वाचस्पत्यम्/कार्य्यकारणभाव

विकिस्रोतः तः
Jump to navigation Jump to search


पृष्ठ १९६७

कार्य्यकारणभाव पु० कार्य्यञ्च कारणञ्च तयोर्भावः । एकस्य

स्वकारणापेक्षया कार्य्यत्वे तदपेक्षया चान्यस्य कारणत्वे
हेतुहेतुमद्भावे यथा घददण्डयोः कार्यकारणभावः । “कार्य-
कारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो
दर्शनान्तरदर्शनात्” सर्व्वद० बौद्धदर्शने । तत्र कार्यभेदेन
कारणभेदे कारणशब्दे १९३८ पृ० उक्तप्रायेऽपि किञ्चिदाधि-
क्यमुच्यते । कारणं त्तावत् द्विविधं मुख्यममुख्यञ्च तत्र
घटादिकं प्रति मृदादिकं मुख्यं, तथा प्रत्यक्षे इन्द्रियमित्यादि ।
तद्भिन्न ममुख्यं तच्च सहकारि कारणम् । मुख्यमपि त्रिविधं
न्यायमते समवायि असमायि निमित्तमिति भेदात् तत्र
घटादिकं पति मृदादिकं समवायिकारणं, कपालसं-
योगादि असमवायिकारणं, दण्डादयो निमित्तकार-
णनि । तत्राद्ये असाधारणे एव कारणे । असाधा-
रणकारणमपि कार्य्यभेदान्नानाविधम् । निमित्तकारण-
मपि द्विविधं साधारणासाधारणभेदात् तत्र साधारण-
निमित्तकारणानि चाष्टविधानि ईश्वरस्तज्ज्ञानेच्छाकृतयः
दिक्कालौ अदृष्टं प्रागभावश्चेति भेदात् । असाधारण-
निमित्तकारणानि चानेकविधानि । प्रतिबन्धकाभावस्य
कारणत्वं नैयायिका मन्यन्ते । स च निमित्तकारण-
मेव । वेदान्तिनश्च अभावस्य न कारणत्वम् इच्छन्ति
“कथमसतः सज्जायेतेति” श्रुतेः नासतोविद्यते भावः”
इति गीतोक्तेश्च । तदेतन्निर्ण्णीतं तैत्तिरीयोपनिषद्भाष्येयथा
“नित्यानाञ्चाकरणमभावस्ततः प्रत्यवायानुपपत्तिरिति ।
अतः पूर्व्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रि-
याया नित्याकरणं लक्षणमिति “अकुर्व्वन् विहितं कर्मेति”
हि शतुर्नानुपपत्तिः । अन्यथा अभावाद्भावोत्पत्तिरिति
सर्ब्बप्रमाणव्याकोपः” भा० ।
व्याकृतञ्चैतत् आनन्दगिरिणा यथा
“यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्या-
नीति तत्राह नित्यानाञ्चेति । आगामि दुःखं प्रत्य-
वाय उच्यते तस्य भावरूपस्य नाभावो निमित्तम् “पापः
पापेनेति” श्रुतेः । निषिद्धाचरणनिमिटत्वाद्दुःखस्ये-
त्यर्थः । “अकुर्व्वन् विहितं कर्म निन्दितञ्च समाचरन् ।
प्रसजंश्चेस्द्रियार्थेषु नरः पतनमृच्छतीति” शतृप्रत्ययाद-
करणस्यापि प्रत्यवायनिमित्तत्वमवगतिमित्याशङ्क्याह अतः
पूर्व्वेति । यदि यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यचदा
सञ्चितदुरितक्षयोऽभविष्यत् । न चायं विहितमकार्षीदि-
त्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते । यथा “विचि-
कित्सन् श्रोत्रिय” इति । ततः शतृप्रत्थयस्यान्यथाव्यु-
त्पन्नत्वान्न तद्बलादकरण हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।
“लक्षणहेत्वोः क्रियायाः” इति (पा०) शतृप्रत्ययस्थोभथत्र
विधाने सति किमिति हेतुत्वमेव न गृह्यते? तत्राह अन्य-
थेति । अभावरूपस्य कार्य्यस्य भावरूपमेव कारणमिति
प्रत्यक्षादिभिरवगतं शतृप्रत्ययादभावस्य हेतुत्वाभिधाने
सर्व्वप्रमाणविरोधः स्यादित्यर्थः ।
ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाट्टै-
श्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते । तार्किकेश्च प्रति-
बन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्य्यव्यवस्था-
पकत्वमिष्यते तत्कथं भावस्यैव कारणत्वम् तदुक्तम् ।
“भावो यथा तथाऽभावः कारणं कार्यवन्मतम्” इति उच्यते ।
“अस्मामिस्तावदभावस्य स्वरूपेण कारणत्वं नेष्टं किन्तु
तद्भानस्य प्रत्यवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्य-
वायजनकत्वमिष्यते । नित्याकरणाज्ञाने प्रत्यवायाभावप्रस-
ङ्गात् । भाट्टानामपि च केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भ-
स्याभावप्रमितिहेतुत्वमिष्टं ज्ञानध्वंसतया तु प्रमितिहेतुत्वे-
ऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्किकाणामपि प्रति-
बन्धकाभावस्य कारणत्वेऽन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिक-
त्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव ।
यस्मादिदं प्राङ्नासीत्तस्म दिदानीं जातमिति । न तु
जनकत्वं प्रागभावस्य, नियतप्रागभावित्वेन कारणत्वे
प्राक्कालस्य स्ववृत्तितापातः । प्रागभावित्वमपि चान्यथा-
सिद्धमित्युक्तं तत्त्वालोके” ।
कार्य्यविवृतिश्च कार्यशब्दे उक्ता । तत्र समायिकारणो-
त्पाद्यं समवेताख्यमुपादेयमित्युच्यते तद्भिन्नं कार्य्यं कार्य्यो-
त्पाद्यादिशब्देन व्यवह्रियते इति भेदः ।

कार्य्यकुशल त्रि० ७ त० । कार्य्यज्ञे क्रियादक्षे ।

कार्य्यचिन्तक त्रि० कार्य्ये चिन्तयति चिन्ति--ण्वुल् उप०

स० । कर्त्तव्यविषये कृताकृतचिन्तके । “धर्म्मज्ञाःशुचयो
ऽलुब्धाभवेयुः कार्य्यचिन्तकाः” याज्ञ० ।

