वाचस्पत्यम्/कायव्यूह

विकिस्रोतः तः
Jump to navigation Jump to search


पृष्ठ १९३२

कायव्यूह काये वातादीनां धातूनां सप्तानां त्वगादीनाञ्च

व्यूहो व्यूहनम् । कायस्थवातादोनां विन्यासे “नाभिचक्रे
कायव्यूहज्ञानम्” पात० सू० “नाभिचक्रे संयमं कृत्वा
कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः सप्त
सन्ति धातवः--त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि पूर्ब्बं
पूर्ब्बमेषां बाह्यमित्येवंविन्यासज्ञानम्” भा० । ६ त० ।
योगिभिः कर्मभोगार्थं कल्पिते २ कायसमुदाये च यथा च
भोगार्थं कायव्यूहरचना तथा चिन्तामणौ मुक्तिवाटे उक्तं
यथा “यत्तु माऽभुक्तमिति स्मृतिविरोधेन क्षीयन्तैत्यादिश्रुते-
रन्यथार्थवर्णनं, तन्नस्मृतेः प्रत्यक्षवेदबाधितत्वेन तद्विरुद्धार्थ
कवेदाननुमापकत्वात् । वामदेवसौभरिप्रभृतीनां कायव्यूह-
श्रवणात्तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय
इति चेन्न तपःप्रभावादेव तत्त्वज्ञानानुत्पादे वा
कायव्यूहसम्भवात् । भोगजननार्थञ्च कर्मभिरवश्यं तत्तत्काय-
निष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः । यौगपद्यञ्च
कायानां तज्जनकधर्मस्वभावात् तपःप्रमावाद् वा” ।
एकस्यैव जौवस्य चित्तान्तराणिकायेन्द्रियाणि च निर्म्माय
तत्तत्कर्म्मभोगार्थरचितकायव्यूहेन योग इत्येतत् शा०
भा० समर्थितं यथा । “सङ्कल्पादेव तु तच्छ्रुतेः” शा०
सू० । “हार्दविद्यायां श्रूयते--“स यदि पितृलोक-
कामोभवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ती-
त्यादि” । तत्र संशयः--किं सङ्कल्प एव केवलः पित्रादि-
समुत्थानहेतुः उत निमित्तान्तरसहितः? इति । तत्र
सत्यपि सङ्कल्पादेवेति श्रवणे लोकवन्निमित्तान्तरापेक्षा
युक्ता यथा लोकेऽस्मदादीनां सङ्कल्पाद् गत्यादिभ्यश्च
हेतुभ्यः पित्रादिसम्पत्तिर्भवत्येवं मुक्तस्यापि स्यात् एवं
दृष्टविपरीतं न कल्पितं भविष्यति । सङ्कल्पादेवेति तु
राज्ञैव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं
सुलभामपेक्ष्योच्यते । न च सङ्कल्पमात्रसमुत्थानाः
पित्रादयोमनोरथविजृम्भितवच्चञ्चलत्वात् पुष्कलं भोगं
समर्पयितुं पर्य्याप्नुयुरित्येवं प्राप्ते ब्रूमः--सङ्कल्पा
देव तु केवलात् पित्रादिसमुत्थानमिति । कुतः? तच्छ्रुतेः
“सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादिका” हि श्रुति
र्निमित्तान्तरापेक्षायां पीद्ध्येत । निमित्तान्तरमपि यदि
सङ्कल्पानुविधाय्येव स्याद्भवतु न तु प्रयत्नान्तरसम्पाद्यं
निमित्तान्तरमिष्यते प्राक् तत्सम्पत्तेर्बन्ध्यसङ्कल्पत्वप्रस-
ङ्गात् । न च श्रुतिगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं
क्रमते । सङ्कल्पबलादेव चैषां यावत्प्रयोजनं स्थैर्य्यो-
पपत्तिः, प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य” भा० ।
“अतएव चानन्याधिपतिः” सू० “अतएव चाबन्ध्यसङ्कल्पत्वाद
नन्याधिपतिर्विद्वान् भवति नास्यान्योऽधिपतिर्भवतीत्यथः ।
न हि प्राकृतोऽपि सङ्कल्पयन्नन्यस्वामिकत्वमात्मनः सत्यां
गतौ सङ्कल्पयति । श्रुतिश्चैतद्दर्शयति “अथ य इहात्मान
मनुविद्य प्रव्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेष
कामचारोभवतीति” भा० । “अभावं वादरिराह ह्येवस्”
सू० “सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति” इत्यतः श्रुते-
र्मनस्तावत्सङ्कल्पसाधनं सिद्धं शरीरेन्द्रियाणि पुनः प्राप्तौ-
श्वर्य्यस्य विदुषः सन्ति न सन्तीति समीक्ष्यते तत्र वादरि-
स्तावदाचार्य्यः शरीरस्येन्द्रियाणाञ्चाभावं महीयमानस्य
विदुषो मन्यते । कस्मात्? एवं ह्याहाम्नायः “मनसैतान्-
कामान् पश्यन् रमते यत्र ते ब्रह्मलोकः” इति । यदि मनसा
शरीरेन्द्रियैश्च विहरेत् मनसेति विशेषणं न स्यात् ।
तस्मादभावः शरीरेन्द्रियाणां मोक्षे” भा० “भावं जैमिनि-
र्विकल्पामननात्” सू० “जैमिनिराचार्य्योमनोवच्छरीरस्यापि
सेन्द्रियस्य भावं मुक्तं प्रति मन्यते, यतः “स एकधाभवति त्रिधा
भवति” इत्यादिनाऽनेकधाभावकल्पमामनन्ति नह्यनेकविध-
ता विना शरीरभेदेनाञ्जसी स्यात् । यद्यपि निर्गुणायां
भूमविद्यायामयमनेकधाभावे विकल्पः पठ्यते, तथापि विद्य-
मानमेवेदं सगुणावस्थायामैश्वर्यं भूमविद्यास्तुतत्ये सङ्की-
र्त्यत इत्यतः सगुणविद्याफलभावेनोपतिष्ठत इत्युच्यते” भा०
“द्वादशाहबदुभयविधं वादरायणोऽतः” सू० “वादरायणः
पुनराचार्य्योऽतएवोभयलिङ्गश्रुतिदर्शनादुभयविधत्वं साधु
मन्यते, यदा सशरीरतां सङ्कल्पयति तदा सशरीरो भवति, यदा
त्वशरीरतां तदा अशरीर इति सत्यसङ्कल्पत्वात् सङ्कल्पवै-
चित्र्याच्च, द्वादशाहवत्--यथा द्वादशाहः सत्रमह्रीनश्च भवति
उभयलिङ्गश्रुतिदर्शनात् एवमिदमपीति” भा० “तदभावे
सन्ध्यवदुपपद्यते” सू० “यदा तु सेन्द्रियम्य शरीरस्याभावस्तदा
यथा सन्ध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वप्यपलब्धि-
मात्राएव पित्रादिकामाभवन्त्येवं मोक्षेऽपि स्युः एवं
तदुपपद्यते” भा० “भावे जाग्रद्वत्” सू० “भावे पुनस्तनोर्यथा
जागरिते विद्यमानाएव पित्रादिकामासवन्त्येवं मुक्तस्याप्यु-
पपद्यन्ते” भा० “प्रदीपवदावेशस्तथाहि दर्शयति” सू० “भावै
जैमिनिर्विकल्पामननादित्यत्र सशरीरत्वं मुक्तस्योक्तं तत्र
त्रिधा भावादिष्वनेकशरीरसर्गे किं निरात्मकानि शरीराणि
दारुयन्त्रवत् सृज्यन्ते? किं वा सात्मकानि? अस्मदादिश-
रीरवदिति भवति वीक्षा । तत्रात्ममनसोर्भेदानुपपत्तेरेकेन
पृष्ठ १९३३
शरीरेण योगादितराणि निरात्मकानीत्येवं प्राप्ते प्रतिपद्यते
प्रदीपवदावेश इति । यथा प्रदीपएकोऽनेकप्रदीपभावमा-
पद्यते विकारशक्तियोगात्, एवमेकोऽपि सन् विद्वानैश्वर्य्य-
योगादनेकभावमापद्य सर्व्वाणि शरीराण्याविशति । कुतः!
तथाहि दर्शयति शास्त्रमेकस्यानेकभावम् “स एकधा भवति
त्रिधा भवति पञ्चधा सप्तधेत्यादि” । नैतद्दारुयन्त्रोपमा-
भ्युपगमेऽवकल्पते नापि जीवान्तरावेशे । न च निरात्म-
कानां शरोराणां प्रवृत्तिः सम्भवति । यत्त्वात्ममनसो-
र्भेदानुपपत्तेरनेकशरीरयोगासम्भव इति नैष दोषः
एकमनोऽनुवृत्तीनि समनस्कान्येवापराणि शरीराणि सत्यसङ्क-
ल्पत्वात् स्रक्ष्यति । सृष्टेषु च तेषूपाधिभेदादात्मनोऽपि
भेदेनाधिष्ठातृत्वं याक्ष्यते । एषैव च योगशास्त्रेषु योगि-
नामनेकशरीरयोगप्रकिया” भा० ।
यथा च परशरोरे चित्तस्यावेशस्तथा पात० सू० भाष्ययोः
दर्शितं यथा
“बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरी-
रावेशः” पात० सू०
“लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः
प्रतिष्ठेत्यर्थः तस्य कर्मणोबन्धकारणस्य शैथिल्यं समाधि-
बलाद्भवति प्रचारसंवेदनञ्च चित्तस्य समाधिजमेव, कर्म-
बन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच्च यागी चित्तं
स्वशरीरान्निष्कृष्य शरीरान्तरेषु निःक्षिपति निःक्षिप्तं चित्त-
ञ्चेन्द्रियाण्यनुपतन्ति यथा मधुकरराजानं मक्षिका उत्प-
तन्तमनुत्पतन्ति, निविशमानमनुनिविशन्ते तथेन्द्रियाणि
परशरीरावेशे चित्तमनुविधीयन्त” इति व्यासभा० ।

कायसम्पद् स्त्री ६ त० । “रूपलावण्यबलवज्रसंहननत्वानि

कायसम्पदः” पात० सूत्रोक्ते रूपलावण्यादौ । “ततोऽ-
णिमादिप्रादुर्भावः कायसम्पद्धर्मानभिघातश्च” पात० सू० ।
व्याख्यातमिदमैश्वर्य्य शब्दे तच्च १५५१ पृ० दृश्यम् ।

कायस्थ पु० कायेषु सर्वभूतरूपदेहेषु तिष्ठति अन्तर्यामि

तया स्था--क ७ त० । १ परमात्मनि मेदि० । यथा च सर्व्व
शरीरेषु अधिष्ठातृतयास्य स्थितिस्तथा अन्तर्यामिब्राह्मणे
दर्शितं तच्च वाक्यं १३० पृ० दर्शितम् । २ जातिभेदे कर
णरूपे व्रात्यक्षत्रिये करणशब्दे तस्य विवृतिः ।
अथ कायस्थानां शूद्रत्वाशूद्रत्वविषये बहुधा विप्रतिप-
त्तिरस्ति अतस्तन्निरूपणाय प्रमाणान्युद्धृत्य मीमांस्यते ।
“एवं हत्वाऽर्ज्जुनं रामः सन्धाय निशितान् शरान् । एक
एव ययौ हन्तुं सर्व्वानेवातुरान् नृपान् । केचित्
गहनमाश्रित्य केचित् पातालमाविशन् । सगर्भा चन्द्र-
सेनस्य भार्य्या दाल्भ्याश्रमं ययौ । ततो रामः
समायातो दाल्भ्याश्रममनुत्तमम् । पूजितो मुनिना सद्यः
पाद्यार्ध्याचमनादिभिः । ददौ मध्याह्नसमये तस्मै
भोजनमादरात् । रामस्तु याचयामास हृदिस्थं स्वं
मनोरथम् । याचयामास रामाच्च कामं दाल्भ्यो
महामुनिः । ततस्तौ परमप्रीतौ भोजनं चक्रतुर्मुदा । भोजना-
नन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति । यत्त्वया प्रार्थितं
देव! तत् त्वं शंसितुमर्हसि । राम उवाच तवाश्रमे
महाभाग! सगर्भा स्त्री समागता । चन्द्रसेनस्य राजर्षेः क्षत्रि-
यस्य महात्मनः । तन्मे त्वं प्रार्थितं देहि हिसेयं तां
महामुने! । ततो दाल्भ्यः प्रत्यवाच, ददामि तव वाञ्छि-
तम् । दाल्भ्य उवाच । स्त्रियं गर्भममुं बालं तन्मे त्वं
दातुमर्हसि । ततो रामोऽब्रवीद्दाल्भ्यं यदर्थमहमागतः ।
क्षत्रियान्तकरश्चाहं तत् त्वं याचितवानसि । प्रार्थितश्च
त्वया विप्र! कायस्थो गर्भ उत्तमः । तस्मात् कायस्थ
इत्याख्या भविष्यति शिशोः शुभा । एवं रामो
महाबाहुर्हित्वा तं गर्भमुत्तमम् । निर्जगामाश्रमात् तस्मात्
क्षत्रियान्तकरः प्रभुः । कायस्थ एष उत्पन्नः क्षत्रायां
क्षत्रियात्ततः । रामाज्ञया स दाल्भ्येन क्षत्रधर्म्मात्
बहिष्कृतः । कायस्थधर्म्मोदत्तोऽस्मै चित्रगुप्तस्य यः स्मृतः ।
तद्गोत्रजाश्च कायस्था दाल्भ्यगोत्रास्ततोऽभवन् । दाल्भ्यो-
पदेशतस्ते वै धर्म्मिष्ठाः सत्यवादिनः । सदाचारपरानित्यं
रता हरिहरार्च्चने । देवविप्रपितॄणाञ्च अतिथोनाञ्च
पूजकाः” इति स्कान्दे रेणकामाहात्म्यम् । अत्र क्षात्र-
धर्म्मद्बहिष्कृतः इत्यनेन सगरेण काम्बोजादीनामिव
तस्य तद्वंशस्य च क्षत्रियधर्म्मयुद्धोपनयनादिराहित्य-
प्रतीतावपि चित्रगुप्तधर्म्मत्वदानकथनेनोपनयनादिमत्त्वं
वेदाधिकारित्वं च सूचितं तेन केबलयुद्धादिराहित्य-
मात्रं चित्रगुप्तधर्म्मत्वदानेन लेखनाधिकारः सूचितः ।
चित्रगुप्तधर्म्मश्च तदुत्पत्तिसहितः पद्मपुराणे सृष्टिखण्डे
उक्तोयथा--
“क्षणं ध्यानस्थितस्यास्य सर्व्वकायाद्विनिर्गतः । दिव्यरूपः
पुमान् विभ्रत् मसीपात्रञ्च लेखनीम् । चित्रगुप्त इति
ख्यातो धर्म्मराजसमीपतः । प्राणिनां सदसत्कर्म्मलेखाय
स निरूपितः ब्रह्मणा,ऽतीन्द्रियज्ञानी देवाग्न्योर्यज्ञभुक्
स वै । भोजनाच्च सदा तस्माद हुतिर्दीयते द्विजः ।
ब्रह्मकायोद्भवो यस्मात् कायस्थो वर्ण उच्यते । नाना-
पृष्ठ १९३४
गोत्राश्च तद्वंश्याः कायस्था भुवि सन्ति वै” । भविष्य
पुराणे च । दत्तात्रेय उवाच । त्रिकालज्ञं महाप्राज्ञं
पुलस्त्यमुनिपुङ्गवम् । उपसंगम्य पप्रच्छ भीष्मः शास्त्रभृतां
वरः । चतुर्णामपि वर्णानामाश्रमाणां तथैव च । सम्भवः
सङ्करादीनां श्रुतो विस्तरतो मया । कायस्थोत्पत्तयो लोके
ख्याताश्चैव महामुने! । भूय एव महाप्राज्ञ! श्रोतुमिच्छामि
तत्त्वतः । वैष्णवा दानशीलाश्च पितृयज्ञपरायणाः ।
सुधियः सर्वशास्त्रेषुकाव्यालङ्कारबोधकाः । पोष्टारो
निजवर्गाणां ब्राह्मणानां विशेषतः । तानहं श्रोतुमिच्छामि
कथयस्व महामुने एतन्म संशयं विप्र! वक्तुमर्हस्यशेषतः ।
इति पृष्टो मुनिप्राज्ञः गाङ्गेयं! प्राह तत्त्वतः । पुलस्त्य
उवाच । शृणु गाङ्गेय! वक्ष्यामि कायस्थोत्पत्तिकारणम् ।
न श्रुतं यत् त्वया पूर्व्वं तन्मे कथयतः शृणु । येनेदं
सकलं विश्वं स्थावरं जङ्गमं तथा । उत्पाद्य पाल्यते
भूयो निधनाय प्रकल्प्यते । अव्यक्तः पुरुषः शान्तो ब्रह्मा
लोकपितामहः । यथाऽसृजत् पुरा विश्वं कथयामि
तव प्रभो! । मुखतोऽस्य द्विजा जाता बाहुभ्यां क्षत्रि-
यास्तथा । ऊरुभ्याञ्च तथा वैश्याः पद्भ्यां शूद्राः
समुद्भवाः । द्विचतुःषट्पदादींश्च प्लवङ्गमसरीसृपान् ।
एककालेऽसृजत् सर्व्वं चन्द्रसूर्य्यग्रहांस्तथा । एवं
बहुविधानेन विश्वमुत्पाद्य भारत! । उवाच तं सुतं ज्येष्ठं
कश्यपं चातितेजसम् । प्रतियत्नेन भोः पुत्र! जगत्पालय
सुव्रत! । इत्याज्ञाप्य सुतं ज्येष्ठं ऋषिसम्भवहेतुकम् । ततस्तु
ब्रह्मणा तेन यत् कृतं तन्निबोध मे” “दश वर्षसहस्राणि
दश वर्षशतानि च । समाधिस्थोऽभवत् प्राणान् संयम्य
शान्तमानसः । ततः समाहितमतेयद्भूतं तद्वदामि ते ।
तच्छरीरान्महाबाहुः श्यामः कमललोचनः । कम्बुग्रीवो
गूढ़शिराः पूर्णचन्द्रनिभाननः । लेखनोच्छेदनीहस्तो
मसीभाजनसंयुतः । निःसृत्य दर्शने तस्थौ ब्रह्मणोऽव्यक्त
जन्मनः । उत्तमः सुविचित्राङ्गः ध्यानस्तिमितलोचनः ।
त्यक्त्वा समाधिं गाङ्गेय! तं ददर्श पितामहः ।
अधऊर्द्धं निरीक्ष्याथ पुरुषश्चाग्रतः स्थितः । नामधेयं हि
मे तात! वक्तुमर्हस्यतःपरम् । यथोचितञ्च यत् कार्य्यं तत्
त्वं मामनुशासय । पुलस्त्य उवाच । इत्याकर्ण्य ततो
ब्रह्मा पुरुषं स्वशरीरजम् । प्रहृष्य प्रत्युवाचेदमानन्दि
तमतिः पुनः । स्थिरचित्तं समाधाय ध्यानस्थमति-
सुन्दरः । मच्छरीरात् समुद्भूतस्तस्मात् कायस्थसंज्ञकः ।
चित्रगुप्तेति नाम्ना वै ख्यातो भुवि भविष्यसि । धर्म्मा-
धर्म्मविवेकार्थं धर्म्मराजपुरे सदा । स्थितिर्भवतु ते वत्स!
ममाज्ञां प्राप्य निश्चलाम् । क्षत्रवर्णोचितो धर्म्मः
पालनीयो यथाविधि । प्रजाः सृजस्व भो पुत्र! भुवि
भावसमन्विताः । तस्मै दत्त्वा वरं ब्रह्मा तत्रैवान्तरधीयत” ।
“पुलस्त्य उवाच । चित्रगुप्तान्वये जाताः शृणु तान्
कथयामि ते । श्रीमद्रा नागरा गौराः श्रीवत्साश्चैव
माथुराः । अहिफणाः सौरसेनाः शैवसेनास्तथैव च ।
वर्णा वर्णद्वयञ्चैव अम्बष्ठाद्याश्च सत्तम! । शृणु तेषाञ्च
कर्म्माणि कुरुवंशविवर्द्धन! । पुत्रान् वै स्थापयामास
चित्रगुप्तो महीतले । धर्म्माधर्म्मविवेकज्ञश्चित्रगुप्तो
महामतिः । भूस्थानं बोधयामास सर्व्वसाधनमुत्तमम् । पूजनं
देवतानाञ्च पितॄणां यज्ञसाधनम् । वर्णानां ब्राह्मणानाञ्च
सर्व्वदातिथिसेवनम् । प्रजाभ्यः करमादाय धर्म्माधर्म्म
विलोकनम् । कर्त्तव्यं हि प्रयत्नेन पुत्राः स्वर्गस्य काम्यया ।
या माया प्रकृतिः शक्तिश्चण्डी चण्डप्रमर्द्दिनी । तस्यास्तु
पूजनं कार्य्यं सिद्धिं प्राप्य दिवं गताः । स्वर्गाधिका-
रमासाद्य यतो यज्ञभुजः सदा । भवद्भिः सा सदा
पूज्या ध्यातव्या मफलादिभिः । भवन्तं सिद्धिदा नित्यं
पुत्रदा सा तु चण्डिका । तन्त्रोक्ता न सुरा पेया या न
पेया द्विजातिभिः । वैष्णवं धर्म्ममाश्रित्य मद्वाक्यं प्रति-
पालय । कर्त्तव्यं हि प्रयत्नेन लोलकद्वयहिताय वै ।
अनुशास्य सुतानेवं चित्रगुप्तो दिवं ययौ । धर्म्मराज-
स्याधिकारी चित्रगुप्तो बभूव ह । स्वयं भीष्म! समुत्-
पन्नाः कायस्था ये प्रकीर्त्तिताः । ये पृष्टास्ते मयाख्याताः
संवादं शृणु चापरम्” ।
पद्मपु० पातालखण्डे सूतं प्रति शौनकाद्युक्तिः ।
“श्रोतुमिच्छामहे त्वत्तः श्रेयसि प्रेमसद्धियः । पुराणसंहि-
तामेतां कायस्थस्थितिलक्षणाम् । को हेतुस्तस्य चोत्पत्तौ,
किंविधः, कर्म्म कीदृशम् । कि वर्णः क्वास्तिकस्मैचित् कार्य्य
वादाय को हि सः । किंकुलोनः किमाचारः किगोत्रः
कस्य चान्वयः । एतद्विस्तरतो ब्रूहि कायस्थकृतशासनम् ।
सूत उवाच । इदमद्भुतमाख्यानं कायस्थस्थितिलक्षणम् ।
कथयामि महाभागा भगवद्गुणकीर्त्तये । विचित्रो जगतां
हेतुर्भगवच्छश्वदाश्रयः । तस्योद्भवोऽपि वैचित्रो जगतः
कृतवान् विधिः । चित्रोविचित्र इति तत् विज्ञप्तौ तावुभावपि ।
धर्म्मराजस्य सचिवौ दत्तावस्य तु वेधसा । असतां दण्ड-
नेतारौ नृपनीतिविचक्षणौ । यथार्थवादिनौ स्यातां
शान्तिकर्म्मणि तावुभौ । कायस्थसंज्ञया ख्यातौ सर्व-
पृष्ठ १९३५
कायस्थपूर्वजौ । लेस्वनज्ञानविधिना मुख्यकार्यपरायणौ ।
अस्मिन् संसारपाथोधौ षड्विधाः कायवर्त्तिनः । तत्रस्थ
कायविज्ञानात् कायस्थत्वमिहैतयोः । धर्म्मराजस्य साचिव्यं
कुर्वतोः शान्तिकर्मणि । हरेरनुग्रहोऽप्यास्ते तयोश्चित्र
विचित्रयोः । एकविंशतिभेदेन याभ्यां कायस्थजातयः ।
इत्युदीर्य्य विधिस्तत्र वचश्चित्रविचित्रयोः । तूष्णीमास
ततस्ताभ्यां पृष्टं स्वात्मविचेष्टितम् । अस्माकं केच संस्कारा
किं वर्णजा? वयं विभो! । तत्सर्वं कथयस्वावां भवत्सेवा-
परायणौ । सूत उवाच । इति श्रुत्वा तयोर्वाक्यमनुमोद्य
पितामहः । भक्तस्योत्तरमुत्कृष्टमुवाच प्रहसन्निव । ब्रह्मो-
वाच । भवन्तावादिकल्पस्य प्रथमे युगनायके । परमायाञ्च
शुद्धायामभूतां द्विजवेश्मनि । दासतां दिष्टतः प्राप्तौ
परिदाक्षिण्यवर्त्तिनौ । स्वामिसेवापरायत्तौ मिथः स्नेहा-
नुवर्त्तिनौ । द्विजन्मकिङ्करौ--तेषां गृहकर्मणि सन्ततम् ।
चक्रतुः प्रभुभावेन तदुच्छिष्टभुजौ युवाम् । त्रैदिवं
सुखमासाद्य यावद्युगचतुष्टयम् । मर्त्यतामाप्य देवत्वं
ततएवं क्रमेण तु । तन्महाप्रलये जाते सर्वप्राणिहिते-
रतौ । दासीसुतौ भवन्तौ, वां भगवद्वपुषि स्थितिः ।
अधुना सृष्टिसमये मत्तोजन्मापि वामिदम् । धर्माधिकार
षपुषौ स्वामिबान्धवजीवनात् । यत्र वर्ण्णेभ्य उत्कृष्टो
ब्राह्मणः सर्वसम्मतः । तस्यानन्तरेजो यस्मात् क्षत्रियः
परिरक्षकः । विज्ञानजीवनोपायी व्यवहारनयान्वितः ।
वैश्यो वणस्तृतीयः स्याद् वर्णद्वितयसेवकः । मन्त्रवर्ज्जित-
संस्कारो नमस्कारक्रियापरः । चतुर्थः शूद्रवर्णः स्याद्
वर्ण्णत्रितयसेवकः । अनेकव्यवहारज्ञः क्षत्रियन्व
यजश्च सः । तेषामुत्तमतां यायात् कायस्थोऽक्षरजीवकः ।
भवन्तौ क्षत्रवर्णस्थौ द्विजन्मानौ महाशयौ । कृतोपवी-
तिनौ स्यातां वेदशास्त्राधिकारिणौ । पूर्व्वपुण्यबलोत्-
कर्षसाध्यसाधनभाविनौ । सर्वज्ञकल्पौ भूयातां भगवद्गत-
मानसौ । एवमाख्याय भगवान् सर्व्वामरगणान्वितः ।
अन्तर्दधे तयोरन्तः स्थितः प्रत्यक्षवृत्तितः” ।
“सूत उवाच । अस्मिन् जगति दुःखानि दुर्दान्ताएव
भुञ्जते । तस्माद्दुर्नयकर्त्तारो निरयेष्वधिवासिनः । दुर्नयं
सुनयं वापि सर्वेषां नयवर्त्तिनाम् । अन्यायिनामपि
तथा लिखतः कर्मसूत्रिणाम् । एतल्लिखनमध्यस्थं कर्म-
सूत्रं यथातथम् । न न्यूनमधिकं वापि देहारम्भस्य
कर्म यत् । जन्मानन्त्यभवं कर्म जीवानां भावितावुभौ ।
उपयोगं विनाप्येतौ लेखयामासतुः स्वतः । विलोक्य प्राणि-
नामायुः संपूर्णं कर्म वा यथा । समानपतितानेव
नापराबिति निर्णयः । धर्मराजानुवचनमेकवाक्यमिव
प्रियम् । सम्मानयित्वा सुतरां क्षेत्रभूताविव स्थितौ ।
षट्कायमतविज्ञानं जानीतः कर्मयोगि यत् । कायस्थ
संज्ञया चित्रविचित्रौ विष्णुवल्लभौ” । “सूत उवाच ।
एवमाभाष्य मनसा प्रमाणपदसिद्धये । वचसा छन्दयामास
मैत्रस्तौ प्रीतिहेतवे । अनेके भुवि सत्कीर्त्तिसम्भवाय
स्थितिं स्वकाम् । निरूपयन्ति नितरां मुनयो देवमानवाः ।
परिवारविभूत्यैव स्वसन्तानप्रसिद्धये । भवन्तावपि तस्मात्तु
कुरुतां सुतसंस्थितिम् । इत्युक्त्वा कल्पयामास कन्ये द्वे
परमोत्तमे । मरुत्प्रभोः समाधेश्च तनये क्षत्रजन्मनः ।
सम्पन्नकुलशीले ते कर्त्तव्ये गृहमेधसे । कलत्रे वंशवि-
स्तारहेतवे तु पृथक् पृथक् । एवमादिष्टधर्माणौ प्रणम्य
स्वामिनं प्रति । देवादेशप्रमाणं स्यात् इत्युक्त्वास्त्विति
चक्रतुः । विधिना परिनेतारौ समये भवनोचिते । ततएव
समाम्नायहेतवे कृतनिश्चयौ । समाधिमानसौ धर्म-
राजस्य वचनेरितौ । कालिकामादिजननीं प्रार्थयामासतु
स्ततः । चित्रोऽप्यथ बिचित्रोपि मिथो निश्चित्य साम्प्रतम् ।
विचित्र! जगतः कार्य्यं त्वया तत्तद्विधीयताम् । कार्य-
द्वयन्तु कर्त्तव्यमस्माभिः स्वामिवाक्यजम् । व्यापारोऽपि
प्रकर्त्तव्यः कालिकापि हि सेव्यते” इत्युपक्रमे पद्मवै० पु०
पातालखण्डे “सुभामा चित्रगुप्तस्य गृहस्वामित्वयोगिनी ।
भामिनी तु विचित्रस्य सुन्दरी सुन्दरस्थितिः । उभे
अपि समाम्नाते पातिव्रत्यशिरोमणी । देवदत्तां पुरं प्राप्य
सुखेनैवानुतिष्ठताम् । परेरिता प्रवृत्तैषा पुरी साऽऽयतनी
कृता । चित्रगुप्तेन भामायां त्रयौत्पादिताः सुताः ।
उदारशीलाचरिता धर्मराजस्य वल्लभाः । शरीरवेगाः
सुदृढाः पितृवत्कार्य्यहेतवः । विचित्रस्य सुताः पञ्च
समभूवन् भहाशयाः । कलीरः सुसमः सूक्ष्मः सङ्गवान्
कर्मकस्त्वमी । मामिनी कुक्षिजास्तावच्छार्दूलगुणशालिनः ।
तेषान्तु कल्पयामास कश्यपो जातकर्म वै । तदाचरति
तत्पूर्वं नाम गर्भादि वैदिकम् । तयोः कुलपतिस्तस्मात्
तावत् कश्यपसम्मतः । व्यातेने सकलाभीष्टमाशीःशत
समुच्चयैः । एतावेते च सर्वे स्युर्गोत्रिणः कश्यपाभिधाः” ।
एवं चित्रगुप्तवंश्यानां चन्द्रसेनवंश्यानाञ्च क्षत्रिय-
वदुपनयनवेदाधिकारे स्थिते कालवशात् तदन्वजयाताना-
मुपनयनादिलोपात् व्रात्यक्षत्नियत्वम् । व्रात्यानाञ्चाकृत-
प्रायश्चित्तानाम् उप्रनयनादिराहित्यात् शूद्रधर्मत्वम्
पृष्ठ १९३६
इदानीन्तनानाम् यद्यपि व्रात्यक्षत्रियाणां क्षत्रियतुल्या-
शौचभागित्वमुचितं तथापि मनुना “शनकैस्तु क्रिया-
लोपादिमाः स्युः क्षत्रियजातयः । वृषलत्वं गता लोके
ब्राह्मणादर्शनेन च” इति शूद्रत्वप्राप्तिं प्रति क्रियालोपंस्य
वेदानध्ययनस्य च हेतुताया उक्तेः इदानीन्तनानामुभया-
सद्भावेन वृषलधर्म्मत्वप्राप्त्या अकृतप्रायश्चित्तक्षत्रियाणा-
मुपनयादिराहित्येन शूद्रधर्म्मप्राप्त्या मासाशौचव्यवहारो
नानुपपन्नः । रघुनन्दनेन महानन्दिप्रभृतिक्षत्रियाणा-
मपि कलौ शूद्रत्वस्योक्तेः शूद्रतुल्यतया मासाशौचव्यव-
हारस्य युक्तत्वात् गतानुगतिकन्यायादेव तथा चार इत्यनु-
मीयते । ब्रात्यप्रायश्चित्तञ्च मिता० आपस्तम्बेनोक्तं यथा
“यस्य प्रपितामहादेर्नानुस्मर्य्यते उपयनं तस्य द्वादश
धर्षाणि त्रैविद्यकं ब्रह्मचर्य्यम्” । एतेषाञ्च बहुकालावधि-
व्रात्यत्वं, यतो मनुना “झल्लोमल्लश्च राजन्यात् ब्रात्यात्
निच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड़ एव च”
इति व्रात्यक्षत्रादेव तषामुत्पत्तेरुक्तेः बहुकालपति-
तसावित्रीकस्यापि प्रागुक्तापस्तम्बवचनेन प्रायश्चित्तस्य
विधानात् तथा प्रायश्चित्ताचरणे च उपनयनाद्यधिकारिता
भवितुमर्हत्येव किन्तु वर्णसङ्करजातिभेदरूपकरणस्य न
तथात्वं तन्निर्णयश्च वंशपरम्परास्मृत्यभावे दुर्घटएव
“शूद्रवद्वर्णसङ्करा” इति स्मृतेः तेषां शूद्रधर्मातिदेशात्,
तेषां मासाशौचाद्याचारदर्शनात् तदन्येषामपि ब्रात्य-
क्षत्रियरूपकरणानां तथैवाचार इति गम्यते ।
करणशब्दे उदा० । तज्जातिस्त्रियां संयोगोपधत्वात् टाप्
पुंयोगे तु ङीष् । कायस्तिष्ठत्यनया स्था--करणे घञ्चर्थे
क ६ त० टाप् । ३ हरीतक्यां मेदि० ४ धात्रीवृक्षे जटा०
५ काकोल्यां भरतः ६ एलाद्वये ७ तुलस्याञ्च राजनि० ।

