वाचस्पत्यम्/कल्पक

विकिस्रोतः तः
Jump to navigation Jump to search


पृष्ठ १८२०

कल्पक त्रि० कल्पयति रचयति आरोपयति वा कृप--णिच्-

ण्वुल् । १ रचके २ आरोपके च । ३ कर्चूरे (कचूर) भावप्र०
४ नापिते पु० शब्दमाला तस्य केशवेशरचकत्वात् तच्छेद-
त्वात् वा तथात्वम् । कल्प + स्वार्थे कन् । ४ कल्पशब्दार्थे च

कल्पकारः पु० कल्पं कल्पसूत्रं करोति कृ--ण्वुल् । १ कल्पसूत्र-

कारकेषु आश्वलायनादिषु कल्पं वेशं करोति अण् ।
२ वेशादिकारके त्रि० ३ नापिते पु० ण्वुल् । कल्पकारकोऽप्यत्र

कल्पक्षय पु० कल्पस्य सृष्टेः रचनाविशेषस्य क्षयोयत्र ।

प्रलये । “पुरा कल्पक्षये वृत्ते जातं जलमयं जगत्”
वृहत्कथा । “कल्पक्षये पुनस्ते तु प्रविशन्ति परं पदम्”
विष्णुपुरा० ।

कल्पतरु पु० कर्म्म० राहुशिरोवत् त० वा । १ देवतरुभेदे

कल्पपादपशब्दे विवृतिः । “आसीत् कल्पतरुच्छाया-
नाश्रिता सुरभिः पथि” “मेरौ कल्पतरोरिव” रघुः ।
“निगमकल्पतरोर्गलितं फलम्” भाग० १, १, २ । २ स्मृति-
निबन्धनभेदे शारीरकसूत्रभाष्यटीकाभामतीव्याख्यान-
रूपे ३ ग्रन्थे च

कल्पद्रुम पु० कर्म्म० राहुशिरोवत् त० वा । देवतरुभेदे ।

संकल्पविषयफलदातृत्वाच्च तस्य कल्पद्रुमत्वम् “अनुकूल-
यतीन्द्रोऽपि कल्पद्रुमविमूषणैः” कुमा० । “नाबुद्ध
कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम्” रघुः ।
“कल्पद्रुमैरिह विचित्रफलैर्विरेजुः” माघः । कल्पद्रु-
कल्पवृक्षादयोऽप्यत्र ।

कल्पन न० कृप--छेदने भावे ल्युट् । १ छेदने त्रिका० । कृपू-

सामर्थ्ये णिच्--भावे ल्युट् । २ रचमायाम् ३ विधाने
४ आरोपे च ।

कल्पना स्त्री कृप--णिच्--भावे युच् । १ रचनायाम् “उद्धा-

रेऽनुद्धृते तेषामियं स्यादं शकल्पना” मनुः “प्रबन्धकल्पना
कथा” अम० २ विधाने ३ आरोहणाय गजसज्जीकरणे हेम०
“सकल्पनं द्विरदगणं वरूथिनः” माघः । ४ व्यतिरेकव्याप्ति-
ज्ञानाधीने अनुमानभेदे नैया० ५ अर्थापत्तिरूपे प्रमाणा-
ऽन्तरे मीमांसकावेदान्तिनश्चाहुः । आरोपश्चाविद्य-
मानपदार्थस्य अन्यत्र स्थितस्य अन्यत्र प्रतिभासरूपः
मानसव्यापारः । “कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्वि-
कल्पकम्” सर्व्वद० स० । यथा रज्जौ सर्पकल्पना ।
वेदान्तिमते एवं प्रपञ्चस्य ब्रह्मणि कल्पनारूप आरोपः ।
“चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः । उपास-
कानां सिद्ध्यर्थं ब्रह्मणोरूपकल्पना” । निराकारस्य
साकरतया जगदाकारेणारोपोऽपि कल्पनैव स
चाध्यासशब्दे उक्तः । तदेतत् मुक्ताफले तट्टीकायां च
निर्ण्णीतं यथा-
“अहमेवासमेवाग्रे नान्यद्यत् सदसत् परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्” मुक्ताफ० ।
“अहमेवेति कर्त्रन्तरस्य व्यावृत्तिः आसमेवेति क्रिया-
न्तरस्य । अग्रे मायासम्बन्धादहमेव त्रिधा विभक्त इत्यर्थः,
पश्चान्मायावियोगादनन्तरमप्यहमेव प्रपञ्चस्यादि-
मध्यावसानेष्वहमित्यर्थः । यच्चैतत् प्रपञ्चरूपं तदप्यहं
नान्यत्र सिद्धं मय्यारोपितं यथाऽ न्यत्र सिद्धः सर्पोरज्जौ
एवं विवेचनात् भ्रमे निवृत्ते योऽवशिष्येत सोऽहमस्मि
इदन्तया स्वरूपस्य निर्देष्टुमशक्यत्वादेवमुच्यते । एतेन यथा
कटकादिष्ववस्थात्रयेऽपि सुवर्णत्वमेव सत्यम् । तथा जगदा-
दिमध्यान्तेष्वनुष्यूतं सत्तामात्रं भगवत्स्वरूपमिति लक्षणार्थ
इत्युक्तं, न तावदस्यासम्भवः “सदेव सोम्येदम्” इत्यादि-
श्रुतिसिद्धत्वात् । न च कालाकाशादिष्वतिव्याप्तिः तदुत्-
पत्तेः श्रुतत्वात् विमतमनित्यं बाध्यत्वात् शुक्तिरूप्यवदित्यनु-
मानाच्च । नापि साकारेषु चतुर्ष्वव्याप्तिः तेषामाकारति-
रोहितत्वात् तस्मान्निर्दोषं लक्षणम् । एवं सामान्यलक्षण-
मुक्त्वा विशेषाल्लक्षयितुमाह” टी० “स द्वेधा निराकारः साका-
रश्च अनवच्छिन्नं चैतन्यं निराकारः, सत्वावच्छिन्नं चैतन्यं
साकारः । स चतुर्धा रजस्तमोभ्यां युक्ते सत्वे पुरुषः १
रजसा ब्रह्मा २ तमसा रुद्रः ३ शुद्धे विष्णुरेव ४” मुक्ता० ।
“स द्वेधेति द्वेधात्वमेवाह निरेति अनवच्छिन्ने वस्तुन्यव-
च्छेदक उपाधिराकारः तेन रहितो निराकारः
तत्सहितोऽन्यः । तत्राद्यं लक्षयति “अनवच्छिन्नमिति ।
द्वितीयं लक्षयति सत्वेति । अस्यैव भेदानाह स
चेति सः साकारः । तदाद्यं भेदमाह रजस्तमोभ्यामिति ।
तुल्याभ्यां रजस्तमोभ्यां युक्ते सत्वे प्रतिफलितं चैतन्यं
पुरुषशब्दार्थं इति पूरंणीयम् । एवमुत्तरत्र रजस्तमोभ्या-
मिति तृतीयया तयोरप्राधान्थ” “सहयुक्ते चाप्रधाने” (पा०)
इति स्मरणात् तेन पुरुषे सत्वं बहुलं, रजस्तमश्च तदपेक्ष-
वा न्यूनमित्यर्थः । न तु त्रीणि समान्येव त्रिसाम्यस्य
प्रकृतिलक्षणत्वात्, स्तोकाधिकभावश्चैषां कार्य्य गम्यो न तु
मासादिमूर्त्तद्रव्यवत् प्रत्यक्षः । युक्तग्रहणं द्वयोर्वर्त्तते, सत्व-
ग्रहणं त्रिषु । द्वितीयं भेदमाह रजसेति । रजसा यक्ते सत्वे
पृष्ठ १८२१
ब्रह्मा । अत्र च मात्रया विद्यमानमपि तमो रजसः
प्राधान्य वक्तुं नोक्तम् नतु तन्नास्त्येव तत्कार्य्यस्योप-
लम्भात् तृतीया तु प्राग्वत् तेन ब्रह्मणि तमस्तोकं
तदपेक्षया रजः प्रभूतमित्यर्थः । रजसः प्रागुक्तिः सत्वापेक्षया
हेयत्वात् तुर्यप्रकरणानुरोधाच्च तृतीयं भेदमाह तमसेति ।
अत्र रजोमात्रानुरोधादिकं प्राग्वत् । चतुर्थमाहशुद्धेविष्णु-
रेवेति शुद्धे रजस्तमोभ्यामस्पृष्टे सत्वे विष्णुरेव विष्णुसंज्ञैव
क्रियते न तु तत्रावन्तरवत्संज्ञान्तरमित्येवशब्दार्थः । तथाहि
“तमेनं विशुद्धोर्जितसत्वाकारं सदाशिव” इत्याचक्षते” शैवाः ।
पशुपतिरिति पाशुपताः । पुरुषोत्तम इति पाञ्चरात्राः ।
आदिविद्वान् सिद्ध इति कापिलाः । ईश्वर इति
षातञ्जलाः । इह तु तस्य विष्णुसंज्ञैव । यद्वा विष्णुं पञ्चात्मक
मित्यत्र पञ्चानामपि विष्णुसंज्ञामुक्त्वा चतुर्णां संज्ञा-
न्तरमप्युक्तम् । शुद्धसत्वोपाधिस्तु विष्णुसंज्ञ एवेत्येपशब्दार्थः ।
ते च ब्रह्मविष्णुरुद्राः प्रत्येकम् आधिदैविकादिभेदात् त्रेधा
विष्णुरेव” टो० “अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः
सत्वम्, गोचरस्य बहुरूपत्वे रजः, बहुरूपस्य तिरोहित-
त्वे तमः । तथा परस्परमुदासीनत्वे सत्वम्” मुक्ता० ।
“एवमुपाधिसंभेदात् पञ्चरूपतामुक्त्वा इदानीमननु-
संहितोपाधेरुपहितप्रत्ययायोगादुपाधीन् लक्षयति
अगोचरस्येति । अगोचरस्य अविषयभूतस्य वस्तुनोगोचरत्वे
विषयीभावे हेतुर्यः प्रकृतिगुणः तत् सत्वमित्यर्थः ।
हेतुः प्रकृतिगुणैत्युत्तरत्र पञ्चस्वनुवर्त्तते । गोचरस्य
सतोयत्सम्बन्धान्नानात्वं तद्रजः । तस्यैव तिरोहितत्वे
कारणात्मनावस्थाने हेतुस्तमः इत्यर्थः । विनाशे इत्यनुक्त्वा
सत्कार्य्यपक्षाश्रयणात्तिरोहितत्वे इत्युक्तम् । एवमाधि-
दैविकोपाधिस्वरूपमुक्त्वा आध्यात्मिकोपाधिस्वरूपमाह
तथेति । अयमर्थः--परस्परमुदासीनमित्रद्विषत्सु उदासीनत्वे
हेतुः सत्वम् इति” टी० “गोचरत्वे सत्वम्, उपकारित्वे
रजः, अपकारित्वे तमः । गोचरत्वादीनि, स्थितिसृष्टिसं-
हाराः” मुक्ता० । “आधिदैविकाध्यात्मिकोपाधिलक्षणादा-
धिभूतोपाधिस्वरूपमपि लक्षितं येन हि एकस्मिन्
वस्तुनि द्विरूपोविच्छेदः असावाधिभौतिकः तदुक्तम्
“योध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः । य
स्त्रत्रोभयविच्छेदः स स्मृतोह्याधिभौतिकः” । उक्तान्
गोचरत्वादीन् उपाधीनुन्मीलयितुमाह गोचरत्यादीनीति ।
गोचरत्वबहुरूपत्वतिरोहितत्वानि क्रमात् स्थित्यादिशब्दै
रुच्यन्त इत्यर्थः । न चैवं सृष्ट्यनन्तरस्थितिरिति विरु-
द्धत्वं शङ्क्यं स्थितिपूर्वकत्वात् सृष्टेः । स्थिता हि मृदा-
दयोघटाद्यात्मना सृज्यन्ते नास्थिता इति अतएवोक्तं
“सत्वं त्रिलोकम्थितये स्वमायया विभर्षि शुक्लं खलु वर्णमा-
त्मनः । स्वर्गाय रक्तं रजसोपसंहितं कृष्णं च वर्णं
तमसा जनात्यये” इति टी० “उदासीनत्वादीनि च” मुक्ता० ।
“एवमाध्यात्मिकेष्वपीत्याह उदासीनेति । अयमर्थः
यदिदं चैत्रादेरुपकारापकारवैधुर्य्येणावस्थानं सा स्थितिः ।
उपकारकत्वेन सृष्टिः । अपकारकत्वेन तु संहारः । ततश्च
जगत्स्थित्यादिहेतव आधिदैविकाः, अन्ये त्वाध्यात्मिकाः ।
सुरनरादयः अवताराश्च सर्वे विना कृष्णम्, स तु पुरुषः
त्रिविक्रमावतारत्वात् यथोक्तम् “तयोर्वां पुनरेवाहमदित्या-
मास कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच्च
वामनः” (भाग०) इति । अत एव तत्र तत्र विश्वरूपप्रकटनं
पूर्वावतारदेशवात्सल्यञ्च । दृश्यते चाद्यापि कुशस्थलीमूर्त्तौ
त्रैविक्रमचिह्नं कृष्णव्यपदेशश्च । अतएव प्रह्रादसंहितायां
द्वारकामाहात्म्ये तृतीये अध्याये वैकुण्ठमलङ्करिष्यता
भगवता सकलं निजं तेजस्तस्यां मूर्त्तौ विन्य-
खमिति दर्शितम् । तथा हि “यत्र त्रैविक्रमी
मूर्त्तिर्वहते यत्र गोमती । नरा मुक्तिं प्रयास्यन्ति चक्र-
तीर्थेन संगताः । कलेवरं परित्यक्तं प्रभासे हरिणा
तदा । कलाभिः सहितं तेजस्तस्यां मूर्त्तौ निवेशितम् ।
तस्मात् कलियुगे विप्रा! नान्यत्र प्राप्यते हरिः । यदि
कार्यं हि कृष्णेन तत्र गच्छत मा चिरम्” इति । तथा
“आदौ त्रिविक्रम इति ख्यातिरासीन्महीतले । कृष्णस्य
तु कलान्यासात् कृष्ण इत्यभिधीयत” इति । यत्तु सत्वं
विशुद्धमित्यादिना शुद्धसत्वतासंकीर्त्तनं त्तत् सत्वम्यस्त्व-
विषयं, न तु यथाश्रुतमेव गुणान्तरकाय्यस्याप्युपल-
म्भात् तत्र तदसत्यमन्यत्र तु वास्तवमिति तु भक्ति-
मात्रं तस्मात् पुरुष एवायमिति सन्तोष्टव्यं निष्क्रष्टव्यं
चेदमुपरिष्टात् । यथा चैता ब्रह्मादिमूर्त्तयोगुणमूलाः तथा
हास्यादयोरसाश्च तन्मूला एवेत्युपरिष्टात् प्रवेदयिष्यामः ।
किं बहुना तत्त्रितयतारतम्यवैचित्र्याक्रान्तमिदं विश्वं
तदुक्तं “न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैरिति” टी०
“तेषु विष्णुब्रह्मरुद्रा निमित्तं पुरुष उपादानं गोचरत्वे
तु चैतन्यम्, एव पञ्च भेदाः तत्र निराकारः” मुक्ता० ।
एवमुपाधिस्वरूपं निर्धार्योपहितेषु संख्यायिशेषस्यो-
पयोगमाह तेष्विति” तेषु स्थितिसृष्टिसंहारेषु विष्णु-
पृष्ठ १८२२
दयः क्रमान् निमित्तम् कुलाल इव घटस्य, पुरुष
उपादानं समवायिकारणं घटस्येव मृत्, दृष्टा च कारणद्वय-
पूर्विका कार्य्यप्रवृत्तिः असमवायिकारणं तु निमित्तान्तर्गत-
मेवेति पृथङ्नोक्तम् । अतएव “अन्वयादितरतश्चेति”
भाग० प्रथमश्लोके द्वयमेवोपात्तम् । गोचरत्वे प्रतीतिविष-
यत्वे तु निर्विशेषचैतन्यं हेतुः “तस्य भासा सर्वमिदं विभा-
तीति” श्रुतेः । तत्र स्थित्यादिनिमित्तार्थं त्रयः, उपादानार्थं
चैकः गोचरत्वार्थमन्यश्चेति “विष्णुं पञ्चात्मकम् इत्यत्र पञ्चै-
वोक्ता न न्यूनाधिका इत्यभिप्रेत्याह एवमिति । नचैवमेकः
सामान्यात्मा विशेषरूपाश्च पञ्चेति षट्कमाशङ्क्यं विशेष-
परिहारे सामान्यस्यानवस्थानात् एवं तावत् पञ्च वस्तूनि
स्वयं लक्षयित्वा तदेव ग्रन्थान्तरानुरूपेण लक्षणेन द्रढ़यितु-
माह तत्रेति । निराकार इति निराकारस्य लक्षणं कथ्यत
इत्यर्थः” टी० । “न यत्र कालोऽनिमिषां परः प्रभुः
कुतो नु देवा जगतां य ईशिरे । न यत्र सत्वं न
रजस्तमश्च न वै विकारो न महान् प्रधानम् । परं पदं वैष्णवमा-
मनन्ति तत् यत्र नेतीत्यतदुत्सिसृक्षवः । विसृज्य दौरात्म्य-
मनन्यसौहृदाहृदोपगुह्यार्हपदं पदे पदे” (भाग०) मुक्ता० ।
“तत्रापि न यत्रेति तटस्थस्य, परं पदमिति स्वरूपस्य ।
तत् परं पदं वैष्णवम् आमनन्ति विष्णुनाधिष्ठितं
अघिकृताधिष्ठितेन राज्ञाधिष्ठितवत् ब्रह्मादिपदानामपि
विष्णुनाऽधिष्ठितत्वात् परमित्युक्तं विष्णुनैवाधिष्ठित-
मित्यर्थः । यत्र पदे कालोनास्ति यः अनिमिषां ब्रह्मादीनां
परः प्रभुः सहर्त्ता महाप्रलयेऽपि नाशोनास्त्येवेत्यर्थः ।
अतएव कालाभावे किंपुनर्न्यायेन देवा अपि तत्र न सन्ती-
त्याह कुतोन्विति । तथा देवाभावे जीवा अपि न सन्तीत्याह
जगतामिति । ये देवा जगताम् उच्चावचां गतिं गच्छतां
जीवानामीशाः तेषां का वार्त्ता? तत्कृतविघ्नगन्धोऽपि
नास्तीत्याह ईशिरे इत्यनित्यत्वद्योतनार्थं लिट्प्रयोगः ।
यत्र च पदे सत्वादिर्नास्ति सत्वमिन्द्रियदेवतारूपं,
रज इन्द्रियम्, । तम इन्द्रियार्थरूपं, विकारोऽहङ्कारस्तेषां
त्रयाणां कारणं महान् बुद्धितत्त्वं तदहङ्कारस्य प्रधान
मव्यक्तं तन्महतः । सत्वाद्यभावादेतत् प्राप्तवतां पुनर्जन्मा-
दिशङ्कावीजलेशोऽपि नास्तीत्यर्थः । एवं दुःखं नास्तीत्युक्त्वासु-
खमस्तीत्याह यत्रेतीति । यत् विष्णुपदं हृदा मनसा उपगुह्या
श्लिष्य अनन्यसौहृदाभवन्ति अन्यत्र विषये प्रीतिं परित्यजन्ति
तादृक्सुखाभावात् तद्धि पदे पदे क्षणे क्षणे अर्हपदं
अर्हणस्य आदरस्य स्थानम् उत्तरोत्तरचमत्करणीय-
त्वात् दोरात्म्यं विसृज्य अनादिदुर्वासनावासितत्व
त्यक्त्वा विषयान्तरस्मृतिरपि नास्तीत्यर्थः नेति नेतीत्यु-
पनिषदुपदेशविश्वासबलात् अतत् विष्णुपदादन्यत्
उत्सिसृक्षवः स्वेच्छयैवोत्सृष्टवन्तः । नित्यनिरतिशय-
सुखानुभवरूपे विष्णुपदे अनुभविता अनुभवनं अनु
भवनीय इति कर्त्तृकरणकर्माणि अतच्छब्देनीच्यन्ते
तानि ह्यनुभवार्थमुपादीयन्ते सत्यनुभवे तु त्यज्यन्त असत्य-
त्वादन्तरायत्वाच्च” टी० “इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञा-
नदृग्वीर्य्यसुरन्धिताशयः” । पुरुषः--“भूतैर्यदा पञ्चभिरात्म-
सृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषा-
मिधानमवाप नारायण आदिदेवः” (भाग०)मुक्ता० ।
“एवमस्य द्विविधलक्षणमुक्त्वा अत्राधिकारिणम्हाह इत्थमिति ।
इत्थं व्यवस्थितः अनेन प्रकारेण विशिष्टामवस्थामापन्नो
मुनिरुपरमेत् न किञ्चित् कुर्य्यात् यतोविज्ञानस्य
विशुद्धज्ञानरूपस्य विष्णोर्दृक् दर्शनं साक्षात्कारः तस्य
वीर्य्यं बलं तेन सुरन्धितो यथा पुनर्नोदेति तथा हिंसितः
आशयोजीवत्वोपाधिर्य्येन स तथा । अयमर्थः वक्ष्यमाण
भूमिकोपासनाक्रमबलात् सत्वपुरुषान्यताख्यातिमापन्न-
स्तामपि सायुज्यार्थी निरोद्धुकाम इत्येतामवस्थामा-
पन्नो मुनिरत्राधिक्रियते नान्यः । अवश्यञ्चाधिकारि-
निर्धारार्थं इत्थमित्यादि ज्ञेयम् अन्यथास्योद्धरणं
निःप्रयोजनं स्यात् । इति शुकः राजानं प्रति पुरुषलक्षण-
माह । भूतैरित्यादि । आत्मसृष्टैः आत्मना प्रकृति-
मधिष्ठाय सृष्टैः पुरं देहं विराजं ब्रह्माण्डं विरचय्य
निष्पाद्य तस्मिन् स्वांशेन जीवकलया यदा प्रविष्टः
तदा पुरुषसंज्ञामवाप पुरि शयनाद्वसनाद्वा पुरुषः
अनंशेऽप्यंशोक्तिः कल्पनया । नारायणः जलशायी आदिदेवो
निराकारः” टी० । मुक्ताफलस्थाः श्लोकास्तु भागवतीयाः ।

कल्पनाकाल त्रि० कल्पनायाः कालः कालो यस्य ।

संकल्पवदाशुविनाशिनि अस्थिरे पदार्थे त्रि० ।

कल्पनी स्त्री कृप--छेदने करणे ल्युट् ङीप् । कर्त्तर्य्याम् ।

(काञ्चि) हेमच० ।

कल्पपादप पु० कर्म्म० राहुशिरोवत् त० स० वा । १

सुरतरुभेदे “मृषा न चक्रेऽल्पितकल्पपादपः” नैष० ।
महादानान्तर्गते स्वर्णनिर्म्मितपादपाकारे देये २ द्रव्यभेदे
तद्विधानं हेमा० दा० उक्तं
यथा“मत्स्य उवाच । “कल्पपादपदानाख्यमतः परमनुत्तमम् ।
महादान प्रवक्ष्यामि सर्व्वपातकनाशनम् । पुण्यं दिन-
पृष्ठ १८२३
मथासाद्य तुलापुरुषदानवत् । पुण्याहवाचनं कुर्य्या-
ल्लोकेशावाहनं तथा । ऋत्विग्मण्डपसम्भारभूषणाच्छा-
दनादिकम्” । आदिशब्देण कालदेशवृद्धिश्राद्धशिवादि-
पूजागुर्वृत्विग्चतुष्टयवरण--मधुपर्कं--दान--होम--वेदिको-
परिचक्र--लेखनपञ्चवर्ण--वितानपताकातोरणादि, मत्स्य-
पुराणोक्ततुलापुरुषदानवद्वेदितव्यम् । “काञ्चनान्
कारयेद्वृक्षान् नानाफलसमन्वितान् । नानाविहारवस्त्राणि
भूषणानि च कारयेत्” । नानाफलेति, पूंस्त्रीगो-
गज--वाजि--मणि--वज्र--कनक--रजत--भक्ष्यफलादोणि ।
“शक्तितस्त्रिपलादूर्द्धमासहस्रात् प्रकल्पयेत् । अर्द्धात् कॢप्त-
सुवर्ण्णस्य कारयेत् कल्पपादषम् । गुड़प्रस्थोपरिष्टाच्च
सितवस्त्रयुगावृतम् । कामदेवमधस्ताच्च सकलत्रं प्रक-
ल्पयेत्” । अर्द्धात् कॢप्तसुवर्ण्णस्येति यथाशक्ति दानार्थकॢप्त-
सुबर्ण्णस्यार्द्धेन ब्रह्मादिप्रतिमासहितं कल्पपादप कुर्य्यात्
द्वितीयमप्यर्द्धं चतुर्द्धा विभज्य एकैकांशेन वक्ष्यमाणस्वस्व-
देवतासहितान् सन्तानादीन् विदध्यात्, गुड़प्रस्थोऽत्र
“द्वात्रिंशत्पलिकः प्रस्थः पुराणे परिकीर्त्तित” इति ।
ब्रह्मादिलक्षणमुक्तं ब्रह्माण्डदाने, कामदेवरूपन्तु विष्णु धर्मो-
त्तरात् “कामदेवस्तु कर्त्तव्योरूपेणाप्रतिमो भुवि । अष्ट-
बाहुः प्रकर्त्तव्यः शङ्खपद्मविभूषणः । चापवाणकरश्चैव
समाकुञ्चितलोचनः । रतिः प्रीतिस्तथाशक्तिर्भार्य्याश्चैता-
स्तथोज्ज्वला । चतस्रस्तस्य कर्त्तव्याः पत्न्योरूपमनोहराः ।
चत्वारश्च करास्तस्य कार्य्या भार्य्यास्तनोपगाः । केतुश्च
मकरः कार्य्यः पञ्चवाणमुखोमहानिति” । अधस्तादिति
ब्रह्मादिभिरपि सम्बध्यते । अत्र प्रकृतौ परिमाणाभावात्
पुरुषेच्छया प्रतिमादिपरिमाणानियमः । “सन्तानं पूर्व्व-
वत्तद्वत्तुरीयांशेन कल्पयेत्” तुरीयांशेन, द्वितीयार्द्ध-
चतुर्थांशेनेत्यर्थः । तद्वत्कल्पवृक्षबत्, पञ्चशाखं गुडप्रस्थो-
परिगतं ब्रह्मादिप्रतिमान्वितं कुर्य्यादित्यर्थः । केचित्तु
कामदेवमधस्तात् प्रकल्पयेदितिसन्तानवृक्षे योजयन्ति, तन्मते
तत्प्रतिमैव कर्त्तव्या । “मन्दार दक्षिणे पार्श्वेश्रिया सार्द्धं
घृतोपरि । पश्चिमे पारिभद्रन्तु सावित्र्या सह जीरके ।
सुरभीसंयुतं तद्वन्निवेश्यं हरिचन्दनम् । तुरीयांशेन कुर्वीत
सौम्येन फलसंयुतम्” । श्रोलक्षणमुक्तं ब्रह्माण्डदाने, सावि-
त्रीलक्षणमाह नारदः “पद्मासना च सावित्री साक्षसूत्र-
कमण्डलुः” । सुरभीलक्षणं ब्रह्माण्डपुराणे “सवत्सा
सुरभी, धेनुरारक्ता प्रस्नुतस्तनीति, “सौम्येन, उत्तरेण ।
घृतादीनासपि परिमाणापेक्षायां तद्वदिति वचनात् मलि-
धानाच्च प्रस्थपरिमाणत्वमवधेयम् । “कौशेयवस्त्रंसंयुक्तानि-
क्षुमाल्यफलान्वितान् । तथाष्टौ पूर्ण्णकलशान् पादुकासन-
भाजनम् । दीपकोपानहच्छत्रचामरासनसंयुतम् ।
फलमाल्ययुतं तद्वदुपरिष्टाद्वितानयकम् । तथाष्टादश धान्यानि
समन्तात् परिकल्पयेत्” । अशनभाजनं, भोज्यान्वित-
भाजनं वितानं पञ्चवर्ण्णम् । अथ पूर्व्ववत् पूर्व्वेद्युरवि-
वासनं विधाय श्वोभूते ब्राह्मणवाचनादिपूर्णाहुतिपर्य्यन्तं
कर्म्मशेषं समापयेत् । “होमाधिवासनान्ते च स्नापितो
वेदिपुङ्गवैः । त्रिःप्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत् ।
नमस्ते कल्पवृक्षाय चिन्तितार्थप्रदायिने । विश्वम्भराय
देवाय नमस्ते विश्वमूर्त्तये । यस्मात् त्वमेव विश्वात्मा
ब्रह्मा स्थाणुर्दिवाकरः । मूर्त्तामूर्त्तपरं वीजमतः पाहि
सनातनः! त्वमेवामृतसर्व्वस्वमनन्तः पुरुषोऽव्ययः ।
सन्तानाद्यैरुपेतः सन् पाहि संसारसागरात्” । अमृता,
देवाः तेषां सर्व्वस्वं, अमृतसर्वस्वम् । “एवमामन्त्र्य तं
दद्यात् गुरवे कल्पपादपम् । चतुर्भ्यश्चापि ऋत्विग्भ्यः
सन्तानादीन् प्रकल्पयेत्” । दानवाक्यमत्र तुलापुरुषोक्त-
मूहनीयं, चतुर्भ्यः प्रकल्पयेदित्येकैकस्मै दद्यादित्यर्थः ।
चतुर्भ्यैतिवचनादत्र चतुर्णामेवर्त्विजां वरणमिति गम्यते
ऋत्विगष्टकपक्षे तु ऋत्विग्भ्य इति ऋत्विग्युग्मेभ्य इत्यर्थः ।
एतस्मिंश्च पक्षे जापकादिभ्योऽन्यैव दक्षिणा दातव्या ।
वेदचतुष्टयापेक्षया चतुःसंख्यत्वमिदमृत्विजामिति केचित् ।
इहापि “प्राप्य तेषामनुज्ञाञ्च तथान्येभ्योपि दापये-
दिति” बोद्धव्यम । दक्षिणानिर्ण्णयश्च पूर्व्ववत् । स्वल्पे-
ष्वेकाग्निवत् कुर्य्याद् गुरवे वाभिपूजनम् । न वित्तशाठ्यं
कुर्वीत न च विस्मयवान् भवेत्” । स्वल्पत्वविवरणमुक्त
ब्रह्माण्डदाने । ततः पुण्याहवाचने कृते वेदिसमीप गत्वा
कृतदेवपूजोयजमानोगुरुश्च पूर्ववदेव देवताविसर्जनं कुर्य्यात् ।
“अनेन विधिना यस्तु महादानं निवेदयेत् । सर्व्वपाप-
विनिर्मुक्तः सोऽश्वमेधफलं लभेत् । अप्सरोभिः
परिवृतः सिद्धचारणपन्नगैः । भूतान् भव्यांश्च मनुजांस्ता-
रयेद्रोमसंमितान् । स्तूयमानो दिवःपृष्ठे पितृपुत्रप्रपौ
त्रवान् । विमानेनार्कवर्णेन विष्णुलोकं स गच्छति
दिवि कल्पशतं तिष्ठेद्राजराजो भवेत् ततः । नारायण
बलोपेतो नारायणपरायणः । नारायणकथासक्तो ना
रायणपुरं व्रजेत् । यो वा पठेत् सकलकल्पतरुप्रदानं,
यो वा शणोति पुरुषोऽल्पधनः स्मरेद्वा । सोऽपीन्द्रलोक-
मयिगम्य सहाप्सरोभिर्म्मन्वन्तरं वसति पापविमुक्तदेहः” ।
पृष्ठ १८२४
इति मत्स्यपुराणोक्तकल्पतरुदानविधिः । तत्रैव लिङ्गपुराणे,
“सनत्कुमार उवाच । अथान्यत् संप्रवक्ष्यामि कल्पपाद-
पमुत्तमम् । शतनिष्केण कर्त्तव्यं सर्वशस्यसमन्वि-
तम् “। सर्वशाखाः, सर्वदिगन्तशाखाः । “शाखायां
विधिना कृत्वा मुक्तादाम प्रलम्बितम् । दिव्यैर्म्मरकतैश्चैव
चाङ्कुराणि प्रविन्यसेत्” । दिव्यैः, उत्कृष्टैरित्यर्थः ।
“प्रबालङ्कारयेद्धीमान् प्रबालेन द्रुमस्य च” । प्रबालेन प्रबा-
लङ्कारयेदिति, विद्रुमैर्बालपल्लवान् कारयेत्यदिर्थः । “फलानि
पद्मरागैश्च पारिजातस्य शोभनम् । मूलदण्डञ्च नीलेन
वज्रेण स्कन्धमुत्तमम् । वैदूर्य्येण द्रुमाग्रञ्च पुष्परागेण
मस्तकम्” । स्कन्धादूर्द्ध्वभागो मस्तकं, तदूर्द्धं, द्रुमा-
ग्रम् । “गोमेदकेन वै स्कन्धं सूर्य्यकान्तेन सुव्रतः ।
चन्द्रकान्तेन वा वेदिं द्रुमस्य स्पटिकेन वा ।
वितस्तिमात्र आयामो वृक्षस्य परिकीर्त्तितः । शाखा-
ष्टकसमानञ्च विस्तारञ्चोर्द्धतस्तथा” । शाखाव्यतिरिक्तस्य
वृक्षस्य वितस्तिमात्र उच्छ्रायः कार्य्यः, उर्द्ध्वतस्तथेति,
स्कन्धादूर्द्ध्वमुखी नवमी या मध्यमशाखा तस्या अपि
वितस्तिमात्र उच्छ्रायः, शाखाष्टकसमानं विस्तारमिति,
अष्टदिग्मुखीनामष्टशाखानां विस्तारं तिर्य्य ग्व्याप्ति-
वितस्तिमात्रमेव कुर्य्यादित्यर्थः । “तन्मूले स्थापयेल्लिङ्गं
लोकपालसमावृतम् । पूर्व्वीक्तवेदिमध्ये तु मण्डले स्थाप्य
पादपम् । पूजयेद्देवमीशानं लोकपालांश्च यत्नतः । पूर्व-
वज्जपहोमाद्यन्तुलाभारवदाचरेत् । निवेदयेद्द्रुमं शम्भो-
र्ब्राह्मणायाथ वा नृप! । ब्राह्मणेभ्योऽथवा राजा सार्व-
भौमो भविष्यति” । तुलाभारवदाचरेदिति लिङ्गपुरा-
णोक्ततुलापुरुषदानविहितविधिमाचरेदित्यर्थः । कालो-
त्तरे । “फलानान्तु सहस्रेण कल्पयेत् कल्पपादपम् ।
समूलदण्डपत्रञ्च फलपुष्पसमन्वितम् । पञ्चस्कन्धन्तु
संकल्प्य पञ्चानां स्थापयेत् सुधीः । सद्योजातेन मन्त्रेण
देय ग्राह्यं शिवाग्रतः । दिव्यैर्विमानैर्देहान्ते शिवलोके
महीयते । पितरस्तस्य मोदन्ते सत्यलोके महीपते!” ।
इति लिङ्गपुराणो क्तकल्पपादपदानविधिः ।

