वाचस्पत्यम्/कालयोग

विकिस्रोतः तः
Jump to navigation Jump to search


पृष्ठ २००३

कालयोग पु० ६५० । कालसम्बन्धे । “महता कालयोगेन

प्रकृतिं यास्यतेऽर्ण्णवः” भा० व० १० अ० । कर्म्म०
ज्यो० उक्ते कालरूपे योगभेदे च कालशब्दे विवृतिः ।

कालयोगिन् पु० त्रि० कालएव योगोऽस्त्यस्य इनि ११ शिवे ।

“कालयोगी महानादः सर्व्वकामश्चतुषपथः” भा० आनु०
१७ अ० । शिवसहस्रनामोक्तौ । २ कालसम्बद्धे त्रि० ।

कालरात्रि स्त्री कालो रात्रिरिव कालस्य खण्डकालस्य

रात्रिरिव अप्रकाशकत्वात् । १ प्रलयरात्रौ २ प्रलयकाले
तत्र सर्व्वचेष्टाराहित्यात् तथात्वम् । “यदा स देवो
जागर्त्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा
सर्वं प्रलीयते” इति मनुना प्रलयकाले सर्व्वचेष्टारा-
हित्योक्तेस्तत्कालस्य रात्रिरूपत्वम् । ३ दुर्गामूर्त्तिभेदे सा
च “कालरात्रि मथोवक्ष्ये सपत्नगणसूदनीम्” इत्युपक्रम्य
मन्त्र महोदचौ १८ तरङ्गे उक्ता, तत्रैव तस्या मन्त्रपूजादिकं
दृश्यम् । “शक्तिभिःसहिता दुर्गा कार्शीं रक्षति सर्व्वतः ।
ताः प्रयत्नेन संपूज्याः कालरात्रिमुखा नरैः” काशीख०
“कालरात्रिर्महारात्रिर्मोहरात्रिश्चदारुणा” देवीमा०
व्याकृतञ्चैतद् गुप्तवत्यां यथा “कालरात्रिः सर्व्वजन्तु-
मरणोपलक्षिता कल्परात्रिः । महारात्रिः ब्रह्मलयोपल-
क्षिता महाप्रलयरात्रिः, मोहरात्रिः मोहावर्त्तगर्त्त-
पातिनी महामायाख्या संसृतिकर्त्त्री, यद्वा दैनन्दिन-
प्रलयब्रह्मप्रलयमोक्षरूपमहाप्रलयरूपरात्रय इति
पदत्रयस्यार्थः । ४ तत्प्रतिपादकमन्त्रभेदे च अभेदोपचारात्
स च मन्त्रः बह्वृचग्रन्थे रात्रिसूक्तत्वेन प्रसिद्धः ।
सामभेदे च “रुत्रिं प्रपद्ये” इत्यादिः ।
५ भीमरथ्याम् (अतिवृद्धवयस्के) हारा० । सर्वप्राणिना-
शिकायां ६ यमभगिन्यां भावप्र० । ७ दीपान्वितामाव-
स्यायाम् “दीपावली तु या प्रोक्ता कालरात्रिश्च सा
मता” इत्यागमोक्तेः ।

कालरुद्र पु० कालरूपो रुद्रः । कालरूपप्रलयाग्निरूपे

रुद्रभेदे “याः पुरः कालरुद्रस्य नानास्त्रीशतसङ्कुलाः ।
विचित्रहर्म्यविन्यासाः कुतस्ता मेरुपृष्ठतः । ताएव
कालरुद्रस्य तनुरूपेण संस्थिताः । या परा शिवरू-
पेण परमा पददायिका । तस्या यद्दुःसहं तेजो ब्रह्मा-
दीनां क्षयङ्करम् । तं विद्धि कालरुद्रेति सौम्यरूपं
सदाशिवम् । कालाग्निव्यसनं (व्यासः) लक्षं योजनानां
प्रमाणतः । अर्द्धेनोच्छ्रयतस्तस्व पादः पादेन भासते ।
सिंहरूपा महाघोरा महानक्रमहाबलाः । कालाग्नि
रुद्ररूपो योबहुरूपसमावृतः । अनन्तपद्मरूपश्च धातुश्च
कारणेश्वरः । दारुणाग्निश्च रुद्रश्च यमहन्ता क्षयान्तकः”
देवीपु० । कालाग्निरुद्रोऽप्यत्र

कालल त्रि० कालः कालकं चिह्नभेदः अस्त्यस्य सिध्मा०

लच् । कालकचिह्नयुक्ते त्रिका० ।

काललवण न० नि० कर्म्म० । विड्लवणे रत्नमा० ।

“रोचनं तीक्ष्णमुष्णञ्च विडं वातानुलोमनम्” सुश्रुते
तद्गुणा उक्ताः । “विड़ं पाकञ्च कतकं तथा द्राविड़
मासुरम् । विड़ं सक्षारमुष्णञ्च कफवातानुलोमनम्” ।
ऊर्द्धं कफमधो वातं सञ्चारयतीत्यर्थः । “दीपनं लघु
तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च । विबन्धानाहवि-
ष्टम्भिहृद्रुग्गौरवशूलनुत्” भावप्र० तत्पर्य्यायगुणाः

काललोचन पु० १ दानवभेदे । “प्रलम्बो नरको बाली

खसृमः काललोचनः” हरिवं० २४० अ० दानवोक्तौ ।
कर्म्म० । २ कृष्णे लोचने न० ब० व० । ३ तद्युक्ते त्रि०

काललोह न० नि० कर्म्म० । कृष्णायसे रत्नमा० लोहस्योत्प-

त्तिलक्षणगुणा भावप्र० उक्ता यथा “पुरा लोमिनदैत्यानां
निहतानां सुरैर्युधि । उत्पन्नानि शरीरेभ्यो लोहानि
विविधानि च । लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं
कालायसायसी । गुरुता दृढ़तोत्क्लेदः कश्मलं दाहका-
रिता । अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्तु वै ।
लोहं तिक्तं सरं शीतं मधुरं तुवरं गुरु । रूक्षं वयस्यं
चक्षुष्यं लेखनं वातलं जयेत् । कफं पित्तं गरं शूलं
शोथार्शःप्लीहपाण्डुताः । मेदोमेहौ कृमीन् कुष्ठं,
तत्किट्टं तद्वदेव हि । पाण्डुत्वकुष्ठामयमृत्युदं भवेत् हृद्रो-
गशूलौ कुरुतेऽश्मरीञ्च । नानारुजानाञ्च तथा प्रकोपं
करोति हृल्लासमशुद्धलोहम् । जीवहारि मदकारि
चायसं देहशुद्धिमदसंस्कृतं ध्रुवम् । पाटवं न तनुते
शरीरके दारुणां हृदि रुजाञ्च यच्छति । कुष्माण्ड
तिलतैलञ्च माषान्नं राजिकां तथा । मद्यमम्लरसञ्चापि
त्यजेल्लोहस्य सेवकः” ।

कालवृन्त पु० कालं कृष्णंवृन्तमस्य । कुलत्थवृक्षे रत्नमा० गौरा०

ङीष् । कालवृन्ती पाटलावृक्षे स्त्री राजनि० ।

कालवेला स्त्री कालस्य शनेः वेला कालमेदः । रव्यादि-

वारेषु दिवानिशोरर्द्धयामभेदे सच अर्द्ध्वयामाशब्दे ३७६ पृ०
उक्तः तत्फलमाह वसिष्ठः “निधनं पहरार्द्धे तु
पृष्ठ २००४
निःखत्वं यमघण्टके । कुलिक सर्व्वनाशः स्यात्
रात्रावेते न दोषदाः” । ततश्चार्द्धयामरूपकालवेलायाः
रात्रावपि सम्भवेन तस्य रात्रौ दोषाभावोक्तिः
वारविशेषविषया तदुक्तं ज्योतिर्निबन्धे “न वारदोषाः प्रभवन्ति
रात्रौ देवेज्यदैत्येन्द्रदिवाकराणाम् । दिवा शशाङ्कार्कजभू-
सुतानां सर्वत्र निन्द्यो बुधवारदोषः” । तस्याः सर्वदेशे
वर्जनीयतामाह गर्गः “विन्ध्यस्योत्तरकूले तु यावदातुहि-
नाचलम् । यमघण्ठकदोषोऽस्ति नान्यदेशे तु विद्यते ।
मत्स्याङ्गमागधान्ध्रेषु यमघण्टस्तु दोषकृत् । काश्मीरे
कुलिकं दुष्टमर्द्धयामस्तु सर्व्वतः” । विन्ध्योत्तरकूलाद्य-
नन्तर्गतत्वात् मत्स्यादीनां पृथगुक्तिः ।

कालशाक न० नि० कर्म० । स्वनामख्याते(नरिचा)हिन्दी

भाषाप्रसिद्धे श्राद्धशाके भावप्र० । “नाडिकं कालशा-
कञ्च श्राद्धशाकञ्च कालकमिति” तत्पर्य्यायमुक्त्वा “काल-
शाकं सरं रूक्षं वातकृत् कफशोथहृत् । बल्यं रुचिकरं
मेध्यं रक्तपित्तहरं हिमम्” तत्गुणाद्युक्तम् । रुच्यं
रुचये दीप्तये हितमित्यर्थः । मेध्यं श्राद्धदेयत्वेन पवित्रम्
यथाह हारीतः “कालशाकञ्च वास्तूकं मूलकं कृष्णना-
लिकाम् । वेत्राङ्कुरं कलायञ्च (मटर) पटोलं सर्षपं
तथा । सूर्य्यावर्त्तं सुनिषण्णं शाकान्याहुर्मनीषिणः” ।

कालशालि पु० नि० कर्म० । कृष्णव्रीहौ धान्यभेदे राजनि०

कृष्णव्रीहि--शालामुख--जतुमुख--नन्दीमुख--लावाक्षक--त्वरि-
तक--कुक्कुटाण्डक--पारावतकपाटप्रभृतयो व्रीहयः । कषाय-
मधुराः पाके मधुरा वीर्य्यतो हिमाः । अल्पाभिष्यन्दिन-
स्तुल्याः षष्टिकैर्बद्धवर्चसः । कृष्णव्रीहिर्वरस्तेषां कषायानु
रसो लघुः । तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे ।
दग्धायामवनौ जाताः शालयो लघुपाकिनः । कषाया
बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः” सुश्रुतः । तल्लक्षणमुक्तं
भावप्र० कृष्णब्रीहिः स विज्ञेयोयः कृष्णतुषतण्डुलः” ।

कालशे(से)य न० कलश्याम्(स्याम्) भवः ढक् । तक्रेअम०

कालशैल पु० नि० कर्म्म० । पर्वतभेदे तत्स्थानादि भा०

व०१३९ अ० “उक्तं यथा “उशीरवीजं मैनाकं गिरिं श्वेतञ्च
भारत! । समतीतोऽसि कौन्तेय । कालशैलञ्च पार्थिव! ।
एषा गङ्गा सप्तविधा राजते भरतर्षभ! । स्थानं
विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते । एतद्वै मानुषेणाद्य
न शक्यं द्रष्टुमद्भुतम् । समाधिं कुरुताव्यग्रास्तीर्थान्ये-
तानि द्रक्ष्यथ । एतद्दृश्यति देवानामाक्रीड़ञ्चरणाङ्कि-
तम् । अतिक्रान्तोऽसि कौन्तेय! कालशैलञ्च पर्वतम्” ।

कालसंरोधः पु० ६ त० । १ चिरकालावस्थाने । “नश्वाधेः

कालसंरोधान्निसर्गोऽस्त्रि न विक्रयः” मनुः । “कालसंरोधः
चिरावस्थानम्” कूल्लू० । ३ त० । २ कालेन रोधे च

कालसङ्कर्षा न० कालेन सङ्कृष्यतेऽसौ सम्--कृष--कर्मणि-

घञ् । नववर्षायां कुमार्य्याम् । “एकवर्षा भवेत् सन्ध्या
द्विवर्षा च सरस्वती । त्रिवर्षा तु त्रिमूर्त्तिश्च चतुर्वर्षा तु
कालिका । सुभगा पञ्चवर्षा च षड्वर्षा च उमा भवेत् ।
सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका । नवभिः
कालसङ्कर्षा दशभिश्चापराजिता । एकादशे तु रुद्राणी
द्वादशाब्दे तु भैरवी । त्रयोदशे महालक्ष्मीर्द्विसप्ता
पीठनायिका । क्षेत्रज्ञा पञ्चदशभिः षोडशे चान्नदा मता ।
एवं क्रमेण संपुज्या यावत् पुष्पं न जायते । पुष्पितापि
च सम्पूज्या तत्पुष्पादानकर्म्मणि” अन्नदाकल्पः ।

कालसर्प पुंस्त्री नि० क० । कृष्णसर्पे त्रिका० स्त्रियां

संयोगोपधत्वात् टाप् । पुंयोगे तु ङीष् ।

कालसार पुंस्त्री० कालः कृष्णवर्णः सारः प्रधानमस्य ।

कृष्णसारे मृगे शब्दर० स्त्रियां जातित्वात् ङीष् । तल्ल-
क्षणं कृष्णसारशब्दे दृश्यम् २ पीतचन्दने कालानुसार्य्ये
न० भावप्र० । तस्य गुणादि कालानुसार्य्यशब्दे दृश्यम् ।
“कालसाराजकर्ण्णखदिरकदरकालस्कन्धेत्यादि” सुश्रु० ।

कालसाह्वय न० कालेन समानः आह्वयोयस्य । कालसूत्रा

ख्ये नरकभेदे “यो मनुष्यः स्वकं पुत्रं विक्रीय धनमि-
च्छति । कन्यां वा जीवितार्याय यः शुक्लेन प्रयच्छति ।
सप्तावरे महाघोरे निरये कालसाह्वये । स्वेदं मूत्रं
पुरीषञ्च तस्मिन् मूढः समश्नुते” भा० आदु० ४५ अ० ।

कालसूत्र न० कालस्य यमस्य सूत्रमिब बन्धनहेतुत्वात् ।

१ नरकभेदे भाग० ५, २६ अ० “तामिस्रोऽन्धतामिस्रः”
इत्यादिनरकभेदोक्तौ “रौरवः कुम्भीपाकः कालसूत्रम्”
इत्यादिना तद्भेदानुक्त्वा “यस्त्विह ब्रह्मध्रुक् स कालसूत्र
संज्ञके नरके अयुतयोजनपरिमण्डले ताभ्रमये तप्ते
खले उपर्यधस्तादग्न्यर्काभ्यामभितप्यमानोऽभिनिवेशितः
क्षुत्पिपासाभ्यां दह्यमानान्तर्बहिःशरीर आस्ते चेष्टते
अबतिष्ठते परिधायति च योवन्ति पशुरोमाणि तावद्व-
र्षसहस्राणि” इति लक्षितम् । “कालसाह्वय-
शब्ददर्शितभारतवाक्ये ऽन्योऽपि तद्धेतुरुक्तो मनुना तु
“श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति । स मूढो
नरकं याति कालसूत्रमवाक्शिराः” इत्यन्योऽपि
तद्धेतुर्विथिष्योक्तः सामान्यतस्तु एकविंशतिनरकहेतु-
पृष्ठ २००५
रन्यायवर्त्तिराजप्रतिग्रह एव मनुना “यो राज्ञः प्रति-
गृह्णाति लुब्धस्योच्छास्त्रवर्त्तिनः । स पर्य्यायेण याती-
मान्नरकानेकविंशतिम् । तामिस्रमन्धतामिस्रम्” इत्युपक्रम्य
“नरकं कालसूत्रञ्च महानरकमेव च” इत्यादिना
एकविंशतिनरकहेतुत्वोक्तेः । कालस्य मृत्योः सूत्रमिव ।
२ मृत्युहेतुसूत्रे “वड़िशोऽयं त्वया ग्रस्तः कालसूत्रेण
लम्बितः” भा० व० ११४९० श्लो० ।

कालस्कन्ध पु० कालः कृष्णः स्कन्धोऽस्य । १ तमालवृक्षे

२ तिन्दुकवृक्षे (तेँद) ३ जीवकवृक्षे (जिओल) मेदि० । ४
दुष्खदिरे ५ उदुम्बरे च राजनि० । ६ त० । ६ कालायवभेदे

कालहर पु० कालं मृत्युंहरति हृ--टच् । १ शिवे २

कामरूपान्तर्गते तल्लिङ्गभेदे च । “तस्मात् पूर्व्वं भद्रकामः
पर्ब्बतस्तु त्रिकोणकः । यत्र कालहरोनाम शिवलिङ्गं
व्यवस्थितम्” कालि० पु० ७८ अ० । ३ समयहरे त्रि० स्त्रियांङीप्

कालहानि स्त्री ६ त० । विलम्बे शब्दचि०

कालहीन पु० कालेन कृष्णवर्ण्णेन हीनः । लोध्ने शब्दचि० ।

कालहोरा स्त्री काले कालभेदे होरा । १ अहोरात्रोदित-

द्वादशलग्नार्द्धरूपहोरायां २ समयभेदे च तत्तदीशितुरा-
नयनम् मुहूर्त्तचि० यथा
“वारादेर्घटिका द्विघ्नाः स्वाक्षहृच्छेषवर्जिताः । सैका-
स्तष्टा नगैः कालहोरेशा दिनपात्क्रमात्” मु० चि० ।
“वारादेरिति वारप्रवृत्तिप्रकारेण यस्मिन् क्षणे
वारप्रवृत्तिर्जाता तत इष्टघटिकाद्विगुणाः कार्य्यास्ता द्विस्थाने
स्थाप्याः तत्र पञ्चभिर्भक्ते यल्लब्धं तत्त्याज्यं यच्छेषं
तत् द्विगुणघटीमध्ये वर्जितं कार्य्यम् । एवं विधाघट्यःसैका
एकयुक्ताः कार्य्यास्ततोनगैः सप्तभिस्तष्टाभक्ता अवशिष्टाः
कालहोराः स्युस्तादिनपाद्वारात् क्रमाद्गणनीयाः । यथा
रविवारे इष्टघटिकाः षट् ६ द्विगुणाः १२ पृथगक्षाप्तशेष
२ वर्जिताः १० नगैस्तष्टाः शेषं ३ सैकं ४ रविवार
क्रमगणनया चतुर्थो बुधस्तस्य होरा यथाह वसिष्ठः
“वारप्रवृत्तेर्गदितादिनेशात्कालाख्यहोरापतयः क्रमेण ।
सार्धेन नाडीद्वितयेन षष्ठः षष्ठश्च षष्ठश्च पुनःपुनः स्यात्”
तथा कृतेऽहोरात्रे चतुर्विंशतिः कालहोरा भवन्ति
अत्रानुपातः यदि घटिकानां षष्ट्या ६० चतुर्विंशति-
र्होरा २४ लभ्यन्ते तदा एकया किमिति अत्रैकेन गुणे
विशेषाभावाच्चतुर्विंशतिः छेदः षष्टिर्जातः उभयोर्द्वादशा-
पवर्त्ते इष्टघटिकाद्विगुणाः पञ्चभक्ताः कालहोराः स्यु-
रिति । तथाचोक्तं रत्नमालायाम् “वारप्रवृत्तेर्घटिका-
द्विनिघ्नाः कालाख्यहोरापतयः शराप्ताः । दिनाधिपाद्या-
रविशुक्रसौम्यशशाङ्कसौरेज्यकुजाः क्रमेण” अथ ग्रन्थ
कृतोक्तौ वासना सार्धघटीद्वगेनैका होरा द्विगुणिताः सार्ध-
द्विघट्यः पञ्च भवन्ति । अतएवोक्तं “वारादेर्घटिका द्विघ्ना”
इति एकयोगे षट् जाता एवं रविवारक्रमेण
गणनया द्वितीया शुक्रस्य कालहोरा प्रवृत्ता अतौक्तं सैका
इति । भवन्मतेऽपि सूर्य्यात् षष्ठः शुक्रस्तस्यैव होरा इयञ्च
शुक्रहोरा पञ्चघटीपर्यन्तं स्वमते इष्टघटिकाः ४ द्विगुणाः
८ अत्र पञ्चभ्य आधिक्यमनुचितमिति द्वितीयस्थाने
स्थापयित्वा पञ्चभक्तावशिष्टत्रयेणोनाः पञ्च जाताः अत
उक्तं स्वाक्षहृच्छेषवर्ज्जिता इति । एकयोगे षट्
एवं सति पुनः सैव होरा एवमिष्टघटीभिः कालहोराऽऽ-
नयनं सुगमम् । वाराणां सप्तसंख्यात्वात्तदाधिक्यमनु-
चितमिति नगैस्तष्टा इत्युक्तम् । क्रमगणनायान्त्वियं
युक्तिः द्वयोर्होरास्वामिनोरन्तरं पञ्च सम्भवति । एकयोग-
स्तु वर्त्तमानकालहोराज्ञानार्थमतो रविक्रमगणनया
भवद्विवक्षिता सैव होरा भवति । विवाहवृन्दावने तु
कालहोरा उदयमारभ्योक्ताः यथा “तत्काला-
र्कन्यूनलग्नांशपिण्डोभक्ताः पञ्चक्षौणिभिर्भुक्तहोराः ।
भास्वच्छुक्रज्ञेन्दुसौरेज्यभौमा संख्यायैरन्वारतास्ते तदीशाः”
अनयोर्विषयविभागो वसिष्ठसंहितायाम् “वारप्रवृत्तेर्विज्ञानं
क्षणवारार्थमेव हि । अखिलेष्यन्यकार्येषु दिनादिरुदयाद्भ-
वेत्” । क्षणवारः कालहोरारूपः तदर्थं वारप्रवृत्तिः,
अन्यकार्येषु दिक्शूलादिषु तिथिवारप्रयुक्तेषु नक्षत्रवारप्र-
युक्तेषु चायोगेषु सुयोगेषु च सूर्योदयादेव वारा ग्राह्याः”
पी० धा० । “वारे प्रोक्तं कालहोरासु तस्य धिष्ण्ये प्रोक्तं
स्वामितिथ्यंशकेऽस्य” मु० ।
“अथ कालहोराप्रयोजनमन्यच्च शालिन्याह ।
वारे प्रोक्तमिति । यत्कर्म यस्मिन् वारे प्रोक्तं तद्दिनस्य
सदोषत्वेऽत्यावश्यककृत्ये तस्य कालहोरायां कर्त्तव्यं
यदाह नारदः “यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते ।
ग्रहस्य क्षणवारेऽपि तस्य तत्कर्म सर्वदा” । अत्र केचित् यस्य
वारोयत्कर्मप्रोक्तंतस्य बलिनो नवांशे सूर्यश्चन्द्रोवा चेत्ति-
ष्ठेत् तदा तत्कर्म कार्यमित्याहुः उक्तञ्च “यस्य ग्रहदिने कर्म
यत्किञ्चिदभिधीयते । तस्यांशसंस्थिते सूर्ये चन्द्रे वा तद्विधी-
यत” इति । कैणित् प्रत्येकं होराफलान्युक्तानि “भानुहो-
रा मृतिं कुर्याच्चन्द्रहोरा स्थिरासनम् । काराबन्धं
भौमहोरा बुधहोरा च पुत्रदा । वस्त्रालङ्कारदा जीवहोरा
पृष्ठ २००६
शौक्री विवाहदा । जडत्वं शनिहोरायां सप्तहोराफल-
न्त्विदम्” उदयकाले यदा होरा तदा उदयादारभ्यहो-
रानयनप्रयोजनन्तु “पादः स्ववर्षे चदलं स्वमासे दिने
स्वकीये चरणोनरूपम् । रूपं स्वहोरास्विति कालवीर्यमुक्तं
हि होरानिपुणैः पुराणैरिति” । युक्तं चैतत् वर्षेशादीना
मुदयादितः प्रवृत्तानां साहचर्याद्वारेशा अप्युदयादेव
गणनीयाः” पी० धा० ।

काला स्त्री कालोवर्णोऽस्त्यस्य--अर्श० अच् । “कालात् वर्ण-

श्चेत्” वार्त्ति० कालशब्दस्यैब वर्ण्णबाचित्वे ङीष् इह तु अर्श
आद्यजन्तत्वात् न ङीष् । १ नीलिन्याम् २ कृष्णत्रिवृतायां
(कालतेओड़ी) ३ कृष्णजीरके च अमरः फर परत्वेऽपि
हरी० स्त्री । कल--विक्षेपेणिच्--पचाद्यच् । ४ मञ्जि-
ष्ठायां मेदि० कुलिकवृक्षे (कुलियाखाड़ां) रत्नमा० ।
६ अश्वगन्धावृक्षे राजनि० ७ पाटलावृक्षे भावप्र० । ८ दक्ष-
प्रजापतिकन्यारूपे कश्यपपत्नीभेदे । “प्रजज्ञिर
महाभाग! दक्षकन्यास्त्रयोदश ॥ अदितिर्दितिर्दनुः काला
दनायुः सिंहिका तथा” इत्यादिना भा० आ० ६५ अ०
ताः उक्ताः “कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहा-
रिणः । प्रविख्याता महावीर्य्या दानवषु परन्तपाः ।
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च । क्रोधशत्रु
स्तथैवान्ये कालकेषा इति श्रुताः” कालाया अपत्यम्
ढक् । कालेय तदपत्ये

कालांश पु० कालरूपोऽंशः । ग्रहाणां दृश्यतायोग्ये काललवभेदे कालशब्दे विवृतिः

कालाक्षरिक स्त्री काले यथायोग्यकाले अक्षरं वेत्ति

ठक् । शिक्षिताक्षरे त्रिका० ।

कालागुरु न० कर्म० । कृष्णागुरुणि अमरः तद्गुणादि

भावप्र० उक्तं यथा “अगुरु प्रवरं लोहं राजार्हं
योगजं तथा । बंशिकं कृमिजं चापि कृमिजग्धमना-
र्य्यकम् । अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णञ्च
पित्तलम् । लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ।
कृष्णं गुणाधिकं तत्तु लौहवद्वारि मज्जति ।
अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः” । तदुत्-
पत्तिदेशश्च प्राग्ज्योतिषदेशः यथाह रघौ “चकम्बे
तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः । तद्गजाला-
नतां प्राप्तैः सह कालागुरुद्रुमैः” ।

कालाग्नि पु० कालः सर्वहिंसकोऽग्निः । १ प्रलयाग्नौ ।

कालानलप्रभृतयोऽप्यत्र २ तदधिष्ठातरि रुद्रे ३ तत्प्रिये
पञ्च मुखे रुद्राक्षे । “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निनाम
नामतः । अगम्यागमनाच्चैव अभक्ष्यस्य च भक्षणात् ।
मुच्यते सर्वपापेऽभ्यः पञ्चवक्त्रस्य धारणात्” ति० त० स्कन्दपु०
रुद्रपरत्वे कालरुद्रशब्दे उदा० दृश्यम् ।

कालाग्निरुद्र पु० कालाग्निरिव रुद्रः । सर्वहारके प्रल-

याग्नितुल्ये रुद्रे तमधिकृत्यैव कालाग्निरुद्रोपनिषत्
प्रवृत्ता । अभेदोपचारात् तदुपासके २ ऋषिभेदे वैदिक
मन्त्राणां बहूनां तद्दृष्टत्वात् तदार्षत्वम् कात्या० सर्वानु-
क्रमिकायामुक्तम् ।

कालाङ्ग न० ६ त० । १ कालपुरुषस्याङ्गे । कालपुरुषशब्दे

प्रमाणादि । कर्म्म० । २ कृष्णवर्णदेहे न० कालमङ्गं यस्य ।
३ कृष्णवर्णाङ्गयुक्ते त्रि० “असिञ्च कालाङ्गमकोषमब्रणम्”
भा० वि०७ अ० ।

कालाजिन न० कालस्य कृष्णमृगस्याजिनम् । १ कृष्णसारमृग-

चर्मणि “कालमजिनं यत्र । २ कालाजिनप्रधाने देशभेदे
स च देशो वृह० स० कूर्म्मविभागे दक्षिणस्यामुक्तः यथा
“अथ दक्षिणेन लङ्काकालाजिनसौरिकीर्णतालिकटाः” ।

कालाञ्जन न० कालमञ्जनम् । कृष्णवर्ण्णाधिक्ययुक्ते अञ्ज-

नभेदे (काजल) “न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं
मङ्गलमित्युपात्तम्” कुमा० ।

कालाञ्जनी स्त्री अज्यते अनया अन्ज--करणे--ल्युट् ङीप्

काली अञ्जनी पुंवद्भावः । रेचन्यां क्षुपभेदे राजनि०

कालाण्डज पुंस्त्री० नि० कर्म० । कोकिले तस्याण्डजेषु

(पक्षिषु) अतिकृष्णत्वात् तथात्वम् । “कालाण्डजकण्ठ-
रागरक्तरक्ताधरारतिरणाग्रमन्नाहशालिनि” दशक० स्त्रियां
जातित्वात् ङीष् ।

कालातिरेक पु० ६ त० । उचितसमयातिक्रमे संवत्सरातिरे-

के च । “कालातिरेके द्विगुणम् प्रायश्चित्तं समाच-
रेत्” प्रा० त० देबलः । कालातिरेके संयत्सरातिक्रमे-
“संवत्सराभिशस्तस्य दुष्टस्य द्विगुणोदमः” इति मनुवचनैक
वाक्यत्वात् दण्डवत्प्रायश्चित्तानि भवन्वीति न्यायाच्च
कालातिक्रमकालात्ययादिकमप्यत्र “कालात्यये च कन्यायाः
कालदोषो न विद्यते” उद्वा० त० भुजबलः ।

कालातीत न० कालस्यातीतमत्ययः अति + इण--भावे क्त

६ त० । १ कालातिक्रमे । “कालातीते वृथा सन्ध्या
बन्ध्यस्त्रीमैथुनं यथा” म० त० काशी० । अतीतः कालोऽस्य
निष्ठान्तत्वात् परनिपातः २ अतिक्रान्तकाले त्रि० ।
गौतमोक्ते कालात्ययापदिष्टाख्ये बाधरूपे ३ हेत्वाभासभेदे
कालात्ययापदिष्टशब्दे विवृतिः ।
पृष्ठ २००७

कालात्मन् पु० कालआत्मास्य । कालस्वरूपे परमेश्वरे ।

“कालात्मा कालकृद्विभुः” ॥ सू० सि० ॥ वा कप् । कालात्म-
कोऽप्यत्र । कालेन तत्कृत आत्मा स्वरूपं यस्य वा कप् ।
२ कालकृतस्वभावके स्थावरजङ्गमादौ त्रि० “सात्विका
राजसाश्चैव तामसा ये च केचन । भावा कालात्मकाः
सर्व्वे प्रवर्त्तन्ते हि जन्तुषु । जङ्गमाः स्थावराश्चैव
दिवि वा यदि वा भुवि । सर्व्वे कालात्मकाः सर्प! काला-
त्मकमिदं जगत् । प्रवृत्तयश्च लोकेऽस्मिंस्तथैव च निवृ-
त्तयः । तासां विकृततायाश्च सर्व्वं कालात्मकं स्मृतम् ।
भा० आनु० १ अ०

कालात्ययापदिष्ट पु० कालात्ययेनापदिष्टः ३ त०

गौतमीक्ते हेत्वाभासभेदरूपे हेतुदोषे तल्लक्षणादिकं
गौ० सू० भाव्यादौ दर्शितम् यथा
“कालात्ययापदिष्टः कालातीतः” सू०
“कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानः स
कालात्ययापदिष्टः कालातीत इत्युच्यते । निदर्शनम् ।
नित्यःशब्दः संयोगव्यङ्ग्यत्वात् रूपवत्, प्रागूर्द्ध्वञ्च व्यक्तेर-
वस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते तथा च शब्दोऽप्य-
वस्थितो भेरीदण्डसंयोगेन व्यज्यते दारुपरशुसंयोगेन
वा । तस्मात् संयोगव्यङ्ग्यत्वात् नित्यःशब्द इत्ययमहेतुः
कालात्ययापदेशात् व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य
रूपस्य व्यक्तेरत्येति सति प्रदीपघटसंयोगे रूपस्य ग्रहणं
भवति न निवृत्ते संयोगे रूपं गृह्यते, निवृत्ते दारुपर-
शुसंयोगे दूरस्थेन शब्दःश्रूयते । विभागकाले सेयं शब्द-
व्यक्तिः संयोगकालमत्येतीति न संयोगनिर्मिता भवति ।
कस्मात्? कारणाभावाद्धि कार्य्याभाव इति । एवमुदाह-
रणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेत्वाभास इति” ।
भा० । उक्तसूत्रं बृत्तौ त्वेवं व्याख्यातं यथा ।
“क्रमप्राप्तमतीतकालं लक्षयति । अतीतकालस्य
समानार्थकत्वात् कालातीतशब्देनोक्तकालस्य साधनकालस्या-
त्ययेऽभावेऽपदिष्टः प्रयुक्तो हेतुः एतेन साध्याभावप्रमा-
लक्षणार्थ इति सूचितं साध्याभावनिर्णये साधनासम्भवा-
दयमेव बाधितसाध्यक इति गीयते । तथा वह्निरनुष्णः
कृतकत्वादित्यादौ । न च बाधे आवश्यकस्य व्यभिचार-
स्वरूपासिद्ध्यन्यतरस्यैव दोषत्वमुचितमिति वाच्यं
तदप्रतिसन्धानेन बाधस्य दोषत्वावश्यकत्वात् उपाधेयसङ्करे-
ऽप्युपाधेरसङ्करात् । उत्पत्तिकालावच्छिन्नो घटो गन्धवान्,
शिखरावच्छिन्नः पर्बतोवह्निमानित्यादावसङ्कराच्च साध्या-
भाववत्प्रत्यक्षतावच्छेदकावच्छिन्नकत्वस्य तत्र सत्त्वात् ।
परे तु घटः सकर्तृकः कार्य्यत्वादित्यादौ यत्र लाघवोपनी-
तमेकमात्रकर्तृकत्वं भासते तत्र तदभावोऽमङ्कीर्णोदाहरण-
मिति वदन्ति” ।
मणिकृता तु बाधत्वेनायं व्यवहृतः तल्लक्षणादिकं
तत्रोक्तं यथा
“बाधो न साध्याभाववत्पक्षकत्वं पक्षवृत्त्यभावप्रतियोगि-
साध्यकत्वं वा पक्षे साध्याभावज्ञानमात्रस्य प्रमात्वज्ञानं
विना अधिकबलत्वाज्ञानेन बाधाभावादिति वक्ष्यते अतएव
साध्याभाववत्पक्षवृत्तित्वमपि न, असिद्धिसङ्कीर्णबाधाव्या-
प्तेश्च । किन्तु साध्याभाववत्त्वप्रमाविषयपक्षकत्वं, प्रमितसा-
ध्याभाववत्पक्षकत्वं, पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रति-
योगिसाध्यकत्वं वेति विवक्षितविवेकेन साध्याभावप्रमैव
दोषः सा च प्रमात्वेन ज्ञाता न स्वरूपसती हेत्वाभासत्वात्
प्रमात्वज्ञानं विना अधिकबलत्वाभावेनादोषत्वात् अप्रमा-
यामपि प्रमात्वज्ञानेऽनुमितिप्रतिबन्धाच्च” ।
“कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधा” भाषा० ।

कालादर्श पु० कालः कालस्वरूपकर्म्माङ्गत्वादि आदर्श्यतेऽत्र

आ + दृश--णिच्--आधारे अच् । स्मृतिनिबन्धभेदे

कालाध्यक्ष पु० कालानां खण्डकालानामध्यक्षःस्वगत्या

प्रवर्त्तनात् । १ सूर्य्ये “कालाध्यक्षः प्रजाध्यक्षो विश्वकर्म्मा
तमोनुदः” भा० व० ३० । सूर्य्यस्याष्टाधिकशतनामकथने ।
सर्व्वकालप्रवर्त्तके २ परमेश्वरे च ।

कालानल पु० कालःसर्व्वसंहारकः अनलः । १ प्रलया-

ग्नौ “दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलस-
न्निभानि” गीता । २ नृपभेदे “सभानरश्चाक्षुषश्च परमे
क्षुस्तथैव च । सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ।
कालानलस्य धर्म्मज्ञः सृञ्जयोनाम विश्रुतः । सृञ्जयस्या
भवत् पुत्रो वीरोराजा पुरञ्जयः” । हरिवं० ३१ अ०

कालानलचक्र न० कालानल इव हिंसकं चक्रम् ।

नरपतिजयचर्य्योक्तेऽनिष्टादिज्ञापके चक्रभेदे तद्भेदादिकञ्च
चक्रशब्दे वक्ष्यते ।

कालानुनादिन् न० कलएव कालः तं, काले वर्षाकाले वा

अनुनदति अनु + नद--णिनि । १ भ्रमरे २ चटके ३
कपिञ्जले ४ चातके पक्षिणि च मेदि० । स्त्रिया जातित्वात् ङीष्

कालानुशारिवा स्त्री कालेन वर्णेन अनुकृता शारिवा

अनुशारिवा । २ तगरमूले ३ शीतलीजटायाञ्च (शिउलीछोप)
रत्नमा० तयोः कालवर्ण्णतया शारिवातुल्यत्वात्तथात्वम् ।
पृष्ठ २००८

कालानुसारक न० कालं कृष्णवर्ण्णं मृगमदमनुरसति

गन्धेन अनु + सृ--ण्वुल् । २ पीतचन्दने कालानुसार्य्यके
कालीयके (कलम्बक) भावप्र० २ समयानुसारिणि त्रि०

कालानुसारिन् न० कालः मृगमदैवानुसरति गन्धेन

दूरतो गच्छति अनु + सृ--णिनि । १ शैलजे गन्धद्रव्यभेदे
शब्दरत्ना० २ समयानुसारके त्रि० स्त्रियां ङीप् ।