कायस्थैर्य्य न० ६ त० । रसायनादिना देहपिण्डस्य स्थिर-

तायाम् कायस्य बहुकालस्थायितायाम् साधनञ्च सर्व्व०
सं० । “अपरे माहेश्वराः परमेश्वरतादात्म्यवादिनोऽपि
पिण्डस्थैर्य्ये सर्व्वाभिमता जीवन्मुक्तिः सेत्स्यतीत्यास्थाय
पिण्डस्थैर्य्योगावं पारदादिपदवेदनीयं रसमेव सङ्गिरन्ते”
इत्युपक्रम्प दर्शितं रसेश्वरशब्दे विस्तरेण वक्ष्यते ।

कायाकाशसम्बन्धसयम पु० पात० सूत्राद्युक्ते संयम-

भेदे । स च पात० सूत्रादौ फलसहितोदर्शितो यथा
“कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेराकाश-
गमनम्” पात० सू० ऐश्वर्य्यशब्दे १५४९ पृ० विवृतमिदम् ।

कायिक त्रि० कायेन निर्वृत्तं टक् । देहनिर्वृत्ते पुण्य-

पापादौ कर्म्मणि । “अदत्तानामुपादानं हिंसा चैवाऽ-
विधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम्”
ति० त० दशविधपापकीर्त्तने वाल्मी० । “मनसा तु कृतं
कर्म मनसैवोपभुञ्जते । वाचा वाचा कृतं कर्म कायेनैव तु
कायिकम्” सा० भा० धृता स्मृतिः ।

कायिका स्त्री कायेन तद्व्यापारेण निर्वृत्ता ठक् । १

बलीबर्द्धादिकायपरिश्रमसाध्ये वृद्धिभेदे । “दोहवाह्यकर्मयुता
कायिका समुदा हृता” व्यासः । सूलधनाविरोधेन
प्रत्यहमधमर्ण्णदेयपणपादादिरूपायां २ वृद्धौ च । “काया-
विरोधिनी शश्वत् पणपादाद्या तु कायिका” नारदः ।
ऋणादानशब्दे विवृतिः ।

कार पु० कृ--कृतौ घञ् । १ क्रियायाम् २ यत्ने “सकारनानार

कासा” इत्यादि माघः । “सकाराः सयत्नाः सोत्साहाः” मल्लि०
करणे घञ् । ३ बले । कस्य सुस्वस्यारः प्राप्तिर्यत्र । ४ रतौ
विश्वः कृ--हिंसायां भावे घञ् । ५ बधे धातूनामनेकार्थत्वात्
६ निश्चये । कर्मणि घञ् । ७ पूजोपहारे बलौ । कं
सुखमृच्छत्यनेन ऋ--करणे ६ त० । ८ पत्यौ कं सुखं
निर्वृतिमृच्छति कर्त्तरि अण् । १० यतिरूपे प्रव्रज्यान्विते
चतुर्थाश्रमे च शब्दरत्ना० कं जलं निष्यन्दज-
मृच्छति अण् । ११ हिमाथले मेदि० । करकायां भवम्
अण् पृषो० कलोपः । १२ करकाजे जले न० सुश्रुतः ।
“तत्र त्वन्तरीक्षं चतुर्विधं तद्यथा धारं कारं तौषारं
हैमञ्चेति” सुश्रुते कारमित्यत्र कारकमित्येव पाठः
समुचितः ककारलोपः लिपिकरप्रमादात् इति बोध्यम् ।
कर्मण्युपपदे कृ--अण् । स्वर्ण्णकार कुम्भकार इत्यादौ
तत्तत्कर्मकारके त्रि० । स्त्रियां टाप्, वोपदेवमते
कर्मणि षण् षित्त्वात् ईप् इति भेदः ।

कारक न० करोति कर्त्तृत्वादिव्यपदेशान् कृ--ण्वुल् । १ कर्त्तृ-

त्वादिसंज्ञाप्रयोजके कर्म्मणि--क्रियायाम् । “कारके”
पा० । कर्त्तृत्वादिव्यवदेशकारिण्यां क्रियायामित्यर्थः ।
करोति क्रियां निष्पादयति कृ--ण्वुल् । २ क्रियानिष्पा-
दकेषु कर्त्तृकर्मादिषु कारकसंज्ञान्वितेषु न० तेषाञ्च
क्रियायामेवान्वयः “सम्बोधनान्तं कृत्वोर्थाः कारकं प्रथमो-
वतिः । धातुसम्बन्धाधिकारविहितमसमस्तनञ् । तथा यस्य
च मावेन, षष्ठी चेत्युदितं द्वयम् । सम्बन्धश्चाष्टकस्यास्य
क्रिययैवावधार्य्यताम्” इति हर्युक्तेः । वैयाकरणभूषणकार-
मते कारकलक्षणादिकं शब्दार्थरत्नेऽस्मामिर्दर्शितं यथा
“तत्र कारकत्वं नाम क्रियाजनकशक्तिसत्त्वं करोति क्रियां
पृष्ठ १९३७
निवर्त्तयतीति महाभाष्येव्युत्पादनात् साधकं क्रियानिष्पादकं
कारकसंज्ञं भवतीति वार्त्तिकोक्तेश्च । द्रव्यस्य स्वतस्तधात्वाभा-
वेऽपि शक्त्याऽऽविष्टस्यैव तस्य तथात्वम् । ततश्चान्वयव्यतिरेकस
त्त्वात् शक्तिरेव कारकमिति मतान्तरं तदुक्तं हरिणा “स्वाश्रये
समवेतानां तद्वदेवाश्रयान्तरे । क्रियाणामभिनिष्पत्तौ सामर्थ्यं
साधनं विदुरिति” । शक्तिशक्तिमतोरभेदाच्च द्रव्यं कारकमि-
ति व्यवहारैत्यवधेयम्, एवञ्च क्रियाजनकत्वेन सर्व्वेषां
कर्त्तृत्वेऽपि स्वस्वावान्तरव्यापारविवक्षयैव करणत्वादिकं
यथोक्तं हरिणा” “निष्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणत्वादिसम्भवः” इति । तद्भेदश्च मञ्जू-
षायां दर्शितोयथा--“कर्त्तुः कारकान्तरप्रवर्त्तनव्यापारः,
करणस्य क्रियाजनकाव्यवहितव्यापारः, क्रियाफलेनोद्दे-
श्यत्वरूपव्यापारश्च कर्म्मणः, कर्त्तृकर्म्मव्यवहितक्रियाधारण-
व्यापारोऽधिकरणस्य, प्रेरणानुमत्यादिव्यापारः सम्प्रदानस्य,
अवधिभावोपगमव्यापारोऽपादानस्येति” तत्र करणा-
धारकर्म्मकर्त्तॄणांक्रियाजनकत्वंसुव्यक्तं तैर्व्विना क्रिया-
नुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजनकत्वाच्च
कर्म्मणस्तथात्वं घटं स्मरति कटं करोतीत्यादौ च बुद्धिस्थ-
घटादेरपि पूर्व्वकालत्वेन स्मरणादिहेतुत्वात्तथात्वम् अतएव
तेषु कर्त्तृत्वविवक्षया काष्ठं पचति, स्थाली पचति, ओदनः
पच्यते इत्यादि प्रयोगः । अपादानस्य अवधिभावोपगमेन
हेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थतया पूर्व्वकालत्वेन
हेतुत्वाच्च क्रियानिर्वाहकत्वेऽपि न कर्त्तृत्वविवक्षा अनभि-
धानात् तदुक्तं महाभाष्ये “पर्य्याप्तं करणाधिकरणकर्म्मणामेव
कर्त्तृत्वं निदर्शितमपादानादीनां कर्त्तृत्वानिदर्शनायेति” ।
तच्च कारकं षड्विधम् अपादनसम्प्रदानकरणाधिकरण-
कर्म्मकर्त्तृभेदात् । एतेषाञ्च एकस्या क्रियायामुभयप्राप्तौ
“विप्रतिषेधे परं कार्य्यम्” इत्युक्ते रुत्तरोत्तरप्राबल्यं तदुक्तं
हरिणा--“अपानानसम्प्रदानकरणाधारकर्म्मणाम् ।
कर्त्तुश्चोभयसम्प्राप्तौ परमेव प्रवर्त्तते” इति ।
गुणप्रधानक्रिययोरेकस्मिन् द्रव्ये उभयशक्तिप्रसङ्गे तु “प्रधा-
नेन व्यपदेशा भवन्तीति” न्यायात् कार्य्यस्य प्रधानानु-
णोधित्वात् प्रधानशक्तिबोधिकैव विभक्तिर्ज्जायते
गुणक्रियाशक्तिस्तु तात्पर्य्यवशादेव तत्र प्रतीयते तदुक्तं
हरिणा “प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर्गुणाश्रया तत्र प्र्धानमनुरुध्यति । प्रधानविषया
शक्तिः प्रत्ययेनाभिधीयते । यथा गुणेतथा तद्वदनुक्तापि
प्रतीयते” इति अतः स्थित्वाश्वेन गच्छतीत्येव प्रयोगः ।


न्यायमते घात्वर्थे प्रकारतया भासमाने ३ सुबर्थे तन्मते
हि सुबर्थस्यैव कारकत्वं मुख्यम् । तदर्थान्वयित्वाच्च पदार्थस्य
तत्त्वंगौणम् । तथाच विभक्त्यर्थद्वारा क्रियान्वयित्वं कारक-
त्वम् इति तेनापादानादेः क्रियानिष्पादकत्वाऽभावे-
ऽपि न क्षतिः स्वान्वयिविभक्त्यर्थद्वारा क्रियान्वयित्वात् ।
यथा च तस्यन्वयः तथा शब्द० प्रका० तथा दर्शितं यथा
“कारकार्थेतरार्थे च सुप् द्विधा च विभज्यते । धात्व-
र्थांशे प्रकारो यः सुबर्थः सोऽत्र कारकम् । वृत्त्या
कारकस्य बोधिका तदन्यस्य चेत्येबं द्विविधोऽपि सुपो विभाग-
स्तत्र यद्धातूपस्थाप्ययादृशार्थेऽन्वये प्रकारीभूय भासते यः
सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम् । वृक्षात्
पतति, व्याघ्राद्बिभेति इत्यादौ, ब्राह्मणाय ददाति, पुत्राय
क्रुध्यतीत्यादौ, दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ
स्थाल्यां पचति, शुक्तौ भासत इत्यादौ, ग्रामं गच्छति घटुं
पश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयत इत्यादौ च
पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थितो विभागादिः
प्रकारीभूय भासते इति तत्तद्धातूपस्थापिततत्तत्क्रियायां
विभागादिकं प्रकृते कारकमतो धात्वर्थे स्वार्थबोधकतया
तत्रत्यपञ्चम्यादिः कारकविभक्तिरुच्यते । यादृशेन नामार्थे-
नावच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थेऽन्वयः स एव तादृश
धात्वर्थेकारकतया व्यपदिश्यते, तेन वृक्षात् पततीत्यादौ-
वृक्षादेरपि पतनादिक्रियायामपादानादिकारकत्वव्यव-
हारः । स्तोकं पचतीत्यादौ क्रियाया प्रकारीभूतोऽपि
स्तोकादिर्न कारकं सुपानुपस्थापनात्, द्वितीया तु तत्र
क्लीवलिङ्गत्ववदानुशासनिक्येव स्तोकपाचकैत्यादिकस्तु
तत्पुरुषो गिरिकाण इत्यादिवद्विशेषविधेरेव । षष्ठ्यर्थस्तु
सम्बन्धो न धात्वर्थे प्रकारीभूय भासते, तण्डुलस्य
पचतीद्यप्रयोगात् इत्यतः सम्बन्धो न कारकं, न वा
तदर्थिकापि षष्ठ्यादिः कारकविभक्तिः । अतएव “क्रिया-
प्रकारीभूतोऽर्थः कारकं तच्च षड्विधम् । कर्तृकर्मादि-
भेदेन, शेषः सम्बन्ध इष्यत” इति शाब्दिकाः स्मरन्ति” ।
“कारकव्यपदिष्टे च श्रूयमाणक्रिये पुनः” “कारकं प्रथमो-
वतिः” इति च भर्त्तृहरिः । ४ कर्त्तृमात्रे त्रि० मेदि० ।
“दोषैरेतैः कुलघ्नानां वर्ण्णसङ्करकारकैः” गीता । जगतां
कारकः कृष्णः” वोपदेवः तुमर्थे ण्वुल् । ५ कर्त्तुमित्यर्थे ।
तद्योगे कर्म्मणि न षष्ठी अतोघटं कारको व्रजत्येव
प्रयोगः । “धातुसम्बन्धे प्रत्ययाः” पा० इत्यधिकारे तस्य
विधानेनतदर्थस्य क्रियायामेवान्वयः प्रागुक्तहरिवाक्यात् ।
पृष्ठ १९३८
करकायाइदं तत्र भवं वा अण् । ६ करकासम्बन्धिनि त्रि० ।
७ तन्निष्यन्दिजले न० राजनि० ८ अप्सु स्त्री ङीप् ।
तल्लक्षणगुणादि भावप्र० उक्तं यथा “दिव्यवाय्वग्नि-
संयोगात् संहताः खात् पतन्ति याः । पाषाणखण्ड-
वच्चापस्ताः कारक्योऽमृतोपमाः । करकाजं जलं
रूक्षं विशदं गुरु च स्थिरम् । दारुणं शीतलम् सान्द्रं
पित्तहृत् कफवातकृत्” ।

कारकदीपक न० दीपकभेदरूपार्थालङ्कारभेदे अलङ्कारशब्दे ३९९ पृ० विवृतिः

कारकविभक्तिः स्त्री कारकशक्तिबोधिका विभक्तिः । व्याकर-

णोक्ते कर्म्मादिबोधके विभक्तिभेदे कारकशब्दे विवृतिः ।
“उपपदविभक्तेः कारकविभक्तिर्गरीयसीति” व्या० प० ।

कारकर त्रि० कारं करोति कृ--ट । क्रियाकारके दासादौ ।

कारकुक्षीय पु० साल्वदेशे हेम० तत्र भवः अण् बहुषु तस्य

लुक् । तद्देशवासिजनेषु बहुव० ।

कारज त्रि० । कारात् क्रियातो जायते जन--ड । १ क्रियाजन्ये

करजे नखे भवं तस्येदं वा अण् । २ नखभवे ३ नखसम्ब-
न्धिनि च त्रि० ।

कारञ्ज त्रि० करञ्जस्य तत्फलस्थेदम् अण् । करञ्जवृक्षफलतैलादौ

तत्तैलगुणादि सुश्रुते उक्तं यथा । निम्बातसीत्युपक्रमे
“करञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतै-
लानि तीक्ष्णानि लघून्युष्णवीर्य्याणि कटूनि कटुविपाकानि
सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगहराणि चेति” ।

कारण न० कारयति क्रियानिवर्त्तनाय प्रवर्त्तयति कृ--णिच्-

ल्यु । १ क्रियानिष्पादके हेतौ २ उद्देश्ये ३ देहे ४ इन्द्रिये ।
कृ--बधे स्वार्थे णिच्--भावे ल्युट् । ५ बधे मेदि० । ६ कर
वाद्यभेदे । करणएव कारणः । ७ कायस्थे पु० ।
करणमेव स्वार्थे अण् । ८ साधने ९ कर्म्मणि । १० गीतभेदे
रत्नकोषः । न्यायमते कारणत्वलक्षणभेदादिकं भाषा०
मुक्ताबल्योर्दर्शितं यथा ।
“पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम्” भाषा० ।
पारिमाण्डल्येति पारिमाण्डल्यम् अणुपरिमाणं,
कारणत्वं तद्भिन्नानामित्यर्थः । अणुपरिमाणं तु न कस्यापि
कारणं तद्धि स्वाश्रयारब्धद्रव्यपरिमाणारम्मकं भवेत् तच्च न
सम्भवति परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजन-
कत्वात् महदारब्धस्य महत्तरत्ववत् अणुजन्यस्याणुतरत्वप्रस-
ङ्गात् एवं परममहत्परिमाणम् अतीन्द्रियसामान्यं विशे-
षश्चेति बोध्यम् । इदमपि योगिप्रत्यक्षे विषयस्य न
कारणत्वं, ज्ञायमानसामान्यं न प्रत्यासत्तिः, ज्ञाप्यमानं लिङ्गं
नानुमितिकारणम् इत्यभिप्रायेण । भानसप्रत्यक्षे आत्ममह-
त्त्वस्य कारणत्वात् महत्परिसाणं कालारेर्बोध्यं तस्यापि न
कारणत्वमित्याचार्य्याणामाशय इत्यन्ये तन्न ज्ञानातिरिक्तं
प्रति कारणताया एव आचार्य्यैरुक्तत्वात्” मुक्ता० ।
“अन्यथासिद्धिशून्यस्य नियता पूर्ब्बवर्त्तिता । कारणत्वं
भवेत् तस्य त्रैविध्यं परिकीर्त्तितम् । समवायिकारणत्वं
ज्ञेयमथाप्यसमवायिहेतुत्वम् । एवं न्यायनयज्ञैस्तृतीयमुक्त
निमित्तहेतुत्वम्” । यत्समवेतं कार्य्यं भवति ज्ञेयन्तु
समवायिजनकं तत् । तत्रासन्नं जनकं द्वितीयमाभ्यां परं
तृतीय स्यात्” भाषा० ।
ननु कारणत्वंकिम्? अत आह अन्यथेति । तस्य--कार-
णत्वस्य । तत्र--समवायिकारणे, आसन्नं कारणं द्वितीयमस-
सवायिकारणमित्यर्थः । अत्र यद्यपि तुरीतन्तुसंयोगानां
पटासमवायिकारणत्वं स्यात्, एवं वेगादीनामपि अभिघाता-
द्यसमवायिकारणत्वं स्यात् एवं ज्ञानादिकमिच्छाद्यसमवा-
यिकारणं स्यात्, तथापि पटासमवायिकारणलक्षणे तुरीतन्तु-
संयोगभिन्नत्वं देयं, तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्य-
समवायिकारणं भवत्येव, एवं वेगादिकं येगस्पन्दाद्यसमवा-
यिकारणं भवत्येवेति तत्तत्कार्य्यासमवायिकारणलक्षणे
तत्तद्विभिन्नत्वं न देयम् आत्मविशेषगुणानान्तु कुत्राप्यसमवा-
यिकारणत्वं नास्ति तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव ।
तत्र समवायिकारणे प्रत्यासन्नं द्विविधं कार्य्यैकार्थप्रत्यास-
त्त्या,कारणैकार्थप्रत्यासत्त्या च । आद्यं यथा घटादिकं प्रति
कपालसंयोगादिकं, तत्र कार्य्येण घटेन सह कारणस्य
कपालसंयोगस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति, द्वितीयं
यथा घटरूपं प्रति कपालरूपमसमवायिकारणं तत्र
घटरूपं प्रति कारणं घटः तेन सह कपालरूपस्य एकस्मिन्
कपाले प्रत्यासत्तिरस्ति, तथाच क्वचित् समवायसम्बन्धेन,
क्वचित् स्वसमवायिसमवायसम्बन्धेनेति फलितार्थः । इत्थञ्च
कार्य्यकारणैकार्थान्यतरप्रत्यासत्त्या कारणं ज्ञाना-
दिभिन्नमसमवायिकारणमिति सामान्यलक्षणं पर्य्यवसन्नम्
आभ्यां समवायिकारणासमवायिकारणाभ्यां भिन्नं कारणं
तृतीयं निमित्तकारणमित्यर्थः” मुक्ता० ।
कारणताग्राहकं प्रमाणं च सर्व्वदर्शनसंग्रहे दर्शितं यथा
“अन्वयव्यतिरेकावविनाभावनिश्चायकाविति ननु पक्षे
साध्यसाधनयोरव्यभिचारी दुरवधारणो भवेत् भूते,
भविष्यति, वर्त्तमाने--अनुपलभ्यसाने च व्यभिचारशङ्काया
अनिवारणात् । ननु तथाविधस्थले तावकेऽपि मते
पृष्ठ १९३९
व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोचः, विनापि
कारणं कार्य्यमुत्पद्यतामित्येवं विधायाः शङ्काया
व्याघातावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्क्येत
यस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुः तदुक्तम्
“व्याघातावधिराशङ्केति” तस्मात्तदुत्पत्तिनिश्चयेन
अविनाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्य्यहेत्वोः
प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः । कार्य्यस्योत्पत्तेः
प्रागनुपलम्भः १ कारणोपलम्भे २ सति उपलम्भः ३
उपलब्धस्य पश्चात् कारणानुपलम्भात् ४ अनुपलम्भः ५ इति पञ्च-
कारण्या धूमधूमध्वजयोः कार्य्यकारणभावो निश्चीयते” ।
कारणत्वञ्च नियतपूर्ब्बसत्त्वं तच्च कार्य्याव्यवहितप्राक्-
क्षणावच्छेदेन कार्य्यसमानाधिकरणात्थन्ताभावाप्रतियोगि-
त्वमिति नैयायिका मन्यन्ते । तच्च सत्त्वगर्भं न बेति
सन्देहे सत्त्वगर्भं श्रीहर्षखण्डने निराकृतं यथा
“ननु तदसत्ताविशेषात्तत्कार्य्यस्यान्यदाशि प्रसङ्गः,
नकार्य्यस्याद्यसत्ताक्षणैवान्यदापि सामग्रीसत्ताऽविशेषात्तवापि
किं नान्यदा कार्य्यजन्म? । अथ न मम तदानीन्तनं
सामग्रीसत्त्वं तदातनस्य कार्य्यजन्मनो नियामकं किन्तु ततः
प्राक् सामग्रीसत्त्वं, तथादर्शनात् । तर्हि ममापि कालान्त-
रस्थमपि तदसत्त्वं तदातनकार्य्य जन्मनोनियामकं,
तथादर्शनादेव । मम तदव्यवहितोत्तरत्वं तदा कार्य्यजन्म-
नियामकमिति चेत् न असमसमयत्वादागन्तुकत्वाच्चाविशेषेण
नियम्यनियामकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एव
सामग्य्रास्तदा कार्य्यनियमोऽभ्युपेयः तथादर्शनादि
त्येव मन्तव्यम् । तथा च समः समाधिः । तथापि कार्य-
जन्मकालस्य कोविशेषः । अन्यथा यद्विशेषान्तरं तदपि
विशेशान्तरवतः कालस्य स्यादिति अपर्य्यवसानमेव पर्य्य-
वस्येत्, तत्काल इत्याकलय । तथापि तत्कालस्यानुगतं किं
रूपम्? इति चेन्न रूपान्तरवतोऽपि किं रूपम्? इत्यपि
पर्य्यनुयोगस्यानुवृत्तेः । किञ्च “अन्तर्भावितसत्त्वञ्चेत्कारणं
तदसत्ततः । नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः” ।
तथाह्यन्तर्भूतसत्त्वं यदि कारणत्वं तदा स्वविशिष्टे स्ववृत्ति-
रसतः स्वाश्रयत्वमापादयति । विशिष्टस्यार्थान्तरत्वेऽपि च
स्वस्मिन् स्ववृत्तिव्यतिरेकवत् स्वविशिष्टे स्ववृत्तिव्यतिरेक
नियमद्र्शनात् न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्था-
विशिष्टवृत्त्यभ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुः
सर्व्वथैव कारणमसत्पर्य्यवस्यति । अपरापरसत्तानिवे-
शने चापर्य्यावसानमेव । न च सत्ताभेदानन्त्यमस्त्येवेत्यपि
पादप्रसारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानु-
गमननिबन्धनलङ्घिनः प्रथमापि सत्ता न स्यादिति सत्त्व-
वृद्धिमिष्टवतो सूलमपि ते नष्टमिति कष्टतरम् । न च
स्वरूपसत्तोपगमाय स्वस्ति, भिन्नामप्यनुगतबुद्ध्याद्याधान-
पदेऽभिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत ।
मा भूदनुगतिः स्वरूपसत्त्वस्येति च वदन् तद्गर्भिणीं
कारणतां कथमनुगमयितासि? । किञ्च स्वरूपसत्त्वं स्वरू-
पात् घटाद्यात्मनो नाधिकमसतोऽपि स्वरूपं स्वरूपमेव
न ह्यसन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि न
स्यात् असतोऽघटादित्वात् । अथ सदपि सत्तामनन्त-
र्भाव्य कारणं, तदानीमसदपि तत्तथास्तु सत्तासत्तयोः
कारणकोट्यप्रवेशाविशेषात् । अथ न सत्ताकारण-
कोटिनिविष्टा किन्तु कारणत्वं सत्त्वं नियतपूर्ब्बसत्तां हि
कारणताम्मन्येइति मन्यसे तर्हि मत्पक्षे सैव कारणताऽस्तु
तर्हि कारणसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमिति
चेन्न भावानवबोधात् सत्तामसतीमभ्युपगच्छताऽपि सत्ता किं
मयाभ्युपगतैव? अन्यथा कासावसतीति त्वमपि किं सत्ता-
न्तत्सत्तामन्तर्भाव्य कारणत्वमिच्छसि? नत्वेवं, पूर्ववत् क्वापि
सत्तात्यागो वा अनवस्थायां पर्य्यवसानं स्यात् असत्ताऽवि-
शेषात् । असत्त्वाविशेसे कारणनियमः कथं स्यात् इति चेन्न
सत्ताविशेषेऽपि तुल्यत्वात् । सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्य
तज्जातीयस्य वा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं,
सोऽप्यनियतो यदा कारणाभावस्तदा कार्य्याभावावश्यम्भावा-
भ्युपगमात् नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्य्यो-
त्पादात् अन्वयस्तु न कदाचिदपीति चेन्न तुल्यत्वात् ।
अन्वयोनास्तीत्यभ्युपगच्छतापि अन्वयोपगमात् । अन्वय-
स्यापि सत्तान्तर्भावे कथितदोषापत्तेः, एतेन “आशा-
मोदकतृप्ता ये ये चोपार्ज्जितमोदकाः । रसवीर्य्यविपा-
कादि तेषां तुल्यं प्रसज्यते” इत्यस्यापि बाधकत्वमाशा-
मोदकायते । सत्तान्तर्भावानन्तर्मावाभ्यां प्रत्यादेशात्
आशामोदकादिनापि च रसवीर्य्यविपाकादिजननात्
तदसत्कथं कार्य्यं स्यात्? इति चेन्न सत्तामन्तर्भाव्यकार्य्य-
त्वोपगमेकारणवत्कार्य्येऽपि उक्तदोषस्यानन्तर्भावे वाऽविशे-
षस्य पूर्व्ववदावृत्तेः तस्मात् “पूर्ब्बसम्बन्धनियमे हेतुत्वे
तुल्य एव नौ । हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा” ।
आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमव-
सेयम्? प्राक्सत्त्वनियमस्य विशेषस्यानभ्युपमादिति चेन्न
इदमनुगतनियतं प्राक सदिति बुद्ध्या विशेषात् । भ्रान्त्यैवं-
पृष्ठ १९४०
बुद्धिगोचरेऽतिप्रसङ्ग इति चेन्न यादृश्या हि धिया त्रि-
चतुरादिकक्षानुधावनविश्रान्तया वस्तुसत्त्वनिश्चयस्ते, तादृ-
श्यव विषयोकृतस्य ममापि कारणतानिश्चयः, केवलं ततः
परास्वपि कक्षासु बाधात् पूर्व्वपूर्व्वभ्रान्तिसम्भवेन न
तत एव सत्त्वावधारणं वयं मन्यामहे इति विशेषः” ।
तत्र हेतौ “पञ्चेमानि महाबाहो! कारणानि निबोध
मे” गीता । “न लिङ्गं धर्म्मकारणम्” मनुः । उद्देश्ये
“तस्यागमनकारणम्” रघुः । फलस्य कारणत्वञ्च
इच्छाद्वारा, उपायेच्छां प्रति फलेच्छायाः कारणत्वात्
सर्वोहि लोकः फलमिच्छन्नेव तदुपाये प्रवर्त्तमानो दृश्यते
इति तस्य तथात्वम् । कारणमस्त्यस्य अर्श० अच् ।
१० उत्तरभेदे उत्तरशब्दे विवृतिः । “मिथ्योत्तरे पूर्ब्ब-
वादे कारणे प्रतिवादिनि” मिता० स्मृतिः । भावे तल्
कारणता स्त्री । त्व कारणत्व न० कारणभावे “एकः
कारणतां गतः” कुमा० । “कारणत्वं भवेत्तस्य” भाषा० ।

कारणकारण न० ६ त० । अन्यथासिद्धपदार्थभेदे यथा

कुलालः घटादीनां कारणं, तत्कारणं तज्जनकः घटं
प्रत्यन्यथासिद्धः । व्यापारद्वारा तु न कारणकारणस्यान्य-
थासिद्धिः । यथा कुठारादीनां, ते हि छेदनक्रियाकारण-
च्छेद्यसंयोगजनका अपि नान्यथासिद्धाः एवं व्याप्तिज्ञानस्य
अनुमितिजनकपरामर्शरूपस्य, चक्षुरादीनां प्रत्यक्षजनक-
विषयसंयोगरूपस्य च कारणस्य कारणत्वेऽपि नान्यथा-
सिद्धिः । “नहि व्यापारेण व्यापारिणोऽन्यथासिद्धिः”
इत्युक्तेः २ परमेश्वरे च सहि सर्वेषां निमित्तोपादान-
कारणानामधिष्ठातृत्वेन प्रयोजकत्वात् तथा, ३ प्रयोजके-
कारणकारणस्याकारणत्वेऽपि प्रयोजकत्वमस्त्येवेति नैया-
यिकादयः ।

कारणगुण पु० ६ त० । उपादानकारणस्य गुणै “कारणगुणाः

कार्य्यगुणानारभन्ते” इति न्यायप्र० । यथा तन्त्वादिरूपो
पादानगुणाः शुक्लादयः, कार्यस्य पटस्य शुक्लगुणारम्भका
भवन्ति न वैपरीत्येनेति आकरे स्थितम् ।

कारणगुणोद्भव पु० कारणगुण उद्भवोऽस्य । उपादान कारण-

गुणेनोपपन्ने गुणभेदे । ते च गुणा भाषायां दर्शिता यथा ।
“अपाकजास्तु स्पर्शान्ताद्रधत्वञ्च तथाविधम् । स्नेह-
वेगगुरुत्वैकपृथक्त्वपरिमाणकम् । स्थितिस्थापक इत्येते
स्युः कारणगुणोद्भवाः” । स्पर्शान्ताः । रूपरसगन्धस्पर्शाः-
घटादौ पाकजरूपादीनां कारणगुणपूर्व्वकत्वाभावात्
अपाकजा इत्युक्तम् । तथाविधं अपाकजमिति । “स्पर्शो-
त्रानुष्णाशीतो ग्राह्यः । एकपृथक्त्वेत्यत्र त्वप्रत्ययस्य
प्रत्येकमन्वयात् एकत्वं पृथक्त्वञ्च ग्राह्यम् पृथक्त्वपदेन
चेकपृथक्त्वं ग्राह्यम्” मुक्ता० ।

कारणमाला स्त्री अथालङ्कारभेदे अलङ्कारशब्दे ३९८ पृ० विवृतिः ।

कारणशरीर न० कारणरूपं शरीरम् । वेदान्तिमते अज्ञान-

रूपे शरीरे । वेदान्तसारे तद्विवृतिः दृश्या ।

कारणा स्त्री कृ--हिंसाया स्वार्थे णिच्--भावे युच् । १ तीव्र-

वेदनायाम् अमरः । कृ--णिच्--युच् । २ प्रेरणायाम्

कारणिक त्रि० कारणैश्चरति ठक् । कारणेन विचारके १

परीक्षके अमरः । करणस्येदम् काश्या० ष्ठञ् ञिठ् वा ।
२ करणसम्बन्धिनि त्रि० स्त्रियां ष्ठञि षित्त्वात् ङीष्
ञिठ इदुच्चारणार्थः स्त्रियां टाप् इति भेदः ।

कारणोत्तर न० कारणेन उत्तरम् । व्यवहारेषु वाद्युपन्यस्तं

वस्तु सत्यत्वेनाङ्गीकृत्य तत्प्रतिकूलतासाधनकारणकथन-
रूपे उत्तरभेदे, यथा अयं शतं मे धारयतीत्यभियोगे सत्यं
गृहीतं किन्तुं शोधितम्, इयं भूमिर्मदीयानेन भुज्यते
इत्यभियोगे सत्यमेतस्य भूमिः किन्तु दानेन क्रयादिना वा
इदानीं ममेत्युत्तरम् । उत्तरशब्दे १०९० पृ० विवृतिः ।

कारण्डव पुंस्त्री रम--ड तस्य नेत्त्वम् रण्डः ईषत् रण्डः

कारण्डः तं वाति वा--क करण्डस्येदं कारण्डं
तदाकारं वाति वा--क वा । हंसभेदे “हंसकाण्डवोद्गीताः
सारसाभिरुतास्तथा” भा० व० ३८ अ० । स्त्रियां जाति-
त्वात् ङीष् । अस्य अजिरादि० पाष्ठात् मतौ संज्ञायामपि
न दीर्घः कारण्डववती नदीविशेषः । “हससारसक्रौञ्च-
चक्रवाककुररकादम्बकारण्डवेत्युपक्रमे” प्लवाः सधचारिणश्च”
इति सुश्रुते तस्य प्लवत्वं स घचारित्वञ्चोक्तम् ।

