् । कथने ।

कीर्त्तना स्त्री चु० कृत कीर्तादेशे भावे युच् । १ कथने ।

कर्म्मणि युच् । २ यशसि शब्दरत्ना० ।

कीर्त्ति स्त्री सौ० कीर्त्त--क्तिन् । १ प्रसादे मेदि०२ शब्दे ३ दीप्तौ

४ मातृकाविशेषे च शब्दरत्ना० ५ विस्तरे ६ कर्द्दमे च विश्वः ।
७ ख्यातिभेदे अमरः । ख्यातिभेदश्च धार्म्मिकत्वादि प्रश-
स्तधर्म्मवत्त्वेननानादेशीय कथन ज्ञानविषय ता । कीर्त्तिश्च
जीवतोमृतस्य वेत्यत्र विशेषोनास्ति । “यस्य कीर्त्तिः श्रुता
लोके धन्यं तस्य सुजीवितम्” नीतिसारे “सम्भावितस्य
चाकीर्त्तिर्मरणादतिरिच्यते” गीतायाञ्च जीवतोऽपि कीर्त्ति-
सत्त्वस्योक्तेः । तत्र दानादिप्रभावा ख्यातिः कीर्त्तिः शौर्य्या-
दिप्रभवा ख्यातिर्यश इति केचिद्यशःकीर्त्त्योर्भेदमाहुः
“कीर्त्तिं स्वर्गफलामाहुरासंसारं नृणां किल” इत्यनेन
कीर्त्तेः स्वर्गफलतोक्तेः । जीवतःख्यातिर्यशः मृतस्य
ख्यातिः कीर्त्तिरिति विभागस्तु न सम्यक् “इह कीर्त्ति-
मवाप्नोति प्रेत्य चानुत्तमं सुखम्” इति मनुना इहलोके
ऽपि कीर्त्तिप्राप्ते रुक्तेः । एतेन
“प्रज्ञां यशश्च कीर्त्तिञ्च ब्रह्मवर्चसमेव च” मनुवाक्यस्य
“जीवन् यशः मृतश्च कीत्तिमिति” कुल्लू० व्याख्या चिन्त्या
प्राग्दर्शितमनुवाक्यान्तरविरोधात् किन्तु स्वर्गादिफल-
कदानादिधर्म्मेणैव कीर्त्तिः, शौर्य्यादिना यश इत्यु-
भयार्भेदसम्भवेन मनुवाक्यस्य तदर्थपरत्वमेवोचि-
तम् “स्वकान्तिकीर्त्तिव्रजमौक्तिकस्रजम्” नैष० ।
पृष्ठ २०६१

कीर्त्तित त्रि० चु० कृत--कीर्त्तादेशेक्त । १ कथिते--२ ख्याते च ।

कीर्त्तिभाज् पु० कीर्त्तिं भजते भज--ण्वि १ द्रोणाचार्य्ये

शब्दरत्ना० । २ कीर्त्तियुक्ते त्रि०

कीर्त्तिमत् त्रि० कीर्त्तिरस्त्यस्य मतुप् । १ कीर्त्तियुक्ते स्त्रियां

ङीप् । विश्वदेवान्तर्गते श्राद्धदेवभेदे पु० २ विश्वेदेवाश्च भा०
आनु० १५२ अ० दर्शिता यथा
“विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्ब्बमेव ते । तेषां
नामानि वक्ष्यामि भागार्हाणां महात्मनाम् । बलं
धृतिर्विधाता च पुण्यकृत् पावनस्तथा । पार्ष्णिक्षेमी
समूहश्च दिव्यसानुस्तथैव च । विवस्वान् वीर्य्यवान् ह्रीमान्
कीर्त्तिमान् कृत एव च । जितात्मा मुनिवर्य्यश्च दीप्तरोमा
भयङ्करः । अनुकर्म्मा प्रतीतश्च प्रदाताऽथांशुमांस्तथा ।
शलाभः परमक्रोधी घीरोष्णीभूपतिस्तथा । अजी वज्रो
बरी चैव विश्वेदेवाः सनातनाः । विद्युद्वर्च्चाः सोमवर्च्चाः
सूर्य्यश्रीश्चेति नामतः । सोमपः सूर्य्यसावित्रो दत्तात्मा
पुण्डरीयकः । उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ।
चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः । ईशः कर्त्ता
कृतिर्द्दक्षो भुवनो दिव्यकर्म्मकृत् । गणितः पञ्चवीर्य्यश्च
आदित्यो रश्मिमांस्तथा । सप्तकृत् सोमवर्च्चाश्च विश्वकृत्
कविरेव च । अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च ।
कीर्त्तितास्ते महाभागाः कालस्यागतिगीचराः” ।
३ वसुदेवज्येष्ठपुत्रे “वसुदेवस्तु देवक्यामष्टौ पुत्रानजीज-
नत् । कीर्त्तिमन्तमित्यादि” भाग० ९, २१, २५ ।

कीर्त्तिशेष त्रि० कीर्त्तिःशेषोयस्य । नामशेषे मृते शब्दचि०

कील बन्धे भ्वादि० पर० सक० सेट् । कीलति अकीलीत् ।

चिकील कीलः । कीलितः कीलनम् । प्रनिकीलति

कील पु० कील--बन्धे यथायथं भावकरणादौ घञ् । १ वह्नि-

शिखायां २ शङ्कौ (ग्ॐज) अमरः । ३ स्तम्भे (ख्ॐटा)
३ लेशे ४ कफोणौ मेदि० । ५ कफोणिनिम्नदेशे विश्वः । “परि-
खाश्चापि कौरव्य! कीलैः सुनिचिताः कृताः” भा० ३,
६५० श्लो० ६ रतिप्रहारभेदे स्त्री “कीला उरसि, कर्त्तरी
शिरसि, विद्धा कपोलयोः” वात्स्या० भावे अ, ७ बन्धे स्त्री

कीलक पु० कीलति बध्नात्यनेन करणे घञ् स्वार्थे क ।

१ स्तम्भभेदे (ख्ॐटा) गवादेर्दोहनकाले रोधनार्थे २ काष्ठ-
मयस्तम्भे सुभूतिः । तन्त्रोक्ते देवताभेदे ३ मन्त्रविशेषे न० ।
प्रभवादिषष्टिवर्षमध्ये ४ वर्षभेदे तत्फलञ्च “जायन्ते
सर्वशस्यानि सुभिक्षं निरुपद्रवम् । सौम्यवृष्टि र्भवेद्राजन्!
कीचके च शुभं भवेत्” ज्यो० त० सप्तशतीजपाङ्गतया
पाठ्ये ५ स्त्रवभेदे न० स च “सर्वमेतद्विना यस्तु मन्त्रा-
णामपि कीलकम्” इत्यादि । तस्य च कीलकत्वम्
तज्ज्ञानं विना फलाजनकत्वात् तदुक्तं तत्रैव “कृष्णायां च
चतुर्दश्यामष्टम्यां वा समाहितः ददाति प्रतिगृह्णाति
नान्यथैषा प्रसीदति” इत्थं रूपेण कीलेन महादेवेन
कीलितम् । यो निष्कीलां विधायैनां नित्यं जपति
सम्पुटाम्” । तत्रैव तज्ज्ञानस्या भावे निष्कलत्वोक्तेश्च
तच्च गुरुलघुभेदेन द्विविधं गुप्तवत्यां विवृतिः” । तेन
कृष्णाष्टमीचतुर्दश्योः नूतनार्जितधनस्य देवातिथ्यादिभ्यो
यथोचितांशदानं तदवशिष्टस्य स्वायत्तीकरणमावश्यकं
तद्विना सप्तशतीजपस्य न फलजनकत्वमिति गम्यते “अर्गल
कीलकं चादौ पठित्वा कचम् पठेत्” तत्रैव

कीलसम्पर्श पु० कीलं तदुपकारं संस्पृशति सम् + स्पृश--अण्

उप० स० । (गाव) वृक्षभेदे शब्दच०

कीलाल पु० कीलाय बन्धाय अलति पर्य्याप्नोति अल--अच्

४ त० । १ पशौ२ बन्धनयोग्ये त्रि० मेदि० । “कीलां वह्नि-
शिखां कीलं मृत्युबन्धं वाऽलति वारयति अल--अण्
उप० स० । ३ जले कीलां तद्वर्णमलति याति
४ रुधिरे न० अमरः ५ अमृते ६ मधुनि च शब्दर० ।
मधुनः शीघ्रसंग्राहकत्वेन बन्धहेतुत्वात् तथात्वम् ।
“ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम्” यजु०
२, ४, ७ । ७ रसे पु० । “अथोअन्नाय कीलालः उपहूतो
गृहेषु” यजु० ३, १३, तत्र रुधिरे “सद्यःकृत्तकठोरकण्ठ-
विगलत्कीलालधारोज्ज्वलैः” । जले “कीलालजं न खादेयं
करिष्ये चासुरव्रतम्” । भा० व० अ० “कीलालजं जलजम्” ।

कीलालधि पु० कीलालं धीयतेऽस्मिन् धा--आधारे कि

६ त० । समुद्रे शब्दच०

कीलालप पुंस्त्री कीलालं रुधिरं पिवति पा--क । रुधिरपे

राक्षसे रत्नमा० स्त्रियां ङीष् “स च कीलालोपयस्तु
परान्नं भोक्तुमिच्छति” भा० व० १३२४१ ।

कीलित त्रि० कील--क्त । १ बद्धे २ जातकीले च भावे--क्त । ३ बन्धे न० ।

कीयत् त्रि० कियत् + पृषो० वेदे नि० दीर्घः । कियदित्यर्थे

“आः कीयतः ललूकं चकर्थ” ऋ० ३, ३०, १७,

कीश पुंस्त्री कस्य वायोरपत्यम् अत--इञ् किः हनुमान्

ईशो यस्य कुत्सितं शेते शी--ड वा । वानरे अमरः
स्त्रियां जातित्वात् ङीष् । २ सूर्य्ये कपिकपोलतुल्यवर्ण्ण
त्वात् तत्त्वं ३ पक्षिणिच शब्दर० कुत्सितशयनात्तस्य तथात्वम् ।
४ नग्ने मेदि० । कीशवदुवस्त्रराहित्यात्तस्य तथात्वम ।
पृष्ठ २०६२

कीशपर्ण्ण पु० कीशः तल्लोमेव पर्णमस्य । अपामार्गे शब्दर० ।

जातित्वेन ङीष् । कीशपर्णीत्यप्यत्र अमरः

कु शब्दे वर्णे च भ्वा० आत्म० अक० अनिट् कवते अकोष्ट

चुकुये प्रनिकवते

कु आर्त्तस्वरे तुदा० आत्म० अ० क० अनिट् । कुटादि । कुवते अकोष्ट चुकाव

कु शब्दे अदा० पर० अक० अनिट् । कौति अकौषीत् चुकाव

कु अव्य० कु + डु । १ पापे, २ निन्दायाम्, ३ ईषदर्थे, ४ निवारणे

च । ५ भूमिभागे ६ धरायाञ्च स्त्री । कुत्सितार्थत्वे
ईषदर्थत्वेचास्य “कुगतिप्रादयः” “पा० समर्थेन नित्यसमासः
कुरूपम् कुदेशः तत्रायं भेदः तत्पुरुषे अजादौ शब्दे-
परे कोः कत् । कुत्सितोऽश्वः कदश्वः कदन्नम्कदध्वः
कदग्निः । “रथवदयोश्च” पा० कद्रघः कद्वदः “तृणे च जातौ” पा०
कत्तृणम् पथिशब्दे कृतसमासान्ताक्षशब्दे परे च कादेशः
कापथः काक्षः । ईषदर्थस्य कोः का, ईषज्जलं काजलम्
पुरुषे परे का वा ईषत् पुरुषः कुपुरुष कापुरुषः । उष्णे
उक्तत्रयादेशः कोष्णं कवोष्णं कदुष्णम्” गतिप्रादिसाह-
चर्य्यात् अव्ययस्यैवेह ग्रहणात् न भूमिवाचस्य नित्य-
समासः नवा कदादेशः अव्ययपूर्ब्ब कत्वात् प्रकृतिस्वरः,
“राहुः कुभामण्डलगः शशाङ्कंग्रस्ते” “ज्यो० ब्राह्मण इव
कुशासनसहितः” काद० । कुदिनम् कुजः अव्ययस्य वेदे
दीर्घः “कूष्ठोदेवावश्विनाद्यादिवोमनावसू” ऋ० ५, ७४, १ ।

कुंसा स्त्री कुसि--भावे अ । १ भाषणे २ ज्ञापने च

कुक आदाने भ्वा० आत्म० सक० सेट् । कोकते । अकोकिष्ट ।

चुकुके कोकः’ प्रनिकोकते

कुक त्रि० कुक--क । १ समर्थे २ आदायिनि च ।

कुकभ न० कुकस्य भा यत्र । मद्ये शब्दच० । तत्पानस्य

सामर्थ्याघायकत्वात् तथात्वम्

कुकर पु० कुत्सितःआदानादिमान्द्ययुक्तः करोयस्मात् । करस्य

क्रियामान्द्यसम्पादके कुणिरोगे अमरः । ब० ब० २ तद्रोग-
युक्ते त्रि० । कु + कृ--ट । ३ कुकर्म्मकारके त्रि० ।

कुकर्म्मन् न० कुत्सितं कर्म्म नित्यस० । १ लोकशास्त्रनिन्दिते

कर्म्मणि ब० व० । २ तद्युक्ते त्रि० स्त्रियां वा ङीप्

कुकील पु० कोः पृथिव्या । कीलैव । पूर्व्वते त्रिका० तस्य

भूमौ कीलरूपेणावस्थानात् तथात्वम्

कुकुट पु० कौ कुटति कुट--क, कोः कुटैव वा । (सुषुणि)

इतिख्याते शाकभेदे राजनि० तस्य पृथिव्याः कुटतुल्य-
त्वात् तथात्वम्

कुकु(कू)द पु० कोः पृथिव्याः कुद ईषद्दः । सत्कृतालङ्कृतायाः

कन्याया दातरि पृषो० दीर्घपाठः इत्यन्ये । कन्यादस्य
ईषद्भूमिदानसमत्वात्तस्य तथात्वम् । सत्कृतालङ्कृतां
कन्यां ददानः ककुदः स्मृतः” अमरे पाठान्तरम्
अत्र प्रसिद्धपदसान्निध्यात् कुकुदपदस्य उक्तार्थे शक्ति
ग्रह इति शब्द० प्र० । प्रसिद्धपदसान्निध्यञ्च प्रसिद्धार्थ
पदसामानाधिकरण्यम् सामानाधिकरण्यञ्च अभेदेनान्वय-
बोधकत्वम् । न्यायमते तिङर्थस्याभेदेन प्रथमान्तार्थे
अन्वयासम्भवेन “यो ददाति स कुकु(कू)दः इत्यमर
पाठे स्थिते ददातीतिस्थाने ददान इति पाठः कल्पितः ।
व्याकरणमते तु तिङन्तार्थस्य प्रथमान्तार्थेऽभेदेनान्वय-
स्वीकारान्न यथाश्रुतपाठेऽपि क्षतिः । विवेचितं चैतद-
स्माभिः शब्दार्थरत्ने तत एव तदवसेयम् ।