कार्य्यता स्त्री कार्य्यस्यभावः तल् । १ कर्त्तव्यतायां २ कृतिसाध्यता-

याम् । त्वकार्यत्व तत्राथे न० गुरुमते यथा च तज्ज्ञानस्यैव
प्रवर्त्तकत्वं तथा शब्दचि० गुरुमतप्रदर्शने दर्शितं यथा ।
“कार्य्यत्वज्ञानं प्रवर्त्तकमिति गुरवः तथाहि ज्ञानस्य कृतौ
जनयितव्यायां चिकीर्षातिरिक्तं न कर्त्त व्यमस्ति तत्सत्त्वे
कृतिविलम्बहेत्वन्तरभावात् । चिकीर्षा च कृतिसाध्यत्व-
प्रकारिका कृतिसाध्यक्रियाविषयेच्छा पाकं कृत्या साधया-
मीति तदनुभवात् । सा च स्वकृतिसाध्यताज्ञानसाध्या
इच्छायाः स्वप्रकारकधीसाध्यत्वनिवमात् अतएव स्वकृति-
पृष्ठ १९६८
साध्ये पाके प्रवर्त्तते न त्विष्टसाधनताज्ञानसाध्या, स्वकृत्य-
साध्ये चिकोर्षापत्तेः । स्वकृत्यसाध्यताज्ञानं प्रतिबन्धकमिति
चेत् न तदभावस्य कारणत्वे गौरवात् अथाभाव उभयसिद्धः
कृतिसाध्यताधोरसिद्धेत्यतो न लाघवावसर इति चेत् न यत्र
शब्दादनुमानाद्वा दैवात् सा, तत्र लाघवावतारात् इच्छा-
याः स्वप्रकाशकज्ञानसाध्यत्वनियमेन कृतिसाध्यत्वज्ञान-
स्यावश्यकत्वात् जनकज्ञानं विघटयतएव ज्ञानस्य प्रति-
बन्धकत्वाच्च व्याप्तिधीविघटनद्वारानुमितिप्रतिबन्धकानैकान्त-
ज्ञानवत् अन्यथा स्वकृत्यसाध्यत्वानिष्टसाधनत्वोपेक्ष
णोयत्वनिष्फलत्वज्ञानं प्रतिबन्धकं क्रियाज्ञानमेव प्रव-
र्त्तकं कल्प्येत । ननु सनोधात्वर्थगोचरेच्छावाचि-
त्वाल्लाघवाच्च कृताविच्छा चिकोर्षा सा च वृष्टाविवेष्टसाध-
नताज्ञानादिति चेत् न वह्निना साधयामीतिवत् कृत्या-
साधयामीतीच्छायाः कृतिपूर्व्वमनुभूयमानायाः सनन्त-
वाच्यत्वेन गौरवेण च प्रत्याख्यातुमशक्यत्वात् । किञ्च
पाकं चिकीर्षतोत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते
न तु कृतेः, धाताश्च सन्प्रत्ययाभिधयेच्छाप्रकारवाचित्वम्
ओदनं बुभुक्षत इत्यत्र भोजनविषयतयोदनस्येच्छाविषय-
त्वानुभवात् इष्टसाधनत्वेन वृष्टाविव कृताविच्छासम्भवेऽपि
कृतीच्छा न प्रवर्त्तिका किन्तु कृतिसाध्येच्छैव । घटं जनाति
चिकीर्षति करोतोति ज्ञानचिकोर्षाप्रवृत्तीनामेकविषय-
त्वानुभवात् । अथ यदि कृत्या साधयितुमिच्छा सा तदा
चिकीर्षितस्य पाकस्यान्यतः सिद्धौ सा नापगच्छेत् नह्युपाय
विशेषसाध्यत्वेनेच्छोपायान्तराधीनफललाभेन निवार्यते
प्रीत्या धनलाभेऽपि प्रतिग्रहेण तल्लिप्साया अनिवृत्तेरिति
चत् न स्वविषयसिद्धत्वस्य फलेच्छाविच्छेदस्य चोपायेच्छा
विरोधित्वात् अस्ति च तत्र पाकोदनयोः सिद्धता । अन्यौ-
दनेच्छायां पाकचिकोर्षा भवत्येव प्रत्युत असिद्धन्पात् कृता
वेवेच्छा न विच्छिद्येत यदि कृतिविषयसिद्धत्पफलेच्छा-
विच्छेदौ न विरोधिनौ प्रीत्या धनलाभेऽपि तदधिक
धनेच्छा न विच्छिद्यते तस्य असिद्धत्वात् तत्फलेच्छाया-
श्च सत्त्वात् धनमात्रार्थिनश्च प्रीत्या तल्लाभे प्रतिग्रहेण
तल्लिप्सा नास्त्येव धनमात्रस्य सिद्धत्वात् किञ्चिद्विशेषस्य
सिद्धैव हि सामान्येच्छाविच्छेदः । अन्यथा सकलस्वविषय
सिद्धेरसम्भवेन तद्विच्छेदो न स्यादेव । वस्तुतस्तु क्रियानु-
कूला कृतिरिष्टोपाय इति ज्ञाने क्रियायाः कृतिसाध्य-
त्वम् इष्टीपायत्वञ्च भातं क्रियाद्वारैव कृतेरिष्टसाधनत्वा-
दिति तद्बोधात् कृताविव कृतिसाध्यत्वेन क्रियायामपि
सैवेच्छेति चिकीर्षायां कृतिसाध्यताप्रकारनैययम् । अतः
कृतिसमानविषयचिकीर्षात्वेन चिकीर्षायाः कृतिका-
रणत्वं न तु कृतीच्छात्वेन भिन्नविषयतया गौरवात्
तथापि येन रूपेण यस्येष्टसाधनत्वं तेन प्रकारेण
तत्रेच्छा यथा स्वकेदारवृष्टित्वेनेष्टसाधनत्वात्तथैवेच्छा तथा
कृतिसाध्यत्वेन पाकस्येष्टसाधनत्वम् अतः कृतिसाध्य-
त्वेन तत्रेच्छा भवतीति कृतौ कृतिविषये वा चिकीर्षायां
न वृष्टीच्छाविलक्षणसामग्य्रन्तरकल्पनमिति चेत् भवेदेवं
यदि कृतिसाध्यत्वेन पाकस्यौदनसाधनता स्यात् न चैवं,
गौरवात् किन्तु पाकत्वेन, सा तु कृतिं विना नेत्य-
न्यदेतत् । वह्निना साधयामीति वत् कृत्या साधया-
मीतीच्छा इष्टसाधनताज्ञानादेवेति चेत् तर्हि तत्र
वह्निसाध्यताज्ञानवदत्रापि कृतिसाध्यताज्ञानं कारणमा-
वश्यकं कृतौ चानुभवसिद्धं चिकीर्षाधीनत्वं विशेषः, तेन
प्राणपञ्चकसञ्चारे जीवनयोनिकृतिसाध्ये न प्रवृत्तिः ।
अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि तत्र प्रवर्त्तेत
ननु चिकीर्षाधीनत्वस्य उपलक्षणत्वे उपलक्ष्यमात्रगतान-
तिप्रसक्तधर्माभावात् कृतिमात्रस्य चातिप्रसङ्गात् तत्तत्-
कृतिविशेषा उपलक्ष्याः तथा च तदननुगमात् प्रवृत्ते
रननुगमः विशेषणत्वे चिकीर्षायां प्रवृत्तौ च चिकीर्षा-
ज्ञानकारणत्वे गौरवं प्रमाणाभावश्च । किञ्च चिकीर्षा-
साध्यावस्थायाः कृतेः सिद्धाबस्थसाधनञ्च विरोधेन कृति-
साध्यता पाकादौ न ज्ञायेतेति चेत् न, अस्ति हि कृति-
विशेषो मानसप्रयक्षसिद्धो जीवनयोनियत्नव्यावृत्तः स्वचि-
कीर्षोपलक्ष्यः यत्र चिकीर्षाकारणत्वग्रहः स च तव जाति
रूपो मम त्वनुगतकारणोपाधिरूपः । एवञ्च निकीर्षाधीन-
त्वेनानुगतेन कृतिविशेषाणामुपलक्ष्यमाणानामनुगतत्वमपि
यथा गोत्वेन तटस्थेनोपलक्षिता महिष्यादिव्यावृत्ता धान
कर्मव्यक्तिविशेषा धेनुपदेनोच्यन्त्ये नतु गोत्वमपि, तथा
चिकीर्षापि एवं जीवनयोनिव्यावृत्तकृतिविशेषाणां कृति-
त्वेन ज्ञानं कारणमिति नाननुगमः । ननु कृतिसाध्ये न
कृतिर्विशेषणम् असत्त्वात् सत्त्वे वा कृतौ सत्यां ज्ञानं ज्ञाने
च कृतिरित्यन्योन्याश्रयः नोपलक्षणम् अतिप्रसङ्गादिति चेत्
न कृतिर्हि ज्ञाने विषयतया विशेषणमेव साध्ये च
परिचायकतयोपलक्षणम् अन्यथेष्टसाधजेऽपीष्टं न विशेषणम्
असत्त्वान्नोपलक्षणम् अतिप्रसङ्गात् लिङ्गज्ञानादौ वा
कागतिः । नन्वेवं श्रमेऽपि चिकीर्षा स्यात् तस्यापि चिकीर्षा-
धीनकृतिसाध्यत्वात् । श्रमस्तु भोजनादिक्रियामाध्यो न
पृष्ठ १९६९
तत्कृतिसाध्योऽचिकीर्षितत्वात् कृतेः स्वध्वंससाक्षात्-
कारातिरिक्ते चिकीर्षाविषयमात्रे जनकत्वात् नहि
भोजनादिचिकीर्षाधीनकृत्या गमनं साध्यत इति केचित् तन्न
गुरुतरभारोत्तोलने कृत्यसाध्ये भ्रमात् प्रवृत्तस्य निगड-
निश्चलबद्धदेहस्य वा कृतौ सत्यामुद्देलनचलनक्रियानुत्पादेऽपि
श्रमानुभवात् कृतेरेव कारणत्वात् । न तु तज्जन्यक्रियायाः
सुखे व्यभिचाराच्च न हि सुखं कृतिसाधनचिकीर्षाविषयः
उपायचिकीर्षाजन्या हि कृतिः न तु सुखचिकीर्षाजन्या ।
चिकीर्षाजन्यकृतिसाध्यत्वं न श्रमे, द्वेषयोनियत्नाद-
पि तदुत्पत्तेरित्यपरे तन्न शत्रुबधस्येष्टसाधनत्वेन चिकीर्षा-
जन्यकृतिसाध्यत्वात् द्वेषस्य यत्राजनकत्वात् द्वेप्रसिद्धिस्तु
शत्रुं द्वेष्मीत्यबाधितानुभवबलात् । यत्तु श्रमः कृतित्वेन
कृतिसाध्यो न चिकीर्षाधीनकृतित्वेन, यद्यचिकीर्षितेऽपि श्रमे
चिकीर्षाधीनकृतित्वेन कारणता स्यात्तदा चिकीर्षितमेव
भोजनं कृत्या साध्यते नाचिकोर्षितं गमनादीति न स्यात्
श्रमवद्गमनेऽपि तज्जन्यत्वप्रसङ्गात् भोजनादिश्च चिकी-
र्षाधीनकृतिविशेषात् सहि कृतिमात्रं व्यभिचरति
जीवयोनिकृतेस्तदनुत्पादात् । यद्वा श्रमो न भोजनकृतिसाध्यः
किन्तु तन्निरन्तरोत्पन्नाज्जीवनयोनियत्नादेवेति तन्न
नहि कृतित्वेन श्रमजनकत्वं नापि कृत्यन्तरादेव श्रमोत्-
पत्तिः जीवनयोनियत्नेन चापि भारोद्वहनादि कर्म
कुर्व्वतस्तादृशश्रमानुभवेन तस्य श्रमाजनकत्वात् । तस्मा-
द्भोजनादिवत् श्रमविशेषाणामपि भोजनादिकृतिसाध्यत्व
मनन्यगतिकत्वात् । सुप्तस्य स्वेदाद्यनुमितः श्रमस्तज्जन्य
इति चेत् न स्वेदादेः श्चमान्यहेतुकत्वात् अन्यथा
जागरेऽपि तदनुवृत्तौ श्रमानुवृत्तिप्रसङ्गादिति मैवं स्वे-
च्छाधीनत्वस्य कृतिविशेषणत्वात् । श्रमश्च नियमतो
ऽन्येच्छाधीनकृतिसाध्यः श्रमे दुःखत्वेन इच्छाविरहात् ।
अतएवान्येच्छाजन्यकृतिसाध्यत्वेन त्रमोनान्तरीयक इत्यु-
च्यते । स्वचिकीर्षाधीनत्वन्तु न कृतौ विशेषणं, गौरवात् ।
अन्ये तु कृतिगतधर्मान्तरमेवोद्देष्यत्वं तद्विशिष्टकृतिसा-
ध्यश्च न श्रमः अचिकीर्षितत्वात् किन्तु कृतिमात्र-
साध्यः अतएव कष्टं कर्मेत्यनुभवोलोकानाम् । एवं चिकी-
र्षायां ममैकं कृतिसाध्यत्वं प्रयोजकं तव तु कृतिसा-
ध्यत्वे सतीष्टसाधनत्वं सुखत्वं दुःखाभावत्वञ्चेति
चतुष्टयम् इच्छाप्रयोजकन्तु मम सुखत्वं दुःखाभावत्वञ्चेति
द्वयं वृष्टिसाध्ये सुखे हीच्छा वृष्टिमपि विषयीकरोति ।
नत्विष्टसाधनत्वेन तत्रेच्छासाधनत्वस्य इच्छाविरोधित्वात्
तव तु त्रयम् विषभक्षणे कृतिसाध्यत्वेऽपि बलवदनिष्टसाध
नत्वेन चिकीर्षा नास्तीति कृतौ चिकीर्षाजन्यत्वं विशेष-
णमिति कश्चित् तत्तुच्छं विषभक्षणे कृतिसाध्यत्वमेव
न स्यात् जीवनयोनिकृतेस्तस्यानुत्पत्तेरिति व्यर्थविशे-
षणम् । स्थादेतत् इष्टसाधनताभ्रमाद्विषभक्षणे चैत्यवन्दने च
चिकोर्षाजन्यकृतिसाध्यत्वमस्ति ज्ञानप्रयुक्तत्वात् कार्य-
त्वस्य, तथाच सञ्जातबाधोऽपि तत्र कार्यज्ञानात् प्रवर्त्तेत
तथा तृप्तोऽपि भोजने नतु कृतिसाध्यतानुभवस्तथा,
अन्यथेष्टसाधनतास्मरणे विषभक्षणेऽपि प्रवर्त्तेत । नचेष्ट
साधनताज्ञानं वेदोवानुमावकोऽस्त्विति चेत् न वस्तुतस्तत्र
कृतिसाध्यत्वे लिङ्गान्तरेणाप्तबाक्यन वा तदन्भवासम्भवात्
लिङ्गाभासाच्छब्दभासाद्वा प्रवृत्तिप्रसङ्गाच्च भेदाग्रहवादिन
स्तत्र तव तदनुभवाभावात् मैवं स्वविशेषणवत्ताप्रतिसन्धान
जन्यं हि कार्यताज्ञानं प्रवर्त्तकं तथाहि काम्ये पुरुष-
विशेषणं कामना ततः काम्यसाधनाज्ञानेन यागपाकादौ
कार्यताज्ञानं नित्ये च कालशौचादि स्वविशेषणं तथाचैतत्-
सन्ध्यायामहं कृतिसाध्यसन्ध्यावन्दनः सन्ध्यासमये शौचादि-
मत्त्वात् पूर्वसन्ध्यायामहमिवेति, कार्यताज्ञानं शौचा-
दिस्वविशेषणज्ञानजन्यम् । तदुक्तं “स कार्यविशेषः पुरुष-
विशेषभावगतः प्रवृत्तिहेतुरिति” । संजातबाधस्य च
विषभक्षणे चैत्यवन्दने च भ्रमदशायामिव नेष्टमाधनताज्ञा-
नमस्ति येन तज्जन्यकार्यताज्ञानात् प्रवर्त्तेत । तृप्तस्य च
तृप्तौ कामनाविरहेणेष्टसाधनताज्ञानाभावान्न तथा बोधः ।
अन्ये त्वात्मनो जीवत्वप्रतिसन्धानजन्यं श्रमे कृतिसाध्य-
ताज्ञानं न सम्भवतीति जीवनव्यतिरिक्तत्वं स्वविशेषणे
विशेषणमिति, तन्न श्रमे खेच्छाधीनकृतिसाध्यत्वज्ञानाभा-
वेन साध्यत्वाभावात् । इष्टसाधनतालिङ्गं कार्य्यताज्ञानं
प्रवर्त्तकमित्यपरे तन्न नित्ये तदभावात् । ननु विषभक्षणव्या-
वृत्तमिष्टसाधनत्वमेव कृतिसाध्यताज्ञाने विषयतया विशेष-
णमस्तु स्वविशेषणवत्ताज्ञानजन्यत्वापेक्षया लघुत्वात् ।
किञ्चोपायविप्रया चिकीर्षा इष्टसाधनताज्ञानसाध्या उपाये-
च्छावत् वृष्टीच्छावत् । भोगचिकीर्षायां तदभावादप्रयोजकमि
ष्टसाधनत्वमिति चेत् न तवापि स्वविशेषणधीजन्यत्वाभावेन
तत्र तस्याप्रयोजकत्वात् कृतिहेतुचिकीर्षायां तत्प्रयोजकं न
भोगचिकीर्षायां तथा, उपायचिकीर्षातएव कृतिसम्मवा-
दिति चेत् तुल्यमिति मैवं साध्यत्वसाधनत्वयोर्विरोधेनैकत्र
ज्ञातुमशक्यत्वात् असिद्धावस्थस्य हि साध्यत्वं, सिद्ध-
तादशायां तदभावात् सिद्धतादशायाञ्च साधनत्वम्
पृष्ठ १९७०
असिद्धावस्थावतः कार्य्यानुत्पत्तेः । तथा च पाकादेर-
सिद्धत्वसिद्धत्वज्ञाने साध्यत्वसाधनत्वग्रहः नचैकमेकेनैकदा
सिद्धमसिद्धञ्चेति ज्ञायते । न च स्वरूपगतता साध्यत्व-
साधनत्वयोरतो न विरोध इति वाच्यं यदि हि
स्वरूपनिबन्धनं तदुभयं तत्स्वरूपं सदैव सिद्धमसिद्धञ्च
स्यात् । भिन्ननिरूपितत्वेऽपि तयो तिद्धत्वासिद्धत्वेऽ-
नवगम्याज्ञानात् । तस्मात् समयभेदोपाधिकएव तदुभय-
सम्बन्धः । पाके इदानों साध्यत्वम् अग्रे च साधनत्वं
ज्ञायत इति चेत्? न इदानीमग्रिमपदार्थयोर्नाना-
त्वादननुगमेन व्याप्त्यग्रहात्, शब्देन तथा प्रतिपादयितु-
मशक्यत्वात् गौरवाच्च । स्वकृतितः सिद्धमिष्टसाधन-
मिति ज्ञानाच्चिकार्षा, न हि सिं किश्चिच्चिकीर्षिति, कृतेः
पूर्ब्बं कृतितः तिद्धमिति ज्ञानाभावाच्च । न च कृतिसाध्य
त्वन पाकादेरिष्टसाधनत्वात् साधनत्वमपि साध्यं न हि
कृतिसाध्यत्वेन पाकस्यौदनसाधनतेत्यक्तम् । तस्मात् कृति
क्रियमाणविलक्षणं कृत्यनन्तरभविष्यत्तारूपं कृतिसाध्यत्वं
चिकोर्षाप्रयोजकं तादृशञ्च साधनत्वविरोध्येव किञ्च-
साधनत्वस्य सिद्धमात्रधर्म्मत्वात् साधनत्वज्ञानमिच्छावि-
रोधि । न हि कश्चित् सिद्धमिच्छतीत्युक्तम् । एतेन वृष्ट्या-
दाविष्टसाधनताज्ञानमुपायेच्छाकारणत्वेन कॢप्तमिति
निरस्तम् कथं तर्हि स्वतोऽसुन्दरे वृष्ट्यादाविच्छा? तत्सा-
ध्येष्टज्ञानादिति गृहाण । अन्येतु सुखदुःखाभावतत्-
साधनेष्विच्छाप्रयोजकमनुगतमुद्देश्यत्वं पुरुषार्चपदवेद्यं
धर्म्मान्तरमस्ति अनुगतकार्य्यस्यानुगतकारणगियस्य-
त्वात् तदेव दुःखसाधनव्यावृत्तसुखतत्साधनादौ चिकी-
र्षाप्रयोजकमिति । न च दुःखविरोधित्वमेव
तथाऽस्त्विति वाच्यं सहानवस्थाननियमविरोधस्यासम्भवात् ।
बध्यधातकभावस्यैकसमये सामानाधिकरण्याभावस्य च
यत्नादिसाधारणत्वादिति तन्न तदज्ञानेऽपि मुखत्वज्ञाना-
दिच्छोत्पत्तेः न हि सुखे ज्ञाते धर्म्मान्तरज्ञानं विना
नेच्छा । तथात्वे स्वतः प्रयोजनत्वहान्यापत्तेः तदेव
हिस्वतः प्रयोजन--यदवगतं सत् स्ववृत्तितयेष्यते । किञ्चानग-
तधर्म्मकल्पनापि कारणैः, न च सुखादाविच्छाकारणत्वं
अनागतत्वात् किन्तु तदवगमः । तर्हि सुखादिज्ञाने
तत्स्वरूपसदेवेच्छाप्रयोजकमस्त्विति चेत्? न, यथाह्युद्देश्य-
त्वं सुखज्ञानादिषूत्पद्यते अन्यतरत्वात् तृणारणि
मणिन्यायाद्वा तथेच्छैव जायताम् । कृतिसाध्यत्वञ्च कृतौ
सत्यामग्रिमक्षणे स्वरूपं न कृति विना । क्षेमसाधारणञ्चैतत्
कृतिसाध्यत्वं न तु कृतेः पूर्व्वम् । ननु कृतौ नष्टायां सन्न-
पि धर्म्मी न कार्य्यः, तथा च कथं कार्य्येऽपूर्व्वे कामिनो-
ऽन्वथः क्षणिकत्वेन क्रियातुल्यत्वादितिचेत्? न, यद्वृत्ति
काम्यसाधनत्वं तत्र कार्य्यताबुद्धेः प्रयोजकत्वात् न तु
कार्यताविशिष्टस्य काम्यसाधनतेति व्याप्तिः । ननु पाकादौ
कृतिसाध्यताज्ञानं न प्रत्यक्षेण, कृत्यनन्तरं पाके सति कृति-
साध्यताज्ञानं तस्मिन् सति कृतिरित्यन्योन्यश्रयात् ।
कृतिसाध्यतोत्तीर्ण्णे चिकीर्षाकृत्योरसम्भवाच्चेति चेत् न
पाकोमत्कृतिसाध्योमत्कृतिं विनाऽसत्वे सति मदिष्ट-
साधनत्वात् दैवाद्यनधीनत्वे सति मदिष्टसाधनत्वाद्वा
मद्भोजनवत् इन्यनुमानात् स्वकृतिसाध्यत्वज्ञानं यस्य यदिष्ट-
साधनं यत्कृति विना यदा न सम्भवति तत्तदा तत्कृति
साध्यमिति व्याप्तेः असिद्धस्येष्टसाधनत्वाभावात् । बलवद
निष्टाजनकत्वञ्च लिङ्गविशेषणं तेन मधुविषसम्पृक्तान्न
भोजने न व्यभिचारः अतीतपाके कृतिसाध्यतोत्तीर्ण्णे च
न व्यभिचारः सामान्यतस्तस्याऽपि कृतिसाध्यत्वात् ।
अतोततादशायाञ्चातीतोदने इच्छाविरहे स्वष्टसाधनत्वा-
भावात् अतएव निदाघदूनदेहोर्षषति वारिदे तोयदात्तोय-
लाभसम्भावनायां वा सरोवगाहने न प्रवर्त्तते इष्टसन्ताप-
शान्तिसाधनस्य तोयसम्बन्धस्य स्वकृतिं विनाऽपि सिद्धिप्रति-
सन्धाने लिङ्गाभावेन स्वकृतिसाध्यत्वज्ञानाभावात् । यदा च
मत्कृतिं विना स न सम्भवतीति प्रतिप्तन्धत्ते, तदा प्रवर्त्तते ।
यस्य सन्तापशान्तिमात्रमिष्टं स सरोवगाहनस्येष्टसाधनत्व-
मेव न प्रत्तिसन्धत्ते । उपस्थितवृष्टितोऽपि तत्सम्भवादिति
कश्चित् । तन्नतोयसम्बन्धत्वेन न सन्तापशान्तिसाधनत्वं तस्य
सरोऽवगाहनेऽपि सत्त्वात् अन्यथा वृष्टिरपि तत्साधनं न
स्यात् सरोऽवगाहनादपि तत्सिद्धेः किन्तुकार्य्यभेदसाधनत्वं
कृतिसाध्यत्वेन लिङ्गं पाकादिवदोदनादेरपि प्रवृत्तेः
पूर्व्वं कृतिसाध्यत्रज्ञाने हेत्वभावात् । नन्वेवं लिङ्गज्ञान-
मेव प्रवर्त्तकमस्तु प्राथमिकत्वादावश्यकत्वाच्च । न च
लाघवात् कृतिसाध्यताज्ञानं तथा, कृतिसाध्यतानुमितौ
तदा मानाभावेन युगपदुपस्थित्यभावात् प्रवृत्तिसामग्र्या
अनुमितिप्रतिबन्धाच्चेति चेत् न लिङ्गज्ञाने कृतिसाध्य-
ताप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात् ।
अतएव लिङ्गान्तरज्ञानमपि न प्रवर्त्तकम् । ननु पाकादिः
कृतः क्रियमाणोवा न पक्षः तस्य कृतिसाध्यत्वे बाधात्
नाप्यनागतः भाविपाके मानाभावेनाश्रयासिद्धेः । पाकत्वं
भविष्यद्वृत्ति सामान्यत्वात् गोत्ववदिति मानमिति चेत्
पृष्ठ १९७१
न मानाभावेन गोत्वेऽपि तस्याप्रसिद्धेः । पाकमात्रं पक्षः
इति चेत् न मात्रार्यो यदि पाकत्वं तदा बाधो लङ्गासि-
द्धिश्व । सर्व्वपाकपरत्वे च तस्यसिद्धपाकभागे बाधः, अना
गतभःगे चाश्रयासिद्धिः । वर्त्तमानाद्युदासीनः पाकः
पक्षः पकतामान्ये च कृतिसाध्यत्वं बाधितमित्यनेन
सिद्धस्य पक्षत्वं नासिद्धस्येत्यनुमितेश्च सिद्धविषयत्वे बाधात्-
भिन्नविषयत्वे चामिद्धविषयेच्छाप्रवृत्त्यनुत्पादकत्वात् ।
कृतक्रियमाणसाधारणकृतिसाध्यताज्ञानादेवासिद्धविषया
चिकार्षा कृतिश्चोत्पद्यते अनन्यगतिकत्वेन तथा कारण-
स्वभावकल्पनादिति चेत् तर्हि यादृशं कृतिसाध्यत्वं
चिकीर्षायां प्रकारः तादृशं ज्ञाने नास्तीत्यन्यप्रकारक
ज्ञानादेव विकोर्षा स्यात् । तथा च लिङ्गज्ञानमेव प्रवृत्ति-
हेतुरस्तु प्राथमिकत्वात् । यत्त् स्मृतपाकेकृतिसाध्यत्वासंस-
र्गाग्रहात् प्रवृत्तिः, सचासंसर्गाग्रह इष्टसाधनताज्ञाना-
दिति, तन्न स्मृतपाकस्य सिद्धत्वेन तत्र कार्यत्वासंसर्गा-
ग्रहानुमानबाधात् । स्मृतपाकस्य सिद्धत्वं तदा न गृह्यते
इति चेत् तहिं स्मृतपाकस्य सिद्धत्वग्रहे ओदनार्थी पाके-
न प्रवर्त्तेत सिद्धौदनोऽपि पाके तृप्तोऽपि भोजने प्रवर्त्तेत ।
ननु तत्र पाकादौ सिद्धत्वग्रहात् तदसंसर्गाग्रह इति चेत्
तुल्यम् । अपि च स्मृतपाके कार्यत्वासंसर्गाग्रहाद्विद्य-
मानासंसर्गाग्रहाद्विसंवादिनी प्रवृत्तिः स्यात् । किञ्चैवं
सिद्धपाकज्ञानादज्ञानेऽसिद्धे पाक इच्छाप्रवृत्तीस्यातामिति ।
अत्र ब्रूमः । पाके कृतिसाध्यत्वं सिद्ध्यत् सिद्ध्ये बाधाद-
नागतं पाकमादाय सिद्ध्यति । पक्षतावच्छेदकधर्म्मसामा-
नाधिकरण्यं साध्यमानस्य सिद्धे न सिद्ध्यतीत्यनुमाने कॢप्त-
त्वात् यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधि-
तमित्यप्रसिद्धोऽपि वह्निः सिध्यति । अप्रसिद्धयोः पक्ष-
साध्ययोः सिद्धावविशेषात् तस्मात् “असिद्धस्य क्वचित् सिद्धेः
सिद्धे सिद्धस्य च क्वचित् । अप्रसिद्धस्य चासिद्धे सिद्धि-
स्तेनानुमा त्रिधा” । अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि
पाकादौ कृतिसाध्यत्वं कथमवगम्यते? । किञ्च तवापीष्टसा-
धनंताज्ञानात् कथं वृष्टादाविच्छा? सिद्धत्वस्येच्छाविरोधि
त्वादनागतस्य ज्ञातुमशक्यत्वात् । अतएव सिद्धासिद्धवि-
षयनिरासेन सुखादिज्ञानात् फलेऽपि नेच्छेति न वृष्ट्या-
दाविष्टसाधनतापि । न च वृष्ट्यादिसाध्येष्टज्ञानाद्वृष्ट्यादा-
विच्छा इच्छायाः सिद्धासिद्धवृष्ट्यादितत्फलविषयकत्व
विकल्पग्रासात् । अथ सामान्यलक्षणाप्रत्यासत्त्या वृष्ट्यादित्वेन
सुखादित्वेन व सिद्धासिद्धवृष्ट्यादितत्फलविषयकज्ञान-
मुपन्नं तेन सिद्धं विरोधिनं त्यक्त्वाऽसिद्धविषयेच्छोत्पद्यते ।
यदि च सामान्यलक्षणा नास्ति तदा येन रूपेण इष्ट-
साधनताग्रहस्तेन रूपेण ज्ञातेऽसिद्धे चेच्छोत्पद्यते अन्वय
व्यतिरेकाभ्यां तादृशज्ञानस्य तादृशेच्छाजनकत्वावधार-
णात् । सुखेच्छायामप्येवमिति चेत् तर्हि ममापि पाकत्वाव-
च्छेदेन कृतिसाध्यताज्ञानादनागते चिकीर्षा । तच्च ज्ञानं
सकलपाकविषय सन्निकृष्टपाकविषय वेत्यन्यदेतत् ।
बालस्य व्याप्ताग्रहेऽप्याद्या प्रवृत्तिर्जीवनादृष्टोद्वोधितजन्मा-
न्तरीयसंस्कारजन्यात् स्तनपानं कार्यमिति स्मरणात् तत्रा
पीष्टसाधनतास्मरणात्तत्र प्रवृत्तिरनन्यगतिकत्वात् । न च
जन्मान्तरेऽपि पर्यनुयोगः, जन्मधाराया अनादित्वात् ।
प्रत्यक्षानुमानमूलत्वाच्च नान्धपरम्परा । वस्तुतस्तु शुष्ककण्ठ-
तया बालो दुःखमनुभवन् विरोधितया सुखं स्मरति ततः
सुखवृत्ति कार्यत्वं सुखवृत्तितया अन्तरङ्गत्वात्मातुःम्तनपान
मिष्टसाधनमिति स्मरणं सुखावृत्तित्वेन बहिरङ्गत्वात् ।
सुखकार्यत्वञ्च स्तनपानद्वारा जन्मान्तरानुभूतमिति कार्यत्व-
स्मरणे स्तनपानमपि विषयः तेन स्तनपाने कार्यत्वज्ञांना-
देव प्रवृत्तिः इष्टसाधनताज्ञानस्य तदानीं सामग्य्रभावात् ।
एवञ्चाद्यप्रवृत्तौ कार्यताज्ञानं प्रयोजकं कॢप्तमित्यग्रेऽपि
तदेव प्रवर्त्तकं कॢप्तत्वात्” ।
अत्र दिङमात्रं मथुरानाथव्याख्या प्रदर्श्यते ।
“कार्य्यताज्ञानमिति कृतिसाध्यताज्ञानमित्यर्थः, न
च कृतिसाध्यताज्ञानं विनापि घटयागपाकादिकर्त्तुस्तदु-
पायकपालहविस्तण्डुलादिसिद्धविशेष्यकप्रवृत्तिदर्शनाद्व्य-
भिचार इति वाच्यं प्रवृत्तेर्हि विषयता त्रयी एका
साध्यत्वाख्यविषयता सा च यन्निष्ठकृतिसाध्यताज्ञानचिकी-
र्षादिना प्रवृत्तिस्तन्निष्ठा, तच्चघटयागपाकाद्येव न तु तज्ज-
नकीभूतकपालहविस्तण्डुलादिसिद्धनिष्ठा अदएव घटं
करोमि याग करोमीत्याद्येवानुव्यवसायो । न तु कपाल
हविरादेः सिद्धतादशायां कपालं करोमि हविः करोमीत्या-
द्यनुव्यवसायः व्यवहारो वा कृतिवाचिधातुयोगिद्विती-
यायाः साध्यताख्यविषयतार्थकत्वनियमात् । न च
साध्यताख्याया एव विषयतायाः कृतिवाचिधातुयोगिद्वि-
तीयार्थत्वनियमे कपालतन्त्वादेः सिद्धतादशायां कपालं
करोति तन्तुं करोतीत्यादि व्यवहाराभाववत् कपालं घटवत्
करोति, तन्तुं पटवन्तं करोतीत्यादि व्यवहारोऽपि न स्या-
दितिवाच्यं साध्यवैशिष्ट्यबोधकपदासमभिव्याहृतकृतिवाचि-
धातुयोगिद्वितीयाया एव तथानियमात् तत्र कपालादि-
पृष्ठ १९७२
पदोत्तरद्वितीयाया आधेयचमर्थः घटादिपदञ्च
घटत्वादिपरं धावाख्यातयोर्व्यापारप्रयत्नौ यथायोग्य-
मर्थः तथा च कपालवृत्तिघटचाश्रयानुकूलव्याप रजनक
यत्नवानिन्याद्यन्वयधीः कपाल घटवत् करोमीत्यादिवत्
कपाले घट करामीत्यादिप्रयोगोऽप ष्यतएवेत्यपि वदन्ति ।
अपरा च उपादानतापेरनाम्नी सिद्धत्वाख्यविषयता
स च सिद्धकपालहविस्तण्डुलाद्यपाय नष्ठा । कपालेन घटं
करोमि हविषा य गं करोमीत्याद्यनुव्यचसायात् तत्र
उपादानत्वाख्यविषयताया एव तृतीयार्थत्वात् तस्य च
धात्वर्थकृतावन्वयात् । न च तत्रजन्यत्वं विषयत्ववा तृती-
यार्थस्तस्य च घटयागादावेवान्वय इति वाच्यम सर्व्वत्र
तृत यार्थस्य ध त्वर्थएवान्रयम्य व्युत्पन्नत्वात् अन्यथा
तण्डुलाबयवेन तण्डुलं पचतीत्यपि व्यवहारापत्तेः ।
अन्या च उद्देश्यचाख्यविषयता सा च यतसाधनता-
ज्ञानाधीना चिकीर्षा तन्निष्ठा तच्च जलाहरणस्वर्गाद-
नादिरूपं जलाहरणार्थितया घटं करोमि स्वर्गा-
र्थितया यागं करोतित्यनव्यवसायात् । जलाहरणमुद्देश्य
घटं कारोमि स्वर्गमुद्विश्य यागं करोमोत्यनुव्यवसायाच्च
एवञ्च तत्तत्साध्यतावच्छेदकतत्तत् साध्यकप्रवृत्तित्वावच्छिन्नं
प्रति कत्ततसाध्यतावच्छदकविशष्यवावच्छेदककतत्तत्साध्य-
विशेष्यककृतिसाध्यताज्ञानं हेतुरिति न व्यभिचारः एवं
चिकीर्षाया अपि हेतुत्वमवसेयं तेन तस्या अपि कपाल-
हविस्तण्डुश्चादौ न व्यभिचार” अन्यथा नैयायिकभतेऽपि
व्यभिचारस्य दुर्वारत्वात् तैरपि कृतिसाध्यत ज्ञानचिकीर्ष-
योर्हेतुत्वोप्रगमादिति भाव । यत्तुप्रवृत्तेर्विषयवात्रैविध्ये
मानाभावः किन्तु कपालहविस्तण्डुलाद्युपाय एव
प्रवत्तिग्षियः प्रवत्तिविशेष्यत्वमेव चोपादानत्वम् । नचैवं
षटं करोति यागं कारोतात्यादिव्य ह रानुपपात्तः कृति-
बाचिधातयो गद्ववीयाया विशष्यवार्थकत्वादन्यथा कपालं
करोतोत्यादिव्याहारापत्तिरिति वाच्यम् तत्र घटयाग-
पाकादिपदस्य कप लहविस्तण्डुलादौ लक्षणिकत्वात्
कृतिवाचिध--तुयो गद्वितीयाया विशेष्यतानुकूलतान्यतरार्थ-
कत्वनियमेनानुकूलत्वं विशष्यता वा तत्र द्वितायार्थः इति
प्राञ्चोनैयायिका बदन्ति । तदसत् लक्षणया शब्दप्रयोगरूप-
व्यवहारसमथत्तेऽपि घटादिविशेष्यकत्वावगाहित्वेनानुभूय-
मानाया घटं करोमीत्यादिप्रात्यक्षिकप्रतीतेरनुपपादनात्
लक्षणायां मानाभावाच्च । किञ्च जलाहरणस्वर्गादिरूप
कलस्य उद्देश्यताख्यविषयताया घटयागपाकादेश्च सा-
ध्याताख्यविषयताया अनभ्युपगमे इष्टसाधनताज्ञान
कृतिसाधाताचिकीर्षाणां कार्यकारणभावोऽपि दुर्व्वच
इत्युक्तप्रायएव वक्ष्यमाणश्चोपरिष्टात् इति दिक् । अत्र
च तत्प्रकारकतद्विशेष्यकतत्साधनताज्ञानत्वं तत्साध्यता-
वच्छेदककतत्साध्यकतदर्थिप्रवृत्तिकारणतावच्छेदक न वा,
ज्ञानतदर्थिप्रवृत्तित्वं तत्साधनताज्ञानजन्यवृत्ति नवेत्यादि
विप्रतिपत्तयः तेन नैयायिकैरपि कृत्तिसाध्यताज्ञानस्थ
प्रवत्तकत्वाभ्यपगमेऽपि न क्षति । तदर्थित्वञ्च तदुद श्यकत्वं
न तु इष्टस--धनताज्ञानं प्रवर्त्तकं न वा तत्साधनताज्ञानं
तदर्पिप्रवत्तिकारणं नवेत्यादिविप्रतिपत्तिः पररपि
हविराद्यपादाननिष्ठयागादिरूपचिकार्षाविषयसाधनताज्ञानस्य
यागादिगोचरप्रवृत्तौ हेतुत्वस्याभ्यपगमात् इष्टसाधनत्व-
कृतिसाध्यत्वोभयविषयकसमूहालम्बनस्य प्रवृत्तिहेतुत्वाभ्यु-
पगमाच्चेति ध्येयम् । चिकीर्षातिरिकं न कर्त्तव्यमस्तीति
कर्त्तव्यं द्वारं चिकीर्षा अवश्यं द्वारमिति समुदितार्थः
तथैव प्रकृतोपयोगात् । नचैवं प्रवर्त्तकज्ञानत्वव्यापकं
चिकीर्षाव्यापारकत्वमिति फलितार्थः तच्चायुक्तं उपादान
प्रत्यक्षे व्यभिचारात् तस्य साक्षादेव प्रवृत्तिहेतुत्वात
उपादानेच्छयोस्तस्य द्वारत्वमतेऽपि चिकीर्षाया अद्वारत्वाच्च
इति वाच्यं ज्ञानस्येत्यस्य प्रवृत्तिं प्रति साक्षादसाधनीभूतस्य
ज्ञानस्येत्यर्थात् उपादानप्रत्यक्षञ्च न साक्षात् साधनं
उपादानप्रत्यक्षविरहे प्रवृत्त्यनुदयात् उपादानेच्छाय
स्तद्द्वारत्वमतेऽपि तस्य साक्षात्साधनत्वावश्यकत्वात् । न च
तथापि फलज्ञाने व्यभिचारः फलचिकीर्षायाः प्रवृत्ताव-
हेतुत्वात् इति वाच्यं फलज्ञानस्य फलेच्छाद्वारा
उपायेच्छामात्रसम्पादकत्वनात्यथासिद्धतया प्रवृत्तिजनकत्वस्यैव
तत्रासिद्धेः । यदि च फलज्ञानमपि प्रवृत्तिजनकं तदा
उपायचिकीर्षाया एव तद्व्यापारत्वेन चिकीर्षाव्यापारकत्व
रूपसाध्यस्यापि तत्र सुतरां सत्त्वाच्च न हि स्वममान-
विशेष्यकचिकीर्षाव्यापारकत्वपर्यन्तं साध्यमनुपयोगा-
दिति ध्येयम् । ननु चिकार्षारूपव्यापारसत्त्वेऽपि कुतो
न क्वचित् कृत्युत्पादैयत आह तत्सत्त्वे इति । हेत्वन्त-
रेति हेत्वन्तर दण्डकपालाद्युपादानलौकिकप्रत्यक्षं, प्रतिब-
न्धकाभावश्चति भावः । ननु तत्तदुपादनतावच्छेदककतत्त-
दुपादानकप्रवृत्तित्वेन तत्तदुप्रादानतावच्छेदकप्रकारक
तत्तदुपादानविशेष्यकलौकिकसाक्षात्कारत्वेनोप्रादानप्रत्यक्षस्य
हेतुहेतुमद्भावात् दण्डकपालाद्युपादानप्रत्यक्षाभावे
तदुषादानकप्रवृत्तिर्मास्तु घटादिसाध्यकप्रवृत्तिं विनापि
पृष्ठ १९७३
संयोगादिसाध्यकप्रवृत्तौ दण्डाद्युपादानकप्रधत्तिसत्त्वेन
तदुप दानक्यवृत्तिसामग्य्राः घटादिसाध्यकप्रवृत्तिसाम-
ग्र्यपेक्षया विशेषसाभग्रत्विचिरहात् दण्डोपादानक
प्रवृत्तिं विनापि कपालोपादानकघटसाध्यकप्रवृत्ता घट
साध्यकपवृत्तिसत्त्वेन तदुपादानकप्रवृत्तिसामग्र्या घटादि
साध्यकप्रवृत्तिसामग्य्रपेक्षया सामान्यसामग्रीत्वविवहाच्चति
चेन्न सामग्र्याः सामान्यविशेषभावानापन्नत्वेऽपि
दण्डचक कप लाद्यन्यतमोपादानकप्रवृत्त्यतिरिक्ताया
घटादिसाध्यकप्रव्रतेरल कतया तादृशान्थतभोपादानकप्रवृत्ति
सामग्रीविरहादेव तादृशान्यतमोपाद नप्रत्यक्षाभावदशायां
तदनुत्पत्तस्तदर्मावच्छिन्नयत्किञ्चिद्व्यक्तिसामग्रीसहिताया
एव तद्धर्म्मावच्छिन्नसामग्र्यास्तद्धर्म्मावच्छिन्नकार्य्योपधायक-
त्वात् इदमेव च कारणसमाजाधीना कार्योत्पत्ति-
रिति गीयते । एतेन घटादिचिक र्षाविरहेऽपि दण्ड-
गोचरप्रत्यक्षात् दण्डोपादानकपवृत्त्यापत्तिस्तदवच्छिन्नस्य
सत्त्वादित्यपि निरस्तं संयोगभ्रम्याद्यन्यतमसाध्यकप्रवृ-
त्त्यतिरिक्ताया दण्डोपादानकप्रवृत्तेरलीकतया तादृ-
शान्यतमसाध्यकपवृत्तिसामग्रीविरहादेव तदनुत्पादात्
कार्योत्पत्तेः कारणसमाजाधीनत्वात् । नव्यास्तु
उपादानप्रत्यक्षम्य हि स्वातन्त्र्येण न हेतुता किन्तु घटादि-
निष्ठचिकीर्षाया दण्डाद्युपादानकलौकिकसाक्षात्कारस्य च
सत्त्व ऽपि दण्डादौ घटसाधनत्वज्ञानाभावदशायां
घटसाध्यकदण्डोपादानकप्रवृत्तिवारणीय दण्डोपादाननिष्ठ-
चिकार्षाविषयघटादिसाधनताज्ञानस्यापि घटादिसाध्यकद
ण्डाद्युपादानकपवृत्तित्व वाच्छन्न प्रति न्यायनये परनये च
विशेषकारणत्वावश्यकत्वात्तदेव चिकोर्षाविषयसाधनताज्ञान
मुपादानांशे लौकिकप्रत्यक्षात्मक हेतुरुपेयते क र्यकारण-
भावदृयकल्पनामपेक्ष्य लाघवात् । न च घटसाध्यक-
कपालोपादानकघटध्वं ससाध्यकदण्डोपादानकसमूहालम्ब-
नप्रवृत्तौ दण्डनिष्ठघटसाधनताज्ञानस्याहेतुचात् तत्र
व्यभिचारवारणाय घटत्वावच्छिन्नसाध्यतानिरूपितदण्डत्वा
बच्छिन्नोपादनताशालिवत्त्तित्वमेव कार्यतावच्छेदकमुपेयं
तथाच दण्डत्वावच्छिन्नोपादनतानिरूपतष्ठटत्वावच्च्छि-
न्नसाध्यताशालिप्रवृत्तित्वमादाय विनिगमनाविरहात्तवापि
गुरुतरकार्यकारणभावद्वयमावश्यकमिति वाच्य दण्डाद्यु-
पादाननिष्ठचिकीर्षाविषयघटसधिनताज्ञानस्य घटादिसा-
ध्यकदण्डाद्युपादनकप्रवृत्ति प्रति विशेषकारनत्वावश्यकतया
विनिगमनाविरहात् तादृशकार्यक रणभावद्वयस्य सर्वसम्मत-
त्वात् । इत्यञ्च विशषसामग्रोविरहादेव उपादानपत्यक्षा-
भावदशायां न घटादिस ध्यकावृत्त्युत्पत्तिप्रसङ्गः । एतेन
घटादिनिष्ठचिर्कार्षाविरहेऽपि दण्डगोचरपत्यक्षात् दण्ड-
निष्ठघटसाधनताज्ञानात्मकविशेषसामग्रीसहकृतात दण्डो-
पादानकप्रवत्त्य पत्तिस्तदवच्छिन्नसामग्रीसत्त्वादिति द्विर्ताया-
तिप्रसङ्गोऽपि निरस्तः, केवलदण्डोपादानकावृत्तित्वस्य
कायतानवचछेदकत्वात् घटादिसाध्यकदण्डाद्यपादःनकपवृत्तेश्च
घटादिनिष्ठचिकीर्षालक्षणघटादिसाध्यकप्रवृत्तसामान्यसा-
मग्रीविरहादेवासम्भव दिति प्र हुः । अथ प्रत्यजविषय-
कपालव्यक्तो इदं न कपालमित्यमसर्गग्रहसत्त्वेऽपि कपाल-
त्वप्रक रेण कपालं घटसाधनभिति कपालत्वांश निर्द्धर्मि-
तावच्छेदककतत्कपालावषयकलाकिकप्रत्यक्षात कपालत्व-
प्रक रेण तत्कपालोपादनकप्रवृत्त्यापत्तिः । न च कपाल-
त्वप्रकारेण तद्व्यक्तौ वृष्टाविवेष्ट पत्तिरित वाच्यम्
अनुभवविरोधादि त चेन्न तदुपादनतावच्छेदकांशे
इदन्त्वधम्मितावच्छेदककतदुपादानविशेष्यकप्रत्यक्षस्येदं
घटसाधनमित्याकारस्य वा तत्तदुपादानतावच्छेदक
कतदुपादानकप्रवृत्तिं प्रति हेतुत्वेन निर्द्धर्म्मितावच्छेदक-
कज्ञानस्याहेतुत्वात् । नचैवमिद घटसाधनमिति
लौकिकप्रत्यक्षादिदन्त्वप्रकारेणेतद्व्यक्त्युपाद नकावृत्तिर्न स्यात्
तस्य इदन्त्वांशे निर्द्धर्म्मितावच्छेदककत्वादिति वाच्यम्
उपादानतावच्छेदकभदेन कार्य्यकारणभावभेदादिदन्त्व
स्थले निर्द्ध र्म्मता च्छेदककज्ञानस्यापि प्रवर्त्तकत्वात्
इदमिदं नेत्यमंसर्गाग्रहासम्भवेन तत्रापि प्रमङ्ग-
विरहादित्यास्तां विस्तरः । चिकीर्षा चेति व्यापारीभूत
चिकीर्षा चेत्यर्थः । अन्यथा--चिकार्षासामान्यम्य स्सक्ष्यत्वे ।
लक्षणे फलचिकीर्षायामतिव्याप्तिवारकं कृतिसाध्याक्रया
विषयत्वं विशेषणं व्यर्थं स्यादित्यनुपदमेव स्फुटीभवि-
ष्यति । कृतिसाध्यत्वप्रकारिकेति । अत्र फलचिकीर्षाया-
व्यापारत्वाभावेन लक्ष्यचात्तत्रातिव्याप्तिवारणाय कृति
साध्यक्रियेति क्रियापदं धर्म्मिमात्रपरम् कृतिस ध्यत्वञ्च
साध्यत्वाख्यफलीमूतविषयताशालिनिष्ठत्व नथा च स ध्य
त्वाख्यफलीभूतकृतिविषयताशालिधर्म्मिविषयिकेत्यर्थः
फलञ्च न तादृशविषयताशालीति भावः । केचित्तु क्रिया-
पदमेव साध्यचाख्यफलीभूतकृतिविषयताशालिपरम् न
चैव पृथक् कृतिसाध्यत्वं क्रियाविशेषणं व्यर्थमिति
वाच्यं कृतिसाध्यत्वप्रकारकज्ञानस्य व्यापारीभूता या
चिकोर्षा सर्व प्रकृते लक्ष्या सा च संवादिनी चिकार्षैव, विसं-
पृष्ठ १९७४
वादिचिकीर्षायां तत्प्रकारकज्ञानस्य हेतुत्वेऽन्यथाख्या-
त्यापत्तेः । तथा च पृष्थादिविसंवादिचिकीर्षायामति-
व्याप्तिवारणाय तद्विशेषणस्यावश्यकत्वात् इत्याहुः ।
पाकमिति पाकं कृत्या साधयामीत्याकारिकायां तस्यां तदनु-
भवात् कृतिसाध्यत्वप्रकारकत्वस्यानुभवमिद्धत्वादित्यर्थः
कृतिसाध्यत्वेन पाकमिच्छामीति तदनुव्यवसायसत्त्वादिति
भावः । इच्छाया इत्यादि । इच्छायाः स्वप्रकारकसंवा-
दीच्छायाः तत्प्रकारकसंवादीच्छायास्तत्प्रकारकधोसाध्य-
त्वनियमादिति फलितार्थः । गुरुनये रजतादिप्रका-
रकविसंवादीच्छायां रजतादिप्रकारकज्ञानाजन्यायां
व्यभिचारवारणाय संवादित्वोपादानं कूटलिङ्गस्थले-
ऽप्यनायत्त्या तदिच्छाया विषयान्तरचिषयकत्वकल्पनेन
विसंवादः कल्प्यते । न चैवं संवादिविकोर्षायां तज्जन्य
प्रवृत्तौ च कृतिसाध्यवप्रकारकज्ञानस्य हेतुत्वेऽपि
चिकोर्षासामान्ये च कृतिसाध्यत्वज्ञानस्य न हेतुत्वसिद्धि-
रिति वाच्यं संवादिचिकोर्षादौ कृतिसाध्यताप्रकारक-
ज्ञानस्य हेतुत्ये सिद्वे यद्विशेषयोरिति (यद्विशेषयोः कार्य्य
कारणभावस्तत्सामान्ययोरपीति) न्यायात् चिकीर्षादि-
मात्रं प्रत्येव कृतिसाध्यताविषयकज्ञानस्य हेतुत्वंसिद्धेरिति
भावः एवमग्रेऽपि । केचित्तुया यत्प्रकारिकेच्छा सा
तद्विषयकज्ञानसाध्येति नियमः न तु प्रकारतापर्य्यन्त
प्रवेशः मूलेऽपि स्वप्रकारकेत्यस्य स्वविषयकेत्यर्थः एवञ्च
रजतादिविसंवादीच्छायां न व्यभिचारः तत्र तन्नये इच्छा
विशेष्यविशेष्यकरजतप्रकारकज्ञानस्याहेतुत्वेऽपि स्वातन्त्र्येण
रजतोपस्थितेरवश्यं हेतुत्वात् । न च तन्नये विसंवादी-
च्छायामुपस्थितेष्टतावच्छेदकासंसर्गाग्रहस्यैव हेतुतया रज
तज्ञानं तत्र कारणतांवच्छेदकमेव न तु कारणमिति
व्यभिचारो दुर्वारएवेति वाच्यं कारणकारणतावच्छेदक
साधारणप्रयोज्यत्वरूपस्य साध्यत्वस्य नियमघटकत्वात् ।
नचैवं प्रकृतेऽपि कृतिसाध्यताज्ञानस्यैककालावच्छिन्नैकात्म-
वृत्तित्वसम्बन्धेन इष्टसाधनताज्ञाननिष्ठकारणतावच्छेदकत्व
मेवायातु कुतः कारणत्वम्? इति वाच्यं वक्ष्यमाणक्रमेण
तन्नये इष्टसाधनत्वज्ञानस्येच्छाविरोधितया इष्टसाधनता-
ज्ञानस्य चिकीर्षाहेतुत्वासम्भवात् परिशेषेण जन्यतारूप-
स्यैव कृतिसाध्यताज्ञानप्रयोज्यत्वस्य चिकीर्षायां सिद्धेः ।
नचेष्टसाधनताज्ञानस्याजनकत्वेऽपि बलवदनिष्टाननुबन्धित्व-
ज्ञाननिष्ठजनकतावच्छेदकत्वमेवायात्विति वाच्यं बलवद्द्वेष-
स्यैवेच्छाविरोधितया तज्ज्ञानस्यापि चिकीर्षाहेतुत्वासिद्धेः ।
वस्तुतस्तु विशेष्यविशेषणभावे विनिगमकाभावादुपस्थितेष्ट-
तावच्छेदकासंसर्गाग्रहवदुअगृहोतासंसर्गकेष्टतावच्छेदकोप-
स्थितेरपि विसंवादीच्छाजनकतया जन्यत्वरूपसाध्यत्वमेव
नियमघटकमिति न कोऽपि दोष इति प्राहुः ।
अतएवेति चिकीर्षायाः स्वकृतिसाध्यताज्ञानसाध्यत्वादेवेत्यर्थः ।
स्वकृतिसाध्ये--स्वकृतिसाध्यत्वेन ज्ञाते । इदञ्चापाततः
वस्तुतो लाघवात्पाको मत्कृतिमान् भवत्वित्याकारिका
साध्यतासंसर्गेण कृतिप्रकारिका इच्छैव व्यापारो न तु कृति-
साध्यत्वप्रकारिका गौरवादतएव ज्ञानमपि साध्यतासंसर्गेण
कृतिप्रकारकमेव हेतुरिति तत्त्वम् । यद्यप्युक्तनियमवलेन
कृतिसाध्यताज्ञानस्य हेतुत्वं साधितमेव तथापि युक्त्यन्तर-
दानाय पुनरनुवदति न द्विष्टेति इष्टसाधनताज्ञानसाध्या-
कृतिसाध्यताज्ञानं विनापि इष्टसाधनताज्ञानसाध्या
यथाश्रुतेऽग्रिमहेत्वसङ्गतेः । स्वकृथसाध्ये--स्वकृत्यसाध्यत्वेन
निश्चिते स्वकृत्यसाध्यताज्ञानभिति स्वकृत्यसाध्यतानिश्चय
इत्यर्थः कृतिसाध्यतासंशयेऽपि प्रवृत्तेरनुभवाद्यथाश्रुता
सङ्गतेः । न च कृतिसाध्यतासंशये प्रवृत्तिर्स्वकारे
बहुवित्तव्ययायाससाध्येऽपि प्रवृत्त्वापत्तिरिति वाच्यं
बलवदनिष्टानुबन्धित्वज्ञानस्य विरोधित्वादेव तत्रेच्छाप्रवृत्त्योर-
भावादिति ध्येयम् । तदभावकारणत्व इति कृतिमाध्यता-
ज्ञानत्वेन कारणत्वमपेक्ष्य कृत्यसाध्यतानिश्चयाभावत्वेन-
कारणत्वे गौरवात् इत्यर्थः । नचाप्रामाण्यनिश्चयानास्क-
न्दितकृतिसाध्यताज्ञानत्वापेक्षयाऽप्रामाण्यज्ञानानास्कन्दित
कृत्यसाध्यतानिश्चयाभावत्वमेव लघ्विति वाच्यं कृति-
साध्यताज्ञानस्याप्रामाण्यनिश्चये बलवदनिष्टानुबन्धिता-
ज्ञानोदयादेव प्रवृत्त्यभावसम्भवात्तत्र तदनास्कन्दितत्व
स्याप्रवेशात् स्वकृतत्यसाध्यतानिश्चयवत्तदभावव्याप्यादिनि-
निश्चयस्यापि प्रतिबन्धकत्वावश्यकतया बहुतरकार्य्यकारण
भावकल्पनागोरवाच्चेति भावः । केचित्तु ननूक्तनि-
यमबलादस्तु कृतिसाध्यताज्ञानं हेतुस्तथापि कृतिसाध्यता-
ज्ञानत्वेन तस्य न हेतुता अपि तु इष्टसाधनताज्ञानत्वेन
सर्व्वत्रेष्टसाधनताकृतिसाध्यतोभयविषयकसमूहालम्बना-
देव चिकीर्षेत्यत आह न द्विष्टसाधनताज्ञानसाध्येति
न द्विष्टसाधनताज्ञानत्वावच्छिन्नकृतिसाध्यताज्ञानकारण
ताकेत्यर्थः । स्वकृत्यसाध्ये स्वकृत्यसाध्यत्वेन निश्चिते ।
चिकीर्षापत्तेः--केवलेष्टसाधनताज्ञानाच्चिकीर्षापत्तेः
कारणतावच्छिन्नसत्त्वादिष्टापत्तौ चोक्तनियमभङ्गादिति भावः ।
तदभावकारणत्वे गौरवादिति । इदमुपलक्षणं कृत्य-
पृष्ठ १९७५
साध्यतानिश्चयस्य प्रतिबन्धकत्वेऽपि यत्र कारणान्तरा-
भावादिटसाधनताज्ञाने कृतिसाध्यत्वस्य न भानं तत्र
कवलेष्टसाधनताज्ञानाच्चिकीर्षापत्तेर्दुर्व्वार्रत्वाच्च इत्यपि-
बोध्यम् । उक्तनियममस्मृत्वैव तटस्थः शङ्कते अथेतीति ।
अभावः--कृत्यसाध्यतानिश्चयाभावः । उभयसिद्धः--चिकी-
र्षापूर्ब्बमुभयसिद्धः, असिद्धा--चिकीर्षापूर्ब्बमुभयासिद्धा । न
लाघवावसरः इति कृतिसाध्यताज्ञानत्वस्य सदपि लाघवं
न कारणतावच्छेदकतायां विनिगमकम् इत्यर्थः लघु गुरु-
धर्म्मद्वयावच्छिन्नं यदि फलपूर्ब्बमुभयबादिसिद्धं तदेव
लाथास्य कारणतावच्छेदकतायां विनिगमकत्वादिति भावः ।
दैवात्प्रतिबन्धकविरहात् । सा--चिकीर्षापूर्व्वकृतिसाध्य-
ताधीः । लाधवावतारादिति कृतिसाध्यताज्ञानत्वरूपलघु-
धर्म्मावच्छिन्नस्य चिकीर्षापूर्व्वमुभयमतं सत्त्वादित्यर्थः ।
इच्छाया इति तत्प्रकारकसंवादीच्छायास्तत्प्रकारक
ज्ञानजन्यतानियमेनेत्यर्थः । आवश्यकत्वात्--चिकीर्षा-
हेतुतावश्यकत्वात् अपि च कृत्यसाध्यताज्ञानप्रतिबन्ध-
कतान्यथानुपपत्त्या कृतिसाध्यताज्ञानस्य चिकीर्षाहेतुता
सिद्धिरित्याह जनकज्ञानमिति । तज्जनकीभूतज्ञान-
विघटकस्यैव ज्ञानस्य विधिप्रतिबन्धकत्वाच्चेत्यर्थः । अत्र
व्याप्तौ दृष्टान्तमाह व्याप्तिज्ञानविघटनद्वारेति अनुमिति
जनकव्याप्तिज्ञानविघटनेनेत्यर्थः । तथा च यत् यत्प्रति-
बन्धकं ज्ञानं भवति तत्तज्जनकज्ञानविघटकं यथा
व्यभिचारज्ञानमनुमितिप्रतिबन्धकं ज्ञानं भवत्
अनुमितिजनकव्याप्तिज्ञानविघटकमपि भवति इति सामा-
न्यतोव्याप्त्या कृत्यसाध्यतानिश्चयस्य चिकीर्षाप्रतिब-
न्धकज्ञानत्वेन हेतुना चिकीर्षाजनकज्ञानविघटकत्वसा
धने पक्षधर्म्मताबलात्कृतिसाध्यताज्ञानस्यैव चिकीर्षाजन-
कत्वसिद्धिरिति भावः । न च जनकज्ञानविघटकत्वेना-
ऽन्यथासिद्धतया तदभावस्याहेतुत्वात् स्वरूपासिद्धिर्दृष्टान्ता-
सिद्धिश्च इति वाच्यं प्रतिबन्धकत्वं हि न कारणीभूता-
भावप्रतियोगित्वम् किन्तु प्रयोजकीभूताभावप्रतियोगित्वम् ।
प्रयोजकत्वं च कारणकारणव्यावृत्तान्यथासिद्धिचतुष्टय-
राहित्ये सति नियतपूर्ववर्त्तित्वम्--कारणतत्कारणसाधा-
रणम् । हेतौ ज्ञानपदोपादानादेव च विषयान्तरसञ्चारादौ
न व्यभिचारः । साध्य च ज्ञानपदं स्वरूपकथनम् । विघट-
कत्वञ्च प्रतिबन्धकत्वमेव नत्वेककालावच्छेदेन तदधिकरणा-
वृत्तित्वरूपविरोधित्वं गुरुनयेऽधिकरणज्ञानरूपतया कृति-
साध्यताज्ञानस्यापि कृत्यसाध्यताज्ञानाभावस्य ज्ञानात्मकस्य
विरोधितया सिद्धसाधनापत्तेः । नचासाधुत्वज्ञाने साधु-
त्वज्ञानाजन्यशाब्दधीप्रतिबन्धके व्यभिचार इति वाच्यम्
निराकाङ्क्षत्वरूपासाधुत्वज्ञाने आकाङ्क्षाज्ञानमादाय
साध्यस्यापि सत्त्वात् असाधुत्वज्ञानस्य च प्रतिबन्धकत्वे
मानाभावात् । न च तथापि सिद्धौ व्यभिचार इति वाच्यम्
गुरुनये सिद्धेरप्रतिबन्धकत्वात् तद्व्यावृत्तप्रतिबन्धकताया वा
हेतौ निवेशात् । अतएवासिद्धत्वज्ञानाजन्येच्छाप्रतिबन्धक-
सिद्धत्वज्ञानेऽपि न व्यभिचारः तद्व्यावृत्तप्रतिबन्धकताया
एव हेतौ निवेशात् असिद्धत्वनिश्चयस्यापि इच्छाहेतुत्वाद्वा ।
अथ तथापि बाधसत्प्रतिपक्षादौ व्यभिचारः । न च
तद्व्यावृत्ताऽपि प्रतिबन्धकत हेतौ निवेशनायेति वाच्यम्
कृत्यसाध्यताज्ञानाभावव्यभिचारज्ञानाभावयोरपि बाधा-
भावतयैव चिकीर्षानुमित्योः प्रयोजकतया स्वरूपासिद्धि
दृष्टान्तासिद्ध्योरापत्तेः । न च साक्षादविरोधित्वे
सतीत्यनेन हेतुर्विशेषणीय इति बाच्यम् साक्षादविरोधित्वं
हि न ग्राह्याभावतद्व्याप्याद्यनवगाहित्वं, प्रकृतेऽपि
तदसिद्धेः कृत्यसाध्यताज्ञानस्य चिकीर्षाप्रकारीभूतकृतिसाध्य-
त्वाभावावगाहित्वात् अतएव न कारणीभूताभावप्रति-
योगित्वमपि, प्रकृतेऽपि तदसिद्धेः पूर्वपक्षिणा कृत्यसाध्यता
धियः साक्षादेव प्रतिबन्धकत्वाभ्युपगमात् न च हेतौ
प्रतिबन्धकज्ञानत्वपदेन ज्ञानत्वावच्छिन्नप्रतिबन्धकताशालित्वं
विवक्षितं बाधसत्प्रतिपक्षादेश्च निश्चयत्वेन प्रतिबन्धकत्वमिति
वाच्यम् प्रकृते तदसिद्धेः उक्तयुक्त्या कृत्यसाध्यतानिश्चय
स्यैव पूर्वपक्षिमते प्रतिबन्धकत्वादिति चेन्न हेतौ स्वग्राह्य-
विरोधावगाहिज्ञानभिन्नत्वेन यत्पदार्थविशेषणात् । स्वपदं
प्रतिबन्धकज्ञानपरं चिकीर्षायाश्च ज्ञानभिन्नत्वादेव संग्रहः
स्वग्राह्यविरोधावगाहित्वन्तु स्वं यत्र यदभावतद्व्याप्य
तदवच्छेदकाद्यन्यतममवगाहते तत्र तदवगाहित्वं संवादि-
त्वेनापि हेतौ यत्पदार्थो विशेषणीयः तेन इष्टभेदग्रहे
प्रवृत्त्यादिप्रतिबन्धके तन्नये न व्यभिचारः । संवादि-
प्रवृत्तौ विशिष्टज्ञावमेव हेतुरिति साध्यसत्त्वादेव न
तमादाय व्यभिचारः । न च तथापि कूटभ्रमपरामर्शलिङ्ग-
स्थले लिङ्गासंसर्गाग्रहेण लैङ्गिकासंसर्गाग्रहाधीनसंवादी-
च्छाप्रबृत्तिप्रतिबन्धकेष्टभेदग्रहे जनकीभूतविशिष्टज्ञानविघ-
टकत्वाभावाद्व्यभिचार इति वाच्यम् विशिष्टज्ञानस्य
संवादीच्छाप्रवृत्तिहेतुत्वेनानायत्या तत्रापीच्छाप्रवृत्त्योर्विष-
यान्तरविषयकत्वकल्पनेन विसंवादित्वस्य तैः स्वीकारादिति
दिक् । अन्यथा--एतादृशव्याप्त्यनङ्गीकारे । उपेक्षणीयत्वम्-
पृष्ठ १९७६
इष्टसाधनतावच्छेदकरूपशून्यत्वम् । निष्फलत्वम् इष्टफलोप
धानशून्यत्वम्, प्रतिबन्धकं--चिकार्षापतिबन्धकम् । क्रिया-
ज्ञानमेवेयोकारेण इष्टसाधनत्वादिज्ञानव्यवच्छेदः । सोन्द-
ड़ः शङ्कते नन्विति । सन इति । वाचिचात् बोधकतात् पतच्च
चिर्कर्षापदस्य यौगिकत्वपक्षे चिक र्षापदस्याखण्डरूढत्व-
पक्षे त्वाहलाघवातिति, कृतिस ध्यत्वप्रकारकेच्छात्व पेज्ञया
कृतीच्छात्वस्य प्रवृत्तिनिमित्तस्य लघु वादिथर्यः । चिकीर्षा-
चिकर्षापदप्रतिपाद्या । वृष्टाविवेति वृष्टिर्भवत्विताच्छैवेत्यर्थः ।
इष्टसःधनताज्ञानात्--इष्टसाधनताज्ञानमात्रात् कृतिसा-
ध्यवाज्ञानं विनापीष्टसाधनताज्ञानादिति यावत् । तत्र
कृतिसाध्यत्वस्याप्रकारतया कृत्यसाध्यत निश्चयस्याप्रतिबन्धक
तया च कृतिसाध्यताज्ञानस्य हेतुत्वे मानाभावादिति
मावः । अत्र वृष्टिर्भवत्वित च्छेवेति प्रकृतसाध्याङ्गको दृष्टान्तः
गुरुनये वृष्टिसाध्यं सुखं भवत्वितीच्छैव विशेषणतया
सुखत्वमिव वृष्टिमपि विषय करोति न तु वृष्टिर्भवत्विति स्वात-
न्त्र्येणेच्छा कृतिसाध्यत्वप्रकारकेच्छां प्रति सुखत्वदुःखा-
भावत्वप्रकारकज्ञानयोर्हेतुत्वेन कृतिसाध्यत्वाप्रकारकोपा
येच्छाया अलीकत्वात् वृष्टिसाध्यं सुखं भवत्वितोच्छायान्तु
सुखेवृष्टिसाध्यत्वज्ञानमेव हेतु रति मन्तव्यम् । वह्निना
साधयामीतिवदिति साध्यत्वप्रकारिकाया इति शेषः ।
अनुभूयमानायाः--नियमतोऽनुभूयमानायः । सनन्तावाच्यधेन-
सनन्ताप्रतिपाद्यत्वेन । गौरवेण--प्रवृत्तिनिमित्तगौरवेण ।
प्रत्याख्यातुप्तशक्त्यत्वातिति कारणतायाः प्रत्याख्यातुमशक्य-
त्वादित्यर्थः तथाच चिकीर्षापदाप्रतिपाद्यापि सा प्रवृ-
त्तिहेत्तुरिति भावः । प्राधान्येनेति विशेष्यवयेत्यर्थः ।
अप्राधान्येन विषयत्वस्य तत्र द्वितीयार्थत्वे पाकत्वं चिकी-
र्षति इत्यपि प्रयोगापत्तेरिति भावः । न तु कृतेरिति
अतो न कृतीच्छा चिकीषाप्रतिपाद्येति भावः । ननु चिको-
र्षतीत्यत्र पाकस्य विशष्यतया इच्छाविषयत्वमनुभूयते इत्य-
युक्तं सत्प्रथयसमभिव्याहृतधातोरिच्छाविशेषवाचितया
धात्वर्थस्यौ विशेष्यत्वातित्यतआह धातोश्चेति । इच्छाप्रकार
वाचित्वमिति न तु विशेष्यपाचित्वमिति शेषः । पकारश्च
कृतिसाध्यत्वं साध्यतासंसर्गेण कृतिर्वा । आद्ये तु लक्षणा-
दिकं शरणमित्यन्यदेतत् । भोजनविशेष्यतयेति भोजनप्रका-
रकेच्छाविशेष्यवयेत्यर्थः । ओदनविशेष्यकभोजनप्रकारके-
च्छाश्रय इत्यन्वयबोधादिति भावः । ननु कृतिसाध्यत्व-
प्रकारकेच्छायानियमतः कृतिपूर्व्वमनुभवसिद्धत्वेऽपि न सा
प्रवृत्तेर्हेतुरवच्छेदकगौरवात्, किन्तु कृतीच्छैव इष्ट साधनता
ज्ञानेन, तस्या अपि पूर्व्वं सम्भवात् । नचैवं क्रियाया
इष्टासाधनतादिज्ञानेऽपि कृतेरिष्टोपायत्वादिस्तानात् प्रवृ-
त्त्यापत्तिरिति वाच्यम् इष्टत्वात् । अन्यथा तवापि कृते-
रिष्टाजनकत्वादिज्ञानदशायामपि क्रियाया इष्टजनकत्वादि
ज्ञान त्प्रग्त्त्यापत्तेस्तुल्यत्वादतआह इष्टभाष्टनत्वेनेति इष्ट-
साधनत्वज्ञानेनेत्यर्थः । वुष्टाविवेति प्रवृत्तिपूर्व्वमिति शेषः ।
करोतीति तादृशानुव्यवसायेनेत्यर्थः । ज्ञानचिकीर्षा-
प्रवृत्तीनामिति प्रवृत्त्या सह प्रवृत्तिकारणज्ञानचिकीर्षायाः
समानविशेष्यकत्वस्य विषयोकरणात इत्यर्थः । इदमुपलक्षणम्
अतिप्रमङ्गभङ्गाय तद्विगेष्यककृतौ तद कूलकृतोच्छायाएव
हेतुताया वक्तव्यत्वात् पाकानुकूलकृतीच्छात्वस्वकृतिसाध्यत्व-
प्रकारके च्छात्वयोः समशरोरत्वेन लाघवगौर मपि नास्ती-
त्यवधयम् । कृत्या साधयितुमिति कृतिसधदत्वप्रकारिके-
त्यर्थः । सा--चिकोर्षा चिकीर्षतस्य पाकस्यतिचिकीर्षाविष-
यताचच्छेदकपाकत्वावच्छिन्नस्येर्त्यथः । अन्यतः सिद्धौ अन्यतः
सिद्धत्वग्रहे, सा--पाकत्वपृकरिका नापगच्छेत् न न जायेत
जायेतेति यावत् । उपायविशेषसाध्यत्वेनेति एकोपाय-
साध्यत्वप्रकारिकेत्यर्थः । उपायान्तराधोनेति उपायान्तरा-
धोनसिद्धत्वज्ञानेनेत्यर्थः । प्रोत्येति प्रत्याधनलाभस्य प्रीत्या
सिद्धत्वज्ञानेऽपीत्यर्थः । प्रतिग्रहेणेति प्रतिग्रहसाध्यत्व-
प्रकारकधनलाभेच्छाया इत्यर्थः । अनिवृत्तेरुत्पत्त्यनिवृत्ते-
रुत्पत्तेरिति यावत् । तथा च तदुपायसाध्यत्वप्रकारके-
च्छां प्रति तदुपायतःसिद्धत्वज्ञानस्यैव प्रतिबन्धकतया
उपायान्तराधीनसिद्धत्वज्ञानेऽपि कृ तसाध्यत्वज्ञकारकेच्छोत्-
पत्तौ न बाधकमिति भावः । स्वविषयसिद्धत्वस्येति स्वविषय-
तावच्छेदकावच्छिन्न वशेष्यताकसिद्धत्वज्ञानस्येत्यर्थः यथा
श्रुते पाकं कृत्या साधयामीतीच्छाया अन्यतः सिद्धपाका
षियतया तत्सिद्धौ तन्निवृत्तेरनुपपादनात् । न च तस्या
अन्यतः सिद्धपाकोऽपि विषयः व्यधिकरण कारकेच्छाया
अभ्युपगमात् इति वाच्यं तथापि पाकत्वरूप्रेणान्यतः सिद्ध-
पाके सिद्धत्वज्ञाने तेन रूपेण सिद्धपाकमात्रे तदापत्ते-
स्तादवस्थ्यात् भिन्नप्रकारकस्यापि सिद्धत्वज्ञानस्य प्रति-
बन्धकत्वापाताच्च । सिद्धत्वञ्च क्वचिदुत्पन्नत्वं, क्वचिद्विद्य-
भानत्वं, क्वचिच्च क्षेमसाध्यताविरोधित्वरूपं, यथा दुःख-
प्रागभावादौ प्रतिबन्धकाभावकूटस्य हेतुत्वाच्च नाननुग-
मोदोषाय । नचैवं सिद्धे ग्रामादौ कथमिच्छेति वाच्यं तत्र
ग्रामादिलाभस्यासिद्धस्यैव इच्छाविषयत्वात् न तु ग्रामा-
देरिति भावः । उपायेच्छाविरोधित्वात् उपायेच्छगनुतपा
पृष्ठ १९७७
प्रयोजकवात्, फलेच्छाविच्छेदस्य प्रतिबन्धकत्वाभावेन यथा
श्रुतासङ्गतेः । तत्र--चिक र्षतस्य पाकस्यान्यवः सिद्धत्वज्ञान
स्थले । सिद्धत्वम्--मिद्धत्वग्रहः पाकस्य सिद्धत्वज्ञानात् स्ववि
षय सद्धत्वज्ञानम् ओदनस्य सिद्धत्वज्ञानात् फलेच्छा वच्छेद
इति भावः । ननुस्वपिषयताबच्छेदकावच्छिन्नविशेष्यताकसिद्ध-
त्वज्ञानत्वेन पतिबन्धकत्वे स्ववान्तर्भावात् अननुगमः न
च तद्धर्म्माश्रयविशेष्यकेच्छां प्रति तादृशसिद्धत्वज्ञानं विरो-
धीति वाच्यं विसंवादोच्छाया असंग्रहात् । अथ तदर्म्माव
च्छिन्नविशेष्यताकसिद्धत्वज्ञानं विरोधि नचै । शूद्रादि-
पाके सिद्धत्वज्ञानेऽपि ब्राह्मणस्य पाके चिक र्षा न स्यादिति
वाच्यं तदानीं स्वीयपाकत्वादिरूपेणैव” ब्राह्मणस्य चिकी-
र्षोत्पादात् पाकत्वरूपेण तदनुत्पादात् इति चेन्न ग्रामे
स्वत्वं मे भवत्विय दिसिद्धग्रामादिगोचरेच्छायां ग्रामत्वादि
रूपेण सिद्धत्वज्ञानेऽपि ज यमानायां व्यभिचारात् कपाल-
हविरादिरूपेण सिद्धत्वज्ञानेऽपि कपालहविराद्य पादाने-
च्छायां व्यभिचारात् सिद्धत्वज्ञानदशायां तदनभ्युपगमे त
दानीं प्रवृत्तेरप्यपलापप्रसङ्गात् उपादानेच्छायाः प्रवृत्तौ-
हेतुवादतएव तद्वर्म्मप्रकारकचावच्छिन्नमुख्यविशेष्यता-
केच्छां प्रति तद्वर्म्मावच्छिन्नविशेष्यनाकसिद्धत्वज्ञान विरोधि
नातो ग्रामे स्वत्वंमे भवत्विति सिद्धग्रामादिगाचरेचछायां
व्यभिचार इति कस्यचित् प्रलपितमपास्तं, कपालहवि
राद्युपादानेच्छायां व्यभिचरात् पाकत्वादिरूपेण सिद्धत्व-
ज्ञानदशायां मम कृतिसाध्यपाकोभवत्विति चिकीर्षाया
अनुत्पादवत् घटत्वादिरूपेण सिद्धत्वज्ञानदशायामपि
नीणोघटोभवत्वितीच्छाया अनुत्पत्तिप्रसङ्गाच्च इति चेत्? मैवं
तद्धर्म्मेद्देश्यतावच्छेदककेच्छां प्रति तद्धर्म्मप्रकारकसिद्धत्व-
ज्ञानस्य प्रतिबन्धकत्वात् । उद्देश्यत्वञ्च भवत्वित्यादिपदाभि-
लप्यनानो विषवताविशेषः ग्रामे स्वत्वमे भवत्वित्यादौ
ग्रामादिर्नोद्देश्यः किन्तु स्वचमेव एवं कपालाद्युपादान
गोचरेच्छायामपि कपाल दिर्नोद्दश्यः । उद्देश्यतावच्छदकत्वञ्च
तत्पर्याप्त्यधिकरणत्वं तेन घटत्वादिरूपेण सिद्धत्वज्ञान-
दशायां नीलोघटोभवत्वितीच्छोत्पत्तिः । अतएव यस्यां
पाकादिविशेष्यकधिकीर्षायां, पाकत्वादिमात्रेणोद्देश्यता
पाकत्वादिरूपेण सिद्धत्वज्ञानादेव सापैति यस्यान्तु स्वकृति-
साध्यपाकत्वादिरूपेण, सा तु स्वकृतिसाध्यपाकत्वादिरूपेण
सिद्धत्वज्ञानादेवापैति इति विभागः । तादृशविलक्षण-
विषयतानङ्गीकार तु तत्तद्व्यक्तित्वेनैव प्रतिबध्यता, प्रति-
बन्धकता तु सामान्यतस्तद्धर्म्मावच्छिन्नविशेष्यताकसिद्धत्व-
ज्ञानत्वेन तत्तद्व्यक्तित्वेन वेत्यन्यदेतत् । केचित्त यद्धर्मा-
वच्छेदेनेष्टसाधनताज्ञानाधीना इच्छा तद्धर्म्मप्रकारकसिद्ध-
त्व नश्चयो विरोध । इष्टसाधनषियत्वञ्च यत्र पाकत्व-
रूपेण गृहोतं तत्र पाकत्वप्रकारकसिद्धत्वधियोव सापगच्छति
यत्र मत्कृतिसाध्यपाकत्वादिना तदवगतं, तत्र तदवच्छिन्न-
सिद्धचधियैवेति विभागः । तेन प्रतिग्रहसाध्यधनलाभत्व-
स्येष्टसाधनत्व वच्छेदकत्वात् प्रकारान्तरेण तल्ल भेऽपि न
तदपगमः । न च सिद्धत्वज्ञानदशायां घटयागदिसाध्यकप्र-
वृत्तिजनककपालहविराद्युपादानेच्छायां व्यभिचार इति
वाच्यम् गुरुनये उपादाननिष्ठचिकोर्षाविषयसाधनताज्ञा
नस्य साक्षादेव प्रवृत्तिहेतुत्वेन तादृशेच्छायां मानाभावात् ।
तच्छाग्रे स्फटभविष्यति एवं न्यायनयेऽपि न च तथापि
यथा पाकचरूपेण इष्टसाधनताज्ञानात् कृतिसाध्यत्वप्र-
कारकज्ञानसहकृतात् पाकः कृतिसाध्यो भवतु इतीच्छाया
ग्रामत्वादिरूपेण सिद्धग्राम दाविष्टसाधनताज्ञानात् स्वीय-
स्वत्वप्रक रकज्ञानसहकृतात् ग्रामो मे स्वत्ववान् भवतु इति
सिद्धग्रामविशेष्यकेच्छायाश्चोत्पत्तौबाधकभावात् तत्र व्यभि-
चारः ग्रामत्वादिरूपेण सिद्धत्वज्ञानेऽपि तदुत्पत्तेरिति
वाच्यम् स्वकृ तसाध्यतातिरिक्तस्थले तत्प्रक रकफलार्थी
च्छायां तत्प्रकारकफलसाधनताज्ञानस्य फलबलेन हेतुतया
ग्रामत्वरूपेणेष्टसाधनताज्ञाने तादृशेच्छाया एवासिद्धेरि-
त्याहुः, तदसत् गुरुनये नित्यविषयकेच्छाया असंग्रहात् ।
घटादिसाघ्यकप्रवृत्तौ घटादिचिकीर्षावत् कपालाद्युपा-
दानकप्रवृत्तौ घटादिचिकीर्षावत्कपालाद्युपादानकप्रवृत्तौ
कपालादीच्छाया अपि हे त्वेन कपालाद्युदानकेच्छाया
व्यभिचारस्य दुर्वारत्वाच्च, अन्यथा चिकीर्षाविषयसाधनता
ज्ञानस्य लौकिकप्रत्यक्षस्य चाविशिष्टत्वेऽपि यत्रेच्छा तत्रै-
वोपादानतया प्रवृत्तिर्यव नेच्छा तत्र नेति नियमानुप-
पत्तेः । न्य यमीमांसासिद्धान्तस्य च युक्तिविरुद्धत्वेनानुपा-
देयत्वादिति संक्षेवः” । अधिकं तद्ग्रन्थे दृश्यम् ।
न्यावयते तु कार्य्यत्वज्ञानमिष्टसाधनत्वज्ञानं बलवदनिष्टा
ननुबन्धित्वज्ञानं चेति यथाययम् प्रवर्त्तकमिति भेदः
विस्तरस्तु आकरे दृश्यः ।