कल्पपाल पु० कल्पं सुराविधानकल्पं संकल्पं मद्याभि-

लाषं वा तत्पायिनां, पालयति पाल--अण् । शौण्डिके
सुराजीवे हेमच० । कल्यपाल इत्येव पाठः साधुः ।

कल्पलता स्त्री कृप--णिच्--कर्म्मणि अच् कर्म० । महादा-

नान्तर्गते स्वर्णंकल्पितलताकारे दानीयद्रव्यभेदे तद्विधिः
हेमा० दा० मत्स्य पु० उक्तो यथा--
“अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम् । महाकल्प-
लता नाम महापातकनाशनम् । पुण्यां तिथिमथासाद्य
कृत्वा ब्राह्मणवाचनम् । ऋत्विग्मण्डपसम्भारभूषणाच्छाद-
नादिकम् । तुलापुरुषवत् कुर्य्यात् लोकेशावाहनादिकम्” ।
आदिशब्दव्याख्यानं पूर्ववत् (कल्पपादपोक्तवत्) । “चामीक-
रमयीः कुर्य्यात् दश कल्पलताः शुभाः । नानापुष्पफलोपेता
नानांशुकविभूषिता । विद्याधरसुपर्णानां मिथुनैरुपशो-
भिताः । हरीनादित्सुभिः सिद्धैः फलानि च विहङ्गमैः” ।
चामीकरं, सुवर्णं कल्पलतास्तुलाकारा विधेयाः, ।
नानाफलानि, पुंस्त्रीगोगजवाजिप्रभृतीनि, स्वरूपपुष्प-
फलानां तुलनार्थत्वेनैवोपपत्तेः । अंशुकानि,
वस्त्राणि । सुपर्णाः पक्षिणः । एवं दश कल्पलता विधाय
वेदिकायाम् लिखितचक्रस्योपरि मध्ये द्वयं, पूर्व्वादिदिक्षु
चाष्टौ स्थापयेत् । “लोकपालानुसारिण्यः कर्तव्यास्तासु
देवताः । ब्राह्मीमनन्तशक्तिञ्च लवणस्योपरि न्यसेत् ।
अधस्ताच्च तयोर्मध्ये पद्मशङ्खकरे शुभे” । लोकपालानु-
सारिण्यो देवता, लोकपालशक्तय इत्यर्थः । अधस्ताच्च
तयोरिति, मध्यस्थापितयोः कल्पलतयोरधस्तात् पद्म-
करां ब्राह्मीं, शङ्खधरामनन्तशक्तिञ्च स्थापयेत् ।
लवणादिपरिमाणञ्च, परिमाणविशेषानिर्देशात् पुरुषेच्छया
नियम्यते । लवणस्तूपयोर्न्यस्येदिति क्वचित् पाठः ।
तत्र स्तूपो राशिः द्विवचनं राशिद्वयापेक्षयेति ।
“इभासनस्था तु गुडे पूर्वतः कुलिशायुधा ।
रजन्यजस्थिताऽऽग्नेयी स्रुवपाणिरयानले । याम्या महिषमा-
रूढ़ा गदिनी तण्डुलोपरि । पृतेन नैरृती स्थाप्या
सखड्गा दक्षिणापरे । वारुणे वारुणी क्षीरे झषस्था
नागपाशिनी । पताकिनी च वायव्ये मृगस्था शर्करो
परि । सौम्या तिलेषु संस्थाप्या शङ्खिनी निधिसंस्थिता ।
माहेश्वरी वृषगता त्वीशपाणिः त्रिशूलिनी” ।
इभोगजः स च चतुर्दन्तोविधेयः, कुलिशं, वज्रं, रजन्य-
जस्थितेति, रजनी, हरिद्रा, अजः, छागः, हरिद्री-
परिस्थापिता छागवाहनेत्यर्थः अनले, आग्नेयदिग्भागे,
दक्षिणापरे नैरृतदिग्भागे नैरृती प्रेतवाहनेत्यवधेयं,
झषस्था मकरवाहनेत्यर्थः । निधिसंस्थितेति निधिरूपं
कलशानुकारि । “मौलिन्योवरदास्तद्वत् कर्त्तव्या बालि-
कान्विताः । शक्त्या पञ्चपलादूर्द्धमा सहस्रात् प्रकल्प-
येत् । सर्व्वासामुपरिष्टाच्च पञ्चवर्णं वितानकम् ।
धेनवो दश कुम्भाश्च वस्त्रयुस्मानि चैव हि” । मौलिन्यो
पृष्ठ १८२५
मुकुटघराः, वरदा इति, यथोक्तायुधधारिणः करादि-
तरेण करेण वरदमुद्रान्विताइत्यर्थः । “बालिका, कर्ण-
भूषणं (वालि) बालकान्विता इति क्वचित्पाठः तदा वामोत्स-
ङ्गस्थितवालकाइति व्याख्या । एतच्च पञ्चपलादिपरिमि-
तकल्पलताकरणोपकॢप्तसुवर्णेनैव विभज्य सर्वं कर्त्तव्यं,
पृथग्द्रव्येण कर्त्तव्यानुपदेशात् । “मध्यमे द्वे तु गुरवे
ऋत्विग्योऽन्यास्तथैव च । ततो मङ्गलशब्देन स्नातः
शुक्लाम्बरो बुधः । त्रिः प्रदक्षिणमावृत्य मन्त्रानेतानुदी-
रयेत्” । तत इति होमाधिवासनपुण्याहवाचनादि
पूर्वोक्तकर्मकलापानन्तर्यमुच्यते, स्नात इति कुण्डसमी-
पवर्त्तिकलशस्थितसर्वौषधिजलेन ऋत्विग्भिः स्नापितः,
गृहीतकुसुमाञ्जलिरित्यपि ज्ञेयम् । अत्र मन्त्रः “नमो-
नमः पापविनाशिनीभ्यो ब्रह्माण्डलोकेश्वरपालिनीभ्यः ।
आशंसिताधिक्यफलप्रदाभ्यो दिग्भ्यस्तथाकल्पलताबधूभ्यः” ।
अथ पूर्ववत् प्रयोगमुच्चार्य्य मध्यमे द्वे देवतादिसहिते
कल्पलते गुरवे प्रतिपाद्य शेषा ऋत्विग्भ्यः प्रतिपादयेत् ।
तदनुज्ञया अन्येभ्योऽपि दानं दीनानाथपूरणं, स्वल्पे-
त्वेकाग्निविधानं चेति पूर्वोक्तमनुसन्धेयम् । ततः पुण्या-
हवाचनदेवतापूजनविसर्जनानि कुर्य्यात् । “इति सकलदि
गङ्गनाप्रदानं भवभयसूदनकारि यः करोति ।
अभिमतफलदे सु नाकलोके वसति पितामहवत्सराणि
त्रिंशत्” । अभिमतफलदे, इष्टफलदायिनि । “पितृ-
शतमवतारयेद्भवाब्धेः स च दुरितौघविनाशशुद्धदेहः ।
मरपतिवनितासहस्रंसंख्यः परिवृतमम्बुजसंसदाभिवन्द्यः ।
इति विधानमिदं सदिगङ्गनाकनककल्पलताविनिवेदने ।
पठति यः स्मरतीह तदीक्षते स पदमेति पुरन्दर-
सेवितम्” । कल्पस्य संकल्पविवयस्य साधनं लता । २
सुरवृक्षशाखारूपलतायाञ्च ।

कल्पवर्ष पु० उग्रसेनभ्रातुर्देवकस्यात्मजोपदेवस्यात्मजभेदे

“आहुकात्मजौ” देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः ।
देववानुपदेवश्च सुदेवोदेववर्द्धनः” इत्युक्त्वा राजन्यकल्प-
वर्षाद्या उपदेवसुता दश” भाग० ९, २४, २५ उक्तम् ।

कल्पसूत्र न० कल्पस्य वैदिककर्म्मानुष्ठानस्य प्रतिपादकं

सूत्रम् । आश्वलायनापस्तम्बप्रणीतेषु वैदिककर्मप्रयोगावे-
दकेषु सूत्रात्मकग्रन्थेषु “त्र्यहोऽश्वमेधः संख्यातः कल्प-
सूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्”
रामा० ।

कल्पान्त प्र० । कलपग्वालोयल । पलये अमरः । “कतपान्तैधितसिन्धवः” भाग० ३, ११, ३ ।

कल्पित त्रि० कृप--णिच्--क्त । रचिते “प्रजापतिः कल्पितयज्ञ-

भागम्” कुमा० । “मदीयसीमपि घनामनल्पगुणकल्पि-
ताम्” २ व्यञ्जिते । “सप्तभेदकरकल्पितस्वरम्” माघः ।
“करेण कल्पितोव्यञ्जितः स्वरोयत्र” मल्लि० । ३
आरोपिते च । “अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः”
सूतसं० । “किं न पश्यसि संसारं तत्रैवाज्ञान-
कल्पितम्” वेदा० प्र० । ४ आरोहणार्थं सज्जितगजे हेमच०
५ कृत्रिमसंज्ञया परिभाषिते “तच्चेप्सिततमं कर्म चतुर्द्धा
न्यत्तु कल्पितम्” वाक्यप० ।

कल्पिन् त्रि० कल्पयति कृप--णिच्--णिनि । १ रचके २

आरोषके ३ वेशकारके च ४ नापिते पु० । “त्रेतायै कल्पिनं
द्वापरायाधिकल्पिनम्” यजु० ३०, १८ ।

कल्प्य त्रि० कृप--णिच्--यत् । १ रचनीये २ आरोप्ये २ अनुष्ठेये

४ विधेये “कालोपपन्नातिथिकल्प्यभागम्” रघुः ।

कल्मन् न० कर्मन् + रस्य लः । कर्मणि ।

कल्मलि पु० कलयत्यपगमयति मलम् पृषो० । १ तेजसि ।

“तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मन्त्रो मागधो विज्ञानं
वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्त्तौ कल्मलि-
र्मणिः” अथ० १५, २, १ ।

कल्मलीक न० कलयत्यपगमयति मलम् पृषो० । ज्वलनयुक्ते

तेजसि निरु० । “नमस्या कल्मलीकिनम् नमोभिः”
ऋ० २, ३३, ८ । “कलमलीकिलं ज्वलतोनामधेयमेतत्
निरु० । १, १७ । ज्वलन्तं कलयत्यपगमयति मलमिति
कल्मलीकं तेजः” तद्वन्तं रुद्रम्” भा० ततः अस्त्यर्थे इनि ।

कल्मष न० कर्म शुभकर्म स्यति सो--क पु० षत्वं रस्य लः ।

१ पापे “व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते” “व्यपेत-
कल्लषोऽभ्येति” “यामीस्तायातनाः प्राप्य स जीवो वीतक-
ल्मषः” मनुः । २ तद्वति त्रि० अमरः ३ हस्तपुच्छे न० त्रिका०
४ नरकभेदे पु० मेदि० । ५ मलिने त्रि० जटाधरः “जन्म-
न्यृक्षे यदि स्यातां वारौ भौमशनैश्चरौ । स मासः कल्मषो
नाम मनोदुःखप्रदायकः” दीपिकोक्ते ६ मासभेदे पु० ।

कल्माष पु० कलयति कल--क्विप् कल् माषयति हिनस्ति

अन्यवर्ण्णम् स्वभासा चु० मष--हिंसायाम् अच् कर्म० ।
१ चित्रवर्णे २ तद्वति त्रि० अमरः “अश्वांस्ति-
त्तिरिकल्माषान्” भा० आ० ९ अ० । तित्तिरिवच्चित्रवर्णान्
इत्यर्थः । “कल्माषा आग्निमारुताः” यजु० २४, ७ ।
“कल्माषाः कर्वुरास्त्रयः पशवः आग्निमारुताः षष्ठे
यपे” वेददी० “कलमाष ऐन्द्राग्न्यः” यज० २९, ५८ ।
पृष्ठ १८२६
“मारुतः कल् माष आग्नेयः कृष्ण” यजु० २९, ५९ ।
३ कृष्णवर्ण्णे ४ कृष्णपाण्डरवर्णे पु० ५ तद्वति त्रि० । ६ राक्षसे
च पुंस्त्री स्त्रियां जातित्वात् ङीष् मेदि० । वर्णवाचित्वे
गौरा० पाठात् स्त्रियां ङीष् । ७ गन्धशालौ पु० राजनि० ।
८ अग्निभेदे भारतम् । “अग्नीनां वासुदेवेन संसक्तानां
महामृधे! । ते जातवेदसः सर्वे कल्माषः कुसुम-
स्तथा । दूहनः शोषणश्चैव तपनश्च महालयः”
हरिवं० १८० अ० । ९ नागभेदे “नीलानीलौ तथानागौ
कल्माषशवलौ तथा” भा० आ० ३५ नागनामोक्तौ ।
१० कृष्णविन्द, चिते च । “कल्माषमित्येके” आश्व० गृ० ४,
९, ५ । “कल्माषो नाम कृष्णविन्दुचितः” नारा० ।

कल्माषकण्ठ पु० कल्माषः कृष्णपाण्डुरः कृष्णोवा

कण्ठोऽस्य । महादेवे हारा० तस्य स्वतः श्वेतवर्ण्ण-
त्वेऽपि विषपानकाले नीलकण्ठत्वात् तथात्वं
कल्माषग्रीवादयीप्यत्र । “ध्रुवा दिग्विष्णुरधिपतिः कल्माष-
ग्रीवो रक्षिता” अथ० ३, २७, ५ । “ध्रुवाय त्वा दिशे विष्ण-
वेऽधिपतये कल्माषग्रीवाय रक्षित्रे” अथ० १२, ३, ५९ ।

कल्माषपाद पु० कल्माषौ पादौ यस्य । सूर्य्यवंश्ये सुदा-

सपुत्रे नृपभेदे । “द्वेभार्य्ये सगरस्यास्ताम्” इत्युपक्रम्य “अयु
ताजित्सुतस्त्वासीदृतपर्ण्णो महायशाः । दिव्याक्षहृदय-
ज्ञोऽसौ राजा नलसखो बली । ऋतपर्ण्णसुतस्त्वासीदार्त्त-
पर्णिर्महीपतिः । सुदासस्तनयस्तस्य राजा इन्द्रसखोऽभ-
वत् । सुदासस्य सुतस्त्वासीत् सौदासो नाम पार्थव! ।
ख्यातः कल्माषपादो वै नाम्ना मित्रसहोऽभवत्”
हरिवं० १५ अ० । तस्य ब्रह्मशापात् राक्षसत्वप्राप्तेर्वसिष्ठेन
शापविमोचनस्य च कथा भा० आ० १७७, ७८० अ०
यथा“कल्माषपाद इत्येवं लोके राजा बभूव ह । इक्ष्वाकु-
वंशजः पार्थ! तेजसाऽसदृशो भुवि । स कदाविद्वनं राजा
मृगयां निर्ययौ पुरात् । मृगान् विध्यन् वराहांश्च चचार
रिपुमर्द्दनः । तस्मिन् वने महाघोरे खड्गांश्च बहुशोऽह-
नत् । हत्वा च सुचिरं श्रान्तो राजा निववृते ततः ।
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान् । स तु राजा
महात्मानं वाशिष्ठमृषिसत्तमम् । तृष्णार्त्तश्च क्षुधार्त्तश्च
एकायनगतः पथि । अपश्यदजितः सङ्ख्ये मुनिं प्रतिमु-
खागतम् । शक्त्रिं नाम महाभागं वशिष्ठकुलवर्द्धनम् ।
ज्येष्ठं पुत्रं पुत्रशताद्वशिष्ठस्य महात्मनः । अपगच्छ
पथोऽणाकमित्येवं पार्थिवोऽब्रवीत् । तथा ऋषिरुवाचैनं
सान्त्वयन् श्लक्ष्णया गिरा । मम पन्था महाराज! धर्म्म
एष सनातनः । राज्ञा सर्व्वेषु धर्म्मेषु देयः पन्था द्विजा-
तये । एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः ।
अपसर्पापसर्पेति वागुत्तरमकुर्व्वताम् । ऋषिस्तु
नापचक्राम तस्मिन् धर्म्मपथे स्थितः । नापि राजा मुने-
र्म्मानात् क्रोधाच्चापजगाम ह । अमुञ्चन्तं तु पन्थानं
तमृषिं नृपसत्तमः । जघान कशया मोहात्तदा राक्षस
वन्मुनिम् । कशाप्रहाराभिहतस्ततः स मुनिसत्तमः ।
तं शशाप नृपश्रेष्ठं वाशिष्ठः क्रोधमूर्च्छितः । हंसि
राक्षसवद्यस्माद्राजापसद! तापसम् । तणात्त्वमद्यं-
प्रभृति पुरुषादो भविष्यसि । मनुष्यपिशिते
सक्तश्चरिष्यसि महीमिमाम् । गच्छ राजाधमेत्युक्तः
शक्त्रिणा वीर्य्यशक्तिना । ततो याज्यनिमित्तन्तु
विश्वामित्रवशिष्ठयोः । वैरमासोत्तदा तन्तु विश्वा-
मित्रोऽन्वपद्यत । तयोर्विवदतोरेवं समीपमुपचक्रमे ।
ऋषिरुग्रतपाः पार्थ! विश्वामित्रः प्रतापवान् । ततः स
बुबुधे पश्चात्तमृषिं नृपसत्तमः । ऋषेः पुत्त्रं वशिष्ठस्य
वशिष्ठमिव तेजसा । अन्तर्द्धाय तदात्मानं विश्वामित्रो-
ऽपि भारत! । तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम् ।
स तु शप्तस्तदा तेन शक्त्रिणा वै नृपोत्तमः । जगाम शरणं
शक्त्रिं प्रसादयितुमर्हयन् । तस्य भावं विदित्वा स
नृपतेः कुरुसत्तम । विश्वामित्रस्ततो रक्ष आदिदेश नृपं
प्रति । शापात्तस्य तु विप्रर्षेर्व्विश्वामित्रस्य चाज्ञया ।
राक्षसः किङ्करो नाम विवेश नृपतिं तदा । रक्षसा तं
गृहीतन्तु विदित्वा मुनिसत्तमः । विश्वामित्रोऽप्यपाक्रा-
मत्तस्माद्देशादरिन्दम! । ततः स नृपतिस्तेन रक्षसान्तर्गतेन
च । बलवत्पीडितः पार्थ! नान्ववुध्यत किञ्चन ।
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम् । अयाचत
क्षुधापन्नः समांसम्भोजनन्तदा । तमुवाचाथ राजर्षिर्द्विजं
मित्रसहस्तदा । आसस्व व्रह्मंस्त्वमत्रैव मुहूर्त्तं प्रतिपाल-
यन् । निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् ।
इत्युक्त्वा प्रययौ राजा तस्थौ स द्विजसत्तमः । ततो राजा
परिक्रम्य यथाकामं यथासुखम् । निवृत्तोऽन्तःपुरं पार्थ!
प्रविवेश महामनाः । ततोऽर्द्धरात्र उत्थाय सूदमानाय्य
सत्वरम् । उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ।
गच्छामुष्मिन् वनोद्देशे ब्राह्मणो मां प्रतीक्षते । अन्नार्थो
तं त्वमन्नेन समांसेनोपपादय । गन्धर्व्व उवाच ।
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित् । निवेदया-
मास तदा तस्मै राज्ञे व्यथान्वितः । राजा तु रक्षसा-
पृष्ठ १८२७
विष्टः सूदमाह गतव्यथः । अप्येनं नरमांसेब भोजयेति
पुनः पुनः । तथेत्थुक्त्वा ततः सूदः स स्थानं बध्यघाति-
नाम् । गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः । स तत्
संस्कृत्य विधिवदन्नोपहितमाशुवै । तस्मैप्रादाद् ब्राह्मणाय
क्षुधिताय तपस्विने । स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विज-
सत्तमः । अभोज्यमिदमित्याह क्रोधपर्य्याकुलेक्षणः ।
ब्राह्मण उवाच । यस्मादभोज्यमन्नं मे ददाति स नृपा-
धमः । तस्मात्तस्यैव मूढस्य मविष्यत्यत्र लोलुपा । सक्तो
मानुषमांसेषु यथोक्तः शक्त्रिणा पुरा । उद्वेजनीयो
भूतानां चरिष्यति महीमिमाम् । द्विरनुव्याहृतो राज्ञः
स शापो बलवानभूत् । रक्षोबलसमाविष्टो विसंज्ञश्चा-
भवन्नृपः । ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः ।
उवाच शक्त्रिं तं दृष्ट्वा न चिरादिव भारत! । यस्माद-
सदृशः शापः प्रयुक्तोऽयं मयि त्वया । तस्मात्त्वत्तः प्रव-
र्त्तिष्ये स्वादितुं मानुषानहम् । एवमुक्त्वा गतः सद्यस्तं
प्राणैर्व्विप्रयुज्य च । शक्त्रिं त भक्षयामास व्याघ्रः
पशुमिवेप्सितम् । शक्त्रिं तन्तु मृतं दृष्ट्वा विश्वामित्रः पुनः
पुनः । वशिष्ठस्यैव पुत्रेषु तद्रक्षः सन्दिदेश ह । स तान्
शक्त्र्यवरान् पुत्त्रान् वशिष्ठस्य महात्मनः । भक्षयामास संक्रुद्धः
सिंहः क्षुद्रान् मृगानिव । वशिष्ठो घातितान् श्रुत्वा विश्वा-
मित्रेण तान् सुतान् । धारयामास तं शोकं महाद्रिरिव मेदि-
नीम्” । “ततः प्रतिनिवृत्तः स तया बध्वा सहानघः । कल्मा-
षपादमासीनं ददर्श विजने वने । स तु दृव तं राजा
क्रुद्ध उत्थाय भारत! । आविष्टो रक्षसोग्रेण इयेषात्तुं तदा
मुनिम् । अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः ।
भयसंविग्नया वाचा वशिष्ठमिदमब्रवीत् । असौ मृत्यु-
रिवोग्रेण दण्डेन भगवन्नितः । प्रगृहीतेन काष्ठेन
राक्षसीऽभ्येति दारुणः । तंनिवारयितुं शक्तो नान्योऽस्ति
भुवि कश्चन । त्वदृतेऽद्य महाभाग! सर्व्ववेदविदां वर! ।
पाहि मां भगवन्! पापादस्माद्दारुणदर्शनात् । राक्ष-
सोऽयमिहात्तुं वै नूनमावां समीहते । वशिष्ठ उवाच ।
मा भैः पुत्त्रि! न भेतव्यं राक्षसात्तु कथञ्चन । नैतद्रक्षो
भयं यस्मात् पश्यसि त्वमुपस्थितम् । राजा कल्माष-
पादोऽयं वीर्य्यवान् प्रथितो भुवि । स एषोऽस्मिन्
वनोद्देशे निवसत्यतिभीवणः । गन्धर्व्व उवाच । तमापतन्त
संप्रेक्ष्य वशिष्ठो भगवानृषिः । वारयामास तेजस्वी
हूङ्कारेणैव भारत! । मन्त्रपूतेन च पुनः स तमभ्युक्ष्य
वारिणा । मोक्षयामास वै शापात् तस्माद्घोरान्नराधिपम् ।
स हि द्वादश वर्षाणि वाशिष्ठस्यैव तेजसा । ग्रस्त आसीद्-
ग्रहेणेव पूर्णकाले दिवाकरः । रक्षसा विप्रमुक्तोऽथ
स नृपस्तद्वनं महत् । तेजसा रञ्जयामास सन्ध्याभ्रमिव
भास्करः । प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः ।
उवाच नृपतिः काले वशिष्ठमृषिसत्तमम् । सौदासोऽहं
महाभाग! याज्यस्ते मुनिसत्तम! । अस्मिन् काले यदिष्टन्ते
ब्रूहि किं करवाणि ते । वशिष्ठ उवाच । वृत्तमेतद्यथा-
कालं गच्छ राज्यं प्रशाधि वै । ब्राह्मणांस्तु मनुष्येन्द्र!
मावमंस्थाः कदाचन । राजोवाच । नावमंस्ये
महाभाग! कदाचिद्ब्राह्मणर्षभान् । त्वन्निदेशे स्थितः सम्यक्
पूजयिष्याम्यहं द्विजान्” ।
कल् माषाङ्घ्रिरप्यत्र । तस्य कल्माषपादताकथा स्त्री-
संसर्गे मृत्युरूपशापादिकथा च भाग० ९, ९ अ० यथा-
“ऋतपर्ण्णोऽनलसस्वोयोऽश्वविद्यामियान्नलात् । दत्त्वा-
ऽक्षहृदयञ्चास्मै, सर्व्वकामस्तु तत्सुतः । ततः सुदास-
स्तत्पुत्रोमदयन्तीपतिर्नृपः । आहुर्म्मित्रसहं यं वै
कल्भषाङ्घ्रिमुत क्वचित् । वशिष्ठशापाद्रक्षोऽभूदनपत्यः
स्वकर्म्मणा । श्रीराजोवाच । किंनिमित्तोगुरोः शापः
सौदासस्य महात्मनः । एतद्वेदितुमिच्छामि कथ्यतां
न रहोयदि । श्रीशुक उवाच । सौदासोमृगयां किञ्चि-
च्चरनृक्षोजघान ह । मुमोच भ्रातरं, सोऽथ गतः प्रति-
चिकीर्षया । संचिन्तयन्नयं राज्ञः सूदरूपधरोगृहे ।
गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिवम् । परिवेक्ष्य-
माणं भगवान् विलोक्याभक्ष्यमञ्जसा । राजानमशपत्
क्रुद्धोरक्षोह्येवं भविष्यसि । रक्षःकृतं तद्विदित्वा चक्रे
द्वादशवार्षिकम् । सोऽप्यपोऽञ्जलिमादाय गुरुं शप्तुं
समुद्यतः । वारितोमदयन्त्याऽपोरुशतीः पादयोर्जहौ ।
दिशः स्वमवनीं सर्व्वं पश्यञ्जीवमयं नृपः । राक्षसं
भावमापन्नः पादे कल्माषताङ्गतः । व्यवायकाले
ददृशे वनौकोदम्पती द्विजौ । क्षुधार्त्तोजगृहे विप्रं
तत्पत्न्याहाकृतार्थवत् । न भवान्राक्षसः साक्षादिक्ष्वाकूनां
महारथः । मदयत्न्या पतिर्व्वीर! नाधर्म्मं कर्त्तुमर्हसि ।
देहि मेऽपत्यकामाया अकृतार्थं द्विजं पतिम् । देहोऽयं
मानुषोराजन्! पुरुषस्याखिलार्थदः । तस्मादस्य बधो वीर!
सर्व्वार्थबध उच्यते । एष हि ब्राह्मणो विद्वांस्तपःशील-
गुणान्वितः । आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् ।
सर्व्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः । सोऽयं ब्रह्मर्षि-
वर्य्यस्ते राजर्षिप्रवराद्विभो । कथमर्हति सर्व्वज्ञ! वधं
पृष्ठ १८२८
पितुरिवात्मजः । कर्म्मणा मनसा वाचा सर्व्वमूतेषु
सौहृदम् । विद्याविवेकसम्पन्नाः शोलमेतद्विदुर्बुधाः ।
तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः । कथं बधं
यथा बभ्रोर्म्मन्यते सम्मतोभवान् । यद्ययं क्रियते भक्ष्य-
स्तर्हि मां स्वाद पूर्व्वतः । न जीविष्ये विना येन क्षणञ्च
मृतकं तथा । एवं करुणभाषिण्या विलपन्त्या अनाथ-
वत् । व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः ।
ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् । शोचन्त्यात्मा-
नमुर्व्वीशमशपत् कुपिता सती । यस्मान्मे भक्षितः पाप!
कामतः स्वपतिस्त्वया । तवापि मृत्युराधानादकृतप्रज्ञ!
दर्शितः । एवं मित्रसहं शप्त्वा पतिलोकपरायणा ।
तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्त्तुर्गतिङ्गता । विशापोद्वाद-
शाब्दान्ते मैथुनाय समुद्यतः । विज्ञाप्य ब्राह्मणीशापं
महिष्या स निवारितः । ततऊर्द्ध्वं स तत्याज स्त्रीसुखं
कर्म्मणाऽप्रजः । वशिष्ठस्तदनुज्ञातोमदयन्त्यां प्रजामधात्” ।

कल्माषी स्त्री कल्माष + “अन्यतो ङीष्” पा० ङीष् । १ चित्रवर्ण-

युक्तायां स्त्रियां २ कृष्णवर्णायां यमुनानद्याञ्च “प्रतिकर्त्तं
नृपश्रेष्ठो यतमानोऽपि भारत! । अभितः सोऽथ कल्माषीं
गङ्गाकूले परिभ्रमन्” भा० आ० १६७ । “कल्माषीं
कृष्णवर्ण्णां यमुनामभितः” नीलक० “कल् माषीतीरसंस्थस्य
गतस्त्वं शिष्यतां भृगोः” भा० स० ७६ अ० । गङ्गायमुनास-
ङ्गमसमीपे एव भृगोराश्रम इति भारतादौ लोके च प्रसि-
द्धिरतः कल्माषीशब्देन यमुनोच्यते सितासितयोर्नद्योः-
मिश्रितत्वेन कृष्णपाण्डुरवर्णत्वात् प्रयागस्थयमुनायस्तथात्वम्

कल्य न० कलयति चेष्टामत्र अघ्न्या० यक्, कल्यते कल--गतौ

कर्म्मणि यत्, कलासु साधु यत् वा । १ प्रत्यूषे अमरः
२ मधुनि हेमच० । ३ निरामये “यावदेव भवेत् कल्यस्ता-
वत् श्रेयः समाचरेत्” मा० स० ५५ अ० । ४ सज्जे समर्थे
उद्युक्ते च त्रि० अमरः “कथयस्व कथामेतां कल्याः स्म श्रवणे
तव” भा० आ० ५ अ० । “लब्ध्वा रथं धनुश्चैव तथाऽक्षय्येमहे-
षुधीः । बभूव कल्यः कौन्तेयः प्रहृष्टः सह्यकर्म्मणि” भा०
आ० २२५ अ० । “कल्यौ स्वोभगवन् योद्धुमपि सर्व्वैः
सुरासुरैः” भा० आ० २२५ अ० । ५ वाक्श्रुतिवर्जिते(काला
वोवा) ६ उपायवचने कल्याणवचने च त्रि० मेदि० । ६ सुरायां
स्त्रो मेदि० ७ शुभात्मिकायां वाण्यां स्त्री अमरः ८
हरीतक्यां स्त्री शब्दर० ।

कल्यजग्धि स्त्री अद--क्तिन् कल्ये प्रातर्ज्जग्धिः । १ प्रातर्भोजने

उपचारात् २ तत्कालभक्ष्ये जटाधरः कल्याशादयोऽप्यत्र

कल्यपाल पु० कल्यं मधु मद्यं पालयति पाल--अण् उप० स० ।

शौण्डिके हेमच० । ण्वुल् कल्यपालकोऽपि तत्रार्थे
शब्दमा० ।

कल्यवर्त्त पु० कल्ये प्रातर्वर्त्त्यतेर्वृत--णिच् कर्म्मणि अच् । प्रातर्भोजने, त्रिका०

कल्याण न० कल्ये प्रातः अण्यते शब्द्यते अण--घञ् । १ हेम्नि,

मेदि० २ मङ्गले । अभिप्रेतार्थसिद्धिर्मङ्गलम् “यस्मिन्नेव
कुले नित्यं कल्याणं तत्र वै ध्रुवम्” “पूज्या भूषयितव्याश्च
बहुकल्याणमीप्सुभिः” मनुः । “तद्रक्ष कल्याणपरम्पराणाम्”
“अन्वमीयत कल्याणं तस्या विच्छिन्नसन्ततिः” रघुः
तद्धेतुरपि शङ्खादिकं मङ्गलम् । “कल्याणानां त्वमसि
महसां भाजनं विश्वमूर्त्ते!” मालतीमा० । ३ शुभयुक्ते
त्रि० अमरः । “कल्याणपञ्चमा रात्रयः कल्याण-
पञ्चमीकः पक्षः” सि० कौ० “उदगयने आपूर्ब्ब-
माणे पक्षे कल्याणे नक्षत्रे चौलोपनयनगोदानविवाहाः”
आश्व० गृ० १, ४, १, “प्रातिवेश्यानुवेश्यौ च कल्याणे
विंशतिद्विजेः” मनुः । स्त्रियां बह्वा० वा ङीष् ।
“उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” रघुः । “उपो
पविष्टः कल्याणीः कथाश्चक्रे मनोरमाः” भा० व० १२४
“उवाच चैनं कल्याण्या वाचा नधुरयोर्जितम्” भा०
आ० १७३ अ० । ङीबन्तः ३ माषपर्ण्ण्याम् ४ गवि च राजनि०