कुकुन्दर पु० कुं भूमिं दारयति अन्तर्भूतण्यर्थे दृ--अण् नि०

कुत्सितं कुन्दरमत्र, स्कुद्यते कामिनाऽत्र स्कुद् नि० वा ।
स्त्रीणां १ नितम्बस्थे आवर्त्ताकारे पृष्ठवंशादधोबर्त्तिगर्त्त-
द्वये । अमरः । (कुकुरसोङ्गा) २ वृक्षे भावप्र० ।

कुकुभा स्त्री रागिणीभेदे हलायुधः ।

कुकुर पु० कुं पृथिवी० कुरति त्यजति स्वामित्वेन कुर--क ।

यदुवंशीयनृपभेदे तेषां ययातिशापात् राज्यं नास्तीति
पुराणकथा यदुशब्दे दृश्या । “विधुरि ता धुरिताः” कुकु-
रस्त्रिय” माघः । २ दशार्हे देशभेदे पु० ब० व० ।
कुकउरच् किच्च । ३ कुक्कुरे हड्डचन्द्रः । ४ ग्रन्थिपर्ण्यो-
षधौ त्रिका० । कुकुरनृपश्चान्धकपुत्रभेदः । “कुकुरः
भजमानशुचिकम्बलबर्हिषास्तथान्धकस्य पुत्राः” इति
विष्णु पु० “कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः ।
“अन्धकात् काश्यदुहिता चतुरोलभतात्मजान् कुकुरं
भजमानं च शमं कम्बलबहिषम्” हरिवं० ३८ अ०
तदधिष्ठानदेशभेदश्च दशार्हः ।

कुकूटी स्त्री कोः पृथिव्याः कूटोऽस्त्यस्याः अच् गौरा० ङीष् ।

शाल्मलीवृक्षे राजनि० तस्या दीर्घतया भूमिकूटतुल्य-
त्वात्तथात्वम् ।

कुकूल पु० कोः भूमेः कूलं, कुत्सितं वा कूलम् कु--ऊलच्

धातोः कुगागमश्च वा । १ तुषानले २ शङ्कुभिः सङ्कीर्णे २ गर्त्ते
३ वर्म्मणि च अमरः । “शिरीषादपि मृद्वङ्गी क्वेयमाय-
तलोचना । अयं क्वच कुकूलाग्निः कर्कशो मदनाऽनलः” ।

कुकोल न० कुत्सितं कोलति कुल--अच् । कोलिवृक्षे ।

शब्दच० ।
पृष्ठ २०६३

कुक्कुट पुंस्त्री० कुक--सम्प० क्विप् कुका आदानेन कुटति कुट-

क । पक्षिभेदे चरणायुधे १ ताम्रचूडे स्त्रियां जातित्वात्
ङीष् । तस्य शुभाशुभलक्षणमुक्तम् वृह० सं०
यथा“कुछुटस्त्वृजुतनूरुहाङ्गुलिस्ताम्रवक्त्रनखचूलिकः सितः ।
रौति सुखरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजि-
नाम् । यवग्रीवो यो वा वदरसदृशो वापि विहगो
वृहन्मूर्धा वर्णैर्भवति बहुभिर्यश्च रुचिरः । स शस्तः सङ्ग्रामे
मधुमधुपवर्णश्च जयकृन्न शस्तो योऽतोऽन्यः कृशतनुरवः
खञ्जचरणः । कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरु-
चिराननेक्षणा । सा ददाति सुचिरं महीक्षितां
श्रीयशोविजयवीर्यसम्पदः” ।
तन्मांसगुणा भावप्र० उक्ता यथा “कुक्कुटो वृंहणः स्निग्धो
वीर्य्योष्णोऽनिलहृद्गुरुः । चक्षुष्यः शुक्रकफकृत् वल्यो
वृष्यः कषायकः । वातपित्तक्षयवमिविषमज्वरनाशनः” ।
अभक्ष्यप्रकरणेग्राम्यकुक्कुटस्याभक्ष्यत्वमाह मनुः “छ त्राकं
विड्वराहं च लसुनं ग्राम्यकक्कुटम्” २ तृणोल्कायां
(उको) ३ कुक्कुभखगे च ४ वह्निकणे स्कुलिङ्गे हेम० ।
स्वार्थे क तत्रार्थेषु मेदि० । “शूद्रजातोनिषाद्यां तु स
वै कक्कुटकः स्मृतः” मनूक्ते निषादीजाते शूद्रपुत्रे च

कुक्कुट(टी)व्रत न० भाद्रशुल्कसप्तम्यां कर्त्तव्यव्रतभेदे “भाद्रे

मासि सिते पक्षे सप्तम्यां नियमेन या । स्नात्वा शिवं
लेखयित्वा मण्डले च सहाम्बिकम् । पूजयेच्च तदा
तस्या दुष्प्रापं नैव विद्यते” ति० त० भवि० पु० । इदं
कुक्कुटीव्रतमिति ति० त० रघुनन्दनः

कुक्कुटमण्डप काशीस्थे मुक्तिमण्डपे स्थाने । तस्य तन्नाम

कारणकथा च काशो० ९८ अ० दर्शिता
यथा“कैबल्यमण्डपस्यास्य भविष्यद्वावरे हरे! । लोके ख्याति-
र्भवित्रीयमेष कुककुटमण्डपः” इति शिवोनोक्ते तद्विषये
हरिप्रश्ने यथा तस्य कुक्कुटमण्डपनामप्राप्तिस्तथेतिहा-
सो वर्ण्णितः । तत्र चण्डालतः प्रतिग्राहकविप्रस्य सुतद्व-
यपत्नीभ्यां सहितस्य कीकटे कुक्कुटयोनित्वप्राप्तिमुपवर्ण्ण्य
तस्य मरणकाले काशीस्मरणजात् पुण्यात् कुक्कुटयोनिग-
तावपि काशीप्राप्त्या मुक्तिरित्युक्तम् यथा “न काश्यां
मरणं प्राप्तं तस्माद्दुष्टप्रतिग्रहात् । प्रान्ते कुटुम्बस्मरणा-
त्तथा काशीस्मृतेरपि । चौरैर्हतोऽपि स तदा कोकटे
कुक्कुटोऽभवत् । सा कुर्क्कुटीसुतौ तौ तु ताम्रचूडत्वमा-
पतुः । प्रान्ते काशीस्मरणतोजाता जातिस्मृतिः पुरा ।
इत्थं बहुतिथे काले गते कार्पाटिकोत्तमाः । तस्मिन्नेवा-
ध्वनि प्राप्ताश्चत्वारो यत्र कुक्कुटाः । वाराणस्याः कथां
प्रोच्चैः कुर्वन्तोऽन्योन्यमेव हि । काशीकथां समाकर्ण्ण्य
तदा ते चरणायुधाः । जातिस्मृतिप्रभावेन तत्सङ्गेन तु
निर्गताः । तैश्च कार्पटिकश्रेष्ठैः पथि दृष्टाः कृपालुभिः ।
तण्डुलादिपरिक्षैपेः प्रापिताः क्षेत्रमुत्तमम् । ते तु क्षेत्रं
समासाद्य चत्वारश्चरणायुधाः । चरिष्यन्तोऽत्र परितो-
मुक्तिमण्डपमुत्तमम् । जिताहारान् सनियमान्
कामक्रोधपराङ्मुखान् । शृण्वतः सत्कथालापान् लोभमो-
हविवर्ज्जितान् । स्वर्धुनीस्नानसंक्लिन्नसुनिर्मलशिरोरु-
हान् । मन्नामोच्चारणपरान् मत्कथार्पितसुश्रुतीन् । मद्द-
त्तचित्तसद्वृत्तीन् दृष्ट्वा क्षेत्रनिवासिनः । मानयामासुरथ
तान् कुक्कुटान् साघुवर्त्मनः । प्राक्तनाद्वासनायोगात्
संप्रधार्य्य परस्परम् । क्रमेणाहारमाकुञ्च्य प्राणांस्त्य-
क्ष्यन्ति चात्र ते । पश्यतां सर्व्वलोकानां विष्णो!
ते मदनुग्रहात् । विमानमधिरुह्याशु कैलासं प्राप्य मत्प-
दम्! निर्बिश्य सुचिरं कालं दिव्यान् भोगाननुत्तमान् ।
ततोऽत्र ज्ञानिनोभूत्वा मुक्तिं प्राप्स्यन्ति शाश्वतीम् ।
ततो लोकास्तदारभ्य कथयिष्यन्ति सर्ब्बतः । मुक्तिम-
ण्डपनामैतदेष कुक्कुटमण्डपः” ।

कुक्कुटमस्तक पु० कुक्कुटस्येव मस्तकं शिखा यस्य । चव्ये (चै) । राजनि०

कुक्कुटशिख पु० कुक्कुटस्य शिखेव शिखा यस्य । कुसुम्भ-

वृक्षे शब्दच० तस्यहि पुष्पाणि कुक्कुटशिखातुल्यानीति
तस्य कुक्कुटतुल्यरक्तशिखपुष्पत्वात्तथात्वम्

कुक्कुटागिरि पु० कुक्कुटप्रधानोगिरिः किंशुलुका० दीर्घः ।

कुक्कुटप्रधाने पर्वते

कुक्कुटाण्ड पु० कुक्कुट्या अण्डः पुंवद्भावः । कुक्कुट्याअण्डे

कुक्कुटाभ पुंस्त्री कुक्कुट इवाभाति आ + भा--क । कक्कुट-

चरणतुल्ये सर्पभेदे हेमच० स्त्रियां जातित्वात् ङीष् ।

कुक्कुटासन न० “कुक्कुटासनमावक्ष्ये नाड़ीनिर्म्मलहेतुना ।

सत्कुलागममार्गेण कुर्य्यात् वायुनिरोधनम् । निजहस्त-
द्वयं भूमौ पातयित्वा जितेन्द्रियः । पद्भ्यां बद्धं यत्
करोति कर्परद्वयमध्यगम् । सव्यापसव्ययुगलं तत्कुक्वु-
टासनमुच्यते” इति रुद्रयामलोक्ते आसनभेदे

कुक्कुटाहि पु० कुक्कुट इव तच्चरणैवाहिः । सर्पभेदे हेमच० ।

कुक्कुटि स्त्री कुक्कुट इवाचरति कुक्कुट + आचारार्थे क्विप्

ततः इन् । दम्भचर्य्यायाम् हेमच० । वा ङीप् । तत्रैव ।
सा च २ कुक्कुटजातिस्त्रियाम् ३ ज्येष्ठ्याम् (टिक्टिकी)
कीटमेदे शब्दरत्ना० । ४ शाल्मलीवृक्षे जटा०
पृष्ठ २०६४

कुक्कुभ पु० कुक् इत्यव्यक्तं शब्दं कौति कु--भक् । वन

कुक्कुटे । कुक्कुशब्दं भाषते भाष--बा० ड । २ कुक्वुटे
पक्षिणि । (पात्कुका) इति ख्याते ३ पक्षिभेदे अमरः ।

कुक्कुर पुंस्त्री कोकते क्विप् कुरति शब्दायते कुर--शब्दे क

कर्म्म० । १ स्वनामख्याते पशौ । तच्छुभाशुभलक्षणमुक्तं वृ० स०
यथा “पादाः पञ्चनखास्तथाग्रचरणः षड्भिर्नखेर्दक्षिण-
स्ताम्रोष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन् भुवं याति च । लाङ्गूलं
ससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू यस्य स्यात् स
करोति पोष्टुरचिरात् पुष्टां श्रियं श्वा गृहे । पादेपादे
पञ्च पञ्चाग्रपादे वामे यस्याः षण्नखा मल्लिकाक्षाः ।
वक्रं पुच्छं पिङ्गलालम्बकर्णा या सा राष्ट्रं कुक्कुरी पाति
पोष्टुः” । स्त्रियां जातित्वात् ङीष् ।
कुकुरगुणाश्चाण्यक्येनोक्ताः यथा “बह्वाशी स्वल्पसन्तुष्टः
सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च षडेते च शुनो-
गुणाः” । २ ग्रन्थिपर्णोवृक्षे न० शब्दचि० ।

कुक्कुरद्रु पु० कुक्कुरस्तद्गन्धयुक्तोद्रुर्वृक्षः । (कुकुरसोङ्गा)

कृक्षभेदे “कुक्कुरद्रुः कटुस्तिक्तो ज्वररक्तकफापहः ।
तन्मूलमार्द्रं निक्षिप्तं वदने मुखशोषहृत्” मावप्र० ।

कुक्कुरवाच् पु० कुक्कुरस्येव वागस्य । सारङ्गमृगे राजनि०

कुक्ष पु० कुष--क्स । जठरे उज्ज्वलदत्तः ।

कुक्षि पु० कुष--क्सि । १ उदरे “विपुलेन सागरशयस्य कुक्षिणा”

माघः “कुम्भीनस्याश्च कुक्षिजः” रघुः । “तव कुक्षौ
महाभागे! । अचिरात् संजनिष्यते” रामा० २ उदरस्य
वामदक्षिणप्रार्श्वयोश्च(क्ॐक) अमरः । ३ मध्यभागे “ततः
मागरमासाद्य कुक्षौ तस्य महीर्म्मिणः” भा० व० ७९ अ० ।
कुक्षौ भवः अण् । कौक्ष उदरभवे मध्यभवे च त्रि० स्त्रियां
ङीप् । कुक्षौ बद्धोऽसिः ढकञ् । कौक्षेयकोऽसिः ।
कुक्षिदेशे भवः धूमा० वुञ् । कौक्षक मध्यदेशभवे त्रि० ।

कुक्षिम्भरि त्रि० कुक्षिं बिभर्त्ति भृ--खि--मुम् च । देवातिथि-

वञ्चनेनात्मोदरमात्रपूरके कृपणे!