कार्य्यपुट पु० कार्य्यां कर्त्तव्ये कर्म्मणि न पुटति पुट--श्लेषे

क ७ त० । १ क्षपणके २ उन्मत्ते ३ अनर्थकरे त्रि० मेदि० ।

कार्य्यप्रद्वेष पु० कार्य्यं प्रद्विषत्यनेन प्र + द्विष--करणे घञ्

६ त० । आलस्ये राजनि० आलस्येन हि कार्य्यद्वेषा-
त्तस्य तथात्वम् ।
पृष्ठ १९७८

कार्य्यशब्दिक त्रि० कार्य्यः शब्द इत्याह ठक् । कार्य्यः

शब्द इति कथके नैयायिके तेन शब्दस्यानित्यत्वस्य स्वीका-
रात्तस्य तथात्वम् ।

कार्य्यसिद्धि स्त्री कार्य्यस्याभीष्टस्य सिद्धिः । १ अभीष्टसिद्धौ

“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयम्” ति०
त० खञ्जनशकुने । २ कर्त्तव्यकर्म्मनिष्पत्तौ नील०
ताजकीक्ते ३ सहमभेदे च तत्र हि “पुण्यं गुरुर्ज्ञानयशोऽथ
मित्रम्” इत्युपक्रमे “स्यादन्यकर्मसबणिक् त्वथकार्यसिद्धिः”
इत्यादिना पञ्चाशत् सहमानि विभज्य “स्यात् कर्म्म-
सिद्धिः सततं (दिवानिशोः) विशोध्य मन्दं सितात् स्यात्तु
विवाहसद्म” इत्यनेन तदानयनप्रकारोदर्शितः तथा च
बर्षलग्नकालिकस्फुट शनिं शुक्रस्फुटात् त्यक्त्वा लग्नयोगे
तत्सहमस्फुटं भवति इयांस्तु भेदः शोध्यमन्दशुद्ध्याश्रय
शुक्रयोर्मध्ये यदि लग्नस्फुटं न भर्वत्तदा राशौ एकाङ्क
योगः कार्य्य इति । तत्फले च तत्रैवोक्तं यथा “कार्य्य-
सिद्धिसहमं युतं शुभैर्दृष्टमूथशिलगम् जयप्रदम् ।
सङ्गरेऽथ शुभपापदृष्टियुक् क्लेशतोजय उदीरितो वुधैः”

कार्य्या स्त्री कृ--ण्यत् । कारोवृक्षे राजनि० ।

कार्य्याधिप पु० ६ त० । ज्योतिषोक्ते १ व्यापाररूपकार्य्य-

स्थानाधिपे लग्नावधिकदशमस्थानाधीश्वरे । २ कार्य्या-
ध्यक्षे च । कार्य्याधीशादयोऽप्यत्र ।

कार्य्यान्वित त्रि० कार्य्येण कर्त्तव्येनान्वितः । १ कार्य्ययुक्ते

२ कार्य्य ताबोधकपुदप्रतिपाद्यार्थान्विते च । मीमांसकनये
कार्य्यान्विते एव शब्दस्य यथा शक्तिस्तथा पूर्ब्बपक्षविधया
शब्दचि० निर्ण्णीतं यथा
“नन्वर्थबादानां सिद्धार्थतया न प्रामाण्यं कार्य्यान्वित
एव पदानां शक्त्यवधारणात् वृद्धव्यवहारादेव हि सर्वेषा-
माद्या व्युप्पत्तिः उपायान्तरस्य शब्दव्युत्पत्त्यधीनत्वात् ।
तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यस्य वृद्धस्य
प्रवृत्तिमुपलभमानोबालः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजन-
जिज्ञासायां तदन्वयव्य तरेकानुविधायित्वादुपस्थितत्वाच्च
प्रयोज्यवृद्धप्रवृत्तिमेव प्रयोजनमवधारयति नचाकिञ्चित्
कुर्वतस्तादर्थ्यं सम्भवतीति च तज्जन्यं प्रवृत्त्यनुकूलं कार्य्यता-
ज्ञानमेव कल्पयति स्वप्रवृत्तौ तेन कार्य्यताज्ञानस्य
हेतुत्वावधारणात् नान्यतः प्रवृत्तेः कार्य्यताज्ञानावरुद्धत्वात्,
नचैवं शब्दस्य स्वार्थज्ञानद्वारा प्रवृत्तिहेतुत्वम् । स्वप्र-
वृत्तौ बालेन शब्दाहितविशेषस्य कार्यताज्ञानस्य हेतुत्वेना-
नधारणात् । ज्ञाने च प्रत्यक्षादिनानोपायकत्वदर्श-
नात् शब्दोऽपि कार्यताज्ञानहेतुरित्यवधार्य तत्रैव शक्तिं
कल्पयति उपस्थितत्वात् । पश्चादावापोद्धारेण क्रिया-
कारकपदानां कार्य्यान्विततत्तदर्येषु शक्तिं गृह्णाति
प्रथमगृहीतसामान्यशक्त्यनुरोधात् । अथ यद्यपि वृद्धव्यव-
हारादौ कार्यान्वितधीरनुमिता तथाप्यन्वतमात्रशक्त्यैव
कार्य्यवाचकपदसमभिव्याहारादाकाङ्क्षादिमहिम्ना कार्य्य-
त्वधीसम्भवान्न कार्य्यांशेऽपि शक्तिः परम्परयापि
शब्दस्य कार्य्यान्वितज्ञानानुकूलत्वादर्थापत्तावन्यथोपपत्ति-
रपि । अवश्यञ्चाकाङ्क्षादेः कारणत्वं कार्य्यांशशक्तावपि ।
तद्व्यतिरेकादन्विताभिधानव्यतिरेकनियमात् सति चाका-
ङ्क्षादौ कार्य्यत्वव्यतिरेकदर्शनादन्विताभिधानव्यतिरेको न
क्वाप्यस्ति । अन्यथा गवादिपदानां व्यक्तावपि शक्तिः
स्यात् । संस्कारादेव व्यक्तिलाभदर्शनान्न तथोत यदि, तदा
कार्य्यवाचकपदादेव कार्य्यान्वितलाभ इति किं शक्त्या
वृद्धव्यवहारे नियमतः कार्य्यान्वितज्ञानं दृष्टमिति तत्र
शक्तिकल्पने वृद्धव्यवहारे शब्दोपस्थापितेनैवान्वयबोधदर्श-
नाच्छाब्दसन्निधेरप्यन्वयहेतुत्वकल्पने द्वारमित्यादौ शब्द-
एवाध्याह्रियेत । क्वचिदसंपूर्णवाक्ये वृद्धव्यवहाराद्यव्युत्-
पत्तेः शब्दसन्निधिं व्यभिचरतीति चेत् तर्हि सिद्धार्थे-
ऽप्यन्वयप्रतीतिदर्शनात् कार्य्यत्वमपि व्यभिचारि । न च तत्र
लक्षणा, बाधकाभावात् । शक्तिकल्पनभियाह्यन्यत्र लक्षणा-
मता । इह तु लधीयस्या उभयसाधारणपदार्थमात्र-
शक्त्या मुख्यस्यैवोचितत्वात् । किञ्च कार्य्यवाचिलिङादी-
नामा काङ्क्षाद्युपेतपदार्थान्वितस्वार्थबोधकत्वमवश्यं वाच्यम्
अतोऽविशेषात् पदान्तराणामपि तथात्वमस्तु लाघवा-
दिति? मैवं, व्यवहांरहेतुतयानुमिति हे कार्य्येऽन्वितज्ञाने-
ऽन्वयव्यतिरेकाभ्यां शब्दस्य साक्षात्कारणत्वमधारयति
न परम्परया, साक्षात्त्वस्यौत्सर्गिकत्वेन तत्सम्भवे
परम्पराया अन्याय्यत्वादिति तत्रैव शक्तिं कल्पयति नान्वित-
ज्ञाने, पदार्थज्ञाने वाऽप्रवर्त्तकतया प्रवृत्त्या स्वकारणत्वेन
तयोरनुपस्थापनात् । न चान्वितज्ञानशक्तावपि परम्परया
कार्य्यत्वधीः सम्भवतीत्यर्थापत्त्या सैव कल्प्यतां, लाघवात्,
न तु विशिष्टज्ञाने शक्तिरन्यलभ्यत्वादिति वाच्यम् अर्था-
पत्तेः साक्षादुपपादकमात्रविषयकत्वेन न्यूनाधिकाग्राह-
कत्वात् । साक्षादुपपादककार्य्यान्वितज्ञाने शक्तिः कल्प्यते
लिङादीनां शक्तेरकल्पनादन्यलभ्यत्वस्याप्यभावात् ।
आद्यव्युत्पत्तेर्विचार्य्यत्वात् । किञ्च प्रवृत्तिकारणतयोप-
स्थितं कार्य्यान्वितज्ञानमपहायानुपस्थितान्वितज्ञानमात्रे
पृष्ठ १९७९
शक्तिकल्पनमयुक्तं हेत्वभावात् उपस्थित्यन्तरे गौरवात् ।
अथ कार्य्यान्वितज्ञानोपस्थितावाप्यन्वितज्ञानमप्यपस्थित-
मिति लाघवात् कार्य्यांशमपहायान्विते शक्तिर्गृह्यतामिति
चेत् न ज्ञाने हि पदानां शक्तिः शक्यत्वात्, नार्थे ।
अन्यच्च कार्य्यान्विते ज्ञानमन्यदन्वितज्ञानं पिषयभेदेन ज्ञान-
भेदात् । तदुक्तमभाववादे, “अन्यदुभूतलज्ञानं अन्यच्च
घटवद्द्भूतलज्ञानमिति” अन्वितज्ञानमुपस्थाप्य तत शक्ति-
ग्रह इति गौरवमेव लघुनि शक्ये सम्भवत्यन्यलभ्यं गुरु
न, युगपदुपस्थितौ तथ त्वात् । न च तस्याप्यनुपस्थितिः
पुरुषविशेषदोषात् सर्व्वैरेवाद्यप्रवृत्तौ तथानवगमात ।
तथापि न कार्य्यन्विते शक्तिः कार्य्यवाचिलिङादीनां
व्यभिचारादिति चेत् न सर्व्वपदानां कार्यत्वविशिष्टधी-
जनकत्वात् तच्च कार्य्यान्वितस्वार्थप्रतिपादकतयेतरान्वित
स्वार्थकार्य्यप्रतिपादकतया वेति । एवं कार्य्यान्वितव्युत्पत्तौ
सत्यामनाकाङ्क्षादौ व्यभिचारादाकाङ्क्षादेरुपाधित्वम् ।
तयोचोपजीव्यप्रथमभाविकार्य्यान्वितव्युत्पत्त्यनुरोधेन विध्य-
श्रुतावपि कार्य्याध्याहारः । क्वचिल्लक्षणा क्वचिदसंसर्गाग्रह
इति सिद्धार्थेऽन्वयप्रतितिदर्शनादुत्तरकालमन्वितमात्रे
शक्तिरेव कल्प्यतां प्राचोनकार्य्यान्वितज्ञानं बाध्यतामि-
त्यप्यतएव निरस्तं पूर्व्वकल्पनातः कल्पनान्तरप्रसङ्गाच्च ।
उत्तरकालभाविसिद्धार्थप्रयोगस्य लक्षणादिभिरप्युपपत्तेरन-
न्यथासिद्धत्वाभावेन प्राचीनज्ञानाबाधकत्वात् उपजी-
व्यव्याघाताच्च । अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति
तथाहि उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनैव वार्त्ता-
हारेण चैत्रसभीपं गतः--चैत्र! पुत्रस्ते जात, इति वार्त्ता-
हारवाक्यं शृण्वन् चैत्रस्य मुखप्रसादं पश्यन् श्रोतुर्हर्ष-
मनुमिनोति । हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति
उपस्थितत्वात् उपपादकत्वात् अथोपस्थितौ गौरवाच्च
तत्र वाक्यस्य कारणतां कल्पयति लाघवादिति चेत् न
हर्षहेतूनां बहूनां सम्भवात् हर्षेण लिङ्गेन पुत्रजन्म-
ज्ञानस्य बालेनानुमातुमशक्यत्वात् प्रियान्तरज्ञानस्य
परिशेषयितुमशक्यत्वात् । अथ पुत्रजन्मज्ञानाव्यभिचारि वृद्धि
श्राद्धादिक्रियाविशेषदर्शनात् पुत्रजन्मज्ञानानुमानमिति
चेत् तर्हि पुत्रस्ते जात इति वाक्यं तत्तत्क्रियाकर्त्तव्यता
परमेवेति कार्य्यान्वितज्ञानजनकत्वमेव तस्य प्रथमतो
गृह्यते तदुत्तरकालं पुत्रजन्मज्ञानानुमानमिति न व्युत्पत्तिः
कार्य्यं जहाति । यत्रापीह सहकारतरौ पिकोरौ-
तीति प्रसिद्धार्थकपदसामानाधिकरण्यादिभिर्व्युत्पत्ति-
स्तत्रापि व्यवहाराधीनव्युत्पत्तिपूर्ब्बिका कार्य्यान्वित
एव युक्ता पिकपदशक्तिः । पूर्व्वं नावधृतेति चेत् तत्रापि
पिकमानयेत्यादौ कस्यचित् कार्य्यान्विव एव व्युत्पत्तेः
उपजीव्याजातीयतया च तस्याबलवत्त्वम् । किञ्चेदमपि पदं
कार्य्यान्वितज्ञानशक्तम् पदत्वादिति सामान्यतोऽवगतः विशेषः
त्वार्थः परं नाधिगत स इदानीं सुहृदुपदेशादिभिरव-
गम्यते । अतः सिद्धप्रवृत्तिपराणां शब्दानां प्रवर्त्तकज्ञान-
जनकता तच्च क्वचित् साक्षात् क्वचित् परम्परया, कार्या-
न्वयात् कार्य्यान्वितस्वार्थबोधकमिति । यत्र पुराण-
भारतादिपाठे फलश्रुतिरस्ति तत्रार्थवादकल्पितविधि-
शेषीभूतत्वेन प्रवृत्तिपरत्वेन तेषामिति परम्परया कार्या-
न्वयत् कार्यान्वितस्वार्थबेधकत्वं स्वरूपाख्यानपगाणान्तु
काव्यनाटकादीनां पदार्थासंसर्गाग्रहेण संसर्गव्यवहारो न
संसर्गग्रह इति” ।
तदेतन्मतं पूर्ब्बपक्षत्वेनोक्त्वा मणिकृता निराकृतं
यथा“अत्रोच्यते घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य
धटानयनगोचरप्रवृत्त्या घटानयनकार्यताज्ञानमनुमितं बालेन,
नतु कार्यान्वितज्ञानं प्रवृत्तिविशेषे तस्याऽहेतुत्वात् विषया-
दिपदशक्तिग्रहे तस्यानुपयोगाच्च तत्र च ज्ञानविशेषे
घटमानयेति वाक्यविशेषस्यानाकलितपदविभागस्य हेतुत्वमव-
धार्य घटपदद्वितीयाधातुविधिप्रत्ययानां प्रत्येकावापोद्धा-
रेण घटकर्भत्वानयनकार्यत्वज्ञानेषु प्रत्येकं कारणत्वमव-
गम्य शक्तिं कल्पयति । पश्चात्प्रवृत्तिसामान्येनानुमित
कार्यतान्वितज्ञाने वाक्यमात्रस्यानन्यलभ्यत्वेन कार्यांशमप-
हायान्वितज्ञानमात्रे शक्तिं कल्पयति नतु प्रथमं वाक्य-
मात्रस्य कार्यान्वितज्ञानमात्रहेतुत्वकल्पनम् ।
अथ घटानयनक्रियायाः प्रथमं क्रियात्वज्ञानात्प्रवृत्ति
मात्रानुमानं न तु कार्यान्वितज्ञानमनुमाय तत्र
वाक्यमात्रस्य हेतुत्वं कल्पयित्वा शक्तिं कल्पयति
तदुत्तरं विशेषयोः कार्यकारणभाव इति चेत् न
प्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानं बालस्य
क्रमशो भवर्त त्यत्र मानाभावात् घटादिपदशक्तिग्रहस्य तेन
विनापि सम्भवात्, न च तदनुमानसामग्री तदा वृत्तेति
वाच्यम् तदा व्याप्त्यादिस्मृतौ मानाभावात् सामान्ययोः
कार्यकारणभावग्रहो विशेपयोस्तथात्वग्रहे हेतुरिति चेत्
न विशेषयोरन्वयव्यतिरेकाभ्यामेव तदुग्रहात् यथा
धूमधह्निविशेषयोः कार्यकारणभावग्रहे तत्मामान्ययोरपि
हेतुहेतुमद्भावा रासते अव्यया न सकृद्दशनगम्या व्याप्तिः
पृष्ठ १९८०
स्यात् तथात्रापि । विशेषयोः कार्यकारणभावतुल्यवित्ति-
वेद्य एव सासान्ययोस्तथाभाव इति चेत् न प्रत्यक्षेण
विशेषग्रहे योग्यत्वात् सामान्यमपि भासते । प्रकृते च
कार्यविशेषेण कारणविशेषोऽनुसितो न सामान्यमिति न
युगपदुपस्थितिः । अथ विशेषयोः कार्यकारणभावात्
सामान्ययोरपि तथात्वमवधारयतीति चेत् तर्हि विशेषयोः
कार्यकारणभावावगमः प्राथमिक इति तन्मूलकः प्रथमं
कार्यान्वितपदविशेषशक्तिग्रह एव स्यात् निष्प्रयोजन-
कत्वेनानन्तरानुमितौ मानाभावात् । यच्चोक्तं प्रवृत्तिकारण-
तयोपस्थितं कार्यान्वितज्ञानमपहायान्वितज्ञानं कल्पयित्वा
तत्र शक्तिकल्पनमयुक्तम् उभयथा गौरवादिति तन्न कार्या-
न्वितज्ञानेऽन्वितज्ञानत्वस्य सत्त्वात् तद्बाधकत्वाच्च तस्य ।
अतस्तत्रैव शक्तिग्रहो न कार्यत्वांशेऽपि । अतएव घटवद्-
भूतलज्ञाने भूतलज्ञानत्वमपीति तद्भिन्नं तज्ज्ञानमभाव
व्यवहारकारणं त्वया स्वीकृतम् । अस्त्वेवं किन्तु तदुपस्थिता-
वप्यन्वितज्ञानत्वं न विषय इति तस्योपस्थित्यन्तरं कल्प्य
मिति चेत् न कार्यान्वितज्ञानेऽन्वितज्ञानत्वः विशेष्यमिति
तदुपस्थितौ तस्यापि विषयत्वात् विशिष्टज्ञानसामग्रीतो
विशेष्यभानावश्यम्भावात् । अन्ययान्यज्जातिज्ञानमन्यच्च
जातिविशिष्टज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानं
क्वापि नोप्रस्थितमिति न तव जातिरेव पदार्थः स्यात् ।
जातेः केवलोपस्थितौ च न व्यक्तिसमानसंवित्वेद्यत्वम् ।
अथ जातिविशिष्टज्ञानोपस्थितेर्व्यक्तिज्ञानविषयत्वेऽपि
गौरवात्, व्यक्तेरनन्यलभ्यत्वाच्च जातिविशिष्टज्ञानत्वं न शक्य-
तावच्छेदकं किन्तु जातिज्ञानत्वं लाघवादिति चेत् तर्हि
तुल्यम् । न च युगपदुस्थितौ लाघवावतारः । नचात्र
युगपदुपस्थितिरिति वाच्यम् विशिष्टज्ञानस्य विशेष्यविषयकत्व-
नियमात् । किञ्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकं
प्रवृत्त्या स्वकारणत्वं नानुमितमतस्तत्र शक्तिं गृह्णीयात् ।
साक्षादुपपादकविषयत्वात् कल्पनायाः, ममेदं कार्यमिति
ज्ञाने तस्य साक्षादुपपादकत्वात् । अथेदं कार्यमिति
ज्ञानशक्त्यैव परम्परयानुमानद्वरा ममेदं कार्यमिति
ज्ञानसम्भवादन्यलभ्यत्व न न तत्र शक्तिकल्पनमिति तर्ही-
तरान्वितज्ञानशक्त्यैव कार्यवाचकपदसमभिव्याहारेण कार्या-
न्वितज्ञानसम्भवादन्यलभ्यत्वेन न तत्र शक्तिकल्पनमिति
तुल्यम् । नन्विदं कार्यमिति ज्ञानं साक्षादेव प्रवर्त्तकं
कर्त्तव्यवाप्रयोजकवातदशएषविशेपणस्य स्वगतत्वप्रतिसन्धानं
सहकारि तेन नातिप्रसङ्गः न च सहकारितिलम्बेन
कार्यानुत्पादे साक्षात्साधनत्वं निवर्त्तत इति चेत् न
लाघवेन ममेदं कार्यमिति ज्ञानादेव प्रवृत्तेः । यथा च
भविष्यद्विषया कार्यतानुमितिस्तथोक्तमधस्तात् । अपि च
यादृशस्य पुरुषस्याविगीतकृतिसाध्यमिदं तादृशोऽहमिति
धीर्न प्रवृत्तिहेतुः कृतक्रियमाणविषयकृतिसाध्यताज्ञानस्य
सिद्धविषयस्यासिद्धविषयेच्छानुत्पादकत्वात् इच्छायाः
स्वप्रकारकधीसाध्यत्वेन कृत्या साधयामीतीच्छायाः स्व
कृत्यनन्तरभविष्यत्तारूपकृतिसाध्यताधीजन्यत्वाच्च । अपि
चास्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात्कारण-
ताबोधात् तत्र शक्तिग्रहः तथापि पश्चादावापोद्धारेण
पदविशेषस्येतरान्वितस्वार्थज्ञाने शक्तिं कल्पयति लाघवात्
न तु कार्यत्वांशेऽपि गौरवात् अन्यलभ्यत्वाच्च । नचैवं
प्रथमं प्रवृत्तस्य साक्षात्कारणताबोधकस्य तन्मूलककार्यान्वि-
तशक्तिग्रहस्य च बाधः स्यादिति वाच्यम् इष्टत्वात् अन्यथा
सिद्धिमपहरतो हि बालस्य स (बाधः) भूत इति तस्याबल-
वत्त्वात् गोरवान्यलभ्यत्वतर्कसहकृतप्रमाणजन्यत्वेनोत्तरस्य
बलवत्त्वात् नचोपजीव्यबाधान्न तथा प्रत्येतीति वाच्यम्
उपजीव्यत्वे मानाभावात् दैवाद्धि प्रथमं तद्वृत्तं न तु
पदविशेषशक्तिग्रहे तस्य हेतुत्वम् तेन विनापि तत्सम्भवात् ।
न च प्राथमिकत्वेन बलवत्त्वं, व्यभिचारात् । नापि सर्व्वैः
प्रथमं प्रतीयमानत्वेन बलवत्त्वम् । सर्व्वेषां शरीराहं-
प्रत्यये, चन्द्रतारकादिपरिमाणस्य सर्वेरल्पत्वग्रहे च व्यभि-
चारात् । अतएव पूर्वकल्पनातः कल्पनान्तरप्रसङ्गः
स्यादिति निरस्तम् । यत्रानन्यथासिद्धतयोपजीव्यतया वा
बलवत्त्वं पूर्ब्बकल्पनायास्तत्र तथात्वात् । किन्तु प्रथमं
कार्यान्वितज्ञाने वाक्यस्य साक्षात्परम्परोदासीनं कारण-
त्वमात्रं गृह्यते न तु विशेषोऽपि उपायस्यान्वयव्यति-
रेकादेरुभयविशेषसाधारणत्वेन तत्सांशयिकत्वात् । उत्स-
र्गोऽपि बाधकाभावनिश्चयसहकृतीनिश्चायकः । नचाऽ-
न्यलभ्यत्वस्य बाधकस्याभावमापाततः स्वतो दर्शनमात्रेण
बालो निश्चेतुमर्हति अतएव प्रामाण्यस्योत्सर्गिकत्वेऽपि
बाधकाभावनिश्चयादेव निश्चयः । अन्यथा प्रमाऽप्रमा वा
साक्षात्परम्परासाधनं वेति संशयः क्वापि न स्यात् ।
यच्च हर्षहेतूनां बहूनां सम्भवादित्यादि तन्न सतो गृहीत
हर्षहेतुस्तनपानादेर्बाधावतारादन्यस्य हर्षहेतोरग्रहात् ।
उपस्थितत्वादुपपादर्कत्वाच्च पुत्रजन्मज्ञानस्यव हर्षहेतुत्वेन
कल्पनात् । अन्यप्रियज्ञानं हर्षकारणं भविष्यतोति
शङ्कायां कथमेवमिति चेत् एवन्तर्हि कार्यान्वितज्ञानेऽपि
पृष्ठ १९८१
शक्तिर्न गृह्येत प्रयोज्यज्ञानहेतूनां बहुत्वात् ।
अनन्यथासिद्धशब्दानुविधानस्य च तुल्यत्वात् अन्यप्रियज्ञान-
स्याज्ञानच्च ज्ञानेऽपि वा तदुपस्थितिनियमे मानाभावात्
सन्देहाभावोपपत्तेः लिङ्गाभासजन्यकाकतालीयसम्पन्नसं-
वादानुमितिवद्धर्षेण लिङ्गेन पुत्रजन्मज्ञानानुमानसम्भवाच्च ।
नचाभासत्वेनानुमितेभ्रमत्वे तद्धेतुशक्तिग्रहो भ्रमः,
विषयस्य तथाभावेन तयोर्यथार्थत्वात् । यथा कश्चित्
सूत्रसञ्चाराधिष्ठितं दारुपुत्रकं घटमानयेति नियुङ्क्ते
स च तमानयति तदा चेतनव्यवहारादिवत् तद्दर्शी-
बालो व्युत्पद्यते--इयं क्रिया, कृतिजन्या, सा ज्ञानजन्या,
ज्ञानं तद्वाक्यजन्यमित्यन्मितिपरम्परायाः भ्रमत्वेऽपि तद्धेतु
शक्तिग्रहः तज्जन्यशाब्दबोधश्च यथार्थ एव विषयस्य
तथाभावादिति सिद्धः सिद्धार्थे शक्तिग्रह इति । अतएव
“यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिला-
षोपपन्नञ्च तत् सुखं स्वःपदास्पदम्” इत्यर्थवादोपस्थिते
सुखे वेदादेवं स्वर्गपदस्य शक्तिग्रहः” ।