कालानुसार्य्य न० कालोमृगमदोगन्धेनानुसार्य्यो यस्य ।

तगरभेदे भावप्र० (कलम्बक) “कालानुसार्य्यं तगरं कुटिलं
त्रपुषं तथा । अपरं पिण्डतगरं दण्डहस्ती च बार्हिणम् ।
तगरद्वयमुष्णं स्यात् स्वादु स्निग्धं लघु स्मृतम् । विषाप-
स्मारशूलाक्षिरोगदोषत्रयापहम्” तत्रैव तद्गुणादिकमु-
क्तम् । बहु० वा कप् । कालानुसार्य्यक २ कालीयके
शैलजे राजनि० ३ शिंशपावृक्षे (शिशु) मेदि० ।

कालान्तर न० अन्यः कालः मयू० नि० स० । १ अन्यस्मिन्

काले २ उत्पत्त्युत्तरकाले “कालान्तरक्षमा” शकु० । ३
समयान्तरस्थायिनि च ।

कालान्तरविष पुंस्त्री० कालान्तरे दंशनकालात् दीर्घकाले

विषं विकारकारि यस्य । मूषिके हेम० तस्य दंशनाद्दीर्घ-
काले विषस्य विकारकारित्वात्तथात्वम् स्त्रियां ङीष् ।

कालाप पु० कालो मृत्युराप्यते यस्मात् आप--अपादाने घञ्

६ त० । १ सर्पभोगे २ राक्षसे पुंस्त्री० धरणिः स्त्रियां
ङीष् । कलापं व्याकरणभेदं वेत्त्यधीते वा अण् । ३
कलापव्याकरणाभिज्ञे ४ तदध्येतरि च त्रि० । कलापिना
वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते “कलापिनोऽण्”
पा० अण् इनोलोपः । ५ कलापिना प्रीक्ताध्येतृषु भूम्नि
“उदगुः कठकालापा” सि० कौ० । ६ तत्प्रोक्तवेदशाखाभेदे च

कालापक न० कालापस्य कलापिना प्रोक्तस्य शाखाभेदस्य

धर्म्म आम्रायो वा “चरणाद्धर्म्माम्नाययोः” पा० वुञ् ।
१ कलापिप्रोक्तशाखाभेदस्य २ धर्म्मे आम्नाये च

कालाभ्र पु० कर्म्म० । सजले कृष्णवर्णे मेघे सजलस्यैव मेघस्य

कालत्वात् तथात्वम् “कालाभ्राभैः कटाक्षैररिकुलभय-
दाम्” तन्त्रसा० । कालमेघादयोऽप्यत्र । ते नर्दमाना
इवकालमेघाः” भा० आ० १९३ अ० ।

कालाम्र पु० काल आम्रोयत्र । द्वीपभेदे “कृरून् यात्युत्तरान्

वीर! कालाम्रद्वीपमेव च” हरि० १५१ अ० ।

कालायन त्रि० कालेन निर्वृत्तादि पक्षा० चतुरर्थ्यां फक् ।

कालनिर्वृत्तादौ ।

कालायस न० कर्म्म० अच् समा० । कृष्णवर्णे लोहभेदे ।

काललौहशब्दे दृश्यम् । २ लौहमात्रे हेम० । “वह्नि-
ना द्राव्यमाणं कालायसं निषिञ्चन्ति” भाग० ५, २६, ३७,

कालाशुद्धि स्त्री कालस्य कर्म्मयोग्यसुमयस्याशुद्धिः ।

समयाशुद्धौ कालस्य कर्म्मविशेषानर्हत्वप्रयोजके धर्म्म-
भेदे सा च गुरुशुक्रास्तत्वादिकृता भवति । “वक्रातिचार
वृद्धास्तबालत्वे गुरुशुक्रयोः । गुरौ मकरसिंहस्थे क्षय
मासद्विमासयोः । त्रयोदशदिने पक्षे गुर्व्वादित्ये तथैव
च । लुप्ताब्दे त्रिविधोत्पाते कालाशुद्धिरुदाहृता” ।
ज्यो० प्र० । एतदुपलक्षणम् अन्यान्यपि तन्निमित्तानि
तत्तद्ग्रन्थे उक्तानि तत्र कालस्य शास्त्रादेव तत्तत्कर्म्म-
साधनत्वेऽवगते शास्त्रेण च कालविशेषस्य पर्य्युदस्तत्वाद-
शुद्धत्वम् । “द्रव्यक्रियागुणादीनां धर्म्मत्वं स्थापयि-
ष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्म्मता ।
श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रमीयते” भट्टवार्त्ति-
कोक्तेः तस्य पुण्यत्वं तच्च रिक्तादिदोषराहित्ये अष्टमचन्द्रा-
दिदोषराहित्ये मलमासादिराहित्ये च भवति अतस्तेषां
पर्य्युदासात् कर्म्मविशेषे कालाशुद्धिः । तन्निमित्तज्ञापकञ्च
रत्नाकरादिधृतं न्यायरत्नवाक्यम् म० तत्त्वे यथा
“तच्च मलिम्लुच--गुरुशुक्रबाल्यवृद्धास्तमय--सिंहमकरान्य-
तरगुरुस्थिति--पूर्वराश्यनागतातिचारिगुरुकवतसर--पूर्व-
राशिगमिष्यमाणातिचारिगुरुकपक्षत्रय--वक्रिगुरुकाष्टाविं-
शतिवासर--कम्पाद्यद्भुतोत्तरसप्ताह--सिंहादित्य--गुर्वा-
दित्य--पौषादिमासचतुष्टयान्यतमैकद्वित्रितदधिकान्यतम-
दिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ताहान्यतमदिन--नि-
षिद्धरूपसमयान्यत्वमिति” । म० त० “एषु प्रमाणं वक्ष्यामः ।
अत्र नव्यवर्द्धमानः “एकद्वित्रितदधिकान्यतमदिनवृत्त्या-
कालिकवृष्ट्युत्तरैकत्रिसप्ताहेत्यत्र उत्तरदिनत्वस्य पूर्व-
दिननिरूप्यत्वात् उत्तरत्वपूर्वत्वयोर्विरुद्धतया नानात्वात् ।
अतोऽग्रिमदिनादित्वप्राप्तिरिति” जीवमिश्रेणाभिहि-
तम् । नचैकमेकदिनं वृष्ट्यवच्छेदानवच्छेदाभ्यां भिन्नमिति
वाच्यं विशेष्यीभूतदिनस्यैकत्वेन प्रत्यभिज्ञानविरोधेन
उपाधिमात्रभेदात् अन्यथा अग्रावच्छिन्नवृक्षान्मूलाव-
च्छिन्नवृक्षस्याभेदेनान्योन्याभावस्याव्याप्यवृत्तित्वप्रसङ्गादि-
त्याह” तन्न वृष्टिदिनोत्तरदिनस्य निषेधविषयत्वे वृष्टि-
दिनस्य कर्म्मार्हता स्यात् । तस्मात् विशेष्याया वृष्टेरेवो-
त्तरत्वम्, न तु तदवच्छेदकदिनस्यापीति । तेनैकस्मिन्
दिने वृष्ट्या तद्दिनमात्रत्यागः द्वितीयदिनादौ तु अन्तिम
दिनमारभ्य त्र्यहसप्ताहयोस्त्यागः । तथा च व्यासः
पृष्ठ २००९
“नो सन्ध्यागर्जिते प्राहुर्व्रतोपनयनं बुधाः । न च
वृष्टावथाकाल वृष्टावाऽऽसप्तवासरान्” । आसप्तवासरा-
नित्यत्र उपस्थितत्वाद्वृष्टिकालमादाय सप्ताहगणना
आसप्तबासरानिति अधिकसंख्याव्यवच्छेदार्थम् । एतेन
विध्यनुवादभिया अधिकसंख्या निरस्ता । अत्र वृष्ट्यु-
त्तरमेव सप्ताहत्यागः एतद्वचनन्तु तृतीयादिदिवसीया-
कालवृष्ट्यभिप्रायेण । “अतोदिनेनैकदिनं त्याज्यं
द्वितीयेन दिनत्रयम् । तृतीयेन च सप्ताहं त्यजेदकाल
वर्षणे” न्यायरत्नपरिगृहीतवाक्येऽपि दिनेन दिनवृत्ति-
वर्षणेन एवं द्वितीयेनेत्यादौ ज्ञेयम् । अतएव न्यायरत्ने-
ऽपि वृष्ट्यत्तरत्वमुक्तं नतु वृष्टियुक्तदिनोत्तरत्वमिति ।
एकादिदिनवृत्तित्वविशेषणं दिनाल्पत्वबहुत्वज्ञापनार्थमिति ।
श्रीपतिव्यवहारनिर्णये “आकालिकीं वृष्टिमवेक्ष्य गन्ता
पदं न गच्छेच्छुभमात्मनीच्छन् । क्षौरं व्रतञ्चापि शुभा-
भिलाषी कदापि नैव मनसापि कुर्य्यात्” । अत्र
नोसन्ध्या गर्जित इति आकालिकीवृष्टिमवेक्ष्य इत्यादि
श्रवणात् । “व्रतेऽह्नि पूर्वसन्ध्यायां वारिदोयदि गर्जति ।
व्रतन्तत्र तु नैव स्यादिति धर्म्मो व्यवस्थितः” इति वचने
पूर्वपदमपि कारणताग्राहकत्वेन परसन्ध्याव्यावर्त्तकम् ।
अन्यथा संक्रान्तिबद्भाविनिमित्तत्वेन परसन्ध्यायां गर्जि-
तेऽपि व्रतवैगुण्यं स्यात् । एतेन पूर्वदिने सायं सन्ध्याग-
र्जनेऽपि परदिने व्रतनिषेध इति मैथिलमतं चिन्त्यमिति ।
सप्तम्यर्थानुपपत्तेः गीतायां “मयैवैते निहताःपूर्वमेव
निमित्तमात्रं भव सव्यसाचिन्!” इतिवत् स्वरूपाख्यानपरं
बा पूर्वपदम् । कामरूपीयनिबन्धेऽप्येवम् । योगीश्वरः
“चतुर्मासे निवृत्ते तु चक्रपाणौ समुत्थिते । अकालवृष्टिं
जानीयात् यावन्न सुप्यते हरिः” । अत्र यावद्विष्णुम-
होत्सव इति जीमूतवाहनः पठति महोत्सवः फाल्गुनी
पूर्णिमा इति व्याख्याति च । कृत्यचिन्तामणिभोजरा-
जव्यवहारसमुच्चयश्रीधरसमुच्चयेषु “पौषादि चतुरो
मासान् ज्ञेया वृष्टिरकालजा । व्रतयज्ञादिकं तत्र वर्ज-
येत् सप्त वासरान् । मार्गान्मासात् प्रभृति मुनयोव्यास-
बाल्मीकिगर्गाश्चैत्रं यावत् प्रवर्षणविधौ नेति कालं
वदन्ति । नाड़ीजङ्घः सुरगुरुमुनिर्वक्ति वृष्टेरकालौ
मासावेतौ न शुभफलदौ पौषमाघौ न शेषाः । मार्गादि-
त्यवधौ पञ्चमी नामिविधौ । व्यासवाल्मीकिगर्गा इत्यत्र
व्यासबाल्मीकिशिष्या इति जीमूतवाहनः पठति । प्रवर्षणे-
त्यत्र छन्दोभङ्ग आर्षत्वात् सोढव्यः । एवं पक्षत्रये व्यव-
स्थिते येन सर्वपरिग्रहः स्यात् तस्यैव ग्रहणमिति
न्यायेनाद्यः पक्षः श्रेयान्, तदुत्तरन्तु पक्षद्वयमापदत्य-
न्तापद्विषयमेवमन्यत्रापि । अतएव राजमार्त्तण्डे
“उक्तानि प्रतिषिद्धानि पुनः सम्भावितानि च । सापेक्ष-
निरपेक्षाणि श्रुतिवाक्यानि कोविदैः” । इति शेषचरणे
मीमांस्यानीह कोविदैरिति कृत्यचिन्तामणौ पाठः ।
यद्वा “स्पष्टस्य तु विधेर्नान्यैरुपसंहार इष्यते” इति न्यायेन
दोषातिशयार्थ एव सामान्यनिषेधे विशेषनिषेधः । तत्रापि
विशेषौक्तो वृहस्पतिना “वृष्टिः करोति दोषं तावन्ना-
कालसम्भवा राज्ञः । यावन्न भवति याने नरपशुचर-
णाङ्किता वसुधा” । काश्यपः “ॠक्षैकमन्दिरगतौ यदि
जीबभानू शुक्रीऽस्तगः सुरवरैकगुरुश्च सिंहे । नारभ्यते
व्रतविवाहगृहप्रतिष्ठा क्षौरादिकर्म्म गमनागमनञ्च
धीरैः” । ऋक्षैकमन्दिरगताविति विशिष्टं न पृथक्
तथा च “एकराशिगतौ स्यातामेकर्क्षविषये यदि ।
गुर्वादित्यौ तदा त्याज्या यज्ञोद्वाहादिकाः क्रियाः” ।
चातुर्मास्यव्रते तु प्रतिप्रसवमाह महाभारते “चातु-
र्मास्यव्रतारम्भमस्तगेऽपि गुरौ भृगौ । खण्डेऽवापि तिथौ
कुर्य्यात् एवमेव समापनम्” ।
गार्ग्यः “जीवादित्ये बाले शुक्रे ऊर्द्ध्वं दशाहान्मा-
ङ्गल्यं प्रतिष्ठां खातञ्च कुर्य्यात्” । माङ्गल्यं विवाहादि ।
खातं पुष्करिण्यादि । राजमार्चण्डे हारीतः
“यात्रां चूड़ां विवाहं श्रुतिविवरविधिं ग्रामसद्मप्रवेशं
प्रासादोद्यानहर्म्म्यान् सुरनरभवनारम्भविद्याप्रदानम् ।
मौञ्जीबन्धं प्रतिष्ठां मणिवरकनकाधारणं कुर्वते ये
मृत्युस्तेषाञ्च सिंहे गुरुदिनकरयोरेकराशिस्थयोश्च” ।
सिंहे गुरुदिनकरयोः--सिंहस्थे गुरौ रवौ च एकरा-
शिस्थयोर्युगपत्तयोरेव “तेषाञ्च सिंह” इत्यत्र “तेषां
हरीज्य” इति पाठान्तरम् । हरीज्ये--सिंहे वृहस्पतौ ।
सोमशेखराख्यनिबन्धे “वापीकूपतड़ागयागगमनक्षौर-
प्रतिष्ठाव्रतं विद्यामन्दिरकर्णवेधनमहादानं वनं
सेवनम् । तीर्थस्नानविवाहदेवभवनञ्चानादिदेवेक्षणं दूरेणैव
जिजीविषुः परिहरेदस्तं गते भार्गवे” । दीपिकायाम्
‘गुर्वादित्ये गुरौ सिंहे नष्टे शुक्रे मलिम्लुचे ।
याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत्’ । सर्वकर्म्मा-
णीति वचनान्तरोक्तप्रातिस्विकनिषिद्धकर्मपरं लाघवात्
अन्यथा अतिप्रसङ्गापत्तेः । वृहद्राजमार्त्तण्डः ‘यात्रावि-
वाहव्रतबन्धवेश्मप्रासादचूड़ाकरणं हितैषी । नष्टे भृगौ
पृष्ठ २०१०
नोपदिशेन्नराणां देवप्रतिष्ठामपि कर्णवेधम् । हित्वाद्यं
शुभकर्माणि कुर्य्यादस्तमिते सिते । विवाहं मेखलाबन्धं
यात्राञ्च परिवर्जयेत्” । अत्र यात्राञ्चेति चकारः
पूर्ववचनोपात्तमुन्यन्तरोक्तप्रातिस्विकनिषिद्धकर्म्माणि स
मुच्चिनोति । “बाले शुक्रे, वृद्धे शुक्रे, नष्टे शुक्रे, जीवे
नष्टे । बाले जीवे, जीवे सिंहे, सिंहादित्ये जीवादित्ये ।
तया मलिम्लुचे मासि सुराचार्य्येऽतिचारगे । वापी-
कूपतड़ागादिक्रियाः प्रागुदितास्त्यजेत्” । एवञ्च काला-
शुद्धौ विद्यारम्भं न कुर्य्यात् तद्विधानञ्च विष्णुधर्म्मो-
त्तरे । “संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्द्दने । षष्ठीं
प्रतिपदञ्चैव वर्जयित्वा तथाष्टमीम् । रिक्तां पञ्चदशीञ्चैव
सौरिमौमदिनन्तथा । एवं सुनिश्चिते काले विद्यारम्भः
प्रशस्यते” देवलः “बाले वृद्धे तथैवास्ते कुरुते दैत्यम-
न्त्रिणि । उद्वाहितायां कन्यायां दम्पत्योरेकनाशनम्” ।
अन्तक इति शेषः । राजमार्त्तण्डे “सिंहे गुरौ परिणीता
पतिमात्मानमात्मजान् हन्ति । क्रमशस्त्रिषु पित्रादिषु
वशिष्ठगर्गादयः प्राहुः” । पित्रादिषु--सिंहघटकमघा
पूर्वफाल्गुन्युत्तरफाल्गुनीप्रथमपादेषु । प्रतिप्रसवमाह
शातातपः “माघ्यां यदि मघा नास्ति सिंहं गुरुरका-
रणम्” । तत्रैव हेमाद्रिधृतमाण्डव्यवचनम् “श्रुति-
वेधजातकान्नप्राशनचूड़ादिकः सर्वः । रविभवनस्थे
जीवे कार्य्योवर्ज्योविवाहस्तु” । माध्यां मघायोगे तु
ऋक्षैकमन्दिरगतावित्यादिना सर्वकर्मनिषेधात् । अथैवं
विवाहोऽपि श्रूयते तथाच राजमार्त्तण्डे दक्षः
“गुरौ हरिस्थे न विवाहमाहुर्हारीतगर्गप्रमुखामु-
नीन्द्राः । यदा न माघी मघसंयुता स्यात् तदा च
कन्थोद्वहनं वदन्ति” । इत्थञ्च माघ्यां मघायोगाभावेऽपि
श्रुतिवेधादि, मघास्थेऽपि गुरौ भवति विवाहस्तु गुरोर्म-
षापरित्यागादेव तथाच माण्डव्यः “मघाऋक्षं
परित्यज्य यदा सिंहे गुरुर्भवेत् । तत्राब्दे कन्यका चोढ़ा
सुमगा सुप्रिया भवेत्” । वात्स्यायनः “यात्रोद्वाहप्रति-
ष्ठादिगृहचूड़ाव्रतादिकम् । यत्नतो वर्जयेच्चैव जीवे
वक्रातिचारगे । कीर्त्तिभङ्गः प्रतिष्ठायां, भयं चौरात्तथाऽ-
ध्वनि । चूड़ोद्वाहे भवेन्मृत्युर्व्रते हानि, र्भयं गृहे ।
अतिचारे त्रिपक्षः स्यात् वक्रे पक्षचतुष्टयम् । न
कुर्य्यात्तत्र यात्रादि गुरोर्वक्रातिचारयोः” गर्गः
“गुरोर्वक्रातिचारे च वर्जयेत्तदनन्तरम् । यज्ञव्रतविवा-
हादावष्टाविंशतिवासरान्” । माण्डव्यः “यदा वक्रा-
तिचाराभ्यां राशिं गच्छति वाक्पतिः । दिनामि सप्त-
विंशानि त्यक्त्वा कर्म्म समाचरेत्” । अत्रापि पूर्वः पूर्वः
पक्षः श्रेयान् । राशिं--राश्यन्तरम् अन्यथा व्यर्थं स्यात् ।
अतएव न्यायरत्नेनापि पूर्वराशिगमिष्यमाणातिचारि-
गुरुकेत्युक्तम् । वृहद्राजमार्त्तण्डे “वकातिचारो-
पगताः कुजाद्या यद्यन्यराशौ, परिवर्जनीयाः । यथाक्र-
मस्थाः स्वगृहस्थिता वा न वर्जनीवा यवना वदन्ति” ।
व्यवहारसमुच्चये कृत्यचिन्तामणौ च हारीतः “कृत्वाऽ-
तिचारं यदि पूर्वराशिं नायाति मन्त्री विबुधाधिपा-
नाम् । यानं विवाहं व्रतबन्धगेहं सर्वं तदा हन्ति मतं
मुनीनाम् । अतिचारं गते जीवे वृषे वृश्चिककुम्भयोः ।
यज्ञोद्वाहादिकं कुर्य्यात्तत्र कालो न लुप्यते” । कृत्यकल्प-
लतायां वाचस्पतिमिश्रैः “पूर्वराशिं यदा त्यक्त्वा अपूर्णे
वत्सरे गुरुः । लुप्तःकालः स विज्ञेयः परगेहं गतो यदा ।
मीने मेषे वृषे चैव तथा मिथुनकन्ययोः । अतिचारान्न
दोषः स्यान्नियतं काललोपजः” । द्वैतनिर्णये “कन्यावृश्चि-
कमेषेषु मन्थथे च ऋषे वृषे । अतिचारेषु कर्त्तर्व्यविवाहादि
षुधैः सदा” इति अमूलकमित्युक्तम् । वराहसंहितायाम्
“अतिचारं गतोजीवस्तत्रैव कुरुते स्थितिम् । तदा
महातिचारः स्यात् लुप्तसंवत्सरक्रियः । अतिचारेण योराशि-
र्लङ्घितोदेवमन्त्रिणा । तदाद्यो वत्सरोलुप्तोयोऽनर्हः
सर्वकर्मसु” । तत्र वर्षे कर्म्मणोलुप्तत्वात् वत्सरोलुप्त इति
तदाह योऽनर्ह इति । भुजबलभीमादिनिबन्धेषु
“शुभं भवनमासाद्य यदातिक्रमते गुरुः । अत्र
संवर्द्धिता कन्या सुखं भर्त्तुः प्रमोदते” दीपिकायाम्
“त्रिकोणजायाधनलाभराशौ वक्रातिचारेण गुरुः
प्रयाति । यदा, तदा प्राह शुभे विलग्ने हिताय पाणि-
ग्रहणं वशिष्ठः” । त्रिकोणं नवपञ्चमम् । जाया--सप्तमं,
धनं--द्वितीयं, लाभ--एकादशगृहम् । रत्नकोषे “पक्षो-
दशाहानि तथा त्रिपक्षी मासत्रिभागः खलु षट् च
मासाः । एषोऽतिचारः कथितोग्रहाणां भौमादिकानां
परतस्तु चारः” । प्रतिष्ठाकाण्डे कल्पतरौ देवीपुराणम्
“यथा जीवे स्थिते सिंहे तथैव मकरस्थिते । देवाराम-
तड़ागादिपुरोद्यानगृहाणि च । विवाहादि महाभाग
भयदानि विनिर्द्दिशेत् । यदा द्वादशगे जीगे अष्टमे वाथ
भास्करे । प्रतिष्ठा कारिता विष्णोर्महाभयकरी मता” ।
कृत्यचिन्तामणौ देवीपुराणम् “सिंहसंस्थं गुरुं शुक्रं
सर्वारम्भेषु वर्ज्जयेत् । आरब्धञ्च न सिद्ध्येत महा-
पृष्ठ २०११
भयकरं भवेत् । कूपारामतड़ागेषु पुरोद्यानगृहेषु च ।
सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत् । कारको-
व्रजते नाशं सन्तानः क्षीयतेऽचिरात्” । गुणिसर्वस्वे
मकरस्थगुरौ प्रवर्त्तकं नरसिंहपुराणम् “विवाहोनैव
कर्त्तव्यः सिंहसंस्थे गुरौ सदा । मकरस्थे च तत्कार्य्यं
कल्याणं सर्ब्बतोबुधैः । तथा देवीपुराणम् “मकरस्थो
यदा जीवो वर्जयेत् पञ्चमांशकम् । शेषेष्वपि च भागेषु
विवाहः शोभनो मतः” । एतद्वाक्यं व्यवहारापरिगृहीत-
मिति कृत्यचिन्तामणिः । एतेनैतदनाकरं न भवति किन्तु
मैथिलानामनाचारः इति स्वरसोऽवगम्यते । अतएव रत्ना-
वल्यादिषु नीचस्थगुरावेव दोष उक्तः । गुरोर्नीच-
स्थत्वमपि त्रिंशांशमकरराशेः पञ्चमांशं यावदिति
ज्योतिस्तत्त्वे ज्ञेयम् । रत्नावल्याम् “नीचस्थः सिंह-
गोवा यदि भवति गुरुः सूर्य्यरश्मौ च लीनः संयुक्तो
वा यदि स्यात् दशशतवृणिना क्षीणरूपोऽथ बालः ।
यात्रागेहं विवाहोव्रतममरगृहं यज्ञचूड़ादि सर्वं
वापी चोद्यानकूपम् न भवति शुभदं यद्यदिष्टञ्च लोके” ।
श्रीपतिरत्नमालायां कृत्यचिन्तामणौ च वात्स्यः
“शाखाधिपे बलिनि केन्द्रगतेऽथ वास्मिन् वारेऽस्य चोपन-
यनं कथितं द्विजानाम् । नीचस्थितेऽरिगृहगेऽथ
पराजिते वा जीवे भृगौ व्रतविधौ स्मृतिकर्म्महीनः” । अस्य-
शाखाधिपस्य । तेन सामगानां कुजबारेऽप्युपनयनम्
“सामवेदाधिपो भौमः” इत्युक्तत्वात् । कामरूपीयनिबन्धे
स्मृतिसागरे देवीपुराणम् “मकरस्थो यदा जोवस्तदा
त्रिंशद्दिनं त्यजेत् । त्यक्त्वा तु षष्टिदिवर्स कुर्य्यात् कर्माणि
मानवः” । रायमुकुटज्योतिःकालकौमुद्याम् यत्तु
“मकरस्थं गुरुं यत्नात् सिंहवत् परिवर्जयेत् । देवारा-
मतड़ागेषु पुरोद्यानगृहेषु च” इत्यादि देवलवचनं
तदपि सिंहवत् परिवर्जयेदित्यनेन यथा सिंहस्थस्य
गुरोस्त्याज्यता तथा मकरस्थस्यापीति गम्यते । सिंहस्थ
गुरोर्मघायुक्तमाघ्यां सत्यामेव त्याज्यता अतो मकरस्थ-
स्यापि गुरोस्तस्यामेव त्याज्यता इत्यवगम्यते । अतएव
देवीपुराणम् “यथा जीवस्थिते सिंहे तथैव
मकरस्थिते” इत्यत्र यथातथोपादानम् । तदपि देशविशेष एव
दूषणम् तथाहि “गण्डक्या उत्तरे तीरे गिरिराजस्य
दक्षिणे । सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत्” ।
अतएवान्यदेशाभिप्रायेण भीमपराक्रमे “वापीकूप-
तड़ागादि निषिद्धं सिंहगे गुरौ । मकरस्थे तु तत्-
कार्य्यं न दोषः काललोपजः । कार्य्यं मकरगे जीर्व
विवाहाद्यखिलं बुधैः । न तु सिंहगते जीवे कुर्य्या-
द्विप्रः कथञ्चन” । अत्र पूर्वोक्तनरसिंहपुराणवचने
मकरस्थमात्रे विवाह उक्तः । अतएव तत्सारभूतं
व्यवहारमात्रं विबक्षितं श्रीपतिनात्मबुद्ध्येति प्रतिज्ञाय-
समयाशुद्धौ मकरस्थवृहस्पतिदोषमनभिधाय केवलमुप-
नयने नीचस्थवृहस्पतिर्निषिद्धः । एतेन द्वैतनिर्णये
श्रीपतिसंहितायां व्यवहारोपवृंहितमेव वचनं नच
व्यवहारविरुद्धमिति । एतेन यत् मकरस्थगुर्वादौ विवाहा-
दिविधायकं वचनं तदाचारविरहादनादरणीयम्
इति वाचस्पतिमिश्रोक्तं हेयम् मकरस्थगुरौ प्रति-
ष्ठाव्यतिरिक्तकर्म्मनिषेधकश्रीपतिग्रन्थविरहात् । अथ
तन्निषेधकमुनिवचनानि प्रामाणिकान्तरधृतत्वादुपादेया-
नीति चेत् तर्हि प्रतिप्रसववचनान्यपि तथा । एवञ्चाति-
चारे विवाहादिनिषेधकवचनानि श्रीपतिना लिखितानि
नतु तदपवादकानीति तेन तान्यप्रामाणिकानीति
यदुक्तं तदपि हेयम् प्रकृते पूर्वोक्तयुक्तेस्तौल्यात्
भुजबलभीमे “जीबोऽर्केण युतः करोति मरणं बालां-
शुकोभागुरिः नक्षत्रैकगतो वदन्ति यवनाः पादस्थितो
देवलः । प्रायोगर्गपराशरादिमुनयो नेच्छन्ति चास्तंगते
तस्मादस्तमिते सुरेन्द्रसचिवे नेष्टं विवाहादिकम्” श्रीपति-
रत्नमालायाम् “प्रागुद्गतः शिशुरहस्त्रितयम् सितः स्यात्
पश्चाद्दशाहमितपञ्चदिनानि वृद्धः । प्राक् पक्षमेव कथितो-
ऽत्रिवशिष्ठगर्गैर्जीवस्तु पक्षमपि वृद्धशिशुर्विवर्ज्यः” ।
वृद्धशिशुत्वगन्तेतिक्वचित्पाठः । सितः शुक्रः । इह--पश्चा-
द्दिशि । राजमार्त्तण्डे “भवेत् सन्ध्यागतः पश्चात् अस्तमैष्यन्
दिनत्रयम् । दिनानि पञ्च पूर्वेण, तत्कृते कर्म
वर्ज्जयेत् । बाले बृद्धे च सन्ध्यांशे चतुःपञ्चत्रिवासरान् ।
जीवे च भार्गवे चैव विवाहादिषु वर्ज्जयेत् । बाले बृद्धे
च सन्ध्यायां नष्टे च भृगुनन्दने । दुर्भगा चासती बन्ध्या
मृत्युयुक्ता फलं क्रमात् । बाले च दुर्भगा नारी वृद्धे
नष्टप्रजा भवेत् । नष्टे च मृत्युमाप्नोति सर्वमेवं
गुरावपि” । वृद्धे पञ्चदिनत्वकीर्त्तनमप्यापद्विषयं ज्योतिः-
पराशरेण भृगोः पादास्तेऽपि दशाहविधानात् । एवं
गुरावपि । रत्नमालायां पक्षविधानात् तयोर्मते न
सन्ध्यायाः पृथङ्निर्देशोऽपि वृद्धत्वेनैव तद्ग्रहणात् ।
दीपिकायाम् “गुर्व्वादित्ये, गुरौ सिंहे, नष्टे शुक्रे
मलिम्लुचे । याम्यायने हरौ सुप्ते सर्बकर्म्माणि वर्जयेत् ।
पृष्ठ २०१२
तत्रैव “नो शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्ट-
मेन्दौ, विष्टौ, मासेमलाख्ये, कुजशशिदिवसे, जन्मतारासु
चाथ । नाड़ीनक्षत्रहीने, गुरुरविरजनीनाथतारादिशुद्धौ,
प्रातः कार्य्या परीक्षा द्वितनुचरगृहांशोदये शस्तलग्ने” ।
ज्योतिषे “सिंहस्थे मकरस्थे च जीवे चास्तमिते तथा ।
सिंहस्थे तु रवौ नैव परीक्षा शस्यते बुधैः” । गर्गः
“दाहे दिशाञ्चैव धराप्रकम्पे, वज्रप्रपातेऽथ विदारणे
वा । धूमे, तथा पांशुकरप्रपाते न कारयेन्माङ्गलिकादि
कार्य्यम् । उल्कापाते च निर्घाते तथैवाकालवर्षणे ।
छिद्रे सूर्य्ये विनिर्द्दिष्टे नं कुर्य्यान्मङ्गलक्रियाम् ।
धूमकेतौ समुत्पन्ने, ग्रहणे चन्द्रसूर्य्यर्याः । ग्रहाणां
सङ्करे चैव न कुर्य्यान्मङ्गलक्रियाम् । द्विसूर्य्यं वा त्रि-
सूर्य्यं वा दृष्ट्वा गगनमण्डलम् । रात्रौशक्रधनुश्चैव मङ्ग-
लानि विवर्जयेत् । दिग्दाहेदिनमेकञ्च ग्रहे सप्त दिनानि
च । भूमिकम्पे च सम्भूते त्र्यहाणि परिवर्जयेत् ।
उल्कापाते च त्रितयं, धूमे पञ्च दिनानि च । वज्रपाते
दिनमेकंवर्जयेत् सर्वकर्म्मसु” । भोजराजः “ग्रहे रवीन्द्वो-
रवनिप्रकम्पे केतूद्गमोल्कापतनादिदोर्ष । व्रते दशाहानि
वदन्ति तज्ज्ञान्त्रयोदशाहानि वदन्ति केचित्” । ग्रह-
णकाले भूकम्पोल्कापातवज्रपातादिदोषसमाहारे
त्रयोदशाहमशुद्धम् किञ्चिदूनतत्समाहारे दशाहम् ।
ग्रहणाद्येकैकदोषे त्र्यहमिति वाचस्पतिमिश्राः ।
अत्र स्मृतिसागरधृतसारसंग्रहे “राज्यादिकमहासिद्धौ
यज्ञदानतपःसु च । हामखाध्याययोश्चैव वर्जयेद्दशरा-
त्रकम् । लक्षहोमे महादाने वर्जयेत् सोमके मखे ।
तपःस्वाध्याययोश्चैव चिरारम्भे त्रयोदश” इति व्यवस्था
अन्यत्र “उल्कापाते भुवः कम्पे अकालवर्षगर्जिते ।
वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः । प्रयाणन्तु
त्यजेत् क्षत्त्रः सप्तरात्रमतः परम् । ब्राह्मणः क्षत्त्रियो
वैश्यस्त्यजेत् कर्म्म त्रिरात्रकम् । शूद्रस्त्यक्त्वा चैकरात्रं
सर्वकर्म समाचरेत्” । पराशरः “प्रयाणे सप्तरात्रं
स्यात् त्रिरात्रं व्रतबन्धने । एकरात्रं परित्यज्य कुर्य्यात्
पाणिग्रहं ग्रहे” । भृगुः “कम्पे राजनि सप्ताहं
ब्राह्मणानां त्र्यहन्तथा । शूद्रस्यार्द्धदिनं प्रोक्तं सर्वका-
र्य्येषु वै भृगुः” । शूद्रस्यापद्विषयम् । कम्पैत्युपलक्षणम् ।
ग्रहणादावप्येवमेवान्यत्रैकत्र पठितत्वात् । भोजदेवव्यव-
हारसमुच्चये “सर्वं कार्य्यं ग कुर्व्वीत गुरौ सिंहेऽस्तगेऽपि
च । व्रतदीक्षे न कुर्व्वीत तमोयुक्ते वृहस्पतौ” । तमो-
युक्ते राहुयुक्ते । व्रतदीक्षे इति नित्येतरकर्म्मोपलक्ष-
णम् । तथाच स्मृतिसागरसारे ज्योतिषम् “एकराशौ
स्थितौ स्यातां यदि राहुवृहस्पती । विवाहव्रतयज्ञादि
सर्वन्तत्र विवर्जयेत्” । मलमासाद्युपक्रम्य भविष्ये
“ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वाऽनयोः । गुरोराहो-
रपि तथा त्यजेद्विद्वान्न संशयः” । अत्र गुरोर्लज्जितत्वं
हेतुः । तद्यथा “यत्र तत्र स्थितो जीवस्तमोयोगेन लज्ज-
ते । उपहासाय किं न स्यादसत्सङ्गो मनीषिणाम्” इति ।
“अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने । सप्तरात्रं
न कुर्व्वीत यात्रोद्वाहादिमङ्गलम्” । इति दोपिकाया-
मनिष्टैत्यभिधानात् अनिष्टजनकोत्पात एव सर्वकर्म्मा-
नधिकारः । पूर्वलिखितभोजराजवचनेऽपि “केतू-
ल्कापतनादिदोषे, इति दोषजनक एव तथोपरागे मण्ड-
लतः शुभेऽपि यात्रानिषेधाय सिंहिकासुत इति पृथगुपा-
दननम् । अत्र विवाहादावपि सप्तरात्रनिषेधात् पराशरो-
क्तस्वल्पकालनिषेध आपद्विषयः । तेनानिष्टाजनके भूमि-
कम्पादौ न दोषः । अतएव वृहत्संहितायां वराहेण
उत्पातप्रकरणे प्रायःपदमभिहितम् तथा च” यः प्रकृ-
तिविपर्य्यासः प्रायः संक्षेपतः स उत्पातः । क्षितिव्योमदि-
व्यजातोयथोत्तरं गुरुतरो भवति” प्रायैति ऋत्वादिप्र-
युक्तविपर्य्यासव्यावृत्त्यर्थं यदाह तत्रैव “ये च न दोषं
जनयन्त्युत्पातास्तान् ऋतुस्वभावकृतान् । ऋषिपुत्त्रैः
कृतैः श्लोकैर्विद्यादेतैः समासोक्तैः” मनुनापि “निर्घाते
भूमिचलने ज्योतिषाञ्चोपसर्पणे । एतानाकालिकान्
विद्यादनध्यायानृतावपि” । अत्रानध्ययनार्थमृतावपोत्यु-
क्तम् । उत्पाते दोषभङ्गमाह श्रीपतिव्यवहारनिबन्धे “अथ
दिवसत्रयमध्ये मृदुजलपतनं यदा स्यात् । तदोत्पात-
दोषं शमयेदित्याहुराचार्य्याः” वार्हस्पत्ये “शमयन्त्यास-
प्ताहात् कम्पादिकृतं निमित्तमाश्वेव । अतिवर्षणोपबा-
सव्रतदोक्षाजप्यहवनानि” । विष्णुधर्मोत्तरे “शेतेऽत्र
चतुरोनासान् यावद्भवति कार्त्तिकः । विशिष्टा न प्रवर्त्तन्ते
तदा यज्ञादिकाः क्रियाः । नाभिषेच्यो नृपश्चैत्रे
नाधिमासे कदाचन । न सुप्ते च तथा कृष्णे विशेषात्
म्पवृषि द्विज!” । भविष्योत्तरे “सुप्ते मयि जगन्नाथे
केशवे गरुड़ध्वजे । निवर्त्तन्ते क्रियाः सर्वाश्चातुर्वर्ण्यस्य
भारत! । विवाहब्रतबन्धादिचूड़ासंस्कारदीक्षणम् ।
यज्ञगृहप्रवेशादिदानार्च्चनप्रतिष्ठनम् । पुण्यानि यानि
कर्म्माणि वर्जयेद्दक्षिणायने” । सर्वास्तत्तद्वाक्यगणिताः
पृष्ठ २०१३
पूर्वप्रातिस्विकोक्ताः एवं पुपयानीति अन्यथा
विशेषवचनवैथर्थ्या दति वदन्ति । भोजराजः
“वापो तड़ागगृहगापुरदेवसद्मपासादवारिमठकूपविवाहचै-
त्यात् । कर्त्तुं यथागमविघानविधिर्वधात्रा प्रोक्तस्तथैव
कथयामि समासतोऽहम् । सुप्ते हरौ प्रकटशेषफणोप-
धाने लक्ष्मोकराब्जपरिमार्जितपादपद्मे । मीने रवौ
धनुषि चास्तमिते तथेज्ये वास्तुक्रियाविधिरसौ मुनिभि-
र्निषिद्धः” । इज्योगुरुः । नारदः “वापीकूपतड़ागा-
दिप्रतिष्ठायज्ञकर्म च । न कुर्य्यात्मलमासे च महादान-
व्रतानि च” । दानपदं सामान्यदानपरमिति वदन्ति ।
तथाच स्मृतिः ‘अस्ते सन्ध्यागते बाले भृगौ मासि
मलिम्लुचे । देवतादर्शनं दानं महादानं विवर्जयेत्’ ।
लषुहारीतः “भृगावस्ते गुरौ सिंहे गुर्वादित्ये
मलिम्लुचे । त्यजेत् दानं महादानं व्रतं देवविलोकनम्” ।
एतद्वचनद्वयं कालविवेकेऽपि । अत्र दानमहादानयोरु-
पादानात्” ग० त० । मुहूर्त्तचिन्तामणिपीयूषधारादौ
विशेष उक्तो विस्तरभयान्नोक्त स्ततएवावसेयः ।