कुक्षिरन्ध्र पु० कुक्षौ मध्यमागे रन्ध्रं छिद्रं यस्य नल रायमु० ।

कुक्षिशूल न० कुक्षौ शूलः । सुश्रुतोक्ते शूलरोगभेदे “प्रकु-

प्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः । तदास्य भोजनं
भुक्तं सोपष्टम्भं न पच्यते । उच्छ्वसित्यामशकृता शूले-
नाहन्यते मुहुः । नैवासने न शयने तिष्ठन्न लमते सुखम् ।
कुक्षिशूल इति ख्यातोवातादामसमुद्भवः” सुश्रु० । तस्य
क्लीवत्वमपि “हृत्कुक्षिशूलं मुखकण्ठशोषः” सुश्रुतः

कुङ्कुम न० कुक्यते आदीयते कुक--आदाने--उमक् नि० मुम् ।

काश्मीरादिदेशजे स्वनामख्याते १ गन्धद्रव्यभेदे । देशभेद-
विशेषजातस्य तस्य लक्षणादि भावप्रकाशे दर्शितं
यथा“काश्मीरदेशजे क्षेत्रे कुङ्कमं यद्भवेद्धि तत् ।
सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् । वाह्लीकदे-
शसंजातं कुङ्कुमं पाण्डुरम्मतम् । केतकीगन्धयुक्त-
न्तन्मध्यमं सूक्ष्मकेशरम् । कुङ्कुमं पारसीके यन्मधुगन्धि
तदीरितम् । ईषत्पाण्डुरवर्णं यदधमं स्थूलकेशरम् ।
कुङ्कमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् । तिक्तं
वमिहरं वर्ण्यं व्यङ्गदोषश्रमापहम्”

कुङ्कुमाद्रि पु० कुङ्कुमस्याकरोऽद्रिः । काश्मीरदेशस्थे पर्व्वतभेदे

कुङ्कुमी स्त्री कुङ्कुमवर्ण्णोऽस्त्यस्याः अच्गौरा० ङीष् । महाज्योति-

ष्मतीलतायाम् राजनि० । पृषो० कुङ्कुनीति पाठान्तरम् तत्रैवार्थे

कुच रोधे, सम्पर्के लेखने च सक० कौटिल्यं अक० तु० पर० सेट्

कुटादि । कुचति अकुचीत् चुकोच कुचः । प्रनिकुचति

कुच पु० कुच--कर्त्तरि क । स्तने । स्त्रीणां कुचवृद्धिर्यौवने

यथाह सुश्रुतः “स्त्रीणां तु बिंशतिरधिका दश तासां
स्तनयोरेकैकस्मिन् पञ्च पञ्च, यौवने तासां परिवृद्धिः”
इति विवृतञ्चैतत् भावप्र०
यथा“पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते । तेषां तदेव
तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि । कुसुमानां प्रफुल्लानां
गन्धः प्रादुर्भवेद्यथा । रोमराज्यादयः पुंसां नारीणामपि
यौवने । जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स
च । व्याख्यानं यथा पुंसां रोमराजीश्मश्रुप्रभृतयः
नारीणान्तु रोमराजीस्तनार्त्तवप्रभृतयः” ।
“यावन्नोतद्भिद्येते स्तनौ तावद्देया” इति स्मृतौ कुचोद्भे-
दकालात् पूर्व्वं दानं विहितम् । स च कालः द्भादशव-
र्षादिः, “स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनो-
ति यत्” नैष० “सकठिनकुचचूचुकप्रणोदम्”
“नत्युन्नतत्वात् कुचमण्डलेन” “कौसुम्भं पृथुकुचकुम्भ-
सङ्गिवासः” माघः “तन्वि! तव कुचावेतौ नियतं चक्र-
वर्त्तिनौ” उद्भटः “पितुर्गृहे चेत् कुचपुष्पसम्भवः”
ज्यो० २ सङ्कुचिते त्रि०

कुचण्डी स्त्री कुत्सिता चण्डी विकारकारित्वात् कोपनेव ।

मूर्वालतायाम् शब्दचि० । स्वार्थे क । कुचण्डिका तत्रैव ।

कुचतट त्रि० कुचस्तटमिव विशालत्वात् । विशाले १ कुचे ६ त० ।

२ कुचैकदेशे च ।

कुचन्दन न० कुत्सितं गन्धहीनत्वात् चन्दनम् । (वकमकाठ)

१ काष्ठभेदे मेदि० २ रक्तचन्दने अमरः । इदं सुश्रुते
पटोलादिगणे सालसारादिगणे चोक्तम् तत्तच्छब्दे विवृतिः
३ कुङ्कुमे शब्दचिन्ता० । रक्तचन्दनतुल्यत्वात्तस्य तथात्वम्
पृष्ठ २०६५

कुचफल पु० कुचैव फलमस्य । दाड़िम्बवृक्षे राजनि० ।

कुचर त्रि० कुत्सितं चरति चर--अच् । १ परदोषकथनशीले ।

हेमच० कुत्सिते स्थाने चरति चर--अच् । २ दुर्गमदेशग-
न्तरि “न भीमः कुचरोगरिष्ठाः” ऋ १, १५४, २, “कुचरः
कुत्सितहिंसाकर्त्ता दुर्गमदेशगन्ता वा” भा० कौ चरति
चर--ट । ३ भूमिचरे चि० । स्त्रियां ङीप्

कुचाग्र पु० ६ त० । चूचुके कुचयोरग्रभागे अमरः ।

कुचाङ्गेरी स्त्री--कुत्सिता चाङ्गेरी । (चुकपालङ्ग) चुक्रे

शाकभेदे रत्नमा० चुक्रशब्दे गुणादि

कुचिक पुंस्त्री० कुच--वा० इकन् । (कुँचिया) मत्स्यभेदे स्त्रियां

जातित्वात् ङीष् । वृह० स० कूर्म्मविभावे ऐशान्यामुक्ते
देशभेदे “भल्लापलोलजटासुरकुनठखसघोषकुचिकाख्याः” ।

कुचित त्रि० कुच--कितच् । परिमिते उज्वलदत्तः ।

कुचेल त्रि० कुत्सितं चेतं वस्त्रमस्य । कुत्सितवस्त्रधरे । कुचा

सङ्कुचा इला यस्याः ५ त० । २ विद्धकर्ण्टाम् ३ पाठायाम् स्त्री
मेदि० गौरा० ङीष् । (आकनादी) ४ वृक्षे स्त्री रत्नमा० ।

कुच्छ न कु + छो--क । कुमुदे शब्दच० ।

कुज स्तेये भ्वा० पर० सक० सेट् । कोजति अकोजीत् चुकोज

उदित् कुजित्वा कुक्क्त्वा । प्रनिकुजति

कुज पु० कोः पृथिव्या जायते जन--ड । मङ्गलग्रहे यथा च

तस्य तज्जातत्वं तथा आवनेयशब्दे काशीखण्डवाक्येन
दर्शितम् २ नरकासुरे तस्य वाराहीरूपायाः पृथिव्याउ-
त्पन्नत्वात् तथात्वम् तत्कथा कालिकापुराणे ३६ अ० यथा
“यथा स नरकोजातो धरागर्भे महासुरः । रजस्वलाया
गोत्रायागर्गे वीर्य्येण पोत्रिणः (वराहस्य) । यतोजा-
तस्ततोभूतो देबपुत्रोऽपि सोऽसुरः” इत्युपक्रम्य
“गर्भसंस्थं महावीर्य्यं ज्ञात्वा ब्रह्मादयः सुराः । गर्भ-
एव तदा देवशक्त्या दध्रुश्चिरं दृढ़म् । यथाकालेऽपि
संप्राप्ते नो गर्भाज्जायते स च । ततस्त्यक्तशरीरस्तु
वराहस्तनयैः सह । अतीव शोकसन्तप्ता जगद्धात्र्यभवत्
क्षितिः । शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः ।
प्रकृतिस्था क्षितिर्भूता माधवेन प्रबोधिता । ततः
कालेऽपि संप्राप्ते देवशक्त्या यदा धृतः । न गर्भः प्रसवं याति
तदाऽभूत् पीड़िता मही । कठोरगर्भा सा देवी गर्भभारं
न चाशकत् । यदा वोढुं, तदा देवं माधवं शरणं गता
शरण्यं शरणं गत्वा माधवं जगता पतिम् । प्रणम्य
शिरसा देवी वाक्यमेतदुवाच ह” । स्तवप्रसन्नमाधवो-
क्तिधराप्रत्युक्तिभ्यां त्रेतायुगार्द्धे तदुत्पत्तिकथा-
“इति स्तुतो हृषीकेशोजगद्धात्र्या तदा हरिः । प्रा-
दुर्भूतस्तदा प्राह धरित्रीं दीनमानसाम् । श्रीभगवानुवाच ।
कथं दीनमना देवि! धरित्रि! परिदेवसे । तव वा किङ्कृ-
ता पीडा वेत्तुमिच्छामि तदहम् । मुखन्ते परिशुष्क-
न्तु शरीरं कान्तिवर्जितम् । आकुलं नयनद्वन्द्वं भ्रूवि-
भ्रमविवर्जितम् । ईदृशन्तव रूपन्तु दृष्टपूर्व्वं कदा च न ।
रूपस्य तु विपर्य्यासे दुःखे वीजञ्च भाषय । एतच्छुत्वा
वचस्तस्य माधवस्य जगत्पतेः । विनयावनता देवी पृथ्वी प्राह-
सगद्गदम् । पृथिव्युवाच । गर्भभारं न संवीढुं माधवा-
हं क्षमाऽधुना । भृशं नित्यं विषीदामि तस्मात्त्वं त्रातु-
मर्हसि । त्वया वराहरूपेण मलिनी (ऋतुमती) कामि-
ता पुरा । तेन कामेन कुक्षौ मे स्मयं गर्भोऽयमास्थितः ।
काले प्राप्ते स गर्भोऽयं न प्रच्यवति माधव! । कठोरगर्भा
तेनाहं पीडितास्मि दिनेदिने । यदि न त्रासि मां देव!
गर्भदुःखाज्जगतपते! । न चिरादेव यास्यामि मृत्योर्व-
शमसंशयम् । कदापि नेदृशोगर्भो धृतोमाधव! वै पुरा ।
योऽचलां चालयति मां सरसीमिव कुञ्जरः । एतच्छ्रुत्वा
वचस्तस्याः पृथिव्याः पृथिवीपतिः । आह्लादयन् प्रत्यु-
वाच हरिस्तप्तां लतामिव । श्रीमगवानुवाच । न धरे
ते महादुःखं चिरस्थायि भविष्यति । श्रुणु येन प्रकारेण
चानुभूतमिदं त्वया । मलिन्या सह सङ्गेन यो गर्भः
संवृतस्त्वया । सोऽभूदसुरसत्वस्तु वृष्टेः (वराहस्य) पुत्रस्तु
दारुणः । ज्ञात्वा तस्य च वृत्तान्तंगर्भस्य द्रुहिणादयः ।
देवीभिः शक्तिभिः सुभ्रूस्तव कुक्षौ सुतं खरम् । सर्गादौ-
यदि जायेत भवत्यास्तादृशः सुतः । भ्रंशयेत् सकलाल्ल्ॐकां
स्त्रीनिमान् ससुरासुरान् । अतस्तस्य बलं वीर्य्यं ज्ञात्वा
ब्रह्मादयः सुराः । प्राक्सृष्टिकाले ते गर्भं तदाऽधुर्जगतां
कृते । अष्टाविंशतिमे प्राप्ते आदिसर्गाच्चतुर्युगे । त्रेता-
युगस्य मध्ये तु सुतं त्वंजनयिष्यसि । यावत् सत्ययुगं
याति त्रेतार्द्धञ्च वरानने! । तावद्वह महागर्भं दत्तः
कालोमया तव । न यावज्जायते धात्रि! गर्भस्ते ह्यति-
दारुणः । तावद्गर्मवती दुःखं न त्वं प्रास्यसि भाविनि!”
“ये च प्रलम्बखरदर्दुररिष्टनुमिमल्लेभकंसयवनाः कुजपौ-
ण्ड्रकाद्याः” भाग० २७, ३६ । “तत्राहृतास्ता नरदेवक-
न्याः कुजेन दृष्ट्वा हरिमार्त्तबन्धुम्” भाग० ३, ३, ८ श्लो० ।
“कुजशुक्रबुधेन्द्दर्कसौम्यशुक्रावनीभुवाम् “ज्यो०” मङ्ग-
लग्रहस्य चारादिकमङ्गारकशब्दे ७९ पृ० उक्तम् । कल्पे
पृष्ठ २०६६
तदीयभगणादिकमुच्यते “युग्मयुग्मशरनागलोचनव्या-
लषण्णवयमाश्विनोऽसृजः” ९६८२८५२२ सि० शि० ।
कल्पे एतावन्तः कुजस्य भगणाः अस्योपत्त्यादिकं ग्रहभग-
णशब्दे दर्शयिष्यते । तस्य चलोच्चभगणमानञ्च तत्रैवोक्तम्
“अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदाब्धयः
४३२००००००० । एतएव शनिजीवभूभुवां कीर्त्तिताश्च गणकै
श्चलोच्चकाः” तत्पातस्य भगणास्तत्रैवोक्ताः “कुभृद्रसाश्विनः”
२६७, तस्य मन्दकेन्द्रभगणमानं निबन्धे “खरामाश्व्य-
हिद्व्यष्टषड्गोद्विदस्राः” २२९६८२८२३० । “शीघ्रकेन्द्र-
भगणाः” गजाद्रिमनुसप्तेन्दुत्र्यश्विखाश्विमिताः” २०२३१७-
१४७८, । तस्य कक्षामानम् श्रीपतिनोक्तं यथा “अष्ठ्य-
ङ्कषण्मनुगजाः क्षितिनन्दनस्य” ८१४६९१५ योजनानि-
मध्यमकुजस्फुटीकरणम् सि० शि० प्रमि० दर्शितं यथा
“दिनगणार्धमथो गुणसंगुणं द्युगणसप्तदशांशविवर्जितम् ।
लवकलादिफलद्वयसंयुतः क्षितिसुतध्रुवकः क्षितिजो
भवेत्” सि० शि० । “अत्रोपपत्तिः । दिनगणार्द्धं भागा इति
प्रत्यहं त्रिंशत् कला गृहीताः । तत् पृथक् त्रिगुणं जातम्
एताः कलाः पूर्वकलामिश्रीकृता जाताः । एतत् कुजगते-
रधिकमतोऽतः कुजगतिं विशोध्य शेषम् । अनेन सप्तदश-
गुणेनैका कला भवति । अत उक्तं द्युगणसप्तदशांशवि-
वर्जितमिति । पूर्वफलेन भागादिनाऽनेन च कलादिना
भौमध्रुवक३३७० युक्तः कुजो भवति । यतोऽयमहर्ग-
णोऽर्काव्दान्तादूर्ध्वमतस्तदुत्थं फलं रविमण्डलान्तिके
योज्यमित्युपपन्नम्” प्रमि०
कुजस्यध्रुवकमानं “तत्रैवखाद्रिरामाग्नयः” ३३७० । तथाच
कलेरारम्भे राशिचक्रस्थविकलाभ्यो ध्रुवकेण हीनतायां
तत्काले ११ । २९ । ३ । ५० । राश्यादि कुजध्रुवकः
तस्य मन्दशीघ्रपरिधी तत्रैव उक्तौ यथा
“मन्दोच्चनीचपरिधिस्त्रिलवोनशक्र १४ भागा रवेर्जिन
२४ कलोन ३२ रदा हिमांशोः । खाश्वा ७० भुजङ्गदहना
३८ अमरा ३३ भवाश्च ११ पूर्णेषवो ५० निगदिताः क्षितिजा-
“दिकानाम् सि० शि०” इह ग्रहफलोपपत्त्यर्थं मन्दोच्चनी-
चवृत्तानि पूर्वैः कल्पितानि तेषां प्रमाणान्येतावन्तो
भागाः । अत्रोपपत्तिः ग्रहस्य यन्त्रवेधविधिना यत्
परमं फलमुत्पद्यते तस्य ज्या परमा फलज्या परमफल-
ज्याऽन्त्यफलज्या चोच्यते । अन्त्यफलज्यातुल्यव्यासार्द्धेन
यद्दृत्तमुत्पद्यते तन्नीचोच्चवृत्तम् । तत्परिधिस्त्रैराशिकेन ।
याद त्रिज्यव्यासार्द्धे भांशाः परिधिस्तदान्त्यफलव्यासार्धे
किमिति लब्धं परिधिभागाः । एवमर्कादीनां त्रिलवोन-
शक्रा इत्यादय उत्पद्यन्ते । अथ भौमादीनां चलपरि-
धीनाह” प्रभि० । “एषां चलाः कृतजिना २४४ स्त्रिलबेन
हीना दन्तेषवो ५३२ वसुरसा ६८ वसुवाणदस्राः २५८ ।
पूर्णाब्धयो ४० ऽथ भृगुजस्य तु मन्दकेन्द्र--दोःशिञ्जिनी
द्विगुणिता त्रिगुणेन भक्ता । लब्धेन मन्दपरिधीरहितः
स्फुटः स्यात् तच्छ्रीघ्रकेन्द्रभुजमौर्व्यथ वाणनिघ्नी ।
त्रिज्योद्धृताशुपरिधिः फलयुक् स्फुटः स्याद्भौमाशुके-
न्द्रपदगम्यगताल्पजीवा । त्र्यंशोनशैल ७ गुणितार्व ७ युतस्य
राशेर्मौर्व्योद्धृताप्तलबहीनयुतं मृदूच्चम् । भौमस्य
कर्किमकरादिगते स्वकेन्द्रे लब्धांशकैर्विरहितः परिधिस्तु
शैध्य्रः” ।
मौमस्य भूमध्यादुच्छ्रितियोजनानि सि० शि० “गोकुरसञ्च
षण्णवसूर्य्यसंख्याः” १२९६६१९ । तस्य कालांशाः शैलभुवः
१७ । अस्य क्षेत्रं मेषवृश्चिकौ, उच्चंमकरः परमोच्चं
मकरस्याष्टाविंशोऽंशः । नीचः कर्कटः तदीयाष्टाविंशोऽंशः
सुनीचः । मूलत्रिकोणं मेषस्य दशमींऽशः । रविचन्द्र
जीवामित्राणि बुधोरिपुः, शुक्रशनी समौ । चतुर्थे अष्टमे
चास्य पूर्ण्णदृष्टिः । विषमराशिषु मेषमिथुनादिषु
प्रथमपञ्चांशा अस्य त्रिंशाशाः समराशिषु
वृषकर्कटादिषु शेषपञ्चांशा अस्य त्रिंशाशाः । अष्टो-
त्तरीयनाक्षत्रिकदशायां तस्य अष्टौ वर्षा दशाभोग
कालः । विंशोत्तरीयनाक्षत्रिकदशायां तु सप्त वर्षाः ।
नक्षत्रकक्षायाम् अयं शनेरधस्तृतीयकक्षायां वर्त्तते, अयं
रवितस्तृतीयवारेशः । अयं दक्षिणाशाधिपतिः अतस्त-
द्वारे दक्षिणद्दिग्गतिः प्रशस्ता । अयं पापग्रहः
क्षत्रियवर्ण्णः भारद्वाजगोत्रः अवन्तिदेशभवः
मेषवाहनः चतुर्भुजः रक्तवर्ण्णः । तस्य स्कन्दोऽधिदेवता
पृथिवी प्रत्यधिदेवता । पूकने रक्तचन्दनं रक्तवस्त्रम्
जवादिरक्तपुष्पं सर्ज्जरसयुक्तसिह्लकं धूपः, यावकं नैविद्यं
पूगं फलम् प्रबालं रत्नंरक्तवृषभो दक्षिणा । तस्य
दौस्थ्योपशमनाय विप्राय रक्तवृषभं रक्तवस्त्रं प्रबालं दद्यात्
स्वयं वा प्रबालं धारयेत् । अनन्तमूलं वा धारयेत् । होमे
धूमकेतुरग्निः खादिरी समित् । कुजवारे दिवा २ यामार्द्धे
वारवेला ६ षष्ठे कालवेला रात्रौ ३ तृतींये कालवेला । अयं
पुंग्रहः दक्षिणदिग्बली । अयं रजोगुणप्रकृतिः, तिक्त-
रसाप्रधानः सामवेदाधिपः तरुणमूर्त्तिः पैत्तिकः कृशमध्यः ।
अस्य राशिभोगकालः ४५ दिनानिऽजन्मराशितः षष्ठे तृतीये
पृष्ठ २०६७
एकादशे चायं शुभः । “विक्रमायरिपुगः कुजःशुभः स्यात्तदा-
न्त्यसुतधर्म्पगैः खगैः । चेन्न विद्ध इनसृनुरप्यसौ” ज्यो० त०
उक्तस्थानेषु अन्यग्रहासत्त्वे शुभदः अन्त्यसुतधर्म्मस्थितीऽयं
क्रमेण तृतीयैकादशषष्ठेषु अन्यग्रहैः स्थितैर्वामवेधेन शुद्धः
“रक्तस्रावविषास्त्रकर्म्महुततुक्कार्य्यं विवादं रणं
कुर्य्याद्द्वन्द्वविधिं सुदुष्टदमनम् सेतुप्रभेदं तथा । वृक्षच्छे-
दनभेदनानि मृगयां चौर्य्यं तथा साहसं सेनान्यं
कृषिकर्म्म धातुकरणं भौमस्य लग्नेऽह्नि वा” ज्यो० त० ।
उक्तकर्म्म तद्वारे तल्लग्ने च शुभदम् । कर्कटराशौ रात्रौ
वर्षप्रवेशेऽयं त्रिराशिपतिः, वृश्चिकलग्ने दिने वर्षप्रवेशे
अयं त्रिराशिपतिः, मकरराशौ वर्षप्रवेशे दिवानिशोरयं
त्रिराशिपतिः वर्षलग्नात् षष्ठस्थानमस्य हर्षपदम् मूलं
नी० ता० दृश्यम् । अन्यद्ग्रहशब्दे वक्ष्यते

