सामग्री पर जाएँ

वाचस्पत्यम्/आदिदेव

विकिस्रोतः तः


पृष्ठ ०६९७

आदिदेव पु० आदौ दीव्यति स्वयं राजते दिव--अच् ७ त० ।

१ नारायणे २ शिवे । आदिः कारणं देवः । ३
आदिकारणे परमात्मनि । “सहास्रात्मा मया योव आदिदेव
उदाहृतः” या० स्मृ० । “पुरुषं शास्वतं दिव्य-
मादिदेवमजं विभुम्” गीता । “वासुदेवो वृहद्भानुरादि-
देवः पुरन्दरः” विष्णुस० “आदिः कारणं देव इत्यादि-
देवः दानादिगुणवान् वा” भा० “देवोदानात्दीपनात्
भवतीति” यास्कोक्तदेवशब्दनिरुक्तिमाश्रित्य भाष्ये तथोक्तम् ।

आदिदैत्य पु० कर्म्म० । हिरण्यकशिपौ दैत्ये तस्य देतेः

प्रथमजत्वात्तथात्वम् । “एक एव दितेः पुत्रः हिरण्यक-
शिपुः पुरा” भा० आ० प० ६५ अ० । आदिदैत्योमहा-
वीर्य्यो हिरण्यकशिपुः पुरा” भा० व० प० १०४ अ० ।

आदिन् त्रि० अत्तीति अद--णिनि । भक्षके । स्त्रियां ङीप् ।

आदिनब पु० आदीनवस्य पृ० वेदे ह्रस्वः । आदीनशब्दार्थे

“आदिनवं प्रतिदीव्ने घृतेनास्माँ अभिक्षर” अथ० ७, ११०, ४ ।

आदिपर्व्वन् न० आदि आद्यं पर्व्व । महाभारतान्तर्गते आद्ये

पर्वणि । “इत्येतदादिपर्वोक्तं प्रथमम्बहुविस्तरम्” भा० आ० ।

आदिपुराण न० आदि आद्यं पुराणम् कर्म्म० । पुराणभेदे

सर्वेषामष्टादशानां पुराणानामुपपुराणानाञ्चादिभूते
चतुर्लक्षात्मके ब्रह्मनिर्म्मिते पुराणभेदे । नारदपुराणे
उपसंहारपादशेषे मरीचिं प्रति ब्रह्मवाक्यम् “अष्टादश-
मनौपम्य सारात् सारतरं द्विज! । ब्रह्माण्डञ्च चतुर्लक्षं
पुराणत्वेन पठ्यते । तदेव व्यस्य गदितमत्राष्टादशधा पृथक् ।
पाराशर्य्येण मुनिना सर्वेषामपि मानद” । वस्तुग्रहाय
तेनैव मुनीनां भावितात्मनाम् । मत्तः श्रुत्वा पुराणानि
लोकेभ्यः प्रचकाशिरे । मुनयो धर्मशोलास्ते दीनानुग्रह-
कारिणः । मया चेदं पुराणन्तु वसिष्ठाय पुरोदितम् तेन
शक्त्रिसुतायोक्तं जातूकर्ण्णाय ते न च । व्यासोलब्ध्वा
ततश्चैतत् प्रभञ्जनमुखोद्गतम् । प्रमाणीकृत्य लोकेऽस्मिन्
प्रावर्त्तयदनुत्तमम्” तथा च व्यासोक्तब्रह्माण्डन्तु द्वादश-
साहस्रं तस्यैव संक्षेपार्थप्रतिपादकम् । एवञ्च तस्यैव
चतुर्लक्षात्मकस्य सर्वपुराणमूलतया आद्यत्वात्
आदिपुराणत्वम् । देवलोके तु आदिपुराणस्य शतकोटिश्लोकात्म-
कता यथोक्तं तत्रैव । प्रथमपादे मरीचिं प्रति ब्रह्मवाक्यम् ।
“शृणु वत्स! प्रवक्ष्यामि पुराणानां समुच्चयम् । यस्मिन् ज्ञाते
भवेज्ज्ञातं वाङ्मयं सचराचरम् । पुराणमेकमेवासीत्
सर्वकल्पेषु मानद! । चतुवर्गस्य वीजञ्च शतकोटिसुवि-
स्तरम् । प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः ।
कालेन ग्रसनं दृष्ट्वा पुराणस्य महामबिः । हरिर्व्यास
स्वरूपेण जायते च युगे युगे । चतुर्लक्षप्रमाणेन द्वापरे
द्वापरे सदा । तदष्टादशधा कृत्वा भूलोके निर्दिशत्यपि ।
अद्यापि देवलोक तु शतकोटिसुविस्तरम् अस्त्येव तस्य
सारस्तु चतुर्लक्षेण वर्ण्यते” एवञ्च तदानों लोकप्रसिद्धचतु-
र्लक्षात्मकरप ब्रह्माण्डनामकपुराणान्तररयैव व्यासप्रणीत
चतुर्लक्षात्मकाष्टादशपुराणानामादिसूतत्वादादिपुराणत्वेन
प्रसिद्धमासीत् । तच्च क्रमशौच्छिन्नप्राय संस्कृत शालायान्तु
तस्य स्वल्पांशमात्रस्य सत्त्वेऽपि सर्वांशस्य प्रायशः कुत्रापी-
दानीमलाभात् न तत्रत्यप्रतिपाद्यविषया वण्णायतुं शक्याः ।
हेमाद्रि माधवादिभिरादित्यपुराणनाम्ना बहूनि वचनानि
लिखितानि । तेषां काले च तत्पुराणस्य प्रचार आसीत्
क्रमश इदानीमुच्छिन्नप्रचारतया समग्रलाभासम्भवः इति
तत्रत्यप्रतिपाद्यविषयप्रदर्शनादुपरतमस्माभिः ।

आदि(पु)पूरुष पु० आदौ पुरि देहे, वसति वस--उषन्

स्वेनात्मना पूरयति जगत् पूर--उषन् वा पृ० वा ह्रस्वः ।
आदिजीवे १ हिरण्यगर्भे २ नारायणे च । “ते च प्रापुरु-
दन्वन्तं बुबुधे चादिपु(पू)रुषः” रघुः । “दैत्ये श्वरसभां गत्वा
पाणिं संस्पृश्य पाणिना । दैत्यानामादिपुरुषः मुरारिर्दिति-
नन्दनः” भा० व० प० २७१ अ० । ह्रस्वाभावे पूरुषोऽप्यत्र
“तमर्घ्यमर्घादिकयादिपूरुषः” माघः ।

आदिभव पु० आदौ भवतीति भू--अच् । १ हिरण्यगर्भे

“हिरण्यगर्मःसमवर्त्तताग्रे” इति श्रुतौ तस्याग्रभवत्वोक्तेः
तथात्वम् । २ सर्व्वस्यादिः कारणं भवति । सर्व्वस्य
कारणभूततयाविर्भूते ३ विष्णौ च “रसातलादादिभवेन
पुंसा” रघुः २ अग्रजमात्रे त्रि० ।

आदिम त्रि० आदौ भवः आदि + डिमच् । आदौ भवे ।

आदिमत् त्रि० आदिरस्त्यस्य मतुप् स्त्रियां ङीप् ।

आदियुक्ते १ सकारणे २ आदिसीमायुक्ते च ।

आदिराज पु० आदिराद्योराजा टच् समा० । पृथुनामके

नृपतौ तस्य राज्ञामादित्वात्तथात्वम् तत्कथा भाग० ४ स्क०
“अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः । बाहभ्यां
मथ्यमानाभ्यां मिथुनं समपद्यत । तद्दृष्ट्वा मिथुनं
जातविस्मया ब्रह्मवादिनः । ऊचुः परमसंतुष्टा विदित्वा
भगवत्कलाम् । एष विष्णोर्भगवतः कला भुवनपालिनी ।
इयञ्च लक्ष्मीसंभूतिः पुरुषस्यानपायिनी । क्षत्रियः प्रथमो
राज्ञां पुमान् प्रथयिता यशः । पृथुर्नाम महाराजोम-
विष्यति पृथुश्रवाः” । तस्य वेणस्येत्यर्थः ।
पृष्ठ ०६९८

आदिवराह पु० आदिराद्यो वराहः । यज्ञवराहरूपेणा-

विर्भूते विष्णोरवतारभेदे तत्कथा “ततो महात्मा
मनसा दिव्यं रूपमचिन्तयत् । किं नु रूपमहं
कृत्वा उद्ध्वरेयं वसुन्धराम् । जले निमग्नां धरणीं
येनाहं वै समुद्धरे । इति सञ्चिन्त्य मनसा हरिर्नारा-
यणः प्रभुः । जलक्रीडारुचिस्तस्माद्वाराहं वपुरस्म-
रत् । हरिरुद्धरणे युक्तस्तदाऽभूदस्य मूमिधृक् । अधृष्यं
सर्व्वभूतात्रा वाङ्मयं ब्रह्मसंज्ञितम् । दशयोजनविस्ता-
रमुच्छ्रितं शतयोजनम् । नीलजीभूतसङ्काशं मेघस्तनित-
निस्वनम् । गिरिसंहननं भीमं श्वेतदीप्तोग्रदंष्ट्रिणम् ।
विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम् । पीनवृत्तायतस्कन्धं
दृप्तशार्दूलविक्रमम् । पीनोन्नतकटीदेशं वृषलक्षणल-
क्षितम् । रूपमास्थाय विपुलं वाराहममितं हरिः ।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् । वेदपादो
यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः । अग्निजिह्वो दर्भरोमा
ब्रह्मशीर्षो महातपाः । अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभू-
षणः । आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ।
सत्यधर्म्ममयः श्रीमान् क्रमविक्रमसत्कृतः । क्रियासत्रम-
हाघोणः पशुजानुर्म्मखाकृतिः । उद्गात्रन्त्रो
होमलिङ्गो वीजौषधिमहाफलः । वाय्नन्तरात्मा सत्रस्फिक्
विकृतः सोमशोणितः । वेदिस्कन्धो ह्नविर्गन्धो हव्यक-
व्यातिवेगवान् । प्राग्वं शकायो द्युतिमान्नानादीक्षाभिर-
न्वितः । दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्त्तभूषणः । नानाच्छन्दोगति-
पथो गुह्योपनिषदासनः । छायापत्नीसहायो वै मणिशृङ्ग
इवोच्छ्रितः । भूत्वा यज्ञवराहोऽसौ द्रागधः प्राविशद्गुरुः ।
अद्भिः सञ्छादितामुर्व्वीं स तामार्च्छत् प्रजापतिः ।
रसातलजले मग्नां रसातलतलं गतः । प्रभुर्लोकहि-
तार्थाय दंष्ट्राग्रेणोज्जहार गाम् । ततः स्वस्थानमा-
नीय पृथिवीं पृथिवीधरः । मुमोच पूर्व्वं सहसा
धारयित्वा धराधरः । ततो जगाम निर्व्वाणं मेदिनी तस्य
धारणात् । चकार च नमस्कारं तस्मै देवाय विष्णवे ।
एवं यज्ञवराहेण भूत्वा लोकहितार्थिना । उद्धृता
पृथिवी देवी सागराम्बुधरा पुरा” हरिवं० २२४ अ० ।

आदिविद्वस् पु० आदिराद्योऽखिलसम्प्रदायप्रवर्त्तकत्वात्

विद्वान् । सांख्यशास्त्रकारके सर्वसम्प्रदायप्रवर्त्तके उपासन-
यासिद्धे जगत्कर्त्तरि कपिले । “आदिविद्वान् सिद्ध” इति
कापिलाः” कुसुमा० कपिलशब्दे विवृतिः ।