कल्याणकगुड पु० मुश्रुतोक्ते द्रव्यविशेषसंयुक्ततया पक्वे गुड

भेदे । यथा “प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वार्द्धतुला
गुडस्य । चूर्ण्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहवुषा
ऽजमोदैः । विडङ्गसिन्धु त्रिफलायमानीपाठाग्निधान्यैश्च
पिचुप्रमाणैः । दत्त्वा त्रिवृच्चूर्ण्णफलानि चाष्टावष्टौ क्ष
तैलस्य पचेत् यथावत् । तं भक्षयेदक्षफलप्रमाणं यथेष्ट-
चेष्टं त्रिसुगन्धियुक्तम् । अनेन सर्व्वे ग्रहणीविकाराः ।
सश्वासकासस्वरभेदशोषाः । शाम्यन्ति, चायं चिरमन्तर-
ग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः । स्त्रीणां च बन्ध्यामयना-
शनः स्यात् कंल्याणको नाम गुड़ः प्रतीतः” ।

कल्याणकघृत न० सुश्रुतोक्ते ओषधिभेदयुक्तघृतभेदे यथा--

“विडङ्गत्रिफलामुस्तामञ्जिष्ठादाडिमोत्पलैः । पियङ्ग्वेलैल-
बालूकचन्दनामरटारुभिः । वर्हिष्ठकुष्ठरजनीपर्णिनीसारि-
वाद्वयैः । हरेणुकात्रिवृद्दन्तीवचातालीशकेसरैः । द्विक्षीरं
विपचेत्सर्प्पिर्मालतीकुसुमैः सह । विषमज्वरकश्वासगुल्मो-
न्मादगरापहम् । एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमु-
त्तमम् । अलक्ष्मीग्रहरक्षोऽग्निमान्द्यापस्मारतापनुत् ।
शस्यते नष्टशुक्राणां बन्ध्यानां गर्भदं परम् । मेध्यञ्चक्षु-
पृष्ठ १८२९
ष्यमायुष्यं रेतोमार्गरुजापहम् । एतैरेव यथाद्रव्यैः
सर्व्वगन्धैश्च साधितम् । कपिलाया घृतप्रस्थं सुवर्णमणि-
संयुतम् । तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः ।
सुमनश्चम्पकाशोकशिरीषकुसुमैर्घृतम् । तथा नलदपद्मानां
केशरैर्दाडिमस्य च । तिथौ प्रशस्ते नक्षत्रे साधकस्या-
तुरस्य च । कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् ।
दत्तं सर्व्वज्वरान् हन्ति महाकल्याणकं घृतम् । दर्शन-
स्पर्शनाभ्यान्तु मर्व्वरोगहरं शिवम् । अधृष्यः सर्व्व-
भूतानां वलीपलितवर्ज्जितः । अस्याभ्यासाद्घृतस्येह
जीवेद्वर्षशतत्रयम्” ।

कल्याणकलवण न० सुश्रुतोक्ते औषधभेदयुक्ते लवणभेदे यथा

“गण्डीरपलाशकुटजविल्वार्कस्नुह्यपामार्गपाटलापारिभद्रक-
नादेयीकृष्णगन्धानीपनिर्दहन्यटरूषकनक्तमालकपूतिकावृह-
तीकण्टकारिकाभल्लातकेङ्गुदीवैजयन्तीकदलीवर्षाभूह्रीवेर-
क्षुरकेन्द्रवारुणीश्वेतमोक्षकाशोका इत्येवंवर्गं समूल-
पत्रशाखमार्द्रमाहृत्य लवणेन सह संसृष्टं पूर्ब्बवद्दग्ध्वा
क्षारकल्पेन परिस्राव्य विपचेदेतत्प्रतिवापश्चात्र हिङ्ग्वादिभिः
पिप्पल्यादिभिर्व्वा । इत्येतत्कल्याणकलवणं वातरोगेषु
गुलमप्लीहाभिषङ्गाजीर्णार्शोऽरोचकार्त्तानां कासादिभि
रुपद्रुतानां चोपदिशन्ति पानभोजनेष्विति । भवति
चात्र । विष्यन्दनादुष्णभावाद्दोषाणाञ्च विपाचनात् ।
संस्कारपाचनाच्चेदं वातरोगेषु शस्यते” ।
“कल्याणकं वा लवणं पिबेत्तु” सुश्रुतः ।

कल्याणयोग पु० ज्योतिषोक्ते यात्राङ्गे लग्नावधिस्थानविशेष-

स्थितग्रहयोगभेदे यथा “गुरौ केन्द्रे १, ४, ७, १०, त्रिकोणे
५, ९, वा रविर्लाभे ११ च कर्म्मणि १० । कल्याण-
योगो भूपस्य यातुः कल्याणकृद्भवेत्” । “त्रिकोणगे
५, ९, शुभे खेटे सबले वा द्वितीयगे । कल्याणसंज्ञो
योगोऽयं यायिनां मङ्गलप्रदः” इति च

कल्याणकृत् त्रि० कल्याणं शुभं शास्त्रविहितं करोति कृ--क्विप्

६ त० । १ शास्त्रविहितकर्म्मकारके “नहि कल्याणकृत् कश्चि-
द्दुर्गतिं तात! गच्छति” गीता २ कल्याणकरमात्रे च त्रि० ।

कल्याणवत् त्रि० कल्याण + अस्त्यर्थे मतुप् मस्य वः । मङ्ग-

लयुक्ते त्रिका० स्त्रियां ङीप् ।

कल्याणवाचन न० ६ त० । शास्त्रविहितकर्त्तव्यकर्म्मणः प्राक्-

कर्त्तव्ये ब्राह्मणादिद्वारा कल्याणयुक्तमन्त्रविशेषवाचने ।
तत्प्रकारोयथा “ॐ श्वः कर्त्तव्येऽस्मित् कर्मणि कल्याणं
भवन्तोऽघिब्रुवन्तुं इति प्रार्थिते ब्राह्मणैः “ॐ कल्याणम्”
इति त्रिरुक्ते “ॐ पृथिव्यामुद्धृतायान्तु यत् कल्याणं
पुरा कृतम् । ऋषिभिः सिद्धगन्धर्व्वैस्तत् कल्याणं सदास्तु
नः” इतिय थेमामित्यस्य लौगाक्षिरृविस्नुष्टुप्छन्दो ब्रह्मा
देवता कल्याणवाचने विनियोग इति स्मृत्वा “ॐ
यथेमां वाचं कल्याणीमावदानि जनेभ्यः ब्रह्मराजन्याभ्यां
शूद्राय चार्य्याय च स्वाय चारणाय च प्रियोदेवानां
दक्षिणायै दातुरिह भूयासमयं मे कामः समृध्यतामुप-
मादो नमतु” यजु० २९, २, इति च पठेत् ।

कल्याणवीज पु० कल्याणंवीजं यस्य । मसूरे राजनि० ।

कल्याणिका स्त्री कल्याण + संज्ञायां कन् अत इत्त्वम् ।

मनःशिलायाम् राजनि० ।

कल्याणिन् त्रि० कल्याण + अस्त्यर्थे इनि । १ कल्याणयुक्ते

स्त्रियां ङीप् सा च २ वलानामोषधौ राजनि० ।

कल्याण्यादि पु० पाणिन्युक्ते ढक्प्रत्ययेनङादेशनिमित्तभूते

शब्दगणे स च गणः “कल्याणी सुभगा दुर्भगा बन्धकी
अनुदृष्टि अनुसृष्टि जगती वली बदी ज्येष्ठा कनिष्ठा
मध्यमा परस्त्री” काल्याणेनेय इत्यादिः ।

कल्यापाल पु० कल्यां सुरां पालयति पाल--अण् उप० स० ।

शौण्डिके त्रिका० । ण्वुल् । कल्यापालकोप्यत्र ।

कल्ल कूजने अशब्दे च भ्वा० आत्म० अक० सेट् । कल्लते

अकल्लिष्ट चकल्ले प्रनिकल्लति कल्लः ।

कल्ल त्रि० कल्ल--अच् । बधिरे त्रिका० । तस्य शब्दाश्रोतृत्वात्तथात्वम् ।

कल्लत्व न० कल्लस्य भावः त्व । १ स्वरस्य भेदने । हेमच०

२ बाधिर्य्ये च ।

कल्लोल पु० कल्ल--बा० ओलच्, कम् जलं लोलं चपलं यस्माद्वा

अत्र नित्यं अनुस्वारस्य लत्वम् नि० तस्याननुनासिकत्वं च ।
१ महातरङ्गे, अमरः “कालिन्दीजलकल्लोलकोलाहलकुतू-
हली” उद्भटः । “कल्लोलाः सलिलनिधेरवाप्य-
पारम्” माघः २ हर्षे च ३ वैरिणि त्रि० मेदि० ।
कल्लोलोऽस्त्यत्र पुष्करा० इनि । कल्लोलिन् कल्लोलयुक्ते
देशे नद्यां स्त्री । “कल्लोलिनीवल्लभमुल्ललङ्घे” महाना० स
जातोऽस्य तार० इतच् । कल्लोलित जातमहातरङ्गे त्रि०

कव स्तुतौ वर्ण्णने च भ्वा० आत्म० सक० सेट् । कवते अकविष्ट ।

चकवे णिच्--कावयति ते ऋदित् अचकावत् । प्रनिकवते

कवक पु० कु--अच् संज्ञायां कन् । १ ग्रासे, २ भूच्छत्राके, न०

हेमच० । “लशुनं गृञ्जनञ्चैव पलाण्डुं कवकानि
चेति” अभक्ष्ये मनुः । “देवतार्थं हविः शिग्रुं लोहि-
तान् व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्ज नि कवकानि
च” । अभक्ष्ये याज्ञ० “कवकानि छत्राकाराणि” मिता० ।
पृष्ठ १८३०

कवच पु० कं वातं वञ्चति वन्च--मूल० क ऋतनीत्या० उणा० अच

वा । १ गर्द्दभाण्डे वृक्षे २ पटहवाद्ये च मेदि० । ३ सन्नाहे
गात्रत्राणे योद्धृभिर्युद्धकाले शस्त्राघातरक्षणार्थमङ्गे धार्य्ये
लौहादिनिर्म्मिते वर्मणि पु० न० अमरः । कवचलक्षणा-
दिकं युक्तिकल्पातरावुक्तं
यथा“खड्गादीनान्तु गणना पूर्व्वमेव निदर्शिता । अस्त्रात्मनैव
निर्द्दिष्टः कवाचादिरर्पाष्यते । तल्लक्षणं संग्रहेण प्रवक्ष्यामि
निबोधत । काष्ठं चर्म सवल्कं च त्रयमेतत्तु दुस्तरम् ।
यथोत्तरं गुणयुतं यथापूर्वन्तु निन्दितम् । शरीरावरकत्वन्तु लघुत्वं
दृढ़ता तथा । दुर्भेद्यतेति कथितः कवचे गुणसंग्रहः ।
सच्छिद्रतातिगुरुता तनुता सुखभेद्यता । कवचानां विनि-
र्दिष्टः समासाद्दोषसंग्रहः । अत्र वर्णो विनर्दिष्टः क्रमादेवं
चतुर्व्विधः । सितोरक्तस्तथा पीतः कृष्णो ब्रह्मादिषु क्रमात् ।
केचित् कुर्वन्ति कुशलाः कवचं धातुसम्भवम् । कनकं रजतं
ताम्रंलौहं तेषु यथाक्रमम्” । अधिकं वर्मशब्दे वक्ष्यते ।
“यथा शस्त्रप्रहाराणां कवचं प्रतिवारणम् । तथा दैवोप-
घाताना शान्तिर्भवति वारणम्” मल० त० पु० ।
“वितत्य णार्ङ्गं कवचं पिनह्य” “सच्छत्रकवचं रथम्”
भट्टिः । कवचोजातोऽस्य तार० इतच् । कवचित्तत तद्धा-
रके त्रि० । सः अस्त्यस्य इनि । कवचिन् तद्धारके त्रि०
“नमो विल्मिने च कवचिने च” यजु० १६, ३५ “यश्च
कवची यश्चाऽकवचोऽमित्रो यश्चाज्मनि ज्या पाशैः कवच
पाशैरज्मनाभिहतः शयाम्” अथ० ११, १०, २२ स्त्रियां
ङीप् । तन्त्रोक्ते मन्त्रसाधनाङ्गे ४ वाक्यसंघभेदे । “मन्त्रेण
म्रियते योगी रक्ष्यते कवचैर्यतः” इति तन्त्रोक्तेस्तस्य
रक्षासाधकत्वेन वर्मतुल्यत्वात्तथात्वम् । “श्रीजमन्मङ्गल-
स्यास्य कवचस्य ऋषिः शिवः” “इदं कवचमज्ञात्वा योभजेत्
कालिदक्षिणाम्” इति च भै० त० । कवचानि च देवताभेदे
भिन्नानि तन्त्रोक्तानि तानि च सन्त्रसारे स्तोत्रकवचप्रक-
रणे अन्यत्र च दृश्यानि । तानि च “भूर्ज्जे विलिखितं चैतत्
स्वर्णस्थं धारयेद्यदि । कण्ठे वा दक्षिणे वाहौ” इत्यादिना
तन्त्रे लिखित्वा कण्ठादौ धार्य्यतया विहितानि ।

कवचपत्र पु० कवचं तल्लेखनसाधनं पत्रमिव वल्कलं यस्य ।

भूर्जपत्रवृक्षे शब्दच० । “भूर्जे विलिखितं चैतत्” तन्त्रो-
क्तेस्तद्वल्कलस्य कवचलेखनाधारत्वात्तथात्वम् ।

कवचहर पु० कवचं हरति येन वयसा हृ--लद्यमे

अच् उप० स० । कवचहरणोद्यमयोग्यवयस्के कुमारे
“कवचहरः कुमारः” सि० कौ० । वर्म्महरादयोऽप्यत्र
“वर्म्महरः कुमारः” रघुः ।

कवटी स्त्री कौति शब्दायते कु--अटन् गौरा० ङीष् । कपाटे

द्विरूपकोषः । तस्याः रोधनकाले शब्दायमानत्वात्तथात्वम्

कवती स्त्री कशब्दः अस्त्यस्या मतुप् स्त्रियां ङीप् ।

“कया नश्चित्र” इत्यादिकासु ऋक्षु । “कवतीषु रथन्तरम्
गायतीति” ताण्ड्य० श्रुतिः । “कया नश्चित्र” इत्याद्यास्त्रिस्र
ऋचः कवत्यः” सा० सं भा० माधवः । “अतिदेश्यं विनिश्चेतुं
कवतीषु रथन्तरम्” अधिकर० मा० । “ताश्च ऋचः” ऋ०
४, ३१ सूक्ते आद्यास्तिस्रः । तत्रान्त्यायाः कवत्त्वाभावेऽपि
आय्ययोर्द्वयोः कवत्त्वेन बाहुल्यात्तथात्वम् ।

कवयि(यी) स्त्री काज्जलात् वयते गच्छति स्थानान्तरं

वयगतौ इन् कृदिकारान्तत्वात् वा ङीप् । (कै) मत्स्यभेदे ।
त्रिका० । तस्या बलातिक्रमेण गमनात्तथात्वम् । “कवयी
मघुरा स्निग्धा कषाया रुचिकारिणी । किञ्चित् पित्तकरी
वातशमनी बलवर्द्धिनी” भावप्र० उक्तगुणा ।

कवर पु० कौति कु--शब्दे--अरन् । पाठके उज्ज्व० पाठकाले

तस्य शब्दायमानत्वात् तथात्वम् । कं जलं वृणोति
वृ--अच् । २ लवणे ३ अम्ले च पुंन० मेदि० । लवणस्य
जलसंपर्कमात्रेण द्रवीभावेन जलरूपेण परिणामात्
अम्लस्य च दर्शनमात्रेण मुखात् जलस्रावणात्
तथात्वम् । के मूर्द्धनि वरम् वरणीयम् । ४ केशभूषायां
त्रि० । केशविन्यास एव स्त्रियां ङीष् । अन्यत्र तु
टाप् । सा च । ५ खरपुष्पायां (वावुइ) शब्दच० । कवरी-
मृतोमलयजार्द्रमिव व्याकीर्णमाल्यकवरां कवरीं तरुण्याः”
माघः । “व्याकीर्णमाल्येन कर्वुरवर्ण्णाम्” मल्लि० ६ कर्वुरवर्णे
पु० ७ तद्वति त्रि० हला० । कव--ग्तुतौ अरन् ।
८ खचिते ९ संपृक्ते त्रि० हलायुधः । गौरा० ङीष् ।
१० वर्वरायाम् (वावुइ) मेदि० । तस्याः कवरीतुल्यत्वात्तत्त्वम् ।

कवरकी स्त्री कवरं किरति क्षिपति कॄ--बा० ड गौरा०

ङीष् । वन्द्याम् तस्याः बन्धनागारे कवरबन्धना-
भावेन तथात्वम् ।

कवर्ग पु० कघटितोवर्गः एकस्थानोत्पत्तिकसमूहः ।

कखगघङरूपेषु वर्णेषु तेषां कण्ठस्थानोत्पत्तिकत्वेन तथात्वम् ।
ततः वर्गान्तात् भवार्थे शब्दत्वात् छ । कवर्णीय तद्भवे त्रि० ।

कवल पु० केन जलेन वलते वल चलने अच् । १ ग्रासे “मुस्ता-

प्ररोहकनलावयवानुकीर्णम्” “आस्वादवद्भिः कवलैस्तृणा-
नाम्” रघु० रोगनाशार्थं भावप्र० उक्तेदव्यभेदस्य २ क्रियाभेदे
पृष्ठ १८३१
च । तत्करणविधिगुणौ भावप्र० उक्तौ यथा । “वातपित्त-
कफघ्नस्य द्रव्यस्य कवलं मुखे । अर्द्धं निक्षिप्य संचर्व्य
निष्ठोयेत् कवले पिधिः । कवलः कुरुते काङ्क्षां भक्ष्येषु,
हरते कफम् । तृष्णां शौचं च वैरस्यं दन्तचालञ्च
नाशयेत्” । केजले वलते अच् । (वेल्यामाच्) ३ मत्स्यभेदे शब्दच०
पुंस्त्री स्त्रियां जातित्वात् ङीष् । लस्य ङीवा । कवड़ोऽप्यत्र ।

कवलप्रस्थ पु० कवलस्य प्रस्थः । कवलयोग्यपरिमाण भेदे

तस्य प्रस्थपरत्वेऽपि कर्क्यादि० न आद्युदात्तता ।

कवलिका स्त्री कवल इव इवार्थे कन् । (पुलट्टिश) इति

ख्याते व्रणचिकित्साङ्गे औषधभेदे “ततः कल्केनाच्छाद्य
नातिसिग्धां नातिरूक्षां कवलिकां दत्त्वा वस्त्र-
पट्टेन बध्नीयात्” “घनां कवलिकां दत्त्वा मृदु चैवापि
पट्टकम्” “ततः कवलिकां दत्त्वा वेष्टयेत् सुसमाहितः” सुश्रु०

कवलित त्रि० कवलं करोति कबल + णिच्--कर्म्मणि--क्त । १

कृतग्रासे २ भुक्ते ३ व्याप्ते च जटा० ।

कवष त्रि० कौति कु--शब्दे बा० अषच् । १ सच्छिद्रे कवाटादौ

तस्य पिधानकाले शब्दायमानत्वात्तथात्वम् । स्त्रियां
गौरा० ङीष् । “इन्द्र! दुरः कवष्योधावमानाः”
यज० २, ४, “कवष्यः सशुषिरा, सच्छिद्र एव शब्दप्रसरात्
कौतेरौणादिकोऽषच् प्रत्ययः” वेददी० । “कवष्योन
व्यचस्वतीः” यजु० २०, ६०, “होता यक्षद्दुरोदिशः
कवष्यः” २१, ३४,

कवष् त्रि० कु--शब्दे असुन् वेदे षत्वम् । सच्छिद्रे कवाटादौ

सच्छिद्रस्य शब्दायमानात्तथात्वम् । “ऋष्वाःसतीः कवषः
इन्द्र! शुम्भमानाः” यजु० २९, ५, “कवषः कु--शब्दे
कुवन्ति शब्द कुर्वन्ति कवषः कुवतेरसुन्प्रत्ययः षत्वमार्षम्
कपाट्यः पिधानसमये शब्दं कुर्व्वाणाः सशुषिरा वा” वेददी०

कवस पु० कु--ऋतनीत्यादिना अस । १ कवचे सन्नाहे २ कण्ट-

कजातिभेदे च उज्ज्व० ।

कवाट न० कु--भावे अप् कवं शब्दमटति, कं वातं वटति वट

वेष्टने वा अण् उप० स० । द्वाररोधके (कपाट) ख्याते
काष्ठादिमये पदार्थे अमरः तस्य द्वारपिधानकाले शब्दाय-
मानत्वात् वातरोधकत्वाच्च तथात्वम् “उरःश्रिया तत्र च
गोपुरस्फु रत्कवाटदुर्द्दर्षतिरःप्रसारिता” नैष० ।
“मोक्षद्वारकबाटपाटनकरी काशीपुराघोश्वरी” अन्नदास्त० ।
कवाटपरिमाणादिकं वृ० स० उक्तं यथा । “विस्तारार्धं
भवेद्गर्भो भित्तयोऽन्याः समन्ततः । गर्भपादेन विस्तीर्णं द्वारं
द्विगुणमुच्छ्रितम् । उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदु-
दुम्वरः । विस्तारपादप्रतिमं बाहुल्य शाखयोः स्मृतम् ।
त्रिपञ्चसप्तनवभिः शाखाभिस्तत् प्रशस्यते” । तत्काष्ठनिय-
मश्च ज्यो० त० भारतोक्तः “क्षीरवृक्षीद्भवं दारु गृहेषु
न निवेशयेत् । कृताधिवासं विहगैरनिलानलपीड़ितम् ।
गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीड़ितम् । चैत्यदेवाल-
योत्पन्नं वज्रभग्नं श्मशानजम् । देवाद्यधिष्ठितं दारु
नीपनिम्बविभीतकान् । कण्टकिनोऽसारतरून् वर्जयेत्
गृहकर्मणि । वटाश्वत्थौ च निर्गुण्डीं कोविदारविभीतकौ ।
पलाक्षं शाल्मलोञ्चैव पलाशञ्च विवर्जयेत् । विस्तारात्
द्विगुणोच्छ्रायं द्वारं कुर्य्यात्तथा गृहम्” । अधिकं
गृहशब्दे वक्ष्यते । अल्पार्थे ङीप् । कवाटी स्वल्पकवाटे स्त्री ।

कवाटघ्न त्रि० कवा(पा)टं हन्ति शक्त्या “शक्तौ हस्तिकवा-

(पा)टयोः” पा० हन--टक् । कवाटहननशक्ते चौरभेदे ।

कवाटवक्र न० कवाटं वक्रं यस्मात् । (कवाटवेटु) वृक्षभेदे ।

कवार न० कं जलं वृणोति आश्रयत्वेन अण् उप० स० ।

पद्मे त्रिका० ।

कवारि च० कुत्सितोऽरिः कुगति० स० बा० कोः कवादेशः ।

कुत्सिते शत्रौ “दैवी पूतिर्दक्षिणादेवयाज्या न कवारिभ्यो
न ते पृणन्ति” ऋ० १०, १०७, ३ ।

कवासख त्रि० कुत्सितस्य सखा टच् पृषो० नि० । कुत्सितस-

हाये । “अपाप शक्रस्ततनुष्टिमूहति तनुशुभ्रं मघवा यः
कवासखः” ऋ० ५, ३४, ३ । “कुत्सितपुरुषसहायः” भा०
निरुक्ते तु कवासखः यस्य कपूयाः सखायः इत्युक्तं तत्र
बहुव्रीहौ टजपि निपात्यः इति भेदः ।

कवि पु० कव--वर्णने गतौ कु--शब्दे वा इन् ।

क्रान्तदर्शिनि--सर्वज्ञे--१ ब्रह्मणि हेमच० । तस्यसर्वगत-
त्वात् सर्व्वज्ञत्वात् क्रान्तदर्शित्वाच्च तथात्वम् । “कविर्म-
नीषी परिभूः स्वयम्भूः” १ शा० “कविः क्रान्तदर्शी सर्व्वदृक्
“नान्यतोऽस्ति द्रष्टा” इति श्रुतेः” शाङ्ख० भा० । “कविं पुरा-
णमुनुशासितारम्” गीता । २ स्तुत्ये “होता वा देव्या कवी”
यजु० २८, ३० । “पृथग्बरजं भेषजंबकविम्” यजु० २८, ३४ ।
३ वाल्मिके मुनौ तस्य प्रथमं काव्यकर्त्तृत्वात्
तथात्वम् । ४ कविताकारके “मन्दः कवियशःप्रेप्सुः” रघुः
“नैकमोजः प्रसादी वा रसभावविदः कवेः” माघः ।
“इदं कविभ्यः पूर्वेभ्यो नमोवाक प्रशास्महे” उत्तर० च०
(काव्यम्) “कविः कुर्व्वन् कीर्त्तिं प्रीतिञ्च विन्दति”
चन्द्रा० । “एकोऽभून्नलिनात् परश्च पुलिनात् वल्मीकत-
श्चापरस्ते सर्वे कवयस्त्रिलोकगुरवस्तेभ्यो नमस्क महे”
पृष्ठ १८३२
उद्भटः । “रवेः कवेः किं समरस्य सारम्” विदग्धमु० ।
५ भृगुसुते ऋषिभेदे ६ तत्पुत्रे शुक्राचार्य्येतस्य कविपुत्र-
त्वेऽपि जन्यजनकयोरभेदोपचारात्तत्त्वम् “भृगोः पुत्रः
कविर्विद्वान् शुक्रः कविसुतो ग्रहः” भा० आ० ६६ अ० ।
७ सूर्य्ये मेदि० । ८ कल्किदेवस्य ज्यष्ठभ्रातरि “कल्केर्ज्येष्ठास्त्रयः
शूराः कविप्राज्ञसुमन्त्रकाः” इति कल्किशब्दे उदाहृतम् ।
९ चौरयोधे “वेधस्थाने रणे भङ्गो दुर्गे खञ्जिः प्रजायते ।
कविप्रवेशनं तत्र योधाघातश्च तत्र वै” ज्यो० त० ।
“कविश्चौरयोद्धा” रघु० । १० खलीने स्त्री मेदि० ।
वा ङीप् । ११ क्रान्तदर्शिनि त्रि० । “ऊर्ण्णासूत्रेण कवयो
वयन्ति” यजु० १९, ८ । “कवयः क्रान्तदशिनः” वेददी०
१२ मेधाविनि त्रि० “अध्यापयामासपितृन् शिशुराङ्गिरसः
कविः” मनुः । “क ऊ ते शासिता कविः” यजु० ३३, ३९ ।
“कविर्मेधावी” वेददी० । १३ चाक्षुषमनोः वैराजप्रजापतेः
कन्याजातसुतभेदे पु० । “कन्यायां भरतश्रेष्ठ! वैराजस्य
प्रजापतेः । ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः”
हरिवं० २ अ० । १४ स्तोतरि त्रि० “इन्द्रमग्निं कविच्छदा”
ऋ० ३, १२, ३ । “कविच्छदा कवीनां स्तोत्रृणामुचित-
फलप्रदानेनोपच्छन्दकौ” भा० ।

कविक पु० कवि + स्वार्थे कन् क्वचित् स्वार्थकप्रत्ययस्य प्रकृतिलिङ्ग

व्यतिक्रम इति । खलीने (लागाम) हलायुधः ।

कविकल्पद्रम पु० वोपदेवकृते धातुपाठग्रन्थमेदे “कविकल्प-

द्रुमो नाम पद्यैर्निष्पाद्यतेऽत्र च” इति तदुपोद्घाते ।

कविकल्पलता स्त्री काव्यरचनाशिक्षोपयोगिग्रन्थभेदे ।

कविका स्त्री कवि + स्वार्थे कन् । (लागाम) स्वलीने अमरः

२ कविकापुष्पे राजनि० । ३ कवयीमत्स्ये(कै)भावप्र० ।
कवयीशब्दे तद्गुणाद्युक्तम् तत्र कवयीत्यत्र कविकेति
पाठान्तरम् ।

कविज्येष्ठ पु० कविषु ज्येष्ठः । १ वाल्मीकिमुनौ । त्रिका० ।

कविता स्त्री कवेः वर्ण्णयितुर्भावः तल् । कविकर्मणि काव्ये

काव्यशब्दे विवृतिः । “केषां नैषा भवति कविताकामिनी
कौतुकाय” प्रस० रा० । त्व । कवित्वमप्यत्र न० । “कवि-
त्वं दुर्लभं लोके शक्तिस्तत्र सुदुर्लभा” सा० द० अग्नि-
पुरा० । “स भवति कवित्वामृतनदीनदीनः पर्य्यन्ते
परमपदलीनः प्रभवति” कर्पूरस्रवः । “ता ऊ कवित्वमा कवी”
ऋ० ८, ४३, “कवित्वना कवित्वेन” भा० पृषो० साधु ।

कविपुत्र पु० कवेः भृगुसुतस्य पुत्रः ६ त० । १ भार्गवे ३ शुक्रा-

चार्य्ये “भृगोः पुत्रः कविविद्वान् शुक्रः कविसुतो ग्रहः”
भारते आदिपर्व्वणि ६६ अध्याये । कविसुतादयोऽप्यत्र ।

कविय न० कं सुखमजति अज--क वीभावः । १ खलीने त्रिका० ।

“कवियं कविकोच्यते” त्रिकाण्डे क्लीवतया पाठात् शब्द-
कल्पद्रुमे पु क्लीवतोक्तिः चिन्त्यमूला ।

कविरहस्य न० हलायुधकृते श्लोकात्मके अर्थभेदेन

एकाकारधातुभेदप्रदर्शके ग्रन्थभेदे ।

कविराज पु० कवीनां राजा कविः राजेव वा टच् समा० ।

कविश्रेष्ठे । “श्रीहर्षं कविराजराजमुकुटालङ्कार हीरः
सुतम्” नैषधम् । “श्रीविश्वनाथकविराजकृतिप्रणीतं
साहित्यदर्पणममुं स्थगितप्रमेयम्” सा० द० टी० रामचरण-
श्लोके कविराजशब्दस्य तदर्थतैव चिकित्सके प्रसिद्धेस्तु
मूलं न दृश्यतेऽतो न तदर्थकता ।

कविरामायण पु० कविना कवित्वेन रामः अथमं यस्य

णत्वम् । वाल्मीकिमुनौ । शब्दरत्ना०!