कुजप पुंत्रि० कुत्सितं जपति--जप--अच् । कुत्सितजपकारके

तस्येदम् अण् । कौजप तत्सम्बन्धिनि त्रि० कार्त्तेन सह
द्वन्द्वे तस्य प्रकृतिस्वरः पा०

कुजम्भ त्रि० कुत्सितो जम्भोदन्तोऽस्य । १ कुत्सितदन्तयुक्ते

२ असुरभेदे पु० “प्रह्लादस्य त्रयःपुत्रा विक्रान्ताश्च महाबलाः ।
विरोचनश्च जम्भश्च कुजम्भश्चेति विश्रुताः” हरिव०
२२६ अ० “विरोचनानुजश्चैव कुजम्भोनाम वीर्य्यवान्”
हरिव० २४२ अ० ।

कुजम्भन पु० कोः पृथिव्या जम्भनमिवात्र । सन्धिचौरे

हारा० तस्य पृथिव्यां सन्धिखननकाले मैथुनवदाचरणात्
तथात्वम् । कुजम्भोऽस्त्यस्य इलच् । कुजम्भिलोऽप्यत्र
शब्दरत्ना० ।

कुजा स्त्री कोः पृथिव्याः जायते जन--ड । सीतादेव्यां

तस्याः पृथिवीतोजन्मकथा कालि० ३७ अ०
“तच्छ्रुत्वा जनको राजा प्रविश्यान्तःपुरं स्वकम् ।
भार्य्याभिर्मन्त्रयामास यज्ञार्थं पुत्रजन्मने । मन्त्रयित्वा तदा
राजा महिषीप्रमुखैः स्वयम् । चतसृभिस्तु भार्य्या-
भिर्यज्ञार्थं दीक्षितोऽभवत् । ततः पुरोधसं राजा
गौतमं मुनिसत्तमम् । तत्पुत्रञ्च शतानन्दं पुरोधायाक-
रोन्मखम् । द्वौ पुत्रौ तस्य सञ्जातौ यज्ञभूमौ परौ
स्मृतौ । एका च दुहिता साध्वी मूम्यन्तरगता शुभा ।
नारदस्योपदेशेन यज्ञभूमिं ततो नृपः । हलेन दारयामास
यज्ञवाटावधि स्वयम् । तद्भूमौ जातसीतायां शुभां
कन्यां समुत्थिताम् । लेभे राजा मुदा युक्तः सर्वलक्षण-
संयुताम् । तस्यान्तु जातमात्रायां पृथिव्यन्तर्हिता
स्वयम् । जगाद वचनञ्चेदं गौतमं जनकं नृपम् ।
पृथिव्युवाच । एषा सुता मया दत्ता तव राजन्मनो-
हरा । एनां गृहाण सुभगां लोकद्वयशुभावहाम् ।
अनया मे महाभार उद्धृतौ हेतुभूतया । क्षयं यास्यति
भारार्त्तिं मोचयिष्यामि दारुणाम् । रावणाद्या महा
वीराः कुम्भकर्णादयोऽपरे । नाशं यास्यन्ति दुर्द्धर्षाः
कृतेऽस्या राक्षसाः परे । त्वञ्च मोदं दुराधर्षं यद्दहितृ
कृतं नृप! । अवाप्स्यसि सुराणाञ्च पितॄणामृणशोधनम्” ।
कुजाः वृक्षा आश्रयत्वेन सन्त्यस्याः अच् । २ कात्या-
यनीदेव्यां मेदि० “कदली दाड़िमी धान्यं हरिद्रा
मानकं कचुः । विल्वोऽशोको जयन्ती च विज्ञेया
नवपत्रिका” इत्युक्तनवपत्रिकाणाम् “तव स्थानमिदं मर्त्ये”
इति मन्त्रलिङ्गेन आश्रयणीयत्वोक्तेस्तस्यास्तथात्वम् ।

कुजाष्टम पु० कुजो मङ्गलग्रहोऽष्टमोयत्र । ज्यो० उक्ते

जन्मलग्नावध्यष्टमस्थानस्थितमङ्गलग्रहरूपयोगभेदे “सर्व्व-
गुणान्निहन्त्याशु विलग्नादष्टमः कुजः । अस्तगे नीचगे
भौमे शत्रुक्षेत्रगतेऽपि वा । कुजाष्टमोद्भवो दोषो न
किञ्चिदपि विद्यते” ज्यो० ।

कुज्जिश पुंस्त्री० मतस्यभेदे “कुज्जिशोमधुरोहृद्यः कषायो-

दीपनस्तथा । “बल्यः स्निग्धोगुरुर्ग्राही वातकृत् रोचनी-
मतः” राजनि० । स्त्रियां जातित्वात् ङीष् ।

कुज्या स्त्री सि० शि० उक्ते वृत्ताकाराक्षक्षेत्रार्द्धावयबधनुः

साधनाङ्गज्यापञ्चकान्तर्गते जीवाभेदे । ज्यापञ्चकं च तत्र
दर्शितम् यथा इदानीं पञ्चज्यासाधनमाह । “युक्तायनां-
शादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ ।
जिनांशमौर्व्या १३९७ गुणितार्कदोर्ज्या त्रिज्यो ३४३८ द्धृता
क्रान्तिगुण्णोऽस्य वर्गम् । त्रिज्याकृतेः ११८१९८४४ प्रोह्य
पदं द्युजीवा क्रान्तिर्भवेत् क्रान्तिगुणस्य चापम् । अक्षप्र-
भासंगुणितापमज्या तद्द्वादशांशो भवति क्षितिज्या । सा
त्रिज्यकाघ्नी विहृता द्युमौर्व्या चरज्यकास्याश्च धनुश्चरं
स्यात्” सि० शि० । “अत्र खेटादित्युपलक्षणम् यस्मात्
खेटाल्लग्नाद्वाऽपमः साध्यस्तस्मात् सायनांशादेव ।
तथायस्मादुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपि
सायनांशादेव । सायनार्कस्य दोर्ज्या जिनभागज्यया
गुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादि
स्पष्टार्थम् । अस्योपपत्तिः । विषुवत्क्रान्तिवृत्तयोर्या-
म्यीत्तरमन्तरं क्रान्तिः । तयोर्हिः संपाते क्रान्त्यभावः ।
ततस्त्रिभेऽन्तरे परमा जिनतुल्यमागाः । अतस्तत्-
पृष्ठ २०६८
संपातादारभ्य क्रान्तिः साध्या । उदयाश्च तत एव । स
तु संपातो मेषादेः प्रागयनांशतुल्येऽन्तरे । अतः
सायनांशात् खेटात् क्रान्तिर्भुक्तभोग्यकालौ चेत्युक्तम् । यदि
त्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्या
लभ्यते तदेष्टज्यया किमिति । फलं क्रान्तिज्या
विषुवद्वृत्तात् तिर्यग्रूपा भवति । क्रान्तिज्या भुजस्त्रि-
ज्या कर्णस्तद्वर्गान्तरपदमहोरात्रवृत्तव्यासार्धम् । सैव
द्युज्या । अथ कुज्योच्यते । यदि द्वादशकोटेः पलभा
भुजस्तदा क्रान्तिज्याकोटेः किमिति । फलं क्षितिजो-
न्मण्डलयोर्मध्येऽहोरात्रवृत्ते ज्यारूपं स्यात् । सैव
कुज्या । सा धनुःकरणार्थं त्रिज्यवृत्ते परिणाम्यते ।
यदि द्युज्याव्यासार्धे एताबती तदा त्रिज्याव्यासार्थे
किमिति । फलं चरज्या । तद्धनुश्चरमित्युपपन्नम् ।” प्रमि०
अक्षक्षेत्र शब्दे ४२ पृ० दर्शिते सि० शि० वाक्ये दृश्यम्

कुज्झटि स्त्री कु--क्विप् झट--इन् कर्म्म० । नीहारे (कोयासा)

त्रिका० वा ङीप् कुज्झटीत्यप्यत्र । स्वार्थेक । कुज्-
झटिकापि तत्रार्थे शब्दरत्ना० । “ज्ञेया कुज्झटिका
रूक्षा तमःप्राया चं सा तथा । कफपित्तकरी लोके
भिषग्भिः परिकीर्तिता” वैद्यके तद्गुणा उक्ताः ।

कुञ्चन न० कुन्च--करस्ये ल्युट् । “वाताद्या वर्त्म सङ्कोच्य

जनयन्ति यदा मलम् । तदा द्रष्टुं न शक्नोति कुञ्चनं नाम
तद्विदुः” इति निदानोक्ते १ नेत्ररोगभेदे! भावे ल्युट् ।
२ सङ्कोचे । “कुर्य्यात् सिरागतं मूलसिराकुञ्चनपूरणम्”
सुश्रुतः ।