आदिशक्ति स्त्री आदिराद्या शक्तिः । परमेश्वरस्य १ मायारूप-

शक्तौ २ देवीमूर्त्तिभेदे च । आड्याशब्दे विवृतिः ।

आदिशरीर न० आदि आद्यं शरीरम् । भोगार्थं परमेशसृष्टे

आद्ये लिङ्गाख्ये शरीरे । “अयमादिशरीरेण देवसृष्टेन
मानवः । शुभानामशुभानाञ्च कुरुते सञ्चयं महत् ।
आयुषोऽन्ते प्रहायेदं क्षोणप्रायं कलेवरम् । संभवत्येव
युगपद्यतो नास्त्यन्तरा भवः । तत्रास्य स्वकृतं कर्म्म
छायेवानुगतम् तदा । फलत्यथ सुखार्हो वा दुःखा-
र्हो वाऽथ जायते” भा० व० प० १८४ अ० । आदि कारणं
शरीरं कर्म० । २ अविद्याख्ये २ सूक्ष्मशरीरे च वेदान्तिमते
शरीरं त्रिविधं कारणसूक्ष्मस्थूलभेदात् तत्राविद्यायाः
कारणशरीरत्वं सर्वकारणत्वात् विद्यया शीर्य्यमाणत्वाच्च
अविद्यां प्रकृत्य “सा कारणशरीरं स्यात्” पञ्चद० ।

आदिश्य अव्य० आ + दिश--ल्यप् । १ अनुशिष्येत्यर्थे २ उक्त्वेत्यर्थे च ।

आदिष्ट न० आ + दिश्--भावे क्त । १ आज्ञायाम्, २ उपदेशे

च । कर्म्मणि क्त । ३ उपदिष्टे, ४ व्याकरणप्रसिद्धे स्थानि-
जाते वर्ण्णे च त्रि० यथा इकः स्याने यण् आदिश्यते इति
इकोयणादिष्टैत्युच्यते । ५ आज्ञप्ते ६ उच्छिष्टे ७ अनुशिष्टे
च त्रि० “उपपातकयुक्तानामनादिष्टेषु चैव हि” विश्वा० ।

आदिष्टिन् पु० आदिष्टमादेशोव्रतादेशः अस्त्यस्य इनि ।

व्रतादेशोयस्य कृतस्तादृशे, ब्रह्मचारिणि । “आदिष्टी
नोदकं कुर्य्यादा व्रतस्य समापनात्” मनुः आदिष्ट व्रतादे-
शोऽस्त्यस्येति आदिष्टी ब्रह्मचारी” कुल्लू० । आदिष्टमनेन
इष्टा० इनि । २ आदेशकर्त्तरि त्रि० स्त्रियां ङीप् ।