कविल त्रि० कु--कव वर्ण्णने वा वा० इलच् । १ स्तोतरि २ शब्द-

कारके च । ततः प्रगद्या० चतुरर्थ्याम् ञ्य । काविल्य
तत्सन्निकृष्टदेशादौ त्रि० ।

कविवेदिन् त्रि० कविं कवित्वं वेत्ति विद--णिनि । काव्य-

वेत्तरि कवौ जटा० स्त्रियां ङीप् ।

कवीय न० कवि + स्वार्थे छ क्वचित् स्वार्थिकस्यापि प्रकृतिलिङ्गा-

तिक्रमः । खलीने (लागाम) जटाधरः ।

कवीयत् त्रि० कविरिवाचरति कविं स्तोतारम् इच्छति वा

कवीय--नाम० शतृ । १ कविसदृशे २ आत्मनः स्तोतुरिच्छौ
च । “अपो वृणान पवते कवीयन् व्रजम्” ऋ० ९,
५१४, १ । ३ कवीयन् कविरिवाचरन् कवयः स्तोतारः
तानिच्छन् वा” भा० । एतेन अस्याः श्रुते कवीयः शब्दो-
दाहरणतयोपन्यासः प्रामादिकः । स्त्रियां ङीप् ।

कवीयस् त्रि० अतिशयेन कविः ईयसु । कवितरे स्त्रियां

ङीप् कवीयसी । तरप् । कवितर तत्रार्थे । तमप् ।
कवितम बहूनां मध्ये अतिशयस्तोतरि काव्यकारकेन च त्रि०

कवूल न० नीलकशठताजकोक्ते कंवुलयोगे कंवुलशब्दे लक्ष-

णादि । “इत्यशालि कवूलं तदुत्तरोत्तममुच्यते” नील० ता०

कवेल न० कं जलं विलति स्तृणाति विल--स्तृतौ अण्

उप० स० । कुवलये शब्दच० ।

कवोष्ण न० कुत्सितमुष्णं कुगतिसमासः कोः कवादेशः ।

१ ईषदुष्णे स्पर्शे २ तद्वति त्रि० अमरः । “पयः पूर्वैः
सनिश्वासैः कवोष्णमुपभज्यते” रघुः ।
पृष्ठ १८३३

कव्य न० कवयः क्रान्तदर्शिनः पितरस्तस्येदं यत्, कूयते पितृभ्यः

कु शब्दे कर्मणि यत्वा । पित्र्युद्देशेन दीयमानेऽन्नादौ
अमरः । हव्यकव्यदानपात्रापात्रब्राह्मणानाह स्म मनुः
“श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । अर्ह-
त्तमाय विप्राय तस्मै दत्तं महाफलम् । एकैकमपि
विद्वांसं दैवे पित्र्ये च भोजयेत् । पुष्कलं फलमाप्नोति
नामन्त्रज्ञान् बहूनपि । दूरादेव परीक्षेत ब्राह्मणं
वेदपारगम् । तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः
स्मृतः । सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।
एकस्तान् मन्त्रवित् प्रीतः सर्व्वानर्हति धर्म्मतः । ज्ञानो-
त्कृष्टाय देयानि कव्यानि च हवींषि च । न हि हस्ता-
वसृग्दिग्धौ रुधिरेणैव शुध्यतः । यवतो ग्रसते ग्रासान्
हव्यकव्येष्वमन्त्रवित् । तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्य-
योगुड़ान् । ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथाऽ-
परे । तपःस्वाध्यायनिष्ठाश्च कर्म्मनिष्ठास्तथाऽपरे । ज्ञान
निष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । हव्यानि तु
यथान्यायं सर्व्वेष्वेव चतुर्ष्वपि । अश्रोत्रियः पिता यस्य
पुत्त्रः स्याद्वेदपारगः । अश्रोत्रियो वा पुत्रः
स्थात् पिता स्याद्वेदपारगः । ज्यायांसमनयोर्वि-
द्यात् यस्य स्याच्छ्रोत्रियः पिता । मन्त्रसम्पूजनार्थन्तु
सत्कारमितरोऽर्हति । न श्राद्धे भोजयेन्मित्रं धनैः
कार्य्योऽस्य संग्रहः । नारिं न मित्रं यं विद्यात् तं श्राद्धे
भोजयेद्द्विजम् । यस्य मित्रप्रधानानि श्राद्धानि च
हवींषि च । तस्यप्रेत्य फलं नास्ति श्राद्धेषु च हविःषु
च । यः सङ्गतानि कुरुते मोहाच्छ्राद्धेन मानवः । स
स्वर्गाच्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः । सम्भो-
जनी साभिहिता पैशाची दक्षिणा द्विजैः । इहैवास्ते
तु सा लोके गौरन्धेवैकवेश्मनि । यथेरिणे वीजमुप्त्वा
न वप्ता लभते फलम् । तथाऽनृचे हविर्द्दत्त्वा न दाता लभते
फलम् । दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः ।
विदुषे दक्षिणा दत्ता विधिवत् प्रेत्य चेह च । कामं
श्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता
हि हविर्भुक्तं भवति प्रेत्य निष्फलम् । यत्नेन
भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् । शाखान्तगमथाध्वर्य्युं
छन्दोगन्तु समाप्तिकम् । एषामन्यतमो यस्य भुञ्जीत
श्राद्धमर्च्चितः । पितॄणां तस्य तृप्तिः स्याच्छाश्वती
साप्तपौरुषी । एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः । मातामहं
मातुलञ्च स्वस्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं
बन्धुमृत्विग्याज्यौ च भोजयेत् । न ब्राह्मणं परीक्षेत
दैवे कर्म्मणि धर्म्मवित् । षित्र्ये कर्मणि तु प्राप्ने परीक्षेत
प्रयत्नतः । ये स्तेनपतितक्लीवा ये च नास्तिक्रवृत्तयः । तान्
हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् । जटिलञ्चानधीयानं
दुर्बलं कितवन्तथा । याजयन्ति च ये पूगांस्तांश्च श्राद्धे
न भोजयेत् । चिकित्सकान् देवलकान् मांसविक्रयि-
णस्तथा । विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ।
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः । प्रतिरोद्धा
गुरोश्चैव त्यक्ताग्निर्व्वार्द्धषिस्तथा । यक्ष्मी च पशुपा-
लश्च परिवेत्ता निराकृतिः । ब्रह्मद्विट् परिवित्तिश्च
गणाभ्यन्तर एव च । कुशीलवोऽवकीर्णी च वृषलीपति-
रेव च । पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे ।
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा । शूद्रशिष्यो
गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ । अकारणपरित्यक्ता
मातापित्रोर्गुरोस्तथा । ब्राह्म्यैर्यौनैश्च सम्बन्धैः संयो-
गं पतितैर्गतः । अगारदाही गरदः कुण्डाशी
सोमविक्रयी । समुद्रयायी वन्दी च तैलिकः कूटकारकः ।
पित्रा विवदमानश्च कितवो मद्यपस्तथा । पापरोग्यभि-
शस्तश्च दाम्भिको रसविक्रयी । धनुःशराणां कर्त्ता च
यश्चाग्रेदिधिषूपतिः । मित्रध्रुक् द्यूतवृत्तिश्च पुत्रा-
चार्य्यस्तथैव च । भ्रामरी गण्डमाली च श्वित्र्यथो
पिशुनस्तथा । उन्मत्तोऽन्धश्च वर्ज्याः स्युर्व्वेदनिन्दक एव
च । हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ।
पक्षिणां पोषको यश्च युद्धाचार्य्यस्तथैव च । स्रोतसां भेदको
यश्च तेषाञ्चावरणे रतः । गृहसंवेशको दूती वृक्षारो-
पक एव च । श्वक्रीड़ी श्येनजीवी च कन्यादूषक
एव च । हिंस्रो वृषलवृत्तिश्च गणानाञ्चैव याजकः ।
आचारहीनः क्लीवश्च नित्यं याचनकस्तथा । कृषिजीवी
श्लीपदी च सद्भिर्निन्दित एव च । औरभ्रिको माहि-
षिकः परपूर्व्वापतिस्तथा । प्रेतनिर्हारकश्चैव वर्जनीयाः
प्रयत्नतः । एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाध-
मान् । द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् । ब्राह्मण-
स्त्वनधीयानस्तृणाग्निरिव शाम्यति । तस्मै हव्यं न दातव्यं
न हि भस्मनि हूयते । अपाङ्क्तदाने यो दातुर्भवत्यूर्द्धं
फलोदयः । दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ।
अव्रतैयंद्द्विजैर्भुक्तं परिवेत्त्रादिभिस्तथा । अपाङ्क्तेयैयेद-
न्यैश्च तद्वै रक्षांसि भुञ्जते । दाराग्निहीत्रसयोग
कुरुते योऽग्रजे स्थितो । परिवेत्ता स विज्ञेयः परिवि-
पृष्ठ १८३४
त्तिस्तु पूर्व्वजः । परिवित्तिः परीवेत्ता यया च
परिविद्यते । सर्व्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ।
भ्रातुर्मृतस्य भार्य्यायां योऽनुरज्येत कामतः । धर्म्मे-
णापि नियुक्तायां स ज्ञेयो दिधिषूपतिः । परदारेषु
जायेते द्वौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः
स्यान्मृते भर्त्तरि गोलकः । तौ तु जातौ परक्षेत्रे
प्राणिनौ प्रेत्य चेह च । दत्तानि हव्यकव्यानि
नाशयेते प्रदायिनाम् । अपाङ्क्यो यावतः पाङ्क्त्यान्
भुञ्जानाननुपश्यति । तावतां न फलं तत्र दाता
प्राप्नोति बालिशः । वीक्ष्यान्धो नवतेः, काणः षष्टेः,
श्वित्री शतस्य तु । पापरोगी सहस्रस्य, दातुर्नाशयते
फलम् । यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः ।
तावतां न भवेद्दातुः फलं दानस्य पौर्त्तिकम् । वेदवि-
च्चापि विप्रोऽस्य लोभात् कृत्वा प्रतिग्रहम् । विनाशं
व्रजति क्षिप्रमामपात्रमिवाम्भसि । सोमविक्रयिणे विष्ठा,
भिषजे पूयशोणितम् । नष्टं देवलोके दत्तम्, अप्रतिष्ठन्तु
वार्द्धुषौ । यत्तु बाणिजके दत्तं, नेह नामुत्र तद्भवेत् ।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे । इतरेषु
त्वपाङ्क्येषु यथोद्देष्टेष्वसाधषु । मेदोऽसृङ्मांसमज्जास्थि
वदन्त्यन्नं मनीषिणः । अपाङ्क्योपहता पङ्क्तिः पाव्यते
यैर्द्विजोत्तमैः । तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्ति-
पावनान् । अग्र्याः सर्वेषु वेदेषु सर्व्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः । त्रिणाचि-
केतः पञ्चाग्निस्त्रिसुवर्णः षड़ङ्गवित् । ब्राह्म्यदेयात्मसन्तानो
ज्येष्ठसामग एव च । वेदार्थवित् प्रवक्ता च ब्रह्मचारी
सहस्रदः । शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः”
भाग० ४, १८, १८ । “वत्सेन पितरोऽर्यम्णा कव्यं क्षीर-
मधुक्षतेति” पृथिव्याः पितृभिः कव्यरूपक्षीर-
दोहनात् तस्य तदन्नत्वम् । कु--शब्दे कर्मणि यत् । २ स्तुत्ये
“कव्योऽसि कव्यवाहनः” ताण्ड्य० ब्रा० । “कव्यः स्तुत्यः”
भा० । कवलं कवः कु--भावे अप् कवे साधु यत् । ३ स्तव-
साधकेस्तोतरि । “वीती जनस्य दिव्यस्य कव्यैरधि” ऋ० ९,
९१, २ । “कव्यैः कवनसाधुभिः स्तोतृभिः” भा० ।

कव्यबाल पु० कव्यं बलते ददाति अत्र बल--दाने

आधारे घञ् । १ वह्नौ तत्र दाने हि पितॄणां दाननि-
प्पत्तेस्तथात्वम् । कव्यं बल्यते दीयते बल--दाने
सम्प्रदाने घञ् । २ पितृदेवभेदे त्रिका० “कव्यबालीऽनलः
सोमः यमश्चैवार्यमा तथा । अग्निष्वात्ता बर्हिषदः
सोमपाः पितृदेवताः वायु० पु० लस्य बा डः
कव्यबाडोऽप्यत्र ।

कव्यवाह पु० कव्यं वहति प्रापयति पितॄन् वह--अण्

उप० स० । अग्नौ । कव्यवाहनशब्दे विवृतिः ।

कव्यवाह् पु० कव्यं वहति वह--ण्वि । पितृभ्यः कव्य-

प्रापके वह्नौ ।

कव्यवाहन पु० कव्यं वह--वहति “कव्यपुरीषपूरीष्येषु ञ्युट्” पा०

वह--ञ्युट् । पितृभ्यः कव्यप्रापके वह्नौ “त्रयो वा अग्न-
यो, हव्यवाहनो देवानां, कव्यवाहनः पितॄणां,
सहरक्षा असुराणाम्” तैत्ति० २, ५, ८, ६ । “अग्नये कव्य-
वाहनाय स्वाहा” यजु० २, २९ । “अग्नये कव्यवाह-
नायानुव्रूहीति तत्स्विष्टकृते हव्यवाहनो देवानां, कव्य-
वाहनः पितॄणामिति” शत० ब्रा० ३, ६, १, ३० ।

कश शब्दे अक० वोप० गतौ शासने च सक० पा० भ्वा० पर०

सेट् । कशति अकशीत्--अकाशीत् चकाश । प्रनि-
कशति । “अन्थोऽनश्नन्नभिचाकशीति” श्रुतिः ।
यङ्लुकि लटोरूपम् । उभयपदीत्येके ।

कश पु० कशति शब्दायते शास्ति ताडयति वा

करणस्य कृर्तृविवक्षया कर्त्तरि कश--अच् । अश्वादेस्ताड-
नसाधने चर्म्मवस्त्रादिनिर्मिते पदार्थभेदे (चावुक) “स
राजा तं कशेनाताड़यत्” मा० व० १९६ अ० । अमरे
अस्य स्त्रीत्वमाह । “जघान कशया मोहात्तदा राक्षस-
वन्मुनिम्” भा० आ० १७७ अ० । “सम्यक्कशात्रय-
विचारवता नियुक्तः” माघः ५, १० श्लो० व्या० मल्लि० ।
“अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषु
यथासङ्ख्यं मृदुसमनिष्ठुरद्वित्रिरूपं त्रितयन्तस्य विचारः
“एतेषु निमित्तेषु अङ्गेष्वेवन्ताड्यः” इति विमर्षः तद्वता
तज्ज्ञेन । यथाह भोजः “मृदुनैकेन घातेन दण्ड-
कालेषु ताड़येत् । तीक्ष्णं मध्यं पुनर्द्वाभ्याञ्जघन्यन्नि-
ष्ठुरैस्त्रिभिः । उपवेशेऽथ निद्रायां स्खलिते दुष्ट-
चेष्टिते । बडवालोकनौत्सुक्ये बहुगर्व्वितह्रेषिते । सन्त्रासे
च दुरुत्थाने विमार्गगमने भये । शिक्षात्यागस्य समये
सञ्जाते चित्तविभ्रमे । दण्डः प्रयोज्यो वाहानां कालेषु
द्वादशस्वपि । ग्रीवायाम्भीतमाहन्यात् त्रस्तञ्चैव च
वाजिनम् । विभ्रान्तचित्तमधरे त्यक्तशिक्षञ्च ताड़येत् ।
प्रह्रेषितं स्कन्धवाह्वोर्बाड़वालोकिनं तथा । उपवेशे च
निद्रायां कटिदेशे च ताड़येत् । दुश्चेष्टितं मुखे हन्या-
दुन्मार्गप्रस्थितं तथा । जघने स्खलितं हन्यान्नेत्रमार्गे
पृष्ठ १८३५
दुरुत्थितम् । यः कुण्ठप्रकृतिर्वाजी तं सर्वत्रैव ताड़येत्”
इति । अधिकमश्वशब्दे उक्तम् । मांसरोहिण्यां स्त्री भावप्र०

कशकृत्स्न पु० ऋषिभेदे तस्यापत्यम् शिवा० अण् । काशकृत्स्न-

व्याकरणशास्त्रकारके ऋषिभेदे “इन्द्रश्चन्द्रः काशकृत्स्ना-
पिशिलींशाकटायनः । पाणिन्यमरजैनेन्द्राः
जयन्त्यष्टादिशाब्दिकाः” वोपदेवः । ततः उपका० गोत्रप्रत्य-
यस्य बहुषु लुक् । कशकृत्स्नेन निर्वृत्तम् चतुरर्थ्याम्
अरीहणादि० वुञ् । काशकृत्स्नक तन्निर्वृत्तादौ त्रि० ।

कशस् न० कशति नीचं कश--गतौ असुन् । जले निरु० ।

कशार्ह त्रि० कशामर्हति अर्ह--अण् उप० स० । कशाताड़न-

योग्ये दुष्टे अश्वादौ अमरः ।

कशिक पु० कशति हिनस्ति सर्पम् कश--शासने बा०

इक । नकुले तस्य पादाविव पादावस्य उपमानपूर्वक-
त्वेऽपि हस्त्वा० पाठात् नान्त्यलोपः । कशिकपादः ।

कशिपु पु० कशति दुःखम् कश्यते वा कश--गतिशासनयोः

मृगय्वा० नि० । १ अन्ने आच्छादने च २ अमरः ।
एकशक्त्या ३ भक्ताच्छादनयोश्च विश्वः । पुष्पवन्तावित्यत्रेव
अयं द्विवचनान्तः इति मेदि० । ४ शय्यायाम् ।
“कॢप्तैः कशिपुभिः कान्तं पर्य्यङ्कव्यजनाशनैः” भाग० ३,
२३, १६ । “चेदस्ति भूः किं कशिपोः प्रयासैः” भा० २, २,
५ । “कशिपोः शय्यायाः” श्रीधरः । ५ आसनभेदे च
“क्वचिच्छये वरोपस्थे तृणपर्ण्णाश्मवेश्ममु । क्वचित्
प्रासादपर्य्यङ्के कशिपौ वा यथेच्छया” भाग० ७, १३, ३७ ।
वेदे अस्य क्लीवत्वमपि “प्रमुच्याश्वं दक्षिणेन वेदिम्
हिरण्मयं कशिपूपस्तृणाति तस्मिन् होतोपविशति” “हिर-
ण्मययोः कशिपुनोः पुरस्तांत् प्रत्यङ्ङध्वर्य्युः”
शत० ब्रा० १३, ४, ३, १ । “कशिपु आसनभेदः ।
“होत्रध्वर्य्यू हिरण्मययोः कशिपुनोरुपविष्टौ”
कात्या० १५, ६, १ । कशिपुशब्देन मसूरक उच्यते ।
“फलकमिति पितृभूतिः” सं० व्या० । “अध्वर्य्युयजमानौ
कूर्चयोः” “फलकयोर्वा, होतृब्रह्मोद्गातारः कशिपुषु”
कात्या० २०, २, २, १९, २०, २१ । “सपादमासनं कूर्चः
(कुरछीचौकी) “पादरहितं फलकं कशिपुशब्देन
मृद्वासनं मसूरक उच्यते” संग्र० व्या० । तेन मृद्वासनं
पादरहितं फलकं च कशिपुशब्दार्थः ।

कशीका स्त्री कश + बा० ईकन् । सूतवत्सायां

नकुल्याम् । “आगधिता परिगधिता या कशीकेव जङ्गाहे”
ऋ० १, १२६, ६ । “कशीका सूतवत्सा नकुली सा यथा
पत्या सह चिरं क्रीड़ति न कदाचिदपि विमुञ्चति” भा०

कशु पु० चेदिपुत्रे राजभेदे । “यथा चिच्चैद्यः कशुः

शतमुष्ट्राणाम्” ऋ० ८, ५, ३७ ।

कशेरक पु० यक्षभेदे । “मणिभद्रोऽथ धनदः श्वेतभद्रश्च

गुह्यकः । कशेरकोगण्डकण्डुः” इत्युपक्रम्य “एते चान्ये च
बहवो यक्षाः शतसहस्रशः” इति भा० म० १० अ० कुवेर-
सभावर्ण्णने उक्तम् ।

कशेरु(रू) स्त्री कं जलं वातं वा शृणाति शॄ--“के श्र एरक्-

चास्य” उणा० ऊ उ वा । तृणकन्दभेदे (केशुर) उज्ज्व० ।
दीर्घान्तःत्वष्टुश्चतुर्दश्यां २ कन्यायां सा च नरकासुरेण गजरू-
पेण हृता तत्कथा हरिवं० १२१ अ० यथा “त्वष्टुर्दुहितरं भौमः
(नरकासुरः) कशेरूमगमत्तदा । गजरूपेण जग्राह रुचि-
राङ्गीं चतुर्दशीम् । प्रमथ्य तां वरारोहां नरकोवाक्यमब्रवीत्”
उप्रत्ययान्तः पुंसि च । “किं कुर्व्वता वराहेण खाद्यन्ते
हि कशेरवः” । उज्ज्व० चन्द्रः । ह्रस्वान्तं क्लीवमाह
अमरः । “शृङ्गाटकं विसं द्राक्षा कशेरु मधुकं सिता”
सुश्रु० । स्वार्थेकन् । तत्रार्थे न० । तद्भेदगुणा भावप्र० उक्ता
यथा । “कशेरु द्विविधं तत्तु महद्राजकशेरुकम् ।
मुस्ताकृति लघु स्याद्यत्तच्चिचोटमिति स्मृतम् । कशेरुक-
द्वयम् शीतं मधुरं तुवरं गुरु । पित्तशोणितदाहघ्नं नयना-
मयनाशनम् । ग्राहि शुक्रानिलश्लेष्मरुचिस्तन्यकरम्परम् ।
भारतवर्षस्य नवखण्डान्तर्गते ३ खण्डभेदे पु० “ऐन्द्रं कशेरु-
शकलं किल ताम्रपर्णमन्यद्गभस्तिमदतश्च कुमारिकाख्यम् ।
नागं च सौम्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति
भारतवर्षमध्ये” सि० शि० । पुराणसर्वस्वे विष्णुपुराणेच “भार-
तस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः कशेरुश्च
ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ
वारुणः । अयन्तु (कुमारिकाख्यः) नवमस्तेषां द्वीपः सागर-
संवृतः । योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात् ।
पूर्व्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः । ब्राह्मणाः
क्षत्रियावैश्या मध्ये शूद्राश्च भागशः । इज्यायुद्धवणिज्याद्यै
र्वर्त्तयन्तोव्यवस्थिताः । वेदस्मृतिमुखाश्चान्याः पारिपात्रो-
द्भवा मुने! । नर्मदासुरसाद्याश्च नद्योविन्ध्यविनिर्गताः ।
तापीपयोष्णीनिर्व्विन्ध्याकावेरीप्रमुखा नदी । गोदावरी-
भीमरथीकृष्णवेन्वादिकास्तथा । सह्यपादोद्भवानद्यः स्मृताः
पापभयापहाः । हृतामलाताम्रपर्णीप्रमुखामलयो-
द्भवाः । त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः । शतद्रु-
पृष्ठ १८३६
चन्द्रभागाद्या हिमवत्पादनिःसृताः । आसां नद्युपनद्यश्च
सन्त्यन्याश्च सहस्रशः । पश्चिमे कुरुपञ्चालमध्वदेशादयो-
जनाः । पूर्व्वदेशादिकाश्चैव कामरूपनिवासिनः । ओड्राः
कलिङ्गमगधा दाक्षिणात्याश्च सर्व्वशः । तथाऽपरान्ताः
सौराष्ट्राः शुद्धाभीरास्तथार्बुदाः । मारुकामालवाश्चैव पारिपात्र-
निवासिमः । सौवीराः सेन्धवा हूणाःशाल्वाः शाकलवा-
सिनः । मद्राभार्गास्तथाम्वष्ठाः पारसीकादयस्तथा ।
आसां पिबन्तः सलिलं वसन्ति सहिताः सदा । चत्रारि
भारते वर्षे युगान्यत्र महामुने! । कृतं त्रेता द्वापरञ्च कलिश्चा-
न्थत्र न क्वचित् । तपस्तप्यन्ति मुनयोजुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलीकार्थमादरात् । पुरुषैर्यज्ञ-
पुरुषो जम्बुद्वीपे सदेज्यते । तत्रापि भारतं श्रेष्ठं
जम्बुद्वीपे महामुने! । यतो हि कर्मभूरेषा ततोऽन्या-
भोगभूमयः । अत्र जन्मसहस्राणां सहस्रैरपि
सत्तमः । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ।
गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे
स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्वात् ।
कर्माण्यसं कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्म-
रूपे । अवाप्य तां कर्म्ममहीमनन्ते तस्मिल्लँयं ये
त्वमलाः प्रयान्ति । जानीम नैतत् क्व वयंविलीने स्वर्ग-
प्रदे कर्म्मणि देहबन्धम् । प्राप्याथ धन्थाः खलु ते
मनुष्या ये भारते चेन्द्रियसङ्गहीनाः । नववर्षन्तु मैत्रेय!
जम्बुद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात्
कथितं मया” ४ पृष्ठदण्डस्थ्नि पुंन० हला० स्वार्थे कन् ।
पृष्ठास्थिभेदे स्त्री अमरः । तृणकंन्देऽपि स्त्री रत्नमाला
“कशेरुकञ्चातियुक्तं श्लेषकोपकं यथाह सुश्रुतः । दिवा-
स्वप्नेत्याद्युपक्रमे “कशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्य-
शनप्रभृतिभिः श्लेष्मा कोपमापद्यते” । एतद्रसश्च कूलचर-
मांसभोजनेऽनुपानम् यथाह अनुपानवर्गे सुश्रुतः “कूल-
चराणां शृङ्गाटककशेरुकासवः” । इदञ्च सुश्रुते मधुरवर्गे
उक्तम् । तद्वाक्यं मधुरवर्गे दृश्यम् । एतस्य श्लेष्मपित्त
प्रकोपकत्वेनकृमिकारित्वमुक्तम् सुश्रु० “माषपिष्टान्नद्विदल-
विसशालूकशेरुकैरित्युपक्रमे “श्लेष्मा पित्तं च कुप्यति ।
कृमीन् बहुविधाकारान् करोति विविधाश्रयान्” ।

कशेरुमत् पु० यवनराजभेदे । “इन्द्रद्युम्नोहतः कोपाद्

यवनश्च कशेरुमान्” हरिवं० १६ अ० । भा० व० १२ अ० ।

कशोक त्रि० कश--ताडने बा० ओक । हिंसके राक्षसा-

दौ “मा त्वा दभन् दूरे वासः कशोकाः” अव० ५, २, ४ ।

कश्चन अव्य० कः + विभक्त्यन्तात् चन इति मुग्ध० पाणिन्यमरमते

पृथक् पदमिति भेदः । (केओ) इत्यर्थे “दमघोषसुतेन
कश्चन प्रतिशिष्टः प्रतिभानवानथ” माघः । चित् । कश्चिद-
प्यत्र अव्य० एकपदं द्विपदं वेति भेदः । “कश्चित् कान्ता-
विवहगुरुणा स्वाधिकारे प्रमत्तः” मेघ० ।

कश्मल न० कश--कल मुट् च । १ मूर्च्छायां, २ मोहे,

“कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्” गीता ।
“मा राजन्! कश्मलं षोरं प्राविशो बुद्धिनाशनम्” भा०
स० ४४ अ० । वेदे पृषो० लस्य शः । कश्मश तत्रार्थे
“विद्वेष कश्मशं भयममित्रेषु निदध्मसि” अथ० ३ पापे
च शब्दमा० ४ मलिने त्रि० हेम० ।

कश्मीर पु० कश--ईरन् मुट् च । स्वनामख्या ते देशभेदे । ततो

भवादौ कच्छा० अण् । काश्मीर तद्देशभवे त्रि० । कश्मी-
रोऽभिजनोऽस्य तक्षशिला० अञ् । काश्मीर पित्रादिक्रमेण
तद्देशवासिनि त्रि० स्त्रियामुभयत्र ङीप् । तस्य राजन्यपि
तथा । बहुषु तु तस्य लुक् । कश्मीराः । स्त्रियां भर्गादि०
न लुक् । काश्मीरी । “अत ऊर्द्धं जनपदान् निबोध
गदतो मम” इत्युपक्रमे “कश्मीराः सिन्धुसौवीराः गान्धारा
दर्शकास्तथा” भा० भी० ९ अ० जम्बुखण्डविभागे
देशकीर्त्तने । तद्देशसीमादि शक्तिसङ्गमतन्त्रे ७ पटले उक्तं
यथा--“शारदामठमारभ्य कुद्धुमाद्रितटान्तकः । तावत्
कश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः” ।

कश्मीरजन्मन् न० कश्मीरदेशे जन्म यस्य । कुङ्कुमभेदे । कश्मी-

रजादयोऽप्यत्र । तद्भेदगुणादि भाव प्र० उक्तं
यथा“कुङ्कुमं मसृणं रक्तं काश्मीरं पीतकं वरम् । सङ्कोचं पिशुन-
न्धीरं वाह्लीकं शोणिताभिधम् । कश्मीरदेशजेक्षेत्रे कुङ्कुमं
यद्भवेद्धि तत् । सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् ।
वाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरम्मतम् । केतकी-
गन्धयुक्तन्तत् मध्यर्म सूक्ष्मकेशरम् । कुङ्कुनम्पारसी
के यत् मधुगन्धि तदीरितम् । ईषत्पाण्डुरवर्णं
तदधमं खलु केशरम् । कुङ्कुमं कटुकं स्निग्धं शिरोरुग्-
व्रणजन्तुजित् । तिक्तं वमिहरं वस्त्यं व्यङ्गदोषत्र यापहम्”

कश्य न० कशत्यनेन कश--शब्दे बा० करणे यत् । १ मद्ये

वैज० । मद्यपानेन यथेष्टशब्दकरणात् तथात्वम् ।
कशामर्हति दण्डा० यत् । २ कशाघातयोग्ये अश्वमध्य-
भागे त्रि० अमरः ।
पृष्ठ १८३७

कश्यप पु० कश्यं पिवति वा--क उप० स० । ब्रह्मणो

मानसपुत्रस्य मरीचेः पुत्रे ऋषिभेदे तस्य तन्नामनिरुक्ति-
र्यथा--“ब्रह्मणस्तनयो योऽभूत् मरीचिरिति विश्रुतः ।
कश्यपस्तस्य पुत्रोऽभूत् कश्यपानात् स कश्यपः” मार्कण्डे०
पु० । तस्य वंशादिकथा “ब्रह्मणो मानसाः पुत्रा विदिताः
षण्महर्षयः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः
क्रतुः । मरीचेः कश्यपः पुत्रः कश्यवात्तु इमाः प्रजाः ।
प्रजग्मिरे महाभागा दक्षकन्यास्त्रयोदश । अदितिदितिर्दनुः
काला दनायुः सिंहिका तथा । क्रोधा प्रधा च विश्वा च
विनता कपिला मुनिः । कद्रूश्च मनुजव्याघ्र! दक्षक-
न्यैव भारत! । एतासां वीर्य्यसम्पन्नं पुत्रपौत्रप्रपौत्रकम्”
भा० आ० ६५ अ० एतासामपत्यभेदास्तत्तच्छब्दे दृश्याः ।
“कश्यपाय त्रयोदशः” मनुः ।
तस्य च वंशादिकथा भाग० अन्यथैवोक्ता यथा--“पत्नी
मरीचेस्तु कलासुषुवे कर्दमात्मजा । कश्यपं पौर्ण्णमासं च
रापूरितं जगत्” भाग० ४, १, ११ श्लो० इत्युक्त्वा
तत्पत्नीनां दक्षप्रजापतिकन्यानां नामभेदः नामा-
न्तरेण तार्क्ष्यनामकस्य तस्य च अन्या अपि चतस्रः दक्ष
कन्याः पत्न्य आसन्” इति ६ स्क० उक्तं यथा० “ततः प्राचेत
तसोऽसिक्न्यामनुनीतः स्वयम्भुवा । षष्टिं संजनया
मास दुहितॄः पितृवत्सलाः । दश धर्मस्य कायेन्दो-
र्द्विषट् त्रिनव दत्तवान् । भूताङ्गिराकृशाश्वेभ्यो द्वे द्वे
तार्क्ष्याय चापराः “नामाधेयान्यमूषां त्वं सापत्यानाञ्च मे
शृणु” इत्युपक्रमे (काय कश्यपाय द्विषट् षट्द्विगुणाः
द्वादश त्रयोदशत्यर्थः श्रीधरः) उत्तरत्रादित्यादीनां
त्रयोदशानां वंशकीर्त्तनत्तथार्थः । “तार्क्ष्याय नामान्तरं
प्राप्ताय कश्यपायैव अपरा अवशिष्ठाष्टतस्रः इति” श्रीधरः)
“तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनी-
स्यपि । पतङ्ग्यसूत पतगान् यामिनो शलभानथ । सुपर्ण्णाऽ
(विनता) सूत गरुड साक्षाद् यज्ञेशवाहनम् ।
सूर्य्यसूतमनूरुञ्च कद्रूर्नागाननेकशः” इति । तार्क्ष्य-
नामककश्यपस्य पत्नीपुत्रानुक्त्वा प्रसिद्धनामककश्यपस्य
पत्नीपुत्रनामादिकमुक्तं यथा तत्रैव
“अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ।
अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला । मुनिः
क्रोधवशा ताम्या सुरभिः सरमा तिमिः । तिमेर्यादोगणा
आसन् श्वापदाः सरमासुताः । सुरभेर्महिषा गावो
ये चान्ये द्विशफा नृप! । ताम्रायाः श्येनगृध्राद्या-
मुनेरप्सरसां गणाः । दन्दशूकादयः सर्पा राजन्! ।
क्रोधवशात्मजाः । इलायाभूरुहाः सर्वे जातुधानाश्च
सौरसाः । अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः ।
सुता दनोरेकषष्टिस्तेषां प्राधानिकान् शृणु । द्विमूर्द्धा
शम्बरोऽरिष्टो हयग्रीवो विभावसुः । अयोमुखः शङ्कु-
शिराः स्वर्भानुः कपिलोऽरुणः । पुलोमा वृषपर्वा च
एकचक्रोऽनुतापनः । धूम्रकेशोविरूपाक्षो विप्रचित्तिश्च
दुर्जयः । स्वर्भानोः सप्रभां कन्यामुवाह नमुचिः किल ।
वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली । वैश्वानरसु-
तायाश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा
पुलोमा कालका तथा । उपदानवीं हिरण्याक्षः क्रतु-
र्हयशिरां नृप । पुलोमा कालका च द्वे वैश्वानरसुते
तु कः । उपयेमेऽथ भगवान् कश्यपो ब्रह्मनोदितः ।
पौलमाः कालकेयाश्च दानवा युद्धशालिनः । तयोः
षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता (अर्जुनः) । जघान
स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः । विप्रचित्तिः सिंहिकायां
शतञ्चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं
य उपागताः । अथातः श्रूयतां वंशोयोऽदितेरनु-
पूर्वशः । यत्र नारायणो देवः स्वांशेनावतरद्विभुः ।
विवस्वानर्य्यमा पूषा त्वष्टाऽथ सविता भगः । धाता विधाता
वरुणो मित्रः शक्र उरुक्रमः । विवस्वतः श्राद्धदेवं संज्ञाऽ
सूयत वै मनुम् । मिथुनञ्च महाभागा यमं च यमुनां
तथा । सैब भूत्वाथ बड़वा नासत्यौ सुषुवे भुवि । छाया
शनैश्चरं लेभे सावर्णिञ्च मनुं ततः । कन्यां च तपतीं
या बे वब्रे संवरुणं पतिम् । अर्य्यम्णो मातृका पत्नी
तयोश्चर्षणयः सुताः । यत्र वै सानुषो जातिर्ब्रह्मणा
चोपकल्पिता । पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्
पुरा । योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ।
त्वष्टुर्दैत्यानुजा भार्य्या रचना नाम कन्यका । सन्निवेशस्त-
योर्जज्ञे विश्वरूपश्च वीर्य्यवान् । तं वब्रिरे सुरगणाः
स्वस्त्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन
यत्” भाग० ६, ६ अ० । कश्यपस्येव तत्पत्नीनामपि
नामान्तरकल्पनया विरोथः परिहरणीयः ।
तस्य पृथिव्याः प्रतिग्रहरूपेण प्राप्तिकथादि भा० हरिवं०
५३ । यथा “मार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता ।
मांसमेदोऽस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः । रजस्वलेव
युवतिः कश्यपं समुपस्थिता । स मां ब्रह्मर्षिरप्याह
किमुर्वि! त्वमवाङ्मुखी । वीरपत्नोब्रतमिदं घारयन्ती विषी-
दसि । साहं विज्ञापितवती कश्यपं लोकभावनम् । पतयो
मे हता ब्रह्मन्! भार्गवेण महात्मना । साहं विहीना
पृष्ठ १८३८
विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः । विधवा शून्यनगरा न
धारयितुमुत्सहे । तन्मह्यं दीयतां भर्त्ता भगवं
स्तत्समो नृपः । रक्षेत् सग्रामनगरां यो मां सागरमा-
लिनीम् । स श्रुत्वा भगवान् वाक्यं वाढमित्यब्रवीत् प्रभुः ।
ततो मां मानवेन्द्राय मनवे संप्रदत्तवान् । सा मनुप्रमवं
पुण्यं प्राप्येक्ष्वाकुकुलं महत् । विपुले नास्मि कालेन
पार्थिवात् पार्थिवं गता । एवं दत्तास्मि मनवे मानवे-
न्द्राय धीमते । भुक्ता राजसहस्रैस्तु महर्षिकुलसम्भवैः ।
बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः” ।
अयं च गोत्रप्रवर्त्तकः । आर्षशब्दे गोत्रशब्दे च विवृतिः ।
“त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्” यजु० ३, ६२ ।
“कश्यपस्यैतन्नामकस्य प्रजापतेः” वेददी० । तस्या-
पत्यानि विदा० अञ् बहुषु लुक् । कश्यपास्तद्गोत्रा-
पत्येषु “कश्यपानां काश्यपावत्सारासितेति” । “कश्य-
पासितदेवलेति वा” ८ । “शाण्डिलानां कश्यपशाण्डि-
लयोः” आ० श्रौ० १२, १४, ७ । “एते कश्यपाः ।
एतेषां परस्परमविवाहः” नारा० ।
काश्यपिर्गरुड़ाग्रजः इत्यत्र तु भवार्थे इञ् ।
१ मृगभेदे २ मत्स्यभेदे च मेदि० स्त्रियां जातित्वात्
ङाष् । ४ कच्छपे “अपामुद्रो मासां कश्यपः” यजु०
२४, २७ । “कश्यपः कच्छपः” वेददी० । ४ श्यावदन्ते
त्रि० । “प्रसृप्तेभ्यश्चान्यत् कण्वकश्यपयाचमानवर्ज्जम्”
कात्या० १०, २, ३५ । “कण्वशब्दं बधिरं मन्यन्ते
कश्यपञ्च श्यावदन्तमिति केचित्” कर्कः ।