कार्य्यिन् त्रि० कार्य्यमस्त्यस्य इनि १ कार्य्ययुक्ते २ कार्य्या-

र्थिनि (उमेदार) व्याकरणोक्ते ३ आदेशस्थानिनि च
“कार्य्यमनुभवन् हि कार्य्यी निमित्ततया नाश्रीयते”
परिभा० । अत्र कार्य्यीति निर्द्देशात् “एकाक्षरात् कृतो-
जातेः सप्तम्याञ्च न तौ (इनिठनौ) स्मृतौ” इत्युक्तिरप्य-
नित्या । ततः मतुप् मस्य वः । कार्य्यवत् । ठन् कार्य्यिक-
तत्रार्थे त्रि० । तत्र इनौ मतुपि च स्त्रियां ङीप् ।

कार्शकेय पुं स्त्री कृशकस्यार्रेपत्यं बा० ढञ् । कृशकर्षेरपत्ये

ऋषिभेदे स्त्रियां ङीप् “कार्शकेयीपुत्रात् कार्शकेयीपुत्रः”
शत० ब्रा० १४, ९, ४, ३२, वेद वंशवर्ण्णने ।

कार्शाश्वीय त्रि० कृशाश्वेन निर्वृत्तादि कृशाश्वा० चतुरर्थ्यां

छण् । कृशाश्वनिर्वृत्तादौ ।

कार्श्मरी स्त्री कृश--स्वार्थे णिच्--भावे मनिन् कार्श्मतत् राति

रा--क गौरा ङीष् । श्रीपर्ण्णिवृक्षे कर्कः २ गाम्भरीवृक्षेभरतः ।

कार्श्य न० कृशस्य भावः ष्यञ् । १ कृशत्वे “निर्बन्धसञ्जातरुषार्थ

कार्श्यम्” रघुः । स्वार्थे ष्यञ् । २ कृशे ३ शालवृक्षे,
४ लकुचे (डेओ) वृक्षे ५ कच्चुरे च पु० राजनि० ।

कार्ष त्रि० कृषिः शीलमस्य छत्रा० णः । कृषिशीले कृषीतले भरतः ।

कार्षापण पुंन० कर्षस्येदम् स्वार्षेवा अण् । तेन आपण्यते

आ + पण--कर्म्मणि घ । १ अशीतिरत्तिके ताम्रिके कर्षे
“कार्षापणस्तु विज्ञेयः कार्षिकस्ताम्रिकः पणः” मनुः ।
२ षोडशपणात्मके पुराणे (काहन) इति ख्याते मानभेदे ।
“माषः षोड़शभागस्तु ज्ञेयः कार्षापणस्य तु । काकिनी
(वुड़ि) तु चतुर्भागो माषस्य परिकार्त्तिता । पञ्चनद्याः
प्रदेशे तु संज्ञेयं व्यारहारिकी । कार्षापनप्रमाणन्तु तन्नि-
बद्धम् (परिभाषितम्) इहेव तत्” कात्या० स्मृ० षोडशेत्यत्र हेमा-
द्रौ विंशतीति पाठः । अतएव “द्वात्रिंशत्पणिकागावो वत्सः
पौराणिकोभवेत्” कात्या० स्मृतौ पुराणद्वयवाच्यद्वात्रिं-
शत्पणानां गोमूत्यत्वेनाभिधानम् । “अशीतिभिर्वराटकैः
पण इत्यभिधीयते । ते षोडशः पुराणं स्यात् रजतं सप्त-
भिस्तु तैः” भविष्यपु० । “कार्षापणैकमूल्या हि दरिद्राणां
प्रकीर्त्तिता” प्रा० त० । “कार्षापणं भवेद्दण्ड्यो यत्नान्यः
प्राकृतोजनः । तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा”
“समुत्सृजेद्राजमार्गे यस्त्वममेध्यमनापदि । स द्वौ कार्षा-
पणौ दद्यात्” मनुः । “कार्षाक्पणो दक्षिणस्यां दिशि रौप्यः
प्रवर्त्तते । पणोनिबद्धः पूर्व्वस्यां षोडशैव पणाः पलम् ।
इति नारदोक्ते ३ दक्षिणदेशप्रसिद्धे पूर्व्वदेशप्रसिद्धपण
परिमाणे च । कार्षापणेन क्रीतः टिठन् वा प्रतिरादेशश्च
इदुच्चारणार्थः कार्षापणिक पक्षे प्रतिक तत्क्रीते त्रि०
स्त्रियांङीप् । कार्षापणिकी प्रतिकी अध्यर्द्धपूर्वात् द्विगोश्च
तस्य वा लुक् । अध्यर्द्धकार्षापण अध्यर्द्धकार्षापणिकं
सार्द्धकार्षापणक्रीते एवं द्विकार्षापण द्विकार्षापणिकं
कार्षापणद्वयक्रीते त्रि० । पर्श्वादिपाठात् स्वार्थेऽण् ।
कार्षापण कार्षापणसंघजीविषु त्रि० ब० व० ।

कार्षि त्रि० कर्षतीति कर्मः ततः स्वार्थे बा० इञ् । १ कर्षण-

शीले २ अन्तर्गतमलापनेतरि । “कार्षिरसि समुद्रस्य
त्वा क्षित्या उन्नयाभि” यजु०६, २८ । कर्बतीत्येबंशीलः
कार्षिः अन्तर्गतशमलापनेतासि” वेददी० “कार्षिरसीत्याह
शमलमेवासायपप्लावयति” तैत्ति० ।

कार्षिक त्रि० कर्षं नित्यमर्हति छेदा० ठञ् । १ नित्यकर्षण र्ह

कर्षेण क्रीतः ठञ् । १ कर्षेण क्रीते । तत्परिमाणमस्य ठक् ।
३ कर्षपरिमाणयुक्ते । कर्षः कर्षणं शीलमस्य ठक् । ४ कृषके
हेमच० । स्वार्थे ठक् । ५ कर्षपरिमाणे । “ताम्रिकः
कार्षिकः पणः” मनुः ।

कार्ष्ट्य न० कृष्टस्य भावः दृढा० ष्यञ् । कृष्टत्वेपक्षे इमभिच्

कृष्टिमन् तत्रार्थे पु० । षित्त्वात् स्त्रियां ङीष्यलोपौ ।

कार्ष्ण त्रि० कृष्णस्येदम् अण् । १ कृष्णमृगसन्धिनि । “कार्ष्णरौरव-

वास्तानि चर्म्माणि ब्रह्मचारिणः” मनुः । २ कृष्णद्वैपायन-
सम्बन्धिनि च “कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थम
श्नुते” भा० आ० प० १ अ० । कृष्णोदेवतास्य अण् । ३ कृष्णाख्य-
पृष्ठ १९८२
विष्णु देवताके हविरादौ त्रि० । “कार्ष्णेण पत्रिणा शत्रुः
स भिन्नहृदयः पतन्” रघुः । ४ शतावर्य्यां स्त्रा राजनि०

कार्ष्णाजिनि पु० कृष्णाजिनस्यर्षेरपत्यम् इञ् । कृष्णाजिनर्षे

रपत्ये “कुलमत्रिमिति कार्ष्णाजिनिः” कात्या० श्रौ०१, ६२३

कार्ष्णायन पु० कृष्णस्य व्यासस्य गोत्रापत्यम् नड़ा० ब्राह्मणे

वासिष्ठे च विशेष्ये फक् । कृष्णस्य व्यासस्य गोत्रापत्ये
१ ब्राह्मणे २ वासिष्ठे च ।

कार्ष्णायस न० कृष्णस्यायसोविकारः अण् । कृष्णायसस्य

विकारे “कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः”
मनुः । स्त्रियां ङीप् । “अभ्रिं काष्णायसीं दद्यात्” मनुः ।

कार्ष्णि पुंस्त्री कृष्णस्यापत्यं बाह्वा० इञ् । कृष्णस्य व्यासस्यापत्ये

शुकदेवे । “युगपस्तृणपः कार्ष्णिनन्दिश्चित्ररथस्तथा” भा०
आ० १२२ अ० ऋषिकीर्त्तने । ३ रौक्मिणेये कामदेवे च ।
“सा च तं वर्द्धयामास कार्ष्णिं कमललोचनम्” हरि०
१६३ अ० । अस्योत्पत्तिकथा कामशब्दे उक्ता ।

कार्ष्ण्य न० कृष्णस्य भावः दृढादि० ष्यञ् वा । १ कृष्णत्वे

कृष्णस्य गोत्रापत्यम् गर्गा० यञ् । ब्राह्मणवासिष्ठन्नेकृष्णस्य
व्यामस्य गोत्रापत्ये पुंस्त्री स्त्रियां ङीप् तस्य छात्रः
कण्वा० अण् । कार्ष्ण कृष्णगोत्राप्त्यच्छात्रे स्त्रियां ङीप् ।

कार्ष्मन् न० कर्षत्यत्र कृष--स्वार्थेणिच्--आधारे मनिन । १ युद्धे

तत्र हीतरेतरं योधाः कर्षन्तीति तस्य तथात्वम् । “कार्ष्मन्
वाजी न्यक्रमीत्” ऋ०९ । ३६ । १ “कार्ष्मन् कार्ष्म युद्धम्”
भा० । ततः भावे मनिन् । २ कर्षणे च ।

कार्ष्मरी स्त्री कृष--णिच्--मनिन् कार्ष्म कर्षणं राति ददाति

रा--क गौरा० ङीष् । श्रीपर्णीवृक्षे तस्याः विकारः यत् ।
कार्ष्मर्य्य श्रीपर्णीवृक्षावयवे । “पालाशवैकङ्गतकार्ष्मर्य्य
वैल्वान्” कात्या० श्रौ० २, ८, १ । कर्कभाष्ये कार्श्मर्य्येति
पाठस्यापि दृष्टत्वात् तालव्यमध्योऽपि तत्रार्थे ।

कार्ष्य पु० कृष्यतेऽसौ कृष--घञ् स्वार्थे ष्यञ् । शालवृक्षे अमरः ।

काल कालोपदेशे (इयत्तया कालनिश्चयार्थोप्रदेशे) अद०

चु० उभ० सक० सेट् । कालयति ते अवकालत्--त,
कलयाम्--बभूव--आस--चकार--चक्रे । कालयिष्यति--ते

