वाचस्पत्यम्/कर्म्मरी

विकिस्रोतः तः
Jump to navigation Jump to search


पृष्ठ १७४२

कर्म्मरी स्त्री कर्म भैषज्योपयोगक्रियां राति--रा गौरा०

ङीष् । घंशरोचनायाम् राजनि० ।

कर्म्मवज्र पु० कर्म श्रौतकर्म वज्रमिव यस्य । १ शूद्रे तस्य श्रौत-

कर्मानधिकारेण तदाचरणस्य तं प्रति वज्रतुल्यहिंसा-
हेतुत्वात्तथात्वम् ।

कर्म्मवाटी स्त्री कर्मणां विहितकर्मणां चन्द्रकलाक्रियाणां वा

वाटीव । तिथौ हेमच० । तिथीनां सर्वकर्मनिमित्त-
त्वाच्चन्द्रकलाक्रियाक्रियारूपत्वाच्च तथात्वम् ।

कर्म्मविपाक पु० कर्मणोः पुण्यापुण्यकारणयोर्विपाकः विशे-

षेण पच्यमानः फलविशेषः । पात० सू० भाष्याद्युक्ते
जात्यायुर्भोगरूपे १ कर्मफले यथा च कर्मणां जात्यायु-
र्भोगात्मकोविपाकः तथा पात० सू० भा० विवरणेषु प्रपञ्चितं
यथा । “क्लेशमूलः कर्माशयोदृष्टादृष्टजन्मवेदनीयः” सू० ।
“तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रसवः स
दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च तत्र तीव्रसंवेगेन
मन्त्रतपःसमाधिभिर्निर्वर्त्तित ईश्वरदेवतामहर्षिमहानुभावा-
नामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते
पुण्यकर्माशय इति । तथा तीव्रक्लेशेन भीतव्याधितकृप-
णेषु विश्वासोपगतेषु वा महानुभावेषु कृतः पुनः पुनर-
पकारः, सचापि पापकर्माशयः सद्यएव परिपच्यते ।
यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन
परिणतः तथा नाहुषोऽपि देवानामिन्द्रः सन् खकं परिणामं
हित्वा तिर्य्यक्त्वेन परिणत इति । तत्र नारकाणां नास्ति
दृष्टजन्मवेदनीयः कर्माशयः क्षीणक्लेशानामपि नास्त्य-
दृष्टजन्मवेदनीयः कर्माशयः इति” भा० ।
“स्यादेतज्जात्यायुर्भोगहेतवः पुरुषं क्लिश्नन्तः क्लेशाः कर्मा-
शयश्च तथा, न त्वविद्यादयस्तत्कथमविद्यादयः क्लेशाः?
इत्यत आह । क्लेशमूलः कर्म्माशय इत्यादि । क्लेशोमूलं
यस्योत्पादे च कार्य्यकरणे च स तथोक्तः । एतदुक्तं
भवति--अविद्यादिमूलः कर्म्माशयी जात्यायुर्भोगहेतु-
रिति अविद्यादयोऽपि तद्धेतवोऽतः क्लेशा इति । व्याचष्टे
तत्रेति । आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयः
कर्मणामाशयः धर्माधर्मौ, कामात्काम्यकर्मप्रवृत्तौ स्वर्गादि-
हेतुर्धर्मो भवति एवं लोभात् परद्रव्यापहारप्रवृत्तौ
नरकहेतुरधर्मः मोहादधर्मे हिंसादौ धर्मबुद्धेः
प्रवर्त्तमानस्याधर्म एव नत्वस्ति मोहजीधर्स्मो, ऽस्ति तु
क्रोधजोधर्मः तद्यथा ध्रुवस्य जनकापमानजन्मनः
क्रोधात्तज्जिगीषयाहितेन कर्माशयेन पुण्येनान्तरीक्ष-
लोकवासिनामुपरिस्थानम्, अधर्मस्तु क्रोधजो ब्रह्मब-
धादिजन्मा प्रसिद्धएव भूतानाम् । तस्य द्वैविध्यमाह ।
स दृष्टजन्मेति तत्र दृष्टजन्मवेदनीयमाह । तीव्रसंवेगेनेति ।
यथासङ्ख्येन दृष्टान्तावाह । यथा नन्दीश्वर इति । तत्र
नारकाणामिति । येन कर्माशयेन कुम्भीपाकादयो
नरकभेदाः प्राप्यन्ते तत्कारिणो नारकास्तेषां नास्ति
दृष्टजन्मवेदनीयः कर्माशयो नहि मनुष्यशरीरेण तत्ष-
रिणामभेदेन वा सा तादृशी वत्सरसहस्रादिभिरुपभोग्या
वेदना सम्भवतीति शेषं सुगमम्” वि० ।
“सति मूले तद्विपाकोजात्यायुर्भोगाः” सू० ।
“सत्सुक्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्ले-
शमूलः । यथा तुषावनद्धाः शालितण्डुलाः अदग्ध-
बीजभावाः प्ररोहणसमर्था भवन्ति नापनीततुषा दग्धवीज
भावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति
नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशवीजभावोवेति । स
च विपाकस्त्रिविधो जातिरायुर्भोग इति तत्रेदं विचार्य्यते
किमेकं कर्म एकस्य जन्मनः कारणम् १ । अथैकं कर्मा-
नेकं जन्माक्षिपतीति २ । द्वितीया विचारणा--किमनेकं
कर्मानेकं जन्म निर्वर्त्तयति ३ । अथानेकं कर्मैकं जन्म निर्वर्त्त
यतीति ४ । न तावदेकं कर्मैकस्य जन्मनः कारणम् १ कस्मात्?
अनादिकालप्रचितस्यासङ्ख्येयस्यावशिष्टकर्मणः सांप्रतिकस्य
च फलक्रमानियमात् अनाश्वासो लोकस्य प्रसक्तः सचानिष्ट
इति । नचैकं कर्मानेकस्य जन्मनः कारणम् २ । कस्मात्?
अनेकेषु जन्मसु एकैकमेव कर्मानेकस्य जन्मनः कारणमित्य-
वशिष्टस्य विपाककालाभावः प्रसक्तः सचाप्यनिष्ट इति ।
नचानेकं कर्मानेकस्य जन्मनः कारणम् ३ । कस्मात्? अनेकं
जन्म युगपन्न सम्भवतीति क्रमेण वाच्यं तथाच पूर्व्वदोषा-
नुषङ्गः । तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माश-
यप्रचयो विचित्रःप्रधानोपसर्ज्जनभावेनावस्थितः प्रायणा-
भिव्यक्तः एकप्रघट्टके मिलित्वा मरणं प्रसाध्य संमूर्च्छित
एकमेव जन्म करोति ४ । तच्च जन्म तेनैव कर्मणा लब्ध-
युष्कं भवति तस्मिन्नायुषि तेनैव कर्मणा भोगः संपद्यते इति
असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयत
इति । अतएकभविकः कर्माशयौक्तैति । दृष्टजन्मवेदनीय-
स्त्वेकविपाकारम्भी भोगहेतुत्वात्, द्विविपाकारम्भी वायुर्भोग-
हेतुत्वात्--नन्दीश्वरवत् नहुषवद्वेति, क्लेशकर्मविपाकानुभव-
निर्मिताभिस्तु वासनाभिरनादिकालसंमूर्च्छितमिदं चित्तं
पृष्ठ १७४३
चित्रीकृतमिव सर्वतोमत्स्यजालग्रान्थाभरिवाततम् इत्येता
अनेकभवपूर्व्विका वासनाः । यस्त्वयं कर्माशय एष
एवैकभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनाः
ताश्चानादिकालीना इति यस्त्वसावेकभविकः कर्म्माशयः स
नियतविपाकश्चानियतविपाकश्च तत्र दृष्टजन्मवेदनीयस्य
नियतविपाकस्यैवायं नियमो नत्वदृष्टजन्मबेदनीयस्यानि-
यतविपाकस्य, कस्मात्? योह्यदृष्टजन्मवेदनोयोऽनियतविपा-
कस्तस्य त्रयी गतिः--कृतस्याविपक्वस्य नाशः १ प्रधानकर्म-
ण्यावापगमनं २ वा नियतविपाकप्रधानकर्मणास्याभिभूतस्य
वा चिरमवस्थानमिति ३ । तत्र कृतस्याविपक्वस्य नाशो १ यथा
शुक्लकर्मोदयादिहैव नाशः कृष्णस्य, यत्रेदमुक्तम् “द्वेद्वेह
वै कर्मणी वेदितव्ये पापकस्यैकोराशिः पुण्यकृतोऽपहन्ति
तदिच्छस्व कर्माणि सुकृतानि कर्त्तुमिहैव कर्म कवयो
वेदयन्ते” प्रधानकर्मण्यावापगमनं २ यत्रेदमुक्तम् “स्यात्
स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्शः कुशलस्य
नापकर्षायालम्” कस्मात्? कुशलं हि मे बह्वन्यदस्ति यत्राय-
मावापङ्गतः स्वर्गेष्वपकर्षमल्पं करिष्यतीति । नियतविपाक-
प्रधानकर्मणाभिभूतस्य वा चिरमवस्थानम् ३ कथमिति?
दृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं
मरणमभिव्यक्तिकारणमुक्तं न त्वदृष्टजन्मवेदनीयस्यानियत-
विपाकस्य, यत्त्वदृष्टजन्मवेदनीयं कर्म्मानियतविप्राकं तन्नश्येत्
आवापं वा गच्छेत् अभिभूतं वा चिरमप्युपासीत यावत्
समानं कर्म्माभिव्यञ्जकं निमित्तमस्य विपाकाभिमुखं
करोतीति तद्बिपाकस्यैव देशकालनिमित्तानवधारणादियं कर्म्म-
गतिश्चित्रा दुर्विज्ञाना चेति, नचोत्सर्गस्यापवादात् निवृत्ति
रित्येकभविकः कर्म्माशयोऽनुज्ञायतैति” भा० ।
“स्यादेतदविद्यासूलत्वे कर्माशयो विद्योत्पादे सत्य-
विद्याविनाशात् मा नाम तस्य कर्माशयान्तरं चैषोत्, प्राक्तन
कर्माशयानामनादिभवपरम्परासञ्चितानामसंख्यातानाम-
नियतविपाककालानां भोगेन क्षपयितुमशक्यत्वाद-
शक्योच्छेदः संसारः स्यादित्यत आह सतीति ।
एतदुक्तं भवति सुखदुःखफलो हि कर्माशयस्तादर्थ्येन
तन्नान्तरीयकतया जन्मायुषी अपि प्रसूते सुखदुःखे
च रागद्वेषानुषक्ते तदविनिर्भागवत्तिनी तदभावे न
भवतः, न चास्ति सम्भवी, न च तत्र यस्तुष्यति
वोद्विजते वा, न च तस्य सुखं दुःखं वेति । तदिय-
मात्मभूमिः क्लेशसलिलावसिक्ता कर्मफलप्रसवक्षत्र-
मित्यस्ति क्लेशाना फलोपजननेऽपि कर्माशयसहकारि-
तेति क्लेशसमुच्छेदे सहकारिवैकल्यात् सन्नप्यनन्तोऽ-
प्यनियतविपाककालोऽपि प्रसङ्ख्यानदग्धवीजभावो न
फलाय कल्पत इति । उक्तमर्थं भाष्यमेव द्योतयति
सत्खिति । अत्रैव दृष्टान्तमाह--यथा तुषेति । सतुषा
अपि दग्धवीजभावाः स्वेदादिभिः । दार्ष्टान्तिके
योजयति तथेति । ननु न क्लेशाः शक्या अपनेतुं, न हि
सतामपनय इत्यत आह न प्रसङ्ख्यानदग्धक्लेशवीजभाव
इति । विपाकस्य त्रैविध्यमाह स चेति । विपच्यते साध्यते
कर्मभिरिति विपाकः । कर्मैकत्वं ध्रुवं कृत्वा जन्मैकत्वा-
नेकत्वगोचरा प्रथमा विचारणा, द्वितीया तु कर्माने-
कत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा । तदेवं
चत्वारो विकल्पाः--तत्र प्रथमं विकल्पमपाकरोति--न
तावदेकं कर्मैकस्य जन्मनः कारणम् १ । पृच्छति कस्मा-
दिति । उत्तरम् अनादिकाले ऐकैकजन्मप्रचितस्य
अतएव असङ्ख्येयस्य एकैकजन्मक्षयितादेकैकस्मात् कर्मणोऽव-
विष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमादना-
श्वासो तोकस्य प्रसक्तः सचानिष्ट इति । एतदुक्तं
भवति कर्मक्षयस्य विरलत्वात् तदुत्पत्तिवाहुल्याच्चान्योन्य-
संपीडिताश्च कर्माशया निरन्तरोत्पत्तयो निरुच्छ्वासाः
स्वविपाकं प्रतीति न फलक्रमः शक्योऽवधारयितुं
प्रेक्षावतेत्यनाश्वासो पुण्यानुष्ठानं प्रति प्रसक्त इति ।
द्वितीयं विकल्पं निराकरोति न च एकं कर्मानेकस्य
जन्मनः कारणम् २ । पृच्छति कस्मादिति । उत्तरम्
अनेकस्मिन् जन्मन्याहितमेकमेव कर्मानेकस्य जन्मलक्षणस्य
विपाकस्य निमित्तमित्यवशिष्टस्य विपाककालाभावः
प्रसक्तः स चाप्यनिष्ट इति कर्मवैफल्येन तदनुष्ठाना-
प्रसङ्गात् । यदैकजन्मसमुच्छेद्ये कर्मण्येकम्मिन् फलक्र-
मानियमादनाश्वासस्तदा कैव कथा बहुजन्मसमुच्छेद्ये
कर्मण्येकस्मिन्? तत्र ह्यवसराभावात् विपाककाला-
भावएव साम्प्रतिकस्येति भावः । तृतीयं विकल्पं
निराकरोति--नचानेकं कर्मानेकस्य जन्मनः कारणम् ३ ।
अत्र हेतुमाह तदनेकं जन्म युगपन्न सम्भवत्ययो-
गिन इति क्रंमेण वाच्यं यदि हि कर्मसहस्रं
युगपज्जन्मसहस्रं प्रसुवीत तत एव कर्मसहस्रपृक्षयाद-
वशिष्टस्य विपाककालः फलक्रमे नियमश्च न स्यातां
नत्वस्ति जन्मनां यौगपद्यम्, एवमेव प्रथमपक्ष एवोक्तं
दूषणमित्यर्थः । तदेवं पक्षत्रये निराकृते पारिशेष्यादनेकं
कर्मैकस्य जन्मनः कारणमिति ४ पक्षोऽवशिष्यते तस्माज्ज-
पृष्ठ १७४४
न्मेति जन्म च प्रायणञ्च जन्मप्रायणे तयोरन्तरं मध्यं
तस्मिन् विचित्रः सुखदुखफलोपहारेण विचित्रः
यदत्यन्तसुद्भूतमनन्तरमेव फलं दास्यति तत् प्रधानं यत्तु
किञ्चिद्विलम्बेन, तदुपसर्ज्जनं, प्रायणं मरणं, तेनाभि
व्यक्तः स्वकार्य्यारम्भणाभिमुख्यमुपनीतः एकप्रघट्टके
युगपत्, संमूर्च्छितः जन्मादिलक्षणे कार्य्ये कर्त्तव्ये
एकलोलीभावमापन्नः एकमेव जन्म करोति नानेकं
तच्च जन्म मनुष्यादिभावः । तेनैव कर्मणा लब्धायुष्कं
कालभेद त्रियतजीवनञ्च भवति तस्मिन्नायुषि तेनैव कर्म-
णा मोगः सुखदुःखसाक्षात्कारः स्वसन्धन्धितया सम्पा-
द्यत इति । तस्मादमौ कर्माशयो जात्यायुर्भीगहेतुत्वात्
त्रिविपाकोऽभिधाथते । औत्सर्गिकमुपसहरति--अत
एकभविकः कर्माशय उक्त इति । एकोभवः एकभवः
पूर्वकालेत्यादिना समासः, एकभवोऽस्यास्तीति मर्त्वथीय
ष्ठन् । क्वचित्पाठः ऐकभविक इति तत्रैकभवशब्दात्
भवार्थे ठक्प्रत्ययः एकजन्मावच्छिन्नमस्य भवनमित्यर्थः,
तदेवमौत्सर्गिकैकभविकस्य त्रिविपाकत्वमुक्त्वा दृष्टजन्म-
वेदनीयस्यैहिकस्य कर्मणस्त्रिविपाकत्वं व्यवच्छिनत्ति-
दृष्टेति । नन्दीश्वरस्य खल्वष्टवर्षावच्छिन्नायुषो मनुष्य-
जन्मनस्तीव्रसंवेगेनाधिमात्रोपायजन्मा पुण्यभेद आयुर्भो-
गहेतुत्वात् द्विविपाकः, नहुषस्य तु पार्ष्णिप्रहार
विरोधिनागसा स्वेन्द्रपदप्राप्तिहेतुनैव कर्मणा आयुषो
विहितत्वादपुण्यभेदोभोगमात्रहेतुः । ननु यथैकभविकः
कर्माशयस्तथा किं क्लेशवासना भोगानुकूलाश्च कर्म-
विपाकानुभववासनाः? तथा च मनुष्यस्तिर्य्यग्योनिमापन्नो
न तत्तज्जातीयोचितं भुञ्जीतेत्यत आह--क्लेशेति ।
संमूर्च्छितमेकलोलीभावगापन्नम् । धर्माधर्माभ्यां व्यवच्छेत्तुं
बासनायाः स्वरूपमाह ये संस्कारा इति । औत्स-
र्गिकमेकभविकत्वम्, क्वचिदपवदितुं भूमिकामारचयति-
यस्त्वसाविति । तुशब्देन वासनातो व्यवच्छिनत्ति । दृष्ट-
जन्मवेदनीयस्य, नियतविपाकस्यैवायमेकभविकत्वनि-
यमः न त्वदृष्टजन्मवेदनीयस्य, किंभूतस्यानियतविपा-
कस्येति । हेतुं पृच्छति कस्मादिति । हेतुमाह
योहीति । एकान्तावद्गतिमाह कृतस्येति । द्वितीयामाह
प्रधानेति । तृतीयामाह नियतेति । तत्र प्रथमां
विभजते तत्र कृतस्येति । संन्यासिकर्मभ्योऽशुक्लाकृष्णोभ्यो-
ऽन्यानि त्रीण्येव कर्माणि कृष्ण १ । शुक्ल २ । कृष्णशुक्लानि ३ ।
तदिह तपःस्वाध्यायादिसाध्यः शुक्लकर्माशय उदित
एवादत्तफलस्य कृष्णस्य नाशकः, अविशघाच्च शवल
स्यापि कृष्णभागयोगादिति मन्तव्यं, तत्रैव भगवान्
आम्नायसुदाहरति यत्रेदमिति--द्वेद्वे ह वै कर्मणी
कृष्णकृष्णशुक्ले अपहन्तीति सम्बन्धः वीप्सया भूयिष्ठता
सूचिता । कस्येत्यतआह पापकस्य पुंसः कोऽसावपह-
न्तीत्यतआह एकोराशिः पुण्यकृतः समूहस्य समूहिसाध्य-
त्वात्, तदनेन शुक्लकर्म्माशयस्तृतीय उक्तः । एतदुक्तं भवति
ईदृशो नाभायं परपीड़ादिरहितसाधनसाध्यः शुक्लकर्मा-
शयः यदेकोऽपि सन् कृष्णान् कृष्णशुक्लांश्चात्यन्तविरोधिनः
कर्म्माशयान् भूयसोऽप्यपहन्ति । तत् तस्मादिच्छस्वेति छान्द-
सत्वादात्मनेपदम् । शेषं सुगमम् । अत्र च शुक्लकर्म्मोदयस्यैव
स कोऽपि महिमा यत इतरेषामभावः, न तु स्वाध्यायादि-
जन्मनो दुःखात्मनो विरोध्यधर्म्मः अपि तु स्वकार्यदुःख-
विरोधी, न च स्वध्यायादिजन्म दुःखं तस्य कार्य्यं,
तत्कार्य्यत्वे स्वाध्यायादिविधानानर्थक्यात्तद्बलादेव तदुत्पत्तेः
अनुत्पत्तौ वा कुम्भीपाकाद्यपि विधीयेत अविधाने
तदनुत्पत्तेरिति सर्व्वं चतुरस्रम् । द्वितीयां गतिं विभजते
प्रधाने कर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेरा-
वापगमनं द्वे खलु हिंसादेः कार्य्येप्रधानाङ्गत्वेन विधाना-
त्तदुपकारः, “माहिंस्यात् सर्व्वाभूतानीति” हिंसाया निषि-
द्धत्वादनथश्च, तत्र प्रधानाङ्गत्वेनानुष्ठानादप्रधानतवेत्यतो
न द्रागित्येव प्रधानमिरप्रेक्षा सती स्वफलमनर्थं प्रसोतुम-
र्हति किन्त्वारब्धविपाके प्रधाने साहायकमाचरन्ती व्यव-
तिष्ठते प्रधानसाहायकमाचरन्त्याश्च स्वकार्य्ये वीजमात्रत-
यावस्थानं प्रधाने कर्म्मण्यावापगमनं, यत्रेदमुक्तम् पञ्च-
शिखेन स्वल्पः सङ्करोज्योतिष्टोमादिजन्मनः प्रधानापूर्व्वस्य
पशुहिंसादिजन्मनानर्थहेतुनाऽपूर्वेण, सपरिहारः शक्योहि
प्रायश्चित्तेन परिहर्त्तुम्, अथ प्रमादतः प्रायश्चित्तमपि
नाचरितं प्रधानकर्मविपाकसमये च विपच्येत तथापि
यावन्तमसाबनर्थं प्रसूते तावत् सप्रत्यवमर्षः--मृष्यन्ते हि
पुण्यसम्भारोपनोतसुखसुधामहाह्रदावगाहिनः कुशलाः
पापमात्रोपपादितां दुःखवह्निकणिकाम्, अतः कुशलस्य
महतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्य्याप्तः । पृच्छति
कस्मात्? उत्तरं कुशलं हि मे बह्वन्यदस्ति प्रधानकर्म-
तया व्यवस्थितं दीक्षणीयादिदक्षिणान्तं यत्रायं सङ्करः
स्वल्पः स्वर्गेऽप्यस्य फले सङ्कीर्णपुण्यलब्धजन्मनः स्वर्गात्
सर्ब्बथा दुःखेनापरामृष्टादपकर्षमल्पमल्पदुःखसम्भेदं
करिष्यतीति । तृतीयां गतिं विभजते नियतेति । बली-
पृष्ठ १७४५
यस्त्व नेह प्राधान्यमभिमत नत्वङ्गितया बलीयस्त्वञ्च नियत
विपाकत्वेनान्यदानवकाशत्वात्, अनियतविपाकस्य तु दुर्ब-
लत्वमन्यदा सावकाशत्वात्, चिरमवस्थानं वीजभावमात्रेण,
न पुनः प्रधानोपकारितया, तस्य स्वतन्त्रत्वात् । ननु प्राय-
णेनैकदैव कर्माशयोऽभिव्यज्यत इत्युक्तमिदानीञ्च चिराव-
स्थानमुच्यते, तत् कथं? वरं पूर्व्वेण न विरुध्यत इत्याश-
यवान् पृच्छति कथमिति । उत्तरम् अदृष्टेति । जात्य-
भिप्रायमेकवचनम् । तदितरस्य गातमुकामवधारयति
यत्त्वदृष्टेति । शेषं सुगमम्” विवे० ।
“ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्” सू० ।
“ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफलाः, अपुण्यहेतुकाः
दुःखफला इति यथाचेदं दु खं प्रतिकूलात्मकम् एवं विषय-
सुखकालेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः” भा० ।
“उक्तम् क्लेशमूलत्वं कर्मणः, कर्ममूलत्वञ्च विपाकानाम् ।
अथ विपाकाः कस्य मूलम्? येनामी त्यक्तव्या इत्याह ते
इत्यादि । व्याचष्टे--ते जन्मायुर्भोगा इति । यद्यपि
जन्मायुषोरेव ह्लादपरितापपूर्व्वभावितया तत्फलत्वं
न तु भोगस्य ह्लादपरितापोदयानन्तरभाविनस्तदनुभवा-
त्मनः, तथाप्यनुभाव्यतया भोग्यतया भोगफलत्वमिति मन्त-
व्यम् । नन्वपुण्यहेतुका जात्यायुर्भोगाः परितापफला भवन्तु
हेयाः प्रतिकूलवेदनीयत्वात्, कस्मात् पुनः पुण्यहेतुकास्त्य-
ज्यन्ते सुखफला? अनुकूलबेदनीयत्वात् । नचैषां प्रत्या-
त्मवेदनीयानुकूलता शक्या सहस्रेणाप्यनुमानागमेरपा-
कर्त्तुम्, न च ह्लादपरितापौ परस्पराविनाभूतो यतोह्लादे
उपादीयमाने परितापोऽप्यवर्जनीयतयाऽऽपतेत् तयोर्भिन्न-
हेतुकत्वात् रूपत्वात् इत्यत आह--यथा चेदमिति” विवरणम्
मरणस्य यथा सर्व्वकर्म्मानभिव्यञ्जकत्व तथा शा० भा०
“अपि च प्रायणमनारब्धफलस्य कर्म्मणोऽभिव्यञ्जकं
प्राक् प्रायणादारब्धफलेन कर्म्मणा प्रतिबद्धस्य
अभिव्यक्त्यनुपपत्तेः । तच्चाविशेषाद्यावत् किञ्चिदनारब्धफलं
तस्य सर्व्वस्याभिव्यञ्जकम्, न हि साधारणे निमित्ते
नैमित्तिकमसाधारण भवितुमर्हति, नह्यविशिष्टे प्रदीप-
सन्निधौ घटोऽभिव्यज्यते न पट इत्युपपद्यत इत्या
शङ्क्य निराकृतं यथा-
“अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽ-
भिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् । आरब्धफलेन
कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेतदुपशमात्
प्रायणकाले वृत्त्युद्भवो भवतीति यदुच्यत ततो वक्तव्यं
यथैव हि प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्ये-
तरस्य वृत्त्युद्भवानुपपत्तिरेवं प्रायणकालेऽपि विरुद्धफलस्या-
नेकस्य कर्मणोयुगपत्फलारम्भासम्भवाद्बलवता प्रतिबद्धस्य
दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति । नह्यनारब्धफलत्व-
सामान्ये जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन् प्रायणे
युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुम्,
प्रतिनियतफलत्वविरोधात् । नापि कस्यचित् कर्मणः
प्रायणे अभिव्यक्तिः कस्यचिदुच्छेद इति शक्यं वक्तुम्,
ऐकान्तिकफलत्वविरोधात् । न हि प्रायश्चित्तादिभिर्द्देतुभि-
र्विना कर्मणामुच्छेदः सम्भाव्यते । स्मृतिरपि विरुद्ध-
फलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमप्यवस्थानं
दर्शयति । “कदाचित् सुकृतं कर्म कूटस्थमिह तिष्ठति ।
पच्यमानस्य संसारे यावद्दुःखाद्विमुच्यते” इत्येवंजाती-
यका । यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन् प्रायणे-
ऽभिव्यक्तं सदेकां जातिमारभेत, ततः स्वर्गनरकतिर्य्यग्-
योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ता-
भावान्नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां चैकैकस्य
कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्य्यमाणमुपरुध्येत । न च
धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादति-
रिक्तं कारणं शक्यं सम्भावयितुम् । न च दृष्टफलस्य
कर्मणः कारीर्य्यादेः प्रायणमभिव्यञ्जकं सम्भवतीत्य-
व्यापिकापोयं प्रायणस्याभिव्यञ्जकत्वकल्पना । प्रदीपोप-
न्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः । स्थूल-
सूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यम् । यथा हि--प्रदीप
समानेऽपि सन्निधाने स्थूलरूपमभिव्यनक्ति न सूक्ष्मम् एवं
प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्ये
बलवतः कर्मणोवृत्तिमुद्भावयति न दुर्बलस्योतः । तस्मात्
श्रुतिस्मृतिन्यायविरोधाढश्लिष्टोयमशेषकर्माभिव्यक्तेरभ्युप-
गमः । शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्याने
संभ्रमः सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः” ।
एवं शुभाशुभकर्भविपाक सामान्यतो निरूपितः ।
इदानीमशुभकर्मविपाकोविशेषतो निरूप्यते स चाधर्म-
शब्दे १२२० पृ० उक्तोऽपि प्रपञ्चार्थमिहोच्यते-
पुराणसर्वस्वे विष्णु पु० २ अ ६ अ० पराशरमैत्रेयसंवादे ।
“पराशर उवाच । ततश्च नरकान् विप्र! भुवोऽधःसलि-
लस्य च । पापिनी येषु पात्यन्ते तान् शृणुष्व समाहितः ।
रौरवश्चैव वेधश्च शूकरोविशसस्तथा । सहाज्वाल-
स्तप्तकुम्भः शवलोऽथ विमोहनः । रुधिरान्धो वैतरणी
पृष्ठ १७४६
कृमिशः कृमिभोजनः । असिपत्रवनं कृष्णोलाला-
भक्ष्यश्च दारुणः । तथा पूयवहः पापोवह्निज्वालोह्यधः-
शिराः । सन्दंशः कालसूत्रञ्च तमश्चावीचिरेव च ।
श्वभोजनोऽथाप्रतिष्ठो ह्यवीचिश्च तथापरः । इत्याद्या
यातना विप्र! घातका भृशदारुणाः । यमस्य विषये
घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्म-
रताश्च ये । कूटसाक्ष्यं तथा सम्यक्पक्षपातेन योवदेत् ।
यश्चान्यदनृतं वक्ति स नरोयाति रौरवम् । भ्रूणहा गुरु-
हन्ता च मित्रहा मुनिसत्तम! । यान्ति ते रौरवं वेधं
यश्चोच्छ्वासनिरोधकः । सुरापोभ्रूणहा हर्त्ता सुवर्णानाञ्च
शूकरे । प्रयान्ति नरके यश्चतैः संसर्गमुपैति वै । राजन्य
वैश्यहा ज्व ले तथैव गुरुतल्पगः । तप्तकुम्भे स्वसृगामी
हन्ति राजभटांश्चयः । माध्वीविक्रयकृद्बध्य(हत्वा)प्राणिनं
केशविक्रयी । तप्तलोहे पत्यन्त्येते यश्च भक्तं परित्यजेत् ।
स्नुषां सुताञ्चाभिगामी महाज्वाले निपात्यते । अवमन्ता
गुरूणां योयश्चाक्रोष्टा नराधमः । वेददूषयिता यश्च वेद
विक्रयिकश्चयः । अगम्यागामी यश्च स्यात्तेयान्ति शवल द्विज ।
चौरोविमोहे पतति मर्य्यादादूषकस्तथा । देवद्विजपितृ-
द्वेष्टा रत्नदूषयिता च यः । स याति कृमिभक्ष्येवै कृमिशे
च त्वरिष्टकृत् । पितृदेवान् सुरान् यस्तु पर्य्यश्नाति
नराधमः । लालाभक्ष्ये पतत्युग्रे शरकर्त्ता च वेधके ।
करोति कर्णिनोयश्च यश्च खड्गादिकृन्नरः । प्रयान्त्येते
विशसने नरके भृशदारुणे । असत्प्रतिग्रहीता तु
नरकं यात्यधोमुखम् । अयाज्ययाजकस्तद्वत्तथा नक्षत्र
सूचकः । क्रूरः पूयवहञ्चैको याति मिष्टान्नभुङ्नरः ।
लाक्षामांसरसानाञ्च तिलानां लवणस्य च । विक्रेता
ब्राह्मणो याति तमेव नरकं द्विज! । मार्जारकुक्कुटच्छाग-
श्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विज-
सत्तम! । रङ्गोपजीवी कैवर्त्तकुण्डाशी गरदस्तथा ।
मूचीमारीषकश्चैव पर्व्वगामी च योद्विज! । अगारद ही
मित्रघ्नः शाकुनिर्ग्रामयाजकः । रुधिरान्धे पतन्त्येते सोमं
विक्रीणते च ये । मधुहारी ग्रामहन्ता याति वैतरणों
नरः । रेतःपानादिकर्त्तारोमर्य्यादाभेदिनोहिये । ते
कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये । असिपत्रवनं
याति वनच्छेदी वृथैव यः । औरष्ट्रिको मृगव्याधो
तह्निज्वाले पतन्ति वे । पात्यते द्विज! तत्रैव यश्चागारेषु
बह्निदः । व्रतेषु लोपकीयश्च स्वाश्रमाद्विच्युतश्च यः ।
सन्दंशयातानासध्ये पततस्तावुभावपि । दिवास्वप्ने रेतः
स्कन्दा ये नरा ब्रह्मवादिनः । पुत्रैरध्यापिता ये च ते पतन्ति
श्वभे जने । एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।
ये च दुषकृतकर्माणः पच्यन्ते यातनागताः । यथैव पापा-
न्येतानि तथान्यानि सहस्रशः । भुज्यन्ते यानि पुरुषै-
र्नरकान्तरगोचरैः । वर्ण्णाश्रमविरुद्धञ्च कर्म कुर्व्वन्ति ये
नराः । कर्मणा मनसा वाचा, निरयेषु पतन्ति ते ।
अधःशिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः । देवाश्चाधीमुखान्
सर्व्वानधः पश्यन्ति नारकान् । स्थावराः कृमयोऽब्जाश्च
पक्षिणः पशवोनराः । धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च
यथाक्रमम् । सहस्रभागः प्रथमो द्वितीयोऽनुक्रमात्ततः ।
सर्व्वेष्वेते महाभागा यावन्मुक्तिसमाश्रयाः । यावन्तो
जन्तवः सर्वेतावन्तो नरकौकसः । पापकृद् याति नरकं