आदिसर्ग पु० कर्म्म० । प्राकृतप्रलयोत्तरं प्रथमसृष्टौ “अव्यक्तात्

पूर्व्वमुत्पन्नो महानात्मा महामतिः । आदिर्गुणानां सर्वेषां
प्रथमः सर्ग उच्यते । महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च
वीर्य्यवान् । बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः
स्मृतिः । पर्य्यायवाचकैः शब्दैर्म्महानात्मा विभाव्यते ।
तं जानन् ब्राह्मणो विद्वान् प्रभोहं नाधिगच्छति ।
सर्व्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः । सर्व्वतःश्रुति-
मान् लोके सर्व्वं व्याप्य स तिष्ठति । महाप्रभावः पुरुषः
सर्व्वस्यैव हि निश्चितः । अणिमा लघिमा प्राप्तिरीशानो
ज्योतिरव्ययः । तत्र बुद्धिविदो लोके सद्भावनिरताश्च ये ।
ध्यानिनो मित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः । ज्ञानवन्तश्च
ये केचिदलुब्धा जितमन्यवः । प्रसन्नमनसो धीरा निर्ममा
निरहङ्कृताः । विमुक्ताः सर्व एवैते महत्त्वमुपय न्त्युत ।
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् । अहङ्का-
रात् प्रसूतानि महाभूतानि पञ्च वै । पृधिवी वायुराकाश-
मापो ज्योतिश्च पञ्चमम् । तेषु भूतानि युज्यन्ते
महाभूतेषु पञ्चसु । ते शब्दस्पर्शरूपेष रसगन्धक्रियासु च ।
पृष्ठ ०६९९
महाभूतविनाशस्तु प्रलये प्रत्युपस्थिते । सर्व्वप्राणभृतां
धीरा! महदुत्पद्यते भयम् । स धीरः सर्व्वलोकेषु न
मोहमधिगच्छति । विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ।
एवं हि यो वेद गुहाशयं प्रभुं परं पुराणं पुरुषं
विश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्
बुद्धिमतीत्य तिष्ठति” भा० आश्व० प० अ० ४० । स च सर्गः
दशविथः प्राकृतः षड़िवधः, वैकृतस्त्रिविधः, उभयात्मक
एकविधः इति भेदात् तद्विवरणम्” भाग० ३ स्क० १० अ० ।
“विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना १२ । यथेदानीं
तथाग्रे च पश्चादप्येतदीदृशम् १३ । सर्गोनवविधस्तस्य
प्राकृतोवैकृतश्च यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसं-
क्रयः १४ । आद्यस्तु महतः सर्गोगुणवैषम्यमात्मनः ।
द्वितीयस्त्वहमोयत्र द्रव्यज्ञानक्रियोदयः १५ । भूतसर्ग-
स्तृतीयस्तु तन्मात्रोद्रव्यशक्तिमान् । चतुर्थ ऐन्द्रियः
सर्गो यस्तु ज्ञानक्रियात्मकः १६ । वैकारिको देवसर्गः
पञ्चमोयन्मयं मनः । षष्ठस्तु तससः सर्गोयस्तु बुद्धिकृतः
प्रभोः १७ । षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु
रजोभाजो भगवतोलीलेयं हरिमेधसः १८ । सप्तमोमुख्य
सर्गस्तु षद्धिधस्तस्थुषाञ्च यः । वनस्पत्योषधिलतात्वक्
सारावीरुधो द्रुमाः १९ । उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा
विशेषिणः २० । तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधोमतः ।
अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः २१ । गोरजोमहिषः
कृष्णः शूकरो गवयोरुरुः । द्विशफाः पशवश्चेमे अविरु-
ष्ट्रश्च सत्तम! । खरोऽश्वोऽश्चतरोगौरः शरभश्चमरी तथा
एते चैकशफाः क्षत्तः! शृणु पञ्चनखान् पशून् २२ । श्वा
शृगालोवृकोव्याघ्रोमार्ज्रारः शशशल्लकौ । सिंहः कपिर्गञः
कूर्म्मो गोधा च मकरादयः । कङ्कगृध्रवकश्येनभासभल्ल-
कबर्हिणः । हंससारसचक्राह्वकाकोलूकादयः खगाः २३ ।
अर्ब्बाक्स्रोतस्तु नवमः क्षत्तरेकविधोनृणाम् । रजोऽधिकाः
कर्म्मपरा दुःखे च सुखमानिनः २४ । वैकृतास्त्रयएवैते देवस-
र्गश्च सत्तम! । वैकारिकस्तु यः प्रोक्तःकौमारस्तूभयात्मकः २५ ।
देवसर्गश्चाष्टविधोविबुधाः पितरोऽसुराः । गन्धर्ब्बाप्सरसः
सिद्धा यक्षरक्षांसि चारणाः । भूत प्रेतपिशाचाश्च विद्याध्राः
किन्नरादयः । दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः” ।
“स्वव्यतिरिक्तसृज्याभावं दर्शयन् कालस्य सृष्टिनिमि-
त्ततां दर्शयति विश्वमिति । विष्णुमायया संस्थितं
संहृतम् । ब्रह्म तन्मात्रं सत विश्वं ईश्वरेण कर्त्रा कालेन
निमित्तेन परिच्छिन्नं पृथक् प्रकाशितम् । अव्यक्ता मूर्त्तिः
स्वरूपं यस्येति स्वतोनिर्व्विशेषता दर्शिता १२ । अप्र-
तिष्ठत्वं दर्शयितुं तत्कार्य्यविश्वप्रवाहस्याप्रतिष्ठामाह
यथेदानीमस्ति तथाग्ने पूर्व्वमप्यासीत् । पश्चादपि तथा
भविष्यति १३ । एवं सामान्यतः कालं निरूप्य विशेषतो
निरूपयिष्यन् तन्निमित्तस्य पूर्व्वसर्गस्य पूर्ब्बोक्तानेव
भेदान् अनुवदति सर्गैति । यस्तु प्राकृतोवैकृतश्च स तु दशमः
तन्निमित्तमेव त्रिविधं प्रलयमाह कालेनैव बलेन नित्य-
प्रलयः द्रव्येण सङ्कर्षणमुखाग्न्यादिना नैमित्तिकः गुणैः
स्वस्वकार्य्यं ग्रसद्भिः प्राकृतिकः १४ । तानेव सर्गान् प्रप-
ञ्चयति । आद्य इत्यादिना यावदध्यायसमाप्ति । महतो
लक्षणम् आत्मनोहरेः सकाशात् गुणानां वैषम्यमिति ।
अहमः अहङ्कारस्य । तस्य लक्षणं यत्रेति । द्रव्यादयो-
वक्ष्यमाणास्त्रयः सर्गाः १५ तन्मात्रो भूतसर्गः ।
ततःसूक्ष्मसर्ग इत्यर्थः । द्रव्यशक्तिमान् महाभूतोत्पादकः
ज्ञानकर्म्मेन्द्रियात्मकश्चतुर्थः १६ । पञ्चमोवैकारिकः ।
इन्द्रियाधिष्ठातारोदेवाः मनश्च । षष्ठस्त तमसः पञ्चपर्व्वा-
विद्यायाः । अबुद्धिर्जीवानामावरणम् विक्षेपश्च तां करोतीत्य-
बुद्धिकृत् तस्य १७ । मेमस्तः शृणु अनुद्वेगेन श्रोतव्य-
तामाह । यद्विषया मेधा संसारं हरति तस्य हरेर्लीला ।
यद्वा इयमिति तमआदिसर्गरूपा । रजोभाज इति
ब्रह्मरूपस्येत्यर्थः । अस्मिन् पक्षेऽबुद्धिकृत इति प्रथमान्तं
अनवधानकृत इत्यर्थः १८ । मुखमिव प्रथमं कृतःमुख्यः
सर्गः । तस्थुषां स्थावराणाम् । षड्विधमेवाह । ये पुष्पं
विना फलन्ति ते वनस्पतयः । ओषधयः फलपाकान्ताः ।
लताः आरोहणापेक्षाः । त्वक्सारा वेण्वादयः । लता एव
काठिन्येनारोहणानपेक्षा वीरुधः । येपुष्पैः फलन्ति
तेद्रुमाः १९ । तेषां साधारणलक्षणमाह ऊर्द्ध्वंस्रोत
आहारसञ्चारो येषाम् । तमःप्राया अव्यक्तचैतन्याः ।
अन्तःस्पर्शमेव जानन्ति नान्यत् तदप्यन्तरेव न बहिः ।
विशेषिणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः २० ।
तिर्य्यक्स्रोतसां सर्गमाह तिरश्चामिति । स चाष्टविंशति-
भेदः । तिरश्चां लक्षणम् अविदः श्वस्तनादिज्ञानशून्याः ।
भूरितमसः आहारादिमात्रनिष्ठाः । घ्राणज्ञाः घ्राणेनै-
वेष्टमर्थं जानन्ति हृदि अवेदिनः दीर्घानुसन्धानशून्याः ।
तथा च श्रुतिः । “अथेतरेषां पशूनाम् अशनापिपासे
एवाभिज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः
श्वस्तनं न लोकालोकाविति” २१ । अष्टविंशतिभेदानाह
पृष्ठ ०७००
गवादयौष्ट्रान्ताः द्विशफाः द्विखुरानव । खरादयः
चमर्य्यन्ता एकशफाः षट् । श्वादयोगोधान्ताः पञ्चनखा द्वा-
दश २२ । एवमेते भूचराः सप्तविंशतिः । मकरादयोजलचराः
कङ्कादयश्च खगाः अभूचरत्वेनैकीकृत्य गृहीताः । तदेवम-
ष्टाविंशतिभेदान् वदन्ति । तेषु कृष्णरुरुगौराः
मृगविशेषाः अन्येषामपि तिर्य्यक्पाणिनामेतेष्वेव यथायथ-
मन्तभावः २३ । अध आहारसञ्चारोयस्य सोऽर्व्वाक्स्रोताः ।
ह्रस्वमार्षम् । नृणां सर्गः । नृणां लक्षणम् । रजः
अधिकंयेषु २४ । एते त्रयोवैकृताएव न कौमारवदुभयात्मकाः
देवसर्गोवेकृत इत्यनुषङ्गः । वैकारिकस्तु देवसर्गः प्राकृतेषु
पूर्व्वमेव प्रोक्तः अयन्तु ततोन्यूनत्वाद्वैकृतः देवसर्गएदन्त-
र्भूतः सनत्कुमारादीनान्तु सर्गः प्राकृतोवैकृतश्च देवत्वेन
मनुष्यत्वेन च सृज्य इत्यर्थः २५ । वैकृतश्च देवसर्गोऽष्टविधः अत्र
विबुधादयस्त्रयोभेदाः गन्धर्ब्बाप्सरसएकः यक्षरक्षांस्येकः ।
मूतप्रेतपिशाचाएकः सिद्धचारणविद्याध्राः एकः किन्नराएकः
आदिशब्दात् किंपुरुषाश्वमुखादयः” श्रीधरव्याख्या ।
एवं सामान्यतः सर्गमुक्त्वा तत्रैव २६ अध्याये विशेष उक्तः
“भगवानुवाच १० । यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदा-
त्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ११ ।
पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्व्विंश-
तिकं गुणं प्राधानिकं विदुः १२ । महाभूतानि पञ्चैव
भूरापोऽग्निर्म्मरुन्नभः । तत्मात्राणि च तावन्ति गन्धा-
दीनि मतानि मे । इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसनना-
सिकाः । वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ।
१३ । मनोबुद्धिरहङ्कारश्चित्तमित्यरात्मकम् । चतुर्द्धा
लक्ष्यते भेदोवृत्त्या लक्षणरूपया १४ । एतावानेव संख्यातो
ब्रह्मणः सगुणस्य च । सन्निवेशोमयाप्रोक्तोयः कालः
पञ्चविंशकः १५ । प्रभावं पौरुषं प्राहुः कालमेके
यतोभयम् । अहङ्कारविमूढस्य कर्त्तुः प्रकृतिमीयुषः १६ ।
प्रकृतेर्गुणसाम्यस्य निर्विशेधस्य मानवि! । चेष्टा यतः स
भगवान् काल इत्युपलक्षितः १७ । अन्तः पुरुषरूपेण
कालरूपेण यो बहिः । तमन्वेत्येष सत्वानां भगवानात्ममायया
१९ । दैवात् क्षुभितधर्म्मिण्यां खस्यां योनौ परः
पुमान् । आधत्त वीर्य्यं सासूत महत्तत्वं हिरण्म-
यम् १९ । विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।
स्वतेजसा पिबत्तीव्रमात्मप्रस्वापनं तमः २० । यत्तत् सत्व-
गुणं स्वच्छं शान्तं भगवतः पदम् । यदाहुर्व्वासुदेवाख्यं
चित्तं तन्महदात्मकम् २१ । स्वच्छत्वमविकारित्वं शान्तत्व-
मिति चेतसः । वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः
परा २२ । महत्तत्वाद्विकुर्व्वाणाद्भगवद्वीर्य्यसम्भवात् ।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत २३ । वैकारिक
स्तैजसश्च तामसश्च यतोभवः । मनसश्चेन्द्रियाणाञ्च भूतानां
महतामपि २४ । सहस्रशिरसं साक्षात् यमनन्तं प्रच-
क्षते । सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् २५ ।
कर्त्तृत्वं करणत्वञ्च कार्य्यत्वञ्चेति लक्षणम् । शान्तघोर
विमूढत्वमिति वा स्यादहङ्कृतेः २६ । वैकारिकाद्विकुर्व्वाणा-
न्मनस्तत्त्वमजायत । यत्संकल्पविकल्पाभ्यां वर्तते कामस-
म्भवः २७ । यद्विदुर्ह्य निरुद्धाख्यं हृषीकाणामधीश्वरम् ।
शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः २८ ।
तैजसात्तु विकुर्व्वाणाद्बुद्धितत्त्वमभूत् सति! । द्रव्यस्फुरणवि-
ज्ञानमिन्द्रियाणामनुग्रहः २९ । संशयोऽथ विपर्य्यासो
निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः
पृथक् ३० । तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागतः ।
प्राणस्य हि क्रिया शक्तिर्बुद्धेर्व्विज्ञानशक्तिता ३१ ।
तामसाच्च विकुर्व्वणाद्भगवद्वीर्य्य नोदितात् । शब्दमात्रमभूत्तस्मा-
न्नभः श्रोत्रन्तु शब्दगम् ३२ । अर्थाश्रयत्वं शब्दस्य
द्रष्टुर्लिङ्गत्वमेव च । तन्मात्रञ्चैव नभसो लक्षणं कवयो
विदुः ३३ । भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ।
प्राणेन्द्रियात्मधिष्ण्यत्वं नभसोवृत्तिलक्षणम् ३४ ।
नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः । स्पर्शोऽभव-
त्ततोवायुस्त्वक् स्पर्शस्य तु संग्रहः ३५ । मृदुत्वं कठिनत्वञ्च
शैत्यमुष्णत्वमेव च । एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं
नभस्वतः ३६ । चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्द-
योः । सर्वेन्द्रियाणामात्मत्वं वायोः कर्म्माभिलक्षणम् ।
बायोश्च स्पर्शतन्मात्राद्रूपं देवेरितादभूत् । समुत्थितं
ततस्तेजश्चक्षूरूपोपलम्भनम् । द्रव्याकृतित्वं गुणताव्यक्तिसं-
स्थात्वमेव च । तेजस्त्वं तेजसः साध्वि! । रूपमात्रस्य
वृत्तयः ३८ । द्योतनं पचनं पानमदनं हिममर्दनम् ।
तेजसोवृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च । रूपमात्राद्विकु-