काल पु० ईषदलति अल--अच् कोः का० । १ कृष्णबर्ण्णे

तस्य वर्ण्णेषु ईषद्भूषकत्वात् तथात्वम् । अस्त्यर्थे
अर्श आद्यच् । २ तद्वर्ण्णयुक्ते त्रि० । ३ लौहे न०
वाचस्पतिः । धातुषु तस्य कृष्णत्वात् तथात्वम् । ४ कक्कोले न०
राजनि० ५ कालोयके गन्धद्रव्यभेदे न० शब्दच० ।
तयौर्ग्रन्धद्रव्येषु कृष्णत्वात्तथात्वम् । ६ कोकिले पुंस्त्री०
राजनि० तस्य पक्षिषु कृष्णत्वात्तथात्वम् स्त्रियां ङीष् ।
७ राले ८ रक्तचित्रके ९ क समर्द्दे (कालक सेन्दा) वृक्षे च
पु० राजनि० । १० शनिग्रहे मेदि० कृष्णत्वात्तस्य तथात्वम् ।
कलयतिसर्व्वं चु० कल--अच् “कालसमयवेलास्विति” पा०
निर्द्देशात् नि० उपधार्दर्धः । ११ यमराजे १२ महाकाले
शिवे मेदि० । १३ परमेश्वरे “कालोऽस्मि लोकक्षयकृत्-
प्रवृद्धः” “कालः कलयतामहम्” इति च गीता “ऋतुः
सुदर्शनः कालः परमेष्ठी परिग्रहः विष्णुस० । “त्रयीम-
योऽयं भगवान कालात्मा कालकृद्विभुः” सू० सि० ।
स्वनामख्याते परत्वापरत्वधीहेतौ न्यायादिमतसिद्धे
१ ४ द्रव्यभेदे । तन्निरूपणं कणादसूत्रे उपस्करवृत्तौ च यथा
“अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति
काललिङ्गानि” क० सू० ।
“इतिशब्दो ज्ञानप्रकारपरः प्रत्येकमभिमम्बध्यते
तथाचापरमिति प्रत्ययो युगपदितिप्रत्ययः चिरमितिप्रत्ययः
क्षिप्रमितिपत्ययः काललिङ्गानीत्यर्थः अपरस्मिन्नपर-
मित्यनेन परस्मित् परमित्यपि द्रष्टव्यं, तेनायमर्थः--बहुतर-
तपनपरिस्पन्दान्तरितजन्मनि स्थापिरे युवानमवधिं कृत्वा
ऽपरत्वमुत्पद्यते तच्चापरत्वमसमवायिकारणसापेक्षम्, न च
रूपाद्यसमवायिकारणं व्यभिचारात् त्रयाणां गन्धादीनां
वायौ परत्वाद्यनुत्पादकत्वात् स्पर्शस्याप्युष्णादिभेदेन भिन्नस्य
प्रत्येकं व्यभिचारात् न चावच्छिन्नपरिमाणं तथा तस्य
विजातीयानारम्भकत्वात् तपनपरिस्पन्दानाञ्च व्यधिकरण-
त्वात् तदषच्छिन्नद्रव्यसंयोग एवासमवायिकारणं परिशि-
ष्यते तच्च द्रव्य पिण्डमार्त्तण्डोभयसंयुक्तं विभु स्यात्
आकाशस्य तत्स्वाभाव्यकल्पने क्वचिदपि भेर्य्यभिधातात्
सर्व्वभेरीषु शब्दोत्पत्तिप्रसङ्गः । तथाच कालस्यैव मार्त्त-
ण्डसंयुक्तस्य पिण्डेन संयोगोऽपरत्वासमवायिकारणं
काल एव मार्त्तण्डक्रियोपनायकः आत्मनश्च द्रव्यान्त-
रधर्म्मेषु द्रव्यान्तरावच्छेदाय स्वप्रत्यासत्त्यतिरिक्तसन्निक-
र्षापेक्षत्वात् अन्यथा वाराणसीस्थेन महारजनारुणिम्ना
पाटलिपुत्रेऽपि स्फटिकमणेरारुण्यप्रसङ्गात् । कालस्य तु
तत्स्वभावतयैव कल्पनादयमदोषः । कालेनापि रागसंक्रमः
कथं न इति चेत् नियतक्रियोपनायकत्वेनैव तत्सिद्धेः एवं
स्थविरमवधिं कृत्वा यूनि परतोत्पत्तिर्निरूपणीया ।
युगपदिति युगपज्जायन्ते युगपत्तिष्ठन्ति युगवत् कुर्व्वन्ति
इत्यादि--प्रत्ययानाञ्च एकस्मिन् काले एकस्यां सूर्य्यगतौ
एकस्मिन् सूर्य्यगत्ववच्छिन्नकाले इत्यर्थः, न चाप्राप्ता ए
पृष्ठ १९८३
सूर्य्यगतयो विशेषणतामनुभवन्ति । न च स्वरूपप्रत्ययासन्ना-
एव ताः तस्मादेतावृशविशिष्टप्रत्ययान्यथानुपपत्त्या विशेषण
प्रापकं यद् द्रव्यं स कालः” उपस्करवृत्तिः ।
“ननु सिध्यतु कालः, स तु नित्यो द्रव्यं वेति न
प्रमाणमत आह” ।
“द्रव्यत्वमित्यत्वे वायुना व्याख्याते” क० सू० ।
“यथा वायुपरमाणोर्गुणवत्त्वाद्द्रव्यत्वम् अद्रव्यद्रव्यत्वाच्च
नित्यत्वं तथा कालस्यापीत्यर्थः” उप० ।
“तथापि सन्तु बहवः काला इत्यत आह” ।
“तत्त्वम्भावेन” क० सू० ।
व्याख्यातमिति बिपरिणतेनान्वयः । चिरादिप्रययानां
काललिङ्गानां सर्व्वत्राविशेषादनेकत्वेऽप्यारत्मनामिव विशेष-
लिङ्गाभावात् सत्तावदेकत्वं कालस्येत्यर्थः । नन्वेवंक्षणलव-
मुहूर्त्तेयामदिवसाहोरात्रपक्षमासर्त्वयनसंवत्सरादिभेदेन
भूयांसः कालास्तत् कथमेकः इति चेन्न भेदभानस्य
उपाधिनिबन्धनत्वात् यथा एक एव स्फटिकमणिर्ज्जवाता-
पिञ्जाद्युपाध्यपरागेण भिन्न इव भासते तथैक एव कालः
सूर्य्यस्पन्दाद्यवच्छेदभेदेनतत्तत्कार्य्यावच्छेदकभेदेन च भिन्न इव
भासत् इत्ययुपगमात् तथाच कालोपाध्यव्यापकः कालो-
पाधिः, स्वाधेयकादाचित्काभावप्रतियोग्यनाधारः कालो
वा क्षणः प्रतिक्षणं कस्यचिदुत्पत्तेः कस्यचिद्विनाशादेत-
दध्यवसेयम् । क्षणद्वयञ्च लवं इत्याद्यागमप्रसिद्धम् । ननु
तथाप्यतीतानागतवर्त्तमानभेदेन कालत्रयस्तु, श्रधूयते हि
“त्रेकाल्यमुपावर्त्तते” “त्रैकाल्यासिद्धिः” इत्यादीति चेन्न
त्रैकाल्यव्यवहारात् येन हि वस्तुना यः कालोऽवच्छि-
द्यते स तस्य वर्त्तमानः यत्प्रागभावेन यः कालोऽवच्छि-
द्यते स तस्य भविष्यत्कालः यत्प्रध्वं सेन यः कालोऽवच्छि-
द्यते स तस्यातीतकालः तथाचावच्छेदकत्रित्वाधीनः
कालत्रित्वव्यवहारः” उपस्करवृत्तिः!
“इदानीं सर्व्वोत्पत्तिमतां कालः कारणमित्याह” ।
“नित्यष्वभावादनित्येषु भावात् कारणे कालाख्ये-
ति” क० सू० ।
इतिशब्दो हेतौ इतिहेतोः कारणे--सर्व्वोत्पत्तिमत्कारणे
कालः इत्याख्या । हेतुमाह नित्येष्वभावात् अनित्येषु
भावादिति नित्येषु आकाशादिषु युगपज्जातः चिरंजातः
क्षिप्रं जातः इदानीं जातः दिवा जातः रात्रौ जात
इत्यादिप्रत्ययस्याभावात् अनित्येषु घटपटादिषु यौगपद्या-
दिप्रत्ययानां भावात् अन्वयव्यतिरेकाभ्यां कारणं काल
इत्यथः । न केवलं यौगपद्यादिप्रत्ययबलात् कालस्य सर्व्वो-
त्पत्तिमन्निमित्तकारणत्वम् अपि तु पुष्पफलादीनां हैमन्ति-
कवासन्तिकप्रावृषेण्यादिसज्ञाबलादेव तदध्यवसेयम् “उप० ।
भाषामुक्तावल्योश्च सङ्क्षेपेण तन्निर्ण्णयो यथा
“जन्यानां जनकः कालोजगतामाश्रयोमतः ।”
“परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः” भाषा ।
“कालं निरूपयति जन्यानामिति तत्र प्रमाणं दर्श-
यितुमाह जगतामिति तथाहि इदानीं घटैत्यादिप्रतीतिः
सूर्य्यपरिस्पन्दादिकं यदि विषयीकरोति तदा सूर्य्यपरि-
स्पन्दादिना घटादेः सम्बन्धोवाच्यः स च संयोगादिर्न
सम्भवतीति कालएव तत्सम्बन्धघटकः कल्प्यते इत्थञ्च
तस्याश्रयत्वमपि सम्यक् । प्रमाणान्तरं दर्शयति परापर-
त्वेति परत्वापरत्वबुद्धेरसाधारणं निमित्तं क लएव
परत्वापरत्वयोरसमवायिकारणसंयोगाश्रयोलाघवादतिरिक्तः
कल्प्यतैति भावः । नन्वेकत्य कालस्य सिद्धौ क्षणदि-
नमासवर्षादिसमयभेदोन स्यादतआह क्षणादिरिति
कालस्त्वेकोऽपि उपाधिभेदात् क्षणादिव्याहारविषयः ।
उपाधिस्तु स्वजन्यविभागप्रागभावावच्छिन्नं कम्म, पूर्ब्बसंयो-
गावच्छिन्नविभागोवा पूर्ब्बसंयोगावच्छिन्नौत्तरसंयोगप्राग-
भावो वा उत्तरसंयागावच्छिन्नं कर्म्म वा । नचोत्तर-
संयोगानन्तरं क्षणव्यवहारी न स्यादिति वाच्यं कर्म्मा-
न्तरसत्त्वादिति । महाप्रलये क्षणादिव्यवहारोयद्यपि,
तदाऽनायत्त्या ध्वं सेनोपपादनायः । दिनादिव्यवहारस्तु तत्त-
त्क्षणकूटैरेवेति” मुक्ताबली ।
तार्किकशिरोमणिना रघुनाथशिरोमणिना च पदार्थ-
निरूपणप्रकरणे “तत्र दिक्कालौ नेश्वरादतिरिच्येते”
इति वदता विभुरूपस्यैकस्य कालस्य खण्डनं कृवम् ।
रघुदेवरामभद्राभ्यां तद्विवृतं ततः संक्षिप्य पदार्थतत्त्वसारे
च जयनारायणतर्कपञ्चाननेन दर्शितं यथा
“दिक्कालौ नेश्वरादतिरिक्तौ प्राच्यां घट इदानीं घटः
इत्यादिव्यवहारस्य ईश्वरात्मकविभुविषयकत्वेनैवोग्रपत्तेः,
नच तयोर्भिन्नविषयकत्वमनुभवसिद्धमिति वाच्यं तथा सति
प्राच्यां घटः प्रतीच्यां घटः इदानीं घटः तदानीं घट
इत्यादेरपि भिन्नभिन्नविषयकत्वानुभवात् कालदिशोरपि
बहुत्वाङ्गोकारप्रसङ्गात्, तथा च उपाधिभेदादेकया दिशा
एकेन कालेन च यथा भवतां बहूनां व्यवहाराण अपप्रत्ति-
स्तथाऽस्माकमपि एकेनेश्वरेणागमानुमानाप्यां सिद्धेन
सर्व्वेषामेव तादृशव्यवहाणासुपधिभेदादुषपत्ति सम्भवति,
पृष्ठ १९८४
सुर्य्यक्रियादौ स्वसंयुक्तेश्वरसंयोगितपनाश्रितत्वादिसम्बन्धेन
घटादेः सत्त्वसम्भवेन तत्सम्बन्धघटकतयाऽप्यति रक्तकाला-
द्यसिद्धेः । अयवा क्षणा एवातिरिक्ताः इदानामित्यादि-
व्यवहारविषयाः, विभागप्रागभावावच्छिन्नकर्म्मणः क्षण-
त्वासम्भवात् भाबिकर्म्मान्तरजन्यविभागान्तरप्रागभावावच्छि-
न्नस्य कर्म्मणः क्षणचतु यादिस्थायित्वेन तादृशस्योपा
धित्वामम्भवात् नच विभागे स्वजन्यत्वं विशेषणीयम्,
स्ववाननुगमादनन्गप्तापत्तेः, विभागजननादिदशायामुपा-
ध्यन्तरस्य वाच्यतया तावताप्यननुगमाच्च, एवञ्चोपाधीना-
मतिरिक्तानां क्षणिकपदार्पम्वरूपाणां क्षणानामवश्याभ्युपेय-
तया तेरे । तादृशाः सर्व्वे व्यवहारा उपपादनीयाः
किमतिरिक्तेन कालेवेति” ।
सांख्यमते तस्य काशलर्भावः न पृथकतत्त्वान्तरत्वं
तदेतत्सांख्यसूत्रभाष्ययोर्दर्शितम्
“खण्डदिक्कालयोः सृष्टिमाह” भा० ।
“दिक्कालाबाकाशादिभ्यः” सां० सू० ।
“नित्यौ यौ दिक्कालौतावाकाशप्रकृतिभूतौ पकृतेर्गुणविशे-
षवेव । अतो दिक्कालयोर्विभत्वोपपत्तिः । “आकाशवत्
सवगतश्च नित्य” इत्य दिश्रुत्यक्तं विभुत्वं चाकाशस्योपपन्नम् ।
यौ तु खण्डदिक्कालौ तौ तु तचदुपाधिसयोगादाकाशाद-
त्पद्येते इत्यथः आदशब्देनोपाधिग्रहणादिति । यद्यपि
तत्तदुपाधिविशिष्टाकाशमेब खण्डदिक्क लौ तथापि षिशि-
ष्टस्यातिरिक्तताभ्युपगमवादेन वैशेषिकनये श्रोत्रस्य कार्य्य-
तावत् तत्काभापमत्रोक्तम्” प्र० भा० ।
“अतपदं दर्शयिष्यमाणमाधवग्रन्थे च वाचस्पतिमतेन
कालखण्डनं तु नित्यपिभुकालखण्डनपरं तथाहि
“उपाधिभिद्यते न तु तद्वानिति” सा० सू० उपाधिभेदेच
धर्म्मिभेदासम्भवस्य व्यास्थापनात् धर्म्मिणः कालस्य
एकत्वेन उपाधिना भेदासम्भवात् उपाधिना नाऽनागतादि
भेदव्यवहारसम्भवः तथा च क्रियादेरेव उपाधिभूतस्या-
नागतादिव्यवहारोपपादकतया तस्यैव कालत्वम् ।
अतएव क्रियैव काल इत्यभियुक्तोक्तिः ।
कालमाधवीये च माधवेन शङ्कापूर्व्वकं कालश्चेत्थं न्यरूपि
“ननु नायमुद्यमः सफलः कालस्य गगनकुसुमायमान-
त्वात तदेतत्परमरहस्यमभिजानानः कपिलमहामुनि-
स्तत्त्वानि निर्विवेक्तुकामः कालमुपेक्ष्यान्यान्येव पञ्चविं-
शतितत्त्वानि विवेच “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृ-
तिविछतयः सप्त । षाडशकस्तु विकारा न प्रकृतिन विकृतिः
पुरुषः” इति । न चैतेष्वेव तत्त्वेषकालम्यान्तर्भावो मुनिना
विवजित इति शङूनीयम् त्वदभिमतम्य कालम्य पञ्च-
विंशतितत्त्वानां चान्यादृशानि लक्षणानि । सत्वरजस्त-
मोगुणानां साम्यावस्था मलप्रकृतिर्मदहङ्कारपञ्चतक्तात्रा-
ख्यानां स्वप्तानां प्रकृतिविकृतीनाम् मध्येत्ध्यवसायहेतुर्म-
त्तत्त्वव अभिमानहेतुरहङ्कारः । शब्दस्पर्शरुपरसगन्धात्म-
कानि पञ्चतन्यात्राणि पृथिव्यादिपञ्चमहाभूतानांमेकादशे-
न्दियाणाञ्च षोडशविकाराणां लक्षणानि प्रसिद्धानि । अप्र
कृतिरविकृतिः पुरुषश्चिदात्मकः । न ह्येवंलक्षणकेष् तत्त्वेषु
कालम्यान्तर्भावः सम्भ व्यते नापि षड्वंशं तत्त्वान्तरं मुनि-
रनुभन्यते । कथं तर्हि मुनिप्रणीतानि तत्त्वानि आर्याभिः
संगृह्णान ईश्वरकृष्णौ बहिःकरणान्तःकरने विचिन्वन्
कालं व्याजहार? “सांप्रतकालं बाह्य त्रिकालमाभ्यन्तर
करणमिति” । परप्रसिद्ध्यापरो बोधनीय इति न्यायेनायं
व्यवहारो न तु ससिद्धान्ताभिपायेणेति वदामः । अत
एवैतद्वचो व्याचक्षाणा वाचस्पतिमिश्रास्तत्त्वकौमुह्यामेव-
माहुः “कालस्तु वैशेषिकाभिभत एको नानागतातीतादि
भेदं प्रवर्त्तयितुमर्हति । तस्मादयं यैरुपाधिभेदैरतीताना-
गतादिभेदभावं प्रतिपद्यते सन्तु तएवोपाधयो व्यवहार-
हेतवः कृतमन्तर्गडुना कालेनेति सांख्याचर्याः” । तस्वान्न
कालरूपतत्त्वान्तराभ्युपगम इति । अथोच्येत--भूतकालो
वर्त्तमानकालों भविष्यत्काल इति एवं त्रिष्वपि भूतादि-
ष्वनुगतः कालप्रत्यय एकमनुगतं कालत्वमन्तरेणानुप-
पन्न इति तन्न पदार्थप्रत्ययवदुपपत्तेः यथा भवन्मते
द्रव्यपदार्थो गुणपदार्थ इति षट्सु भावेषु चतुर्ष्वभावेष्वनु-
गतः पदार्थप्रत्यय एकमनुगत पदार्थशब्दवाच्यं तत्त्वा-
न्तरमन्तरेणाप्युपपन्नः । तथा कालप्रयोगोऽपि कुतो
नोपपद्येत! । तस्मान्निस्तत्त्वं काल निर्णेतुं महानयमु-
द्यमः प्रेक्षावच्छिरोमणेर्माधवाचार्यस्य न कथञ्चिदप्यपपन्न
इत्येवं प्राप्ते ब्रूमः आयुष्मतश्चे तस्येवं निरूढकालतत्त्वे यः
प्रद्वषः स कस्य हेतोः? इतिवक्तव्यम् । कि कपिलमहामुनि-
ना निराकृतत्वात्? १ किंवा सांख्यशास्त्रप्रणोतेषुतत्त्वेषु
असंगृहीतत्वात्? २ उत लक्षणाभावात्? ३ आहोस्वित्प्रमाणा
भावान्? ४ अथवा प्रयोजनामावात्? ५, अथवा तत्त्वगतपञ्च-
विंशतिसं ख्याभ्यासपाटवेनाभ्यसितात् श्रद्धाजाड्यात्? ६, न
प्रथमः कालनिराकरणसूत्रस्य मुनिना प्रणीतस्यानुप-
लम्भात् । न द्वितीयः अतिप्रसङ्गात् ऋग्वेदप्रोक्ताना
ज्योतिष्टोमादीनामायुर्वेदधनुर्वेदगान्धर्ववेदप्रोक्तानासैत्रध-
पृष्ठ १९८५
पस्त्रस्वरादीनां मासंगृहीतत्वेन तेष्वपि भावतः प्रद्वेषः
फन वार्य्येत? । अय तेषां विषशष्याऽमंग्रहेऽपि सुखदुःख-
मोहात्मकत्वेन गुणत्रयान्तर्गतत्वादस्त्येवार्थात् संग्रहैय-
च्यते तर्हि कालस्याप्यसौ न दण्डवारित इति बुद्धिं
समाधतस्व । कालस्य गुणवयपरिणामत्वे सावयवत्वम
नित्यता च घटादेरिव प्रसज्येतेति चेत्? नित्यनिरप्तयव
कालतत्त्वाभिनिवेशवतो वैशेषिकादेः पतत्वयं वज्रप्रहारः
शिरसि । वेदवादिनां तु न कापि क्षतिः । कालस्योत-
पत्तिसावयत्वयोः प्रत्यक्षश्रुतावपलभ्यमानत्वात । तैत्ति-
रोयश खायां नारायणीये कालोत्पत्तिराम्नायते “सर्व्वे
निमेषजिज्ञिरे विद्य्तः पुरुषादधि कलामुहूर्त्ता काष्ठा-
श्चाहोरात्राश्च सर्वशः । अर्द्धसामा मामा ऋतवः
संवत्सरश्च कल्पत्तामिति” तम्यामेव शास्वयामारुणक्र्तुकचयन
ब्राह्मणे मावयवत्वं श्रूयते उक्तोवेषो वासांसि च क
लाबयवानामितः प्रतीच्येषिति” । इतोस्मादनुवाकात्प्रनो-
च्येष् अधस्तनेषु अनुवाकेष कालावयवानामृत्नां ध्यातव्यो
बेष उक्तः वस्त्राणि चोक्तानीत्यथः । नित्यत्वनिरवयव-
त्वाभिधायिनो वैशेषिकादिशास्त्रस्य “अमृता देवता” इति
बदापेक्षिकनित्यतायामन्तर्द्धानशक्त्युपेतयक्षराक्षसादिवत्
संऋर्शयोग्यावयवश्वन्यताथा च तात्पर्ये वर्णनीयम् ।
“अथ मन्यसे महता तपसा शिवमाराध्य तत्प्रसाद
लब्बसर्वज्ञत्वपदः कणादमुनिर्वेदवात्पर्यं मम्यग्वेत्तीति वेद्
स्यैव मन्दमतिप्रतीतादर्थादर्थान्तरं नेतव्यसिति । एवमपि
यस्य प्रसादादयं सर्वंज्ञतामलभत सएव शिवो मुख्यः
सर्वज्ञ इति तन्मतानुसारेण कणादमतस्यैवात्यथानयनम-
त्यन्तमुचितम् । शिवो हि शैवेषु आगमेषु षटत्रिं
शत्तत्त्वानि निरूपयत् कालवत्त्वस्योत्पत्तिमङ्गीन्चकार ।
निखिलशैवागमसारमार्य्याभिः संगृह्णानो भोजराजः
शुद्धानि पञ्च तत्त्वःनि शिवशक्तिसदाशिवेश्वरविद्याख्यानि
निर्दिश्येतराणि निर्दिशन्मायाकार्यत्वोक्तिपूर्वकमेव कालं
निरदिक्षत् “पुंसो जगतः कृतये मायातस्तत्त्व पञ्चकं भवति ।
कालो नियतिश्च तथा कला च विद्या च रागश्च” इति
तानि मायासहितान्येकादश तत्त्वानि सांख्यप्रसिद्धपञ्च-
विंशतितत्त्वानि चोद्दिश्य विवृण्वन्निदमाह “नाना-
विधशक्तिमयी सा जनयति कालतत्त्वमेवादौ । भावि भवद्-
भूतमयं कलयति जगदेष कालोऽतः” इति । तट्टीकाकार
इत्थं व्याचख्यौ । “नन्वेष कालो नैयायिकादिभिनित्यो-
ऽभ्यपगतः अत आह माविभवद्भूतमयमिति । भूतादि
रूपेण त्रिविधत्वात् अचेतनत्वेनास्यानित्यतं सिद्धमिति
भावः । केन क र्येणास्य सिद्धरतआह “कलयवि जगदेष
कालोऽतः” इति । चिरक्षिप्रादिप्रत्ययोपाधिद्वारेण
कलयत्याक्षिपतत्यर्थऽइति । इत्थ प्रत्यक्षश्रुतिसहकृतशैताप्तमैः
कणादशास्त्रस्य बाधे सति उत्तरमामांसागतडितीया-
ध्यायप्रथमाधिकरणन्यायोऽनुगृह्यते तस्य च न्यायस्य
संग्राहकौ श्लोकौ “सांख्यस्मृत्यःस्ति सङ्कोचो न वा येदस-
मन्वये । धर्मे वेदः सावकाशः सङ्कोच्योऽनवकाशया । प्रत्य-
क्षश्रुतिमूलाभिर्मन्वादिस्मृतिभि स्मृतिः अमूलाकापिलो
बाध्या न सङ्कोचऽनया ततः” इति । अयमर्थः । ऋग्वे-
ददि भरग्निहोत्रादिधर्मो ब्रह्मणो जगत्कर्तृत्वं च प्रति
पाद्यते । सांख्यस्मृत्यादिस्तु पधानस्य जगत्कारणत्व
प्रतिपाटयति तत्र तया स्मृत्या वेदस्य सङ्कोचोऽस्ति ।
वेति संशये स्मृतेर्जगत्कारणत्वमन्तरेणानवकाशत्वात् प्राबल्य
वेदस्य तु धर्मेऽपि चरितार्थचाद्दौर्बल्यम् । ततः स्मृत्य-
नुसारेण वेदः सम्कुचित इति पूर्व्वः पक्षः । प्रत्यक्षश्रुतिभि-
र्बह्व भिरनुगृहीताबह्व्यो मन्वादिमृतयो ब्रह्मकारणता-
माचक्षते सांख्यस्मृतिस्त्वेका मूलहीना चेति दुर्बलत्वात्
सैव बाध्या अतो नास्ति वेदस्य सङ्कोच इति सिद्धान्त
इति । अथ तार्किकत्वाभिमानग्रहगृहीतः सन परवश
एवं ब्रूषे भूतादोनामौपाधिकानां कालविशेषाणामेवो-
त्पत्तिर्न तु निरुपाधिकस्य मुख्यस्य कालस्येति तर्हि
कपर्दिकान्वेषणाय प्रवृत्तश्चिन्तामणिमलभतेत्येवंवासिष्ट-
रामायण प्रोक्तस्याभाणकम्य त्वमेव विषयोऽभूः । यतः
साधर्य्यवैधर्म्यज्ञानाय द्रव्य दीन्यन्विष्यन् परब्रह्मतत्त्वमवागमः ।
व्यवहारहेतूनां भूतादिकालविशेषाणामाधारः स्वयं व्या-
हारातीतो नित्यो निरचयवो मुख्योयः कालः स परमा-
त्मैव । तथाच श्वेताश्वतरा आमनन्ति । “यः कालकालो
गुणी सर्वविद्य” इति । आस्तां नित्यत्वानित्यत्वसावयवत्व-
चिन्ता । सर्वथाप्यस्ति सांख्यतत्त्वेषु आर्थिकः कालसर्ग्रहः
साक्षात्संग्रहाभावस्तु ज्योतिष्टोमादिवत् प्रकृतिपुरुष-
विवेकानुपयोगादित्यवगन्तव्यम् । तृतीयचतुर्थपक्षौ तु भवतो
वैशेषिकपरिचयगन्धोऽपि नास्तीति प्रकटयतः । वैशेषिक
ग्रन्थेषु सर्वेष्वपि कालप्रकरणेषु तल्लक्षणस्य तत्साधकानुमा-
नस्य च पपञ्चित्वात् प्रमाणान्तराणि तु कालसाधकानि
श्रुत्यैवोपन्यस्तानि तथा च तैत्तिरीया आरुणकेतुके
मन्त्रमामनन्ति “स्मृतिः प्रत्यक्षमैतिह्यम् अनुमानश्चतुष्टयम् ।
एतैरादित्यमण्डलै सर्व्वैरेव विधास्यते” इति । तत्र स्मृति
पृष्ठ १९८६
अनुमेयश्रुतिमूलं मन्वादिशास्त्रं प्रयक्षं श्रोत्रग्राह्यो
ऽकृत्रिमो वेदाख्योऽक्षरराशिः, योगिप्रत्यक्षमौपनिषदा-
भिमतं साक्षिप्रत्यक्षं वा । ऐतिह्यमितिहासपुराणादिके
ज्योतिःशास्त्रस्याप्यत्रान्तर्भावो द्रष्टव्यः । अनुमीयते
स्वमूलभूतं स्मृतिवाक्यमनेनेत्येनुमानः शिष्टाचारस्तस्य च
स्मृत्यनुमापकत्वं । भट्टाचार्यर्विस्पष्टमभिहितम् । “आचा
राच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनमिति, तदेवं
स्मृत्यादीनां चतुष्टयं सफलम्, एतैश्चतुर्भिः सर्वैरप्यादि-
त्यमण्डलं प्रमीयत इति मन्त्रस्यार्थः । ननु स्मृत्यादीनि
मण्डलसाधकत्वेनात्रोपन्यस्तानि न तु कालसाधकत्वे-
नेति चेत् मैवं मण्डलस्य सार्वजनीनप्रत्यक्षसिद्धत्वेन
तत्र स्मृत्याद्यनुपयोगात्, कालविवक्षयेवात्र कालनिर्वा-
हकमण्डले तान्युपन्यस्तानि, तथा च मण्डलद्वारा
कालः प्रमीयते । कालविवक्षा चोत्तरमन्त्रेष्वतिस्फुटा
तत्रानन्तरो मन्त्रएवमाम्नायते, “सूर्य्यो मरीचिमादत्ते
सर्वस्माद्भुवनादधि, तस्याः पाकविशेषेण स्मृतं कालविशेषण-
मिति” तस्यायमर्थः । भुवनगतं सर्व्वभूतजातमधिकृत्य-
रसवीर्यपाकादिभिस्तत्तदनुग्रहसमर्थं मरीचिं सूर्य्यं
स्वीकरोति तत्कृतेन भूतपाकभेदेन निमेषादिः परार्द्ध-
पर्य्यन्तः कालविभेदोऽस्माभिरवगतो भवतीति । कालप्रति
पादकानि च स्मृत्यादीत्युदाहरामः । तत्र मनुः “कालं
कालविभक्तिञ्चेति” सृष्टिप्रकरणे कालं व्यवजहार ।
याज्ञवल्क्योऽपि, “श्राद्धकालः प्रकीर्त्तितः” इति । एवमन्या-
स्वपि स्मृतिषूदाहार्य्यम् । श्रुतिष्वपि “कृतं स्वप्ने विचि-
नोति कालः” इति बह्वृचाः । “अहमेव कालोनाहं
कालस्येति” तैत्तिरीयाः । “का च सन्ध्या कश्च सन्ध्यायाः काल”
इति सामगाः । योगशास्त्रेऽपि संयमविशेषाद्धारणाध्या-
नसमाधित्रयरूपाद्योगिनोऽतीतादिकालं प्रत्यक्षतः पश्य-
न्तीति” अभिहितम् तथा च पातञ्जलभूत्रम् “परिणाम-
त्रयसंयमादतीतानागतादिज्ञानमिति” । सांक्षिप्रतक्षमपि,
अहमस्मिनकाले निवसामि, इत्यनुभवस्तावत्सार्वजनीनः । न
चासौ बाह्येन्द्रियकृतः कालस्य रूपादिहीनत्वात् । नापि
मानसस्तार्किकैस्तदनङ्गीकारात् । नाप्यनुमानादिजन्यः
अपरोक्षप्रत्ययत्वात् । अतः सामग्र्यभावऽप्यपरोक्षदर्शना-
त्साक्षिप्रत्यक्षमेतदित्यौपनिषदामन्यन्ते । इतिहासेऽपि
महाभारते “प्रहरौ घटिकान्यूनौ प्रहरौ घटिकाधिकौ ।
स कालः कुतपोज्ञेय पितॄणां, दत्तमक्षयमिति” । पुरा-
णेऽपि “अनादिरेष भगवान्कालोऽसन्ताऽजरः परः” इति
शिष्टाश्च पौर्णमास्याख्यकाले स्वस्वकलोचितान् देवविशेषेभ्यः
क्षीरदध्यादिसमर्प्यणादिकान्धर्म्मविशेषान्भानुवारादिका-
लविशेषे च समाचरन्ति । तदेवमनेकप्रमाणप्रमिते काले
प्रमाणाभावरूपश्चतुर्थः पक्षः कथमाशङ्क्येत? । नापि
प्रयोजनाभावादिति पञ्चमः पक्षो युज्यते । तार्किकैस्ता-
षत् सर्वोत्पत्तिनिमित्तकारणत्वमुद्धोषितम् । लोके कृष्या-
द्युपयोगःःकालविशेष्य कृषीवलादिभिर्व्यवह्रियते ।
गृहप्रवेशप्रयाणाद्युपयोगो ज्योतिःशास्त्रप्रसिद्धः । श्रौतस्मा-
र्त्तकर्नोपयोगस्तु प्रदर्शयिष्यते । तस्मात् सांख्यश्रद्धाजाड्यकृ-
तस्रव प्रद्वेष इत्ययं षष्टः पक्षः परिशिप्यते । तथाच पापा
त्मनः स्वस्य बुद्ब्यपराधं पुण्यात्मनि माधवाचार्ये समारो
पयन् कया वा शिक्षया न दण्ड्योऽसि । तदेवं कालस्यप्रत्या
ख्यातुमशक्यत्वान्निर्णयोद्यमः सफल इति स्थितम् । ननु
कतरकालोऽत्र निर्णीयते । किं केवलः कालः किं वा
कालकालः । ननु किमित्यप्रसिद्धभाषया भीषयसि, न
भीषयाम्यहं किञ्चास्त्येव कलयितव्यभेदात्कालद्वैविध्यम् ।
येन प्राणिदेहादयोऽतीतवर्त्तमानादिरूपेण कलयितव्याः
स केवलः कालः । स च तत्त्वप्रकाशवचनेन पूर्व्वम्
उदाहृतः “कलयति जगदेष कालोऽतः” इति । तादृशोऽपि
कार्य्योत्पत्तिस्थितिविनाशकारिणा येन कलयितव्यः स
कालकाल इति । स च वासिष्ठरामायणेदशितः “काले
पि कल्य्ते येनेति श्रुतिश्च भवति “स विश्वकृद्विश्वविदात्म
योनिर्ज्ञः कालकालो गुणी सर्वविद्यः प्रधानक्षत्रज्ञः इति
“गुणी ससारमोक्षस्थितिबन्धहेतुरिति” च कूर्मपुराणेऽपि
“अनादिरेष भगवान् कालोऽनन्तोऽजरः परः । सर्वगत्वात्
स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः । ब्रह्माणो बहवो रुद्रा
अन्ये नारायणादयः । एकोहि भगवानीशः कालः
कविरिति स्मृतः । ब्रह्मनारायणेशानां त्रयाणां प्राकृतो-
लयः । प्रोच्यते कालयोगेन पुनरेव च सम्भवः । परं
ब्रह्म च भूतानि वासुदेवोऽपि शङ्करः । कालेनैव च
सृज्यन्ते सएव ग्रसते पुनः । तस्मात् कालत्मकं विश्वं स
एव परमेश्वरः” इति । विष्णुधर्मोत्तरेऽपि । “अनादिनि-
धनः कालो रुद्रः सङ्कर्षणः स्मृतं । कलनात्सर्वभुतानां स
कालः परिकीर्त्तितः । कर्षणात् सर्व्वभूतानां स तु सङ्क-
षणः स्मृतः । सर्वभूतशमित्वाच्च स रुद्रः परिकीर्त्तितः
अनादिनिधनत्वन स महान् परमेश्वर” इति ज्योतिःश
स्त्रेऽपि “भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मका
इति । तत्रैवं सति द्वयोर्मध्ये कालकालोत्र न निर्णेतक
पृष्ठ १९८७
तस्य धर्मानुष्ठानेष्वहेतुत्वेम हेयत्वादनुपादेयत्वाच्च ।
यस्त्वितरो मासपक्षतिथ्यादिरूपः सोऽपि ज्योतिःशास्त्रे
सम्यङ्निर्णीत इति कृतमनया कालनिर्णयप्रवृत्त्येति प्राप्ते
ब्रूमः उमयमप्यत्र निर्णेतव्यं कालकालस्य जगदीश्वरस्य
सर्व्वेषु कर्मारम्भेषु अनुस्मर्त्तव्यत्वात् अतएव शिष्टाः
पुण्याहवाचनादावीश्वरमनुस्मरन्ति । “सर्वेषु कालेषु समस्त
देशेष्वशेषकार्येषु तयेश्वरेश्वरः । सर्वैःस्वरूपैर्भगवाननादिमा-
न्ममास्तु माङ्गल्यविवृद्धये हरिः । यस्य स्मृत्या च नामोक्त्या
तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्योवन्दे
तमच्युतमिति” । मासादिरूपभेदस्य तु स्वरूपेण ज्योतिषे
निर्णीतत्वेऽपि श्रौतस्मार्त्तकर्मविशेषेण सह कालस्याङ्गा-
ङ्गिभावी निर्णेतव्यः । यद्यप्यसौ हेमादिप्रभृतिषु ग्रन्थेषु
निर्णीतस्तथाप्यनेकत्र विप्रकीर्णस्यैकत्र संग्रहार्थमत्र यत्नः
क्रियते । तदेवं चिकीर्षितस्य ग्रन्यस्य कालरूपो विषयः
संग्रहरूपं प्रयोजनं चास्तीति अयं ग्रन्थ आरभ्यते” ।
“नित्यो जन्यश्च कालौ द्वौ तयोराद्यः परेश्वरः । सोऽवाङ-
मनसगम्योऽपि देही भक्तानुकम्पया” नित्यकालस्य
परमेश्वरत्वे प्रमाणं पूर्वमेवोपन्यस्तम् । परमेश्वरस्य चावा-
ङ्मनसगोचरत्वे सर्वे वेदान्तास्तदनुसारिस्मृतिपुराणानि
तत्त्वविदनुभवश्च प्रमाणम् । भक्तानुग्राहिमूर्तिस्वीकारश्च त
लवकाराख्ये सामवेदशाखाविशेषे कस्यां चिदाख्यायिकाया-
माम्नायते तस्यां ह्यास्त्यायिकायामेवमुक्तम्--अग्निवाय्वि
न्द्रादयो देवा ईश्वरानुगृहीताः सर्व्वत्र विजयमानाः
स्वकीयमेव तत्सामर्थ्यमित्यमिमन्यन्ते स्म । तान् बोधायितुम-
वाङ्मनसगम्यं परमेव ब्रह्म पूज्यां चक्षुर्गम्यां काञ्चिन्मूर्त्तिं
धारयित्वा प्रादुर्बभूव । तया सह वादं कृत्वापि राजस-
चित्तावग्निवायू तद्ब्रह्मतत्त्वं नैव बुबुधाते इन्द्रस्तु सात्विक
चित्तोबुबुधे इति । वासिष्ठरामायणेऽपि शुक्रोपाख्याने
शुक्रं मृतमवलोक्य तत्पिता भृगुः क्रुद्धो मारयितारं कालं
शप्नुमुद्यत तदानीं कालोऽनुग्रहीतुमीदृशेन रूपेणाविर्ब-
भूवेति पठ्यते “अथाकलितरूपोऽसौ कालः कवलितप्रजः ।
आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ । बहुपाशधरः
श्रीमान् कुण्डली कवचान्वितः । ऋतुषट्कमयोदारवक्त्र-
षट्कसमन्वितः । मासद्वादशकोद्दासभुजद्वादशकोद्भटः ।
स्वाकारसमया बह्व्या वृतः किङ्करसेनय । स उपेत्य प्रण-
म्यादौ कुपितं तं महामुनिम् । कल्पक्षुब्धाव्धिगम्भीरं
सान्त्वपूर्व्वमुवाच ह् । त्वमत्यन्ततपा विप्र! वयं नियति-
प्रालका तेन संपूज्यसे पूज्य । साधो! नेतरवीक्षया । मा
तपः क्षपयाऽबुद्ध! कल्पकालमहानलैः । यो न दग्धोऽस्मि
मे तस्य किं त्वं शपेन धक्ष्यसि? । संसारावलयो ग्रस्ता
निगीर्णारुद्रकोटयः । भुक्तानि विष्णुवृन्दानि केन शप्ता
वयं मुने! । भोक्तारो हिवयं ब्रह्मन् भोजनं युष्मदादयः ।
स्वयं नियतिरेषा हि नावयोरेतदोक्षितमिति” । न च भक्ता-
नुजिघृक्षया स्वेकृता मूर्त्तिरीदृश्येवेति कश्चिन्नियमोस्ति
सर्वात्मकस्य परमेश्वरस्य भक्तचित्तप्रियायाः सर्वस्या अपि
मूर्त्ते स्वकीयत्वात् अतएव भगवद्गीतायाम् “यो यो यां
यां तनु भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां
श्रद्धां तामेव विदधाम्यहम् । स तया श्रद्धया युक्तस्तस्या
राधनमीहते । लभते च ततः कामान् मयैव विहि-
तान् हितानिति” । विष्णुरुद्रादिवत् अचेतनमूर्त्तयोऽपि
तत्तत्फलविशषार्थिभिरोश्वरत्वेनोपास्याः । तदेतदृग्वेदे
समाम्नायते । “एतं ह्येव बह्व्यच महत्युक्थे मीमांस
न्तएतमग्नावध्वर्यव, एतं महाव्रतेच्छन्दोगा, एतमस्याम्
(पृथिव्याम्) एतं दिव्येतं वायावेतमाकाश एतमोषधीष्वेतं
वनस्पतिष्वेतं छन्दस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्विति”
वाजसनेयिनोऽपि मण्डलब्राह्मणे “तमेतमग्निमध्वर्यव
उपासत इत्यारम्य पठन्ति “विषमिति सर्पाः, सर्प इति सर्प-
विदः, उर्गिति देवः, रयिरिति मनुष्याः, मायेत्यमुराः,
स्वधेति पितरो, देवजन इति देवजनविदो रूपमिति गन्धर्वा,
गन्धैत्यप्सरसस्तं यथायथोपासते तदेव भवतीति” । तैत्ति-
रीयाश्च पठन्ति “क्षेम इति वाचि, योगक्षेमम् इति प्राणा-
पानयोरित्यादि” । परब्रह्मण्यारोपितं यद्यावज्जगद्रूपम्
अस्ति तेन सर्व्वेणःप्युपासनया परमेश्वरो रूपवान्भवतीति-
हिरण्मयाधिकरणतेजोमयाधिकरणयोः प्रपञ्चितम् । एवं
च सति यो यदा यत्कर्म्मारभते स तदा तत्कर्म्मोपयुक्तां
कालात्मकस्येश्चरस्य मूर्त्तिमिष्टदेवंतारूपेणानुस्मरेत् । अत
एव मन्त्रशास्त्रेषु नानाविधानि ध्यानान्युपदिष्टानि । लोके-
ऽप्याविद्वदागोपालाङ्गनं सर्वोऽपि जन एकैकां देवतां स्वेच्छया
पूजयति तदेतद्भगवानाह “यजन्ते सात्विकादेवान् यक्षरक्षां-
सि राजसाः प्रेतान् भूतगणांश्चान्थे यजन्ते तामसा जनाः”
इति तस्म दारभ्यमाणकर्म्मफलप्रदोनिजेष्टदेवतारूपोनित्यः
कालः कर्म्मारम्भेषु अनुस्मर्त्तव्य इति सिद्धम् ।
अथ जन्यं कालं निरूपयामः । ननु कालस्य जन्यत्वे
सति कथं प्रलये कालव्यवहारः । प्रलयत्वस्य जन्या-
नधिकरणत्वरूपत्वात् । प्रलयोऽतीतः प्रलयोभावीति
कालनित्यत्ववादिनस्तवापि समोदोषः । नित्यस्य कालस्य
पृष्ठ १९८८
तपनपरिस्यन्दाद्युपाधिभिः परिच्छेदे सत्येतावान्
काल इति कालेयत्ता वर्ण्णयितव्या । न च प्रलये
तदुपाधयः सन्ति । अतस्तव कथं प्रलयकाले इयत्तानि-
र्ण्णयः । अथ सत्कार्य्यवादाभ्युपगमेनोपाधयोऽपि वासना
रूपेण सन्ति तर्हि कालेऽपि तत्समानं, न चैतावता नित्यता-
प्राप्तिः उपाधिषु तदनङ्गीकरात् । अथ मन्यसे इयत्तार-
हितेऽपि प्रलयकाले सृष्टिकालेयत्तावासनावशादियत्ता व्यव-
ह्रियते । तत्रोपाध्यायत्वादिर्दृष्टान्तः । यथा कश्चिन्माणवकः
त्रिंशद्वर्षवयस्कादध्येतुमुपक्रम्य संवत्सरमधीत्यास्मदुपाध्याय
एकत्रिंशद्वर्षवयस्क इत्यध्ययनरहितेऽप्यतोते वयस्य्वपाध्यायत्वं
व्यवहरति । तद्वदियत्ताव्यवहारः । एवं तर्ह्यनेन न्यायेन
कालरहितप्रलये कालव्यवहारः किं न स्यात्? । कालरहितं
च प्रलयादिकं वस्त्वस्तोति माण्डूक्यादिश्रुतयोऽभ्युप्र
गच्छन्ति । तथा च श्रूयते, “यच्चान्यत्त्रिकालातीतं
तदप्योङ्कार एवेति” । प्राभाकराश्चापूर्व्वस्य कालत्रयासंसृष्टा-
ङ्काञ्चिदवस्थाभाहुः । तस्मात्कालः सुखेन जन्यतां स च
सामान्यविशेषाभ्यान्द्विविधः । तस्य चोभयविधस्येश्वरा-
ख्यान्नित्यात्कालादुत्पत्तिं मनुराह “कालं कालविभक्तिञ्च
नक्षत्राणि ग्रहांस्तथा । सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छ-
न्निमाः प्रजाः” इति । तत्र यः सामान्यकालः स विशेषानु-
गतत्वात्तदपेक्षया नित्योग्रहगत्यादिभिरनुमेयो भूतोत्पत्ति-
निमित्तकारणमिति तार्किकज्यौतिषिकादयः प्रतिपेदिरे ।
तत्र ज्यौतिषिका एवमाहुः “प्रभवविरतिभध्यज्ञानबन्ध्या
नितान्तं विदितपरमतत्त्वा यत्र ते योगिनोऽपि ।
तमहमिह निमित्तं विश्वजन्मात्ययानामनुमितमभिवन्दे भग्रहैः
कालमीशम् । युगवर्षमासदिवसाः समं प्रवृत्तास्तु चैत्रशुक्लादेः ।
कालोऽयमनाद्यन्तो ग्रहर्भरनुमीयते क्षेत्र” इति कालविशे-
षेषु च संवत्सरः प्राधानभूतः । अन्ये सर्व्वे गुणभूताः ।
तथाचारुणकेतुके समाम्नायते “नद व प्रभवा काचिद-
क्षय्या स्यन्दते यथा । तां नद्योभिसमायन्ति सह, सा न
निवर्त्तते । एवं नानासमुत्थानाः कालाः संवत्सरं
श्रिताः । अणुशश्च महान्तश्चसर्व्वेसमवयन्ति तम् । स तैः
सर्व्वैः समाविष्ट ऊहः सन्न निवर्त्तते” इति । अयमर्थः ।
भागीरथीगोदावर्यादिका नदीव कालः कुतश्चिदुत्पत्ति-
स्थानादुत्पद्यते । तच्चोत्पत्तिस्थानं सांख्योक्तं प्रकृतिः
शिवागमोक्तमाया वा श्रुतिस्मृत्युदिता नित्यकालात्मक
ईश्वरो वा भविष्यति । यथा तां गङ्गादिकां महानदी
मन्यां स्वल्पनद्योऽभितः प्रविशन्ति सा च प्रविष्टैर्नद्यन्तरैः
सह विस्तीर्णा प्रवहत्प्रवाहा सती न कदाचित् शुष्यति ।
एवं नानाविधरूपैः समुत्पन्नाः कालभेदाः संवत्सराख्यं
प्रधानं कालमाश्रिताः । तत्र निमेषाद्या अयनपर्यन्ताः
कालभेदाः संसत्सरादणवो, युगाद्याः परार्द्धपर्यन्ताः
संवत्सरान्महान्तस्ते सर्व्वे तं संवत्सरं सम्यक् प्रविशन्ति । अणू
नामवयवत्वेन प्रवेशः । महतान्तु संवत्सरावृत्तिनिष्पाद्या-
नामध्यक्षः संवत्सरैति तत्र प्रवेशोऽभिधीयते । तथाच
येदाङ्गज्योतिषग्रन्थे पठ्यते “पञ्चसंयत्सरमयं युगाध्यक्षं
प्रजापतिम् । दिनर्त्वयनमासाङ्ग” प्रणम्य शिरसा स्थित
इति । स च संवत्सरस्तेरणुभिर्महद्भिश्च सर्व्वैः समाविष्टो-
ऽतिदीर्घः सन्नस्मिन् जगति त च्छिद्यत इति । नन्वणुत्वं
निमेषे पर्यवसितं महत्त्वोतु परार्द्धे तथा च तयोरन्य-
तरस्य प्राधान्यमुचितम् । तत्र कथं संवत्सरस्य प्राधान्यम्?
इति चेत् ईश्वरेण प्रथमं सृष्टत्वादिति ब्रूमः । तथा
च वाजसनेयिनः समामनन्ति “सोऽकामयत द्वितीयोम
आत्माजायेतेति स मनसा वाचा मिथुनं समभवद्यत्तद्रेत
आसीत् स संवत्सरोऽभवदिति” । तस्मात्संवत्सरः प्रधा-
नम्, अतएव वयं संवत्सरभारम्य कालविशेषं निर्ण्णयामः ।
तत्र संवत्सरोऽयनमृतुर्मासः पक्षः तिथिर्नक्षत्रं योग
इत्येवं विधाः कर्म्मकालाः । यद्यपि पुराणषु मृत्युमार्कण्डे-
यादीनां युगादिकल्पादिपरिमितं तपः स्मर्य्यते तथापि
शतसंवत्सरायुषो मनुष्यानधिकृत्य धर्म्मशास्त्रप्रवृत्तेः युगा-
दिनिर्ण्णयोनोययुक्तः । शास्त्राणां मनुष्याधिकारत्वं
चास्माभिः पाराशरस्मृतिव्याख्याने “मनुष्याणां हितं
धर्म्मम्” इत्यस्मिन्वचने प्रपञ्चितम् । येतु “कलौ पञ्च
विवर्जयेत्” इत्यादयोमनुष्यधर्म्मास्तेष्वपि न युगादिकं निर्णेतव्य
संदेहाभावात् । न च शतायुषामधिकारे कथं सहस्र-
संवत्सरसत्रश्रुतिरिति शङ्कनीयम् तत्र संवत्सरशब्दोदिवस-
पर इति षष्ठाध्याये सप्नमपादेनिर्ण्णीतत्वात् । येऽपि
चतुर्दशसवत्सरावृत्तिसाध्या अनन्तव्रतादयस्तेष्वपि न
संवत्सराधिकः कश्चित्कालो निर्ण्णेतव्योऽस्ति । अतः
संवत्सरमारभ्यावांञ्च एव निर्ण्णेतव्याः कर्म्माङकालाः ।
न च कालस्य कर्म्माङ्गत्वे विवदितव्यम् “सायं बुहोति
प्रातर्जहोतीतिः” श्रुतेः तत्तत्कर्म्मणस्तावदपूर्व्वविषयत्वात्
(अपूर्व्वजनकत्वात्, प्राधान्यमभ्युगम्य तथा च कालस्य
गुणत्वेनान्वयः परिशिष्यते अतएव गर्गः “तिथिनक्षत्र-
वारादि साधनं पुण्यपापयोः । प्रधानगुणभावेन स्वात-
स्थ्येण न ते क्षमाः” इति । तस्मादङ्गभूतेष निर्ण्णेयेष
पृष्ठ १९८९
कालेष्ववयवित्वेन संवत्सरस्याभ्यर्हितत्वादल्पवक्तव्यतया
सूचीकटाहन्यायानुसारेण च सएव आदौ निर्ण्णीयत-
इतिस्थितम्” ।
सू० सि० रङ्ग० कालविभागश्चेत्थं प्रदर्शितः
“लोकानाममकृत्कालः कालोऽन्यः कलनात्मकः ।
स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते” सू० सि० ।
“कालो द्विधा तत्रैकः कालोऽखण्डदण्डायमानः शास्त्रा-
न्तरप्रमाणसिद्धः । लोकानां जीवानामुपलक्षणादचेतना-
नामपि । अन्तकृद्विनाशकः । यद्यपि कालस्तेषामुत्पत्ति-
स्थितिकारकस्तथापि विनाशस्यानन्तत्वात् कालत्वप्रति-
पादनाय चान्तकृदित्युक्तम् । अन्तकृदित्यनेनैवोत्पत्तिस्थि-
तिकृदित्यक्तमन्यथा नाशकत्वासम्भवात् । अतएव “कालः
सृजति भूतानि कालः संहरति प्रजाः इत्याद्युक्तं
ग्रन्थान्तरे । अन्यो द्वितीयः कालः खण्डकालः ।
कलनात्मको ज्ञानविषयस्वरूपः । ज्ञातुंशक्यैत्यर्थः । स
द्वितीयः कलनात्मकः कालोऽपि द्विधा भेदद्वयात्मकः ।
तदाह स्थूलसूक्ष्मत्वादिति महत्त्वाणुत्वाभ्याम् ।
मूर्त्तः--इयत्तावच्छिन्नपरिमाणः । अमूर्त्तस्तद्भिन्नः कालतत्त्व
विद्भिः कथ्यते । चकारो हेतुक्रमेण मूर्त्तामूर्त्तक्रमार्थकः ।
तेन महान् मूर्त्तकालोऽणृरमूर्त्तः काल इत्यर्थः । अथोक्तं
भेदद्वयं स्वरूपेण प्रदर्शयन् प्रथमभेदं प्रतिपिपादयिषु-
स्तदवान्तरभेदेषु भेदद्वयमाह” रङ्गनाथः ।
“प्राणादिः कथितो मूर्तस्त्रुट्याद्योऽमूर्त्तसञ्ज्ञकः । षड़भिः
प्राणैर्विनाडी स्यात् तत्षष्ठ्या नाड़िका स्मृता” सू० सि० ।
“प्राणः स्वस्थसुखासीनस्य श्वासोच्छासान्तर्वर्ती कालो
दशगुर्वक्षरोच्चार्य्यमाण आदिर्यस्यैतादृशः प्राणनान्तर्गतो
मूर्त्तः काल उक्तः । त्रुटिराद्या यस्यैतादृशः काल एव प्रा-
णान्तर्गतस्त्रटितत्परादिकोऽमूर्त्तसञ्ज्ञः । अथामूर्त्तस्य मूर्ता-
दिभूतस्य व्यधहारायोग्यत्वेनाप्रधानतयानन्तरोद्दिष्टस्य भेद
प्रतिपादनमुपेक्ष्य मूर्त्तकालस्य व्यवहारयोग्यत्वेन प्रधान-
तया प्रथमोद्दिष्टभेदान् विवक्षुः प्रथमं पलघट्यावाह ।
षड्भिरिति । षडभिःप्राणैरसुभिः पानीयपलं भवति
पलानां षष्ठ्या चटिकोक्ता कालतत्त्वज्ञैः । अथ
दिनमासादिकमाह” रङ्ग० ।
“नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् ।
तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैग्नथा” ।
“ऐन्दवस्तिथिभिस्तद्वत् सङ्क्रान्त्या सौर उच्यते ।
मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते” ।