कुञ्चफला स्त्री कुञ्चं सङ्कुचितं फलमस्याः जातित्वेऽपि

फलान्तत्वात् टाप् । कुष्माण्ड्याम् राजनि० ।

कुञ्चि पु० कुन्च--इन् । “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ

च पुष्कलम्” इत्युक्ते अष्टमुष्टिमाने स्मृतिः

कुञ्चिका स्त्री० कुन्च ण्वुल्--टाप् । १ गुञ्जायाम्(कुँच)शब्दर०

(कन्ची) २ वंशशाखायाम् जटा० ३ कूर्चिकायां(चाविकाटि)
हेमच० । “उद्घाटिनी कुञ्चिका” प्रसन्नरा० ४ महीलतायाम्
(केँचो) “कुञ्चिकयैनं भाययति विस्माययति वा” मुग्ध०

कुञ्चित त्रि० कुन्च--क्त । १ वक्रे २ तगरपुष्पे न० राजनि०

कुञ्ज पु० न० अर्द्धर्चादि० कौ--जायते जन--ड पृषो० मुम् ।

पर्वतादौ लतादिभिराच्छादिते मध्यशून्ये १ स्थाने निकुञ्जे
अमरः । “लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्” सा० द०
“चल सखि! कुञ्जं सतिमिरपुञ्जम्” “कूजितकुञ्जकुटीरे”
जयदे० “त्यक्त्वा गेहं झटिति यमुनामञ्जुकुञ्जं जगाम” पदा०
२ हस्तिदन्ते ३ हस्तिहनौ ४ मेदि० ऋषिभेदे ततः गोत्रा-
पत्ये कुञ्जा० चफञ् । कौञ्जायन तद्गोत्रापत्यै पुंस्त्री०

कुञ्जर पुंस्त्री० कुञ्जःदन्तो हनुर्वा प्राशस्त्येनास्त्यस्य । १ हस्तिनि

स्त्रियां जातित्वात् ङीष् “कुञ्जरस्येव संग्रामे
परिगृह्याङ्कुशग्रहम्” भा० व०२६ अ० “अद्रीन्द्रकुञ्जचर-
कुञ्जरगण्डकाष--संक्रान्तदानपयसोवनपादपस्य” माघः ।
अस्य समर्थेन व्याघ्रा० उपमितसमासः राजा कुञ्जर
इव राजकुञ्जरः । “एवमुक्त्वा परिष्यज्य देत्यास्तं राज
कुञ्जरम्” भा० व० २५१ अ० । अत्र कुञ्जरसादृश्येन
राज्ञः श्रेष्ठत्वम् गम्यते । तदभिप्रायेणैव “स्युरुत्तरपदे
व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्द्दूलनागाद्याः पुंसि
श्रेष्ठार्थवाचकाः” इत्यमरोक्तिः । ५ देशभेदे च मेदि० ।
मात्राप्रस्तारे पञ्चमात्रस्य प्रथमे ६ प्रस्तारेऽऽ । छन्दोग्रन्थः!
“क्षितेर्दक्षिणदिगस्थिते गजाकृतौ ७ पर्व्वतभेदे । “कृत्वा
प्राचीविभागन्तु दक्षिणायामथोदिशि” इत्युपक्रमं “चकार
कुञ्जरञ्चैव कुञ्जरप्रतिमाकृतिम् । पर्व्वतं काञ्चनगुहं बहुयो-
जनविस्तृतम्” हरिवं० २२५ अ० । “ऋषभः पर्वतश्चैश
श्रीमदृषभसंस्थितः । कुञ्जरः पर्वतश्चैव यत्रागस्त्यगृहं
शुभम्” हविवं० २३६ अ० । ८ हस्तनक्षत्रे च तस्य
हस्तिकराकारत्वात्तथात्वम् । कुञ्जरपिप्पली शब्दस्यान्त्यलोपे
९ पिप्पल्याञ्च शब्दचि० ।

कुञ्जरक्षारमूल पु० कुञ्जरस्य गजपिप्पल्या इव क्षारमुग्रं मूलमस्य । मूलके राजनि० ।

कुञ्जरच्छाय न० कुञ्जरस्यछायायत्र । “योगोमघात्रयो-

दश्यां कुञ्जरच्छायसंज्ञितः । भवेन्मघायां संस्थे च शशिन्यर्के
करस्थिते” इत्युक्ते योगभेदे । विवृतमेतत् ति० त० यथा
“करे हस्तायां तत्स्थे सूर्य्ये । मघासंस्थे चन्द्रे चेति
मघात्रयोदश्यां कुञ्जरच्छायसंज्ञितो योगो भवति । हस्ता-
वस्थानञ्च सूर्य्यस्य कन्यादशमांशोत्तरकिञ्चिदधिकसपा-
दत्रयोदशांशं १३, २० यावत् । नचानेन कुञ्जरच्छाययोगः
सङ्केतितो नतु गजच्छायेति वाच्यं कुञ्जरच्छायस्य
गजच्छायादिका संज्ञा जाता अस्येतीतच्प्रत्ययेन गजच्छाया-
याअपि सङ्केतितत्वात् (धुस्तूरः कनकाह्वयः) इतिवत् ।
व्यक्तं कृत्यचिन्तामणौ । “कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः
करे रविः । यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ।”
“एवञ्च श्राद्धे निमित्तान्तरत्वेनानङ्गीकाराद्गौड़ीयमैथि-
लाभ्यां कुञ्जरच्छाययोगः फलातिशयार्थ इत्युक्तम् ।
ताश्च मघात्रयोदशीश्राद्धं कृत्वा परदिने कुञ्जरच्छाय-
योगे श्राद्धं कर्त्तव्यमिति वाचस्पतिमिश्रोक्तं हेयम् ।”
मनुव्या० कुल्लूकभट्टेन एतस्य तिथ्यन्तरेऽपि सम्भव उक्तः
पृष्ठ २०६९
यथा “अपि नःस कुले जायात् यो नो दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य च” मनुव्याख्यायाम्
“प्रकृतायां त्रयोदश्यां तथा तिथ्यन्तरेऽपि हस्तिनः
पूर्वां दिशं गतायां छायायां मधुवृतसंयुक्तं पायसं
दद्यात् । नतु त्रयोदशीहस्तिच्छाययोः समुच्चयः
यथाह विष्णुः “अपि जायेत सोऽस्माकं कुले कश्चिन्नरो-
त्तमः । प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः ।
मधुप्लुतेन यः श्राद्धं पायसेन समाचरेत् । कार्त्तिकं
सकलं वापि प्राक्छाये कुञ्जरस्य च” । इत्युक्तम् तेनास्य
पृथङिनमित्तता । अन्येतु “राहुर्वे हस्ती भूत्वा चन्द्र-
मसं गृह्णातीति” श्रुतेः कुञ्जररूपस्य राहोश्छायायत्र
इति व्युत्पत्त्याग्रहणपरतामाहुः । गजच्छायादयोऽप्यत्र

कुञ्जरदरी स्त्री० कूर्म्मविभागे वृहत्सं० दक्षिणस्यामुक्ते

देशभेदे “अथ दक्षिणे नलङ्केत्युपक्रमे “कच्छोऽथ कुञ्ज-
रदरी सताम्रपर्णीति विज्ञेयाः” ।

कुञ्जरपिप्पली स्त्री कुञ्ज रोपपदा पिप्पली शा० त० ।

गजपिप्पल्याम् राजनि० । गजपिप्पल्यादयोऽप्यत्र स्त्री

कुञ्जरा स्त्री कुञ्जः हस्तिदन्त इव पुष्पमस्त्यस्या अच् । १

धातकीद्रुमे (धाइफुल) तस्या हस्तिदन्तशुभ्रपुष्पत्वात्तथा-
त्वम् २ पाटलावृक्षे च मेदि० । अजादि० टाप् । ३ हस्ति-
न्याम् शब्दचि० । जातित्वात् ङीष् । कुञ्जरीत्येव त्रिका०

कुञ्जराराति पु० ६ त० । शरमे अष्टापदे पशुभेदे हेमच० ।

२ सिंहे च

कुञ्जरालुक न० हस्त्यालुके आलुकभेदे शब्दच० ।

कुञ्जराशन पु० कुञ्जरैरश्यते अश--भक्षे कर्म्मणि ल्युट् । अश्वत्थवृक्षे अमरः

कुञ्जरासन न० कुञ्जरस्येवासनमत्र । “अथ वक्ष्ये

महाकाल! कुञ्जरासनमुत्तमम् । करद्वयेन पादाभ्यां भूमौ
तिष्ठेत् शिरःकरः” इति रुद्रयामलोक्ते आसनभेदे

कुञ्जल न० कुत्सितं जलं यत्र पृषो० । काञ्जिके । (आमानि)

अमरः

कुञ्जवल्लरी स्त्री कुञ्जाकारा वल्लरी । निकुञ्जिकाम्लावृक्षे राजनि० ।

कुञ्जादि पु० गोत्रे चकञ्प्रत्ययप्रकृतिभूते शब्दगणे स च गणः

कुञ्ज व्रध्न शङ्ख भस्मन् गण लोमन् शठ शाक शुण्डा
शुभविपाश स्कन्द स्कन्ध” ।

कुट कौटिल्ये तुदा० पर० सक० सेट् कुटादि कुटति

अकुटीत् चुकोट । कुटिता कुटितुं कुटितव्यम् । कुटिलः
प्रनिकुटति उद् + उत्थितौ अक० वि + कुत्सने सक० ।
विकुटितः कुत्सितः ।

कुट प्रतापने चुरा० आत्म० सक० सेट । कोटयते अचूकुटत ।

कुट वैकल्ये भ्वा० इदित् प० अक० सेट । कुण्टति अकुण्टीत् ।

कुट कुट्टने (कोटा) दिवा० अक० सेट् । कुट्यति अकोटीत्

“जोवनं कुट्यतीव” । “भक्षयन्ति स्ममांसानि प्रकुट्य
विधिवत्तथा” भा० आ० २६४२ श्लो०

कुट पु० कुट--क । १ कोटे (गड) मेदि० २ शिलाकुट्टे (पाथर

भाङ्गाहातुडी) ३ वृक्षे च हेम० ४ पर्व्वते हारा० ५ कलशे
पु० न० अम० ६ ऋषिमेदे पु० ततः गोत्रापत्ये अश्वा० फञ् ।
कौटायन तद्गोत्रापत्ये पुंस्त्री अनन्तरापत्ये तु कुर्व्वा०
ण्य । कौट्य तदपत्ये पुंस्त्री० “हविषा जारो अर्पासि
पर्त्ति पपुरिर्नरा पिता कुटस्य चर्षणिः” अ० १, ४६, ४

कुटक पु० दक्षिणस्थदेशभेदे, “चङ्क्रममाणः कोङ्कवेङ्कटकुट-

कान् दक्षिणकर्ण्णाटान् यदृच्छयोपगतः कुटकाचलोपवने”
भाग० ५, ६, ८, “यस्य (ऋषभदेवस्य) किलानुचरितमुपा-
कर्ण्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलाव-
धर्म्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्म्मपथ
मकुतोभयमपहाय कुपथपाषण्डमसञ्जसं निजमनीषया
मन्दः संप्रवर्त्तयिष्यति” तत्रैव १० श्लो०, । तद्देशाधिपति
र्जिनाचार्य्यः । कुटकदेशस्थोऽचलः कुटकाचलः तत्रत्य-
पर्य्यत भेदः । २ फाले न० शब्दचि०

कुटङ्क पु० कुर्गृहभूमिः टङ्क्यऽते आच्छातेऽनेन टकि--आच्छा-

दने करणे घञ् ६ त० । गृहाच्छादने तृणादौ (चाल)
शब्दमा०

कुटङ्गक पु० कुटस्याङ्गमिव शक० इवार्थे क । १ छदिषि पटले

(चाल) हेमच० पत्रादिच्छादिते २ गृहभेदे (कुँडे) राय०

कुटच पु० कुटैव ठीयते चि--ड । कुटजवृक्षे(कुरची)शब्दचन्द्रि०

कुटज पु० कुटे पर्व्वते जायते जन--ड । (कुरची) १ वृक्षभेदे

अमरः । “कुटजः कटुको रूक्षो दीपनस्तुवरोहिमः । अर्शो-
ऽतीसारपित्तास्रकफतृष्णामकुष्ठनुत्” भावप्र० तत्गुणा-
द्युक्तम् । “कुटजः कूटजः कौटो वत्सकोगिरिमल्लिका ।
कालिङ्गः शक्रशाखा च मल्लिकापुष्प इत्यपि । इन्द्रयवफलः
प्रोक्तो वृक्षकः पाण्डुरद्रुमः” इति भावप्र० तद्पर्य्याये
इन्द्रयवफलत्वोक्तेः तत्फलस्य इन्द्रयवनामता “कुटजपुष्प-
परागकणाः स्फुटम्” माधः “अलिरसौ नलिनोवनवा-
ल्लभः कुमुदिनीकुलकेलिकलालसः । विधिवशेन विदेश-
मुपागतः कुटजपुष्परसं बहु मन्यते” कुटे घटे जायते ।
२ अगस्त्यमुनौ ३ द्रोणाचार्य्येच मेदि० तयोस्तदुत्पत्तिकथा
कुम्भजशब्दे वक्ष्यते ।
पृष्ठ २०७०

कुटजगति स्त्री “कुटजगतिर्नजौस्तस्ततस्तौ गुरुः” वृ० र० टी०

उक्ते छन्दोभेदे

कुटजपुटपाक पु० चक्रदत्तोक्ते अतिसाररोगनाशके औषध भेदे

यथा “स्निग्धं घनं कुटजवल्कमजन्तुजग्धमादाय तत्क्षण-
मतीव च पाचयित्वा । जम्बूपलाशपुटतण्डुलतोयसिक्तं
बद्ध कुशेन च बहिर्षनपङ्कलिप्तम् । सुस्विन्नमेतदवपीड्य
रसं गृहीत्वा क्षौद्रेण युक्तमतिसारवते प्रदद्यात् ।
कृष्णात्रिपुत्त्रमतपूजित एष योगः सर्वातिसारहरणेष्व-
यमेव राजा” ।

कुटजरस पु० चक्र० उक्ते अर्शोनाशके रसभेदे

यथा“कुटजत्वचो विपाच्य शतपलमार्द्रं महेन्द्रसलिलेन । यावत्
स्यादरसं तद्द्रव्यं स्वरसस्ततो ग्राह्यः । मोचरसः
समङ्गा फलिनी पलाशिभिस्त्रिभिस्तैश्च । वत्सकबीजं तुल्यं
चूर्णीकृतमत्र दातव्यम् । पूतोत्क्वाथितः सान्द्रः सरसी
दर्वीप्रलेपनो ग्राह्यः । मात्राकालोपहिता रसक्रियैषा
जयत्यसृक्स्रावम् । छागलीपयसा युक्ता पेया मण्डेनाथ-
वा यथाग्निबलम् । जीर्णौषधश्च शालीन् पयसा छागेन-
भुञ्जीत । रक्तं गुदजातीसारं शूलं सासृग्रुजो
निहन्त्याशु । बलवच्च रक्तपित्तं रसक्रियैषा ह्युभयभागम्” ।