र्व्वाणात्तेजसोदेवनोदितात् । रसमात्नमभूत्तस्मादम्भो-
जिद्धा रसग्रहः ४० । कषायोमधुरस्तिक्तः कट्वम्ल इति
नैकधा । भौतिकानां विकारेण रस एकोविभिद्यते ४१ ।
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्ययनोद(न्द)नम् । तापापनो
दोभूयस्त्वमम्भसो वृत्तयस्त्विमाः ४२ । रसमात्राद्विकुर्व्वा-
णादम्भसो देवनोदितात् । गन्धमात्रमभूत्तस्मात् पृथ्वी-
घ्राणस्तु गन्धगः ४३ । करम्भपूतिसौरभ्यशान्तोदग्रा-
पृष्ठ ०७०१
दिभिः पृथक् । द्रव्यावयववैषम्याद्गन्ध एकोविभिद्यते ४४ ।
भावनं ब्रह्मणःस्थानं धारणं सद्विशेषणम् । सर्वसत्व
गुणोद्भेदः पृथिवीवृत्तिलक्षणम् ४५ । नभोगुणविशे-
षोऽर्थो यस्य तत् श्रोत्रमुच्यते । वायोर्गुणविशषोऽर्थो
यस्य तत् स्पर्शनं विदुः । तेजोगुणविशेषोर्थो यस्य तच्च-
क्षुरुच्यते । अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः
भूमेर्गुणविशेषोऽर्थो यस्य घ्राणः स उच्यते ४६ । परस्य
दृश्यते धर्म्मोह्यपरस्मिन् समन्वयात् । अतो विशेषो
भावानां भूमावेवोपलभ्यते ४७ । एतान्यसंहत्य यदा
महदादीनि सप्त वै । कालकर्म्मगुणोपेतो जगदादिरुण-
विशत् ४ ८ । ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् ।
उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट । एतदण्डं
विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतं
प्रधानेनाकृतं बहिः । यत्र लोकवितानोऽयं रूपं
भगवतोहरेः ५० । हिरण्मयादण्डकोषादुत्थाय सलिले-
शयात् । तमाविश्य महादेवो बहुधा निर्बिभेद खम् ५१ ।
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।
बाण्या वह्रिरथो नासे प्राणोतो घ्राण एतयोः ५२ ।
घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः । तस्मात् सूर्य्यो-
ऽन्वभिद्येतां कर्ण्णौ श्रोत्रं ततोदिशः ५३ । निर्विभेद
विराजस्त्वग्रोमश्मश्र्वादयस्ततः । ततः ओषधयश्चासन् शिश्नं
निर्ब्बिभिदे ततः । रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम् ।
गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ५४ । हस्तौ च
निरभिद्येतां बलं ताभ्यां ततः स्वराट् । पादौ च
निरभिद्येतां गतिस्ताभ्यां ततोहरिः ५५ । नाड्योऽस्य निरभि-
द्यन्त ताभ्योलोहितमाभृतम् । नद्यस्ततः समभवन्नुदरं
समभिद्यत । क्षुत्पिपासे ततःस्यातां समुद्रस्त्वेतयोरभूत् ।
अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ५६ । मनसश्च-
न्द्रमाजातोबुद्धिर्ब्बुद्धेर्गिरांपतिः । अहङ्कारस्ततोरुद्रः
चित्तञ्चैत्त्यस्ततोऽभवत् ५७ । एते ह्यभ्युत्थिता देवा नैवास्यो-
त्थापनेऽशकन् । पुनराविशुः खानि तमुत्थापयितुं
क्रमांत् । वह्रिर्व्वाचा मुखं भेजे नोदतिष्ठत्ततोविराट् ।
घ्राणेन नासिके वायुर्नोदतिष्ठत्ततो विराट् । अक्षिणी
चक्षुराटित्यो नोदतिष्ठत्ततो विराट् । हस्ताविन्द्रोबलेनैव
बोदतिष्ठत्ततो विराट् । विर्ष्णुर्गत्येव चरणौ नोदतिष्ठत्ततो
विराट् । नाड़ीर्नद्यो लोहितेन नोदतिष्ठत्ततो विराट् ।
क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्ततो विराट् । बुद्ध्या ब्रह्नापि
हृदयं नोदतिष्ठत्ततो विराट् । श्रोत्रेण कर्ण्णौ च दिशोनो-
तिष्ठत्ततो विराट् । रेतसा शिश्नमापस्तु नोदतिष्ठत्ततो
विराट् । गुदं मृत्युरपानेन नोदतिष्ठत्ततो विराट् ।
रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्ततो विराट् । चित्तेन
हृदयं चैत्त्यः क्षेत्रज्ञः प्राविशद्यदा । विराट् तदैव पुरुषः
सलिलादुदतिष्ठत ५९ । यथा प्रसुप्तं हृदयं प्राणेन्द्रिय
मनोन्वयाः । प्रभवन्ति विना येन नोत्थाप्रयितुमोजसा ।
तमस्मिन् प्रत्यगात्मानं धिया योगविवृत्तया । भक्त्या विरक्त्या
ज्ञानेन विविच्यात्मनि चिन्तयेत्” ६० । व्याख्यातमेतत् श्रीधरेण
“दैवाज्जीवादृष्टवशात् क्षुभिता धर्म्मा गुणायस्याः । योनौ
अभिव्यक्तिस्थाने प्रकृतौ वीर्य्यंचिच्छक्तिम् । सा प्रकृतिर्म्महत-
त्त्वमसूत । महतः स्वरूपमाह हिरण्मयं प्रकाशबहु-
लम् १९ । विश्वं अहङ्कारादिप्रपञ्चं आत्मगतं स्वस्मिन्
सूक्ष्मरूपेण स्थितं व्यञ्जन् प्रकटयन् तमोऽपिबत्, कूटस्थः
लयविक्षेपशून्यः, आत्मानं प्रस्वापयतीति तथा यत्
पूर्ब्बं प्रलयसमये महान्त प्रकृतौ विलापयमासेति २० ।
प्रसङ्गात् चतुर्व्यूहोपासनमाह यत्तदिति सर्व्वागमप्रसि-
द्धत्वमाह । स्वच्छ विशदं शान्तं रागादिरहितं भगवतः
पदमुपलब्धिस्थानम् । अतएव वासुदेवाख्यंयदाहुः ।
अयमर्थः अधिभूतरूपेण तस्यैव महानिति, अध्यात्मरूपेण
चित्तमिति, उपास्यरूपेण वासुदेव इति, अधिष्ठाता तत्त्वस्य
क्षेत्रज्ञः, एवमहङ्कारे सङ्कर्षण उपास्यः, रुद्रोऽधिष्ठाता,
मनसि अनिरुद्ध उपास्य ब्रह्माधिष्ठाता, बुद्धौ प्रद्युम्न
उपास्यं ब्रह्माधिष्ठातेति ज्ञातव्यम् २१ । स्वच्छत्वं
भगवद्विभूतिग्राहित्वम् अविकारित्वं लयविक्षेपराहित्यं
अपांप्रकृतिः फेनतरङ्गादिरहिताबस्थापरा भूतसंसर्गात्
प्राक्तनी सा यथा मधुरा स्वच्छा शान्ता च तद्वदित्यर्थः २२
अहङ्कारस्योत्पत्तिपूर्ब्धकं लक्षणमाह महत्तत्त्वादिति
चतुर्भिः । क्रियासु शक्तिर्यस्य स क्रियाशक्तिः २३ । तस्य
त्रैविध्यमाह वैकारिक इति । तस्य कार्य्यमाह यतोयस्मान्मन
आदीनाम् भवौत्पत्तिरिति २४ । तस्मिन्नृपास्यंव्यूह
माह सहस्रशिरससिति २५ । कर्त्तृत्वं देवतारूपेण,
करणमिन्द्रियरूपेण, कार्य्यत्वं भूतरूपेण, शान्तत्वादिकं
तत्कारणगुणत्रयरूपेण २६ । मनस उत्पत्तिपूर्ब्बकं लक्षणमाह
वैकारिकादितिद्वाभ्याम् । संकल्पश्चिन्तनम् विकल्पोविशेष-
चिन्तनं यस्य मनसः संकल्पविकल्पाभ्यां कामसम्मवोवर्त्तते
इति कामरूपा वृत्तिर्लक्षणत्वेनोक्ता न तु प्रद्युम्नोत्पत्ति-
स्तस्य संकल्पादिकार्य्य त्वाभावात् उपास्यव्यूहस्यानिरुद्ध-
स्योक्तेः २७ । शारदं शरत्कालोनमिन्दीबरं नीलीत्पलं
पृष्ठ ०७०२
तदिव श्यामं तच्छनैः संराध्यं वशीकर्त्तुमयोग्यं दुर्ग्रह-
त्वात् २८ । बुद्धेरुत्पत्तिपूर्ब्बकं लक्षणमाह तैजसादिति-
द्वाभ्याम् हे सति! । द्रव्यस्फुरणरूपं विज्ञानमिति चित्त
व्यावृत्त्यर्थमुक्तम् । इन्द्रियाणामनुग्नह इति सविकल्पज्ञाने
हृषीकाणामधीश्वर इति यदुक्तं तत्तु निर्व्विकल्पक
ज्ञाने २९ । द्रव्यस्फुरणस्यैव प्रपञ्चः संशयादिः ।
विपर्य्यासो मिथ्याज्ञानं निश्चयः प्रमाणज्ञानं स्वापो-
निद्रा, “प्रमाणविपर्य्ययविकल्यनिद्रास्मृतयः” इति
पातञ्जलोक्ते ३० । इन्द्रियाणामुत्पत्तिमाह तैजसाह-
ङ्काराज्जातानि वैकारिकत्वशङ्कानिवृत्त्यर्थमेवकारः द्घि-
विधान्यपीन्द्रियाणि तैजसान्येवेत्यर्थः । तत्र हेतुः
प्राणस्येति हि यत्मात्प्राणस्य क्रियाशक्तिर्बुद्धेर्विज्ञान-
शक्तिता अतः प्राणस्य तैजसत्वात् तदीयशक्तिमता-
मिन्द्रियाणां तैजसत्वम् । तथा बुद्धेस्तैजसत्वात् तदीय-
ज्ञानशक्तिमतामपि ज्ञानेन्द्रियाणां तैजसत्वमपीत्यर्थः ३१ ।
तन्मात्रोत्पत्तिपूर्ब्बकमाकाशादिमहाभूतोत्पत्तिन्तल्लक्षणञ्चाह ।
तामसादिति पञ्चभिः । श्रोत्रन्तु शब्दगमित्यादिभि-
र्विषयोत्पत्त्यनन्तरं तत्सम्बन्धमात्रंकथ्यते नंतूत्पत्तिःप्रागेवो-
त्पन्नत्वात् शब्दं गच्छति प्राप्नोतीति शब्दगम् ३२ । शब्दस्य
लक्षणमाह अर्थाश्रयत्वं अर्थवाचकत्वं, द्रष्टुर्लिङ्गत्वं कुड्यान्त-
रितस्य द्रष्टुर्ज्ञापकत्वं तदुक्तं “लिङ्गं यद्द्रष्टृदृश्ययोरिति, न
भसः तन्मात्रत्वं सूक्ष्मत्वं शब्दस्य लक्षणमित्यन्वयः ३३ ।
छिद्रदातृत्वमवकाशदादृत्वं बहिरान्तरव्यवहारास्पदत्वम् आत्मा
मनः । प्राणादीनान्धिष्ण्यत्वमाश्रयत्वं नाड्यादिच्छिद्ररूपेण
वृत्तिः कार्य्यमेतल्लक्षणम् । एवमुत्तरत्रापि एकेन श्लोकेन
तन्मात्रमहाभूतयोरुत्पत्तिः द्वितीयेन तन्मात्रलक्षणं तृती-
येन महाभूतलक्षणं इत्यनुसन्धेयम् । आकाशात्त्वक्-
स्पर्शस्य सग्रहः सम्यग्ग्रहणं यया पुंस्त्वं नियतलिङ्गत्वात् ।
यद्वा स्पर्शस्य संग्रहस्ततोभवतीति शेषः । शब्दतन्मात्रादि-
त्यादि तन्मात्राणामुत्तरोत्तरान्वयार्थमुक्तम् ३५ । स्पर्शत्वं
स्वरूपलक्षणमित्यर्थः । नभस्वतो वायोस्तन्मात्रत्वञ्च ३६ ।
चालनं वृक्षशाखादेः । व्यूहनं मेलनं तृणादेः प्राप्तिः संयोगः
द्रव्यस्य गन्धवतोघ्राणं प्रति नेतृत्वं यथा शौत्यादिमतः
स्पर्शनं, शब्दस्य श्रोत्रं प्रति नेतृत्वं सर्ब्बेन्द्रियाणामात्मत्वम्
उपोद्बलकत्वं कर्म्मणा कार्य्येणाभिलक्षणं भावे ल्युट् । कर्म्मै-
वाभिलक्षणमिति विग्रहे तु करणे ३७ । द्रव्याकृतित्वं द्रव्य-
स्याकारसमर्पकत्वं गुणता द्रव्योपसर्जनतया प्रतीतिः
शब्दस्य तु स्वातन्त्र्येणैव प्रतीतिः । अप्रत्यक्षद्रव्यस्य स्पर्शा-
देरपि स्वातन्त्र्येणैव प्रतीतिः रूपस्य तु नैवमिति तस्यायं
विशेषौक्तः । व्यक्तिसंस्थात्वं द्रव्यस्य या संस्था सन्निवेशः
सैव संस्था यस्य द्रव्यपरिणामतया प्रतीतिरित्यर्थः । तेजस-
स्तेजस्त्वमसाघोरणत्वम् ३८ । द्योतनं प्रकाशनं पचनं
तण्डुलादेः क्षुत्तृट् अशनाया पिपासा च तद्द्वारेण पानम-
दनञ्च ३९ । जिह्वा रसनेन्द्रियं रसोगृह्यतेऽनेनेतिं रसग्र-
हस्ततो भवतीत्यर्थः ४० । कषायादिषु लवणोऽपि द्रष्टव्यः ।
भौतिकानां संसर्गिद्रव्याणां यएकोमधृरएव सन् अनेकधा
भिद्यते स रसैत्यर्थः ४१ । क्लेदनमार्द्रीकरणं मृदादेः
पिण्डीकरणं तृप्तिदातृत्वं प्राणनं जीवनम् “आपोमयः प्राण”
इति” श्रुतेः आप्यायनं तृड्वैक्लव्यनिवर्त्तनं उदनं मृदुकरणम्
उन्दनमितिपाठे सएवार्थः । भूयस्त्वं कूपादावुद्धृतस्यापि
पुनःपुनरुद्गमः ४२ । गन्धगः गन्धं प्राप्नोति ४३ ।
करम्भोमिश्रगन्धः यथा व्यञ्जनादीनां हिङ्ग्वादिसंस्कारेणैव ।
पूतिर्दुर्गन्धः सौरभ्यं कर्पूरादेः, शान्तः शतपत्रादेः, उदग्रो-
लसुनादेः, संसर्गिणां द्रव्यावयवानां वैषम्यात् यएवंविभि-
द्यते स गन्धैत्यर्थः ४४ । ब्रह्मणोभावनं प्रतिमादिरूपेण
साकारतापादनं, स्थानं जलादिविलक्षणतया नैरपेक्ष्येण स्थितिः
घारणं जलाद्याधारत्वं सतामाकाशादीनां विशेषणमवच्छे-
दकत्वं प्राणिनां तत्तत्गुणानाञ्चपुंस्त्वादीनामुतद्भेदः
परिणामविशेषैः प्रकटीकरणम् ४५ । श्रोत्रादीनां शब्दादिग्रा-
हकत्वमुक्तं तेषाञ्च लक्षणमेतदेव इत्याशयेनाह पञ्चभिः
श्लोकार्द्धैःनभसोगुणविशेषः शब्दोयस्यार्थोविषयः ४६ ।
गुणविशेषं शब्दव्यावृत्त्यर्थं दर्शयति परस्य कारणस्य धर्म्मः
शब्दादिः अपरस्मिन् कार्य्यवाय्वादौ कारणान्वयाद्दृश्यते
अतोभावानामाकाशादीनां विशेषगुणः सर्व्वोऽपि शब्दादिः
भूमावेवोपलभ्यते चतुर्णां तत्रान्वयात्, जलादिषु यथान्वय-
मेव न सर्व्वम् आकाशेऽन्यान्वयाभावेन एकएवेति ४७ ।
एवं कारणोत्पत्तिमुक्त्वा कार्य्योत्पत्तिमाह सार्द्धैस्त्रिभिः ।
एतान्यसंहत्य अमिलित्वा यदा स्थितानि तदा जगदादिरीश्वरः
प्राविशत् सप्तेति प्राधान्याभिप्रायेणोक्त प्रवेशस्तु सर्वेष्वपि-
विवक्षितएव ४८ । अनुविद्धेभ्त्यः क्षुभितेभ्यः यंस्मादसौ
विराट्पुरुष उदतिष्ठत् ४९ । भगवतोरूपमिति पुरुषाभेदा-
भिप्रायेण ५० । तस्मिन्नध्यात्मादिविभागमाह हिरण्म-
यादिति नवभिः । उत्थाय औदासीन्यं विहाय, तमाविश्य
अधिष्ठाय । महांश्चासौ देवश्चेति खं छिद्रम् ५१ । वाण्या
सह वह्निरभवत् प्राविशत् । नासे निरभिद्येतां प्राणोतः
प्राणेन ऊतः स्यूतः सन् घ्राणएतयोर्नासिकयोरभवदित्य-
पृष्ठ ०७०३
नुषङ्गः ५२ । घ्राणादनन्तरं वायुः । प्राणोतैति विशेषणं
सर्वेन्द्रियेष्वपि द्रष्टव्यं न्यभिद्येतामिति अन्वभिद्येतामिति
पाठद्वयेऽप्येकएवार्थः । श्रोत्रं दिशः प्राविशन् ५३ । आदिश-