कारण्डव्यूह पु० बौद्धभेदे त्रिका० २ बौद्धशास्त्रविशेषे च ।

कारन्धम पु० करन्धमस्यापत्यं शिवा० अण् । १ करन्धमनृपस्या

पत्ये अविक्षन्नाम्नि नृपे तदुत्पत्त्यादि “एतस्मात्
कारणाद्राजन्! विश्रुतः स करन्धमः । तस्य कारन्धमः पुत्र-
स्त्रेतायुगमुखेऽभवत् । इन्द्रादनवरः श्रीमान् देवैरपि मुदु-
जयः । तस्य सर्व्वे महीपालाः वर्त्तन्ते व्य वशे तदा ।
स हि सम्राड़भूत्तेषां वृत्तेन च बलेन च । अविक्षिन्नाम
धर्म्मात्मा वीर्य्येणेन्द्रसमोऽभवत्” इत्युपकमे “तस्य पुत्रोऽति-
चक्राम पितरं गुणवत्तया । मरुत्तोनाम घर्म्मज्ञश्चक्रवर्त्ती
महायशाः” भा० आश्व० ४ अ० उक्तम् । २ गोत्रापत्ये अण् ।
करन्धमपौत्रे अविक्षिन्नृपपुत्रे २ मरुत्ते नृपे च । “कथं
यज्ञे मरुत्तस्य” इत्युपक्रमे “यदि सुश्रूषसे पार्थ । शृणु
पृष्ठ १९४१
कारन्धमं नृपम्” तत्रैव ३ अ० मरुत्तस्य कारन्धममिति
विशेषणात् । तस्येदमण् । ३ नारोतीर्थभेदे न० तत्तीर्थ-
प्रादुर्भावादि भा० आ० २१७, १८ अ० । यथा
“ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत्
सुपुण्यानि शोभनानि तपस्विभिः । वर्ज्जयन्ति स्म तीर्थानि
पञ्च तत्र तु तापसाः । अवकीर्णानि यान्यासन् पुरस्तात्तु
तपस्विभिः । अगस्त्यतीर्थं सौभद्रं पौलोमञ्च सुपावनम् ।
कारन्धमं प्रसन्नञ्च हयमेधफलञ्च तत् । भारद्वाजस्य
तीर्थन्तु पापप्रशमन महत् । एतानि पञ्च तीर्थानि ददर्श
कुरुसत्तमः । विविक्तान्युपलक्ष्याथ तानि तीर्थानि
पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्द्धर्म्मबुद्धिभिः ।
तपस्विनस्ततोऽपृच्छत् प्राञ्जलिः कुरुनन्दनः । तीर्थानीमानि
वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः । तापसा ऊचुः । ग्राहाः
पञ्च वसन्त्येषु हरन्ति च तपोधनान् । तत एतानि
वर्ज्यन्ते तीर्थानि कुरुनन्दन! । वैशम्पायन उवाच । तेषां
श्रुत्वा महाबाहुर्व्वार्य्यमाणस्तपोधनैः । जगाम तानि
तीर्थानि द्रष्टुं पुरुषसत्तमः । ततः सौभद्रमासाद्य महर्षे-
स्तीर्थमुत्तमम् । विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः ।
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । जग्राह चरणे
ग्राहः कुन्तीषुत्रं धनञ्जयम् । स तमादाथ कौन्तेयो विस्फु-
रन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्ब्बलेन वलिनां वरः ।
उत्कृष्ट एव ग्राहस्तु सोऽर्ज्जुनेन यशस्विना । बभूव
नारी कल्याणी सर्व्वाभरणमूषिता । दीप्यमाना श्रिया
राजन्! दिव्यरूपा मनोरमा । तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो
धनञ्जयः । तां स्त्रियां परमप्रीत इदं वचनमब्रवोत् । का
वै त्वमसि कल्याणि! कुतो वासि जलेचरी । किमर्थञ्च महत्
पापमिदं कृतवती पुरा? । बर्गोवाच । अप्सरास्मि
महावाहो! देवारण्यविहारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम
महाबल! । मम सख्यश्चतस्रोऽन्याः सर्व्वाः कामगमाः
शुभाः । ताभिः सार्द्धं प्रयातास्मि लोकपालनिवेशनम् ।
ततः पश्यामहे सर्व्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधी-
यानमेकमेकान्तचारिणम् । तस्य वै तपसा राजंस्तद्वनं
तेजसा युतम् । आदित्य इव तं देशं कृत्स्नं सर्वं व्यका-
शयत् । तस्य दृष्ट्वा तपस्तादृग्रूपञ्चाद्भुतमुत्तमम् ।
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया । अहञ्च सौरभेयो
च समीचा बुद्बुदा लता । यौगपद्येन तं विप्रसम्यगच्छाम
भारत! । गायन्त्योऽथ हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् ।
तु च नाम्मासु कृतवान् मनो वीर! कथञ्चन । नाकम्पत
महातेजाः स्थितस्तपसि निर्म्मले । सोऽशपत् कुपितोऽस्मांस्तु
ब्राह्मणः क्षत्रियर्षभ! । ग्राहभूता जले यूयं चरिष्यथ शतं
समाः! । वर्गोवाच । ततो वयं प्रव्यथिताः सर्व्वा भारतस-
त्तम! । अयाम शरणं विप्रं तं तपोधनमच्युतम् । रूपेण
वयसा चैव कन्दर्पेण च दर्पिताः । अयुक्तं कृतवत्यः स्म क्षन्तु
मर्हसि नो द्विज! । एषएव बधोऽस्माकं सुपर्य्याप्तस्तपोधन! ।
यद्वय संशितात्मानं प्रलोब्धं त्वामिहागताः । अबध्यास्तु
स्त्रियः सृष्टा मन्यन्ते धर्म्मचारिणः । तस्माद्धर्म्मेण वर्त्तस्व
नास्मान् हिंसितुमर्हसि । सर्व्वभूतेषु धर्मज्ञ! मेत्रोब्राह्मण
उच्यते । सत्यो भवतु कल्याण एवं वादो मनीषिणाम् ।
शरणञ्च प्रपन्नानां शिष्टाः कुर्व्वन्ति पालनम् । शरणं त्वां
प्रपन्नाः स्मस्तस्मात्त्वं क्षन्तुमर्हसि । वैशम्पायन उवाच ।
एवमुक्तः स धर्म्मात्मा ब्राह्मणः शुभकर्म्मकृत् । प्रसादं
कृतवान् वीर! रविसोमसमप्रभः । ब्राह्मण उवाच ।
शतं शतसहस्रन्तु सर्वमक्षय्यवाचकम् । परिमाणं शतं
त्वेतन्नेदमक्षय्यवाचकम् । यदा च वो ग्राहमूता गृह्णतीः
पुरुषान् जले । उत्कर्षति जलात्तस्मात् स्थलं पुरुषसत्त-
मः । तदा यूयं पुनः सर्व्वाः स्वं रूपं प्रतिपत्त्स्यथ । अनृतं
नोक्तपूर्व्वं मे हसतापि कदाचन । तानि सर्व्वाणि
तीर्थानि ततः प्रभृति चैव ह । नारीतीर्थानि नाम्नेह ख्यातिं
यास्यन्ति सर्व्वशः । पुण्यानि च भविष्यन्ति पावनानि
मनीषिणाम् । चर्गोवाच । ततोऽभिवाद्यतं विप्रं कृत्वा चापि
प्रदक्षिणम् । अचिन्तयामापसृत्य तस्माद्देशात् सुदुः
खिताः । क नु नाम? वयं सर्व्वाः कालेनाल्पेन तं नरम् ।
समागच्छेम यो नस्तद्रपमासादयेत् पुनः । ता बयं
चिन्तयित्वैव मुहूर्त्तादिव भारत! । दृष्टवत्यो महाभागं
देवर्षिमुत नारदम् । संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्यु-
तिम् । अभिवाद्य च तं पार्थ! स्थिताः स्मोव्रीडिताननाः ।
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयञ्च तत् । श्रुत्वा तत्र
यथावृत्तमिदं वचनमब्रवीत् । दक्षिणे सागरानूपे पञ्च
तीर्थानि सन्ति वै । पुण्यानि रमणीयानि तानि गच्छत
मा चिरम् । तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः ।
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः । तस्य सर्व्वा
वयं वीर! श्रुत्वा वाक्यमिहागताः । तदिदं सत्यमेवाद्य
मोक्षित्वा मां त्वयाकृतम् । एतास्तु मम ताः सख्यश्चतस्रोऽन्या
जले श्रिताः । कुरु कर्म्म शुभं वीर! एताः शापाद्विमोक्षय!
वैशम्पायन उवाच । ततस्ताः पाण्डवश्रेष्ठः सर्व्वा एब विशा-
म्पते! । तस्माच्छापाददानात्मा मोक्षयामास वीर्यवान् ।
पृष्ठ १९४२
उत्थाय च जलात्तस्मात् प्रतिलभ्य वपुः स्वकम् । तास्तदा-
प्सरसो राजम्नदृश्यन्त यथा पुरा । तीर्थानि शोचयित्वा
तु तथानुज्ञाय ताः प्रभुम् । चित्राङ्गदां पुनर्द्रष्टुं तदा
मणिपुरं ययौ” ।

कारन्धमिन् पु० स्त्री करएव कारस्तं धमति ध्मा--इनि

पृषो० । १ कांस्यकारे स्त्रियां ङीप् । २ धातुवादरते च मेदि०

कारपचव पु० देशभेदे । “अवभृथमलभ्यवयन्ति यमुनां कारप-

चवं प्रति” कात्या० श्रौ० २४ । ६ । १० कारपचवो देशभेदस्त-
न्मध्ये यमुना वर्त्तते तां कारपचवदेशस्थां यमुनां प्राप्य
तत्रावभृथमभ्यबयन्ति” संग्र० व्या० ।

कारभ त्रि० करभस्येदम् अण् । करभसम्बन्धिनि मूत्रादौ

“अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम्” सुश्रुतः ।

कारभू स्त्री करएवकारः तस्य भूः । राजग्राह्यकरग्रहणभूमौ ।

कारमिहिका स्त्री कारं जलसम्बन्धं मेहति मिह--सेके क

ततः स्वार्थे क अत इत्त्यम् । कर्पूरे राजनि० ।

कारम्मा स्त्री० ईषत् रम्भा कोः कादेशः । प्रियङ्गुवृक्षे अम०

कारयिष्णु त्रि० कृ--णिच्--इष्णुच् । कारयितरि ।

कारव पु० स्त्री केति रवोऽस्य । काके त्रिका० स्त्रियां ङीष् ।

कारवल्ली स्त्री कुत्सितआरो गतिर्यस्याः कर्म० । कारवेल्ले

(करेला) । कारवान् कर्म्मयुक्तः सन् लीयते ली--क्विप् ।
२ काण्डीरे काण्डधरे राजनि० ।

कारवी स्त्री कारं वाति वा कके जलोपलक्षितवर्षाकाले

रवोऽस्य कारवोमयूरस्तस्य पुच्छमिवाकारोऽस्त्यस्थ अच्,
कृ हिंसायां स्वार्थेणिच्--क्विप् काः तमवति अण् वा गौरा०
ङीष् । १ शतपुष्पायाम्, (मौर) २ रुद्रजटायाम्, ३ मयूर-
शिस्वालतायाम् । ४ कारवेल्ले, (करेला) ५ त्वक्पत्र्याम्
(तेजपात) ६ कृष्णजीरके च । ७ क्षुद्रकारवेल्ले अमरः
राजनि० ८ काकयोषिति च ।

कारवीरेय त्रि० करवीरेण निर्वृत्तादि करवीर + चतुरर्थ्यां

सख्या० ढञ् । करवीरनिर्वृत्तादौ ।

कारवेल्ल पु० कारेण वातगत्या वेल्लति वेल्ल--चालने अच् ।

शाताभेदे (करेला) २ तत्फले न० । “कारवेल्लं हिमं
भेदि लघु तिक्तमवातलम् । ज्वरपित्तकफास्रघ्नं पाण्डुमेह
कृमीन् हरेत्” भावप्र० । स्वार्थे क कारवेल्लकोऽपि तत्रैव
अल्पार्थे ङीष् । २ क्षुद्रकारवेल्ले (उच्छा) । अमरः । कार
वेल्लमुक्त्वा “तद्गुणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः ।
कारवेल्लीफलं तक्रे स्वेदितं हिङ्गुमर्द्दितम् । भर्ज्जितं
नवनीतेन सैन्धवेन समन्वितम्” भावप्र० । “विदलितमुखमीषत्
कारवेल्लीकठोरं पुलकितमिव तैलैः माधितं रामष्ठेन ।
रचितमरिचचूर्ण्णं सैन्धवेनातिपूर्ण्णं सुललितरसनाग्रं
लोलतामातनोति” पाकशा० । कारवेल्लीफलं भेदि लघु तिक्तं
मुशीतलम् । पित्तास्रकामलापाण्डुकफमेदकृमीन् हरेत्”
वैद्यकम् । स्वार्थे क कारवेल्लिकाप्यत्र स्त्री ।

कारस्कर कारं बधं करोति कृ--हेत्वादौ ट वृक्षे नि० सुट् ।

विषतिन्दौ किम्पाके वृक्षे राजनि० दासादौ न सुट् ।

कारस्कराटिका स्त्री कारस्कर इवाटति अट--ण्वुल् । कर्ण्ण-

जलौकायाम् । त्रिका० ।

कारा स्त्री कृ--हिंसायां भिदा० भावे अङ “ऋदृशोऽङि” पा०

गुणः “काराबन्धने” पा० ग० दीर्घनिर्द्देशात् दीर्घः ।
१ बन्धने मेदि० २ पीडायां त्रिका० पा० ग० बन्धनशब्दस्य
बन्धनाधारपरत्वे ३ बन्धनागारे अमरः । कुत्सितमृच्छति
ऋ--अच् कोः का । ४ दूत्याम् ५ प्रसेवके । ६ स्वर्ण्णकारि-
कायाञ्च मेदि० । ७ शब्दे च । काराधुनी ।

कारागार न० कारायाबन्धनस्यागारं गृहम् बन्धनागारे

(जेलखाना) “रिपुः कारागारं कलयति च तं केलि-
कलया” कर्पूरस्तवः । कारागृहादयोऽप्यत्र ।

कारागुप्त त्रि० कारायां बन्धनागारे गुप्तः । (कएदी)

बन्धनाकाररुद्धे हेमच० ।

कारापथ पु० देशभेदे । तत्र च लक्ष्मणात्मजाङ्गदचन्द्रकेतु

राज्यमासीत् “अङ्गदं चन्द्रकेतुञ्च लक्ष्मणोऽप्यात्मसम्भवम् ।
शासनात् रघुनायस्य चक्रे कारापथेश्वरौ” रघुः ।

कारायिका स्त्री कं जलमाराति प्रचरणस्थानत्वेन आ +

रा--ण्वुल् । बलाकायां जटाधरः ।

काराधुनी स्त्री कारा शब्दः तस्याधुनी उत्पादयित्नी ।

शब्दनिष्पादके शङ्खादौ । “अगस्त्योनरां नृषु प्रशस्तः
काराधुनीव” ऋ० १, १८०, ४ । “कारा शब्दः” भा०

कारि स्त्री कृ--भावे प्रश्नाख्यानविषये इञ् । प्रश्नाख्यान-

विषये १ क्रियायाम् । “कां कारिमकार्षीः? सर्वां कारि-
मकार्षम्” इत्यादि । कृ--कर्त्तरि शिल्पिनि इञ् ।
२ शिल्पिनि त्रि० ।

कारिका स्त्री कृ--भावे ण्वुल् । १ क्रियायाम् । “कारिकाशब्द

स्योपसंख्यानम्” वार्त्ति० क्रियायोगेऽस्य गतित्वम् तत्र
कारिका क्रिया, कारिकाकृत्य” सि० कौ० । तत्र दासीश्लोकवा
चकस्य क्रियाशब्दस्य न ग्रहणं तथाव्याख्यनात् । कारः
रोगबधः साध्यतयास्त्यस्य ठन्, कृ--हिंसायां ण्वुल् वा ।
रोगनाशिकायां २ कण्टकार्य्यां राजनि० । ३ नटयोषिटि
पृष्ठ १९४३
४ विवरणश्लोके अल्पाक्षरेण बह्वर्थज्ञापकश्लोकभेदे ।
५ शिल्पिरचनीयाम् मेदि० । ६ वृद्धिभेदे (मुद) रमानाथः ।

कारित स्त्री कृ--णिच--कर्म्मणि क्तः । १ करणाय प्रेरिते ।

“विष्णुः शरीरग्रहणमहमीशानएव च । कारितास्ते
यतोऽतस्त्वाम्” देवीमा० । २ अधमर्ण्णेन स्वकार्य्यसिद्धये नियत-
वृद्धेरङ्गीकृताधिकवृद्धौ स्त्री “वृद्धिः सा कारिता नाम यर्ण्णि-
केन स्वयं कृता” मिता० ना० स्मृतिः । “ऋणिकेन तु
या वृद्धिरधिका संप्रकीर्त्तिता । आपत्काले कृता नित्यं
सा तु स्यात् कारिता मता” कात्या० ।

कारी स्त्री कृ--हिंसायाम् इञ् स्त्रियां ङीष् । कण्टकारि-

वृक्षे राजनि० । तस्याः अण्टकाचितत्वेन हिंसासाधनत्वात्
रोगहिंसाकारकत्वाद्वा तथात्वम् ।

कारीर न० करीरस्यावयवः काण्डं भस्म वा पलाशा०

अञ् । १ वंशस्य काण्डे २ वंशभस्मनि च ।

कारीरी स्त्री कं जलमृच्छति ऋ--विच् कारं सजलमेघ-

मीरयति ईर--अण् उप० स० गौ० ङीष् । वर्षहेतौ
इष्टभेदे । “वर्षकामेष्टिः कारीरी” “तस्यां प्रति त्यं चारु-
मध्वरमीडे अग्निं स्ववसं नमोभिरिति धार्य्ये” आश्व०
श्रौ० २ । १३ । १ । २ । “वर्षकामस्य कारीरी नाम इष्टिः
कार्य्या । तस्यां--कारीर्य्याम् । अत्र बहुदैवत्याया आम्ना-
नात् अन्यदा इयमेव कारोरी एकदैबत्या भवति तस्यामपि
प्रापणार्थं तस्यां ग्रहणमिति” नारा० । आरब्धायां
कारीर्य्यां कृतार्द्धायां वर्षणे सति सा समापनीया न
वेति सन्देहे कात्या० श्रौ० १ । २ । २२ सू० निर्ण्णीतं
यथा “दृष्टे तत्परिमाणम्” कृतार्द्धायामिष्टौ वर्षणे
दृष्टे सति तत्परिमाणमेव कर्म्म कर्त्तव्यं यत्परिमाण-
मदृष्ठे वर्षणे क्रियते । न तु वृष्टौ दृष्टायां किमप्यन्यूनं
कृतार्द्धं परित्याज्यमिति । न च वर्षणं तत्र तस्या इष्टेः फलं,
किन्तु कालस्बभावात् प्रतिबन्धकापगमाच्च स्वयं प्रवृत्तम्
इत्याशयः” सं० व्या० । अतएव जैमिनिना ६, २, १३, कर्मणि
आरब्धे फलेच्छाराहित्ये, कथञ्चित् फलप्राप्तौ च आरब्धस्य
काम्यकर्म्मणः समाप्यत्वमुक्तं यथा “प्रक्रमात्तु नियुज्ये-
तारम्भस्य निमित्तत्वादिति” व्याख्यातं चेदं शवरस्वामिना
यथा “प्रजाकामो यजेत, ग्रामकामो यजेत”--इत्येवमादि
कर्म समाम्नायते । तत्र सन्देहः--किं प्रक्रान्तं नियोगतः
समापनीयम्, उतेच्छया कार्य्यं हेयं वा?--इति कुतः?
एवं प्राप्तं?--नियोगतः परिसमापयितव्यम्--इति ।
कुतः? एवं हि श्रूयते,--इदंकामो यजेत--इति, एवं
तस्य आख्यातस्य अर्थम् उपदिशन्ति, ‘उपक्रमप्रभृति
अपवर्गपर्यन्तम् आह--इति, उपक्रमादारभ्य यावत्
परिसमाप्तिः--इत्येतावान् व्यापारविशेषः तस्य अर्थः,
न यथा पाकः त्यागः--इति । तत्र हि पाकसत्तामात्रं
निर्द्दिश्यते न आरभ्य परिसमापयितव्यम् । एवं च
आख्याताथैं लौकिका अपि प्रतिपद्यन्ते, तत्र न आरम्भे
पुरुषप्रयत्नः नोद्यते--इति गम्यते । यतो नोदितं न नियो-
गत आरभन्ते, नियोगतः पुनः परिसमापयन्ति, तेन
नोभे आरम्भपरिसमाप्ती शब्दार्थः किन्तर्हि?--परिस-
माप्तिः शब्दार्थः परिसमाप्त्याऽर्थप्राप्तत्वात् आरम्भस्य ।
तस्मात् परिसमाप्तिः शब्दार्थः--डति गम्यते । सा चेत्
शब्दार्थः, सा कर्त्तव्यतया नोद्यते, आरम्भे नास्ति कर्त्त-
व्यतावचनं’ तेन न नियोगत आरम्भः, नियोगतस्तु
परिसमाप्तिः । तेन उपक्रान्ते कर्मणि यदि वीयात्
फलेच्छा, अवाप्नोति वा फलं, तस्यामप्यवस्थायां, कर्त्त-
व्यमेव उपक्रान्तस्य परिसमापनम् । ननु अथिनो
योऽर्थः सोऽत्र कर्त्तव्यतयोच्यते’ । नैतदेवं, वाक्यार्थो
हि स भवति, यागस्य तु कर्त्तव्यता श्रुत्या गम्यते ।
तस्मात् ग्रामकामेण याग आरब्धः परिसमापनीयः
ग्रामादिकामनावचनं निमित्तत्वेन तदा भवति निमित्ते
च उत्पन्ने यत् कर्त्तव्यम्--इत्युच्यते, तद्विनष्टेऽपि निमित्ते
कर्त्तव्यम्, न हि तद्विनष्टम् अनुत्पन्नं भवति, उत्पत्तिश्च
निमित्तं न भावः तस्मात् वीतायामपि फलेच्छायाम्
उपक्रान्तं परिसमापयितव्यम । क्रियाया हि निमित्तम्
आरम्भः सोऽषि परिसमाप्तेः” इति ।
कारीरीष्टिं प्रकृत्थ श्रूयते च । “यदि वर्षेत्तावत्येव जुहु-
यात्” “कारीरीमनुवृष्टिः” सि० कौ० ।

कारीष न० करीषाणां समूहः अण् । शुष्कगोमयसमूहे ।

कारीषगन्धि त्रि० कारीषस्येव गन्धोऽस्य इत्समा० । शुष्क-

गोमयसंघगन्धयुक्ते स्त्रियां ष्यङ् चाप् । कारीषगन्ध्या तस्याः
तत्पुरुषे पुत्रपत्योः परवोः संप्रसा० दीर्घश्च । कारीष-
गन्धीपुत्रः कारीषगन्धीपतिः । एवं परमकारीषगन्धी-
पुत्रः । उपसर्ज्जने तु न, अतिकारीषगन्ध्यापतिः । बन्धु-
शब्देपरे तु वहुव्रीहौ तथा वा, कारीषगन्ध्याबन्धुः कारीष-
गन्धीबन्धुः । एवं कौमुदगन्ध्याशब्दस्यापि संप्रसारणदीर्घौ ।

कारु त्रि० कृ--उण् । १ शिल्पिनि । “इति स्म सा कारुतरेण

लेखितं नलस्य च स्वस्य च सख्यमीक्षते” नैष० । “कार-
यित्वा तु कर्म्माणि कारुं पश्चान्न वञ्चयेत्” कूर्म्मपु०
पृष्ठ १९४४
“उपस्तुतिं भरमाणस्य कारोः” ऋ० १, १४८, २, ।
“नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम्” मनुः ।
“कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा” याज्ञ०
“गोरक्षकान् बाणिजकान् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत्” मनुः ।
२ सूपकारादौ “धान्येऽष्टमं विशां शुल्क विंशं कार्षा-
पणावरम् । कर्म्मोपकरणाः शुद्राः कारवः शिल्पिनस्तथा”
मनुना कारुशिल्पिनोर्भेदेन निर्द्देशात् “कारवः
सूपकारादयः” कुल्लू० । एतेषां च कर्म्मकरणरूप एव
करो न धनरूपादिर्मनुना कर्म्मोपकरणत्वेन तेषां
निर्द्देशात् । तत्र करप्रतिरूपकर्म्मकरणप्रकारो मनुना-
दर्शितो यथा “कारुकान् शिल्पिनश्चैवं शूद्रांश्चात्मो-
पजीविनः । एकैकं कारयेत् कर्म्म मासिमासि
महीपतिः” मासि मासि कर्म्म एकैकं दिनं कारयेदित्यर्थः ।
“सम्भूय कुर्व्वतामर्धं सबाधं कारुशिल्पिनाम् । अर्घस्य
ह्रासं वृद्धिं वा जानतां दम उत्तमः” याज्ञ० । ३ कारके
तत्तत्क्रियानिष्पादके त्रि० मेदि० । “राघवस्य ततः कार्य्यं
कारुर्वानरपुङ्गबः” भट्टिः । भावे उण् । ४ कर्म्मणि मेदि०
५ शिल्पे हेमच० ६ स्तोतविनिरु० । अत्रेदं बोध्यम् उणादी-
नामव्युत्पत्तिपक्षे समुदायशक्त्या शिल्पिप्रभृतितत्तदर्थवाच-
कता, व्युत्पत्तिपक्षे अवयवशक्त्या अवयवार्थस्याप्युपस्थापनेन
योगेन विशिष्टार्थपरतया यौगिकत्वं तेन कार्य्यं कारुरित्यादौ
कर्म्मादेरन्वयः उदन्तकृद्योगाच्च तत्र कर्म्मणि न षष्ठी
असत्यवयवार्थे कर्म्मणोऽन्वयासम्भवात् न द्वितीयादि-
प्रसक्तिः । स्वार्थेक । कारुकोऽपि सूपकारादौ । “न साक्षी
नृपतिः कार्य्यो न कारुककुशीलवौ” मनुः । “अशक्नु-
वंस्तु सुश्रूषां शूद्रः कर्त्तुं द्विजन्मनाम् । पुत्रदारात्ययं
प्राप्ता जीवेत् कारुककर्म्मभिः । यैः कर्म्मभिः प्रचरितैः
शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्म्माणि शिल्पानि
विविधानि च” मनुः । स्त्रियामूङ् । कारू शिल्पिन्यां
रजकादिस्त्रियाम् ।

कारुचौर पु० कारुणा शिल्पेन चोरयति चुर--अच् । सन्धिचौरे शब्दचि०

कारुज पु० कं जलमारुजति, ईषत् रुजति वा आ + रुज--क ।

१ करभे, २ वल्मीके, ३ नागकेशरे, ४ गैरिके, ५ स्वयंजाते
देहस्थे तिलादिचिह्ने च हेमच० । कारुतोजायते जन--ड
५ त० । तक्षणचित्रलेखनादौ न० ।

कारुणिक त्रि० करुणा शीलमस्य ठक् । दयालौ दयाशीले

अमरः । “सम्यक् कारुणिकस्येदं वत्स! ते विचिकित्-
सितम्” भाग० २, ५, १० । “आचार्य्या वै कारुणिकाश्च” भा०
वि० ४७ अ० ।

कारुण्डी स्त्री ईषन् रुण्डी मूर्द्धहीना । जलौकायांशब्दच० ।

स्वार्थे क । कारुण्डिका तत्रार्थे ।

कारुण्य न० करुणः करुणायुक्तः करुणाविषयो वा तस्य भावः,

करुणैव वा ष्यञ् । करुणायां परदुःखप्रहरणेच्छायाभ्
अमरः । २ करुणाविषयत्वे च “दयासमुद्रे स
तदाशयेऽतिथीचकार कारुण्यरसापगागिरः” नैष० “कारुण्य-
वारांनिधे!” नीलतन्त्रम् ।

कारु(रू)ष पु० करु(रू)षस्य राजा अण् । करु(रू)षदेशाधिपे

दन्तवक्रे “कारु(रू)षान्मानवादासन् कारु(रू)षाः क्षत्र
जातयः भाग० ९, २१” करु(रू)षोऽभिजन एषाम् अण् भर्गा०
बहुषु न तस्य लुक् । पित्रादिक्रमेण तद्देशवासिषु ब० व० ।

कारेणव त्रि० करेणोरिदमण् । करेणुसम्बन्धिदुग्धादौ ।

“कषायं बद्धविण्मूत्रं तिक्तमग्निकरं परम् । सर्पिः कारेणवं
हन्ति कफकुष्ठविषक्रिमीन्” सुश्रु० ।

कारेणुपालि पुंस्त्री करेणुपालस्यापत्यम् इञ् । करेणुपाल-

कापत्ये । युबापत्ये तु इञन्तत्वात् फक् तस्य तौल्वला० न
लुक् कारेणुपालायन तदीययुवापत्ये पुंस्त्री ।

कारोत्तर पु० कारेण सुरागालनक्रियया उत्तरति उद् +

तॄअच् । १ सुरामण्डे अमरः स्वामी तु कारोत्तम इति
पठित्वा तत्रार्थे इत्याह सुरागालन क्रियायां मण्डस्योत्त-
मत्वात्तथात्वम् । कारेण ईषद्गत्या उत्तीर्यतेऽसौ उद् +
तॄ--कर्मणि अप् । २ कूपे हला० तद्धेतुत्वात् चालनीरूपे
वंशादिजे ३ पात्रभेदे । “अन्तर उत्तरवेद्या रूपं कारो-
त्तरोभिषक्” यजु० १९, १६ । कारोत्तरः सुरापावन-
चालनी” वेददी० “अस्थि मज्जानं मासरैः कारो-
त्तरेण” यजु० १९, ८२ । सुसागालनी चालनी
च वंशमयी तया यज्ञियसुरागालनप्रकारः कात्या०
श्रौ० १९, २, ७, सू० दर्शितोयथा । श्वभ्रं खात्वा
स्वरमपरेण चर्मावधाय परिस्रुतमासिच्य कारोत्तरमव-
दधाति, कारोत्तराद्वा चर्म्मणि मन्त्रलिङ्गात् पूतामा-
दत्ते सिञ्चन्ति परिषिञ्चन्तीति” । “ततो दक्षिण-
वेदिस्वरमपरेण बहिर्वेदि श्वभ्रं गर्त्तं खात्वा तत्र गर्त्ते
गोचर्म्मावधाय परिस्रुत सुरां चर्म्मणि आसिच्य सुराया
उपरि कारोत्तरं वंशमयं पात्र (करोत्तरश्चालनिका)
सुरागालनसर्मथं निदधाति एवं कृते मलस्तले तिष्ठति
गलिता सुरा कारोत्तरस्योपर्य्यायाति एकोऽयं गालनो
पायः । अथवा पूर्ब्बं चर्म्मणि कारोत्तरमवधाय तत्र
पृष्ठ १९४५
सुरामासिञ्चति तथा च सति कारोत्तरात् चर्म्मणि
सुरा पतति” सं० व्या० । “तस्य लोमान्येव पुष्पाणि,
त्वक् तोक्मानि, मांसं लाजा अस्थि कारोत्तरो मज्जा
मासरं रसः परिस्रुन्नग्रहुर्लोहितं, रेतः पयः, सूत्रं
सुरोवध्यम् वल्कसम्” शत० ब्रा० १२, ९, १, २ । एवं
कारोत्तरशब्दस्य चालनीपरत्वे स्थिते सुरामण्डस्य
तत्साध्यत्वात् तथात्वं बोध्यम् ।

कार्कश्य न० कर्कशस्य भावः ष्यञ् । कठोरस्पर्शे “आश्लेष

लोलुपबधूस्तनकार्कश्यसाक्षिणी” माघः ।

कार्कषि पुं स्त्री कर्कं स्यति सो क--पृषो०षत्वम् कर्कषः काठिन्य-

नाशकः तस्यापत्यम् पक्षे इञ् तदपत्ये पक्षे वाकिन्या । वा
फिञ् कुक् च । कार्कषकायनि तत्रार्थे पुंस्त्री ।

कार्कीक त्रि० कर्कः शुक्लोऽश्वः स इव ईकक् । श्वेताश्वतुल्ये ।

कार्ण्ण पुंस्त्री कर्ण्णस्यापत्यं शिवा० अण् । १ कर्ण्णापत्येवृषकेतौ

कर्ण्णस्येदम् अण् । २ श्रवणसम्बन्धिमलादौ त्रि० ।

कार्ण्णायनि त्रि० कर्णेन निर्वृत्तादि कर्ण्ण + कर्ण्णा० चतुरर्थ्यां

फिञ् । कर्ण्णेन निर्वृत्तादौ । सुतङ्गमादिपाठात् पक्षे
इञ् । कार्ण्णिरप्यत्र त्रि० ।

कार्त्त त्रि० कृतः कृत्पत्ययस्य व्याख्यानोग्रन्थः अण् । १ कृत्

प्रत्ययव्याख्याने ग्रन्थे । कृतस्येदम् अण् । २ कृतसम्बन्धिनि
अस्य कौजपेन सहद्वन्द्वे कार्त्तकौजपा० पूर्वपदे प्रकृति-
स्वरः । कृतमेव स्वार्थे अण् । ३ कृतयुगे “किङ्कारणं
कार्त्तयुगप्रधानः” भा० आ० ९० अ० ।

कार्त्तकौजपादि पु० पाणिन्युक्ते द्वन्द्वे पूर्वपदे प्रकृतिस्वरनि-

मित्ते शब्दगणभेदे स च गणः “कार्त्तकौजपौ सावर्णि-
माण्डूकेयौ अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णे-
याः शैतिकाक्षपाञ्चालेयाः कटूकवाधूलेयाः शाकलशुनकाः
शाकलशणकाः शणकबाभ्रुवाः आर्च्चाभिमौद्गलः कुन्ति-
सुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः
बाभ्रवशालङ्कायनाः बाभ्रवदानच्यताः कठकालापाः
कठकौथुमाः कौथुमलौकाक्षाः स्त्रीकुमारम् मौदपैप्पलादाः
वत्सजरन्तः सौश्रुतपार्थिवाः जरामृत्यू याज्यानुवाक्ये” ।