प्रायश्चित्तपराङ्मुखः” । विशेषशुभाशुभकर्मविपाकाः
तत्रैव शिवधर्मोत्तरे स्कन्दोक्ताः “अथ पापैरिमे यान्ति
यमलोकं चतुर्विधैः । सन्त्रासजननं घारं विविधाः सर्व्व
देहिनः । गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।
पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं सर्व्वदेहिभिः । शुभाशुभ-
फलं तत्र देहिनां प्रविचार्य्यते । चित्रगुप्तादिभिः
सभ्यैर्मध्यस्थैः समदर्शिभिः । न तेऽत्र प्राणिनः सन्ति
ये न यान्ति यमक्षयम् । अवश्यं हि कृतं कर्म भोक्तव्य
यद् विचारितम् । तत्र ये शुभकर्माणः सौम्यचित्ता
दयान्विताः । ते नरा यान्ति सौम्येन पथा यान्ति यमाल-
यम् । यः प्रदद्याद्द्विजेन्द्राणामुपानत्काष्ठपादुके । स
वराश्वेन महता सुखं याति यमालयम् । छत्रदानेन
गच्छन्ति पथा शुभ्रेण देहिनः । दिव्यवस्त्रपरीधाना यान्ति
वस्त्रप्रदायिनः । शिविकायाः प्रदानेन सद्रथेन सुखं व्रजेत् ।
शय्यासनप्रदानेन स्वपन् याति यमाश्रयम् । आरामकर्त्ता
छायासु शीतलासु सुखं व्रजेत् । यान्ति पुष्कर-
यानेन पुष्करारामदायिनः । देवायतनकर्त्ता च
यतीनामाश्रमस्य च । अनाथपान्थकानाञ्च क्रीड़न् यात्रि
रथोत्तमैः । देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ।
पूज्यमाना नरा यान्ति कामिकेन यथासुखम् । द्योत-
यन्तो दिशः सर्वा यान्ति दीपपदायकाः । प्रतिश्रयप्रदा-
नेन सुखं याति गृहे स्वपन् । सर्वंकामसमृद्धेन
पथागच्छन्ति गोप्रदाः । येऽन्नदानानि कुर्व्वन्ति ते तृप्ता
यान्ति सत्पथा । आर्त्तौषधप्रदातारः सुखं यान्ति
निरामयाः । विश्राम्यमाणा गच्छन्ति गुरुशुश्रू-
षणेरताः । पादशौचप्रदानेन शीतलेन पथा व्रजेत् ।
पृष्ठ १७४७
पादाभ्यङ्गञ्च यः कुर्य्यादश्वपृष्ठेन स व्रजेत् । हेमरत्न-
प्रदानेन याति दुर्गादि निस्तरन् । वरानडुत्प्रदानेन
वरयानेन गच्छति । अन्नपानप्रदानेन पिबन् खादंश्च
गच्छति । इत्येवमादिभिर्दानैः सुखं यान्ति यमालयम् ।
स्वर्गेऽपि विपुलान् भोगान् प्राप्नोति विविधान्नरः ।
सर्वेषामेव दानानामन्नदानं परं स्मृतम् । सद्यः प्रीति-
करं दिव्यं बलबुद्धिविवर्द्धनम् । नान्नदानसमं दानं
त्रिषु लोकेषु विद्यते । अन्नाद्भवन्ति भूतानि तदभावे
म्रियन्तिच । रक्तं मांसं वसा शुक्रं क्रमादन्नात् प्रवर्त्तते ।
शुक्राद्भवन्ति भूतानि तस्मादन्नमयं जगत् । हेमरत्नाश्व-
नागेन्द्रनारीस्रक्चन्दनादिभिः । समस्तैरपि संप्राप्तैर्न रमन्ते
बुभुक्षिताः । गर्भस्था जायमानाश्च बालावृद्धाश्च मध्यमाः ।
आहारमभिकाङ्क्षन्ति देवदानवतापसाः । क्षुधा हि
सर्व्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः । तस्मादोषधिलेपेन
(आहारेण) प्रतीकारः प्रकीर्त्तितः । नास्ति क्षुधा
समं दुखं नास्ति रोगः क्षुधा समः । नास्त्याहारसमं
सौख्यं नास्ति क्रोधसमो रिपुः । अतएव महापुण्य-
मन्नदानं प्रधानतः । यतः क्षुधाग्निसन्तप्ता म्रियन्ते
सर्वदेहिनः । अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ।
तस्मादन्नप्रदानेन सर्वदानफलं लभेत् । त्रैलोक्ये
यानि रत्नानि भोगस्त्रीवाहनानि च । अन्नपानप्रदः
सर्वमिहामूत्र च तल्लभेत् । यस्यान्नपानपुष्टाङ्गः कुरुते
पुण्यसञ्चयम् । अन्नप्रदातुस्तत्रार्द्ध्वं कर्त्तुश्चार्द्धं न
संशयः । धर्मार्थकाममोक्षाणां देहः परमसाधनम् ।
स्थितिस्तस्यान्नपानाभ्यामतस्तत् सर्वसाधनम् । अन्नं प्रजा
पतिः साक्षादन्नं विष्णुः शिवः स्वयम् । तस्मादन्नसमं दानं
न भूतं न भविष्यति । त्रयाणामपि लोकानामुदकं जीवनं
स्मृतम् । पवित्रममृतं दिव्य शुद्धं सर्वरसाश्रयम् । अन्न-
पानाश्वगोवस्त्रभूशय्याच्छत्रमासनम् । प्रेतलोके प्रश-
स्तानि दानान्यष्टौ विशेषतः । एवं दानविशेषेण धर्मरा-
जपुरं नराः । यस्माद्यान्ति सुखेनैव तस्माद्दानं समाचरेत् ।
ये पुनः क्रूरकर्माणः पापा दानविवर्जिताः । ते घोरेण
पथा यान्ति दक्षिणेन यमालयम् । षडशीतिसहस्राणि
योजनानामतीत्य वै । वैवस्वतपुरं ज्ञेयं नानारूपव्यव-
स्थितम् । समीपस्थमिवाभाति नराणां शुभकर्मणाम् ।
पापानामतिदूरस्थं पथा रौद्रेण गच्छताम् । तीव्रक-
ण्टकयुक्तेन शर्करालिचितेन च । क्षुरधारानिभैस्ती-
व्रैः पाषाणैर्निचितैस्तथा । क्वचित् पङ्केन महता सुदु-
स्तारैश्च खातकैः । क्वचित् सूचीनिभैर्दन्तैः संछन्नेन पथा
क्वचित् । तटप्रपातविषमैः पर्वतैर्वृक्षसङ्कुलैः । प्रत-
प्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः । क्वचिद्विषमगर्त्तैश्च
क्वचिल्लोष्ट्रैः सुपिच्छलैः । प्रतप्तबालुकाभिश्च तथा
तीक्ष्णैश्च शङ्कुभिः । अनेकशाखाविततैर्व्याप्तं वंशवनै
क्वचित् । कष्टेन तमसा मार्गमनालम्बन कुत्रचित् ।
अयःशृङ्गाटकैस्तप्तैः क्वचिद्दावाग्निन पुनः । क्वचित्तप्तशि-
लाभिश्च क्वचिद्व्याप्तं हिमेन च । क्वचिद्बालुकया व्याप्त
माकण्ठान्तप्रबेशया । क्वचिदुष्णाम्बुना व्याप्तं क्वचिच्च
करीषाग्निना । क्वचित् सिंहैर्वृकैर्व्याप्तं दंशैः कीटैश्च
दारुणैः । क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैः पुनः ।
मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पविषोल्वणैः । मत्तमा-
तङ्गयूथैश्च बलोन्मत्तैः प्रमाथिभिः । पन्थानमुल्लिख-
द्भिश्च तीक्ष्णशृङ्गैर्महावृषैः । महाविषाणैर्महिषैरु-
ष्ट्रैर्मत्तैश्च रोहकैः । डाकिनीभिश्च रौद्राभिर्विकरालैश्च
राक्षसैः । व्याधिभिश्च महाघोरैः पीड्यमाना व्रजन्ति ते ।
महाधूलिविमिश्रेण महाचण्डेन वायुना । महापाषाण-
वर्षेण हन्यमाना निराश्रयाः । क्वचिद्विद्युत्प्रपातेन
दार्य्यमाणा व्रजन्ति च । महाटङ्कौघवर्षेण भिद्यमानाश्च
सर्वतः । पतद्भिर्वज्रसंघातैरुल्कापातैश्च दारुणैः । प्रतप्ता-
ङ्गारवर्षेण दह्यमानारुदन्ति च । महता पांशुवर्षेण पूर्य्य-
माणा रुदन्ति हि । बहुमेघरवैर्घोरैर्वित्रास्यन्ते सुहु-
र्मुहुः । निशितायुधवर्षेण चूर्ण्यमानाश्च सर्वतः ।
महाक्षाराम्बुधाराभिः सिच्यमाना द्रवन्ति च । महाशीतेन
मरुता रूक्षेण परुषेण च । समन्ताद्धूयमानास्ते शुष्यन्ते
सङ्कुचन्ति च । इत्थं रौद्रेण मार्गेण पाथेयरहितेन
च । निरालम्बेन दुर्गेण निर्जनेन समन्ततः । अविश्रामेण
महता निर्गतापाश्रयेण च । तमोरूपेण कष्टेन सर्वदुः-
खाश्रयेण च । नीयन्ते देहिनः सर्वे ये मूढाः पापका-
रिणः । यमदूतैर्महाघोरैस्तदङ्गोत्कारिभिर्बलात् ।
एकाकिनः पराधीना मित्रबन्धु विवर्जिताः । शोचन्तः स्वानि
कर्माणि रुदन्तस्ते मुहुर्मुहुः । प्रेतीभूता विवस्त्राश्च
शुष्ककण्ठौष्ठतालुकाः । कृशाङ्गाभीतभीताश्च दह्यमाना
क्षुधाग्निना । बद्धाः शृङ्खलया केचिदुत्तानाः पादयो-
र्नराः । आकृष्यन्ते घृष्यमाणा यमदूतैर्बलोत्कटैः । उरमा-
ऽधोमुस्वाश्चान्ये कृष्यमाणाः सुदुःखिताः । केशपाशनिब-
द्धाश्च समाकृष्यन्ति रज्जुना । ललाटे चासिना चान्ये
भिन्नाः कृष्यन्ति देहिनः । उत्तानाः कण्टकपथा क्वचिद-
पृष्ठ १७४८
ङ्गारवर्त्मना । पश्चाद्बाहूरुबद्धाश्च जठरे च प्रपोडिताः ।
पूरिताः शृङ्खलाभिश्च हस्तयोश्चापि कीलिताः । ग्रीवापा-
शेन कृष्यन्तः प्रयान्त्यन्ये सुदुःखिताः । जिह्वाशङ्कु
प्रबद्धेनाकृष्य नीयन्ति रज्जुना । कृकाट्यामर्द्धचन्द्रेण
क्षिप्यमाणा यतस्ततः । शिश्ने सवृषणे बद्ध्वा नीयन्ते-
ऽन्ये च रज्जुना । नासापबद्धरज्वा च समाकृष्यन्ति
चापरे । भिन्नाः कपोलयोरज्वाकृष्यन्ते ते तथौष्ठ-
योः । विभिन्नाश्चोदरे चान्ये तप्तशृङ्खलया नराः ।
क्लिश्यन्ते कर्ण्णयोश्चान्ये भिन्नाश्च चिकुरे परे । छिन्नाग्र-
पादहस्ताश्च छिन्नकर्ण्णौष्ठनासिका । संछिन्नशिश्नवृषणाश्छि-
न्नभिन्नाङ्गसन्धयः । प्रतुद्यमानाः कुन्तैश्च भिद्यमानाश्च
सायकैः । इतस्ततः प्रधावन्ति क्रन्दमाना निराश्रयाः ।
मुद्गरैलौहदण्डैश्च हन्यमाना मुहुर्मुहुः । कर्षैश्च विविधै-
र्घोरै र्ज्वलिताग्निसमप्रभैः । भिन्दीप्रालैर्विभिद्यन्ते स्रवन्तः
पूयशोणितम् । कृमिजग्धाश्च नीयन्ते सक्षता विवशा
नराः । याचमानाश्च सलिलमन्नञ्चापि बुभुक्षिताः ।
छायां प्रार्थयमानाश्च शीतार्त्ता अनलं पुनः ।
दानहीना प्रयान्त्येवं याचलो विसुखा नराः । गृहीतदा-
नपाथेयाः सुखं यान्ति यमालयम् । एवं प्रयान्ति
कष्टेन प्राप्ताः प्रेतपुरं तदा । प्रज्ञापितास्तदा दूतैर्निवेश्यन्ते
यमाग्रतः । तत्र ये शुभकर्षाणस्तांस्तु सम्मानयेद्यमः ।
स्वागतासनदानेन प्राद्यार्घ्येण प्रियेण च । धन्या यूयं
महात्मानः स्वात्मनोहितकारिणः । येन दिव्यसुखार्थाय
भवद्भिः सुकृतं कृतम् । इदं विमानमारुह्य दिव्यस्त्री-
भोगभूषितम् । स्वर्गं गच्छध्वमतुलं सर्वकामसमन्विताः ।
तत्र भुक्त्वा महाभोगांस्तदन्ते पुण्यसंक्षयात् । यत्कि-
ञ्चिदल्पमशुभं पुनस्तदिह भोक्ष्यथ । ते चापि धर्मराजानं
नराः पुण्यानुभावतः । पश्यन्ति सौम्यवदनं पितृभूतमि-
वात्मनः । ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम् ।
पापाबष्टब्धनयना विपरीतात्मवुद्धयः । दंष्ट्राकरालवदनं
भृकुटीकुटिलेक्षणम् । ऊर्द्ध्वकेशं महाश्मश्रुं प्रस्फुर-
दधरोत्तरम् । अष्टादशभुजं क्रुद्धं नीलाञ्जनचय
प्रभम् । सर्वायुधोद्यतकरं यमदण्डेन तर्जिनम् ।
महामहिषमारूढं दीप्ताग्निसमलोचनम् । रक्तमाल्याम्बर-
धरं महामेरुमिवोच्छ्रितम् । प्रलयाम्बुदनिर्घोषं पिबन्त
मिव सागरम् । ग्रसन्तमिव त्रैलोक्यमुद्गिरन्तमिवानलम् ।
मृत्युश्च तत्समीपस्थः कालानलसमप्रभः । कालश्चा-
ञ्जनसङ्काशः कृतान्तश्च भयानकः । मारी चोग्रा महामारी
कालरात्री च दारुणा । विविधाः व्याधयः कष्टा नाना
रूपा भयावहाः । शक्तिशूलाङ्कुशकराः पाशचक्रासिधा-
रिणः । चक्रदण्डधरा रौद्राः क्षुरतूणधनुर्द्धराः ।
असंख्याता महावोर्य्याः क्रूराञ्जनसमप्रभाः । सर्वायुधोद्यत-
करा यमदूता भयानकाः । अनेन परिवारेण महाघोरेण
संवृतम् । यमं पश्यन्ति पापिष्ठाश्चित्ततप्तञ्च भीषणम् ।
निर्भत्सयति चार्यर्थं यमस्तान् पापकर्मिणः । चित्रगुप्तश्च
भगवान् धर्मवाक्यैः प्रबोधयेत् । भो भो दुष्कृत-
कर्माणः! परद्रव्यापहारिणः । गर्विता रूपवीर्येण
परदारविमर्द्दकाः! । यत् स्वय क्रियते कर्म तत्स्वयं
भुञ्जते जनाः । तत् किमात्मापघातार्थं भवद्भिर्दुष्कृतं
कृतम्? । इदानीं किं प्रतप्यध्वं? पीड्यमानाः स्वकर्मभिः ।
भुञ्जध्वं स्वानिकर्माणि नात्र दोषोऽस्ति कस्यचित् । एते ते
पृथिवीपालाः संप्राप्तामत्समोपतः । स्वकीयैः कर्मभिर्घोरैः
र्दुष्प्रज्ञाबलदर्पिताः । भोभोनृपा! दुराचाराः! प्रजा-
विध्वंसकारिणः! । अल्पकालस्य राज्यस्य कृते किं
दुष्कृतं कृतम्? । राज्यलोभेन मोहेन बलादन्यायतः
प्रजाः । विध्वंसिताः फलं तस्य भुञ्जध्वमधुना नृपाः ।
क्व तद्राज्यं कलत्रञ्च यदर्थमशुभं कृतम् । तत् सर्व्वं
संपरित्यज्य यूयमेकाकिनः स्थिताः । पश्यामस्तद्बलं
वोनो येन तद्दण्डिताः प्रजाः । यमदूतैस्ताड्यमाना
अधुना कीदृशं भवेत् । एवं बहुविधैर्वाक्यैरुपालब्धाय-
मेन ते । शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति
पार्थिंवाः । इति धर्मं समादिश्य नृपाणां धर्मराट्
पुनः । तत्पापपङ्कशुद्ध्यर्थमिदं वचनमब्रवीत् । भोभो-
श्चण्डा महाचण्डा गृहीत्वा नृपतीनिमान् । विशो-
धयध्वं पापेभ्यः क्रमेण नरकाग्निना । ततः शीघ्रं
समुत्थाय नृपान् संगृह्य पादयोः । भ्रामयित्वातिवे-
गेन निक्षिप्योर्द्ध्वं प्रगृह्य च । सर्व्वप्राणेन महता प्रत-
प्तेऽथ शिलातले । आस्फालयन्ति तरसा वज्रेणेव
महाद्रुमम् । ततः स राजदेहान्तःप्रविष्टो जर्ज्जरीकृतः ।
निःसंङ्गः स तदा देही निश्चेष्टश्च प्रजायते । ततः स वायु-
ना स्पृष्टः शनैरुज्जीवते पुनः । ततः पापविशुद्ध्यर्थं
क्षिप्यते नरकार्णवे । अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः । घोराऽथ
प्रथमा कोटिः सुघोरा तदधःस्थिता । अतिघोरा
तृतोया च घोरघोरा चतुर्थिका । पञ्चमी घोररूपा
च कोटिरेका प्रकीर्त्तिताः । षष्टी तरलभावाख्या सप्तमी
पृष्ठ १७४९
च भयानका” इत्युपक्रम्य “कराला विकराला च
वज्रविंशतिमा स्मृता । त्रिकीणा पञ्चकोणा च सुदीर्घा
प्रतिवर्त्तुला । सप्तभौमाष्टभौमा च दीप्तमायेति
चाष्टमी । एता नाम्ना समुद्दिष्टा घोरा नरककोटयः ।
अष्टाविंशतिरेवैताः पापानां यातनात्मकाः । आसां-
क्रमेण विज्ञेयाः पञ्चपञ्चैव नायकाः । प्रत्येकं सर्व-
कोटीनां नामतस्तन्निबोधत । रौरवः प्रथमस्तेषां
रुदन्ति यत्र देहिनः । महारौरवपीडाभिर्महान्तोऽपि
रुदन्ति हि । तमः शीतं तथाचोष्णं पञ्चान्ये
नायकाः स्मृताः । सुघोषः सुतलस्तीक्ष्णः पद्मः सञ्जीवनः
शठः । महामायी विलोमश्च सुलोमश्च कटङ्कटः ।
तीव्रवेगः करालश्च विकरालः सुकम्पनः । महापद्मः
सुवक्रश्च कालसूत्रः प्रगर्जनः । सूचीमुखः सुनेमिश्च
खादकः सुप्रपीडितः । कुम्भीपाकः सुपाकश्च क्रकचश्चाति
दारुणः । अङ्गारराशिभवनमसृक्पूयह्रदन्तथा । तीक्ष्णा-
यसन्तु शकुनिर्महासंवर्त्तकः क्रतुः । तप्तजन्तुः पङ्क-
लेपः पूतिमांसोद्रवद्वपुः । उच्छ्वासश्च निरुच्छ्वासः
सुदीर्घः कूटशाल्मलिः । अरिष्टः सुमहानादः प्रवहोऽ-
सृक्प्रवाहणः । झषमेषवृकशल्यसिंहव्याघ्रगजाननाः ।
श्वशूकराश्वमहिषवृषखडिगखराननाः । ग्राहकुम्भीर-
नक्रास्याः सर्पकूर्माश्च वायसाः । गृध्रोलूकजलौकाश्च
शार्दूलकपिकर्कटाः । गण्डकः पूतिवक्त्रश्च रक्ताक्षः
पूतिमूर्त्तिकः । कणधूमस्तथाग्निश्च कृमीणां निचयस्तथा ।
अभेद्यश्चाप्रतिष्ठश्च रुधिरान्धः श्वभोजनः । लाला-
भक्ष्यश्चात्मभक्ष्यः सर्व्वभक्ष्यः सुदारुणः । सङ्कटः सुबि-
लश्चैव विषमः कटपूत्रनः । अम्बरीषः कटाहश्च कष्टा
वैतरणी नदी । सुतप्तलोहशयनमेकपादप्रपूरणः ।
असितालवनं घोरमस्थिभङ्गः प्रपोड़नः । तिलातमी
समुद्गौ च कूटपापः प्रमर्द्दनः । महाचूर्णं सुचूर्णञ्च
तप्तलोहमयी शिला । पर्व्वतः क्षुरधाराख्यस्तथा यमल
पर्व्वतौ । मूत्रविष्ठान्धकूपश्च क्षारकूपश्च शोषणः ।
मुसलोदूखलं यन्त्रं शिलाशकटलाञ्छनम् । तालपत्रासिग-
हन महामसकमण्डलम् । सम्मोहनोऽङ्गभङ्गश्च तप्तशूल-
मयोगुडः । बहुदुःखं महादुःखं कश्मलं समलं म
तम् । हालाहलो विरूपश्च सुरूपश्च यमानुगः ।
एकपादोद्विपादश्च तीव्रश्चावीचिवर्त्तिनः । अष्टाविंशति
रित्येते क्रमशः पारकार्त्तताः । एषां नामानुपू-
र्व्येण पञ्चपञ्चैव नायकाः । रौरवादि अवीच्यन्तं
नरकाणां शतं स्मृतम् । चत्वारिंशत्समधिकं महा
नरकमण्डलम् । एषु पापाः विपच्यन्ते नराः कर्मा
नुरूपतः । यातनाभिर्विचित्राभिरा कर्मप्रक्षयाद्भृशम् ।
आ मलप्रक्षयात् यद्वदग्नौ ध्मास्यन्ति धातवः । तथाऽऽ-
पापक्षयात् पापाः शोष्यन्ते नरकाग्निषु । हस्तयोः
पादयोर्बद्धा तप्तशृङ्खलया नराः । महावृक्षाग्रमारोप्य
लम्ब्यन्ते यमकिङ्करैः । ततस्ते सर्व्वयत्नेन क्षिप्त्वा दोल्यन्ति
किङ्करैः । दोल्यन्तश्चातिवेगेन निःसंज्ञा यान्ति योजनम् ।
अन्तरीक्षस्थितानाञ्च लोहभारः समन्ततः । पादयो-
र्बध्यते तेषां यमदूतै र्महाबलैः । तेन भारेण महता
भृशमात्रेण दुःखिताः । ध्यायन्तः स्वानि कर्माणि तुष्णीं
तिष्ठन्ति निश्चलाः । कशाभिरग्निवर्णाभिर्लौहदण्डैः
सकण्टकैः । हन्यन्ते किङ्करै र्घोरैः समन्तात्पापकारिणः ।
ततः क्षारेण दीप्तेन वह्निनापि विशेषतः । समन्ततः
प्रलिप्यन्ते क्षताङ्गा जर्जरीकृताः । पुनर्विदार्य्य चाङ्गेषु
शिरसः प्रभृति क्रमात् । वार्त्ताकुवत् प्रभज्यन्ते तप्ततैल-
कटाहके । विष्ठापूर्णेततः कूपे कृमीणां निचये तथा ।
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति ते पुनः ।
भक्ष्यन्ते कृमिभिस्तीक्ष्णैर्लौहतुण्डैश्च वायसैः । श्वभि-
र्दंशैर्वृर्कर्व्याधैर्व्याघ्रैश्च विकृताननैः । पच्यन्ते मांस-
वच्चापि प्रतप्ताङ्गारराशिषु । भिन्नाः शृङ्गेषु तीक्ष्णेषु
नराः पापेन कर्मणा । तैलपीडैरिवाक्रम्य घोरकर्म-
भिरात्मजैः । तिलवत् संप्रपीड्यन्ते चक्राख्ये नरके नराः ।
तुद्यन्ते चातितप्तेषु लौहभाण्डेष्वनेकधा । तैलपूर्णंकटा-
हेषु सुतप्तेषु तथा पुनः । बहुशः पाठ्यते जिह्वा
येऽसत्याप्रियवादिनः । सन्दंशेन सुदीप्तेन प्रपीडो-
रुश्च पादतः । मिथ्यागमप्रवक्तुश्च जिह्वार्द्धमास्यनि-
र्गतात् । जिह्वार्द्धात् क्रोशविस्तार्णाच्छल्यैस्तीक्ष्णैश्च
पाट्यते । निर्भत्सयन्ति ये क्रूरा मातरं पितरं गुरुम् ।
तेषां वज्रजलौकाभिमुखमापूर्य्य सीव्यते । ततः क्षा-
रेण दीप्तेन ताम्रेण त्रपुणा पुनः । द्रुतेनापूर्य्य
तेऽत्यर्थं तप्ततैलैश्च तन्मुखम् । इतस्ततः पुनर्वक्त्रं
भृशमापूर्य्य हन्यते । विष्ठाभिः कृमिमिश्राभिः सोपानच्चरणै-
र्नरैः । परिष्वजन्ति चात्युग्रं प्रदोप्तं लौहशाल्मलिम् ।
हन्यन्ते पृष्ठदेशे च पुनर्भीमैर्महानखैः । दन्तुरेणाति
कृष्णेन क्रकचेन बलीयसा । शिरःप्रभृति पूर्य्यन्ते
घोरैः कर्मभिरात्मजैः । खाद्यन्ते च स्वमांसानि
पाय्यन्ते शोणितं स्वकम । अन्नपानं न दत्तं यैर्यैर्मूढै-
पृष्ठ १७५०
र्नानुमोदितम् । इक्षुवत् संप्रपीड्यन्ते जजरीकृत्य मुद्गरैः ।
असितालवनैर्घोर्सश्छेद्यन्ते खण्डखण्डशः । सूचीभि-
र्भिन्नसर्व्वाङ्गास्तप्तशूलाग्ररोपिताः । सञ्चाल्यमाना-
विवशाः क्लिश्यन्ते न म्रियन्ति च । देहादुत्पाट्यते-
मांस भिद्यन्तेऽस्थोनि मुद्गरैः । अतीवाकृष्यते तूर्णं यमदू-
तैर्वलोत्कटैः । निरुच्छ्वासे निरुच्छासास्तिष्ठन्ति नरके
चिरम् । उच्छ्वसन्तः सदोच्छासे बालुकावदनावृताः ।
रौरवे रोदमानाश्च पीड्यन्ते विविधैर्बधैः । महारौरव-
पीड़ाभिर्महान्तोऽपि रुदन्तिहि । पद्भ्यामास्ये गुदे चाक्ष्णोः
पदे चोरसि मस्तके । निखन्यन्ते घनास्तीक्ष्णाः सुतप्ता
लोहशङ्कवः । सुतप्तबालुकायाञ्च प्रपोड्यन्ते मुहुर्मुहुः ।
जातुपङ्के भृशं तप्ते क्षिप्ताः क्रन्दन्ति विस्वरम् । तेन
तेनैव रूपेण हसन्तीं परदारिकाम् । गाढमालिङ्ग्यते नारों
ज्वलन्तीं लोहनिर्मिताम् । पूर्व्वाकाराश्च पुरुषाः प्रज्व-
लन्तः समन्ततः । दुश्चारिणीं स्त्रियं गाढमालि-
ङ्गन्तो वदन्ति च । किं प्रधावसि वेगेन न ते मोक्षोऽस्ति
साम्प्रतम् । लङ्घितस्ते यथा भर्त्ता पापं भुङ्क्ष्व तथाऽ-
धुना । लौहकुम्भे तथा क्षिप्त्वा सुपिधानैः शनः शनैः ।
मृद्वग्निना प्रपच्यन्ते श्वपाकैरिव मानवाः । क्षोदन्त्यू-
दूखले सास्राः प्रकृष्यन्ते शिलासु च । क्षिप्यन्ते चान्ध-
कूपेषु दश्यन्ते, कृमिभिर्भृशम् । कृमिभिर्भिन्नसर्व्वाङ्गाः शतशो
जर्जरीकृताः । सुतीक्ष्णक्षारकूपेषु क्षिप्यन्ते तदनन्तरम् ।
महाज्वाले च नरके पापाः फुत्कारयन्ति च । इतस्ततश्च
धावन्ति दह्यमानास्तदर्चिषा । पृष्ठे चानीय जङ्घे द्वे
विन्यस्ते करयोः स्थिते । तयोर्मध्येन चाकृष्य बाहुपृ-
ष्ठेन गाढतः । बद्ध्वा परस्परं सर्व्वं सुदृढं
गाढरज्जुभिः । पिण्डबन्धं दशन्त्येवं भ्रमरास्तीक्ष्णलो-
हजाः । मानिनां क्रोधिनाञ्चैव तस्कराणाञ्च दारुणा ।
पिण्डबन्धसमा याम्या महाज्वाले च यातना ।
रज्जुभिर्वेष्टिताङ्गाश्च प्रलिप्ताः कर्दमेन च । करीष-
तुषवह्नौ च पच्यन्ते च म्रियन्ति च । सूतीक्ष्णधारतो-
येन कर्कशासु शिलासु च । आ पापसंक्षयात् पापा
घृष्यन्ते चन्दनं यथा । शरीराभ्यन्तरगतैः प्रभूतैः
कृमिभिर्नराः । मक्ष्यन्ते तीक्ष्णवदनैरा देहप्रक्षयाद्भृशम् ।
कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु । तिष्ठन्त्यु
द्विग्नहृदयाः पर्व्वताभ्याञ्च पीडिताः । सुतप्त-
वज्रलेपेन शरीरमनुलिप्यते । अधोमुखोर्द्ध्वपादश्च धूताः
कृष्यन्ति वह्निना । वदनान्तःप्रविन्यस्तं सुप्रतप्तमयो-
गुडम् । ते खाद्यन्ते पराधीना हन्यमानास्तु मुद्गरैः ।
ये शिवायतनारामवापीकूपमठाङ्गणान् । विद्रवायन्ति
पापिष्ठा नृपास्तत्र वसन्ति च । व्यायामोद्वर्त्तनाभ्यङ्गस्नान-
मापानभोजनम् । क्रोडनं द्यूतमिथुनमाचरन्ति वसन्ति
च । ते बधैर्विविधैर्घोरैरिक्षुयन्त्रादिपीडनैः ।
निरयार्निषु पच्यन्ते यावदाचन्द्रतारकम् । ये शृण्वन्ति
गुरोर्निन्दां तेषां कर्णौ प्रपूर्य्यतः । अग्निवर्णैरयःफालै
स्तप्तताम्रादिभिः स्रुतैः । त्रपुसीसारकूटाद्यैः क्षारेण
जतुना पुनः । सुतप्ततीक्ष्णतैलेन वज्रलेपेन चान्ततः ।
क्रमादापूर्य्यतः कर्णौ नरकेषु च यातनाः । अनुक्रमेण
सर्व्वेषु भवन्त्येते समन्ततः । सर्व्वेन्द्रियाणामप्येवं
क्रमात् पापेन यातनाः । भवन्ति घोराः प्रत्येकं
शरीरेण कृतेन च । स्पर्शलोभेन ये मूढाः संस्पृशन्ति
परस्त्रियम् । तेषां त्वग्वह्निवर्णाभिः सूचीभिः पूर्य्यते-
भृशम् । ततः क्षारादिभिः सर्वैः शरीरमनुलिप्यते ।
यातनाश्च महाकष्टाः सर्व्वेषु नरकेषु च । गुरौ
कुर्व्वन्ति भृकुटों क्रूरनेत्राश्च ये नराः । परदारांश्च पश्यन्ति
लुब्धाः स्निग्धेन चेतसा । सूचीभिरग्निवर्णाभिस्तेषां
नेत्रे प्रपूर्य्यतः । क्षाराद्यैश्च क्रमात् सर्व्वैर्देहे सर्व्वाश्च
यातनाः । देवाग्निगुरुविप्राणामनिवेद्य च भुञ्जतः ।
लौहकीलशतैस्तप्तैस्तज्जिह्वास्य प्रपूर्य्यते । ततः
क्षारेण दीप्तेन तैलताम्रादिभिः क्रमात् । शरीरेषु
महाघोराश्चित्रा नरकयातनाः । ये शिवारामपुष्पाणि
लोभात् संगृह्य पाणिना । जिघ्रन्ति मूढमनसः
शिरसा धारयन्ति वा । आपूर्य्य च शिरस्तेषां सुतप्तैर्लोह
शङ्कुभिः । नासिका चातिबहुशस्ततः क्षारादिभिः
पुनः । ये निन्दन्ति महात्मानमाराध्यं धर्म्मदेशकम् ।
शिवभक्तांश्च ये मूढाः शिवधर्म्मञ्च शाश्वतम् । तेषा-
मुरसि कण्ठे च जिह्वायां दन्तसन्धिषु । तालुन्योष्ठे
च नासायां मूर्द्ध्नि सर्व्वाङ्गसन्धिषु । अग्निवर्णाः
सुतप्ताश्च त्रिशिखा लोहशङ्कवः । आपोथ्यन्ते सुबहुशः
स्थानेष्वेतेषु मुद्गरैः । ततः क्षारेण तप्तेन ताम्रेण
त्रपुणा पुनः । तप्ततैलादिभिः सर्व्वैरापूर्य्यन्ते समन्ततः ।
यातना च महाचित्रा शरीरस्यापि सर्व्वतः । निःशेषं
नरकेष्वेवं भवन्ति क्रमशः पुनः । ये गृह्णन्ति परद्रव्यं
पद्भ्यां विप्रं स्पृशन्ति च । शिवोपकरणं गाञ्च ज्ञानञ्च
लिखितं क्वचित् । हस्तपादौ घनौ तेषामाचूर्ण्यन्ते
समन्ततः । क्षारताम्रादिभिस्तप्तैस्तदन्ते बहुशः पुनः ।
पृष्ठ १७५१
मरकेष, च सर्व्वेषु विचित्रा देहयातनाः । भवन्ति
बहुशः कष्टाः पाणिपादसमुद्भवाः । शिवायतनपर्य्यन्ते
शिवारामेषु कुत्रचित् । समुत्सूजन्ति ये पापाः
पुरीषं मूत्रमेव वा । तेषां शिश्नं सवृषणं चूर्ण्यते
लौहमुद्गरैः । सूचीभिरग्निवर्णाभिस्ततश्चापूर्य्यते पुनः ।
लोहदण्डश्च सुमहानग्निवर्णः सकण्टकः । आपोथ्यते
गुदे तेषां यावन्मूद्ध्नि विनिर्गतः । ततः क्षारेण महता
ताम्रेण त्रपुणा पुनः । द्रुतेनापूर्य्यते गाढं गुदं शिश्नञ्च
देहिनाम् । मनः सर्व्वेन्द्रियाणाञ्च यस्मादुक्तं प्रव-
र्त्तकम् । तस्मादिन्द्रियदुःखेन जायते तत् सुदुःखितम् ।
धने सत्यपि ये दानं न प्रयच्छन्ति तृष्णया । अतिथिञ्चाव-
मन्यन्ते कालप्राप्तं गृहाश्रमे । तेनैते वीरणैरज्वा
हस्तयोश्चापि ताडिताः । प्रसारिताङ्गाः शुष्यन्तस्तिष्ठन्त्यव्द-
शतं नराः । हस्तपादललाटेषु कीलिता लौहशङ्कुभिः ।
नित्यञ्च विवृतं वक्त्रं कीलकत्रयताडितम् । कृमिभिः
प्राणिभिश्चोग्रैर्लौहदण्डैश्च वायसैः । उपद्रवैर्बहुविधैर्मुख-
मन्वः प्रपीड्यते । जिह्वावेधनिबद्धाश्च संपीड्यन्ते भृशं
पुनः । तिष्ठन्ति लम्बमानाश्च लोहभाराः सुवर्त्तुलाः ।
शिश्ने सवृषणे तद्वत् लोहभारद्वयं पुनः । तिष्ठते लम्बमानञ्च
बाहुभ्याञ्च चतुर्गुणम् । ततः स्वमांसमुत्कृत्य तिलमात्र-
प्रमाणतः । खादितुं दीयते तेषां सूच्यग्रेण तु शोणितम् ।
यदा निर्मांसतां प्राप्ताः कालेन बहुला नराः । ततः
क्षारेण दीप्तेन तच्छरीरं विलिप्यते । क्लिद्यन्ते वर्षधाराभिः
क्लिश्यन्ते वै पुनः पुनः । शुष्काः सिच्यन्ति तैलेन सुतप्तेन
समन्ततः । पच्यन्ति भूयो भूयोऽपि दूरस्थेन शर्नः शनैः ।
निःशेषयातनाभिश्च पीड्यन्ते क्रमशः पुनः । भृशं बुभु-