“सुरासुराणामन्योऽन्यमहोरात्रं विपर्यवात् ।
तत्षष्टिः षड्गुणा ३६० दिव्यं वर्षमासुरमेश च” ।
“तद्द्वादश सहस्राणि चतुर्युगमुदाहृत्तम् । सूर्याब्दस-
ङ्ख्यया द्वित्रिसागरैरयुताहतैः ४३२००००” ।
“सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् । कृतादीनां
व्यवस्थेयं धर्मपादव्यवस्थाया” ।
“युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः । क्रमात्
कृतयुगादीनां, षष्ठांशाः सन्धयः स्वकाः” ।
“युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते । कृताब्द-
सङ्ख्य १७२८००० स्तस्थान्ते सन्धिः प्रोक्तोजलप्लवः” ।
“ससन्धयस्ते मनवः कल्पे ज्ञेन्याश्चतुर्दश । कृतप्रमाणः
कल्पादौ सन्धिः पञ्चदशः स्मृतः” ।
“इत्यं युगसहस्रेण भूतसहारकारकः । कल्पो ब्राह्म-
महः प्रोक्तं शर्वरी तस्य तावती” ।
“परमायुः शतं तस्य तयाऽहोरात्नसङ्ख्यया ।
आयुषोर्द्धमितं तस्य शेषे कल्पोयमादिमः” सू० सि० ।
अहरादिकालभेदाः (अहन्) शब्दे उक्ताः ।
सि० शि० तु निमेषतत्परत्रुटिरूपाः सूक्ष्माः काला-
वयवाः दर्शिताः तस्य वाक्यं १७८८ पृ० दर्शितम् । स च
कालस्त्रिविधः वर्त्तमानभूतभविष्यद्भेदात् तत्र भूतभविष्यत्
कालावपि प्रत्येकं द्विधा अद्यतनानद्यतनभेदात् तद्भेदे-
नैव लकारविशेषं पाणिनिरनुशशास ।
सोऽयं कालः षडिन्द्रियवेद्यः इति मीमांसका मन्यन्ते
“न सोऽस्ति प्रत्ययोलोके यत्र कालो न भासते “इति तेषा-
मुक्तेः । वेदान्तिनस्तु तस्य साक्षिप्रत्ययभास्यत्वमङ्गीचक्रुः तत्र
प्रमाणं कालमा० अनुपदमेव दर्शितम् । सोऽयं कालः
देशवृत्तरव्याप्यवृत्तितानियामकः । तथाहि यः पदार्थः स्वाधि-
करणवृत्त्यभावप्रतियोगी सोऽव्याप्यवृत्तिरिति भण्यते तत्ता-
निर्वाहकश्च कालोदेशश्च । क्वचिद्देशे स्थितस्य तादृशपदार्थस्य
कालभेदेन तत्रैवाधिकरणेऽभावस्तिष्ठति यथा ज्ञानाश्रये
आत्मनि सुषुप्तिकाले इच्छादिविशेषगुणान्तरकाले च
ज्ञानाभावः । यथा वा गुणवति जन्यद्रव्ये उत्पत्तिकाले
गुणाभावः श्यामले अपक्वे घटे रक्तत्वाभावः रक्तत्वस्य
पाकीत्तरं जायमानत्वात् । कालसत्त्व च देशोऽपि तथा ।
यथा आत्मनि ज्ञानकाले शरारावच्छेदेन ज्ञानं, घटाद्यव-
च्छेदेन तदभावः । तथा वृर्क्ष कपिसंयोगकालेऽपि मूले
तदभावः । कालेन कृतसम्बन्धश्च कालिकसम्बन्धः तेन
सम्बन्धेन सर्व्वेषु जन्यभावेषु जन्यभावानां वृत्तिमत्ता
पृष्ठ १९९०
नित्येषु गु कालिकसम्बन्धेन न कस्यापि सत्त्वम् नित्यानु-
योगिककालिकतम्बन्यानुपगमात् इति नैयायिकाः । तस्य
च “पौरुषं दैवसम्पाया काले फलति पार्थिव! । त्रय-
मेतन्मनुव्यस्य पिण्डितं स्यात् फलावहम्” इत्युक्तेः कार्य्य-
मात्रे निमित्तकारणता । यद्यपि “कृषेर्वृष्टिसमायोगे दृश्यन्ते
फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चनेति”
शास्त्रान्तरेण तत्तत्कालानामेव यत्तत्कार्य्योत्पत्तौ हेतुता
ऽधिगता तथापि “यद्विशेषयोः कार्य्यकारणभावस्तत्सामा-
न्ययोरपीति” न्यायात् सामान्यतः कार्य्यमात्रं प्रति
कालसामान्यस्य हेतुत्वम् । “कालः क्रीडति गच्छत्या-
युस्तदपि न मुञ्चत्याशावायुः” मोहमु० । काले भवः
ठञ् । कालिक कालभवे त्रि० “समासप्रत्यय-
बिधौ प्रतिषेधो वक्तव्यः” बा० उक्तेः तदन्तविधिपरिभा-
षायाः अप्रवृत्तेः कालान्तशब्दान्नास्य प्रवृत्तिः तेन तदन्त
शब्दात् खएव साधुः समानकानीनः प्राक्कालीन इत्यादि
भूरिप्रयोगात् । सि० कौ० समानकालोनप्राक्कालोन-
शब्दयोरप्रामाणिकतोक्तिः प्रौढोक्तिरेव उदाहृतवार्त्तिकस्य
जागरूकत्वात् इति गौडाआहुः । प्रतीच्यास्तु कौमुदी-
कारश्रद्धावशात् ठञ्विधायकसूते कालसामान्यतद्विशे-
षपर्य्यायाणां ग्रहणात् समानकालप्राक्कालयोरपि
कालविशेषत्वेन ततः ठञेव प्रवृत्तिर्न खस्येति भाष्यादिप्रयोगस्तु
आर्षत्वात् समाधेयः इति मन्यन्ते । कालेन निर्वृत्तः ठञ्
कालिक कालसाध्ये त्रि० स्त्रियां ङीप् । कर्त्तु-
स्तात्कालिकी शुद्धिरिति” स्मृतिः तत्र तत्कालशब्दस्यैव ठञः
प्रकृतित्वात् तेन न पूर्व्वोक्तवार्त्तिकसङ्कोचः अतएव तत्र
तच्छब्दस्यैवाद्यचोवृद्धिः तेन निवृत्तमित्यधिकारात् प्रकृति-
मात्रस्यैव ग्रहणात् न कालत्वेन तत्रप्रकृतिता । काले साधुः
पुष्यन् पच्यमानो वा अण् । काल--काले साधौ काले यिकश
माने काले पच्यमाने च त्रि० । अत्र सूत्रे कालविशेष-
स्यैव ग्रहणं न स्वरूपस्य तेन न ततोऽण् इत्यन्ये ।
कालः प्राप्तोऽस्य यत् । काल्य प्राप्तकाले शीतादौ त्रि०
कालोदेवताऽस्य “कालेभ्योभववत्” पा० ठञ् । कालिक काल
देवताके हविरादौ स्त्रियां ङीप् । १५ तत्तत्कर्म्मोचितकाले
“वरमेकाहुतिः काले नाकाले लक्षकोटयः” त्रि० त० ।
“अकालेऽप्यथ वा काले गङ्गां प्राप्य सरिद्वराम्” प्रा० त० ।
“काले कालकृतो नश्येत् फलभोग्यो न नश्यति” या०
स्मृ० । अर्द्धयामशब्दे ३७६ पृ० दर्शिते रव्यादिवारेषु
कालवेलाख्ये १६ दिवानिशोरर्द्धयामभेदे “यात्रायां मरणं
काले वैधव्यं पाणिपीड़ने । ब्रते ब्रह्मबधः प्रोक्तः सर्व्वं
कर्म्म ततस्तजेत्” ज्यो० त० तस्य सर्व्वकर्म्मसु वर्ज्यता-
माह १७ सांख्यीक्ते मेघास्व्ये विवेकसाक्षातकारान्तराये
तुष्टिभेदे “यथा आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकाल-
भाग्याख्याः । बाह्याविषयोपरमात् पञ्च, नव तुष्टयो-
भवन्ति” सा० का०
“या तु प्रव्रज्यापि न सद्योनिर्व्वाणदेति सैव
कालपरिपाकमपेक्ष्य सिद्धिन्ते विधास्यति अलमुत्तप्ततया
तवेत्यपदेशे या तुष्टिः सा कालाख्या मेघ (१) उच्यते”
कौ० । विवृतञ्जैतदस्माभिः । “प्रव्रज्यामात्रस्य विवेक-
ख्यातिहेतुत्वे प्रब्रज्याग्रहणमात्रेण विवेकख्यात्यापत्ति-
रूपम् उपदेशे असत्तवप्रयोजकं दूषणम् सहकार्य्य-
न्तरापेक्षाकल्पनात् परिहरन्नुपदेशान्तरं दर्शयति न
सद्यो निर्वाणदेति । सद्यः, ग्रहणमात्रात् न तु
कालरूपसहकार्य्यन्तरापेक्षणात न निर्व्वाणदा विवेकख्या-
तिजननद्वारा न मुक्तिदेत्यर्थः । तथा च “कृषेर्वृष्टि-
समायोगे वृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते
नैवाकाले कथञ्चन” इति शास्त्रेण कार्य्यमात्रं प्रति
कालस्य सहकारिताया अन्वयव्यतिरेकाभ्यां च प्रसिद्धत्वात्
कालस्यैव तद्धेतुत्वमस्तु कृतं ध्यानाभ्यसादिनेति समुदि-
तार्थः । कालस्यसाधनतासाधकशास्त्रेण कृष्यादेः प्रधान
फलहेतुत्वं तत्र कालस्य सहकारितामात्रं प्रतिपादितं न
तु तन्मात्रस्य हेतुत्वमेवञ्च कालस्य साधारणकारणत्वम्
असाधारणकारणत्वन्तु कृष्यादेरेव एवञ्च प्रकृतेऽपि विवेक-
ख्यातिं प्रति ध्यानाभ्यासादेरेवाराद्पकारकत्वात्
असाधारणहेतुत्वं, कालस्य साधारणहेतुत्वमित्यस्यासदुधदेशत्व
मिति बोध्यम् इति ।
वर्स्सवाचिकालशब्दस्य स्त्रियां जनपदा० नि० ङीष् ।
काली “काकाली कामधुरा काशीतलवाहिनो गङ्गा ।”
बिदग्ध मु० समानप्रश्नोत्तरम् ।
१८ हिंसके त्रि० ततः स्त्रियां न ङीष् । कालात् वण्णश्चेत्”
वार्त्तिकोक्तेः । “कालान्या” सि० कौ० । कालस्येयम् अण् ङीप्
कालस्य पत्नी ङीष् वा । काली कालशक्तौ शिवकान्ता-
याञ्च स्त्री । अधिकं कालीशब्दे वक्ष्यते । १९ मृत्यौ मेदि०
सर्व्वस्याग्रहणानात्तस्य तथात्वम् । “अशुमांश्च तपस्तेपे
गङ्गानयनकाम्यया । कालं महान्तं नाशक्नीत् ततः कालेन
संस्थितः । दिलीपस्तत्सुतस्तद्बदशक्तः कालमेयिकान्”
भाग० ९ ९ २ ३ १ “कालं मृत्युम्” श्रीधरः ।
पृष्ठ १९९१


वर्णवाचकात् तस्य भाव इत्यर्थे इमनिच् कालिमन् पु०
तल् कालता स्त्री, त्व कालत्व न० । कृष्णवर्णे ।
तत्र “यमे उपेत्य मुनिवेशोऽथ कालः प्रोवाच राघवम्”
रघुः । यमपरत्वे २० द्वित्वसंख्यायां २१ तत्संख्यान्विते च
भरण्यायमदैवतत्वात् तस्याश्च अश्विन्यादिनक्षत्रचक्रे द्विती-
यत्वात् लक्षितलक्षणया तत्परत्वम् । शिवपरत्वे २२
षट्संख्यायां २३ तदन्वते च शिवदैवतार्द्राया अश्विन्यादिषु
षष्ठत्वादुक्तरीत्या तथात्वम् । ऋणिधनिचक्रशब्दे १४२८ पृ०
दर्शितं षट्कालकालेत्यादि वाक्यम् उदा० “कालस्य वेला
रवितः शराक्षिकालानलागाम्बुधयो गजेन्दू” ज्यो० त० ।
चन्द्रादिग्रहाणां दृष्टियोग्यताप्रापककालात्मके २४
अंशभेदे च । स च सि० शि० दर्शितो यथा
“दस्रेन्दवः १२ शौलभुवश्च १७ शक्रा १४ रुद्राः ११
खचन्द्रा १० स्तिथयः १५ क्रमेण । चन्द्रादितः काललवा
निरुक्ताः ज्ञशुक्रयोर्वक्रगयोर्द्विहीनाः” सि० शि० ।
चन्द्रादीनामेने १२ । १७ । १४ । ११ १० । १५ ।
कालांशा ज्ञेयाः । बुधशुक्रयोस्तु वक्रगतयोर्द्विहीना
१२ । ८ द्विवर्जिता ज्ञेयाः ।
अत्रोपपत्तिः । कालांशा इति कालात्मका अंशाः
षड्भिर शैरेका घटिका । एकस्यांशस्य दश पानीयप-
लानि । अत्रैतदुक्तं भवति । चन्द्रस्य किल द्वादश
१२ कालांशाः । अर्कस्यास्तमयादुदयाद्वा घटिकाद्वया-
धिकेऽन्तरे चन्द्रो दृष्टियोग्यो भवति । तदूने तत्प्रभा-
च्छादितत्वाददृश्यः । अतस्तस्य द्वादश कालांशाः । एवं
भौमस्य सप्तदश १७ षडंशोनास्तिस्रो घटिकाः २ । ५०
इत्यर्थः । एबमन्येषां यथापठितास्तेषां विम्बस्य स्थूल-
सूक्ष्मतावशात् न्यूनाधिकता । अत एव बुधशुक्रयोर्वक्रग-
तयोर्विम्बस्य स्थूलत्वाद्द्विहीनाः । अत्रोपलब्धिरेव
वासना” प्रमि०
“यत्रोदयो वास्तमयोऽवगम्यस्तद्दिग्भवो दृक्खचरो
रविश्च । अस्तोदयासन्नदिने कदाचित् साध्यस्तु पश्चात्
तरणिः सषड्भः” सि० शि० ।
“इह केन्द्रभागैर्ग्रहस्योदयोऽस्तमयो वा यस्मिन् दिन
आयातस्तस्यासन्ने कस्मिंश्चिद्दिने तं ग्रहं रविं च स्फुटं
कृत्वा यस्यां दिशि ग्रहोदयोऽस्तमयो वा तद्दिग्भवो दृग्ग्रहः
कार्यः । यदि प्राच्यां तदौदयिकं ग्रहं कृत्वोदयलग्नं
साध्यम् । यदि च प्रतीच्यां तदास्तमयिकं ग्रहं कृत्वास्त-
लग्नं साध्यमित्यर्थः । यदा प्रतीच्यां, तदारविः सषड्-
भश्च कार्यः । इदानीमिष्टकालांशानयनमाह” प्रमि० ।
“दृक्खेचरार्कान्तरजातनाड्यो रसाहताः काललवाः
स्युरिष्टाः” सि० शि० ।
“दृग्ग्रहार्कयोरन्तरघटिकाः साध्यास्ता रस ६ हता
इष्टाः कालांशा भवन्ति । अथ तैरुदयास्तयोर्गतैष्याः
नाड्यः” प्रमि० ।
“उक्तेभ्य ऊनाभ्यधिका यदीष्टाः खेटोदयो गम्यगत-
स्तदा स्यात् । अतोऽन्यथा वाऽस्तमयोऽवगम्यः प्रोक्ते-
ष्टकालांशवियोगलिप्ताः । खाभ्राष्टभू १८०० घ्नाद्युचरो-
दयाप्ताः खेटार्कभुक्यन्तरभाजिताश्च । वक्रे तु भुक्त्यैक्य-
हृता अवाप्तास्तदन्तराले दिवसा गतैष्याः । तात्कालिकाभ्यां
रविदृग्ग्रहाभ्यां मुहुः कृतास्ते स्फुटतां प्रयान्ति” सि० शि० ।
“एवं य इष्टकालांशा आनीतास्ते प्रोक्तेभ्यो यदि स्वल्पा
भवन्ति तदा ग्रहस्योदयो गम्यः । यद्यधिकास्तदा गत
इति वेदितव्यम् । अतोऽन्यथास्तमय इति । अथ प्रोक्ता-
उक्तेभ्योयदीष्टाः स्वल्पास्तदा ग्रहस्यास्तमयोगतोयद्यधिक-
स्तदा गम्य इति । अथ प्रोक्तानामिष्टकालांशानां च या अन्तरे
कलास्ता अष्टादशशतै १८०० र्गुण्या दृग्ग्रहाक्रान्तस्य राशेः
स्वदेशोदयासुभिर्भाज्याः । फलकलानां ग्रहार्कभुक्त्यन्तरेण
वक्रगे ग्रहे भुक्तियोगेन भागे गृहीते यल्लब्धं ते गता एष्या
वादिवसा भवन्त्युदये वास्तमये वा । तैर्दिवसैस्तात्कालिकौ
दृग्ग्रहार्कौ कृत्वैवमसकृत्कर्मणा सम्यक् तत्कालज्ञानं भवति ।
अत्रोपपत्तिः । इष्टकालांशसाधने लग्नवासनैव ।
प्रोक्तानां कालांशानामनन्तर्वर्ती ग्रहो दृश्यो भवति । अतो
यावदिष्टा न्यूनास्तावददृश्यः । उदये विलोक्यमाने
उदेष्यति । अस्ते बिलोक्यमानेऽस्तं गत इत्यर्थाज्ज्ञायते ।
इष्टा यद्यधिकास्तदा प्रोक्तेभ्यो विलोक्यमानेऽस्तंगते
बहिर्भूताद्ग्रहोऽदृश्य उदये विलोक्यमान उदितः अस्तं
यास्यतीत्यर्थाज्ज्ञायते । अथ तेषां प्रोक्तेष्टानां कालांशानां
च या अन्तरे कलास्तासां क्षेत्रलिप्तीनां करणायानुपातः ।
यावत्यः कालकलास्तावन्त एवासवो भवन्ति । अथ यदि
दृग्ग्रहोदयासुभिरष्टादशशतानि १८०० क्षेत्रलिप्ता लभ्यन्ते
तदा तदन्तरकलासुभिः किमिति । फलं क्षैत्रलिप्ताः । ता
ग्रहार्कभुक्त्यन्तरेण भाज्याः । भुक्त्यन्तरं हि क्षेत्रलिप्तान्त-
रात्मकमतः सजातीयकरणाय क्षेत्रलिप्तीकरणम् । भुक्त्यन्त-
रेणैको दिवसो लभ्यत इति युक्तमुक्तम् । वक्रे तु भुक्तियोग
एव भुक्त्यन्तरम् । दूरान्तरे स्थूलकालो भवतीत्यसकृत्कर्म
सूक्ष्मार्थम् । अत्र विशेषमाह” । प्रमि०
पृष्ठ १९९२


“प्राग्दृग्गर्हश्चेदधिको रवेः स्यादूनोऽथ वा पश्चिमदृग्-
ग्रहश्च । प्रोक्तेष्टकालांशयुतेः कलाभिः साध्यस्तदानीं
दिवसागतैष्याः । तथा यदीष्टकालांशाः प्रोक्तेभ्योऽभ्यधि-
कास्तदा । व्यत्ययश्चगतैष्यत्वे ज्ञेयोऽह्नां सुधिया खलु” सि० शि०
“यदि प्राग्दृग्ग्रहो रवेरधिको भवति । अथ वा पश्चि-
मदृग्ग्रहो न्यूनो भवति तदाये इष्टकालांशा आनीतास्तेषां
प्रोक्तानां च योगकलाभिर्दिवसाः साध्याः । नान्तरकलाभिः
तथा प्राग्दृग्ग्रहेऽर्कादधिके सति पश्चाद्दृग्ग्रहे वा न्यूने
य इष्टकालांशा आगतास्ते च यदि प्रोक्तेभ्योऽधिकान्तराः
तदा प्रोक्तेष्टकालांशयुतेः कलाभिर्ये दिवसाः साधिता-
स्तेषां दिवसानां गतैष्यत्वे विपर्ययोज्ञेयः ।
अत्रोपपत्तिः । यो ग्रहःप्राच्यामुदेति प्रतितिष्ठति वा
असौ रवेरूनः सन् प्रश्चिमायाम् अधिकः सन् प्राच्यां दिशि
प्रोक्तकालांशैरूनः सन् दृश्यतामेति । तावद्भिरेव पश्चिमा
यामधिकःसन् । अतो रवेः पृष्ठतः प्राच्यां प्रोक्तकालांशाः
प्रतीच्यामग्रतः । प्राच्यामूने ग्रहे य इष्टकालांशाः
साध्यन्ते ते रवेः पृष्ठतः । अतः पृष्ठगतैरेव प्रोक्तकालां-
शैस्तेषामन्तरं कर्तुं युज्यते । अथ प्राच्यां रवेरधिके
दृग्ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेरग्रतो भवन्ति ।
अतोऽग्रगतानां पृष्ठगतानाञ्च कालांशानां योगे कृते-
सत्यन्तरं कृतं भवति तथा उक्तेभ्य ऊनाभ्यधिका यदीष्टा
इति यद्गतगम्यलक्षणमुक्तं तत् सजातीयानामेव । यदा
पुनरेके पृष्ठगता एकेऽग्रगतास्तदा तद्गतगम्यलक्षणं व्यत्ययेन
भवति । अत उक्तं व्यत्ययश्च गतैष्यत्व इत्यादि । अत्र
सुधियेति विशेषणादुबुद्धिमतैददनुक्तमपि ज्ञायते” प्रमि० ।
व्यवहारे वादिप्रतिवादिनोः प्रतिज्ञातार्थसाघनाय राज्ञादेये
२५ अवसररूपे समयभेदे च तत्कालविशेषः स्मृतौ दर्शितो
यथा “प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च । अर्थी तु
प्रार्थयन् कालं तत्क्षणादेव हीयते” । प्रत्यर्थिनोऽपि क्वचि-
द्विषयेन कालो देयः क्वचिच्चार्थिप्रत्यर्थिनोरिच्छया कालो-
देयः यथाह याज्ञ० “साहसस्तेयपारुष्यगोऽभिशापात्यये
स्त्रियाम् । विवादयेत् सद्यएव कालोऽन्यत्रेच्छया स्मृतः” ।
समयरूपकालस्य वैशेषिकमते संयोगविभागपृथक्त्व-
संख्यापरिमाणरूपा पञ्च गुणाः । भीमो भीमसेनवत्
उत्तरपदलोपः । कालदण्डरूपे २६ योगे कालदण्ड-
शब्दे उदा० । वारविशेषे दिग्भेदेन ज्योतिषोक्ते
यात्रादौ निषिद्धे २७ योगभेदे । स च योगः मु०
चि० उक्तः । “कौवेरीतो वैपरीत्येन कालोऽर्काद्ये वारे
सम्मुखे तस्य पाशः । रात्रावेतौ वैपरीत्येन गम्यौ यात्रा
युद्धे संमुखौ वर्जनीयौ” । अयमर्यः । रवावुत्तरस्यां कालः,
सोमे वायव्यां, भौमे पश्चिमायाम्, बुधे नैरृत्याम्, गुरौ
दक्षिणस्याम्, शुक्रे आग्नेय्यां, शनौ पूर्व्वस्याम् । “रवावु-
त्तरतः कालः सोमे वायव्यभागके । भौमे तु पश्चिमे भागे
बुधे नैरृतभागके । जीवे च याम्यदिग्भागे शुक्रे चाग्नेय-
कोणके । शनौ तु पूर्व्वदिग्भागे कालचक्रं प्रकीर्त्तितम् ।
स्वरोदये “यत्रस्थस्तत्रकालः स्यात् पाशस्तस्य तु सम्मुखः ।
दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः । यात्रायां
समरे श्रेष्ठस्ततोऽन्यत्र न शोभवः । रात्रौ च वैपरीत्येन
यथा रवौ रात्रौ दक्षिणस्यां कालः उत्तरस्यां पाश इत्या-
दिक्रमेणेत्यूह्यम् । २८ कलाये (मटर) शिम्बीभेदे, वैज० ।
“विकसत्कलायकुसुमम्” माघव्या० कालकुसुममिति मल्लि०
ध्रुवनामकवसोः २९ पुत्रभेदे पु० । “ध्रुवस्य पुत्रो भगवान्
कालो लोकप्रकालनः” हरिवं० ३ अ० ।

कालक न० काल--स्वार्थे क कलयति रक्ततां कल--नोदने

ण्वुल् वा । १ कालशाके भावप्र० तस्य कृष्णवर्णत्वात्
तथात्वम् । २ यकृति हेमच० । निखिलदेहरक्तप्रेरकत्वात्
तस्य तथात्वम् । यथोक्तं भावप्र० । “यदा रसो यकृत्
याति तत्र रञ्जकपित्ततः । रागं पाकंच संप्राप्य स भवेद्र-
क्तसंज्ञकः” । “यकृत् प्लीहा च रक्तस्य मुख्यस्थानं तयोः
स्थितम् । अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत्” इति
च । देहस्थे कृष्णवर्णे (जडुल) ३ चिह्नभेदे जतुके पु० अमरः
४ अलगर्द्धे जलव्याले (कालढोड़ा) सर्पे पु० स्त्री शब्दर० ।
अनित्ये वर्णे तेन रक्ते चार्थे “कालाच्च” प० कन् । कालक
कालवर्णेन रक्ते ५ पटादौ त्रि० तस्य वर्णस्यानित्यत्वात्
रागेण रक्ततयाऽनित्यत्वाच्च तथात्वम् । स्त्रियां टाप् ।
“कालिका शाटी” सि० कौ० । वीजगणितोक्ते ६ अव्यक्त-
राशिसं ज्ञाभेदे पु० अव्यक्तशब्दे ४६७ पृ० विवृतिः ।

कालकचु स्त्री नि० वर्म्म० । कृष्णवर्णे कचुभेदे शब्दचि० ।

कालकञ्ज न० नि० कर्म० । १ नीलपद्मे । २ दानवभेदे पु० ।

“पौलोमैः कालकञ्जैश्च हृष्टपुष्टैरधिष्ठितम्” भा० व० १७३ अ०

कालकटङ्कट पु० कालरूपः कटङ्कटः । शिवे । “वैणवी पटवी

ताली खली कालकटङ्कटः” भा० आनु० १७ अ० शिवस्तवे ।

कालकण्टक पु० स्त्री कालः कृष्णः कण्टकोऽस्य । २ कृष्ण-

कण्टकयुक्ते त्रि० दात्यूहे (डाक) पक्षिभेदे अमरः स्त्रियां
जातित्वात् ङीष् । ३ पीतसारे वृक्षे मेदि० ।
पृष्ठ १९९३

कालकण्ठ पु० कालः कण्ठोऽस्य विषपानात् । १ शिवे स हि

अमृतमन्थनकाले उत्थितविषपानात् कालकण्ठो जातः
तत्कथा भाग० ८ । ७ अ० यथा । “ततः स कवलीकृत्य
व्यापि हालाहलं विषम् । अभक्षयन्महादेवः कृपया
भूतभावनः । तस्यापि दर्शयामास स्वाभाव्यं जलकल्मषः ।
यच्चकार गले नीलं तच्च साधोर्विभूषणम् ।” २ मयूरे ३ दात्यूहे
४ खञ्जने च पक्षिभेदे त्रिका० स्त्रियां जातित्वात् ङीष् ।
तेषां कृष्णवर्णत्वात् तथात्वम् । वा कप् । दात्यूहे पु० स्त्री