कार्त्तवीर्य्य पु० कृतवीर्य्यस्यापत्यम् अण् । कृतवीर्य्यनृपापत्ये

सहस्रवाहौ अर्जुने । “अर्जुनःकृतवीर्य्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रे याद्धरेरंशात् प्राप्तयोगमहागुणः । न नूनं कार्त्तवी-
र्य्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदान तपोयोगैः श्रुत-
वीर्य्यजपादिभिः” भाग० ९, २३, २७ । तत्कथादि अर्जुनशब्दे
३६६ पृ० उक्तप्रायसधिकं भा० आनु० १५२ अ० उक्तं यथा ।
“सहस्रभुजभृत् श्रीमान् कार्त्तवीर्य्योऽभवत् प्रभुः । अस्य
लोकस्य सर्व्वस्य माहिष्मत्यां महाबलः । स तु रत्नाकर-
वतीं सद्वीपां सागराम्बराम् । शशास पृथिवीं सर्व्वां हैहयः
सत्यविक्रमः । स्ववित्तं येन दत्तन्तु दत्तात्रेयाय कारणे ।
क्षत्त्रधर्म्मं पुरस्कृत्य विनयं श्रुतमेव च । आराधयामास
च तं कृतवीर्य्यात्मजो मुनिम् । न्यमन्त्रयत सन्तुष्टो द्विजश्चैनं
वरैस्त्रिभिः । स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् ।
सहस्रवाहुर्भूयासं चमूमध्ये गृहेऽन्यथा । मम बाहुसहस्रन्तु
पश्यन्तां सैनिका रणे । विक्रमेण महीं कृत्स्नां जयेयं शंसि-
तव्रत! । ताञ्च धर्म्मेण सम्प्राप्य पालयेयमतन्द्रितः । चतुर्थं
चवरंयाचे त्वामहं द्विजसत्तम! तं ममानुग्रहकृते दातुम-
र्हस्यनिन्दित! । अनुशासन्तु मां सन्तो मिथ्योद्वृत्तं त्वदा-
श्रयम् । इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् ।
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः । ततः स रथमा-
स्थाय ज्वलनार्कसमद्युतिम् । अब्रवीद्वीर्य्यसम्मोहात् कोऽ
न्वस्ति सदृशो मम । धैर्य्येवीर्य्ये यशःशौर्य्ये विक्रमेणौज
साऽपि वा । तद्वाक्यान्तेऽन्तरीक्षे वै वागुवाचाशरौरिणी ।
न त्वं मूढ! विजानीषे ब्राह्मणं क्षत्रियाद्वरम् । सहितो
ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः । अर्ज्जुन उवाच ।
कुर्य्यां भूतानि तुष्टोऽहं क्रुद्धो नाशन्तथा नये । कर्म्मणा
मनसा वाचा न मत्तोऽस्ति बरो द्विजः । पूर्ब्बो ब्रह्मोत्तरो
वादो द्वितीयः क्षत्रियोत्तरः । त्वयोक्तौ हेतुयुक्तौ तौ
कथं नु ब्राह्मणो वरः । सर्व्वभूतप्रधानांस्तान् भैक्षवृत्तीनहं
सदा । आत्मसम्भावितान् विप्रान् स्थापयाम्यात्मनो वशे ।
कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि । विजेष्याम्य-
बशान् सर्व्वान् ब्राह्मणांश्चर्म्मवाससः । न च मां च्यावयेद्रा-
ष्ट्नात्त्रिषु लोकेषु कश्चन । देवो वा मानुषो वापि तस्माज्-
ज्येष्ठो द्विजादहम् । अथ ब्रह्नोत्तरं लोकं करिष्ये क्षत्रियो-
त्तरम् । न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् । अर्जुनस्य
वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी । अथैनमन्तरिक्षस्थ-
स्ततो वायुरभाषत । त्यजैनं कलुषं भावं ब्राह्मणेभ्यो
नमस्कुरु । एतेषां कुर्व्वतः पापं राष्ट्रक्षोभो भविष्यति । अथ वा
त्वां महीपाल! शमयिष्यन्ति ये द्विजाः । निरसिष्यन्ति ते
राष्ट्राद्धतोसाहं महाबलाः । तं राजा कस्त्वमित्याह ततस्तं
प्राह मारुतः । वायुर्व्वैदेवदूतोऽस्मि हितं त्वां प्रब्रवी-
म्यहम् । अर्ज्जुन उवाच । अहो त्वयाऽद्य विप्रेषु
भक्तिरागः प्रदर्शितः । यादृशं पृथिवीभूतं तादृशं ब्रूहि वै
द्विजम् । वायोर्व्वा सदृशं किञ्चित् ब्रुहि त्वं ब्राह्मणोत्त-
पृष्ठ १९४६
मम् । अपां वै सदृशो वह्निः सूर्य्यस्य नभसोऽपि वा” ।
ततः पवनार्ज्जुनयोः संवादे बहुकथा तत्र दृश्या ।
“भवन्तं कार्त्तवीर्य्योयोहीनसन्धिमचीकरत्” भट्टिः ।
“अनन्यसाधारणराजशब्दीबभूव योगी किल कार्त्त-
वीर्य्यः” रघुः ।

कार्त्तवीर्य्यदीप पु० ६ त० । कार्त्तवीर्य्यार्ज्जुनोद्देशेन

दीयमाने दीपे । तद्दानविधानादि विधानपारिजाते उड्डा-
मेश्वरतन्त्रे उक्तं यथा
“गोमयेनोपलिप्तायां शुद्धभूमौ समाहितः । तन्मध्ये
मण्डलं कार्य्यं त्रिकोणं विन्दुसंयुतम् । षट्कोणं तद्बहिः
कार्यं मध्ये मूलं समालिखेत् । तण्डुलैः कुङ्कुमाक्तैर्वा
रक्तचन्दनमिश्रितैः । तस्योपरि न्यसेद्दापं घृतपूरितवर्त्ति-
कम् । तं दीपं विधिनायुज्य पश्चात्सङ्कल्पयेत्ततः । कार्त्त-
वीर्य! महाबाहो! भक्तानामभयप्रद! । गृहाण दीपं
मद्दत्तं कल्याणं कुरु सर्वदा । अनेन दीपदानेन कार्त-
वीर्यस्तु प्रीयताम् । पश्चिमाभिमुखं दीपं कारयेत्
शुभकर्मणि । अभिचारे तु त्रितयं दक्षिणोत्तरपश्चिमे ।
नष्टप्राप्तौ च कुर्वीत पञ्चादिविषमान् पुनः । वश्या-
भिकाक्षी कुर्वीत गुर्वाज्ञां प्राप्य साधकः । चतुर्वर्गफला-
यैव शतदीपाबलिं ततः । मारणे तु सहस्रं स्याद्द-
शासाहस्रमेव च । दीपावलिं प्रकुवीर्त गुर्वाज्ञां प्राप्य
साधकः । चतुर्वर्गफलावाप्त्यै कुर्वीत प्रतिवासरम् ।
अनेन दीपदानेन कार्त्तवीर्यः प्रसीदति । एवं दीपं
सुरेशानि! कुर्वीत गुरुशासनात्! । महाभये समुत्पन्ने
चिन्ताव्याकुलितेक्षणे । लवणं स्वर्णसंयुक्तं देयं रात्रौ
विचक्षणैः । पूर्णमासीदिने कुर्यान्नगरैका प्रदक्षिणा । ग्रामे
पुरे गोव्रजे वा साधकः सर्वकालतः । एतत् सारतरं
देवि! न देयं यस्य कस्यचित् । गुरुभक्ताय शान्ताय
साधकाय प्रकाशयेत् । नास्तिकाय न दातव्यं परशिष्याय नो
वदेदिति” । तद्दीपपात्रादिविवृतिः तत्रैव
“राजचोरादिपीडासु ग्रहरोगभयेषु च । नाना-
दु स्वेषु देवेशि! सुखप्राप्त्यै तथैव च । दीपं कुर्वीत विधिव-
दुगुरुदर्शितमार्गतः । दीपपात्रं नवं कार्यं महाकार्ये विशे-
षतः । सौवर्णं राजतं ताम्रं कांस्यं लौहं च मृण्मयम् ।
गोधूममाषमुद्गानां चूर्णेन घटितेऽथवा । सौवर्णे कार्य-
सिद्धिः स्यात् रौप्ये वश्य जगत् भवेत् । ताम्रे रिपोभयाभावः
कांस्ये विद्वेषणं भवेत् । मारणे लोहपात्रं च उच्चाटे
मृण्मयं तथा । गोधूमचूर्ण्घटिते विवादे विजयो घ्रुवम् ।
माषे शत्रुमुखस्तम्भो मुद्गे स्याच्छान्तिरुत्तमा । सन्धिकार्ये
नदीकूलद्वयोर्मृत्स्नां तु कारयेत् । अलाभे सर्वपात्राणां
ताम्रे कुर्याद्विचक्षणः । सप्त पञ्च तथा तिस्र एका वा
वर्तिका भवेत् । अयुग्मा बर्त्तिका ग्राह्या एकोत्तरशता-
वधिः । गुरुकार्येऽधिका कार्या स्वल्पे स्वल्पतमा प्रिये! ।
सूत्रं श्वेतं तथा पीतं माञ्जिष्ठञ्च कुसुम्भजम् । कृष्णञ्च
कर्वुरञ्चैव क्रमतो विनियोजयेत् । सर्वाभावे सितेनैव
कुर्याद्वर्त्तीः पृथक् भवेत् । दणपञ्चाधिकाश्चैव विंशत्रिंशा
स्तथैव च । चत्वारिंशत्तथा कार्याः पञ्चाशदपि वा भवेत् ।
अष्टोत्तरसहस्रं वा शतं पञ्चाशदेव च । तत्तत्कार्यवशाद्
देवि! कुर्यात्तन्तून् समाहितः । षट्कर्म्माणि तथा कुर्यात्
साधकश्च सुबुद्धिमान् । चत्वारिंशदधिकांश्च नित्यदीपे तु
कारयेत् । तदर्द्धमपि च प्रोक्तं देवि! विश्वार्तिहारिणि! ।
गोघृतेन प्रकर्त्तव्यो दीपः सर्वार्थसिद्धये । गोमयेनोपलि-
प्तायां भूमौ यन्त्रं समालिखेत् । कपिलागोमयेनैव षट्कोणञ्च
लिखेत्ततः । मारवीजं (क्लाँ) कर्णिकायां षट्पात्रे
वोजषट्ककम् । दिक्षुवीजचतुष्कञ्च शेषैः संवेष्टयेद्धि तत् । तत्र
प्रत्यड्मुखो दीपः स्थाप्यः सर्वाङ्गसुन्द्ररि! । प्राणानायन्य
विधिवन्मूलेनाङ्गं समाचरेत् । मन्त्रराजं लिखित्वा तु
ताम्रपात्रेऽष्टगन्धकैः । स्थापयेत्पूर्वतस्तस्य कुर्यात्सङ्कल्पमाद-
रात्” । “अनेन विधिना देवि! कार्त्तवीर्यस्य गोपतेः ।
दीपोदेयः प्रयत्नेन सर्वकार्यमभीप्सता । गुरोराज्ञां पुरस्कृत्य
कुर्यादुदेवि! प्रयत्नतः । अन्यथा तु कृतं लोके विपरीतफलं
भवेत् । विधानं दीपदानस्य कृतघ्नपिशुनाय च । ब्रह्म-
कर्मविहीनाय न वक्तव्यं कदाचन । सुभक्ताय सुशिष्याय-
साधकाय विशेषतः । वक्तव्यं देवि! विधिना मम प्रीतिकरं
शिवम् । किं बहूक्तेन भो देवि! कल्पोऽयमखिलार्थदः ।
अथाभिधोयते मानमाज्यस्य वरवर्णिनि! । साधकानां
हितार्थाय सर्वार्थस्य च सिद्धये । पलानां पञ्चविंशस्तु दीपो
देयोऽर्थसिद्धये । पञ्चाशता घोरशान्त्यै शत्रुवश्याय चेष्यते ।
पञ्चसप्ततिर्देवेशि! शत्रूणां स्यात् पराजये । एतेन
रोगनाशः स्यात् सहस्रेणाखिलाः क्रियाः । सिध्यन्ति
साधकानां हि प्रयोगा येऽतिदुष्कराः । नित्यदीपे न
मानं हि कार्यः सोऽत्र स्वशक्तितः । यथाकथञ्चिद्देवेशि!
नित्यं दीपं प्रकल्पयेत् । कार्त्तवीर्याय देवेशि! सर्वकल्पाण
सिद्धये । गुरुकार्य्येऽधिकं मानं कर्त्तव्यं देवि! सर्व्वदशि
लघुद्रव्यैः प्रकर्तव्यः लघुकार्ये वरानने! । विना मानं
न कुर्वीत कार्तवीर्यस्य गोपतेः” ।
पृष्ठ १९४७
अधिकं तत्र दृश्यम् । मन्त्रमहोदधौ १७ तरङ्गे ।
कार्त्तवोर्य्यमन्त्रादिकमुक्त्वा विशेषो दर्शितो यथा
“अथ दीपविधिं वक्ष्ये कार्त्तवीर्य्यप्रियङ्करम् । वैशाखे श्रावणे
मार्गे कार्त्तिकाश्विनपौषतः । माघफाल्गुनयोर्मासोर्दी-
पारम्भ समाचरेत् । तिथौ रिक्ताविहीनायां वारे
शनिकुजौ विना । हस्तोत्तराश्विरौद्रेषु ६ पुष्पवैष्णव २२
वायुभॆ५ । द्विदैवते १६ च रोहिण्यां दीपारम्भो हितार्थि-
नाम् । चरमे २७ च, व्यतीपाते धृतौ वृद्धौ सुकर्म्मणि । प्रीतौ
हर्षे च सौभाग्ये शोभनायुष्मतोरपि । करणे विष्टिरहिते
ग्रहणेऽर्द्धोदयादिषु । योगेषु रात्रौ पूर्व्वाह्णे दीपारम्भः
कृतः शुभः । कार्त्तिके शुक्लसप्तम्यां निशीथेऽतीव शोभनः ।
यदि तत्र रवेर्व्वारः श्रवणं तत्र दुर्लभम् । अत्यावश्यक-
कार्य्यषु मासादीनां न शोधनम् । आद्येऽह्न्युपोष्य नियतो
ब्रह्मचारी शयीत कौ । प्रातः स्नात्वा शुद्धभूभौ लिप्तायां
गोमयोदकैः । प्राणानायम्य सङ्कल्प्य न्यासान् पूर्ब्बोदितां-
श्चरेत् । षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः ।
अन्तःस्मरं (क्लाँ) समालिख्य षट्कोणेषु समालिखेत् ।
मन्त्रराजस्य षड्वर्ण्णान् कामवीजविवर्ज्जितान् । सृणि
पद्मं वर्म्म चास्त्रं पूर्व्वाद्याशास्तु संलिखेत् । नवार्णै-
र्वेष्टयेत्तच्च त्रिकोणं तद्बहिः पुनः । एवं विलिखिते यन्त्रे
निदध्याद्दीपभाजनम् । स्वर्णजं रजतोत्थं वा ताम्रजं
तदभावतः । कांस्यपात्रं मृण्मयञ्च कनिष्ठं लौहजं मृतौ ।
शान्तये मुद्गचूर्णोत्थं सन्धौ गोधूमचूर्णजम् । बुध्नेषूर्द्ध्वं
समानं तु पात्रं कुर्य्यात् प्रयत्नतः । अर्कदिग्वसुषट्
पञ्चचतूरामाङ्गुलैर्मितम् । आज्य पलसहस्रे तु पात्रं
शतपलैः कृतम् । आज्येऽयुतपले पात्रं पलपञ्चशती-
कृतम् । पञ्चसप्रतिसंख्ये तु पात्रं षष्टिपलं मतम् ।
त्रिसहस्रीकृतपले शरार्क १२५ पलभाजनम् । द्वि-
सहस्र्यां शरशिवं ११५ शतार्द्धे त्रिंशता मितम् ।
शठेऽक्षिशर ५५ संख्यातमेवमन्यत्र कल्पयेत् । नित्यदीपे
वह्निपलं पात्रमाज्ये स्मृतं पलम् । एवं पात्रं प्रति-
ष्ठाप्य वर्त्तीः सूत्रोत्थिताः क्षिपेत् । एका तिस्रोऽथ वा
पञ्च सप्ताद्या विषमाअपि । तिथि १५ माद्या ऽऽसह
स्रन्तु तन्तुसंख्या विनिर्म्मिता । गोघृतं प्रक्षिपेत्तत्र
शुद्धवस्त्रविशोधितम् । सहस्रपलसंख्यादि दशान्तं
कार्य्यगौरवात् । सुवर्णादिकृतां रम्यां शलाकां षोडशा-
ङ्गुलाम् । तदर्द्धां वा तदर्द्धां वा सूक्ष्माग्रां स्थूल-
मूलिकाम् । विसुञ्चेद्दक्षिणे भागे पात्रमध्ये कृताग्रकाम् ।
पात्राद्दक्षिणदिग्भागे मुक्त्वाऽङ्गुलचतुष्टयम् । अधोऽग्रां
दक्षिणाधारां निखनेच्छुरिकां शुभाम् । दीपं प्रज्वा-
लयेत्तत्र गणेशस्मृतिपूर्ब्बकम् । दीपात् पूर्ब्बत्र दि
ग्भागे सर्व्वतो भद्रमण्डले । तण्डुलाष्टदले वापि
विधिवत् स्थापयेद्घटम् । तत्रावाह्य नृपाधीशं पूर्व्ववत्
पूजयेत् सुधीः । लाजाक्षतान् समादाय दीपं सङ्कल्प-
येत्ततः । दीपसङ्कल्पमन्त्रोऽथ कथ्यते द्वीषु ५२
भूमितः” । ततस्तन्मन्त्रादिकमुक्त्वा शेषविधिर्दर्शितो यथा
“एवं दीपप्रदानस्य कर्त्ताप्नोत्यखिलेप्सितम् । दीपप्रबोध
काले तु वर्ज्जयेदशुभाङ्गिरम् । विप्रस्य दर्शनं तत्र
शुभदं परिकीर्त्तितम् । शूद्राणां मध्यमं प्रोक्तं म्लेच्छस्य
बधबन्धनम् । आखोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम् ।
दीपज्वाला समा सिद्ध्यै, वका नाशविधायिनी । कृते दीपे
यदा पात्र भग्नं दृश्येत दैवतः । पक्षादर्व्वाक् तदा गच्छे
दुयजमानोयमालयम् । वर्त्त्यन्तरं यदा कुर्य्यात् कार्य्यं सिध्ये-
द्विलम्बतः । नेत्रहीनो भवेत् कर्त्ता तस्मिन् दीपान्तरे
कृते । अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः ।
श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितोभयम् । यात्रारम्भे
वसुपलेः कृतोदीपोऽखिलेष्टदः । तस्माद्दीपः प्रयत्नेन
रक्षणीयोऽन्तरायतः । आ समाप्तेः प्रकुर्व्वीत ब्रह्मचर्य्यञ्च
भूशयः । स्त्रीशूद्रपतितादीनां सम्भाषामपि वर्जयेत् ।
जपेत् सहस्रं प्रत्यह्नि मन्त्रराजं नवाक्षरम् । स्त्रोत्र-
पाठं प्रतिदिनं निशीथिन्यां विशेषतः । एकपादेन
दीपाग्रे स्थित्वा यो मन्त्रनायकम् । सहस्रं प्रजपेद्रात्रौ
सोऽभीष्टं क्षिप्रमाप्नुयात् । समाप्य शोभने घस्रे संभोज्य
द्विजनायकान् । कुम्भोदकेन कर्त्तारमभिषिञेन्मनुं स्मरन् ।
कर्त्ता तु दक्षिणां दद्यात् पुष्कलां तोषहेतवे । गुरौ तुष्टे
ददातीष्टं कृतवीर्य्यसुतोनृपः । गुर्व्वाज्ञया स्वयं कुर्य्याद्यदि
वा कारयेद्गुरुम् । कृत्वा रत्नादिदानेन दीपदानं
धरापतेः । गुर्व्वाज्ञामन्तरा कुर्य्याद्यो दीपं स्वेष्टसिद्धये ।
प्रत्युतानुभवत्येष हानिमेव पदे पदे । दीपदानविधिं
ब्रूयात् कृतघ्नादिषु नो गुरुः । दुष्टेभ्यः कथितोमन्त्रो वक्तु
र्दुःखावहो भवेत् । उत्तमं गोघृतं, प्रोक्तं मध्यमं
महिषीभवम् । तिलतैलन्तु तादृक् स्यात् कनीयोऽजादिजं
घृतम् । आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम् ।
सिद्धार्थसम्भवेनाथ द्विषतां नाशसिद्धये । सहस्रेण
पलर्दीपे विहिते चेन्न दृश्यते । कार्य्यसिद्धिस्तदा कुर्य्याद्द्विवारं
दीपजं विधिम् । तदा सुदुर्लभं कार्य्यं सिध्यत्येव न
पृष्ठ १९४८
संशयः । यथा कथञ्चिद्यः कुर्य्याद्दीपदानं स्ववेश्मनि ।
विघ्नाः सर्व्वेऽरिभिः साकं तस्य नश्यन्ति द्वरतः । सर्व्वदा
जयमाप्नोति पुत्रान् पौत्रान् धनं यशः । यथा कथञ्चि-
द्यो गेहे नित्यं दीपं समाचरेत् । कार्त्तवीर्य्यार्जुनप्रीत्यै
सोऽभीष्टं लभते नरः । दीपप्रियः कार्त्तवीर्य्योमार्त्तण्डो
नतिवल्लभः । स्तुतिप्रियो महाविष्णुर्गणेशस्तर्पणप्रियः ।
दुर्गाऽर्चनप्रिया नूनमभिषेकप्रियः शिवः” ।
कार्त्तवीर्य्यस्य च दत्तात्रेयलब्धयोगप्रभावात् हरेश्चक्रावता-
राच्च उपास्यत्वम् । यथा चास्य हरेश्चक्रांवतारत्वं तथा तस्य
ध्याने वर्णिर्त यथा “उद्यत्सूर्य्यसहस्रकान्तिरखिलक्षौणी-
धवैर्वन्दितो हस्तानां शतपञ्चकेन च दधच्चापानिषूं-
स्तावता । कण्ठेहाटकमालया परिवृतश्चक्रावतारो हरेः
पायात् स्यन्दनगोऽरुणाभवसनः श्रीकार्त्तवीर्य्यो नृपः” ।
२ सुभूमाख्ये जैनराजचक्रवर्त्तिभेदे हेमच० ।

कार्त्तवीर्य्यारि पु० ६ त० । परशुरामे यथा च तस्य

तदरित्वं तथा वर्ण्णितम् भा० व० ११६ अ० यथा
अथानूपपतिर्वीरः कार्त्तवीर्योऽभ्यवर्त्तत । तमाश्रम-
पदं प्राप्तमृषेर्भार्या समार्चयत् । स युद्धमदसम्मत्तो नाभ्य-
नन्दत्तथार्च्चनम् । प्रमथ्य चाश्रमात्तस्माद्धीमधेनोस्ततो
बलात् । जहार वत्सं क्रोशन्त्या षभञ्ज च महाद्रुमान् ।
आगताय च रामाय तदाचष्ट पिता स्वयम् । गाञ्च
रोरुदतीं दृष्ट्वा कोपो रामं समाविशत् । स मृत्युवश-
मापन्नं कार्त्तवोर्य्यमुपाद्रवत् । तस्याथ युधि विक्रम्य
भार्गवः परवीरहा । चिच्छेद निशितैर्भल्लैर्बाहून् परिघ
सन्निभान् । सहस्रसम्मितान् राजन्! प्रगृह्य रुचिरं
धनुः । अभिमूतः स रामेण संयुक्तः कालशधर्म्मणा” ।
कार्त्तवीर्य्यविजेत्रादयोत्र ।

कार्त्तस्वर न० कृतस्वरे आकरभेदे भवम् अण् कृताः पठिताः

स्वरा येन कृतस्वरः सामगानकर्तृभेदस्तस्मे दक्षिणात्वेन
देयम् शैषिकोऽण् वा । १ स्वर्णे तन्नामनामके २ धूस्तुरे च
अमरः “स तप्तकार्त्त स्वरभास्वराम्बरः” माधः । पृथु-
कार्त्तस्वरपात्रम्” सा० द० ।

कार्त्तान्तिक त्रि० कृतान्तं वेत्ति उक्थादेराकृतिगणत्वात् ठक् । ज्योतिर्विद्यावेत्तरि अमरः ।