क्षया पीड़ कष्टा चातिपिपासया । अत्युष्णेनातिशीतेन
पापानां स्मरणेन च । एवमाद्या महाघोरा यातनाः
पापाकर्मिणाम् । एकैकनरके ज्ञेयाः शतशोऽथ सहस्रशः ।
प्रत्येकं यातनाश्चित्राः सर्वेषु नरकेषु च । कष्टा वर्षशते-
नापि सर्वा वक्तुं न शक्यते । इति तैर्विविधैर्घोरैः पाट्य-
मानाः सकर्मभिः । म्रियन्ते नैव पापिष्ठा यावत् पापस्य
न क्षयः । तत्रान्या यातनाः कष्टा विविधाः पापकारि-
णाम् । महाघोरातिघोराश्च कल्पाग्निसदृशोपमाः ।
श्रुत्वैव यातनास्तूर्ण्णं म्रियन्ते मृदुचेतसः । ततस्ते-
नात्र कथिताः पापा द्रक्ष्यन्ति याः स्वयम् । पुत्रमित्र-
कलत्रार्थं यदपुण्यं त्वया कृतम् । एकाकी दह्यसे तेन
नात्र पश्यसि बान्धवान् । आत्मनैव कृतं पापं भोक्तव्यं
ध्रुवमात्मना । तत् किमात्मोपघातार्थं मूढ! पापं कृतं
त्वया । एवं दूतैरुपालब्धास्तान् पृच्छन्ति ततः पुनः ।
कियन्तं केन पापेन कालमत्रासते नराः । देवद्रव्य-
विनाशेन गुरुद्रोहादिकर्मभिः । क्रमात् सर्व्वेषु पच्यन्ते
नरकेष्वा महीक्षयात् । महापातकिनश्चापि सर्वेषु नरके-
ष्विह । आचन्द्रतारकं यावत् पीड्यन्ते विविधैर्बधैः ।
महापातकिनः सर्वे निरयार्णवकोटिषु । चतुर्दशमन्वन्तर-
कल्पान्तं विविधैर्बधैः । उपपातकिनश्चापि तदर्द्धं यान्ति
मानवाः । पापशेषैस्तदर्द्धञ्च कालञ्चापि तथाविधम् ।
तस्मात् पापं न कुर्व्वीत चञ्चले जीविते सति । पापेन
हि ध्रुवं यान्ति नरकेषु नराः स्वयम् । यः करोति
नरः पापं तस्यात्मा ध्रुवमप्रियः । पापस्य हि फलं दुःखं
तद्भोक्तव्यमिहात्मना । कथं ते पापनिरता नरा रात्रिषु
शेरते । मन्वन्तरान्तं तेषां च नरके तीव्रयातनाः । एवं
क्लिष्टाः विशुद्धाश्च सावशेषेण कर्मणा । ततः क्षितिं
समासाद्य पुनर्जायन्ति देहिनः । स्थावरा विविधाकारा-
स्तृणगुल्मादिभेदतः । तत्रानुभूय दुःखानि जायन्ते
कीटयोनिषु । निष्क्रान्ताः कीटयोनिभ्यस्ततो जायन्ति
पक्षिणः । संक्षिप्ताः पक्षिभावेन भवन्ति तृणजातिषु ।
मार्गदुःखमतिक्रम्य जायन्ते पशुयोनिषु । क्रमाद्गोयोनि-
मासाद्य पुनर्जायन्ति मानुषाः । एवं योनिषु सर्वासु
प्ररिभ्रम्य क्रमेण तु । कालान्तरवशाद् यान्ति मानुष्यमति
दुर्लभम् । व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौर-
वात् । विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ।
मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसाधकम् । द्वयोर्न साधये-
देकं स मृतस्तप्यते चिरम् । देवासुराणां सर्वेषां मानुष्य-
मतिदुर्लभम् । तत् संप्राप्य तथा कुर्य्यान्न गच्छेन्नरकं यथा ।
स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः । सर्वस्य मूल
मानुष्यं तद्यत्नादनुपालय । धर्ममूलेन मानुष्यं लब्ध्वा
सर्वार्थसाधकम् । यदि लाभे न यत्नस्ते मूलं रक्षस्व
यत्नतः । मानुषत्वे च विप्रत्व यदि प्राप्नोति दुर्लभम् ।
न करोत्यात्मनः श्रेयः कोऽन्योऽस्मादस्त्यचेतनः । सर्वेषा-
मेव देशानामयं देशः परः स्मृतः । इतः स्वर्गश्च
मोक्षश्च यतः संप्राप्यते नरैः । देशेऽस्मिन् भारते पुण्यं
प्राप्य मानुष्यसम्भवम् । यः कुर्य्यान्नात्मनः श्रेयस्तेनात्मा
वञ्चितश्चिरम् । भोगभूमिः स्मृतः स्वर्गः कर्मभूमिरयम्
मता । इह यत् क्रियते कर्म स्वर्गे तदुपभुञ्जते । यावत्
सुस्थशरीरस्त्व तावद्धर्मं समाचर । असुस्थीनोदितोऽ-
पृष्ठ १७५२
प्यन्यैर्न किञ्चित् कर्त्तुमुत्सहः । अध्रुवेण शरीरेण ध्रुवं
योन प्रसाधयेत् । ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव हि ।
आयुषः खण्डखण्डानि निपतन्ति तवाग्रतः । अहोरात्राप-
देशेन किमर्थं नावबुध्यसे । यदा न ज्ञायते मृत्युः कदा कस्य
भविष्यति । आकस्मिके हि मरणे धृतिं विन्देत कस्तदा ।
परित्यज्य यथा सर्वमेकाकी यास्यसि ध्रुवम् । न ददासि
तदा कस्मात् पाथेयार्थमिदं धनम् । गृहीतदानपाथेयाः
सुखं यान्ति महाध्वनि । अन्यथा क्लिश्यते जन्तुः
पाथेयरहितः पथि । येषां द्विजेन्द्र! वाहित्री पूर्णा-
भाण्डस्य गच्छति । स्वर्गदेशस्य पुरतस्तेषां लाभः पदेपदे ।
इति ज्ञात्वा नरः पुण्यं कुर्य्यात् पापञ्च वर्जयेत् । पुण्येन
याति देवत्वमपुण्यान्नरकं व्रजेत् । ये मनागपि देवेशं
प्रपन्नाः शरणं शिवम् । तेऽपि घोरं न पश्यन्ति
यमस्य वदनं नराः । किन्तु पापैर्महाघोरैः किञ्चि-
त्कालं शिवाज्ञया । भवन्ति प्रेतराजानस्ततोयान्ति
शिवं परम् । ते न लिप्यन्ति पापेन पद्मपत्रमिवा-
म्भसा । तस्माद्विवर्द्धंयेद्भक्तिमीश्वरे सततं बुधः । तन्मा-
हात्म्यविचारेण भवदोषविचारतः” ।
भाग० ५, २६ अ० । नरकभेदतत्स्वरूपोन्यासमुखेन
तेषां पापविशेषजन्यत्वमुक्तं तेन तत्तत्कर्म्मणां विपाका-
स्तामिस्रादयो नरका इति गम्यते । तत्र नरकविशेष-
स्वरूपनिदानमुक्तं यथा-
“अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामः ।
तामिस्रो १ ऽन्धतामिस्रो २ रौरवो ३ महारौरवः ४ कुम्भी-
पाकः ५ कालसूत्रम् ६ असिपत्रवनं ७ शूकरमुखम् ८
अन्धकूपः ९ कृमिभोजनः १० सन्दंशः ११ तप्तशूर्म्मिः १२
वज्रकण्टकशाल्मली १३ वैतरणी १४ पूयोदः १५ प्राण-
वेधो १६ विशसनं १७ लालाभक्ष्यः १८ सारमेयादनम् १९
अवीचिः २० अयःपानम् २१ इति । किञ्च क्षारकर्दमो २२
रक्षोगणभोजनं २२ शूलप्रोतो २४ दन्दशूकः २५
अवटनिरोधनो २६ ऽपर्य्यावर्त्तनं २७ सूचीमुखम् २८ इत्यष्टा-
पिंशतिर्नरका विविधा यातनाभूमयः । यस्तु परवि-
त्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरु-
षैरतिभयानकैस्तामिस्रे १ नरके बलान्निपात्यते ।
अनशनानिपानदण्डताड़नसन्तर्जनादिभिर्यातनाभियात्यमानो
जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति
तामिस्रपाये । एवमेवान्धतामिस्रे यस्तु वञ्चित्वा पुरुषं
दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो
वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति । यथा वनस्पतिर्वृश्व्य-
मानमूलस्तस्मादन्धतामिस्रं २ तमुपदिशन्ति । यस्त्विह
वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवा-
नुदिनं पुष्णाति स तदिह विहाय स्वयमेव तदशुभेन
रौरवे निपतति । ये त्विह यथैवामुना विहिंसिता जन्तवः
परत्र यमयातना उपगतं त एव रुरवो भूत्वा तथा तमेव
हिंसन्ति तस्माद्रौरवम् ३ इत्याहुः । रुरुरिति सर्पादतिक्रूर-
सत्वापदेशः । एवमेव महारौरवो ४ यत्र निवतितं पुरुषं
क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं
देहम्भरः । यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत
उपरन्धयति । तमप्रकरुणं पुरुषादैरपि गर्हितममुत्र
यमानुचराः कुम्भीपाके ५ तप्ततैले उपरन्धयन्ति । यस्त्विह
ब्रह्मध्रुक् स कालसूत्रसंज्ञके ६ नरके अयुतयोजनपरिमण्डले
ताम्रमये तप्ते खले उपर्य्य घस्तादग्न्यर्काभ्यामभितप्यमाने
ऽभिनिवेशितः क्षुत्पिपासाभ्यां दह्यमानान्तर्बहिःशरीर
आस्ते शेते चेष्टते अवतिष्ठति परिधावति च यावन्ति
पशुरोमाणि तावद्वर्षसहस्राणि । यस्त्विह वैनिजवेदपथा-
दनापद्यपगतः पाषण्डञ्चोपगतस्तमसिपत्रवनं ७ प्रवेश्य
कशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतो-
धारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोस्मीति
परमया वेदनया मूर्च्छितः पदेपदे निपतति स्वधर्महा
पाषण्डानुगमनफलं भुङ्क्ते । यस्त्विह वै राजा राजपुरुषो
वा अदण्डे दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं
स पापीयान्नरकेऽमुत्र शूकरमुखे ८ निपतति । तत्राति-
बलैर्निष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्त्तस्वरेण
स्वनयन् क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषा
उपरुद्धाः । यस्त्विह वै भूतानामीश्वरकल्पितवृत्तीनाम-
विविक्तपरव्ययानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपर-
व्यथोव्यथामाचरति स परत्रान्धकूपे ९ तदभिद्रोहेण
निपतति । तत्र हासौ तैस्तैर्ज्जन्तुभिः पशुमृगपक्षिसरोसृपै-
र्मशकयूकामत्कुणमक्षिकादिभिर्ये केचाभिद्रुग्धास्तैः सर्व-
तोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः
परिक्रामति यथा कुशरीरे जीवः । यस्त्विह वा असं
विभज्याश्नाति यत् किञ्चनोपनिर्मितपञ्चयज्ञो वायस
संस्तुतः स परत्र कृमिभोजने १० नरकाधमे निपतति । तत्र
शंतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव
भक्ष्यमाणः कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमा-
त्माबं यातयते । यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्ना-
पृष्ठ १७५३
दीनि ब्राह्मणस्य वाऽपहरति अन्यस्य वाऽनापदि पुरुषस्तम-
मुत्र राजन्! यमपुरूषा अयस्मयैरग्निपिण्डैः सन्दंशै ११
स्त्वचि निष्कुषन्ति । यस्त्विह वा अगम्यां स्त्रियं पुरुषोऽगम्यं
वा पुरुषं योषिदभिगच्छति । तावमुत्र कशया ताडयन्त-
स्तप्तया शूर्म्या १२ लोहमय्या पुरुषमालिङ्गयन्ति । स्त्रियं च
पुरुषरूपया शूर्म्या । यस्त्विह वै सर्वाभिगमस्तममुत्र
निरये वर्त्तमानं वजृकण्टकशाल्मली १३ मारोप्य निष्कुषन्ति ।
ये त्विह वै राजन्या राजपुरुषा वा पाषण्डा धर्म्मसेतून्
भिन्दन्ति ते संपरेत्य वैतरण्यां १४ निपतन्ति भिन्नमर्य्यादाः
तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो
भक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः
स्वाधेन, कर्मपाकमनुस्मरन्तौ विण्मूत्रपूयशोणितकेशनखा-
स्थिमेदोमांसवशावाहिन्यामुपतप्यन्ते । ये त्विह वै वृषली-
पतयोनष्टशौचाचारनियमास्त्यक्तलज्जाः पशुचर्यां चरन्ति ।
ते चापि प्रेत्य पूयविण्मूत्रश्लेष्मलालापूर्णे १५ निपतन्ति
तदेवातिबीभत्सितमश्नन्ति । ये त्विह वै श्वगर्द्धभपतयो
ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगा-
न्निघ्नन्ति । तानपि संपरेताल्लँक्ष्यभूतान् यमपुरुषा
इषुभिर्विध्यन्ति १६ । ये त्विह वै दाम्भिका दम्भयज्ञेषु
पशून् विशसन्ति । तानमुष्मिल्ल्ॐके वैशसे १७ नरके
पतितान्निरयपतयो यातयित्वा विशसन्ति । यस्त्विह वै सवर्णां
भार्य्यां द्विजोरेतः पाययति काममोहितः तं पापकृत्तमं
मूत्ररेतःकुल्यायां पातयित्वा रेतः संपायन्ति लालाभक्ष्ये
१८ । ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा
विलुम्पन्ति राजभटा वा तांश्चापि हि परेतान्
यमदूतावज्रदंष्ट्राः श्वानः १९ सप्तशतानि विंशतिश्च सरभसं
खादन्ति । यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनि-
मये दाने वा कथञ्चित्, स वै प्रेत्य नरके अवीचिमति २०
अधःशिरानिरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्द्ध्नः
संपात्यते । यत्र जलमिव स्थलमश्मपृष्ठमवभासते
तदवीचिमत् तिलशी विशीर्य्यमाणशरीरो न म्रियमाणः
पुनरारोपितो निपतति । यस्त्विह वै विप्रोराजन्यो
बैश्योवा सोमपीथस्तत्कलत्रं वा सुराः व्रतस्थोऽपि वा
पिबति प्रमादतः तेषां निरयं नीतानामुरसि पदाऽऽ-
क्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं २१ निषिञ्चन्ति ।
अथ च यस्त्विह वा आत्मसंभावनेन स्वयमधमो जन्मतपो
विद्याचारवर्णाश्रमवतो वरोयसो न बहु मन्येत स मृतक-
एव क्षारकर्द्देमे २२ निरयेऽवाक्छिरा निपतितोदुरन्त-
यातनाह्यश्नुते । ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते
याश्च स्त्रियोनृपशून् खादन्ति तांश्च ताश्च ते पशव
इह निहता यमसदने यातयन्तो रक्षोगणाः शौनिका
इव सुधितिनाऽवदायाऽसृक्पिबन्ति नृत्यन्ति च हृष्य-
माणा यथेह पुरुषादाः २३ । ये त्विह वा अनागसो-
ऽरण्ये ग्रामे वाविश्रभ्यवैश्रम्भकैरुपश्रितानुपजिजीवि-
षून् सूत्रादिषूपप्रोतान् क्रीड़नकतया घातयन्ति तेऽपि
च प्रेत्य यमयातनासु शूलादिप्रोतात्मानः २४ क्षुत्तृड्भ्यां
चाभिहताः कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डै राहन्य-
माना आत्मकश्मलं स्मरन्ति । ये त्विह वै भूतान्यु
द्वेजयन्ति नरा उल्वणस्वभावा यथा दन्दशूकास्तेऽपि
प्रेत्य नरके दन्दशूकाख्ये २५ निपतन्ति । यत्र नृपं ।
दन्दशूकाः पञ्चमुखा वा उपसृत्य ग्रसन्ति यथाबिले-
शयान् । ये त्विह वा अन्धावटकुशूलगुहादिषु
भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण
वह्निना धूमेन निरुन्धन्ति २६ । यस्त्विह वा अतिथीन-
भ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन
चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्र-
तुण्डागृध्रकङ्कटादयः प्रसह्योरुबलादुत्पाटयन्ति २७ ।
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्य्यंक्प्रेक्षणः
सर्व्वतोऽभिविशङ्की व्वयविनाशचिन्तया प्रविशुष्यमाण
हृदयवदनो निर्वृतिमनवगतोग्रह इवार्थमभिरक्षति ।
स चापि प्रेत्य तदुत्पादनोत्कर्षणसंरक्षणसमलग्रहः
सूचीमुखे २८ नरके निपतति । यत्र ह वित्तग्रहं
पापग्रहं पापपुरुषं धर्मराजपुरुषा वायसा इव सर्व्वतोऽङ्गेषु
सूत्रैः परिवयन्ति । एवंविधा नरका यमालये सन्ति
शतशः तेषु च सर्व एवाधर्मवर्त्तिनो ये केचिदिहोदिता-
श्चावनिपते! पर्य्यायेण विविशन्ति” । तथैव धर्मानुवर्त्तिन
इतरत्र । इह तु पुनर्भवे उभयशेषाभ्यां विशन्ति”
भा० आनु० ७ अ० शुभकर्म्मविशेषविपाक उक्तो यथा
“युधिष्ठिरोक्तिः । “कर्म्मणाञ्च समस्तानां शुभानां भरत
र्षभ! । फलानि भरतश्रेष्ठ! प्रब्रूहि परिपृच्छतः । भीष्म
उवाच । हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत! ।
रहस्यं यदृषीणान्तु तच्छृणुष्व युधिष्ठिर! । यागतिः प्राप्यते
येन प्रेत्यभावे चिरेप्सिता । येन येन शरीरेण यद्यत्कर्म
करीति यः । तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ।
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । तस्यां
तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि । न नश्यति
पृष्ठ १७५४
कृतं कर्म सदा पञ्चेन्द्रियैरिह । ते ह्यस्य साक्षिणो नित्यं
षष्ठ आत्मा तथैव च । चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च
सूनृताम् । अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ।
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्त्तते । श्रान्तायादृष्ट-
पूर्व्वाय तस्य पुण्यफलं महत् । स्थण्डिलेषु शयानानां
गृहाणि शयनानि च । चीरवल्कलसंवीते वासांस्या-
भरणानि च । वाहनानि च यानानि योगात्मनि
तपोधने । अग्नीनुपशयानस्य राज्ञः पौरुषमेव च ।
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति । आमिष-
प्रतिसंहारे पशून् पुत्रांश्च विन्दति । अवाक्छिरास्तु
यो लम्बेदुदवासञ्च यो वसेत् । सततञ्चैकशायी यः
स लभेतेप्सितां गतिम् । पाद्यमासनमेवाथ दीपमन्नं
प्रतिश्रयम् । दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ।
वीरासनं वीरशय्यां वीरस्थानमुपागतः । अक्षयास्तस्य
वै लोकाः सर्व्वकामगमास्तथा । धनं लभेत दानेन
मौनेनाज्ञां विशाम्पते! । उपभोगांश्च तपसा ब्रह्मचर्य्येण
जीवितम् । रूपमैश्वर्य्यमारोग्यमहिंसाफलमश्नुते ।
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ।
प्रायोपवेशिनो राजन्! सर्व्वत्र सुखमश्नुते । गवाद्यः
शाकदीक्षायां स्वर्गकामी तृणाशनः । स्त्रियस्त्रिषवणं
स्नात्वा वायुं पीत्वा क्रतुं लभेत् । स्वर्गं सत्येन लभते
दोक्षया कुलमुत्तमम् । सलिलाशी भवेद् यस्तु सदाग्निः
संस्कृतो द्विजः । मनुःसाधयते राज्यं नाकपृष्ठमनाशके ।
उपवासञ्च दोक्षायां अभिषेकञ्च पार्थिव! । कृत्वा
द्वादश बर्षाणि वीरस्थानाद्विशिष्यते । अधीत्य सर्ववेदान् वै
सद्यो दुःखाद्विमुच्यते । मानसं हि चरन् धर्म्मं स्वर्ग-
लोकमुपाश्नुते । या दुस्त्यजा दुर्म्मतिभिर्य्या न जीर्य्यति
जीर्य्यतः । योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः
सुखम् । यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
एवं पूर्ब्बकृतं कर्म कर्त्तारमनुगच्छति । अनोद्यमानानि
यथा पुष्पाणि च फलानि च । स्वकालं नातिवर्त्तन्ते तथा
कर्म पुराकृतम् । जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्यन्ति
जीर्य्यतः । चक्षुःश्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते ।
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः । प्रीणाति
मातरं येन पृथिवी तेन पूजिता । येन प्रीणात्युपाध्यायं
तेन स्यात् ब्रह्म पूजितम् । सर्वे तस्यादृता धर्मा यस्यैते
त्रय आदृताः । अनादृतास्तु यस्यैते सर्वास्तस्याफलाः
क्रियाः” ।
तत्रैव दानविशेषे गतिभेदो निरूपितः प्रपञ्चभयात्
तद्वाक्य नोद्धृतं भा० आनु० दानधर्मे दृश्यम् । भा०
आनु० १११ अ० संसारचक्रप्रवृत्तिरुक्ता यथा-
“एकः प्रसूयते राजन्नैक एक विनश्यति । एकस्तरति
दुर्गाणि गच्छत्येकस्तु दुर्गतिम् । असहायः पिता माता
तथा भ्राता सुतो गुरुः । ज्ञातिसम्बन्धिवर्गश्च मित्रवर्ग-
स्तथैव च । मृतं शरीरमुत्सृज्य काष्ठलोष्ट्रसमं जनाः ।
मुहूर्त्तमिव रोदित्वा ततो यान्ति पराङ्खाः । तैस्तच्छ-
रोरमुत्सृष्टं धर्म एकोऽनुगच्छति । तस्माद्धर्म्मः सहायश्च
सेवितव्यः सदा नृभिः । प्राणो धर्मसमायुक्तो गच्छेत्
स्वर्गगतिं पराम् । तथैवाधर्म्मसंयुक्तो नरकञ्चोपपद्यते ।
तस्मान्न्यायागतैरर्थैर्धम्प्रं सेवेत पण्डितः । धर्म्म एको
मनुष्यस्य सहायः पारलौकिकः । लोभान्मोहादनुक्रोशा-
द्भयाद्वाप्यबहुश्रुतः । नरः करोत्यकार्य्याणि परार्थे लोभमो-
हितः । धर्म्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् । एतत्त्र-
यमवाप्तव्यमधर्मम्परिवर्जितम् । युधिष्ठिर उवाच । श्रुतं
भगवतो वाक्यं धर्म्मयुक्तं परं हितम् । शरीरनिचयं ज्ञातुं
बुद्धिस्तु मम जायते । मृतं शरीरं हि नृणां सूक्ष्मम-
व्यक्ततां गतम् । अचक्षुर्व्विषयं प्राप्तं कथं धर्म्मोऽनु-
गच्छति । वृहस्पतिरुवाच । पृथिवी वायुराकाशमापो
ज्योतिमेनोऽन्तगः । बुद्धिरात्मा च सहिता धर्मं
पश्यन्ति नित्यदा । प्राणिनामिह सर्व्वेषां साक्षीभूता
निशाऽनिशम् । एतैश्च सह धर्म्मोऽपि तं जीवमनुगच्छति ।
त्वगस्थिमांसं शुक्रञ्च शोणितञ्च महामते! । शरीरं
वर्ज्जयन्त्येते जीवितेन विवर्ज्जितम् । ततो धर्म्मस-
मायुक्तः प्राप्नुते जीव एव हि । ततोऽस्य कर्म्म पश्यन्ति
शुभं वा यदि वाऽशुभम् । देवताः पञ्चभूतस्थाः किंभूयः
श्रोतुमिच्छसि । ततो धर्म्मसमायुक्तः स जीवः सुखमेधते ।
इह लोके परे चैव किंभूयः कथयामि ते । युधिष्ठिर
उवाच । तद्दर्शितं भगवता यथा धर्मोऽनुगच्छति । एतत्तु
ज्ञातुमिच्छामि कथं रेतः प्रवर्त्तते? । वृहस्पति रुवाच ।
अन्नमश्नन्ति यद्देवाः शरीरस्था नरेश्वर! । पृथिबी वायु-
राकाशमापो ज्योतिर्म्मनस्तथा । ततस्तृप्तेषु शुद्धात्मन्! रेतः
सम्पद्यते महत् । ततो गर्भः सम्भवति श्लेषात् स्त्रीपुंसयो-
र्नृप! । एतत्ते सर्वंमसाख्यातं भूयः किं श्रोतुमिच्छसि? ।
युधिष्ठिरौवाच । आख्यातं मे भगवता गर्भः संजायते
यथा । यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ।
वृहस्पतिरुवाच । आसन्नमात्रः पुरुषस्तैर्भूतैरभिभूयते ।
पृष्ठ १७५५
विप्रयुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् । सर्व्वभूतस-
मायुक्तः प्राप्नुते जीव एव हि । ततोऽस्य कर्म पश्यन्ति
शुभं वा यदि वाऽशुभम् । देवताः पञ्चभूतस्था किं भूयः
श्रोतुमिच्छसि । युधिष्ठिर उवाच । त्वगस्थिमांस-
मुत्सृज्य तैश्च भूतैर्व्विवर्जितः । जीवः स भगवन्! क्वस्थः
सुखदुःखे समश्नुते । वृहस्पतिरुवाच । जीवः कर्म्मस-
मायुक्तः शीघ्रं रेतस्त्वमागतः । स्त्रीणां पुष्पं समासाद्य
सूते कालेन भारत! । यमस्य पुरुषैः क्लेशं यमस्य पुरुषै-
र्ब्बधम् । दुःखं संसारचक्रञ्च नरः क्लेशञ्च विन्दति । इह
लोके च स प्राणी जन्मप्रभृति पार्थिव! । स्वकृतं कर्म्मवै भुङ्क्ते
धर्मस्य फलमाश्रितः । यदि धर्म्मं यथाशक्ति जन्मप्रभृति
सेवते । ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ।
अथान्तरा तु धर्म्मस्याप्यधर्म्ममुपसेवते । सुखस्यानन्तरं
दुःखं स जीवोऽप्यधिगच्छति । अधर्म्मेण समायुक्तो
यमस्य विषयं गतः । महद्दुःखं समासाद्य तिर्य्यग्योनौ
प्रजायते । कम्मणा येन येनेह यस्यां योनौ प्रजायते ।
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु । यदेतदुच्यते
शास्त्रे सेतिहासे च छन्दसि । इह स्थानाति पुण्यानि
देवतुल्यानि भूपते! । तिर्य्यग्योन्यतिरिक्तानि गतिमन्ति च
सर्व्वशः । यमस्य सदने दिव्ये ब्रह्मलोकसमे गुणैः” ।
इतःपरं कर्मविपाकोऽभिहितः तत्र अधर्मशब्दे १२१, १२३
पृष्ठे “कर्मभिर्नियतैर्बद्ध” इत्यारभ्य “धर्मे कुरु मनः सदा”
इत्यन्तं वाक्यं हरिवंशवाक्यत्येन प्रमादात् लिखितम् ।
तच्च भा० अनु० १११ अ० स्थं बोध्यम् । एवमधर्मशब्दे पृ० १२३
पृष्ठादौ मिता० दर्शितवाक्यादपि कर्मविपाकभेदोऽवधेयः ।
भुक्तावशिष्टकर्मणां विपाकस्तु शातातपेन दर्शितो यथा
“प्रायश्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्ते
भवेज्जन्म चिह्नाङ्कितशरीरिणाम् । प्रतिजन्म भवेत्तेषां
चिह्नं तत्पापसूचितम् । प्रायश्चित्ते कृते याति
पश्चात्तापवतां पुनः । महापातकजं चिह्नं सप्तजन्मनि
जायते । उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ।
दुषकर्म्मजा नृणां रोगा यान्ति चोपक्रमैः शमम् । जपैः
सुरार्च्चनैहोमैर्दानैस्तेषां शमोभवेत् । पूर्व्वजन्मकृतं पाप
नरकस्य परिक्षये । वाधते व्याधिरूपेण तस्य जप्यादिभिः
शमः । कुष्ठञ्च राजयक्ष्मा च प्रमेहोग्रहणी तथा । मूत्र-
कृच्छ्राश्मरोकासा अतीसारभगन्दरौ । दुष्टव्रणं गण्डमाला
पक्षाघातोऽक्षिनाशनम् । इत्येवमादयोरोगा महापापोद्भवाः
स्मृताः । जलोदरं यकृत्प्लीहाशूलरोगव्रणानि च ।
श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः । रक्तार्वुदविस-
र्पाद्याउपपापोद्भवागदाः । दण्डापतानकश्चित्रवपुः कम्प-
विचर्च्चिकाः । वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ।
अर्शआद्या नृणां रोगा अतिपापाद्भवन्ति हि । अन्ये च
बहवोरोगा जायन्ते वर्णसङ्कराः । उच्यन्ते च निदा-
नानि प्रायश्चित्तानि वै क्रमात् । महापापेषु सर्व्वं
स्यात्तदर्द्धमुपपातके । दद्यात् पापेषु षष्ठशं कल्प्यं
व्याधिबलाबलम् । अथ साधारणं तेषु गोदानादि च
कथ्यते । गोदाने बत्सयुक्ता गौः सुशीला च पयस्विनो ।
वृषदाने शुभोऽनड्वान् शुक्लाम्बरसकाञ्चनः । निवर्त्तनानि
भूदाने दश दद्याद् द्विजातये । दशहस्तेन दण्डेनत्रिंश-
दृण्डं निवर्त्तनम् । दश तान्येव गोचर्म्म दत्त्वा स्वर्गे
महीयते । सुवर्णशतनिष्कन्तु तदर्द्धार्द्धप्रमाणतः । अश्व-
दाने मृदुश्लक्ष्णमश्वं सोपस्करं दिशेत् । महिषीं माहिपे
दाने दद्यात् स्वर्णायुधान्विताम् । दद्याद्गजं महादाने
सुवर्णफलसंयुतम् । लक्षसंख्यार्हणं पुष्पं प्रदद्याद्देव-
तार्च्चने । दद्याद्द्विजसहस्राय मिष्टान्नं द्विजभोजने ।
रुद्रं जपेल्लक्षपुष्पैः पूजयित्वा च त्र्यम्बकम् । एकादश
जपेद्रुद्रान् दशांशं गुग्गुलेर्घृतैः । हुत्वाभिषेचनं कुर्य्या-
न्मन्त्रैर्वरुणदैवतैः । शान्तिके गणशान्तिश्च ग्रहशान्ति-
कपूर्व्वकम् । धान्यदाने शुभं धान्यं खारीषष्टिमितं
स्मृतम् । वस्त्रदाने पट्टवस्त्रद्वयं कर्पूरसंयुतम्,
दशपञ्चाष्ट चतुर उपवेश्य द्विजान् शुभान् । विधाय वैष्णवीं
पूजां सङ्कल्प्य निजकाम्यया । धेनुं दद्याद्द्विजाति-
भ्योदक्षिणाञ्चापि शक्तितः । अलङ्कृत्य यथाशक्ति वस्त्राल-
ङ्करणैद्विजान् । याचेद्दण्डप्रणामेन प्रायश्चित्तं यथोदितम् ।
तेषामनुज्ञया कृत्वा प्रायश्चित्तं यथाविधि । पुनस्तान्
परिपूर्णार्थानर्च्चयेद्विधिवद्द्विजान् । सन्तुष्टा ब्राह्मणा दद्यु-
रनुज्ञां व्रतकारिणे । जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञ-