कालकन्दक पुंस्त्री कालः कन्द इव कायति कै--क ।

कालढोड़ा) जलसर्पे । स्त्रियां जातित्वात् ङीष् ।

कालकर्ण्णी स्त्री कालः कर्ण्णोऽस्याः ङीप् । अलक्ष्मीभेदे

“अलक्ष्मीः कालकर्ण्णी च” पुरा० । स्वार्थेक ह्रस्वः ।
कालकर्णिका तत्रार्थे हेम० । अलक्ष्मीशब्देऽनुक्तस्तदुत्पत्त्यादि-
रत्राभिधीयते पाद्मे उत्तरखण्डे देवीं प्रति शिववाक्यम् ।
“मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम् । तस्मिन्
प्रमथ्यमाने तु मया देवैश्च भाविनि! । ज्येष्ठा देवी समुत्-
पन्ना रक्तस्रग्वाससावृता । उत्पन्ना साऽब्रवीद्देवान्
किंकर्त्तव्यं? मयेति वै । तामब्रुवंस्तदा देवीं सर्व्वे देवगणा
स्तदा । येषां गृहान्तरे नित्यं कलहं संप्रवर्त्तते । तत्ते
स्थानं प्रयच्छामो वासस्तत्र शुभानने! । यस्य गेहं
कपालास्थिभस्मकेशादिचिह्नितम् । परुषं भाषते नित्यं
वसन्त्यनृतवादिनः । सन्ध्याकाले च ये पापाः स्वपन्ति
मलचेतसः । तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी ।
कपालकेशभस्मास्थितुषाङ्गाराणि यत्र तु । तत्र ते सततं
स्थानं भविष्यति न संशयः । अकृत्वा पादयोःशौचं यस्त्वा-
चामति दुर्म्मतिः । तं भजस्व सदा देवि! कलुषेणावृता
भृशम् । तृणाङ्गारकपालाश्मबालुकायसचर्म्मभिः । दन्तधावन
कर्त्तारो सविष्यन्ति नराधमाः । रमस्वकलिना देवि! तेषां
वेश्मसु नित्यशः । तिलपिष्टञ्च नक्तञ्च कालिङ्गशिग्रुगृञ्जनम् ।
छत्राकं विड्वराहञ्च विल्वकोषातकीफलम् । अलाबूं
(वर्त्तुलार) श्रीफलं येवै स्वादयन्ति नराधमाः । तेषां गृहे
तव स्थान देवि! दारिद्र्यदे! सदा । इत्यादिश्य सुराः
सर्वे ते ज्येष्ठां कलिवल्लभाम्” । तस्या उद्दालकमुनिना
सह विवाहादिकथा च पाद्मे १६१ अ० ।
“समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः । श्रेष्ठञ्च
कौस्तुभं तेषु विष्णवे प्रददुः सुराः । यावदङ्गीचकारासौ
लक्ष्मीं भार्य्यार्थमात्मनः । तावद्विज्ञापयामास लक्ष्मीस्तं
चक्रपाणिनम् । लक्ष्मीरुवाच । असंस्कृत्य कथं ज्येष्ठां
कनिष्ठा परिणीयते । तस्मान्ममाग्रजामेतामलक्ष्मीं मधु-
सूदन! । विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनः
तस्मात् धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन! । इति तद्द-
चनं श्रुत्वा स विष्णुर्लोकभावनः । उद्दालकाय मुनये सुदीर्ध
तपसे तदा । आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ।
स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम् । स्रव-
दारक्तनयनां रूक्षपक्वशिरोरुहाम् । स मुनिर्विष्णु-
वाक्यात्तामङ्गीकृत्य स्वमाश्रमम् । वेदध्वनिसमायुक्तमा-
नयामास धर्म्मवित् । होमधूपसुगन्धाद्यं वेदधोषेण
नादितम् । आश्रमं तं विलोक्याथ व्यथिता साऽब्रवोदिदम् ।
ज्यैष्ठोवाच । न हि वासोनुरूपोऽयं वेदध्वनियुतो मम ।
नात्रागमिष्ये भो ब्रह्मन्! नयस्वान्यत्र मां ध्रुवम् । उद्दा-
लक उवाच । कथं नायासि किञ्चात्र? वर्त्तते स्वमतं तव ।
तवयोग्या च वसतिः का भवेत्तद्वदस्व माम् । ज्येष्ठोवाच ।
वेदध्वनिर्भवेद् यस्मिन्नतिथीनाञ्च पूजनम् । यज्ञदाना-
दिकं यत्र नैव, तत्र वसाम्यहम् । परस्परानुरागेण दाम्पत्यं
यत्र विद्यते । पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम् ।
दानशौचे न विद्येते परद्रव्यापहारिणः । परदाररता
यत्र तत्र स्थाने रतिर्मम । वृद्धसज्जनविप्राणां यत्र
स्यादवमाननम् । निष्ठुरं भाषणं यत्र तत्र सम्य-
ग्वसाम्यहम् । सूत उवाच । इति तद्वचनं श्रुत्रा विषण्ण
वदनोऽभवत् । उद्दालकस्ततोवाक्यं तामलक्ष्मीमुवाच ह ।
उद्दालक उवाच । अश्वत्थवृक्षमूलेऽस्मिन् अलक्ष्मि! श्रम्य-
तां क्षणम् । आश्रमस्थानमालोक्य यावदायार्म्यहं पुनः ।
सूत उवाच । इति तां तत्र संस्थाप्य जागामोद्दालको
मुनिः । प्रतीक्षन्ती चिरं तत्र यदा न तं ददर्श सा ।
तदा रुरोद करुणं भर्त्तुस्त्यागेन दुःखिता । तत्तस्याः
क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् । तदा विज्ञापयामास
विष्णुमुद्विग्नमानसा । लक्ष्मीस्ववाच । स्वामिन्! मद्भ-
गिनी ज्येष्ठा स्वामित्यागेन दुःखिता । तामाश्वासयितुं
याहिकृपालो! यद्यहं प्रिया । सूत उवाच । लक्ष्म्या
सहततो विष्णुस्तत्रागात् कृपयान्वितः । आश्वासयन्न
लक्ष्मीं तामिदं वाक्यमथाब्रवीत् । विष्णुरुवाच । अश्वत्थ
वृक्षमासाद्य सदाऽलक्ष्मि! स्थिरा भव । ममांशसम्भवो
ह्येष आवासस्ते सया कृतः । मन्दवारे सदा नूनं लक्ष्मी
रत्रागमिष्यति । अस्पृश्योऽसौ भवेत्तस्मात् मन्दवारं विना
किल” ।
दीपान्वितामावस्यायां तत्पूजाविधानं मन्त्रलिङ्गात्
यथा “अलक्ष्मीस्त्वं कुरूपासि कुत्सितस्थानवासिनि! ।
पृष्ठ १९९४
सुखरात्रौ मया दत्तां गृह्ण पूजाञ्च शाश्वतीम् । दारिद्र्य
कलहप्रिये देवि! त्वं धननाशिनी । याहि शत्रोगृऽहं
नित्यं स्थिरा तत्र भविष्यसि । यदि त्वं मे महाभागे!
प्रीता भवसि सर्व्वदा । पुत्रबन्धुकलत्रेषु कदाचिन्ना
गमिष्यसि । गच्छत्वं मन्दिरं शत्रोर्गृहीत्वा चाशुभं मम ।
मदाश्रयं परित्यज्य स्थिता तत्र भविष्यसि” । किञ्च ।
“एवं गते निशीथे तु नारीभिः स्वगृहाङ्गनात् । अलक्ष्मीश्च
वहिष्कार्य्या अमन्त्रञ्च यथाविधि” इति कृत्यतत्त्वार्णवधृत
ब्रह्मपुराणम् । “एवं गते निशीथे तु जने निद्रार्द्धलोचने ।
तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः । निष्कास्यते प्रहृ-
ष्टाभिरलक्ष्मीः स्वगृहाङ्गनात्” इति मदनरत्नधृतञ्च ।
“ग्रहकुष्माण्डखेटाद्याः कालकर्णीशिशुग्रहाः” काशी०

कालकवृक्षीय पु० कालकोवृक्षो यत्र देशे तत्र भवः “वृद्धाच्छ

पा० छ । वायसविद्याभिज्ञे ऋषिभेदे । तत्कथा च भा० शा०
८२ अ० “कोशलानामाधिपत्यं सम्प्राप्तं क्षेमदर्शिनम् । मुनिः
कालकवृक्षीय आजगामेति नः श्रुतम् । सकाकं पञ्जरे बद्ध्वा
विषयं क्षेमदर्शिनः । सर्व्वं पर्य्यचरद्युक्तः प्रवृत्त्यर्थी
पुनपुनः । अधीध्वं वायसीं विद्या शंसन्ति मम वायसाः ।
अनागतमतीतञ्च यच्च सम्प्रति वर्त्तते” इत्युपक्रम्य दर्शिता ।
“क्षेमदर्शी नृपसुतौ यत्र क्षीणबलः पुरा । मुनिं कालक-
वृक्षीयमाजगामेति नः श्रुतम्” त्तत्रैव १०४ अ० । “मुनिः
कालकवृक्षीय आश्राव्योऽथ हिरण्मय” भा० स० ७ अ०

कालकस्तूरी स्त्री नि० स० । कस्तूरोभेदे शब्दचि० ।

कालका स्त्री कालेव क बा० नेत्त्वम् । दक्षकन्याभेदे जटा० ।

तस्या अपत्यं ढक् । कालकेय असुरभेदे कालकेयशब्दे
उदा० ।

कालकाल पु० कालमपि कालयति प्रेरयति स्वकर्म्मणि

कल--नोदने अण् । परमेश्वरे कालशब्दे दर्शितकाल-
माधवीयग्रन्थे उदा० ।

कालकीट पु० कालः कीटोऽत्र । १ देशभेदे तत्र भवः पलद्या०

अण् । कालकीट २ तद्देशभवे त्रि० ।

कालकीर्त्ति पू० चन्द्रहन्त्रसुरांशसम्भूते भारतप्रसिद्धे नृप

भेदे । “कालकोर्त्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
चन्द्रहन्तेति यस्त्वे ष कीर्त्तितः प्रवरोऽसुरः” भा० आ० १७ अ०

कालकील पु० कालं तज्ज्ञानं कोलयति कील--अण् उप०

स० । कोलाहले शब्दरत्ना० कोलाहलस्य कालरूपपर-
मेश्वरज्ञानविरोधित्वात्तथात्वम् ।

कालकुण्ठ पु० कालेन कुण्ठ्यते कुण्ठ--कर्म्मणि घञ् । यम-

राजे शब्दमा० । “भीषास्माद्वातः पवते--मृत्युर्धावति
पञ्चमः” इति श्रुत्युक्तेः ईश्वरभियैव यमादिभिः स्वस्वका-
र्य्याणां करणात्तस्य तत्कुण्ठितत्वात् तस्य तथात्वम् ।

कालकुष्ठ न० नि० कर्म० । कङ्कुष्ठे पर्व्वतीयमृत्तिकाभेदे राजनि०

कालकूट न० । कालं शिवमपि कूटयति कूट--उपतापे अण्

उप० स०, कालस्य मृत्योः कूटैव वा कालबर्ण्णस्य
कूटइव वा । १ विषभेदे पु० न० । विषभेदकालकूटलक्षण-
गुणाद्युक्तं भावप्रकाशे यथा “विषं तु गरलः क्ष्वेड-
स्तस्य भेदानुदाहरे । वत्सनाभः सहारिद्रः सक्तुकश्च
प्रदीपनः । सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च ।
हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव” इति विभज्य
“देवासुररणे देवैर्हतस्य पृथुमालिनः । दैत्यस्य रुधि-
राज्जातस्तरुरश्वत्थसन्निभः । निर्याअः कालकूटोऽस्य
मुनिभिः परिकीर्त्तितः । सहि क्षेत्रे शृङ्गवेरे कोङ्कणे-
मलये भवेत्” इति लक्षितम् ।
विषशोधनस्य विधानादिकं तत्रैवोक्तं
यथा“गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्यति । रक्त
सर्षपतैलाक्ते तथा धार्य्यञ्च वाससि । ये गुणा गरले
प्रोक्तास्ते स्युर्हीनविशोधनात् । तस्माद्विषंप्रयोगे तु
शोधयित्वा प्रयोजयेत्” । शोधितविषगुणाः तत्रैव ।
“विषं प्राणहरं प्रोक्त व्यवायि च विकाशि च ।
आग्नेयं वातकफहृत् योगवाहि तमोवहम् । व्यवायि
सकलकायगुणव्यापनपूर्व्वकपाकस्थानगमनशीलम् । विकाशि
अओजःशोषणपूर्व्वकसन्धिबन्धशिथिलीकरणशीलम् ।
आग्नेयम् अधिकाग्न्यंशम् । योगवाहि सङ्गिगुणग्राहकम् ।
तमोवहं तमोगुणप्राधान्येन बुद्धिविध्वंसकम् । “तदेव युक्ति-
युक्तन्तु प्राणदायि रसायनम् । योगवाहि परं वातश्ले-
ष्मजित्सन्निपातहृत्” । २ काके पु० स्त्री राज० ।
अतिकृष्णत्वात्मृत्योर्दूतरूपत्वाद्वा तस्य तथात्वम् स्त्रियां
जातित्वात् ङीष् ।
३ विषमात्रे च । “कालिमा कालकूटस्य नापैति हरसङ्ग-
मात्” । “ततोदुर्य्योधनः पापः तद्भक्ष्ये कालकूटकम् ।
क्षिप्रं प्रक्षेपयामास भीमसेनजिघांसया” भा० आ०
५००८ श्लोकः ।

कालकूटि त्रि० कालकूटे भवः इञ्! कालकूटभवे ।

कालकृत् पु० कालं कालमानं करोति स्वगत्या कृ--क्विप् ६ त० ।

सूर्य्ये तद्गत्या हि क्षणदण्डादिव्यवहारस्य कृतत्वात्तस्य
तथात्वम् २ परमेश्वरे च “कालात्मा कालकृद्विभुः” सू० सि०
पृष्ठ १९९५

कालकृत पु० कालः कृतोयेन । १ सूर्य्ये शब्दरत्ना० कालो-

ऽवधिरूपः कृतो यस्य । कृतावधिके २ आधिभेदे । “काले
कालकृवोनश्येत् फलभोग्योन नश्यति” याज्ञ० । ३ त० । ३ कालेन
कृते “सर्व्वं कालकृतं मन्ये कालो हि बलवत्तरः” पुरा० ।

कालकेय पु० कालकायाः अपत्यम् ढक् । दानवभेदे तत्कथा

यथा “पुरा कृतयुगे घोरा दानवा युद्धदुर्मदाः । कालकेया
इति ख्याता गणाः परमदारुणाः” इति भा० व० १०१ अ०
इत्युपक्रम्य प्रधानभूतस्य वृत्तस्य बधे तेषां समुद्रदुर्गाश्रयणं
रात्रौ च नानामुन्याश्रमहिंसा दिवा पुनः समुद्रप्रवेशो
वर्णितः पश्चात् विष्णोरादेशेनागस्त्यमुनिना तेषां समुद्ररूपस्य
दुर्गस्य शोषणे कृते देवैस्ते नाशितास्तदवशिष्टाश्च “कालेकेयाये
केचित् हिरण्यपुरवासिनस्ते अर्ज्जुनेन निहताः इत्युक्तम्
हरिवं० १०३ अ० यथा “चतुर्द्दश शतान्यन्यान् हिरण्यपुर-
वासिनः” इत्युपक्रम्य १०५ अ० तत्रैव “मरीचिर्जनयासास
महता तपसान्वितः । पौलोमान् कालकेयांश्च दानवास्ते
महाबलाः । अबध्यादेवतानाञ्च हिरण्यपुरवासिनः ।
कृताः पितामहेनाजौ निहताः सव्यसाचिना” । कालाया
अपत्यम् ढक् । कालेयोऽप्यत्र उदा० तत्रैव ।

कालकेशी स्त्री कालः केश इव पत्रादिर्यस्याः गौरा० ङीष् ।

नील्यामोषधौ शब्दचि० २ कृष्णकेशयुक्तस्त्रियाञ्च ।

कालक्षेप पु० कालस्यक्षेपः क्षेपणम् । १ कर्त्तव्यकर्म्मकाललङ्घने

२ कालयापने च ।

कालखञ्ज पु० दानवभेदे “संह्रादो विप्रचित्तिश्च कालखञ्जाश्च

दानवाः” भा० स० ९ अ० वरुणसभ्यकीर्त्तने ।

कालखञ्जन न० कालेन खञ्जति खजि--ल्यु । यकृति हृदयस्थे

रक्ताधारस्थाने हेमच० ।

कालखण्ड न० कालं कृष्णं खण्डम् । दक्षिणकुक्षिस्थे मांस-

खण्डे अमरः । हेमाद्रिधृते कालप्रतिपादके ग्रन्थभेदे च ।

कालगङ्गा स्त्री कालो गङ्गा नदी । यमुनायां शब्दचि० तस्या

नदीषु कृष्णत्वात्तथात्वम् ।

कालगन्ध पु० कालः कृष्णोगन्धो न्धवदुद्रव्यम् । १ काला-

गुरुणि शब्दचि० । कालस्य गन्धोलेशः । २ काललेशे
कालकलायां च । ३ कालचन्दने शब्दचि० ।

कालग्रन्थि पु० कालस्य ग्रन्थिरिव । संवत्सरे हारा० ।

कालघट पु० जनमेजयसर्पसत्रे आर्त्त्विज्यकारके ब्राह्मण-

विशेषे “आत्रेयः कुण्डजठरोद्विजः कालघटस्तथा” भा०
आ० ५३ अ० ।

कालङ्कृत पु० ईषदलङ्कृतः कोः का । (कालकासेँदा) वृक्षभेदे रत्नमा० ।

कालचक्र न० कालस्य कालगतेश्चक्रमिव । हेमच० उक्ते द्वादशारे

१ कालचक्रभेदे । (उत्सर्पिन्) शब्दे ११३ पृ० विवृतिः ।
कालश्चक्रमिवानिशं परिवर्त्तमानत्वात् । विष्णुपुराणाद्युक्ते
ज्योतिश्चक्राधिष्ठिते चक्रवत्परिवर्त्तमाने २ काले ।
“यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां
पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेपूपलभ्यमानत्वात्
एवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुञ्च
दक्षिणतः परिधावता सह परिधावमानानां तदाश्रयाणां
सूर्य्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे
चोपलभ्यमानत्वात्” । भाग० ५ २२ ९श्लो । भा० व०
१६३ अ० कलाकाष्ठादिविभागमुक्ता “एवमेष चरन् पार्थ!
कालचक्रमतन्त्रितः । वर्द्धयन् सुमहातेजाः सविता
परिवर्त्तते” प्रपञ्चस्तु विष्णुपुराणे यथा
“पराशर उवाच । व्याख्यातमेतद्ब्रह्माण्डसंस्थानं
तव सुव्रत! । ततः प्रमाणसंस्थाने सूर्य्यादीनां शृणुष्व
मे । योजनानां सहस्राणि द्वितीयोऽक्षो विवस्वतः ।
ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम! । सार्द्धकोटि-
स्तथा सप्तनियुतान्यधिकानि वै । योजनानान्तु तस्याक्ष-
स्तत्र चक्रं प्रतिष्ठितम् । त्रिनाभिमति सञ्चारे षण्णेमि-
न्यक्षयात्मके । संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम् ।
चत्वारिंशत् सहस्राणि द्वितीयोऽक्षो विवस्वतः । पञ्चा-
प्यन्यानि सार्द्धानि स्यन्दनस्य महामते! । अक्षप्रमाण-
मुभयोः प्रमाणं तदुयुगार्द्धयोः । ह्रस्वोऽक्षस्तत्युगार्द्धञ्च
ध्रुवाधाररथस्य वै । द्वितीयेऽक्षे तु तच्चक्रं स्थितं वै
मानसाचले । हयाश्च सप्त छन्दांसि तेषां नामानि मे शृणु ।
गायत्री च वृहत्युष्णिग्जगती त्रिष्टुबेव च । अनुष्टुप्
पङ्क्तिरित्येताश्छन्दांसि हरयो रवेः । मानसोत्तरशैले तु
पूर्व्वतो वासवी पुरी! दक्षिणेन यमस्यान्या प्रतीच्यां
वरुणस्य वै । उत्तरेण तु सोमस्य तासां नामानि मे
शृणु । वस्वेकसारा शक्रस्य, याम्या संयमनी स्मृता ।
पुरी सुखा जलेशस्य, सोमस्य तु विभावरी । काष्ठाङ्गतो
दक्षिणतः क्षिप्तेषुरिव भच्छति । नैत्रेय! भगवान्
भानुज्योर्तिषां चक्रसं युतः । अहोरात्रव्यवस्थानकारणं
भगवान् रविः । देवयानपरः पन्थायोगिनां क्लेशसंक्षये ।
दिवसस्य रविर्भध्ये सर्व्वकालं व्यवस्थितः । सर्व्व द्वीपेषु
मैत्रेय! निशार्द्धस्य च सम्मुखः । उदयास्तमनञ्चैव सर्व्व-
कालञ्च सम्मुखे । दिशासु शेषासु तथा मैत्रेय! विदि-
शासु च । यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ।
पृष्ठ १९९६
तिरोभावञ्च यत्रैति यत्र च स्तमनं रवेः । नैवाष्तमनम-
र्कस्य नोदयः सर्व्वदा मतः । उदयास्तमनाख्यं हि
दर्शनादर्शनं रवेः । शक्रादीनां पुरे तिष्ठन् स्पृशत्येष
पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रील्ल्ॐकान् द्वे पुरे तथा ।
उदितोवर्द्धमानाभिरामध्याह्नात्तपन्रविः । ततःपरं हृसन्ती-
भिर्गोभिरस्त नियच्छति । उदयास्तमनाभ्याञ्च स्मृतं पूर्व्वा-
परे दिशौ । यावत् पुरस्तात्तपति तावत् पृष्ठे च पार्श्वतः ।
ऋतेऽमरासुरैर्मेरोरुपरि ब्रह्मणः सभा । ये ये मरीच-
योऽर्कस्य प्रयान्ति ब्रह्मणः सभाम् । ते ते निरस्तास्त-
द्भासा प्रतीपम्युयान्ति वै । तस्यां दिश्युत्तरस्यां वै दिवा-
रात्रिः सदैव हि । सर्व्वेषां द्वीपर्षाणां मेरुरुत्तरतो
यतः । प्रभा विवस्वतो रात्रावस्तङ्गच्छति भास्करे ।
विशत्यग्निमतोरात्रौ वह्निरेकः प्रकाशते । वह्निपादस्तथा
भानुं दिनेष्वाविशति द्विज! । अतीव वह्निसंयोगादतः
सूर्य्यः प्रकाशते । तेजसी भास्कराग्नेये प्रकाशोष्ण
स्वरूपिणी । परस्परानुप्रवेशादापाय्येते दिवानिशम् ।
दक्षिणोत्तरभूम्यर्द्धे समुत्तिष्ठति भास्करे । आताम्राहि
भवन्त्यापोनक्तमह्नः प्रवेशनात् । दिनं विशति चैवाम्भो
भास्करेऽस्तमुपागते । तस्माच्छुक्लीभवन्त्यापो नक्तमह्नः
प्रवेशनात् । एवं पुष्करमध्येन यदा याति दिवाकरः ।
त्रिंशद्भागास्तु मेदिन्यास्तदा मौहूर्त्तिकी गतिः । कुलाल
चक्रपर्य्यस्तो भ्रमन्नेव दिवाकरः । करोत्यतस्तदा रात्रिं
बिमुञ्चन्मेदिनीं द्विज! । अयनस्योत्त्रस्यादौ मकरं याति
भास्करः । ततः कुम्भञ्च मीनञ्च राशे राश्यन्तरं द्विज! ।
तेषुतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् । प्रयाति सविता
कुर्व्वन्नहोरात्रं ततः समम् । ततोरात्रिक्षयं याति वर्द्धते
च दिनं दिनम् । ततश्च मिथुनस्यान्ते परं काष्ठामुपागतः ।
राशिं कर्क्कटकं प्राप्य कुरुते दक्षिणायनम् । कुलालचक्र-
पर्य्यस्तो यथा शीघ्रं प्रवर्त्तते । दक्षिणे प्रकेअमे सूर्य्यस्तथा
शीघ्रं प्रवर्त्तते । अतिवेगित या कालं वायुम र्गवशाच्चलन् ।
तस्मात् प्रकृष्टां भूमिञ्च कालेनान्येन गच्छति । सूर्य्योद्वाढ-
शभिःशैघ्य्रान्मुहूर्त्तैर्दक्षिणायने । त्रयोदशार्द्धमृक्षाणामह्ना-
चरति वै द्विज! । मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ।
कुलालचकमध्यस्थो यथा मन्दं प्रसर्पति । तथोदगयने
सूर्य्यः सर्पते मन्दविक्रमः । तस्म द्दीर्घेण कालेन सूमि-
मल्पन्तु गच्छति । अष्टादशमुहूर्त्तं यदुत्तरायणपश्चिमम् ।
अहर्भवति तच्चाभिचरते मन्दविक्रमः । त्रयोदशार्द्ध
मह्रा तु ऋक्षाणां चरते रविः । मुहूर्त्तैस्तावदृक्षाणि रात्रौ
द्वादशभिश्चरन् । अधोमन्दतरं नाभ्यां चक्रं भ्रमति वै यथा,
मृत्पिण्डवच्चक्रमध्ये ध्रुवो भवति वै तथा । कलालचक्रना-
भिस्तु यथा तत्रैव वर्त्तते । ध्रुवस्तथाहि मैत्रेय! तथैव
परिवर्त्तते । उभयोः काष्ठयोर्मध्ये भ्रमतोर्मण्डलानि तु ।
दिवा नक्तञ्च सूर्य्यस्य मन्दा शीघ्रा च वै गतिः । मन्दाह्नि
यस्मिन्नयते शीघ्रा नक्तं तदा गतिः । शीघ्रा निशि
यदा सा च तदा मन्दा दिवा गतिः । एवं प्रमाणेनैवैष
मार्गं याति दिवाकरः । अहोरात्रेण योभऽङ्क्ते समस्ता
राशयो द्विज । षड़ेवराशीन्यो भुङ्क्तेरात्रावच्यांश्च
षड्दिवा । राशिप्रमाणजनिता ह्रस्वदीर्घान्विता द्विज! । तथा
निशायां राशीनां प्रमाणैर्लघुदीर्घता । दिनादेर्दीर्घह्रस्व-
त्वं तद्भोगेनैअ जायते । उत्तमे प्रक्रमे शर्थ्रा निशि
मन्दा गतिर्दिवा । दक्षिणे त्वयने चैव विपरीता विवस्वतः ।”
नरपतिजयचर्य्योक्ते चतुरशीतिचक्रभध्ये ३ चक्रभेदे
तत्स्वरूपं चक्रशब्दे वक्ष्यते । दानार्थकल्पिते हेमा० दा० उक्ते
रजतमये ४ चक्रमेदे यथा
“चक्र रौप्यमयं कृत्वा मुक्तारश्मिमयात्मकम् । कृत्वा
मूर्द्ध्निशरच्चन्द्ररश्मिमध्यान्तरस्थितम् । त्वङ्मांसानि तु
रौप्याणि गात्रेषु च समन्ततः । एवं ध्यानवतस्तस्त
स चन्द्रः कृष्णतां व्रजेत् । ततोऽप्यनन्तरं पश्चात् स्थित्वा
विप्रप्रदक्षिणम् । तं गृहीत्वा व्रजेद्दूरमदृष्टत्वमपि व्रजेत् ।
स्वयञ्चामृतसंवाघतपूर्णकायस्थितिस्थितः । कालचक्रमिदं
नाम्रा दानं मृत्युविनाशनम् । इदन्ते राजतं चक्रं
रश्मिजालसमाकुलम् । अपनृत्युविनाशाय ददामीति
समुच्चरन् । सुवर्णं दक्षिणायुक्तं ब्राह्मणाय निवेदयेत् ।
एवं कृते विनश्येत अपमृत्युर्न संशयः । ततस्तस्मात्सदा
देयमपमृत्युभयान्वितैः । ज्वरादिरोगग्रस्तैर्वा महापत्-
पतितैरपि । ततो गृह्योक्तविधिना स्थापयेज्जातवेदसम् ।
जुहुयात् कालनाम्ना तु शतमष्टोत्तरन्तिलैः । ततस्तु
भोजयेद्भक्त्या विप्रान् द्वादशसंख्यया । स्वयमक्षारलवणं
भुञ्जीत सकृदेव हि । एवं कृते नरीनूनं चिरं जीवेन्न संशयः”
रव्यादिवारे नक्षत्रयोगभेदात् ५ दण्डभेदे कालदण्डशब्दे
विवृतिः ।

कालचिन्तक पु० कालं चिन्तयति विचारयति चिन्ति--ण्वुल् । ज्योतिर्विदि दैवज्ञे ।

कालचिह्न न० कालस्य मृत्योर्ज्ञापकं चिह्नम् । मृत्युज्ञापके

लक्षणभेदे । तल्लक्षणमुक्तं काशीख० ४१ अ० यथा
“वदामि कालचिह्नानि जायन्ते यानि देहिनाम् ।
मृत्यौ निकटमापन्ने मुने! तानि निशामय । दक्षनासा
पृष्ठ १९९७
पुटे यस्य वायुर्वाति दिबानिशम् । अखण्डमेकं तस्यायुः
क्षयत्यब्दत्रयेण हि । द्व्यहोरात्रं त्र्यहोरात्रं
रविर्वहति सन्ततम् । सार्द्धैकदर्षन्तस्येह जीवितावधिरुच्यते ।
वहेन्नासापुटयुगे दशाहानि निरन्तरम् । वातश्चेत् सहसं-
क्रान्तिस्तया जीवेद्दिनत्रयम् । नासाव्र्त्मद्वयं हित्वा
मातरिश्वा मुखाद्वहेत् । संशेद्दिनत्रयादर्व्वाक् प्रयाणं
तस्य चाध्व न । सूर्य्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशा-
चरे । पौष्णः स कालो द्रष्टव्यो यदा याम्ये रविर्वहेत् ।
अकस्मादेव तत्काले मृत्युः सन्निहितो मवेत् । वञ्चनो-
यः प्रयत्नेन स कालो मृत्युभीरुणा । अकस्माद्वीक्षते यस्तु
पुरुषं कृष्णपिङ्गलम् । तस्मिन्नेव क्षणे गुप्तं सजीवेद्व-
त्सरद्वयम् । यस्य वीजं मलं मूत्रं, क्षुतम् मूत्रं मलन्तथा ।
इहैकदा पतेद्यस्य अब्दन्तस्यायुरिष्यते । इन्द्रनीलनिभं
व्योम्नि नागवृन्दं यईक्षते । इतस्ततः प्रसृमरं षण्मासं
न स जीवति । व्यभ्रेऽह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवा-
करम् । फुत्कृत्याप्स्विन्द्रचापञ्च पश्येत् षण्मासजीवनः ।
अरुन्धर्ती धुवञ्चैव विष्णोस्त्रीणि पदानि च । आसन्न-
मृत्युर्नोपश्येच्चतुर्थं मातृमण्डलम् । अरुन्धती भवेज्जिह्वा
ब्रुवो नासाग्रमुच्यते । विष्णोः पदानि भ्रूमध्ये नेत्राग्नौ
मातृमण्डलम् । वेत्ति नीलादिवर्णस्य कट्वम्लादिरसस्य
हि । अकस्म दन्यथाभावं षण्मासेन स मृत्युभाक् । षण्मास
मृत्योर्सत्येस्य कण्ठोष्ठरसनारदा । शुष्यन्ति सततं तद्वद्वि
च्छायास्तालुपञ्चमाः । दन्तःकरजनेत्रान्ता नीलिमानं
भजन्ति चेत् । सहि कीनाशनगरीं षष्ठे मासि व्रजेन्नरः ।
संप्रवृत्ते निधुवने मध्यान्ते क्षौति चेन्नरः । निश्चितं पञ्चमे-
मासि धर्म्मराजातिथिर्भवेत् । द्रुतमारुह्य सरटस्त्रिवर्णो
यस्य मस्तकम् । प्रयाति, याति तस्यायुः षण्मासे सम्परि
क्षयम् । सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति ।
चरणौ च करौ वापि त्रिमासन्तस्य जीवितम् । प्रतिविम्बे
भवेद्यस्य पदङ्घण्डपदाकृति । पांशौ वा कर्दमे वापि पञ्च-
मासान् स जीवति । छाया प्रकम्पते यस्य देहबन्धेऽपि निश्चले ।
कृतान्तदूता बध्नन्ति चतुर्थे मासि तन्नरम् । निजस्य प्रति-
विम्बस्य नीराजमुकूटादिषु । उत्तमाङ्गन्नयः पश्येत् स मासे-
न विनश्यति । मतिभ्रार्म्येत्स्स्वलेद्वाणी धनुरैन्द्रं निशीक्षते ।
रात्रौ, चन्द्रद्वयं वापि दिवा द्वौ चा दिवाकरौ । दिवा च
तारकाचक्रं रात्रौ व्योम वितारकम् । युगपच्च चतुर्द्दिक्षु-
शाक्रं कोदण्डमण्डलम् । भूरुहे भूधराग्रे वा गन्धर्व्व-
नगरोदयम् । दिवा पिशाचनृत्यञ्च एते पञ्चत्वहेतवः ।
सर्वेष्वैतेषु चिह्नेषु यद्येकमपि वीक्षते । तदा मासावधिर्मृत्युः
प्रताक्षेत नचाधिकम् । करावरुद्धश्रवणः शृणोति न यदा
ध्वनिम् । स्थूलः कृशः कृशः स्थूलस्तदा मासान्निवर्त्तते ।
यः पश्ये दात्मनश्छायां दक्षिणाशासमाश्रिताम् । दिनानि
पञ्च जीवित्वा पञ्चत्वमुपयाति सः । प्रोह्यते भक्ष्यते वापि
पिशाचासुरवायसैः । भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखर
शूकरैः । सरभैः करभैः कीशैः श्येनैरश्वतरैवृर्कैः । स्वप्नोस
जोवितं त्यक्त्वा वर्षान्ते यममीक्षते । गन्धपुष्पांशुकैः शोणैः
स्वान्तनुं भूषितान्नरः । यः पश्येत् स्वप्रसमये सौऽष्टौ-
मासाननित्यहो । पाशुराशिञ्च वल्मीकं यूपं दण्डम-
थापि वा । योऽधिरोहति वैस्वप्ने षष्ठे मासि स नश्यति ।
रासभारूढ़मात्मानं तैलाभ्यक्तञ्च मुण्डितम् । नीयमानं
यमाशां यः स्वप्ने पश्येत् स्वपूर्व्वजान् । स्वपौलौ स्वतनौ
वापि यः पश्येत् स्वप्ततोनरः । तृणानि शृष्ककाष्ठानि
षष्ठे मासि न तिष्ठति । लोहदण्डधरं कृष्णं पुरुषं कृष्ण
वाससम् । स्वयं योऽग्रे स्थितं पश्येत् स त्रीन्मासान्न लङ्घ
येत् । काली कुमारी यं स्वप्ने बध्नीयाद्बाहुपाशकैः । स
मासेन समीक्षेत नगरीं शमनोषिताम् । नरो यो वानरा-
रूढ़ः प्रयान् प्राचीं दिशं स्वपन् । दिनैः स पञ्चमैरेव
पश्येत् संयमर्नी पुरीम् । कृपणोऽपि वदान्यः स्यात् वदान्यः
कृपणोयदि । प्रकृतिर्विकृतिश्चेत्सपात्तदा पञ्चत्वमृच्छति ।
एतानि कालचिह्नानि सन्त्यन्यानि बहून्यपि । ज्ञाताभ्य-
स्येन्नरोयोगमथवा काशिकां श्रयेत् । न कालवञ्चनोपायं
सुनेऽन्यमवयाम्यहम्” ।

कालजोषक त्रि० काले यथायोग्यकाले जुषते भोजनादि

जुष--ण्वुल् । यथायोग्यकालेऽल्पाहारादिना तुष्टे
गोपभेदे “वाहीका वाटधानाश्च आभीराः कालजोषकाः”
भा० भी० ९ अ० ।

कालज्ञ त्रि० कालं योग्यकालं ज्योतिषोक्तकालायववं वा

“जानाति--ज्ञा--क । उचितसमयाभिज्ञे “अत्यारूढी
हि नारीणामकालज्ञो मनोभवः” रघुः । “तेजः क्षमा वा
नैकान्तं कालज्ञस्य महीपतेः” माघः । श्कालकलाज्ञान-
युक्ते ज्योतिषिके च ।

कालज्ञान न० । कालो ज्ञायतेऽनेन ज्ञा--करणे ल्युट् ६ त० ।

१ सौरागमादि ज्योतिःशास्त्रे “विदितस्ते मया भावस्तोषित-
स्तपसा ह्यहम् । दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं
तथा” इत्युपक्रम्य सू० सि० मयनामासुराय स्वांशपुरुषद्वारा
कालज्ञानमुक्तम् । भावे ल्युट् २ योग्यसमयज्ञाने च ।
पृष्ठ १९९८
कालो मृत्युर्ज्ञायतेऽनेन करणे ल्युट् । ३ मृत्युज्ञापके चिह्न-
भेदे कालचिह्नशब्दे तच्चोक्तम् । “कालज्ञानं ततः प्रोक्तं
दिवोदासस्य वर्णनम्” काशीख० अनुक्रमणिकाध्याये ।

कालञ्जर पु० कालं जरयति जृ--णिच्--अच् बा० मुम् । पर्वत-

भेदे “सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ” भार०
पितृकल्पगाथा । तन्माहात्म्यं भा० व० ८५ अ० “तत्र
कालञ्जरो नाम पर्ब्बतो लोकविश्रुतः । तत्र देवह्रदे
स्नात्वा गोसहस्रफलं लभेत् । यः स्नातस्तापयेत्तत्र गिरौ
कालञ्जरे नृपः । स्वर्गलोके महीयेत नरोनास्त्यत्र संशयः ।
ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते!” । तेनास्यं
चित्रकूटपर्व्वतसान्निध्यं गम्यते । तत्र मासं कृतस्ताने
दशाश्वमेधफलं यथोक्तम् भा० अनु० ३५ अ० गङ्गा-
यमुनयोस्तीर्थे तथा कालञ्जरे गिरौ । दशाश्वमेधाना-
प्नोति तत्र मासं कृतोदकः” ।
अयञ्च भूमिमध्यस्थरेखातः प्राच्यां दिशि वर्त्तत यथा
भा० व० ८७ अ० । “पूर्व्वं प्राचीं दिश राजन्! राजर्षिगण-
सेविताम्” इत्युपक्रम्य पूर्व्वदिक्स्थतीर्थकथने “प्रयागमिति
विख्यातं तस्माद्भरतसत्तम! । अगस्त्यस्य तु राजेन्द्र!
तत्राश्रमवरो नृप । तत्तथा तापसारण्यं तापसैरुपशोभि-
तम् । हिरण्यविन्दुः कथितो गिरौ कालञ्जरे महान्” ।
इत्युक्तेः । तीर्थपरत्वे अस्य क्लीवत्वमपि । “कालञ्जरं
प्रभासञ्च तथा वदरिकाश्रमः” इति काशी० भौमतीर्थकथने
६ अ० तथाप्रयोगात् । २ योगिचक्रमेलके । ३ भैरधभेदेमेदि० ।
४ देशभेदे धर० । स च कालञ्जरगिरिरूपजनपदा-
वधिभूतः । ततो भवादौ रोपधत्वात् प्राग्वर्त्तित्वाच्च
वुञ् । कालरञ्जक तद्भवे त्रि० । कालं मृत्युं जरयति
जृ--बा० खच् । ५ कालस्य मृत्योर्जारके त्रि० । “इन्द्रि-
याणां हि सर्व्वेषां वश्यात्मा चलितस्मृतिः । आत्मनः
सम्प्रदानेन मर्त्त्योमृत्युमुवाश्नुते । आहत्य सर्वसङ्कल्पान्
सत्वे चित्तं निवेशयेत् । सत्वे चित्तं समावेश्य ततः
कालञ्जरो भवेत्” भा० शा० २४ अ० । कालं मृत्युं जरयति ।
मृत्युञ्जये ६ शिवे तस्य पत्नी ङीप् कालञ्जरी ७ चण्डिकायां
स्त्री धर० । स्वयं तज्जारकत्वे तु टाबेवेति भेदः ।