कार्त्तिक पु० कृत्तिकानक्षत्रेण युक्ता पौर्णमासी कृत्तिका +

अण् ङीप् कार्त्तिकी साऽस्मिन् मासे अण् पक्षे ठक् । वैशा
खावधिके सप्तमे १ चान्द्रेमासे यन्मासीयपौर्णमास्यां कृत्ति-
कानक्षत्रसम्बन्धः सम्भवति तादृशे मासे तस्य च यथा तथा
त्वं तथा सू० सि० रङ्गनाथाभ्यां दर्शितं यथा
“नक्षत्रनाम्ना मासास्तु ज्ञेयाःपर्वान्तयोगतः” सू० सि० ।
“माससञ्ज्ञा महानक्षत्रनाम्नेति । पर्वान्तयोगतः पर्वान्तः
पूर्णिमान्तः तस्य योगात्तत्सम्बन्धात् । नक्षत्रसंज्ञया मासाः ।
तुकाराच्चान्द्रामासा ज्ञेया इति तात्पर्यार्थः । तथा हि
यद्दर्शान्तावधिकश्चान्द्रो मासस्तदभ्यन्तरस्थितपूर्णिमान्तस्थित-
चन्द्रनक्षत्रसञ्ज्ञः । यथाचित्रासम्बन्धाच्चैत्रः । विशाखास-
म्बन्धाद्वैशाखः । ज्येष्ठासम्बन्धाज्ज्यैष्ठः । आषाढासम्ब-
न्धादाषाढ़ः । श्रवण सम्बन्धाच्छ्रावणः । भाद्रपदासम्ब-
न्धाद्भाद्रपदः । अश्विनीसम्बन्धादाश्विनः । कृत्तिकासम्ब-
न्धात् कार्तिकः । मृगशीर्षसम्बन्धान्मार्गशीर्षः । पुष्यसम्बन्धात्
पौषः मघासम्बन्धान्माघः । फाल्गुनीसम्बन्धात् फाल्गुन
इति । ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्सञ्ज्ञा
मासानामुचितेत्यत आह” रङ्ग० ।
“कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम् । अन्त्यो-
पान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू० सि० ।
“नक्षत्रसंयोगार्थमिति निमित्तसप्तमी । कार्तिक्यादिषु
कार्तिकमासादीनां पौर्णमासीष्वित्यर्थः । कृत्तिकादि द्वयं
द्वयं नक्षत्रं कथितं कृत्तिकारोहिणीभ्यां कार्तिकः । मृगा-
र्द्राभ्यां मार्गशीर्षः । पुनर्वसुपुष्याभ्यां पौषः । अश्लेषाम-
घाभ्यां माघः । चित्रास्वातीभ्यां चैत्रः । विशाखानुरा-
धाभ्यां वैशाखः । ज्येष्ठामूलाभ्यां ज्यैष्ठः । पूर्वोत्तराषा-
ढ़ाभ्यामाषाढः । श्रवणधनिष्ठाभ्यां श्रावण इति फलितम् ।
अवशिष्टमासानामाह । अन्त्योपान्त्याविति । अत्र कार्ति-
कस्यादित्वेन ग्रहादन्त्य आश्विनः । उपान्त्यो भाद्रपदः ।
एतौ मासौ पञ्चमः फालगुनः । चकारः समुच्चयः इति
मासत्रयं त्रिधा स्थानत्रय उक्तम् । रेवत्यश्विनीभरणीति
नक्षत्रत्रयसम्बन्धादाश्विनः । शततारापूर्वोत्तराभाद्रपदेति
नक्षत्रत्रयसम्बन्धाद्भाद्रपदः । पूर्वोत्तराफाल्गुनीहस्तेति नक्ष-
त्रत्रयसम्बन्धात् फाल्गुन इति सिद्धम्” रङ्गनाथ ।
आन्द्रकार्त्तिकत्वञ्च तुलाराशिस्थरव्यारब्धशुक्लप्रतिपदा-
दिदर्शान्तत्वम् “मीनादिस्थो रविर्य्येषामारम्भप्रथमक्षणे ।
भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” व्यास
वचनात् । २ तुलास्थरविके तादृशे सौरमासे । तल्लक्षणन्तु
तुलास्थरविकत्रिं शद्दिनत्वं सौरकार्त्तिकत्वम् । “चन्द्रमाः
कृष्णपक्षान्ते सूर्य्येण सह युज्यते । सन्निकर्षादथारभ्य
सन्निकर्षमथापरम् । चन्द्रार्कयोर्बुधैर्मासश्चान्द्रैत्यभि-
धीयते । आदित्यराशिभोगेन सौरोमासः प्रकीर्त्तितः”
इति विष्णुध० वचनात् । “चण्डालो जायते राजन्!
पृष्ठ १९४९
कार्त्तिके मांसभक्षणात्” पद्म पु० “शेते विष्णुः सदाषाढे
भाद्रे च परिवर्त्तते । कार्त्तिके परिबुध्येत शुक्लपक्षे
हरेर्दिने” मत्स्यपु० । तत्र नानार्थशब्दानामेकत्र शक्ति-
रन्यत्र लक्षणेति सिद्धान्तात् चान्द्रे मुख्यत्वम्, सौरे
गौणत्वमिति रघु० । उभयत्र शक्तिरिति कालमाधवीये
स्थितम् । मासशब्दे विवृतिः । एवं मार्गादीनां चान्द्र-
सौरलक्षणमूह्यम् । ३ कृत्तिकानक्षत्रयुक्तपौर्ण्णमासीघटिते
अर्द्धमासात्मके तत्पक्षे च । “नक्षत्रेण युक्तः कालः”
“सास्मिन् पौर्ण्णमासीति संज्ञायाम्” पा० व्या०
जयादित्येन अस्मिन्निति दशरात्रादिव्यावृर्त्त्यर्थं मासार्द्धमास-
संवत्सराणामिय संज्ञेति व्याख्याय उदाहृतं पौषो-
मासः पोषोऽर्द्धमासः पौषः संवत्सर इति” । गुरोः
कृत्तिकारोहिण्योरन्यतरनक्षत्रेण पर्वान्तयोगे गुरोरस्तो-
दयोपलक्षिते ४ वर्षे च यथोक्तं सू० सि० रङ्गनाथाभ्याम्
“अथ प्रसङ्गात् कार्तिकादिवृहस्पतिवर्षाण्याह” रङ्ग० ।
“वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ । कार्तिका-
दीनि वर्षाणि गुरोरस्तोदयात् तथा” सू० सि० ।
“यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासो
भवति । तथेति समुच्चयार्थकम् । वृहस्पतेः सूर्यसान्निध्यदू-
रत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्ण-
पक्षे पञ्चदशे तिथौ अमायामित्यर्थः । चकारः पौर्ण-
मासीसम्बन्धसमुच्चयार्थकः । योगे उक्तनक्षत्रमम्बन्धे--कार्ति-
कादीनि द्वादश वर्षाणि भवन्ति । वैशाखकृष्णपक्षीया-
मायां वृहस्पतेरस्त उदये वा जाते सति तदादि
वृहस्पतिर्वषं कृत्तिकादिनक्षत्रसंबन्धात् कार्तिकस--ञ्-
ज्ञम् । एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनमार्गशीर्षपौष-
माघफाल्गुनचैत्रामादिषु मृगपुष्यमघापूफाचित्राविशाखा-
ज्येष्ठापूर्वाषाश्रवणपूभाश्विनीदिन नक्षत्रसम्बन्धान्मार्ग शीर्षा-
दीनि भवन्ति । अत्रापि प्रोक्तनक्षत्रद्वयत्रयसम्बन्धः प्रागु-
क्तो बोध्यः । अमेत्याद्युपलक्षणम् । तेन यद्दिने
बृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्स-
ञ्ज्ञं बार्हस्पत्यं वर्षं भवतीति तात्पर्यम् । संहिताग्रन्थऽ-
स्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्षव्यवहारो गणकै-
र्गण्यते “येनोदितेज्य” इत्युक्तेरिति” रङ्ग० ।
तस्य च विवृतिः मलमासतत्त्वे यथा
“यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्ति-
कादित्वं तथा वर्षाणां वृहस्पतेरस्तोदयसम्बन्धात् कार्त्तिका-
दित्वम् तेन कृत्तिकारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तो-
दयैकतरलाभे कार्त्तिकवर्षम् एवं मार्गशीर्षादि । यत्र वर्ष-
द्वयघटकयोनेक्षत्रयोरेकतरस्मिन्नस्तं गतोगुरुरन्यस्मिन्नदेति
तत्र का गतिरेति चेत् कार्त्तिकोत्तरं मार्गशीर्षं
मार्गशीर्षोत्त्रं पौषमित्यादिकमाद्गतिः”
वार्हस्पत्यवर्षप्रयोजनमुक्तं सू० सि० “वार्हस्पत्येन षष्ठ्यब्दं
ज्ञेयं नान्यैस्तु नित्यशः” । षष्ठ्यब्दं प्रभवादिवर्षाणि ।
यथा च कार्त्तिकशब्दस्य कार्त्तिकीयुक्तार्द्धमासपरत्वं वर्षभेद
परत्वं च जयादित्येन दर्शितं तथा आग्रहायणाश्विना-
षाढ शब्दानामपि तादृशपौर्ण्णमार्साघटितपक्षवत्सरपरत्वं
पूर्ब्बमनुक्तमपि ज्ञेयम् ।
कृत्तिकाणामयं पोष्यत्वेन अण् । अग्नौ निषिक्तरुद्र-
तेजोजाते ५ स्कन्दे देवे । तस्य कृत्तिकापोष्यत्वकथा च
भा० आनु० ८४ अ० यथा ।
“शूलपाणेभर्ग वतो रुद्रस्य च महात्मनः । गिरौ
हिमवति श्रेष्ठे तदा भृगुकुलोद्वह । देव्या विवाहे निर्वृत्ते
रुद्राण्या भृगुनन्दन! । समागमे भगवतो देव्या सह
महात्मनः । ततः सर्व्वे समुद्विग्ना देवं रुद्रमुपागमन् । ते
महादेवमासीनं देवीञ्च वरदामुमाम् । प्रसाद्य शिरसा सर्व्वे
रुद्रमूचुर्भृगूद्वह! । अयं समागसो देव! देव्या सह
तवानघ! । तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः ।
अमोघतेजास्त्वं देव! देवी चेयमुमा तथा । अपत्यं युवयोर्द्देव!
बलवद्भविता विभो! । तन्नूनं त्रिषु लोकेषु न कञ्चिच्छे-
षयिष्यति । तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन! ।
वरं प्रयच्छ लोकेश! त्रैलोक्यहितकाम्यया । अपत्यार्थं
निगृह्णीष्वतेजः परमकं विभो! । त्रैलोक्यसारौ हि युवां,
लोकं सन्तापयिष्यथः । तदपत्यं हि युवयोर्द्देवानभिभवे-
द्ध्रुवम् । न हि ते पृथिवी देवी नच द्यौस्त्रिदिवं विभो! ।
नेदं धारयितुं शक्ताः समस्ता इति नो मतिः । तेजः
प्रभावनिर्द्दग्धं तस्मात् सर्व्वमिदं जगत् । तस्मात् प्रसादं
भगवन! कर्त्तुमर्हसि नः प्रभो! । न देव्यां सम्भवेत्पुत्त्रो
भवतः सुरसत्तम! । धैर्य्यादेव निगृह्लीष्व तेजो ज्वलित-
मुत्तमम् । इति तेषां कथयतां भगवान् गोवृषध्वजः ।
एवमस्त्विति देवांबवान् विप्रर्षे । प्रत्यभाषत । इत्युक्त्वा चोर्द्ध्व-
मनयद्रेतो वृषभवाहनः । ऊर्द्ध्वरेताः समभवत्ततः प्रभृति
चापि सः । रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते ।
देवानथाब्रवीत्तत्र स्त्रीभावात् परुषं वचः । यस्मादपत्य-
काभो वै भर्त्ता मे विनिवर्त्तितः । तस्मात् सव्व सुरा
यूयभनपत्या भविष्यथि । प्रजोच्छदो मम कृतो यस्माद्य
पृष्ठ १९५०
ष्माभिरद्य वै । तस्मात् प्रजा वः खगमाः सर्व्वेषां न
भविष्यति । पावकस्तु न तत्रासीच्छापकाले भृगूद्वह! ।
दे देवाव्यास्तथा शापादनपत्यास्तथाऽभवन् । रुद्रस्तु तेजो-
ऽप्रतिम धारयामास वै तदा । प्रस्कन्नन्तु ततस्तस्मात्
किञ्चित्तत्रापतद्भुवि । उत्पपात तदा वह्नौ ववृधे चाद्भु-
तोपमम् । तेजस्तेजसि संपृक्तमात्मयोनित्वमागतम्“ ।
इत्युपक्रम्य तारकासुरेण बाधितानां देवानां ब्रह्मसमीपे
वरप्रार्थनादिकमुक्तं यथा
“देवा ऊचुः । असुरस्तारको नाम त्वया दत्तोवरः
प्रभो! । सुरानृषींश्च क्लिश्नाति बधस्तस्य विधीयताम् ।
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह! । परित्रायस्व नो
देव! न ह्यन्या गतिरस्ति नः । ब्रह्मोवाच । समोऽहं
सर्व्वभूतानामधर्म्मं नेह रोचये । हन्यतां तारकः क्षिप्र
सुरर्षिगणबाधिता । वेदा धर्म्माश्च नोच्छेद गच्छेयुः
सुरसत्तमाः! । विहितं पूर्ब्बमेवात्र मया वै व्येतु वो
ज्वरः । देवा ऊचुः । वरदानाद्भगवतो दैतेयोबलग-
र्व्वितः । देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् । स
हि नैव स्म देवानां न सुराणां न रक्षसाम् । बध्यः स्यामिति
जग्राह वरं त्वत्तः पितामह! । देवाश्च शप्ता रुद्राण्या
प्रजोच्छेदे पुरा कृते । न भविष्यति वोऽपत्यमिति सर्व्वे
जगत्पते! । ब्रह्मोवाच । हुताशनो न तत्रासीच्छाप-
काले सुरोत्तमाः! । स उत्पादयिताऽपत्य बधाय त्रिद-
शद्विषाम् । तद्वै सर्व्वानतिक्रम्य देवदानवराक्षसान् ।
मनुष्यानथ गन्धर्व्वान्नागानथ च पक्षिणः । अस्त्रेणा-
मोघपातेन शक्त्या तं घातयिष्यति । यतो वो भयमुत्पन्नं
ये चान्ये सुरशत्रवः । सनातनो हि संकल्पः काम
इत्यभिधीयते । रुद्रस्य रेतः प्रस्कन्नमग्नौ निपतितञ्च
यत् । तत्तेजोऽग्निर्म्महद्भूतं द्वितीयमिव पावकम् । बधार्थं
देवशत्रूणां गङ्गायां जनयिष्यति । स तु नावाप तं
शापं नष्टः स हुतभुक् तदा । तस्माद्वो भयहृद्देवाः!
समुत्पत्स्यति पावकिः । अन्विष्यतां वै ज्वलनस्तथा
चाद्य नियुज्यताम् । तारकस्य बधोपायः कथितो वै
मयाऽनघाः! । न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति
वै । बलान्यतिबलं प्राप्य दुर्ब्बलानि भवन्ति वै । हन्या-
दबध्यान् वरदानपि चैव तपस्विनः । सङ्कल्पाभिरुचिः
कामः सनातनतमोऽभवत् । जगत्पतिरनिर्द्देश्यः सर्व्वगः
सर्व्वसावनः । हृच्छयः सर्व्वभूतानां ज्येष्ठो रुद्रादपि
पभुः । अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः ।
स वो मनोगतं कामं देवः सम्पादयिष्यति । एतद्वाक्य-
मुपश्रुत्य ततो देवा महात्मनः । जग्मुः संसिद्धसङ्कल्पाः
पर्य्येषन्तो विभावसुम् । ततस्त्रैलोक्यमृषयो विचिन्वन्तः
सुरैः सह । काङ्क्षन्तो दर्शनं वह्नेः सर्व्वे तद्गतमानसाः ।
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः । लोकान-
न्वचरन् सिद्धाः सर्व्व एव भृगूत्तम! । नष्टमात्मनि संलीनं
नाधिजन्मुर्हुताशनम् । ततः सञ्जातसन्त्रासानग्नेर्द्दर्शन-
लालसान् । जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः ।
उवाच देवान्मण्डूको रसातलतलोत्थितः” इत्युपक्रम्य ८५
अ० देवैरग्निसमागमेततो देवैः प्रार्थितवरादिमुक्तं यथा ।
“अग्निरुवाच । ब्रत यद्भवतां कार्य्यं कर्त्ताऽस्मि तदहं
सुराः! । भवतन्तु वियोज्योऽस्मि मा वोऽत्रास्ति विचा-
रणा । देवा ऊचुः । असुरस्तारको नाम ब्रह्मणो
वरदर्पितः । अस्मान् प्रबाधते वीर्य्याद्बधस्तस्य विधीयताम् ।
इमान् देवगणास्तात! प्रजापतिगणांस्तथा । ऋषीँश्चापि
महाभाग! परित्रायस्व पावक! । अपत्यं तेजसा युक्तं
प्रवीरं जनय प्रभो! । यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवा-
हन! । शप्तानां नो महादेव्या नान्यदस्ति परायणम् ।
अन्यत्र भवतो वीर्य्यात्तस्मात्त्रायस्व नः प्रभो! । इत्युक्तः
स तथेत्युक्त्वा भगवान् हव्यबाहनः । जगामाथ दुराधर्षो
गङ्गां भागीरथीं प्रति । तया चाप्यभवन्मिश्रो गर्भञ्चास्या
दधे तदा । ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ।
नेजसा तस्य देवस्य गङ्गा विह्वलचेतना । सन्तापमगम-
त्तीव्रं सा सोढ़ुं न शशाक ह । आहिते ज्वलनेनाथ
गर्भे तेजःसमन्विते । गङ्गायामसुरः कश्चिद्भैरवं
नादमानदत् । अबुद्धिपतितेनाथ नादन विपुलेन सा । वित्र-
स्तोद्भ्रान्तनयना गङ्गा विह्वललोचना । विसज्ञा नाशकद्-
गर्मं वोढुमात्मानमेव च । सा तु तेजःपरीताङ्गी कम्प-
यन्तीव जाह्नवी । उवाच ज्वलनं विप्र! तदा गर्भबलोद्धृता ।
न ते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे । विमूढाऽस्मि
कृताऽनेन न मे स्वास्थ्यं यथा पुरा । विह्वला चास्मि
भगवंश्चेतो नष्टञ्च मेऽनघ! । धारणे नास्य शक्ताऽहं गर्भस्य
तपतां वर! । उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्
कथञ्चन । न तेजसोऽस्ति संम्पर्शो मम देव! विभावसो! ।
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते! । तदन्न
गुणसम्पन्नमितरद्वा हुताशन! । त्वय्येव तदहं मन्येधर्म्मा-
धर्म्मौ च केवलौ । तामुवाच ततो वह्निर्धार्य्यतां धार्य्य-
तामिति । गर्भो मत्तेजसा युक्तो महागुणफलोदयः ।
पृष्ठ १९५१
शक्ता ह्यसि महीम् कृत्स्नां वोढुं धारयितु तथा । न
हि ते किञ्चिदप्राप्यमन्यतो धारणडते । सा वह्निना
वार्य्यमाणा देवेरपि सरिद्वारा । ससुत्ससर्ज्ज तं गर्भं मेरौ
गिरिवरे तदा । समर्था धारणे चापि रुद्रतेजःप्रधर्षिता ।
नाशकत्तं तदा गर्भं संधारयितुमोजमा । सा समुत्सृज्य
तं दु खाद्दीप्तवैश्वानरप्रभम् । दर्शयामास चाग्निस्तां तदा
गङ्गां भृगूद्वह! । पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखो-
दयः । कोदृग्वर्णोऽपि वा देवी कीदृग्रूपश्च दृश्यते ।
तेजसा केन वा युक्तः सर्व्वमेतद्ब्रवीतु मे” ।
“गङ्गोवाच । जातरूपः स गर्भो वै तेजसां त्वमिवा-
नघ! । सुवर्ण्णो विमलो दोप्तः पर्व्वतञ्चावभासयत् । पद्मो-
त्पलविमिश्राणां ह्रदानामिव शीतलः । गन्धोऽस्य
सकदम्बानां तुल्यो वै तपतांवर! । तेजसा तस्य गर्भस्य भास्क-
रस्येव रश्मिभिः । यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु
च । तत् सर्व्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत । पर्य्य-
धावत शैलांश्च नदीः प्रस्रवणानि च । व्यादीपयँस्तेजसा
च त्रैलोक्यं सचराचरम् । एवं रूपः स भगवन्! पुत्रस्ते
हव्यवाहन! । सूर्य्यवैश्वानरसमः कान्त्या सोम इवापरः ।
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत । पावकश्चापि
तेजस्वी कृत्वा कार्य्यं दिवौकसाम् । जगामेष्टं ततो देशं
तदा भार्गवनन्दन! । एतैः कर्म्मगुणैर्लोके नामाग्नेः
परिग यते । हिरण्यरेता इति वै ऋषिभिर्व्विबुधैस्तथा । पृथिवी
च तदा देवी ख्यातोवसुमतीति वै । स तु गर्भो महातेजा
गाङ्गेयः पावकोद्भवः । दिव्यं शरवणं प्राप्य ववृधेऽद्भुत-
दर्शनः । ददृशुः कृत्तिकास्तन्तु बालार्कसदृशद्युतिम् ।
पुत्रञ्चैताश्च तं बालं पुपुषुस्तन्यविस्रवैः । ततः स कार्त्ति-
केयत्वमवाप परमद्युतिः । स्कन्नत्वात् स्कन्दताञ्चापि
गुहावासाद्गुहोऽभवत्” । अधिकं कार्त्तिकेयशब्दे वक्ष्यते ।
कार्त्तिकस्येयम् अण् ङीप् । कार्त्तिकी ६ देवीशक्तिभेदे
कौमार्य्याम् नवपत्रिकान्तर्गते जयन्तीस्थे ७ देवीभेदे च
कृत्तिकानक्षत्रेण युक्ता पौर्णमासी अण् ङीप् । चान्द्र-
कार्त्तिकमासस्य ८ पौर्णमास्याम् स्त्री । “कार्त्तिक्याः
आग्रहायणो मासे” महाभा० ।

कार्त्तिकव्रत न० कार्त्तिके कर्त्तव्यं व्रतम् । कार्त्तिकमासे

कर्तव्ये नियमभेदे । तन्माहात्म्यव्रतादि पाद्मस्कान्दयो
र्दर्शितं तत्रादौ तस्य नित्यत्वमुक्तम् स्कान्दे
“दुष्प्रापं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन्न हि ।
धर्म्मं धर्म्मभृतां श्रेष्ठ! स मातृपितृधातकः । अव्र-
तेन क्षिपेद् यस्तु मासं दामोदरप्रियम् । तिर्य्यग्यी-
निमवाप्नोति सर्व्वधर्म्मबहिस्कृतः । स ब्रह्महा स
गोघ्नश्च स्वर्णस्तेयी सदाऽनृती । न करोति मुनिश्रेष्ठ!
यो नरः कार्त्तिकव्रतम् । विधवा च विशेषेण व्रतं यदि न
कार्त्तिके । करोति मुनिशार्द्दूल । नरकं याति सा ध्रुवम् ।
व्रतन्तु कार्त्तिके मासि यदा न कुरुते गृही । इष्टापूर्त्तं
वृथा तस्य यावदाहूतनारकी । संप्राप्ते कार्त्तिके मासे
द्विजो व्रतपराङ्मुखः । भवन्ति विमुखाः सर्व्वे तस्य देवाः
सवासवाः । इष्ट्वा च बहुभिर्यज्ञैः कृत्वा श्राद्धशतानि
च । स्वर्गं नाप्नोति विप्रेन्द्र! अकृत्वा कार्त्तिके व्रतम् ।
यतिश्च विधवा चैव विशेषेण वनाश्रमी । कार्त्तिके नरकं
याति अकृत्वा वैष्णवं व्रतम् । वेदैरधीतैः किं तस्य?
पुराणपठनैश्च किम्? । कृतं यदि न विप्रेन्द्र! कार्त्तिके
वैष्णवं व्रतम् । जन्मप्रभृति यत् पुण्यं विधिवत्
समुपार्ज्जितम् । भस्मीभवति तत् सर्व्वमकृत्वा कार्त्तिके
व्रतम् । यद्दत्तञ्च् परं जप्तं कृतञ्च सुमहत्तपः । सर्व्वं
विफलतामेति अकृत्वा कार्त्तिके व्रतम् । सप्तजन्मार्ज्जितं
पुण्यं वृथा भवति नारद! । अकृत्वा कार्त्तिके मामि
र्वष्णवं व्रतमुत्तमम् । पापभूतास्तु ते ज्ञेया लोके मर्त्या
महामुने! । वैष्णवाख्य व्रतं यैस्तु न कृतं कार्त्तिके
शुभम्” । किञ्च “अकृत्वा नियमं विष्णोः कार्त्तिकं यः
क्षिपेन्नरः । जन्मार्ज्जितस्य पुण्यस्य फलं नाप्नोति
नारद!” । किञ्च “नियमेन विना चैव यो नयेत् कार्त्तिकं
मुने! । चातुर्म्मास्यं तथा चैव ब्रह्महा स कुलाधमः” ।
किञ्च “पिण्डदानं पितॄणाञ्च पितृपक्षे न वै कृतम् ।
व्रतं ना कार्त्तिके मासि श्रावण्यामृषितर्पणम् । चैत्रे
नान्दोलितो विष्णुर्म्माधस्नानं न सज्जले । न कृतां
मज्जन पुष्ये, श्राव रोहिणाष्टमी । सङ्गमे न कृता येन
द्वादशी श्रवणान्विता । कुत्र यास्यन्ति ते मूढा नाहं वेद्मि
कलिप्रिय!” । पाद्मे च “सौनकादिमुनिगणसंवादे
“मानुषः कर्म्मभूमौ यः कार्त्तिकं नयते मुधा । चिन्ता-
मणिं करे प्राप्य क्षिपते कर्द्दमाम्बुनि । नियमेन विना
विप्राः! कार्त्तिकं यः क्षिपेन्नरः । कृष्णः पराङ्मुखस्तस्य
यस्मादूर्जोऽस्य वल्लभः । यै र्न्न दत्तं हुतं जप्तं न
स्नानं न हरेर्व्रतम् । न कृतं कार्त्तिके पुत्र! द्विजास्ते
वै नराधमाः” । किञ्च “यै र्न दत्तं हुतं जप्तं कार्त्तिंके
न व्रतं कृतम् । तेनात्मा हारितो नूनं न प्राप्तं प्रार्थितं
फलम्” । अन्यत्र च “संप्राप्ते कार्त्तिके मासि ये रता न
पृष्ठ १९५२
जनार्दने । तेषां सौरिपुरे वासः पितृभिः सह नारद!” ।
किञ्च “कार्त्तिके नार्च्चितो यैस्तु भक्तिभावेन केशवः ।
नरकं ते गमिष्यन्ति यमदूतै स्तु यन्त्रिताः । जन्मकोटि-
सहस्रस्तु मानुष्यं प्राप्य दुर्ल्लभम् । कार्त्तिके नार्च्चि-
तो धिष्णुर्हारितं तेन जन्म वै । विष्णोः पूजा कथा विष्णो
र्वैष्णवानाञ्च दर्शनम् । न भवेत् कार्त्तिके यम्य हन्ति
पुण्यं दशाब्दिकम्” । कार्त्तिकसाहात्म्यं स्कान्दे
“कार्त्तिकस्य तु माहात्म्यं प्राक् सामान्येन लिख्यते । ततो
विशेषतस्तत्र कर्म देशादिभेदतः” इत्युपक्रम्य “कार्त्तिकस्य तु
मासस्य कोद्यंशेनापि नार्हति । सर्ब्बतीर्थेषु यत् स्नानंसर्व्व-
दानेषु यत्फलम् । एकतःसर्व्वतीर्थानिसर्व्वेयज्ञाः
सदक्षिणाः । एकतःपुष्करे वासः कुरुक्षेत्रे हिमाचले । मेरुतुल्य-
सुवर्णानि सर्व्वदानानि चेकतः । एकतः कार्त्तिको वत्स ।
सर्व्वदः केशवप्रियः । यत् किञ्चित् क्रियते पुण्यं विष्णु
सुद्दिश्य कार्त्तिके । तदक्षयं भवेत् सर्वं सत्योक्तं तव नारद! ।
कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः । पुण्यानां
परम पुण्यं पावनानाञ्च पावनः । यथा नदीनां विपेन्द्र!
शैलानाञ्चैव नारद! । उदधीनाञ्च विप्रर्षे! क्षयो
नैवोपपद्यते । पुण्यं कार्त्तिकमासे तु यत्किञ्चित क्रियते
मुने! । न तस्यास्ति क्षयो ब्रह्मम्! पापस्याप्येवमेव
च । न कार्तिकसमो मासो न कृतेन समं युगम् । न
वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम् । कार्तिकः
प्रवरो मासो वैष्णवानां प्रियः सदा । कार्तिकं सकलं यस्तु
भक्त्या सेवेत वैष्णवः । पितॄनुद्धरते सर्वान् नरकस्थान्
महामुने!” । पाद्मे “द्वादशस्वपि मासेषु कार्तिकः
कृष्णवल्लभः! । तस्मिन् संपूजितो विष्णुरल्पकैरप्यु-
पायनैः । ददाति वैष्णवं लोकमित्येवं निश्चितं मया ।
यथा दामोदरो भक्तवत्सलो विदितो जनैः । तस्यायन्ता-
दृशो मासः स्वल्पमप्युरुकारकः । दुर्लभो मानुषो देहो
देहिनां क्षणभङ्गुरः । तत्रापि दुर्लभः कालः कार्तिको
हरिवल्लभः । दीपेनापि हि तत्रासौ प्रीयते हरिरीश्वरः ।
सुगतिञ्च ददात्येब परदीपप्रबोधनात् ।”
“अथ तद्व्रतमाहात्म्यं स्कान्दे” “व्रतानामिह
सर्वेषामेकजन्मानुगं फलम् । कार्त्तिके तु व्रतस्योक्तं फलं
जन्मशतानुगम् । अक्रूरतीर्थे विप्रेन्द्र! कार्त्तिक्यां
समुपोष्य च । स्नात्वा यत् फलमाप्नोति तत् श्रुत्वा वैष्णवं व्रतम् ।
वाराणस्यां कुरुक्षेत्रे नैमिषे पुष्करेऽर्वुदे । गत्वा यत्
फलमाप्नोति व्रतं कृत्वा तु कार्तिके । अनिष्ट्वा च सदा
यज्ञैर्न कृत्वा पितृषु स्वधाम् । व्रतेन कार्त्तिके मासि
वैष्णवन्तु पदं व्रजेत् । प्रवृत्तानाञ्च भक्ष्याणां कार्त्तिके
नियमे कृते । अवश्यं कृष्णरूपत्वं प्राप्यते मुक्तिदं शुभम्” ।
किञ्च “ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा मुनिमत्तम!
वियोनिं न व्रजत्येव व्रतं कृत्वा तु कार्त्तिके” । किञ्च
“कार्त्तिके मुनिशार्दूल! स्वशक्त्या वैष्णवं व्रतम् । यः
करोति यथोक्तन्तु मुक्तिस्तस्य करे स्थिता । सुपुण्ये कार्त्ति-
के मासि देवर्षिपितृसेविते । क्रियमाणे व्रते नॄणां स्वल्पेऽपि
स्यान्महाफलम्” । तत्र कमविशेषमाहात्म्यं स्कान्दे
“दानं दत्त हुतं जप्तं तपश्चैव तथा कृतम् । तदक्षयफलं प्रो-
क्तं कार्त्तिके च द्विजसत्तम!” । किञ्च “यत्किञ्चित् कातिके
दत्तं विष्णुमुद्दिश्य मानवैः । तदक्षयं लभ्यते वै अन्नदानं
विशेषतः” । किञ्च “ये तु सवत्सरं पूर्णमग्निहोत्रमुपा-
सते । कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः ।
कार्तिके या करोत्येवं केशवालयमण्डनम् । स्वर्गस्था
शोभत सा तु कपौतो पक्षिणी यया । वः करोति नरो
नित्यं कार्त्तिके पत्रभोजनम । न स दुर्गतिमाप्नोति
यावदिन्दाश्चतुर्दश । जन्मप्रभृति यत् पापं मानवैश्च कृतं
भवत् तत् सर्व्व नाशमाप्नोति ब्रह्म(पलाश)पत्रेषु
भोजनात् । सर्व्वकामफलं तस्य सर्वतीर्थफलं भवेत् । न चापि
नरकं पश्येद्ब्रह्मपत्रेषु भोजनात् । ब्रह्म चैष स्मृतः साक्षात्
पलाशः सर्वकामदः । मध्यमं वर्ज्जितं पत्रं शूद्रस्य मुनि
सत्तम! । भुञ्जन्नरकमाप्नोति यावदिन्द्राश्चतुर्दश ।
तिलदानं नदीस्नानं सत्कथा साधुसेवनम् । भोजनं ब्रह्म
पत्रेषु कार्तिके मुक्तिदायकम् । जागरं कार्तिके मासि यः
करोत्यरुणोदये । दामोदराग्रेविप्रेन्द्र! गोसहस्रफलं लभेत् ।
जागरं पश्चिमे यामे यः करोति महामुने! । कार्तिके
सन्निधौ विष्णोस्तत्पदं करसंस्थितम् । साधुसेवा गवां
ग्रासः कथा विष्णोरथार्च्चनम् । जागरः पश्चिमे यामे
दुर्ल्लभः कार्तिके कलौ” । किञ्च “जलधेनुसहस्रञ्च
वृषसंस्थे दिवाकरे । तोयं दत्त्वा यदाप्नोति स्नानं कृत्वा
तु कार्तिके । सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।
सूर्य्यवारेण यत् स्नानं तदेकाहेन कार्तिके । पितॄनुदिश्य
यद्दत्तं कार्तिके कृष्णवल्लभे! अन्नोदकं मुनिश्रेष्ठ । अक्षयं
जायते नृणां” किञ्च “गीतशास्त्रविनोदेन कार्तिकं
यो नयेन्नरः । न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय!” ।
किञ्च “प्रदक्षिणञ्च यः कुर्य्यात् कार्तिके विष्णुसद्मनि ।
पदेपदेऽश्वमेधस्य फलभागी भवेन्नरः । गीतं वाद्यञ्च
पृष्ठ १९५३
मृत्यञ्च कार्त्तिके पुरतो हरेः । यः करोति नरो भक्त्या
लभते चाक्षयं फलम् । हरेर्नाम सहस्राख्य गजेन्द्रस्य च
मोक्षणम् । कार्त्तिके पठते यस्तु पुनर्जन्म न विद्यते ।
कार्त्तिके पश्चिमे यामे स्तव गानं करोति यः । वसते श्वेत-
द्वीपे तु पितृभिः सह नारद! । नैवेद्यदानेन हरेः
कार्त्तिके यवसंख्यया । युगानि वसते स्वर्गे तावन्ति मुनि-
सत्तम! अपुरुन्तु सकर्पूरं यो देहत् केशवाग्रतः ।
कार्त्तिके तु मुनिश्रेष्ठ । युगान्ते न पुनर्भवः” किञ्च
“नियमेन कथां विष्णोर्ये शृण्वन्ति च भाविताः । श्लोकार्द्धं
श्लोकपादं वा कार्त्तिके गोशतं फलम् । सर्व्वधर्म्मान्
परित्यज्य कार्त्तिके केशवाग्रतः । शास्त्रस्योच्चारणं पुण्यं
श्रोतव्यञ्च महामुने! । श्रेयसा लोभबुद्ध्या वा यः करोति
हरेः कथाम् । कार्त्तिके मुनिशार्द्दूल! कुलानां तारयेच्छ-
तम् । नित्यं शास्त्रविनोदेन कार्तिकं यः क्षिपेन्नरः । निर्द्द-
हेत् सर्वपापानि यज्ञायुतफलं लभेत् । न तथा तुष्यते दानै
र्न यज्ञैर्गोगजादिकैः । यथा शास्त्रकथालापैः कार्त्तिके
मधुसूदनः । कार्त्तिके मुनिशार्द्दूल! यः शृणोति
हरेः कथाम् । स निस्तरति दूर्गाणि जन्मकोटिगतानि
च । यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुनेः ।
अष्टादशपुराणानां कार्त्तिके फलमाप्नुयात्” किञ्च
“सर्व्वान् धर्म्मान् परित्यज्य इष्टापूर्त्तादिकान्नरः । कार्त्तिके
परया भक्त्या वैष्णवैःसह संवसेत्” । पद्मे
“कार्त्तिके मूमिशायी यो ब्रह्मचारीहविष्यभुक् ।
पलाशपत्त्रे भुञ्जानो दामोदरमघार्च्चयेत् । स सर्व्वपातकं
हित्वा वैकुण्ठे हरिसन्निधौ । मोदते विष्णुसदृशो
भजनानन्दनिर्वृतः” किञ्च “कार्त्तिकं सकलं मास प्रातः
स्नायी जितेन्द्रियः । जपन् हविष्यभुक् दान्तः सर्व्व-
पापैः प्रमुच्यते । कार्त्तिकन्तु नरोः मासं यः कुर्य्या-
देकभोजनम् । शूरश्च बहुवीर्य्यश्च कीर्त्तिमांश्च स
जायते” । किञ्च “पलाशपत्रभोजी च कार्त्तिके पुरुषो
नरः । निष्पापः स्यात्तु नैवेद्यं हरेर्भुक्त्वा विमुच्यते ।
मध्यस्थमैश्वरं पत्रं वर्जयेद्व्राह्मणेतरः” । किञ्च
“अपराधसहस्राणि पातकानि महान्त्यपि । क्षमतेऽस्य हरि
र्द्देवः पूजितः कार्त्तिके प्रभुः । नैवेद्यं पायसो विष्णोः
प्रियं खण्डं घृतान्वितम् । विभज्य तच्च भुञ्जानो यज्ञ-
साम्यं दिने दिने” । तत्रैव श्रीकृष्णसत्यासंवादे “स्नानं
जागरणं दीपं तुलसीवनपालनम् । कार्त्तिके ये प्रकु-
र्व्वन्ति ते नरा विष्णुमूर्त्तयः । इत्थं दिनत्रयमपि
कार्त्तिके ये प्रकुर्व्वते । देवानामपि ते वन्द्याः किं
यैराजन्म तत् कृतम्” । स्कान्देकार्त्तिकव्रताङ्गानि” “हरि-
जागरणं प्रातःस्नानं तुलसिसेवनम् । उद्यापनं दीपदानं
व्रतान्येतानि कार्त्तिके” । किञ्च “पञ्चभिर्व्रतकैरेभिः
सम्पूर्णं कार्त्तिके व्रतो । फलमाप्नोति तत्प्रोक्तं भुक्ति
सुक्तिफलप्रदम् । विष्णोः शिवस्य वा कुर्य्यादालये
हरिजागरम् । कुर्य्यादश्वत्थमूले वा तुलसीनां वनेषु च ।
आपद्गतो यदाप्यम्भो न लभेत् सवनाय सः । व्याधितो
वा पुनः कुर्य्याद्विष्णोर्न्नाम्नाऽघमार्ज्जनम् । उद्यापनविधिं
कर्त्तुमशक्तो यो व्रते स्थितः । ब्राह्मणान् भोजयेच्छक्त्या
व्रतसम्पूर्णहेतवे । अशक्तो दीपदानस्य परदीपान् प्रबो-
धयेत् । तेषां वा रक्षणं कुर्य्याद्वातादिभ्यः प्रयत्नतः ।
अभावे तुलसीनाञ्च पूजयेद्वैष्णवं द्विजम् । सर्व्वाभावे
व्रती कुर्य्याद्ब्राह्मणानां गवामपि । सेवां बा बोधिवटयो
र्व्रतसम्पूर्ण्णहेतवे” । तत्र दीपदानमाहात्म्यम्” स्कान्दे
“कृत्वा कोटिसहस्राणि पातकानि बहून्यपि ।
निमेषार्द्धेन दीपस्य विलयं यान्ति कार्त्तिके” किञ्च
“शृणु दीपस्य माहात्म्यं कार्त्तिके केशवप्रियम् ।
दीपदानेन विप्रेन्द्र! न पुनर्जायते भुवि । रविग्रहे कूरुक्षेत्रे
नर्म्मदायां शशिग्रहे । तत् फलं कोटिगुणितं दीपदानेन
कार्त्तिके । घृतेन दीपको यस्य तिलतैलेन् वा पुनः ।
ज्वाल्यते मुनिशार्द्दूल! अश्वमेधेन तस्य किम्? । मन्त्रहीनं
क्रियाहीनं शौचहीनं जनार्द्दने । सर्व्वे संपूर्णतां याति
कार्त्तिके दीपदानतः । तेनेष्टं क्रतुभिः सर्व्वैः कृतं तीर्था-
वगाहनम् । दीपदानं कृतं येन कार्त्तिके केशवाग्रतः ।
तावद्गर्ज्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले । यावन्न ज्वलते
ज्योतिः कार्त्तिके केशवाग्रतः । श्रूयते चापि पितृभि
र्गाथा गीता पुरा द्विज! । भविष्यति कुलेऽस्माकं पितृ-
भक्तः सुतो भुवि । कार्त्तिके दीपदानेन यस्तोषयति
केशवम् । मुक्तिं प्राप्स्यामहे नूनं प्रसादाच्चक्रपाणिनः”
किञ्च “मेरुमन्दरमात्राणि कृत्वा पापान्यशेवतः । दहते
नात्र सन्देहो दीपदानात्तु कार्त्तिके । गृहे वाऽऽयतने
वापि दीपं दद्याच्च कार्त्तिके । पुरती वासुदेवस्य
महाफलविधायिनः । स जातो मानुषो लोके स धन्यः स
च कीर्त्तिमान् । प्रदत्तः कार्त्तिके मासि दीपो वै
मध्हाग्रतः । निमेषार्द्धार्द्धमात्रेण दीपदानेन कार्त्तिके ।
न तत् क्रतुशतैः प्राप्यं फलं तीर्थशतैरपि । सर्वानुष्ठान-
हीनोऽपिसर्वपापरतोऽपि सन् । पूयते नात्र सन्देहो दीपं
पृष्ठ १९५४
दत्त्वा तु कार्त्तिके । तन्नास्ति पातकं किञ्चित् त्रिषु लोकेषु
नारद! यन्न शोधयते दीपः कार्त्तिके केशवाग्रतः ।
पुरतो वासुदेवस्य दीपं दत्त्वा तु कार्त्तिके । प्राप्नोति
शाश्वतं स्थानं सर्वबाधाविवर्ज्जितम् । यः कुर्य्यात्
कार्त्तिके मासि कर्पूरेण तु दीपकम् । द्वादश्याञ्च विशेषेण
तस्य पुण्यं वदामि ते । कुले तस्य प्रसूता ये ये भविष्यन्ति
नारद! । समतीताश्च ये केचिद्येषां सङ्ख्या न विद्यते ।
क्रीडित्वा सुचिरं कालं देवलोके यदृच्छया । ते सर्वे मुक्ति
मायान्ति प्रसादाचक्रपाणिनः” किञ्च “द्यूतव्याजेन
विप्रेन्द्र! कार्त्तिके केशवालयम् । द्योतयेद्वा महाभागाः!
पुनात्यासप्तम कुलम् । कार्त्तिके दीपदानन्तु कुर्य्याद्यो
वैष्णवालये । धन पुत्रो यशः कीर्त्तिर्भवेत्तस्य च सर्वदा ।
यथा च मथनाद्वह्निः सर्व्वकाष्ठेषु दृश्यते । तथा च दृश्यते
धर्म्मो दीपदाने न संशयः” किञ्च “निर्द्धनेनापि विप्रेन्द्र!
कृत्वा चैवात्मविक्रयम् । कर्त्तव्यं दीपदानन्तु यावत्
कार्त्तिकपूर्णिमा । वैष्णवो न स मन्तव्यः संप्राप्ते कार्त्तिके
मुने! । यो न यच्छति मूढात्मा दीपं केशवसद्मनि” ।
नारदीये श्रीरुक्माङ्गदमोहिनीसंवादे “एकतः सर्वदा-
नानि दीपदानानि चैकतः । कार्त्तिके न समं प्रोक्तं
दीपदो ह्यधिकः स्मृतः” । कार्त्तिके “कार्त्तिके खण्ड-
दीपं यो ददाति हरिसन्निधौ । दिव्यकान्तिविमानाग्रे
रमते स हरेः पुरे” । तत्र परदीपप्रबोधनमाहा-
त्म्यं स्कान्दे “पितृपक्षेऽन्नदानेन ज्यैष्ठाषाढे च
वारिणा । कार्त्तिके तत्फलं पुंसां परदीपप्रबो-
धनात् । बोधनात् परदीपस्य वैष्णवानाञ्च सेवनात् ।
कार्त्तिके फलमाप्नोति राजसूयाश्वमेधयोः । दोयमानन्तु
ये दीपं बोधयन्ति हरेर्गृहे । परेण नृपशार्द्दूल!
निस्तीर्णा यमयातनां । न तद्भवति विप्रेन्द्र! इष्टैरपि
महामखैः । कर्त्तिके यत् फलं प्रोक्तं परदीपप्रबोधनात् ।
एकादश्यां परैर्द्दत्तं दीपं प्रज्वाल्य मूषिका । मानुष्यं
दुर्ल्लभं प्राप्य परां गतिमवाप सा” । तत्र शिखरदीप-
माहास्त्र्यं स्कान्दे । “यदा यदा भासयते दोपकः
कलसोपरि । तदा तदा मुनिश्रेष्ठ! द्रवते
पापसञ्चयः । यो ददाति द्विजातिभ्यो महीमुदधिमेख-
लाम् । हरेः शिखरदीपस्य कलां नार्हति षोडशीम् ।
यो ददाति गवां कोटिं सवत्सां क्षीरसंयुताम् । हरेः
शिखरदोपस्य कलां नार्हति षोडशीम् । सर्व्वस्वदानं
कुरुते वैष्ण्वानां महामुने! शिखरोपरि दीपस्य कलां
नार्हति शोडशीम् “किञ्च “यः करोति परं दीपं मूल्येनापि
महामुने! । शिखरोपरि मध्ये च कुलानां तारयेच्छ-
तम् । विमानं ज्योतिषा दीप्रं ये निरोक्षन्ति कार्त्तिके ।
केशवस्य महाभक्त्या कुले तेषां न नारकी । दिवि देवा
निरोक्षन्ते विष्णुदीपप्रदं नरम् । कदा भविष्यत्यस्माकं सङ्गमः
पुण्यकर्म्मणा । कार्त्तिके कार्त्तिकों यावत् प्रासादोपरि
दीपकम् । यो ददाति मुनिश्रेष्ठ! तस्येन्द्रत्वं न दुर्ल्ल-
भम्” । तत्र दीपमालामाहात्म्यं स्कान्दे “दीप-
पङ्क्तेश्च रचना सबाह्याभ्यन्तरे हरेः । विष्णोविमाने
कुरुते स नरः शङ्खचक्रधृक् । दीपपङ्क्तेश्च रचनां कुरुते
केशवालये । तस्यालये प्रसूतानां लक्षाणां नरकं न हि ।
विष्णोर्विमानं दीपाढ्यं सबाह्याभ्यन्तरे मुने! । दीपोद्द्योतकरे
मार्गे तेन प्राप्तं परं पदम्” । भविष्येच “यः कुर्य्यात्
कार्त्तिके मासि शोभनां दीपमालिकाम् । प्रबोधे चैव
द्घादश्यामेकादश्यां विशेषतः । सूर्य्यायतप्रकाशस्तु तेजसा
भासयन् दिशः । तेजोराशिविमानस्थो जगदुदुद्योतयं-
स्त्विषा । यावत् प्रदीपसंख्या तु घृतेनापूर्य्य बोधिता ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते” ।
तत्र आकाशादिदीपमाहात्म्यं पाद्मे “उच्चैः
प्रदीपमाकाशे यो दद्यात् कार्तिके नरः । सर्वं वलं
समुद्धृत्य विष्णुलोकमवाप्नुयात् । विष्णुकेशवमुदृश्य दीपं
दद्यात् तु कार्तिके । आकाशस्थ जलस्थञ्च शृणु
तस्यापि यत् फलम् । धनं धान्यं समृद्धिश्च पुत्रवानीश्वरो
गृहे! लोचने च शुभे तस्य विद्वानपि च जायते” किंच
“विप्रवेश्मनि यो दद्यात् कार्तिके मासि दीपकम् । अग्नि-
ष्टोमफलं तस्य प्रवदन्ति मनीषिणः । चतुष्पथेषुय् रथ्यासु
ब्राह्मणावसथेषु च । वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषु
च । दोपदानाद्धि सर्वत्र महाफलमवाप्नुयात्” ।
देशविशेषे कार्तिकमाहात्म्यविशेषः पाद्मे । “यत्र
कुत्रापि देशेऽयं कार्तिकः स्नानदानतः । अग्निहोत्र
समफलः पूजायाञ्च विशेषतः । कुरुक्षेत्रे कोटिगुणो
गङ्गायां चापि तत्समः । ततोऽधिकः पुष्करे स्याद् द्वार-
कायाञ्च भार्गव । । कृष्णसालोक्यदो मासः पूजास्नानैश्च
कार्तिकः । अन्याः पुर्य्यस्तत्समाना मुनयो मथुरां विना ।
दामोदरत्वं हि हरेस्तत्रैवासीद्यतः किल । मथुरायां
ततश्चोर्ज्जो वैकुण्ठप्रीतिवर्द्धनः । कार्तिको मथुरायां वै
परमावधिरिष्यते । यथा माघे प्रयागः स्याद्वैशाखेजाह्नवी
यथा । कार्तिके मथुरा सेव्या तथोत्कर्षः परो नहि । मथु-
पृष्ठ १९५५
रायां नरैरूर्जे स्नात्वा दामोदरोऽर्चितः । कृष्णरूपा हि
ते ज्ञेया नात्र कार्य्या विचारणा । दुर्लभः कार्तिको विप्र!
मथुरायां नृणामिह । यत्रार्चितः स्वकं रूपं भक्तेभ्यः
संप्रयच्छति । भुक्तिं मुक्तिं हरिर्दद्यादर्चितोऽन्यत्र सेविनाम् ।
भक्तिञ्च न ददात्येष यतो वश्यकरी हरेः । सा त्वञ्जसा
हरे र्भक्तिर्लभ्यते कार्त्तिके नरैः । मथुरायां सकृदपि
श्रीदामोदरपूजनात् । मन्त्रद्रव्यविहीनञ्च विधिहीनञ्च
पूजनम् । मन्यते कार्तिके देवो मथूरायां सदर्च्चनम् ।
यस्य पापस्य युज्येत मरणान्ता हि निष्कृतिः । तच्छुद्ध्यर्थ
मिदं प्रोक्तं प्रायश्चित्तं सुनिश्चितम् । कार्तिके मथुरायां
वै श्रीदामोदरपूजनम् । कार्तिके मथुरायां वै पूजना-
ददर्शनं ध्रुवः । शीघ्रं संप्राप्तवान् बालो दुर्ल्लभं योगवत्
परैः । सुलभा मथुरा भूमौ प्रत्यब्दं कार्तिकस्तथा । तथापि
संसरन्तीह नरा मूढा भवाम्बुधौ । किं यज्ञैः किं
तपोभिश्च तीर्थैरन्यैश्च सेवितैः । कार्तिके मथुरायाञ्चेदर्च्च्यते
राधिकाप्रियः । यानि सर्व्वाणि तीर्थानि नदा नद्यः
सरांसि च । कार्तिके निवसन्त्यत्र माथुरे सर्व्वमण्डले ।
कार्तिके जन्मसदने केशवस्य च ये नराः । सकृत्प्रविष्टाः
श्रीकृष्णं ते यान्ति परमव्ययम् । परोपहासमुदिदश्य
कार्तिके हरिपूजया । मथुरायां लभेद्भक्तिं किं पुनः श्रद्धया
नरः” इति ।
अथ कार्त्तिकव्रतारम्भकालक्रमौ । पाद्मे “आश्विनस्य
तु मासस्य या शुक्लैकादशी भवेत् । कार्तिकस्य व्रतानीह
तस्यां कुर्य्यादतन्द्रितः । नित्यं जागरणायान्त्ये यामे रात्रेः
समुत्थितः । शुचिर्भूत्वा प्रबोध्याथ स्तोत्रैर्नीराजयेत् प्रभुम् ।
निशम्य वैष्णवान् धर्मान् वैष्णवैः सह हर्षितः । कृत्वा
गीतादिकं प्रातदवं नीराजयेत् पुनः । नद्यादौ च ततो
गत्वाचम्य सङ्कल्पमाचरेत् “प्रभुं प्रार्थ्याथ तस्मै च दद्या-
दर्व्यं यथाविधि । तत्र सङ्कल्पमन्त्रः । कार्तिकेऽहं
करिष्यामि प्रातःस्नानं जनार्दन! । प्रीत्यर्थं तव देवेश! दामो
दर! मया (लक्ष्म्या) सह” इति । “प्रार्थनामन्त्रस्तु--तव
ध्यानेन देवेश! जलेऽस्मिन् स्नातुमुद्यतः । त्वत्प्रसादाच्च मे
पापं दामोदर! विनश्यतु” । अर्ध्यमन्त्रः--“व्रतिनः कार्तिके
मासि स्नातस्य विधिवन् मम । अर्ध्यं गृहाण देवेश!
त्वां नमामि सुरेश्वर!” । काशीस्वण्डे “व्रतिनः कार्तिके
मासि स्नातस्य विधिवन् मम । दामोदर! गृहाणार्ध्यं
दनुजेन्द्रनिसूदन! नित्ये नैमित्तिके कृत्स्ने कार्तिके
पापशोषणे । गृहाणार्ध्यं मया दत्तं राधया सहितो हरे!” ।
इति । पाद्मे तिलैरालिप्य देहं स्वं नामोच्चारणपूर्वकम् ।
स्नात्वा तु विधिना सन्ध्यामुपास्य गृहमाब्रजेत् । उपलि-
प्याथ देवाग्रे निर्माय स्वस्तिकं प्रभुम् । तुलसीमालती
पद्मागस्त्यपुष्पादिनार्चयेत् । नित्यं वैष्णवसङ्गत्या सेवेत
भगवत्कथाम् । सर्पिषाहर्निशं दीपं तिलतैलेन चार्च्च-
येत् । विशेषतश्च नैवेद्यान्यर्पयेदाचरेत्तथा । प्रणामांश्च
यथाशक्ति एकभक्तादिकं व्रतम्” । पाद्मेऽन्यत्र
“प्रातरुत्थाय शौचादि कृत्वा गत्वा जलाशयम् । कृत्वा च
विधिवत् स्नानं ततो दामीदरार्च्चनम्” । किञ्च “मौनेन
भोजनं कार्यं कार्त्तिके व्रतधारिणा । घृतेन दीपदानं
स्यात् तिलतैलेन वा पुनः । दिनञ्च कृष्णकथया वैष्णवानां
च सङ्गमैः । नीयतां कार्तिके मासि मङ्कल्पव्रतपालनम् ।
आश्विने शुक्ललक्षस्य प्रारम्भो हरिवासरे । अथ वा
पौर्णमासीतः संक्रान्तौ वा तुलागमे । दीपदानमखण्डञ्च
दद्याद्वै विष्णुसन्निधौ । देवालये तुलस्यां वा आकाशे
वा तदुत्तमम्” । किञ्च “रजतं कनकं दीपान्
मणिमुक्ताफलादिकम् । दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्तिके
नरः” । स्कान्दे च “न गृहे कार्तिके कुर्य्याद्वेशे-
षेण तु कार्तिकोम् । तीर्थेतु कार्तिकीं कुर्य्यात् सर्व-
यत्नेन भाविनि!” । कार्तिके वर्ज्यानि स्कान्दे ब्रह्म-
नारदसंवादे “कार्तिके तु विशेषेण राजमाषांश्च भक्ष-
यन् । निष्पावान् मुनिशार्दूल! यावदाहूतनारकी ।
कलिङ्गानि पटोलानि वृन्ताकं सन्धितानि च । न त्यजेत्
कार्तिके मासि यावदाहूतनारकी । कार्तिके मासि धर्मात्मा
मत्स्यमांसं न भक्षयेत् । तत्रैव यत्नतस्त्याज्य शाशकं
शौकरं तथा” । किञ्च--परान्नं परशय्याञ्च प्ररीवादं
पराङ्गनाम् । सर्वदा वर्ज्जयेत् प्राज्ञो विशेषेण तु
कार्तिके । तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम् ।
कार्त्तिके वर्ज्जयेद्यस्तु परिपूर्णब्रती भवेत् । संप्राप्तं
कार्त्तिकं दृष्ट्वा परान्नं यस्तु वर्ज्जयेत् । दिने दिने
तु कृच्छस्य फलं प्राप्नोति मानवः” । तत्रैव श्रीरुक्याङ्गद-
मोहिनीसंवादे “कार्त्तिके वर्ज्जयेन्मधु । कार्त्तिके
वर्ज्जयेत् कांस्यं कार्त्तिके शुक्तसन्धितम् । न मत्स्यं
भक्षयेन्मांसं न कौर्म्मं नान्यदेव हि । चाण्डालः स
भवेत् सुभ्रु! कार्तिके मांसभक्षणात् ।”