कर्म्मणि । सर्व्वं भवति निश्छिद्रं यस्य चेच्छन्ति ब्राह्मणाः ।
ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः । सर्व्व-
देवमया विप्रा न तद्वचनमन्यथा । उपवासे व्रतञ्चैव स्नानं
तीर्थफलं तपः । विप्रैः सम्पादितं सर्व्वं सम्पन्न तस्य
तत्फलम् । सम्पन्नमिति यद्वाक्यं वदन्ति क्षितिदेवताः ।
प्रणन्य शिरसा धार्य्यमग्निष्टोमफलं लभेत् । ब्राह्मणा-
जङ्गमं तीर्थं निर्जलं साव्वकामिकम् । तेषां वाक्याद-
केनैव शुद्ध्यन्ति मलिना जनाः । तेभ्योऽनुज्ञाममिप्राप्य
प्रगृह्य च तथाशिषः । पूजयित्वा द्विजान् शठ्या भुञ्जीत
पृष्ठ १७५६
सह बन्धुभिः” शातातपीये कर्म्मविपाके १ अध्याये ।
“ब्रह्महा नरकस्यान्ते पाण्डुकुष्ठो प्रजायत । प्राय-
श्चित्तं प्रकुर्व्वीत स तत्पातकशान्तये । चत्वारः कलसाः
कार्य्याः पञ्चरत्नसमन्विताः । पञ्चपल्लवसंयुक्ताः सितव-
स्त्रेण संयुताः । अश्वस्थानादिमृद्युक्तास्तीर्थोदकसुपू-
रिताः । कषायपञ्चकोपेता नानाविधफलान्विताः ।
सर्व्वौषधिसमायुक्ताः स्थाप्याः प्रतिदिशं द्विजैः । रौप्य-
मष्टदलं पद्मं मध्यकुम्भोपरि न्यसेत् । तस्योपरि न्यसेद्देवं
ब्रह्माणञ्च चतुर्मुखम् । पलार्द्धार्द्धप्रमाणेन सुवर्णेन
विनिर्मितम् । अर्च्चेत् पुरुषसूक्तेन त्रिकालं प्रति-
वासरम् । यजमानः शुभैर्गन्धैः पुष्पैर्धूपैर्यथाविधि ।
पूर्व्वादिकुम्भेषु ततोब्राह्मणा ब्रह्मचारिणः । पठेयुः
स्वस्ववेदांस्ते ऋग्वेदप्रभृतीन् शनैः । दशां-
शेन ततोहोमोग्रहशान्तिपुरःसरम् । मध्यकुम्भे विधात-
व्योघृताक्तैस्तिलहेमभिः । द्वादशाहमिर्द कर्म समाप्य
द्विजपुङ्गवः । तत्र पीठे यजमानमभिषिञ्चेद्यथाविधि ।
ततोदद्याद्यथाशक्ति गोभूहेमतिलादिकम् । ब्राह्मणे-
भ्यस्तथा देयमाचार्य्याय निवेदयेत् । आदित्यावसवोरुद्राविश्वे
देवामरुद्गणाः । प्रीताः सर्वेव्यपोहन्तु मम पापं सुदा-
रुणम् । इत्युदीर्य्य मुहुर्भक्त्या तमाचार्य्यं क्षमापयेत् ।
एवंविधाने विहिते श्वेतकुष्ठी विशुध्यति । कुष्ठी गोबध-
धकारी स्यान्नरकान्तेऽस्य निष्कृतिः । स्थापयेद्घटमेकन्तु
पूर्व्वोक्तद्रव्यसंयुतम् । रक्तचन्दनलिप्ताङ्गं रक्तपुष्पाम्बरा-
न्वितम् । रक्तकुम्भन्तु तं कृत्वा स्थापयेद्दक्षिणां दिशम् ।
ताम्रपात्रं न्यसेत्तत्र तिलचूर्णेन पूरितम् । तस्योपरि न्यसे-
द्देवं हेमनिष्कमयं यमम् । यजेत् पुरुषसूक्तेन पापं मे
शाम्यतामिति । सामपारायणं (सामगानम्) कुर्य्यात् कलसे
तत्र सामवित् । दशांशं सर्षपैर्हुत्वा पावमान्यभिषेचने ।
विहिते धर्म्मराजानमाचार्य्याय निवेदयेत् । यमोऽपि
महिषारूढोदण्डपाणिर्भयावहः । दक्षिणाशापतिर्द्देवोमम
पापं व्यपोहतु । इत्युच्चार्य्य विसृज्यैनं मासं तद्भक्ति-
माचरेत् । ब्रह्मगोबधयोरेषा प्रायश्चित्तेन निष्कृतिः ।
पितृहा चेतनाहीनोमातृहान्धः प्रजायते । नरकान्ते
प्रकुर्व्वीत प्रायश्चित्तं यथाविधि । प्राजापत्यानि कुर्व्वीत
त्रिंशच्चैव विधानतः । व्रतान्ते कारयेन्नावं सौवर्ण-
पलसम्मिताम् । कुम्भं रौप्यमयञ्चैव ताम्रपात्राणि
पूर्व्ववत् । निष्कहेम्ना तु कर्त्तव्योदेवः श्रीवत्सलाञ्छनः ।
पट्टवस्त्रेण संवेष्ट्य पूजयेत्तं विधानतः । नाबं द्विजाय
ता दद्यात् सर्व्वोपस्करसंयुताम् । वासुदेव! जगन्नाथ ।
सर्व्वभूताशयस्थित! । पातकार्णवमग्नं मां तारय प्रणता-
र्त्तिहृत्! । इत्युदीर्य प्रणम्याथ ब्राह्यणाय विसर्जयेत् ।
अन्येभ्योऽपि यथाशक्ति विप्रेभ्योदक्षिणां ददेत् । स्वसृ-
घाती तु बधिरोनरकान्ते प्रजायते । मूकोभ्रातृबधे चैव
तस्येयं निष्तिः स्मृता । सोऽपि पापविशुद्ध्यर्थं चरेच्चा-
न्द्रायणव्रतम् । व्रतान्ते पुस्तकं दद्यात् सुवर्णफलसंयुतम् ।
इमं मन्त्रं समुच्चार्य्य ब्रह्माणीं तां विसर्जयेत् । स्वर-
स्वति! जगन्मातः! शब्दब्रह्माधिदेवते! । दुष्कर्म्मकरणात्
पापात् पाहि मां परमेश्वरि! । बालघाती च पुरु-
षोमृतवत्सः प्रजायते । ब्राह्मणोद्वाहनञ्चैव कर्त्तव्यं तेन
शुद्धये । श्रवणं हरिवंशस्य कर्त्तव्यञ्च यथाविधि ।
महारुद्रजपञ्चैव कारयेच्च यथाविधि । षड़ङ्गैकादशैरुदै-
रुद्रः समभिधीयते । रुद्रैस्तथैकादशभिर्महारुद्रः प्रकी-
र्त्तितः । एकादशभिरेतैस्तु अतिरुद्रश्च कथ्यते । जुहु-
याच्च दशांशेन दूर्व्वयायुतसंख्यया । एकादश स्वर्ण-
निष्काः प्रदातव्याः सदक्षिणाः । पलान्येकादश तथा
दद्याद्वित्तानुसारतः । अन्येभ्योऽपि यथाशक्ति द्विजे-
भ्योदक्षिणां दिशेत् । स्नापयेद्दम्पतीः पश्चान्मन्त्रैर्वरुण
दैवतैः । आचार्य्याय प्रदेयानि वस्त्रालङ्करणानि च ।
गोत्रहा पुरुषः कुष्ठी निर्वंशश्चोपजायते । स च
पापविशुद्ध्यर्थं प्राजापत्यशतञ्चरेत् । व्रतान्ते मेदिनीं दत्त्वा
शृणुयादथ भारतम् । स्त्रीहन्ता चातिसारी स्यादश्वत्थान्
रोपयेद्दश । दद्याच्च शर्कराधेनुं भोजयेच्च शतं द्विजान् ।
राजहा क्षयरोगी स्यादेषा तस्य च निष्कृतिः । गोभू-
हिरण्यमिष्टान्नजलवस्त्रप्रदानतः । घृतधेनुप्रदानेन
तिलधेनुप्रदानतः । इत्यादिना क्रमेणैव क्षयरोगः प्रशाम्यति ।
रक्तार्बुदी वैश्यहन्ता जायते स च मानवः । प्राजाप-
त्यानि चत्वारि सप्त धान्यानि चोत्सृजेत् । दण्डापतान-
कयुतः शूद्रहन्ता भवेन्नरः । प्राजापत्यं सकृच्चैवं दद्या-
द्धेनुं सदक्षिणाम् । कारूणाञ्च बधे चैव रूक्षभावः
प्रजायते । तेन तत्पापशुद्ध्यर्थं दातव्योवृषभः सितः ।
सर्व्वकार्य्येष्वसिद्धार्थोगजघाती भवेन्नरः । प्रासाद
कारयित्वा तु गणेशप्रतिमां न्यसेत् । गणनाथस्य मन्त्रन्तु
मन्त्री लक्षमितं जपेत् । कुलत्थशाकः पूपश्च
गणशान्तिपुरःसरम् । उष्ट्रे विनिहते चैव जायते विकृ-
तस्वरः । स तत्पापविशुद्ध्यर्थंदद्यात् कर्पूरकं फलम् ।
अश्वे विनिहते चैव वक्रतुण्डः प्रजायते । शतं पलानि
पृष्ठ १७५७
दद्याच्च चन्दनान्यघनुत्तये । महिषीघातने चैव कृष्ण-
गुल्मः प्रजायते । खरे विनिहते चैव खररोमा प्रजा-
यते । निष्कत्रयस्य प्रकृतिं संप्रदद्याद्धिरण्मयीम् ।
तरक्षौ निहते चेव जायते केकरेक्षणः । दद्याद्रत्न-
मयीं धेनुं स तत्पातकशान्तये । शूकरे निहते
चैव दन्तुरोजायते नरः । स दद्यात्तु विशुद्ध्यर्थं
घृतकुम्भं सदक्षिणम् । हरिणे निहते खञ्जः शृगाले
तु विपादकः । अश्वस्तेन प्रदातव्यः सौवर्णपलनिर्म्मितः ।
अजाभिघातने चैव अधिकाङ्गः प्रजायते । अजा तेन
प्रदातव्या विचित्रवस्त्रसंयुता । उरभ्रे निहते चैव
पाण्डुरोगः प्रजायते । कस्तूरिकापलं दद्याद्ब्राह्मणाय
विशुद्धये । मार्जारे निहते चैव पीतपाणिः प्रजायते ।
परावतं स सौवर्णं प्रदद्यान्निष्कमात्रकम् । शुकशारि-
कयोर्घाते नरः स्खलितवाग्भवेत् । सच्छास्त्रपुस्तकं
दद्यात् स विप्राय सदक्षिणम् । वकघाते दीर्घनसोदद्याद्गां
धवलप्रभाम् । काकघाती कर्णहीनोदद्याद्गामसितप्रभाम् ।
हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता ।
तदर्द्धार्द्धप्रमाणेन क्षत्रियादिष्वनुकमात्” । २ अ०
“सुरापः श्यावदन्तः स्यात् प्राजापत्यन्तु तारकम् । शर्क-
रायास्तुलाः सप्त दद्यात् पापविशुद्धये । जपित्वा
तु महारुद्रं दशांशं जुहुयात्तिलैः । ततोऽभिषेकः
कर्त्तव्योमन्त्रैर्वरुणदैवतैः । मद्यपोरक्तपित्ती स्यात् स
दद्यात् सर्पिषोघटम् । मधुनोऽर्द्धघटञ्चैव सहिरण्यं
विशुद्धये । अभक्ष्यभक्षणे चैव जायते कृमिलोदरः ।
यथावत्तेन शुद्ध्यर्थमुपोष्यं भीष्मपञ्चकम् । उदक्या-
वीक्षितं भुक्त्वा जायते कृमिलोदरः । गोमूत्रयावका-
हारस्त्रिरात्रेणैव शुद्ध्यति । भुक्त्वा चा स्पृश्यसंस्पृष्टं
जायते कृमिलोदरः । त्रिरात्रं समुपोष्याथ स
तत्पापात् प्रमुच्यते । परान्नविघ्नकरणादजीर्णमभिजायते ।
लक्षहोमं स कुर्व्वीत प्रायश्चित्तं यथाविधि । मन्दो-
दराग्निर्भवति सति द्रव्ये कदन्नदः । प्राजापत्यत्रयं
कुर्य्याद्भोजयेच्च शतं द्विजान् । विषदः स्याच्छर्द्दिरोगी
दद्याद्दश पयस्विनीः । मार्गहा पादरोगी स्यात्
सोऽश्वदानं समाचरेत् । पिशुनोनरकस्यान्ते जायते श्वास-
कासवान् । घृतं तेन प्रदातव्यं सहस्वपलसन्मितम् ।
धूर्त्तोऽपस्माररोगी स्यात् स तत्पापविशुद्धये । ब्रह्मकूर्च-
मयीं धेनुं दद्याद्गाञ्च सदक्षिणाम् । शूली परोपता-
पेन जायते तत्प्रमोचने । सोऽन्नदानं प्रकुर्व्वीत तथा
रुद्रं जपेन्नरः । दावाग्निदायकश्चैव रक्तातिसारवा
भवेत् । तेनोदपानं कर्त्तव्यं रोपणीयस्तथा वटः
सुरालये जले वापि शकृन्मूत्रं करोति यः । गुदरो-
गोभवेत्तस्य पापरूपः सुदारुणः । मासं सुरार्च्चनेनैव
गोदानद्वितयेन तु । प्राजापत्येन चैकेन शाम्यन्ति गुदजा-
रुजः । गर्भपातनजा रोगा यकृत्प्लीहजलोदराः । तेषां
प्रशमनार्थाय प्रायश्चित्तमिदं स्मृतम् । एतेषु दद्या-
द्विप्राय जलधेनुं विधानतः । सुवर्णरूप्यताम्राणां पलत्रय
समन्विताम् । प्रतिमाभङ्गकारी च अप्रतिष्ठः प्रजायते ।
संवत्सरत्रयं सिञ्चेदश्वत्थं प्रतिवासरम् । उद्वाहये-
त्तमश्वत्थं स्वगृह्योक्तविधानतः । तत्र संस्थापयेद्देवं
विघ्नराजं सुपूजितम् । दुष्टवादी खण्डितः स्यात् स वै
दद्याद्द्विजातये । रूप्यं पलद्वयं दुग्धं घटद्वयसम-
न्वितम् । खल्लाटः परनिन्दावान् धेनुं दद्यात्
सकाञ्चनाम् । परोपहासकृत् काणः स गां दद्यात् समौक्ति-
काम् । सभायां पक्षपाती च जायते पक्षघातवान् ।
निष्कत्रयमितं हेम स दद्यात् सत्यवर्त्तिनाम्” ३ अ० ।
“कुनखी नरकस्यान्ते जायते विप्रहेमहृत् । स तु स्वर्ण-
शतं दद्यात् कृत्वा चान्द्रायणत्रयम् । औडुम्बरी ताम्र-
चौरो नरकान्ते प्रजायते । प्राजापत्यं स कृत्वात्र ताम्रं
पलशतं दिशेत् । कांस्यहारी च भवति पुण्डरीकसम-
न्वितः । कांस्यं पलशतं दद्यादलङ्कृत्य द्विजातये । रीति-
हृत् पिङ्गलाक्षः स्यादुपोष्य हरिवासरम् । रीतिपलशतं
दद्यादलङ्कृत्य द्विजं शुभम् । मुक्ताहारी च पुरुषो जायते
पिङ्गमूर्द्धजः । मुक्तापलशतं दद्यादुपोष्य स विधानतः ।
त्रपुहारी च पुरुषो जायते नेत्ररोगवान् । उपोष्य
दिवसं सोऽपि दद्यात् पलशतं त्रपु । सीसहारी च
पुरुषो जायते शीर्षरोगवान् । उपोष्य दिवसं दद्याद्-
घृतधेनुं विधानतः । दुग्धहारी च पुरुषो जायते
बहुमूत्रकः । स दद्याद्दुग्धधेनुञ्च ब्राह्मणाय यथाविधि ।
दधिचौर्य्येण पुरुषो जायते मदवान् यतः । दधिधेनुः
प्रदातव्या तेन विप्राय शुद्धये । भधुचौरस्तु पुरुपोजायते
नेत्ररोगवान् । स दद्यान्मधुधेनुञ्च समुपोष्य द्विजातये । इक्षो-
र्विकारहारो च भवेदुदरगुल्मवान् । गुड़धेनुः पदातव्या
तेन तद्दोषशान्तये । लोहहारी च पुरुषः कर्वुराङ्गः
प्रजायते । लोहं पलशतं दद्यादुपोष्य स तु वासरम् ।
तैलचौरस्तु पुरुषो भवेत् कण्ड्वादिपीड़ितः । उपोष्य म
तु विप्राय दद्यात्तैलघटद्वयम् । आमान्नहरणाच्चैव दन्त-
पृष्ठ १७५८
होनः प्रजायते । स दद्यादश्विनौ हेमनिष्कद्वयविनि-
र्म्मितौ । पक्वान्नहरणाच्चैव जिह्वारोगः प्रजायते ।
गायत्र्याः स जपेल्लक्षं दशांशं जुहुयात्तिलैः । फलहारी
च पुरुषोजायते व्रणिताङ्गुलिः । नानाफलानामयुतं स
दद्याच्च द्विजन्मने । ताम्बूलहरणाच्चैव श्वेतौष्ठः
संप्रजायते । सदक्षिणं प्रदद्याच्च विद्रुमस्य द्वयं वरम् ।
शांकहारी च पुरुषोजायते नोललोचनः । ब्राह्मणाय
प्रदद्याद्वै महानीलमणिद्वयम् । कन्दमूलस्य हरणा-
द्ध्रस्वपाणिः प्रजायते । देवतायतनं कार्य्यमुद्यानं तेन
शक्तितः । सौगन्धिकस्य हरणाद्दुर्गन्धाङ्गः प्रजायते ।
स लक्षमेकं पद्मानां जुहुयाज्जातवेदसि । दारुहारी
च पुरुषः स्विन्नपाणिः प्रजायते । स दद्याद्विदुषे शुद्ध्यै
काश्मीरज--पलद्वयम् । विद्यापुस्तकहारी च किल मूकः
प्रजायते । न्यायेतिहासं दद्यात् स ब्राह्मणाय
सदक्षिणम् । वस्त्रहारी भवेत् कुष्ठी संप्रदद्यात्
प्रजापतिम् । हेमनिष्कमितञ्चैव वस्त्रयुग्मं द्विजातये ।
ऊर्णाहारी लोमशः स्यात् स दद्यात् कम्बलान्वितम् ।
स्वर्णनिष्कमितं हेमवह्निं दद्याद्द्विजातये । पट्टसूत्रस्य
हरणान्निर्लोमा जायते नरः । तेन धेनुः प्रदातव्या
विशुद्ध्यर्थं द्विजन्मने । औषधस्यापहरणे सूर्यावर्त्तः
प्रजायते । सूर्य्ययार्घः प्रदातव्योमासं देयञ्च काञ्चनम् ।
रक्तवस्त्रप्रबालादिहारी स्याद्रक्तवातवान् । सवस्त्रां
महिषीं दद्यान्मणिरागसमन्विताम् । विप्ररत्नापहारी
चाप्यनपत्यः प्रजायते । तेन कार्य्यं विशुद्ध्यर्थं
महारुद्रजपादिकम् । मृतवत्सोदितः सर्व्वोविधिरत्र विधीयते ।
दशांशहोमः कर्त्तव्यः पायसेन यथाविधि । देवस्य
हरणाच्चैव जायते धिविधोज्वरः । ज्वरोमहाज्वरश्चैव
रौद्रोवैष्णव एव च । ज्वरे रौद्रं जपेत् कर्णे महारुद्रं
महाज्वरे । अतिरुद्रं जपेद् द्रौद्रे वैष्णवे तद्द्वयं जपेत् ।
नानाविधद्रव्यचौरोजायते ग्रहिणीयुतः । तेनान्नोदकव-
स्त्राणि हेम देयञ्च शक्तितः” ४ अ० । “मातृगामी भवेद्यस्तु
लिङ्गं तस्य विनश्यति । चाण्डालीगमने चैव हीनकोषः
प्रजायते । तस्य प्रतिक्रियां कर्त्तुं कुम्भमुत्तरतोन्यसेत्
कृष्णवस्त्रसमाच्छन्नं कृष्णमाल्यविभूषितम् । तस्योपरि-
न्यसेद्देवं कांस्यपात्रे धनेश्वरम् । सुवर्णनिष्कषट्केन
निर्मितं नरवाहनम् । यजेत् पुरुषसूक्तेन धनदं विश्व-
रूपिणम् । अथर्ववेदविद्विप्रोह्याथर्व्वाणं समाचरेत् ।
सुवर्णपुत्रिकां कृत्वा निष्कविंशतिसङ्ख्यया । दद्याद्विप्राय
संपूज्य निष्पापोऽहमिति ब्रुवन् । निधीनामधिपोदेवः
शङ्करस्य प्रियः सखा । सौम्याशाधिपतिः श्रीमान् मम
पापं व्यपोहतु । इमं मन्त्रं समुच्चार्य्य आचार्य्याय
यथाविधि । दद्याद्देवं हीनकोषे लिङ्गनाशे विशुद्धये ।
गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते । तेनापि निष्कृतिः
कार्य्या शास्त्रदृष्टेन कर्भणा । स्थापयेत् कुम्भमेकन्तु पश्चि-
मायां शुभे दिने । नीलवस्त्रंसमाच्छन्नं नीलमाल्यविभू-
षितम् । तस्योपरि न्यसेद्देवं ताम्रपात्रे प्रचेतसम् ।
सुवर्ण्णनिष्कषट्केन निर्मितं यादसाम्पतिम् । यजेत्
पुरुषसूक्तेन वरुणं विश्वरूपिणम् । सामविद्ब्राह्मणस्तत्र
सामवेदं समामनेत् । सुवर्ण्णपुत्रिकां कृत्वा निष्कविंशति-
संख्यया । दद्याद्विप्राय संपूज्य निष्पापोऽहमिति ब्रुवन् ।
यादसामधिपोदेवोविश्वेषामपि पावनः । स साराब्धौ
कर्ण्णधारो वरुणः पावनोऽस्तु मे । इमं मन्त्रं समु
च्चार्य्यं आचार्य्याय यथाविधि । दद्याद्देवमलङ्कृत्य मूत्र-
कृच्छ्रप्रशान्तये । स्वसुतागमने चैव रक्तकुष्ठं प्रजायते ।
भगिनीगमने चैव पीतकुष्ठं प्रजायते । तस्य प्रतिक्रियां कर्त्तुं
पूर्व्वतः कलसं न्यसेत् । पीतवस्त्रसमाच्छन्नं पीतमाल्य-
विभूषितम् । तस्योपरि न्यसेत् स्वर्ण्णपात्रे देवं सुरेश्वरम् ।
सुवर्ण्णनिष्कषट्केन निर्मितं वज्रधारिणम् । यजेत्
पुरुषसूक्तेन वासवं विश्वरूपिणम् । यजुर्वेदं तत्र साम
ऋग्वेदञ्च समाचरेत् । सुवर्ण्णपुत्रिकां कृत्वा सुवर्ण्णदश-
केन तु । दद्याद्विप्राय संपूज्य निष्पापोऽहमिति ब्रुवन् ।
देवानामधिपोदेवो वज्री विष्णुनिकेतनः । शतयज्ञः
महस्राक्षः पापं मम निकृन्ततु । इमं मन्त्रं समुच्चार्य्य
आचार्य्याय यथाविधि । दद्याद्देवं सहस्राक्षं स
पापस्यापनुत्तये । भ्रातृभार्य्याभिगमनाद्गलत्कुष्ठं प्रजायते ।
स्ववधूगमने चैव कृष्णकुष्ठं प्रजायते । तेन कार्य्यं विशु-
द्ध्यर्थं प्रागुक्तस्यार्द्धमेव हि । दशांशहोमः सर्वत्र घृताक्तैः
क्रियते तिलैः । यदगम्याभिगमनाज्जायते ध्रुवमण्डलम् ।
कृत्वा लोहमयीं धेनुं तिलषष्टिप्रमाणतः । कार्पासभार-
संयुक्तां कांस्यदोहां सवत्सिकाम् । दद्याद्विप्राय विधि-
वदिमं मन्त्रमुदीरयेत् । सुरभी वैष्णवी माता मम पापं
व्यपोहतु । तपस्विनीसङ्गमने जायते चाश्मरीगदी । स तु
पापविशुद्ध्यर्थं प्रायश्चित्तं समाचरेत् । दद्याद्विप्राय
विदुषे मधुधेनुं यथोदिताम् । तिलद्रोणशतञ्चैव हिरण्येन
समन्वितम् । पितृष्वस्रभिगमनाद्दक्षिणांशव्रणी भवेत् ।
तेनापि निष्कृतिः कार्य्या अजादानेन शक्तितः । मातु-
पृष्ठ १७५९
लान्यान्तु गमने पृष्ठकुब्जः प्रजायते । कृष्णाजिनप्रदानेन
प्रायश्चित्तं समाचरेत् । मातृष्वस्रभिगमने वामाङ्गे व्रण
वान् भवेत् । तेनापि निष्कृतिः कार्य्या सम्यग्दान-
प्रदानतः । भृतभार्य्याभिगमने मृतमार्य्यः प्रजा-
यते । तत्पातकविशुद्ध्यर्थं द्विजमेकं विवाहयेत् ।
सगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरी । तेनापि
निष्कृतिः कार्य्या महिषीदानयत्नतः । तपस्विनीप्र-
सङ्गेन प्रमेही जायते नरः । मासं रुद्रजपः
कार्य्योदद्याच्छक्त्या च काञ्चनम् । दीक्षितस्त्रीप्रसङ्गेन
जायते दुष्टरक्तदृक् । स पातकविशुद्ध्यर्थं प्राजापत्य-
द्वयञ्चरेत् । सजातिजायागमने जायते हृदयव्रणी ।
तत्पापस्य विशुद्ध्यर्थं प्राजापत्यद्वयञ्चरेत् । पशुयोनौ च
गमने मूत्राघातः प्रजायते । तिलपात्रद्वयञ्चैव दद्या-
दात्मविशुद्धये । अश्वयोनौ च गमनाद्गुद-
स्तम्भः प्रजायते । सहस्रकमलस्नानं मासं कुर्य्यात्
शिवस्य च । एते दोषा नराणां स्युर्नरकान्ते न
संशयः । स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसङ्गमात् । अश्व-
शूकरशृङ्ग्यादि कृमिश्वशकटेन च । भृग्वग्निवान्तशस्त्राश्म-
विषोद्बन्धनजलैर्मृताः । व्याघ्राहिगजभूपालचौरवैरिवृका-
हताः । वृक्षतल्पमृता ये च शौवसंस्कारवर्जिताः ।
विसूचिकान्नकबलदवातीसारतोमृताः । शाकिन्यादिग्र-
हैर्ग्रस्ता विद्युत्पातहताश्च ये । अस्पृश्या अपवित्राश्च
पतिताः पुत्रवर्जिताः । पञ्चत्रिंशत्प्रकारैश्च नाप्नु-
वन्ति गतिं मृताः । पित्राद्याः पिण्डभाजः स्युस्त्र
योलेपभुजस्तथा । ततोनान्दीमुखाः प्रोक्तास्त्रयोऽप्यश्रुमुखा-
स्त्रयः । द्वादशैते पितृगणास्तर्पिताः सन्ततिप्रदाः ।
गतिहीनाः सुतादीनां सन्ततिं नाशयन्ति ते ।
दशव्याघ्रादिनिहता गर्भं निघ्नन्त्यथो क्रमात् । द्वादशास्त्रादिनि-
हता आकर्षन्ति च बालकम् । विषादिनिहताघ्नन्ति दशसु
द्वादशस्वपि । वर्षैकबालकं कुर्य्यादनपत्योऽनपत्यताम् ।
व्याघ्रेण हन्यते जन्तुः कुमारीगमनेन च । विषदश्चैव
सर्पेण गजेन नृपदुष्टकृत् । राज्ञा राजकुमारघ्नश्चौरेण
पशुहिंसकः । वैरिणा मित्रभेदी च वकवृत्तिर्वृकेण तु ।
गुरुघातो च शय्यायां मत्सरी शौचवर्जितः । द्रोही
संस्काररहितः शुना निक्षेपहारकः । नरोविहन्यते-
ऽरण्ये शूकरेण च पाशिकः । कृमिभिः कृत्तवासाश्च
कृमिणा यो निकृन्तनः । शृङ्गिणा शङ्करद्रोही शकटेन
च सूचकः । भृगुणा मेदिनीचौरोवह्निना यज्ञहानि-
कृत् । दवेन दक्षिणाचौरः शस्त्रेण श्रुतिनिन्दकः ।
अश्मना द्विजनिन्दाकृद्विषेण कुमतिप्रदः । उद्बन्धनेन
हिंस्रः स्यात् सेतुभेदी जलेन तु । द्रुमेण
राजदन्तिहृदतीसारेण लौहहृत् । शाकिन्याद्यैश्च म्रियते
सदर्पकार्य्यकारकः । अनध्यायेऽप्यधीयानो म्रियते विद्युता
तथा । अस्पृश्यस्पर्शसङ्गी च वान्तमाश्रित्य शास्त्रहृत् ।
पतितोमदविक्रेतानपत्योद्विजवस्त्रहृत् । अथ तेषां क्रमे-
णैव प्रायश्चित्तं विधीयते । कारयेन्निष्कमात्रन्तु पुरुषं
प्रेतरूपिणम् । चतुर्भुजं दण्डहस्तं महिषासनसंस्थि-
तम् । पिष्टैः कृष्णतिलैः कुर्य्यात् पिण्डं प्रस्थप्रमा-
णतः । मध्वाज्यशर्करायुक्तं स्वर्णकुण्डलसंयुतम् ।
अकालमूलं कलसं पञ्चपल्लवसंयुतम् । कृष्णवस्त्रसमाच्छन्नं
सर्व्वोषधिसमन्वितम् । तस्योपरि न्यसेदेवं पात्रं धान्य-
फलैर्युतम् । सप्तधान्यन्तु सफलं तत्र तत् सकलं
न्यसेत् । कुम्भोपरि च विन्यस्य पूजयेत् प्रेतरूपिणम् ।
कुर्य्यात् पुरुषसूक्तेन प्रत्यहं दुग्धतर्पणम् । षड़ङ्गञ्च
जपेद्रुद्रं कलसे तत्र वेदवित् । यमसूक्तेन कुर्व्वीत
यमपूजादिकं तथा । गायत्र्याश्चैव कर्त्तव्योजपः स्वात्म-
विशुद्धये । गृहशान्तिकपूर्व्वञ्च दशांशं जुहुयात्तिलैः ।
अज्ञातनामगोत्राय प्रेताय सतिलोदकम् प्रदद्यात्
पितृतोर्थेन पिण्डं मन्त्रमुदीरयेत् । इमं तिलमयं
पिण्डं मधुसर्पिःसमन्वितम् । ददामि तस्मै प्रेताय
यः पीड़ां कुरुते मम । सजलान् कृष्णकलसांस्ति-
लपात्रसमन्वितान् । द्वादश प्रेतमुद्दिश्य दद्यादेकञ्च
विष्णवे । ततोऽभिषिञ्चेदाचार्य्योदम्पती कलसोदकैः ।
शुचिर्वरायुधधरोमन्त्रैर्वरुणदैवतैः । यजसानस्ततोद-
द्यादाचार्य्याय स दक्षिणाम् । ततोनारायणबलिः कर्त्तव्यः
शास्त्रनिश्चयात् । एष साधारणविधिरगतीनामुदाहृतः
विशेषस्तु पुनर्ज्ञेयोव्याघ्रादिनिहतेष्वपि । व्याघ्रेण
निहते प्रेते परकन्यां विवाहयेत् । सर्पदंशे
नागबलिर्देयः सर्पस्तु काञ्चनः । चतुर्निष्कमितं
हेमगजं दद्याद्गजैर्हते । राज्ञा विनिहते दद्यात् पुरु-
पन्तु हिरण्मयम् । चौरेण निहत धेनुं वैरिणा
निहते वृषम् । वृकेण निहते दद्याद् यथाशक्ति च
काञ्चनम् शय्यामृते प्रदातव्या शय्या तूलीसम-
न्विता । निष्कमात्रसुवर्णस्य विष्णना समधिष्ठिता ।
शौचहीने मृते चैव द्विनिष्कस्वर्णजं हरिम । संस्का-
रहीने च मृते कुमारञ्च विवाहयेत् । शुना हते च
पृष्ठ १७६०
निक्षेपं स्थापयेन्निजशक्तितः । शूकरेण हते दद्यान्म-
हिषं दक्षिणान्वितम् । कृमिभिश्च मृते दद्याद्गोधूमान्नं
द्विजातये । शृङ्गिणा च हते दद्याद्वृषभं वस्त्रसंयुतम् ।
शकटेन मृते दद्यादश्वं सोपस्करान्वितम् । भृगुपाते
मृते चैव प्रदद्याद्धान्यपर्व्वतम् । अग्निना निहते
दद्यादुपानहं स्वशक्तितः । दवेन निहते चैव कर्त्तव्या
सदने सभा । शस्त्रेण निहते दद्यान्महिषीं दक्षिणा-
न्विताम् । अश्मना निहते दद्यात् सवत्सां गां
पयस्विनीम् । विषेण च मृते दद्यान्मेदिनीं क्षेत्र-
संयुताम् । उद्बन्धनमृते चापि प्रदद्याद्गां पयस्विनीम् ।
मृते जलेन वरुणं हैमं दद्यात्त्रिनिष्ककम् । वृक्षं वृक्षहते
दद्यात् सौवर्णं स्वर्णसंयुतम् । अतीसारमृते लक्षं गायत्र्याः
संयतो जपेत् । शाकिन्यादिमृते चैवं जपेद्रुद्रं यथोचितम् ।
विद्युता निहते चैव विद्यादानं समाचरेत् । अस्पर्शे च मृते
कार्यं वेदपारायणं तथा । सच्छास्त्रपुस्तकं दद्याद्वान्त-
माश्रित्य संस्थिते । पातित्येन मृते कुर्य्यात् प्राजापत्यानि
षोड़श । मृते चापत्यरहिते कृच्छ्राणां नवतिञ्चरेत् ।
निष्कत्रयमितं स्वर्णं दद्यादश्वं हयाहते । कपिना
निहते दद्यात् कपिं कनकनिर्म्मितम् । विसूचिकामृते
स्वादु भोजयेच्च शतं द्विजान् । तिलधेनुः प्रदातव्या
कण्ठेऽन्नकबले मृते । केशरोगमृते चापि अष्टौ कृच्छ्रान्
समाचरेत् । एवं कृते विधाने तु विद्यात्तदौर्द्ध्व-
देहिकम् । ततः प्रेतत्वनिर्म्मुक्ताः पितरस्तर्पितास्तथा ।
दद्युः पुत्रांश्च पौत्रांश्च आयुरारोग्यसम्पदः” ६ अ० ।
भृगुभारतसंवादे रोगादिरूपकर्मविशेषविपाक उक्तो यथा-
  • १ सर्व्वशेषः “वातपित्तादिभिर्दोषैर्यदुत्पन्नं प्रशाम्यति । अगदेन
सुवैद्येन कर्म्मजं नोपशाम्यति । तस्मात् कर्म
परिज्ञाय प्रायश्चित्तं करोति यः । स तु दोषैर्विनिर्मुक्तो
भोगीव कञ्चुकोज्झितः । भवतीह पवित्रोऽपि मनुजो
निरुपप्लवः । निशम्य तस्य तद्वाक्यं प्रणम्य सं
महामतिः । कृतकर्मोपशमनं विस्तरेण महामते! । वदस्व
मुनिशार्दूल! नान्यो वक्ता त्वया विना । मुनिरुवाच ।
धर्माधर्मसमायुक्ता लोभमोहसमावृताः । भवन्ति
मानवाः सर्वे विष्णुमायावगुण्ठिताः । स्वकर्म्म-
वशमासाद्य पतन्ति निरये नराः । ततो जन्म समा
साद्य व्याधिं कर्मानुरूपतः । अवाप्य परितप्यन्ति पीड्य-
मानाः समन्ततः । देवद्रव्यविनाशेन गुरुद्रोहादि
कर्मभिः । क्रमात् सर्वेषु पच्यन्ते नरकेष्वा नही-
क्षयात् । महापातकिनश्चापि सर्वेषु नरकेष्विह
आचन्द्रतारकं यावत् पीड्यन्ते विविधैर्गदैः ।
उपपातकिनश्चापि तदर्द्धमिह मानवाः । शेषैः पापैस्तद-
र्द्धञ्च कालं प्राप्य विशेषतः । अथाधःपततां पुंसा-
मधर्मः परिकीर्त्तितः । नरकाब्धौ महाघोरे पतनात्
पापमुच्यते । तस्मात् पापेषु दुःखानि तीव्राणि
सुबहून्यपि । तस्मात् पापं न कर्त्तव्यमात्मपीडाकरं
यतः । कर्म्मानुसारि नरकं भुक्त्वाशेषं व्रजन्ति
वै । भूमौ वृक्षलतागुल्मपशुपक्षिमृगादिभिः ।