कश्यपनन्दन पु० ६ त० । गरुडे हलायु० । कश्यपसुतादयोऽप्यत्र

कष बधे भ्वा० पर० सक० सेट् बधोऽत्र निष्पीड़नं

घर्षणञ्च । कषति अकषीत्--अकाषीत् । ककाष प्रनिक-
षति । “छदहेम कषन्निवालसत् कषपाषाणनिभे नभस्तले”
नैष० । अस्य परस्मैपदिषु पा० ग० पाठात् शब्दकल्पद्रुमे
च तथा पाठात् आ० उक्तिर्भ्रान्तिमूला । “पामानं
कषमाणम्” इत्यादिप्रयोगस्तु ताच्छीलिकचानशैवोपपत्तेः ।
“निमूलसमूलयोः कषः” “कषादिषु यथाविध्यनुप्र-
योगः” पा० णमुल् अनुप्रयोगश्च । निमूलकाषं
कषति समूलकाषं कषति समूलं निमूलं वा कषतीत्यर्थः
सि० कौ० “समूलकाषं चकषूरुदन्तः” भट्टिः ।
“सर्वकूलाभ्रकरीषेषु कषः” पा० कर्मरूपेष्वेषूपपदेषु
खच् । सर्वङ्कषः कूलङ्कषः अभ्रङ्कषः करीषङ्कषः”

कष पु० कष--अच् । स्वर्ण्णषर्णरूपज्ञानार्थे (कषटी) पाषाणभेदे

इतरप्रस्तरस्य स्वर्ण्णेन घर्षणात्तस्यैव तथात्वम् । अस्त्रादेस्तीक्ष्णी
करणसाधने शाणाख्ये पदार्थे अमरः । “कषपापाणनिभे
नभस्तले” नैष० “सुवर्ण्णरेखेव कषे निवेशिता” मृच्छ० ।

कषण त्रि० कष्यते कष--कर्मणि ल्युट् । १ अपक्वे शलाटौ

शब्दच० । भावे ल्युट् । २ घर्षणे ३ चालने न० । “कषणकम्प-
निरस्तमहाहिभिः” माघः । “कषणेन कम्पनेन” मल्लि०

कषा स्त्री कष्यते ताड्यतेऽनया कष--बा० करणे-

अच् । अश्वादेस्ताड़नसाधने चर्मादिनिर्मिते पदार्थे
(चावुक) रमानाथः । “कृच्छ्रेण पृष्ठे कषया च
ताडितः” भाग० ३, ३०, २२ ।

कषाकु यु० कष--आकु । अग्नौ सूर्य्ये च उणादिको० ।

कषाय पुंन० कषति कण्ठम्, कष--आय--अर्द्धर्चादि ।

(कषा) १ रसभेदे २ तद्वति त्रि० । तस्य कारणगुणादि
सुश्रुते उक्तं यथा--“तत्र शैत्यरौक्षलाघववैशद्यवैष्टम्भ्य-
गुणलक्षणोवायुस्तस्य समानयोनिः कषायो रसः सोऽस्य
शैत्यात् शैत्यं वर्द्धयति, रौक्ष्यात् रौक्ष्यं, लाघवात्
लाघवं, वैशद्यात् वैशद्यं, वैष्टम्भ्यात् वैष्टम्भ्यमिति”
“योवक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति
हृदयं कषति पीडयति च स कषायः” । “कषायः
संग्राहकोरोपणः स्तम्भनः शोधनालेखनः शोषणः
पीडनः क्लेदीपशोषणश्चेति । स एवंगुणोऽत्येकएवात्यर्थ-
मुपसेव्यमानः पीड़ास्यशोषोदराध्मानवाक्यग्रहमन्या-
स्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनक्षेपणप्रभृतीन्
जनयति” इति च । कषायवर्गश्च । “न्यग्रोधादिरम्ब-
ष्ठादिः प्रियङ्ग्वादीरोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुलतिन्दु-
कफलिनीकतकशाकपाषाणभेदकवनस्पतिफलानि सालसा-
रादिश्च प्रायशः कुरवककोविदारकजीवन्तीचिल्लीपालङ्क्यसु
निषण्णकप्रभृतीनि नीवारकादयोमुद्गादयश्च समासेन
कषायोवर्गः” सुश्रु० । अस्योत्पत्तिकारणमपि तत्रोक्तं
यथा“तस्मादाप्योरसः परस्परसंसर्गात् परस्परानुग्रहात्
परस्परानुप्रवेशाच्च सर्वेसु सर्वेषां सान्निध्यमस्त्युत्कर्षापकर्षात्तु
ग्रहणम् । स खल्वाप्योरसः शेषभूतसंसर्गाद्विदग्धाः षोढा
विभज्यते” इत्युपक्रम्य । पृथिव्यनिलगुणबाहुल्यात् कषायः
इति । तत्र तस्य च पित्तकफघ्नत्वमपि तत्रैवोक्तम्
“मघुरातक्तकषायाः पित्तघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः”
इति । “केचिदाहुरग्नीषोमीयत्वाज्जगतो रसाः द्विविधाः
सौम्या आग्नेयाश्च, तत्र मधुरतिक्तकषायाः सौम्याः,
कट्वम्ललवणा आग्नेयाः मधुराम्ललवणाः स्निग्धाः गुर-
पृष्ठ १८३९
वश्च कटुतिक्तकषाया रूक्षा लघवश्च । सौम्याः शीता
आग्नेयाश्चीष्णाः” इति सुश्रुते अन्यमतेनोक्त्वा तच्च
दूषयित्वा पूर्वदर्शितमतमादृतम् भावप्र० तदेतद्विवृतम्
यथा“कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा । लेखनः
पीड़नः सौम्यः शोषणो वातकोपनः । कफशोणि-
तपित्तघ्नो रूक्षः शीतो लघुर्मतः । त्वक्प्रसादनमालस्य
स्तम्भनो विषदो मतः । जिह्वाया जाड्यकृत्
कण्ठस्रोतसाञ्च विबन्धकृत्” । रोपणः व्रणस्य, स्तम्भनो
गात्राणां, शोधनो व्रणस्य, लेखनो व्रणाद्युत्-
सन्नमांसस्य, शोषणोव्रणमज्जादीनाम् । पीड़नो
हृदयस्य वातकारित्वात्, सौम्यः सोमादुत्पन्नः” ।
अथातियुक्तस्य कषायस्य गुणास्तत्रोक्ताः “सोऽतिचयुक्तो गुदा-
ध्मानहृत्पीडाक्षेपणादिकृत्” । अभयायामत्र विशेषः ।
“प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना” । ३
रागद्वेषादिदोषे । “आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवा
स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै
मृदितकषायाय तमसः पारं दर्शयति” छा० उ० ।
“तस्मै मृदितकषायाय वार्क्षारादिरिव कषायो
रागद्बेषादिदोषः, सत्वस्य रञ्जनरूपत्वात् ज्ञानवैराग्या-
भ्यासरूप्रक्षारेण क्षालितोमृदितो विनाशितो यस्य
नारदस्य तस्मै” भा० । “कषाये कर्मभिः पक्वे ततो ज्ञानं
प्रजायते” वेदा० प० कर्मणां रागद्वेषादिदोषरूपकषा-
यनाशकत्वमुक्तम् । “लयविक्षेपाभावेऽपि चित्तवृत्तेः रागा-
दिवासनया स्तकीभावात् अखण्डवस्त्वनवलम्बनं कषायः”
इति वेदान्तसारोक्तलक्षणे ४ निर्विकल्पकसमाधिविघ्नभेदे
“सकषायं विजानीयात् शमप्राप्तं न चालयेत्” ।
“सकषायं कलुषितं मे चित्तमिति, विज्ञाय शमेऽद्विती
यात्मनि निवेशयेत्” विद्वन्म० । ५ रक्ते अनुरागान्विते
६ सुरभौ ७ अपटौ च केशवः । “चूताङ्कुरास्वादकषाय
कण्ठः” कुमा० । “कषायः रक्तः” मल्लि० । “निद्रा-
कषायितविपाटललोचनेषु” माघः “कषायितान्यपटू-
कृतानि” मल्लि० । ८ रागे ९ क्वाथभेदे १० निर्यासे च
“रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे” वैज० ।
कषायः जातोऽस्य तार० इतच्, तत्करोतीति णिच्-
कर्मणि क्तवा । कषायित जातकषाये कषायीकृते च त्रि०
“अमुनैव कषायितस्तनी” कुमा० “कषायितः रञ्जितः
मल्लि० । ११ विलेपने १३ अङ्गरागे च विश्वः । “कर्ण्णार्पितो-
लोध्रकषायरूक्षे” कुमा० “कषायेण विलेपनेन” मल्लि० ।
क्वषायश्च सरसादिकः पञ्चविधः भावप्र० दर्शितो यथा ।
“सरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ । ज्ञेयाः
कषायाः पञ्चैते लघवः स्युर्यथोत्तरम्” तेषां पञ्चानां लक्ष-
णानि तु तत्तच्छब्दे दृश्यानि । १३ श्योनाकवृक्षे पु०
जटाघरः । १४ कलियुगे अमरटीका रागदीषहेतुत्वात्तस्य
तथात्वम् १५ लोहितवर्ण्णयुक्ते त्रि० मेदि० १६ रक्तपीत-
मिश्रितवर्णे अमरटीका । १७ धववृक्षे पु० राजनि० १८ क्षुद्र-
दुरालभायां स्त्री राजनि० । देशे गम्ये अस्मात्
पानशब्दस्य णत्वम् । कषायपाणोदेशभेदः ।

कषायपाक पु० सुश्रुतोक्ते द्रव्यविशेषाणां क्वाथभेदे ।

तत्प्रकारो यथा “केचिदाहुस्त्वक्पत्रमूलादीनां भागन्तच्च-
तुर्गुणजलमावाप्य, चतुर्भागावशेषं निःक्वाथ्यापहरेदित्येषः
कषायपाककल्पः” इति परमतमुक्त्वा “एतत्तु न सम्यक्” इति
तन्मतं दूषयित्वा द्रव्यपरिमाणभेदं दर्शयित्वा च “तत्रान्य-
तमषरिमाणसम्मितानां यथायोगं त्वक्पत्रमूलादीनामात-
पपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा, भेद्यानि
अणुशोभेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वा जलेनाभि-
षिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष
कषायपाककल्पः” इति स्वमतेनोक्त्वा पक्षान्तरमप्युक्तम्
“अथ वा तत्रोदकद्रोणे त्वक्पत्रमूलादीनां तुलामावाप्य-
चतुर्भागावशिष्टं निःक्वाथ्यापहरेदित्येष कषायपाककल्पः”
इति, । अयञ्च कल्पो विशेषानुक्तविषये विशेषनिर्देशे तु
तथैव ग्राह्यः” यथाह तत्रैव “स्नेहभेषजतीयानां प्रमाणं
यत्र नेरितम् । तत्रायं विधिराख्येयो निर्दिष्टे तत्तदेव तु ।
अनुक्तद्रव्यकार्य्ये तु सर्वत्र सलिलं मतम् । कल्कक्वाथाव-
निर्देशे गणात्तस्मात् विनिर्देशेत्” ।

कषाययावनाल पु० नित्यकर्म्म० । तुवरयावनाले धान्यभेदे राजनि० ।

कषायवासिक पु० सुश्रुतोक्ते कीटभेदे । “सूचीमुखः

कृष्णगोधा यश्च कषायवासिकः” इत्युपक्रमे “त्रयोदशैते
सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः इति विभज्य--तेषां
सौम्यत्वं श्लेष्मप्रकोपकत्वञ्चोक्तम् “तस्य शकृन्मूत्रविषत्वञ्च-
तत्रैवोक्तं यथा “चिपिटपिच्चटककषायवासिकसर्षप-
वासिकतोटकवर्च्चःकीटकौण्डिल्यकाः शकृन्मूत्रविषाः” ।

कषायित त्रि० कषायो रक्तपीतवर्ण्णादिर्जातोऽस्य तार० इतच् ।

जातकषाये तत्करोतीति णिच्--कर्मणि क्त । कषायी-
कृते च “अमुनैव कषायितस्तनी” इति कुमा० ।

कषायिन् पु० कषायोनिर्यासोऽस्त्यस्य इनि । १ शालवृक्षे जटा०

२ खर्जूरवृक्षे ३ लकुचवृक्षे च राजनि० ४ कषाययुक्ते त्रि०
पृष्ठ १८४०

कषि त्रि० कष--हिंसायां इन् । हिंसाकारके उणादिकोषः ।

कषीका स्त्री कष--हिंसने “कषिदुषिभ्यामीकन्” उणा०

कर्मणि ईकन् । १ पक्षिजातौ उज्ज्वल० । शब्दकल्प-
द्रुमे ह्रस्वमध्यपाठः प्रामादिकः उणादिसूत्रे ईकनो
दीर्घतया निर्देशात् । इत उत्तरत्र फर्फरीकादयश्चेत्यादौ
सर्वत्र दीर्घादेरेवानुवृत्तेः दीर्घादेरेवोचितत्वात् । कषत्य-
नया करणे ईकन् । २ खनित्रे स्त्री शब्दचि० ।

कषेरुका स्त्री कशेरुकावत् । (केशुर) तृणकन्दे रायमुकुटः ।

कष्कष पु० कषित्यव्यक्तं शब्दमुचार्य्य कषति कष--हिंसने

अच् । कृमिभेदे । “येवाषासः कष्कषास एजत्काः
शिपवित्नुकाः । दृष्टश्च हन्यतां कृमिरुतादृष्टश्च हन्य-
ताम्” अथ० ५, २३, ७ ।

कष्ट न० कष--क्त “कृच्छ्रगहनयोः कषः” पा० नेट् ।

१ पीड़ायाम् व्यथायाम्, “कष्टं युद्धे दश शेषाः श्रुता
मे” भा० आ० ३ अ० । “एकस्य कष्टस्य न यावदन्तम्” पञ्चत०
२ पीड़ायुक्ते ३ गहने ४ पीड़ाकारके च त्रि० “बन्धनानि
च कष्टानि परप्रेष्यत्वमेव च” मनुः । “मोहादभूत् कष्टतमः
प्रबोधः” रघु० । “शीतातपादिकष्टानि सहतेऽन्यानि सेवकः”
पञ्चत० “ततः कष्टतरं नु किम्” गीता । “एतत्कष्टतमं
विद्याच्चतुष्कं कामजे गणे” । “क्रोधजेऽपि गणे विद्यात्
कष्टमेतत्त्रिकं बुधाः” मनुः । ५ कष्टसाध्ये बहूपायेन
शाम्ये रिपुरोगादौ । “स हि कष्टतमो रिपुः” “कृतज्ञं
धृतिमन्त च कष्टमाहुररिं बुधाः” मनुः । रोगाणां कष्टता
च बह्वायाससाध्यता यथोक्तं सुश्रुते “केवलः समदेहाग्नेः
सुखसाध्यतमोगदः । अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो-
व्यामिश्रलक्षणः । क्रियायास्तु गुणालाभे क्रियामन्यां
प्रयोजयेत् । पूर्वस्यां शान्तवेगायां न क्रियासङ्करो
हितः । गुणालाभेऽपि सपदि यदि सैव क्रिया हिता ।
कर्त्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि” । तथा च
रोगः त्रिविधः साध्यः असाध्यः याप्यश्च । तत्र
साध्योऽपि द्विविधः अल्पायाससाध्योबह्वायाससाध्यश्च
बह्वायाससाध्यस्यैव कष्टता । कष्टसाध्याश्च रोगाः सुश्रुते
तत्तत्स्थाने उक्तास्तत एबायसेयाः । कष्टसाधने ६ पापे च ।
“कष्टाय क्रमणे” पा० क्यङ् “कष्टायते कष्टं पापं
कर्त्तुमुत्सहते इत्यर्थः” सि० कौ० । अलङ्कारोक्ते
७ दोषभेदे यत्र सन्ध्यादिना अर्थस्य दुर्बोधत्वं
तत्र कष्टत्वम् “कष्टं तदर्थावगमोदुरायत्तोभवेद् यदि”
इत्यक्तलक्षणात् तच्च सन्धिकृतम् अतएव सा० दर्पणे
“सन्धौ विश्लेषाश्लीलकष्टताः” इत्युक्त्वोदाहृतम् “उर्व्यसावत्र
चार्वङ्गि! मर्वन्ते चार्ववस्थितिः” इदन्तु वाक्यगतम् ।
क्लिष्टत्वमप्यस्यैव नामान्तरं “अवाचकत्वं क्लिष्टत्वमिति”
सा० द० पदगतदोषे उक्त्वा “क्षीरोदजावसति
जन्मभुवः प्रसन्नाः” इति अत्र अर्थप्रतीतेर्व्य वहितत्व-
मिति तत् लक्षयित्वा क्षीरोदजालक्ष्मीस्तस्या वंसतिः
पद्मं तस्य जन्मभुवो जलानि” अर्थावबोधे व्यवधानं
दर्शितम् ।

कष्टकार पु० कष्टं करोति कृ--अण् उप० स० । १ संसारे त्रिका० । २ पीडाकारके त्रि० ।

कष्टरिपु पु० कर्म० । कष्टसाध्ये रिपौ स च मनुनोक्तलक्षणो

यथा “प्राज्ञं कुलीनं शूरञ्च दक्षं दातारमेव च ।
कृतज्ञं धृतिमन्तञ्च कष्टमाहुररिं बुधाः” इति ।

कष्टस्थान न० कष्टस्य स्थानम् । दुःखदस्थाने हारा० ।

कस गतौ भ्वा० पर० सक० सेट् । कसति अकसीत्--अका-

सीत् । चकास--ज्वलादित्वात् कर्त्तरि वा ण । कासः । यङ्
चनीकस्यते यङ् लुक् चनीकसीति--कस्ति । प्रनिकसति
  • उद् + ऊर्द्धगतौ “उत्कसन्तु हृदयान्यूर्द्ध्वं प्राण उदीषतु”
अथ० ११, ९, २ १” ।
  • निस् + निर् + अपगतौ निष्कसति । णिचि निष्कासयति
“निरकासयद्रविमपेतवसुम्” माघः ।
  • वि + प्रकाशे । विकसति पङ्कजकलिका “फुल्लश्च इते विकसिते”
अमरः “स प्रीतियोगात् विकसन्मुखश्रीः” कुमा० ।
“क्षणदृष्टिपातविकसद्वदनाम्” माघः । “विकसद्भिरास्य-
कमलैः कमलैः प्रमदाः” माघः “मुखं विकसितस्मितं
वशितवक्रिमप्रेक्षितम्” मालतीमा० । णिचि विकासयति
व्यचीकसत् । “वचनेन चोपकुसुमं व्यचीकसत्” माघः ।
“वौ कसल सेत्या०” पा० इनि विकासी । वरच् ।
विकस्वरः “मुदा रमन्ते कलभा विकस्वरैः” माघः ।
  • अनु + वि + अनुरूपविकाशे “अन्तर्जलेऽनुविकसन्मधुमाधवीनाम्”
भाग० ३, १५, १७ ।
  • प्रवि + प्रकर्षविकाशे प्रविकसति चिरायद्योतिताशेषलोके” माघः
सम् + सम्यग्गतौ सङ्कसुकः ।

कस शातने गतौ च अदा० इदित् आत्म० सक० सेट्

शातममिह नाशनम् । कंस्ते अकंसिष्ट । चकंसे । प्रनि-
कंस्ते । कर्मणि कंस्यते । अकंसि ।

कस शातने गतौ च सक० अदा० आत्म० सेट् । शातन-

मत्र नाशनम् । कस्ते अकसिष्ट । चकसे प्रनिकस्ते ।

कस पु० कस--अच् । (कषटीपातर) कषपाषाणे भरतः ।

पृष्ठ १८४१

कसन पु० कसति हिनस्ति कस--ल्यु । १ कासरोगे २ लूता-

भेदे स्त्री । “आलमूत्रविषा कृष्णा कसना चाष्टमी स्मृता”
सुश्रु० लूताभेदकयने । “पिच्छिला कसनादंशात् रुधिरं
शीतलं स्रवेत्” सुश्रु० ।

कसनोत्पाटन पु० कसनं कासरोगम् उत्पाटयति

उत्पाटि--ल्यु । वासकवृक्षे, शब्दच० । “येन तेन प्रकारेण
वासकः कासनाशकः” इति वैद्योक्तेस्तस्य तथात्वम् ।

कसर्णीर पु० सर्पभेदे । “एतं कसर्ण्णीरः काद्रयेयो मन्त्र-

मपश्यत्” तैत्ति० सं० १, ५, ४, १ । रस्य लत्वमपि
“पैद्वो हन्ति कसर्ण्णीलम् पेद्वः श्वित्रमुतासितम्” अथ०
१४, ३, ५ । विषनाशकल्पे ।

कसाम्बु न० पितृभ्यः कव्यदानकाले देये जले । “उपा-

सते षितरः स्वधाभिः” इत्युपक्रमे “इदं कसाम्बु चयनेन
चितं तत्सजाता अपश्यतेवत” अथ० १८, ४, ३७ ।

कसिपु पु० कशिपुवत् । अन्ने जटाधरः ।

कसेरु पु० कस--उ एरुगागमः । १ कशेरौ, (केशुर) शूकरस्य

प्रिये २ जलकन्दभेदे च । ३ कशेरुशब्दार्थे च राजनि० ।

कसेरुका स्त्री कशेरुकावत् । १ पृष्ठास्थ्नि राजनि० ।

कस्कादि पु० पाणिन्युक्ते विसर्जनीयस्य सत्वनिमित्ते शब्दगणे

स च गणः “कस्कः कौतस्कुतः भ्रातुष्पुत्रः
शुनस्कर्णः सद्यस्कालः सद्यस्क्राः कांस्कान् सर्पिस्कुण्डिका
धनुष्कपालं बर्हिष्पलं यजुष्पात्रं अयस्कान्तः तमस्काण्डः
अयस्काण्डः मेदस्पिण्डः भास्करः अहस्करः आकृतिगणः”

कस्तम्भी स्त्री कं शिरोऽग्रभाग स्तभ्नाति स्तन्भ--अण्

गौरा० ङीष मुग्ध० षणीप् । शकटस्याधःपतनवार-
णार्थमीषादण्डाग्रोत्तम्भ्नार्थायां मेथौ “अथ यज्जघने
कस्तम्भीम्” शत० ब्रा० १, १, २, ९ । “शकटस्याधःपतनं
वारयितुमीषादण्डाग्रोत्तस्तनार्था मेथिः कस्तम्भी” भा० ।

क(का)स्तीर न० ईषत्तीरमत्र कुगति० समा० कोः कादेशः

“कास्तीराजस्तुन्दे नगरे” पा० सृट् । १ नगरविशेषे २ तज्जाते
रङ्गे हेम० । हेमचन्द्रे कस्तीरमिति ह्रस्वपाठः प्रामा-
दिकः पा० सूत्रे कास्तीरे दीर्घपाठदर्शनात् ।

कस्तूरी स्त्री कसति गन्धोऽस्याः दूरतः कस--ऊर--बा०

तुट् च । मृगमदे मृगनाभिजाते गन्धद्रव्यभेदे स्वार्थे कन् ।
कस्तूरिका तत्रैव “तद्गुणपर्य्यायादि मावप्र० उक्तं यथा--
“मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् । कस्तूरिका च
कस्तूरो वेधमुख्या तु सा स्मृता । काश्मीरी कपिलच्छाया
कस्तूरी त्रिविधा स्मृता । कामरूपोद्भवा श्रेष्ठा नैपाली
मध्यमा भवेत् । कामरूपोद्भवा कृष्णा नैपाली नीलवर्ण-
युक् । काश्मीरदेशसम्भूता कस्तूरी त्वधमा मता । कस्तू-
रिका कटुस्तिक्ता क्षारीष्णा शुक्रला गुरुः । कफवातविष-
च्छर्दिशीतदौर्गन्ध्यशोषहृत्” । “प्रस्थं हिमाद्रेर्मृगनाभि-
गन्धि” कुमा० श्लोकव्या० मल्लिनाथेन “मृगनाभिःकस्तूरी
तद्गन्धि कस्तूरीमृगाधिष्ठानादित्युक्तं तेन हिमाद्रावपि
तन्मृगस्य सञ्चारोऽस्तीति गम्यते । “कस्तूरीतिलकं
ललाटपटले” विष्णुमूर्त्तिवर्णने । “कस्तूरिकाजननशक्तिभूता
मृगेण किं सेव्यते सुमनसां मनसापि गन्धः” रसग० ।
“कस्तूरिकामृगविमर्दसुगन्धिरेति” माघः । कस्तूरिकाहेतु-
र्मृगः कस्तूरिकामृगः ।

कस्तूरी(म)वल्लिका स्त्री कस्तूरीगन्धयुक्ता म(व)ल्लिका ।

(मुसक्दाना) लताभेदे राजनि० वमध्यपाठः भावप्र० सम्मतः ।
तद्गुणा भावप्र० उक्ता यथा । “लता कस्तूरिका तिक्ता
स्वाद्वी वृष्या हिमा लघुः । चक्षुष्या भेदिनी श्लेष्मतृष्णा
वस्त्यास्यरोगहृत्” अत्र लतेति विशेष्यपदोक्तेः कस्तूरिका
वल्लिकेत्येवेत्युचितम् ।

कस्मल न० कश्मलवत् । पापाद्यर्थे रायमुकुटः ।

कस्वर त्रि० कस--गतौ शातने च वरच् । १ गन्तरि २ हिंसके च

कहय पु० कस्य सूर्य्यस्य हयः । सूर्य्याश्वे तस्यापत्यम्

शिवा० अण् । काहय तदपत्ये पुंस्त्री । पाणिनिगणे
कह्वेति पाठः साधुः ।

कहूय पु० ह्वे--क्यप् हूयः कः सूर्य्यो हूयो यस्य । सूर्य्यह्वायके

ऋषिभेदे । तस्यापत्यं शिवा० अण् । काहूय तदपत्ये पुंस्त्री ।

कहोड पु० ऋषिभेदे स च उद्दालकर्षिशिष्यः अष्टावक्रस्य

पिता । “उद्दालकस्य नियतः शिष्य एको नाम्ना कहोड
इति विश्रुतोऽभूत्” भा० व० १३२ अ० । अधिकमष्टा-
बक्रशब्दे दृश्यम् । वा डस्य लः कहोलोऽप्यत्र । ततः
अनुकम्पायां नीतौ च वा ठक् द्वितीयाजादेः सन्ध्यक्षरस्य च
ल्क् । कहिक अनुकम्पितकहोडे । वा इल । कहिल ।
घ । कहिय इत्यादिरपि तत्रार्थे ।

कह्लार न० के जले ह्लादते ह्लाद--अच् पृषो० दस्य रः ।

श्वेतोत्पले । “आह्लादिकह्लारसमीरणाहिते” माघः ।
“नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः” सुश्रु० । तस्य
गुणादि उत्पलशब्दे उक्तम् ।

कह्व पु० कं जलं ह्वयति स्पर्द्धते शुक्लरूपत्वात् ह्वे--क । वके

अमरः । अस्यैव शिवादिगणे पाठमते अपत्ये अण् ।
काह्व तदपत्ये पुं स्त्री ।
पृष्ठ १८४२

कांशि पु० कंस भवार्थे बा० इञ् वेदे पृषो० सस्य शः ।

कंसनिर्मिते पात्रे “त्रींस्त्रीन् कंशीस्त्रिरात्रं, द्वौ द्वौ त्रिरात्रं
चेकैकं षड्रात्रम्” कौषी० सू० ।

कांस त्रि० कंसोदेशभेदोऽभिजनोऽस्य तक्षशिला० अञ् ।

कंसाधिष्ठितभोजदेशाभिजने नरादौ ।

कांस्य न० कंसाय पानपात्राय हितं कंसीयं तस्य विकारः यञ्

छलीपः । ताम्ररङ्गजधातुभेदे कंसशब्दे विवृतिः । “न पादौ
धावयेत् कांस्ये कदाचिदपि भाजने” मनुः । अस्य
शोधनविधिर्भावप्र० उक्तो यथा--“पत्तलीकृत्य पत्राणि
कांस्यस्याग्नौ प्रतापयेत् । निषिञ्चेत् तप्ततप्तानि तैले तक्रे
च काञ्जिके । गोमूत्रे च कुलत्यानां कषाये च त्रिधा
त्रिधा । एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते” ।
मारणविधिस्तत्रैव “अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन
लेपयेत् । समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः ।
ततोमूषापुटे धृत्वा पचेद् गजपुटेन च । एवं पुटद्वयात् कांस्यं
रीतिश्च म्रियते ध्रुवम्” तस्य गुणाः यथा--“कांस्यं कषायं
तीक्ष्णोष्णं लेखनं विशदं सरम् । गुरु नेत्रहितं रूक्षं
कफपित्तहरं परम्” भावप्र० । “कांस्यमुपहितसरोज-
सापतत्” माघः ।

कांस्यकार पु० स्त्री कांस्यं तत्पात्रं करोति कृ--अण् उप० स० ।

(काँसारि) । जातिभेदे जातित्वाद् स्त्रियां ङीष् ।
कंसकारशब्दे विवृतिः ।

कांस्यनील पु० । कांस्येन कृतः नीलः । (कीमकाजल) अञ्जनभेदे हेमच० ।

काक पुंस्त्री कै--शब्दे कन् । स्वनामख्याते विहगभेदे स्त्रियां

जातित्वात् ङीष् अण्डशावकयोः परतः ६ त० पुंवत्
काकाण्डः काकशावकः । “काकाल्लौल्यं यमात् क्रौर्य्यम्”
स्मृतिः “काकमांसं शुनोच्छिष्टं स्वल्पं तदपि
दुर्लभम्” उद्भटः “काकः काकः पिकः पिकः” नीतिमा० ।
“काकाली काममधरा काशीतलवाहिनी गङ्गा । कंसं
जघान कृष्णः कम्बलवन्तं न बाधते शीतम्” विदग्धमु० ।
तन्मांसगुणा मदनपालेनोक्ता यथा--“काकभासभवं
मांस चक्षुष्यं दीपनं लघु । आयुष्यं वृंहणं बल्यं
क्षतदोषक्षयापहम्” काकजङ्घायां काकतिक्तत्वोक्तेः तन्मां-
सस्य तिक्तत्वमपि बोध्यम् । राजनि० काकाह्वेति
काकजङ्घापर्प्यायोक्तेः २ काकजङ्घायां पु० “काकजङ्घातुल्या-
कारत्वात्तथात्वम् । कुत्सितमकति अक--अच् कोः कादेशः ।
३ पीठमर्पिणि(खोड़े) ४ काकप्रधाने द्वीपभेदे । कस्य शिरसः
आक सेधनम् अक--घङ् ६ त० । ५ शिरोऽवक्षालने
६ काकपदतुल्याकारे ७ तिलकभेदे काकवच्चञ्चलत्वात्
८ अतिधृष्टे च शब्दरत्ना० । काकानाम् संघः अण् ।
९ काकसमूहे काकपदरूपे १० सुरतबन्धभेदे च न० मेदि० ।
काकपदशब्दे तल्लक्षणं दृश्यम् । ईषत् कं कोः । कादेशः ।
११ ईषज्जले । बहु० १२ ईषज्जलयुक्ते त्रि० । काकमुद्गा ।

काककङ्गु पु० काकप्रियः कङ्गुः ईषज्जलयुक्तो वा कङ्गुः ।

(चीना) धान्यभेदे हेमच० ।

काककला स्त्री काकस्य कला अवयवो जङ्घेवावयवो यस्याः । काकजङ्घावृक्षेजटाध० ।

काकघ्नी स्त्री काकं हन्ति ट टित्त्वात् ङीप् । १ महाकरञ्जे

राजनि० । तत्फलसेवने हि काकस्य नाशः ।

काकचिञ्चा स्त्री कामवर्णा चञ्चा प्रान्तभागः फले यस्याः ।

पृषो० । गुञ्जायाम् अमरः । पृषो० काकचिञ्चिः,
काकचिञ्ची, काकचञ्चाप्यत्र शब्दरत्ना० ।

काकच्छद पुंस्त्री काकस्य च्छदः पक्ष इव छदः कृष्णत्वात्

यस्य । खञ्जनविशेषे स्त्रियां जातित्वात् ङीष् । बा०
इच् समा० । काकच्छदिरप्यत्र त्रिका० ।