ब्देन केशाः ५४ । स्वराटिन्द्रः । हरिविष्णुः ५५ । आभृतं
जातम् ५६ । बुद्ध्यादिषु हृदयमेवा धिष्ठानम् । गिरांपतिर्ब्र-
ह्मा, चैत्त्यः क्षेत्रज्ञः ५७ । अन्वयव्यतिरेकाभ्यां क्षेत्रज्ञं
यिवेक्तुं सर्व्वेषां पुनः प्रवेशमाह एत इति नवभिः ५८ ।
विवाड़्देहस्य व्यष्टिदेहं दृष्टान्तत्वेनदर्शयन् साङ्ख्यानुकथ-
नस्य प्रयोजनमाह यथेतिद्वाभ्याम् ५९ । प्रथमं परमश्वरे-
भक्तिः ततोऽन्यत्र विरक्तिः ततोयोगप्रवृत्ता धीः एकाग्र
चित्तं ततोयज्ज्ञानं तेन प्रत्यगात्मानं क्षेत्रज्ञं स्वस्मिन्नात्मनि
कार्य्यकारणसङ्घाते विविच्य चिन्तयेत्” ६० ।
वेदान्तिमते अत्र कश्चिद्विशेषः पञ्चदश्यामुक्तः । “चिदा-
नन्दमयब्रह्मप्रतिविम्बसमन्विता । तमोरजःसत्त्वगुणा
प्रकृतिर्द्विविधा च सा । सत्त्वशुद्ध्यविशुद्धिभ्यां मायाऽविद्या
च ते मते । मायाविम्बोवशीकृत्य तां स्यात् सर्व्वज्ञ-
ईश्वरः । अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा । सा
कारणशरीरं स्यात् प्राज्ञस्तत्राभिमानवान् । तमःप्रधान-
प्रकृतेस्तद्भोगायेश्वराज्ञया । वियत्पवनतेजोऽम्बुभूवोभूताति
जज्ञिरे । सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् ।
श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते । तैरन्तःकरणं सर्वै-
र्वृत्तिभेदन तत् द्विधा । मनोविमर्षरूपं स्यात् बुद्धिः
स्यान्निश्चयात्मिका । रजोऽंशैः पञ्चभिस्तेषां क्रमात्
कर्म्मेन्द्रियाणि तु । वाक्पाणिपादपायूपस्थाभिधानानि
जज्ञिरे । तैः सर्वैः सहितैः प्राणोवृत्तिभेदात् स पञ्चधा ।
प्राणोऽपानः समानश्चोदानव्यानौ च ते पुनः । बुद्धि-
कर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । शरीरं सप्तदशभिः
सूक्ष्मं तल्लिङ्गमुच्यते । प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रप-
द्यते । हिरण्यगर्भतामीशस्तयोर्व्व्यष्टिसमष्टिता । समष्टि-
रीशः सर्व्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्ततो-
ऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया । तद्भोगाय पुनर्भोग्य-
भोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येकं
वियदादिकम् । द्विधा विधाय चैकैकं चतुर्द्धा प्रथमं पुनः ।
स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते । तैरण्डस्तत्र
भुवनभोगाश्रयोद्भवः । हिरण्यगर्भस्थूलेऽस्मिन् देहे
वैश्वानरोभवेत् । तैजसा विश्वतां यातादेवतिर्य्यङ्नरादयः ।
ते पराग्दर्शिनः । प्रत्यक्तत्त्वबोधविवर्जिताः । कुर्वते
कर्म्म भोगाय कर्म्म कर्त्तुञ्च भुञ्जते” ।
एतन्मतप्रपञ्चस्तु “तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रप-
ञ्चवैचित्र्यहेतुप्राणिकर्म्मसहकृतापरिमितानिरूपितशक्तिवि-
शेषविशिष्टमायासहितः सन्नामरूपात्मकं निखिलप्रपञ्चं प्रथमं
बुद्धावाकलय्य इदं करिष्यामीति सङ्कल्पयति “तदैक्षत बहु
स्यां प्रजायेयेति” श्रुतेः । तत आत्मन आकाशादीनि पञ्च
भूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते ।
तत्राकाशस्य शब्दोगुणोवायोस्तु शब्दस्पर्शौ तेजसस्तु शब्द-
स्पर्शरूपाणि अपान्तु शब्दस्पर्शरूपरसाः पृथिव्यास्तु
शब्दस्पर्शरूपरसगन्धाः । न तु शब्दस्याकाशमात्रगुणत्वं
वाय्वादावपि तदुपलम्भात् । नासौ भ्रमः बाधकाभावात् ।
इमानि भूतानि त्रिगुणमायाकार्य्याणि अतस्त्रिगुणात्म-
कानि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैः श्रोत्रत्वक्चक्षूर-
सनघ्राणानि पञ्चेन्द्रियाणि मनोबुद्ध्यहङ्कारचित्तानि च
जायन्ते । श्रोत्रादीनां पञ्चानां क्रमेणैव दिग्वातार्क-
वरुणाश्विनोऽधिष्ठातृदेवताः मन आदीनां चतुर्णां क्रमेण
चन्द्रचतुर्मुखशङ्कराच्युताः अधिष्ठातृदेवताः । एतैरेव
रजोगुणेपेतैः पञ्चभूतैर्यथाक्रमेण वाक्पाणिपादपायूपस्थाख्यानि
कर्मेन्द्रियाणि जायन्ते । तेषाञ्च क्रमेण वह्नीन्द्रोपेन्द्रमृ-
त्युप्रजापतयोऽधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेव
पञ्च वायवः प्राणापानव्यानोदानसमानाख्याजायन्ते ।
तत्र प्रागननवान्० वायुः प्राणोनासाग्रस्थानवर्त्ती ।
अवागननवानपानः पाय्वादिस्थानवर्त्ती । विष्वगननवान्
व्यानः अखिलशरीरवर्त्ती । ऊर्द्घमननवानुदानः कण्ठ-
स्थानवर्त्ती । अशितपीतान्नादिसमीकरणः समानः नाभि-
स्थानवर्त्ती । तैरेव तमोगणोपेतैरपञ्चीकृतभूतैः पञ्चीकृत-
भूतानि जायन्ते “तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति”
त्रिवृत्करणश्रुतेः पञ्चीकरणोपलक्षणार्थत्वात् । पञ्ची-
करणप्रकारश्चेत्थम् । आकाशमादौ द्विधा विभज्य
तयोरेकं भागं पुनश्चतुर्द्धा विभज्य तेषां चतुर्णामंशानां वाय्वा-
दिषु चतुर्भूतेषु संयोजनम् । एवं वायुं द्वेधा विभज्य
तयोरेकं भागं पुनश्चतुर्द्धा विभज्य तेषाम् आकाशादिषु
संयोजनम् । एवं तेजोऽप्पृथिव्यंशानामपि । तदेवमे-
कैकभूतस्यार्द्धं स्वांशात्मकं अर्द्धान्तरञ्च चतुर्व्विधभूतमयमिति
पृथिव्यादौ स्वांशाधिक्यात् पृथिव्यादिव्यवहारः । तदुक्तम् ।
“वैशेष्यात्तद्वादस्तद्वाद” इति शा० सू० । पूर्ब्बोक्तैरपञ्चीकृतभू-
तैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्य्यन्तस्थायि
मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणा-
दिपञ्चकसयुक्तं जायते । तदुक्तन् । “प्रञ्चप्राणमनोबुद्धि
पृष्ठ ०७०४
दशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं
भोगसाधनमिति” । तच्च द्विविधं परमपरञ्च । परं हिरण्य-
गर्भलिङ्गशरीरम् । अपरमस्मदादिलिङ्गशरीरम् । तत्र
हिरण्यगर्भलिङ्गशरीरं महत्तत्त्वम् अस्मदादिलिङ्गशरी-
रञ्चाहङ्कारतत्त्वमित्याख्यायते । एवं तमोगुणयुक्तेभ्यः
पञ्चीकृतभूतेभ्योभूम्यन्तरिक्षस्वर्ग महोजनस्तपःसत्यात्मकस्योर्द्ध्व-
लोकसप्तकस्य अतलपातालवितलसुतलतलातलरसातल-
महातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डज
स्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणाञ्चोत्पत्तिः । तत्र
जरायुजानि जरायुभ्योजातानि मनुष्यपश्वादिशरीराणि ।
अण्डजानि अण्डेभ्योजातानि पक्षिपन्नगादिशरी-
राणि । स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरी-
राणि । उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादिशरी-
राणि वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरि-
त्वम् । तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशा-
वयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ
च साक्षात्कर्त्तृत्वम्, इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्य-
गर्भद्वारा “हन्ताहमिमास्तिस्रोदेवता अनेन जीवेनात्मना-
नुप्रविश्य नामरूपे व्याकरवाणीति” श्रुतेः । हिरण्यगर्भो-
नाम मूर्त्तित्रयादन्यः प्रथमोजीवः “स वै शरीरी प्रथमः
स वै पुरुषौव्यते । आदिकर्त्ता स भूतानां ब्रह्माग्रे
समवर्त्तत” “हिरण्यगर्भः समवर्त्तताग्रे इत्यादि” श्रुतेः” । वेदा० प०
सूक्ष्मादिस्थूलभूतान्तोत्पत्तिमुक्त्वा ब्रह्माण्डोत्पत्तिमाह
आत्म पु० “उत्पाद्यस्थूलभूतानि भगवान् भूतभावनः नीरेषु
स्वात्मनो वीजं सहसैव समाक्षिपत् । क्षिप्तं तेन हि तद्वीर्यं
नीराणामुपरिस्थितम् । दधिमण्डोपमम् कालात् काठिन्य-
मगमद् घनम् । कठिना पृथिवी सेयं रूक्षा सा दृस्यतेऽधुना ।
तस्याः सारसमुद्भूतो गोलकोऽभून्महालयः । कुक्कुटाण्डसमा-
कारःसप्नलोकस्य संस्थितिः । अनुसंवत्सरं कालं नीरेष्वासीत्सम
न्ततः । शुष्कालाबुसमोनित्यं वायुनाभ्याहतोभृशम् । स तु
संवत्सरे पूर्णे विभिन्नः कुक्वु टाण्डवत् । तदन्तःपुरुषोजज्ञे सप्न-
लोकशरीरभृत् । इदं सर्वं पुमानेव मूतं भावि स्थितं च
थत् । एष भोगस्य मोक्षस्य सर्वदृष्टेर्महेश्वरः । अन्नेन बर्धय-
त्येष स्थावराणि चराणि च । वक्ष्यमाणोऽस्य महिमा विज्ञेयः
सर्वदा नृभिः । पादःसर्वाणि भूतानि त्रिपादात्मनि तिष्ठति ।
महिमाश्रयमूतो यो महिम्नः सोऽधिको यथा । तथैवास्व
महिम्नोऽपि पुमानभ्यधिकोमतः । मार्गद्वयस्य कर्त्तायं
वैदिकस्य सदा प्रभुः । प्रवृत्तेश्च निवृत्तेश्च स्वर्गमोक्षपुरं प्रति ।
अयमभ्यधिको यस्मात् सर्वस्माद्भौतिकादजः । तस्मात्
विराडिति प्रोक्तो विशेवाद्राजतेयतः । अधिष्ठाय पुरः सर्वा-
स्थिरजङ्गमदेहिनाम् । पूरयत्यात्मना यस्मात् अतोयमधिपू-
रुषः । यस्मादभ्यधिकः सोऽयं ब्रह्माण्डान्तःस्थितः पुमान् ।
तस्य कार्य्यमिदं सर्वं गिरिदेहधरादिकम् । अयं यज्ञपुमान्
हेतुरृक्सामयजुषामपि । छन्दांस्यपि च सर्वाणि गायत्र्या-
दीनि जज्ञिरे । अस्मादजादयश्चापि विराजः पुरुषोत्तमात् ।
इन्द्रश्चाग्निश्च विप्राश्च मुखतोऽस्य विनिर्गताः । क्षत्रियाबाहुत-
स्तद्वत् ऊर्व्वावैश्याश्च जज्ञिरे । भूमिःशूद्रास्तथा पद्भ्यां जाता
अस्य महात्मनः । चन्द्रमामनसोजातो नेत्रात् तद्वत् दिवा-
करः । प्राणात् प्रभञ्जनोजातो नाभेस्तु गगनं महत् ।
मस्तकात् स्वर्गलोकोऽयं श्रोत्राज् जाता इमादिशः । एवमन्ये-
ऽपिपुं सोऽस्मात् जाता लोका महात्मनः । द्रव्याणि वा तथा
कालोवसन्ताद्यात्मको महान् । देवता यजमानो वा क्रिया-
वातःपरा न हि । सहस्रमस्तको देवः सहस्रेन्द्रियवानपि ।
भूतभौतिकजातं स आवृत्यात्मा परःस्थितः । बुद्धिसाक्षिण-
मात्मानमेतस्मात् परतः स्थितम् । स्वप्रकाशमहंवेदसर्वा-
ज्ञानविवर्जितम् । नामरूपात्मकं सर्वं कृत्वाऽस्तेयोवदन्निव
शक्र! त्वं धातृवदनात् सम्यक् विज्ञास्यते भवान् । दिशोऽपि
प्रदिशस्तद्वदध ऊर्द्ध्वं सएव हि । यतस्ततोऽत्र यज्ञेन
यक्ष्यन्ते तेन तं द्विजाः । धर्म्मश्ब्देन तेनैते स्वर्गं यास्यन्ति
तच्छिरः । पुंसोऽस्य मूर्द्धा स्वर्गः स्यात् चन्द्रसूर्य्यौ च
चक्षुषी । घ्राणः प्रभञ्जनः प्रोक्तो मध्यदेहोऽन्तरिक्षकम् ।
स्थलानि विविधान्यस्व मूत्राशय उदीरितः । भूर्लोकस्तु
समग्रोऽयं पादावस्य प्रकीर्त्तिर्तः । वक्त्रमाहवनीय-
स्तद्धृदयं चावसख्यकः । सगार्हपत्यनासः स्याद्दक्षिणाग्निर्म-
नोमतम् । उरोवेदिस्तथा दर्भालोमजातमुरःस्थितम् ।
ओषध्योवनस्पतयः शेषाः केशाः शरीरगाः । किं
बहूक्तेन शक्राद्य संक्षेपेणावधारय । यदस्ति यच्च नास्त्यत्र
तत्सर्वं स महेश्वरः” ।
काणादादिमते तु आदिसर्गे वायवीयेषु परमाणुषु
सृज्य मानजीवादृष्टवशात् क्रियोत्पद्यते सा च क्रिया
स्वाश्रयं परमाणुं परमाण्वन्तरेण संयुनक्ति
ततोह्यणुकादिक्रमेण महान् वायुरुत्पद्यते तेन नोदितेषु
तैजसपरमाणुषु क्रियोत्पद्यते तया परमाणवः परमाण्व
न्तरेण संहन्यमा नाः संयुज्यन्ते इत्येवंरूपेण महाभूतो-
त्पत्तिरेवं शरीराणि चेन्द्रियाणि चतुर्द्दश भुवनान्युत्पद्यन्ते
सर्वत्र चेश्वरोनिमित्तकारणम् । एतद्विवरणमारम्भवादशब्दे
पृष्ठ ०७०५
दृश्यम् । तथा च आदिसर्गे एवैतेषां सर्वेषां सृष्टिः ।
नैमित्तिकप्रलयोत्तरन्तु न सर्वेषाम् किन्तु येषांमेव
तादृशप्रलयदृशायां नाशस्तेषामेव कतिपयानामिति भेदः ।
वीजाङ्कुरवत् सृष्टेः प्रवाहरूपेणानादित्वेऽपि एतत्सृष्टेः
सादित्वमपि तत्तद्वीजव्यक्तेरङ्कुरव्यक्तेश्च यथा सादित्वमेवमेव
वर्त्तमानब्रह्मण आदिसर्गकाले महदादेरुत्पत्तेरादिसर्ग-
त्वमवगन्तव्यम् “यथेदानीमित्यादि” भागवतवचनेन “सूर्य्याच-
न्द्रमसौ धाता यथापूर्ब्बमकल्पयदिति” मन्त्रलिङ्गेन च
प्रबाहस्यैवानादित्वं सूचितं न तु तत्तद्व्यक्तेः । कर्म्मसापेक्ष
स्यैव ईश्वरस्य स्रष्टृत्वोक्तेः पूर्बं कर्म्मणामभावे विचित्रसृष्ट्य-
सम्भवः । अन्यथा वैषम्यनैर्घृण्ये ईश्वरस्य प्रसज्ये-
याताम् जीवस्य च कृतहान्यकृताभ्यागमप्रसङ्गश्चेति दिक् ।