प्रत्यक्षं नरकं भुक्त्वा मानुषत्वं प्रपद्य च । तद्व्याधि-
लक्षणं सर्वं संप्राप्य परितप्यते । पूर्वजन्मकृत
पापं व्याधिरूपेण बाधते । तस्योपशमनं कार्य्यं मन्त्र-
दानार्चनादिभिः । प्रायश्चित्तमकृत्वा तु न कुर्य्यात्
कर्म किञ्चन । अनिस्तीर्णमधं नित्यं वर्द्धते द्विगुणं पुनः ।
देवद्रव्यं द्विजप्राप्तं ब्रह्मस्वं ब्राह्मणस्त्रियः । द्रोह
एषां न कर्त्तव्यस्त्वधोगतिभयात् सदा । स्वर्ण्ण-
स्तेयी गुरोः शय्यायायी नद्यस्य मोजकः । ब्रह्महापि
च तेषां वै संसर्गी चापि पञ्चमः । गर्भपातकरः
षष्ठः कन्यादूषी च सप्तमः । स्त्रीबालघातकश्चापि
नवमो न्यासहृत्तथा । विश्वासघातकश्चैव दशमः
परिकीर्त्तितः । एते दशविधा घोरास्तदन्य उपपा-
तकाः । यत् पापं ब्रह्महत्याया द्विगुणं गर्भपातने ।
प्रायश्चित्तं न तस्यास्ति देहत्यागो विधीयते । कृतदोष-
सहस्राणां योषिद्द्विजतपस्विनाम् । न बधो नाङ्ग-
विच्छेदो देशत्यागो विधीयते । नैते दण्ड्या
महीभर्त्तुर्यमस्य विषयङ्गताः । दण्डयन् दोषमाप्नोति
तस्माद्राजा परित्यजेत् । यथापराधतो राजा शास्ता
भवति शास्त्रतः । न तस्य कुरुते शास्तिं यमोमर्त्येषु
शासिता । अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं वदन्ति
ये । प्रायश्चित्तं भवेत्तेषां महापातकिनश्च ते ।
तस्माद्विमृष्य वक्तव्यं धर्म्मशास्त्रानुसारतः । ये विप्रान्न-
नमन्ति नैव च गुरुं ये चाथ कर्मोज्झिता, ये शास्त्रोक्त
विवर्जिता जनपदानां तापकाः पापिनः । ये वैद्यान्
गणकान् ग्रहांश्च सुहृदः सन्मार्गगान् ये सदा, निन्दन्त्येव
महापदं गदभयं विन्दन्ति ते दुखिताः । ये नमन्ति-
द्विजतीर्थमादरादौषधञ्च भिषजः प्रतिक्षणम् । इष्टमन्त्र-
मखदानजं फलं ते भवन्ति निरुजो निरापदः । व्याधे-
र्य्यदा गदविखण्डनभेषजाद्यै, र्दोषो न याति शमनं
पृष्ठ १७६१
सुकृतप्रयोगैः । तं पूर्व्वंजन्मजनितं तु विमृष्य सम्यक्
कार्य्या सभा तदुपदिष्टयथोक्तशान्तिः” १ अ० ।
  • २ नपुंसकता “साध्वी योवनसम्पन्ना त्यक्ता दोषैर्बहिष्कृता ।
तेन दोषेण राजेन्द्र! नपुंस्त्वमनुगच्छति । मूष्कच्छेदन-
कृद्यस्तु सोऽपि षण्डत्वमश्नुते । रजस्वलाम् स्थितां
भार्य्यां सन्निधौ यो न् गच्छति । षण्डत्वन्तु भवेत् तस्य
जन्म चासाद्य भूपते!” ।
  • ३ अल्पायुःप्रजता “शृणु विप्र! पुरा स्नातुं गतस्त्वं सरितस्त-
टम् । गावः कतिपयास्तत्र तृषार्त्ता वारितास्त्वया ।
तस्य विघ्नस्य पाकोऽयं जायन्तेऽल्पायुषः प्रजाः” ।
  • ४ अकिञ्चनता “अदाता निष्ठुरो जातः स च धर्मस्य निन्दकः ।
महाधनो न देवाग्निं ब्राह्मणं तोषयन् पुरा । आयुः-
शेषे मृतिं प्राप्य गृहीतो यमकिङ्करैः । बद्ध्वा पाशेन
संनीतो यत्रास्ते धर्मराड्विभुः । चित्रगुप्तेन तत्पापं
विस्तृतञ्च यमाज्ञया । तेन मर्त्येंमहाढ्येन हुतं दत्तं
न किञ्चन । लोलाख्यस्य नरकस्य विषयेऽयं द्विजो भवेत् ।
आज्ञप्तः किङ्करैर्नीतो निःक्षिप्तोनरकार्णवे । लोलाख्य-
नरके घोरे सर्वप्राणिभयङ्करे । लोलाख्यनकरस्येह
लक्षणं त्वमतः शृणु । सर्व्वत्र दर्शयेत् सर्वं भक्ष्यपानादि-
सर्वतः । मृगतृष्णाजलाकारं दृश्यते न तु लभ्यते ।
नैराश्यं प्राप्य विवशः क्षुत्पिपासासमाकुलः । बहु
कालन्तु विविधं भुक्त्वा जन्म प्रपद्य च । अकिञ्चनत्वमासाद्य
महाक्लेशञ्च विन्दति । अत्यर्थं कदनं भुङ्क्ते कदन्नमति
दुर्लभम् । स तु भिक्षाटनेनापि जीर्णाम्बरधरः सदा”
  • ५ वियोगः “अयं दुष्टोदुराचारं दुष्टबुद्ध्या चकार यत् । स्नेह-
भेदकरोयस्मात्तस्माद्दण्ड्योयमस्य हि । इत्युक्त्वा शृङ्खलै-
र्बद्ध्वा ताडयित्वा भृशं बहु । नीत्वा नियोगिनस्तत्र यत्रास्ते
दण्डनायकः । दृष्ट्वा तं चित्रगुप्तेन तत्पापं प्रकटी-
कृतम् । व्यामोहके तु नरके पातितो दुर्मति-
र्नृप! । व्यामोहकस्य यच्चिह्नं मानं वक्ष्याम्य-
शेषतः । व्यायामः सप्ततिस्तस्य योजनं दुर्वहं परम् ।
कुम्भाकारं निराकारं धूमोष्मव्याप्तमन्तरम् । वायोर्गतिर्न
तत्रास्ति न च रश्मिर्विभावसोः । मूढ़स्य पतनं तत्र यश्च
मैत्रीविभेदकः । ज्ञात्वा मन्त्रस्य निष्पाद्यं विमन्त्रं यो
विधास्यति । सोऽपि मृत्युवशं प्राप्य मोहकाख्यञ्च गच्छति ।
मिथ्यापवादमन्येषां यः करोति मुधामतिः । तस्य मिथ्या-
भिशंसेन मोहकाख्ये गतिर्भवेत् । यानि मिथ्याभिशंसेन
ग्रतन्त्यश्रूणि रोदनात् । तानि पुत्रान् पशून् घ्नन्ति तेषां
मिथ्याभिशंसिनाम् । मोहकाख्ये महाघोरे पतन्त्य ते दुरा-
शयाः । पूर्व्वापरपरिज्ञानंविहीनः परिमुह्य च । एवमेतत्
सहस्राणि वर्षाणि च चतुर्दश । भुक्त्वा मृगतनुं प्राप्य
मृगीदेहसमाकुलः । व्यापादितोनृशंसेन नवशोकसमा-
वृतः । मृगयूथपरित्यक्तस्त्वेकाकी तिष्ठते पुनः । सोऽपि
मृत्युवशं प्राप्य मत्स्ययोनौ प्रजायते । ततोमानुष्यमासाद्य
वियोगे परितप्यते” ।
  • ६ गेत्रामयः । “पुरा विप्र! गृहस्थस्य दीपस्य हरणं
कृतम् । तव पुत्रेण भो विप्र! तेन काणत्वमस्य
वै । कोटवीञ्च प्रपश्येद्यः सतीं वापि पराङ्गनाम् ।
सकामः कामतो मोहाद्रतिमालक्ष्य पश्यति । सोऽपि
नेत्रामयं प्राप्य सीदतीह स्वकर्मतः । सभयं निरयं घोरं
संप्राप्य कदनं बहु । भुक्त्वा जन्म समासाद्य दुष्टकर्म-
समुद्भवाम् । मानुषीन्तु तनुं प्राप्य निष्कृतिं न करोति
यः । पुनर्जन्म समासाद्य प्राप्तं कर्म न मुञ्चति” ।
  • ७ कुब्जत्वम् । “देवताप्रतिमां दृष्ट्वा यस्तां नैवाभिवादयेत् ।
ब्राह्मणञ्च गुरुं श्रेष्ठं ब्रह्मचारितपस्विनम् । श्मशाने
जायते वृक्षः काकगृध्रोपसेवितः । भुक्त्वा
कालमशेषञ्च मानुषत्वमवाप्य सः । कुब्जत्वमश्नुते तस्मात् कर्म-
णो मानुषो ध्रुवम्” ।
  • ८ खञ्जत्वम् छिन्नपादत्वञ्च “उपानहं हरेद् यस्तु तथैव
काष्ठपादुकाम् । तप्तबालुकदुर्भेद्यमङ्गे प्राप्य च सीदति ।
स नीतोयमदूतैश्च ताड्यमानो भृशं मुहुः । प्रवेश्य-
दक्षिणं द्वारं बद्ध्वा पादद्वये दृढम् । हाहाकारस्तु सर्वत्र
श्रूयते यत्र भीषणः । नीत्वा यमाज्ञया दूतै रौरवे च
निवेशितः । रौरवस्य च यन्मानं तन्मे निगदतः
शृणु । लक्षयोजनविस्तीर्ण्णं गभीरं स्याद्दिवावृतम् ।
दह्यमानस्तु तत्रैव पतितः पुनरुत्थितः । पुनः पतति-
तत्रैव क्रन्दमानो मुहुर्मुहुः । अनेककालमासाद्य पारं
प्राप्य सुदुःखितः । मानुषीं योनिमासाद्य खञ्जपादो
भवेन्नरः । गृध्रसी (छिन्नपादता) व्याधिसंयुक्तो भवेज्जन्मनि-
जन्मनि” ।
  • ९ छिन्नघ्राणता “श्रुतिस्मृतिकथायान्तु यस्तत्र विध्नमाच-
रेत् । देवद्विजातिधर्म्मस्य सदा यो देवनिन्दकः ।
सोऽपि मुत्युवशं प्राप्य यत्र याति च तत् शृणु । नैरृते
पश्चिमे भागे पिङ्गला नाम या पुरी । पिशाचा यत्र तिष्ठन्ति
सोऽपि तत्र स्वकर्म्मतः । यमाज्ञया तत्र नीतो रक्षित-
स्तत्रदुर्म्मतिः । तत्र दुःखं महाघोरं भुक्त्वा कर्म्मा-
पृष्ठ १७६२
न्तरे पुनः । मानुषत्वमनुप्राप्य छिन्नघ्राणोह्यशोभनः ।
स निन्द्यः सत्सभामध्ये न प्रवेश्योभवेद्धि सः” ।
  • १० छिन्नहस्तता छिन्नपादता च “अतः परं छिन्नहस्तोयतो भवति
मानुषः । शृणुष्व तत् प्रवक्ष्येऽहं स्वकर्म्मवशतश्च सः । पिता
माता गुरुर्वृद्धः क्रोधाविष्टेन ताडितः । विनाऽपराधतो
जन्तुं योवा हन्याद्विमोहितः । यमलोके वसेत् सोऽपि
छिन्नहस्तो भवेदिह । करेण ताडनाच्छिन्नपाणिर्भवति
पामरः । पादेन छिन्नपादस्तु मर्त्योवै जायते ध्रुवम्” ।
  • ११ छिन्नकर्णता । “मिथ्यापवाददुर्वृत्तं येन तापः
परोभवेत् । मानुषस्य, ततोदुष्टाः श्रावयन्ति महीपतिम् ।
ते क्रूराश्छिन्नकर्णाश्च जायन्ते पृथिवीतले” ।
  • १२ कराङ्घ्रिहीनता । “सैन्ययोरुभयोर्यत्र संग्रामे चातिदारुणे ।
स्वामिनं सङ्कटे त्यक्त्वा ये भग्नाः पापबुद्धयः । स मृतो
गृह्यते दूतैभीषणैर्विकटाननैः । पूतिगन्धवृतैः पाशै-
र्नीयते यमसादनम् । तर्ज्यमानः शरैः खड्गैः कूटमुद्गर-
पाणिभिः । यमाज्ञाकारिभिस्तैस्तु पात्यते नरकं शृणु ।
असिपत्रवनं घोरं नरकं शतयोजनम् ।
योजनायुतगम्भीरं ज्वलत्खड्गसमाकुलम् । पाट्यन्ते
तत्र तैः खड्गैः शितधारसमाहितैः । ये भग्नाः
स्वामिनं त्यक्त्वा मित्रं प्राप्य च मानुषाः । क्रन्दमानाश्च
तिष्ठन्ति यावदाभूतसंप्लवम् । कर्म्मावसाने जायन्ते
मानुषत्वमतः परम् । कराङ्घ्रिभ्यां विहीनस्तु दुष्टजीवः
प्रवर्त्तते । नास्त्यस्य कर्म्म संप्रोक्तं येन मुक्तो
भवेन्नरः । जन्मजन्मनि जायन्ते छिन्नाङ्घ्रिकरवेदनाः ।
  • १३ प्रसङ्गात् युद्धकर्म्मविपाकः “अतःपरन्तु ये शूरास्तेषां
माहात्म्यमुत्तमम् । स्तोकमात्रमतस्तात । शृणुष्वगदतोमम ।
विद्रुतेषु च सैन्येषु सङ्कटेषु समन्ततः । नृपं प्रति यदा
गच्छेत् सा यात्रा क्रतुभिः समा । ललाटदेशे रुधिरं
स्रवच्च यस्यापि वक्त्रे पततीह किञ्चित् । तत् सोमपानेन
हि तस्य तुल्यं संग्रामयज्ञे मधवाऽप्युवाच । शूरत्वे-
यस्य गात्राणि शरखड्गादितोमरैः । भिन्दन्ति न यमः
शक्तोग्रहीतुं पुण्यभाजनम् । अश्वोपरि च यः शूरः
प्राणांस्त्यजति धातितः । तिस्रः कोट्योऽर्द्धकोटी च
द्विगुणं कालतस्तु सः । अप्सरोभिः सेव्यमानोदिव्य-
लोकमवस्थितः । तमेव पुरुषं प्राप्य दृष्ट्वा सर्व्वाः सुरा-
ङ्गनाः । विमानस्थाः समस्ताश्च गायमानाः परस्परम् ।
परित्यज्य सुरान् यान्ति स्वामिनं प्राप्य हर्षिताः” ।
  • १४ पक्षरोगः “अशस्त्रः पुरुषो येन सशस्त्रेण हतो रणे ।
तत्कर्म्मणः परिज्ञानं विस्तरेण शृणुष्व वै । त्यक्तास्त्र-
हत्यादोषेण यमस्य पुरुषैर्भृशम् । आयुःशेषेऽथ संगृह्य
यमदूतैर्भयानकैः । तस्मिन् मार्गे दुराधर्षे नीत्वाऽऽज्ञा-
भिर्यमस्य च । कृकवाख्ये महाघोरे निग्ये च वसेद्धि
सः । प्रक्षिप्तश्चिरकालन्तु महादुःखेन पच्यते । ततो
रासभयोनौ स जायते वै स्वयं नरः । ततो मृगस्ततो
व्याघ्रस्ततः शस्त्रेण हन्यते । सारमेयत्वमासाद्य मत्स्य-
योनौ प्रजायते । तस्माद्वै मानुषीं प्राप्य पक्षरोगेण गृह्यते” ।
  • १५ वैधव्यम् “विरूपं स्वामिनं दृष्ट्वा यौवनेनातिगर्व्विता । दिवा-
निन्दति दुर्व्वाक्यैः शय्यां न भजते निशि । तेन दोषेण
भो देवि! वैधव्यं त्वमपाश्रिता । आज्ञप्ता रमणी या च
स्वामिनं भजते न हि । सा वैधव्यमवाप्नोति दरिद्रं
यावमन्यते । तस्य दोषस्य पाकोऽयं देवि! वैधव्यमागता” ।
  • १६ बन्ध्यता “पयःपातुमना वत्सस्त्वया पूर्व्वं निवारितः । पुरुषो
बन्ध्यतां याति वीर्य्यविक्रमदोषतः । अदक्षिणं व्रतं कृत्वा
बन्ध्यत्वमनयोर्भवेत् । अदैवतं मिष्टफलं यो भुङ्क्ते प्राप्य-
लोभतः । सोऽपि बन्ध्यत्वमाप्नोति कथयामि ततः शृणु ।
दृष्ट्वा तु मैथुनीभावं विध्नं तु कुरुते च यः । सोऽपि बन्ध्य-
त्वमाप्नोति सर्वजन्मनिजन्मनि ।
  • १७ गर्भस्रावः “त्रेतायुगस्य मध्ये तु सञ्जयोनाम भूपतिः । तस्य
भार्य्याद्वयं जातं सुमित्रा नन्दिनी तथा । नन्दिनी सुभगा
तस्य सुमित्रा या यशस्विनी । प्रसूता सा स्वपुत्रेण तेन
पत्या सुमानिता । सापत्न्यपरुषाविष्टा नन्दिनी नीतिवर्जिता ।
शून्यालये च सहसा छद्मनाऽऽनीय तं सुतम् । शतधा
खण्डकं कृत्वा तैलपाके विचिक्षिपे । सानेन विधिना
राजन्! दुष्टमत्या निजेच्छया । चकार दारुणं कर्म्म
तत्फलं शृणु भूपते! । साकालवशमासाद्य बालघाताभि-
दोषतः । गृहीत्वा निष्ठुरैर्बद्ध्वा पाशेन यमकिङ्करैः । नीत्वा
निरयमध्ये तु सा प्रक्षिप्ता दुराशया । कर्म्मान्ते
कोकिला नामवैश्यस्य च सुताऽभवत् । भूयोपि विश्वावसुना
परिणीता गृहाश्रमे । सर्व्वद्रव्यसमायुक्ते दासदासी-
समाकुले । सा पुनः पञ्चमे मासि तृतीये वा चतुर्थके
गर्भस्रावोऽभवत् तस्यास्तेन दुःखेन दुःखिता” ।
  • १८ मृतभार्य्यता “अतिक्रम्य त्वया ज्येष्ठं भ्रातरं चात्मनः
कृतः । पुरा परिणयस्तेन मृतभार्य्यत्वमागतः । सप्तम्यां
यः स्पृशेत्तैलं ज्येष्ठा मार्य्यास्य नश्यति” ।
  • १९ बहुपुत्रता अपुत्रता च “गवीमुखाद्बहिष्कृत्वा यस्तु द्रव्यं हरेत् पुनः
शृणु तस्य यथा पापं कथयामि तवाग्रतः ।
पृष्ठ १७६३
निर्जने दुर्वहे घोरे सिकताढ्ये मरुस्थले । कृमिर्भूत्वा
वसेत्तत्र क्षुत्पिपासासमाकुलः । मन्वन्तरत्रयं तत्र ततोनीहा-
रसंप्लवे । शीर्य्यमाणस्तु निश्चेष्टः शीतवातार्दितो भृशम् ।
कल्पमानन्तु दुःखेन मानुषोजायते मृतः । बहुपुत्री-
भवेत् सोऽपि पुत्रं न लभते हि वा ।
  • २० दौर्भाग्यम् “तृतीयासु च सर्वासु तैलस्पर्शस्त्वया कृतः ।
दुर्भगत्वञ्च ते जातं न तापं कुरु सुन्दरि!” ।
  • २१ सापत्न्यम् । “शृणु देवि! प्रवक्ष्यामि यत्तु सापत्न्यसम्भ-
वम् । दुःखं सुपरमं स्त्रीणां स्वकर्मवशतः खलु ।
मिथ्यावाक्यप्रवादेन विवादं कुरुते तु या । अन्योन्य-
स्नेहवैषम्यं कारयित्वा व्रजेदधः । कर्मानुयायिनी-
भूत्वा जीवेद्वर्षचतुष्टयम् । ततः पुनरसौ दीना दैवाद्भवति
मानुषी । सापत्न्यं ग्राप्य सन्तप्ता चित्तपीड़ासमन्विता ।
भवतीति न सन्देहस्तस्य दानमतः शृणु” ।
  • २२ जात्यन्तरम् “शृणु देव! प्रवक्ष्यामि येन जात्यन्तरं गतः ।
मनुष्यो दुःखमाप्नोति भवेद्वै गर्हितो जनः । पुरा राजकुले-
जातो विश्वसेनेति नामतः । एकदा ब्राह्मणी रण्डा
यौवनस्था तपस्विनी । पुष्पार्थिनी पुष्पवनं गता दृष्ट्वाथ
तेन सा । कामवाणार्दितेनाथ बलात्कारेण धर्षिता ।
हृद्रोगेणाभिसंतप्ता ततः स्वभवनं गता । अत्रान्तरे गृहं तस्या
भिक्षुरेकः समागतः । धर्षिता सापि तन्वङ्गी भिक्षवेऽन्नं
ददौ मुदा । इदं कृतं तया पापं शृणु तस्य फलं तथा ।
तत्कर्म्मवशमासाद्य यमस्य विषयङ्गता । पुनर्जन्म
समासाद्याऽभवन्म्लेच्छकुलोद्भवा । म्लेच्छयोनिं परित्यज्य
ततः कैवर्त्तयोनिजा । एवं बहुवविधां योनिं समासाद्य
द्विजाङ्गना । अमेध्यान्नञ्च यतये दत्त्वा प्रापगतिं नृप! ।
मनुष्योदुःखमाप्रोति स भवेद्गर्हितोजनः”
  • २३ सूकत्वम् “पुरा देवाग्रतो राजन्! गायमानो द्विजः क्वचित् ।
नृत्यंश्च प्रणुवन् वाक्यैर्हास्ययुक्तैश्च निन्दितः । तस्य विघ्नस्य
पाकोऽय न वाक् प्रसरते मुखात् । नृत्यमानन्तु देवाग्रे
गायमानं प्रदृश्य च । नोपहासं प्रकुर्वीत महादोषो-
भवेद्यतः” ।
  • २४ गद्गदवचनता “अतः परं महाभाग! गद्गदत्वेन दूषिताः ।
भवन्ति मानवा मर्त्येतच्छृणुष्व वदामि ते । जिगीषाकृष्ट-
हृदयोविवादं प्रकरोति यः । गुरोर्निन्दाञ्च सूर्खत्वादस्य
पापमतः शृणु । यमलोके तु तस्यैव कुट्ट्यते निशितैः
जिह्वापि किङ्करः क्रुद्धेरजस्रं तस्य दोषतः ।
अशेवकालपर्य्यन्तं दुःख प्राप्य महत्तरम् । मानुषत्व-
मनुप्राप्य गद्गदो जायते नरः । ततो गद्गदया वाण्या
मर्त्यः सीदति सर्वदा” ।
  • २५ मुखरोगः । “पितृदेवगुरोर्निन्दां ये वै मिथ्या वदन्ति च ।
अभक्ष्यभक्ष्यका ये च ते वै मुखगदार्द्दिताः । भवन्ति
नरकस्यान्ते मानुषास्तस्थ निष्कृतिम् शृणु वक्ष्यामि
भूपाल!” ।
  • २६ कर्ण्णरोगः । “असम्बद्वन्तु यच्छद्वक्ति पापमन्तर्गतन्तु यत् ।
समाकर्ण्ण्यापि मनुजः कर्ण्णरोगी भवेत् सदा । कर्ण्णशूलं
भवेदेवं पूयशोणितसम्भवम् । कर्ण्णरोगमिति ख्यात-
मवाप्य परितप्यते” ।
  • २७ दुर्गन्धगात्रता । “चोरयित्वा तु गन्धाढ्यं द्रव्यं लोभपरा-
यणः । पच्यते नरके घोरे मूत्रविष्ठासमाकुले । अप्र-
तिष्ठेऽतिदुर्गन्धे दिव्यवर्षायुतत्रयम् । मर्त्ये तु शशको
भूत्वा जीवेद्वर्षचतुष्टयम् । ततोमृगस्तु सौगन्धो भूत्वा
शस्त्रेण हन्यते । दुर्गन्धेन समायुक्तो मानुषत्वमवाप्य सः ।
स्वकर्मवशतो राजन्! दुर्गन्धं गात्रमश्नुते” ।
  • २८ दारिद्र्यं विरूपता च । “पुरा सङ्कल्पनृपतेरमात्येना-
सतांशृणु । दानविघ्नः कृतस्तेन पाकोऽयं नान्यथाऽभवत् ।
मा ददस्वेति यो ब्रूयाद्देवाग्निब्राह्मणेषु च । स नरस्तस्य
पाकेन दरिद्रत्वेन गृह्यते । दरिद्रः कुरुते पापं पापाद्-
याति यमालयम् । पुनरावृत्य पापेन दारिद्र्येणाभिगृह्यते ।
न क्षयोऽस्ति च पापस्य तस्मात् पापं त्यजेत् सुधीः ।
अदाता च भवेत् सोऽपि विरूपश्चापि दुर्विधः । तस्मात्
कर्म परिज्ञाय दानं दद्यात् स्वशक्तितः” ।
  • २९ सस्वेदपाणिपादता “चोरयित्वा तु लवणं मृतः क्षाराब्धि-
संज्ञके । नरके पच्यते पश्चान्मानुषत्वमवाप्य सः । तस्य
कर्म्मभवं चिह्नं जायते हस्तपादयोः । सस्वेदं मर्वदा
तस्य निष्कृतिं त्वमतः शृणु ।
  • ३० दाहज्वरः “पुरा येन गृहं ग्रामः क्षेत्रं दग्धन्तु वह्निना ।
स मृतो रौरवं प्राप्य पीड्यमानः स्वकर्म्मणा । खदिरा-
ङ्गारवद्दीप्तज्वालामालावगुण्ठिते । पतितस्तिष्ठते बत्र
वर्षायुतशतत्रयम् । कर्मान्ते मानुषीं योनिमवाप्य
परिदह्यते । ज्वरदाहेन घोरेण येव शाम्यति तच्छृणु” ।
  • ३१ अग्निमान्द्यम् “कल्मषं नाम नरकं पूयशोणितसंप्लुतम् ।
विस्तारलक्षदशकं महामोहसमाकुलम् । तिष्ठन्ति पापिन-
स्तत्र द्विजपाकस्य विप्लवात् । ततो मानुषतां प्राप्य भुक्त्वा
पापं सुदुष्करम् । अग्निमान्द्यं भवेत्तस्य निषकृतिं
कथयामि ते ।
पृष्ठ १७६४
  • ३२ अजीर्णरोगः “त्वया कृतं पुरा कर्म यदयुक्तञ्च तच्छृणु । कृत्वा
पाकञ्च पाकाग्निं शमयित्वा जलेन च । भोजनञ्च कृतं
तस्मादजीर्णत्वमुपागतः” ।
  • ३३ अतोसार “अथातीसारो राजेन्द्र! जायते येन कर्म्मणा ।
देहिनां दोषदुर्वृत्तः प्रशाम्यति यतः शृणु । अत्यन्तगुप्तं
पापिष्ठं निरुच्छ्वासकनामकम् । सोपद्रवञ्च नरकं
विषमोपद्रवाकुलम् । निर्वातमूष्मणा युक्तं दंशकादिपरि-
प्लुतम् । पच्यन्ते पापिनस्तत्र वर्षलक्षायुतत्रयम् ।
यज्ञाग्निदूषका ये च ये च दानविलोपकाः । परस्य-
छागं चौर्य्येण यातयन्तीह तेऽधमाः । नरकान्ते मत्स्य-
योनौ भूत्वा वर्षत्रयं पुनः । मानुषत्वमनुप्राप्य
अतीसारेण भृह्यते” ।
  • ३४ ग्रहिणी “अत्यर्थं संग्रह ये च कुर्वन्ति धनलुब्धकाः ।
न दास्यन्ति न चाश्नन्ति हव्यं कव्यञ्च किञ्चन ।
तथा गोभूमिहर्त्तारो निष्ठुरा ये च गृध्रकाः । अदुष्टा-
नपतितां भार्य्यां यौवने यः परित्यजेत् । स मृतः
पच्यते राजन्! स्वकर्म्मवशतः शृणु । नरकञ्च पूरी-
षाख्यं प्रलयानलपीडितम् । कल्पकोटिशतं तत्र
दह्यन्ते पापदेहिनः । नरकान्ते गजयोनिं म्रियते
प्राप्य बन्धनात् । तस्मात्तु मानुषीं योनिं ततः
प्राप्यावसीदति । ग्रहणीरोगवान् भूत्वा पशुद्रव्यधना-
दिकम् । प्राप्यते विविधैर्दुःखैस्तस्य वक्ष्यामि निष्कृतिम्” ।
  • ३५ पाण्डुरोगः “शृणु राजन्! प्रवक्ष्यामि पाण्डुरोगोद्भवो
यतः । परभार्य्यारतोयश्च नरश्चैवान्त्यजारतः । स मृतः
किङ्करैर्याम्यैर्बद्धः शृङ्खलया दृढम् । निष्ठुरैस्ताड्यमानस्तु
क्रन्दमानो मुहुर्मुहुः । शोचमानः स्वकं कर्म्म प्रच-
लंश्च पदेपदे । संयमन्यां प्रवेश्यैनं दक्षिणद्वारि-
भीषणे । शमनाग्रं समानीय परभार्य्याभिमर्दकम् ।
ततोऽमुं यमदूतोऽपिदृढं बद्ध्वानिरन्तरम् । तं दृष्ट्वा चित्र-
गुप्तेन पापकर्मानुसारतः । प्रत्यक्षञ्चावदत् सर्व्वं दुश्चे-
ष्टादिकमस्य वै । कथितोऽयं दुराचारः परस्त्रीरमण-
प्रियः । नयस्व नरकं भीमं ज्वलन्तीमायसीं
शिलाम् । भृशमालिङ्गनञ्चास्य कारयन्ति यमाज्ञया ।
वर्षायुतसहस्रे द्वे परं तापञ्च विन्दति । पुनः स्वकर्म्म-
प्राकेन ज्वलदग्निमये ह्रदे । विलिप्तो दह्यते तत्र वेष्ट्य-
मानः स्वकर्म्मणा । वर्षलक्षसहस्राणि नव सप्तायु
तानि च । तस्माद्भूमिपथं गत्वा मानुषत्वमवाप्य च ।
ण्डुरोगमनुप्राप्य क्षीणचेताः प्रपद्यते” ।
  • ३६ कामला “भक्तादीनान्तु चौरा ये गतिं तेषां ततः शृणु ।
आयुःशेषे तु ते याम्यैर्गणैर्नीता यमाज्ञया । घोरा पुरीति
विख्याता पिङ्गला नाम दुस्तरा । पिशाचास्तत्र तिष्ठन्ति
स्वकर्म्मवशपीड़िताः । यत्र संवर्द्धते नित्यं क्षुत्पिपासा-
महोद्धता । भक्तचौरान् जनांस्तत्र प्रवेश्य यमकिङ्करैः ।
प्रयान्ति सदनं याम्यं चित्रगुप्तोऽस्ति यत्र वै । स तत्र
भक्तचौरश्च पिशाचकुलवेष्टितः । भक्तसंख्याप्रमाणेन वसति
तत्र कर्म्मतः । कर्म्मान्ते वायसीं योनिं प्राप्य दुःखञ्च
विन्दति । काकोऽष्टादश वर्षाणि तस्मात् कङ्कः प्रजायते ।
सोऽपि द्वादशकं जीवेत्ततोभवति मानुषः । कामला-
रोगवान् भूत्वा तद्दोषजनितेन च” ।
  • ३७ कासः “कासः पञ्चविधोराजन्! जायते येन कर्म्मणा । तदहं
विस्तराद्वक्ष्ये भूप! कर्मवशाद्यतः । येन दग्धोजनो नित्यं
मिथ्यावाक्यैः सुदारुणैः । पित्तप्रबलकं कासं प्राप्य
कासेन सीदति । ब्राह्मणस्थानविध्वंसी वातकासार्द्दि-
तोभवेत् । गृह्यते श्लेष्मकासेन जलाशयस्य विघ्नतः ।
ब्रह्मविष्णुशिवं यस्तु भिन्नभावं प्रपश्यति । सन्निपातो-
त्थकासेन गृह्यते त्वमतः शृणु । अयज्ञेन पशुं हत्वा-
भुङ्क्ते मांसन्तु योनरः । सर्वदोषोत्थकासेन गृह्यते शृणु
भूपते! । इति कासपरिज्ञानं कथितञ्च मया शृणु ।
पुनस्ते कथयिष्यामि यत्ते मनसि वर्त्तते । राजोवाच ।
श्रुतं कासपरिज्ञानं कर्मणा येन जायते । नरकं श्रोतु-
मिच्छामि त्वत्तोब्रह्मविदां वर! । भृगुरुवाच । स तु कर्म
समासाद्य पच्यते यत्र तच्छृणु । चिन्तयन् स्वानि कर्माणि
रोदमानोनिरन्तरम् । करम्भबालुकानामनरकं योजना-
युतम् । कूपाकारं भृशं दीप्तं वालुकाङ्गारकण्टकैः ।
दह्यते भिद्यते तत्र वर्षलक्षत्रयावधि । नरकाज्जायते
दुर्गेजले कुम्भीरसंज्ञकः । कुम्भीराच्छूकरोभूत्वा जीवे-
द्वर्षचतुष्टयम् । तस्माद्वृषत्वमासाद्य महाभारवहोभवेत् ।
तदन्ते मानुषीं योनिं संप्राप्य परिदह्यते । असाध्यकास-
रोगेण तप्यमानोऽवसीदति” ।
  • ३८ श्वासकासः । “श्वासकासो महानुग्रो भवेद्देहाभिघातकः ।
उद्भवेत् कर्मणा येन तन्मे निगदतः शृणु । महोर्द्ध
च्छिन्नतमकक्षुद्रभेदाच्च पञ्चधा । श्वासः संजायते नॄणां
पृथक्कर्मवशानुगः । यस्तु यज्ञमनासाद्य पशुश्वासं
निरुध्य च । हन्ति, खादति वा मोहात् महाश्वासेन १
गृह्यते । पौराणिककथामध्ये यस्तु वाचाऽन्यथा वदेत् ।
ऊर्द्धश्वासं २ समासाद्य दुनोत्यहरहर्भृशम् । निषिद्धदान-
पृष्ठ १७६५
ग्रहणाच्छिन्नश्वासेन ३ गृह्यते । मर्त्यः शास्त्रार्थनिर्णिक्तं
वाक्यं यो दूषयत्यपि । पीड्यते तमकश्वासैः ४ क्षुद्रैः ५
पाकस्य विघ्नतः । परत्र कर्म्मणा देही नरकेषु
विपच्यते । नरकान्ते व्यालयोनि व्याघ्रीं शौकर
वायसीम् । पृथक्कर्मवशाद्योनिं गत्वा स परितप्यते ।
मानुषत्वमनुप्राप्य पूर्वोक्तनोपगृह्यते” ।
  • ३९ यक्ष्मरोगः । “यक्ष्मरोगस्य विज्ञानं दुर्वृत्तं सर्वरोगतः ।
सहायांस्तस्यवै राजन्! कययामि तवाग्रतः । सेनापतिः
क्षयगदस्य च पाण्डुरोगोदाहज्वरोऽग्रसरएव बलासमा-
स्यम् । हृल्लासकः कामलकः सहायोयौ श्वासकासा-
वपि मन्त्रिणौ च । स श्रुत्वैवंविधं घोरं यक्ष्मरीगं
सुदारुणम् । प्रणम्याह मुनिश्रेष्ठं त्रिकालसर्वदर्शिनम् ।
राजोवाच । अस्य रोगस्य चोत्पत्तिर्जायते केन
कर्मणा । केन दानेन विप्रेन्द्र! परत्रापि न वर्द्धते ।
तत्सर्वं विस्तराद्ब्रूहि श्रोतुमिच्छामि यत्रतः । भृगु-
रुवाच । पुरा येन हतो विप्रोन्यासापहरणं कृतम् ।
वृत्तिच्छेदः कृतो येन मधुविघ्नकरश्च यः । सर्वस्वेन प्रजा-
पीडा कृता येन स्वकर्मणा । स मृतो दह्यते याम्यै
र्दूतैरेव भयङ्करैः । निवेश्यान्धतमे मार्गे दक्षिणद्वारि-
भीषणे । ततो नीत्वा यमस्याग्रे कम्पमानञ्च पापिनम् ।
संयमन्यां यमस्याग्रे नीत्वा तं षापकारिणम् । हृष्ट-
पुष्टाश्च ते दूताश्चित्रगुप्तान्तिकं ययुः । चित्रगुप्तश्च तं दृष्ट्वा
क्रोधारुणितलोचनः । चित्रगुप्त उवाच । इमं पापं
दुराचारं नरकं नय दुर्वहम् योजनानां शतं लक्षं
कुम्भीपाकं सुदारुणम् । ताम्रकुम्भमये दीप्ते वालुकाङ्गार-
संवृते । एवंविधे तु दुर्वृत्तः क्षिप्तस्तत्र स्वकर्मतः । दह्य-
मानोऽतिदुःखेन यावदाभूतसंप्लवम् । कालान्ते स
पुनः पापी कृमियोनौ च जायताम् । तत्र जीवति वर्षाणि
दशपञ्च च भूपते! दुष्कृतस्य क्षयं कृत्वा ततो भवति
मानुषः । अत्युग्रक्षयरोगेण पीड्यमानस्तु दह्यते” ।
  • ४० रक्तपित्तम् । “शृणु राजन्! पुरा वृत्तं यस्येदं कदनं