कालतम(र) त्रि० अतिशयेन कालः कृष्णः तमप् (तरप्) वा ।

अतिशयकृष्णे । स्त्रीत्वे तु अतिशयेन काली इतिविग्रहे
पुंवत् कालतमा(रा) इति भेदः ।

कालताल पु० कालता यै अलति पर्य्याप्नोति अल--अच् ४ त० । तमालवृक्षे राजनि० ।

कालतिन्दुक पु० नि० कर्म्म० । कुफीलौ राजनि० ।

कालतीर्थ न० कोशलास्थे तीर्थभेदे । “कोशलान्तु समासाद्य

कालतीर्थमुपस्प्रशेत् । वृषभैकादशफल लभते नात्र संशयः”
भा० व० ८५ अ० ।

कालदण्ड यु० कालप्रापकोदण्डः । ज्योतिषोक्ते वारादियोगभेदे

स च वारविशेषनक्षत्रभेदयोगरूपः यथोक्तं नारदेन
“आनन्दः कालदण्डोऽथ धूम्रो धाता शुभावहः ।
ध्वाङ्क्षो ध्वजाख्यं श्रीवत्सवज्रमुद्गरछत्रकाः । चित्र-
मानसपद्माख्यलुम्बकोत्पातमृत्यवः । कालः सिद्धिः शुभा-
भृतमुसलातङ्ककुञ्जराः राक्षसाख्यश्चरस्थैर्य्यवर्द्धमानाः
क्रमादमी । योगाः स्वसंज्ञाफलदास्त्वष्टाविंशतिसंख्य-
काः । रविवारे क्रमादेते दास्रभादिन्दुभाविधौ । सार्पा-
द्भौमे, वुधे हस्तान्मैत्रभाद्देवमन्त्रिणि । वैश्वदेवाद्भृगु-
सुते वारुणाद्भास्करात्मजे” । अयमर्थः आनन्दादयः
अष्टावंशतिर्योगा अतः साजित्कानामश्विन्यादीनाम-
ष्टाविंशतेरिह ग्रहणम् । तथा च रविवारे अश्विनी-
नक्षत्रात् यावत्संख्यकं नक्षतमिष्टदिने भवति आनन्दा-
दिषु मध्ये तावत्संख्यको योगो भवति एवं सोमवारे
मृगात् ५ यावत्संख्यकं नक्षत्रमिष्टदिने तावत्संख्यको योगः ।
तथा भौमे अश्ले षातः ९ इत्यादि । बुधे हस्तात् १३, गुरौ
अनुराधातः १७, शुक्रे उत्तराषाढ़ातः २१, शनौ शतभिषातः २४ ।
एषुवर्ज्यदण्डादिकनुक्तं मुहु०चि० “ध्वाङ्क्षे वज्रे मुद्गरे चेषु ५
नाड्यो वर्ज्यावेदाः ४ पद्मलम्बे गदेऽश्वाः ७ । १ धूम्रे २ काणे
मौसले ३ भूर्द्वयं द्वे रक्षोमृत्युत्पातकालाश्च सर्वें” । तस्या-
पवादोवसिष्ठेनोक्तः “सूर्य्याच्चतुर्थे दशमे च षष्ठे विश्वर्क्षगे
विंशतिगे च चन्द्रे । भवन्ति षड्भानुगतर्क्षयोगाः कुयोग-
विध्वंसकराः शुभेषु” ।

कालदन्तक पु० कालोदन्तोऽस्य कप् । वासुकिकुलजे सर्प-

सत्रनष्टे १ नागभेदे । “हिरण्यबाहुः शरनः तक्षकः
कालदन्तकः । एते वासुकिजा नागाः प्रविष्टा हव्यवाह-
नम्” भा० आ ४५७ अ० । २ कृष्णदन्तयुक्ते त्रि० ।

कालधर्म्म पु० ६ त० । १ मृत्यौः अमरः अप्राप्तवति तस्मिंस्तु

यौवनं पुरुषर्षभे । स राजा शान्तनुधीर्मन् कालधर्ममुपेयि-
वान्” भा० आ० १०२ अ० । कालस्य ऋतुविशेषस्य धर्म्मः
६ त० । २ समयस्य स्वभावे ऋत्वादिकालस्य३ धर्म्मे च ।

कालधर्म्मन् पु० कालस्येव हिंसाशालितया धर्म्मोऽस्य अनिच्

समा० । मृत्यौ । “स पाण्डुः कालधर्म्मणा” भा० आ०
१२४ अ० । एताश्चैता १ प्रजाः सर्व्वाः दक्षकन्यासु जज्ञिरे ।
कश्यपेनाव्ययेनेह, संयुक्ताः कालधर्म्मणा” हरि० ३१२ अ० ।
पृष्ठ १९९९

कालनर पु० अनुवंश्ये नृपभेदे । १ अनोः सभानरश्चक्षुः

परेक्षुश्च त्रयः सुताः” सभानरात् कालनरः सृञ्जयस्तत्सुतः
शुभः” भाग० ९, २३, २ श्लो० । कालः कालचक्रं राशि-
चक्रं नरैव । मेषादिद्वादशराशिरूपमस्तकाद्यङ्गयुक्ते
२ कालपुरुषे तच्छब्दे विवृतिः । “इति कालनरस्याङ्गे
सदसदुग्रहयोगतः” वृहज्जातकम् ।

कालनाथ पु० कालस्य कालभैरवस्य नाथः । महादेवे “काल-

नाथाय कल्पाय क्षयायोपक्षयाय च” भा० शा० २८६ अ०
दक्षप्रोक्तशिवसहस्रनामकीर्त्तने ।

कालनाभ पु० कालःकृष्णः नाभिरस्य संज्ञायाम् अच्समा० ।

हिरण्याक्षासुरपुत्रभेदे “हिरण्याक्षसुराःपञ्च विद्वांसः
सुमहाबलाः । झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च” हरि० ३ अ० ।
१ दानवभेदे “महानाभश्च विक्रान्तः कालनाभस्तथैव च”
हरि० ३ अ० । अयञ्च सैहिकेयः यथोक्तं तत्रैव
“सैंहिकेया इति ख्यातास्त्य्रयोदश महाबलाः । व्यंशः शल्यश्च
बलिनौ नभश्चैव महाबलः । पातापिर्नमुचिशैव इल्वलः
स्वसृमस्तथा । आञ्जिको नरकशैव कालनामस्तथैव च ।
राहुर्ज्येष्ठस्तु तेषां वै सूर्य्यचन्द्रप्रमर्द्दनः ।

कालनियोग पु० कालेन कृतो नियोगः कालस्य वा नियोगः

आज्ञा नि + युज--घञ् । १ दैवाज्ञायां २ कालकृतनियमेच

कालनिर्यास पु० नि० क० । गुग्गुलौ रत्नमा० तस्य निर्या-

सेषु कृष्णत्वात्तथात्वम् ।

कालनेमि पु० कालस्य मृत्योर्नेमिः स्तम्भ इव । दानवभेदे

तदुत्पत्त्यादिकथा हरि० ४७०
यथा“पूर्व्वदेवभयं श्रुत्वा मारुताऽग्निकृतं महत् ।
कालनेमिरिति ख्यातो दानवः प्रत्थदृश्यत । भास्काराकार-
मुकुटः शिञ्जिताङ्गदभूषणः । मन्दराचलसङ्काशो
महाराजतसंवृतः । शतप्रहरणोदग्रः शतबाहुः शताननः ।
शतशीर्षः स्थितः श्रोमान् शतशृङ्ग इवाचलः । कक्षे
महति संवृद्धो निदाव इव पावकः । धूम्रकेशो हरिच्
श्मश्रुर्द्दंष्ट्रालौष्ठपुटाननः । त्रैलोक्यान्तरविस्तारी
नामयन् वपुषा क्षितिम् । बहुनिस्तुलयन् व्योम क्षिपन्
पद्भ्यां महीघरान् । ईरयन् मुहनिःश्वासैर्वृष्टिभाजोबला-
हकान् । तिर्य्यगायतरक्ताक्षं मन्दरोदग्रवर्चसम् ।
दिधक्षन्तमिवायान्तं सर्व्वान् देवगणान्मृधे । तर्जयन्तं
सुरगणान् छादयन्तं दिशोदश । संवर्त्तकाले तृषितं
दृप्तं मृत्युमिवोत्थितम् । सुतलेनोच्छ्रायवता विपुलाङ्गुलि
पर्व्वणा । माल्याभरणपूर्ण्णेन किञ्चिच्चलितवर्ष्मणा ।
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता । दानवान्
देवनिहतानुत्तिष्ठध्वमिति ब्रुवन् । समरे कालनेमिं तं
द्विषतां कालनेमिनम् । वीक्षन्ते स्म सुराः सर्व्वे भयविक्लव
लोचनाः । तं वीक्षन्ति स्म भूतानि क्रमन्तं कालनेमिनम्
त्रिविक्रमं विक्रमन्तं नारायणमिवाप्रम् । सोच्छ्रयन्प्रथा
पादं मारुताघूर्णिताम्बरः । प्राक्रामदसुरोयुद्धे त्रासय
सर्व्वदेवताः । स मयेनासुरेन्द्रेण परिष्वक्तः क्रमन्रणे
कालनेमिर्बभौ दैत्यः सविष्णुरिव मन्दरः । अथ विव्य
थिरे देवाः सर्व्वे सेन्द्रपुरोगमाः । दृष्ट्वा कालमिवायान्त
कालनेमिं भयावहम् ।”
तत्स्तत्पराक्रममुक्त्वा ४९ अ० “तमप्रतिमकर्म्माणं
समानं सूर्य्यवर्चसा । चक्रमुद्यम्य समरे क्रीधदीप्तो
गदाधरः । स मुष्णन् दानवं तेजः समरे स्वेन तेजसा ।
विच्छेद बाहुं चक्रेण श्रीधरः कालनेमिनः । तच्च तक्त्र
शतं घोरं साग्निचूर्ण्णाट्टहासि वै । तस्य दैत्यस्य चक्रेण
प्रममाथ बलाद्धरिः” इत्यनेन हरिणा तस्य बधकथोक्ता ।
“कालनेमिबधात्प्रीतस्तुराषद्धिव शाङ्र्गिणम्” रघुः
कालनेनिबधे युद्धे युद्धे त्रिपुरधातने” दुर्गार्चापद्धतिः ।

कालनेमिन् पु० कालस्येव नेमिरस्त्यस्य ब्रीह्यादेराकृतिगण-

त्वात् इनि । कालनेमिदानबे तच्छबदे उदा० ।

कालनेमिहन् पु० कालनेमिं हतवान् हन--भूते

क्विप् ६ त० । विष्णौ त्रिका० तेन तस्य बधकथा
कालनेमिशब्दे उक्ता कालनेमिरिपुतच्छत्रुप्रभृतयोऽप्यत्र ।

कालपथ पु० विश्वामित्रपुत्रभेदे । “मधुच्छन्दश्च भगवान्

देवरातश्च वीर्य्यवान् । ऋजीकश्च शकुन्तश्च बभ्रुः कालपथ-
स्तथा” भा० आनु० ४ अ० विश्वाभित्रपुत्रकीर्त्तने ।

कालपर्ण्ण पु० कालं कृष्णं पर्णमस्य । तगरवृक्षे शब्दरत्ना० ।

कालपर्य्यय पु० कालस्य पर्य्ययः वैपरीत्येन गमनम् ६ त० ।

१ शुभदायककालस्य अशुभदायकत्वे अशुभतदायकस्य
२ शुभदायकत्वे च । “स (कर्ण्णः) हि तेषां महावीर्यो
द्वीपोऽभूत् सुमहाबलः । भिन्ननौका यथा राजन्! द्वीप-
मासाद्व्य निर्वृताः । भवन्ति पुरुषव्याघ्र! नाविकाः
कालपर्य्यये । तथा कर्ण्णं समासाद्य तारकं पुरुषर्षभम्” भा०
वि० ७७ अ० । ३ कालक्रमे च ।

कालपर्व्वत पु० नि० क० । त्रिकूटपर्वतनिकटस्थपर्व्वतभेदे

“स (रावणः) निश्चिम्य ततः कृत्यं स्मृसारम् (शूर्पनस्याम्)
उपसान्त्व्य च । ऊर्द्धमाचक्रमे राजन्! विधाय नगरे
पृष्ठ २०००
(लङ्कायाम्) विधिम् । त्रिकूटं समतिक्रम्य कालपर्वत
मेव च । ददर्श मकरावासं गम्भीरोदं महोदधिम्”
भा० व० २७६ अ० ।

कालपालक न० कालं कृष्णवर्ण्णं समयं वा पालयति

पालण्वुल् । १ कद्धुष्ठमृत्तिकायाम् राजनि० तस्याः कृष्णवर्णत्वात्
तथात्वम् । २ समयप्रतीक्षके त्रि० स्त्रियां टाप् अतैत्त्वम् ।

कालपीलु पु० नि० कर्म्म० । पीलुभेदे कुपीलौ भावप्र० ।

कालपुच्छ पुंस्त्री० कालः पुच्छोऽस्य । “गुणैरेणसमयः

कालपुच्छोमुनिभिरीरितः” कात्या० स्मृत्युक्ते मृगभेदे स्त्रियां
जातित्वात् ङीष् । स च कूलचरत्वेन सुश्रुते उक्तः
कूलचरशब्दे विवृतिः ।

कालपुरुष पु० कालः कालचक्रं पुरुष इव । मेषादिद्वादश

राशिस्वरूपे कालव्यवहारकारके पुरुषाकारे गगनस्थे
१ वायुचक्रभेदे । तस्य च जन्मादौ शुभाशुभज्ञानाय
यथाङ्गादिविभागः, तथा वृहज्जातके उक्तं यथा “शीर्षं
मुखबाहू हृदयोदराणि कटिअस्तिगुह्यसंज्ञकानि । जानु-
ऊर्ङ्घेच च ऊरू चरणाविति राशयोऽजाद्याः” तस्यार्थः ।
“मेषः शिरोवृषोवक्त्रं मियुनं बाहुयुग्यकम् । कर्कटो-
हृदयञ्चैब सिहस्तूदरमेव च । कन्या कटिस्तुला वस्ति-
र्वृश्चिको गुह्यमेव च । धनुरूरू मृगो जानु कुम्भोजङ्घे
प्रकीर्त्तिते । मीनः पादद्वयञ्चैवाङ्गानि कालनरस्य तु” ।
ततश्च यदङ्गराशिराशीशौ दीर्घौ तदङ्गं दीर्घं, तयोर्लघुत्वे
लघु, राशिराशीशयोर्भिन्नरूपत्वे मध्यमम् इति कल्प्यम् ।
लग्नद्रेक्काणभेदेनाङ्गविशेषः तत्द्द्येक्काणे सदसद्ग्रह-
योगेन फलविशेषश्च वृहज्जा० उक्तः यथा । “कं दृक्-
श्रोत्रनसाकपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठांसक-
वाहुपार्श्वहृदयक्रोडानि नाभिस्ततः । वस्तिः शिश्नगुदे
ततश्च वृषणावूरू ततो जानुनी--जङ्घ्रङ्घ्री ह्युभयत्र
वाममुदितैद्रेक्काणभागैस्तिधा” वचनस्यायमर्थः त्रिभि-
र्द्रेक्काणभागैस्त्रिधा देहविभाग इति शेषः । तत्र प्रथ-
मेन द्रेक्काणेन मूर्द्धाद्यङ्गं, द्वितीयेन कण्ठादि, तृतीयेन
वस्त्यादि । तत्राप्य्वदितैर्दृश्यभागस्थैर्वाममङ्गमनुदितैर-
दृश्यभागस्थैर्दक्षिणाङ्गमित्यर्थः । तथाच लग्नात् द्वाद-
शैकादशदशमनवमाष्टमसप्तमाः उदितभागस्था दृश्याः ।
अनुदितभागस्थोऽदृश्यः सच लग्नात् द्वितीयतृतीयचतुर्थ-
पञ्चमषष्ठसप्तमांशभेदभागस्थः । तथाचायमर्थः प्रथमेद्रेक्-
काण लग्नं शिरः, द्वितीये द्वादशे च क्रमेण दक्षवामे
दृशौ, तृतीयैकादशयोः दक्षवामश्रोत्रे, चतुर्थपञ्चमयोः,
दक्षवामे नासे, पञ्चमनवभयो, दक्षवामकपोलौ, षष्ठा-
ष्टमयोः दक्षवामे हनू, सप्तमं मुखम् । लग्नगे द्वितीये
द्रेक्काणे लग्नं कण्ठः, द्वितीयद्वादशयोः दक्षवाभस्कन्धौ,
तृतीयैकादशयोः दक्षवामौ बाहू, चतुर्थदशमयोः दक्षवामे
पार्श्वे पञ्चमनवमयोः दक्षवमौ हृद्भागौ, षष्ठाष्टमयोः
दक्षवामौ उदरभागौ, सप्तमं नाभिः । लग्नस्य तृतीये
द्रेक्काणे लग्नं वस्तिः (नाभिलिङ्गमध्यभागः) द्वितीय-
द्वादशयोः दक्षवामौ शिश्नगुह्यभागौ, तृतीयैकादशयोः
दक्षवामौ ऊरू । पञ्चमनवप्नयोः दक्षवामे जानुनी ।
षष्ठाष्ठमयोः दक्षवामे जङ्घे, सप्तमं पादाविति । इति
महीधरकृतव्याख्यानुसारि । तत्फलमाह तत्रैव “तस्मिन्
पापयुते व्रणं, शुभयुते सौम्यं, हि लक्ष्मादिशेत् ।
स्वर्क्षांशे स्थिर २, ५, ८, ११, संयुते च सहजः, स्यादन्य-
थाऽऽगन्तकः । मन्दे खानिलजोऽग्निशस्त्रविषजो भौमे,
बुधे (पापयुते) भूभवः, सूर्य्ये काष्ठचतुष्पदाच्च, हिमगौ
(हीनचन्द्रे) शृङ्ग्यब्जजोऽन्ये शुभाः” । कालपुरुषः
प्रतिपाद्यतयास्त्यस्य अच् । २ ज्योतिःशास्त्रे “किन्त्वस्य
कालपुरुषस्य महार्णवस्य गच्छेत् कदाचिदन्र्षिर्मनसाऽपि
पारम्” भट्टोत्पलः । कर्म्म० । ३ कृष्णवर्ण्णपुरुषे । कालः
पुरुष इव । दानार्थं कल्पिते पुरुषाकारे ३ कालरूपेश्वर-
मूर्त्तिभेदे पु० तत्प्रकारो हेमा० दा० ख० उक्तो-
भविष्यो० पु० यथा
“काम्योदानविधिः पार्थ! क्रियमाणो यथातथम् । फलाय
मुनिभिः प्रोक्तो विपरीतो भयाय च । ज्ञेयं निष्कशतं
पार्थ! दानेषु विधिरुत्तमः । मध्यमस्तु तदर्द्धेन तदर्द्धे-
नाधमः स्मृतः । मेष्याञ्च कालपुरुषे तथान्येषु महत्सु
च । एवं वृक्षे रथेऽण्डे च धेनोः कृष्णाजिनस्य च ।
अशक्तस्यापि क्लिष्टोऽयं पञ्चसौवर्णिकोविधिः । अतोऽप्यल्पेन
योदद्यात् महादानं नराधिप! । प्रतिगृह्णाति वा तस्य
दुःखशोकावहं भवेत् । पुण्यन्दिनमथासाद्य भूमिभागे
समे शुमे । चतुर्द्दश्यां चतुर्थ्यां वा विष्थां व पाण्डु-
नन्दन! । पुमान् कृष्णतिलैः कार्य्योरौप्यदन्तः सुवर्ण्णदृक्” ।
सुवर्ण्णादिपरीमाणमत्र यथाशक्ति सम्पादनीयम् ।
खड्गोद्यतकरोदीर्घोजवाकुसुमकुण्डलः । रक्ताम्बरधरः
स्रग्वी शङ्खमालाविभूषितः । तीक्ष्णासिपुत्रीबन्धेन विसृ-
ग्दारिकटीतटः । उपानदुयुअयुक्ताङ्घ्रिः कृष्णकम्बल-
पार्श्वगः । गृहीतमांसपिण्डश्च वामे करतले तथा ।
एवंविधं नरं कृत्वा गृहीतकुसुमाञ्जलिः । यजमानः
पृष्ठ २००१
प्रसन्नात्मा इमं मन्त्रमुदीरयेत । सम्पूज्य गन्धकुसुमैर्नै-
वेद्यं विनिवेद्य च । सर्व्वं कलयसे यस्मात् कालस्त्वं तेन
चोच्यसे । ब्रह्मविष्णुशिवादीनां त्वमाराध्योऽसि सुव्रत! ।
पूजितस्त्वं मया भक्त्या पार्थिवश्च तथासुखम् । यद्बु-
ध्यते तव विभो! तत्कुरुष्व नमोनमः । एवं संपूजयित्वा
तं ब्राह्मणाय निवेदयेत् । ब्राह्मणं प्रथमं पूज्य वासो-
भिर्भूषणैस्तथा । दक्षिणां शक्तितो दद्यात् प्रणिपत्य
विसर्ज्जयेत्” । दक्षिणां पूर्व्वोक्तां निष्कादिकाम् “अनेन
बिधिना यस्तु दानमेतत् प्रयच्छति । न च मृत्युभयं तस्य
न च व्याधिकृतं भवेत् । भवत्यव्याहतैश्वर्य्यः सर्वबाधा-
विवर्ज्जितः । देहान्ते सूर्य्यभवनं भित्त्वा याति परं
पदम् । पुण्यक्षयादिहागत्य राजा भवति धार्म्मिकः ।
सत्रयाजी श्रिया युक्तः पुत्रपौत्रसमन्वितः । संपूज्य
कालपुरुषं बिधिवद्द्विजाय दत्त्वा शुभाशुभफलोदयहेतु-
भूतम् । रोगातुरे सकलदोषमयेऽत्र देहे देही न
मोहमुपगच्छति तत्प्रभावात्” ।

कालपृष्ठ पु० कालं पृष्ठं यस्य । १ कर्णधनुषि २ धनुर्मात्रे

हेमच० ।

कालपेषी स्त्री पिष्यतेऽसौ पिष--कर्म्मणि घञ् कर्म्म० गौरा० ङीष् । श्यामालतायां रत्नमा० ।

कालप्रभात न० कालं कृष्णं प्रभातंयत्र । शरदृतौ त्रिका० ।

कालप्रवृत्ति स्त्री ६ त० । खण्डकालस्य व्यवहारारम्भे ।

तत्प्रवृत्तिकालश्च सि० शि० उक्तोयथा
“लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथमं बभूव ।
मधोः सितादेर्दिनमासवर्षयुगादिकानां युगपत् प्रवृत्तिः”
“कालस्य व्यक्तीनामपि दिनमासवर्षयुगादीनां युगपदेक-
हेलया प्रवृत्तिर्बभूव । एतदुक्तं भवति । चन्द्रार्कयो-
र्मेषादिस्थयोश्चैत्रस्य शुक्लपक्षादिः प्रतिपत् । अतो मधोः
सितादेर्दिनानां सौरादिमासानां वर्षाणां युगानां मन्व-
न्तराणां कल्पस्य च तदैव प्रवृत्तिः । अथोदयाच्च
भानोः । स चोदयः कस्मित् देशे । लङ्कानगर्याम् ।
तथा तस्यैव वारोचादित्यवार इत्यर्थः ।

कालभाण्डिका स्त्री कालभायै कृष्णप्रभायै अण्डति

अडिउद्यमे ण्वुल् । मञ्जिष्ठायां राजनि० तस्या रक्तनि-
र्यासवत्त्वेऽपि क्लाथनात् पूर्ब्बं कृष्णकाण्डत्वात्तथात्वम् ।

कालभैरव पु० भीरोर्भावः अण् भैरवं भीरुत्वं कालस्य

भैरवं भयं यस्मात् । काशीस्थे शिवांशजे भैरव भेदे
सच शिवतत्त्वज्ञानविघुरब्रह्मणःपञ्चमशिरश्छेदनाय
शियेन प्रादुर्भावितः । तत्कथादि काशीख० ३२ अ० । तद्वाक्यञ्च
कपालमोचनशब्दे १६५५ पृ० दर्शितम् । तन्नामनिरुक्तिस्तत्रैव
दर्शिता यथा “त्वत्तो भेष्यति कालोऽपि ततस्तु
कालभैरवः” । कालराजोऽप्यत्र तत्रैव तन्नामनिरुक्ति
र्दर्शिता यथा “कालवद्राजसे यस्मात् कालराजस्ततो
भवान् । तस्य च काश्यामाधिपत्यं तत्रैवोक्तं यथा
“आधिपत्यञ्च तस्यां ते कालराज! सदैव हि । तत्र ये
पापकर्त्तारस्तेषां शास्ता त्वमेवहि । शुभाशुभं न तत्कर्म्म
चित्रगुप्तो लिखिष्यति ॥ एतान् वरान् प्रगृह्याथ
तत्क्षणात् कालभैरवः । वामाङ्गुलिनखाग्रेण चकर्त्त च
शिरीविधेः”

कालमयूख पु० कालस्य प्रकाशकत्वेन मयूखैव । कालस्वरूप

कर्म्माङ्गभावादिज्ञापके स्मृतिनिबन्धभेदे ।

कालमसी स्त्री काली मसीव पुंवत् । नदोभेदे । “मही

कालमसी चैव तमसा पुष्पवाहिनी” हरि० २३६ अ० ।

कालमाधवीय पु० माधवस्य माधवाचार्य्यस्यायं छ काल

प्रतिपादकोमाधवीयः माधवकृतः ग्रन्थः । माधवाचार्य्य
प्रणीते कालभेदकर्म्माङ्गभावनिरूपके स्मृतिनिबन्धभेदे ।

कालमान पु० कालोमन्यतेऽसौ मन--कर्म्मणि घञ् सुप्० स० ।

कृष्णार्ज्जके (कालतुलसी) रत्नमाला । ६ त० । २ कालपरि-
माणे न० । मल--मावे घञ् कालेन कृष्णवर्ण्णेन मालः
सम्बन्धोऽस्य । कालमालोऽपि कृष्णार्जके पु० राजनि० ।

कालमुख पुंस्त्री० कालं मुखं यस्य । १ कृष्णमुखे

वानरभेदे स्त्रियां ङीष् । “यस्य शाखामृगा मित्रा-
ण्यृक्षाः कालमुखास्तथा” भा० व० २९१ अ० । “ये च
कालभुखानाम नरराक्षसयोनयः” भा० स०३० अ० ।

कालमुष्कक पु० कालोसुष्क इव कायति कै--क । घण्टा-

पारुलिवृक्षे रत्नमा० ।

कालमूल पु० कालं मूलमस्य । रक्तचित्रकवृक्षे राजनि० ।

कालमेषी स्त्री कालंवर्णं मिषति स्पर्द्ध्वते काण्डेन मिष--अण्

उ० स० । १ मञ्जिष्ठायाम्, २ सोमाराज्याम्, त्रिवृति
(तेओड़ि) च अमरः । स्वार्थे क । कालमेषिका तत्रार्थे
भरतस्तु तालव्यमध्यं पठित्वा तदर्थतामाह ।

कालयवन पु० कर्म्म० । यवनाधिपे नृपभेदे ।

“मिथ्याभिशस्तो गार्ग्यस्तु मन्युनाभिसमीरितः ।
गोपकन्यामुपादाय मैथुनायोपचक्रमे । गोपाली त्वप्सरा-
स्तस्य गोपस्त्रीवेशधारिणी । धारयामास गार्ग्यस्य
गर्भं दुर्द्धरमच्युत! । मानुष्यां गार्ग्यभार्य्यायां नियो-
गाच्छूलपाणिनः । स कालयवनोनाम जज्ञे राजा-
पृष्ठ २००२
महाबलः । वृषपूर्ब्बार्द्धकायास्तमवहन् वाजिनो रणे ।
अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः । यवनस्य
महाराज! स कालयवनोऽभवत् । स योद्धुकामो नृपतिः
पर्य्यपृच्छद्द्विजोत्तमम् । वृष्ण्यन्धककुलं तस्य नारदोऽ-
कथयद्विभुः । अक्षौहिण्या तु सैन्यस्य मथुरामभ्यया-
त्तदा । दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् ।
ततोवृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् । समेतामन्त्रया
मासुर्यवनस्य भयात्तदा । कृत्वा च निश्चयं सर्व्वे
पलायनमरोचयन् । विहाय मथुरां रम्यां मानयन्तः पिना-
किनम् । कुशस्थलीं हारवतीं निवेशयितुमीप्सवः” हरि०
३६ अ० । “अस्ति तस्य रणे जेता यवनाधिपतिर्नृपः ।
स कालयवनो नाम अबध्यः केशवस्थ ह । तत्वा
सुदारुणं घोरं तपः परमदुश्चरम् । रुद्रमाराधयामास द्वाद-
शाब्दान् यशोधनः । पुत्रकामेण मुनिनातोष्यरुद्रं सुतो
वृतः । माथुराणाममबध्योऽसौ भवेदिति च शङ्क-
रात् । एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम् । एवं
गार्ग्यस्य तनयः श्रीमान् रुद्रवरोद्भवः । माथुराणाम-
बध्योऽसौ मथुरायां विशेषतः । कृष्णोऽपि बलवानेष
माथुरो जातवानयम्” हरिवं १११ अ० । “वासुदेवस्तु
तं दृष्ट्वा निहतं योगमात्मनः । उत्सृज्य मथुरामाशु
द्वारकामभिजग्मिवान्! वैरस्यान्तं विधित्संस्तु वासुदेवो
महायशाः । निवेश्य द्वारकां राजन्! वृष्णीनाश्वास्य
चैव ह । पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा ।
आजगाम महायोगी मथुरां मधुसूदनः । तं दृष्ट्वा
निर्ययौ हृष्टः सकालयवनोरुषा । प्रेक्षापूर्ब्बञ्च कृष्णोऽपि
निश्चक्राम महाबलः । अथान्वगच्छद्गोविन्दं जिघृक्षु-
र्यवनेश्वरः । न चैनमशकद्राजा ग्रहीतुं योगधर्मिणम् ।
मान्दातुस्तु सुतो राजा मुचुकुन्दो महायशाः । पुरा
देवासुरे युद्वे कृतकर्मा महाबलः । वरेण च्छन्दितो
देवैर्निद्रामेव गृहीतवान् । श्रान्तस्य तस्य वागेवं तदा
प्रादुरभूत् किल । प्रसुप्तं बोधयेद्यो मां तं दहेयमहं
सुराः! । चक्षुषा क्रोधदीप्तेनेत्येवमाह पुनः पुनः ।
एवमस्त्विति तं शक्र उवाच त्रिदशैः सह । स सुरैरभ्य-
नुज्ञातत्वद्रिराजमुपागमत् । स पर्व्वतगुहां काञ्चित्
प्रविश्य श्रमकर्षितः । सुष्वाप कालमेतं वै यावत् कृष्णस्य
दर्शनम् । तत् सर्व्वं वासुदेवस्य नारदेन निवेदितम् ।
वरदानञ्च देवेभ्यस्तेजस्तस्य च भूपतेः । कृष्णोऽनुगम्यमानश्च
तेन म्लेच्छेन शत्रुणा । तां गुहां मुचुकुन्दस्य प्रविवेश
विनीतवत् । शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः ।
सन्दर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः । अनुप्रविश्य
यवनो ददर्श पृथिवीपतिम् । स तं सुप्तं कृतान्ता-
भमाससाद सुदुर्म्मतिः । वासुदेवन्तु तं मत्वा
घट्टयामास पार्थिवम् । पादेन पादमाक्रम्य पादस्प्रर्श-
प्रबोधितः । चुकोप निद्राच्छेदेन पादस्पर्शेन
तेन च । स संस्मृत्य वरं शक्रादवैक्षत तमग्रतः ।
स दृष्टमात्रः क्रुद्धेन स प्रजज्वाल सर्व्वतः । ददाह
पावकस्तन्तु शुष्कं वृक्षमिवाशनिः । क्षणेन काल
यवनं नेत्रतेजोविनिर्गतः” हरि० ११५ अ० । तद्बघकथा

कालयापन न० कालस्य यापनमतिवाहनम् । कालक्षेपणे

कालयुक्त पु० प्रभवादिषष्टिसंवत्सरान्तर्गते १ द्वापञ्चाशत्तमे

वत्सरभेदे प्रभबादिवर्षानयनं ज्यो० त० उक्तं यथा
“शकेन्द्रकालः पृथगाकृति २२ घ्नः शशाङ्कनन्दाश्वियुगैः
४२९१ समेवः । शराद्रिवस्विन्दु १८७५ हृतः स लब्धः
षष्ठ्यावशिष्टाः प्रभवादयोऽब्दाः । वर्षवर्ज्जन्तु यच्छेषं सूर्थ्यैः
१२ संपूर्य्य खोर्मिभिः ६० । हृतो व्युत्क्रमतः खाग्नि ३०
हृतेऽंशे मासकादयः” अस्यार्थः । शाकेन्द्रकालः
शकराजाव्दकालः पृथक् आकृतिघ्नः द्वाविंशत्या पूरितः
शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशतद्वयाधिकचतुःसहस्रैः
समेतोऽङ्कः शराद्रिवस्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादश-
शतैर्यावत्संख्यं हर्त्तुं शक्यते तावता हृतः कर्त्तव्यः स
लब्धः पूर्व्वशकाव्दः शरेत्यादिना लब्धसंख्यया युतःकार्य्यः
षष्ठ्याप्तावशेषे पूर्व्ववत् षष्ठ्याहृतलब्धस्यावशिष्टे प्रभवादयः
एकावशेषे प्रभवः द्व्याद्यवशिष्टे विभवादिः । वर्षवर्जन्तु
यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृतावशिष्टं तत् सूर्य्यैः
द्वादशभिः संपूर्य्य खोर्म्मिभिः षष्ठ्या हृते व्युत्क्रमत
इत्यनेन षष्टिहृतावशिष्टः अङ्कादण्डाः षष्टिहृत
लब्धांशके खाग्निहृते त्रिंशता हृतावशिष्टा अंशका-
लब्घा मासाः स्युरिति । प्रभवादिवर्षात्युपक्रम्य
“आद्या तु विंशतिर्व्राह्मी द्वितीया वैष्णवी स्मृता ।
तृतीया रुद्रदैवत्या इष्टा मध्याधमा भवेत्” इत्युक्त्वा
तत्फलमुक्तं भविष्प पु० यथा “गोमहिष्यो विनश्यन्ति ये
चान्ये नटनर्त्तकाः । बासवो वर्षते देवि! शस्यञ्च
न हि कायते । तिलसर्षपमाषादिकार्षासानां
महार्घता । गोमहिष्यः सुवर्णानि कस्यताम्राण्यशेषतः ।
तत् सर्व्वं देबि! विक्रीय कर्त्तव्योधान्यसञ्चयः । तेन
धान्येन लोकोऽयं निस्तरिष्यति दुर्दिनम् । पार्थिवा मोष-
का दीनाः कालयुके प्रपोड़िताः ५२ वर्षफलकथने ।
३ त० । २ कालेन कालधर्म्मेण मृत्युना युक्तेच त्रि०