कालिक पुंस्त्री काले वर्षाकाले चरति ठञ, के जले अलति

अल--बा० इकन् ७ त० वा । १ क्रौञ्चे वके शब्दरत्ना०
स्त्रियां ङीष् । कालोवर्ण्णोऽस्त्यस्य ठन् कालात् वर्ण्ण
बाचित्वे जानपदा० नि० ङीष् ततः स्वार्थे क ह्रस्वः इति
वा । कालिका २ देवीमूर्त्तिभेदे “तस्यां विनिर्गतायां तु
कृष्णाऽभूत् साऽपि पार्व्वती” देवीमा० तस्याः कृष्णवर्ण-
तयाविर्भावात्तथात्वम् विवृतिः कालिकापुराणे ६० अ० यथा
“सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् ।
गङ्गावतारनिकटे महामायां प्रतुष्टुवुः । अनेक
संस्तुता देवी तदा सर्व्वामरोत्करैः । मातङ्गवनितामूर्त्ति
र्भूत्वा देवानपृच्छत । युष्माभिरमरैरत्र स्तूयते का
च भाविनी । किमर्थमागता यूयं नातङ्गस्याश्रमं प्रति ।
एवं ब्रबत्या मातङ्ग्यास्तस्यास्तु कायकोषतः । समुद्भू-
ताऽवीद्देवी मां स्तुवन्ति सुरा इति । शुम्भो निशुम्भो
ह्यसुरौ बाधेते सकलान् सुरान् । तस्मात्तयोर्बधा-
याहं स्तूयेऽद्य सकलैः सुरैः । विनिःसृतायां देव्यान्तु
मातङ्ग्याः कायतस्तदा । भिन्नाञ्जननिभा कृष्णा साऽभूत्
गौरी क्षणादपि । कालिकाख्याऽभवत् सापि हिमाचलकृ-
ताश्रया” । ३ वृश्चिकपत्रवृक्षे ४ क्रमदेयवस्तुमूल्ये ५
धूसर्य्याम् ६ जटामांस्यां ७ काक्यां ८ पटोलशाखायां ९
रोमावल्यां १० शिवायाम् ११ मेवाबल्यां स्त्री मेदि० ।
१२ क्षीरकीटे हारा० १३ मस्यां शब्दरत्ना० १४ काकोल्यां
१५ श्यामापक्षिणि स्त्री राजनि० । १६ हिमाचलभ-
वायां त्रिशिरायां हरीतक्याम् स्त्री मेदि० । १७ चतुर्बर्ष
कुमारीभेदे अन्नदाकल्पः कालसङ्कर्षाशब्दे विवृतिः ।
कालस्य भावः वा० बा वुण् । १८ कृष्णवर्ण्णे स्त्री । १९
स्वर्ण्णदोषे जटाधरः बह्निना दाहे यद्दोषात् स्वर्ण्णस्य कृष्णता
भवति सा च ताम्रादिधातुयोगैः । “हेम्नः संलक्ष्यते ह्यग्नौ
विशुद्धिः श्यामिकाऽपि वा” रघौ अग्नावेव कालिकाज्ञान-
स्योक्तेस्तस्यैव तथात्वम् । काय जलाय अलति पर्य्याप्नोति
अल--पर्य्याप्तौ ण्वुल् टाप् अतैत्त्वम् । २० कुज्झटिकायां
भरतः २१ नवमेघे स्त्री मेदि० । काले दीयते ठक् । २२
प्रतिमासदेयवृद्धौ (सुद) “प्रतिमासं स्रवन्ती या वृद्धिः सा
कालिका मता” नारदः । कं जलमलति भूषयति
अलभूषणे ण्वुल् टाप् अतैत्त्वम् । २३ सुरायां स्त्री हेमच० ।
कालोवर्ण्णोऽस्त्यस्य ठन् । २४ कालीयके कृष्णचन्दने न० शब्द-
च० । प्रकृष्टः दीर्घःकालोऽस्य प्रकृष्टे ठञ् । २५ वैरे न०
तस्य दीर्घकालस्थायित्वात्तथात्वम् । “वर्ण्णे चानित्ये”
इत्यधिकारे “कालाच्च” पा० कन् । कालक स्त्रियां
टाप् अत इत्त्वम् । २६ कालिका अनित्यकृष्णवर्ण्णयुक्त
शाट्यादौ स्त्री “कालिका शाटी” सि० कौ० । कालेन
निर्वृत्तः ठञ् । कालिक २७ कालनिर्वृत्ते कालकृते त्रि० ।
“विशेषः कालिकोऽवस्था” अमरः । काले भवः ठञ् । २८
कालभवे त्रि० । उभयत्र स्त्रियां ङीप् इति भेदः ।

कालिकापुराण न० कालिकाया माहात्म्यादिप्रतिपादकं

पुराणम् । उपपुराणभेदे उपपुराणशब्दे पृ० तस्य तथात्व-
मुक्तं तत्प्रतिपाद्यविषयाश्च
१ अ० ब्रह्मणोनारदादिक्रमेण तत्पुराणवंशवर्ण्णनम् ।
ऋषिप्रश्ने मार्कण्डेयोक्तिः । प्रजासृष्टिः--व्रह्ममनसः
सन्ध्यासृष्टिः कन्दर्पसृष्टिः । तस्य ब्रह्मणा स्त्रीपुरषयोर्मेल-
नाय निदेशः । २ अ० तस्य मन्मथनामादिनिरुक्तिः । तस्य
हर्षणरोचनद्रावणशोषणमारणाख्यपञ्चवाणोक्तिः । सन्ध्यां-
दृष्ट्वा ब्रह्मणो मनोविकारः सन्ध्यादर्शनेन जातसात्विक-
पर्म्मात् अग्निष्वात्तादीनामुत्पत्तिः । तां दृष्ट्वा विकारा-
न्वितदक्षधर्म्मतः रतिनामककन्योत्पत्तिः ।
३ अ० ब्रह्मणः कामदेवशापः । रत्याः कामेन विवाहः ।
४ अ० शिवमोहनाय ब्रह्मणा कामस्य नियोगः । शिवमोह-
नाय ब्रह्मणा विष्णुमायायाः स्तुतिः । दक्षकन्यासतीत्वेन
तस्याः प्रादुभावप्रार्थनः दक्षेण महामायायाः स्तुतिः । ५ अ०
पृष्ठ २०१४
विष्णुमायाया दक्षाय वरदानम् । ६ त० शम्भोर्दारग्रह-
णाय ब्रह्मणा कामस्य नियोजनम् । तेन सह मारादिगण
स्य प्रेरणम् । ७ अ० कामेन हरमोहनप्रकारोक्तिः ।
८ अ० दक्षकृतमहामायास्तवः । सतीजन्मतत्पालन प्रकारः
तन्नामनिरुक्तिः । नारदेन सत्या हररूपवर-
प्राप्त्युक्तिः । ९ अ० सतीकृतशिवव्रतम् । ब्रह्मणः शिवसमीपे
दारग्रहणप्रार्थनम् । तदङ्गीकारे तत्परिणययोग्यतया
दक्षकन्यायाः कथनम् । १० अ० सत्या नन्दीव्रतसमाप्तौ
शिवेन तस्यै स्वस्य भार्य्याभवनरूपवरदानम् । दक्षसमीपे
स्वेन सतीविवाहार्थं शिवेन ब्रह्मणःप्रेरणम् । ब्रह्मणो-
दक्षं प्रति तयाप्रार्थने तेन तदङ्गीकारः ।
सतीविवाहार्थं ब्रह्मादिभिः सह शिवस्य दक्षपुरगतिः ।
११ अ० विवाहकाले सतीरूपं दृष्ट्वा ब्रह्मणोमनोविकारः ।
ततः संवर्त्तादिमेवादीनामुत्पत्तिः । ततोदक्षवाक्येन
ब्रह्माणं प्रति शिवस्य कोपः । विष्णुना सान्त्वनम् । १२ अ०
ऋषिप्रश्ने ब्रह्मविष्णुशिवानामभेदोक्तिः । १३ अ० शिवाय
विष्णुना ब्रह्माण्डसंस्थानस्य दर्शनम् । तथा रूपदर्श-
नेन तेषामेकत्वोक्त्या ब्रह्माणं प्रति तस्य कोपनिंवृत्तिः ।
१४ अ० शिवसतीविहारवर्णनम् । १६ अ० दक्षयज्ञप्रारम्भः । तत्र
शिवसतीनिमन्त्रणाभावे सत्याः पितरं प्रति कोपः । तत्र
दक्षकोपेन सत्या देहत्यागः । १७ तेन क्रुद्धशिवेन
वीरभद्रं सृष्ट्वा तं प्रति दक्षयक्षनाशनायादेशः । तेन तद्यज्ञस्य-
नाशनम् । सतीविरहे शिवविलापः । १८ अ० शिवस्य
सतीविरहवर्ण्णनम् । शिवरोदनाम्बुनो भूमौ पतने तन्नाशा-
शङ्कया देवानां शनिं प्रति तच्छोषणप्रार्थने तेन तस्या-
ङ्गीकारः । तद्वाष्पेण वैतरणीनदीप्रादुर्भावः । सतीमृत-
देहग्रहणपूर्ब्बकं शिवस्यभ्रमणम् । शनिना सतीशवदेहा-
वयवानां क्रमशःखण्डने अङ्ग भेदेन तत्तत्स्थानानां पीठत्व-
प्राप्तिः । क्रमशः सर्व्वसतीदेहपतते शिवस्य लिङ्गत्वप्राप्तिः ।
ब्रह्मणा तस्य सान्त्वनम् । १९ चन्द्रभागान्तिके शिप्रसरः
शिप्रानदीसमुतपत्तिः । चन्द्रभागानद्युत्पत्तिः । चन्द्रभागा
नामनिरुक्तिः । सप्तविंशतौ अश्विन्यादिषु स्त्रीषु रोहि-
ण्यामिन्दोरत्यनुरागे अश्विन्यादीनां चन्द्रेण विवादः । तत्र
२ ३ ९ १० १२ १६ २१ २६ भरण्यादिभिर्नवभिश्चन्द्रस्य
भर्त्सने कृते चन्द्रस्य ताः प्रति यात्रायां वर्ज्जनीयता-
रूपशापदानम् । सर्व्वासांदक्षसमीपे गतिः ताभिः चन्द्रदौ-
रात्म्यस्यकथने दक्षेण चन्द्रं प्रति सर्व्वासुतुल्यवर्त्तनोपदेशे-
ऽपि चन्द्रेण तथानाचरणे दक्षेण राजयक्ष्माणं गदमुत्-
पाद्यचन्द्राभिभवाय तस्य नियोगः । तस्य प्रवेशेन चन्द्रस्य
क्षयः । चन्द्रक्षये ओषधीनामपुष्टौ यज्ञाभावात् वृष्ट्यभावेन
प्रजाक्षयोक्तिः । २१ तदालोक्य दक्षसमीपे देवानां
गमने तदुपदेशेन राजयक्ष्मणा गीर्णकलानां ज्योत्-
स्नादीनाञ्च निष्कासनम् । बृहल्लोहितानदीस्नानात् चन्द्र-
यक्ष्ममीक्षः । राजयक्ष्मस्थितिस्थानकथनम् । तत्पत्नी-
कथनम् । दक्षवाक्यानुसारेण चन्द्रमसो मासार्द्धं
ह्रासवृद्धिप्रकारकथनम् । सूर्य्यविम्बेन चन्द्रबृद्धिकथनम् ।
शिवेन चन्द्रस्यैककलाधारणं ततएव ज्योत् स्नायाः क्षीण
चन्द्रे प्रवेशेन चन्द्रबृद्धिकथनम् । सीतानदीप्रादुर्भावः ।
चन्द्रभागानामप्राप्तिसमर्थनम् निर्विर्ण्णां सन्ध्यां प्रति विष्णू-
पासनार्थं वसिष्ठोपदेशः । सन्ध्यां प्रति विष्णोः प्रसादे तया
तस्य स्तुतिः । तस्यै तेन वरस्य दानम् । विष्णोरुपदेशा-
न्मेधातिथियज्ञाग्नौ तस्या देहत्यागः तच्छरीरस्य विष्णोरा-
ज्ञया सूर्य्यमण्डले नयनम् । सूर्य्येण तस्य त्रिधाकरणेन
सन्ध्यात्रयकल्पनम् । मेधातिथियज्ञाग्नः अरुन्धतीसमुत्थानं
तन्नामनिरुक्तिः । २३ अ० चन्द्रभागानदीमाहात्म्यम्
अरुन्धत्या वसिष्ठेन सह विवाहः । २४ अ० ब्रह्मादिभिः
शिववैकल्यवारणार्थं योगनिद्रायाः स्तुतिः । विष्णुना शिवस्य
सान्त्वनम् । निमेषादिपरार्द्धपर्य्यन्तकालमानोक्तिः । मन्वन्त-
रोक्तिः । प्रलयप्रकारः । सृष्टिप्रकारः । २५ अ० सृष्टेर्विवृतिः ।
ब्रह्माण्डादिसंस्थानम् । २६ अ० वराहकल्पे प्रतिसर्गः । २७ अ०
यज्ञवराहेण पृथ्वीधारणप्रकारः । २८ अ० जगतोनिः
सारत्वोक्त्या तत्त्वज्ञानेन मोक्षोपदेशः । २९ शिवगणाना
मुत्पत्त्यादि । ३० यज्ञवराहस्य धरारूपया वाराह्या
सह क्रीड़नेन तदनुरागात् तद्देहत्यागेऽनिच्छा । तद्देह-
त्यागार्थं देवैर्विष्णोः स्त्रवः । वराहदेहनाशार्थं शिवस्य
शरभमूर्त्तिधारणम् तेन तस्य युद्धे पृथिव्या नष्टप्रायताशङ्कया
रोहितमत्स्यरूपेण विष्णोराविर्भावः । तेन पृथिवीवेद-
मुन्यादीनां धारणम् । शिवेन नानाविधगणानां सृष्टिः ।
वराहमूर्त्तेः शरभेण सह युद्धे तस्यांशतोनरनारायणयोरुत्-
पत्तिः । शिवेन वराहस्य बधः । शिवगणानां स्वरूपगुणादि ।
३१ अ० मृतवराहदेहावयवेभ्यो ज्योतिष्टोमादियज्ञकल्प-
नम् । वराहपुत्रत्रयस्य त्रेताग्निरूपेणोत्पत्तिः । ३२ अ०
स्वायम्भुवमनुं प्रति कपिलशापः । मनोर्बिष्णूपासनम् ।
तत्समीपे विष्णोर्मत्स्यरूपेणागत्य वासस्थानप्रार्थनं,
क्षुद्रपात्रादिवृहत्सरोवरपर्य्यन्ते क्रमशो वर्द्धमानस्य
मत्स्यदेहस्याधारत्वाभावोक्तिः । ३३ अ० मनुनाऽद्भुतदर्शनेन
पृष्ठ २०१५
तं प्रति तस्य स्वरूपज्ञानाय प्रश्नेतस्मैतेन आत्मस्वरूपस्य
कथनम् । कपिलवाक्यानुसारेणाचिरेण भाविखण्डप्रलया
पद्वारणार्थं मत्स्येन वृहन्नौकानिर्म्माणस्य तत्रवीजसञ्च-
यस्थापनस्योपदेशः । स्वशृङ्गेण च तन्नौकायाः समाकर्षणं
कर्त्तव्यमित्युक्तिः । प्रलयान्ते जगतां शेषरूपेण धार्य्यतोक्तिः ।
३४ अ० कूर्म्मरूपेण वराहशरभयुद्धेन नष्टप्रायायाभूमेः
समीकरणम् । नरनारायणाभ्यां तपसा सूर्य्यादिस्थिति-
करणम् । पूर्व्वसञ्चितवीजैः मनुना पुनः शस्यप्रवर्द्धनम् ।
३५ अ० शिवस्य पूर्ब्बगृहीतशरभमूर्त्तित्यागकाले अष्टाभिः
पादैः सूर्य्याद्यष्टमूर्त्तिग्रहणम् तेन तस्याष्टमूर्त्तिनामता ।
शारभकायात् कपालिभैरवप्रादुर्भावः । तद्यजनप्रकारः ।
३६ अ० रजस्वलायाः पृथिवीरूपवराहपत्न्याः वराहेण
सङ्गमात् नरकासुरोत्पत्तिः । ३७ अ० जनकनृपात् सीता-
द्युत्पत्तिः । धरोपदेशेन जनकेन नरकस्य प्रतिपाल-
नादि । ३८ अ० तस्य प्राग्ज्योतिषदेशे राज्यकरणम्
तद्देशसीमादि । ३९ अ० द्वापरयुगे उत्पन्नवाणासुरसं-
सर्गात् नरकस्यात्याचारः । नीलकूटे स्थितदेवीदर्शनार्थ
मागतवसिष्ठदर्शननिवृत्तये नरकेण तद्देवीद्वाराच्छादाने कृते
तंप्रति “येन जनितस्त्वं मानुषरूपेण तेनैव तव बधो भविष्य-
तीति, वसिष्ठस्य शापदानम् । ४० अ० तस्य भगदत्तादिपुत्रो-
त्पत्तिः । वसिष्ठशापानुसारेण कृष्णेन द्वापरयुगे नरकस्य
बधः । ४१ अ० मेनकायाः मैनकादिपुत्रशतस्य कालीनामक
कन्यायाश्चोत्पत्तिः । नारदेन तस्याः शिवविवाहयोग्यत्वस्य
तद्देहाईहरत्वस्य च हिमाचलसमीपे कथनम् । ४२ अ०
शिप्रसरस्त्यागेन हिमवत्प्रस्थे शिवगतिः । शिवशुश्रूषार्थं
हिमाद्रिणा स्वसुताकालीनियोजनम् । देवानां तारकासुर-
पीडनकथा । तद्बधाय देवप्रार्थि तब्रह्मणा शिवस्य पार्व-
तीसङ्गप्ताच्च्युत तेजोजात् कुमारात् तस्य बधो भविष्यती-
त्युक्तौ तया सह शिवस्य मेलनार्थं शक्रेण कामस्य प्रेषणे
कृते तेन कालीसन्निधाने हरस्य मनसोविकारे जनिते
शिवेन ललाटनोत्रोत्थापितेन वह्निना तस्य दाहः तद्भस्म-
धारणञ्च । हरनेत्रोत्थिताग्नेः वाड़वाग्निरूपेण सिन्धुप्रवे-
शः । ४३ त० नारदोपदेशेन काल्याः शिवाराधनार्थं पित्रोः समीपे
बनगमनप्रार्थना । तस्याउमानामप्राप्तिकारणोक्तिः । तदांराधने-
न तुष्टस्य हरस्य ब्रह्मचारिवेशेन तदन्तिके आगतस्य तत्सखीं
प्रति कालीतपस्याप्रयोजनप्रश्नः । तच्छ्रुत्वा ब्रह्मचारिणा
हरस्य निन्दनेन अन्यपतिवरणीयतोपदेशः । तच्छ्रवणे तं
प्रति क्रोधात् काल्या शिवस्वरूपादेः कथनम् । शिवस्य
निन्दाश्रवणापराधमार्ज्जनाय काल्या तस्य स्तुतिः, अन्यत्र
गमनोद्योगश्च स्वरूपग्रहणेन शिवेन तस्याः निवारणम्
वरदानञ्च । ४४ अ० काल्या शिवं प्रति कन्यायाः पितृदेयत्वोक्त्या
पितृसमीपे प्रार्थनकर्त्तव्यतोक्तिः । काल्यास्तपःफललाभे स्व
गृहगतिः । शिवेन सारुन्धतीकसप्तर्षीणां तत्कृत्ये नियो-
जनम् तैर्हिमाचलं प्रति काल्याः शिवेन विवाहदानार्थ-
प्रार्थना तेन तथाङ्गीकारे शिवेन कालीविवाहः । भिन्ना-
ञ्जननिभायाः काल्याः गौराङ्गात्वप्राप्तिकथा । ४५ अ० अर्द्ध-
नारीश्वरमूर्त्तिप्रादुर्भावः तन्मूर्त्तिवर्ण्णनम् । अ० ४६ काली-
शिवयोर्महामैथुनानिवृत्तौ देवप्रार्थितेन हरेण अनले
तेजसौत्सर्गः । तदुत्सर्गकालेऽणुद्वयस्य हिमप्रस्थे पतनात्
ततोभृङ्गिमहाकालभैरवयोरुत्पत्तिः । देवैर्महामैथुन-
विघ्ने कृते कुपितया काल्या देवानां स्वस्वभार्य्यासु
अपत्याभावरूपशापदानम् । हरोपदेशेन कालीज्येष्ठाभगिन्यां
गङ्गायां वह्निना हरोत्सृष्टतेजोनिषेकः । गङ्गयास्कन्द-
विशाखयोर्द्वयोः पुत्रयोःप्रसवः ततस्तयोरेकत्वोक्तिः ।
जातमात्रस्य तस्य शरवणे तया त्यागः । कृत्तिकाभिः स्तनदानेन
तस्य पोषणम् । ततः काल्यै तत्पुत्रदानम् । मैथुनात् निवृ-
त्तया गलितवस्त्रया पूर्वं द्वारिनियुक्त योर्भृङ्गिमहाकालयोः
स्वपुत्रयोर्दर्शनेन लज्जितया काल्या तयोर्मर्त्यजन्मप्राप्तिरूपे
शापे दत्ते निरागोभ्यां ताभ्यामपि शिवाशिवयोर्मानुष्यप्राप्ति
शापस्य दानम् । पौष्यपुत्रत्वेन चन्द्रशेखरनाम्ना शिवजन्म ।
४८ अ० काल्याः ककुत्स्थभार्य्यायां जन्म तस्यास्ताराव-
तीति नाम । पौष्यतारावत्योर्विवाहः । ४९ अ० । तारा-
वत्यां कामुकस्य कापोतमुनेर्वञ्चनाथं चित्राङ्गदानाम
स्वभगिन्याः स्ववेशेन प्रेरणे तेन तस्यां सुतद्वयस्योत्पाद-
नम् चित्राङ्गदोत्पत्तिकथा ।
५० अ० पश्चात् तस्याः खवञ्चनं ज्ञात्वा क्रुद्धकापोतमु-
निनां कपालिना ते पुत्रौ जनयिष्येते इति तारावतीं
प्रति शापे दत्ते तदनुसारेण कपालिवेशधारिणा शिवेन
तारावतीदेहे कालीं प्रवेश्य तया सह सङ्गम्य वेताल-
भैरवयोरुत्पादनकथा । नारदात् श्रुतवृत्तान्तेन चन्द्रशे-
खरनृपेण तयोः ज्येष्ठस्य भैरवेति कनिष्ठस्य वेतालेति
नामकरणम् । तयोःपूर्व्वतः उपरिचरः दमनः अलर्क
इति त्रयः पुत्रास्तारावत्यां चन्द्रशेखरस्य बभूवुः । ५१ अ०
चन्द्रशेखरस्य औरसपुत्रेष्विव शिवपुत्रयोर्वेतालभैरवयोः
स्नेहा भावेन तयोर्निर्वेदः । कापोतमुनेरुपदेशात् तयोः
शिवाराधनाय प्रवृत्तयोस्तदाराधनस्थानप्रश्ने कापोतेन
पृष्ठ २०१६
तदुपासनास्थानकथनम् । तत्रादौ वाराणस्याः मुख्यत्वमुक्त्वा
अन्यानि कामरूपादीनि तीर्थानि तत्स्थानत्वेन कथितानि
शिवोपासनाप्रकारः तदुपदेशानुसारेण ताभ्यां स्वजनकस्य
शिवस्याराधनम् । ताभ्यां तथाचरणे शिवेन तद्देहेन
गाणपत्यपदलाभवरदानम् । ५२ अ० कालीपूजनायै शिवेन
तयोर्नियोगः । ५३, ५४, ५५, ५६, ५७, अ० कालीपूजा
तत्पूजास्थानविशेषोक्तिः । ५८ अ० कामाख्यादेः विशेषफलोक्तिः ।
५९ अ० तस्याअङ्गमन्त्रादि । महिषमर्द्दिनीध्यानपूजादि ।
तस्याः पूजाविधिः । महिषासुरबृत्तान्तकथनन्! ६० अ० देव्याः
समीपे हननकाले महिषासुरवरप्रार्थना । महिषस्य पूर्ब्ब-
सृष्टौ उग्रचण्डामूर्त्त्या, पश्चात् कालीमूर्त्त्या, एतत्कल्पे
दुर्गामूर्त्त्या च विनाशनोक्तिः । शिववरात् रम्भासुरात्
महिष्यां महिषासुरोत्पत्तिः । पित्राराधितशिववरेण तस्यै-
श्वर्य्यप्राप्तिः । ६१ अ० अष्टादशमुजीग्रचण्डायाः प्रादुर्भावः ।
तस्या एव उग्रतारारूपत्वम् । तस्याध्यानपूजापीठशक्त्यादि ।
कौशिकीप्रादुर्भावः तद्रूपमन्त्रादि । शिवदूतीप्रादुर्भावः
तद्रूपमन्त्रपूजादि । ६२ अ० कामाख्यानामनिरुक्तिः ।
मधुकैटभोत्पत्तितन्नामनिरुक्ती । विष्णुना तयोर्बधप्रकारः ।
तन्मेदसोलेपनेन पृथिव्यादृढ़ताकरणात्मेदिनीति नाम
प्राप्तिः । कामाख्यातीर्थोत्पत्तिः । नीलादिपर्वतोत्पत्तिः
शिलारूपेण ब्रह्मादीनां तत्र स्थितिः । तत्रत्यकालकुण्डा
दिनानातीर्थकथनम् । ६३ अ० कामाख्यामन्त्रपूजाविधिः ।
तत्र जयन्त्याद्येकादशमुर्त्तिपूजा--उग्रचण्डादिनवशक्तिपूजा-
विधा । त्रिपुराध्यानपूजाप्रकारः । ६४ अ० कामेश्वरीमू-
र्त्तिध्यानपूजाविधा । ६५ अ० शारदीयापूजाविशेषविधिः । ६६
अ० कामाख्याङ्गन्यासादिविधा । ६७ अ० वलिच्छदनप्रकारनि-
रूपणम् । देव्यै दत्तवलेस्तद्गणत्वप्राप्तिः । काणव्यङ्गादीनां
बलिदाने निषेधः । ६८ अ० षोडशोपचाराः । तत्रासनादिषु
वर्ज्ज्यावर्ज्ये गन्धपुष्पादौविशेषः । ७० अ० नेवद्यद्रव्यादि ।
७१ अ० प्रदक्षिणप्रणामप्रकारः । ७२ अ० कामाख्याकवचम् ।
७३ अ० मातृकान्यासबिधा । ७४ अ० अष्टधा योनिमुद्रास्वरूपा-
णि तद्दर्शनफलञ्च । मन्त्ररहस्यम् । तथ्यन्त्रधारणविधा ।
बालात्रिपुरासन्त्ररूपपूजाविधा । त्रिपुरभैरव्याः पूजादि ।
७५ अ० त्रिपुरभैरव्याः पुरश्चरणहोमादिविधा । ७६ अ०
मन्त्रशोधनप्रकारः । तत्र सिद्धसाध्यादिचक्रवर्ण्णचक्रादि-
कथनम् । एवं शिवोपदेशं प्राप्तयोवेतालभैरवयोर्वसिष्ठोप-
देशेन कामाख्यातीर्यगतिस्तत्र पुरश्चरणादिसमाप्तौ
देव्याः प्रसादे तयोर्मानुषत्वत्यागेन देवत्वप्राप्तिः! शिवा
शिवयोः सेवकत्वप्राप्तिश्च । ७७ अ० कामरूपस्थनन्दिकुण्डाद-
नानातीर्थमाहात्म्यम् । तत्रत्यजटोदकानदीनामनिरुक्तिः ।
नवतोयानदीनामनिरुक्तिः” अगदनदमाहात्म्यादि । जल्पी-
शनामनिरुक्तिमाहात्म्यादि । ७८ अ० तत्रत्यबहुरोकानदी
माहात्म्यादि । कृत्तिवासगिरिचन्द्रिकानदीफेनिला-
स्वमदनानदीमाहात्म्यादि । भद्रानदीसुभद्रानदीमानस
वैरटगिरिभैरवीनदी वर्ण्णलानदीमाहात्म्यादि । त्रिस्रोतः
कपोतकुण्डवारुणकुण्डतत्त्वाचलमाहात्म्यादि । सुरनदी-
क्षीरोदानीलानदीचण्डिकाचन्द्रिकानदीमाहात्म्यादि ।
अन्तरालककुण्डशृङ्गेशकुब्जपीठमणिकूटगिरिलौहित्यब्र-
ह्मपुत्रादिमाहात्म्यादि । भद्रकामाचलकालहर-
लिङ्गपुनर्भवकुण्डहयग्रीवशिलागोकर्ण्णशिवलिङ्गकेदारलि-
ङ्गकमललिङ्गमाहात्म्यादि । हयग्रीवमन्त्रादि । ७९ अ०
तत्रत्यदर्पणरोहणदर्पटनदाग्निमानगिरिवरुणकुण्डकंसक-
रवायुकूटाचलचन्द्रकूटाचलसोमकुण्डनन्दनाचलभस्मकूटा-
चलोर्वशीकुण्डसदामृतकुण्डमणिकूटमणिकर्ण्णलिङ्गसुमङ्ग-
लानदीमत्स्यध्वजकुलाचलस्थश्वेतानदीकामधरसरःसुका-
न्ताचलरक्षःकूटाचलपाण्डुनाधमैरवपाण्डुनाथाचलब्रह्म-
कुण्डनीलकूटाचलोग्रतारास्थानमाहात्म्यपूजादि । कर्प-
टाचलचित्राचलकज्जलाचलशक्राचलकपिलभङ्गिकानदी-
दमनानदीवृद्धाचलाकाशगङ्गास्थावरसरोदुर्जयाचलक्षोभ-
काचलकान्तानदीदिव्यकुण्डपुष्करिणीहेरुकलिङ्गसन्ध्याच-
लललितानदीमाहात्म्यादि ८० अ० दीपवतीनदी-
शृङ्गाटगिरिसिद्धत्रिस्रोतोनदीगृहवेदिकाभट्टारिकानदी-
नाटकाचलस्थसरःसरित्त्रयदिक्करिकानदीवृद्धगङ्गास्वर्ण्ण-
नदीश्रीनदीविश्वनाथलिङ्गविश्वदेवीमूर्त्तिमाहात्म्यादि ।
सोमाशनानदी सितगङ्गाललितकान्तलिङ्गतीक्ष्णकान्ता
ख्योग्रतारामूर्त्ति पूजामाहात्म्यादि । ललितकान्तलिङ्ग-
मङ्गलचण्डिकापूजाविधा तत्र स्थविष्णुमूर्त्तिभेद-
तत्पूजाप्रकारादि । ८१ अ० कामरूपस्थतत्तीर्थसे-
वनेन सर्वेषां निर्वाणादिप्राप्तौ यमेन स्वकार्य्याभावाकलने
ब्रह्मादिसमीपगमनेन तन्निवारणोपायचिन्तनम् । ब्रह्मप्रा-
र्थितेन शिवेन कामरूपस्थतीर्थेभ्यः सर्ब्बलोकोत्सारणार्थं
गणैः सह उग्रतारायानियोजनम् । उग्रतारया च तत्र-
स्थवसिष्ठस्योत्सारणे कृते वसिष्ठेन तां प्रति म्लेच्छाद्युपास्य-
तावाममार्गोपास्यतादिरूपशापदानम् । कानरूपस्य म्लेच्छा-
वृतत्वशापदानम् कामाख्यातारागमयोश्च विरलत्वादि-
शापदानम् । तेन शापेन उग्रतारा सहितागतागणाश्च
पृष्ठ २०१७
म्लेच्छतां प्राप्ता उग्रताराऽपि तदवधि वाममार्गरता
शिवस्य म्लेच्छरतिस्तदवधि जाता वमिष्ठशापाच्च तत्रत्यस-
र्व्वतीर्थगुप्तिः लौहित्यमात्रस्य तत्रमाहात्म्यस्थितिः ।
८२ अ० लौहित्योत्पत्तितन्माहात्म्यादि ।
जामदग्न्योपाख्यानम् । ८३ अ० तत्कृतमातृबधपापनिर्मो-
चनेन लौहित्यप्रशंसा । पूर्ब्बकल्पेऽन्जकवाणासुर-
योर्भृङ्गिमहाकालरूपगणत्वप्राप्तिकथा । ८४ अ०
राजनीतिकथनम् दुर्गादिकरणप्रकारः ८५ अ० ।
प्रजासु राजावृत्तिप्रकारः । नृपकर्त्तव्यदुर्गापूजाविशेष
कालाः । तत्पूजाप्रकारः नीरजनप्रकारः । ८६ अ० पुष्याभि-
षेकप्रकारः ८७ अ० शक्रध्वजोत्थानविधिः । ८८ दशहरा-
यां विष्णोरिष्टिप्रकारः । श्रीपञ्चम्यां लक्ष्मीपूजाविधिः
बृद्ध्यर्थकाचारविशेषाः । द्वादशविधपुत्रविधिः । दत्तकादीनां
ग्रहीत्रा संस्कारकरणे पुत्रत्वप्राप्तिः । पितृगोत्रेण संस्कारे
गृहीतुः पुत्रत्वाभावः । ग्रहीवृगोत्रेण चूड़ादिसंस्का-
राभावे दासत्वम्, पञ्चमवर्षादूर्द्ध्वग्रहणे न पुत्रत्वसिद्धिः ।
पञ्चमवर्षीयग्रहणे तत्र पुत्रेष्टिविधानम् । दासीपुत्रे
विशेषः । शूद्राणां पुराणादिवाचनेऽनधिकारः । वर्ज्य
पुरोहितलक्षणम् । विशिष्य नृपकर्त्तव्याचारभेदः ।
आयुष्कामस्य कर्त्तव्याचारः ८९ अ० । अपुत्रस्य गतिर्नास्तीति
नन्दिनौपदेशात् वेतालभैरवयोः पुत्रोत्पादनाभिलाषे जाते-
भैरवस्य उर्वश्याः सङ्गमे सुरेशनामपुत्रोत्पत्तिः । तपसा तस्य-
विद्याधराध्यक्षताप्राप्तिः । तस्य धृतराष्ट्रकन्यायां देवसेनना-
मपुत्रोत्पत्तिः । ततः देवसेनादिवंशवर्ण्णनम् । तद्वंश्यविजयेन
खाण्डवनस्य निर्म्माणम् । अर्ज्जुनेन वह्निप्रीत्यर्थं तस्य
दाहनम् । ९० अ० वेतालस्य कामधेनौ वृषभरूपपुत्रोत्-
पादनम् । तस्व भृङ्गनाम्ना भृङ्गित्वेन शिववाह-
नताप्राप्तिः । तस्य वंशवर्ण्णनम् । वेतालबंशोद्भवा
एव सर्वे गावैत्युक्तिः ततौपसंहारः” । इत्येते प्रधान
भूताः पदार्थास्तत्रत्याः प्रसङ्गागताश्चान्येऽपि पदार्था
अभिघेयाः सन्ति विस्तरभयान्नोक्ताः
अत्रेटंचिन्त्यते ८९, ९० अ० वेतालभैरवयोर्विभिन्नवं शकथते
स्थिते दतकचन्द्रिकादौ भैरवपुत्रस्यैव वेतालेन द्व्यामु-
ष्मायणपुत्रकरणप्रतिपादकवाक्यानि यान्युद्धृतानि तानि
निर्मूलानीत्यवगम्यते । पितुर्गोत्रेणेत्यादिवचनानां तत्र
या निर्भूलत्वाशङ्का कृता सापि कालिकापुराणाद-
र्शनमूलिकैव ८९ अ० तद्वचनानां प्रत्यक्षत
उपलभ्यमानत्वात् इति । कालीपुराणमप्यत्र न० ।

कालिकाव्रत न० कालिकायाः प्रीत्यर्थं व्रतम् । पुराणोक्ते

व्रतभेदे
“शच्युवाच । “विधानं चास्य मे ब्रूहि कालिकाया
व्रतस्य च । ममोपदिश्यतामेव तद्व्रतञ्च करोम्यहम् ।
तस्यास्तद्बचनं श्रुत्वा प्रत्युवाचाथ सा तदा । शुद्धकाले
समारभ्य कृष्णपक्षे चतुर्द्दशीम् । संकल्प्य विधिना पूर्व्व
ममावास्यां व्रतं चरेत् । समारभ्य गुणैकेन द्विगुणं
परिशोधयेत् । न रात्रौ भोजनं कार्य्यं वामहस्ते भुजि-
क्रिया । सिद्धमन्नं रात्रिकाले दग्धमीनञ्च सर्व्वदा ।
वर्ज्जयेत् पिष्टकं किञ्चित् रक्तशाकञ्च चाम्लकम् ।
द्विषट्कां विप्रजायाञ्च सधवां भोजयेत्ततः । एवं क्रमेण
कृत्वा तु कतिकालं नयेद्व्रतम् । ततः शुद्धदिने प्राप्ते
भौमाहे मन्दवासरे । यथाशक्त्युपचारैश्च पूजां कुर्य्या-
द्विधानतः । तथापराह्णकाले तु सन्ध्योपसमये तथा ।
रात्रौ तु कदलीकाण्डे गृहं निर्माय प्राङ्गणे । तस्य
मध्ये समारोप्य कालिकां पूजयेत् सदा । पाद्यार्घाचम-
नीयैश्च गन्धपुष्पादिभिस्तथा । धूपौर्दव्यप्रदीपैश्च नैवेद्यै
र्विविधैस्तथा । पिष्टकं चैव सिन्धान्नं व्यञ्जनं दग्धमीनकम् ।
निवेद्य सकलं देव्यै बलिं दत्त्वा प्रणम्य च । तदन्नं व्यञ्जनं
सर्व्वं नैवेद्यादि बलिं तथा । महारण्ये प्रदातव्यं
कृत्वैतत् व्रतमुत्तमम् । वैणवे कदलीमूले या कुर्य्यात्
कालिकाव्रतम् । कार्य्यसिद्धिर्भवेत् तस्या भविता गति
रुत्तमा”!