महत् । कण्टकारण्यसंस्थाने सुव्रतो नाम वै द्विजः । तस्य
पुत्रो दुराचारः सर्वधर्मबहिष्कृतः । परद्रव्याभिलाषी च
परभार्य्यारतिप्रियः । एकदा कामतस्तेन पितृव्यस्य बधूर्ब-
लात् । धर्षिता तेन दोषेण यमस्य विषयङ्गतः । नरकान्ते
कुले जातस्तस्य कर्मसमुद्भवम् । रक्तपित्तगदं भुङ्क्ते स्वक-
र्मार्जितदोषतः” ।
  • ४१ गुल्मरोगः “अतःपरं प्रवक्ष्येऽहं गुल्मरोगं सुदारुणम् ।
यस्मादुत्पद्यते पुंसी मृतो वा याति यत्र वै । कर्मतो
याति तां योनिं येनोपशमनं भवेत् । काकोलनाम
नरकं कृमिपूयपरिप्लुतम् । क्षिप्यते तत्र दुष्टात्मा एकाकी
मिष्टभोजनः । अन्त्यजागमनेनापि नरकं नाम दुर्ग-
मम् । तस्मात् पिपीलिका भूत्वा जीवेद्वर्षचतुष्टयम् ।
दुष्कृतस्य क्षयं कृत्वा जायते तत्र मानवः । गुल्मरोगं
समासाद्य वेदनैः परितप्यते । अगदैर्न शमं याति तदा
ज्ञेयं तु कमजम्” ।
  • ४२ शूलरोगः “शृणुष्व कथयिष्येऽहं तव स्नेहान्मही-
पते! । मूढा निरपराधेन ये लोककदनप्रदाः । घ्नन्ति
शूलेन चास्त्रेण वाक्यदोषोद्गमेन च । तानेव निष्ठुरा
दूता यमस्याज्ञाकराश्च ये । महाप्रेताख्यनिरये दीप्त-
शूलसमावृते । भेदयन्तीव तत्रैव दम्पत्योर्भेदकानपि ।
भुक्त्वा तु कदनं घोरं मन्वन्तरचतुष्टयम् । नरकान्ते
ततो मर्त्येर्जायते पक्षियोनिषु । पक्षी भूत्वा वियोगी-
स्यात् जीवेद्वर्षचतुष्टयम् । मानुषत्वमवाप्यैव
शूलरोगातुरो भवेत्” ।
  • ४३ अर्शोरोगः । “शृणुष्व तव पुत्रेण पुरा जन्मान्तरे कृतम् ।
साध्वीमृतुमतीं स्नातां सन्निधिं नागतश्च सः । एतत्-
कर्म कृतं तेन गृहीतश्चार्शसा च सः । आत्महा भ्रूणहा
यस्तु कृतो येन च गोबधः । ते चार्शसा च गृह्यन्ते
भुक्त्वा कष्टं सुदुःसहम् । पञ्चत्रिंशत् समाः कोट्यो
लक्षाणामूनविंशतिः । तामिस्राख्यं महाघोरं गाढान्धतम-
सावृतम् । सर्वापदा समाकीर्ण दुष्प्रेक्ष्यं जीववर्जितम् ।
स तिष्ठेद्विवंशा दीनी येनेदं दुष्कृतं कृतम् । कर्मक्षय-
मनुप्राप्य पश्चाद्भवति मानुषः । शेषेऽर्शोगदवान् भूत्वा
दुःखेन पीडितो भवेत्” ।
  • ४४ भगन्दररोगः । “गुदस्य द्व्यङ्गुले पार्श्वे पित्तरक्तोदका-
कृतिः । प्रभवेद्विकटाकारो दुर्वहो मर्मभेदकः । स वै
भगन्दरो ज्ञेयः कर्मजो नोपशाम्यति । आचार्य्यभार्य्यागमनं
ये कुर्वन्ति नराधमाः । पक्षपातमधर्मेण बालवृद्धधना-
पहाः । ते पतन्ति महाघोरे नरके च सुदारुणे । यः
केशमूलहृन्मर्त्योबाहनं भद्रपीठकम् । चीरयेद्यस्तु दुर्बुद्धि-
गृह्णीयात् स्त्रीधनं च यः । स मृतस्तु विण्मलाख्यं
नरकं प्राप्य सीदति । गृध्रश्वव्याघ्रगोमायुभक्ष्यमाणोऽ-
तिदुःखितः । भुक्त्वायुतसहस्रञ्च नवसंख्यं क्षपेत् पुनः ।
सोऽप्यनेनैव रोगेण जन्मादावपि गृह्यते” ।
  • ४५ छर्द्दिः “शृणुष्व नृपशार्दल! कथयामि तवाग्रतः । गवा
पृष्ठ १७६६
गृहीतं यत्किञ्चित् मुखादाकृष्य योहरेत् । सोऽन्यजन्म
समासाद्य वातांशच्छर्दिमान् भवेत् । अतर्पयित्वा पितरं
जलपानं करोति यः । मृतः पैशीचकीं योनिं संप्राप्य
क्षुत्पिपासया । पीड्यते तप्यते तावद् यावद्व्योम-
गती रविः । मानुषत्वमनुप्राप्य पित्तांशच्छर्दिपीड़ितः ।
वातपित्तपरिज्ञानं सद्वैद्यस्योपदेशतः । ज्ञात्वा कर्मो-
द्भवं दानं देयं मुक्तिमभीप्सता” ।
  • ४६ हिक्का “हिक्का न शाम्यते यस्य सद्वैद्यस्योपदेशतः । तां
विद्यात् कर्मजां हिक्कां शृणु भूप । वदामि ते । उत्सादितं
येन तपः प्रवृत्तं यतेश्च गोविप्रमुखासनस्थम् । स याति
घोरं नरकं मनुष्यो हिक्वाविपन्नः पुनरेति सत्यम्” ।
  • ४७ अरोचकम् “पित्रे मात्रे चातिथये नादौ यस्तु च
भोजनम् । दत्त्वाश्नाति स पापिष्ठो यां गतिं याति तां शृणु ।
तस्यान्नं कोष्ठदेशे तु कृमिर्भूत्वा विपच्यते । मृते विष्ठा-
कृमिर्भूत्वा पच्यते बहुवासरान् । ततो वायसयोनित्वं
प्राप्य जीवेच्चिरं दिनम् । तत्र वायसयोनौ तु सर्वदुः-
खमवाप्य वै । मनुष्यत्वमवाप्नोति हीनयोनौ प्रजायते ।
आरोचकगदेनापि पीड़ितस्तत्र केवलम्” ।
  • ४८ स्वरभङ्गः “त्वया कृतं पुरा यच्च तन्मे निगदतः शृणु । सुस्वरं
गायमानन्तु श्रुतिमन्तं द्विजीत्तमम् । त्वं निषेधितवान्
पूर्वं तस्मात्ते गतिरीदृशी । असमाप्तपदं यस्तु गायमानन्तु
सुस्वरम् । निवारयति सोऽप्येवं स्वरभङ्गेण गृह्यते” ।
  • ४९ अतितृष्णा । “तृषितं गोकुलं प्राप्तं जलपानावलम्बनम् ।
विघ्नमाचरितं तेन प्रपाध्वंसकृते न च । जलपात्रं
तथा हृत्वा मृतो याति यमाज्ञया । ऊषरे निर्जले देशे
दुर्वहे सिकतामये, कीटयोनिं समासाद्य तत्र तिष्ठति
पापधीः । गोलोमसम्मितं कालं दुःखमाप्नोति निर्भ-
रम् । मानुषत्वमनुप्राप्य तृष्णाव्याधियुतो भवेत्” ।
  • ५० विस्फोटकम् । “सुधन्वा नामतस्तेन चण्डालस्य जलाशये ।
कृतं स्नानं जलं पीतं तत्कर्मवशतः शृणु । आयुःशेषे
मृतो दूतैर्गृहीतश्च यमाज्ञया । बहूष्णधूमसंयुक्ते
क्षिप्तः कूपे निराश्रये । भुक्त्वा तत्र महद्दुःखं तस्यान्ते
त्वत्कुले नृप! । जातोदाहयुतो भूत्वा विस्फोटकगदा-
र्द्दितः । स्वकर्मार्जितदोषं यो भुङ्क्तेका तस्य वेदना” ।
  • ५१ भ्रममूर्च्छा “भ्रमसूर्च्छारुजाविष्टो येन संजायते नरः ।
तच्छृणुष्व मयाख्यातं कथयामि समासतः । भ्रमस्तु जायते
तस्य तत्र दुःखकरः परः । सभायां कुटिलोलोकं
भ्रामयित्वाऽन्यथा वदेत् । मूर्च्छान्वितो भवेत् सोऽपि यत्र
याति शृणुष्व तत् । तमायुषोऽन्ते दुर्द्धर्षाः किङ्करा
यमदेशिताः । नीत्वा प्रयान्ति तत्रैव तामेव पिङ्गलां
पुरीम् । स्वकर्मवशतस्तत्र पिशाचाः सन्ति दुःखिताः ।
संक्षिप्तस्तत्र दुष्टात्मा पिशाचा यत्र मूर्च्छिताः । भ्रम-
युक्तो भवेत्तत्र पूर्ण्णमन्वन्तरं नृप! । उलूको जायते
तस्माद्दिवा वसति कोटरे । उलूकत्वक्षयं प्राप्य वकयोनौ
प्रजायते? वको जीवति वर्षैकं ततो भवति मानुषः ।
पूर्वकर्म्मप्रभावेन भ्रममूर्च्छान्वितो भवेत्” ।
  • ५२ हृद्रोगः । “हृद्रोगो जायते येन कर्मणा त्वमतः शृणु ।
सावधानो महीपाल! कथयामि तवाग्रतः । लोभात्
द्वेषाद्भवेद्यस्तु परपीडाप्रदायकः । मर्मोद्घाटनकृद्यो-
ऽपि कदनं तेन विन्दति । मनुष्यस्तेन दोषेण दुर्वहम्
नरकं व्रजेत् । नरकान्ते पुनर्मर्त्ये हृद्रोगैरतिदारुणैः ।
पीड्यमानी दुनोत्याशु कर्म्मदोषविशेषतः” ।
  • ५३ आमवातः । “पुरा येन महीपाल! कृतो यज्ञस्त्वदक्षिणः ।
उत्सृज्य ब्राह्मणायैव न दत्तं येन वा पुनः । अधर्मा-
र्जितवित्तानां संग्रहो येन वा कृतः । ग्रन्थिग्रन्थिषु
तस्यैव भवेदामस्य संग्रहः । तस्मात् प्रवर्त्तते शोथो
वेदना चातिदारुणा । आमवातस्तु स ज्ञेयः कर्मज-
श्चास्य निष्कृतिम्” ।
  • ५४ सर्व्वाङ्गवातव्याधिः “वातव्याध्युद्गमोयेन कर्म्मणा
देहिनां नृप! । उत्पन्नो बहुधाभावैः सम्यग् वक्ष्ये
ततः शृणु । सुरापयोषिद्रमणं येन वै वाञ्छता हठात् ।
कृतं स नरकस्यान्ते शुनोयोनौ प्रतिश्य च । जङ्घा-
शूलकटीशूलयुक्तः केवलखञ्जकः । परस्त्रीवसनं
येन हृतं तस्य ततः शृणु । मृतः स पुरुषै-
र्याम्यैर्नीतश्चे तोयमाज्ञया । आयसीञ्च शिलां तप्तां
वन्धद्वारपरिप्लुताम् । तद्गले बन्धयेद् यत्नाद्यावदिन्द्रा
श्चतुर्द्धश । तस्यान्ते शाकुनीं योनिं प्रयात्यव्दचतुष्टयम् ।
मानुषत्वमनुप्राप्य गृह्यते तेन संशृणु । सव्यथा
ग्रन्थयस्तस्य सर्व्वाङ्गं वातपीडितम् । सोष्णगात्रं सदा
तस्य भवतीह स्वकर्मतः” ।
  • ५५ तुन्दरोगः “घटो हृतः पुरा येन ब्राह्मणस्य महीपते! ।
दम्यते स च दुर्वत्तः संयमन्यां यमाज्ञया । कुम्भीरो-
जायते तस्माच्चिरकालं जले वसेत् । तस्यान्ते मानुषीं
योनिं संप्राप्य तुन्दवान् भवेत् । अशक्तः सव्वकार्य्येषु
गदोपचयदोषतः । सकल्प्य विप्र क्रतुदक्षिणादिकं
यदा न दद्यात् तदुपाहितं फलम् । समग्रमेदोप-
पृष्ठ १७६७
चयस्य संग्रहं भवत्यतीवोग्रत्ररेण तौन्दिकः” ।
  • ५६ अम्लपित्तम् “अथाम्लपित्तोपचयो भवेद्येन वदामि तत् ।
जिह्वास्वादसमाविष्टो मानवोयो निषेवति । निषि-
द्धमविकल्पेन स मृतः प्राप्य वायसीम् । गृध्रस्य
सारमेयीञ्च योनिमासाद्य कर्मतः । पश्चात् संजायते
देही विदग्धान्नं प्रकुप्य च । हृत्कण्ठञ्चाम्लपित्तेन
दह्यमानोऽतिदूषितः” ।
  • ५७ शोथोदरम् “लोभान्मोहाद्भयाद्द्वेषात् कृत्वाऽधर्मं वदेत्तु
यः । स भुङ्क्ते नरकं घोरं पश्चाच्छोथीदरी भवेत्” ।
  • ५८ जलोदरम् “ब्रह्मविष्णुमहेशेषु भिन्नभावं करोति यः ।
गृह्यते स तु दुष्टात्मा जलोदररुजा ततः” ।
  • ५९ शोथः “पुत्रस्ते शोथवान् जातः स्वकर्मार्जितदोषतः ।
कर्त्ता भुङ्क्तेऽन्यथा कात्र कर्त्तव्या परिदेवना । विनापरा-
धेन यतोबहवस्ताडिताः पुरा । कषायवेत्रवंशैश्च तेन
शोथार्द्दितश्च सः । उत्पातकसमाविष्टो जातस्तव गृहे
शृणु । तेन शोथार्द्दितः पुत्रो वृथा चिन्तापरः प्रभो!”
  • ६० मूत्रकृच्छ्रम् “मूत्रकृच्छ्रं भवेत् भूप! कर्मणा येन दारुणम् ।
देहिनी देहनाशार्थं तन्मे निगदतः शृणु । विधवा-
गमनं येन कृतं वा मद्यभोजनम् । मूत्रकृच्छ्री भवेत्
सोऽपि भुङ्क्ते च नरकं शृणु । अकृत्वा विगुणं कर्म
जन्मकर्म च बर्द्धते” ।
  • ६१ मूत्राघातः “मूत्राघातो भवेद्येन तन्मे निगदतः शृणु ।
दम्पत्योर्मैथुने यस्तु महाविघ्नं समाचरेत् । मूत्राघातो
भवेत्तस्य दुर्वहं कदनप्रदम्” ।
  • ६२ अश्मरी “अथाश्मरी भवेद्येन तन्मे निगदतः शृणु ।
ऋतुस्नातां स्त्रियं यस्तु सन्निधौ नोपगच्छति । अप्रीत्या
क्रोधभावाद्वा स याति नरकं नरः । पूयशोणित-
संमिश्रे नरके पच्यते भृशम् । मानुषत्वमनुप्राप्य
शार्कराश्मरिरीगवान् । भूप! विन्दत्यनुदिनं कदन मूत्र-
रोधतः । आर्त्तवस्य विपर्य्यासं यः करोति नराधमः ।
तस्मात् सर्वप्रयत्नेन नरोनार्य्यामृतावियात्” ।
  • ६३ मेहः । “मेहाश्च विंशतिः ख्याताः पृथक्कर्मप्रभावजाः ।
तेषां नामान्यहं वक्ष्ये क्रमादुत्पद्यते यतः । मधुमेहः
सान्द्रमेहः सुराशुक्रोदकस्तथा । इक्षुः सिकतशीधुश्च
सितमेहस्तथव च । फेनःक्षीरश्च नीलश्च हारिद्रः कालसं-
ज्ञकः । वशा रक्तश्च माञ्जिष्ठोमज्जा क्षारस्तथा गजः । सद्वै-
द्यस्योपदेशेन ज्ञात्वा मेहान् पृथक् पृथक् । नामानु-
बारतः पूर्वं कर्म ज्ञात्वा विधिञ्चरेत् । पूर्वं मैथुनकृद्यस्तु
शौकरीं योनिमाव्रजेत् । तस्यान्ते मानुषीं प्राप्य जलमेहा-
र्द्दितो भवेत् । मातृगामी बलान्मोहान्मधुमेही भवेन्नरः ।
रजकीगमनाच्चव क्षारमेही प्रजायते । सतीविपर्य्ययं
कृत्वा सान्द्रमेहान्वितो भवेत् । रोगिणीगमनान्मर्त्यो
भवेन्माञ्जिष्ठमेहवान् । मित्रस्त्री धर्षिता येन स भवेच्छु-
क्रमेहवान् । चतुष्पदाभिगमने भवेत्सिकतमेहवान् ।
स्वर्णहर्त्ता क्षीरमेही सितमेही सुरारतः । कालमेही
भवेत् सोऽपि पुष्पवत्याश्च धर्षणात् । रजस्वलायां रति
कृद्रक्तमेहार्द्दितो भवेत् । मज्जमेहयुतः सोऽपि
योऽन्त्यजागमनञ्चरेत् । इक्षुमेह्यतिदुर्वृत्तोविधवा
गतिदोषतः । ब्राह्मणीगमनाद्देही हस्तिमेहेन
मेहति । अक्षतागमनासक्ती हरिद्राभञ्च मेहति । मातरं
येऽभिगच्छन्ति भगिनीञ्चात्मनः सुताम् । श्वश्रूञ्चैवाक्षताऽ-
रक्तां भ्रातृभार्याञ्च मातुलीम् । गुरुस्त्रीं राजपत्नीञ्च
मित्रस्त्रीं वा कुटुम्बिनीन् । मृता वैवस्वतपुरीं यान्ति
भूतैः प्रपीडिताः । ताड्यन्ते तत्र दुर्वृत्ता मत्तः शृणु
वदामि ते । अङ्गारराशौ प्रक्षिप्य तान् दहन्ति यमाज्ञया ।
दूतास्तु महतीं घोरां ज्वलन्तीमायसीं शिलाम् ।
खादयन्ति च तान् पश्चात् नरके च क्षिपन्ति वै । नरकान्ते
पुनस्तेऽपि मृताः स्युः शूकरा भृशम् । शूकराः पञ्च-
वर्षाणि दश वर्षाणि कुक्कुराः । पिपीलिकास्त्रयोमासा
वृश्चिकाश्चाव्दमात्रकम् । भूत्वा प्रयान्ति गोयोनौ सरुजा
विफलेन्द्रियाः । तत्राधर्मक्षयं कृत्वा ततो मानुष-
योनिषु । प्रमेहगदवन्तः स्युः प्राप्नुवन्ति मनोव्यथाम्” ।
  • ६४ पुंस्त्वविनाशः “धर्म्मपत्नीं परित्यज्य योऽन्यस्त्रीमैथुने
रतः । स स्त्रीविरक्तो भवति पुंस्त्वं तस्य विनश्यति” ।
  • ६५ मुष्कवृद्धिः “सख्यं कृत्वा लुब्धकेन विप्रोवेदबहिष्कृत ।
सदैव गहनं याति मृगं हन्ति निषादवत् । क्षिपोतान्
बहून् सोऽपि नित्यं खादितवांस्तदा । आयुःशेषे
स वै दूतैर्याम्यैर्नीतोयमाज्ञया । निःक्षिप्तो नरके घोरे
तस्यान्ते त्वत्कुले द्विज! । जातः सर्वगुणोत्पन्नः स्वकर्म्म-
वशतः शृणु । मुष्करोगेण सन्तप्तः क्षीणरेताः सुदुःखितः”
  • ६६ उन्मादः “ब्राह्मणं वैष्णवं तीर्थं पितरं मातरं द्विजम् ।
नार्चयेन्निन्दयेद्वापि पुरा स नरक व्रजेत् । पुरीषाख्य
महाघोरे निरये श्लेष्मभोजने । अधःशिरा भवेत् पापी
नानादुःखप्रपीड़ितः । कर्म्मान्ते स पुनर्योनिं मानुषीं
प्राप्य कर्म्मभिः । उन्मादरोगवान् सर्व्योजायते नृपनन्दन!
स्मृतिभ्रमकरं द्रव्यं यैर्दत्त ब्राह्मणे गुरौ । दम्भाचारं
पृष्ठ १७६८
चरेद्यस्तु भवेदुन्मादरोगवान्” उन्मादभेदाः सुश्रुतोक्ता ज्ञेयाः
  • ६७ अपस्मारः “ये कोपबुद्धयः पूर्वं न जानन्त्युपकारिणम् ।
ब्राह्मणग्रासरोधश्च यैः कृतोमानवाधमैः । गोमुखं
रश्मिभिर्बद्धं ते स्युर्निरयगामिनः । नरकान्ते व्यालयोनिं
वैयाध्रीमपि शौकरीम् । ततो मानुषयोनौ स ह्यपस्मार
युतो भवेत्” ।
  • ६८ अस्थिशूलादिः “अजाञ्च तिलधेनुञ्च लौहवर्म्मतिला-
जिनम् । गजोभयमुखीधेनुसालूकस्यापि संग्रहम् । क्षौद्रं
तैलञ्च लवणं महादानस्य वा ग्रहम् । यः करोत्यन्यथा
योनौ मैथुनं काममोहितः । नरेषु गवि यो रेतःसेकं वा
कुरुते क्वचित् । ब्रह्मस्वं नृपतिद्रव्यं योहरेद्दुष्टभावतः ।
यस्त्यजेच्छरणं प्राप्तं तथा भार्य्यां विवाहिताम् । दन्ति-
दस्युनखिव्याघ्रसिंहगवादिभिर्हतः । स मृतः स्वास्थ्यरहिते
स्थाने च स विषीदति । अशेषकालं तस्यान्ते मानुषत्व-
मवाप्य सः । अस्थिग्रहादिभी रोगैर्गृहीतस्तप्यते सदा” ।
  • ६९ मूत्रकृमिः “अग्नये प्रक्षिपेदाज्यं मन्त्रहीनं विमोहितः ।
स मृतः पर्वताद्भूतैः पात्यतेऽधः पुनः पुनः । सर्वाङ्गव्याधि-
दिग्धः स क्रन्दमानो यमाज्ञया । भुक्त्वा कष्टं चिरादुग्रं
मानुषत्वमवाप्य सः । मूत्रक्रम्यर्द्दितं गात्रं प्राप्य मुह्यति
निर्भरम्” ।
  • ७० विद्रधिः “फलापहरणं येन कृतं चौर्य्येण वै पुरा । समृतो
यमदूतैश्च शास्यमानो यमाज्ञया । संयमन्यां पीडितोऽपि
दक्षिणद्वारि केवलम् । शोचयित्वा स्वयं कर्म्म क्रन्दमानः
पदेपदे । प्रक्षिप्तो नरके घोरे स नै सीदति पापकृत् ।
ततोवानरयोनौ च जन्मासाद्य स दुष्टधीः । तच्छेषे
मानुषत्वेऽपि स वै विद्रधिमान् भवेत्” ।
  • ७१ अपची वातग्रन्थिश्च “त्वङ्मध्ये बहवो यस्य पर्कटीफल-
सन्निभाः । भवन्ति ग्रन्थयस्तस्य नाम स्यादपचीगदम् ।
बहिर्वृहत्फलाकारं वर्द्धते च दिनं प्रति । वातग्रन्थीति सा
ज्ञेया जायते देहिदेहतः । इदं गदद्वयं भूप! जायते येन
तच्छृणु । कथयामि तव स्नेहाद्धर्मज्ञोऽसि महीपते! द्रुमञ्च-
बहुलच्छायं पर्व्वतञ्च नदीतटम् । वल्मीकाग्रं गवांगोष्ठ
गोशालां देवतालयम् । समासाद्य चरेन् मूत्रं तथा निष्ठी-
वनादिकम् । सकामं कुरुते यस्तु स प्राप्नोति ततः शृणु ।
थाम्यपाशञ्च दुर्भेद्यं पापिष्ठानां भयप्रदम् । कृमिपूय-
वशाविष्ठाशोणितेनापि पिच्छिलम् । पापिनस्तत्र गच्छन्ति
दूतैर्बद्धाः सुनिष्ठुरैः । शोचन्तः स्वानि कर्माणि क्रन्दमानाः
पदेपदे । यमाज्ञया च निरये घोरे पूयपरिप्लुते । क्षिप्ता-
स्तिष्ठन्ति तत्रैव यैरेवं दुष्कृतं कृतम् । तस्यान्ते मानुषीं
योनिं पाप्य तद्व्याधिमान् भवेत्” ।
  • ७२ शिरोरोगः “संप्राप्य तीर्थं ये मर्त्या नाचरन्तीह चोत्तमम् ।
ब्राह्मणञ्च गुरुंदृष्ट्वा न नमन्ति कुबुद्धयः । तत्कर्मपाश-
बद्धास्ते गृहीत्वा यमकिङ्करैः । पुरीं कृष्णवतीं नीत्वा
पिशाचकुलसेविताम् । ताड्यन्ते विविधैर्यन्त्रैर्घोरैः पापि-
भयावहैः । अनेककालं तत्रापि स्थित्वा भल्लूकयोनिषु ।
जायन्ते तत्र तिष्ठन्ति वर्षाणि दशसंख्यया । मेषयोनिं
ततोयान्ति त्रिरकदं तत्र संस्थिताः । भुक्त्वा कर्मवशात्
कष्टं मानुष्यं यान्ति ते पुनः । मानुषीं योनिमासाद्य-
शिरोरोगयुतास्तु ते ।
  • ७३ नेत्रहीनता “पुरा सकामतो येन कौटवी च पराङ्गना ।
दृष्टा नेत्राभिघातो वा गोः कृतो ब्राह्मणस्य वा । स
एव कर्मवशगः कुपितैर्यमकिङ्करैः । काकोले नरके क्षिप्तो
बद्धस्तिष्ठति शृङ्खलैः । वज्रतुल्यनखैः काकैस्तस्य नेत्रस्य कृन्त-
नम् । क्रियतेऽवदशतं यावत् उत्पत्योत्पत्य नित्यशः ।
शोचते स्वानि कर्माणि क्रन्दमानोऽतिदुःखितः । उत्पत्य-
नरकात् पश्चात् उलूकोजायते हि सः । सदा कोटरशायी
च दिवान्धः काकशङ्कितः । तिष्ठत्यव्दाष्टकं यावन्मा-
नुषत्वमवाप्य सः । नेत्रहीनोभवेद्दुःखी भवेत् कर्मवशी-
कृतः । यस्मिन् वयसि यत् कर्म सुकृतं वापि दुष्कृतम् ।
तस्मिन् सहायोभवति तद्वयस्येव जन्मतः । जीवनं
तद्वृथा मर्त्ये नेत्रहीनस्य देहिनः । विद्यमाने शरीरेऽपि
नेत्रहीनो निरर्थकः । प्राणागारमिदं देहं लोष्ट्रवत् प्राण-
वर्जितम् । तद्वन्नेत्रबहिर्देहो वृथा स्यान्मरणं वरम्” ।
  • ७४ रात्र्यन्धता “पुरा परस्त्री खलु कामबुद्ध्या विलोकिता वस्त्र-
विवर्जितापि । गोविप्रहिंसासु नितान्तदृष्टिर्वक्रीकृता नेत्र-
विहीनतायै । नक्तान्ध्यमन्दत्वमथान्यरोगः दिवान्धता
चार्बुददृग्रजा मे । दैवादुपेता कुरु दूरमाशु तां मेऽद्य-
देवेश! हरे! प्रसीद” ।
  • ७५ नेत्ररोगः “मन्ददृष्टिर्भवेद् येन मनुष्यस्त्वमतः शृणु ।
उदयास्तमवेलायां भानुं मध्यन्दिने नरः । ईक्षते कामतो
योऽपि मन्ददृष्टिः स वै भवेत् । यश्चाशुचिशरीरः
सन् वीक्षते दिवसेश्वरम् । नक्षत्रं ग्रहतारञ्च द्विजं वह्निञ्च
गां दिशम् । सोऽन्यजन्म समासाद्य नेत्रव्याधियुतो भवेत् ।
अनेन पटलच्छन्नतिमिरार्त्तियुतोभवेत् । दम्पतिभ्यां
प्रवृत्तं यो नरः प्रश्यति मैथुनम् । सोऽन्यजन्म समासाद्य
नेत्रपूयगदार्त्तिमान् । दम्पत्योः सुरतासक्तचित्तयोः सुर-
पृष्ठ १७६९
तेक्षणम् । यः करोति स वै नेत्रपूयरोगयुतो भवेत् ।
मृत्वा कष्टमवाप्नोति पिचटादिक्षतोद्भवैः । विहायात्मपतिं
या स्त्री पुत्रमाप्नोति जारतः । साऽन्यजन्मनि भूपाल!
विरूपाक्षी भवेद् ध्रुवम् । वल्गुदृष्ट्या प्रपश्येद्यः पुरुषो-
वाथ योषितम् । क्रोधाविष्टेन मनसा या वा श्रेष्ठं पतिं
द्विजम् । सान्यजन्म समामाद्य विषमाक्षीभवेद्ध्रुवम्” ।
  • ७६ गलगण्डः गण्डमाला च “पुरा येन कृतं मोहाद्गुरुस्त्री-
कण्ठदर्शनम् । स मृतः प्रान्तरे देशे निर्जले च यमाज्ञया ।
पात्यते किङ्करैर्वोरैर्दिव्यवर्षायुतत्रयम् । पुनर्जन्म समासाद्य
खकम वशतश्च सः । गलगण्डयुतोनित्यं गण्डमालाकुलो-
ऽपि सन् । पापी सीदति दुश्चेष्टः चिरं कर्मक्षयावधि” ।
  • ७७ नासारोगः “ब्राह्म्यकर्म्मपरिभ्रष्टो मन्मथाविष्टचेतनः । सुगन्धि-
कुसुमादीनि यानि द्रव्याणि तानि च । त्वया
सततमाघ्रातं प्राप्तं दत्तं न कस्यचित् । ब्राह्मणेभ्यो न देवेभ्यो
दत्तं तेनेदमीदृशम् । नासिकादेशमासाद्य कर्म्म चाश्रित्य
तिष्ठति । किञ्च वेश्याङ्गनासङ्गे यौवनं विफलीकृतम् ।
वेश्याश्च रमिता यैश्च तेनास्पृश्या द्विजातयः” ।
  • ७८ क्षीरहीनस्तनता “याचमानं पयो या स्त्री न ददाति
परार्भके । सा मृता सर्पिणी भूत्वा जीवेद्वर्षचतुष्टयम् । तस्मात्
कच्छपिकायोनौ प्रविश्याव्दचतुष्टयम् । प्रत्यक्षं नरकं भुक्त्वा
मानुषी तु भवेच्च सा । शृणु भूप! प्रसूता स्त्री क्षीणक्षी-
रस्तनी भवेत् । क्षीरं न क्षरते यस्याः स्तनात् सन्तप्यते हि
सा । आत्मजपालनेऽशक्ता भूत्वा कष्टञ्च विन्दति” ।
  • ७९ स्तनविस्फोटरोगः “स्तनपाकोभवेद्येन कर्म्मणा त्वमतः शृणु ।
दृष्ट्वाऽन्यपुरुषं या स्त्री स्तनं दर्शयते स्वकम् । सकामा-
कामबुद्ध्या वा दुष्टयौवनगर्विता । दूतैर्यमाज्ञया सापि
शास्यते च निरन्तरम् । भुक्त्वा स्वकर्म्मजं दुःखं पुनर्भूत्वा
च मानुषी । स्तनविस्फोटरोगाढ्या विस्मिता सुखवर्जिता”
  • ८० वेश्यात्वम् “मृते भर्त्तरि या नारी परस्वाम्यभिलाषिणी ।
सा मृता किङ्करैर्याम्यैर्दण्डपाशासिताड़िता । नीत्वा
यमाज्ञया सा च विशुद्ध्यर्थं ततः शृणु । आयसं पुरुषं तप्तं
स्फुरद्बभ्रुकरोज्ज्वलम् । आलिङ्गनमतिक्रूराः कारयन्ति नरं
भृशम् । वर्षायुतसहस्रान्ते ततो मर्त्ये च शौकरीम् ।
सारमेयीञ्च मार्जारीं योनिमाविश्य कर्म्मतः । मृत्वा च
मानुषी पश्चाद्वारस्त्रीत्वमवाप्य सा । अशेषपुरुषैः सा च
रम्यमाणा यथेच्छया । मर्त्ये मोहवशात् सा च सुखं प्राप्य
सुहर्षिता । न भवेद्या चान्यनारीयन्त्रग्रहणजीविका ।
यस्याः सा च भवेद्वेश्या जन्मजन्मन्यन्यथा न हि” ।
  • ८१ बाधिर्य्यम् “पुरा यस्तु महीपाल! धर्मचिन्तापराङ्मुखः ।
निन्दकः पितृमातॄणां द्विजतीर्थमुखस्य च । श्रुतेर्बाधिर्य्य-
रोगेण स एव परिगृह्यते” ।
  • ८२ श्लेष्मरोगः “नित्यक्रियाबहिर्यस्तु भूत्वा भुङ्क्ते स दुर्मतिः ।
मृतः भूमिपथं प्राप्य शुष्ककाष्ठोपजीवकः । वायसत्वमनु-
प्राप्य गृध्रकुक्कुटशूकरः । भूत्वा च मानुषत्वे स श्लेष्म-
रोगी सदा भवेत्” ।
  • ८३ हस्तशूलम् “द्विजः सन्ध्याविहीनो यः स शूद्रादधमः
स्मृतः । स मृतः शास्यते याम्यैर्वैवस्वतपुरोगमैः । काङ्कीं
पारावतीं योनिं गत्वा तिष्ठति वत्सरम् । ततो मानुषतां
प्राप्य हस्तशूलार्दितो भवेत्” ।
  • ८४ योनिरोगः “रममाणं पतिं या स्त्री तोषयेन्न यथेच्छया ।
उष्ट्रा सा च मृता वै स्यात् जीवेद्वर्षचतुर्द्दश ।
तस्माद्वै मानुषीं प्राप्य योनिं व्याध्यादियोगिनीम्
गत्वा सन्तप्यमाना सा योनिरोगेण निर्भरम् । किञ्च
चौर्य्यप्रकारेण या हरत्यन्यभोजनम् । सा तद्रोगेण सततं
गृह्यते नात्र संशयः” ।
  • ८५ असृग्दरम् प्रदरम् “अथासृग्दरमत्युग्रं प्रदरं योनिदोषजम् ।
कर्मणा येन राजेन्द्र! तन्मेनिगदतः शृणु । कृत्वा रन्ध-
नमादौ या योषिद्भुङ्क्ते बुभुक्षया । बुभुक्षितं पतिं त्यक्त्वा
वृथा पशुबधेन च । प्रयाति नरकं घोरं यत्
प्रोक्तं मद्यभक्षणे । प्रत्यक्षं नरकं भुक्त्वा ततो
भवति वायसी । वायसी दश वर्षाणि शुकी भवति सा
पुनः । मानुषी तु भवेत् पश्चादसृग्दरगदार्दिता ।
श्वेतप्रदरयुक्ता सा भवेद् या भक्तचोरिणी” ।
  • ८६ वृषलीसुतोत्पादनम् परकान्तासुतोत्पादनञ्च । “महामना
महादाता तीर्थकृत् पुण्यकृच्छुचिः । नगरीं भ्रमता तेन
काचिदेका मनोहरा । रण्डा व्यलोकि सौन्दर्यलीलारस-
विलासभूः । तां दृष्ट्वा मोहितो राजा सम्यक्संजातकौतुकः ।
तामादाय बलाच्छीघ्रं ययौ निजगृहं प्रति । विहाय
महिषीरन्या नारीः प्रियवशंवदाः । अत्रानुरागवान् राजा
क्षणं ताञ्च न मुञ्चति । तस्या गर्भेसुतं राजा जनया-
मास सुन्दरम् । दैवादपि महीपाल आयुःशेषे
यमाज्ञया । नीतो यमान्तिकं दूतैर्घोरैश्च भृशदारुणैः ।
घर्मराजपुरे तस्य चित्रगुप्तेन धीमता । एतत् श्रुत्वा
यमः क्रुद्धोऽब्रवीद्दूतान् सुनिष्ठुरान् । एवं क्रूरं दुरा-
चारं परयोषित्प्रियं सदा । रौरवं नरकं नीत्वा
ताडयध्वं निरन्तरम् । तस्याः पूरीषमूत्राभ्यामुत्पन्नस्य सुतस
पृष्ठ १७७०
च । एतस्य पितृलोकानामाहारार्थं प्रदास्यथ । रारवे-
ऽव्दशतं दुष्टं स्थापयित्वा च योनिगम् । ततः शूकर-
योनौ च पातोऽस्य भविता पुनः । यावत्तिष्ठति
भूलोके वृषलीगर्भजः सुतः । तावत्कालं पितॄणाञ्च
नरकेऽस्य स्थितिर्भवेत्” ।
आदर्शग्रन्थे यथा पाठोऽधिगतस्तथैव लिखितः । पुस्त-
कान्तरसंवादेन न्यूनतात्र याऽस्ति सा परिहरणीया
अत्रोक्तरोगादीनामकाराद्यक्षरविन्यासातिक्रमेणोपन्या-
सस्तु तत्रत्यक्रमानुरोधेन । तेन तत्रत्यक्रमानुसारेण
निदर्शितरोगादीनामुपशमार्थदानादिकपरिज्ञानं सुकरं भवति ।
तत्तद्दानादिकं विस्तरभयान्नोक्तम् तत एवावगम्यम् ।
शातातपभृगुभारतसंवादयोरेकत्र विषये विरोधप्रसङ्गे
रोगाल्पत्वमहत्त्वाभ्यां व्यवस्थोन्नेया । एवं दानादिभेदो-
ऽपि । मार्कण्डेयपुराणाद्युक्तकर्मविपाकभेदो विस्तरभया-
न्नोट्टङ्कितः, तत्तद्ग्रन्थेभ्योऽवधेयः ।