आदीनव पु० आ + दी--भावे क्त आदीनस्य वानं प्राप्तिः वा० क

१ दोषे, २ क्लेशे, च । कर्मणि क । ३ दुर्दमे ४ परिक्लिष्टे च त्रि० ।

आदीपक त्रि० आदीपयति अन्यगृहमग्निना आ +

दीपणिच्--ण्वुल् । १ परगृहस्य दाहके । “राज्ञोबधं चिकी-
र्षेद्यस्तस्य चित्रो बधो भवेत् । आदीपकस्य स्तेनस्य वर्ण्णसङ्क-
रिकस्य च” भा० शा० ८६ अ० । २ उद्दीपके च ।

आदीपन न० आ + दीप--णिच्--ल्युट् । तण्डुलादिचूर्ण्णमि-

श्रितजलेन गृहादौ १ चित्राकारलेपनभेदे (आलिपना)
२ उद्दीपने च ।

आदीपित त्रि० आ + दीप--णिच्--क्त । दत्तादीपने १ गृहाङ्गनादौ । २ उद्दीपिते च ।

आदुरि त्रि० आ + दॄ--अन्तर्भूतण्यर्थे कि । दारयितरि “वामं

वामं त आदुरे देवोददात्वर्यमा” ऋ० ४, ३०, २४ ।
“हे आदुरे! शत्रूणां दारयितः!” भा० ।

आदृत त्रि० आ + दृ--कर्त्तरि क्त । १ सादरे कृतादरे । कर्म्मणि

क्त । यस्यादरः कृतस्तस्मिन् २ सम्मानिते ३ पूजिते च ।

आदृत्य त्रि० आ + दृ--कर्म्मणि क्यप् । आदरणीये १ आदर्त्तव्ये ।

ल्यप् । २ सम्मान्येत्यर्थे अव्य० ।

आदृष्टि स्त्री प्रा० स० । त्रिविभागसंकोचितदृष्टौ ।

आदेय त्रि० आ + दा--यत् । ग्राह्ये । “पञ्चाशद्भाग आदेयो

राज्ञा पशुहिरण्ययोः” “अनादेयस्य चादानादादे
यस्य च वर्ज्जनात्” इति च मनुः ।

आदेवक त्रि० आदीव्यति आ + दिव--ण्वुल् । द्युतकारके

आदेवन न० आ + दिव--भावे ल्युट् । १ द्यूतक्रीड़ायाम्

करणे ल्युट् । २ द्यूतसाधने पाशकादौ । आधारेल्युट् ।
द्यूतक्रीड़ाधारे (छक) ३ द्यूतफलके ।

आदेश पु० आ + दिश--भावे घञ् । १ उपदेशे २ आज्ञायाम् “अथात

आदेशोनेति नेतीति” वृ० उ० “उत तमादेशमप्राक्षः” “उत
स क आदेशः” । “आदित्योब्रह्मेत्यादेश” इति च छा० उ०
“आदेशं देशकालज्ञः शिष्यः शासितुरानतः” रघुः व्याकरण-
प्रसिद्धे कस्यचित् वर्ण्णादितः ३ कस्यचिद्वर्ण्णस्योत्पत्तौ च ।
आदिश्यते कर्म्मणि घञ् । ४ आदिष्टे ५ कथिते ६ उपदिष्टे
कस्यचित् स्थाने जाते कस्मिंश्चिद्वर्णे च “धातोः स्थान इवादेशं
सुग्रीवं सन्न्यवेशयत्” रघुः “आदेशप्रत्यत्ययोः” पा०
“आगमादेशयोर्मध्ये बलीयानागमोविधिः” व्या० कारि० “स्थानि-
वदादेशोऽनल्विधौ” पा० “लोपोऽप्यादेशौच्यते” व्या०
का० “ज्योतिर्विदुयुक्ते ८ शुभाशुभफले च “नादेशास्तस्य निष्-
फलाः” वृहत्सं० ।

आदेशक त्रि० आदिशति आ + दिश + ण्वुल् । १ आदेशकारके २ आज्ञाकारके ।

आदेशन न० आ + दिश--भावे ल्युट् । आदेशे “कृतोपनयन-

स्यास्य व्रतादेशनमिष्यते” मनुः ।

आदेशिन् त्रि० आदिशति आ--दिश--णिनि । १ आदेश-

कारके “कपोलपाटलादेशि बभूव रघुचेष्टितम्” रघुः २ दैवज्ञे
गणके पु० हेम० ।

आदेश्य त्रि० आ + दिश--कर्मणि ण्यत् । १ उपदेश्ये २ आज्ञाप्ये ३ कथनीये च ।

आदेष्टृ पु० आ + दिश--तृच् । ऋत्विजं प्रति ममेष्टसम्पा-

दनार्थं कर्म क्रियतामित्यादेशकर्त्तरि १ यजमाने, २ आज्ञा
कर्तृभात्रे त्रि० स्त्रियां ङीप् ।