काकजङ्घा स्त्री काकस्य जङ्घेवावयवो यस्याः । (केओयाटेङ्गा)

ख्याते वृक्षभेदे । “काकजङ्घा नदीकान्ता काकतिक्ता
सुलोमशा । पारावतपदी दासी काकाह्वापि प्रकीर्त्तिता ।
काकजङ्घा हिमा तिक्ता कषाया कफपित्तजित् । निहन्ति
ज्वरपित्तास्रज्वरकण्डूविषक्रमीन्” भावप्र० तत्पर्यायगुणा-
द्युक्तम् ।

काकजम्बु स्त्री काकवर्णा जम्बुः । भूमिजम्ब्वाम् शब्दमा० । (वडजाम) स्वार्थे कन् तत्रार्थे ।

काकजम्बू स्त्री कं जलमकति उत्पत्तिस्थानत्वेन अक--

अण् उप० स० काका काकवर्णा वा जम्बूः कर्म्म० ऊङ् ।
जलजातजम्बूभेदे राजनि० । तस्याः काकनीलेति
जलजम्बुकेति पर्य्यायतोक्तेः तस्याः कृष्णवर्ण्णफलक-
त्वाज्जलजातत्वाच्च तथात्वम् “क्षुद्रजम्बूः सूक्ष्मपत्रा
नादेयी जलजम्बुका । जम्बूः संग्राहिणी रूक्षा
कफपित्तास्रदाहजित्” । मावप्र० तत्पर्य्यायगुणाद्युक्तम् ।

काकण न० सुश्रुतोक्ते महाकुष्ठभेदे । “महाकुष्ठान्यौडुम्बरर्ष्य-

जिह्वकपालकाकणकपुण्डरीकदद्रुकुष्ठानीति” विभज्य ।
“काकणन्तिकाफलसदृश्यान्यतीव रक्तकृष्णानि काकणकम्”
इति, लक्षितम् । अत्र स्वार्थे कन् । “सर्वैरेवोल्वणैर्दोषैः प्राहुः
काकणकं बुधाः” भावप्र० तन्निदानमुक्त्वा “यत्
काकणन्तिकावर्णमपाकं तीव्रवेदनम् । त्रिदोषलिङ्ग तत् कुष्ठं
काकणं नैव सिध्यति” काकणन्तिका गुञ्जा गुञ्जावर्णत्वेन
मध्ये कृष्णम्, अन्ते रक्तम् अथवा मध्ये रक्तम् अन्ते
पृष्ठ १८४३
कृष्णम् । अपाकं स्वभावात्, त्रिदोषलिङ्गम् सर्वेषां
कुष्ठानां त्रिदोषजत्वेऽपि उल्वणदोषत्रयलिङ्गम्” भावप्र०
लक्षितम् । अतएव पूर्ववाक्ये उल्वणैर्दोषैरित्युक्तम् ।

काकणन्ती स्त्री ईषत् कणन्ती निमीलन्ती कण--निमीलने

शतृ ङीप कुगतिस० कोः कादेशः । गुञ्जायाम्
सुश्रु० । तस्याः फलकोषस्येषन्निमीलनात्तथात्वम् । “कोष्ठं
गत्वा क्षोभयन् यस्य रक्तं, तच्चाधस्तात् काकणन्तीप्रका-
शम्” सुश्रु० स्वार्थे कन् । काकणन्तिकाप्यत्र रत्नमा० ।
काकणशब्दे उदा० । “रक्तजानि न्यग्रोधप्ररोहविद्रुमका-
कणन्तिकाफलसदृशानि” सुश्रु० ।

काकतालीय न० अवितर्कितसम्भवतुल्ये यादृच्छिकन्याये

तद्व्युत्पत्त्यादिर्यथा “समासाच्च तद्विषयादिति” पा० छ ।
अस्मादेव ज्ञापकादिवार्थे, सह सुपेति वा समासः, द्वावि-
वार्थौ काकागमनमिव तालपतनमिव काकतालम्
काकतालमिव काकतालीयम् वृत्तिविषये काकतालशब्दौ
काकतालसमवेतक्रियावाचिनौ तत्र काकागमनं देवद-
त्तागमनस्योपमानम् तालपतनं दस्यूपनिपातस्य,
तालेन तु यः काकस्य बघः स देवदत्तस्य दस्युना बधस्यो-
पमानम् इति वधादिः काकतालीयादिशब्दवाच्यः सम्प-
द्यते । काकतालसमागमसदृशश्चोरसमागम इति समासार्थः
तत्प्रयुक्तकाकमरणसदृशस्तु देवदत्तवधादिः छप्रत्ययार्थः ।
“यत्तया मेलनं तत्र लाभो मे यश्च तद्रते । तदेतत्
काकतालीयमवितर्कितसम्भवम्” चन्द्रालोकः । “फलन्ति
काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति” वेणी० ।

काकतिक्ता स्त्री काकमांसवत् तिक्ता । काकजङ्घायां भावप्र०

काकजङ्घाशब्दे विवृतिः । (कुँच) ३ गुञ्जायां रत्नमा० ।
तयोः काकनांसतुल्यतिक्तत्वात्तथात्वम् ।

काकतिन्दुक पु० काकईषज्जलकस्तिन्दुतिकेन्दुकः, काकवर्णो

वा तिन्दुकः काकप्रियो वा तिन्दुकः । (कुँचिलिया)
(माकड़ातेंदु) इति च प्रसिद्धे कुपीलौ भावप्र० ।
तत्पर्य्यायगुणादि तत्रोक्तं यथा “तिन्दुको यस्तु कथितो
जलजो दीर्घपत्रकः । कुपीलुः कुलयः काकतिन्दुकः
काकपीलुकः । कुपीलु शीतलं तिक्तं वातलं मदकृल्लघु ।
पादव्यथाहरं ग्राहि कफपित्तास्रनाशनम्” अत्र
फलपरत्वात् न० ।

काकतुण्ड पु० काकतुण्डस्य वर्णोऽस्त्यस्य अच् । कालागुरुणि हेमच० ।

काकतुण्डफला स्त्री काकतुण्डमिव फलमस्याः । काकना-

सायाम्” भावप्र० । काकनासाशब्दे विवृतिः ।

काकतुण्डिका स्त्री काकतुण्डस्य वर्णः अर्द्धफलेऽस्याः ठन् ।

गुञ्जायाम् हला० ।

काकतुण्डी स्त्री काकम् ईषदकं ईषद्दुःखं तुण्डते तुड़ि ङ--बधे

अण् उप० स० पा० गौरा० ङीष्, मुग्ध० षण् ईप् इति
भेदः । १ राजरीतौ नृपयोग्ये पित्तले (गिल्टीकरापितल)
तस्य स्वर्णरूपतया दर्शनात् दुःखनाशकत्वात् तथात्वम् ।
काकतुण्ड इवाकारोऽस्याः अच् गौरा० ङीष । (केओ-
याठोटा) २ काकनासावृक्षे च ।

काकदन्तगवेषण पु० काकस्य दन्ताः सन्ति न येति संशये

तत्र वर्ण्णभेदस्य संख्याविशेषस्य च गवेषणमिव अनर्थकः
प्रयत्नी यत्र । निष्प्रयोजनान्वेषणयुक्ते न्यायभेदे ।

काकध्वज पु० काकमीषज्जलं बाष्पं ध्वज इवास्य । बाड़वाग्नौ

त्रिका० । तस्य समुद्रादुद्गच्छन्त्या ज्वालया जातवाष्पस्य
तत्केतनतुल्यत्वात् तस्य तथात्वम् ।

काकनामन् पु० काकेनापि नाम्यतेऽसौ नम--णिच्-

कर्मणि ङ्वनिप् । वकवृक्षे रत्नमाला तस्य मृदुशाखत्वेन
काकारोहणेनापि नामित्वात् तथात्वम् ।

काकनास पु० काकस्य नासा तद्वर्णः फलेऽस्य । विकङ्कत-

वृक्षे (वँइचि) राजनि० । तस्य फलस्य काकनासातुल्य-
कृष्णत्वात्तथात्वम् ।

काकनासा स्त्री काकस्य नासेव फलमस्याः । काकजङ्घायाम्

(केओठेङ्गा) । भावप्र० तद्पर्य्यायगुणाद्युक्तं
यथा“काकनासा कषायोष्णा कटुका रसपाकयोः । कफघ्नी
वमनी तिक्ता शोथार्शः श्वित्रकण्डुनुत्” । स्वार्थे कन् ।
काकनासिका तत्रार्थे अमरः । सा च त्रिवृति राजनि० ।

काकनीला स्त्री काक इव नीला । जम्बुभेदे । राजमि० ।

काकन्दि(न्दी) स्त्री देशभेदे । वा ङीप् । तत्र

भवाद्यर्थे दीर्धान्तात् वुञ् । कादन्दक तत्र भवे त्रि० । २ तद्देश-
वासिषूपचारात् तेचायुधजीविनः । संघपरत्वे ततः
दामन्यादि० स्वार्थे छ । काकन्दीय तद्देशवासिनि आयुध-
जीविसंघे ।

काकपक्ष पु० काकस्य पक्षः तदाकारोऽस्त्यस्य अच् । (काणपाटा)

काणजुलपी) प्रसिद्धे शिरोऽधःकर्ण्णपार्श्वस्थे केशभेदे । “स
वृत्तचूलश्चलकाकपक्षकैः” “काकपक्षधरमेत्य याचितः” “तौ
प्रणामचलकाकपक्षकौ” “काकपक्षधरेऽपि राघवे” इति
च रघुः “काकपक्षधरो युवा” पद्मपु० रामकवचम् ।
पृष्ठ १८४४

काकपद पु० “पादौ द्वौ स्कन्धयुग्मस्थौ क्षिप्त्वा लिङ्गं भगे

लघु । कामयेत् कामुकां कामी बन्धः काकवदो मतः”
रतिमञ्जर्य्युक्ते १ रतिबन्धभेदे । काकस्य पदं पदमानम् ।
२ काकपदतुल्यपरिमाणे न० । तत्परिमाणेन शिरसि
शिखास्थापनं स्मृतौ विहितम् । काकस्य पदाकारो
ऽस्त्यस्य अच् । ३ काकपदतल्याकारे ग्रन्थलेखनकाले
ऊर्द्ध्वमधोवाभिन्नपङ्क्तिलेखने प्रकृतग्रन्थत्रुटिसूचके ३ रेखा-
विशेषे । लेखकसंप्रदायप्रसिद्धिः ।

काकपर्ण्णी स्त्री काक इव कृष्णं पर्ण्णमस्याः काकमीषज्जलं

पर्ण्णेऽस्या वा गौरा० ङीष् । मुद्गपर्ण्ण्यां भावप्र० तस्याः
काककृष्णपर्ण्णत्वात् ईषज्जलयुक्तपत्रत्वाच्च तथात्वम् ।

काकपीलु पु० काकप्रियः पीलुः । (कुचिला) कुपीलौ ।

राजनि० संज्ञायां कन् । तत्रार्थे भावप्रकाशोक्ततद्गुणादि
काकतिन्दुकशब्दे उक्तम् ।

काकपुच्छ पुंस्त्री काकस्येव पुच्छो यस्य । कोकिले शब्द-

रत्ना० । स्त्रियां जातित्वेऽपि संयोगोपधत्वान्न ङीष् ।
किन्तु “पुच्छाच्चेति” वार्त्ति० वा ङीष् ।

काकपुष्ट पु० काकेन पुष्टः । कोकिले त्रिका० । कोकिल्या

हि स्वाण्डस्फोटनाशक्ततया काकाण्डं तन्नीडात् निष्कास्य
स्वाण्डं तत्र स्थापयित्वा काकद्वारा स्वाण्डजपोषणात्
कोकिलस्य तथात्वम् ।

काकपुष्प न० काकवर्णं पुष्पमस्य । गन्धपर्णे राजनि० ।

काकपेय त्रि० काकैरनतकन्धरैः पीयते पा--यत् “कृत्यैर-

धिकार्थवचने” पा० ३ त० । पूर्णोदकत्वेन प्रशस्ये काकैः
पेये नदादौ । “काकपेया नदी” सि० कौ० ।

काकफल पु० काकप्रियं फलमस्य । निम्बवृक्षे राजनि० ।

तस्य तिक्तत्वेऽपि काकस्य तत्फलप्रियत्वात्तथात्वम् ।

काकबन्ध्या स्त्री काकीव बन्ध्या पुंवत् । काकीवत् एकमात्रपुत्र-

जननेन बन्ध्यात्वप्राप्तायां स्त्रियाम् काकस्य सकृत्प्रजत्वञ्च
काकरुतशब्दोक्तप्रमाणादबसेयम् । “काकबन्ध्या च या
नारी मृतापत्या च या भवेत् । बह्वपत्या जीववत्सा सा
भवेन्नात्र संशयः” पद्मपु० रामकवचम् ।

काकबलि पु० ४ त० । काकेभ्योदेयेरलौ काकरुतशब्दे विवृतिः

काकभाण्डी स्त्री काकस्य ईषज्जलस्य मुखनिस्रावहेतुकस्य

भाण्डी क्षुद्रभाण्डमिव । महाकरञ्जे राजनि० । तत्फल-
सेवनात् सुखात् ईषज्जलस्रावात्तस्यास्तथात्वम् ।

काकभीरु पु० ५ त० । पेचके त्रिका० ।

काकमद्गु पु० काक इव कृष्णोमद्गुः दात्यूहे खगे त्रिका०

“घृतं हृत्वा तु दुर्बुर्द्धिः काकमद्गुः प्रजायते” भा० अनु०
५५२० श्लो० ।

काकमर्द पु० काकं मृद्नाति मृद--अण् उप० स० । (माखाल-

शशा) इति स्त्याते महाकालवृक्षे राजनि० । ण्वुल् ।
काकमर्दकोऽप्यत्र रत्नमाला ।

काकमाची स्त्री काकान् मञ्चते मचि--अण् पृषो० नलोपः

पा० गौरा० ङीष्, मुग्ध० षण् ईप् । कट्फललतायाम् ।
(कठेया गुड्कामाइ) इति ख्याते वृक्षे भावप्र० ।
तत्पर्य्यायगुणाद्युक्तं तत्रैव यथा--“काकमाची ध्वाङ्क्ष-
माची काकाह्वा चेव वायसी । माकमाची त्रिदोषर्घ्न
स्निग्धोष्णा स्वरशुक्रदा । तिक्ता रसायनी शोथकुष्ठाशे
ज्वररोगजित् । कटुर्नेत्रहिता हिक्काच्छर्दिहृद्रोगनाशिनी
“काकमाचिजनितं मृदुशाकं वेशवारमिलितं शुभवासम् ।
तप्ततैलतलनेन सुपाकं कैरवाप्य न कृतं मुखवासम्”
इत्यत्र वैद्यके असंज्ञायामपि “ङ्यापोरिति” पा० ह्रस्वः
इति बोध्यम् । स्वार्थे कन् काकमाचिकाऽप्यत्र ।

काकमातृ स्त्री काकस्य मातेव पोषिका तस्य तत्फलप्रिय-

त्वात् । काकमाच्याम् । राजनि० ।

काकमुद्गा स्त्री काकेन ईषज्जलेन मुदं गच्छति गम--ड ।

मुद्गपर्ण्ण्याम् अमरः ।

काकयव पु० काकमीषज्जलमत्र तावृशो यव इव नीरस-

त्वात् । (आग्डा) इति ख्याते पदार्थे “यथाऽफलाः
षण्डतिलाः यथा चर्ममया मृगाः । तथैव पाण्डवाः सर्वे
यथा काकयवा इव” भा० १७५ अ० । काकयवा
निष्फलतृणधान्यानि” नीलकण्ठः ।