कार्त्तिकिक पु० कार्त्तिकी पौर्णमासी अस्मिन् मासे ठक ।

१ चान्द्रकार्त्तिकमासे एवं २ कार्त्तिकीयुक्त पक्षे ३ कार्त्ति-
काख्ये जीववर्षे च ।
पृष्ठ १९५६

कार्त्तिकेय पु० कृत्तिकानामपत्यं पाल्यत्वेन ढक् । अग्निनि-

षिक्तरुद्रतेजस उत्पन्ने कृत्तिकाभिः पालिते स्कन्दे देवे
कार्त्तिकशब्दे तत्कथादि उक्तम् । रामायणेतु संक्षेपेणोक्तं
यथा “कुमारश्चाभवत् तत्र तरुणार्कसमद्युतिः । वह्नि-
तेजोभवः श्रीमान् गङ्गाकुक्षिपरिच्युतः । तं कुमारं
ततो जातं दृष्ट्वा सेन्द्रा मरुद्गणाः । तदा क्षीरप्रदानार्थं
कृत्तिकाः संन्ययोजयन् । ताः क्षीरं तस्य देवस्य समयेन
ददुस्तदा । स्यादस्माकमयं पुत्रः ख्यातो नाम्नोति राघव! ।
अन्योन्यं पिबतस्तासां तनयस्य मुखानि षट् । समभूवन्
महाबाहो! षण्मुखस्तेन विश्रुतः । ततस्तादेवता ऊचुः
कार्त्तिकेय इति प्रभुः । पुत्रोऽयं जगति ख्यातो भविष्यति
न संशयः” ।

कार्त्तिकेयप्रसू स्त्री कार्त्तिकेयं प्रसूते प्र + सू--क्विप् । षार्वत्यां

शब्दरत्ना० । षार्व्वत्यां शिववीर्यनिषेककाले देवैर्विघ्ने कृते
तद्रेतसो भूमिवह्न्यादिनिषेकेण तस्योत्पत्तेस्तस्यास्तदीयमूल-
कारणत्वात् तत्प्रसूत्वं यथा ब्रह्मवै० पु० गणेशख० “सम्बभूव-
रहः क्रीड़ा पार्वतीशिवयोः पुरा । दृष्टस्य च सुरैः शम्भो
र्वीर्य्यं भूमौ पपात ह । भूमिस्तदक्षिपत् वह्नौ वह्निश्च
शरकानने । तत्त्वं पुष्टः कृत्तिकाभिः” । षट्सु
ऋषिपत्नीषुवह्नेरेतसो निषेके ताभिश्च शरवणेक्षेपात्तज्जन्मे
तस्यमूलमग्निकुमारशब्दे ५४ पृ० भारतवाक्यं दर्शितम् तेन
गङ्गायां निषेकाज्जन्मकथनन्तु कल्पभेदादित्यविरोधः ।

कार्त्तायणि पु० स्त्री कर्तुरपत्यम् कुर्वा० ण्यः कार्त्त्यः तस्यापत्यम्

“अणोद्व्यचः” पा० फिञ् यलोपः । कर्तुरपत्यस्यापत्ये ।

कार्त्तिकोत्सव पु० ७ त० । १ कार्त्तिककर्त्तव्ये उत्सवे उपचा-

रात् तदाधारे कार्त्तिकपौर्णमासीरूपे २ काले त्रिका० ।

कार्त्स्न्य न० कृत्स्नस्य भावः ६ त० ष्यञ् । साकल्ये “विभाषा

सातिः कात्र्स्न्ये” पा० “तन्निबोधत कात्र्स्न्येन द्विजाग्र्यान्
पङ्क्तिपावनान्” मनुः ।

कार्दम(मिक) त्रि० कर्दमेन रक्तं अण् वृत्तिकारमते ठक् वा । कर्दमेन रक्ते वस्त्रादौ ।

कार्पट पु० कर्पटएव स्वार्थेऽण्, कार्पाटः स इवाकारोऽस्त्यस्य,

अच् वा । १ जीर्ण्णवस्त्रखण्डे (लाता कानि) । तादृश
वस्त्रयुक्ते २ कार्य्यार्थिनि (उमेदार) त्रि० हेमच० ।
तदाकारयुक्ते जतुनि (जौ) हेमच० ।

कार्पटगुप्तिका स्त्री कार्पटेन खण्डवस्त्रेण गुप्तैव स्वार्थे क ।

(झुली) (वटुया) इति ख्याते पदार्थे शब्दचि० ।

कार्पटिक त्रि० कर्पटेन चरति ठक् कार्पटोऽस्त्यस्य वा ठन्

कषायखण्डवस्त्रेण चारिणि १ तीर्थयात्राप्रसक्ते । “विश्रा
न्तकार्पटिकप्रस्फुटितचरणधूलिधूसरकिशलयलाञ्च्छितोपक-
ण्टैः” काद० । “नित्यं कार्पटिकान् सर्व्वान् समं पुत्रेण
पश्यति” कारी० स्व० १२ अ० । २ कर्मठे त्रिका० ।

कार्पण्य न० कृपणस्य भावः ष्यञ् । १ कृपणत्वे २ दीनत्वे च

“कार्पण्यदोषोपहतस्वभावः” गीता । “कार्पण्यं केवला
नीतिः क्रौर्य्यं श्वापदचेष्टितम्” हितो० ।

कार्पास त्रि० कर्पास्या अवयवः विल्वा० अण् । कर्पासीविका

रे सूत्रादौ । तस्य फले लुक् । कर्पासी स्वार्थेऽण् ङीप्
कर्पासी (कापास) २ वृक्षे स्त्री । स्वार्थे क । कार्पासि-
काऽप्यत्र । स्वार्थिकस्यापि प्रकृतिलिङ्गातिक्रमस्य क्वाचित्-
कत्वात् कार्पसकोऽप्यत्र पु० । “कार्पासको लघुः कोष्णो
मधुरो वातनाशकः । तत्पलाशं समीरघ्नं रक्तकृन्मूत्र
वर्द्धनम् । तत्फलं पिण्डिकानाहपूयस्रावविनाशकृत् ।
तद्वीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु” भावप्र० ।
अधिकं कर्पासशब्दे १७२३ पृ० दृश्यम् ।

कार्पासधेनु स्त्री स्त्री कार्पासरचिता धेनुः । दानार्थं कल्पि-

तायां कार्पासवस्त्रादिनिर्म्मितायां धेनौ । तद्विधानं हेमा०
दा० ख० वराहपुराणे यथा
“अतःपरं प्रवक्ष्यामि धेनुं कार्पासिकीं शुभाम् । विश्वस्य
गुह्यगुप्त्यर्थं ब्रह्मणा चांशुकङ्कृतम् । कार्पासमूलन्तच्चापि
तेनासावुत्तमा स्मृता । सा च कार्पासभारेण धेनुः श्रेष्ठा
प्रकीर्त्तिता । मध्यमा च तदर्द्धेन कन्यसी (कनिष्ठा) च
तदर्द्धतः । पूर्ववद्वस्त्रधान्यञ्च हिरण्यञ्च तथैव च । वत्सकन्तु
चतुर्थांशैर्दानमन्त्रोऽभिधीयते” । पूर्व्ववदिति वराहपुराणोक्तति-
लधेनुवदित्यर्थः । “हेमकुन्देन्दुदेवेशि! क्षीरार्णवसमुद्भवे! ।
सोमप्रिये! सुधेन्वाख्ये! सौरभेयि! नमोऽस्तु ते ।
दत्तेयमिन्दुनाथाय शशाङ्कायामृताय च । अत्रिनेत्र-
प्रजाताय सोमराजाय वै नमः” । “यस्त्वेवं परया भक्त्या
ब्राह्मणाय प्रयच्छति । स याति सोमलोकन्तु सोमेन
सह मोदते । न रोगी न ज्वरी कुष्ठी कुले तस्य प्रजा-
यते । पुत्रदारसमोपेतो जीवेच्च शरदां शतम्” । वस्त्र
धेन्वादयोप्यत्र

कार्पासनासिका स्त्री कार्पासस्य तत्पूरणार्था नासिकेव ।

(टेको) तर्कौ शब्दरत्ना० । कर्पासनासिकाप्यत्र ।

कार्पासपर्व्वत पु० दानार्थं कल्पिते धान्यशैलादिषु दशसु

अचलेषु कर्पासवस्त्रनिर्म्मिते पर्व्वतभेदे तद्विधानादि
हेमा० दानख० ब्रह्माण्डपुराणे यथा
“भगवानुवाच । अतःपरं प्रवक्ष्यामि कार्पासाचलमुत्तसम् ।
पृष्ठ १९५७
परमं सर्व्वदानानां प्रियं सर्वदिवौकसाम् । देशकालौ
समासाद्य धनं श्रद्धाञ्च यत्नतः । देयमेतन्महादानं
तारणार्थं कुलस्य च । पर्वतं कल्पयेत्तत्र कार्पार्सेन विधानतः ।
पूर्वोक्तेन विधानेन कृत्वा सर्व्वं विधानतः । विंशद्भारस्तु
कर्त्तव्य उत्तमः पर्वतो बुधैः । मध्यमो दशभिःकुर्य्याज्जघन्यः
पञ्चभिस्तथा । सर्व्वधान्यसमूहस्य मध्ये ह्योषधिभिर्वृतः ।
रसैरत्नैश्च संयुक्तो लोकपालावृतस्तथा । ब्रह्मादयस्तथा
शृङ्गे काञ्चनेन विनिर्मिताः । कुलाचलांश्च चतुरश्चतुर्भा-
गेन कल्पयेत् । सौवर्णशिखरान् सर्व्वान् सर्व्वरत्नोप-
शोभितान् । नानाधातुविचित्राङ्गान् भक्ष्यभोज्यसमावृतान् ।
कण्डे वा स्थण्डिले वापि तत्र होमो विधीयते ।
ऋत्विजश्च तथा चाष्टौ कारयेद्वेदवित्तमान् । होमोव्या-
हृतिभिश्चैव अग्नौ तद्दैवतैरपि । गन्धेन सर्पिषा तत्र
तथा कृष्णतिलैरपि । अयुतं होमसंख्या च पालाश-
समिधस्तथा । शङ्खतूर्य्यनिनादैश्च तथा मङ्गलपाठकैः ।
उत्सवं कारयेत्तत्र दिनमेकमतन्द्रितः । पर्व्वकाले ततो
दद्यात् पूजयित्वा विधानतः । “नमः सर्वामरावासा
भूतसङ्घैरभिष्टुताः । ब्रह्वादयो मे वरदा भवन्तु विबुधाः
सदा” । इत्युच्चार्य्य नरो दद्यान्नारी वा विधिपूर्व्वकम् ।
पूजयित्वा द्विजान् सम्यक् वासोभिर्भूषणैस्तथा । अनेन
विधिना यस्तु दानमेतत् प्रयच्छति । स गच्छेत्त्रिदशा-
वासं विमानोपरि संस्थितः । अप्सरोगणसंवीतो गन्ध-
र्व्वैरभिसंस्तुतः । तत्र मन्वन्तरं यावदुषित्वा विबुधा-
लये । पुण्यक्षयादिहाभ्येत्य महीम्भुङक्ते ससागराम् ।
रूपवान् सुभगोवाग्मी श्रीमानतुलविक्रमः । पञ्च
जन्मानि नारी वा जायते नात्र संशयः । भूयश्च शृणु
राजेन्द्र! दिव्यं कार्पासपर्व्वतम् । तञ्च भारशतेनैव कुर्य्या-
दर्द्धेन वा पुनः । शेषं पूर्व्वविधानेन सर्व्वं कुर्य्याद्य-
थाक्रमम् । फलं पूर्वोदितञ्चैव जायते नृपसत्तम!” ।
कार्पासाचलकार्पासशैलादयोऽप्यत्र ।

कार्पाससौत्रिक त्रि० कर्पाससूत्रेण निर्वृत्तः टक्

अनुशतिकादेराकृतिगणत्वेन द्विपदवृद्धिः । कर्पाससूत्र-
निर्म्मिते वस्त्रादौ । “शते दशपला वृद्धिरौर्ण्णे कार्पास
सौत्रिके” याज्ञ० ।

कार्पासिक त्रि कर्पासेन निर्वृत्तः ठक् । कर्पाससूत्रनिष्पन्ने

पटादौ “शतं दासीसहस्राणां कार्पासिकनिवासिनाम्”
भां० स० ५० अ० । कार्पासवस्त्राच्छादिनाम् ।

कार्म्म त्रि० कर्म्म शीलमस्य छत्रा० णः । “कार्म्मस्ताच्छील्ये”

पा० नि० टिलोपः । फलमनपेक्ष्य कर्म्मसु प्रवृत्ते कर्म्म-
शीले स्त्रियां टाप् ।

कार्म्मण न० कर्म्मैव कर्म्मन् + “तद्युक्तात् कर्म्मणोऽण्” पा० अण् ।

१ वाचिकं श्रुत्वा क्रियमाणे कर्म्मणि सि० कौ० । कर्म्मणे
हितम् अण् । २ मूलकर्म्मणि मन्त्रौषध्यादिभिर्वश्यादि
करणे अमरः (यादुकरा) । “कार्म्मणत्वमगमन् रमणेषु”
माघः । ततः स्वार्थेऽण् स्वार्थिकप्रत्ययस्य क्वचित्
प्रकृतिलिङ्गाति क्रम विधानात् कार्म्मणी त्त्रार्थे
स्त्री० । “धौतं नद्या किमिदमथवा कार्मणी माथुरी-
णाम्” उद्धवदू० कार्मणमिति तु ज्यायः । ३ मन्त्रा-
दियोगविद्यायाम् न० कर्म्म साध्यत्वेन अस्त्यस्य अण् ।
४ कर्म्मदक्षे त्रि मेदि० । प्रपञ्चसारोक्तमलत्रयान्तर्गते
५ मलभेदे च । “मायिकं नाम योषोत्यं पौरुषं कार्मणं
मलम् । आलव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम्”
“ज्योतिर्मन्त्रेण विधिवद्दहेन्मलत्रयं यती” तन्त्रसा० ।

कार्म्मार पु० कार्म्मारएव स्वार्थेऽण् । १ कर्म्मकारे (कामार)

“कार्म्मारो अश्मभिर्द्युतिभिः” ऋ० ९, ११२, २ । “कार्म्मारः
अयस्कारः” भा० । कर्म्मारस्यापत्यम् शिवा० अण् ।
२ कर्म्मकारावत्ये पुंस्त्री स्त्रियां ङीप् ।

कार्म्मारक त्रि० कर्म्मारेण कृतं कुलाला० वुञ् । कर्म्मकारकृते ।

कार्म्मार्य्यायणि पुंस्त्री कर्मारस्यापत्यं फिञ् नि० । कर्मकारा-

पत्ये स्त्रियां वा ङीप् ।

कार्म्मिक त्रि० कर्म्मणा चित्रक्वर्म्मणा निर्वृत्तः ठक् । निष्-

पत्त्युत्तरं चित्रसूत्रैः चक्रस्वस्तिकादिचिह्नयुक्ततया क्रियमाणे
प्रटादौ । “कार्म्मिके रोमबद्धे च त्रिं शद्भागःक्षयोमतः”
याज्ञ० । “कार्म्मिकं कर्म्मणा चित्रेण निर्म्मितम् । यत्र
निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रसूत्रैः क्रियते
तत्कार्मिक सित्युच्यते” मिता० । तस्य भावः पुरोहि०
यक् । कार्मिक्य तद्भावे न० ।

कार्म्मुक न० कर्म्मणे प्रभवति उकञ् । १ धनुषि अमरः ।

“कार्म्मुकेणेव गुणिना वाणः सन्धानमेष्यति” माषः ।
“विहाय लक्ष्मीपतिलक्ष्म कार्मुकम्” किरा० ।
२ कर्म्मक्षमे त्रि० मेदि० । कार्मुकं साध्यत्वेनास्त्यस्य
अच् । । ३ वंशे मेदि० । ४ श्वेतखदिशे ५ हिज्जलदृक्षे
६ महानिम्बेच पु० राजनि० । मेषादिषु नवमे ७ राशौ
“कार्मुकं तु परित्यज्य ऋषं (मकरम्”) संक्रमते रविः ।
प्रभाते चार्द्धरात्रे च स्नानं कुर्य्यात् परेऽहनि” कालमा०
भविष्यपु० । कृमुकस्येदम् अण् । ८ कृमुकसंबन्धिनि
पृष्ठ १९५८
त्रि० स्त्रियां ङीप् । “अग्नावारूढे त्रयोदशास्यां
प्रादेशमात्राः समिध आदधाति” “घृतोन्नां कार्मुकीं
द्र्वन्नः” इति कात्या० श्रौ० १६, ४, ३३, ३५, । अत्र कृमुकः
धमनवृक्ष” कर्कः । म च श्वेतखदिरः । अतएव स्वार्थे
अणन्ततया श्वेतखदिरार्थतेत्युक्तं राजनि० । तूलस्फोटने
तदाकारे (आचड़ा) (धुनारा) इतिख्याते ९ यन्त्रेभेदे ।
अग्निपुराणे धनुर्वेदप्रकरणे धन्विनां वैशाखादिस्थानपञ्च-
कमुक्त्वा धनुः शिक्षाप्रकारलक्षणादिकमुक्तं यथा
“कार्मुकं गृह्य वामेन वाणं दक्षिणकेन तु । वैशाखे
यदि वा स्थाने संस्थितोऽप्यथ वाऽऽयते । गुणाढ्यं तु
ततः कृत्वा कार्मुकं प्रियकार्मुकः । अधः कोटिन्तु धनुषः
फलदेशन्तु पत्रिणः । धरण्यां स्थापयित्वा तु तोलयित्वा
तथैव च । भुजाभ्यां मन्दकुब्जाभ्यां प्रकोष्ठाभ्यां दृढव्रतः ।
न्यस्येत्वाणं धनुःश्रेष्ठे पुङ्घदेशञ्च पत्रिणः । विन्यासो धनुष-
श्चैव द्वादशाङ्गुलमन्तरम् । ज्यया विशिष्टः कर्त्तव्यो
नातिहीनो नचाधिकः । निवेश्य कार्मुकं नाभ्यां
(धनुर्मध्ये) नितान्तं सशरं करम् । उत्क्षिपेदुन्नतं हस्त-
मन्तरेणाक्षिकर्ण्णयोः । पूर्ब्बेण मुष्टिना ग्राह्यं तलाग्रे
दक्षिणे शरम् । हरणन्तु ततः कृत्वा शीघ्रं पूर्ब्बं प्रसार-
येत् । नाभ्यन्तरा नैव बाह्या नोर्द्धका नावरा तथा ।
न च कुब्जा न चोत्ताना न चला नातिवेष्टिता ।
ममास्थैर्य्ये गुणोपेता मौर्वी दण्डैव स्थिता । छादयित्वा
ततोलक्ष्यं पूर्ब्बणानेन मुष्टिना(वाममुष्टिना) । उरसा
तूत्थितो यन्ता त्रिकोणावनतस्थितः । स्तब्धाङ्गो निश्चल
ग्रीवो मयूराञ्चितमस्तकः । ललाटनासावक्त्रांसाः कुर्प-
रोऽस्य समोभवेत् । अन्तरे द्व्यङ्गुलं ज्ञेयं चिवुकस्यास्य-
कस्य च । प्रथमं त्र्यङ्गुलं प्रोक्तं द्वितीये द्व्यङ्गुलं तथा ।
तृतीयेऽङ्गुलमुद्दिष्टमायतं त्तिवुकास्ययोः । गृहीत्वा सायकं
तूण्या मयूराञ्चितमस्तकः । तर्ज्जन्याङ्गुष्ठकेनाथ पूरयेत्
सायकं पुनः । अनामया पुनर्गृह्य तथा मध्यमयाऽपि
च । तावदाकर्षयेद्वेगात् यावद्वाणःप्रपूरितः । एवंविधमुप-
क्रम्य मोक्तव्योविधिवत् खगः । दृष्टिमुष्टिगतं लक्ष्यं
भिन्द्याद्वाणेन सुव्रतः । त्यक्त्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन
पृष्ठतः । एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज! ।
कुर्परं तदध । कुर्य्यादाकृष्य तु धनुष्मता । ऊर्द्ध्वं वै लस्तके
(धनुर्मध्ये) कुर्य्यादङ्कश्लिष्टन्तु मध्यमम् । ज्येष्ठं प्रकृष्टं विज्ञेयं
धनुः शास्त्रविशादैः । ज्येष्ठस्तु सायको ज्ञेयोभवेद्द्व्यदश
मुष्टिकः । एकादशस्तथा मध्यः कनीयान् दशमुष्टिकः ।
चतुर्हस्तं धनुः श्रेष्ठं त्रयं सार्द्धन्तु मध्यमम् ।
कनीयस्तु त्रयं प्रोक्तं नित्यमेव पदातिनः । अश्वे रथे गजे
ज्येष्ठः सदैव परिकीर्त्तितः”
“पूर्णायतं द्विजः कृत्वा ततो मांसैर्गतायुषाम् ।
सुनिर्धौतं ततः कृत्वा यज्ञभूमौ विधानवत् । ततो वाणं
समागृह्य दंशितः सुसमाहितः । तूणमासाद्य बन्धीयात्
दृढ़ां कक्ष्याञ्च दक्षिणाम् । विलक्ष्यमपि लब्धा यस्तत्र चैव
सुसंस्थितः । ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना । तेनैव
सहितं भध्ये शरं संगृह्य धारयेत् । आकृष्य ताड़येत्तत्र
चन्द्रकं (चन्द्राकारलक्ष्यम्) षोड़शाङ्गुलम् । युक्त्वा
वाणं ततः पश्चाद्धनुः शिक्षा ततःस्मृता । निगृह्णीयान्म-
ध्यमया ततोऽङ्गुल्या पुनः पुनः । अक्षिलक्ष्यात् क्षिपेत्तू-
णाच्चतुरस्रं तु दक्षिणम् । चतुरस्रगतं वेध्यमभ्यस्येच्चादितः
स्थितम् । तस्मादनन्तरं तीक्ष्णं परादृत्तगतं च यत् ।
निम्रमुन्नतवेध्यञ्च अभ्यस्येत् क्षिप्रकं ततः । वेध्य स्थानेष्व-
थैतेषु सन्न्यस्य पुटकं धनुः । हस्तावापशतैश्चित्रै-
स्तर्जयेद्दुर्जरैरपि । तस्मिन् मध्यगते विप्र! द्वे वेध्ये दृढ़
सङ्गरे । द्वे वेध्ये द्वे तथा चित्रदुष्करे दृढ़दुष्करे । न
तु निम्नञ्च तीक्ष्णञ्च दृढ़वेध्ये प्रकीर्त्तिते । निम्नं दुष्क-
रमुद्दिष्टं वेध्यं मुर्द्ध्नि शतञ्चरेत् । लस्तकायनमध्ये तु
चित्रदुष्करसंज्ञके । एवं वेध्यगणं कृत्वा दक्षिणेनेतरेण
च । आरोहेत् प्रथमं वीरोजितलक्ष्यस्ततो नरः । एष एव
विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः । अधिकं भ्रमणं तस्य
तस्माद्विष्वक् प्रकीर्त्तितम् । लक्ष्य संयोजयेत्तत्र पत्रिपत्र
गतं दृढम् । भ्रान्तं प्रचलितं चैव स्थिरं यच्च
भवेदिति । समन्तात्ताड़येद्भिन्द्याच्छेदयेद् व्यथयेदपि ।
कर्म्मणा संविधानज्ञो ज्ञात्वैव विधिमाचरेत् । मनसा
चक्षुषा दृष्ट्वा योगसिद्धिं ध्रुवं व्रजेत्” ।
१० वृत्तक्षेत्रस्य परिध्यर्द्धात्मके रेखाभेदे ११ तदीयांशभेदे च
तयोर्धनुराकारत्वात्तथात्वम् । तदानयनप्रकारः जीवान-
यनप्रकारसुक्त्वा लीला० दर्शितोयथा ।
“अथ चापानयनाय करणसूत्रं वृत्तम् । व्यासा
ब्धिघातयुतमौर्व्विक्तया विभक्तो जीवाब्धिपञ्चगुणितः
परिधेस्तु वर्ग्गः । लब्धोचितात्परिधिवर्ग्ग चतुथैभागादाप्ते
पदे वृतिदलात्पतिते धनुः स्यात्” ।
“उदाहरणम् । विहिताइह ये गुणास्ततोवद तेषा
मधुना धनुर्मितिम् । यदि तेऽस्ति धनुर्ग्गुणक्रियागणिते
गाणितिकातिनैपुणम्”
पृष्ठ १९५९
न्यासः । ४२ । ८२ । १२० । १५४ । २०८ । २२६ ।
२२६ । २४० । [एता जीवासंख्या यथा भवन्ति तथा
जीवाशब्दे वक्ष्यते] सएवापवर्त्तितः परिधिः १८ ।
४२ जीवाङ्घ्रिणा २१२ पञ्चभि ५ श्च परिधेः १८ र्वर्ग्गो
३२४ गुणितः । १७०१० । व्यासाब्धि २४० । ४ घात
९६० युत ४२ भौर्विकयानया १००२ विभक्तोलब्धो १७
ऽत्राङ्कलाघवाय चतुर्विंशतेर्द्व्यधिकसहस्रांशयुतोगृहीतो-
ऽनेनोनितात्परिधि १८ । ३२४ वर्ग्ग चतुर्थभागात् ८१
(१७ उनितात्) ६४ पदे प्राप्ते ८ वृति १८ दलात् ९ ।
पतिते १ जातं धनुः एवं जातानि धनूंषि । १ । २ ।
३ । ४ । ५ । ६ । ७ । ८ । ९ । एतानि परिधिष्वष्टा-
दशांशेन गुणितानि स्य्ः” । एवं ८२ स्ंख्यादौ कल्प्यम् ।
“दलीकृतं चक्रमुशन्ति चापम्” इति सि० शि० उक्ते १२
राशिचक्रस्यार्द्धरूपे खण्डे च तस्य च जीवाभेदेनान्यविधा
मितिः यथोक्त तत्रैव “ज्प्तां प्रोज्झ्य तत्त्वाश्वि २२५
हतावशेषं यातैष्यजीवाविवरेण भक्तम् । जीवा विशुद्धा यतमा
च तज्ज्ञैस्तत्वाश्विभिस्तत् सहितं धनुःस्यात्” “यस्य धनुः
साध्यं तस्माद्या जीषा विशुध्यति सा शोध्या शेषात्तत्वा-
श्वि २२५ गुणाद्गतागामिज्यान्तरहताद्यल्लभ्यते तत्स्थाप्यं
ततोयतमा जीवा विशुद्धा तद्गुणितैस्तत्त्वाश्विभिः २२५
सहितं धनुः स्यात्” प्रमि०
सू० सि० रङ्गनाथाभ्याञ्च तथैवोक्तं यथा ।
“ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धतम् । सङ्क्या-
तत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यते” सू० सि० ।
“यस्य धनुः कर्त्तुमिष्टं तस्मिन्नशुद्धपूर्वं ज्यापिण्डं न्यूनी-
कृत्य शेषं पञ्चाकृति २२५ गुणं तद्विवरोद्धृतं तयोः शुद्धाऽ-
शुद्धपिण्डयोरन्तरेण भक्तं फलं शुद्धा ज्या यतमा यतमसङ्ख्या
तत्त्वाश्विनोः संवर्गे घाते संयोज्य सिद्धं धनुः कथ्यते ।
अत्रोपपत्तिः । ज्या यतमा शुद्ध्यति ततमा याश्चाप-
कलास्ततमसङ्ख्यागुणिततत्त्वाश्विनः । यदि ज्यान्तरेण
तत्त्वाश्रिकलास्तदा शेषज्यया का? इत्यनुपातागतफलयुता
इति वैपरीत्येन सुगमतरा” । अधिकं जीवाशब्दे वक्ष्यते ।