कालिकाश्रम न० ६ त० । मारतप्रसिद्धे विपाशानदी-

तीरस्थे तीर्थभेदे “कालिकाश्रममासाद्य विपाशायां
कृतोदयः । ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते
भवात्” भा० आनु० २५ अ० ।

कालिङ्ग न० केन जर्लनालिङ्ग्यते आ + लिगि--कर्म्मणि घञ्

३ त० । (तरमुज) मध्यस्थजलके फलमेदे । “कालिन्दं
कृष्णवीजं स्यात् कालिङ्गं च सुवर्त्तुलम् । कालिङ्गं
ग्राहि दृक्पित्तशुक्रहृच्छीतलं गुरु । पक्वं तु सोष्णं
सक्षारं पित्तलं कफवातजित्” भावप्र० तत्पर्थ्यायस्वरूप
गुणादिकमुक्तम् । “कलिङ्गे भवः अण् । २ कलिङ्गदेशोद्भवे
त्रि० स्त्रियां ङीप् । तद्देशानां राजा अण् । ३ कलिङ्ग-
देशनृपे । “प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः” रघुः
“वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः ।
पाकलोमागधिकः कालिङ्गश्च क्षयं यान्ति” वृहत्सं० ।
“निर्वृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा” हरि०
पृष्ठ २०१८
१११७ अ० । बहुषु तु अणोलुक् । कलिङ्गा इत्येव तद्राजेषु
तद्वासिषु च भूम्नि । क्वचिन्न लुक् । “कारस्करान्
माहिषकान् कालिङ्गान् केरलांस्तथा” भा० क० ४४ अ० ।
“कोशलाःकाशपौण्ड्राश्च कालिङ्गा मगधास्तथा” ४५ अ० ।
“कलिङ्गदेशमारभ्य पञ्चाष्टयोजनं शिवे! । दक्षिणस्यां
महेशानि! । कालिङ्गः परिकीर्त्तितः” इति ३ उक्तदेशभेदे
एतत्परतयैव प्रागुक्तभारतवाक्ये लुगभावो न कल्पनीयः ।
कं जलमालिङ्गति आ + लिगि--अण् उप० स० ।
४ हस्तिनि ५ सर्पे च पुंस्त्री स्त्रियां जातित्वात् ङीष् ।
६ भूमिकर्कारौ पु० मेदि० । “कालिङ्गोलिङ्गवान्यः स्याद्-
धनः सूक्ष्माङ्गकोमतः” इति सुखबोधोक्ते ७ लौहमेदे
पु० । ८ राजकर्कट्यां स्त्री गौरा० ङीष मेदि० । स्वार्थे क
अत इत्त्वम् । कालिङ्गिका त्रिवृति (तेओडी) राजनि० ।

कालिदास पु० ६ त० संज्ञायां ह्रस्वः । रघुवंशादिकाव्यकारके

महाकविभेदे तद्वृत्तान्तकालादिकमुच्यते “इतः
पूर्बं संवत्सरनामकशाकाब्दप्रवर्त्तको भारतवर्षे
मालवदेशे उज्जयिनीनामराजधान्यामसीमगुणधाम
विक्रमादित्यनामा नृपतिरासीत् । तस्य धन्वन्तरिप्रभृतयो
नव कविवराः सभासदो बभूवुः । तेषु कालिदास एव
प्रथितयशा महाकविरासीत् । तेन च रघुवंश--कुमार-
सम्भव--मेवदूतामिधं काव्यत्रयं, स्मृतिचन्द्रिकाभिध उत्क-
लदेशप्रचलितो वेदोक्तकर्म्मप्रतिपादकप्रबन्धो ज्योतिर्विदा-
भरणनामकं कालज्ञानशास्त्रं च क्रमेण निरमायि ।
अनन्तरञ्च मालविकाग्निमित्र--विक्रमोर्वशी--शाकुन्तलाभि-
धानि दृश्यकाव्याति प्रणीतानि । एतच्च तत्कृतज्योतिर्वि-
दाभरणग्रन्थे शेषाध्याये स्पष्टमुपलभ्यते
यथा“मत्तोऽधुना कृतिरियं सति मालवेन्द्रे श्रीविक्रमार्कनृ-
पराजवरे समासीत्” इति । “धन्वन्तरिः क्षपणकोऽम-
रसिंहशङ्कुर्वेतालभट्टघटस्व[क]र्परकालिदासाः । ख्यातो
वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव
विक्रमस्य” । “यद्राजधान्युज्जयिनी महापुरी सदा
महाकालमहेशयोगिनी” ।
“शङ्क्वादिपण्डितवराः कवयस्त्वनेके ज्योतिर्विदः समभवंश्च
वराहपूर्वाः । श्रीविक्रमस्य बुधसंसदि प्राज्यबुद्धेस्तै-
रप्यहं नयमखः किल कालिदासः” । “काव्यत्रयं सुमति-
कृद् रघुवंशपूर्वं जातं यतो ननु कियच्छ्रुतिकर्म्मवादः ।
ज्योतिर्विदाभरणकालविधानशास्त्रं श्रीकालिदासकवितो
हि ततो बभूव” इति “वर्षे सिन्धुरदर्शनाम्बरगुणैर्याते कलेः
संमिते मासे माधवसंज्ञितेऽत्र विहितो ग्रन्थक्रियोपक्रमः ।”
इति च अनेन ३०६८ अष्टषष्ट्युत्तरत्रिसहस्रसंख्यके कलेर-
ब्दवृन्दे याते तद्ग्रन्थकरणं सुव्यक्तम् । इदानीञ्च
कलेर्गताब्दाः ४९७५ तेषुनिर्दिष्ट ३०६८ संख्ययोनितेषु १९०७
वर्षाः समायान्ति । तेन इतः १९०७ वर्षगणात् पूर्वं
कालिदासकवितो ज्योतिर्विदाभरणं जातं ततः पूर्बं रघु
वंशादिकमभूदिति प्रतिभाति । एतत् सन्दर्भैर्यद्यपि
दृश्यकाव्यत्रयकरणं न प्रतीयते तथापि दृश्यकाव्यानां
प्रागुक्तानां ज्योतिर्विदाभरणग्रन्वात् पश्चात् काले कालि-
दासकृतत्वेन न तेषां तत्र समुल्लेखः किन्तु तत्तद्ग्रन्थेष्वेव
तत्कृतत्वं सुव्यक्तमेव । ऋतुसंहारनलोदययोर्यदि
तत्कालिदासकृतत्वं तदा ततः पराचीनतया न तत्रोल्लेखः ।
कालिदासश्च कतममन्वयं कतमञ्चजनपदमलञ्चकार तन्ना-
कलयामः । किन्तु तस्य चरितविषयेऽस्मद्देशे भूयिष्ठप्रचा-
रमेवमैतिह्यमस्ति । तदत्र सर्वत्र विज्ञापनाय प्रदर्श्यते ।
काचित् बिद्वत्तमा कन्या विवाहार्थं पित्रानीतान् बहून्
पात्रभूतान् द्विजान् वादविचारेण पराजिग्ये । एवम्
आगत्यागत्य तेस्याः सकाशात् विचारे पराजयमाप्त्वा
प्रतिनिवृत्तेषु वरेषु तदुत्तरं पराजयभयेनेतरे वरा यदा
नैवागन्तुमैच्छन् तदा तत्पित्रा विचाराभावेनैव आगतमा-
त्राय पात्राय कन्या देयेति प्रतिज्ञाते पूर्वपूर्बवरानयने
निष्फलप्रयत्नतया बहुधा खिन्ना जातेर्ष्या दूताः पुनर्वरा-
नयनार्थं तत्पित्रा नोदिताः स्वावलम्बितशाखाच्छेदितया
कालिदासमल्पबुद्धिमवेत्य तत्कन्याया वरत्वेनावधार्य्या
निन्युः । आनीताय च तस्मै अविचार्य्य तद्दोषगुणौ
तत्पिता तां कन्यां प्रायच्छत् । एवं तस्य विवाहे संवृत्ते
दम्पत्योः परस्परालापकाले कालिदासेनापभ्रंशशब्दमात्रा-
भिज्ञेनापभ्रंशशब्दः प्रायोजि । तत् श्रुत्वा च तद्भार्य्या
तमत्यन्तं तिरस्कृत्य गृहात् निष्कासयामास । एवं पत्न्या
निष्कासितः कालिदासोऽतीव निर्वेदमापद्यारण्यं गत्वा
सरस्वतीमाराध्य तत्प्रसादात् लब्धविद्यः गृहं प्रति
निववृते । आगत्य च रात्रौ गृहद्वारं रुद्धं विलोक्य
तेन स्वपत्नीं प्रति (अनावृतकपाटं द्वारं देहि)
इत्यभिहितम् तत् श्रुत्वा च स्वरविशेषेण तंस्वपतिमवगत्य
कालिदासपत्न्याऽनुयुक्तम् (अस्ति कश्चित् वाग्विशेषः) इति
इत्येवं पत्न्या कृते वाग्विशेषास्तित्वप्रश्ने तद्वाक्यं पदत्र-
यघटितमिति कृत्वा तत्रस्थमेकैकं पदमधिकृत्य तेन एकैकं
काव्यं विरचितम् । तत्र तद्वाक्यस्थम् अस्तीति प्रथमं
पृष्ठ २०१९
पदमधिकृत्य “अस्त्युत्तरस्याम्” इत्यादि सप्तदशसर्गात्मकं
कुमारसम्भवाख्यं महाकाव्यम्, कश्चिदिति द्वितीयं
पदमधिकृत्य “कश्चित् कान्ताविरहगुरुणा” इत्यादिकं मेघदूता-
ख्यं खण्डकाव्यम्, “वाग्विशेषः” इति तृतीये पदे तदेकदेशं
वागिति पदमधिकृत्य “वागर्थाविव संपृक्तौ” इत्या-
दिकमूनविंशतिसर्गात्मकं रघुवंशाख्यं महाकाव्यञ्च तेन
क्रमशो रचितम् । तद्रचनया च कालिदासः सर्वत्र
प्रथितसुकवितया प्रख्यातिमुपलभ्य क्रमेण विक्रमादित्यस्य
सभासदताम् आससादेति ।
मालविकाग्निमित्रस्य तत्कृतत्वविषये केचित् सन्दिहाना
एवमाहुः । कालिदासाह्वयास्त्रयः कवय आसन् तत्र एको
विक्रमादित्यसभ्यः, अपरो भोजदेवसभ्यः अपरो भामिनी-
विलासकर्त्ता जगन्नाथमिश्रः अभिनवकालिदासाख्यः ।
तेषां मध्येप्राचीनकालिदासस्य नैषा कृतिः शाकुन्तलस्येव
तत्र वाग्वैदर्भीविरहादित्यन्यस्येवैषा कृतिरिति ।
तत्र मालविकाग्निमित्रस्य प्राचीनकालिदासकृतित्वाभावे
तदीयसन्दर्भस्य भोजदेवपिवृव्यसभासदध्वनिकेन दशरूपके
कथन्तरां मालवाग्निमित्रनामत्वेन समुद्वारः सङ्गच्छते ।
भोजदेवात्तस्य प्राचीनत्वे एव तदुद्धारः सङ्गच्छते नान्यथा
भोजदेवेन च सरस्वतीकण्ठाभरणे ग्रन्थनामादत्त्वैव
मालवाग्निमित्रनाटकपद्यस्य समुद्धाराच्च तद्ग्रन्थस्य ततः
प्राचीनकालिदासकृतित्वम् नान्यकृतितेति निश्चेतव्यम् । किञ्च
श्रीहर्षदेवनृपतेः सभ्यस्य रत्नाबल्यादिकारकस्य धावक-
स्यैव ततः प्राचीननाटककर्त्तृत्वेन तद्ग्रन्थोपोद्घाते तस्य
नामोल्लेखात् प्राचीनस्यैव कालिदासस्य तत्कर्त्तृत्वं सुव्य-
क्तम् । भोजदेवसभ्यकालिदासस्य तत्कर्त्तृत्वे ततः प्राचीना-
भिज्ञानशकुन्तलादिकर्त्तृनामकीर्त्तनस्यैवीचितत्वेन
किमिति तदुपेक्ष्यातिविप्रकृष्टधावकादिनामोत्कीर्त्तनम्?
सन्निकृष्टं परित्यज्य विप्रकृष्टग्रहणस्यान्याय्यत्वात् । प्राची-
नकालिदासस्य मालविकाग्निग्रन्थकर्त्रपेक्षया प्राचीनत्वेन
प्रथितयशस्कत्वेन च तन्नामोल्लेखस्यैवोचितत्वात् ।
भोजदेवसभ्यकालिदासश्च भोजदेवकालिकः तदेतत्
भोजप्रबन्धे वर्ण्णितं यथा “भवन्नाम्ना कान्य-
क्षराणि सौभाग्यावलम्बितानि कस्य वा देशस्य भवद्विरहः
सुजनान् बाधत इति । ततः कविर्लिखति राज्ञीहस्ते
कालिदास इति राजा वाचयित्वा पादयोः पतति ततस्त-
त्रासीनयोः कालिदासभोजराजयोरासीत् सन्ध्या” ।
“यस्याश्चोरश्चिकुरनिकरः कालिदासोविलासः” प्रशन्नरा० ।
“उपमा कालिदासस्य भारवेरर्थगौरवम् । नैषधे
पदलालित्यं माघे सन्ति त्रयोगुणाः” । “कालिदासकविता
नवं वयः” इति च उद्भटः । स्वार्थे क तत्रैव ।

कालिन् पु० कालः कालरूपः खड्गोऽस्त्यस्य इनि । १ परानन्द

मतसिद्धे परमेश्वरे “कालिन्! कलिमलध्वंसिन्! ध्वं-
सयाशु मदापदः” इति तन्मते ईश्वरप्रार्थनम् । कालयति
कल--नोदने णिनि । २ प्रेरके त्रि० स्त्रियां ङीप् ।

कालिनी स्त्री कालः शिवः अधिष्ठातृत्वेनास्त्यस्याः कालः

पुरुषाकारः गगनस्थः लुब्धकः अस्त्यस्याः सन्निकृष्टत्वेन
वा, इनि ङीप् । आर्द्रानक्षत्रे हेमच० तस्याः तद्दैवतत्वं
च अश्लेषाशब्दे ४९८ पृ० दर्शितम् इल्वलरूपस्य
मृगशिरो मूर्द्धदेशस्थितनक्षत्रस्यासन्नत्वात्तस्यास्तथात्वम्

कालिन्द न० कालिं जलराशिं ददाति दा--क पृषो० मुम्

(तरमुज)ख्याते जलप्रधानफलके वृक्षे भावप्र० कालिङ्गशब्दे
विवृतिः । स्वार्थे क । कालिन्दक तत्रार्थे न० राजनि० ।
कलिन्दे भवः अण् । कलिन्दपर्व्वतभवे त्रि० स्त्रियां ङीप्

कालिन्दी स्त्री कलिन्दे पर्व्वते तत्सन्निकृष्टदेशे वा भवः अण्

ङीप् । यमुनानद्याम् अमरः । “कलिन्दगिरिनन्दिनो
तटसुरद्रुमालम्बिनी” रसरङ्गाधरे तस्याः कलिन्दपर्व्वत
सुतत्वोक्तेस्तथात्वम् । “कालिन्दीजलजनितश्रियं श्रयन्ते”
मावः । २ रक्तत्रिवृति (लालतेओडी) वृक्षे राजनि० ।

कालिन्दीकर्षण न० कालिन्दीं यमुनां कर्षति कृष--ल्यु ६ त० ।

बलदेवे तत्कर्षणकथा च हरि०११२ अ० यथा
“स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः । शैशिरीषु
त्रियामासु यथा स्वेदालयः शशी । रामस्तु यमुनामाह
स्नातुमिच्छे महानदि! । एहि मामभिगच्छ त्वं रूपिणी
सागराङ्गने । सङ्कर्पणस्य मत्प्रोक्तां भारतीं परिभूय सा ।
नाभ्यवर्त्तत तं देशं स्त्रीस्वभावेन मोहिता । ततश्चुक्रोध
हलभृद्रामो मदसमीरितः । चकार स हलं हस्ते कर्ष-
णाधोमुखं बली । तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।
मुमुचुः पुष्पकोषैश्च पुष्परेण्वरुणं जलम् । स हलेना-
नताग्रेण कूले गृह्य महानदीम् । चकर्ष यमुनां रामो
व्युत्थितां वनितामिव । सा विह्वलजलस्रोता ह्रदप्रस्थि-
तसञ्चया । व्यावर्त्तत नदी भीता हलमार्गोनुसारिणी ।
लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिणी । सङ्कर्षण-
भयत्रस्ता योषेवाकुलताङ्गता । पुलिनश्रोणिविम्बोष्ठी
मृदितैस्तोयताडितैः । फेनमेखलसूत्रैश्च च्छिन्नैस्तीरा-
न्तगामिनी । तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।
पृष्ठ २०२०
वेगगन्भीरवक्राङ्गी त्रस्तमीनविभूषणा । सितहंसेक्षणा-
पाङ्गी काशक्षौमोञ्झिताम्बरा । तीरजोद्धृतकेशाता
जलस्खलितगामिनी । लाङ्गलोल्लिखितापाङ्गी क्षुभिता
सागराङ्गना । मत्तेव कुटिलापाङ्गी राजमार्गेण गच्छ-
ति । कृष्यते सा स्म वेगेन स्रोतस्खलितगामिनी ।
उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम् । वृन्दावनस्य
मध्येन सा नीता यमुना नदी । रोरूयमाणेव
खरैरन्विता तोयवासिभिः । सा यदा समनुक्रान्ता नदी
वृन्दावनं वनम् । तदा स्त्रीरूपिणी भूत्वा यमुना रामम-
ब्रवीत् । प्रसीद नाथ! भीताऽस्मि प्रतिलोमेन कर्म्मणा ।
विपरीतमिदं रूपं तोयञ्च मम जायते । असत्यहं
नदीमध्ये रौहिणेय! त्वया कृता । कर्षणेन महाबाहो!
स्वमार्गव्यभिचारिणी । प्राप्तां मां सागरे नूनं सपत्न्यो
वेगगर्व्विताः । फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामि-
नीम् । प्रसादं कुरु मे वीर! याचे त्वां कृष्णपूर्बज! ।
सुप्रसन्नमना नित्यं भवस्व त्वं सुरोत्तम! । कर्षणायुध-
कृष्टाऽस्मि रोषोऽयं विनिवर्त्त्यताम् । गच्छामि चरणौ
मूर्द्ध्ना तवाहं लाङ्गलायुध! । मार्गमादिष्टमिच्छामि क्व
गच्छामि महाभुज!” । “प्रणामावनतां दृष्ट्वा यमुनां
लाङ्गलायुधः । प्रत्युवाचार्णवबधूं मदक्लान्तमिदं वचः ।
लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने! । देशमम्बुप्र-
दानेन प्लावयस्वास्विलं शुभे! । एष ते सुभ्रु! सन्देशः कथितः
सागराङ्गने! । शान्तिं व्रज महाभाये! गम्यताञ्च
यथासुखम् । लोका हि यावत् स्थास्यन्ति तावत् तिष्ठतु मे
यशः । यमुनाकर्षणं दृष्ट्वा सर्व्वे ते व्रजवासिनः” ।
कालिर्न्दी भिनत्ति भिद--ल्यु ६ त० । कालिन्दीभेदनो-
ऽप्यत्र अमरः ।

कालिन्दीसू स्त्री कालिन्दीं यमुनां सूते सू--क्विप् ६ त० । सूर्य्यपत्न्यां संज्ञायाम् ।

कालिन्दीसोदर ६ त० । यमे हेमच० तत्कथा

अरुणात्मजशब्दे ३५९ पृ० दृश्या

कालिमन् पु० कालस्य भावः इमनिच् । कृष्णवर्ण्णे “स्वान-

मानमतिकालिमालया” माघः ।

कालिम्मन्या स्त्री आत्मानं कालीं मन्यते मन्--खश्--मुम्

ह्रस्वः । आत्मानं कृष्णतया मन्यमानायाम् स्त्रियाम् ।

कालिय पु० के जले आलीयते आ + ली--मूलविभुजा० क ।

नागभेदे कालियदमनशब्दे विवृतिः । “त्रस्तेन तार्क्ष्यात्
किल कालियेन मणिं विसृष्टं यमुनौकसा यः” रघुः ।
“तोलासि कालियकुला यमस्येव स्वसा स्वयम्” माघः
“कालियं तक्षकञ्चैव पिङ्गलं मणिभद्रकम्” ति० त० गरु०
पु० । गरुड़भिया यमुनाह्रदजले निलीनत्वात्तस्य तथात्वम् ।

कालियदमन पु० कालियं दमयति दम--णिच्--ल्यु ।

वासुदेवे कृष्णे तत्कथा भाग० १०, १६ अ० यथा
“कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना ।
श्रप्यमाणपया, यस्मिन् पतन्त्युपरिगाः खगाः । विप्रुष्म
ता विषोदोर्म्मिमारुतेनाभिमर्शिताः । म्रियन्ते तीरगा यस्य
प्राणिनः स्थिरजङ्गमाः । तं चण्डवेगविषवीर्य्यमवेक्ष्य-
तेन कृष्णां नदीञ्च खलसंयमनावतारः । कृष्णः कदम्ब-
मधिरुह्य ततोऽतितुङ्गादास्फोट्य गाढवसनोऽभ्यपतद्वि-
षोदे । सर्पह्रदः पुरुषसारनिपातवेगसंक्षोभितोरग
विषोच्छसिताम्बुराशिः । पर्य्यक् प्लुतोविषकषायित
भीषणोर्म्मिर्द्धीमन्! धनुःशतमनन्तबलस्य किन्तत् । तस्मिन्
ह्रदे विहरतो भुजदण्डघूर्ण्णवार्घोषमङ्ग! वरवारणबि-
क्रमस्य । आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवा
समसरत्तदमृष्यमाणः । तं प्रेक्षणीयसुकुमारघनावदातं
श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं
कमलोदराङ्घ्रिं संदश्य मर्म्मसु रुषा भुजगश्चखाद । तं
नागभोगपरिपीतमदृष्टचेष्टमालोक्य तत्प्रियसखाः पशुपा
भृशार्त्ताः । कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखा-
नुशोकभयमूढधियोनिपेतुः । गावोवृषा वत्सतर्य्यः क्रन्द-
मानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीतारुदन्त्य
इव तस्थिरे” इत्थं गोपादीनामाकुलतामुपवर्ण्ण्य
“इत्थं स्वगोकुलमनन्थगतिं निरीक्ष्य सस्त्रीकुमार
मतिदुःस्वितमात्महेतोः । आज्ञाय मर्त्यपदवीमनुवर्त्त-
मानः स्थित्वा मुहूर्त्तमुंदतिष्ठदुरङ्गबन्धात् । तं
प्रथ्यमानवपुषा व्यथितात्मभोगस्त्यक्त्वोन्नमय्य कुपितः
स्वफणान् भुजङ्गः । तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष
स्तब्धेक्षणोन्मुखमुखोहरिमीक्षमाणः । तं जिह्वया द्विशि-
खया परिलेलिहानं द्वे सृक्कणी अतिविषालकरा-
लदृष्टिम् । क्रीड़न्नमुं परिसक्षार यथा खगेन्द्रोबभ्राम
सोऽप्यवसरम्प्रसमीक्षमाणः । एवं परिभ्रमहतौजससुन्नतां-
समानम्य तत्पृथुशिरःस्वधिरूढ़ आद्यः । तन्मूर्द्धरत्न-
निकरस्फुरणातिताम्रपादाम्बुजोऽखिलकलादिगुरुर्न्ननर्त्त ।
तन्नर्त्तुमुद्यतमवेक्ष्य तदा तदीयगन्घर्व्वसिद्धमुनिचारण
देवबध्वः । प्रीत्या मृदङ्गपणवानकवाद्यगीतपुष्पोप-
हारनुतिभिः सहसोपसेदुः । यद्यच्छिरो न नमतेऽङ्ग-
शतैकशीर्ष्णस्तत्तन्ममर्द्द खलदण्डधरोऽङ्घ्रिपातैः ।
पृष्ठ २०२१
क्षीणायुषोभ्रमत उल्वणमास्यतोऽसृङ्गस्तोवमन् परमक-
श्मलमाप नागः । तस्याक्षिभिर्गरलमुद्वमतः शिरःसु
यद्यत् समुन्नमति निश्वसतो रुषोच्चैः । नुत्यन् पदा तु
नमयन् दमयाम्बभूव पुष्पैः प्रपूजित इवेह पुमान् पुराणः”
कालिमथनादयोऽप्यत्र भावे ल्युट् ६ त० । कालियस्य २ मर्द्दने न०

कालियह्नद पु० ६ त० । कालियनागाधिष्ठिते वृन्दावनस्थ

यमुनान्तर्गते ह्रदभेदे कालियदमनशब्दे विवृतिः ।
तस्य कालियस्य तप्रदाश्रयणकथाभाग० १०, १७ अ० यथा
“नागालयं रमणकं कथं तत्याज कालियः । कृतं वा किं
सुपर्णस्य तेनैकेनासमञ्जसम् । वादरायणिरुवा च ।
उपहार्य्यः सर्पजनैर्म्मासिमासीह योबलिः । वानस्पत्यो
महावाहो । नागानां प्राङ्निरूपितः । स्वं स्वं भागं प्रय-
च्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्व्वे
सुपर्ण्णाय महात्मने । विषवीर्य्यमदाविष्टः काद्रवेयस्तु
कालियः । कदर्थीकृत्य गरुड़ं स्वयं तं बुभुजे बलिम् । तत्
श्रुत्वा कुपितोराजन्! भगवान् भगवत्प्रियः । विजिघांसु-
र्म्महावेगः कालियं समुपाद्रवत् । तमापतन्तं तरसा विषा-
युधः प्रत्यभ्ययादुत्थितनैकमस्तकः! दद्भिः सुपर्णं व्यदशद्द-
शायुधः करालजिह्वोच्छ्वसितोग्रलोचनः । तं तार्क्षपुत्रः स
निरस्य मन्युमान् प्रचण्डवेगोमधुसूदनासनम् । पक्षेण
सव्येन हिरण्यरोचिषा जघान कद्राः सुतमुग्रविक्रमः ।
सुपर्णपक्षाभिहतः कालियोऽतीवविह्वलः । ह्रदं विवेश
कालिन्द्यास्तदगम्यं दुरासदम् । तत्रैकदा जलचरं गरुडोभ-
क्ष्यमीप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितोऽ-
हरत् । मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ-
हृते । कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ।
अत्र प्रविश्य गरुड़ो यदि मत्स्यान् स खादति । सद्यः
प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम् । तत् कालियः
परं वेद नान्यः कश्चन लेलिहः । अवात्सीद्गरुड़ाद्भीतः
कृष्णेन च विवासितः” ।

काली स्त्री कालस्य शिवस्य पत्नी ङीष् । १ शिवपत्न्याम् ।

“ऊर्द्ध्वरेता भवःकांलः इति” भाग० ३, ९, २ शिवस्य
कालनामतोक्तेस्तस्यास्तथात्वम् । कालवर्ण्णा स्त्री “काला-
त्वर्ण्णश्चेत्” वार्त्ति० ङीष् । २ कृष्णवर्ण्णायां स्त्रियाम् “का काली
कामधुरा “विदग्धमु० ३ हिमाचलदुहितरि उमायां तस्याश्च
जन्मतः नीलाञ्जननिभवर्ण्णतया तथात्वम् । “सुतामनुज-
गामाशु गतां कालीं हराश्रमम्” । “तां तत्र कालीं
तनयाम् भयशोकाकुलामुमाम्” कालि० पु० ४० अ० ।
“कालि! भिन्नाञ्जनश्यामे! उर्वश्याद्यप्सरोगणैः” ।
“गौरत्वासादनञ्चैव कालिकायास्तथा श्रुतम्” इति च
तत्र तस्यागौरत्वप्राप्तिकथनम् । ४ दुर्गामूर्त्तिभेदे “काली
करालवदना विनिष्क्रान्तासिपाशिनी । विचित्र
खट्वाङ्गधरा नरमालाविभूषणा । द्वीपिचर्म्मपरीधाना
शुष्कमांसातिभैरबा” इत्यादि देवीमा० तदाविर्भावौक्तः ।
सा च बहुविधा सिद्धकाली महाकाली गुह्यकाली
दक्षिणाकाली भद्रकाली श्मशानकाली रक्षाकाली
तिभेदात् तथा अन्येऽपि तद्भेदा भैरवत० दर्शिता यथा
“काली कपालिनी कुल्वा कुरुकुल्वा विरोधिनी ।
विप्रचित्ता तथोग्रोग्रप्रभा नीलघनत्विषः । नीला घना
बलाका च मात्रा मुद्रा मिता तथा । एताः सर्व्वा
असिधरा मुण्डमालाविभूषिताः” । “कालि! कालि
महाकालि! शीधुमांसपशुप्रिये” भा० वि० ४, अ० । ५
मातृभेदे “काली कपालाभरणा चकाशे” कुमा० ६
भीमसेनस्य पत्नीभेदे । “युधिष्ठिरात्तुपौरव्यां देवको-
ऽथ घटोत्कचः । भीमसेनाद्धिडिम्बायां काल्या
सर्व्वगतस्ततः भाग० ९, २२, २४ । भा० आ०९५ अ० तु
“भीमसेनोऽपि काश्यां बलन्धरां नामोपयेमे वीर्य्यशुल्कां,
तस्यां पुत्रं सर्व्वगमुत्पादयामास” इत्युक्तं तदैकवाक्यात्
काश्यामित्येव पाठः समुचितः गन्धकालीत्यस्य पूर्व्व-
पदलोपः । काली ७ दासकन्यायां गन्धकाल्यां सत्यवत्याम्
शान्तनुपत्न्याम् । “भीष्मः खलु पितुः प्रियचिकीर्षया सत्य-
बतीं मातरमुदवाहयत् गन्धकालीमितियामाहुः” भा० आ०
९५ अ० । चु० कल--नोदने अच् गौरा० ङीष् । ८ तुवर्य्याम् ९ त्रिवृति
१० रात्रौ ११ कालाञ्जन्याम् राजनि० १२ तयोः कृष्णत्वात्तथा-
त्वम् अग्निशिखाभेदे जटाधरः । अग्निजिह्वशब्दे दर्शित-
शारदातिलकवाक्ये एतस्याः तच्छिखासु नान्तर्भाव इति
चिन्त्यम् । १३ वृश्चिकालौ (विचाति) रत्नमाला । १४
कालरात्रौ यमभगिन्याम् तन्त्रोक्तासु दशमहाविद्यासु आद्यायां
१५ महाविद्यायाम् ताश्च “काली तारा महाविद्या
षोड़शी भुवनेश्वरी, भैरवी छिन्नमस्ता च विद्या घूमावती
तथा । वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता
दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः” तन्त्रसा०
“कालीपूजा श्रुता नाथ! भावाश्च विविधाः प्रभो!”
भैरवत० “तारायाश्चैव काल्याश्च त्रिपुराया विशेषतः ।
जनने मरणे चैव न त्यजेयुर्जपार्चने” तन्त्र०

कालीक पुंस्त्री० के जलेऽलीकैव मत्स्यघाताय निश्चेष्ट-

त्वात् । क्रौञ्चे वके शब्दरत्ना० स्त्रियां ङीष् ।
पृष्ठ २०२२

कालीची स्त्री काल्या यमभगिन्या चीयते ऽत्र--ची--बा०

आधारे ड गौरा० ङीष् । यमविचारभूमौ त्रिका० ।

कालीतनय पुंस्त्री० कालीमितः प्राप्तोनयः प्रापणं यस्य ।

महिषे हेमच० स्त्रियां ङीष् । महिषस्य काल्यै
बलिदानार्थं नीयमानत्वात्तथात्वम् ।

कालीय न० कालस्थाने भवम् “वृद्धाच्छः” पा० छ । कृष्णचन्दने शब्दच० ।

कालीयक न० कालीयमिव कायति--कै--क । कालानुसार्य्ये

सुगन्धिकाष्ठे (कलम्बक) अमरः ।

कालेय पु० कालयापत्यम् ढक् । १ दैत्यभेदे, कालकेये, कलायै

१७८९ पृ० दर्शितरक्तधारिण्यै हितं ढक् । २ यकृति
कं सुखमालेयमादेयं यस्मात् । ३ कालचन्दने न० “आश्या-
नकालेयकृताङ्गरागाम्” कुमा० । कलिना दृष्टं मास
ढक् । ४ कलिदृष्टे सामभेदे तच्च माध्यन्दिनसवने सप्तमं
सूक्तमधिकृत्य गेयम् । तत्प्रकार ऊहगाने दृश्यः

कालेयक पुंस्त्री० कलये विरोधाय साधु फलि + ढक् संज्ञायां

क । १ कुक्कुरे तस्यान्योन्यविरोधित्वात् तथात्वम् स्त्रियां
ङीष् । कालेय + स्वार्थे संज्ञायां वा क । २ कालीयचन्दने
“मधुकरकुलकलङ्ककालीकृतकालेयककुसुमकुट्मलेषु” काद० ।
३ हरिद्रायां पु० ४ दारुहरिद्रायां न० राजनि० । तत्रार्थे
पु० शब्दर० ।

कालेश पु० ६ त० । १ सूर्त्ये तस्य स्वगत्या कालपवर्त्तकत्वात्

तथात्वम् । २ शिवे च । ३ मकारवर्ण्णे । “विष्णुरोश-
स्ततोहान्तः कालेशः पृथिवी ततः” श्रीविद्यामन्त्रोद्धारे
“कालेशोमकारः” तन्त्रसा० । कालेश्वरादयोऽप्यत्र ।

कालोदक न० भारतप्रसिद्वे तीर्थभेदे । “कालोदकं नन्दि-

कुण्डं तथा चोत्तरमानसम्” भा० आनु० ३८ अ० ।

काल्प पु० कल्पे विधौ भवः अण् । (काँचाहलुद्) कर्चुरे

शब्दर० । स्वार्थे क । तत्रार्थे अमरः ।

काल्पनिक नि० कल्पनायाः आगतः ठञ् । कल्पनाभवे १ कल्पिते,

२ आरोपिते, च । स्त्रियां ङीप् । “इति व्युत्पत्ति-
स्तु काल्पनिकी” ति० त० ।

काल्पसूत्र त्रि० कल्पसूत्रं वेत्त्यधीते वा सूत्रान्तत्वात् ठकि

प्राप्ते “अकल्पादेः” इत्युक्तेः अण् । १ कल्पसूत्राभिज्ञे
२ तदध्येतरि च स्त्रियां ङीप् ।

काल्पिक त्रि० कल्पग्रन्थे उक्तः ठञ् । वेदाङ्गकल्पग्रन्थोक्ते विधानादौ ।

काल्य न० कल्यमेव स्वार्थे अण् । १ प्रत्यूषे हेमच० । कालः-

पाप्तोऽस्य यत् । २ प्राप्तकाले शीतादौ त्रि० । काले भवः
दिगा० यत् । ३ कालभवे त्रि० तदन्तसमासे अकर्म्मधारये
उत्तरपदस्य आद्युदात्तता । ततोनडा० पाठान्तरे गोत्रे
फक् । काल्यायन काल्यगोत्रापत्ये पु० स्त्री ।