कर्म्मव्यतिहार पु० वि--अति हृ--घञ् कर्मणा व्यतिहारः

३ त० । परस्परैकजातीयक्रियाकरणे, क्रियाविनिमये ।
यथा यः कश्चित् येन कर्मणा इतरं कर्म्मत्वादिना संबध्नाति,
इतरोऽपि तज्जातीयेनैव कर्मणातं कर्मत्वादिना संबघ्नाति,
तयोः कर्मविनिमयो भवति । यथा अन्योन्यं ताड़यत
इत्यादौ । अत्र अन्योन्ययोरेकजातीयताडनक्रियायां कर्मत्वेन
सम्बन्धात्तथात्वम् । ‘कर्त्तरि कर्मव्यतिहारे’ ‘कर्मव्यतिहारे णच्
स्त्रियाम्’ “न कर्मव्यतिहारे” पा० । क्रियाव्यतिहारोऽप्यत्र

कर्म्मशाला स्त्री कर्म्मणः शिल्पादेः शाला । शिल्पादेः

शालायाम् । “गत्वा तु तां भार्गवकर्मशालाम्” । “जगाम
भार्गवकर्म्मशालाम्” भा० आ० १९, १०

कर्म्मशील त्रि० कर्म शीलयति शील--अण् । कर्मकरणार्थ-

शीलयुक्ते अमरः ।

कर्म्मशूर पु० कर्म्मणि शूरः । प्रयत्नेन १ प्रारब्धकर्म्मसमापके, आफलोदयं २ कर्म्मकारिणि च ।

कर्म्मश्रेष्ठ पु० । १ पुंलहपुत्रभेदे “पुलहस्य गतिर्भार्य्या त्रीनसूत-

सती सुतान् । कर्म्मश्रेष्ठं वरीयांसं सहिष्णुञ्च
महामते!” भाग० ४, १, ३१ । कर्म्मणा श्रेष्ठः । २ कर्मकार्य्य-
करणेन वरिष्ठे त्रि० ।

कर्म्मसंन्यास पु० कर्मणः स्वरूपतः फलतो वा संन्यास-

स्त्यागः । फलाभिसन्धिराहित्येन १ तत्फलत्यागे २ स्वरू-
पतः कर्मत्यागे च । वा परसवर्णे कर्म्मसंन्न्यासोऽप्यत्र ।
आश्रमशब्दे ४८० पृ० संन्यासविवरणम् ।

कर्म्मसंन्यासिक पु० कर्मणां संन्यासोऽस्त्यस्य ठन् ।

प्रव्रज्यान्विते भिक्षुके हलायुधः । वा परसवर्णे कर्म-
सन्न्यासिकोऽप्यत्र

कर्म्मसंन्यासिन् पु० कर्मसंन्यासोऽस्त्यस्य इनि । विधानेन

१ कर्म्मत्यागिनि भिक्षुके २ कर्मफलत्यागिनि च ।
“द्विविधः कर्मणस्त्यागः फलसाधनभेदतः । फलाय ज्ञानि-
नस्त्यागो जिज्ञासोर्ज्ञानसिद्धये” इत्युक्तदिशा ज्ञानार्थं
कर्मफलत्यागः, मोक्षार्थं स्वरूपतः कर्मत्यागश्च कर्म-
संन्यासः । “आरुरुक्षोमुनेर्योग कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते” इति गीतोक्तेः
“अविशुद्धधियः कर्मण्यधिकारो विशुद्धधीः । सत्यां विवि-
दिषोत्पत्तौ तदर्थं कर्म संत्यजेत्” इत्युक्तेश्च विविदिषाया-
मेव कर्मणोहेतुत्वावगमात् तदुत्पत्तौ तत्त्याज्यत्वावगमाच्च
तथात्वम् । वा परसवर्णे कर्मसंन्न्यासीत्यप्यत्र ।

कर्म्मसङ्ग पु० कर्मणि सङ्ग आसक्तिः सन्ज--घञ् ७ त० । इदमहं

करोमि अनेनैतत्फलं भोक्ष्ये इत्याकारकेऽभिनिवेशे ।

कर्म्मसचिव पु० कर्मसु सचिवः ७ त० । राज्ञां मन्त्रव्यतिरिक्त-

कर्मसु सहाये अमरः ।

कर्म्मसाक्षिन् पु० साक्षात् पश्यति नि० साक्षी ६ त० ।

“सूर्य्यः सोमो यमः कालो महाभूतानि पञ्च च ।
एते शुभाशुभस्येह कर्मणो नव साक्षिणः” इत्युक्तेषु सूर्य्या-
दिषु नवसु । ६ त० । क्रियासाक्षात्कर्त्तृमात्रे त्रि० ।
“योयस्तत्कर्मसाक्षी स्वभुजबलयुतोयश्च यश्च प्रतीपः” वेणी०

कर्म्मसिद्धि स्त्री ६ त० । इष्टानिष्टफलप्राप्तौ “स्वकर्मसिद्धिं

पुनराशंशसे” इति कुमा० ।

कर्म्मस्थान न० कर्मणः व्यापारचिन्तनस्य स्थानम् । ज्योति-

षोक्ते लग्नावधिदशमस्थाने । आजीवशब्दे विवृतिः ।
“लग्नेन्दुभ्यां वीर्य्यभाजः खभं स्यात् कर्मस्थानं खेशदृष्टं
युतं सत् । सत्खेटैर्वा युक्तदृष्टं सुवृत्त्यै पापैर्दृष्टं वा युतं
दुष्टवृत्त्यै । कर्मास्थोऽगुः स्वगृहे चेत् कुजज्ञकविभिर्युतः ।
दृष्टो वा वृद्धिहानिभ्यां युतोवित्तकरोमतः । कर्मभे
शुभखगामिलिताः स्यूराज्यदा न रिपुनीचगृहे चेत् ।
धर्मधान्य सुखवृद्धिकराश्च खायुषः स्थिरधनस्य च वृद्ध्यै ।
नीचारिसंस्था अपि पापदृष्टाः पापाश्च कर्मण्यशुभ-
प्रदाःस्युः । क्रूरा अपि खभवने शुभाः स्युर्विशे-
षतः सद्ग्रहवीक्षिताश्चेत् । शुभदृष्टाः शुभायोगाः
कर्मभे सद्ग्रहोद्भवाः । अशुभाः प्रायशः प्रोक्ताः
खलखेटनिरीक्षणात् । चिकित्सकाः शास्त्रविवादकाश्च पुरो-
हिता वञ्चनतत्परा वा । नरा अथो स्युर्गणकाः खलैस्तु
पृष्ठ १७७१
कर्मस्थितैः सद्ग्रहवीक्षितैश्च । तृतीयषष्ठगाः पापा
लग्नेन्दुभ्यां शुभा मताः । निधनान्त्यगता नेष्टा विशेषाल्लग्न-
संस्थिताः । एकोनविंशे वियुतिं रविः खे, चन्द्रोधन ३,
चन्द्रसुतः ४, क्रमेण । त्रिवेदनन्दैकमिते १२ ऽर्क ईज्यो ९
भृगुः १ सुखं खे कुसुतो १२ ऽस्त्रभीतिम्” जातके तच्चिन्ता-
प्रकारः ।

कर्म्माङ्ग न० ६ त० । विहितस्य यागादिकर्मणोऽङ्गे यथा दर्शादेः

प्रयाजादि । देशकालादयोऽपि कर्माङ्गानि । यथाह
गर्गः--“तिथिनक्षत्रवारादि साधनं पुण्यपापयोः । प्रधान
गुणभावेन स्वातन्त्र्येण न ते क्षमाः” । “प्रधानस्य विधेयस्य
कर्मणो गुणभावेनाङ्गत्वेन, तदुक्तं “कर्मासन्निहितं नैव
बुद्धौ विपरिवर्त्तते । शब्दात्तु तदुपस्थानमुपादेये गुणो-
भवेत्” भट्टका० “प्रमाणान्तरासन्निहितं कर्म बुद्धौ प्रथमं
न विषयीभवति प्राथमिकशब्दादेव तस्य कर्मण
उपस्थितिरिति उपादेये स्वविधेये कर्म्मणि पूजादौ
चन्द्रादिक्रियात्वेन तदवच्छिन्नकालत्वेन वा शुचि-
तत्कालजीविनः कर्माधिकारात् प्रमाणान्तर-
लभ्यत्वेनाविधेयत्वात्तिथ्यादिर्गुणः” ति० त० रघु० ।
“फलवत्सन्निधावफलं तदङ्गमिति” न्यायेन फलवत्-
प्रकरणे पठितानामफलानां सर्वेषां तदङ्गत्वमवधेयम् ।

कर्म्माजीव पु० कर्मणा आजीवः जीवनम् । १ शिल्पादिकर्म्म-

द्वारा जीवनसाधने । स च नृणां जन्मलग्नावधिदशमभावे
मेषादीनां द्रेक्काणनवांशद्वादशत्रिंशांशैः शिल्पादि-
कर्मविशेष आजीवे जातके उक्तः, तच्च आजीवशब्दे
६४१, ४२ पृ० दर्शितम् । कर्म जीवति अण् । २ शिल्पा-
दिकर्मजीविकावति त्रि० ।

कर्म्मात्मन् पु० कर्मणा आत्मा आत्मभावो यस्य । संसारि-

णि स्वादृष्टोपनिबद्धशरीरयुक्ते १ जीवे । “तस्मिन् स्वपति
तु खस्थे कर्मात्मानः शरीरिणः” मनुः । कर्मणि आत्मा-
मनो यस्य । २ क्रियासक्तचित्ते च ।

कर्म्माध्यक्ष पु० ७ त० । क्रियामाक्षिणि कृताकृतावेक्षके ।

कर्म्मान्त पु० कर्मणः कृषिकर्मणोऽन्तो यत्र । सम्पन्नकृषिकर्मणि

१ कृष्टभूमौ हेमच० । “अहन्यहन्यवेक्षेत कर्मान्तान्
वाहनानि च” मनुः । कर्मणः तत्फलस्यान्तो यत्र ।
२ इक्षुधान्यादिसंग्रहस्थाने च । “शुचीनाकरकर्मान्ते भीरू-
नन्तर्निवेशने” मनुः । “कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते
विशङ्किताः” भा० सभा० १६५ श्लो० । ६ त० । ३ कर्मसमाप्तौ
च । “कर्मान्ते दक्षिणां दयात्” स्मृतिः” ।

कर्म्मार पु० कर्म ऋच्छति ऋ--अण् । १ कर्मकारके (कामार)

जातिभेदे, “नमस्तक्षभ्योरथकारेभ्यश्च वो नमोनमः, नमः
कुलालेभ्यः कर्मारेभ्यश्च वो नमोनमः” यजु० ६, २७ ।
“तपसे कौलालं मायायै कर्मारम्” यजु० ३०, ७, पुरुष-
मेधे “मायायै कर्मारं लौहकारम्” वेददी० ।
“कर्मारस्य निषादस्य रङ्गावतारकस्य च” मनुः । “ये
धीवानोरथकाराः कर्मारा ये मनीषिणः” अथ० ६, ५,
२ वंशभेदे (वेड़वाँश), ३ कर्मरङ्गवृक्षे च राजनि० ।
४ कर्म्मप्राप्तरि त्रि० स्वार्थेकन् । कर्मारक कर्मरङ्गे वृक्षे
(कामराङ्गा) पु० राजनि० ।

कर्म्मार्ह पु० कर्मार्हति अर्ह--अण् । १ पुरुषे राजनि० । तस्य

कर्मकरणसमर्थत्वात्तथात्वम् । २ कर्मकरणसमर्थे त्रि० ।

कर्म्माशय पु० आशेरते पुरुषा अस्मिन् आ + शी--आधारे

अच् कर्मणामाशयः । कर्मजन्ये धर्माधर्मरूपे गुणभेदे
“क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः” पात० सू० ।
कर्मविपाकशब्दे च अस्य भाष्यविवरणे दर्शिते ।

कर्म्मिन् त्रि० कर्मास्त्यस्य ब्रीह्या० इनि । व्यापारयुक्ते स्त्रियां

ङीप् “कर्म्मिभ्यश्चाधिको योगी--तस्माद्योगी भवार्जुन!”
गीता । २ फलाभिसन्धानेन कर्मकर्त्तरि च । “यत्कर्मिणो
न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते”
मुण्ड० उ० । “इष्टापूर्त्तादिकर्मिणां धूमादिमार्गेण चन्द्र-
मण्डलादिप्राप्तिः” शा० भा० “ऋत्विक्कर्षककमिं-
णाम्” याज्ञ० ।

कर्म्मिष्ठ त्रि० अतिशयेन कर्मी इष्ठन् इनेर्लुक् । क्रियादक्षे जने

कर्म्मेन्द्रिय न० कर्मणां वचनादीनां निमित्तमिन्द्रियम् अश्व-

घासादिवत् निमित्तार्थे ६ त० । वचनादिकर्मकरेषु वागा-
दिषु इन्द्रिवेषु “पञ्चोक्त्यादानगमनविसर्गानन्दकाः
क्रियाः । कृषिवाणिज्यसेवाद्यास्तेष्वेवान्तर्भवन्ति हि” ।
“वाक्पाणिपादपायूपस्थैरक्षेस्तत्क्रियाजनिः । मुखादि
गोलकेष्वास्ते तत्कर्म्मोन्द्रयपञ्चकम्” पञ्चदश्यां तेषां नाम
कार्य्याण्युक्तानि । “वाक्पाणिपादपायूपस्थानि कर्मेन्द्रिया-
ण्याहुः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चनाम्”
सां० का० । “इन्द्रस्यात्मनश्चिह्नत्वादिन्द्रियमुच्यते” सां० कौ०
व्याकृतञ्चैतदस्माभिः तद्विवृतौ ।
“तेषामिन्द्रियशब्दार्थत्वे कारणमाह इन्द्रस्यात्मनैति ।
“इन्द्रोमायाभिः पुरुरूवईयते इत्यादि” श्रुतौ इन्द्रश-
ब्दस्यात्मार्थकत्वदर्शनात्, पाणिनिना “इन्द्रियमिन्द्रलिङ्गम्”
इत्यादिना इन्द्रशब्दात् तल्लिङ्गाद्यर्थे घप्रत्ययेन निपा-
पृष्ठ १७७२
तितत्वात्तस्य तथात्वम । करणव्यापारः कर्त्तृव्यापाराधीनः
करणव्यापारत्वात् कुठारादिव्यापारवदिति करणव्यापारेण
कर्त्तुरनुमानात् इन्द्रियादीनां पुरुषलिङ्गत्वम्” ।
अत्र विहरणशब्दस्य गतिपरत्वम् । स्पष्टमुक्तं शा० ति० ।
“ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि ।
वाक्पाणिपादपाय्वन्धुसंज्ञान्याहुर्मनीषिणः । वचनादा-
नगतयोविसर्गानन्दसंयुताः । कर्मेन्द्रियार्थाःसंप्रोक्ताः”
“अन्धुर्लिङ्गम्” राघवभट्टः ।
  • तेषां लक्षणनिर्णयार्थं द्वितीया कारिका या दर्शिता
सा च कौ० व्याख्याता । “पञ्चानां कर्मेन्द्रियाणाम्, कण्ठ-
ताल्वादिस्थानमिन्द्रियं वाक्, तस्या वृत्तिर्वचनम्” व्याकृतञ्चै-
तदस्माभिः “एवं वागिन्द्रियस्य स्थानमुक्त्वा लक्षणकथनाय
तद्वृत्तिमाहतस्यावृत्तिर्वचनमिति । तथा च वचनसाधन-
मिन्द्रियं वाक् । एवम् आदानसाधनमिन्द्रियं पाणिरित्यादि
लक्षणम् । कारिकायां विहरणपदं चलनपरं तच्च
गतिभेदः । उत्सर्गः उदराद् मलस्यापसारणेन त्यागः । आनन्दः
आनन्दविशेषजनको रमणीसंभोगात्मको व्यापारभेदः” ।
अत्रताल्वादिस्थानमित्युक्त्या आदिपदात् “अष्टौ स्थानानि
वर्ण्णानामुरःकण्ठः शिरस्तथा । जिह्वामूलञ्च दन्तौष्ठं
नासिका चैव तालु च” इत्युक्तानामुर आदीनां ग्रहणम् ।
अतएव शङ्खेन “हस्तौ पादावुपस्थञ्च जिह्वा पायुस्तथैव
च । कर्मेन्द्रियाणि पञ्चैव” इति जिह्वायाः कर्मोन्द्रिय-
त्वस्योक्तिः सङ्गच्छते । इन्द्रियाणि च आहङ्कारिका-
णीति सांख्या मन्यन्ते “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्ग-
णश्च षोड़शकः । सात्विक एकादशकः प्रवर्त्तते वैकृ-
तादहङ्कारात्” इति सां० का० । “प्रकाशलाघवाभ्या-
मेकादशक इन्द्रियगणः मात्विकः वैकृतादहङ्कारात् प्रव-
र्त्तते” इति कौ० व्याख्यातञ्चैतदस्माभिः ।
एकादशकगणस्य सात्विकत्वमुपपादयितुमाह प्रकाशलाघ-
वाभ्यामिति “सत्वं लघु प्रकाशकम्” इति कारिकया
लाघवस्य प्रकाशस्य च सत्वधर्म्मत्वस्योक्तेः इन्द्रियाणाञ्च प्रका-
शकत्वात् लाघवाच्च सत्वकार्य्यत्वं निश्चितं, तथा च सात्वि-
कादेवाहङ्कारात् तस्योत्पत्तिर्युक्ता । वैकृतात् विकृतमेव
वैकृतन्तस्मादित्यर्थः” । इन्द्रियाणाञ्च यथा आहङ्कारि-
कत्वं तथा सां० सू० भाष्ययोः समर्थितम् ।
“अभिमानोऽहङ्कारः” “एकादश पञ्चतन्मात्रं
तत्कार्य्यम्” सू० ।
“अहङ्करोतीत्यहङ्कारः कुम्भकारवत् अन्तःकरणद्रव्यं, स
च धर्मधर्म्यभेदादभिमान इत्युक्तोऽसाधारणवृत्तिता-
सूचनाय, बुद्ध्या निश्चित एवार्थेऽहङ्कारममकारौ जायेते ।
अतो वृत्त्योः कार्यकारणभावानुसारेण वृत्तिमतोरपि
कार्यकारणभाव उन्नीयत इति । एकादशेन्द्रिंयाणि शब्दा-
दिपञ्चतन्मात्रं चाहङ्कारस्य कार्यमित्यर्थः । मयानेनेन्द्रियेणेदं
रूपादिकं भोक्तव्यमिदं मे सुखसाधनमित्याद्यभिमानादेवा-
दिसर्गेष्विन्द्रियतद्विषयोत्पत्त्याहङ्कार इन्द्रियादिहेतुः लोके
भोगाभिकामेनैव रागद्वारा भोगोपकरणसर्जनदर्शनात्
“रूपरागादभूच्चक्षुरित्यादिना मोक्षधर्मे हिरण्यगर्भस्य
रागादेव समष्टिचक्षुरादेरुत्पत्तिस्मरणाच्चेति भावः ।
अतश्च भूतेन्द्रिययोर्मध्ये रागधर्मकं मन एवादावह-
ङ्कारादुत्पद्यत इति विशेष, स्तन्मात्रादीनां रागकार्य्य-
त्वादिति तत्रापि विशेषमाह सा० का० । “सात्विकमेकादशकं
प्रवर्तते वै कृतादहङ्कारात्” । “एकादशानां पूरणमेका-
दशकं मनः षोड़शात्मगणमध्ये सात्विकम् । अतस्त-
द्वैकृतात् सात्विकाहङ्काराज्जायत इत्यर्थः । अतश्च
राजसाहङ्काराद्दशेन्द्रियाणि तामसाहङ्काराच्च तन्मात्राणी-
त्यपि मन्तव्यम् । “वैकारिकस्तैजसश्च तामसश्चेत्यहं
त्रिधा । अहन्तत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् ।
बैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः । तैजसादि-
न्द्रियाण्येव ज्ञानकर्ममयानि च । तामसो भूतसूक्ष्मा-
दिर्यतः स्वं लिङ्गमात्मनः” इत्यादिस्मृतिभ्य एव निर्ण-
यात् । अतएव पुराणाद्यनुसारेण कारिकायामप्ये-
तदुक्तम् । “सात्विक एकादशकः प्रवर्तते वैकृतादह-
ङ्कारात् । भूतादेस्तन्मात्रं स तामसस्तैजसादुभयम्”
इति । तैजसो राजसः । उभयं ज्ञानकर्म्मेन्द्रिये ।
ननु देवतालयश्रुतिरित्यागामिसूत्रे करणानां देवतालयं
वक्ष्यति तत्कथं कारिकयापि देवानां सात्विकाहङ्कार-
कार्यत्वं नोक्तमिति उच्यते समष्टिचक्षुरादिश-
रीरिणः सूर्यादिदेवता एव चक्षुरादिदेवताः श्रूयन्ते ।
अतश्च व्यष्टिकरणानां समष्टिकरणानि देवतेत्येव पर्यव-
स्यति । तथा च व्यष्टिसमष्ट्योरेकताशयेनात्र शास्त्रे
देवाः करणेभ्यो न पृथङ्गिर्दिश्यन्ते । अतः समष्टी-
न्द्रियाणि मनोऽपेक्षयाल्पसत्वत्वेन राजसाहङ्कार-
कार्यत्वेनैव निर्दिष्टानि । स्मृतिषु च व्यष्टीन्द्रियापेक्षयाऽ-
धिकसत्वत्वेन सात्विकाहङ्कारकार्यतयोक्तानीत्यविरोध-
इति मन्तव्यम् । तदेवमहङ्कारस्य त्रैविध्यान्महतोऽपि
तत्कारणस्य त्रैविध्यं मन्तव्यम् । “सात्विको राजसश्चैव
पृष्ठ १७७३
तामसश्च त्रिधा महान्” इति स्मरणात् त्रैविध्यं
चानयोर्व्यक्तिभेदादंशभेदाद्वेत्यन्यदेतत् । एकादशेन्द्रियाणि
दर्शयति” भा० । “कर्मेन्द्रियबुद्धीन्द्रियैरान्तरमेकादशकम्” सू०
“कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च, ज्ञानेन्द्रि-
याणि च चक्षुःश्रोत्रत्वग्रसनघ्राणाख्यानि पञ्च ।
एतैर्दशभिः सहान्तरं मन एकादशकमेकादशेन्दियमित्यर्थः ।
इन्द्रस्य सङ्घातेश्वरस्य करणमिन्द्रियम् । तथा चाहङ्कार-
कार्यत्वे सति करणत्वमिन्द्रियत्वमिति” । “इन्द्रियाणां
भौतिकत्वमतं निराकरोति” भा० । “आहङ्कारिकत्वश्रुतेर्न
भौतिकानि” सू० । इन्द्रियाणीति शेषः ।
आहङ्कारिकत्वे च प्रमाणभूता श्रुतिः काललुप्ताप्याचार्य-
वाक्यान्मन्वाद्यखिलस्मृतिभ्यश्चानुमीयते । प्रत्यक्षा श्रुतिस्तु
“अहं बहु स्याम्” इत्यादि । ननु--“अन्नमयं हि सौम्य
मनः” इत्यादिर्भौतिकत्वेऽपि श्रुतिरस्तीति चेन्न प्रकाशक-
त्वसाम्येनान्तःकरणोपादानत्वस्यैवोचिततयाहङ्कारिकत्वश्रुते-
रेव मुख्यत्वात् । भूतानामपि हिरण्यगर्भसङ्कल्प-
जन्यतयान्नस्य मनोजन्यत्वाच्च । व्यष्टिमनआदीनां
भूतसंसृष्टतयैव तिष्ठतां भूतेभ्योऽभिव्यक्तिमात्रेण तु
भौतिकत्वश्रुतिर्गौणीति । ननु तथाप्याहङ्कारिकत्वनिर्णयो
न घटते? “अस्य पुरुषस्याग्निं वागप्येति वातं प्राणश्च-
क्षुरादित्यम्” इत्यादिश्रुतौ देवतास्विन्द्रियाणां लयकथनेन
देवतोपादानकत्वस्याप्यवगमात् कारण एव हि कार्यस्य
लय इत्याशङ्क्याह भा० । “देवतालयश्रुतिर्नारम्भकस्य” सू०
“देवतासु या लयश्रुतिः सा नारम्भकविषयि-
णीत्यर्थः, अनारम्भकेऽपि भूतले जलविन्दोर्लयदर्शनात् ।
अनारम्भकेष्वपि भूतेष्वात्मनो लयश्रवणाच्च । “स एष
विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु
विनश्यति” इत्यादिश्रुताविति भावः” भा० ।
एतन्मूलतयैव शां० ति० “वैकारिकादहङ्काराद्दे वा वैका-
रिका दश । दिग्वातार्कप्रचेतोऽश्वि + वह्नीन्द्रोपेन्द्रमि-
त्रकाः । तैजसादिन्द्रियाण्यासंस्तन्मात्रक्रमयोगतः” । इन्द्रि-
याणामधिष्ठातृदेवानाञ्च आहङ्कारिकत्वमुक्तम् ।
कर्मेन्द्रियाणामधिष्ठातृदेवाश्च वाचः वह्निः, पाणेरिन्द्रः,
पादस्य उपेन्द्रः, पायोः मित्रः, उपस्थस्य कः ब्रह्मा ।
वेदान्तिमते च आकाशादीनां रजोंशैः वागादीनां
क्रमेणोत्पत्तिः “रजोऽशैः पञ्चभिस्तेषां क्रमात् कर्मेन्द्रि-
याणि तु । वाकपाणिपादपायूपस्थाभिधानानि जज्ञिरे”
पञ्चदश्युक्तेः तेषाञ्चाहङ्कारित्वं प्रमेयविवरणोपन्यासे
निराकृतं, तच्च आत्मशब्दे ६६६ पृ० दर्शितम्, तेषामनु-
मानेन भौतिकत्वसिद्धिरिति शुष्कतार्किकमतमपि तत्र
निरासितं तत्रैव पृ० दृश्यम् । “तेषां रजोऽंशैर्जातानि
क्रमात् कर्मेन्द्रियाणि च” शब्दचि० भागवतवाक्यम् ।

कर्व दर्पे भ्वा० प० अक० सेट् । कर्व्वति अकर्व्वीत् चकर्व

प्रनिकर्वति । कर्वटः कर्वुरः कर्वूरः ।

कर्व पु० किरति विषयेषु चित्तम् कॄ--व । कामे उज्ज्व० ।

कामस्य चित्तविक्षेपकत्वात् तथात्वम् ।

कर्वट पु० कर्व--अट । द्विशतग्राममध्ये सुन्दरस्थाने, यत्र

गत्वा क्रयविक्रयादिना सन्निहितजनपदवासिनो
जनाजीवन्ति १ तादृशे ग्रामे पुरे वा २ नगरमात्रे च अमरटीका
“कर्वटं द्विशतग्राममध्ये ग्रामोमनोहरः” हारा० उक्तेः
न० च । ३ प्रचुरकण्टकसन्ताने ग्रामे च । “धनुःशतं
परीणाहो ग्रामात् क्षेत्रान्तरं भवेत् । द्वे शते कर्वटस्य
स्यात् नगरस्य चतुःशतम्” याज्ञ० “कर्वटस्य प्रचुर-
कण्टकसन्तानस्य ग्रामस्य” मिता० कूर्मविभागे प्राच्यां
दिशि वृ० सं० उक्ते ४ देशभेदे “अथ पूर्वस्यामञ्जन-
वृषभध्वजपद्ममाल्यवद्गिरयः । व्याघ्रमुखसुह्मकर्वटचन्द्र-
पुराः शूर्पकर्णाश्च” । “ताम्रलिप्तं च राजानं कर्वटाधिं-
पतिं तथा । सुह्मानामधिपं चैव ये च सागरवासिनः”
भा० स० २९ भीमप्राचीविजये । त्रिकाण्डशेषे तु
“चतुरष्टशतग्रामान्तर्द्रोणमुखकर्कटौ” इत्युक्तेः ५ अष्ठशत-
ग्राममध्यस्थग्रामे च पु० ।

कर्वर न० कृ--वरच् । १ कर्मणि निरु० । “अन्यदद्य कर्वरमन्यदु”

ऋ० ६, २४, ५ । “कर्वरं कर्मनामैतत्” भा० । कॄ--विक्षेपे
ष्वरच् । २ व्याघ्रे ३ राक्षसे च पुंस्त्री उज्ज्व० जातित्वात्
स्त्रियां ङीष् ४ निशायां स्त्री विश्वः षित्त्वात् ङीष् । कर्बरी-
त्येव । सा च ५ हिङ्गुपत्र्याम् जटाघ० ६ शिवायां मेदि० ।

कर्वुदार पु० कर्व दर्पे उण् तं दारयति दृ--अण् । कोविदारवृणे

कर्वु(र्वू)र पु० कर्बु(र्बू)रशब्दार्थे ।

कर्श्य पु० कृश--यत् । कर्चूरे, (कचूर) राजनि० ।

कर्ष पुंन० कृष--अच् कर्मणि घञ् वा । “दशार्द्धगुञ्जं प्रवदन्ति

माषं माषाह्वयैः षोड़शभिश्च कर्षम्” लीला० उक्ते
अशीतिरत्तिकापरिमाणे षोड़शमाषके मानभेदे २ तन्मिते
सुवर्णे च । ३ विभीतकवृक्षे पु० शब्दरत्ना० । भ्वा० कृष--भावे
घञ् । ४ आकर्षणे । तुदा० कष--भावे घञ् । ५ विलेस्वने च ।
अत्र प्रसङ्गात् पौराणिकस्मार्त्तकर्मोचित स्मृत्यादिपरिभा-
षितवैद्यक परिभाषितमानभेदौच्यते । तत्र पौराणिकाटिमा
पृष्ठ १७७४
नमाह हेमा० दा० ख० मनुः “लोकसव्यवहारार्थं याः संज्ञाः
प्रथिता भुवि । ताम्ररूप्यसुवर्ण्णानां ताः प्रवक्ष्याम्यशेषतः ।
जालान्तरगते भानौ यत् सुक्ष्मं दृश्यते रजः । प्रथमं तत्
प्रमाणानां त्रसरेणुं प्रचक्षते । त्रसरेण्वष्टकं ज्ञेया
लिक्षैका परमा यतः । ता राजसर्षपस्तिस्रस्ते त्रयो-
गौरसर्षपः । सर्षपाः षट् यवोमध्यस्त्रियवश्चैव
कृष्णलः । पञ्च कृष्णलको माषस्ते सुवर्णस्तु षोडश ।
पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले
समधृते विज्ञेयोरूप्यमाषकः । ते षोड़श स्याद्धरणं पुराण-
श्चैव राजतः । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः
पणः । धरणानि दश ज्ञेयं शतमानस्तुराजतः । चतुःसौ-
वर्णिको निष्कोविस्तं तु तत्प्रमाणकम्” याज्ञवल्क्यः “जाल-
सूर्य्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा
तु तास्तिम्रो राजसर्षप उच्यते । गौरस्तु ते त्रयः षट्
ते यवोज्ञेयस्तु ते त्रयः । कृष्णलः, पञ्च ते माषस्ते सुवर्ण्णस्तु
षोडश । पलं सुवर्ण्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम् ।
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते । शाणमानन्तु
दशभिर्द्धरणैः पलमेव च । निष्कः सुवर्णाश्चत्वारः कार्षि-
कस्ताम्रिकः मणः” आह विष्णुः” “जालस्थार्कमरीचिगतं
रजस्त्रसरेणुसंज्ञं, तदष्टकं लिक्षा, तत्त्रयं
राजसर्षपः, तत्त्रयं गौरसर्षपः, ते षट्यवः, तत्त्रयं कृष्णलः,
तत्पञ्चकं माषः, तद्द्वादशकमक्षार्द्धं स चतुर्माषकं
सुवर्ण्णः, तच्चतुःसौवर्ण्णिकोनिष्कः । द्वे कृष्णले रूप्य-
माषकः ते षोडश धरणम्” “ताम्रिकः कार्षापणः पण”
कात्यायनः “माषो विंशतिभागश्च ज्ञेयः कार्षापणस्य तु ।
काकिनी तु चतुर्भागो माषस्य परिकीर्त्तिता । पञ्चनद्याः
प्रदेशे तु संज्ञेयं व्यावहारिकी । कार्षापणप्रमाणं तु तत्
निबद्धमिहैव यत् । ते द्वादश सुवर्णस्तु दीनारस्तु
त्रिकः स्मृतः” नारदः “कार्षापणो दक्षिणस्यां दिशि रौप्यः
प्रवर्त्तते । पणो निबद्धः पूर्व्वस्यां षोडशैव पणाः पलम् ।
अगस्तिरपि “यवः स्यात् सर्षपैः षडिभर्गुञ्जा चैका
त्रिभिर्यवैः । गुञ्जाभिः पञ्चभिश्चैको माषकः परिकीर्त्तितः ।
भवेत् षोडशभिर्माषैः सुवर्णस्तैः पुनः स्मृतः । चतुर्भिः
पलमेकन्तु दश ते घरणं विदुः” । “अष्टभिर्भवति व्यक्तै
स्तण्डुलः गौरसर्षपैः । स वैणवयवः प्रोक्तो गोधूमं
चापरे जगुः” । विष्णुगुप्तः “पञ्चगुञ्जोभवेन्माषः
शणस्तेश्च चतुर्गुणैः । कलञ्जं धरणं प्राहुर्भणिमानविशा-
रदाः । मज्जाटिकाकलञ्जस्तु तौल्ये गुञ्जाद्वयं विदुः ।
सज्जाटिका विंशतिस्तु धरणं तद्विदां मतम् । स्थूलमध्याति-
सूक्ष्माणां सुसूक्ष्माणामपि स्मृतम्” । “दीनारोरोपकैरष्टा-
र्विंशत्या परिकीर्त्तितः । सुवर्णसप्ततितमोभागोरोपक
इष्यते” प्रकान्तरेणाप्याह सुक्षेत्रे यथावन्मध्यपाककाले
निष्पन्नधान्ययवादश सुवर्ण्णमाषः पञ्च वा गुञ्जाः
सुवर्णमाषकः ते षोडश सुवर्ण्णः एवं प्रमाणसिद्धस्य
द्वितीया संज्ञा कर्ष इति चतुष्कर्षं पलं पलानां शतेन
तुला विंशतितौलिको भारः अस्यैव भारस्य उदतौलिक
इति द्वितीया संज्ञा” दानखाण्डे हेमाद्रिः । एतेषा
मानभेदः शक्तितारतम्यापेक्षया ग्राह्यतावेदनार्थः ।
वैद्यकपरिभाषितमानं भावप्र० ।
“न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् ।
अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया ।
चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः । विहाय सर्व-
मानानि मागधं मानमुच्यते । त्रसरेणुर्बुधैः प्रोक्त-
स्त्रिंशता परमाणुभिः । त्रसरेणुस्तु पर्य्यायनाम्ना
वंशी निगद्यते । जालान्तरगतैः सूर्य्यकरैर्वंशी विलो-
क्यते । षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च
राजिका । तिसृभीराजिकाभिश्च सर्षपः प्रोच्यते
बुधैः । यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ।
षड्भिस्तु रत्तिकाभिः स्यान्माषको हेममानके । माषै-
श्चतुर्भिः शाणः स्याद्धरणः स निगद्यते । टङ्कः स एव
कथितस्तद्द्वयं कोल उच्यते । क्षुद्रको वटकश्चैवं
द्रङ्क्षणः स निगद्यते । कोलद्वयन्तु कर्षः स्यात्
स प्रोक्तः पाणिमानिका । अक्षः पिचुः पाणितलं
किञ्चित्पाणिश्च तिन्दुकम् । विडालपदकं चैव तथा
षोडशिका मता । करमध्यो हंसपदं सुवर्णं कवलग्रहः ।
उदुम्बरञ्च पर्य्यायैः कर्षमेव निगद्यते । स्यात्कर्षा-
भ्यामर्द्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्याञ्च पलं
ज्ञेयं मुष्टिराम्रञ्चतुर्थिका । प्रकुञ्चः षोडशी विल्वं
पलमेवात्र कीर्त्त्यते । पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च
निगद्यते । प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्द्धशरावकः ।
अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका ।
शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः । शरावाभ्यां
भवेत् प्रस्थः चतुःप्रस्थैस्तथाढकः । भाजनं कांस्य-
पात्रं च चतुःषष्टिपलश्च सः । चतुर्भिराढकैर्द्रोणः
कलशोनल्वणोऽर्मणः । उन्मानश्च घटोराशिद्रोणपर्यायसं
ज्ञितः । दोणाभ्यां सूर्यकुम्भौ च चतुःषष्टिशरावकः
पृष्ठ १७७५
शूर्पाभ्याञ्च भवेद्द्रोणी वाही गोणी च सा स्मृता ।
द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः ।
चतुःसहस्रपलिका षण्णवत्यधिका च सा । पलानां
द्विसहस्रञ्च भार एकः प्रकीर्त्तितः । तुला पलशतं
ज्ञेयं सर्वत्रैवैष निश्चयः । माषटङ्काक्षविल्वानि
कुडवप्रस्थमाढकम् । राशिर्गोणी खारिकेति यथोत्तरचतु-
र्गुणम् । मागधपरिभाषायां षड्रत्तिको माषश्चतुविं-
शतिरत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः । अयञ्चरक-
सम्मतः । सुश्रुतमते पञ्चरत्तिकोमाषो विंशतिरत्ति-
कष्टङ्कोऽशीतिरत्तिकः कर्षः । अयमेव कालिङ्गपरिमा-
षायामपि यतस्तत्राष्टरत्तिकोमाषो द्वात्रिशद्रत्तिकष्टङ्कः
सार्द्धटङ्कद्वयमितः कर्षः । गुञ्जादिमानमारभ्य यावत्
स्यात्कुडवस्थितिः । द्रवार्द्रशुष्कद्रव्याणां तावन्मानं
समं मतम् । प्रस्थादिमानमारभ्य द्विगुणं तद्द्रवा-
र्द्रयोः । मानन्तथा तुलायास्तु द्विगुणं न क्वचित्
स्मृतम् । मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् ।
विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् । इति
मागधमानम् । कालिङ्गमानम् “यतो मन्दाग्नयो ह्रस्वा
हीनसत्वा नराः कलौ । अतस्तु मात्रा तद्योग्या
प्रोच्यते सुज्ञसम्मता । यवो द्वादशभिर्गौरषर्षपैः
प्रोच्यते बुधैः । यवद्वयेन गुञ्जा स्यात् त्रिगुञ्जो वल्ल
उच्यते । माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा मवेत्
क्वचित् । चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव
च । गद्याणो माषकैः षड्भिःकर्षः स्याद्दशमाषिकः ।
चतुः कर्षैः पलं प्रोक्तं दशशाणमितं बुधैः । चतुः
पलैश्च कुडवप्रस्थाद्याः पूर्ववन्मताः । स्थितिर्नास्त्येव
मात्रायाः कालमग्निं वयोबलम् । प्रकृतिं दोषदेशौ
च दृष्ट्वा मात्रां प्रकल्पयेत् । नाल्पं हन्त्यौषधं व्याधिं
यथाम्भोऽल्पं महानलम् । अतिमात्रं च दोषाय शस्यो
यस्थे बहूदकम्” ।
कर्षं नित्यमर्हति ठञ् । कार्षिक कर्षपरिमाणार्हे
“कार्षिकस्ताम्रिकः पणः इत्यमरः” । नित्यकर्षणार्हे क्षेत्र-
भेदे च घञन्तकर्षस्य “कर्षान्ततो घञोऽन्त उदात्तः”
पा० अन्तोदात्तता अत्र कर्षेतिशपा निर्द्देशात्तुदा-
देराद्युदात्ततेति सि० कौ० ।