काकरुत न० काकस्य रुतम् । काकशब्दे । काकादिरवादेः भावि-

शुभाशुमसूचकतया शकुनत्वं यथाह वृह० सं० ९५ अ० ।
“प्राच्यानां दक्षिणतः शुभदः काकः करालको वामे ।
विपरीतमन्यदेशेष्ववधिर्लोकप्रसिद्ध्यैव । वैशाखे निरुपहते
वक्षे नीड़ः सुभिक्षशिवदाता । निन्दितकण्टकिशुष्के-
ष्वसुभिक्षभयानि तद्देशे । नीडः प्राक्छाखायां शरदि
भवेत्प्रथमवृष्टिरपरस्याम् । याम्योत्तरयोर्मध्या प्रधान-
वृष्टिस्तरोरुपरि । शिखिदिशि मण्डलवृष्टिर्नैरृत्यां
शारदस्य निष्पत्तिः । परिशेषयोः सुभिक्षं मूषकसम्पत्तु
वायव्ये । शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु ।
शून्यो भवति स देशश्चौराऽनावृष्टिरोगार्त्तः । द्वित्रिचतुः ।
शावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् । अण्डावकिरण-
मेकाण्डताप्रसूतिश्च न शिवाय । चौरकवर्णैश्चौराश्चित्रै-
र्मृत्युः सितैश्च वह्निभयम् । विकलैर्दुर्भिक्षभयं काकानां
निर्द्दिशेच्छिशुभिः । अनिमित्तसंहतैर्ग्राममध्यगैः क्षु-
पृष्ठ १८४५
द्भयं प्रवाशद्भिः । रोधश्चक्राकारैरभिघातो वर्गवर्गस्थैः ।
अभयाश्च तुण्डपक्षैश्चरणविघातैर्जनानभिभवन्तः । कुर्वन्ति
शत्रुवृद्धिं निशि विचरन्तो जनविनाशम् । सव्येन खे
भ्रमद्भिः स्वभयं, विपरीतमण्डलैश्च परात् । अत्याकुलं
भ्रमद्भिर्वातोद्भ्रामो भवति काकैः । ऊर्ध्वमुखाश्चलपक्षाः
पथि भयदाः क्षुद्भयाय धान्यमुषः । सेनाङ्गस्था युद्धं
परिमोषं चान्यभृतपक्षाः । भस्मास्थिकेशपत्राणि विन्य-
सन् पतिबधाय शय्यायाम् । मणिकुसुमाद्यवहनेन सुतस्य
जन्माङ्गनायाश्च । पूर्णाननेऽर्थलाभः सिकताधान्यार्द्र-
मृत्कुसुमपूर्वैः । भयदो जनसंवासाद् यदि भाण्डान्य-
पनयेत्काकः । वाहनशस्त्रोपानच्छत्रच्छायाङ्गकुट्टने
मरणम् । तत्पूजायां पूजा विष्ठाकरणेऽन्नसम्प्राप्तिः ।
यद्द्रव्यमुपनयेत्तस्य लब्धिरपहरति चेत्प्रणाशः स्यात् ।
पीतद्रव्ये कनकं, वस्त्रं कार्पासिके, सिते रूप्यम् । सक्षीरा-
र्ज्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च । प्रावृषि वृष्टिं
दुर्द्दिनमनृतौ स्नाताश्च पांशुजालैः । दारुणनादस्तरुकोट-
रोपगो वायसो महाभयदः । सलिलमवलोक्य विरुवन्
वृष्टिकरो ऽब्दानुरावी वा । दीप्तोद्विग्नो विटपे विकुट्ट-
यन् वह्निकृद्विघुतपक्षः । रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे
विदधत् । ऐन्द्रादिदिगवलोकी सूर्य्याभिमुखो रुवन् गृहे
गृहिणः । राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति ।
शान्तामैन्द्रीमवलोकयन् रुयाद्राजपुरुषमित्राप्तिः । भवति
च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च । आग्नेय्यामन-
लाजीविकयुवतिप्रवरधातुलाभश्च । याम्ये माषकुलत्था
भोज्य गान्धर्विकैर्योगः । नैरृत्यां दूताश्वोपकरण-
दधितैलपललभोज्याप्तिः । वारुण्यां मांससुरासवधान्य-
समुद्ररत्नाप्तिः । मारुत्यां शस्त्रायुघसरीजवल्लीफलाशना-
प्तिश्च । सौम्यायां परमान्नाशनतुरङ्गाम्बरप्राप्तिः ।
ऐशान्यां सम्प्राप्तिर्घृतपूर्णानां भवेदनडुहश्च । एवंफलं
गृहपतेर्गृहपृष्ठसमाश्रिते भवति । गमने कर्णसमश्चेत्
क्षेमाय न कार्य्यसिद्धये मवति । अभिमुखमुपैति यातु-
र्विरुवन्विनिवर्त्तयेद्यात्राम् । वामे वाशित्वादौ दक्षिण-
पार्श्वेऽनुवाशते यातुः । अर्थापहारकारी तद्विपरीतो
ऽर्थसिद्धिकरः । यदि वाम एव विरुयान् मुहुर्मुहुर्यायिनो
ऽनुलोमगतिः । अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिण-
श्चैवम् । वामः प्रतिलोमगतिर्वाशन् गमनस्य विघ्नकृद्भवति ।
तत्रस्थस्यैव फलं कथयति यद्वाञ्छितं गमने । दक्षिण-
विरुतं कृत्वा वामे विरुयाद्यथेप्सितावाप्तिः । प्रतिवाश्य
पुरो यायाद् द्रुतमग्रेऽर्थागमोऽतिमहान् । प्रतिवाश्य
पृष्ठतो दक्षिणेन यायाद् द्रुतं क्षतजकर्त्ता । एकचरणो
ऽर्कमीक्षन् विरुवंश्च पुरी रुधिरहेतुः । दृष्ट्वार्कमेकपाद-
स्तुण्डेन लिखेद्यदा स्वपिच्छानि । परतो जनस्य महतो
बधमभिधत्ते तदा बलिभुक् । सस्योपेते क्षेत्रे विरुवति
शान्ते ससस्यभूलब्धिः । आकुलचेष्टो विरुवन् सीमान्ते
क्लेशकृद्यातुः । सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभि-
मधुरेषु । सक्षीराव्रणसुस्थितमनोज्ञवृक्षेषु चार्थकरः ।
निष्पन्नसस्यशाद्वलभवनप्रासादहर्म्यहरितेषु । धान्योच्छ्रय-
मङ्गल्येषु चैव विरुवन् धनागमदः । गोपुच्छस्थे वल्मीकगे
ऽथवा दर्शनं भुजङ्गस्य । सद्यो ज्वरो महिषगे विरुवति
गुल्मे फलं स्वल्पम् । कार्य्यस्य व्याघातस्तृणकूटे वामगे
ऽस्थिसंस्थे वा । ऊर्ध्वाग्निप्लुष्टे ऽशनिहते च काके वधो
भवति । कण्टकिमिश्रे सौम्ये सिद्धिः कार्यस्य भवति
कलहश्च । कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः ।
छिन्नाग्रेऽङ्गच्छेदः कलहः शुष्कद्रुमस्थिते ध्वाङ्क्षे ।
पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः । मृतपुरुषाङ्गाव-
स्थितो ऽभिवाशन् करोति मृत्युभयम् । भञ्जन्नस्थि च
चञ्च्वा यदि वाशत्यस्थिभङ्गाय । रज्ज्वस्थिकाष्ठकण्टकि-
निःसारशिरोरुहानने रुवति । भुजगगददंष्ट्रितस्कर-
शस्त्राग्निभयान्यनुक्रमशः । सितकुसुमाशुचिमांसाननेऽर्थ-
सिद्धिर्यथेप्सिता यातुः । वुन्वन् पक्षावूर्ध्वानने च
विघ्नं मुहुः क्वणति । यदि शृङ्खलां वरत्रां वल्लीं
वादाय वाशते बन्धः । पाषाणस्थे च भयं क्लिष्टा-
पूर्वाधिकयुतिश्च । अन्योऽन्यभक्षसङ्कामितानने तुष्टिरु-
त्तमा भवति । विज्ञेयः स्त्रीलाभो दम्पत्योर्वाशतो-
र्युगपत् । प्रमदाशिरौपगतपूर्ण्णकुम्भसंस्थेऽङ्गनार्थ-
सम्प्राप्तिः । घटकुट्टने सुतविपद् घटोपदहनेऽन्नसम्प्राप्तिः ।
स्कन्धावारादीनां निवेशसमये रुवंश्चलत्पक्षः । सूचयते
ऽन्यस्थानं निश्चलपक्षस्तु मयमात्रम् । प्रविशद्भिः सैन्या-
दीन् सगृध्रकङ्कैर्विनामिषं ध्वाङ्क्षैः । अविरुद्धैस्तैः प्रीति-
र्द्विषतां युद्धं विरुद्धेश्च बन्धः । शूकरसंस्थे पङ्काक्ते शूकरे द्विके
ऽर्थाप्तिः । क्षेमं खरोष्ट्रसंस्थे केचित्प्राहुर्बधं तु खरे ।
वाहनलाभो ऽश्वगते, विरुवत्यनुयायिनि क्षतजपातः । अन्ये
ऽप्यनुव्रजन्तो यातारं काकवद्विहगाः । द्वात्रिंशत्प्रविभक्ते
दिक्चक्रे यद्यथा समुद्दिष्टम् । तत्तत्तथाऽभिधेयं
गुणदोषफलं यियासूनाम् । का इति काकस्य रुतं स्वनि-
लयसंस्थस्य निष्फलं प्रोक्तम् । कवैति चात्मप्रीत्यै
पृष्ठ १८४६
क इति रुते स्निग्धमित्राप्तिः । कर इति कलहं
कुरुकुरु, हर्षमथ कटकटेति दधिभक्तम् । केके विरुतं
कुकु वा धनलाभं यायिनः प्राह । खरे खरे पथिका-
गममाह कखाखेति यायिनो मृत्युम् । गमनप्रतिषेधक-
माखलखल सद्योऽभिवर्षाय । काकेति विघातं
काकटीति चाहारदूषणं प्राह । प्रीत्यास्पदं कवकवेति
बन्धमेवं कगाकुरिति । करकौ विरुते वर्षं गुड़वत्त्रासाय,
वडिति वस्त्राप्तिः । कलयेति च संयोगः शूद्रस्य
ब्राह्मणैः साकम् । फडिति फलाप्तिः फलवाहिदर्शनं
टडिति प्रहाराः स्युः । स्त्रीलाभः स्त्रीति रुते
गडिति गवां, पुडिति पुष्पाणाम् । युद्धाय टाकुटाक्विति
गुहु वह्निभयं कटेकटे कलहः । टाकुलि चिण्टिचि
केकेकेति पुरञ्चेति दोषाय । काकद्वयस्यापि
समानमेतत् फलं यदुक्तं रुतचेष्टिताद्यम् । पतत्त्रिणो ऽन्य
ऽपि यथव काको वन्याः श्ववच्चोपरिदंष्ट्रिणो ये । स्थल
सलिलचराणां व्यत्ययो मेघकाले प्रचुरसलिलवृष्ट्यै
शेषकाले भयाय । मधु भवननिलीनं तत्करोत्याशु शून्यं
मरणमपि निलीनाम क्षिका मूर्घ्निनीला । विनिक्षिपन्त्यः
सलिले ऽण्डकानि पिपीलिका वृष्टिनिरोधमाहुः ।
तरुस्थलं वापि नयन्ति निम्नाद् यदा तदा ताः
कथयन्ति वृष्टिम् । कार्य्यंतु सूलशकुने ऽन्तरजे तदह्नि
विन्द्यात् फलं नियतमेवमिमे विचिन्त्याः । प्रारम्भयान-
समयेषु तथा प्रवेशे ग्राह्यं क्षुतं न शुभदं क्वचिदप्यु-
शन्ति । शुभं दशापाकमविघ्नसिद्धिं मूलाभिरक्षामथ
वा सहायान् । इष्टस्य संसिद्धिमनामयत्वं वदन्ति ते
मानयितुर्नृपस्य । क्रोशादूर्ध्वं शकुनिविरुतं निष्फलं
प्राहुरेके तत्रानिष्टे प्रथमशकुने मानयेत्पञ्च षट् च ।
प्राणायामान्नृपतिरशुभे षोडशैव द्वितीये प्रत्यागच्छेत्
स्वभवनमतो यद्यनिष्टस्तृतीयः” ।
काकस्य वर्ण्णादिभेदेन विप्रादिभेदकथनपूर्ब्बकं कालभेदेन
तद्रुतादिफलमुक्तं वसन्तराजशाकुने यथा
“अथोच्यते काकरुतं रुतानां मूर्द्ध्नि स्थितं शाकुन-
भाषितानाम् । अचिन्तितावेदितकार्य्यसिद्धिः पूर्वा-
दिकाष्ठाप्रहरक्रमेण । ये ब्राह्मणक्षत्रियवैश्यशूद्राः
काका भवन्त्यन्त्यजपञ्चमास्ते । वर्णाकृतिभ्यां ऋषिभा-
षिताभ्यां सदाभियुक्तैरुपलक्षणीयाः । वृहत्प्रमाणो
गुरुदीर्घतुण्डो दृढस्वरः कृष्णवपुः स विप्रः । पिङ्गाक्ष-
नीलाक्षविमिश्रवर्णः स्यात् क्षत्रियस्तीक्ष्णरवोऽतिशूरः ।
यः पाण्डुनीलः सितनीलचञ्चुर्नात्यर्थरूढ़ो रटितश्च
वैश्यः । भस्मच्छविर्भूरिककारशब्दः शूद्रः कृशाङ्गश्चपलो
निरूक्षः । विरूक्षसूक्ष्मास्यतनुर्विशङ्को यः कन्ध-
रादीप्तरवं विभार्त्ति । स्थिरारवः स्थैर्य्यसमेतबुद्धिः
काकोऽन्त्यजातिः खलु पञ्चमोऽत्र । द्रोणाभिधः कृष्ण-
वपुर्द्विजो यो ग्राह्यः स काकः स्वलु मुख्यवृत्त्या । तस्मा-
दृते श्यामगलो निरीक्ष्यः श्वेतश्च निन्द्योऽद्भुतदर्शने
ऽसौ । विप्रः स्फुटं जल्पति पृछ्यमानो न्यूनं ततः क्षत्रि-
यजातिराह । आख्याति वैश्यस्त्वधिवासनेन ब्रवीति
शूद्रो वलिदानलोभात् । प्रश्नं कृतं जल्पति कृष्णवर्णः
सदा समस्तं विहगोऽन्त्यजातिः । सद्यस्त्रिसप्ताहदशाह-
पक्षैः पञ्चापि काकाः फलदाः क्रमेण । शान्ते प्रदीप्ते
च रटन् विहङ्गः शुभप्रदो दीप्तपराङ्मुखः सन् । न
क्वापि रौद्रो रटितः प्रशस्तः सर्वत्र शस्तो मधुरश्च रक्तः ।
दीप्तस्थितो यः परुषस्वरेण विरौति दीप्ताभिमुखः स
कार्य्यम् । निष्पाद्य निर्नाशयते च सम्यग्दीप्तोन्मुखः शान्त-
रवो हि सिद्ध्यै । शान्तप्रदीप्ताभिमुखो विधाय शब्दं
प्रविश्याथ पुनः प्रदीप्ताम् । यो रौति काको मधुरस्वरेण
हृत्वा विरुद्धं स ददाति सिद्धिम् । विधाय दीप्तामिमुखो
विरावं ततः प्रशान्ताभिमुखो विरौति । यो वायसोऽसौ
विनिहन्त्यसम्यक् कार्य्याणि सर्वाणि पुनः करोति” । विप्रादिश०
सूर्य्योदये पूर्वदिशि प्रशस्तस्थाने स्थितो यो ऽभिमुखं
विरौति । नाशं रिपोश्चिन्तितकार्य्यसिद्धिं स्त्रीरत्नलाभं स
करोति काकः । ध्वाङ्क्षः प्रभाते यदि वह्निभागे विरौति तिष्ठन्
रमणीयदेशे । शत्रून् प्रणश्यत्यचिराद्विशङ्कः प्रयाति
योषित् समवाप्यते तत् । रुवन् प्रभाते दिशि दक्षिणस्यां
काकः समावेदयतेऽतिदुःखम् । रोगार्त्तिमृत्युं परुष-
स्वरेण रम्येण चेष्टागमयोषिदाप्तिम् । नैरृत्यभागे यदि
च प्रभाते करोति काकः सहसा विरावम् । क्रूरं ततः
कर्म्म समभ्यपैति दूतागमो मध्यमिका च सिद्धिः । प्रातः
प्रतीच्यां यदि रौति काको ध्रुवं तदा वर्षति वारिवाहः ।
स्त्रीवस्त्रभूभृत्पुरुषागमश्च कलिः कलत्रेण समं तदा
स्यात् । ध्वाङ्क्षस्य शब्दे पवनालयस्थे वस्त्रान्नयानाभि-
मतागमाः स्युः । पान्थागमः प्राक्तनवृत्तिनाशः स्यादन्यदेशे
गमनं स्वदेशात् । दिश्युचरस्यां सुरवः प्रभाते निरीक्ष-
माणो बलिभुग् नराणाम् । ददाति दुःखं भुजगाच्च
भीतिं दरिद्रतां नष्टधनेष्टलाभम् । दिशीशवत्यां यदि
रौति काक आगच्छतस्तद्वनितान्त्यजाती । व्याधेर्निमित्तं
पृष्ठ १८४७
प्रियवस्त्रलाभो भवेत्तदा रोगबलेऽवसानम् । ब्रह्मप्रदेशे
स्थितवायसस्य प्रभातकाले मधुरस्वरेण । अभीप्सितार्था-
गमनं ध्रुवं स्यात् स्वामिप्रसादो द्रविणस्य लाभः” ।
इति सूर्य्योदये काकशकुनम् । “पूर्वत्र याभे प्रथमे
सशब्दः काको भवेच्चिन्तितकार्य्यसिद्ध्यै । अर्भाष्टलोकागमनं
तथा स्यान्नष्टार्थलाभो नियतं नराणाम् । आग्नेयभागे
यदि चाद्ययामे स्त्रीलाभविद्वेषिबधौ भवेताम् । कृतान्त-
भागे बलिभुग्विरावः स्त्रीलाभसौख्यप्रियसङ्गकारी । नैरृत्य-
कोणे प्रिययीषिदाप्तिर्म्मिष्टाशनं सिद्ध्यति चिन्तितोऽर्थः ।
दिशि प्रतीच्यां विरुते भवेतामभ्यर्थनीयागमनाम्बुवृष्टी ।
वायव्यकोणे करटः शुभः स्यात् नृपप्रसादो ऽध्वगदर्शनं च ।
सौम्ये च भीस्तस्करशोकवार्त्ता सौम्या च वार्त्ता धनलाभ-
वार्त्ता । ईशानदेशे ऽभिमतेन सङ्गस्त्रासो हुताशाद्बहु-
लोकसङ्गः । ब्रह्मप्रदेशे सुखकामभोगः सम्मानसम्पद्द्रविणे-
ष्टसिद्धिः” । इति प्रथमप्रहरे क्षकु० । “प्राच्यां द्वितीये प्रहरे
विरावैः काकस्य कश्चित् पथिकोऽभ्युपैति । चौराद्भयं व्याकु-
लता च बह्वी जायेत काचिन्महती च शङ्का । हुताशदेशे
नियतं कलिः स्यात् प्रियागमाकर्णनयोषिदाप्तिः । याम्ये
तु वृष्टिर्महती च भीतिः प्रियस्य चेष्टस्य समागमः स्यात् ।
रक्षोदिशि प्राणभयं तदा स्युः स्त्रीभोज्यलाभाखिलरुक्-
प्रणाशाः । भवेत् प्रतीच्यां प्रबला बलाप्तिर्योषागमो वृद्धि
सुवर्षणं च । समीरभागे ध्वजचौरसङ्गो दूतागमस्त्री
पिशितान्नलाभः । सौम्ये गणेष्टागमनं जयं च रम्ये
रवे, चौरभयं त्वरण्ये । महेश्वराशाविरुतश्च काकश्चौरा-
ग्निसंत्रासविरुद्धवार्त्ताः । ब्रवीति रूक्षैरटनैररूक्षैः
सदार्य्यगुर्वागमनं जयं च । ब्रह्मप्रदेशे प्रहरे द्वितीये
काकः सुशब्दो नृपतिप्रसादम् । मिष्टान्नभोज्यं च ददाति
पुंसां करोत्यसौ चौरभयं कुशब्दः” । इति द्वितीयप्रहर
श० । “ऐन्द्र्यां विरूक्षः प्रहरे तृतीये वृद्धिं तथा चौरभयं
ब्रवीति । कृष्णस्तु राजागमनं जयं च करोति यात्रां
शुभकार्य्यसिद्धिम् । अग्नेर्विभागेऽग्निभयं कलिश्च
विरुद्धवार्त्ता विफला च यात्रा । भवेद्विरुद्धैर्बलिभुग्वि-
रावैर्जयादिवार्त्ता च भवेद्विशुद्धैः । ककुभ्यवाच्या
कुरुतेऽतितूर्णं रोगं तथाप्तागमनं विहङ्गः । क्षुद्राणि
कार्य्याणि च यान्ति सिद्धिं सर्वाणि तन्मुख्यतया
नराणाम् । क्रव्याददेशे जलदागमः स्यान्मिष्टान्नलाभो
रिपवो न सन्ति । शूद्रागमः स्वामिविरुद्धवार्त्ता भवन्ति
यात्रासु च कार्य्यनाशः । स्यात् पश्चिमे नष्टधनस्य लाभो
दूराध्वयानं सुहृदागमश्च । योषागमोऽभीष्टजयादि-
वार्त्ता यात्रासु रम्ये रटितेऽर्थसिद्धिः । वातालये
दुर्दिनमेव वार्त्ता चौराभिनष्टार्थसमागमश्च । सन्तोष-
वार्त्ता वरयोषिदाप्तिर्यात्रा रवे स्यान्मधुरे प्रशस्ता ।
यामे तृतीये विरुवन्त्युदीच्यां कार्य्यार्थलाभो नृपसेवकानाम् ।
भोज्यप्रवृद्ध्यै शुभदा च वार्त्ता प्रयाणकं वैश्यसमा-
गमश्च । दिश्यन्धकारेः कुरुते सुशब्दो भोज्यं जयं हानि
कली कुशब्दः । ब्रह्मप्रदेशे तिलतण्डुलाभ्यां भोज्यं च
ताम्बूलयुतं ददाति” । इति तृतीयप्रहरशकु० । “ऐन्द्र्यां
तुरीयप्रहरेऽर्थलाभो भूमीशपूजा भयवृद्धिरोगाः । वह्ने-
र्विभागे भयरोगमृत्युः शिष्टागमो वायसवाशितेन ।
याम्ये रवे तस्करवैरिभीती स्यातां विशिष्टागमरोगमृत्युः ।
स्यात् यातुधान्यां महती प्रवृद्धिरभीष्टसिद्धिः पथि
चौरयुद्धम् । दिशि प्रतीच्यां प्रहरे चतुर्थे द्विजातिरभ्येति ततो
ऽर्थलाभः । आयाति योषिद्विजयाम्बुवृष्टिः सिद्धिः
प्रयाणे नृपतेर्वरश्च । वायव्यभागे करटस्य शब्दै
रायाति योषित् प्रयमानिनी या । ध्रुवं प्रवासो
दिनसप्तकेन शीघ्रागमः स्यात् गमने कृते च । कुवेरभागे
पथिको ऽभ्युपैति ताम्बूललाभः कुशलस्य वार्त्ता ।
वैश्याद्धनाप्तिस्तुरगादिरूढा यात्रा विरुद्धे म्रियते च
रोगी । स्थाणौ स्थितः स्याद्बलिभुग्विरावैः सुवर्णवार्त्ता
सरुजो विनाशः । ब्रह्मप्रदेशे प्रहरे चतुर्थे वार्त्ता
भवेन्मध्यमिका च सिद्धिः” । इति चतुर्थप्रहरशकु० ।
“यद्भाषितं शाकुनिकैर्विमिश्रं शुभाशुभं दिक्प्रहर-
क्रमेण । तत्राशुभं यच्छति दीप्तशब्दः श्रेयष्करः शान्तर-
वश्च काकः । रम्यं रवं दीप्तदिशि प्रसर्पन् शान्तां दिशं
भूरि फलं ददाति । तदैव तुच्छं वितरत्यसौ वै दीप्ता
स्थितः पश्यति दीप्तकाष्ठाम् । यथोपदिष्टं फलमत्र-
दुष्टं तथैव तद्दीप्तदिशि स्थितः सन् । ध्वाङ्क्षोऽधिरूढो विरु-
वन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम् । काकः
पशान्ताभिमुखोऽतितुच्छ’ दीप्ताश्रितो दुष्टफलं ददाति ।
श्यामाश्रितः शान्तदिगीक्षणेन रूक्षारवो ऽल्पं कथयत्यनि-
ष्टम् । शान्तस्वरः शान्तककुप्प्रदेशे तिष्ठन् प्रदीप्तां ककुभञ्च
पश्यन् । ददात्यभीष्टं फलमेवमल्पं दीप्तां स पश्यंस्तु
तदेव तूर्णम् । आकारचेष्टारवभागविज्ञाश्चत्वारि
काष्ठादिनयोः क्रमेण । सदाभियुक्ताश्च निरूपयन्ति
यस्माच्च ते काकरुतं मनुष्याः” । इति काकरुते दिक्चक्र-
भेद शकु० । “वर्षकालमधिकृत्य किञ्चन प्रोच्यते बलिभजो
पृष्ठ १८४८
यथाक्रमम् । आलयाण्डकविचारसुन्दरं शाकुनं
सकलशाकुनोत्तमम् । वैशाखमासे निरुपद्रवेषु द्रुमेषु काकस्य
शुभाय नीड़म् । निन्द्येषु शुष्केषु सकण्टकेषु द्रुमेषु
दुर्भिक्षमलाभहेतुः । प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य
काकेन कृतः कुलायः । तद्वृष्टिरिष्टा शकुनप्रमोदो नीरो-
गता स्याद्विजयश्च राज्ञः । आग्नेयशाखारचिते च नीडे
स्याद्वृष्टि रिष्टार्त्तिभयं कलिश्च । दुर्भिक्षशत्रूद्भवदेश-
भङ्गो भवन्ति रोगाश्च चतुष्पदानाम् । याम्यासु शाखासु
च वायसेन नीड़े कृतेऽल्पं जलपातमाहुः । व्याधि-
प्रकोपं मरणं समन्तादन्नक्षयं शत्रुविरोधितां च ।
नैरृत्यशाखारचिते च नीडे तस्माच्छनैर्वर्षति वर्षकाले ।
पीड़ा नृणां विप्लवचौरभीतिदुर्भिक्षयुद्धानि भवन्त्य-
वश्यम् । नीडे कृते पश्चिमवृक्षशाखामाश्रित्य काकैः
कथिता च वृष्टिः । नीरोगता क्षेमसुभिक्षवृद्धिः सम्पत्-
प्रमोदाश्च भवन्ति लोके । वायव्यशाखासु कृते च नीड़े
प्रभूतवाताल्पजलाश्च मेघाः । स्युर्मूषिकोपद्रवशस्यनाश
पक्षद्वयोद्वेगमहारिरोधाः । कौवेरशाखामधिकृत्य
नीड़े कृते भवेत् प्रावृषि वृष्टिरिष्टा । भवन्ति च क्षेमसुभि-
क्षसौख्यनीरोगतावृद्धिसमृद्धयोऽस्मित् । ईशानशाखासु
च वृष्टिरल्पा वैरं प्रजानामुपसर्गदोषः । स्याद्बान्धवानां
कलहप्रवृत्ति र्म्मर्य्यादया हीयत एष लोकः । वृक्षाग्र-
नीड़े त्वतिवर्षकाले मध्ये पुनर्म्मध्यमतोयपातः । तुच्छापि
वृष्टिर्न भवत्यधस्तात् स्फुटं दिशोक्तं न दिशः स्फुटत्वम् ।
अवृष्टिरोगादिभयादिवृद्धिं विद्याच्च भूमौ वलिभुक्
कुलाये । शुष्के च वृक्षे डमरान्ननाशौ प्राकाररन्ध्रे च
भयं प्रभूतम् । निम्नप्रदेशे तरुकोटरे वा वल्मीकरन्ध्रे व्रत-
तिष्वपीह । काकस्य नीडे रुगवृष्टिदोषैर्भवन्ति शून्या
नियमेन देशाः” । इति काकनीड़शकुनम् । अथ
काकाण्डशकुनम् । “एकं भवेद्वारुणमग्निसंज्ञं द्वि-
तीयकं मारुतकं तृतीयम् । ऐन्द्रं तथा नाम चतुर्थमेव
मण्डानि काक्याः परिकीर्त्तितानि । काक्या भवेद्वारुण-
मण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः । मन्दप्रवर्षो
ऽनलसंज्ञके ऽण्डे भोप्तस्य वीजस्य भवेत् प्ररोहः ।
जातानि शस्यानि समीरणेऽण्डे खादन्ति कीटाः शलभाः
शुकाद्याः । क्षेमं सुभिक्षं सुखिता धरित्री स्यादैन्द्रडो
ऽण्डेऽभिमता च सिद्धिः” । इति काकाण्डश० । “यात्रा-
निमित्तानि च कीर्त्तयामः सकृत्प्रजानां शकुनानि यानि ।
विज्ञायतानि प्रजहात्यनर्थानथांश्च सर्वान कुरुतेऽध्वनीनः ।
भुङ्क्षे बलिं पक्षिषु मन्त्रपूतं त्वं प्राणिषु प्राणिषि वर्षलक्षम् ।
गुप्तेन च स्त्रीं भजसे नमोऽस्तु तुभ्यं स्वगेन्द्राय सकृत्-
प्रजाय । विलोक्य काकं विनिवेद्य तस्मै मन्त्रेण पूजां
दधिभक्तयुक्ताम् । उदीर्य्य कार्य्यं निजमध्वगेन विलोक-
नीयं शकुनं तदर्थम् । वामेन शब्दं मधुरं विमुञ्चन् व्रजं
स्त्ववामेन करोति काकः । सर्वार्थसिद्धिं पुनरागमञ्चा-
शुभप्रदेशे तु तदन्थरूपम् । प्रदक्षिणं संप्रविधाय मार्गे
वामेन काको विनिवर्त्ततेऽसौ । यातुः करोतीहितकार्य्य-
सिद्धिं क्षेमञ्च शीघ्रं पुनरागमञ्च । वामे कलं रौत्यनु-
लोमयायी यो वायसो ऽसौ सकलार्थसिद्ध्यै । स्यातां
क्रमाद्दक्षिणवामशब्दौ सिद्ध्यै, विरुद्धौ विपरीतभूतौ । पृष्ठे
विरावं मधुरं विमुञ्चन्ननुव्रजं श्चापि मतो हिताय ।
प्रायेण यातारमनुव्रजन्तः सर्वेऽपि काकैः कथिता
विहङ्गाः । कृत्वा रवं यः पुरतः प्रयाति उपस्थितो यो
मुदमादधाति । कण्डूयते यः स्वशिरोऽङ्घ्रिणाऽसौ
पुंसां तदाभीष्टफलं ददाति । स्तम्भे गजाना नियतं
गजाप्तिं गजेऽधिरुढः पृथिवीपतित्वम् । तुरङ्गमे वाहन-
भूमिलाभं करोति काको विजयं ध्वजे च । प्रनष्टलाभं
विजयं च कूपे, क्षिप्रं नदीरोधंसि कार्य्यसिद्धिम् । पूर्णे
घटेऽद्भिश्च धनाप्तिवृद्धिं ध्वाङ्क्षोऽधिरूढ़ः कुरुते
सशब्दः । प्रासादधान्योच्चयहर्म्म्यपृष्ठनिष् पन्नशस्यावनि
शाद्वलादौ । ध्वाङ्क्षो ऽधिरूढो धनसाधनाय रौति श्रियं
यच्छति युग्मरावः । पृष्ठे पुरो वा यदि गोमयस्थो तथा
वटाद्येषु तरुष्वपीह । स्थितो रुवन् भोजनपानमिष्टं
विष्ठां च कुर्वन् वितरत्यवश्यम् । अन्नाद्यविष्ठाफलसूल-
पुष्पमत्स्यादिभिः पूर्णमुखः सदैव । संदृष्टमात्रो
ऽभिमतार्थसिद्ध्यै मिष्टान्नभोज्याय सदैव काकः । नारीशिरः-
पूर्णघटस्थितस्य काकस्य शब्दैर्वनिताधनाप्तिः । शय्याधि-
रूढस्य च तस्य शब्दैः समागमः स्यात् स्वजनेन सार्द्धम् ।
गोपृष्ठदूर्वातरुगोमयेषु तुण्डानि घर्षन्नवलोकिताग्रः ।
आहारमन्यस्य तथा ददानो ददाति भोज्यं बलिभु-
खिचित्रम् । धान्यं यवं वा दधिं वापि चाज्यं विरौति
पश्यन्निधिलाभकारी । करोति लाभं पुरतः स दृष्टो
यस्यास्ति वक्त्रे तृणमप्यशुष्कम् । वृक्षेषु रम्याङ्कुरपत्र-
पुष्पच्छायाफलाद्येषु सकृत्प्रजस्य । शब्देन सिध्यन्त्य-
सकृन्नराणां सदैव सर्वाणि समीहितानि । प्रशान्तनादः
शिखरे तरूणां स्त्रीसङ्गसौख्यं करटोऽसिधत्ते ।
धान्यादिकूटेषु तथान्नलाभो गोपृष्ठगो गोवनिताधनाप्तिम् ।
पृष्ठ १८४९
क्षेमं विधत्ते करभस्य पृष्ठे खरस्य पृष्ठेऽरिभयं बधञ्च ।
क्रीड़स्य पृष्ठे बधमर्थलाभं तस्यैव पृष्ठे घनलग्नपङ्के ।
सद्योज्वरं सैरिभपृष्ठसंस्थो मृताङ्गसंस्थो मरणं करीति ।
कार्य्यक्षतिं रिक्तघटस्य संस्थः काकः कलिं काष्ठमधि-
ष्ठितश्च । यो दक्षिणं कूजति दक्षिणैन प्रयाति यश्चाभि-
मुखोऽभ्युपैति । यो याति पृष्ठे प्रतिलोमगत्या कृता-
रवः पातयते स रक्तम् । वामे रवो दक्षिणतस्ततो यः
सोऽनर्थहेतुर्बलिभोजनस्य । वामप्रदेशे प्रतिलोमयानं
विघ्नाय लाभो गृह एव तेन । प्रयाति पृष्ठे यदि
दक्षिणेन कृतारवस्तद्रुधिरं पुरः स्यात् । वल्लीवरत्रादि
च यो गृहीत्वा प्रदक्षिणं याति स सर्पभीत्यै । गोपुच्छ-
वल्मीककृतास्पदश्च रुवन् भवेत् सर्पविलोकनाय । स्या-
न्मृत्यवेऽङ्गारचितास्थिसंस्थः काकः प्रकुर्वन् करचर्वणं
च । रुवन् पुरो हानिरुजौ करोति मृत्युं पुनर्नि-
ष्ठुरपृष्ठशब्दः । प्रसार्य्य रिक्तं वदनं य आस्ते सर्वत्र
निन्द्यो बलिभोजनोऽसौ । वामोऽप्यसृक्पातभयं मृतिं
वा सन्ताड़यन् वा रसचर्म्मखण्डम् । चञ्च्वाऽस्थिभङ्गं
ध्रुवमस्थिभङ्गबन्धौ बधं जल्पति युध्यमानः । वामोऽपि
रोगं कुरुते विशुष्के तिक्तेऽपि वृक्षे कलिकार्य्यनाशौ ।
पक्षौ विधुन्वन् विरुवंश्च रूक्षं सकण्टके मृत्युमुपाद-
धाति । बधो भवेद्भूरुहभग्नशाखे बन्धो लताभिः
परिवेष्टिते स्यात् । रम्ये तरौ कण्टकयुक्तवृक्षे सदा भवेतां
कलिकार्य्यसिद्धी । छन्नाधिरूढो न रवेण यायात् प्रयाति
चेत् स्यात् खलु रक्तपातः । अवस्कराम्भस्तृणकाष्ठकूप-
भस्मादिसंस्थो विनिहन्ति कार्य्यम् । वल्लीवरत्राकच
शुष्ककाष्ठचर्म्मास्थिजीर्णाम्बरवल्कलानि । अङ्गाररक्तोत्-
पलकर्पराणि दृष्टानि चेत् काकमुखे तदानीम् ।
पुण्यक्षयः पापसमागमश्च महद्भयं रोगसमुद्भवश्च । बन्धो
बधः सर्वघनापहार इत्यादिकं स्यात् पथि मन्दिरे च ।
ऊर्द्ध्वाननश्चञ्चलपक्षयुग्मः काकः कुनादी विदधाति
मृत्युम् । छायायुधच्छत्रघटास्थियानवादित्रकाष्ठादिक-
कुट्टनानि । सङ्कोचितैकाङ्घ्रिरुपेतचिन्तो दीप्तस्वरो भास्कर-
मीक्षते च । काष्ठादिकं कुट्टयतेऽथ वा यो युद्धाधिका-
नर्थकरः खगोऽसौ । तुण्डेन पिच्छं विलिखन् रवेण
यो रौति तूर्णञ्च निरीक्षते कम् । एकेन पादेन तथोप-
विष्टो ब्रूते स बन्ध पुरतो जनस्य । विड़्गोमयौ न्यस्य-
ति यस्य मूर्द्ध्नि तस्याऽनलत्रासरुजौ भवेताम् । यस्यास्थि-
खण्डं विसृजत्यसौ तु प्रयाति तूर्णं नगरीं यमस्य । ब्रह्म-
प्रदेशे विरुवन् यियासोः कलत्रदोषं जनयत्यवश्यम् ।
मनुष्यमातङ्गतुरङ्गमाणां शिरोधिरूढो निधनाय
तेषाम् । नदीतटे वाऽथ रटन्नटव्यां खरस्वरो व्याघ्रभयाय
गन्तुः । नैवातुरः क्वापि मतो हिताय न दुष्टचेष्टो
वितनोति शान्तिम् । यात्रोद्यमे सैन्यबधाय काको दृष्टो
रथे साश्वनृमस्तकेषु । आयाति यस्याभिमुखो बलस्य
युद्धोद्यमे तस्य पराजयः स्यात् । सगृध्रकङ्कैः कटके
नृपस्य काकैः प्रविष्टैः पिशितं विनापि । संयुध्यमानै
ररिभिः समं स्यान्महाहवे सन्धिरयुध्यमानैः । चिह्न-
ध्वजच्छत्रकृताधिरोहः समुद्यतं शत्रुबलं प्रपश्यन् । आजौ
जयं जल्पति भूमिपानां कृतध्वनिः क्षीरतरौ च काकः ।
गतिस्वरौ वायससंप्रयुक्तौ प्राच्यां फलायोदितवैपरीत्यात् ।
एवं जनोऽप्याचरति प्रभूतो यथोदितं तत्र यथागमार्थम् ।
दिग्यामचक्रेऽपि शुभाशुभानि फलानि यानि प्रतिपा-
दितानि । प्रतिष्ठमानस्य भवन्ति तानि तथाविधानीति
वदन्ति तज्ज्ञाः” । इति यात्राङ्गकाकश० ।
“स्थानस्थितिभ्यां कथयन्ति काकाश्चेष्टाविशेषेण शुभाशु-
भानि । प्रबोधिताः प्राक्तनकर्म्मभिर्ये तल्लक्षणाय
क्रियते प्रयत्नः । निष्कारणं संवलिता रुवन्तो ग्रामे
ऽन्ननाशाथ भवन्ति काकाः । रोधञ्च चक्राकृतयो
वदन्ति सव्यापसव्यभ्रमणाद्भयञ्च । विघातमाहुबहुवर्ग-
संस्था रात्रौ रुवन्तो जनताविनाशम् । लोकञ्च चञ्च-
चरणप्रहारैरुद्वेजयन्तः परचक्रवृद्धिम् । यः स्नाति
धूल्यान्तु विलोक्य रौति वृष्टिं समाशंसति वायसो
ऽसौ । जलस्थलप्राणिविपर्य्ययेण वर्षासु वृष्टिं
भयमन्यदा तु । मध्यंदिने वेश्मनि यस्य काको विरौति
रौद्रं विधुनोति वाङ्गम् । हरन्ति चौरा द्रविणानि
तस्य ध्रुवं तथान्यो भवति प्रमादः । रुवन्नदृष्टस्तृण-
पूर्णवक्त्रो हुताशभीतिं करटः करोति । स्यात् प्रस्थि-
तस्याप्यथ वा स्थितस्य दुःखं प्रभूतं दिवसत्रयेण ।
छायासु लाभं, भुवि भूमिलाभं, विघ्नं जले, ग्रावणि
कार्य्यनाशम् । करोति काको विरुवन्नरस्य प्रस्थायिनः
स्थानगतस्य वापि । द्वारप्रदेशे रुधिरानुलिप्तो विरौति
काकः शिशुनाशनाय । पक्षौ विधुन्वन् विरुवंश्च रूक्षं शान्ते
च दीप्ते भवने न शस्तः । भूयस्तथोर्द्ध्वे प्रविधाय पक्षौ
काकः कुनादं प्रलयं करोति । क्रुद्धोऽधिरुढः
करटान्तरञ्च रोगेण मृत्युं कुरुते नराणाम् । द्रव्ये
हते वाऽपहृते खगेन विनाशलाभावपि तादृशस्य ।
पृष्ठ १८५०
रुक्मस्य पीते, रजतस्य शुक्ले, चेलस्य कार्पाममये
भवेताम् । प्रश्ने कृते रोगविनाशबुद्ध्या हन्त्याशु रोगं
सुरवः प्रदीप्ते । शान्ते प्रदेशे करटश्चिरेण स्वल्पा-
रवो रोगमपाकरोति । प्रश्ने शुभे शान्तदिगाश्रयस्थः
शान्तस्वरो यः शुभमादघाति । यो वायसस्तं शुभदं
वदन्ति तद्व्यत्यये व्यत्ययहेतुरुक्तः । विरौति कुम्भे
मणिकेऽथ वा यः स गर्भवत्याः सुतजन्महेतुः । उड्डीयते
कण्टकिनीञ्च शाखामादाय राजागमनाय काकः ।
अन्नादिविष्ठापिशितादिभि र्यः पूर्णाननो ऽभीष्टफल-
प्रदोऽसौ । सन्त्रादिसिद्धौ बणिजादिलामे शस्तो
विवाहादिविधौ च काकः । इष्टार्थदोऽश्वादिकवाह-
नस्थश्छत्त्रादिस स्थस्तदवाप्तकारी । बध्वागमं जल्पति
तोरणस्थो हृद्यार्थदो हृद्यतरुस्थितश्च । वायसः
कुलकुलध्वनिं यदा व्याहरेद्भवनसं मुखं तदा । अभ्युपैति
पथिकस्तदा ध्वनिं सर्व्वकार्य्यशुभदं वदत्यसौ ।
इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिका
वदन्ति । यद्वायसो मैथुनसन्निविष्टो दृश्येत १ यद्वा धवलः २
कदाचित् । उद्वेगविद्वेषभयप्रवासघनक्षयव्याधि-
भयप्रहाराः । बुद्धिप्रणाशाकुलताप्रवादा नृणां
भवन्त्यद्भुतदर्शनेन । शमाय तत् सूचितदुःखराशेः
स्नानं बहिस्तत्क्षणमेव कुर्य्यात् । आत्मीयशक्त्या च
सदक्षिणानि द्विजाय दद्यात् वसनानि तानि ।
नयेदहःशेषमपुण्यहान्या शयीत भूमावकृतान्नभक्षः ।
हविष्यभोजी न भजेच्च नारीं दिनानि सप्त त्रिगुणानि
यावत् । अकाकघातव्रतमादधीत बलिं च दद्याद्बलि-
भोजनेभ्यः । स्नात्वा प्रभाते विदधीत शान्तिं दद्यात्
स्वशक्त्या द्रविणं गुणिभ्यः । देशे तु यत्राद्भुतमेत-
दुग्रमालोक्यते तत्र समापतन्ति । अवृष्टिदुर्भिक्ष-
भयोपसर्गचौराग्निशत्रूद्भवधर्म्मनाशाः । कर्म्मणि
तस्योपशमाय राजा प्रवर्त्तयेत् शान्तिकपौष्टिकानि ।
अन्नाद्यगोभूमिवसूनि दद्यात् युद्धं विदध्यान्न च
यावदव्दम्” । इति स्थानविशेषस्थितकाकचेष्टा शकु० । अथ
काकध्वनिभेदश० । “ककामिति क्षेमविधो विरावः
केकामितीष्टाशनपानहेतुः । करोति कूंकूमिति चार्थ-
लाभं, क्कं क्कं ध्वनिः काञ्चनलाभमाह । केंके-
मिति स्त्रीवरयोषिदाप्त्यै भोगाय कांकामिति शब्दतः
स्यात् । अपत्यलाभः कुव इत्यनेन गन्तुः फलं केकव
इत्यनेन । कौं कोमितीदं शुभलाभकारि कुंकुंनिनादः
प्रियसङ्गमाय । क्रां क्रुमिति क्रामिति च त्रयोऽमी
क्रां क्रामिति द्वौ च रवौ रणाय । क्रां क्रामिति क्रौ
मिति च द्विरुक्तं क्रूं क्रूमिति क्रौ कुकु
कू इतीदम् । रुतं प्रदिष्टं मरणाय नॄणां गन्तुः
प्रणाशं कुरुते खगाख्यः । क्रीं क्रीमितीष्टार्थविना
शनाय ज्वलज्वलेत्यग्निभयाय शब्दः । कीकीति कोका
विति यः कथञ्चिन्मुहु र्मुहुः स्यात् स मतो बधाय
स्यात् का इतीदं विफलं सदैव मित्राप्तये स्यात् क इती
दृशञ्च । काका इतीदं तु विघातकारि करोति काको
वदति स्वतुष्ट्यै । आहारदोषाय च काकटीति स्यादा-
कुलं कुक्कुनिभं रणाय । केके ध्वनिः काकुटि किं
टिकीति त्रयं त्विदं स्यात् पुरदूषणाय । यत् का इति
त्रिस्तदनुस्वरेण शब्दद्वयं स्यान्महते रणाय । कामि-
त्ययं वाहननाशनञ्च ददाति हर्षं कुकुकुर्व्वितीदम् ।
यत्का इतीदं विरुतं सुदीर्घकृतस्वरेणोच्चरितम् प्रमा-
दात् । उत्साहहीनः श्रमदैन्ययुक्तः स वायसः कार्य्य-
विनाशनाय । सामिषं वकवकेति भोजयेद्वारयेत्
कलिकलीति वाशनम् । अभ्युपैति स्वररूक्षभाषिते प्रोषितः
शवशवारवे शवः । स्यात् कलिः कवकवध्वनौ नृणां
जायते कणकणाध्वनौ रणः । आव्रजेत् कुलुकुलुध्वनौ
प्रियः सौदनं कटकटध्वनौ दधि । एवंप्रकारा बहवो
ऽपरेऽपि प्रशान्तदीप्ता बलिभोजनानाम् । भवन्ति शब्दाः
खलु तेषु केचिदस्माभिरुक्ताः खलु लक्षणीयाः ।
इति काकध्वनिभेदशकुनम् । “हितं नरेभ्यो
मुनिभिः पुराणैर्ज्ञानं यदुक्तं बलिपिण्डयुक्त्या ।
तदुच्यते संप्रति येन काका वदन्ति नित्यं बलिलाभ-
तुष्टाः । अदक्षिणस्यां दिशि यत्र काकैर्युतो भवेत् क्षीर-
तरुः प्रभूतः । गत्वा निवृत्ते ऽहनि तत्र काका निमं
न्त्रणीया बलिपिण्डभोज्ये । प्रातस्ततः क्षीरतरोरधस्ता-
द्विशोध्य लिप्येत च गोमयेन । भूमिप्रदेशे चतुरस्रमस्य
मध्ये ऽर्च्चयेत् ब्रह्ममुरारिभानून् । इन्द्राग्निवैवस्वतयातु-
धानजलेशवायुद्रविणेशशम्भून् । अभ्यर्च्चयेदष्टसु दिक्षु
भक्त्या क्रमेण चाष्टावपि लोकपालान् । नमोयुतैः सप्रण-
वैश्च सर्व्वान्निजाभिधानैः प्रयतो मनुष्यः । अर्घासनालेपन-
पुष्पधूपनेवेद्यदीपाक्षतदक्षिणाभिः । आब्रह्म काकां-
स्तरुसन्नि विष्टानाध्याय तत्प्राक्तनमन्त्रयुक्त्या । तत
स्तदर्थं बलिमाज्यसिक्तं मन्त्रेण दद्यात् दधिपिण्डयुक्तम् ।
“उदीर्य्यं कार्य्यं स्वमथावसृत्य ततः प्रदेशे करटस्य चेष्टाः ।
पृष्ठ १८५१
स्तब्धोकृताङ्गश्च शुभाशुभार्थं संलक्षयेन्निश्चलपाणि-
पादः । पूर्व्वेण स्वादन् सुखवित्तवृद्धिं करोति वह्ने
र्दिशि वह्निभीतिम् । काकोऽथेनाशं दिशि दक्षिणस्यां
नैरृत्यदिग्गोवरकृत्यदिष्टः । जलेशदेशेऽभिमतार्थसिद्धि-
र्वायोर्दिशीतिप्रभवाल्पवृष्टिः । सौम्ये सुखारोग्यसमी-
हितार्थमीशानदेशे वितरत्यभीष्टम् । बलौ विलुप्ते करटैः
समन्तात् कार्य्ये विमिश्रं परिभावनीयम् । बलिंविकीर्य्यापि
न भक्षयन्ति काकास्तदानीं भयदा भवन्ति । क्षीरद्रुमा-
रामचतुष्पथेषु सरित्समीपे त्रिदशालयेषु । देयो
बलिर्भूतदिनाष्टमी षुकुल्माषदध्योदनतण्डुलाद्यैः” । इति
काकबलिदानशकु० । “पिण्डत्रयस्याथ विधानमेतदाख्या
यते यत् किल नारदाद्यैः । दृष्टं मुनीन्द्रैरशुभ-
शुभञ्च यथावदस्मिन् कथयन्ति काकाः । गत्वा शुभेऽह्नि
प्रहरे चतुर्थे देशेषु पूर्व्वप्रतिपादितेषु । नरेण पिण्ड-
त्रयभोजनार्थं काकाः प्रयत्नेन निमन्त्रणीयाः ।
ततः प्रभाते ह्युपलिप्य भूमिं तस्याञ्च पूर्व्वोदितमन्त्र-
युक्त्या । ब्रह्माच्युतेशाप्पतिलोकपालाः काकाश्च पुंसां
क्रमतोऽर्च्चनीयाः । दध्योदनाद्यर्विहितं निवेश्य
पिण्डत्रये मण्डलकस्य मध्ये । अभ्यर्च्चयेदक्षतपुष-
धूपैर्मनोहरैर्यत्नपरो मनुष्यः । तेषु क्षिपेत् प्राग्दिग-
नुक्रमेण पिण्डेषु हेम प्रथमे, द्वितीये । रूप्यं, तथा
लौहलवं तृतीये, शेषं च कुर्य्याद्वलिपिण्डतुल्यम् ।
त्रिःसप्तकृत्वो विनिवेशपिण्डे पिण्डा निवेश्या बलिभो-
जनेभ्यः । मन्त्रोक्तमावाहनतोषितेभ्यः कार्य्यं विचा-
र्याऽपसरेत्ततश्च । काकेन भुक्ते ससुवर्णपिण्डे ज्ञेयं नरेणो-
त्तममात्मकार्य्यम् । भुक्ते सरूप्ये खलु मध्यमं स्याद्भुक्ते स
लोहे त्वधमं प्रदिष्टम् । विवादबाणिज्यविवाहवृष्टिक्षेमाश्व-
चिन्ताकृषिभोगरोगाः । संग्रामसेवानृपकार्य्यदेशाः
इत्यादयोऽस्मिन् परिभावनीयाः । चेष्टाः सुरामा
विदधाति याति प्रदक्षिणं दक्षिणपक्षमुच्चैः । ग्रीवां
तथोच्चां कुरुते सशब्दः स्थानं मनोज्ञं श्रयति द्रुमञ्च ।
एवविधां यो विदधाति चेष्टां पिण्डं समादाय शुभं
खगोऽसौ । अभीष्टकार्य्यादधिकं करोति चेष्टाविपर्य्या-
सतयान्यथात्वम् । पिण्ड समादाय यदि प्रधानं
शान्तां दिशं गच्छति काकपक्षी । पूर्णं फलं तत्
कुरुते नराणां चिकीर्षिते वस्तुनि यत्र तत्र । काको
गृहीत्वा यदि मुख्यपिण्डं प्रयाति दीप्तां ककुभं तदानीम् ।
अत्यत्तमं कार्य्यफलं प्रदर्श्य ततः समस्तं विनिहन्त्य-
वश्यम् । द्वितीयकं यद्यपहृत्य पिण्डम् प्रडीयते शान्त-
दिगाश्रयेण । फलं तदानीं शुभदं नराणां याप्यं खगो
जल्पति कार्य्यजातम् । काके समादाय जघन्यपिण्डं
याते प्रदीप्तां ककुभं वदन्ति । कार्य्यं जघन्यादधिकं जघन्यं
स्यान्मध्यमं मध्यमपिण्डभागे” । इति वलिदाने पिण्ड-
त्रयशकुनम् । “महर्षयो वायसशाकुनस्य वदन्ति सारा-
दपि सारमूतम् । पिण्डाष्टकं यत्तदशेषमेतदाख्यायते
कार्य्यविनिश्चयार्थम् । शुभेऽह्नि काकानधिवास्य सायं
पिण्डाष्टकं भोक्तुमथ प्रभाते । यत्काकभोग्यानि
समस्तवस्तून्यादाय यायाद् बहिरप्रमत्तः । एकान्तदेशे
तरुपार्श्वभूमौ मृद्गोमयाभ्यामुपलेपितायाम् । सत्पञ्च-
गव्येन समुक्षितायां सौम्योपहारैरुपशोभितायाम् ।
विधाय पूजां कुलदेवतानां मध्ये ततोऽष्टास्वपि दिक्षु
देयम् । भक्तेन सर्पिर्दधिमिश्रितेन पिण्डाष्टकं प्राग्दि-
गनुक्रमेण । पक्षीन्द्रवह्न्यन्तकराक्षसेन्द्रान् विष्णुं
विरिञ्चिं धनदं महेशम् । पूर्व्वादिकाष्ठाक्रमयोजितेषु
न्यस्येत् क्रमादष्टसु पिण्डकेषु! नमोयुतैस्तान् प्रण-
वैश्च सर्व्वांस्ततोऽर्च्चयेत्तन्निजनामन्त्रैः । अर्घासनाले-
पनपुष्पधूपैर्नैवेद्यदीपाक्षतदक्षिणाभिः । अभ्यर्च्चितेभ्यो
विधिनोदितेन पिण्डाष्टकं तत् वितरेत् द्विजेभ्यः । मन्त्रेण
संमन्त्र्य निवेदनार्थं कार्य्यं विचिन्त्यापसरेच्च किञ्चित् ।
काकेन पिण्डे प्रथमे गृहीते तिष्ठन् प्रजन् वापि भवेत्
कृतार्थः । उद्वेगशोकौ विफलं प्रयाणे, हानिः
कलिर्व्वा भवति द्वितीये । याम्ये रुगापद्भयमृत्यवः स्युः
पिण्डे चतुर्ये विजयो रणेषु । स्याद्वैष्णवेऽभीष्टमकष्ट-
साध्यं भवेत् प्रवासो विफलश्च षष्ठे । नास्तीह तन्नि-
श्चयमेव कार्य्यं भुक्ते न यत् सिद्ध्यति सौम्यपिण्डे ।
सन्तापशौकौ विफला च यात्रा पिण्डेऽष्टमे वायसभक्षिते
च । पिण्डं न गृह्णात्यथ वा न भुङ्क्ते चञ्चूनखैर्विक्षि-
पति द्विजो यः । कार्य्येषु सर्वेषु स न प्रशस्तो व्रवीति
घोरं समरं स पुंसाम्