कार्म्मुकासन न० । रुद्रायामलोक्ते आसनभेदे तल्लक्षणं

यथा “कार्मुकासनमाकुर्य्यादुदरे पूरयेन्मुखम् । तदा
वायुरधोयाति कालेन सूक्ष्मवायुना कृत्वा पद्मासनं
मन्त्री वेष्टयित्वा च धारयेत् । करेण दक्षिणेनैव
वामपादाङ्गुली तथा । सव्यापसव्यद्विगुणं कार्मुकासनमेव च ।
कार्मुकद्वययोगेन शववद्वायुमानयेत्” रुद्रयामले ।

कार्य्य त्रि० कृ--कर्म्मणि ण्यत् । १ कृतिसाध्ये २ कर्त्तव्ये ।

“तस्मात् शास्त्रं प्रमाणन्ते कार्याकार्य्यव्यवस्थितौ”
गीता । “नास्य कार्य्योऽग्निसंस्कारो न च कार्य्योदक-
क्रिया” मनुः । “शब्दानां कार्य्ये कार्य्यान्विते वा
शक्तिरिति” मीमांसकाः । ३ उत्पाद्ये जन्ये “व्यापारो-
भावना सैवोत्पादना सैव च क्रिया । कृञोऽकर्मतापत्तेर्न
हि यत्नोऽर्थ इष्यते” हर्य्युक्तेः कृञोभावनारूपव्यापारा-
र्थकत्वात् तत्साध्ये “यदि रसः कार्य्यः स्यात् विभावादि-
कारणकः स्याद्” सा० द० । गुरुमते यागादिकृति-
साध्ये ४ अपूर्ब्बे । यथा चापूर्ब्बस्यैव कार्य्यत्वं तथाऽपूर्व
शब्दे २४८ पृ० दर्शितम् । ५ प्रयोजने ६ उद्देश्ये
तदिच्छयैव कर्मसु प्रवृत्तेस्तस्य तथात्थम् “उपसर्पति कार्य्यार्थी
कृतार्थी नोपसर्पति” हितो० । अष्टादशानां विवाद-
पदानाञ्च उद्देश्यत्वादेव तथात्वम् । “यस्मात्कार्य्य
समारम्भश्चिरात्तेन विनिश्चितः” व्य० त० कात्या०
स्मृतिः । उप्रचारात् ७ हेतौ च मेदि० । व्याकरणमते
८ आदिश्यमाने वर्णादौ । “कार्य्यमनुभवन् हि कार्य्यी
निमित्ततया नाश्रोयते” महाभा० “भिषक् कर्त्ताथ करणं
रसा, दोषास्तु कारणम् । कार्य्यमारीग्यमेवैकम्”
सुश्रुतोक्ते ९ आरोग्ये च तत्र कर्तृत्वकरणत्वकारणत्व-
कार्य्यत्वार्थेषु भिषगादिशब्दानां परिभाषितत्वात् । भावे
ण्यत् । १० कर्मणि व्यापारे । ज्योतिषोक्ते ११ जन्मल-
ग्नावधि दशमस्थाने । “कार्य्याधीशः स्वगेहे बुधगुरुक-
विभिः संयुतो वीक्षितो वा” जातकम् कार्य्यस्य व्यापार-
रूपत्वात्तथात्वम् ।
कार्य्योत्पत्तिप्रकारोमतभेदेन चतुर्द्धा “तत्र असतः सज्जा-
यते इति सौगताः तैरभावादेव कार्य्याणामुत्पत्तेः स्वी-
कारात् । सतोऽसज्जायते इति नैयायिकाः तैः प्रागुत्-
पत्तेः घटादोनामसत्त्वस्य, मृदादिकारणस्य च
तदासत्त्वस्य च स्वीकारेण असत उत्पत्तेः स्वीकारात् ।
सतोविवर्त्तः कार्य्यं जगत् न वस्तु सदिति अद्वैतवादिनः ।
सतः सज्जायते इति साङ्ख्याः । विवृतञ्चैतदुत्पत्तिशब्दे
११०८ पृ० ।
यथा च लिङ्गादेः कार्य्यत्वेनापूर्व्ववाचकता तथा गुरुमत
प्रदर्शने शब्दचि० उक्तं यथा
“अथ खर्गकामोयजेतेत्यादौ इष्टसाधनत्वं काय्यत्वं
वा यद्विधिः समभिव्याहृतक्रियान्वयी तदन्यान्वयी वा ।
तत्र गुरवः नाहत्य क्रिया कार्य्यतया लिङा बोधयितुं
पृष्ठ १९६०
शक्यते स्वर्गकामनियोज्यान्वययोग्यताज्ञानविरहात्
कामनाविशिष्टस्यहि ममेदं कार्य्यमितिबोद्धृत्वं नियोज्यत्वं
तत्कामनायास्तद्बोधोपयोगे सति भवति । स च कामनानन्तरं
काम्यसाधनताबोधात् कार्य्यताबोधे सति स्यात् एवञ्च स्वर्ग-
साधनताबोधे सति स्वर्गकामनियोज्यान्वययोग्यता । न
च कालान्तरभाविस्वर्गे क्रिया साक्षात् परम्परया वा
साधनमिति शब्दोबोधयितुमर्हति आशुविनाशित्वात्
परम्पराघटकानुपस्थितेस्तृतीयप्रकाराभावात् अन्यथा तमादाय
साधनत्वसम्भवात् कल्प्यमप्यपूर्व्वं न स्यात् इष्टसाधनता
विधिपक्षे स्फुटैवानुपपत्तिः कार्य्यताविधिपक्षेऽपि अन्वय
प्रकारतया साधनत्वं शाब्दमिति फलतो न विशेषः ।
अतः क्रियातोऽन्यत् खर्गसाधनतार्हं क्रियाकार्य्यतानिर्वा-
हकं लिङाद्यर्थः” ।
व्याकृतञ्चै तत् मथुरानाथेन--
“प्रसङ्गादपूर्वस्य विधिप्रत्ययवाच्यतां प्रभाकराभिमतां
निराकर्त्तुं विचाराङ्गसंशयप्रयोजिका विप्रतिपत्तिमादर्श-
यति अथेत्यादिना यद्विधिः यद्विधिपदोपस्थापितार्थः ।
समभिव्याहृतक्रियान्वयीति एतद्विधिसमभिव्याहृतधातू-
पस्थापितार्थान्वयी तदन्यान्वयी वेत्यर्थः तदन्वयित्वञ्च तद्वि-
शेष्यकत्वावच्छिन्नशाब्दबोधप्रकारताश्रयत्वम् । अत्र विधि-
कोटिः, विधेः कार्य्यत्वे शक्तिवादिनां नैयायिकानां, तन्नये
स्वर्गकामकृतिसाध्यो यागैत्थन्वयात्, निषेधकोटिस्तु कार्य-
त्वरूपेणापूर्व्वे शक्तिवादिनां प्राभाकराणां, तन्नये स्वर्गका-
मस्य यागविषयकं कार्य्यमिति यागविषयककार्यवान् स्वर्ग-
काम इत्येव वान्वयबोधात् अत्र विषयकत्व जन्यत्वं तच्च
यागकार्ययोः संसर्गः । कार्यत्वं कृतिसाध्यत्वम् अपूर्व्व-
स्यापि क्वचिल्लक्षणादिना धातूपस्थापितत्वाच्च विधिकोटौ
सिद्धसाधनं निषेधकोटौ बाध इति तद्वारणाय एतद्विधि
समभिव्या हृतेति धातुविशेषणम् । तदन्यान्वयित्वञ्च तदन्वयि-
भिन्नत्वं यथाश्रुतस्य विरोधिकोटित्वाभावात् । इष्टसाधन-
त्वादिना प्रत्येकरूपेण पक्षत्वे द्वयोरसंग्रहः । इष्टसाधनता-
विधिपक्षे इष्टसाधनत्वस्यापि विध्यर्थकार्येऽन्वयादतः पक्षे
यद्विधिरिति । इत्थञ्च यद्विध्यर्थत्वेन द्वयोरनुगमान्नोक्तदेषः
इष्टसाधनत्वं कार्यत्वं वेति तु स्वरूपकथनं न तु तद्रूपेण
पक्षे प्रवेशः इष्टसाधनत्वमिति प्राभाकरैकदेशिमते । कार्यत्वं-
कृतिसाध्यत्वम् । न च गुरुनये कार्यस्य धर्मिणो विध्यर्थतया
कृतिसाध्यत्वरूपस्य कार्यत्वस्य विधिप्रत्ययप्रवृत्तिनिमित्तत्व-
मेव कुतो विध्यर्थत्वमिति वाच्यं कार्यस्य विध्यर्थत्वेऽपि अव-
च्छेदकविधया कार्यत्वस्यापि विध्यर्थत्वात् । वस्तुतस्तु तन्मते
कृतिसाध्यत्वरूपं कार्यत्वं न शक्यतावच्छेदकम् अपि तु
प्रागभावप्रतियोगित्वरूपं ध्वंसप्रतियोगित्वरूपं धर्मत्वरूपं वा
लाघवात् । कृतिसाध्यत्वन्तु पृथगेय शक्यं लिङ्सामान्यशक्यं
वा पचेतेत्यादिलौकिकस्थलानुरोधात् । अन्वयबोधोऽपि
यागविषयकं कार्यं स्वर्गकामकृतिसाध्यमित्याकारकः, कृति-
साध्ययागविषयककार्यवान् स्वर्गकाम इत्याकारकोवेति
यथाश्रुतएव साधुः । पक्षतावच्छेदकावच्छेदेन विधिकोटि
सिद्धेरुद्देश्यतया बलवदनिष्टाननुबन्धित्वस्य प्रकृत्यर्थेऽन्वय-
मादाय नांशतः सिद्धसाधनं न वा कृतिसाध्यत्वेष्टसाधन-
त्वयोरन्यतरत्रांशतः साध्यसिद्धिमादायार्थान्तरत्वम् । प्रव-
र्त्तकज्ञानप्रकारीभूतत्वेन विध्यर्थो विशेषणीयः, तेन वर्त्त-
मानत्वादेः कालस्य संस्यायाश्च तादृशविधिप्रतिपाद्यत्वेऽपि
न तत्र विधिकोटावंशतो बाधः । न चेष्टसाधनत्वत्वादौ
बिध्यर्थ तावच्छेदकेऽशतो बाधः, प्रवर्त्तकज्ञानप्रकारीभूत-
त्वस्य प्रवृत्तिविशेष्यांशे प्रवर्त्तकज्ञानप्रकारत्वरूपत्वात् ।
यद्वा संख्याकालातिरिक्तत्वेन विध्यर्थोऽपि विशेषणीयः ।
विधिशक्यत्वरूपस्य विध्यर्थत्वस्य पक्षतावच्छेदकत्वादिष्टसा-
धनत्वत्वादौ नांशतोबाधः । कृतिसाध्यत्वस्य पृथक् शक्यतया
नैतदसंग्रहः निषेधसिद्धिस्तु पक्षतावच्छेदकसामानाधिक-
रण्येन उद्देश्या नातोबलदनिष्टाननुबन्धित्वेऽशतो बाधः ।
प्रवर्त्तकज्ञानप्रकारीभूतत्वमात्रेण पक्षतायाम् ओदनकामः
पचेदित्यादिविध्यर्थे ओदनसाधनत्वपाकमात्रविषयककृति-
साध्यत्वादौ विधिकोटावंशतो बाध इति । स्वर्गकामो
यजेतेत्यादिस्थलीय तत्तद्विध्यर्थत्वेन पक्षतालाभाय स्वर्गकामो
यजेतेत्यादाविति विधिविशेषणमिति भावः । नव्यास्तु
विज्ञातविधितत्त्वार्थस्तु तदन्वयिनं पृच्छति अथेति न तु
विप्रतिपत्तिपरोऽयं ग्रन्थःगुरुणा समं विवादे तु कार्य्यत्वं
विधिप्रत्ययशक्यतावच्छेदकं नवेति विप्रतिपत्तिरूहनीया
विधिकोटिः परेषाम् । नच कार्यस्य विधिप्रत्ययशक्यत्वेऽपि
तस्य प्रकृत्यर्थयागादावभेदान्वयेऽपि नैयायिकानां विवक्षि-
तार्थसिद्ध्याऽर्थान्वरप्रसङ्ग इति वाच्यं धात्वर्थप्रत्ययार्थयो-
रभदान्वयबोधस्याव्युत्पन्नतया तादृशबोधासम्मवात् । अन्य-
था विप्रतिपत्तावपि यागनिष्ठकृतिसाध्यत्वस्य निरूपकतास-
म्बन्धेन विध्यर्थे कृतावन्वयादपि नैयायिकानां विवक्षितार्थ-
सिद्ध्याऽर्थान्तरप्रसङ्गस्य दुर्वारत्वादिति प्राहुरिति दिक् ।
अत्र गुरव इति अत्र विप्रतिपत्तौ प्रश्ने वा । नाहत्येति
आहत्य--साक्षात् अपूर्वकार्य्यत्वानुपपत्तिज्ञानद्वारा पश्चात्त
पृष्ठ १९६१
बोध्यतएवेति भावः । क्रिया--यागादिः, कार्यतया स्वर्गकाम
कृतिसाध्यतया । नचैवम् अनुपपत्तिज्ञानोत्तरकालिकबोध
मादाय विधौ सिद्धसाधनं निषेधे च बाध इति वाच्यं
तदन्वयित्वस्य शाब्दत्वघटितत्वादेव सिद्धसाधनादिनिरासात्
अनुपपत्तिज्ञानोत्तरकालिकबोधस्यैव औपादानिकबोधत्वेन
शाब्दत्वविरहात् । औपादानिकत्वञ्च प्रत्यक्षत्वादिवदनुभवत्व
व्याप्योधर्मविशेषः तदवच्छिन्नं प्रति च श्रौतानुपपत्ति
ज्ञानसचिवः शब्दएव पुनरनुसन्धीयमानोहेतुः । अतएवा-
नुपपत्तिज्ञानसचिवः शब्दएव पञ्चमं प्रमाणमिति परसिद्धान्त
इति भावः । स्वर्गकामनियोज्येति स्वर्गकामोयोविधिवाक्य-
नियोज्यस्तदीयकृतिसाध्यत्वान्वयबोधप्रयोजकीभूतस्य ज्ञा-
नस्य विरहादित्यर्थः । वक्ष्यमाणयुक्त्या यागे स्वर्गकामकृति
साध्यत्वान्वयबोधे यागनिष्ठेष्टसाधनताज्ञानस्य हेतुत्वेन
ग्रथमं तद्विरहादिति भावः । प्रयोजकज्ञानविरहमेवो-
पपादयति कामनाविशिष्टस्य हीति ममेदं कार्यमिति
यागविशेष्यकस्वर्गकामकृतिसाध्यत्वप्रकारकमित्यर्थः बोद्धृत्वं शाब्द
बोधोपयोगित्वं तच्च कारणतावच्छेदकसाधारणं तेन
वक्ष्यमाणक्रमेण कामनाया अपि तादृशशाब्दबोधोप-
योगित्वं सङ्गच्छते कामनाविशिष्टस्य तादृशबोधोपयोगित्वं
समवायिकारणतया नियोज्यत्वं सकलप्रामाणिकसिद्धनि-
योज्यव्यवहारविषयतावच्छेदकं तदिति स्वर्गकामनाविशिष्टस्य
तादृशबोधोपयोगित्वमित्यर्थः । --तद्बोधोर्पयोगे तद्बोधोपयो-
गित्वे सतीत्यर्थः । विशेष्यान्वयिनाऽन्वयिन एव विशेषणतया
विशेषणस्य तदुपयोगित्वं विना विशिष्टस्य तदुपयोगित्वा
सम्भवात् । न च रूपवति रस इत्यादिवत् कामना चोपल-
क्षणमिति वाच्यं विशेषणत्वसम्भवे उपलक्षणत्वस्यान्याय्य-
त्वादिति भावः । स चेति कामनायास्तादृशबोधोपयोगश्चे-
त्यर्थः । कामनानन्तर कामनाप्रकारकज्ञानानन्तरं यः
काम्यसाधनताबोधः । कामनाघटितकाम्यसाधनताबोध इति
यावत् तस्मात् कार्यताबोधे सति तज्जन्यो यदि कार्यता-
बोधस्तदैव स्यात् कामनायाः कारणतावच्छेदकत्वात् न हि
कामनैव साक्षात् कार्य्यताबोधजनिकाऽसम्भवात् इत्यर्थः ।
अतः काम्यसाधनताज्ञानं स्वर्गकामकृतिसाध्यत्वान्वयप्रयो-
जकम् इति बोधः । स्वर्गकामेति स्वर्गकामोयो नियोज्यस्तदी-
यकृतिसाध्यत्वान्वयबोधप्रयोजकं ज्ञानमित्यर्यः । नन्धेवं प्रथमं
वेदादुयागे स्वर्गसाधनताज्ञाने सति तदनन्तरं तत्र स्वर्ग-
कामकृतिसाध्यता बोधो भविष्यति किं कार्यत्वरूपेण विधेर
पूर्व्वशक्त्येत्यत आह नचेति क्रिया--यागादिः । साक्षादिति
अव्यवहितपूर्व्वत्वसम्बन्धेन कार्याधिकरणीभूतक्षणनिष्ठा-
त्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्यनिरूपकधर्म्मव-
त्त्वं साक्षात् साधनत्वं, तादृशधर्मावच्छिन्नजनकत्वे सति
कार्य्यनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपकधर्म्मव-
त्त्वञ्च परम्परासाधनत्वमिति भावः । साक्षात्साधनत्वस्या-
बोधने हेतुमाहाश्विति यागादेरिच्छाविशेषरूपतया तृती-
यक्षणवृत्तिब्धंसप्रतियोगित्वात् इत्यर्थः । परम्परासाधनत्व-
स्याबोधने हेतुमाह परम्परेति अव्यवहितपूर्व्वत्वसम्बन्धेन
स्वर्गविशेषाधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानव-
च्छेदकान्यथासिद्ध्यनिरूपकधर्मावच्छिन्नजनकत्वे सति
स्वर्गविशेषनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपकधर्म-
वत्त्वरूपपरम्परासाधनत्वघटकस्यानुपस्थितेरित्यर्थः ।
नचापूर्वघटितर्विशिष्टपरम्परासाधनत्वस्यैव विध्यर्थतया तत
एव विशिष्टोपस्थितिसम्भवात् किमपूर्वस्य पृथगुपस्थित्या
इति वाच्यं परम्परासाधनत्वान्वयबोधे परम्पराघटक
फलपर्यन्तस्थायिव्यापारोपधायकत्वस्यान्वयप्रयोजकरूपत्वेन
योम्यतात्वात् प्रथमन्तज्ज्ञानं विना तदन्वयबोधासम्भवा-
दिति भावः । नन्वेतदुभयविलक्षणमेव साधनत्वं बोध
यिष्यतीत्यत आह तृतीयेति अन्यथा--तृतीयप्रकारसत्त्वे ।
साधनत्वसम्भवादिति अपूर्व्वं विनापि यागस्य स्वर्गसाधनत्व
सम्भवादिति भावः । कल्प्यमिति तव नयेऽप्यपूर्व्वकल्पना
न स्यादित्यर्थः आशुविनाशिनो यागस्य कालान्तरभाविस्वर्ग
साधनत्वान्यथानुपपत्त्यैव त्वयाप्यऽपूर्वकल्पनादिति भावः ।
नन्वेषं प्रथमं परम्परासाधनत्वरूषेण परम्परासाधन-
त्वान्वयासम्भवेऽपि सामान्यतः स्वर्गसाधनत्वरूपेणान्वयः
स्यादित्यतआह इष्टसाधनताविधिप्रक्ष इति । सामा-
न्यत इष्टसाधनत्वस्य बिध्यर्थत्वपक्षे इत्यर्थः । अनुपपत्तेः
साक्षात्परम्परौदासीन्येन फलसाधनत्वान्वयेऽपि
फलपर्य्यन्तस्थायित्वतादृशव्यापारोपधायकत्वान्यतरत्वस्य योग्य-
तात्वेन तज्ज्ञानं विना सामान्यतोऽपि साधनत्वान्वया
सम्भवात् इति भावः । अत्रैवानुपदं ननु सजातीय इति
न च साक्षात् परम्परासाधनत्वोभयसाधारणं खर्गसाध-
नत्वमनुगतमेव दुर्वचमिति वाच्यं खर्गत्वावच्छिन्नवि-
जातीयस्वर्गनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपक
धर्म्मवत्त्वस्यैव तत्त्वात् । नचैवमव्यवधानस्याप्रवेशात् स्वतो-
व्यापारतो वा स्वर्गाव्यवहितपूर्व्वक्षणमसतोऽपि नियत
पूर्ब्बकारणत्वापत्तिरिति वाच्यं अन्यथासिद्ध्यनिरूपकल्प
विशेषणेनैव तद्वारणात् विजातीयस्वर्गनियतपूर्ब्बवर्त्तिता
पृष्ठ १९६२
वच्छेदकत्वन्तु यावत्योविजातीयस्वर्गव्यक्तयः प्रत्येकं
तत्पूर्ब्बक्षणवृत्तिनियतत्वं विजातीयस्वर्गोतपत्त्यधिकरणनि-
ष्ठस्वावच्छिन्नोत्तरत्वसम्बन्धावच्छिन्नाभावप्रतियोगितावच्छे-
दकान्यत्वमिति यावत् एवमग्रेऽपि सर्व्वत्र बोध्यम् ।
कार्य्यत्वं कारणत्वञ्चातिरिक्तपदार्थ इत्यभिप्रायेणेदमित्यपि
कश्चित् । ननु भवन्मतेऽपि बिधिप्रत्ययात् कार्य्यत्व
रूपेणापूर्व्वावगमेऽपि तस्य स्वर्गसाधनत्वं नावगतं तथा
च तावन्मात्रज्ञानात् कथं प्रवृत्त्यर्थमुत्तरकालं परम्प-
रया स्वर्गसाधनत्वावगमः परम्परासाधनत्वस्यापूर्व्व-
निष्ठसाधनताघटितत्वात् । न च कार्य्यवत् साक्षात्
साधनत्वस्यापि विध्यर्थतया तस्य च समानपदोपात्ततया
कार्य्य एवान्वयादपूर्व्वस्य स्वर्गसाधनत्वावगम इति वाच्यं
तथापि कार्य्यमात्रस्य विध्यर्थत्वपक्षेऽप्रतीकारादित्यत आह
कार्य्यताविधिपक्ष इति । कार्य्यत्वमात्रस्य विधिप्रवृत्ति
निमित्तत्वपक्षे इत्यर्थः मात्रपदादिष्टसाधनत्वमात्रस्य व्यव-
च्छेदः तेन संख्यादेर्विध्यर्थत्वेऽपि न क्षतिः । कृतिसाध्यत्वस्य
पृथक्शक्यत्वपक्षे कार्य्य मात्रस्यविधिशक्यत्वपक्षेऽपौत्यर्थः ।
मात्रपदादिष्टसाधनत्वव्यवच्छेदः । अन्वयप्रकारतयेति
कृतिसाध्यत्वान्वयप्रयोजकरूपतयेत्यर्थः । साधनत्वं पदानु-
पस्थितमपि स्वर्गसाधनत्वं घटेन जलमाहरेत्यादौ
अपदार्थस्यापि च्छिद्रेतरत्वस्य भानवदिति भावः । यद्यपि
अपूर्ब्बे कृतिसाध्यत्वान्वयबोधे स्वर्गसाधनत्वस्यान्वयप्रयो-
जकरूपतया योग्यतात्वे शाब्दबोधात् पूर्ब्बमपूर्व्वेतज्ज्ञा-
नमसम्भवि अपूर्व्वस्य शाब्दबोधात् पूर्व्वमज्ञानात्, तथापि
परनये बोधनीयपदार्थे बोध्यताज्ञानं न कारणं
बोधनीयपदार्थस्यापूर्व्वत्वात् किन्तु पदार्थतावच्छेदकाव-
च्छिन्ने क्वचित्तस्य ज्ञानं तच्च प्रकृतेऽपि सम्भवति कार्यत्व
रूपेण घटादावेव जलाहरणरूपकार्य्यसाधनताज्ञान
सत्त्वादिति निगर्वः । स्वयमुपसंहरति अत इति स्वर्ग-
साधनतार्हमिति साक्षात्स्वर्गसाधनत्वस्यान्वययोग्य-
मित्यर्थः । क्रियाकार्यतानिर्व्वाहकमिति कार्य्योपस्थिति
रिष्टसाधनताज्ञानं ततः कृतिरिति प्रणाल्या क्रियायाः कृति
साध्यतानिर्वाहकत्वमित्यर्थः लिङाद्यर्थ इति आदिपदात्त-
व्यादिपरिग्रहः” ।
शब्दचिन्तामणौ स्थानान्तरे गुरुमते वैदिकलिङादेः
कार्यत्वेनापूर्व्ववाचकता शङ्कापूर्ब्बकं दर्शिता यथा ।
“नन्वपूर्वे व्युत्पत्तिविरहः तथा हि प्रसिद्धार्थे स्वर्ग-
पदसमभिव्याहारान्यथानुपपत्त्योपस्थिते शक्तिर्ग्रहीतव्या
न च शाब्दानुभवात् पूर्व्वमपूर्व्वमुप्रस्थितं मानाभावात्
अपूर्व्वत्वव्याघातादवाच्यत्वापाताच्च । न च लिङादिना
तदुपस्थितिः व्यूत्पत्त्यनन्तरं तत्प्रवृत्तावन्योन्याश्रयात् । न च
कार्य्यत्वेनोपलक्षिते तत्र शक्तिराहः उपलक्षणं हि स्मा-
रणमनुमापनं वा अगृहीते सम्ब वाग्रहात् अशक्यमिति?
मैवम् कार्येधर्मिणिकार्यत्वेन श क्तग्रहात् कार्यत्वविशिष्ट-
ञ्चोपस्थितमेव ततोन्विताभिधानदशायां यागविषयकं कार्य-
मित्यनुभवः स्वर्गकामायोग्यतया धटादिकं तिरस्कृत्य क्रिया
भिन्ने योग्यतावशाद्यागविषयकापूर्वे पर्यवस्यति, नत्वपूर्व-
त्वेन शक्तिग्रहो न वाऽपूर्व्वं कार्यमित्यनुभवः भवति च
सामान्यतः सम्बन्धबुद्धिः सहकारिवशाद्विशेषबुद्ध्युपायः
यथातवैव कर्तृमात्रसम्बन्धग्रहात् कर्तृविशेषसिद्धिः । ननु
कार्यत्वेनापि किं घटादौ शक्तिग्रहः उतापूर्वे उभयत्र वा?
नाद्यः, अन्यप्रतिपत्तावन्यशक्तिग्रहानुपयोगात् । नान्त्यौ,
प्रागनुपस्थितेरिति चेत्? न येनहि रूपेण शब्देनानुभवो
जन्यते तेन रूपेण शक्तिग्रहः पदार्थस्मरणञ्च शब्दानुभव-
हेतुः । नहि प्रमेयत्वेन शक्तिग्रहः पदार्थस्मरणञ्च
घटत्वेन शाब्दानुभवहेतुः । एवञ्च घटादावेव कार्ये शक्तो
लिङिति शक्तिग्रहः ततः कार्यमिति स्मरणं ततो योग्य-
तादिवशात् प्रचरद्द्रव्यगुणकर्माणि कार्याणि विहाय याग
विषयकं कार्यमित्यनुभवो भवन्नपूर्वमालम्बते योग्यत्वाच्च
तस्य स्थायित्वलाभः । अतएव वाक्यार्थानुभवमात्रविषयत्वा-
त्तदपूर्व्वम् । न च स्मृतानामाकाङ्क्षादिवशादन्वयबोधः
पदेन क्रियते, नचापूर्व्वं स्मृतिगोचर इति वाच्यं? शक्ति-
ग्रहपदार्थस्मरणशाब्दानुभवानां समानप्रकारकतामात्रेण
हेतुहेतुमद्भावावधारणात् लाघवादावश्यकत्वाच्च । न च
क्वचित् सहचारमात्रेणान्वयप्रतियोगिन एवोपस्थितिस्तथा,
गौरवात् गोपदादपूर्वगवाननुभवप्रसङ्गाच्च, विशिष्टवैशिष्ट्य
बोधे सर्व्वत्र तथैव, अन्यथा पर्व्वतीयवह्निर्व्यापकतया नावगत
इति कथं तदन्वयोऽनुमितौ । ननु सामान्यलक्षणया प्रत्या-
सत्त्या सर्व्वाएव व्यक्तयो व्याप्तिग्रहे शक्तिग्रहे च विषयी
भवन्ति कथमन्यथा पर्व्वतीयधूमव्याप्त्यग्रहे तस्म दनुमितः?
इति चेत् न येन रूपेण व्याप्तिग्रहस्तेन रूपेण व्याप्यत्वेन
वा पक्षधर्मताग्रहोऽनुमितौ कारणमस्तु किन्तया । अपि च
सा यद्यस्ति ममापि, नास्ति चेत्तवापि । किञ्च तव दर्शने
नास्तीति सुतरामपूर्व्ववाच्यता कार्यत्वेन हि रूपेणा-
पूर्वस्यापि शक्तिग्रहविषयत्वं पदार्थस्मृतिविषयत्वञ्च । नचैव
मपूर्वत्वक्षतिः यागविषयकत्वादेर्विशेषस्य कार्ये लिङंविनानु-
पृष्ठ १९६३
पस्थितेः यथा पर्व्वतोयत्वभानं वह्नौ, नानुमितिं बिना-
ननु यदि कार्ये क्रियासाधारणे लिङ् शक्तिः क्रिया
चायोग्येति योग्यापूर्वलाभः तदा नित्यनिषेधापूर्व्वयोर-
लाभः न हि तत्रायोग्यतया क्रिया त्यक्तुं शक्यते
फलाश्रवणात् कल्पनायाञ्च वीजाभावात् नचैकत्र निर्णीतः
शास्त्रार्थः परत्रापि तथैवेति न्यायात्तत्राप्यपूर्व्वमेव
लिङाद्यर्थ इति युक्तं नह्यपूर्व्वत्वेन शक्तिग्रहः किन्तु कार्यत्व-
विशिष्टे धर्मिणि, क्रिया च तथा भवत्येव न च कार्येण
समं क्रियान्वयानुपपत्त्याऽपूर्वे पर्यवसानमभेदस्याप्यन्वयत्वा-
दिति मैवम् न हि लोक पचेतेत्यादौ कार्ये धर्मिणि शक्तिः
कल्पिता किन्त्वनन्यलभ्यकृतिरूपे कार्यत्वमात्रे । धर्मिणः
पाकादेर्धातोरेवोपस्थितिसम्भवात् क्रियाकायतान्वयस्यान्वि
ताभिधानलभ्यत्वात् तथाच यर्मिणि शक्तिर्वेदेकल्पनीया सा
च क्रियानिरासेनैव, न हि क्रियायाः कार्यत्वान्वययोग्य-
त्वेन धर्मिणि शक्तिः कल्पयितुं शक्यते तस्मादयोग्यतया
क्रियानिरासानन्तरं तदतिरिक्त एव शक्तिकल्पनं न हि
क्रियातिरिक्तकार्यात् कार्यमात्रं लघु ततः क्रियापि
शक्यैवेति वाच्यं यतो न ब्रूमः क्रियातिरिक्तकार्यत्वेन
शक्तिः किन्त्वयोग्यतया निरस्तायां क्रियायां धर्मिणि शक्ति-