कुटजलेह पु० चक्रदत्तोक्ते अतिसारनाशके लेहभेदे यथा

“शतं कुटजमूलस्य क्षुण्णं तोयार्पणैः पचेत् । क्वाथे पादा-
वशेषेऽस्मिन् लेहं पूते पुनः पचेत् । सौवर्चलयवक्षारवि-
ड़सैन्धवपिप्पलीम् । धातकीन्द्रयवाजाजीचूर्णं दत्त्वा
पलद्वयम् । लिह्याद्वदरमात्रं तत् शीतं क्षौद्रेण संयुतम् ।
पक्वापक्वमतीसारं नानावर्णं सवेदनम् । दुर्व्वारं ग्रहणी-
रोगं जयेच्चैव प्रवाहिकाम्” ।
अर्शोरोगनाशके तत्रोक्ते २ लेहभेदे च
यथा“कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् । अष्टभागाव-
शिष्टन्तु कषायमवतारयत् । वस्त्रपूतं पुनः क्काथं पचेल्लेह-
त्वमागतम् । भल्लातकविड़ङ्गानि त्रिकटुत्रिफलान्तथा ।
रसाञ्जनं चित्रकञ्च कुटजस्य फलानि च । वचामतिविषां
विल्वं प्रत्येकञ्च पलं पलम् । त्रिंशत्पलानि गुड़स्य चूर्णी
कृत्य निधापयेत् । मधुनः कुड़वं दद्यात् घृतस्य कुड़वन्त-
था । एष लेहः शमयति चार्शोरक्तसमुद्भवम् । वातिकं
पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम् । ये च दुर्नामजा
रोगास्तान् सर्व्वान् नाशयत्यपि । अम्लपित्तमतीसारं
पाण्डुरोगमरोचकम् । ग्रहणीमार्द्दवं कार्श्यं श्वयथुं
कामलामपि । अनुपानं घृतं दद्यात् मधु तक्रं जलं
पयः । रोगानीकविनाशाय कौटजो लेह उच्यते” ।

कुटजवीज न० ६ त० । इन्द्रयवे भावप्र० ।

कुटजा स्त्री “सजसा भवेदिह सगौ कुटजाख्यम् वृ० र० उक्त-

लक्षणे छन्दोभेदे

कुटजाद्यघृत न० चक्रोदत्तोक्ते शूलादिरोगनाशके घृतभेदे

यथा “कुटजफलवल्कलकेशरनीलोत्पललोध्रधातकीक-
ल्कैः । सिद्ध घृतं विधेयं शूलरक्तार्शसां भिषजा” ।

कुटजाष्टक पु० चक्रदत्तोक्ते अतिसारादिरोगनाशके

औषधभेदे यथा “तुलामथार्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्रा
रसमाददीत । तस्मिन् सुपूते पलसाम्भतानि श्लक्ष्णानि पिष्ट्वा
सह शाल्मलेन । पाठां समङ्गातिविषां समुस्तां विल्वं
च पुष्पाणि च धातकीनाम् । प्रक्षिप्य भूयो विपचेत् तु
तावत् दर्वीप्रलेपः स्वरसस्तु यावत् । पीतस्त्वसौ
कालविदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि । निहन्ति
सर्वं त्वतिसारमुग्रम् कृष्णं सितं लोहितपीतकं वा ।
दोषं ग्रहण्या विविधं च रक्तं शूलं तथार्शांसि
सशोणितानि । असृग्दरञ्चैवमसाध्यरूपं निहन्त्यवश्यं
कुटजाष्टकोऽयम् ।

कुटन्नट पु० कुटन् सन् नटति नट--अच् । १ श्योनाकवृक्षे

(शोना) अमरः २ कैवर्त्तीमुस्तके (केशर) न० अमरः अत्र-
कुटन्नक इति पाठान्तरम्

कुटप पु० कुट--कपन् । १ मुनौ २ गृहसमीपस्थोपवने, ३

कुडवरूपमानभेदे च । ४ पद्मे न० हेम०

कुटर पु० कुट--करन् । मन्थानदण्डस्थरज्जुबन्धनस्तम्भे अमरटीका

कुटरु पु० कुट--अरु । वस्त्रगृहे (कानात्) उज्ज्वल० तस्य

कौटिल्यकरणयोग्यत्वात्तथात्वम् ।

कुटरुणा स्त्री कुटेषु वृक्षेष्वरुणा शक० । त्रिवितायाम् (तेओडि) रत्नमा०

कुटल न० कुट--कलच् । (चाल) छदिषि पटले हारा० ।

कुटहारिका स्त्री कुटं घटं हरति हृ--ण्वुल् अत इत्त्वम् ।

दास्यां हेम० । १ वटस्य हारकमात्रे त्रि० । कुटहारकः

कुटि स्त्री कुठ--इन् । गृहे “ब्रह्महा द्वादश समाः कुटिं

कृत्वा वने वसेत्” मनुः वा ङीप् । “वट्टकुट्यां प्रभात-
वृत्तान्तमनुहरति” खण्ड० कुटीचकः कुटीचरः । भावे
इन् । २ कौटिल्ये स्त्री वा ङीप् “भ्रुकुटीकुटिलात्तस्याः”
देवीमा०! ३ वृक्षे पु० शब्द रत्ना० ४ देहे पु० सि० कौ० । अल्पार्थे
क कुटिका क्षुद्रगृहे(कुडे) स्त्री “शिरसोमुण्डनाद्वापि
न स्थानकुटिकासनात् । भा०, व०, १३४५४, ५ कर्त्तरि
इन् । ५ कौटिल्यात्विते त्रि० ।
पृष्ठ २०७१

कुटिचर पुंस्त्री० कुटि कुटिलं जले चरति चर--अच् ।

जलशूकरे (शुशुक)शब्दरत्ना० । स्त्रियां जातित्वात् ङीष् ।

कुटित त्रि० कुट--इतच् । कुटिले उज्ज्वलदत्तः ।

कुटिर न० कुट--इरन् किच्च । (कुँडे) स्वल्पगृहे भरतः

कुटिल त्रि० कुट--इलच् । १ वक्रे अमरः “भ्रुकुटीकुटिला-

त्तस्याः” देवीमा० । २ तगरपुष्पे न० राजनि० “युगदि-
ग्भिः कुटिलमिति मतं स्मौ न्यौ गौ” वृ० र० टी० उक्ते
३ छन्दोभेदे न० ४ नदीभेदे (वाँका) ५ सरस्वत्यां स्त्री मेदि०
६ स्पृछानाम गन्धद्रव्ये स्त्री राजनि० ।

कुटी स्त्री कुट--इन् ङीप् । १ गृहे २ कुटिन्यां ३ मुरानामग-

न्धद्रव्ये च मेदि० ।

कुटीकुट न० कुटी च कुटश्च गवा० नि० समा० द्व० । कुटी

कुटयोः समाहारे ।

कुटीकृत न० कुटि + च्वि--कृ--क्त । गृहीकृते वस्त्रे “और्ण्ण-

ञ्च राङ्गवञ्चैव कीटजं पट्टजं तथा । कुटीकृतं तथैवात्र
कमलाभं सहस्रशः” भा० स० १८४७ श्लो० ।

कुटीचक पु० कुट्यां चकते तृप्नोति चक--तृप्तौ अच् ।

संन्यासिभेदे “चतुर्विधा भिक्षवस्ते कुटीचकबहूदकौ ।
हंसः परमहंसश्च योऽत्र पश्चात् सौत्तमः” भा० आनु०
१४ अ० । कुटीचकलक्षणादिकम् आश्रमशब्दे ८४१ पृ० दर्शि-
तम् “न्यासे कुटीचकः पूर्ब्बं बह्वोदो हंसनिष्क्रियौ”
भाग० ३, १२, २७

कुटीमय त्रि० कुट्या विकारोऽवयबो वा शरा० मयट् ।

१ कुट्यवयवे तद्विकारे च स्त्रियां ङीप् ।

कुटीमुख पु० कुटीव मुखमस्य । शिवपारिषदभेदे । “शङ्कु-

कर्ण्णमुखाः सर्वे शैवाः पारिषदास्तथा । काष्ठः कुटी-
मुखो दन्ती विजया च तपोऽधिका” भा० स०१० अ०, ।

कुटीय कुट्यामिवाचरति क्यच् नामधा० पर० अक० सेट्

कुटीयति प्रासादे सि० कौ० ।

कुटीर पु० ह्रस्वा कुटी ह्रत्वार्थे रः स्वार्थिकप्रत्ययस्य क्वचित्

प्रकृतिलिङ्गातिक्रमस्योक्तेः पुंस्त्वम् । १ ह्रस्वायां कुट्याम्
“कूजितकुञ्जकुटीरे” जयदे० तस्यावयवः विल्वा० अण् ।
कौटीर कुटीरावयवे तद्विकारे वा त्रि० । स्त्रियां ङीप्
२ केवले ३ रते च हेम० ।

कुटीचर पु० कुट्यां चरति चर--ट । कुटीचके भिक्षुभेदे स्वार्थे क । तत्रैव ।

कुटुङ्गक पु० कुटङ्ग--पृषो० । १ पटले छदिषि भरतः २ गृहभेदे

३ पिटे (डोल) वंशादिनिर्म्मिते धान्याद्यावारे पात्रे

कुटुनी स्त्री कुट--उन गौरा० ङीष् । कुट्टिन्याम् अमरटीका ।

कुटुम्ब धृतौ चुरा० आत्म० अक० सेट् । कुटम्बयते अचुकु

टुम्बत । कुटुम्बः प्रनिकुटुम्बयते ।

कुटुम्ब पु० न० कुटुम्ब--अच् । १ पोष्यवर्गे अमरः २ बान्धवे

३ सन्ततौ ४ नामनि शब्दरत्ना० । “कुटुम्बं बिभूयात् म्रातु
र्योविद्यामधिगच्छतः । भागोयवीयस तत्र यदि विद्या-
नुपालिनः” दा० भा० स्मृतिः “तस्य भृत्यजनं ज्ञात्वा
कुटुम्बांश्च महीपतिः । श्रुतशीले च विज्ञाय वृत्तिं धर्म्म्यां
प्रकल्पयेत्” “न निर्हारं स्त्रियः कुर्य्युः कुटुम्बाद्बहुमध्य-
गात्” “वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्म्मिणौ”
मनुः स्वार्थो क । तत्रैव पुंन० “अयं निजः परोवेति
गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटु-
म्बकम्” हितो० ।

कुटुम्बव्यापृत त्रि० कुटुम्बे तद्भरणे व्यापृतः । कुटुम्बभरणासक्ते ।

कुटुम्बिक त्रि० कुटुम्बोऽस्त्यस्य ठन् । कुटुम्बयुक्ते गृहस्थाश्रमे

“मुनिश्च स्यात् सदा विप्रो वेदांश्चैव सदा जपेत् ।
कुटुम्बिकोधर्म्मकामः सदाऽस्वप्नश्च मानवः” भा० आनु०
९३ अ० । इनि । कुटुम्बिन् अपि तत्रार्थे । “आशासते
कुटम्बिभ्यस्तेभ्यः कार्य्यं विजनता” “प्रायेण गृहिणीनेत्रा
कन्यार्थेषु कुटुम्बिनः” कुमा० । ३ कर्षके त्रि० शब्दच० ।

कुटुम्बिनी कुटुम्बोऽस्त्यास्या इनि ङीप् । १ भार्य्यायां पा

पुत्रवत्यां २ स्त्रियां “शौचं तु च यावत् कुरुते भाजने
कुटम्बिनी” भा० व० २०५ अ० । कुटुम्बानां समू
खला० इनि । ३ कुटुम्बसमूहे स्त्री । ४ क्षीरिण्यां क्षु
राजनि० ।