काल्यक न० काले साधु यत् स्वार्थे क । कर्चुरे (काँचाहलुद्) शब्दर० ।

काल्या स्त्री कालः गर्भग्रहणकालः प्राप्तोऽस्याः यत् । प्राप्त-

गर्भग्रहणयोग्यकालायाम् ऋतुमत्याम् अमरः “उपसर्य्या
काल्याप्रजने” पा०

काल्याणक न० कल्याणस्य भावः मनोज्ञा० वुञ् । कल्याणभावे ।

काव न० कविर्देवताऽस्य अण् । कविदेवताके सामभेदे । तच्च

तृतीयसवने गेयार्भवपवमानान्तर्गतम् । “आभीप्रिया-
णीति” सूक्ते गेयम् । तत्प्रकारश्च ऊहगाने दर्शितः ।

कावचिक न० कवचिनां समूहः “ठञ् कवचिनश्च” पा० ठञ्

“इनोलोपः । वर्म्मधारिणां समूहे ।

कावट पु० कर्वट + पृषो० । कर्वटे हला० ।

कावषेय पु० यजुर्वेदवंशान्तर्गते तुराख्ये ऋषिभेदे । “काव-

षेयात्तु कावषेयः” शत० १०, ६, ५, ९, तुरोह कावषेयः
कारोत्यां देवेभ्योऽग्निं चिकीर्ष” तत्रैव ९, ५, २, १५,

कावाद पु० कुत्सितईषद्वा वादः कोः का । वाक्कलहे

शब्दचि० ।

कावार न० कं जलमावृणोति आ + वृ--अण् उप० स० । शैवाले तृणादिच्छत्रे त्रिका० ।

कावी स्त्री कवेरियं ष्यञ् ततः शार्ङ्गर० स्त्रियां ङीन्

यलोपः । कविसम्बन्धिन्याम् स्त्रियाम् ।

कावृक पुंस्त्री कुत्सितः ईषद्वा वृक इव । १ कुकुटे २ चक्र-

वाके ३ पीतवर्ण्णमस्तकपक्षिभेदे च मेदि० तेषां वृकतुल्येषच्चि
ह्नयुक्तत्वात् तथात्वम् । स्त्रियां जातित्वात् ङीष् ।

कावेर न० कस्य सूर्य्यस्येव ईषत्वेरमङ्गमस्य । १ कुङ्कुमे

जटा० । तस्य शिखाभिः सूर्य्यतुल्यरक्तत्वात् तथात्वम् ।

कावेरी स्त्री कस्य जलस्य वेरं शरीरं तस्येदमित्यण् ङीप् ।

१ सरिद्भेदे । कुत्सितमपवित्रं वेरं यस्याः स्वाङ्गत्वात्
ङीष् । २ वेश्यायाम् ५ ब० । ३ हरिद्रायाम् । “दृषद्वती
च कावेरी वङ्कुर्मन्दाकिनी तथा” भा० आनु०१६५ अ० ।
“भारतीगुप्ततोया च कावेरी मुर्म्मुरा तथा”
भा० व०२२१ । “चन्द्रवशा ताम्रपर्ण्णी अवटोदा कृतमाला-
वोहा मसी कावेरी वेन्नेत्यादि भाग० ५, १९, १८,
भारतवर्षनदीकथने । सा च सह्याद्रेः मलयाद्रेश्च
सानुसन्निकृष्टस्था तदेतत् रघौ वर्ण्णितम् यथा
“गृहीतप्रतिमुक्तस्य स धर्म्मविजयी नृपः । श्रियं महेन्द्र
नाथस्य जहार नतु मेदिनीम् । ततो वेलातटेनैव फल-
पृष्ठ २०२३
वत्पूगमालिना । अगस्त्याचरितामाशाम् अनाशास्य-
जयो ययौ । स सैत्यपरिभोगेण गजदानसुगन्धिना ।
कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ।
बलैरध्युप्रितास्तस्य विजिगीषोर्गताध्वनः । मारीचोद्भ्रा-
न्तहारीताः मलयाद्रेरुपत्यकाः” । “कावेरीतीर-
भूमीरुहभुजगबधूभुक्तमुक्तावशिष्टः” मलयजवातवर्णने
“ततो गच्छेत कावेरीं वृतामप्सरसा गणैः । तत्र स्नात्वा
नरो राजन्! गोसहस्रफलं लभेत्” भा० व० ८५ ।
गङ्गे! च यमुने! चैव गोदावरि! सरस्वति! नर्म्मदे!
सिन्धु! कावेरि! जलेऽस्मिन् सन्निधिं कुरु, तीर्थवाहन मन्त्र

काव्य पु० कवेः भृगुपुत्रस्यापत्यम् यञ् । शुक्रे अमरः “भृगोः

पुत्रः कविर्विद्वान् शुक्रः कविसुतग्रहः” भा० आ० ६० ।
“जिगीषया ततोदेवावव्रिरेऽङ्गिरसं मुनिम् । पौरोहित्येन
याज्यार्थे काव्यं तूशनसं परे” भा० आ०७५ अ० ।
कवेरिदम् यञ् । २ कविसम्बन्धिनि । कव--वर्ण्णने स्तुतौ च
कर्म्मणि ण्यत् । ३ वर्ण्णनीये ४ स्तुत्ये च त्रि० स्त्रियां
टाप् “दुर्य्योधनस्य रूपेण शृणु काव्यां गिरं मम” भा० स०
६० अ० । “भाष्याणि तर्कयुक्तानि देहवन्ति विशांपते! ।
नाटका विविधाः काव्याः कथाख्यायिककारिकाः”
भा० स० ११ अ० । शार्ङ्गरवादौ तु काव्यशब्दस्य यञ
न्तस्यैव ग्रहणात् ततः स्त्रियां ङीन् । कवेः कर्म्म ष्यञ् ।
कविकृतगद्यपद्यात्मके ५ वाक्यविशेषे न । काव्यप्र० तत्
करणप्रयोजनमुक्तं यथा--
“काव्यं यशसेऽर्थकृते व्यवहारविदे शिबेतरक्षतये ।
सद्यःपरनिर्वृतये कान्तासम्मिततयोपदेशयुजे” मू०
“कालिदासादीनामिव यशः, श्रीहर्षादेर्धावकादीनामिव
धनं, राजादिगतोचिताचारपरिज्ञानम्, आदित्यादेर्म्मयू-
रादीनामिवानर्थनिवारणं, सकलप्रयोजनमौलिभूतं
समगन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमा-
नन्दं, प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मि-
तार्थतात्पर्य्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोर्गुण-
भावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत्काव्यं
लोकोत्तरवर्णनानिपुणकविकर्म्म, तत् कान्तेव सरसतापा-
दनेनाभिमुखीकृत्य रामादिवत् वर्त्तितव्यं न रावणादिव-
दित्युपदेशञ्च, यथायोगं कवेः सहृदयस्य च करोतीति
सर्व्वथा तत्र यतनीयम् । अस्य कारणमाह” वृत्तिः
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्य-
ज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे” मू०
“शक्तिः कवित्ववीजरूपः संस्कारविशेषः, यां विना काव्य
न प्रसरेत् प्रसृतं वा उपहसनीयं स्यात्, लोकस्य
स्थावरजङ्गमात्मकलोकवृत्तस्य, शास्त्राणां छन्दोव्याकर-
णाभिधानकोषकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्र-
न्थानां, काव्यानाञ्च महाकविसम्बन्धिनाम्, आदिग्रह-
णादितिहासादीनाञ्च विमर्शनाद्व्युत्पत्तिः, काव्यं कर्त्तुं
विचारयितुञ्च ये जानन्ति तदुपदेशेन करणे योजने च
पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः न तु व्यस्ता-
स्तस्य काव्यस्योद्भवे निर्म्माणे समुल्लासे च हेतुर्नतु
हेतवः” वृत्तिः
सा० द० अन्यप्रकारं काव्यस्य प्रयोजनं मुक्तं यथा
“चतुर्ब्बर्गफलप्राप्तिः सुखादल्पधियामपि । काव्यादेव
यतस्तेन तत्स्वरूपं निरूप्यते” सू० ।
“चतुर्ब्बर्गफलप्राप्तिर्हि काव्यतो रामादिवत् प्रवर्त्तितव्यं
न रावणादिवदित्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण
सुप्रतीतैव । उक्तञ्च “धर्म्मार्थकाममोक्षेषु वैचक्षण्यं
कलासु च । करोति कीर्त्तिं प्रीतिञ्च साधुकाव्यनिषेवण-
मिति” । किञ्च काव्याद्धर्म्मप्राप्तिर्भगवन्नारायणचरणा-
रविन्दस्तवादिना “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे
लोके च कामधुग्भवति” इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।
अर्थप्राप्तिश्च प्रत्यक्षसिद्धा । कामप्राप्तिश्चार्थद्वारैव । मोक्ष-
प्राप्तिश्चैतज्जन्यधर्म्मफलाननुसन्धानात् मोक्षोपयोगि-
वाक्ये व्युत्पत्त्याधायकत्वाच्च । चतुर्वर्गप्राप्तिर्हि वेदशा-
स्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।
परमानन्दसन्दोहजनकतया सुखादेव सुकुमारबुद्धीनानपि
पुनः काव्यादेव । ननु तर्हि परिणतबुद्धिभिः सत्सु
वेदशास्त्रेषु काव्येषु किमिति यत्नः करणीय इत्यपि न
वक्तव्यम् कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोप-
शमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधी-
यसी न स्यात् । किञ्च । काव्यस्योपादेयत्वमाग्नेयपुराणे-
ऽप्युक्तम् । “नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्ल्लभा ।
कवित्वं दुर्ल्लभं तत्र शक्तिस्तत्र सुदुर्ल्लभेति” “त्रिवर्गसाधनं
नाट्यमिति” च । विष्णुपुराणे “काव्यालापाश्च ये
केचिद्गीतकान्यखिलानि च । शब्दमूर्त्तिधरस्यैते
विष्णोरंशा महात्मनः” इति वृत्तिः । तस्य लक्षणं तत्रैव
“वाक्यं रसात्मकं काव्यं दोषास्तस्यापकर्षकाः । उत्कर्ष-
हेतवः प्रोक्ता गुणालङ्कार रीतयः” सू० ।
अन्थेतु गुणालङ्काररीतियुक्तं दोषरहितं वाक्यं का-
पृष्ठ २०२४
व्यमिति वदन्ति । आनन्दविशेषजनकवाक्यं काव्यमिति
रसगङ्गाधरः ।
तद्भेदाः प्रथमं त्रिविधाः उत्तममध्यमाधमभेदात् ।
यथाह काव्यप्र०
“इदमुत्तममतिशयिनि व्यङ्गे वाच्याद्ध्वनिर्बुधैः कथितः ।
अतादृशि गुणीभूतव्यङ्ग्ये काव्यं तु मध्यमम् ।
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यन्त्ववरं स्मृतम्” ।
रसगङ्गाधरे तु अर्थचित्रापेक्षया शब्दचित्रस्याल्पचम-
त्कारकारित्वात्तस्याधमाधमत्वोक्त्या काव्यभेदचातुर्बि-
ध्यमुक्तम् । मा० द० मते अव्यङ्ग्यस्य काव्यत्वा-
भावात् ध्वनिगुणीभूतव्यङ्ग्यभेदेन द्वैविध्यमिति भेदः ।
तद्भेदाः सोदाहरणं दर्शिता तत्र यथा ।
“काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यञ्चेति द्विधा मतम्” । मू०
तत्र । “वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम्” मू०
“वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्निति
व्युत्पत्त्या ध्वतिर्नामोत्तमं काव्यम्” वृत्तिः
“भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।
“अविवक्षितबाच्योऽन्योविवक्षितान्यपरवाच्यश्च” । मू०
“तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः । लक्षणा-
मूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् । विवक्षि-
तान्यपरवाच्यस्त्वभिधामूलः । अत एवात्र वाच्यं
विवक्षितम् अन्यपरं व्यङ्ग्यनिष्ठम् अत्र हि वाच्योऽर्थः
स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः । यथा
प्रदीपो घटस्य । अभिधामूलस्य बहुविषयतया पश्चा-
न्निर्द्देशः । अविवक्षितवाच्यस्य भेदावाह” वृत्तिः
“अर्थान्तरं सङ्क्रमिते वाच्येऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्योऽपि ध्वनिर्द्वैविध्यमृच्छति” मू० ।
“अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्य-
न्ततिरस्कृतवाच्यश्चेति द्विविधः । यत्र स्वयमनुपयुज्यमानो
मुख्योऽर्थः स्वविशेषरूपेऽर्थान्तरे परिणमति तत्र मुख्यार्थस्य
स्वविशेषरूपार्थान्तरसङ्क्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम्
यथा । “कदली कदली करभः करभः करिराजकरः
करिराजकरः । भुवनत्रितयेऽपि विभर्त्ति तुलामिदमूरुयुगं न
चमूरुदृशः” । अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया
सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादि
गुणविशिष्टस्वार्थपरा” जाड्याद्यतिशयश्च व्यङ्ग्यः ।
यत्र पुनः स्वार्थं सर्व्वथा परित्यजन्नर्थान्तरे परिणमति
तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।
यथा “निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते” ।
अत्रान्धशब्दो मुख्यार्थे बाधितोऽप्रकाशरूपमर्थं बोधयति
अप्रकाशातिशयश्च व्यङ्ग्यः । अन्धत्वाप्रकाशत्वयोः
सामान्यविशेषभावाभावान्नार्थान्तरसङ्क्रमितवाच्यत्वम् ।
यथा “भम धम्मिअ! वीसत्थो सो सुणहो अज्ज
मारिओ देन । गोलाणईकच्छकुडङ्गवासिना दरीअसी-
हेन” । अत्र भ्रम धार्म्मिकेत्यतो भ्रमणस्य विधिः
प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्य्यवस्यतीति
विपरीतलक्षणाशङ्का न कार्य्या । यत्र खलु विधिनिषे-
धावुत्पद्यमानावेव निषेधबिध्योः पर्य्यवस्यतस्तत्रैव
तदवसरः । यत्र पुनः प्रकरणादिपर्य्यालोचनेन विधिनिषे-
धयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव । तदुक्तम्
“क्वचिद्बाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम् ।
पूर्व्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु” । अत्राद्ये
मुख्यार्थस्यार्थान्तरे सङ्क्रमणं (प्रवेशः) न तु तिरोभावः
अत एवात्राजहत्स्वार्थलक्षणा । द्वितीये तु स्वार्थ-
स्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था” वृत्तिः ॥
“विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं ततः । असंलक्ष्यक्रमो
यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा” मू०
“विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः
संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः” वृत्तिः ।
“तत्राद्यो रसभावादिरेक एवात्र गण्यते । एकोऽपि
भेदोऽनन्तत्वात् सङ्खेयस्तस्य नैव यत्” मू०
“उक्तस्वरूपो रसभावादिरसंलक्ष्यक्रमव्यङ्ग्यः । अत्र
व्यङ्ग्यप्रतीतेर्व्विभावादिप्रतीतिकारणकत्वात् क्रमोऽवश्यमस्ति
किन्तु उत्पलपत्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते । एषु
रसादिषु च एकस्यापि भेदस्यानन्तत्वात् सङ्ख्यातुम-
शक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवो-
क्तम् । तथाहि एकस्यैव शृङ्गारस्य एकोऽपि
सम्भोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदा-
त् प्रत्येकञ्च विभावादिवैचित्र्यात् सङ्ख्यातुमशक्यः
का गणनात्र सर्व्वेषाम्” वृत्तिः ॥
“शब्दार्थोभयशक्त्युत्थे व्यङ्ग्येऽनुस्वानसन्निभे । ध्वनिर्ल-
क्ष्यक्रमंव्यङ्ग्यस्त्रिविधः कथितो बुधैः” मू०
“क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दश-
क्त्युद्भवत्वेन अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन
च त्रैविध्यात् संलक्ष्यक्रमव्यङ्ग्यनाम्नो ध्वनेः काब्य-
स्यापि त्रैविध्यम्” वृत्तिः । तत्र
पृष्ठ २०२५


“वस्त्वलङ्काररूपत्वाच्छब्दशक्त्यद्भवो द्विधा” मू० ।
“अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारो” वस्तुमात्रं
गृह्यते । तत्र वस्तुरूपशब्दशक्त्युद्भवो व्यङ्ग्यो यथा ।
“पन्थिअ! ण एत्थ सत्तरमत्थिमणं पत्थरत्थले गामे । उण्ण-
अपओहरं पेक्खिअ उण जै वससि ता वससु” ।
अत्र स्रस्तरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति
वस्तु व्यज्यते । अलङ्काररूपो तथा “दुर्गालङ्घि-
तविग्रहोमनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो
गृहीतगरिमा विष्वग्वृतोभोगिभिः । नक्षत्रेशकृतेक्षणो
गिरि गुरौ गाढां रुचिं धारयन् गामाक्रस्य विभूति-
भूषिततनू राजत्युमावल्लभः” अत्र प्राकरणिकस्य उमा
नाममहादीवीवल्लभभानुदेवनृपतेर्वर्ण्णने द्वितीयार्थसूचि-
तमप्राकरणिकस्य पार्व्वतीवल्लभस्य वर्ण्णनमसम्बद्धं मा
प्रसाङ्क्षीदितीश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते ।
तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।
यथा वा “अमितः समितः प्राप्तैरुत्कर्षैर्हर्षदः प्रभो! ।
अहितः सहितः साधुर्यशोभिरसतामसि” । अत्रामित
इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः व्यङ्ग्यस्या-
लङ्कार्य्यत्वेऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपच-
र्य्यते” वृत्तिः ।
“वस्तु वालङ्कृतिर्व्वापि द्विधार्थः सम्भवी स्वतः । कवेः
प्रौढोक्तिसिद्धो वा तन्निबद्धस्य चेति षट् ॥ षड्भिस्तै-
र्व्यज्यमानस्तु वस्त्वलङ्काररूपकः । अर्थशक्त्युद्भवो
व्यङ्ग्यो याति द्वादशभेदताम्” मू० ॥
“स्वतः सम्भवी औचित्याद्बहिरपि सम्भाव्यमानः ।
प्रौढोक्त्या सिद्धो न त्वौचित्येन । तत्र क्रमेण यथा ।
“दृष्टिं हे प्रतिवेशिनि! क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः” । अनेन
स्वतःसम्भविना वस्तुमात्रेण एतत्प्रतिपादिकाया
भाविपरपुरुषोपभोगजनखक्षतादिगोपनरूपं वस्तुमात्रं
व्यज्यते । “दिशि मन्दायते तेजो दक्षिणस्थां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे” । अनेन
स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिक
इति व्यतिरेकालङ्कारो व्यज्यते । “आपतन्तममुं
दुरादूरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव
केसरी” । अत्रोपमालङ्काररूपेण स्वतःसम्भविना
व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्य-
तीति बस्तु व्यज्यते । “गाढकान्तदशनक्षतव्यथासङ्क-
टादरिबधूजनस्य यः, । ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्
युधि रुषा निजाधरम्” । अत्र स्वतः सम्भविना
विरोधालङ्कारेणाधरो निर्द्दष्टः शत्रवो व्यापादिताश्चेति
समुच्चयालङ्कारो व्यङ्ग्यः । “सज्जेइ सुरहिमासो ण
आपणेइ जुवैजणलक्खसहे । अहिणअसहआरमुहे
णअअल्लबपत्तणे अणङ्गस्म सरे” । अत्र वसन्तः शरकारः
कामो धन्वी युवतयो लक्ष्यं पुष्पाणि शरा इति कविप्रौ-
ढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजृम्भणरूप वस्तु
व्यनक्ति ।
“रजनीषु विमलभानोः करजालेन प्रकाशितं वीर! ।
घवलयति भुवनमण्डलमखिलं तव कीर्त्तिसन्ततिः सततम्” ।
अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीर्त्तिसन्ततेश्चन्द्रकरजा
लादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्ग्यः
“दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन
पर्य्यस्ताः पृथिव्यामश्रुविन्दवः” । अत्र कविप्रौढोक्तिसि-
द्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु
व्यज्यते । “धम्मिल्लेनवमल्लिकासमुदयो, हस्ते सिता-
म्भोरुहं, हारः कण्ठतटे, पयोधरयुगे श्रीखण्डलेपो घनः ।
एकोऽपि त्रिकलिङ्गभूमितिलक! त्वत्कीर्त्तिराशिर्ययौ
नानामण्डनतां पुरन्दरपुरीवामभ्रुवां विग्रहे” । अत्र
कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्ग-
स्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते
“शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसाव
करोत्तपः । सुमुखि! येन तवाधरपाटलं दशति विम्बफलं
शुकशावकः” । अत्रानेन कविनिबद्धस्य कस्यचित् कामिनः
प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति
वस्तु प्रतीयते । “सुभगे कोटिसङ्ख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्” । अत्र
कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसङ्ख्य-
त्वप्राप्त्या निखिलवियोगिमरणेन वस्तुना शराणां
पञ्चता शरान् विमुच्य वियोगिनः श्रितेत्युत्प्रेक्षालङ्कारो
व्यज्यते “मल्लिकामुकुले चण्डि! भाति गुञ्जन्मधुव्रतः ।
प्रयाणे पञ्चवाणस्य शङ्खमापूरयन्निव” । अत्र कविनि-
बद्धवक्तृप्रौढोक्तिसिद्धेन उत्प्रेक्षालङ्कारेण कामस्यायमु-
न्मादकः कालः प्राप्तस्त्रत्कथं “मानिनि! मानं न मुञ्च-
सीतिवस्तु व्यज्यते । “महिलासहस्सभरिए तुह हिअर-
पृष्ठ २०२६
सुहअ! सा अमाअन्ती । अणुदिणमणणम्मा अङ्गं तणुअं
पि तणु एइ” । (अत्रामायन्तीति) कविनिबद्धवक्तृ पोढो-
क्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणेऽपि तव
हृदये न वर्त्तत इति विशेषोक्त्यलङ्कारोव्यज्यते । न खलु
कतेः कविनिबद्धस्येव रागाद्याविष्टता । अतः कविनिब-
द्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयचमत्कारिणी-
ति पृथक्प्रतिपादिता । एषु च अलङ्कृतिव्यञ्जनस्थलेषु
रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृद-
यसंवेद्यं न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम्” । वृत्तिः
“एकः शब्दार्थशक्त्युत्थे” मू० उभयशक्त्युद्भवे व्यङ्ग्ये
एकोध्वनेर्भेदः । यथा “हिममुक्तचन्द्ररुचिरः सपद्मको
मदयन् द्विजान् जनितमीनकेतनः” । अभवत् प्रसादित-
सुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः” ॥
अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो
व्यङ्ग्यः । एवञ्च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां
भेदः” । वृत्तिः “तदष्टादशधा ध्वनिः” मू० ।
अविवक्षितवाच्योऽर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवा-
श्चेति त्रिविधः । विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्य-
ङ्ग्यत्वेनैकः । संलक्ष्यक्रमव्यङ्ग्यवाच्यत्वेन च शब्दार्थाभ-
यशक्तिमूलतया पञ्चदशेति अष्टादशभेदो ध्वनिः” वृत्तिः
एषु च ।
“वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः” मू० ।
“तत्र अर्थान्तरसङ्क्रमितवाच्यो ध्वनिः पदगतो यथा ।
धन्थः स एव तरुणो नयने तस्यैव नयने च । युवजन-
मोहनविद्या भवितेयं यस्य सम्मुखे सुमुखी” । अत्र द्वि-
तीयनयनशब्दो भाग्यवत्तादिगुणविशिष्टनयनपरः । वाक्य-
गतो यथा । “त्वामस्मि वच्मि विदुषां समुदायोऽत्र
तिष्ठति । आत्मीयां मतिमादाय स्थितिमत्र विधेहि तत्”
अत्र प्रतिपाद्यस्य सम्मुखीनत्वादेव लब्धे प्रतिपाद्यत्वे ‘त्वा-
मिति’ पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं लक्षयति ।
एवं वच्मीत्यनेनैव कर्त्तरि लब्धे ‘अस्मीति’ पुनर्व्वचन-
मन्यव्यावृत्तिविशिष्टं मदर्थं लक्षयति । तथा ‘विदुषां
समुदाय’ इत्यादिवचनेनैव वक्तुः प्रतिपादने सिद्धे पुनः
‘वच्मीति’ वचनं ‘उपदिशामि’ इति वचनविशेषरू-
पमर्थं लक्षयति । एतानि च लक्षितानि स्वातिशयं
व्यञ्जयन्ति । एतेन मम वचनं तवात्यन्तं हितं तदवश्यमे-
तत् कर्तव्यमित्यभिप्रायः । तदेवमयं वाक्यगतोऽर्थान्तरस-
ङ्कमितवाच्यो ध्वनिः । अत्यन्ततिरस्कृतवाच्यः पदगतो यथा
‘निश्वासान्ध इवेत्यादि’ । वाक्यगतो यथा । “उपकृतं बहु
तत्र’ किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे! सुखितसास्स्व ततः शरदां
शतम्” अन्येषां वाक्यगतत्वे उदाहृतम् । पदगतत्वे
यथा । “लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान्” अत्र
लावण्यादीनां तादृगनुभवैकगोचरताव्यञ्जकानां तदादिशब्दा-
नामेवप्राधान्यम् । अन्येषान्तु तदुपकारित्वमेवेति तन्मूल
एव ध्बनिव्यपदेशः । तदुक्तं ध्वनिकृता “एकावयवसं-
स्थेन भूषणेनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिना
भाति भारती” । एवं भावादिष्वप्यूह्यम् । “भुक्तिमुक्तिकृ-
देकान्तसमादेशनतत्परः । कस्य नानन्दनिष्यन्दं विदधाति
सदागमः” । अत्र सदागमशब्दः सन्निहितमुपनायकं प्रति
सच्छास्त्रार्थमभिधाय ‘सतः पुरुषस्यागमः’ इति वस्तु
व्यनक्ति । ननु ‘सदागमः सदागम इवेति’ न कथमुष-
माध्वनिः, सदागमशब्दार्थयोरुपमानोपमेयभावाविवक्ष-
णाद्रहस्यसंगोपनार्थमेव हि द्व्यर्थपदप्रतिपादनं प्रकरणा-
दिपर्य्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् ।
“अनन्यसाधारणधीर्धृतास्विलवसुन्धरः । राजते कोऽपि
जगति स राजा पुरुषोत्तमः” । अत्र पुरुषश्रेष्ठः पुरु-
षोत्तम इवेत्युपमाध्वनिः । अनयोः शब्दशक्तिमूलौ
संलक्ष्यक्रमभेदौ । “सायं स्नानमुपासितं मलयजेनाङ्गं
समालेपितं यातोऽस्ताचलमौलिमम्बरमणिर्विश्रब्धमत्रा-
गतिः । आश्चर्य्यं तव सौकुमार्य्यमभितः क्लान्ताऽसि
येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति तेनासितुम्” ।
अत्र स्वतःसम्भविना वस्तुना कृतपरपुरुषपरिचया स्ना-
ताऽसीति वस्तु व्यज्यते । तच्चाधुना क्लान्ताऽसि न तु
पूर्वं कदाचिदपि तवैवंबिधः क्लमो दृष्ट इति बोधयतोऽ-
धुनापदस्यैवेतरपदार्थोत्कर्षादधुनापदस्यैव पदान्तरापे-
क्षया वैशिष्ट्यम् । “तदप्राप्तिमहादुःखविलीनाशेषपा-
तका । तच्चिन्ताविपुलाह्णादक्षीणपुण्यचया तथा । चिन्त-
यन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम् । निरुच्छारुतया
मुक्तिं गताऽन्या गोपकन्यका” । अत्राशेषचयपदप्रभावा-
दनेकजन्मसहस्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यव-
सिततया भगवद्विरहदुःखचिन्ताह्णादयोः प्रत्यायनमित्य-
तिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या । अत्र च व्यञ्ज-
कस्य प्रौढ़ौक्तिमन्तरेणापि सम्भवात स्वतःसम्भविता ।
“पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् । देव! त्रि-
पृष्ठ २०२७
पथगात्मानं गोपयत्युग्रमूर्द्धनि” । अत्र ‘पश्यन्तीति’
कविप्रौढ़ोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्ये
दातारस्तव सदृशा इति व्यतिरेकालङ्कारोऽसंख्यपदद्योत्यः ।
एवमन्येष्वत्यर्थशक्तिमूलसंलक्ष्यक्रमभेदेषूदाहार्य्यम् । तदेवं
ध्वनेः पूर्ब्बोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो
व्यङ्ग्यो वाक्यमात्रे भवन्नेकः । अन्ये पुनः सप्तदश वाक्ये
पदे चेति चतुस्तिंशदिति पञ्चत्रिंशद्भेदाः” वृत्तिः ।
“प्रबन्धेऽपि मतो धीरैरर्थशक्त्युद्भवो ध्वनिः” मू० ।
“प्रबन्धो महावाक्यम् । अनन्तरोक्तद्वादशभेदोऽर्थश-
क्त्युत्थः । यथा महाभारते गृध्रगोमायुसंवादे “अलं
स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसङ्कुले । कङ्कालबहुले
घोरे सर्वप्राणिभयङ्करे । न चेह जीवितः कश्चित्
कालधर्म्ममुपागतः । प्रियो या यदि वा द्वेष्यः प्राणिनां
गतिरीदृशी” । इति दिवसे शक्तस्य गृध्रस्य श्मशाने
मृतं बालमुपादाय तिष्ठतां दिवसे तं परित्यज्य
गमनमिष्टम् । “आदित्योऽयं स्थितो मूढ़ाः! स्नेहं कुरुत
साम्प्रतम् । बहुविघ्नो मुहूर्त्तोऽयं जीवेदपि कदाचन ।
अमुं कनकवर्ण्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्
कथं बालास्त्यजध्वमविशङ्किताः” । इति निशि समर्थस्य
गोमायोर्दिवसे परित्यागोऽनभिलषित इति वाक्यसमूहेन
द्योत्यते । अत्र स्वतःसम्भवी व्यञ्जकः । एवमन्येष्वेका-
दशभेदेषूदाहार्य्यम् । एवं वाच्यार्थस्य व्यञ्जकत्वे उदाहृतम् ।
लक्ष्यार्थस्य यथा “निःशेषच्युतचन्दनं स्तनतटं निर्म्मृष्ट-
रागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि! दूति! बान्धवजनस्याज्ञातपीडागमे!
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्” ।
व्यङ्ग्यार्थस्य यथा “उअ णिच्चल णिप्पन्दोभिसिणोपत्तम्पि
रेऐ बलाआ । णिम्मलमरगअभाअणपरिठ्ठिआ
संखसुत्तिब्ब” । अनयोः स्वतःसम्भविनौ लक्ष्यव्यङ्ग्यार्थौ
व्यञ्जकौ । एवमन्येष्वेकादशभेदेषूदाहार्य्यम्” वृत्तिः ।
“पदांशवर्ण्णरचनाप्रबन्धेष्वस्फुटक्रमः । असंलक्ष्यक्रमव्यङ्ग्यो
ध्वनिस्तत्र पदांशगः” मू० ।
“प्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः । यथा
“चलापाङ्गां वृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्या-
ख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करं व्याधु-
न्वत्याः पिबसि रतिसर्व्वस्वमधरं वयं तत्त्वान्वेषान्मधु-
कर! हतास्त्वं स्वलुकृती” । अत्र ‘हताः’ इति
न पुनर्दुःखं प्राप्तवन्त इति हन्प्रकृतेः । “मुहुरङ्गु-
लिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्त्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितन्तु” ।
अत्र ‘तु’ इति निपातस्यानुतापव्यञ्जकत्वम् । “न्यक्कारो
ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः, सोऽप्यत्रैव
निहन्ति राक्षसकुलं, जीवतत्यहो रावणः । धिग्धिक्
शक्रजितं, प्रबोधितवता किं कुम्मकर्णेन वा?
स्वर्गग्रामटिकाविलुण्टनवृथोच्छूनैः किमेभिर्भुजैः”
‘अरयः’ इति बहुवचनस्य, ‘तापसः’ इत्येकवचनस्य,
‘अत्रैवेति’ सर्व्वनाम्नः, ‘निहन्तीति’ ‘जीवतीति’ च
तिङः ‘अहो’ इत्यव्यगस्य, ‘ग्रामटिकेति करूपतद्धितस्य,
‘विलुण्ठनेति’ व्युपसर्गस्य, ‘भुजैरिति’ बहुवचनस्य व्यञ्जक-
त्वम् । “आहारे विरतिः ‘समस्तविषयग्रामे निवृत्तिः परा,
नासाग्रे नयनं, तदेतदपरं यच्चैकतानं भनः ।
मौनञ्चेदमिदञ्च शून्यमधुना यद्विश्वमाभाति ते तद्ब्रूयाः
सखि! योगिनी किमसि भोः! किं वा वियोगिन्यसि” ।
अत्र तु ‘आहार इति’ विषयसप्तम्याः, ‘समस्तेति’
‘परेति’ च विशेषणद्वयस्य, ‘मौनं चेदमिति’ प्रत्यक्ष-
परामर्शिनः सर्वनाम्नः, ‘आभातीति’ उपसर्गस्य,
‘सखीति’ प्रणयस्मारणस्य, ‘असि भो’ इति सोपहा-
सोत्प्रासस्य, ‘किं वा’ इत्युत्तरपक्षदार्ट्यसूचकस्य
वाशब्दस्य, ‘असीति’ वर्त्तमानोपदेशस्य, तत्तद्विशेषव्यञ्जकत्वं
सहृदयसंवेद्यम् । वर्णरचनयोरुदाहरिष्यते । प्रबन्धे
महाभारते शान्तः । रामायणे करुणः मालतीमाधव-
रत्नावल्यादौ शृङ्गारः । एवमन्यत्र” । वृत्तिः ।
“तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्म्मताः । सङ्करेण त्रिरूपेण
संसृष्ट्या चैकरूपया । वेदखाग्निशराः ५३०४ शुद्धैरिषु-
वाणाग्निसायकाः” ५३५५ मू०
“शुद्धैः शुद्धभेदैरेकपञ्चाशता योजने इत्यर्थः । दिङ्मात्रं
तूदाह्रियते । “अत्युन्नतस्तनयुगा तरलायताक्षी द्वारि
स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवमीरज-
तोरणस्वक्सम्भारमङ्गलमयत्नकृतं विधत्ते” । अत्र
‘स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्रज इति’
रूपकध्वानरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः । “ध्रिन्व-
न्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि
मधोर्दिनानि । निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्य-
सौहृदसगर्व्वसमीरणानि” । अत्र निस्तन्द्रेत्यादिलक्ष-
णामूलध्वनीनां संसृष्टिः । अथ गुणीभूतव्यङ्ग्यम्” । वृत्तिः
“अपरन्तु गुणीभूतव्यङ्ग्यं वाच्यादनुचमे व्यङ्ग्ये” मू० ।
पृष्ठ २०२८
“अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च
सम्भवति” वृत्तिः ।
“तत्र स्यादितराङ्गं काक्वाक्षिप्तञ्च वाच्यसिद्ध्यङ्गम् ।
सन्दिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढ़म् । व्यङ्ग्य-
मसुन्दरमेवं भेदास्तस्योदिता अष्टौ” मू० ।
“इतरस्य रसादेरङ्गं रसादि व्यङ्ग्यं यथा “अयं स
रसनोत्कर्षी पीनस्तनविमर्द्दनः । नाभ्यूरुजघनस्पर्शी
नीवीविस्रंसनः करः” । अत्र शृङ्गारः करुणस्याङ्गम् ।
“मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वत्सैन्यसागररवोद्ग-
तकर्ण्णतापः । हा! हा! कथं नु भवतो रिपुराज-
धानी--प्रासादसन्ततिषु तिष्ठति कामिलोकः” । अत्रौत्-
सुक्यत्राससन्धिसंसृष्टस्य करुणस्य राजविषयरतावङ्ग-
भावः । “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृता लङ्काभर्त्तु-
र्व्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न
त्वधिगता” । अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दश-
क्तेरेव रामत्वमवगम्यते । वचनेन तु सादृश्यहेतुकतादा-
तुम्यारोपणमाविष्कुर्व्वता तद्गोपनमपाकृतम् तेन वाच्यं
सादृश्यं वाक्यार्थान्वयोपपादकतयाऽङ्गतां नीतम् । काक्वा
क्षिप्तं यथा “मथ्नासि कौरवशतं समरे न कोपाद्
दुःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्ण्णयामि
गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन” ।
अत्र ‘मथ्नाम्येवेत्यादि’ व्यङ्ग्यं वाच्यस्य निषेधस्य सह
भावेनैव स्थितम् । “दीपयन् रोदसीरन्ध्रमेष ज्वलति
सर्व्वतः । प्रतापस्तव राजेन्द्र । वैरिवंशदवानलः” ।
अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्गः प्रतापस्य
दवानलत्वारोपसिद्ध्यङ्गम् । “हरस्तु किञ्चित् परिवृत्त-
धैर्य्यश्चन्द्रोदयारम्भैवाम्बुराशिः । उमामुखे विम्बफलाधरौष्ठे
ष्यापारयामास विलोचनानि” ।
अत्र विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्ये
सन्देहः । “ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्म्मनायते” । अत्र परशु-
रामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य
च समं प्राधान्यम् । “सन्धौ सर्ब्बस्वहरणं विग्रहे
प्राणनिग्रहः । अन्वापदीननृपतौ न सन्धिर्न च
विग्रहः” । अत्र अन्वापदीनाख्ये नृपतौ दानसामादि
मन्तरेण नान्यः प्रशमोपायः व्यङ्ग्यं व्युत्पन्नानामपि
झटित्यस्फुटम् । “अनेन लोकगुरुणा सतां धर्म्मोपद-
र्शिना । अहं ब्रतवती स्वैरमुक्तेन किमतः परम्
अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्य्यक्योषिति
बलात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढ़म् ।
“बाणीरकुडुङ्गुड्डीणसौणिकोलाहलं सुणन्तीए ।
घरकम्मबावडाए बहूए सीअन्ति अङ्गाइम्” । अत्र
दत्तसङ्केतः कश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात्
“सीदन्त्यङ्गानि” इति वाच्यस्य चमत्कारः सहृदयसंवेद्य
इत्यसुन्दरम् । किञ्च यो दीपकतुल्ययोगितादिषु उपमाद्य-
लङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव काव्यस्य
दीपकादिमुखेनैव चमत्कारविधायित्वात् तदुक्तं ध्वनि-
कृता “अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः” । यत्र
च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्य्यासः यथा
“दृष्ट्या केशव! गोपरागहृतया किञ्चिन्न दृष्टं मया तेनात्र
स्खलितास्मि नाथ! पतितां किं नाम नालम्बसे । एकस्त्वं
विषमेषु खिन्नमनसां सर्वाबलानां गतिर्गोप्यैवंगदितः
सलेशमवताद्गोष्ठे हरिर्वश्चिरम्” । अत्र गोपरागादिश-
ब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां ‘सलेशमिति’
पदेन स्फुटतयाबभासः । सलेशमितिपदस्य परित्यागे
ध्वनिरेव । किञ्च यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां
रसाभ्यन्तरे गुणीभावः तत्र प्रधानकृत एव काव्यव्य-
हारः तदुक्तं तेनैव “प्रकारोऽयं गुणीभूतव्यङ्ग्यो-
ऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्य्यपर्य्यालोचनया
पुनरिति” । यत्र च “यत्रोन्मदानां प्रमदाजनाना-
मब्भ्रंलिहः शोणमणीमयूखः । सन्ध्याभ्रमं प्राप्नुवता-
मकाण्डेऽप्यनङ्गनेपथ्यबिधिं व्यधत्त” इत्यादौ
रसादीनां नगरीवृत्तादिवस्तुमात्रेऽङ्गत्वं तत्र तेषामतात्पर्य्य-
विषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः ।
तदुक्तमस्मत्सगोत्रकविपण्डितमुख्यश्रीचण्डिदासपादैः
“काव्यार्थस्याखण्डबुद्धिवेद्यस्य तन्मयीभावेनास्वाददशायां
गुणप्रधानभावावभासस्तावन्नानुभूयते कालान्तरे तु प्रकर-
णादिपर्य्यालोचनया भवन्नप्यसौ न काव्यव्यपदेशं व्या-
हन्तुमीशस्तस्यास्वादमात्रायत्तत्वादिति” । केचित्
चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति तदाहुः “शब्दचित्रं
वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” इति तन्न
यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्व-
मपि नास्तीति प्रागेवोक्तम् । ईषद्व्यङ्ग्यत्वमिति चेत्
किं नाम ईषद्व्यङ्ग्यत्वम् आस्वाद्यव्यङ्ग्यत्वम् अना-
पृष्ठ २०२९
स्वाद्यव्यङ्ग्यत्वं वा । आद्ये प्राचीनभेदयोरन्तःपातः ।
द्वितीये त्वकाव्यत्वम् । यदि चानास्वाद्यत्वं तदा क्षुद्रत्वमेव ।
क्षुद्रतायामनास्वाद्यत्वात् । तदुक्तं ध्वनिकृता “प्रधा-
नगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितेः । उभे काव्ये
ततोऽन्यद्यत्तच्चित्रमभिधीयते इति” वृत्तिः ।
तच्च काव्यं प्रकारान्तरेण द्विविधं महाकाव्यखण्डकाव्य
भेदात् । तल्लक्षणादिकं सा० द० ६ परि० उक्तं यथा
“सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः । सद्वंशः
क्षत्त्रियो वापि धीरोदात्तगुणान्वितः । एकवंशभवा
भूपाः कुलजा बहवोऽपि वा । शृङ्गारवीरशान्तानामे-
कोऽङ्गी रस इष्यते । अङ्गानि सर्वेऽपि रसाः सर्वे
नाटकसन्धयः । इति हासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ।
चत्वारस्तस्य वर्गाः स्युस्तेष्वेकञ्च फलं भवेत् । आदौ
नमस्क्रियाशीर्व्वा वस्तुनिर्देश एव वा । क्वचिन्निन्दा
खलादीनां सताञ्च गुणकीर्त्तनम् । एकवृत्तमयैः पद्यैर-
वसानेऽन्यवृत्तकैः । नातिस्वल्पा नातिदीर्घाः सर्गा अष्टा-
धिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ।
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्या-
सूर्य्येन्दुरजनीप्रदोषध्वान्तवासराः । प्रातर्म्मध्याह्नमृग-
याशैलर्त्तुवनसागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्ग-
पुराध्वराः । रणप्रयाणोपयममन्त्रपुत्रोदयादयः । वर्ण्ण-
नीया यथायोगं साङ्गोपाङ्गा अमी इह । कवेर्वृत्तस्य वा
नाम्ना नायकस्येतरस्य वा । नामास्य सर्गोपादेयकथया
सर्गनाम तु । अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यान-
सञ्ज्ञकाः । प्राकृतैर्निर्म्मिते तस्मिन् सर्गा आश्वासस-
ञ्ज्ञकाः । छन्दसा स्कन्दकेनैतत् क्वचिद्गलितकैरपि ।
अपभ्रंशनिबन्धेऽस्मिन् सर्गाः कडवकाभिधाः । तथाप-
भ्रंशयोग्यानि छन्दांसि विबिधान्यपि ।
भाषाविभाषानियमात् काव्यं सर्गसमुज्झितम् । एकार्थ-
प्रवणैः पद्यैः सन्धिसामग्र्यवर्ज्जितम् । स्वण्डकाव्यं
भवेत् काव्यस्यैकदेशानुसारि च” ।
तच्च काव्यं प्रकारान्तरेण द्विविधं “दृश्यश्रव्यत्वभेदेन पुनः
काव्यं द्विधा मतम् । दृश्यं तत्राभिनेयं तत् रूपारोपात्तु-
रूपकम्” इति सा० द० उक्तेः