काकरुहा स्त्री काकैव रोहति अन्तरीक्षे मूलशून्यतया

जायते । (परगाछा) वन्दाकवृक्षे त्रिका० ।

काकरूक पु० कुत्सितं करोति कृ--ऊक कोः कादेशः । १ स्त्री-

जिते स्त्रीजितस्य स्त्रीमतानुसारेण कुत्सितकरणात्त-
थात्वम् । २ निर्द्धने ३ दिगम्बरे ४ भीरौ च त्रि० । तेषा
कुत्सिताचरणात् तथात्वम् । करणे ऊक । ५ दम्भे पु० ।
दम्भेन धर्माचरणस्य कुत्सितत्वात् तस्य तथात्वम् ।
पृष्ठ १८५२
काकेन लूयते लू--छिदि कर्मणि क्विप् लस्य रः संज्ञायां
कन् । ६ पेचके पुंस्त्री हेमच० । तस्य काकच्छेद्यत्वा-
त्तथात्वम् । स्त्रियां जातित्वात् ङीष् ।

काकल न० ईषत् कलो यस्मात् कोः कादेशः । १ ग्रीवास्थे उन्नतप्रदेशे

(टुँटि) त्रिका० । ततो वा कप् । तत्रार्थे पु० हेमच० । “एकः
काकलके नासायाञ्च” इति शरीरस्थसन्धिकथने “एकैका
काकलकगलयोः” इति पेशीसंख्यानोक्तौ च सुश्रु०
केति कलो यस्य । २ द्रोणकाके पुं स्त्री शब्दर० स्त्रियां ङीष् ।
ईषत् कं जलं लाति ला--क संज्ञायां कन् । षष्टिक-
धान्यभेदे तस्येषज्जलनिष्पन्नत्वात्तथात्वम् । “षष्टि-
ककङ्गुकमुकन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाष-
ष्टिकचूर्णककुरवककेदारकप्रभृतयः षष्टिकाः” सुश्रु० ।
“गर्भस्था एव ये पाकं यान्ति ते षष्टिका मताः” ।
भावप्रका० षष्टिकलक्षणमुक्त्वा तद्गुणा दर्शिता यथा--
“षष्टिकाः मधुराः शीताः लघवो बद्धवर्चसः । वातपित्त-
प्रशमनाः शालिभिः सदृशा गुणैः” इति एवं सुश्रुतेऽपि ।

काकलि(ली) स्त्री कल--इन् ईषत् कलिः कोः कादेशः ।

कृदिकारान्तत्वात् वा ङीप् । सूक्ष्ममधुरास्फुटध्वनौ अमरः
“सहकारकिसलयमकरन्दास्वादनरक्तकण्ठानां मधुकरक-
लकण्ठानां काकलीकलकलेन” दशकु० । “उन्मीलन्-
मधुगन्धल्ब्धमधुपव्याधूतचूताङ्कुरक्रीडकोकिलकाकलीकल-
कलैरुद्गीर्णकर्णज्वराः” सा० द० । काकलं गलस्थोन्न-
तप्रदेशाकारः अस्त्यस्य अच् गोरा० ङीष् । काकलाकारे-
२ स्तेयसाधने पदार्थे “फणिमुखकाकलीसंदशकपुरुष-
शीर्षकयोगचूर्ण्णयोगवर्त्तिकामानसूत्रकर्कटकरज्जुदीपभाज-
नभ्रमरकरभकप्रभृत्यनेकोपकरणयुक्तोगत्वा कस्यचिल्लु-
व्धेश्वरस्य गृहे सन्धिं छित्त्वा” दशकु० । काकं
काकवर्ण्णमर्धफले लाति ला--क गौरा० ङीष् । ३ गुञ्जायाम् ।
“काकलीमूलं गुञ्जामूलम्” ज्यो० त० रघु० ।

काकलीद्राक्षा स्त्री काकलीव सूक्ष्मा द्राक्षा । अवीजायाम्

क्षुद्रद्राक्षायाम्(किस् मिस्)राजनि० । “अवीजान्या स्वल्पत्रा
गोस्तनीसदृशैर्गुणैः” भावप्र० । गोस्तनीअब्दे तद्गुणा दृश्याः

काकलीरव पुंस्त्री काकली मधुराव्यक्ती रवो यस्य ।

१ कोकिले राजनि० स्त्रियां जातित्वात् ङीष् । कर्म० ।
२ काकलीरूपे रवे पु० । काकलीकलादयोऽप्यत्र ।

काकवल्लभा स्त्री ६ त० । काकजम्बुके राजनि० ।

काकवल्लरी स्त्री काकप्रिया वल्लरी शाक० त० । स्वर्ण्णवल्ल्याम् राजनि०

काकशिम्यी स्त्री काकप्रिया शिम्बी । काकतुण्ड्याम् राजनि०

काकशीर्ष पु० काकः शीर्षेऽग्रेऽस्याः । वकवृक्षे जटाधरः ।

काकस्य तदग्रे वासयोग्यत्वात्तस्य तथात्वम् ।

काकस्त्री च० काकस्य स्त्रीव नाम्यत्वात् । वकवृक्षे शब्दचि० ।

काकस्फूर्ज पु० काकः स्फूर्जत्यत्र स्फूर्ज--आधारे घञ् ।

काकतिन्दुके राजनि० ।

काका स्त्री ईषत् कं जलमत्र, काकः काकाकारोऽस्त्यस्य

अच् वा । १ काकनासावृक्षे २ काकोल्यां ३ काकजङ्घा-
याम् ४ गुञ्जायां ५ मलप्वाम् (काकीदुम्बरिकायाम्) ६
काकमाच्याञ्च मेदि० ।

काकाक्षिगोलकन्याय पु० काकस्याक्षिगोलकमिव न्यायः ।

काकस्य एकं चक्षुर्यथा उभयगोलके पर्य्यायेण चक्षुः
कार्य्यकारकमेवमेकस्योभयसंबन्धज्ञापके न्याये ।

काकाङ्गी स्त्री काकस्याङ्गं जङ्घेवाकारोऽस्याः वा ङीष् ।

काकजङ्घावृक्षे अमरः । पक्षे टाप् काकाङ्गा तत्रार्थे
रमानाथः ।

काकाञ्ची स्त्री काकं तज्जङ्घाकारमञ्चति गच्छति अन्च-

गतौ अण् गौरा० ङीष्, पा०, मुग्ध० षण् ईप् ।
काकजङ्घावृक्षे शब्दरत्ना० ।

काकाण्ड पु० काक्या अण्ड इव फलं यस्याः पुंवत् । १

महानिम्बे तस्य गुणादि सुश्रुतेनोक्तं यथा “माषैः समानं
फलमात्मगुप्तमुक्तञ्च काकाण्डफलं तथैव” । २ कोलशिम्ब्याम्
स्त्री गौरा० ङीष् तदन्तः ३ महाज्योतिष्मत्यां राजनि० ।
६ त० । ४ काक्याअण्डे पुंन० ।

काकाण्डोला स्त्री काकाण्डस्य तुला उपमा फले यत्र

पृषो० तलोपः । कोलशिम्ब्याम् राजनि० ।

काकादनी स्त्री काकैरद्यतेऽसौ अद--कर्म्मणि ल्युट् ६ त०

ङीप् १ गुञ्जायाम् शब्दर० । २ श्वेतगुञ्जायाम् राजनि०
३ कुलिकवृक्षे (कुलियाखाड़ा) वृक्षे रत्नमा० । “मद्येनाश्व-
मारकगुञ्जाकाकादनीमूलकल्कनं पाययेत्” सश्रु० इयञ्च
सुश्रुते “कालेयकागुरुतिलपर्ण्णीत्याद्युपक्रमे” “सुमनः काका-
दनीलाङ्गलीत्यादिना” “समासेन श्लेष्मसंशमनो वर्गः”
इति श्लेष्मशमनतयोक्ता ।

काकायु पु० काकस्यायुर्यस्मात् । स्वर्णबल्लीवृक्षे शब्दचि० ।

काकार त्रि० कं जलमाकिरति आ + कॄ--अण् । जलस्रायिणि ।

स्त्रियां टाप् मुग्ध० षण् ईप् इति भेदः ।

काकारि पु० काकोऽरिरस्य । पेचके । हेमच० ।

काकाल पुंस्त्री केति शब्दं कलते रौति कल--अण् ।

द्रोणकाके शब्दरत्नमा० स्त्रियां जातित्वात् ङीष् ।
पृष्ठ १८५३

काकि पुं स्त्री काकस्यापत्यम् वा इञ् । काकापत्ये स्त्रियां ङीप् ।

पक्षे वाकिना० फिञ् कुक् च । काककायनि तदर्थे
पुं स्त्री । स्त्रियां ङीप् ।

काकिणी स्त्री “काकिणी च चतुर्भागो माषकस्य पणस्य

च” शु० त० नारदोक्ते १ माषकचतुर्थभागे २ पणचतुर्थभागे
च । “वराटकानां दशकद्वयं यत् सा काकिनी(णी)ताश्च
पणश्चतस्रः” इति लीला० । “तस्मात् पणं काकिणीं वा
फलं पुष्पमथापि वा । प्रदद्यात् दक्षिणां यज्ञे यया स
सफलो भवेत्” शु० त० वृह० । स्वार्थे कन् । काकिणिका
तत्रार्थे “क्कचिच्छिल्पिव्यवहारेण यत्किञ्चिद्धनमनेभ्यो वा
काकिणिकामात्रम्” भाग० १, १४, २ ।

काकिनी स्त्री १ पणपादे २ मानपादे ३ वराटके च मेदि० ।

मानपादः निवर्त्त नपाद इति केचित् (चारिकाठा)
माषपाद इत्येवः पाठो न्याय्यः काकिणीशब्ददर्शितनारद-
वाक्यैकवाक्यत्वात्

काकिल पु० ईषत् किरति कॄ--क कोः कादेशः रस्य लः ।

गलस्थोन्नतदेशे (टुंटि) शब्दमा० ।

काकी स्त्री काक + जातित्वात् स्त्रियां ङीष् । १ काकयोषिति

काकवर्ण्णत्वात् २ वायसीलतायाम् ३ काकोल्याञ्च शब्दचि०

काकु स्त्री कक--उण् । १ शोकभीत्यादिभिर्ध्वनेर्विकारे,

अलङ्कारप्रसिद्धे २ विरुद्धार्थकल्पके नञादौ शब्देच । “कामे-
कान्ते सा रसिका काकुरुतेन” सा० द० । “प्रणिजगदुरकाकु
श्रावकाःस्निग्धकण्ठाः” माघः । सा० द० “वक्तृबोद्धव्य
वाक्यानामन्यसन्निधिवाच्ययोः । प्रस्तावदेशकालानां काको
श्चेष्टादिकस्य च । वैशिष्ट्यादन्यमर्थं या बोधयेत्
साऽर्थसम्भवा” इति व्यञ्जनाहेतून् निर्द्दिश्य “भिन्नकण्ठ-
ध्वनिर्धीरैः काकुरित्यभिधीयते” काकुं लक्षयित्वा
उदा० “गुरुपरतन्त्रतया वत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललितैर्नैष्यति सखि! सुरभिसमयेऽसौ”
नैष्यति अपि तर्हि ऐष्यत्येवेति काक्वा व्यज्यते” इत्युक्तम् ।

काकुत्स्थ पुंस्त्री ककुत्स्थस्यनृपस्यापत्यं शिवा० अण् । ककुत्-

स्थवंश्ये स्त्रियां ङीप् । कुकुत्स्थशब्दे विवृतिः “काकुत्-
स्थमालोकयतां नृपाणाम्” “तं विनिष्पिष्य काकुस्थो पुरा
दूषयति स्थलोम्” “असज्जनेन काकुत्स्थःप्रयुक्तमथ
दूषणम्” रघुः । “काकुत्स्थ ईषत्स्मयमान आस्त” भट्टिः

काकुद न० काकुं ददाति दा--क उप० स० । तालुनि अमरः

तालुना काकूच्चारणात् तस्य तथात्वम् “उद्विम्यां काकुदस्य”
प्रा० बहु० अस्यान्त्यलोपः “उत्काकुत्० विकाकुत्” सि०
कौ० “पूर्ण्णाद्विभाषा” पा० बहुव्रीहौ वाऽन्त्यलोपः ।
पूर्ण्णकाकुत् पूर्ण्णकाकुदः ।

काकुभ त्रि० ककुभ इदं उत्सा० अञ् । १ ककुप्छन्दस्के

प्रगाथादौ । २ दिक्सम्बन्धिनि च स्त्रियां ङीप् । ककुभो-
ऽपत्यम् शिवा० अण् । तदपत्ये पुं स्त्री स्त्रियां ङीप् ।

काकेक्षु पु० काकमीषज्जलमत्र कोः कादेशः कर्म्मधा० ।

(नलखाग्ड़ा) १ तृणभेदे त्रिका० २ काशभेदे राजनि० ।

काकेन्दु पु० काकस्य इन्दुरिवाह्लादकत्वात् काकस्य प्रिय-

स्तिन्दुः पृषो० बा । (माकड़ाकेन्दु) कुलिकवृक्षे अमरः ।

काकेष्ट पु० ६ त० । निम्बवृक्षे राजनि० ।

काकोचिक पु० ईषत् कोचो सङ्कोची कुच--णिनि स्वार्थे

कन् (कुँचे) मत्स्यभेदे कनभावे काकोचिन् इत्यपि
तत्र हारा० पु० । हारावल्यां “काकोचिकस्तु काको-
चीत्यत्र पुंसाहचर्य्यात् पुंस्त्वमेव न्याय्यम् । ईकारान्तत्व-
भ्रमेण शब्दकल्पद्रुमे स्त्रीत्वोक्तिः प्रामादिकी ।

काकोडु(दु)म्बर पु० काकमीषज्जलमत्र कर्म्म० काकस्य प्रिय-

उदु(डु)म्बरो वा । (कोटाडुमर) ६ उ(दु)डुम्बरभेदे शब्द-
रत्ना० । स्वार्थे कन् अत इत्त्वम् स्वार्थिकप्रत्ययस्य
प्रकृतिलिङ्गव्यतिक्रमः । काकोडु(दु)म्बरिकाप्यत्र स्त्री
अमरः । “तत्र दद्यात् प्रतीवापं काकोडु(दु)म्बरि-
कारसम्” “काकोडु(दु)म्बरिकागोजीपत्रैर्विंस्रावयेदसृक्”
सुश्रु० । काकोदु(डु)म्बरिका फल्गुर्मलपूर्जघनेफला”
मलपूस्तम्भकृत् तिक्ता शीतला तुवरा जयेत् । कफपित्त
व्रणश्वित्रकुष्ठपाण्ड्वर्शःकामलाः” इति भावप्र० तद्गुण-
पर्य्यायोक्तिः ।

काकोदर पुंस्त्री कुत्सितं कुटिलमकति अक--वक्रगतौ अच् कोः

कादेशः काकमुदरं यस्य । १ सर्पे अमरः स्त्रियां जाति-
त्वात् ङीष् तस्य उरसा कुटिलगामित्वात्तथात्वम् “काको-
दरोयेन विनीतदर्पः” राघवपाण्डवीयम् ।

काकोल पु० काकयति लोलयति कक--लौल्ये णिच्-

बा० ओल काकेन उल्लाय अद्यतेऽत्र उद् +
लाघञर्थे आधारे क पृषो० वा । १ नरकभेदे “महा
नरककाकोलम् संजीवनमहायसम्” नरकभेदकीर्त्तने
मनुः, काकोलं यत्र काकैर्भक्ष्यते” प्रा० वि० ।
कं जलमाकोलति आ + कुल--सं स्त्याने अण् उप० स० ।
२ कुम्भकारे तस्य घटनिर्म्माणेन जलसंस्त्यानकरणा-
त्तथात्वम् । कक--लौल्ये स्वार्थे णिच् बा० ओल ।
३ द्रोणकाके पुंस्त्री मेदि० स्त्रियां जातित्वात्
पृष्ठ १८५४
ङीष् । “वकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम्”
अभक्ष्यमांसोक्तौ मनुः । “कलविङ्कं सकाकोलं कुररं
रज्जुदानकम्” अभक्ष्यमांसोक्तौ याज्ञ० । ईषत् कोलति
कुल--स्त्याने करणे घञ् कोः कादेशः । “काकोलमु-
ग्रतेजः स्यात् कृष्णच्छवि महाविषम्” वैद्यकोक्तलक्षणे ४
विषभेदे अमरः ५ सर्पे ६ शूकरभेदे पुंस्त्री शब्दरत्ना० स्त्रियां
जातित्वात् ङीष् । काकोलीनामोषधौ पु० धरणी ।

काकोली स्त्री काकोल + गौरा० ङीष् । “जीवकर्षभकौ

मेदे काकोल्यौ ऋद्धिवृद्धिके । अष्टवर्गोऽष्टभिर्द्रव्यैः
कथितश्चरकादिभिः” इति भावप्रकाशीक्ताष्टवर्गान्तर्गते
लताभेदे तद्भेदलक्षणगुणादिकं भावप्र० उक्तं यथा
“जायते क्षीरकाकोली महामेदोद्भवस्थले । यत्र स्यात्
क्षीरकाकोली काकोली तत्र जायते । पीवरीस-
दृशः कन्दः क्षीरं स्रवति गन्धवान् । सा प्रोक्ता
क्षीरकाकोली काकोल्यपि तथा भवेत् । एषा किञ्चिद्-
भवेत् कृष्णा भेदोऽयमुभयोरपि । काकोली वायसोली च
वीरा कायस्थिका तथा । सा शुक्ला क्षीरकाकोली वयस्था
क्षीरवल्लिका । कथिता क्षीरिणी धारा क्षीरशुक्ला
पयस्विनी । काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु वृहणं
वातदाहास्रपित्तशोषज्वरापहम्” । “सोमामृताश्वगन्धासु
काकोल्यादौ गणे तथा । क्षीरिप्ररोहेष्वपि च वर्त्तयो-
रोपणाः स्मृताः” । “समङ्गा सोमसरला सोमवल्का
सचन्दना । काकोल्यादिश्च कल्कःस्यात् प्रशस्तोव्रणरोपणे” ।
“पृश्निपर्ण्यात्मगुप्ता च हरिद्रे मालती सिता । काको-
ल्यादिश्च योज्यःस्यात् प्रशस्तोरोपणे घृते” इति च सुश्रु० ।

काकोलूक न० काकश्च उलूकश्च शाश्वतिकविरोधित्वात्

समाहारद्वन्द्वः । काकोलूकसमाहारे ततः वैरे वुञ् । काको-
लूकिका तयोर्वैरे स्त्री । काकोलूकमधिकृत्य कृतोग्रन्थः
“द्वन्द्वाच्छः” पा० काकोलूकीय तयोराख्याने तच्च भा०
सौ० १ अ० स्थितं यथा-
“सुप्तेषु तेषु काकेषु विश्रब्धेषु समन्ततः । सोऽपश्यत्
सहसायान्तमूलूकं घोरदर्शनम् । महास्वनं महाकाय हर्य्यक्षं
वभ्रुपिङ्गलम् । सुदीर्घघोणानखरं सुपर्णमिव वेगितम् ।
सोऽथ शब्दं मृदुं कृत्वा र्लायमान इवाण्डजः । न्यग्रो-
धस्य ततः शाखां प्रार्थयामास भारत सन्निपत्ग तु
शाखायां न्यग्नोघस्य विहङ्गमः । सुप्तान् जघान
सुबहून् बायसान् वायमान्तकः । केषाञ्चिदच्छिनत् पक्षा-
ञ्छिरांसि च चकर्त्त ह । चरणांश्चैव केषाञ्चिद्बभञ्ज चर-
णायुधः । क्षणेनाहत्य बलवान् येऽस्य दृष्टिपथे स्थिताः ।
तेषां शरीरावयवैः शरीरैश्च विशाम्पते! । न्यग्रोधमण्डलं
सर्वं सञ्छन्नं सर्वतोऽभवत् । तांस्तु हत्वा ततः काकान्
कौशिकोमुदितोऽभवत् । प्रतिकृत्य यथाकामं शत्रूणां
शत्रुसूदन!” ।

काकोल्यादि पु० सुश्रुतोक्ते काकोलीप्रभृतौ ओषधिगणे

स च गणः “काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णी-
मासपर्णीभेदामहामेदाछिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्म-
कप्रपौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकञ्चेति”
“काकोल्यादिरयं पित्तशोणितानिलनाशनः जीवनो
वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा” ।

काकोष्ठक पु० काकस्योष्ठ इव कायति कै--क । सुश्रुतोक्ते

कर्ण्णबन्धाकृतिभेदे “तत्र समासेन पञ्चदश कर्ण्णबन्धाकृतयः”
इत्युपक्रमे । नेमिसन्धानक इत्यादिना “षष्टिकर्ण्णकाकोष्ठक”
इत्यन्तेन विभज्य “निर्माससंक्षिप्ताल्पशोणितपालिः
काकोष्ठकपालिरिति” सुश्रु० लक्षितम् ।

काक्ष काङ्क्षणे इदित् भ्वा० सक० सेट् । काड्क्षति

अकाङ्क्षीत् चकाङ्क्ष काङ्क्षा प्रनिकाङ्क्षति । “न शोचति
न काङ्क्षति” गीता “काङ्क्षन्नु गतिमुत्तमाम्” मनुः ।
अस्यात्मनेपदित्वमिच्छन्ति । “न काङ्क्षे विजयं कृष्ण!”
गीता “काङ्क्षावहे द्वारपतेस्तवाज्ञाम्” भा० व० १०६२३ ।
“नाहं भूयो वरं काङ्क्षे” भा० अनु० ७६९ भा० स० २१३५ ।
  • अनु + आनुलोम्येन प्रार्थने । “अतः प्रियंचेदनुकाङ्क्षसे त्वम्”
  • अभि + आभिमुख्येन प्रार्थने “अत्यर्थमभिकाङ्क्षामि मृगयां
सरयूवने” रामा० ।
  • आ + सम्यक्प्रार्थने रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः”
रामा० । “धीरेव कन्या पितुराचकाङ्क्ष” रघुः । “आका-
ङ्क्षेयं तनुगुरुतया नैव गन्तुं समर्था” पदाङ्कदूतम् ।
  • प्रति + आ प्रत्याशायाम । “इहैव फलमासीनः प्रत्याकाङ्क्षत
सर्वगम्” भा० शा० ४८७ ।
  • प्रति + प्रतिरूपतयाभिलाषे । “त्वामेघ प्रतिकाङ्क्षन्त पर्जन्यमिव
कर्षकाः” रामा० ।

काक्ष पु० कुत्सितमक्षमत्र “का प्रथ्यक्षया प्रा० कोः कादेशः ।

कटाक्षे त्रिका० । “आज्ञालाभोन्म खोदूरात् काक्षेणा-
नादरेक्षितः” भट्टिः ।

का(च्छी)क्षी स्त्री कक्षे(च्छे) भवः अण् ङीप् । १ तुवरिकायाम्

(अरहर) २ सौराष्ट्रतृत्तिकायाञ्च मेदि० । ३ कक्ष(च्छ)
भवमात्रे त्रि० ।
पृष्ठ १८५५

काक्षीव पु० ईषत् क्षीवयति क्षीव--णिच्--अच् कोः कादेशः ।

१ शोभाञ्जनवृक्ष अमरः २ गौतमात् शूद्रायामौशीनर्य्यां
जाते पुत्रप्नेदे । “शूद्रायां गौतमो यत्र महात्मा संशि-
तव्रतः । औशोनर्य्यामजनयत् काक्षीवाद्यान् मुतान् मुनिः”
भा० स० २० अ० मगधदेशवर्ण्णने । ण्वुल् । काक्षीवकोऽपि
शोभाञ्जनवृक्षे पु० शब्दच० ।

काक्षीवत् पु० दीर्घतमस ऋषेः शूद्रायामुत्पन्ने पुत्रभेदे तदुत्-

पत्तिकथा “गोतमादिभिः पुत्रैर्बद्ध्वा उडुपेन गङ्गा-
म्भसि निःक्षिपं दोर्घमसमुपक्रम्य” भा० आ० १०४ अ०
उक्ता यथा । तन्तु राजा बलिर्न्नाम सर्व्वधर्म्मविशारदः ।
अपश्यन्मज्जनगतः स्रोतसाभ्यासमागतम् । जग्राह चैनं
धर्म्मात्मा बलिः सत्यपराक्रमः । ज्ञात्वा चैनं स वव्रे-
ऽथ पुत्रार्थे भरतर्षभ! । सन्तानार्थं महाभाग! भार्य्यासु
मम मानद! । पुत्त्रान् धर्म्मार्थकुशलानुत्पादयितुमर्हसि ।
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स
राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा । अन्धं वृद्धञ्च
तं मत्वा न सा देवो जगाम ह । स्वान्तु धात्रेयिकां
तस्मै वृद्धाय प्राहिणोत्तदा । तस्यां काक्षीवदादीन् स
शूद्रयोनावृषिर्व्वशी । जनयामास धर्म्मात्मा पुत्त्रानेका-
दशैव तु । काक्षीवदादीन् पुत्रांस्तान् दृष्ट्वा मर्व्वानधीयतः ।
उवाच तमूषिं राजा ममेम इति भारत । नेत्युवाच
महर्षिस्तं ममेम इति चाब्रवीत् । शूद्रयोनौ मया हीमे
जाताः काक्षीवदादयः । अन्धं वृद्धञ्च मां दृष्ट्वा सुदेष्णा
महिषीतव । अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम” ।
३ चण्डकौशिकपितरि गौतमे मुनिभेदे । “अथ काक्षी-
वतः पुत्रं गौतमस्य महात्मनः । सुश्राव तपसि श्रान्त-
मुदारं चण्डकौशिकम्” भा० स० १६ अ० । “काक्षीवानौ-
शिजश्चैव नाचिकेतोऽथ गौतम” ४ अ० । अत्र पृथग्निर्द्दे-
शात् काक्षीवतोऽन्य एव गौतमः “ततो राजगृहं गच्छे-
त्तीर्थसेवी नराधिप । उपस्पृश्य ततस्तत्र काक्षोवानिव-
मोदते” भा० व० ८४ अ० । “काक्षोवान गौतमोऽआत्रश्च”
माग० २, ९, ५ । ४ राजभेदे च । “सुहोत्र रान्तदवञ्च
काक्षीवन्तं महाद्युतिम्” भा० आ० १ अ०
चतुर्विशतिविख्यातनृपकथंने ।

काक्षीवत पुं स्त्री कक्षावतीमुनेरपत्यम् अण् तस्येदसित्यण् वा

१ कलीवटपत्ये २ ततसम्बन्धिनि च स्त्रियां ङीप् । सा च
व्युषिताश्वस्य । भदाख्यायां भार्य्यायां तदितिवृत्त भा०
आ० १२१ अ० यथा-
“आसीत् काक्षीवती चास्य भार्य्या परमसम्मता । भद्रा
नाम मनुष्येन्द्र! रूपेणासदृशी भुवि । कामयामासतुस्तौ च
परस्परमिति श्रुतम् । स तस्यां कामसम्पन्नो यक्ष्मणा
समपद्यत । तेनाचिरेण कालेन जगामास्तमिवांशुमान् ।
तस्मिन् प्रेते मनुष्येन्द्रे भार्य्यास्य भृशदुखिता । अपुत्रा
पुरुषव्याघ्र! विललापेति नः श्रुतम् । भद्रा परमदुःखार्त्ता
तन्निबोध जनाधिप! । भद्रोवाच । नारी परमधर्म्मज्ञ!
सर्व्वा भर्त्तृविनाकृता । पतिं विना जीवति या न सा
जीवति दुःखिता । पतिं विना मृतं श्रेयो नार्य्याः
क्षत्रियपुङ्गव! । त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व
माम् । त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे ।
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् । पृष्ठतोऽनुग-
मिष्यामि समेषु, विषमेषु च । त्वामहं नरशार्द्दूल!
गच्छन्तमनिवर्त्तिनम् । छायेवानुगता राजन्! सततं
वशवर्त्तिनी । भविष्यामि नरव्याघ्र! नित्यं प्रियहिते रता ।
अद्यप्रभृति मां राजन्! कष्टा हृदयशोषणाः ।
आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण! । अभाग्यया मया
नूनं वियुक्ताः सहचारिणः । तेन मे विप्रयोगोऽय-
मुपपन्नस्त्वया सह । विप्रयुक्ता तु या पत्या मुहूर्त्तमपि
जीवति । दुःखं जीवति सा पापा नरकस्थेव पार्थिव! ।
संयुक्ता विप्रयुक्ताश्च पूर्व्वदेहे कृता मया । तदिदं
कर्म्मभिः पापैः पूर्व्वदेहेषु सञ्चितम् । दुःखं मामनु-
सम्प्राप्तं राजंस्त्वद्विप्रयोगजम् । अद्यप्रभृत्यहं राजन्!
कुशसंस्तरशायिनी । भविष्याम्यसुखाविष्टा त्वद्दर्शनपरा-
यणा । दर्शयस्व नरव्याघ्र! शाधि मामसुखान्विताम् ।
कृपणां नाथ! कृपणं विलतषन्तीं नरेश्वर! । कुन्त्युवाच ।
एवं बहुबिधं तस्यां विलपन्त्यां पुनः पुनः । त शवं
संपरिषूज्य वाक्किलान्तर्हिताऽब्रवीत् । उत्तिष्ठ भद्रे! गच्छ
त्वं ददानीह वरं तव । जनयिष्याम्यपत्यानि त्वय्यहं
चारुहासिनि! । आत्मकीये वरारोहे! शयनीये चतुर्द्द-
शीम् । अष्टमीं वाप्यृतौ स्नाता संविशेथा मया सह ।
एवमुक्ता तु सा देवो तथा चके पतिब्रता । वथोक्तमेव
तद्वाक्यं भद्रा पुत्रार्थिनी तदा । सा तेन सुषुवे देवी शवेन
भरतर्वभ । त्रीन् शालाश्चतुरो सद्रान सुतान् भरत
सत्तम!”
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कल्पक&oldid=57693" इत्यस्माद् प्रतिप्राप्तम्