कुट्ट छेदने, निन्दने च अद० चरा० उभ० सक० सेट् । कुट्ट ।

ति ते अचुकुट्टत् त । प्रनिकुट्टयति काष्ठकुट्टः शिलाकुट्टः

कुट्ट प्रतापने अद० चुरा० आत्म० सक० सेट् । कुट्टयते अचुकुट्टत ।

कुट्टक त्रि० कुट्ट--ण्वुल् । छेदके “दन्तोलूखलिकः

कालपक्वाशी वाश्मकुट्टकः । १ लीलावत्यादौ प्रसिद्धे
२ गणितोपयोगिक्रियाभेदे कुट्टकविधिश्च लीलावत्यां
संक्षेपेणोक्तः वीजगणिते कुट्टकाध्यायं विशेषेणोक्तो यथा
“भाज्योहारः क्षेपकश्चापवर्त्यः केनाप्यादौ सम्भवे
कुट्टकार्थम् । येन च्छिन्नौ भाज्यहारौ न तेन क्षेपश्चै-
तद्दष्टमुद्दिष्टमेव । परस्परं भाजितयोर्ययोर्यः शेषस्तयोः
स्यादपवर्त्तनं सः । तेनापवर्त्तेन विभाजितौ यौ तौ
भाज्यहारौ दृढसंज्ञितौ स्तः । मिथोभजेत्तौ दृढभा-
ज्यहारौ यावद्गिभाज्ये भवतीह रूपम् । फलान्य
धोऽधस्तदधोनिवेश्यः क्षेपस्तथान्ते खमुपान्तिमेन । स्वो-
पृष्ठ २०७२
र्द्ध्वेहतेऽन्त्येन युते तदन्त्यं त्यज्येन्मुहुः स्यादिति
राशियुग्मम् । ऊर्द्ध्वोविभाज्येन दृढेन तष्टः फलं गुणः
स्यादपरो हरेण । एवं तदैवात्र यदा समस्ताः स्युर्ल्लब्ध-
यश्चेद्विषमास्तदानीम् । यदागतौ लब्धिगुणौ विशोध्यौ
स्वतक्षणाच्छेषमितौ तु तौ स्तः । भवति कुट्टविधेर्युति
भाज्ययोस्ममपवर्त्तितयोरथ वा गुणः । भवति यो युति-
माजकयोः पुनः सच भवेदपवर्त्तनसङ्गुणः । गुणलब्ध्यो-
स्रमं ग्राह्यं धीमता तक्षणे फलम् । हरतष्टे धनक्षेपे
गुणलब्धी तु पूर्ववत् । योगजे तक्षणाच्छुद्धे गुणाप्ती
स्तोवियोगजे । धनभाज्योद्भवे तद्वद्भवेतामृणभाज्यजे ।
क्षेपतक्षणलाभाढ्या लब्धिः शुद्धौ तु वर्ज्जिता । अथ
वा भागहारेण तष्टयोः क्षेपभाज्ययोः । गुणः प्राग्व-
त्ततोलब्धिर्भाज्याद्धतयुतोद्धृतात् । क्षेपाभावोऽथ वा यत्र
क्षेपः शुध्येद्धरोद्धृतः । ज्ञेयः शून्यं गुणस्तत्र क्षेपो-
हारहृतः फलम् । इष्टाहतस्वस्वहरेण युक्ते ते वा भवे
तां बहुधा गुणाप्ती । उदाहरणम् । एकविंशतियुतं
शतद्वयं यद्गुणंगणक! पञ्चषष्टियुक् । पञ्चवर्ज्जितशतद्व-
योद्धृतं शुद्धिमेति गुणकं वदाशु तम् । न्यासः भा २२१
हा १९५ क्षेपः ६५ अत्र परस्परं भाजितयोर्भाज्यभा-
जकयोःशेषम् १३ अनेन भाज्यहारक्षेपाअपवर्त्तिता-
जाता दृढाः भा १७ हा १५ क्षेपः ५ अनयोर्दृढभाज्य-
हारयोः परस्परं भक्तयोर्लब्धमघोधस्तदधः क्षेपस्तदधः
शून्यं निवेश्यमिति न्यस्ते जाता वल्ली १ । ७ । ५ । ०
उपान्तिमेन स्वोर्द्ध्वे हतैत्यादिकरणेन जातं राशिद्वयम् ।
४० । ३५ एतौ दृढभाज्यहाराभ्यामाभ्यां १७ । १५ तष्टौ
शेषमितौ लब्धिगुणौ अनयोःस्वतक्षणमिष्टगुणं क्षेप-
इति । अथ वा लब्धिगुणौ २३ । २० वा४० । ३५ इत्यादीनि
उदाहरणम् । शतं हतं येन युतं नवत्या विवर्ज्जितं वा
विहृतं त्रिपष्ठ्या । निरग्रकं स्याद्वद मे गुणं तं स्पष्टं
पटीयान्यदि कुट्टकेऽसि । न्यासः भा १०० हा ६३ क्षेपः
९० अत्र बल्ली १ । १ । १ । २ । २ । १ । ९ । ०
उपान्तिमेनेत्यादिना जातं राशिद्वयं २४३० । १५३० पूर्बवल्ल-
ब्धिगुशौ ३० । १८ अथ वा भाज्यक्षेपौ दशभिरपवर्त्तितौ
भा १० हा ६३ क्षेपः ९ एभ्योऽपि पूर्बवद्बल्ली ० । ६ । ३
९ । ० उपान्तिमेनेत्यादिना राशिद्वयम् २७ । १७१ पूर्ब-
वज्जातौ लब्धिगुणौ ७ । ४५ । अत्र सब्धयोविषमा इति
स्वतक्षणाभ्यामाभ्यां १० । ६३ शोधितौ जातौ बब्धिगुणौ
३ । १८ अत्र लब्धिर्न ग्राह्या गुणघ्नभाज्ये क्षेपयुते हर
भक्ते लब्धिश्च ३० । अथ वा भाज्यक्षेपापवर्त्तनेन १०
पूर्ब्बानीता लब्धि ३ र्गुणिता जाता सैव लब्धिः ३० । अथ वा
हारक्षेपौ नवभिरपवर्तितौ भा १०० हा ७ क्षे ३० पूर्ब्ब-
वद्बल्ली १४ । ३ । १० । ० जातं राशिद्वयम् ४३० । ३०
तक्षणे जातं ३० । २ हारक्षेपापवर्त्तनेन ९ गुणं सङ्गुण्य
जातौ लब्धि गुणौ तावेव ३० । १८ । अथ वा माज्यक्षेपौ
हारक्षेपौ चापवर्त्त्य न्यासः भा १० हा ७ क्षे १ अत्र
जाता वल्ली १ । २ । १ । ० पूर्ब्बवज्जातं राशिद्वयम्
३, २ तक्षणाज्जातं तदेव ३ । २ भाज्यक्षेपहारक्षेपापव-
र्त्तनेन क्रमेण लब्धिगुणौ गुणितौ जातौ तावेव ३० । १८
गुणलद्ध्यीः स्वहारौ क्षेपाविति अथ वा लब्धिगुणौ १३०
१८ वा २३०१४४ इत्यादि । योगजे गुणाप्ती १८ । ३०
स्वतक्षणाभ्यामाभ्यां ६३ । १०० शुद्धे जाते नवतिशुद्धौ
गुणाप्ती ४५ । ७० वा १०८ । १७० वा । १७१ । २७० ।
इत्यादि । उदाहरणम् । यद्गुणाक्षयगषष्टिरन्विता वर्जि-
ता च यदि वा त्रिभिस्ततः । स्यात्त्रयोदशहृता निरग्रका
तं गुणं गणक! मे पृथग्वद । न्यासः भा ६० हा १३
क्षे ३ । प्राग्वज्जाते धनभाज्ये धनक्षेपे गुणाप्ती ११ । ५१
एते स्वस्वतक्षणाभ्यामाभ्यां १३ । ६० शुद्धे जाते
ऋणभाज्ये धनक्षेपे २ । ९ । अत्र भाज्यभाजकयोर्विजाती-
ययो र्भागहारेऽपि चैवं निरुक्तमित्युक्तत्वाल्लब्धेः ऋणत्वं
ज्ञेयम् २ ९ पुनरेते स्वतक्षणाभ्यामाभ्यां १३ । ६०
शुद्धे जाते ऋणभाज्ये ऋणक्षेपे गुणाप्ती ११ । ५१ ।
ऋणभाज्ये ऋणक्षेपे धनभाज्यविधिर्भवेत् । तदृत्क्षेपे
ऋणगते व्यस्तं स्यादृणभाज्यके । धनभाऊयोद्भवे तद्व-
द्भवेतामृणभाज्यजे । मन्दावबोधार्थं मयोक्तम् ।
अन्यथा योगजे तक्षणाच्छद्धे इत्यादिनैव सिद्धं यतः
ऋणधनयीगो वियोगएव । अतएव भाज्यभाजकक्षेपाणां
धनत्वमेव प्रकल्प्य गुणाप्ती साध्ये । ये योगजे भवतः ते
स्वतक्षणाभ्यां शुद्धे वियोगजे कार्य्ये । भाज्ये भाजके
वा ऋणगते परस्परभजनाल्लब्धयः ॠणगताः स्थाप्याइति
किं तेन प्रयासेन तथाकृते सति भाज्यभाजकयोरेकस्मिन्
ऋणगते गुणाप्ती द्वौ राशी क्षिपेत्तत्रेत्यादिना परोक्तसू-
त्रेण लब्धौ व्यभिचारः स्यात् । उदाहरणम् । अष्टादश
हताः केन दशाढ्या वा दशोनिताः । शुद्धं भागं
प्रयच्छन्ति क्षयगैका दशोद्धृताः । न्यासः भा १८ हा ११ क्षे
१० अत्र भाजकस्य धनत्वं पकल्य साधितौ लब्धिगुणौ
१४ । ८ एतावेव ऋणभाजके । किं तु लब्धेः पूर्ब्ब
पृष्ठ २०७३
धवदृणत्वं ज्ञेयं तथांकृते जातौ लब्धिगुणौ १४ । ८
ऋणक्षेपे तु योगजे तक्षणाच्छ्रुद्धे इत्यादिना लब्धिगुणौ
४ । ३ भाजकस्य धनत्वे ऋणत्वे वा लब्धिगुणावेतावेव ।
परन्तु भाजके भाज्ये वा ऋणगते लब्धेः ऋणत्वं सर्वत्र
ज्ञेयम् । उदाहणम् । येन सङ्गुणिताः पञ्च त्रयोविं
शतिसंयुताः । वर्जिता वा त्रिभिर्भक्तानिरग्राःस्युः स
कोगुणः । न्यासः भा ५ हा ३ क्षे २३ अत्र वल्ली
१ । १ । २३ । ० । पूर्व्ववज्जातं राशिद्वयम् ४६ । २३
अत्र तक्षणेऽधोराशौ सप्त लभ्यन्ते, ऊर्द्ध्वराशौ तु नव
लभ्यन्ते ते नव न ग्राह्याः ‘गुणलब्ध्योः समं ग्राह्यं धीमता
तक्षणे फलमित्यतःसप्तैव ग्राह्याइति जातौ लब्धिगुणौ ११
२ वियोगजे एतौ स्वस्वतक्षणाभ्यां शोधितौ जातौ
ऋणक्षेपे ६ । १ इष्टाहतस्वस्वहरेण युक्ताविति द्विगुणितौ
स्वस्वहारौ क्षेप्यौ यथा धनलब्धिः स्यादिति कृते जातौ
लब्धिगुणौ ४ । ७ एवं सर्वत्र ज्ञेयम् । अथ वा हरतष्टे
धनक्षेपैति न्यासः भा ५ हा ३ क्षे २ पूर्ब्बवज्जातौल-
ब्धिगुणौ योगजौ ४ । २ एतौ स्वतक्षणाभ्यां शुद्धौ १ । १
जातौ वियोगजौ । क्षेपतक्षणलाभाढ्या लब्धिरिति क्षेप-
तक्षणलाभेन ७ योगजलब्धिर्युता ११ जाता योगजा
लब्धिः शुद्धौ तु वर्ज्जितेति तक्षणलाभेन ७ लब्धिरियं १
वर्ज्जिता ६ धनलब्ध्यर्थं द्विगुणे हरे क्षिप्ते जातौ तावेव
लब्धिगुणौ ४ । ७ । अथवा भागहारेण तष्टयोरिति न्यासः
भा २ हा ३ क्षे २ अत्रापि जातं राशिद्वय २ । २ तक्ष-
णाज्जातं २ । २ । अत्रापि जातः पूर्ब्बएव गुणः २ लब्धि-
स्तु भाज्याद्धतयुतोद्धृतादिति गुण २ गुणितोभाज्यः १०
क्षेप २३ युतो ३३ हरभक्तोलब्धिःसैव ११ । उदाहरणम्
येन पञ्च गुणिताः खसंयुताः पञ्चषष्टिसहिता श्चतेऽथ वा ।
स्युस्त्रयोदशहृतानिरग्रकास्तं गुणं गणक! कीर्त्तयाशु
मे । न्यासः भा ५ हा १३ क्षे० क्षेपाभावे गुणाप्ती ० । ० ।
एवं पञ्चषष्टिक्षेपे ० । ५ वा १३ । १० इत्यादि । अथ स्थिर-
कुट्टके सूत्रं वृत्तम् । क्षेपं विशुद्धिं परिकल्प्य रूपं
पृथक् तयोर्ये गुणकारलब्धी । अभीप्सितक्षेपविशुद्धि-
निघ्ने स्वहारतष्टे भवतस्तयोस्ते । प्रथमोदाहरणे
ट्टढभाज्यहारयोः रूपक्षेपस्य च न्यासः भा १७ हा
१५ क्षे १ अत्रीक्तवद्गुणाप्ती ७ । ८ एते अभोष्टपञ्चगुणे
स्वहारतष्टे जाते ५ । ६ ते एव । अथ रूपशुद्धौ गुणा-
प्ती ८ । ९ एते पञ्चकगुणे स्वहारतष्टे जाते १० । ११ ते
एव एवं सर्वत्र । अस्य गणितस्य ग्रहगणिते महानुप
योगः । तदर्थं किञ्चिदुच्यते । कल्य्याविशुद्धिर्विकला-
वशेषं षष्टिश्च भाज्यः कुदिनानि हारः । तज्जं
फलं स्युर्विकला गुणस्तु लिप्ताग्रमस्माच्च कला लवाग्रम् ।
एवं तदूर्द्धं च तथाऽधिमासावमाग्रकाभ्यां दिवसा
रवीन्द्वोः । ग्रहस्य विकलावशेषाद्ग्रहाहर्गणयोरा-
नयनम् । तद्यथा । षष्टिर्भाज्यः । कुदिनानि हारः ।
विकलावशेषंशुद्धिरिति प्रकल्य्य साध्ये गुणाप्ती । तत्र
लब्धिर्विकलाः स्युर्गुणस्तु कलावशेषम् । एवं कलावशेषं
शुद्धिः । षष्टिर्भाज्यः । कुदिनानि हारः फलं कलाः
गुणोऽंशशेषम् । एवमंशशेषं शुद्धिस्त्रिंशद्भाज्यः ।
कुदिनानि हारः । फलं भागाः गुणोराशिशेषम् ।
एवं राशिशेषं शुद्धिर्द्वादश भाज्यः । कुदिनानि हारः ।
फलं गतराशयोगुणोभगणशेषम् । एवं कल्पभगणा-
भाज्यः । कुदिनानि हारः । भगणशेषं शुद्धिः फलं
गतभगणाः गुणोऽहर्गणः स्यादिति । अस्योदाहरणानि
त्रिप्रश्नाध्याये । एवं कल्पाधिमासाभाज्यो, रविदिनानि
हारो, ऽधिमासशेषं शुद्धिः । फलं गताधिमासाः, गुणो
गतरविदिवसाः । एवं युगावमानि भाज्यश्चन्द्रदिबसा-
हारोऽवमशेषं शुद्धिः । फलं गतावमानि । गुणोगत-
चन्द्रदिवसाइति ।
अथ संश्लिष्टकुट्टके करणसूत्रं वृत्तम् । एकोहरश्चेद्गुण-
कौ विभिन्नौ तदा गुणैक्यं परिकल्प्य भाज्यम् । अग्रै-
क्यमग्रं कृतौक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसौ ।
उदाहरणम् । कः पञ्चनिध्नोविहृतस्त्रिषष्ट्या सप्तावशेषोऽथ
सएव राशिः । दशाहतः स्याद्विहृतस्त्रिषष्ट्या चतुर्द्दशा-
ग्रोवद राशिमेनम् । अत्र गुणैक्यं भाज्यः अयमेव राशिः
अग्रैक्यं शुद्धिरिति न्यासः भा १५ हा ६३ क्षेपः २१
पूर्ब्बवज्जातोगुणः १ लब्धिः ३” ।

कुट्टनी स्त्री कुट्ट--ल्युट् ङीप् । (कुट्नी) परपुरुषेण सह

परस्त्रियाः समागमकारयित्र्यां स्त्रियाम् । “तदालिङ्ग-
नमवलोक्य समीपवर्त्तिनी कुट्टन्यचिन्तयत् अकस्मादिय-
मेनमुपगूढवतीति ततस्तया कुट्टन्या तत्कारणं
परिज्ञाय सा लीलावती गुप्तेन दण्डिता” हितो० । णिनि
कुट्टिन्यप्यत्र

कुट्टमित न० “केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् ।

प्राहुः क्ट्टमितं नाम शिरःकरविधूननम्” इति सा० द०
उक्ते स्त्रीणां विलासभेदे । उदा० यथा
“पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरविम्बमभीष्टे ।
पर्य्यकूजि सरुजेव तरुण्यान्तारलोलवलयेन करेण” ।
पृष्ठ २०७४