काव्यचन्द्रिका स्त्री काव्ये काव्यलक्षणादिप्रकाशने चन्द्रि-

केव । अलङ्कारग्रन्दभेदे

काव्यप्रकाश पु० काव्यस्य स्वरूपादिप्रकाशो यत्र । काव्यस्व

रूपादिज्ञापके मम्मटभट्टप्रणीते अलङ्कारग्रन्थभेदे ।

काव्यप्रदीप पु० काव्यस्वरूपादिप्रकाशने प्रदीप इव । गोवि-

न्दठक्कुरनिर्म्मिते भङ्ग्या काव्यप्रकाशार्थप्रकाशके
अलङ्कारग्रन्थभेदे

काव्यचौर पु० काव्यस्य चौरैव । परकीयकाव्यस्य स्वकीय त्वेन

प्रख्यापके चन्द्ररेणौ चौरभेदे त्रिका०

काव्यरसिक त्रि० काव्यस्य रसं वेत्ति ठक् । काव्यप्रतिपा-

द्यरसाभिज्ञे

काव्यलिङ्ग न० अर्थालङ्कारभेदे अलङ्कारशब्दे ३९८ पृ० विवृतिः

काव्यशास्त्र न० काव्यं शास्त्रमिव उपदेशकत्वात् । काव्य-

रूपे शास्त्रे “कान्तासम्मिततयोपदेशयुजे” इति काव्यप्र-
काशे तस्य उपदेशयोगित्वोक्तेः हितशासकशास्त्रतुल्य-
त्वम् । “काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्”

काव्या स्त्री कव--वर्ण्णने करणे बा० ण्यत् । बुद्धौ तया हि

नानाविधवर्ण्णनात् तथात्वम् । २ पूतनायां च मेदि० ।

काव्यार्थापत्ति स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ३९८ पृ०

विवृतिः ।

काश दीप्तौ भ्वा० आत्म० अक० सेट् । काशते अकाशिष्ट, काशाम्बभूव

काशामास काशाञ्चक्रे चकाशे । णिच् अचकाशत्--त ।
ऋदित्त्वात् चङि नोपधाह्रस्यः । “काली कपालाभरणा
चकाशे” “तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभा-
मण्डलया चकाशे” कुमा० “नंनम्यमानाः फलदित्सयेव
चकाशिरे तत्र लता विलोलाः” भट्टिः । काशी काशकः
काशितः काशमानः काशः काशनं काशितुम् काशित्वा
प्रकाश्य । यङ् लुक् चाकाशीति । वेदे ह्रस्वः चाकशीति
  • अनु + अनुरूपदीप्तौ अनुकाशते
  • अभि + सर्व्वतः प्रकाशे अभिकाशते “अन्योअनश्नन्नभिचाक-
शीति” शत० व्रा० १४, ७, १, १२, आभिमुख्येन दर्शने
सक० । “घृतस्य धारा अभिचाकशीमि” ऋ० ४, ५८, ५, ९,
“व्यञ्ज्यमानाभिचाकशीमि” ९, “आभिचाकशीमि अभि
पश्यामि” भा०
  • अव + अवकाशे स्ववासयोग्यताप्राप्तौ “उभयतो मांसैः संछन्नं
नावकाशते” शत०८, ७, ४, २०, यदमुत्राग्रेऽधिश्रयति पत्नीं
ह्यवकाशयिष्यन् भवति” “अथ यत्पुत्नीं नावकाशयेत्”
शत०१, ३, १, २०, अवकाशः “कृत्वावकाशे रुचिसंप्रकॢप्तम्”
भट्टिः अवेक्षणे सक० । “ज्ञातप्रियानूचानानवकाशयेत्”
का० श्रौ० ९, ७, १६, “अवकाशयेत् अवेक्षयेत्” कर्कः ।
  • आ + समन्तात्स्थितौ आकाशः । अभिज्ञापने सक० । “संप्र-
त्युरः पुरुषमाकाश्य” शत० ब्रा० ७, ४, १, ४३, “आकाश्य
अभिज्ञाप्य” भा० ।
पृष्ठ २०३०
  • उद् + ऊर्द्ध्वगतौ ऊर्द्ध्वप्रकाशे च । उत्काशते उत्काशः ।
  • नि + तुल्यत्वे नीकाशः घञि पूर्वस्वरदीर्वः ।
  • सम् + नि + निष्काशने । “न सन्निकाशयेद्धर्म्मम्” भा० आश्व० ४६ अ० ।
  • निर् + निःसारणे । “मात्रा निष्काशयेदेषा पुनः सन्धान-
काङ्क्षया” सा० द० । अत्र निःकसोरूपत्वेन निष्कासयेदि-
त्येव पाठोयुक्तः
  • प्र० + प्रकृष्टदीप्वौ “एषु सर्व्वेषु भूतेषु गूढोत्मा न प्रका-
शते” कठो० । “उभावपि प्रकाशेते प्रवृद्धौ वषमाविव”
भा० वि० ७५५ श्ली० ।
  • प्रति + प्रतिरूपप्रकाशे सारूप्ये च प्रतीकाशः । “यमस्य त्वा
गृहेऽरसं प्रतिचाकशान” अथ० ६, २९, ३,
  • वि + मुकुलीभावापनोदनेन प्रकाशे । पुष्पं विकाशते । प्रकाशे
च । “आदित्य इव तं देशं कृत्स्नं सर्व्वं व्यकाशयत्”
भा० आ० ७४५६ श्लो० वीकाशः ।
  • सम् + सम्यक्प्रकाशे सादृश्येन प्रकाशे च सङ्काशः “प्रतिस्रोत-
स्तृणाग्राणां सहस्रं सञ्चकाशिरे” रामा०

काश --दीप्तौ दिवा० आ० अक० सेट् । काश्यते अकाशिष्ट काशाम्-

बभूव आस चक्रे चकाशे ऋदित् णिच् अचकाशत् त

काश पु० केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र अश--व्याप्तौ

आधारे घञ् । १ काशरोगे, भरतः । कासशब्दे विवृतिः
“काशाश्रुलालाविलः” शान्तिश०२ क्षुते (हाँचि) शब्दर० ।
तयोः जलेनाकीर्ण्णत्वात्तथात्वम् । काश दीप्तौ अच् ।
(केशिया) ३ वृणभेदे “केशः काशस्तवकविकाशः” सा० द०
“आकर्ण्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां
सितचामरस्य” मावः “कैलासकाशनीकाशमूर्त्त्या”
दशकु० “काशः स्यान्मधुरस्तिक्तः स्वादुपाकोहिमः सरः ।
मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगहृत्” भावप्र०
तद्गुणाद्युक्तम् तत्पुष्पे न० । ईषदश्नाति अश--अच् कोः
का । ४ मूषिकभेदे पुंस्त्री स्त्रियां ङीष् । “भूम्या
आखूनालभेत” इत्युपक्रमे “काशान् दिग्भ्यः” यजु० २४, २५,
“काशान् मूषिकभेदान्” वेददी० । ५ ऋषिभेदे पु० काशस्य
गोत्रापत्यम् अश्या० फञ् । काशायन तद्गोत्रापत्ये पुंस्त्री

काशक पु० काश--ण्वुल् । १ काशतृणे शब्दरत्ना० २ सुहोत्रस्य

पुत्रभेदे “सुहोत्रस्य सुतद्वयम् । काशकश्च महासत्वस्तथा-
शुभमतिर्नृपः” हरिव०३२ अ० । अस्यैव काशिरित्यपि नाम
तत्रैव “काशेस्तु काशयोराजन्!” इति तदनन्तरोक्तेः
काशेन निर्वृत्तादि काशा० चतुरर्थ्याम् इल । काशिल
काशनिर्वृत्तादौ त्रि० काशे भवः उत्करा० छ ।
काशीय काशभवादौ त्रि० । ३ प्रकाशान्विते त्रि०

काशकृत्स्न पु० आदिशाब्दिके ऋषिभेदे “इन्द्रश्चन्द्रः काश

कृत्स्नापिशिलिशाकटायनाः पाणिन्यमरजैनेन्द्रा
जयन्त्यष्टादिशाब्दिकाः” वोपदेवः । “अवस्थितेरिति
काशकृत्स्नः” शा० सू० । काशकृत्स्नेन निर्वृर्त्तादि अरीहणा०
चतुरर्थ्यां वुञ् । काशकृत्स्नक तन्निर्वृत्तादौ त्रि०

काशज त्रि० काशे जायते जन० ड ७ त० । काशजाते “दीर्घ

काशतुषभ्राष्ट्ववटं जे” पा० तस्य आद्युदात्तता

काशपरी स्त्री काशः परोयस्याःगौरा० ङीष् । काशावृतन-

द्याम् तत्र भवः नद्या० ढक् । काशपरेय तन्नदीभवे
त्रि० पृषो० पस्य फः । काशफरीत्यपि तत्रैव नद्यादि
गणे तस्य पाठात् भवार्थे ढक् । काशफरेय तद्भवे त्रि०

काशपौण्ड्र पु० काशप्रधानः पौण्ड्रः । देशभेदे “कोशलाः

काशपौण्ड्राश्च कालिङ्गा मागधास्तथा” भा० क० ४५ अ०

काशमय त्रि० काशेन प्रचुरः तद्विकारोवा प्राचुर्य्ये तद्विकारे

वा मयट् । १ काशप्रचुरे २ तन्निर्मिते च “कुशकाशमयं बर्हि
रास्तीर्य्य भगवान्मनुः” भाग० ३, २, २, श्लो० । स्त्रियां ङीप् ।

काशमर्द्द पु० काशं मृद्नाति मृद--अण् उप० स० । (काल-

कासेन्दा) वृक्षे रायमुकुटः

काशय पु० काशिनृपपुत्रे “काशेस्तु काशयोराजन्” हरिवं० ३२ अ० ।

काशादि पु० पाणिन्युक्ते चतुरर्थ्यामिलप्रत्ययनिमित्ते

शब्दगणे स च गणः “काश पाश, अश्वत्थ पलाश, पीयू-
क्षा चरण वास नड़, वन, कर्द्दम, कच्छूल, कड्कट-
गुहा, विस, तृण, कर्पूर, वर्व्वर, मधुर, ग्रह, कपित्थ,
जतु, सीपाल”

काशान्मलि स्त्री कुत्सिता शान्मलिः कोः का । कूटशान्मलिवृक्षे जटाधरः

काशि स्त्री काश--इन् । १ काश्याम् वा ङीप् काशीत्यपि-

तत्र काशीशब्दे विवृतिः “आःकाशिवासिजनता
ननु वञ्चिताऽभूत्” काशीख० । २ काशीनगरोपलक्षिते
देशभेदे पु० भूम्नि । “अतः काशयोऽग्नीनादत्त” “यज्ञं
काशीनां भरतः सात्वतामिव” शत० ब्रा० ३, ५, ४, १९,
२१ । “काशिष्वपि नृपो राजन् दिवोदासपितामहः”
हर्य्यश्व इति विख्यातः” भा० आनु० ३० अ० “सौधा
मद्रभुजिङ्गाश्च काशयोऽपरकाशयः” भा० स० ९ अ० । ३ सूर्य्ये
पु० उच्छल० । ४ मुष्टौ निरु० ६ । “१ आपैव काशिना संगृ-
भीताः” ऋ० ७, १०४, ८, “काशिना मुष्टिना” भा० । भावे इन्
५ प्रकाशे च “अपारे यत् संगृभ्ना मघवन्! काशिरित्ते” ऋ०
३, ३०, ५ “काशिरित् लोके प्रसिद्ध्व एव यद्वा काशिर्मुष्टिः” भा०
पृष्ठ २०३१
६ प्रकाशान्विते त्रि०” काशेरिदम् तस्यां भवं वा काश्या०
ष्ठञ् ञिठ् वा । काशिक काशिसम्बन्धिनि तत्रभये च त्रि०
ञिठैत् उच्चारणार्थः स्त्रियां ष्ठञि ङीष् ञिठि ठाप् । साच वा
मनकृतायां पाणिनिवृत्तौ स्वार्थेक । काशिका काशीपुर्य्यां स्त्री ।

काशिन् त्रि० काशते काश + णिनि । १ प्रकाशशीले । जयकाशी

स्त्रियां ङीप् मत्तकाशिनी काश + इनि । २ काशरोगयुक्ते त्रि०

काशिप पु० काशीन् देशान् तत्स्थपुरीं वा पाति पा--क

१ काशिदेशाधिपे दिवोदासादौ काशीनाथे २ महादेवे च
काशिनाथादयोऽप्यत्र । “सुवर्ण्णवर्म्माणमुपेत्य काशिपं
वपुष्टमार्थं वरयांप्रचक्रिरे”

काशिपुरी स्त्री काशीदेशे पुरी कर्म्म० वा । काश्याम् स्वना-

मख्यातपुरीभेदे । “समेतं पार्थिवं क्षत्रं काशिपुर्य्यां स्वयं-
वरे” भा० आनु० १६८ अ० । काशिनगर्य्यादयोऽप्यत्र स्त्री

काशिराज पु० काशीनां जनपदानां राजा टच्समा० ।

काशिदेशाधिपे । तद्देशाधिपाश्च कालभेदेन यद्यपि
बहहवस्तथापि काशिनामकनृपेण तदन्वयेन तत्र काशी-
पुरीकरणात् तदन्वयजस्यैव तदधिपत्वं प्रथितं तदेतत्
हरिवं ३२ अ० वर्ण्णितं यथा
“काशेस्तु काशयोराजन् पुत्रो दीर्घतपास्तथा । वभूब
दीर्घतपसो विद्वान् धन्वन्तरिः सुतः । धन्वन्तरेस्तु तनयः
केतुमानिति विश्रुतः । अथ केतुमतः पुत्त्रो विद्वान्
भीमरथः स्मृतः । दिवोदास इति ख्यातः सर्वरक्षः प्रणाशनः ।
एतस्मिन्नेव काले तु पुरीं वाराणसीं नृपः । शून्यां निवे-
शयामास क्षेमको नाम राक्षसः । शप्ताहि सा मतिमता
निकुम्भेन महात्मना । शून्या वर्षसहस्रं वै भवत्विति
नराधिप! । तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पूरीं रम्यां गोमत्यां संन्यवेशयत् । भद्रश्रेण्यस्य
पुत्त्राणां शतमुत्तनधन्विनाम् । हत्वा निवेशयामास
दिवोदासः प्रजेश्वरः । दिवोदासस्य पुत्त्रस्तु वीरो राजा
प्रतर्द्दनः । प्रतर्द्दनस्य पुत्त्रौ द्वौ वत्सो भार्गव एव च ।
अलर्को राजपुत्त्रस्तु राजा सन्नतिमान् भुवि । हैहयस्य
तु दायाद्यं हतवान् वै महीपतिः । आजह्रे पितृदाया-
द्यं दिवोदासहृतं बलात् । भद्रश्रेण्यस्य पुत्त्रेण दुर्द्दमेन
महात्मना । दिवोदासेन बालेति घृणया स विसर्ज्जितः ।
अष्टारथो नाम नृपः सुतो भीमरथस्य बै । तेन पुत्त्रेषु
वालेषु प्रहृतं तस्य भारत । वैरस्यान्तं महाराज!
क्षत्रियेण विधित्सता । अलर्कः काशिराजस्तु ब्रह्मण्यः
सत्यसङ्गरः । षष्टिं वर्षसहस्राणि षष्टि वर्षशतानि च ।
तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः । युवा रूपेण
सम्पन्न आसीत् काशिकुलोद्वहः । लोपामुद्राप्रसादेन
परमायुरवाप सः । वयसोऽन्ते महाबाहुर्हत्वा क्षेमकराक्ष-
सम् । रम्यां निवेशयामास पुरीं वाराणसीं नृपः” ।
तत्रापि दिवोदासस्यैव तथात्वम् सर्वत्र प्रथितं सहि
देवान् पृथिव्या निष्कास्य वाराणस्यां राज्यं चकारेति
काशीख० ४३ अ० वर्ण्णितं यथा “गतेषु देवसंघेषु पृथिव्याः
पृथिवीपतिः । चकार राज्यं निर्द्वन्द्वं दिवोदासः प्रताप-
बान् । विधाय राजधानीं स वाराणस्यां सुनिश्चलाम्” ।
इत्युपक्रम्य तद्राज्यं वर्ण्णितम् “दिवोदासस्य तस्यैवं काश्यां
राज्यं प्रशासतः । यातमेकदिनप्रायं शरदामयुताष्टकमिति”
तत्र तस्य बहुकालराज्यकरणात् तथात्वम् “काशिराजं
दिवोदासम्” सुश्रु० । “द्वापरे तु दीर्घजिह्वासुरांश नृपभेद
स्तन्नाम्ना प्रसिद्धः “दीर्घजिह्वस्तु कौरव्य! य उक्तो-
दानवर्षभः । काशिराजः स विख्यातः पृथिव्यां पृथि-
वीपतिः” भा० आ० ६७ अ० । तस्यासुरांशभवत्वात् विष्णुं
प्रति द्वेषो यथा हरिवं०९१ अ० । “कौशल्यः काशिराजश्च
दशार्ण्णाधिपतिस्तथा” इत्युपक्रम्य “तमन्वयुर्जरासन्धंविद्वि-
षन्तोजनार्द्दनम्” इत्युक्तम् । स च अम्बिकादीनां
पिता । “विचित्रवीर्य्योऽथोवाह काशिराजसुते क्रमात् ।
स्वयंवरादुपानीते ह्यम्बिकाम्बालिके उभे” भाग० ९, २२,
१८ । स च नाम्ना काशिराजत्वेऽपि काशिपतिरासीत् ।
“अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः ।
शुश्राव सहिता राजन् वृण्वाना वै स्वयंवरम्” भा०
आ० १०२ अ० । “एवमुक्त्वा महीपालान् काशिराजञ्च
वीर्य्यवान्” तत्रैवोक्तेः “धृष्टकेतुश्चेकितानः काशिराजश्च
वीर्य्यवान्” गीता । काशिपत्यादयोऽप्यत्र ।

काशिष्णु त्रि० काश--बा० इष्णुच् । प्रकाशशीले । “काशि-

ष्णुना कनकवर्ण्णविभूषणेन” भाग० ४, ३०, ६,

काशी स्त्री काशते काश--इन् स्त्रियां ङीप् ।

काशणिच्--अच् गौरा० ङीष् । असिवरुणयोर्मध्यवर्त्तिन्यां
स्वनामख्यातायां शिवपुर्य्याम् । तन्निरुक्त्यादि काशीख० ।
“निर्व्वाणकाशनाद्यत्र काशीति प्रथिता पुरी । अविमुक्ते
महाक्षेत्रे न मुक्ते शम्भुना क्वचित् । प्रागेव हि
मुनेऽनर्घ्यं जातं जाम्बुनदं स्वयम् । पुनः स्वर्धुनि-
तोयेन हीरेण यदि सङ्गतम् । चक्रपुष्करिणीतीर्थं
प्रागेव श्रेयसांपदम् । ततः श्रेष्ठतरं शम्भोर्मणिश्र-
वणभूषणात् । आनन्दकानने तस्मिन्नविमुक्ते शिवा-
पृष्ठ २०३२
लवे । प्रागेव मुक्तिः संसिद्धा गङ्गा--सङ्गात्ततोऽधिका ।
यदाप्रभृति सा गङ्गा मणिकर्णीसमागता ।
तदाप्रभृति तत् क्षेत्रं दुष्प्रापं त्रिदशैरपि । कृत्वा कर्माण्य-
नेकानि कल्याणानीतराणि च । तानि क्षणात् समुत्-
क्षिप्य काशीसंस्थोऽमृतो भवेत् । तस्य वेदान्तवेद्यस्य
निदिध्यासनतो विना । विना साङ्ख्येन योगेन काश्यां
संस्थोऽमृतो भवेत् । कर्म्मनिर्मूलनकृता विना ज्ञानेन
कुम्भज! । शशिमौलिप्रसादेन काश्यां संस्थोऽमृतोभवेत् ।
यत्नतोऽयत्नतो वापि कालात् त्यक्त्वा कलेवरम् । तारक-
स्योपदेशेन काशीसंस्थोऽमृतो भवेत् । अनेकजन्मसं-
सिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः । असिसंभेदयोगेन काशी-
संस्थोऽमृतो भवेत् । देहत्यागोऽत्र वै दानं देहत्यागोऽ-
त्र वै तपः । देहत्यागोऽत्र वै योगः काश्यां निर्व्वाणसौ-
ख्यकृत् । प्राप्योत्तरवहां काश्यामपि दुष्कृतवानपि ।
यायात स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम् ।
महेन्द्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान् । सर्व्वान्
सर्वेशमालोक्य रक्षाञ्चक्रुः पुरा पुरः । असिन्महासि-
रूपाञ्च पापिसङ्गतिखण्डिनीम् । दुष्टप्रवेशं धुन्वानां
धुनीं देवा विनिर्म्ममुः । वरणाञ्च व्यधुस्तत्र क्षेत्रविघ्न
निर्वारिणीम् । दुर्वृत्तस्य प्रवृत्तेश्च निवृत्तिकरणीं सुराः ।
दक्षिणोत्तरदिग्भागे कृत्वासिं वरणां सुराः । क्षेत्रस्य
मोक्षनिःक्षेपरक्षां निर्वृतिमाययुः । क्षेत्रस्य पश्चाद्दिग्भा-
गे तं देहलिविनायकम् । स्वयं व्यापारयामास रक्षार्थं
शशिशेखरः । अनुज्ञातप्रवेशानां विश्वेशेन कृपाव-
ताम् । ते प्रवेशं प्रयच्छन्ति नान्येषां हि कदाचन” ।
अत्रार्थे प्राचीनेतिहासमुक्त्वा माहात्म्यादिकमुक्तं
यथा“एवं काश्यां प्रविश्यापि पापी धर्म्मानुषङ्गतः । न
क्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात् । तस्माद्विश्वेश्व-
राज्ञैव काशीवासेऽत्र कारणम् । असिश्च वरणा यत्र
क्षेत्ररक्षाकृतौ कृते । वाराणसीति विख्याता तदारभ्य
महामुने! । असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका ।
वाराणसीह करुणामयदिव्यमूर्त्तिरुत्सृज्य यत्र तु तनुं
तनुभृत् सुखेन । विश्वेशदृङ्महसि यत् सहसा प्रवि-
श्य रूपेण तां वितनुतापदवीन्दधाति । जातो मृतो
बहुषु तीर्थवरेषु रे त्वं जन्तो! न जातु तव शान्तिरभून्नि-
मज्य । वाराणसीति गदतीह मृतोऽमृतत्वं प्राप्याधुना
मम बलात् स्मरशासनः स्याः । अन्यत्र तीर्थसलिले
पतितो द्विजन्मा देवादिभावमयते न तथा तु काश्याम् ।
चित्रं यदत्र पतितःपुनरुत्थितं न प्राप्नोति पुक्वशजनोऽपि
किमग्रजन्मा । सैषा पुरी संसृतिरूपपारावारस्य पारं
पुरुषः पुरारिः । यस्यां परं पौरुषमर्थमिच्छन् सिद्धिं
नयेत् पौरपरम्परासः । तीर्थान्तराणि मनुजः
परितोऽपगाह्य हित्वा तनुं कलुषितां, दिवि दैवतं स्यात् ।
वाराणसीपरिसरे तु विसृज्य देहं सन्देहभाग्भवति देहल-
वाप्तयेऽपि । वाराणसी शमवशीकरणादृतेऽपि योगादयो-
गिजनताञ्जनतापहन्त्री । तत्तारकं श्रवणगोचरतां
नयन्ती तद्ब्रह्म दर्शयति येन पुनर्भवो न । वाराणसी-
परिसरे तनुमिष्टदात्रीं धर्म्मार्थसौख्यनिलयामह
हा विसृज्य । इष्टं पदं किमपि हृष्टतरोऽभिलाष्य-
लाभोऽस्तु मूलमपि नो यदवाप शून्यम् । आः काशि-
रासिजनता ननु वञ्चिताभूद्भालेबिलोचनवता
वनितार्द्धभाजा । आदाय यत् सुकृतभाजनमिष्टदेहं निर्वा-
णमात्रमपवर्जयताऽपुनर्भु । वाराणसी स्फुरदसीमगु-
णैकभूमिर्यत्र स्थितास्तनुभृतः शशिभृत्प्रभावात् ।
सर्वे गलेगरलिणोऽक्षियुजो ललाटे, वामार्द्ध, वामतन-
वोऽतनवस्ततोऽन्ते । आनन्दकाननमिदं सुखदं पुरैव
तत्रापि चक्रसरसी मणिकर्णिकाऽथ । स्वःसिन्धुसङ्ग-
तिरथोपरमास्पदञ्च विश्नेशितुः किमिह तन्न विमुक्तये यत् ।
वाराणसीह वरणासिसरिद्वरिष्ठासंभेदखेददमनी द्यु
नदीलसच्छ्रीः । विश्रामभूमिरचलामलभोक्षलक्ष्म्या
हैनां विहाय किमु सीदति मूढ़जन्तुः । किं विस्मृतं
त्वहह गर्भजमामनस्यं कार्त्तान्तद्रूतकृतबन्धनताड़नं वा ।
शम्भोरनुग्रहपरिग्रहलभ्यकाशीं मूढ़ो विहाय किमु याति
करस्थमुक्तिम् । तीर्थान्तराणि कलुषाणि वहन्ति सद्यः
श्रेयोद्रवन्त्यपि बहु त्रिदिवं नयन्ति । पानावगाहन-
विधानतनुप्रहाणैर्वाराणसी तु कुरुते वत मूलनाशम् ।
काशीपुरीपरिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृत
स्तनुमाप्तुवन्ति । भालेविलोचनवतीं गलनीललक्ष्मीं
वामार्द्धबन्धुरबधूं विवुधैकराध्याम् । ज्ञात्वा प्रभावम-
तुलं मणिकर्ण्णिकाया यत् पुद्गलन्त्यजति चाशुचि
पूयगन्धि । स्वात्मावबोधमहसा सहसा मिलित्वा कल्पान्त-
रेष्वपि स नैव पृथक्त्वमेति । रागादिदोषपरिभूतम-
नोहृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम् । ये
कल्पयन्ति परतीर्थसमां समन्तात्ते पापिनो न सह तैः
परिभाषणीयम् । वाराणसीं स्मरहरप्रियराजधानीं
त्यक्त्वा कुतो व्रजसि मूढ़! दिगन्तरेषु । प्राप्याप्यजाड्यसु-
पृष्ठ २०३३
लभां स्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमु
कामयेथाः? । विद्याधनानि सदनानि गजाश्वभूत्या स्नक्-
चन्दनानि वनिताश्च नितान्तरम्याः । स्वर्गोऽप्यगम्यैह
नोद्यमभाजि पुंसि वाराणसी त्वसुलभाऽसुलभा विमु-
क्तिः । धात्रा धृतानि तुलया तुलनामवैतुं वैकुण्ठ-
मुख्यभुवनानि च काशिका च । तान्युद्ययुर्लघु-
तया न्यगि यं गुरुत्वात् तस्थौ पुरीह पुरुषार्थचतुष्ट-
यस्य । काशीपुरीमधिवसन् हि नरोऽनरोऽपि
ह्यारीप्यमाण इह मान्यैहैकरुद्रः । नानोपसर्गज
निसर्गजदुःखभारै कर्म्मापनुत्य स विशेत् परमेशधाम्नि ।
स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यां
काश्यामहह परिगृह्णीत न कुतः । वपुस्तेजोरूपं
स्थिरतरपदानन्दसदनं विमूढोऽसौ जन्तुः स्फुटितमिव
काश्यां विनिमयन् । अहो लोकः शोकं किमिह सहते
हन्त हतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वंसितधनैः ।
क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधने
श्रुतौ किञ्चिद्भूयः प्रविशति न येनोदरदरीम् । काशिवा-
सिनि जने वनेचरे द्वित्रिभुज्यपि समीरभोजने । स्वैरचा-
रिणि जितेन्द्रियेऽप्यहो काशिवासिपुरुषे विशिष्टता नास्तीह
दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरन्तकृता । हि
काश्याम् । वीजानि कर्म्मजनितानि यदूषरायां
नाङ्कूरयन्ति हरदृग्ज्वलितानि तेषाम् । शशका
मसका वकाः शुकाः कलविङ्गाश्च वृकाः सजम्बुकाः ।
तुरगोरगवानरा नरा गिरिजे! काशिमृताः गतामृ-
ताः । अरुद्ररुद्राक्षफणीन्द्रभूषणा त्रिपुण्ड्र चन्द्रार्द्धधरा
धराङ्गताः । निरन्तरं काशिनिवासिनो जना गिरी-
न्द्रजे! पारिषदा मता मम । यावन्त एव निवसन्ति च
जन्तवोऽत्र काश्यां जलस्थलचराझषजम्बुकाद्याः ।
तावन्त एव मदनुग्रहरुद्रदेहादेहावसानमधिगम्य मयि
प्रविष्टाः । ये तु वर्षेषवो रुद्रा दिवि! देवि! प्रकीर्त्तिताः ।
वातेषवोऽन्तरीक्षे ये ये भुव्यन्तेषवः प्रिये! । रुद्रा दश
दश प्राच्यवाचीप्रत्यगुदक्स्थिताः । ऊर्द्धदिक्स्थाश्च ये
रुद्राः पठ्यन्ते वेदवादिभिः । असंख्याताः सहस्राणि
ये रुद्रा अधिभूतले । तत्सर्वेभ्योऽधिकाः काश्यां
जन्तवो रुद्ररूपिणः । रुद्रावासस्ततः प्रोक्तमविमुक्तं
घटोद्भव! । तस्मादभ्यर्च्च्य काशीस्थान् वर्ण्णान् वर्ण्णेत-
राश्रमान् । श्रद्धयेश्वरबुद्ध्या च रुद्रार्च्चाफलभाक् नरः ।
श्मशब्देन शवः प्रोक्तः शानं शयनमुच्यते । निर्वचन्ति
श्मशानार्थं मुने! शब्दार्थकोविदाः । महान्त्यपि च
भूतानि प्रलये समुपस्थिते । शेरतेऽत्र शवा भूत्वा श्मशा-
नन्तु ततो महत् । अप्सु भूरिह लये लयं व्रजेदापऔ-
र्ववदनोग्रकन्दरे । मातरिश्वनि महातनूनपाद्व्योम्नि
संक्षयति वै सदागतिः । व्योम चापि लयमेत्यहङ्कृतौ सापि
षोड़शविकारसंयुता । लीयते महति बुद्धिसंज्ञके हा
महान् प्रकृतिमध्यगो भवेत् । सा गुणत्रयमयी च
निर्गुणं तं पुमांसमवगुह्य तिष्ठति । पञ्चविंशतितमः परः
पुमान् देहगेहपतिरेष जीवकः । प्राकृतः प्रलय एष उच्यते
हंसयानहरिरुद्रवर्जितः । कालमूर्त्तिरथ तञ्च पुरुषं
हेलया कलयतीश्वरः परः । स वै महाविष्णुरिती-
ज्यते बुधैस्तं वै महादेवमुदाहरन्ति । सोऽन्तादि
मध्यैः परिवर्जितः शिवः स श्रीपतिः सोऽपि हि पार्वतो-
पतिः । दैनन्दिनेऽथ प्रलये त्रिशूलकोटीं समुत्क्षिप्य
पुरीं हरः स्वाम् । बिभर्त्ति संवर्त्तमहास्थिभूषणस्ततो
हि काशी कलिकालवर्जिता । स्कन्द उवाच । वारा-
णसीति काशीति रुद्रावास इति द्विज! । महाश्मशान
मित्येवं प्रोक्तमानन्दकाननम् । इति देवीपुरः प्रोक्तं
देवदेवेन शम्भुना । यथा विष्णौ पुराख्यातं तथैवच
मया श्रुतम्” ।
सा च सप्तमोक्षपुर्य्यन्तर्गता । “अयोध्या मथुरामाया
काशी काञ्चिरवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायि-
काः । काशी० । “अन्यानि यानि तीर्थानि काशीप्राप्ति-
कराणि च । काशीं प्राप्यैव मोक्षन्ते नान्यथा कल्पकोटि-
भिः” भा० टी० नीलकण्ठधृतम् “तत्र हि जन्तोः प्राणेषूत्क्रमं
माणेषु रुद्रस्तारकं व्रह्म व्याचष्टे येनासावमृतीभूय-
मोक्षीभवति” श्रुतिः । तेन काशीमृतानां जन्तूनां
शिवसकाशात्तत्त्वज्ञानलाभेन तत्क्षणात् मुक्तिः तत्त्व-
ज्ञानस्य प्रारब्धेतरसर्व्वकर्म्मनाशकत्वात् तेनैव सर्व-
कर्म्मनाशः । सञ्चितकर्म्मणां कायव्यूहेन भोगात्
परिक्षपणमित्यन्ये । इतरतीर्थमृतानां तु ब्रह्मादि-
लोकप्राप्तौ तत्र श्रवणमननाद्यपेक्षेति भेदः ।
“सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत्” ।
काशी० “कदा काश्यां गमिष्यामि कदा द्रक्ष्यामि
शङ्करम् । इति ब्रुवाणः सततं काशीवासफलं लभेत् ।
२ काशीस्थदेवीमूर्त्तिभेदेच “विश्वेशं माधवं दुण्ढिं दण्ड
पार्णिञ्च भैरवम् । वन्देकाशीं गुहां गङ्गां भवानीं
मणिकर्णिकाम् । स्वल्पार्थे ङीप् । ३ खल्पकाशतृणे भरतः
पृष्ठ २०३४