कर्षक त्रि० कृष--विलेखने । १ क्षेत्रकर्षंणकारके (कृषाण)

“कच्चिन्न वीजं भक्तञ्च कर्षकस्यावसीदति” भा० स० ५ अ०
“पश्यैनं कर्षकं क्षुद्रं दुर्वलं मम पुत्रकम् । प्रतोदे-
नाभिनिघ्नन्तं लाङ्गलेन च पीड़िनम्” भा० ९ अ०
सुरभेर्वाक्यम् “कालप्राप्तमुपासीत शस्यानामिव कर्षकम्”
भा० व० २५८ अ० । “त्वं समीरण इव प्रतीक्षितः
“कर्षकेण वलजां पुपूषता” माघः २ लेखके ३ आकर्षके च ।

कर्षण न० तुदा० कृष--भावे ल्युट् । लाङ्गलादिना भूमेर्विलेखने

(चास देओया) हेम० । “मृतं तु याचित भैक्ष्यं प्रमितं
कर्षणं स्मृतम्” मनुः । कृषिशब्दे विवृतिः । भ्वा०
कृषल्युट् । २ आकर्षणे च (टाना) “भज्यमानमतिमात्र-
कर्षणात्” रघुः “शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां
यथा” मनुः । ३ क्षीरिणीवृक्षे स्त्री राजनि० गौरा० ङीष् ।

कर्षणि स्त्री कृष--अनि । असत्यां स्त्रियाम् उणादिकोषः

शब्दकल्पद्रुमे उक्तम् । तच्चिन्त्यम् “कृषेरादेश्च धः”
उणा० २, १०५ सू० धर्षणिरित्यस्यैव सिद्धेः कर्षणिरिति
पाठो लिपिकरप्रमादकृतः । अतएव उज्ज्वलदत्तेन “धर्षणि
र्बन्धकीत्युक्त्वा” धृषेरनिप्रत्ययेन सिद्धे वैचित्र्यार्थम्” इत्युक्तम्

कर्षफल पु० कर्षः तन्मात्रं फलमस्य । १ विभीतकवृक्षे, अमरः

२ आमलक्याम् स्त्री रत्रमाला टाप् ।

कर्षापण पु० कर्षेणापण्यते क्रीयते । षोड़शपणपरिमाण

(काहन) कर्षस्य षोडशमाषकमितत्वेन षोडशभिः पणैस्तस्य
क्रयणात् तत्संख्यासाम्यात् तथात्वम् । “अशीतिभिर्वराटकैः
पण इत्यभिधीयते । ते षोडश पुराणं स्यात् रजतं सप्त
भिस्तुतैः” गौतमेन षोडशपणेषु पुराणशब्दस्य परिभाषित-
त्वात् “द्वात्रिंशत्पणिका गावो वत्सः पौराणिकोमतः”
कात्यायनेन द्वात्रिंशत्पणानां गोमूल्यतयाभिधानेन
“धेनुः पञ्चभिराढ्यानां मध्यानां त्रिपुराणिका । कार्षा-
पणैकमूल्या हि दरिद्राणां प्रकीर्त्तिता” षट्त्रिंशन्मते
पुराणकार्षापणयोः पर्य्यायतादर्शनाच्च तथार्थता । ततः
प्रज्ञा० स्वार्थेअण् । कार्षापणोऽप्यत्र अर्द्धर्चादि० तेन पुंन० ।

कर्षिन् त्रि० कृष--आकर्षेणिनि । आकर्षके । “स्तम्बेर-

मामुखरशृङ्खलकर्षिणस्ते” रघुः । स्त्रियां ङीप् । “घ्राण-
कान्तमधुगन्धकर्षिणीः” रघुः । ङीबन्तः २ क्षीरिणीवृक्षे
३ अश्वमुखबन्धनरज्जुस्थितलौहभेदे कविकायां च स्त्री जटा०

कर्षू पु० कृष--ऊ । १ करीषानले (घुटेर आगुन) । २ कुल्यायां

स्त्री अमरः । ३ इष्टखाते मेदि० । इष्टखातस्तु “चतु-
रंङ्गुलपृथ्वीस्तावदन्तरास्तथाधःखाता वितस्त्यायतास्तिस्रः
कर्षूः कुर्य्यात्” प्रा० वि० विष्णूक्तप्रमाणकगर्त्तभेदः ।
“ततः कर्षूःकुर्य्यात् तन्मूले प्रागुदगग्न्युप समाधानं कृत्वा
पिण्डनिर्वपणम्” “कर्षूत्रयमूले पुरुषाणां, कर्षूत्रय-
पृष्ठ १७७६
मूले स्त्रीणाम् । पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत्
स्त्रीकर्षूत्रय सान्नेन पयसा दध्ना मांसेन, पयसा च
प्रत्येकं कर्षूत्रयं पूरयित्वा जपेत्” विष्णु० । ४ गर्त्त-
मात्रे च । “कर्षूवीरणवति” कात्या० २१, ३ २६ ।
“कर्षूः कुहर उच्यते” कर्कः अस्य ह्रस्वान्तमपि ।
“दक्षिणतः कुटिले कर्षू खात्वा क्षीरोदकाभ्यां पूरयन्ति
सप्तोत्तरतः प्राचीरुदक्स्थाःः” कात्या० २१, ३, २६ ।
“श्मशानत उत्तरतः कुटिले कर्षू गर्त्तौ खात्वा” कर्कः ।

कर्हि अव्य० कस्मिन् काले किम् + र्हिल् कादेशः । अनद्यतने

कस्मिन् काले इत्यर्थे । कर्हि स्वित्तदिन्द्र यन्नृभिः” ऋ०
६, ३५, २ ।

कर्हिचित् अव्य० कर्हि + चित् मुग्ध० पा० मते भिन्नं

पदद्वयम् । कस्मिंश्चित्काले इव्यर्थे । “अश्विना यद्ध कर्हि
चित्” ऋ० ५, ७४, १० । अतएव पदकाराः कर्हि, चित् । इति
भिन्नपदतया पेठुः” यदद्य कर्हि कर्हिचित्” ऋ० ८, ७३, ५ ।

कल संख्यायां सक० शब्दे अक० भ्वा० आत्म० सेट् । कलते

अकलिष्ट चकले प्रनिकलते ।

कल गतौ संख्यायाञ्च अद० चुरा० उभय० सक० सेट् ।

कलयति ते अचकलत् त । कलयाम्--बभूव
आसचकार चक्रे । गत्यर्थत्वात् ज्ञानार्थत्वमपि ।
“कलयन्त्यनुक्षणमनेकलयम्” माघः “व्यालनिलयमिलनेन
गरलमिव कलयति मलयजसारम्” जयदे० ग्रहणे “कलथ
बलयश्रेणीं पाणौ पदे कुरुनूपुरौ” जलदे० । संख्यानञ्चात्र
गणनं ज्ञानभेदश्च । “स पश्चात् संपूर्णः कलयति धरित्रीं
तृणसमाम्” नीतिः “कलयैदमानमनसं सखि! माम्”
माघः । “वाचामाचकलत् रहस्यमखिलं यश्चाक्षपादस्फुराम्”
मल्लि० । उच्चारणेच “माद्यन्तः कलयन्तु चूतशिखरे, केलि-
पिकाः पञ्चमम्” । ग्रासे “कालः कलयतामस्मि” गीता ।
“कलनात्सर्वभूतानां स कालः परिकीर्त्तितः” ति० त०
विष्णुध० । कलनीयम् कलयितव्यम् कलयिता कलितः ।
कलयन् कलयमानः कलयितुम् कलयित्वा
आकलय्य । “कलितललितवनमालम्” जयदे० “करक-
लितकपालः कुण्डली दण्डपाणिः” वटुकस्तवः ।
  • अव--अवगमे अवकलयति वि + अव वियोजने “यदि व्यक्ते
युक्तिव्यवकलनमार्गेऽसि कुशला” लीला० ।
  • आ + बन्धने “सुवर्ण्णसूत्राकलिकधराम्बराम्, माघः ज्ञाने च”
“वाचामाचकलत्” मल्लि० । “मकरध्वजद्विरदमाकलयत्”
“सुक्तावलीराकलयाञ्चकार” इति च माघः ।
  • प्रति आ + प्रतिबोधे प्रत्याकलितस्वदुर्नयः” दशकु० ।
  • उद् + उत्क्षिप्य ग्रहणे “स तस्य हस्तोत्कलितस्तदासुरो विक्री-
ड़तो यद्वदहिर्गरुत्मतः” भाग० ७, ८, १६ ।
  • सम् + एकसंख्यापादनरूपे योगे । “अथ संङ्कलनव्यकलननयोः
करणसूत्रम्” “सैकपदघ्नपदार्धमथैकाद्यङ्गयुतिः किल
सङ्गलिताख्या” लीला० ।

कल नोदने प्रेरणे चुरा० उभय० सक० सेट् । कालयति ते

अचीकलत् त । कालयां बभूव आस चकार चक्रे ।
कालयितव्यः कालनीयः । कालयिता कालितः कालयन् कालय-
मानः । कालयित्वा आकाल्य । कर्म्मणि काल्यते अकालि
अकालयिषाताम् अकालिषाताम् । “गवां शतसहस्राणि
त्रिगर्त्ताः कालयन्ति ते” भा० वि० १००, ७ । “गावो
न काल्यन्त इदं कुतो रजः” भाग० ४, ५, ८ । सा गौस्तत्-
सकलं सैन्यं कालयामास दूरतः” भा० आ० ६६९० ।

कल पु० कल--शब्दे घञ् नि० अवृद्धिः । मधुराव्यक्ते ध्वनौ

अमरः । “सारसैः कलनिर्ह्रादैः” “कलमन्यमृतासु
भाषितं कलहंसीसु मदालसं गतम्” “निशासु भास्वत्
कलनूपुराणाम्” रघुः । “कलपक्षिणीरवमुदासि वपुः” ।
“कलकाञ्चि काञ्चिदरुणत्तरुणः” माघः । कलप्रधानाकाञ्चि-
र्यत्र एवं कलहंस इत्यादौ शा० त० समासस्तेन तस्य न
तद्युक्तार्थता । अतएवामरेण “कलो मन्द्रस्तु गम्भीरस्तारो-
ऽत्युच्चैस्त्रयस्त्रिषु” मन्द्रादीनां त्रयाणामेव त्रिलिङ्गत्व-
मुक्तम् । “उदकण्ठि कण्ठपरिवर्त्तिकलस्वरशून्यगानपरया
परया” माघः । कड़--मदे अच् डस्य लः । २ शुक्रे
चरमधातौ न० मेदि० । ४ कोलिवृक्षे पु० शब्दच० । ४ सालवृक्षे
पु० राजनि० । ५ अजीर्ण्णे त्रि० मेदि० । कलास्त्यस्य
अच् । कुलान्वितेऽवयवे च ।

कलक पुंस्त्री कल--चु० ण्वुल् । शकुलमत्स्ये हेमच० । स्त्रियां जातित्वात् ङीष् ।

कलकण्ठ पुंस्त्री कलः कलप्रधानः कण्ठोऽस्य । १ कोकिले

२ हंसे, ३ पारावते च । जातित्वेऽपि संयोगोपधत्वात्
स्त्रियां न ङीष् किन्तु स्वाङ्गत्वात् ङीप् । कलध्वनियुक्त-
कण्ठके त्रि० स्त्रियां ङीप् ।

कलकल पु० कलप्रकारः गुणवचनत्वात् प्रकारे

द्वित्वम् । कोलाहले । “चलितया विदधे कलमेखला-
कलकलोऽलकलोलदृशाऽन्यया” माघः । कलस्य शालवृक्षस्य
कला यत्र । २ शालनिर्यासे मेदि० ।

कलकीट पु० कलप्रधानः कीटः शा० त० । कीटभेदे । तत्र भवः

पलद्या० अण् । कालकीट तद्भवे त्रि० ।
पृष्ठ १७७७

कलकूट पु० नगरभेदे राजनि० । ततः भवार्थे तद्राजार्थे च

“साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्” पा० इञ् ।
कालकूटि तद्भवे त्रि० तन्नृपे च । इञश्चास्त्रियां बहुषु लुक् ।
कलकूटास्तद्देशवासिषु तन्नृपेषु च स्त्रियां तु न लुक् ।
कालकूटय इत्येव ।

कलघोष पुंस्त्री कलोघोषोऽस्य । कोकिले शब्दर० स्त्रियां जातित्वात् ङीष्

कलङ्क पु० कलयति क्विप् कल् चासौ अङ्कश्चेति, कं ब्रह्माण-

मपि लङ्कयति गच्छति लकि--गतौ अण् वा । १ चिह्ने
२ अपवादे, ताम्रादिधातूनां ३ मलभेदे (कल्कान), ताम्रा-
दियोगात् ४ अम्लादेर्विकारे च मेदि० । “शशकृपाण-
कवचेषु कलङ्काः” काद० । “धारानिबद्धेव कलङ्करेखा”
“मत्तः सदाचारशुचेः कलङ्कः” रघुः । “ताम्रवर्ण्णश्च
परुषो मन्दरश्मिर्दिवाकरः । अदृश्यत कलङ्काङ्कः संसक्तो
धूमकेतुना” रामा० । ततः अस्त्यर्थे इनि । कलङ्किन्
तद्युक्ते त्रि० स्त्रियां ङीप् । “कलङ्की जायते विल्वे”
ति० त० स्मृतिः । ततः तारका० जातार्थे इतच् ।
कलङ्कित जातकलङ्के त्रि० ।

कलङ्कष पुंस्त्री करेण कषति बा० खच् मुम् च रस्य लः ।

१ सिंहे शब्दमा० । जातित्वात् स्त्रियां ङीष् । २
करताल्यां स्त्री शब्दरत्ना० टाप् ।

कलङ्कुर पु० कं जलं लङ्कयति लकि--गतौ णिच--उरच् ।

जलानामावर्त्ते स्वतोजलभ्रमे त्रिका० ।

कलञ्ज पु० केतिशब्दं लञ्जति भाषते क इत्यव्यक्तानुकरणम्

लजि--अण् । विषाक्तास्त्रेण हते १ मृगे, २ पक्षिणि च ।
३ तन्मांसे न० “न कलञ्जं भक्षयेदिति” श्रुतिः । ४ ताम्रकूटे
च (तामाक) “कलञ्जसंवेष्टनधूमपानात् स्याद्दन्तशुद्धिर्मुख-
रोगहानिरिति” वैद्यके तत्सेवनान् मुखरोगहान्यादि
उक्तम् । ५ परिमाणभेदे च । कर्षशब्दे भावप्र० तन्मान-
भेदोदृश्यः ।

कलञ्जाधिकरण न० “न कलञ्जं भक्षयेदित्यादिवाक्यमधि-

कृत्य पञ्चावयवन्यायभेदे स च न्यायः यथा किं यदा
कष्टापि तद्भक्षणनिषेधः । उत सर्व्वदेति संशयः ।
यदा कदाचिन्निषेध इति पूर्व्वपक्षः सर्व्वदा तन्निषेध
इति सिद्धान्तः । तदेतत्भङ्ग्या एका० त० दर्शितं यथा
“न कलञ्जंभक्षयेत्” इति श्रुतिः कलञ्जमक्षणाभाव-
विषयकं कार्य्यमित्यर्थः । तत्र कालविशेषानुपादाना-
न्निषिध्यमानक्रियायां प्रवृत्तिमतोनिषेधविधावधिकारा-
द्यावत्कालमेव तस्यां तस्य निवृत्तिः । न हि कलञ्ज-
भक्षणाद्यतः कुतश्चित् करणान्निवृत्तस्य निषेधानुपालन
सकृद्वृत्तमिति कलञ्जभक्षणनिषेधो न पुनस्तं निवर्त्ता-
यति किन्तु भक्षणप्रवृत्तिमत्तामात्रमधिकारिविशेषण
यदा यदा भवति तदा तदैव निषेधविधिरपि तं
निवर्त्तयति । न हि कलञ्जस्य भक्षणमुपक्रम्य यावत्
कालं तद्भक्षयति । अतस्तदितरकाले निवृत्तिः सिद्धै-
वेति भवति विफलोविधिः । ननु नासौ निवृत्तिरप्रवृ-
त्तस्य निवृत्त्यनुपपत्तेः । सत्यं, प्रवृत्त्युपाधिना विनाशं
प्राप्स्यन् प्रागभाव एव प्रवृत्तिनिराकरणात् साध्यमा-
नोनिवृत्तिरुच्यते न तु प्रवृत्तिरपि साध्यतयोपदि-
श्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधावधि-
कारः । यत्तु “मनसा तु प्रवृत्तस्य भूतचेष्टावतोऽपि
वा । यदनागतभावस्य वर्ज्जनं तन्निवर्त्तनम्” इति ।
अत्रापिशब्देनाप्रवृत्तमात्रसमुच्चयान्न विरोधः । भूतचेष्टावत
इति । “भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषूचिते ।
प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तुना” इति मेदिन्युक्तेः भूते
प्राप्ते निषेध्ये चेष्टावतैत्यर्थः । ततश्च प्रागभाव एव काला-
न्तरसम्बन्धितया साध्यत्वेनोपदिश्यते । प्रागभावश्चानादि-
संसर्गाभावमात्रपरः सचाप्रवृत्तस्य भक्षणकारणमननु-
तिष्ठतः सिध्यत्येव । तस्मात् सकृत्क्रियापर्य्यव-
सायित्वे विफलोविधिः । कादाचित्काकरणस्य निषे-
धमन्तरेणापि प्राप्तेः । न च स्वर्गकामादिवत् साध्यतया
प्रवृत्तिमत्कर्त्तृकत्वमप्यङ्गं विषयमात्राननुष्ठानाधीनसि-
द्धत्वान्निषेधनियोगानामितिकर्त्तव्यताकाङक्षाविरहात्
अतएव शुचित्वमपि तत्र नाङ्गम् । तस्मान्निषेधविधिषु
काकवन्तोदेवदत्तस्य गृहाइत्यादिवत्तटस्थत्वेनाधिकारि-
विशेषणीभूतायाः प्रवृत्तेर्यावत्कालभनुवृत्तिस्तावत्का-
लमेव निवृत्तौ साफल्यं पुनर्निमित्तान्तरवन्न सकृदनु
ष्ठानेनैव शास्त्रार्थसिद्धिः” ।
यथा चात्र निवृत्तेरेव बोध्यता न प्रवृत्त्यभावस्य तथा
समर्थितं वृहदारण्यकब्राह्मणभाष्ययोः यथा--
“प्रतिषिद्धानिष्टफलसम्बन्धश्च वेदादेव विज्ञायते न चानुष्ठेयः
सः । न च प्रतिषिद्धविषये प्रवृत्तक्रियस्याकरणादन्यदनुष्ठे-
यमस्ति । अकर्त्तव्यताज्ञाननिष्ठतैव हि परमार्थतः
प्रतिषेधविधीनां स्यात् । क्षुधार्त्तस्य प्रतिषेधज्ञानसंस्कृ-
तस्याभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलञ्जाभिशस्तान्ना-
दाविदं भक्ष्यमदो भोज्यमिति वा ज्ञानमुत्पन्नं तद्वि-
षयया प्रतिषेधज्ञानस्मृत्या बाध्यते मृगतृष्णिकायामिव
पृष्ठ १७७८
पेयज्ञान तद्विषययाथार्थ्यविज्ञानेन तस्मिन् बाधिते
खाभाविकविपरीतज्ञानेऽनर्थकरी तद्भक्षणभोजनप्रवृत्तिर्न
भवति । विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेव
न पुनर्यत्नः कार्य्यस्तदभावे” शङ्कराचार्य्यकृतभाष्यम् ।
“यद्यपि कलञ्जभक्षणादेरधःपातस्य च सम्बन्धो” न कलञ्ज-
म्भक्षयेत्” इत्यादिवाक्यात्प्रतीयते, तथापि तस्यानुष्ठेयत्वा-
द्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याह न चेति । सम्ब-
न्धस्यामावार्थत्वान्नानुष्ठेयतेत्यर्थः । अभक्षणादि कार्य्यमिति
विधिपरत्वमेव निषेधवाक्यस्य किन्न स्यादित्याशङ्क्याह
न चेति । तस्यापि कार्य्यार्थत्वे विधिनिषेधभेदभङ्गात्
नञश्च स्वसम्बन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौ
लक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतो
निषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात् प्रसक्तक्रि-
यानिवृत्त्युपलक्षितादौदासीन्य दन्यदनुष्ठेयं न प्रतिभाती-
त्यर्थः । भावविषयं कर्त्तव्यत्वं विधीनामर्थोऽभावविषयन्तु
निषेधानामिति विशेषमाशङ्क्याह । अकर्त्तव्यतेति ।
अभावस्य भावत्वाभावात् कर्त्तव्यताविषयत्वासिद्धिरिति
हि शब्दार्थः । प्रतिषेधज्ञानवतोऽपि कलञ्जमक्षणा-
दिज्ञानदर्शनात् तन्निवृत्तेर्नियोगाधीनत्वात् तन्नि-
ष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह । क्षुधार्त्तस्येति ।
विषलिप्तवाणहतस्य पशोर्मासं कलञ्जम् । ब्रह्मबधाद्य-
भिशापयुक्तस्यान्नपानादि । तस्मिन्नमक्ष्येऽभोज्येच प्राप्ते
यद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्य
तद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह । मृगतृ-
ष्णिकायामिति । तथापि प्रवृत्त्यभावसिद्धये विधिरर्थ्य-
तामिति चेन्नेत्याह । तस्मिन्निति । तदभावः प्रवृत्त्य-
भावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धे-
रित्यर्थः” आनन्दगिरिः ।
नैयायिकमते तत्र बोधप्रकारः शब्दचि० दर्शितो
यथा“ननु न कलञ्जं भक्षयेत्” इत्यत्र विध्यर्थनिषेधानुपपत्तिः
तद्भक्षणस्य श्रेयोरूपेष्टसाधनत्वात्, न चासुराऽविद्यावत्
पर्य्युदासलक्षणया विरोध्यनिष्टसाधनबोधनं, नञोऽसमस्त-
त्वात् क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्युत्पत्ते-
श्चेति चेत् न विशेष्यवति विशिष्टनिषेधस्य “सविशे-
षणे हीति” न्यायेन विशेषणनिषेधपर्य्यवसायितया कलञ्ज-
भक्षणमिष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखसाधनमिति” न
कलञ्जं भक्षयेत्” इत्यनेन बोधनात्, इष्टसाधनतावाचकस्य
विधेः सामात्ये निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धी
ष्टसाधनविशेषे तात्पर्य्यं तथा चाशक्यविशेषणनिषेधपरत्वं
नञ इति कश्चित् तन्न यथाह्ययोग्यतया छिद्रं विहाय
घटत्वेन तदितरान्वयो न तच्छिद्रेतरत्वेन, युगपद्-
वृत्तिद्वयविरोधात् तथेहापि बलवदनिष्टाननुबन्धित्वेन
नोपस्थितिरिति”
विशेषबोधप्रकारस्तु आख्यातवादे गदाधरेण दर्शितो यथा
“न कलञ्जं भक्षयेत्” इत्यादिनिषेधविधेः प्रामाण्यानुरोधेन
बलवदनिष्टाननुबन्धित्वस्य विध्यर्थेप्रवेशः निषेधोऽपि, कलञ्ज-
भक्षणादौ तृप्त्यादिरूपेष्टसाघनतासत्त्वेन तदभावस्य
नञाबोधने तत्प्रामाण्यानुपपत्तेः बलवदनिष्टाननुबन्धि-
त्वस्य विघिप्रत्ययवाच्यत्वे तस्यैवाभावो बलवदनिष्टनरकानु-
बन्धिनि तत्कर्म्मण्यबाघितो बोध्यत इति तत्प्रामाण्यो-
पपत्तिः । वलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया
वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानं सोऽपि विशे-
षणाभावायत्तोऽबाधितः । कलञ्जभक्षणादौ विशिष्टाभाव-
बोधानन्तरं तल्लिङ्गकानुमानगम्यो बलवदनिष्टाननुबन्धि-
त्वरूपतदननुबन्धित्वाभावः । प्रवर्त्तकमिव निवर्त्तकमपि
ज्ञानं श्रुतिवाक्यात् परम्परयैव, न तु साक्षात् ।
मवन्मते च तादृशाभावस्य शाब्दबोधे न भानं
पदार्थैकदेश इतरविशेषणत्वेनोपस्थितत्वेन नञर्थविशेषण-
तया अनिष्टानमुबन्धित्वान्वयासम्भवात् । वस्तुतो
विशिष्टशक्तौ विशेष्यविशेषणभावे विनिगमनाविरहात्
पृथगेव बलवदनिष्टाननुबन्धिताया वाच्यत्वम् । न च
बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेष्यत्वे विधिवा-
क्यतः क्रियाविशेष्यकेष्टसाधनताज्ञानसम्भवात् क्रिया-
गोचरचिकीर्षाद्यर्थं विधिवाक्यजन्यशाब्दबोधोत्तर-
मिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्प-
नीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टा-
ननुबन्धित्वविशेषणत्वे विनिगमकमिति वाच्यं
क्रियायां बलवदनिष्टासाधनत्वज्ञानतद्गोचरेच्छयोर्हेतुतया
बलवदनिष्टासाधनत्वस्येष्टसाधनताविशेषणत्वमते क्रिया-
विशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया तन्नये
कल्पनासाम्यात् । यदि च बलवदनिष्टानुबन्धित्वज्ञान-
मेव तद्द्वेषसामग्रीत्वेन इच्छाप्रतिबन्धकं न तु
तदसाधनत्वज्ञानमिच्छाहेतुस्तदोक्तविशेष्यविशेषणभावे विनि-
गमकस्य सम्भवेऽपि विशिष्टस्य वाच्यत्वोपगमे तत्र
वाधेन तद्विधायकश्रुतेरप्रामाण्यप्रसङ्ग इति शक्ति-
भेदस्य श्येनस्थले इष्टसाधनताबोधस्य चोपगम आव-
पृष्ठ १७७९
श्यकः । मणिकृतापि तत्र बलवदनिष्टसाधनत्वविनि-
र्म्मोकेणेष्टसाधनत्वस्य भानं लिखितं तदभानञ्च विशि-
ष्टशक्तिपक्षे न सम्भवति विशिष्टशक्तेर्विशेषणविनिर्मो-
केण विशेष्याभासकत्वात् । तद्धर्मप्रकारेण पदार्थविषय-
कशाब्दबोधे तत्तर्द्धमांशे शक्यतावच्छेदकतापर्य्याप्त्यवगाहि-
ज्ञानस्यं हेतुत्वात् अन्यथा विशिष्टसुखादिवाचकस्वर्गा-
दिपदाद्विना लक्षणां केवलसुखत्वादिशाब्दबोधापत्तेः” ।
“इदन्तु बोध्यं बलवदनिष्टाजनकत्वमत्र न तीव्रदुःखा-
जनकत्वं बह्वायातसाध्ययागादौ तस्य बाधात् नापि
बलवद्द्वेषविषयदुःखाजनकत्वं दुःखमात्रस्य विरक्तानां
बलवद्द्वेषविषयत्वेनाऽव्यावर्त्तकतापत्तेः तज्ज्ञानस्याप्रवर्त्तक-
तया तस्य विधित्वायोगाच्च यत्र बलवान् द्वेषस्तज्जनकता-
ज्ञानत्वेन बलद्द्वेषविषयत्वेन वा प्रवृत्तिसामान्यं प्रति
प्रतिबन्धकत्वात्, परन्तु नरकाजनकत्वं पापाजनकत्वं
वा, तद्विरहस्यैव कलञ्जभक्षणादौ नञा बोधनात्” शब्द० प्र०

कलट न० कं जलं लटति आवृणोति लट--अच्--६३० ।

गृहाच्छादने (चाल) तृणादिमये पदार्थे शब्दर० ।

कलतूलिका स्त्री कं सुखं लाति विषयत्वेन ला--क कलं

सुखविषयं कामं तूलयति निष्कर्षति पूरयति वा तूल
पूरणे--निष्कर्षे वा ण्वुल् । इच्छावत्याम् स्त्रियां त्रिका० ।
इच्छायाः सुखविषयत्वेन सुखाधायकत्वात् तत्पूरकत्वात्
तन्निष्कर्षकत्वाद्वा तस्यास्तथात्वम् । कलकूजिका कलतूणिका
वा अत्र पाठान्तरमस्ति उभयत्र पृषो० साधु ।

कलत्र न० गड--सेचने अत्रन् आदेश्च कः डस्य लः,

कलं त्रायते त्रै--क--कड--शासने वा० अत्रन् डस्य
लो वा । १ भार्य्यायाम् “कलत्रवानहं बाले”!
“कलत्रवन्तमात्मानमवरोधे महत्यपि” “वसुमत्या
हि नृपाः कलत्रिणः” रघुः । “पत्युस्त्विषामिह महौष-
धयः कलत्र--स्थानं परैरनभिभूतममूर्वहन्ति” माघः “नीत्वा
रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः” मेघ० ।
२ नितम्बे अमरः “कलत्रभारेण विलोलनीविना” किरा० ।
नृपाणां ३ दुर्गस्थाने हेमच० ।

कलधूत न० कलेनावयवेन धौतः शुद्धत्वात् पृषो० । रूप्ये राजनि० ।

कलधौत न० कलेनावयवेन धौतं शुद्धम् । १ स्वर्ण्णे ।

“यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पंणश्रीः”
माघः “व्योमस्पृशः प्रथयता कलधौतभित्तीः” माघः ।
२ रूप्ये च मेदि० “अनतिचिरोज्झितस्य जलदेन
चिरस्थितबहुबुद्वुदस्य पयसोऽनुकृतिम् । विरलविकीर्ण-
वज्रशकलान् सकलामिह विदधाति धौतकलधौतमहीम्”
“अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिल-
वेश्मनां रुचौ” माघः “अमलकलधौतपट्टायितमष्टमी-
चन्द्रशकलाकारम्” काद० । कलो ध्वनिभेदौ धौतः शुद्धो-
ऽत्र । ३ कलध्वनौ विश्वः ।

कलध्वनि पु० कलोध्वनिरस्य । १ पारावते २ कोकिले ३ मयूरे

जातित्वात् स्त्रीत्वमपि । ४ मधुराव्यक्तध्वनियुक्ते त्रि० ।
कर्म्म० । ५ मधुराव्यक्तध्वनौ पु० ।

कलन न० कलयत्यनेन कल--गतौ गत्यर्थस्य ज्ञानार्थत्वात् ज्ञाने करणे

ल्युट् । १ चिह्ने २ वातपित्तादिदोषे च तैः स्वरूपानुमानात्
तथात्वम् । ३ ग्रहणे ४ ग्रासे । “कलनात् सर्वभूतानां स कालः
परिकीर्त्तितः” ति० त० विष्णुध० पु० । ५ ज्ञाने च “लोका-
नामन्तकृत् कालः कालोऽन्यः कलनात्मकः” सू० सि० ।
“कलनात्मकः ज्ञानविषयस्वरूपः ज्ञातुम् शक्य इत्यर्थः” रङ्ग० ।
“न सोऽस्ति प्रत्ययो लोके यः कालानुगमादृते” इत्युक्तेः
ज्ञानमात्रस्य कालविषयकत्वात् तथात्वम् । कं जलं लाति
उत्पत्तिसाधनत्वेन तथा सन् नमति नम--बा० ड । ६ वेतस-
वृक्षे पु० राजनि० । तस्य जलसमीपजातत्वात् तत्स्रोतसा
नमनाच्च तथात्वम् । “स्त्रियाः प्रविष्ट उदरं पुंसो रेतः
कलाश्रयः । कलनं(लं)त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्”
भाग० ३, ३०, ३७ उक्ते ७ एकरात्रेण पच्यमाने गर्भकारणे
रेतोविकारभेदे इति शब्दकल्पद्रुभादयः । तच्चिन्त्यम्
“आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि । मासि
मासि विवर्द्धेत गर्भिण्या गर्भलक्षणम् । कललं जायते
तस्याः इति” सुश्रुते “दृष्टाः करणाश्रयिणः कार्याश्रयि-
णश्च कललाद्याः” सा० कारिकायाम् “कार्य्यं शरीरं तस्या-
वस्थाः कललबुद्बुदमांसपेशीकरण्डाङ्गप्रत्यङ्गव्यूहाः” कौ०
उक्तेश्च तदेकवाक्यतया लकारद्वययुक्तपाठस्यैव भागवतेऽवधृत-
त्वेन नकारयुक्तपाठोलिपिकरप्रमादकृतः इति विवेच्यम्

कलना स्त्री चु० कल--भावे युच् । १ ज्ञाने २ ग्रहणे ३ आदाने

४ आमोचने ५ अवमोचने च “पिच्छावचूडाकलनामिवोरः”
माघः “कलनामामोचनमवमोचनं वा” मल्लि० ।

कलनाद पुंस्त्री कलोनादोऽस्य । १ राजहंसे राजनि०

स्त्रियां जातित्वात् ङीष् । २ कलध्वनियुक्ते त्रि० ।
कर्मधा० । ३ कलध्वनौ पु० ।

कलन्दर पुंस्त्री वर्ण्णसङ्करजातिभेदे स्त्रियां जातित्वात् ङीष् । जातिशब्दे विवृतिः ।

कलन्दिका स्त्री कं सुखं लाति विषयतया ला--क कलं

कामं ददाति दा--क पृषो० मुम् च टाप् अत इत्त्वम् ।
सर्वविद्यायाम् हेमच० । तस्याः सर्व्वसंशयनिराकरणेन
कामदातृत्वात्तथात्वम् ।

कलन्धु पु० कलाया मात्रायाः अन्धुरिव शक० । घोलीशाके राजनि० ।