कुट्टाक त्रि० कुट्ट--षाकत् । छेदके स्त्रियां ङीष् ।

कुट्टापरान्त पु० भूम्नि । जनपदभेदे “अत ऊर्द्ध्वं जन

पदान्निबोध गदतोमम” इत्युपक्रमे “कुट्टापरान्ता-
माहेया कक्षाः सामुद्रनिष्कुटाः” भा० भी० ९ अ० ।

कुट्टार पु० कुट्ट--कर्म्मभावादौ बा० आरन् । १ पर्व्वते

२ केवले ३ रमणे न० मेदि० ४ कम्बले न० विश्वः ।

कुट्टित त्रि० कुट्ट--क्त । १ छेदिते खण्डीकृते । तादृशे २ पक्व

मांसभेदे न० । “मांसमस्नायु संगृह्य सूक्ष्मं कृत्वा सुकु-
ट्टितम् । वेशवारसुगग्धाढ्यम् स्वेदितं पाचित भवेत् ।
कुट्टितं पाचितं मांसं सुस्वादु लघु दीपनम् । तत्रापि
जाङ्गलं श्रेष्ठं जाङ्गलेष्वपि पक्षिणाम्” भावप्र० ।

कुट्टिम पुंन० अर्द्धर्चादि कुट्ट--भावे घज् तेन निर्वृत्तः

इमप् । १ रत्नमयभूमौ भरतः २ सुधालिप्तभूतले सुभूतिः
३ कुटीरे स्वल्पगृहे मथुरानाथः । ४ दाडिम्बवृक्षे राजनि०
(छात) इति ख्याते बद्धभूमिभागे ५ सौधप्रदेशभेदे हला० ।
“कान्तेन्दुकान्तोपलकृट्टिमेषु प्रतिक्षणं हर्म्यतलेषु यत्र”
माघः “शाद्वलोपचितां भूमिं यथाकाञ्चनकुट्टिमाम्”
भा० आनु०५४ अ० । “प्रासादजातसम्बाधं मणिप्रवर-
कुट्टिमम्” भा० आश्व० ८५ अ० ।

कुट्टिमित न० कुट्ट--भावे घज् तेन निर्वृत्तः इमप् ततः तार०

इतच् । कुट्टमितशब्दार्थे शब्दचि० तन्मते सा० द० कुट्टि-
मितमिति पाठः “केशाधरादिग्रहणे मोदमानेऽपि मानसे ।
दुःखितेव बहिः कुर्य्याद्यत्र कुट्टिमितं मतम् । तत्र
स्त्रीणामेष स्वभावः यदिष्टमप्यनिष्टतया निवारयन्त्य एव
सुरतसुखमुपभुञ्जते इति तेन गाढपरिपीडने
केशस्तनादिग्रहणे च हर्षात् सुखेऽपि दुःखाविष्करणं
दुःखेऽपि सुखाविष्ककरणम्” इति

कुट्टिहारिका स्त्री० कुट्ट--इन् कुट्टिं कुट्टितद्रव्यं मांसादि

हरति हृ--ण्वुल् ठाप् अतैत्त्वम् । दास्यां हलायुधः ।

कुट्टीर पु० कुट्ट--ईरन् । १ क्षुद्रपर्व्वते हारा० । २ छेदके त्रि० ।

कुट्टीरक त्रि० कुट्टीरःक्षुद्रपर्व्वत इव कायति कै--क । क्षुद्रप-

र्व्वतवत्स्तूपीकृते “द्वितीयेन तस्यास्थीनि तद्भस्म च
श्मशाने कुट्टीरकं कृत्वा रक्षितानि” वेतालः ।

कुट्मल पुं न० कुट--कमलच् । १ मुकुले विकाशोन्मुखपुष्पकलि-

कायाम् । “द्योतितान्तःसभैः कुन्द--कुद्मलाग्रदतः स्मितैः”
माघः । अग्रान्तत्वात् दन्तस्य वा दत्त्रादेशः । २ नरकभेदे
न० यत्र रज्जुभिर्यन्त्रणा नारकिभ्यो दीयते तत्र ।
“तामिस्रमग्धतामिस्रमित्येकविंशतिनरककथने “संघातञ्च
सकाकालं कुद्मलं पूतिमृत्तिकम्” मनुः “कुट्मलं यत्र
बहुभिः पीडनम्” प्रा० वि० । मुद्रितपु० कुड्यलमिति पाठः ।
कुड्मलमपि नरकभेदे । ३ कुद्मलाकारे वाणाग्रमागे फलके
च “विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन् । शृङ्ग-
नग्निर्बभूवास्य भल्लः सोमोविशाम्पते! । कुद्मलश्चाभव
द्विष्णुस्तस्मिन्निषुवरे तदा” भा० क० ३६ अ०,

कुठ छेदने सौत्रः पर० सक० सेट् । कोठति अकोटीत् ।

प्रनिकोठति ।

कुठ वैकल्ये (गतिप्रतिघाते) आलस्ये अक० मोचने सक०

इदित् म्बा० प० सेट् । कुण्ठति अकुण्ठीत् । प्रनिकुण्ठति
कुण्ठनम् कुण्ठा ।

कुठ पु० कुठ--छेदने वञर्थे कर्म्मणि क । वृक्षे अमरः ।

कुठर पु० कुठ--वा० करन् । मन्थानदण्डाकर्षणरज्जुयुक्त-

स्तम्भे अमरः ।

कुठाकु पु० कुठ--आकुन् किच्च । (काठ ठांकरा) पक्षिभेदे उज्वलदत्तः

कुठाटङ्कृ पुंस्त्री कठाररूपःटङ्गः पृषो० । कुठारे अस्त्रे जटा०

कुठार पुंस्त्री० कुठ--करणे आरन् । स्वनामख्याते काष्ठच्छेद-

नसाधने अस्त्रभेदे स्त्रीत्वे गौरा० ङीष् । “राजन्यो-
च्चांसकूटक्रथनपटुरटद्घोरधारः कुठारः” प्रबीध० । “मातुः
केवलमेव यौवनवनच्छेदे कुठारावयम्” भर्त्तृ० । “तं
त्वा गताहं शरण शरण्यं सभृत्यसंसारतरोः कुठारम्”
भाग० ३, २५, १२, तल्लक्षणं हेमा० परि० ख० लक्षण-
समुच्चये
यथा“जमदग्निं प्रति शुक्रः प्रोवाच यथोपदेशं शुश्रूषो!
निबोध परशोरुत्पत्तिं द्रव्यक्रमयोगं प्रमाणं चोत्तममध्य-
माधमानां नराणां सपाणिः पाणिमुक्तैति द्विकर्म्मा
परशुर्भवति । तत्र पञ्चाशत्पलिकः श्रेष्ठश्चत्वारिंशत्पलि-
कोमध्यमस्त्रिंशत्पलिकः कनिष्ठ इति । जातप्राणस्य
पुरुषस्य सर्वायसमयस्त्रिविधः परशुर्भवति सार्द्धपञ्चाङ्गुलं
श्रेष्ठस्य, सार्द्धचतुरङ्गुलं मध्यमस्य, सार्द्धत्र्यङ्गुलं
निकृष्टस्य, मूलं विसृतम्भवति । तथा मध्ये सार्द्धपञ्चा-
ङ्गुलं विसृतं चोत्तममध्यमकनिष्ठानां भवति । तथाङ्ग-
मपि पञ्चदशोङ्गलमुत्तमस्य, सार्द्धत्रयोदशाङ्गुलं मध्यमस्य,
द्वादशाङ्गुलं निकृष्टस्येति परशोःफलम् । तथोत्तमं द्वाद-
शाङ्गुलायामं, मध्यमं दशाङ्गुलायाममधमम ष्टाङ्गुलाया-
ममित्येवमपि त्रिविधं भवति । कुणपेष्विव दण्डप्रमाण-
मुत्तममध्यमकनिष्ठभेदात्रिविधं शालकधबधन्वनशाका-
पृष्ठ २०७५
जुनाशरीषशिंशपासनराजवृद्धेन्द्रवृद्धतिन्द कसोमवल्कश्वे-
तकार्जुनप्रभृतीनां ह्रस्वप्रमाणो दण्डग्रन्थिर्भवेत् । यस्तु
सपाणिः परशुः स यथाकामं प्रयोज्यः ।
कुणपलक्षणं तु कुणपशब्दे दृश्यं । २ वृक्षे पु० शब्द-
रत्ना० । तस्येदम् शिवा० अण् । कौठार तत्सम्बन्धिनि
त्रि० स्त्रियां ङीप् । अल्पार्थे क । कुठारक क्षुद्रकुठारे
पुंस्त्री० स्त्रियां कुठारिका ।

कुठारु पु० कुठ--आरु । १ वृक्षे २ वानरे पुंस्त्री० मेदि० । ३ शस्त्रकारे पु० शब्दरत्ना० ।

कुठि पु० कुठि--इन् किच्च । १ पर्व्वते २ वृक्षे च उणा० को० ।

कुठिक पु० कुठ--इकन् किच्च । (कुड़) कुष्ठे हारा० ।

कुठेर पु० कुठि--एरन् बा० नुमभावः । १ पर्ण्णासे उज्ज्व० । २ वह्नौ

शब्दमा० । ३ श्वेततुलस्याम् (वावुइतुलसी) राजनि० ।

कुठेरक पु० कुठेर इव कायति कै--क । नान्दीवृक्षे राजनि० ।

स्वार्थे क । २ श्वेततुलस्यां (वावुइतुलसी) शब्दच० ।

कुठेरज पु० कुठेरैव जायते जन--ड “सह मुपा” पा० स० ।

श्वेततुलस्याम् शब्दरत्ना० ।

कुठेरु पु० कुठ--एरुक् । चामरवाते त्रिका० ।

कुड वैकल्ये म्बा० इदित् पर० अक० सेट् । कुण्डति अकुण्डीत्

प्रनिकुण्डति कुण्डः ।

कुड दाहे भ्वा० इदित् आत्म० सक० सेट् । कुण्डते अकुण्डिष्ट प्रनिकुण्डते । कुण्डम् ।

कुड रक्षणे चुरा० इदित् उभ० सक० सेट् । कुण्डयति ते

अचुकुण्डत् त । प्रनिकुण्डयति ते ।

कुड अदने सक० बाल्ये अक० तुदा० पर० सेट् कुटादि ।

कुडति अकुडीत् चुकोड़ । प्रनिकुडति कुडपः कुडवः

कुडप(व) पु० कुड--कपन् (कवन्)वा । प्रस्थचतुर्थांशरूपे

परिमाणभेदे अमरः अर्द्धर्चादि । कर्षशब्दे विवृतिः क्षीर-
स्वामिमते पान्तः । “द्रोणस्तु खार्य्याः खलु षोड़शोऽंशः
स्यादाढकोद्रोणचतुर्थभागः । प्रस्थश्चतुर्थांश इहाढकस्य
प्रस्थाङ्घ्रिराद्यैः कुडवः प्रदिष्टः” “लीला० तेन षोड़शक-
र्षमितः कुडवः आर्द्रद्रवाणां तु द्वात्रिंशत्कर्षमित
इत्याह सुश्रुतः
“पलकुडवादीनामतो मानन्तु व्याख्यास्यामः । तत्र
द्वादशधान्यमाषा मध्यमाः सुवर्णमाषकः । ते षोडश
सुवर्णम् । अथ मध्यमनिष्पावा वा एकोनविंशतिर्द्ध-
रणम् । तान्यर्द्धतृतीयानि कर्षः । ततश्चोद्धं
चतुर्गुणमभिवर्द्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनि-
ष्पद्यन्ते तुला पलशतं तानि विंशतिर्भारः शुष्काणामिदं
मानमार्द्रद्रवाणाञ्च द्विगुणमिति” ।
“अथ षष्ठे गते काले यवप्रस्थमुपार्ज्जयन् । यवप्रस्थ
तु तं सक्तूनकुर्व्वन्त तपस्विनः । कृतजप्याह्निकास्ते तु
हुत्वा चाग्निं यथाविधि । कुडवं कुडवम् सर्व्वे (चत्वारः)
व्यभजत्त तपस्विनः” “इत्युक्तः प्रतिगृह्याथ सक्तना
कुडवं द्विजः” भा० आश्व० ९०, ।

कुडि पु० कुण्ड्यते दह्यते कुडि--दाहे इन् नलोपश्च । देहे

सि० कौ० “कुठिकम्प्योर्नलोपश्चेति” उणा० उज्ज्वलदत्तेन
कुठि गतिप्रतिवाते इति व्याख्यातम् कौमुदीकृता तु कुडि--
दाहे इति व्याख्यातम् । अतः मतभेदेन उणादिसूत्रे
पाठदूयम् ।

कुडिश पुंस्त्री० कुड्यते कुड--अदने बा० श इट् । (कुडची)

ख्याते मत्स्यभेदे राजनि० । “कुडिशो मधुरोबल्यः कषायो
वह्निदीपनः । लघुः स्निग्धो वातरोगे पथ्यश्च रोचनस्तथा ।
बलकारी कोष्ठबन्धकारी च भिषजां मतः” राजनि० ।

कुडिहुञ्ची स्त्री० क्षुद्रकाल्लावेल्लवृक्षे(छोट उच्छिया) राजनि० ।

कुड्मल कुड--बाल्ये बा० क्मलच् । १ मुकुले विकाशोन्मुखे

कुसुमे सि० कौ० । २ नरकभेदे न० कुट्मलशब्दे उदाहृत
मनुवचने कुड्मलमिति वा पाठः “दलितकोमलपाटल
कुड्मले” माघः तारका० इतच् । कुड्मलित जातमुकु-
कुले त्रि० ।

कुड्य न० कुद्ड कार्क्कश्ये ण्यत् कौतेरघ्न्या० यक् डुगागमश्व

इत्युज्ज्वलदत्तः । १ भित्तौ (भित) अमरः २ विलेपने मेदि०
३ कौतूहले शब्दरत्ना० । “वैद्यं सम्भाषमाणोऽङ्गं कुड्य-
मास्तरणानि वा । “चन्दनरसैरुपलिप्तकुड्ये” सुश्रु० ।
“वैदूर्थ्यकुड्येषु शशिद्युतिभ्यः” माघः । स्वार्थे क ।
भित्तौ शब्दर० ।

कुड्यच्छेदिन् पु० छिद--णिनि ६ त० । चौरभेदे येन

गृहभित्तिं विदार्य्य चौर्य्यं क्रियते तत्र शब्दरत्न० ।

कुड्यच्छेद्य पु० कुड्यं च्छेद्यं यस्य । १ खनकें । कुड्यस्य

तन्निर्म्माणाय तदर्थे च्छेद्यम् चतुर्थ्यर्थे ६ त० । भित्ति-
निर्म्माणाय स्वाते २ गर्त्ते त्रिका० ।

कुड्यमत्स्य पुंस्त्री० कुड्ये मत्स्य इब । गृहगोधिकायां हेम०

जातित्वात् स्त्रियां ङीष् यलोपः । कुड्यमत्सी तत्रैव
शब्दर० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कासार&oldid=57700" इत्यस्माद् प्रतिप्राप्तम्