काशीखण्ड न० काशीमाहात्म्यप्रतिपादकं खण्डम् । स्कन्द-

पुराणान्तर्गते काशीमाहात्म्यादिप्रतिपादके व्यासप्रणीते
खण्डभेदे तत्प्रतिपाद्यविषयाश्च तत्रानुक्रमणिकाध्याये
दर्शिता यथा
“विन्ध्यनारदसंवादः प्रथमं परिकीर्त्तितः । सत्यलोक
प्रभावश्च द्वितीयः समुदाहृतः । अगस्तेराश्रम
पदे देवानामागमस्ततः । पतिब्रताचरित्रं च प्रस्थानं
कुम्भसम्भुवः । तीर्थप्रशंसा च ततः सप्तपूर्य्यस्ततः
स्मृताः । संयमिन्याः स्वरूपञ्च ब्रह्मलोकस्ततः परम् ।
इन्द्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्म्मणः । अग्नेः
समुद्भवस्तस्मात् क्रव्याद्बरुणसम्भवः । गन्धवत्यलकापु-
र्य्योरीशयोस्तु समुद्भवः । चन्द्रलोकपरिप्राप्तिः शिवशर्म्म-
द्विजन्मनः । उडुलोककथा तस्मात्ततः शुक्रसमुद्भवः ।
महेशगुरुशौरीणां लोकानां वर्ण्णनं ततः । सप्तर्षीणां
ततोलोकाध्रुवस्य च तनस्तपः । ततोध्रुवपदप्राप्ति र्धुवलो-
कस्थितिस्ततः । दर्शनं सत्यलोकस्य तस्य वै शिवशर्म्मणः ।
चतुर्भुजाभिषेकश्च निर्व्वाणं शिवशर्म्मणः । स्कन्धागस्त्यो-
श्च संवादो मणिकर्ण्ण्याः समुद्भवः । ततस्तु गङ्गामाहात्म्यं
ततोदशहरास्तवः । प्रभावश्चापि गङ्गाया गङ्गानाम-
सहस्रकम् । वाराणस्याः प्रशंसा च भैरवाविर्भवस्ततः ।
दण्डपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः । आख्यान-
ञ्च कलावत्याः सदाचारस्ततः परम् । ब्रह्मचारिप्रक-
रणं ततः स्त्रीलक्षणानि च । कृत्याकृत्यप्रकरणमवि-
मुक्तेशवर्ण्णनम् । ततोगृहस्थधर्म्माश्च ततोयोगनिरू-
पणम् । कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्ण्णनम् ।
काश्याश्च वर्ण्णनं तस्माद्योगिनीवर्ण्णनं ततः । लोलार्क-
स्य समाख्यानमुत्तरार्ककथा ततः । शाम्बादित्यस्य
महिमा द्रुपदादित्यशंसनम् । ततस्तु गरुडाख्यानमरु-
णार्कोदयःस्ततः । दशाश्वमेधिकं तीर्थं मन्दराच्च गणागमः ।
पिशाचमोचनाख्यानं गणेशप्रेषणं ततः । माया गण
पतेश्चाथ ढुण्टिप्रादुर्भवस्ततः । विष्णुमायाप्रपञ्चोऽथ
दिवोदासविसर्ज्जनम् । ततः पञ्चनदोत्पत्तिर्विन्दु-
माधवसम्भवः । ततोवैष्णवतीर्थानां माहात्म्यपरि-
वर्ण्णनम् । प्रयाणं मन्दरात्काश्यां वृषभध्वजशूलिनः ।
जैगीषव्येण संवादो ज्येष्ठस्थाने महेशितुः । ततः
क्षेत्ररहस्यस्य कथनं पापनाशनम् । अथातः कन्दुकेशस्य
व्याघ्रेशस्य समुद्भवः । ततः शैलेश्वरकथा रत्नेशस्य च
दर्शनम् । कृत्तिवासःसमुत्पत्तिस्ततश्चायतनागमः । देवता
नामधिष्ठानं दुर्गासुरपराक्रमः । दुर्गाया विजयश्चाथ
तत ओङ्कारवर्ण्णनम् । पुनरोङ्कारमाहात्म्यं त्रिलो-
चनसमुद्भवः । त्रिलोचनप्रभावोऽथ केदाराख्यानमे-
व च । ततो धर्म्मेशमहिमा ततः पक्षिकथा शुभाः ।
ततो विश्वभुजाख्यानं दुर्द्दमस्य कथा ततः । ततोवीरेश्वरा-
ख्यानं वीरेशमहिमा पुनः । गङ्गा तीर्थैश्च संयुक्ता
कामेशमहिमा ततः । विश्वकर्म्मेशमहिमा दक्षयज्ञसमुद्भवः ।
सत्या देहविसर्गश्च ततोदक्षेश्वरोद्भवः । ततो वै पार्ब्ब-
तीशस्य महिम्नः परिकीर्त्तनम् । गङ्गेशस्याथ महिमा
नर्मदेशसमुद्भवः । सतीश्वरसमुत्पत्तिरमृतेशादिवर्ण्णनम् ।
व्यासस्य हि भुजस्तम्भो व्यासशापविमोक्षणम् । क्षेत्रतीर्थ-
कदम्बं च मुक्तिमण्डपसङ्कथा । विश्वेशाविर्भवश्चाथ ततोयात्रा
परिक्रमः । एतदाख्यानशतकं क्रमेण परिकीर्त्तितम्” ।

काशीनाथ पु० ६ त० । महादेवे काशीपत्यादयोऽप्यत्र” कालं

निकटतो ज्ञात्वा काशीनाथं समाश्रयेत्” । काशीनाथं
समाश्रित्य कुतःकालभयं नृणाम्” काशीख० ।

काशीयात्रा स्त्री ७ त० । काशीस्थतीर्थेषु यात्रायाम् तत्प्रकारः

काशीख० दर्शतोयथा ।
“श्रीवेदव्यास उवाच । निशामय महाप्राज्ञ! लोमहर्षण!
वच्मि ते । यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्मुदा ।
सचेलमादौ संस्नाय चक्रपुष्करिणीजले । संतर्प्य
देवान् सपितॄन् ब्राह्मणांश्च तथार्थिनः । आदित्यं द्रौपदीं
विष्णुं दण्डपाणिं महेश्वरम् । नमस्कृत्य ततोगच्छेद्द्रष्टुं
ढुण्ढिविनायकम् । ज्ञानवापीमुपस्पृश्यनन्दिकेशं ततोऽर्च्च-
येत् । तारकेशं ततोऽभ्यर्च्च्य महाकालेश्वरं ततः । ततः
पुनर्दण्डपाणिरित्येषा पञ्चतीर्थिका । दैनन्दिनी विधातव्या
महाफलमभीप्सुभिः । ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वा-
र्थसिद्धिदा । द्विसप्तायतनानाञ्च १४ कार्य्या यात्रा प्रयत्नतः ।
कृष्णांप्रतिपदं प्राप्य भूतावधि यथाविधि । अथ वा प्रतिभूतञ्च
क्षेत्रसिद्धिमभीप्सुभिः । तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृता-
र्च्चनः । मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः ।
ओङ्कारं प्रथमं पश्येन्मत्स्योदर्य्यां कृतोदकः । त्रिपिष्टपं
महादेवं ततोवै कृत्तिवाससम् । रत्नेशं चाथ चन्द्रेशं केदा-
रं च ततोव्रजेत्” । धर्म्मेश्वरं च वीरेशं गच्छेत् कामेश्वरं ततः ।
विश्वकर्म्मेश्वरं चाथ मणिकर्ण्णीश्वरं ततः । अविमुक्तेश्वरं-
दृष्ट्वा ततोविश्वेशमर्च्चयेत् । एषा यात्रा प्रयत्नेन कर्त्तव्या-
क्षेत्रवासिना । यस्तु क्षेत्रमुपित्वा तु नैतां यात्रां समाचरेत् ।
विघ्नास्तस्योपतिष्ठन्ते क्षेत्रोच्चाटनसूचकाः । अष्टायतनया-
पृष्ठ २०३५
त्राऽन्या कर्त्तव्या विघ्नशान्तये । दक्षेशः पार्व्वतीशश्च तथा
पशुपतीश्वरः । गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः ।
अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः । दृश्यान्येतानि
लिङ्गानि महापापोपशान्तये । अपरापि शुभा यात्रा
योगक्षेमकरी सदा । सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवा-
सिभिः । शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम् ।
स्नानं तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः । स्वर्लीन
तीर्थे सुस्नातः पश्येत् स्वर्लीनमीश्वरम् । स्तात्वा मन्दा-
किनीतीर्थे द्रष्टव्यो मध्यमेश्वरः । पश्येद्धिरण्यगर्भेशं
तत्र तीर्ये कृतोदकः । मणिकर्ण्ण्यां ततः स्नात्वा पश्ये-
दीशानमीश्वरम् । उपशान्तशिवं पश्येत् तत्कूपविहि-
तोदकः । पञ्चचूड़ाह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽ-
र्च्चयेत् । चतुःसमुद्रकूपे तु स्नात्वा देवं समर्च्चयेत् ।
देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते । शुक्रेश्वरं ततः
पश्येत् तत्कूपविहितोदकः । दण्डखाते ततः स्नात्वा
व्याघ्रेशम्पूजयेत्ततः । शौनकेश्वरकुण्डे तु स्नानं
कृत्वा ततोऽर्च्चयेत् । जम्बुकेशं महालिङ्गं कृत्वा यात्रा-
मिमां नरः । क्वचिन्न जायते भूयः संसारे दुःस्वसागरे ।
समारभ्य प्रतिपदं यावत् कृष्णचतुर्दशीम् । एतत्
क्रमेण कर्त्तव्यान्येतदायतनानि वै । इमां यात्रां नरः
कृत्वा न भूयोऽप्यभिजायते । अन्या यात्रा प्रकर्त्तव्यै-
कादशायतनोद्भवा । अग्नीध्रकुण्डे सुस्नातः पश्येदग्नी-
ध्रमीश्वरम् । उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ।
आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः । लाङ्गली-
शमथालोक्य ततस्तु त्रिपुरान्तकम् । ततो मनःप्रकाशेशं
प्रतीकेशमथो व्रजेत् । मदालसेश्वरं तस्मात्तिलपर्णेश्वरं
ततः । तत्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः ।
इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्तुयान्नरः । अतःपरं
प्रवक्ष्यामि गौरीयात्रामनुत्तमाम् । शुकपक्षे तृतीयायां
सा यात्रा विष्वगृद्धिदा । गोप्रेक्ष्यतीर्थे सुस्नाय सुखनि-
र्भालिकां व्रजेत् । ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां
गौरीं समर्चयेत् । सौभाग्यगौरी संपूज्या ज्ञानवाप्यां
कृतोदकैः । ततः शृङ्गारगौरोञ्च तत्रैव च कृतोदकः ।
स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत् ।
सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः । स्नात्वा
भवानीतीर्थेऽथ भवानीं परिपूजयेत् । मङ्गला
च ततोऽभ्यर्च्च्या विन्दुतीर्थकृतोदकैः । ततो गच्छेन्महालक्ष्मीं
स्थिरलक्ष्मीसमृद्धये । इमां यात्रां नरः कृत्वा क्षेत्रेऽ-
स्मिन् मुक्तिजन्मनि । न दुःखैरभिभूयेत इहामुत्रापि
कुत्रचित् । कुर्य्यात् प्रतिचतुर्थीह यात्रां विश्वेशितुः
सदा । व्रह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे ।
भौमे भैरवयात्रा च कार्य्या पातकहारिणी । रविवारे
रवेर्यात्रा षष्ट्यां घा रविसंयुजि । तत्रैव रविसप्तम्यां
सर्वविघ्नोपशान्तये । नवम्यामथ वाष्टम्यां चण्डीयात्रा
शुभावहा । अन्तर्गृहस्य वै यात्रा कर्त्तव्या प्रतिवत्स-
रम् । प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान् ।
नमस्कृत्याथ विश्वेशं स्थित्वा निर्व्वाणमण्डपे । अन्तर्गृ-
हस्य यात्रां वै करिष्येऽघौघशान्तये । गृहीत्वा नियमं
चेति गत्वाथ मणिकर्ण्णिकाम् । स्नात्वा मौनेन चागत्य
मणिकर्ण्णीशमर्चयेत् । कम्बलाश्वतरौ नत्वा वासुकीशम्प्र-
णम्य च । पर्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ ।
ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः । ततोवै
सोमनाथञ्च वाराहञ्च ततो व्रजेत् । ब्रह्मेश्वरं ततो नत्वा
नत्वागस्तीश्वरं ततः । कश्यपेशं नमस्कृत्य हरिकेशवनं
ततः । वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च ।
गोकर्णेश्वरमभ्यर्च्यहाटकेशमथो व्रजेत् । अस्थिक्षेपतड़ा-
गेऽथ दृष्ट्वा वै कीकसेश्वरम् । भारभूतं ततोनत्वा चित्रगु-
प्तेश्वरं ततः । चित्रघण्टां प्रणम्याथ ततः पशुपतीश्व-
रम् । चन्द्रेशश्चाथ वीरेशो विद्येशोऽग्नीश एव च ।
दिवामहेश्वरं नत्वा ततस्तु कलसेश्वरम् ।
नागेश्वरो हरिश्चन्द्रश्चित्तामणिविनायकः । सेनाविना-
यकश्चाथ द्रष्टव्यः सर्वविघ्नहृत् । वशिष्ठवामदेवौ च
मूर्त्तिरूपधरावुभौ । द्रष्टव्यौ यत्नतः काश्यां महाविघ्न
विनाशकौ । सीमाविनायकं चाथ करुणेशं ततो
व्रजेत् । त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका ।
आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः । चतुर्वक्त्रे-
श्वरं लिङ्गं ब्राह्मीशश्च ततः परम् । ततो मनःप्रकाशे-
शं श्मशानेशस्ततः परम् । चण्डीचण्डीश्वरौ दृश्यौ-
भवानीशङ्करौ ततः । ढुल्ढिं प्रणम्य च ततो
राजराजेशमर्चयेत् । लाङ्गलीशस्ततोऽभ्यर्च्यस्ततस्तु
नकुलीश्वरः । परान्नेशमथो नत्वा परद्रव्येश्वरं ततः ।
प्रतिग्रहेश्वरं चापि निष्कलङ्केशमेव च । मार्कण्डेये-
शमभ्यर्च्य तत आप्सरसेश्वरम् । गङ्गेशोऽर्च्यस्ततो ज्ञान-
वाप्यां स्नानं समाचरेत् । नन्दिकेशं तारकेश
महाकालेश्वरं ततः । दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्
ततः । वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः । विना-
पृष्ठ २०३६
यकांस्ततः पञ्च विश्वनाथं ततोव्रजेत् । ततो मौनं
विसृज्याथ मन्त्रमेतमुदीरयेत् । अन्तर्गृहस्य यात्रेयं
यथावद्या कृता मया । न्यूनातिरिक्तया शम्भुः प्रीयता
मनया विभुः । इमं मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिम-
ण्डपे । विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः ।
संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः । कार्य्या
यात्रा प्रयत्नेन महापुण्यसमृद्धये । नवम्यां पञ्चदश्यां च
कुलस्तम्भं समर्चयेत् । दुःखरुद्रपिशाचत्वे न लभेद्
यस्य पूजनात् । श्रद्धापूर्वमियं यात्रा कर्त्तव्या तीर्थवा-
सिभिः । सर्वस्यापि विशेषेण कार्य्या यात्राश्च सर्व्वतः ।
न बन्ध्यं दिवसं कुर्य्याद्विना यात्रां क्वचित् कृती । यात्रा-
द्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम् । आदौ स्वर्गतर-
ङ्गिण्यास्ततो विश्वेशितुःस्तवम् । यस्य बन्ध्यं दिनं यातं
काश्यां निवसतः सतः । निराशाः पितरस्तस्य तस्मि-
न्नेव दिनेऽभवन् । सदष्टः कालसर्पेण स दृष्टो मृत्युना-
स्फुटम् । स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ।
सर्व्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात् स च ।
मणिकर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत । सत्यं सत्यं
पुनः सत्यं सत्यं सत्यं पुनः पुनः । दृश्योविश्वे-
श्वरो नित्यं स्नातव्या मणिकर्ण्णिका” ।

काशीरहस्य न० काश्यारहस्यम् । १ काशीस्थैः कर्त्तव्याचा-

रभेदे २ तन्माहात्म्यप्रकाशने तच्च काशीख० दर्शितंयथा
“येषां हृदि सदैवास्ते काशी त्वाशीविषाङ्गदः (शिवः)
संसाराशीविषविषं न तेषां प्रभवेत् क्वचित् । गर्भ-
रक्षामणिर्म्मन्त्रः काशीवर्ण्णद्वयात्मकः । यस्य
कण्ठे सदा तिष्ठेत्तस्याकुशलभीः कुतः । सुधां पिबति
योनित्यं काशीवर्णद्बयात्मिकाम् । स नैर्ज्जरीं दशां
हित्वा सुधैव परिजायते । श्रुतं कर्ण्णामृतं येन
काशीत्यक्षरयुग्मकम् । न समाकर्णयत्येव स पुनर्गर्भजां
कथाम् । काशीरजोऽपि यन्मूर्द्ध्नि पतेदप्यनिलाहृतम् ।
चन्द्रशेखरतन्मूर्द्धा भवेच्चन्द्रकलाङ्गतः । प्रसङ्गतोऽपि
यन्नेत्रपथमानन्दकाननम् । यातं, तेऽत्र न जायन्ते
नेक्षेरन् पितृकाननम् । गच्छता तिष्ठता वापि स्वपता जाग्र-
ताथ वा । काशीत्येष महामन्त्रो येन जप्तः स निर्भवः । येन
वीजाक्षरयुगं काशीति हृदि धारितम् । अवीजानि
भवन्त्येव कर्म्मवीजानि तस्य वै । काशी काशीति काशीति
जपतोयस्य संस्थितिः । अन्यत्रापि सतस्तस्य पुरो मुक्तिः
प्रकाशते । क्षेममूर्त्तिरियं काशी क्षेममूर्त्तिमयो भवः ।
क्षेममूर्त्तिस्त्रिपथगा नान्यत् क्षेमत्रयं क्वचित् । ब्राह्मणा-
नामिति वचः क्षेत्रभक्तिवि वृंहितम् । निशम्य गिरिजा-
कान्तस्तुतोष नितरां हरः । प्रोवाच च प्रसन्नात्मा घन्या
यूयं द्विजर्षभाः! । येषामिहेदृशी भक्तिर्ममक्षेत्रेऽतिपावने ।
जाने सत्वमया जाताः क्षेत्रस्यास्य निषेवणात् ।
नीरजस्का वितमसः संसारार्णवपारगाः । वाराणस्यास्तु ये
भक्तास्ते भक्ता मम निश्चितम् । जीवन्मुक्ताहि ते नूनं
मोक्षलक्ष्म्या कटाक्षिताः । यैश्च काशीस्थितो जन्तुरल्पकोऽपि
विरोधितः । तैश्च विश्वम्भरा सर्वा मया सह विरो-
धिता । वाराणस्यास्तु नामापि यो निशम्यानुमोदते ।
अपि ब्रह्माण्डमखिलं ध्रुवन्तेनानुमोदितम् । निवसन्ति
हि ये मर्त्या अस्मिन्नानन्दकाननै । ममान्तःकरणे ते वै
निवसेयुरकल्मषाः । निवसन्ति मम क्षेत्रे मम भक्तिं
नकुर्वते । मम लिङ्गधराये नो, न तानुपदिशाम्यहम् । काशी
निर्वाणनगरी येषां चित्ते प्रकाशते । ते मत्पुरः प्रकाशन्ते
नैःश्रेयस्या श्रिया वृताः । मोक्षलक्ष्मीरियं काशी न येम्यः
परिरोचते । स्वर्लक्ष्मीं काङ्क्षमाणेभ्यः पतितास्ते न
संशयः । काशीं संकाङ्क्षमाणानां पुरुषार्थचतुष्टयम् । पुरः
किङ्करवत्तिष्ठेन्ममानुग्रहतो द्विजाः! । आनन्दकानने ह्यत्र
ज्वलन्दावानलोऽस्म्यहम् । कर्म्मवीजानि जन्तूनां ज्वाल-
ये, न प्ररोहये । वस्तव्यं सततं काश्यां यष्टव्योऽहं प्रयत्नतः ।
जेतव्यौ कलिकालौ च लब्धव्या मुक्तिरङ्गना । प्राप्यापि
काशीं दुर्बुद्धिर्यो न मां परिषेवते । तस्य हस्तगताप्याशु कैव
ल्यश्रीः प्रणश्यति । धन्या मद्भक्तिलक्ष्माणो ब्राह्मणाः
काशिवासिनः । यूयं, यच्चेतसो वृत्तौ न दूरेऽहं न काशिका ।
दातव्यो वो वरः कोऽत्र व्रियतां स यथारुचि । प्रेयांसो मे
यतो यूयं क्षेत्रसन्न्यासकारिणः । इति पीत्वा महेशा-
नमुखक्षीराब्धिजां सुधाम् । परितृप्ता द्विजाः सर्ब्बे
वव्रुर्वरमनुत्तमम् । ब्राह्मणा ऊचुः । उमापते महेशा-
न! सर्वज्ञ! वर एष नः । काशी कदापि न त्याज्या
भवता भवतापहृत्! । वचनाद्व्राह्मणानान्तु शापो मा प्रभव-
त्विह । कदाचिदपि केषांचित् काश्यां मोक्षेऽन्तरायकः ।
तव पादाम्बुजद्वन्द्वे निर्द्वन्द्वा भक्तिरस्तु नः । आकले-
वरपातञ्च काशीवासोऽस्तु नोऽनिशम् । किमन्येन वरेणे-
श देय एष वरो हि नः । अवधेह्यन्धकध्वंसिन्! वरमन्यं
वृणीमहे । तव प्रतिनिधीकृत्यास्माभिस्त्वद्भक्तिभावितैः ।
प्रतिष्ठितेषु लिङ्गेषु सान्निध्यं भवतोऽस्त्विह । श्रुत्वेति
तेषां वाक्यानि तथास्त्विति पिनाकिना । प्रोचेऽन्योऽपि-
पृष्ठ २०३७
वरो दत्तो ज्ञानं वश्च भविष्यति । पुनः प्रोवाच देवेशो
निशामयत भो द्विजाः! । हितं वः कथयाम्यत्र तदनुष्ठी-
यतां ध्रुवम् । सेव्योत्तरवहा नित्यं लिङ्गमर्च्च्यं प्रय-
त्रतः । दमोदानं दया नित्यं कर्त्तव्यं मुक्तिकाङ्क्षिभिः ।
इदमेव रहस्यञ्च कथितं, क्षेत्रवासिना । मतिः परहिते
कार्य्या वाच्यं नोद्वेगकृद्वचः । मनसाऽपि न कर्त्तव्य-
मेनोऽत्र विजीगीषुणा । अत्यर्थमक्षयं यस्मात् सुकृतं
सुकृतेतरत् । अन्यत्र यत् कृतं पापं तत् काश्यां
परिनश्यति । वाराणस्यां कृतं पापमन्तर्गेहे विनश्यति ।
अन्तर्गेहे कृतं पापं पैशाच्यनरकावहम् । पिशाचनरक-
प्राप्तिर्गच्छत्येव बहिर्यदि । न कल्पकोटिभिः काश्यां कृतं
कर्म प्रभुज्यते । किन्तु रुद्रपिशाचत्वं जायतेऽत्रायुतत्रयम् ।
वाराणस्यां स्थितो यो वै पातकेष्वारतः सदा । योनिं
प्राप्यापि पैशाचीं वर्षाणामयुतत्रयम् । पुनरत्रैव निवसन्
ज्ञानं प्राप्स्यत्यनुत्तमम् । तेन ज्ञानेन संप्राप्ते मोक्षमाप्-
स्यत्यनुत्तमम् । दुष्कृतानि विधायेह बहिः
पञ्चत्वमागताः । तेषां गतिं प्रवक्ष्यामि शृणुत द्विज-
सत्तमाः! । याम्याख्या मे गणाः सन्ति घोरा विकृत-
मूर्त्तयः । मूषायां ते धमन्त्यादौ क्षेत्रदुष्कृतकारिणः ।
नयन्त्यनूपप्रायाञ्च ततः प्राचीं दुरासदाम् । वर्षाकाले
दुराचारान् पातयन्ति महाजले । जलौकाभिः
सपङ्काभिर्दन्दशूकैर्जलोद्भवैः । दुर्निवारैश्च मसकैर्दश्यन्ते ते
दिवानिशम् । ततो याम्यैर्हिमर्त्तौ ते नीयन्तेऽद्रौ हिमा-
लये । अशनावरणैर्हीनाः क्लेश्यन्ते ते दिवानिशम् ।
मरुस्थले ततो ग्रीष्मे वारिवृक्षविवर्जिते । दिवाकरकरै-
स्तीब्रैः स्थाप्यन्ते ते पिपासिताः । क्लेशितास्ते
गणैरुग्रैर्यातनाभिः समन्ततः । इत्थं कालमसङ्ख्यात
मानीयन्ते ततस्त्विह । निवेदयन्ति ते याम्याः
कालराजान्तिकं ततः । कालराजोऽपि तान् दृष्ट्वा कर्म्म-
संस्मार्य्य दुष्कृतम् । विवस्त्रान् क्षुत्तृषार्त्तांश्च लग्नपृष्ठो-
दरत्वचः । अन्यैरुद्रपिशाचैश्च सह संयोजयत्यपि ।
ततो रुद्रपिशाचास्ते भैरवानुचराः सदा । सहन्ते
क्लममत्यर्थं क्षुत्तृड्लग्नत्वसम्भवम् । आहारं रुधिरो-
न्मिश्रं ते लभन्ते कदाचन । एवं त्र्ययुतसंख्यातं कालं
तत्रापि दुःखिताः । श्मशानस्तम्भमभितो नीयन्ते कण्ठ-
पाशिताः । पिपासिता अपि न तेऽम्बुस्पर्शमपि चाप्नुयुः ।
अथ संक्षीणपापास्ते कालभैरवदर्शनात् । इहैव देहि-
तो भूत्वा मुच्यन्ते ते ममाज्ञया । तस्मान्न कामयेदत्र
वाड्मनःकर्म्मणाप्यघम् । शुचौ पथि सदा स्थेयं
महालाभमपीप्सुभिः । नाविमुक्ते मृतः कश्चिन्नरकं याति
किल्विषी । ममानुग्रहमासाद्य गच्छत्येव परां गतिम् ।
अनशनं यः कुरुते मद्भक्त इह सुव्रतः । न तस्य
पुनरावृत्तिः कल्पकोटिशतैरपि । अशाश्वतमिदं ज्ञात्व
मानुष्यं बहुकिल्विषम् । अविमुक्तं सदा सेव्यं संसार
भयमोचकम् । नान्यत् पश्यामि जन्तूनां मुक्त्वा वाराणसीं
पुरीम् । सर्वपापप्रशमनीं प्रायश्चित्तं कलौ युगे ।
जन्मान्तरसहस्रेषु यत्पापं समुपार्जितम् । अविमुक्तं
प्रविष्टस्य तर्त्सवं व्रजति क्षयम् । जन्मान्तरसहस्रेषु
युञ्जन् योगं यदाप्नुयात् । तदिहैव परो मोक्षो मरणादधि-
गम्यते । तिर्यग्योनिगताः सत्वा येऽविमुक्ते कृतालयाः ।
कालेन निधनं प्राप्तास्ते यान्ति परमां गतिम् । अविमुक्तं
न सेवन्ते ये मूढ़ास्तमसा वृताः । विण्मूत्ररेतसां मध्ये
ते वसन्ति पुनः पुनः । अविमुक्तं समासाद्य यो लिङ्गं
स्थापयेत् सुधीः । कल्पकोटिशतैर्वापि नास्ति तस्य
पुनर्भवः । ग्रहनक्षत्रताराणां कालेन पतनं ध्रुवम् ।
अविमुक्तमृतानान्तु पतनं नैव विद्यते । व्रह्महत्यां नरः
कृत्वा पश्चात् संयतमानसः । प्राणांस्त्यजति यः काश्यां
स मुक्तो नात्र संशयः । स्त्रियः पतिव्रता याश्च मम भक्ति
समाहिताः । अविमुक्ते मृता विप्रा! यान्ति ताः परमां
गतिम् । अत्रोत्क्रमणकालेऽहं स्वयमेव द्विजोत्तमाः! ।
दिशामि तारकं ब्रह्म, देही स्वाद्येन तन्मयः । मन्मना
मम भक्तश्च मयि सर्ब्बार्पितक्रियः । यथा मोक्षमिहा-
प्नोति न तथाऽन्यत्र कुत्रचित् । मरणं निश्चितं ज्ञात्वा
गतिञ्चासुखदायिनीम् । चलमागन्तुकं सर्वं, ततः काशीं
समाश्रयेत् । काशी समाश्रिता यैस्तु मनोवाक्वायकर्मभिः ।
तानत्र निर्म्मलधियो निर्वाणश्रीः । समाश्रयेत् काशीस्थि-
तैकमपि यः प्रीणयेन्न्यायजैर्धनैः । तेन त्रैलोक्यम-
खिलं प्रीणितं तु मया सह । यः प्रीणयति पुण्यात्मा
निर्वाणनगरीश्वरम् । प्रणयेन स्थितो नित्यं ब्राह्मणाः!
प्रीणयामि तम् । दिवोदासोऽपि राजर्षिः काशीं धर्मेण
पालयन् । सदेहो मत्पदं प्राप्तो यतो न पुनरागतिः ।
अत्र योगस्तथा ज्ञानं मुक्तिरेके जन्मनना । अतो
विमुक्तमासाद्य नान्यद्गच्छेत्तपोवनम् । मोक्षं सुदुर्लभं
ज्ञात्वा संसारञ्चातिभीषणम् । अश्मना चरणौ हत्वा
कालमत्र प्रतीक्षयेत् । अविमुक्तं परित्यज्य यदा
यास्यन्ति दुर्धियः । हसिव्यन्ति तदा भूतान्यन्योन्यकरता-
पृष्ठ २०३८
ड़नैः । प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम् ।
परिनिष्क्रान्तुमन्यत्र कस्य जन्तोर्मतिर्भवेत् । महादानेन
चान्यत्र यत् फलं लभ्यते नरैः । अविमुक्ते तु काकिन्यां
दत्तायां तदवाप्यते । एकः समर्च्चयेल्लिङ्गं तपस्तप्येत
चापरः । तयोर्मध्ये तु स श्रेष्ठो यो लिङ्गं पूजयेदिह ।
तीर्थान्तरे गवां कोटिं विधिवद्यः प्रयच्छति । एकाहं यो
वसत् काश्यां काशीवासी तयोर्वरः । अन्यत्र ब्राह्म-
णानां तु कोटिं संभोज्य यत् फलम् । वाराणस्यां
तदैकेन भोजितेन तदाप्यते । सन्निहित्यां कुरुक्षेत्रे राहु-
ग्रस्ते दिवाकरे । तुलापुरुषदानेन काश्यां भिक्षा
समा भवेत् । ममेह परमं ज्योतिरापातालाद्व्यव-
स्थितम् । अतीत्य सत्यलोकादीननन्तलिङ्गरूपधृक् ।
पृथिव्यन्तःस्थितं लिङ्गमविमुक्तं स्मरन्ति ये । कलुषैस्ते
विमुच्यन्ते महद्भिरिति निश्चितम् । अस्मिन् क्षेत्रे तु
येनाहं दृष्टः स्पृष्टः समर्च्चितः । सम्प्राप्य तारकं ज्ञानं
न स भूयोऽभिजायते । यो मामिह समभ्यर्च्य म्रिय-
तेऽन्यत्र कुत्रचित् । जन्मात्तरेऽपि मां प्राप्य स विमुक्तो
भविष्यति । इत्युक्त्वा क्षेत्रमाहात्म्यं द्विजानामग्रतो
हरः । पश्यतामेव तेषान्तु तत्रैवान्तर्हितोऽभवत्” ।

काशीसेतु पु० त्रिस्थलीसेत्वन्तर्गते काशीमाहात्म्ययात्रादिवि-

धायके ग्रन्थभेदे ।

काशेय पु० काश्यां भवः ढक् काशेर्नृपत्यापत्यं वा ढक् ।

काश्यां भवे स्त्रियां ङीप् । “भरतः खलु काशेयीमुपयेमे
सार्व्वसेनीं सुनन्दां नाम तस्यां जज्ञे भुमन्युर्नाम” ।
भा० आ० ९५ ।

काशीश(स) न० काशिं प्रकाशमीष्टे ईश--क । (हीराकस)

ख्याते उपधातुभेदे “काशीशं(सं)धातुकाशीशं (सं)पांशु-
काशीश(स)मित्यपि । तदेव किञ्चित्पीतं तु पुष्पकाशीश
(स)मुच्यते । काशीश(स)सम्लमुष्णञ्च तिक्तञ्च तुवरं
तथा । वातश्लेष्महरं केश्यं रेतःकण्डूविषप्रणुत् । मूत्र-
कृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम्” भावप्र० काशीं
दीप्तिं स्यति सो--क । दन्त्यान्तोऽप्यत्र भावप्र० ।

काशू(सू) स्त्री कश(स) ऊणिच्च उज्ज्वलदत्तीये तालव्यमध्यपाठः

पा० सूत्रे दन्त्यमव्यपाठः १ शक्तिरूपास्त्रे २ विकल-
वाचि च मेदि० ३ बुद्धौ रोगे शब्दचि० ।

काशू(सू)कार पु० काशूं(सूं)विकलवाचं करोति कृ--अण्-

उप--क० । गुवाकेश बूचि० तत्फलसेवने हि जिह्वा-
जाद्यात् वाचो वैकल्यं जायते इति तस्य तथात्वम् ।

काशू(सू)तरो स्त्री० ह्रस्वा काशूः (सूः) ह्रस्वार्थे ष्टरच्

ङीष् । ह्रस्वे कासूनामास्त्रभेदे ।

काश्म(श्व)री स्त्री काश--वनिप् वनोरच नश्चान्तादेशः पृषो०

वा वस्य मः । गाम्भार्य्याम् अमरः, फलेऽपि हरीत०
अणोलुपि स्त्री । ० “विल्वान् कपिलत्थान् जम्बूश्च काश्म-
रीर्वदरीस्तथा” भा० व० १५८ अ० ।

काश्मर्य्य पु० काश्मरी + स्वार्थे ष्यञ् । गाम्भार्य्याम् अमरः

“वदरेङ्गुदकाश्मर्य्यभल्लातकफलानि च” भा० आनु० ५३० ।
अयञ्च मधुरवर्गे पियालवीजकाश्मर्य्येत्याद्युपक्रमे “समा-
सेन सषुरोवर्गः” सुश्रुते उक्तः ।