आद्य त्रि० आदौ भवः दिगा० यत् । १ आदिभवे ।

“एतदन्ताश्च गतयो ब्रह्माद्याः समुदाहृताः” । “स्वायम्भु
वाद्याः सप्तैते मनवो भूरितेजसः” मनुः । अशौचान्त द्विती-
यदिनकर्त्तव्ये २ प्रेतश्राद्धभेदे न० “मृताहनि तु कर्त्तव्यं
प्रतिमासन्तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशे-
ऽहनि” या० स्मृ० । तस्य षोड़शश्राद्धानामादिभूतत्वात्
आद्यत्वम् । “श्राद्ध्वमग्निमतः कुर्य्याद्दाहादेकादशेऽहनि ।
ध्रुवाणि तु प्रकुर्व्वीत प्रमीतानां च सर्व्वदा । द्वादश प्रति-
मास्यानि आद्यं षाण्माषिके तथा । सपिण्डीकरणञ्चैव इत्ये-
तत् श्राद्धषोड़श” छन्दो ग० प० । निरग्नेस्तु सरणावध्येव-
एकादशाहे तत् कर्त्त व्यमिति भेदः । एकादशपदञ्च स्वजा-
त्युक्ताशौचान्तद्वितीयदिनपरम् । ३ प्रधाने श्रेष्ठे त्रि०
“आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव” रघुः
अद + कर्मणि ण्यत् । ४ अदनीयद्रव्यमात्रे त्रि० ५ धान्ये
न० राजनि० तस्यादनीयत्वात् “अन्नमूलं हि जीवनम्”
इत्युक्तेश्च जीवनसूलत्वेन प्रधानत्वद्वा आद्यत्वम् ।

आद्यकवि पु० कर्म० । आदिकवौ चतुर्मुखे १ हिरण्यगर्भे २ वाल्मिकौ च

पृष्ठ ०७०६

आद्यमाषक पु० मष्यतेऽनेन करणे घञ् कर्म्म० । पञ्चगुञ्जा-

परिमाणे, (माषा) इति ख्याते “माषकः सप्त कृष्णला”
इत्युक्तेराद्यत्वविशेषणम् तस्य कार्य्यविशेषोपयोगितया
गौणत्वान्न मुख्यत्वम् अतएव “दशार्द्धगुञ्जं प्रवदन्ति
माषमिति” भास्कराचार्य्येण माषस्य पञ्चगुञ्जात्मकत्वमेवोक्तम् ।

आद्यवीज न० कर्म्म० । मूलकारणे आदिकारणे, १ ईश्वरे

सांख्यमते २ प्रधाने च ।

आद्या स्त्री आदौभवा दिगा० यत् । १ दुर्गायां तन्त्रोक्तायां

युगभेदे २ सुन्दर्य्यादौ च “सत्ये तु सुन्दरी आद्या, त्रेतायां
भुवनेश्वरी, द्वापरे तारिणी आद्या कलौ काली प्रकीर्त्तिता”
मुण्डमालातन्त्रोक्तेस्तासां तथात्वम्” । आदिभवायां
तिथ्यादौ च । “युगाद्या वर्षवृद्धिश्चेति” ति० त० पुरा० ।

आद्याकाली स्त्री नित्यस०संज्ञात्वान्न पुं वत् । “कालसंग्रसनात्

काली सर्वेषामादिरूपिणी । कालत्वादादिभूतत्वात्
आद्याकालीति गीयते” निर्वाणतन्त्रोक्तायां परमप्रकृतौ

आद्यादि पु० आदिराद्यो यस्य । पञ्चम्पाःस्थाने तसिप्रत्यय

निमित्ते का० वा० उक्ते शब्दगणभेदे । स च आदि, मध्य,
अन्त, पृष्ठ, पार्श्व, आकृतिगणः तेन “स्वरतो वणेतो
वेति” सिद्धम् ।

आद्युदात्त त्रि० आदिः उदात्तो यस्य । यस्य आदिरुदात्तः

तादृशे प्रत्ययादौ । स च पाणिन्यादिभिर्दर्शितः “प्रत्ययः”
इत्यचिकारे “आद्युदत्तः” पा० असति अपवादे सर्वोऽपि
प्रत्यय आद्युदात्तः । कर्त्तमत्र तेति उदात्तः । “स्वपादि-
हिंसानामच्यनिटि” पा० अदाद्यन्तर्गणस्वपादेर्हिनस्तेश्च
अनिटि अजादौ लसार्वधातुके परे आदिरुदात्तोवा । स्वपन्ति
इत्यत्र स्वेत्यस्य वा उदात्तता । “अभ्यस्तानामादिः” पा०
सूर्व्वोक्तविषये अभ्यस्तसंज्ञकानामादिरुदात्तः । दघति, इत्यादौ
देत्यस्योदात्तता “अनुदात्ते च” पा० अविद्यमानोदात्ते ल
सर्वधातुके परे अभ्यस्तानामादिरुदात्तः । दधासि अनजा-
दावपि देत्यस्योदात्तता “आदिर्णमुल्यन्यतरस्याम्” पा०
अभ्यस्तानामादिर्णमुलि परे उदात्तो वा । लोलूयं लोलूयम्
पक्षे लित्स्वरः । “अचः कर्त्तृयकि” पा० कर्म्मकर्त्तरि यकि
परे उपदेशेऽजन्तानामादिरुदात्तो वा । लूयते केदारः
स्वयमेव । “सर्वस्य सुपि” पा० सुपि परे सर्वशब्दस्य
आदिरुदात्तः सर्वे अत्र सेत्यस्योदत्तता । “ञ्नित्यादिनित्यम्” पा०
ञिदन्तस्य निदन्तस्यादिरुदात्तः । व्यञोञित्त्वात् तदन्तस्यादि-
रुदात्तः “पथिमथोः सवनामस्थाने” पा० अन्योरादिरुदात्तः
सुर्वनामस्थाने परे । पन्थाः पेत्युदात्तः । “क्षयोनिवासे” पा०
निवासार्थे क्षयस्यादिरुदात्तः । “जयः करणम्” पा०
करणवाची जयशब्द आद्युदात्तः । “वृषादीनाञ्च” पा०
एषामादिरुदात्तः! वृष जन ज्वर ग्रह हय गय नय ताय
तय चय अम वेद सूद अंश गुह्य (शमरणौ संज्ञायाम्)
(संमतौ भावकर्म्मणोः) । मन्त्र शान्ति काम याम तारा धारा
कारा वह कल्प पाद । “आकृतिगणत्वात् अविहितलक्ष-
णमाद्युदात्तत्वं वृषादिषु ज्ञेयम्” सि० कौ० । “संज्ञाया-
मुपमानम्” पा० चञ्चेव चञ्चा । “निष्ठा च ह्यजनात्” पा०
निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तः नत्वाकारान्त ।
दत्तः । आकारस्तु स्नातः । “शुष्कधृष्टौ” पा०
एतावाद्युदात्तौ असंज्ञायाम् “आशितः कर्त्ता” पा०
कर्त्तृवाची आशितशब्द आद्युदात्तः “रिक्ते विभाषा”
पा० रिक्तस्यादिरुदात्तः असंज्ञायाम् । “जुष्टा-
र्पिते च छन्दसि” पा० एतौ आद्युदात्तौ असंज्ञायाम्
“युष्मदस्मदोर्ङसि” पा० अनयोः ङसि परे आदिरुदात्तः ।
“ङयि च” पा० अनयोर्ङयि परे आदिरुदात्तः । “यतोऽ-
नावः” पा० यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तः नावं विना ।
गव्यम् काम्या । “ईडवन्दवृहसदुहां ण्यतः” पा० ण्यद
न्तानामेषामादिरुदात्तः । “विभाषा बेण्विन्धानयोः” पा०
एतयोरादिरुदात्तः । “त्यागरागहासकुहश्वठक्रथानाम्” पा०
एषाम् आदिरुदात्तः । फिट्सूत्रे शान्तनवाचार्य्यैरन्येऽपि
आद्युदात्ता उक्ता यथा “दक्षिणस्य साधौ” फि०
स्याङ्गार्थकदक्षिणशब्दस्यादिरुदात्तोवा दक्षिणोबाहुः
“छन्दसि च” फि० “शुक्लगौरयोरादिः” फि० “अनयोरादि-
रुदात्तः “अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः” फि० लोके तु
आदिरुदात्तः । “अथादिः प्राक् शकटेः” फि० २ पादे १ सू० ।
अधिकारोऽयम् शकटिशकष्ट्योरिति यावत् । “ह्रस्वान्तस्य
स्त्रीविषयस्य २” । आदिरुदात्तः स्यात् । वलिःतनुः । “नब्-
विषयस्यानिसन्तस्य” ३ । वनं वयः । इसन्तस्य तु सर्पिः । नप्
नपुंसकम् । “तृणधान्यानां च द्व्यषाम्” ४ । द्यचामित्यर्थः ।
कुशाः, काशाः, माषाः, तिला, बह्वचान्तु गोधूमाः । “न्रः
संख्यायाः” ५ । पञ्च, चतस्रः । “स्वाङ्गशिटासदन्ता-
नाम्” ६ । शिट् सर्व्वनाम, “कर्ण्णाभ्यां चुचूकादधि”
“ओष्ठाविव मधु” “विश्वो विहायाः” । “प्राणिनां कुपूर्वम्” ७ ।
कवर्ग्गात् पूर्ब्ब आदिरुदात्तः । काकः, वृकः, “शुकेषु
मे” । प्राणिनां किम्, “क्षीरसर्पिर्मधूदकम्” । “खय्यु-
वर्ण्णं कृत्रिमाख्या चेत्” ८ । खयि परे उवर्ण्णमुदात्तं स्यात्,
कन्दूकः, “उनर्व्वनन्तानाम्” ९ । उन । “वरुणं वोऽरि-
पृष्ठ ०७०७
शादसम्” । ऋ । “स्वसारन्त्वाकृणवै” । वन् । “पीवानं
मेषम्” । “वर्ण्णानान्तणतिनितान्तानाम्” १० । आदिरु-
दात्तः, एतः हरिणः, शितिः, पृश्निः, हरित् ।
“ह्रस्वान्तस्य ह्रस्वमनृ ताच्छील्ये” ११ । ऋद्वर्जं ह्रस्वा-
न्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् । मुनिः । “अक्षस्यादे-
वनस्य” १२ । आदिरुदात्तः, “तस्य नाक्षः” देवने तु
“अक्षैर्म्मा दीव्य” । “अर्द्धस्यासमद्योतने” १३ । अर्द्धो ग्राम-
स्य, समेऽंशके तु अर्द्धं पिप्पल्याः । “पीतद्र्वर्थानाम्”
१४ । आदिरुदात्तः, पीतद्रुः, सरलः । “ग्रामा-
दीनाञ्च” १५ । ग्रामः, सोमः, यामः । “लुबन्तस्यो-
पमेयनामधेयस्य” १६ । चञ्चेव चञ्चा, स्फिगन्तस्येति
पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा । “न वृक्षपर्वत-
विशेषव्याघ्रसिंहमहिषाणाम्” १७ । एषामुपमेयनाम्ना-
मादिरुदात्तो न । ताल इव तालः, मेरुरिव मेरुः,
व्याघ्रः, सिंहः, महिषः । “राजविशेषस्य यमन्वा चेत्”
१८ । यमन्वा वृद्धः, आङ्ग उदाहरणम् । अङ्गाः प्रत्यु-
दाहरणम् । “स्त्रीविषयवर्ण्णाक्षुपूर्व्वाणाम्” २० ।
एषान्त्रयाणामाद्युदात्तः, स्त्रीविषयः, मल्लिका, वर्णः,
श्येनी, हरिणी, अक्षुशब्दात् पूर्वोऽस्त्येषान्ते अक्षु-
पूर्वाः, तरक्षुः । “शकुनीनाञ्च लघुपूर्वम्” २१ । पूवं
लघु उदात्तं स्यात्, कुक्कुटः, तित्तिरिः, । “नर्त्तुप्राण्या-
ख्यायाम्” २२ । यथालक्षणं प्राप्तमुदात्तत्वन्न, वसन्तः,
कृकलासः । “धान्यानाञ्च वृद्धक्षान्तानाम्” २३ । आदिरु-
दात्तः, कान्तानाम्, श्यामाकाः, षान्तानाम्,
राजमाषाः । “जनपदशब्दानामपान्तानाम्” २४ । केकयः,
“हयादीनामसंयुक्तलान्तानामन्तः पूर्ब्बं वा” २५ । हयिति
हलःसंज्ञा । पललम्, शललम्, हयादीनां किम् एकलः
असंयुक्तेति किं मल्लः । “इगन्तानाञ्च द्व्यषाम्” २६ ।
आदिरुदात्तः, कृषिः एतानि २ पादस्थानि ।
“मकरवरुड़पारेवतवितस्तेक्ष्वार्ज्जिद्राक्षाकलोमाकाष्ठायुतष्ठा
काशीनामादिर्वा” ३, ९, । एषामादिर्द्वितीयो वा
उदाच्चः । मकरः वरुड़ः । “छन्दसि च” १० । अमकराद्यर्थ
आरम्भः । लक्ष्यानुसारादादिर्द्वितीयम् वा उदात्तं
ज्ञेयम् । “कर्दमादीनाञ्च” ११ । आदिर्द्वितीयं वोदा-
त्तः । “सुगन्धितेजनस्य ते वा” १२ । आदि र्द्वितीयं
ते शब्दश्चेति पर्य्यायेण वोदात्ताः । “नपः फलान्ता-
नाम्” १ ३ । आदिर्द्वितीयं वोदात्तम् । राजादनफलम् ।
“ईषान्तस्य हलादेरादिर्वा” १४ । हलीषा लाङ्गलीषा ।
उशीरदाशेरकपालपलाशशैवालश्यामाकशरीरशरावहृदय-
हिरण्यारण्यापत्यदेवराणाम्” १९ । “एषामादिरुदात्तः
स्यात् । “महिष्याषाढयोर्ज्जायेष्टकाख्यां चेत्” २० । आदि
रुदात्तः, “महिषी जाया” आषाढा उपदधाति । एतानि
३ पादस्थानि । “निपाता आद्युदात्ताः” फि० ४, १२ ।
स्वाहा “उपसर्गाश्चाभिवर्ज्जम्” फि० ४, १३ ।
तथा च पाणिनिशान्तनवाचार्य्यादिभिर्यस्यादेरुदात्तत्वं
विहितं ते शब्दा लोके वेदे च आद्युदादात्ता भवन्ति ।