कल्पनसमये यत्क्रियातिरिक्तं तत्र शक्तिः न तु शक्तिग्रहे
क्रियातिरिक्तत्वप्रबेशः न हि यत्प्रयुक्तानुपपत्त्या यत् कल्पनं
तदेब तस्य विषयः एवञ्च कार्यत्वेनापि तदतिरिक्त एव
शक्तिकल्पना । नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यं
लिङाऽभिधीयते न तु कार्यत्वमात्रे धर्मिणि बाधकाभावात्
लक्षणाप्रसङ्गाच्च । घटादिस्तु लिङशक्तिग्रहेण तिरस्क्रियते
न वा पुरस्क्रियते उभयथापि गौरवात् अन्विताभिधान
दशायां त्वयोग्यतया तस्याप्रवेशः । विधिप्रत्ययस्य च तत्रा-
प्रयोगः केबलस्य तस्यासाधुत्वात् धातुसभभिव्याहारे च
तदर्थेनान्वयबोधजनननियमेन घटाद्यप्रतिपादकत्वात्
अतएवाप्रयोगादेवाप्रयोगोऽपूर्ब्बत्वं वा प्रयोगोपाधिरिति
वदन्ति । अयाप्रतिपाद्यमेव घटादिवृत्तितया न कार्यत्वं प्रवृ-
त्तिनिमित्तं प्रतिपाद्यमात्रवृत्तेरेव तथात्वात् अन्यथा प्रमेय-
त्वमेव तथास्त्विति चेत् न, यत्प्रकारिका हि प्रतिपत्तिः
पदजन्या तदेव तत्र प्रवृत्तिनिमित्तं फलबलकल्प्यत्वाच्छक्तेः
नतु प्रतिपाद्यमात्रवृत्तिः सास्नात्वादौ व्यभिचारात् न च
प्रमेयत्वं तथा, तद्बोधस्याप्रवर्त्तकत्वात् अतएव लोके लिङ्
लाक्षणिकी, क्रियाभिन्ने धर्मिणि वेदे शक्तिकल्पनात । न च
लौकिकानामपूर्व्वे तात्पर्य्ये सम्भवति पूर्व्वं प्रमाणान्तरेणा
प्रतीतेः । क्रियासाधारणशक्तावपि लोके लक्षणैव प्रचेतेत्यत्र
हि पाककार्यतावगम्यते तत्र कार्यत्वे लिङस्तावपर्यं
लाघवात् न धर्मिणि, क्रियाया धादलभ्यत्वात् तदाहुः “तात्प-
र्याद्धि वृत्तिर्न वृत्तेस्तात्पर्यमिति” । तृतीयायाः करणत्वैक-
त्ववत् कार्यं कार्यत्वञ्च न स्वतन्त्रं शक्यं किन्तु विशिष्टं विशे-
ष्याच्च विशेषणमन्यदेवेति कर्यत्वे लक्षणा न च कार्यत्व-
विशिष्टधम्युपस्थितावपि धर्म्यंशमपहाय क्रियया कार्य्य-
तान्वयोऽस्तु किं लक्षणयेति वाच्यं नहीतरधर्मिगतत्वेनोप-
स्थितस्य धर्म्यन्तराकाङ्क्षास्ति अतः स्वतन्त्रकार्योप्रस्थितये
लक्षणा यथा “पुरोद्वाशकपालेन तुषानुपबपति” इत्यत्र पुरो-
डाशार्थतया तदन्वितत्वे नोपस्थितस्य कपालस्य नोपवापा-
काङ्क्षेति स्वतन्त्रकपालोपस्थितयेऽधिष्ठाने लक्षणा । न च
व्युत्पत्तिविरोधः न हि ल के क्रियाकार्यत्वेन शक्तिरव-
धारिता येन विरोधी भवेत् किन्तु कार्यत्वमात्रे, क्रियाया
धातुलभ्यत्वात्, न च धर्म्यन्तरे शक्तावपि तद्भङ्गः । तस्मात्
प्रकृत्यर्थानितस्वार्थबोधकत्वं प्रत्ययानां गृहीतप्रत्ययार्घं
वाऽपूर्व्वमपीति न विरोधः । चास्तु वा लोके लिङः
क्रियाकार्यत्वे शक्तिः तथापि तद्भङ्ग विनैव नानार्थन्यायेन
वेदे धर्म्यन्तरे शक्तिः तां विना स्वर्गकामान्वयासम्भवात् ।”
व्याकृतञ्चेदं मयुरानाथेन यथा--
“व्युत्पत्तिविरह इति विधेः शक्तिग्रहासम्भव इत्यर्थः
समभिव्याहारानुपपत्त्येति तदुप्रस्थापितस्य स्वर्गकामनावतो
यागे कृतिसाध्यत्वान्वयानुपपत्त्येत्यर्थः । ग्रहोतव्येत्यग्रेणा-
न्वयः । नन्वन्यथानुपपत्त्या जन्मान्तरीयसंस्कारादेव तदुपस्थि-
तिः कल्पनीयेत्यतआह अपूर्ब्बत्वव्याघातादिति शाब्दबोधात्
पूर्वं प्रमाणान्तराविषयत्वस्यैवापूर्वरूपत्वादिति भावः । ननु
सन्नपि योगार्थोऽत्र त्यज्यते मण्डपपदवदित्यस्वरसादाह
अवाच्यत्वेति । प्रकारान्तरेणापूर्व्वस्योपस्थितौ तद्वाच्यत्वं
विनापि तद्द्वारा जनकत्वनिश्चयसम्भवादिति प्रावः ।
तत्प्रवृत्तौ--लिङादिनाऽपूर्व्वोपस्थितौ । अपूर्ब्बत्वेनोपस्थितिः
प्राक् नास्तोत्याशयेनाशङ्कते न चेति ।--उपलक्षिते
उपस्थिते । स्मारणं लिडयदिना स्मारणम् । गूढाभिसन्धिः
समाधत्ते मैवमिति । कार्य्ये धर्म्मिणीति कार्य्यताश्रये धर्म्मि-
णीत्यर्थः । कार्य्यत्वविशिष्टञ्चेति घटादौ विशेषः यागविषयकं
कार्य्यमिति स्वर्गसाधनमिति शेषः । स्वर्गकामेति स्वर्ग
साधनत्वान्वयायोग्यतयेत्यर्थः । विशेषबुद्धुपाय इति
सामान्यरूपेण विशेषबुद्ध्युपाय इत्यर्थः । सम्बन्धग्रहात्
कृत्सम्बन्धग्रहात् कर्त्तृविशेषेति पक्तेत्यादौ पाककर्कत्वादिना
पृष्ठ १९६४
विशेषसिद्धिरित्यर्थः । अभिसन्धिमुद्घादयितुं शङ्कते नन्विति ।
अनुपस्थितेरिति अपूर्ब्धस्य प्रागनुपस्थितेरित्यर्थः । येन
हीति शक्तिग्रहपदार्थस्मरणशाब्दानुभवानां समानप्रकार
त्वेनैव कार्य्यकारणभावः न तु समानधिषयकत्वेनापि
गौरवादित्यर्थः । ननु समानविषयकत्वेनैव कार्य्यकारण-
भावो न तु समानप्रकारकत्वेनेत्यतआह नहीति । पदार्थ-
स्मरणञ्च--प्रमेयत्त्वेन पदार्थस्मरणञ्च तथाच समान प्रकार-
कत्वस्यावश्यकत्वात्तेनैव रूपेण हेतुत्वमिति भावः । स्मरणं-
घटादेः स्मरणम् । ननु कार्य्यमात्रशक्त्या कथं स्वर्गपर्य्यन्त-
स्थायिकार्य्यलाभः? इत्यत आह योग्यत्वाच्चेति यागविष-
यककार्येस्वर्गसाधनत्वान्वये स्वर्गपर्यन्तस्थायित्वस्य योग्यतारूप
त्वाच्चेत्यर्थः । अतएवेति यतएव प्रथमं न तज्ज्ञानमित्यर्थः
अपूर्वम् अपूर्वर्त्वव्यवहारः । पदेन क्रियत इति नियम इति
शेषः । शक्तिग्रहेति तथा च तादृशनियमोऽसिद्ध इति भावः ।
नन्वाकाशादिपदस्थले ग्राह्यपदार्थोपस्थितेर्हेतुत्वस्य दृष्ट-
त्वादत्रापि तथेत्यतआह नचेति । क्वचित्--आकाशादिपदे ।
तथा--शाब्दधीहेतुः । अपूर्वेति शक्तिग्रहाविषयीभूतेत्यर्थः ।
ननु बिशिष्टवैशिष्ट्यबोधे विशे षणतावच्छेदकप्रकारकविशे-
षणज्ञानस्य हेतुतया यागविषयककार्य्यवान् स्वर्गकाम इति
विशिष्टवैशिष्ट्यबोधानुरोधादपूर्ब्बज्ञानमावश्यकमित्यतआह
विशिष्टेति विशिष्टवैशिष्ट्यबोधेऽपि विशेषणतावच्छदकप्रका-
रकज्ञानमेव हेतुर्नतु विशेषणविषयत्वम्यापि तत्र प्रवेश
इत्यर्थः । अन्यया--विशषणविषयत्वस्यापि तत्र प्रवेशे । व्याप-
कतयेति । ज्ञानेन न भात इत्यर्थः । तदन्वयः तद्विषयत्वम् ।
तस्मात्--तदीयपक्षधर्मताज्ञानात् । तेन रूपेणेति स्वमते,
तन्मते व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानस्यैवानुमिति
हेतुत्वात् । व्याप्यत्वेन वेति महानसीयधूमे गृहीतेन
धूमव्यापकवह्निसमानाधिकरणधूमत्वरूपेण वह्निमदन्या-
पृत्तित्वरूपेण वा व्याप्यात्वेनेत्यर्थः । एतच्च न्यायनये
परनये वह्निव्याप्योधूमः धूमवान् पर्व्वत इति ज्ञानादप्य-
नुमित्युत्पत्तेः वह्निव्याप्यवान् पर्वत इति ज्ञानादप्यनुमि-
त्युत्पत्तेश्चेति ध्येयम् । सा--सामान्यप्रत्यासत्तिः । सुतरामिति
विवृणोति कार्यत्वेन हीति । क्रियासाधारणेन--क्रियासा-
धारणधर्मप्रकारेण । अयोग्या--साक्षात्फलजननायोग्या ।
योग्येति साक्षात्फलजननयोग्येत्यर्थः । नित्यनिर्षेधेति
सन्ध्यामुपासीतेत्यत्र सन्ध्यावन्दनापूर्वस्य, न कलञ्जं भक्षये-
दित्यत्र कलञ्जभक्षणाभावजन्यापूर्व्वस्य वेत्यर्थः । तथा च
तवापसिद्धान्त इति भावः । अयोग्यतया--साक्षात्फल-
जननायोग्यतया । फलाश्रवणात् इति नित्येनिषेध-
स्थले च फलाश्रवणादित्यर्थः । कल्पनायाञ्चति
फलकल्पनायाञ्चेत्यर्थः । वीजाभावात् प्रमाणाभावात् ।
कार्येण समं--क्रियारूपकार्येण समम् । अभेदस्या-
पीति यद्यपि निषेथस्थले कलञ्जभक्षणाभावस्य कार्य-
त्वाभावेन कार्यत्वरूपेण लिङा न तद्बोधसम्भवस्तथापि
अभावस्योत्पादविनाशशालित्वनयेऽभावस्यापि कार्यत्व
सम्भव इत्यभिप्रायेणेदं धर्म्मत्वरूपकार्यत्वाभिप्रायेण वा ।
केचित्तु कार्यत्वं कृतिसाध्यत्वं तच्च योगक्षेमसाधारण
मित्यभावस्यापि कार्यत्वसम्भव इत्याहुः । कृतिरूप इति
साध्यत्वसंसर्ग इति भावः । अन्विताभिधानेतिशाब्द-
बोधेत्यर्थः । धर्म्मिणि--कार्य्ये । कार्य्यत्वान्वयेति स्वर्गकाम
कृतिसाध्यत्वान्वयेत्यर्थः अयोग्यतया स्वर्गकामकृति साध्य-
त्वान्वयायोग्यतया । एवमग्रेऽपि । तत्र शक्तिरिति तत्र
शक्तिग्रह इत्यर्थः । यत्प्रयुक्तेति यन्निष्ठस्वर्गकामकृतिसाध्य-
त्वान्वयानुपपत्त्येत्यर्थः । शक्तिकल्पनादिति वैदिकलिङ्-
मात्रशक्तिकल्पनादित्यर्थः । उपासनादीति सन्ध्योपास-
नादीत्यर्थः आदिपदान्निषेधविधिस्थले कलञ्जभक्षणा-
द्यभावपरिग्रहः । लक्षणेति वैदिकलिङः कार्य्ये धर्म्मि-
ण्येव शक्तिकल्पनादिति भावः । एतच्च लोकस्थले लौकिक
लिङत्वं कार्य्यत्वशक्ततावच्छेदकमित्यभिप्रायेणान्थथा
तत्र लिङ्त्वस्य शक्ततावच्छेदकत्वे लक्षणाया असङ्गतेरिति
ध्येयम् । एतच्चापाततः तन्नयेऽपूर्ब्बस्य शक्तिग्रहाविषय-
त्वेऽपि शाब्दबोधविषयत्ववत् क्रियाया अपि कार्य्यत्वरूपेण
वैदिकलिङः शक्तिग्रहाविषयत्वेऽपि शाब्दबोधविषयत्व
सम्भवात् न हि न्यायनयैव तन्मते ग्राह्यपदार्थशक्ति
धीरपेक्षिता किन्तु पदार्थतावच्छेदकरूपेण यत्र कुत्र-
चिद्धर्म्मिणि शक्तिग्रहादेव शाब्दबोधे योग्यव्यक्तेर्भानम् ।
किञ्चैवमपि निषेधस्थलेऽपूर्ब्बालाभः तत्र कलञ्जभक्षणा-
भावस्यापि क्रियातिरिक्ततया कार्य्यत्वरूपेण लिङा
तस्यैव बोधसम्भवात् । वस्तुतस्तु प्रकृतिप्रत्ययार्थयोरभेदान्व-
यस्याव्युत्पन्नतया लिङा क्रियादेर्न बोधसम्भवैत्येव
तत्त्वम् । ननु घटादिलक्षणकार्य्यत्वस्य शक्त्यतावच्छेदकत्वे
यजेतेत्यादौ कथमपूर्ब्बलाभः घटादिभिन्नकार्यत्वस्य शक्य-
तावच्छेदकत्वेऽ पूर्ब्बस्यानुपस्थितत्वात् कुत्र कार्ये शक्ति-
ग्रह इत्यतआह घटादिस्त्विति । उभयथापीति घटादिभि-
न्नकार्यत्वस्य घटादिकार्यत्वस्य च शक्यतावच्छेदकत्वे इत्य-
र्थः । किन्तु कार्यत्वमेव शक्यतावच्छेदकमिति भावः । ननु
पृष्ठ १९६५
सामान्यतः कार्यत्वस्य शक्यतावच्छेदकत्वे यजेतेत्यादौघटा-
देरपि शाब्दबोधे भानापत्तिरित्यत आहान्वितेति अयोग्य-
तया--धात्वर्थान्वयायोग्यतया । नन्वेवं कार्यत्वेन घटादेरपि
शक्यत्वात्तत्रापि लिङः कदाचित् प्रयोगः स्यादित्यतआह
विधीति केवलस्य--धात्वसमभिव्याहृतस्य, तस्य--विधिप्रत्य-
यस्य, अप्रयोगादेवेति असाधुत्वादेवेत्यर्थः । अप्रयोगः विधि
प्रत्ययाद्घटादेरप्रयोगः । प्रयोगोपाधीति शक्तिप्रमाजन्य
शाब्दबोधेऽभावसम्बन्धेन प्रतिबन्धकमित्यर्थः । तादृशबोधेऽ-
पूर्ब्बत्वं कारणमिति पर्य्यवसितोऽर्थः । प्रतिपत्तिः शक्य-
प्रतिपत्तिः । तदेव तत्रेति तद्वृत्ति तदेवेति योजना शक्य-
वृत्ति तदेवेत्यर्यः तथा च तत्पदशक्यवृत्तित्वे सति
तत्पदजन्योपस्थितिप्रकारत्वं तत्पदप्रवृत्तिनिमित्तत्वमिति
लक्षणं फलितम् । आकृतेरपि गोपदादिजन्यप्रतीतौ
गवाद्यंशे स्वसमवायिसमवेतत्वसम्बन्धेन प्रकारत्वात्तत्राति-
व्याप्तिवारणाय सत्यन्तम् । आकृतिस्तु अवयवसंयोगविशे-
षरूपा न गोपदशक्त्यवृत्तिः स्वसमवायिसमवेतत्वलक्षण-
परम्परासम्बन्धस्य वृत्त्यनियामकत्वात् । वृत्त्यनियामक
सम्बन्धेन तु न कोपि धर्म्मः कुत्रापि शक्यतावच्छेदकः
पशुपदादेरपि लोमवल्लाङ्गूलादिसमवेतत्वादिकमेव शक्य-
तावच्छेदकं न तु समवेतत्वसम्बन्धेन लोमवल्लाङ्गूलादिकम् ।
तदादिपदात् कदाचित् परम्परासम्बन्धेन कपाल-
त्वादिप्रकारेण घटादिबोधस्तु लक्षणयैव, आकृतेरपि
द्रव्यादिपदशक्यवृत्तित्वात् । तत्पदेति न चाकृतेरपि
कालिकादिसम्बन्धेन शाक्यगवादिवृत्तित्वादतिव्याप्तिस्तद-
वस्थेति वाच्यं तत्पदशक्तिविशेष्यतावच्छेदकतानियामक
सम्बन्धेन तत्पदशक्तिमुख्यविशेष्यवृत्तित्वस्य विवक्षित-
त्वात् मुख्येत्युपादानात् मूर्त्तादिपदे परिमाणत्वादेः,
घटादिपदे आकृतिवृत्त्यवान्तरजातेः शक्यतावच्छेदकत्वव्यु-
दासः । ज्ञानविषयशक्तवस्त्वादिपदे ज्ञानस्यापि शक्तिमुख्य
विशेष्यतया ज्ञानत्वस्य शक्यमुख्यवृत्तित्वेऽपि न यथोक्त
सम्बन्धेन तद्वृत्तित्वम् । नचाकाशादेरपि आकाशादिपद
शक्यतावच्छेदकत्वापत्तिरिति वाच्यं नव्यमते घटत्वादे-
र्घटादिपदशक्यतावच्छेदकत्ववदाकाशादेरप्याकाशादिपद-
शक्यतावच्छेदकत्वे इष्टापत्तेः । सम्प्रदायमते
चाकाशादिपदशक्तेर्विशेष्यांशे निर्विकल्पकरूपतया विशेष्य-
तावच्छेदकतानियामकसम्बन्धाप्रसिद्ध्यैवातिव्याप्तिविरहात्,
अवयवावयविवाचिदध्यादिपदे दध्यादेः शक्यतावच्छेद-
कत्ववारणाय विशेष्यदलम् । उपस्थितिर्हि लक्षणाशक्ति-
भ्रमाजन्यत्वेन विशेषणीया तेन लक्ष्यतावच्छेदके नाति
प्रसङ्गः । न च समूहालम्बनमादायातिप्रसङ्ग इति वाच्यं
यत्प्रकारताघटितधर्म्मावच्छेदेन तत्पदजन्यत्वं तत्त्वस्य
विवक्षितत्वादिति निगर्वः । तत्पदशक्तिविशेष्यतावच्छे-
दकत्वं तत्पदप्रवृत्तिनिमित्तत्वं संस्थानञ्च गुरुनये, नव्य
नैयायिकनये च सममिति न तत्रातिव्याप्तिरिति
तु ज्यायः । सास्नादौ सास्नासमवेतत्वादौ तथा--यथोक्त
लक्षणाश्रयः । तद्बोधस्य तत्प्रकारकज्ञानस्य अप्रवर्त्तक-
त्वात् शक्त्याऽजनकत्वात् घटादिपदस्येति शेषः । ननु लौकि-
कलिङः कार्यत्वे शक्तिः वैदिकलिङः कार्ये धर्मिणि शक्ति-
रित्यभ्युपगमे लौकिकलिङत्ववैदिकलिङत्वयोः शक्तताव-
च्छेदकत्वे शक्ततावच्छेदकगौरवमित्यतआह अतएवेति शक्तता-
वच्छेदकगौरवादेवेत्यर्थः । लाक्षणिकी--कार्यत्वे लाक्षणिकी
वेदे--वेदस्थले । शक्तिकल्पनादिति लिङ्सामान्यस्यैव शक्ति-
कल्पनादित्यर्थः । न च लिङ्मात्रस्य कार्यत्वे शक्तिः वेदे च
कार्ये धर्मिणि लक्षणा इत्येव किं न स्यात् कार्यत्वत्वा-
पेक्षया कार्यत्वत्वविशिष्टस्य कार्यत्वस्य गुरुत्वात् बिनिगम-
काभावाच्चेति वाच्यं कृतिसाध्यत्वत्वरूपकार्यत्वत्वापेक्षया
प्रागभावप्रतियोगित्वादिरूपस्य धर्मत्वरूपस्य वा कार्य-
त्वस्य लघुत्वादित्यभिप्रायः । वस्तुतस्तु लाघवाल्लिङ्मात्रस्य
कृतावेय शक्तिः साध्यत्वं संसर्गः । वेदे च प्रागभाबवत्त्वादि-
रूपकार्य्यत्वाश्रये धर्मिणि लक्षणाऽस्त्वेवेत्याशयः । ननु
लोकस्थले कार्य्यत्वरूपेणापूर्व्वमेवाऽर्थोऽस्तु किं लक्षणयेत्यत
आह नचेति पूर्ब्बमिति वेदे तु अनादिलिङ्प्रवादादेवा
ध्यापकानामपूर्ब्बावगमात्तत्र तात्पर्य्यसम्भव इति भावः ।
वस्तुतोऽपूर्ब्बं लोके बाधितं मानाभावादित्येव द्रष्टव्यम् ।
ननु लिङः शक्तिग्रहे क्रियाभिन्नधर्मिणोविषयत्वेऽपि
कार्य्यत्वस्य शक्यतावच्छेदकतया क्रियायां शक्तिरस्त्येव
तथा च लोकेऽपि पाकः कार्य्याभिन्न इत्यभेदान्वयबोधस्य
शक्त्यैवोपपत्तौ किं लक्षणया इत्यतमाह क्रियासाधार-
णेति । लक्षणैव कार्यत्वे लक्षणैव । पाककार्यतावगम्यते इत्या-
धाराधेयभावसम्बन्धेन पाकविशेष्यककृतिसाध्यत्वप्रकार-
कान्वयबोधोजायते इत्यर्थः । अन्यथा प्रवृत्त्यनुपपत्तेस्तथा
च प्रवर्त्तकज्ञानानुरोधाल्लक्षणेति भावः । इदञ्चाभ्युपगमवादे-
नोक्तं वस्तुतोधात्वर्थप्रत्ययार्थयोरभेदान्वयबोधस्याव्युत्पन्न
तया क्रियासाधारणशक्तावपि शक्त्यानोपपत्तिरन्यथा
नित्यनिषेधस्थलेऽपि तथान्वयबोधसम्भवादपूर्वलोपापत्तेरिति
ध्येयम् । ननु लोके पचेतेत्यादौ लिङीलक्षणायां लिङ्-
पृष्ठ १९६६
प्रदात् कार्यत्वरूपेण षाकोपस्थितिद्वारा पाकविशेष्यककार्य
त्वप्रकारकान्वयबोधो जायतामिति वक्तुस्तात्पर्यमनुपपन्नं
लिङोलक्षणया कार्यत्वमात्रोपस्थापकत्वादित्यतआह तत्रेति
कार्यत्वे कायत्वोपस्थितौ । तातपर्याद्धोति लोके लाघवात्
केवलकार्यत्वोपस्थितौ लिङस्तात्पर्यात् केवलकार्यत्वएव
वृत्तिरित्यर्थः नतु वृत्तेरिति अन्यत्रेति शेषः इदमापाततः
लौकिकतात्पयस्य पुमिच्छानियन्त्रितत्वात्तत्र लाघवस्या
किञ्चित्करत्वात् । वस्तुतस्तु तात्पर्यस्याप्याकाङ्क्षानुरोधेन
लक्षणाया अभ्युपगम इत्येव तत्त्वम् । ननु तथापि यन्मते
टेटम्यले कृतिसाध्यत्वरूपकार्यत्वाश्रये लिङः शक्तिस्तन्मते
कृतिसाध्यत्वसपकार्यत्वस्यापि विशेषणविधया शक्यतया
लोके शक्त्यैव कार्यत्वोपस्थितिसम्भवात् किं लक्षणया इत्यत
आह तृतीयाया इति । न स्वतन्त्रं शक्यमिति धर्म्यंशे
निर्विकल्पकशक्त्यापत्तेरिति भावः । कार्यत्वे लक्षणेति
कृतिसाध्यत्वरूपकार्यत्वचिशिष्टशक्तादोनामपि तादृशकार्यत्वे
लक्षणैव इत्यर्थः । गतत्वेन--विशेपणत्वेन । स्वतन्त्रेति इतरा
विशेषणतयेत्यर्थः । तुषानुपवपतीति पुरोडाशाय कपालं
पुरोडाशकपालमिति चतुर्थीसमासे सतोति शेषः पुरोडा-
शार्थतयेति पुरोडाशप्रयोजनकत्वरूपेणेत्यर्थः तदन्वित-
त्वेनेति पुरोडाशप्रयोजनकरूपपुरोडाशपदार्थान्वितत्वेन,
शाब्दानुभवविषयस्य कपालस्येत्यथः, नोपवापाकाङ्क्षा इति
एनज्व जिज्ञासायोग्य ताकाङ्क्षेति मते एकप्रयोजनकत्वेना-
वगतस्य प्रयोजनान्तरे जिज्ञासाया असम्भवान्न कपालस्य
किं प्रयोजनमिति जिज्ञासा सम्भवतीति भावः । स्वतन्त्रकपा-
लोपस्यितये इति पुरोडाशप्रयोजनकानन्वितत्वेन कपालशा-
ब्दबुद्धये इचर्थः अधिष्ठानलक्षणेति पुरोडाशपदस्य
पुरोडाशाधिष्ठाने मृण्मयपात्रं लक्षणेत्यर्थः । एवञ्च पुरो-
डाशाधिष्ठानाभिन्नकपालेन तुषानुपवपतीत्येन्वयबोधः पुरो-
डाशस्य कपालमिष्टि षष्ठीतत्पुरुषः, पुरोडाशञ्च तत्कपा-
लञ्चेति कर्सधारयो वेति भावः । उपवापः स्फोटनं
यद्यप्यत्र इतरविशेषणतया उपस्थितिनिबन्धनं न निरा-
काङ्क्षत्वमपि तु प्रयोजनान्तरवत्त्वोपस्थितिनिबन्धनमेवेति
दृष्टान्तदार्ष्टान्तिकयोर्भहद्वैषम्यमेव तथापि निराकाङ्क्षत्वनिब
न्धनलक्षणामात्रे दृष्टान्तः । एतच्चापाततः जिज्ञासा-
योग्यताया आकाङ्क्षात्वाभावात् घटजनकेन दण्डेन गाम
भ्याजेत्यत्राप्येवंरूपेण निराकाङ्क्ष्यतयाऽन्वयबोधानुपपत्तेः
किञ्चावान्तरवाक्यार्थबोधपूर्वकमहावाक्यार्थबोधेऽस्त्वेवंरूपेण
निराकाङ्क्षत्वं तथापि खलेकपोतन्यायेग युगपत्तथान्वय-
बोधे न काप्यनुपपत्तिः । वस्तुतस्तु वेदस्थले एकपयोजनकत्व
विशिष्टस्य प्रयोजनान्तरे नान्वयः आनुपूर्वीमेदेन व्युत्पत्ति
भेदात् वेदानुपूर्वीस्थले तथैव व्युत्पत्तेः सकलवैदिकैकवाक्य
तया तथा निर्णीतत्वादित्यधिष्ठानलक्षणेत्येव तत्त्वम् । व्युत्पत्ति
विरोध इति लोके लिङ्त्वावच्छेदेन क्रियानिष्ठकार्यता-
बोधकत्वमवधारितं वेदे च कार्ये धार्मणि लिङ्शक्तौ
तद्भङ्ग इत्यर्थः । लोके इति लिङत्वावच्छेदेनेति शेषः ।
क्रियाकार्य्यत्वे शक्तिः क्रियाविशेष्यककार्य्यत्वानुभव-
जनकना । कार्य्यत्वमात्रे इति शक्तिरवधारितेत्यनुष-
ज्यते शक्तिरनुभवजनकता । न चेति वेदस्थले इति शेषः ।
धर्य्यन्तरे कार्य्ये धर्म्मिणि तद्भङ्ग इति क्रियानिष्ठकार्य्य-
त्वस्यैव लिङा बोधनादिति भावः । ननु तथापि
लोकस्थले लिङः क्रियानिष्ठकार्य्यताबीधकतया प्रकृत्यर्थान्वित
स्वार्थबोधकत्वं लिङ्त्वावच्छेदेन सिद्धं कार्य्ये धर्म्मिणि
शक्तौ च तद्भङ्गः कार्ये धर्म्मिण्येव लिङर्थकार्यत्वान्वया-
दित्यतआह तस्मादिति लोकस्थले लिङः क्रियान्वित्तकार्यता
बोधकत्वात् इत्यर्थः । प्रत्ययानां गृहीतमिति लिङ्पत्यय-
त्वावच्छेदेन गृहीतमित्यर्थः । न तु प्रकृत्यर्थान्विततया यावत्
स्वार्थवोधकत्वप्तिति भावः । प्रत्ययाथश्च--लिङ्प्रत्ययार्थश्च ।
न विरोध इति अपूर्व्वरूपस्वार्थस्यैव प्रकृत्यर्यान्वितत्वादिति
भावः । तुष्यतु दुर्जन इति न्यायेनाह अस्तु वेति । क्रि-
याकार्यत्व इति क्रियाकृतिस्तस्याः कार्यत्वे तत्साध्यत्वे
इत्यर्थः शक्ततावच्छेदकञ्च लिङ्त्वमेव वेदेऽपि अपूर्व्वनिष्ठ-
कृतिसाध्यत्वावगमादिति भावः । नानार्थन्यायेनेति हर्यादि
पदन्यायेनेत्यर्थः । यथाश्रुतेऽस्यापि नानार्थतया नानार्थ
तुल्यत्वाभिधानस्यासङ्गतत्वापत्तेः । वेदे--वेदस्थले धर्म्यन्तरे
कार्ये धर्मिणि शक्ततावच्छेदकन्तु अत्रापि लिङ्त्वमेवेति
भावः । तथाच यथा हर्यादिपदस्थले एकमेव हारपदत्वा-
दिकं शक्ततावच्छेदकं विष्णुत्वचन्द्रत्वादिमेदेन शक्यताव-
च्छेदकञ्च नाना तर्थबैकमेव लिङ्त्वं शक्ततावच्छेदकं शक्य-
तावच्छेदकञ्च कार्यत्वत्वं कार्यत्वञ्च द्वयमिति फलितोऽर्थः ।
न च लिङ्त्वावच्छदेन कार्य्ये शक्तो, लोकेऽप्यपूर्वलाभाप-
त्तिरिति वाच्यं प्रागेव समाहितत्वात् तत्रापूवस्य वाधित-
त्वाच्चेति भावः ।”
मणिकृता तु एतन्मतं पूर्व्वपक्षीकृत्य दूपितम् । तच्च
ततएवावसेयम् । विस्तरभयान्नोक्तम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कायव्यूह&oldid=57697" इत्यस्माद् प्रतिप्राप्तम्