काश्मीर न० काश्मीरे भवः कच्छा० अण् । १ पुष्करमूले अम० ।

२ टङ्के ३ कुङ्कुमभेदे मेदि० “काश्मीरदेशगे क्षेत्रे कुङ्कुमं
यत् भवेद्धि तत् । सूक्ष्मकेशरमारक्तं पद्मगन्धि
तदुत्तमम्” भावप्र० तत्स्वरूपाद्युक्तम् । काश्मीरद्रव-
सान्द्रदिग्धवपुषः” भर्त्तु० । “काश्मीरागुरुकस्तरी-
त्रिलहरीकाशीपुराधीश्वरी” अन्नदास्त० । ४ काश्मीरदे-
शभवे त्रि० स्त्रियां ङीप् । “तेन तेनैवमापन्ना काश्मीरीव
तुरङ्गमी” भा० वि०९ अ० । सा च ५ गाम्भीर्य्यां भाबप्र० ।
काश्मीरदेशानां राजा अण् । ६ तद्देशराजे । “काश्मीराश्च
कुमाराश्च घोरका हंसकायनाः । शिवित्रिगर्त्तयौधेयाः
राजन्या मद्रकैकयाः” भा० स० ५२ । काश्मीरोऽभि
जनोऽस्य सिन्ध्वा० अण् । पित्रादिक्रमेण ७ तद्देशवासिनि त्रि०
“काश्मीराः सिन्धुसौवीरा गान्धारादर्शकास्तथा” भा०
भी०९ अ० । “शूद्राभीराश्च दरदाः काश्मीराः पत्तिभिः
सह” तत्रैव । “शारदामठमारभ्य कुङ्कुमाद्रितटान्तकः ।
तावत्काश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः” इत्युक्ते
८ देशभेदे च । “काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमान-
सम्” सुश्रु० । काश्मीरमण्डलतीर्थादिकथा भा० व०१३० अ०
यथा “एषा रम्या विपाशा च नदी परमपावनी । अत्र वै
पुत्त्रशोकेन वशिष्ठो भगवानृषिः । बद्ध्वात्मानं निपतितो
विपाशः पुनरुत्थितः । काश्मीरमण्डलञ्चैतत् सर्व्वपुण्य-
मरिन्दम! । महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ।
यत्रोत्तराणां सर्व्वेषामृषीणां नाहुषस्य च । अग्नेश्चै-
वात्र संवादः काश्यपस्य च भारत! । एतद्द्वारं महाराज ।
मानसस्य प्रकाशते । वर्षमस्य गिरेर्म्मध्ये रामेण श्रीमता
कृतम् । एष वातिकखण्डो वै प्रख्यातः सत्यविक्रम! ।
नात्यवर्त्तत यद्द्वारं विदेहादुत्तरञ्च यः । इदमाश्चर्य्यमपरं
देशेऽस्मिन् पुरुषर्षभ! । क्षीणे युगे तु कौन्तेय! शर्ब्बस्य
पृष्ठ २०३९
सह पार्षदैः । सहोमया च भवति दर्शनं कामरूपिणः ।
अस्मिन् सरसि सत्रैर्व्वै चैत्रे मासि पिनाकिनम् ।
यजन्ते याजकाः सम्यक् परिवारशुभार्थिनः । अत्रोपस्पृश्य
सरसि श्रद्दघानो जितेन्द्रियः । क्षीणपापः शुभान्
लोकान् प्राप्नुते नात्र संशयः” ।
“काश्मीरमण्डले नद्यो याः पतन्ति महानदम् । ताः
नदीः सिन्धुमास्नाय शीलवान् स्वर्गमाप्नुयात्” भा०
आनु०२५ अ० । काश्मीरदेशौत्पत्तिस्थानत्वेनास्त्यस्याः
अच् टाप् । ८ कपिलद्राक्षायां स्त्री राजनि० । ९
अतिविकायां स्त्री मेदि० ।

काश्मीरक त्रि० काश्मीरे भवः मनुष्यस्तत्स्थोवा वुञ् ।

काश्मीरदेशोद्भवे १ मनुष्ये २ तत्स्थे च । “ततः काश्मीर-
कान् वीरान् क्षत्रियान् क्षत्रियर्षभः” भा० स० २६ अ० ।

काश्मीरज न० काश्मीरे जायते जन--ड ७ त० । १ कुष्ठे

(कुड़) २ कुङ्कुम भेदे च मेदि० । ३ पुष्करमूले विश्वः ।

काश्मीरजन्मन् न० काश्मीरे जन्म यस्य । कुङ्कुमभेदे अमरः ।

काश्मीर्य्य त्रि० काश्मीरेण निर्वृत्तादि सङ्काशा० चतुरर्थ्यां ण्य ।

१ काश्मीरनिर्वृत्तादौ २ कुङ्कुमभेदे न०

काश्य न० कं जलमाश्यं यत्र कुत्सितं वा आश्यं अश--ण्यत्

कश्य + स्वार्थेऽण् वा । १ मद्ये हेमच० । काश्यां भवःयत् ।
२ काशिराजे पु० । स्वार्थेक । तत्रैव । “शलात्मजश्चार्ष्टिषेण
स्तनयस्तस्य काश्यकः । काश्यस्य काश्यपः पुत्रो राजा
दीर्घतपास्तथा” हरिवं० २९ अ० ।

काश्यप न० काश्यं मद्यं पिबत्यत्र पा--घञर्थे क । १ मांसे

हेमच० । मांसस्य मद्यपानाव्यभिचारात्तथात्वम् । काश्यं
राजभेदं पाति नरकात् पा--क । काश्यस्य नृपस्य
२ पुत्रभेदे काश्यशब्दे उदा० । कश्यपस्य गोत्रापत्यम् विदा०
अञ् । ३ कश्यपगोत्रापत्ये पुंस्त्री । ४ कणादे मुनौ पु०
त्रिका० । ५ मृगभेदे पुंस्त्री मेदि० स्त्रियां जातित्वात्
ङीष् । कश्यपस्येदम् अण् । ६ कश्यपसम्बन्धिनि त्रि०
“एष एव दितेर्गर्भ ओजः काश्यपमर्पितम्” भाग० ३, १५,
११ श्लो० । स्त्रियां ङीप् । सा च ७ पृथिव्याम् स्त्री तस्याः
तत्सम्बन्धितया तत्सुतत्वकथा भा० आनु० १५४ अ० उक्ता
यथा “इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा ।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ । धारि-
णीं सर्वभूतानामयं प्राप्य बरो नृपः । कथमिच्छति मां
दातुं द्विजेभ्यो ब्रह्मणः सुताम् । साऽहं त्यक्त्वा
गमिष्यामि भूमित्वं ब्रह्मणः पदम् । अयं सराष्ट्रो नृपतिर्म्मा
भूदिति ततोऽगमत् । ततस्तां कश्यपो दृष्ट्वा व्रजन्ती
पृथिवीं तथा । प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहि-
तः । ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता । धर्म्मोत्तरा
नष्टभया भूमिरासीत्ततो नृप! । एवं वर्षसहस्राणि दिव्या-
नि सततं नृप! । त्रिंशतः काश्यपो राजन्! भूमिरासी-
दतन्द्रिता । अथागम्य महाराज! नमस्कृत्य च कश्य-
पम् । पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः” ।
८ तद्गोत्रापत्यस्त्रियां स्त्री ङीप् “काश्यपीबालाक्यमाठरी
पुत्रात् काश्यपीबालाक्यमाठरीपुत्रः” शत० व्रा० १४, ९, ४, ३१०
९ कश्यपपत्न्यां स्त्री काश्यपेयः । कश्यपगोत्रोत्पन्ने
विषचिकित्साभिज्ञे १० ऋषिभेदे पु० तत्कथा भा० आ०
४२ अ० यथा
“काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ।
श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम् । तक्षकः
पन्नगगश्रेष्ठो नेष्यते यमसादनम् । तं दष्टं पन्नगेन्द्रेण
करिष्येऽहमपज्वरम् । तत्र मेऽर्थश्च धर्म्मश्च भवितेति
विचिन्तयन् । तं ददर्श च नागेन्द्रस्तक्षकः काश्यपं पथि ।
गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः । तमव्रवीत्
पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् । क्व भवांस्त्वरितो याति
किञ्च कार्य्यं चिकीर्षति । काश्यप उवाच! नृपं कुरु-
कुलोत्पन्नं परीक्षितमरिन्दमम्! तक्षकः पन्नगश्रेष्ठस्ते-
जसाद्य प्रधक्ष्यति । तं दष्टं पन्नगेन्द्रेण तेनाग्निसमते-
जसा । पाण्डवानां कुलकरं राजानममितौजसम् ।
गच्छामि त्वरितं सौम्य! सद्यः कर्त्तुमपज्वरम् । तक्षक
उवाच । अहं स तक्षको व्रह्मंस्तं धक्ष्यामि महीपतिम् ।
निवर्त्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् । काश्य-
प उवाव । अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम् ।
करिष्यामीति मे वुद्धिर्विद्याबलसमन्वितः ।
तक्षक उवाच । यदि दष्टं मयेह त्वं शक्तः किञ्चिच्चिकित्-
सितुम् । ततो वृक्षं मया दष्टमिर्म जीवय काश्यप! । परं
मन्त्रवलं यत्ते तद्दर्शय यतस्व च । न्यग्रोधमेनं धक्ष्यामि
पश्यतस्ते द्विजोत्तम! । काश्यप उवाच । दश नागेन्द्र!
वृक्षं त्वं यद्येतदभिमन्यसे । अहमेनं त्वया दष्टं
जीवयिष्ये भुजङ्गम! । सौतिरुवाच । एवमुक्तः स नागेन्द्रः
काश्यपेन महात्मना । अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्न-
गोत्तमः । म वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना ।
आशीविषविषोपेतः प्रजज्वाल समन्ततः । तं दग्ध्वा स
नगं नागः काश्यपं पुनरब्रवीत् । कुरु यत्नं द्विजश्रेष्ठ!
पृष्ठ २०४०
जीवयैनं वनस्पतिम् । सौतिरुवाच । भस्मीभूतं ततो
वृक्षं पन्नगेन्द्रस्य तेजसा । सर्वं भस्म समाहृत्य काश्यपो
वाक्यमब्रवीत् । विद्याबलं पन्नगेन्द्र! पश्य मेऽद्य
वनस्पतौ । अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम! । ततः
स भगवान् विद्वान् काश्यपो द्विजसत्तमः । भस्मराशी-
कृतं वृक्षं विद्यया समजीवयत् । अङ्कुरं कृतवांस्तत्र ततः
पर्णद्वयान्वितम् । पलाशिनं शाखिनञ्च तथा विटपिनं
पुनः । तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।
उवाच तक्षको व्रह्मन्नैतदत्यद्भुतं त्वयि । द्विजेन्द्र! यद्विषं
हन्या मम वा मद्विधस्य वा । कं त्वमर्थमभिप्रेप्सुर्यासि
तत्र तपोधन! । यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्त-
मात् । अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् । विप्र-
शापाभिभूते च क्षीणायुषि नराधिपे । घटमानस्य ते
विप्र! सिद्धिः सशयिता भवेत् । ततो यशः प्रदीप्तन्ते त्रिषु
लोकेषु विश्रुतम् । निरंशुरिव वर्म्मांशुरन्तर्द्धानमितो
व्रजेत् । काश्यप उवाच । धनार्थी याम्यहं तत्र तन्मे
देहि भुजङ्गम! । ततोऽहं विनिवर्त्तिष्ये स्वापतेयं प्रगृह्य वै ।
तक्षक उवाच । यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
अहमेव प्रदास्यामि निवर्त्तस्व द्विजोत्तम! । सौतिरुवाच ।
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तर्मः । प्रदध्यौ
सुमहातेजा राजानं प्रति बुद्धिमान् । दिव्यज्ञानात् स तेजस्वी
ज्ञात्वा तं नृपतिं तदा । क्षीणायुषं पाण्डवेयमपावर्त्तत
काश्यपः” ।

काश्यपनन्दन पु० कश्यपस्यायम् अण् कर्म्म० । १ गरुडे २ अरुणे

३ देवमात्रे च । “ददानि मेदिनीभागं भवद्भ्योऽहं
सुरर्षभाः! । यस्मिन् देशे करिष्यध्वं यज्ञान् काश्यपनन्द-
नाः” भा० आनु० ६६ अ० । “मरीचेः कश्यपः पुत्रः कश्य-
पात्तु इमाः प्रजाः । प्रजज्ञिरे महाभागा दक्षकन्या-
स्त्रयोदश” इत्युपक्रम्य “अदित्या द्वादशादित्याः
सम्भूता भुवनेश्वराः” इत्युक्त्वा सर्व्वेषां सुरासुरादीनां
ततौत्पत्त्युक्तेः ४ असुरादिषु च । कश्यपशब्दे १८३७ पृ०
विवृतिः

काश्यपायन पुंस्त्री० कश्यपस्य गोत्रापत्यं नडा० फक् । कश्यपगोत्रापत्ये

काश्यपि पु० कश्यपे भवः इञ् । १ अरुणे २ गरुडे च । तयोः

कश्यपेन विनतायामुत्पत्तिकथा च भा० आ० ३१ अ० यथा
“एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा । विनता
नाम कल्याणी पुत्रकामा यशस्विनी । तपस्तप्त्वा व्रतपरा
म्नाता पुंसयने शुचिः । उपचक्राम भर्त्तारं, तामुवाचाथ
कश्यपः । आरम्भः सफलो देवि! भविता यस्त्वयेप्सितः ।
जनयिष्यसि पुत्त्रौ द्वौ वीरौ त्रिभुवनेश्वरौ । तपसा
वालिखिल्यानां मम सङ्कल्पजौ तथा । भविष्यतो महाभा-
गौ पुत्त्रौ त्रैलोक्यपूजितौ । उवाच चैनां भगवान्
कश्यपः पुनरेव ह । धार्य्यतामप्रमादेन गर्भोऽयं सुमहो-
दयः । एतौ सर्व्वपतत्त्रिणामिन्द्रत्वं कारयिष्यतः ।
लोकसम्भावितौ वीरौ कामरूपविहङ्गमौ । शतक्रुतुम-
थोवाच प्रीयमाणः प्रजापतिः । त्वत्सहायौ महावीर्य्यौ
भ्रातरौ ते भविष्यतः । नैताभ्यां भविता दोषः
सकाशात्ते पुरन्दरः । व्येतु ते शक्र! सन्तापस्त्वमेवेन्द्रो
भविष्यसि । न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।
न चावमान्था दर्पात्ते वाग्वज्रा भृशकोपनाः । एवमुक्तो
जगामेन्द्रो निर्विशङ्कस्त्रिपिष्टपम् । विनता चापि
सिद्धार्था बभूव मुदिता तथा । जनयामास पुत्त्रौ द्वावरु-
णं गरुडं तथा । विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःस-
रः । पतत्त्रिणाञ्च गरुड़ इन्द्रत्वेनाभ्यषिच्यत” ।

काश्यपिन् पु० भूम्नि । काश्यपेन प्रोक्तमधीयते णिनि ।

काश्यपप्रोक्तशाखाध्येतृषु ।

काश्यपेय पु० कश्यपस्येयम् अण् काश्यपी कश्यपभार्य्या

तत्र भवः ढक् । १ कश्यपपत्नीजाते सुरासुरादौ । “इत्येते
द्वादशादित्याः काश्यपेयाः प्रकीर्त्तिताः” भा० आनु०
१५० अ० गरुडे च “नागक्षयकरश्चैव काश्यपेयो
महाबलः” भा० आ०२३ अ० । “काप्यपेयोऽमृताहर्त्ता” ध्वज-
पूजामन्त्रः ।

काश्यादि पु० ष्ठञ्ञिठोः प्रत्यययोः प्रकृतिभूते पाणिन्युक्ते

शब्दगणे स च गणः काशि वेदि (चेदि इति बा)
सांयाति संवाह अच्युत मोदमान शकुलाद हस्तिकर्षू
कुनामन् हिरण्य करण गोवासन भारङ्गी अरिन्दम
अरित्र देवदत्त दशग्राम शौवावतान युवराज उपराज
देवराज् मोदन सिन्धुमित्र दासमित्र युधामित्र सोममित्र
छागमित्र सधमित्र (आपदादिपूर्वपदात्कालान्तात्) आपद्
ऊर्द्ध्व तत्” । तात्कालिकः ।

काश्यायन पुंस्त्री काश्यस्य काशिराजस्य गोत्रापत्यम् नडा०

फक् । काशिराजगोत्रापत्ये

काष पु० कष्यतेऽनेन कष--करणे घञ् । १ कषणपाषाणे

(कष्टीपातर) ख्याते प्रस्तरभेदे शब्दचि० । २ ऋषिभेदे च
पृष्ठ २०४१

काषाय त्रि० कषायेण रक्तः अण् । कषायेण रक्ते १ वस्त्रादौ

“यदि वासांसि बमीरन् रक्तानि वसीरन् काषायं ब्राह्म-
णो, माञ्जिष्ठं क्षत्रियो, हारिद्रं वैश्यः” आश्व० श्रौ०
१, १९, ९ । “कात्यायन्यर्द्धवृद्धा या काषायवसनाऽधवा”
अमरः । स्त्रियां ङीप् । तदन्तस्य रक्तार्थाणन्तत्वात्
एकार्थविशेष्यस्त्रीलिङ्गे शब्दे परे पुंवत् । काषा यी कन्था
यस्य काषायकन्थः

काषायण पु० अश्वा० गणे काशेत्यत्र काषेति पाठे गोत्रापत्ये

फञ् । १ काषगोत्रापत्ये शुक्लयजुर्वेदवंशान्तर्गते ऋषिभेदे ।
“काषायणात् काषायणः” शत ब्रा० १३, ७, ३, २७ ।

काषायवासिक पुंस्त्री काषाये वस्त्रे वासोऽस्त्यस्य ठन् ।

कीटभेदे स्त्रियां ङीष् । “सूचीमुखः कृष्णगोधा यश्च
काषायवासिकः” सुश्रु० । कीटशब्दे विवृतिः ।

काषायिन् पु० भूम्नि । कषायेण प्रोक्तमधीयते णिनि ।

कषायर्षिप्रोक्तशाखाध्यायिषु ।

काष्ठ न० काशत्यनेन काश--क्थन् नेट् शस्य ष १ अनलादेरि-

न्धनार्थे दारुणि “ससारमतिशुष्कं यत् मुष्टिमध्ये
समेष्यति । तत् काष्ठं काष्ठमित्याहुः खदिरादिसमुद्भवम्
इत्युक्तलक्षणयुक्ते २ दारुभेदे च । “काष्ठेन वा नखेन वा
कण्डुयेत” शत०, व्रा०, ३, २, १, “यथा काष्ठञ्च काष्ठञ्च
समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद्भू-
तसमागमः” भा०, शा०, ८६४ श्लो० “तथाश्मानस्तृणकाष्ठञ्च
सर्व्वं दिष्टक्षये स्वां प्रकृतिं भजन्ति” भा०, आ०, ८९ अ० ।

काष्ठक त्रि० काष्ठंविद्यतेऽस्य नड़ादि० छ कुक् च विल्व-

कादि० छमात्रस्य लुक् । काष्ठयुक्ते । २ अगुरुचन्दने न
शब्दमा० तस्य प्रशस्तकाष्ठवत्त्वात् तथात्वम् ।

काष्ठकदली स्त्री काष्ठमिव कठिना कदली । (काठकला

कदलीभेदे राजनि० ।

काष्ठकीट पुं स्त्री काष्ठेकीटः । घुणाख्ये कीटे हेम० स्त्रियां ङीष् ।

काष्ठकुट्ट पुं स्त्री० काष्ठं कुट्टति कुट्ट--अण् उप० स० ।

(काठठोकरा) पक्षिभेदे त्रिका० स्त्रियां जातित्वेऽपि संयो-
गोपधत्वात् टाप् ।

काष्ठकुद्दाल पु० काष्ठमयः कुद्दालः । नौकास्थमलघर्षणार्थे काष्ठमये कुद्दाले अव्भ्रौ अमरः ।

काष्ठजम्बू स्त्री काष्ठप्रधाना जम्बूः । भूमिजम्बूवृक्षे राजनि०

काष्ठतक्ष पु० काष्ठं तक्षति तक्ष--क्विप् । (छुतार) इतिप्रसिद्धे

जातिभेदे । ण्वुल् । काष्ठतक्षकोऽप्यत्र स्त्रियां जातित्वात्
ङीष् । काष्ठतक्षणकर्त्तृ मात्रे त्रि० । स्त्रियां टाप् इति
भेदः ।

काष्ठतन्तु पु० काष्ठे तत्तुरिव दोर्घत्वेनावस्थितत्वात् । काष्ठस्थ कृमिभेदे हारा० ।

काष्ठदारु पु० काष्ठप्रधानो दारुः । देवदारुवृक्षे राजनि० ।

तस्य शाखाबाहुल्ययोगेन काष्ठप्रधानत्वात् तथात्वम् ।

काष्ठद्रु पु० काष्ठप्रधानोद्रुर्वृक्षः । पलाशवृक्षे राजनि० तस्य

काष्ठतोऽपि पुष्पोद्गमात्तत्प्राधान्यात्तथात्वम्!

काष्ठधात्रीफल न० काष्ठमिव शुष्कं धात्रीफलम् ।

आमलके राजनि० तत्फलाभ्यन्तरे अष्टेः काष्ठस्येव शुष्कत्वात्तस्य
तथात्वम् ।

काष्ठपाटला स्त्री काष्ठमिव कठिना पाटला । सितपाट लायाम् राजनि०

काष्ठमठी स्त्री क्षुद्रोमठः मठी काष्ठेन निर्म्मिता मठीव

चितायाम् त्रिका० । तस्याः क्वाष्ठनिर्म्मितक्षुद्रमठाकार-
त्वात् तथात्वम् ।

काष्ठमय त्रि० काष्ठात्मकं मयट् । १ काष्ठात्मके २ काष्ठतुल्यकठिन

हृदये निर्दये च । “दुर्द्दशाः केचिदामान्ति नराः काष्ठ-
मया इव” । भा०, रा०, ३४४, ।

काष्ठमल्ल पुं काष्ठं मल्ल इव यत्र । शवर्निहारणे यानभेदे हारा

काष्ठमौन न० काष्ठमिव मौनम् । इङ्गितेनापि स्वाभिप्राया-

प्रकाशनरूपे मौने शब्दचि०

काष्ठलेखक पु० काष्ठं लिखति ण्वुल् । घुणाख्ये कीटे ।

काष्ठलौहिन् पु० काष्ठञ्च लौहञ्च स्तोऽस्य । लौहयुक्ते

काष्ठमये मुद्गरे त्रिका०

काष्ठवल्लिका स्त्री काष्ठमिव शुष्का वल्लिका । कटुकायां

(कट्की) ख्याते वल्लीभेदे वैद्यकम्

काष्ठशारिवा स्त्री काष्ठमिव शुष्का शारिवा । (अनन्तमूल) शरिवाभेदे राजनि०

काष्ठा स्त्री काश--क्थन् नेट् शष्यषः । १ दिशि । “स

राजपत्रोवदृध आशु शुक्ल इवोडुवः । आपूर्ब्बमाणः
पिष्टभिः काष्ठाभिरिव सोऽन्वहम्” । २ अष्टादशनिमेषा-
त्मके २ काले “खं मुहूर्त्तस्थितिस्त्वं च लवश्च त्वं पुनः
क्षणः “शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रूटिस्तथा” भा०
आ०२५ अ० । “कलाकाष्ठादिरूपेण परिणाम प्रदायिनि!”
देवीमा० । ३ सीमायाम् “परा हि काष्ठा तपसस्तया
पुनः” कुमा० । ४ स्थितौ “काष्ठां भगवतोध्यायेत्
स्वनामाग्रावलोकनः” भाग० १, १, २३, श्लो० । ५
उत्कर्षे च अमरः “काष्ठागतस्नेहरसानुविद्धम्” कुमारः ।
काष्ठं प्राधान्येनास्त्यस्याम् अच् । ६ दारुहरिद्रायां
मेदि० । ७ कश्यपपत्नीभेदे । “अथ कश्यपपत्नीनां
यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनुः काष्ठा आरष्टा
सुरसा इला । मुनिः क्रोधवशा ताम्रा सुरभिः सरभा
तिसिः” इत्युपक्रम्य “अरिष्टायास्तु गन्धर्व्वाः काष्ठाया
द्विशकेतराः” भाग० ६, ६, २३, उक्तम्
पृष्ठ २०४२

काष्ठागार न० काष्ठनिर्म्मितमागारम् । (काठेरघर) काष्ठ-

निर्म्मिते गृहे त्रिका० ।

काष्ठाम्ववाहिनी स्त्री काष्ठनिर्म्मिताऽम्बुवाहिनी ।

(सेओति) ख्याते द्रोणीरूपे नौकाजलसेचनपात्रभेदे अमरः

काष्ठालक न० काष्ठमिव कठिनमालुकम् । कन्दभेदे ।

“कन्दातन ऊर्द्ध्वं वक्ष्यामः विदारिकन्द--शता--वरी--विस--मृ
णाल--शृङ्गाटक--कशेरुक--पिण्डालुक--मध्वालुक--हस्त्यालुक
काष्ठालुक--शङ्खालुक--रक्तालुकेन्दीवरोत्पल--कन्दप्रभृतीनि ।
रक्तपित्तहराण्याहुः शीतानि मधुराणि च । गुरूणि
बहुशुक्राणि स्तन्यवृद्धिकराणि च” सुश्रुतः ।

काष्ठिक त्रि० काष्ठमस्त्यस्य ठन् । बहुकाष्ठयुक्ते अनले देशादौ

‘क्षुद्रं काष्ठं ङीप् काष्ठी स्वार्थे क ह्रस्वः टाप् ।
काष्ठिका क्षुद्रकाष्ठखण्डे स्त्री । “विंशति काष्ठिकाः” भवदेवः

काष्ठिन् त्रि० काष्ठमस्त्यस्य इनि । बहुकाष्ठयुक्ते स्त्रियां ङीप्

काष्ठील पु० काष्ठिना इल्यते इल--क्षेपणे कर्म्मणि घञ् ।

१ राजार्के राजनि० ईषदष्ठीलेव । २ कदलीभेदे (काठकला)
शब्दचि०

काष्ठेक्षु पु० काष्ठमिव कठिनकाण्ड इक्षुः । इक्षुभेदे सुश्रु०

इक्षुशब्दे ९०९ पृ० विवृतिः । भावप्र० काण्डेक्षुरिति पाठः ।

काष्ठोडुम्बरिका स्त्री काष्ठप्रधाना उदुम्बरिका । काको-

दुम्बरिकायाम् शब्दचि० ।

कास कुत्सित शब्दे (रोगहेतुकशब्दभेदे) भ्वा० आत्म० अक०

सेट् । कासते अकासिष्ट कासाम्--बभूब--आस--चक्रे
चकासे “असीतोरावणः कासाञ्चक्रे शस्त्रेर्निराकुलः” भट्टिः ।
“कासाञ्चक्रे कुत्सितशब्दमभिहितवान्” जयम० ।
“अतऊर्द्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् । श्वसिति
क्षौति चात्यर्थमत्याधमति कासते” “स पूर्ब्बं कासते
शुष्कम्” सुश्रु० । “कासमानश्च तृष्णाभिभूतः” सुश्रु० ।
अस्व क्वचित् परस्मैपदित्वमिच्छन्ति । “प्रसक्तवेगश्च
समीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः” सुश्रु० कासशब्दे उदा० ।
क्विप् काः । “यत्त्वं शीतोऽथोरूरः सह कासा वेपयः”
अथ० ५, २२, १०, भावे घञ् । कासः कुत्सितशब्दः “मुञ्च
शीर्पक्त्या उत कासएनम्” अथ० १, १२, ३ ।

कास त्रि० कस हिंसने कर्त्तरि ण । १ हिंसके । कासतेऽनेन

कास--करणे घञ् । २ रोगभेदे पु० “कुरुथा वलासं
कासमुद्युगम्” अथ० ५, २२, ११ । तल्लक्षणनिदानादि
सुश्रुते उक्तं यथा
“अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः । उक्ता
ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः । कासस्यापि च
ते ज्ञेयास्त एवोत्पत्तिहेतवः । धूमोपघाताद्रजसस्तथैव
व्यायामरूक्षान्ननिषेवणाच्च । विमार्गगत्वादपि भोजनस्य
वेगावरोधात् क्षवथोस्तथैव । प्राणोह्युदानानुगतः प्रदुष्टः
संभिन्नकांस्यस्वनतुल्यघोषः । निरेति वक्त्रात्सहसा सदोषः
कासः स विद्वद्भिरुदाहृतस्तु । स वातपित्तप्रभवः कफाच्च
क्षतात्तथान्यः क्षयजोऽपरश्च । पञ्चप्रकारः कथितो
भिषग्भिर्व्विवर्द्धितो यक्षविकारकृत् स्यात् । भविष्यतस्तस्य
तु कण्ठकण्डूर्भ्योज्योपरोधो गलतालुलेपः । स्वशब्दवैषम्य-
मरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि । हृच्छङ्ख-
मूर्द्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः । प्रस-
क्तवेगश्च समीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः ।
उरीविदाहज्वरवक्त्रशोषैरभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः । पित्तेन
पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ।
विलिप्यमानेन मुखेन सीदन् शिरोरुगार्त्तः कफपूर्णदेहः ।
अभक्तरुग् गौरवसादयुक्तः कासेद्भृशं सान्द्रकफः कफेन ।
वक्षोऽतिमात्रं विहतञ्च यस्य व्यायामभाराध्ययनाभिधा-
कैः । विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षत-
जःस उक्तः । अतिव्यवायभाराध्वयुक्ताश्वगजविग्रहैः ।
रहस्योरःक्षतं वायुर्गृहीत्वा कासमावहेत् । स पूर्बं
कासते शुष्कं ततः ष्ठीवेत् सशोणितम् । कण्ठेन
रुजताऽत्यर्थं विभिन्नेनैव चोरसा । सूचीभिरिव तीक्ष्णाभि-
स्तुद्यमानेन शूलिना । दुःखस्पर्शेन शूलेन भेदपीडाभि-
तापिना । पर्व्वभेदज्वरश्वासवृष्णावैस्वर्य्यपीडितः ।
पारावतैवाकूजन् कासवेगात् क्षतोद्भवात् । विषमाऽसात्म्य-
भोज्यातिव्यवायाद्वेगनिग्रहात् । वृणिनां शोचतां नॄणां
व्यापन्नेऽग्नौ त्रयो मलाः । कुपिताः क्षयजं कासं
कुर्य्युर्देहक्षयप्रदम् । स गात्रशूलज्वरटाहमोहान्
प्राणक्षयञ्चोपलभेत कासी । शुष्यन् विनिष्ठीवति दुर्ब्ब-
लस्तु प्रक्षीणमांसो रुधिरं सपूयम् । तं सर्व्वलिङ्गं
भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति । वृद्ध-
त्वमासाद्य भवत्यथौ वै याप्यन्तमाहुर्भिषजस्तु कासम्” ।
भावप्र० एतद्विवृतं यथा
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः । क्षयायोपे-
क्षिताः सर्वे बलिनश्चोत्तरोत्तरम् । क्षयाय राजयक्ष्मणे ।
अथ पूर्व्वरूपमाह । पूर्व्वरूपं भवेतेषां शूकपूर्णगला-
स्यता । कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ।
भोज्यानामवरोधः कवलगिलने कण्ठव्यथा । अथ
पृष्ठ २०४३
वातिकस्य रूपमाह हृच्छङ्खपार्श्वोदरमूर्द्ध्वशूली क्षामान-
नः क्षीणवलस्वरौजाः । प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः
कासति शुष्कमेव । शङ्खो ललाटैकदेशः, शुष्कं श्लेष्मादि-
रहितम् । पैत्तिकस्य रूपमाह तनोर्बिदाहज्वरवक्त्र-
शोषैरभ्यर्द्दितस्तिक्तमुखस्तृपार्त्तः । पित्तेन पीतानि
वमेत्कटूनि कासेत् सपाण्डुः परिदहामानः । सपाण्डुः,
पाण्डुरोगयुक्तः । श्लैष्मिकस्य रूपमाह प्रलिप्यमानेन
मुखेन सीदेत् शिरोरुजार्त्तः कफपूर्ण्णदेहः । अभक्तरुङ्-
नीरवकण्डुयुक्तः कासेद्भृशं सान्द्रकफः कफेन । प्रलिप्य-
मानेन मुखेन श्लेष्मलिप्तेन मुखेनोपलक्षितः । अभक्तरुक् न
भक्ते रुक् रुचिर्य्यस्यसः कण्डूः कण्ठ एव । क्षतकासस्य
निदानपूर्ब्बिकां सम्प्राप्तिमाह अतिव्यवायभाराध्वयुद्धा-
श्वगजनिग्रहैः । रहस्योरःक्षतं वायुर्गृहीत्वा कासमा-
वहेत् । अश्वगजयोर्निग्रहो दमनम् । लक्षणमाह स
पूर्ब्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् । कण्ठेन
कूजत्यत्यर्थं विभग्नेनेव चोरसा । सूचीभिरिव
तीक्ष्णाभिस्तुद्यमानेन शूलिना । दुःखस्पर्शेन शूलेन
भेदपीड़ाभितापिना । पर्वभेदज्वरश्वासतृष्णावैस्वर्य्य-
पीड़ितः । पारावत इवाकूजन् कासवेगात् क्षतोद्भ-
वात् । कण्ठेनेत्युपलक्षणे तृतीया एवमुरसेति ।
क्षयकासस्य निदानपूर्ब्बकां सम्प्राप्तिमाह विषमाऽसात्म्य-
भोज्यातिव्यवायाद्वेगनिग्रहात् । वृणिनां शोचतां नॄणां
व्यापन्नेऽग्नौ त्रयो मलाः । कुपिताः क्षयणं कासं
कुर्य्युर्देहक्षयप्रदम् । घृणिनां विचिकित्सायुक्तानाम् ।
लक्षणमाह सगात्रशूलज्वरमोहदाहप्राणक्षयञ्चोपलभेत्-
स कासी । शुष्कं विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसो
रुधिरं सपूयम् । तं सर्यलिङ्गं भृगदुश्चिकित्स्यं चिकि-
त्सितज्ञाः क्षयजं वदन्ति । असाध्यसाध्ययाप्यानाह
इत्येष क्षयजः कासः क्षीणानां देहनाशनः । साध्यो
बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः । एवं क्षतो-
त्थितः क्षीणानामसाध्यः । बलवतां साध्यो याप्यो वा
स्यात् । न वा कदाचित् सिध्येतामपि पादगुणान्वितौ
सिध्येतां क्षतजक्षयजौ सद्वैद्यः सद्भेषजः सत्परिचार-
कथुक्तस्य सदातुरस्य जातौ । स्थविराणां जराकासः
सर्वो याप्यः प्रकीर्त्तितः । स्थविराणां जराकासः वृद्धा-
नां यः कासो भवति स जराकाससंज्ञः स सर्वएव
वातजादिरपि याप्यः । त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यै-
र्याप्यांस्तु यापयेत् । स्वल्पोऽपि कास उपेक्षणीयो न भव-
ति । किन्तु शीघ्रं प्रतिकुरणीय इत्याह ज्वरारोचक
हृल्लासस्वरभेदक्षयादयः । भवन्त्युपेक्षया यस्मात्तस्मार्त्त
त्वरया जयेत्” ।
कासरोगभेदस्य हेतुपापादि कर्म्मविपाकशब्दे १७६४,
पृ० उक्तम् कं जलमस्यतेऽनेन अस--क्षेपणे करणे घञ्
६ त० । ३ शोभाञ्जनवृक्षे पु० शब्दच० । तदञ्जनसेवने
नेत्राज्जलनिस्मारणात्तस्य तथात्वम् ।

कासकन्द पु० कासहेतुः कन्दः । कासालौ राजनि०

कासघ्न त्रि० कासं हन्ति हन--हेत्वादौ टक । कासहरे

सुश्रुतोक्ते १ विधानभेदे । “प्रायोगिकः स्नेहनोवैरेचनः
कासघ्नः वामनीयश्च” इत्युपक्रमे “वृहतीकण्ठकारिकात्रि-
कटुककासमर्द्दनेङ्गुदीत्वङ्मनःशिलाच्छिन्नरुहाकर्कटशृङ्गी-
प्रभृतिभिः कासहरैश्च कासघ्ने” (धूमे) । स्त्रियां ङीप् ।
सा च २ कण्टकार्य्यां स्त्री शब्दच० । “हरीतको कणा
शुण्ठी मरिचं क्षौद्रसंयुतम् । कासघ्नोमोदकः प्रोक्त-
स्तूष्णारोचकनाशनः” भावप्र० उक्ते ३ मोदकभेदे पु० ।
काशनाशककाशहरादयोऽपि । काशरोगनिवारके त्रि०
“येन तेन प्रकारेण वासकः कासनाशकः” वैद्यकम्
कासहरैश्चेति सुश्रुतः

कासजित् स्त्री कासं जयति जि--क्विप् । १ भार्ग्याम्

(वामनहाटी) राजनि० । २ काशनाशके त्रि० ।

कासनाशिनी स्त्री कासं नाशयति नश--णिच्--णिनि

ङीप् । कर्कटशृङ्गीवृक्षे रत्नमा० ।

कासन्दीवटिका स्त्री वेशवारभेदे राजवल्लभः ।

कासमर्द्द पु० कासं मृद्नाति मृद--अण् उप० स० ।

कालकासेन्दा) वृक्षे तद्गुणाद्युक्तं भावप्र० यथा “कासमर्द्दोऽ-
रिमर्द्दश्च कासारिः कर्कशस्तथा । कासमर्द्ददलं रुच्यं
वृष्यं कासविषास्रनुत् । मधुरं कफवातघ्नं पाटनं कण्ठ-
शोधनम् । विशेषतः कासहरं पित्तघ्नं ग्राहकं लघु” ।
सुश्रुतेऽयं सुरसादिगणे पठितः सुरसादिशब्दे विवृतिः ।
कस्य जलस्यासेन क्षेपेण मृद्यतेऽसौ मृद--कर्म्मणि घञ्
वेशवारभेदे स च पिष्टजलमिश्रितवस्त्रगालितवेसावार
इति पाकराजेश्वरः ।

कासमर्द्दन पु० कासं मृद्नाति मृद--ल्यु ६ त० । पटोले हारा

कासर पुंस्त्री० के जले आसरति आ + सृ--अच् ७ त० ।

महिषे अमरः तस्य कले सर्वदासरणात्तथात्वं स्त्रियां ङीष् ।

कासहन् पु० कासं हन्ति हन--क्विप् । “कण्टकारीकृतः क्वाथः

सकृष्णः सर्वकासहा” इत्युक्ते कासनाशके १ क्वाथभेदे
तस्य कासनाशकत्वात् तथात्वम् २ कासनाशकमात्रे त्रि०
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कालयोग&oldid=57699" इत्यस्माद् प्रतिप्राप्तम्