आद्यून त्रि० आ + दिघ--क्त ऊट् नत्वञ्च । औदरिके (पेटुक)

जिगीषावर्ज्जिते । जिगीषायान्तु न नत्वम् । आद्यूतः ।
जिगीषया देवनकर्त्तरि ।

आद्योपान्त पु० आद्यावधि उपान्तः अन्तपर्य्यन्तः । प्रथमावधिशेषपर्यन्ते ।

आधमन न० आधीयते आ + धा--कमनन् । बन्धकदाने

आधौ, । “योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यस्य वाप्युपधिं पश्येत्तत् सर्वं विनिवर्त्तयेत्” स्मृतिः
“एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम्” स्मृतिः
एकोऽह्यनीशः सर्वत्र दानाधमनविक्रये” कात्या० स्मृतिः
आधिशब्देऽस्य विवृतिः ।

आधमर्ण्ण्य न० अधमर्ण्णस्य भावः कर्म वा ष्यञ् । ऋणग्रहणे

अवश्यदेयद्रव्यस्वामित्वे “आवश्यकाधमर्ण्ययोर्णिनिः” पा० ।

आधर्म्मिक त्रि० अधर्मं चरति ठञ् । अधर्मशीले दैववशात्

अधर्म्मानुष्ठातरि तु नास्य साधुत्वम् । अधार्म्मिक इत्यत्र
तु न धार्म्मिक इति विग्रह इति भेदः ।

आधर्ष पु० आ + धृष--भावे घञ् । १ तिरस्कारे २ वलाद्पीड़ने च

आधर्षण न० आ + धृष--भावे ल्युट् । १ आधर्षे २ बलात्पीड़ने ।

आधर्षित त्रि० आ + धृष--क्त अवैयात्ये इट् गुणश्च । १ अवमा-

निते २ तिरस्कृते ३ बलात्कारेणाभिभूते च “स्मृत्याचारव्य-
पेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहा-
रपदं हि तत्” या० स्मृतिःधाष्ठ्येर्तु आधृष्ट इत्येव ।

आधर्ष्य त्रि० आ + धृष--णिच्--यत् । १ अवमाननीये २ बलात्

पीड़नीये ३ दुर्बले च भावे यत् । ४ दुर्बलत्वे न० ।
“आधर्ष्यं पूर्ब्बपक्षस्य यस्मिन्नर्थवशाद्भवेत् । विवादे साक्षिण-
स्तत्र प्रष्टव्याः प्रतिवादिनः” नार० । “आधर्य्यं
दुर्वलत्वम्” व्य० त० रघु० ।

आधान न० आ + धा--भावे ल्युट् । संस्कारपूर्ब्बर्कं वह्न्यादेः

स्थापने १ अग्न्याधाने २ गर्भाधाने च । “आधाने
सोमपाने च वपनं सप्तसु स्मृतम्” प्रा० त० पु० “भार्य्यायै पूर्व्व-
मारिण्यै दत्त्वाग्नीन्त्यकर्म्मणि । पुनर्दारक्रियां कर्य्यात्
पृष्ठ ०७०८
पुनराधानमेव च” मनुः । विद्यमानपदार्थेषु गुणान्तरस्य
३ करणे “प्रजानां विनयाधानात् रक्षणाद्भरणादपि” रघुः
सतो गुणान्तराधानं प्रतियत्नः” सि० कौ० । ४ निवेशने
“गुणोविशेषाधानहेतुः सिद्धो वस्तुधर्मः” सा० द० । ५ बन्धक-
दाने च “आधानं विक्रयञ्चैव दानंनैव समाचरेत्” स्मृतिः
“विक्रयावक्रयाधानयाचितेषु पणा दश” या० स्मृतिः
अग्न्याधानञ्च विवाहसमये कर्त्तव्यं यदि तत्राहिताग्नेः
प्रमदादिना नाशः तदा पितृमरणोत्तरमेव कर्त्तव्यं सति तु
पितरि नैव कर्त्तव्यमिति, तत्र कालनक्षत्रादिविशेषाश्च
निर्ण्णयसिन्धौ दर्शिता यथा “प्राजापत्ये पूषभे सद्विदैवे
पुष्यज्येष्ठास्वैन्दवे कृत्तिकासु । अग्न्याधानं ह्युत्तराणां
त्रयेऽपि चित्रादित्ये कीर्तितं गर्गमुख्यैः” रत्नमा०
आश्वलायनः “अग्न्याधेयं कृत्तिकासु रोहिण्यां मृगशिर-
सि फाल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषां
कस्मिंश्चिद्वसन्ते पर्वणि ब्राह्नण आदधीत, ग्रीष्मवर्षाशरत्-
सु क्षत्रियवैश्योपकृष्टाः” यस्मिन्कस्मिंश्चिदृतावादधीत
सोमेन यक्ष्यमाणो नर्त्तुं पृच्छेन्न नक्षत्रम्” सोमाधाने ऋत्वा-
द्यनालोचनमार्त्तपरम् “अथो खलुयदैवैनं श्रद्धोपनदथाद-
घीत सैवास्यर्धिरिति सोमेन यक्ष्यमाणोमर्तुं पृच्छेन्न नक्षत्रं
तदेतदार्त्तस्यातिवेलं वा श्रद्धायुक्तस्य भवतीति” बौधायनोक्तेः
मदनरत्ने वृद्धगार्म्यः “पुष्याग्नेयत्र्युत्तरादित्यपौष्णज्येष्ठा-
चित्रार्कद्विदैवेषु भेषु । कुर्युर्वह्न्याधानमाद्यंवसन्तग्रीष्मोमा-
न्त्रेष्वेव विप्रादिवर्णाः” कालादर्शे “अग्निहोत्रं दर्शपूर्णमा-
सावप्युत्तरायणे । उपक्रम्य यथाकालमुपासीरन् द्विजातयः ।
सोमं च पशुबन्धञ्च सर्वाश्च विकृतीरपि । सोम्यायने
यथाकलं विदध्युर्गृहमेधिनः” पारस्करः “आवसथ्यावानं
दारकाले दायाद्यकाल एकेषामिति” । दायाद्यकालोविभागकालः
मदनरत्नेव्यासः “अग्निर्वैवाहिको येन न गृहीतः प्रमादिना ।
पितर्य्युपर्ते तेन गृहीतव्यः प्रयत्नतः । योऽगृहीत्वा विवा-
हाग्निं गृहस्थ इति मन्यते । अन्नं तस्य न भोक्तव्यं वृथा-
पाको हि स स्मृतः” । ज्येष्ठभ्रातरि पितरि वा साग्नौ
कनिष्ठस्य पुत्रस्य वाऽग्न्यभावेऽपि न दोषः तदाह तत्रैप
गार्ग्यः “पितृपाकोजीवी वा भ्रातृपाकोपजीविकः ।
ज्ञानाध्ययननिष्ठोवा न दुष्ये ताग्निना विना” । इदञ्चाधानं
ज्येष्ठेऽकृताधाने न कार्य्यम् “दाराग्निहोत्रसंयोगं कुरुते
योऽग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु
पूर्वज” इति मनुशातातपोक्तेः स्मार्त्तेऽप्येवम् “सोदर्ये तिष्ठति
ज्प्रेष्ठे न कुर्याद्दारसंग्रम् । आवसथ्यं तथाधानं पतितस्तु
तथ भवेदिति” तत्रैव गार्ग्योक्तेः आज्ञायां त्वदोषमाह
सुमन्तुः “ज्येष्ठोभ्राता यदा तिष्ठेदाधानं नैव चाश्रयेत् ।
अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा” वृद्धवसिष्ठः
“अग्रजस्तु यदाऽनग्निरादध्यादनुजः कथम् । अग्रजो-
ऽनुमते कुर्यादग्निहोत्रं यथाविधि” । हारीतः “सोद-
राणां तु सर्वेषां परिवेत्ता कथं भवेत् । दारैस्तु परिविद्यन्ते
नाग्निहोत्रेण नेज्यया” । अधिकारिणोऽपि भ्रातुरनुज्ञया
कुर्यादिति मदनपारिजातः विवाहस्त्वनुज्ञयापि नेत्यर्थः
सोदरोक्तेरसोदराणां सापत्नदत्तकादीनां न दोषः । दत्तक-
स्यापि सोदरविवाहाभावेऽदोष एव तदाह हेमाद्रौ वसिष्ठः
“पितृव्य पुत्रान् सापत्नान् परनारीसुतांस्तथा दाराग्निहोत्र
संयोगे परिविन्दन्न दुष्यति । परनारीसुताः दत्तकादयः ।
देशान्तरे विशेषमाह सएव “अष्टौ दश द्वर्षाणि वा ज्येष्ट-
भ्रातरमनिर्विष्टमप्रतीक्षमाणः प्रायश्चित्ती भवतीति” क्लीबा-
दावप्यदोषमाह कात्यायनः “देशान्तरस्थक्लीवैकवृषणान
सहोदरान् । वेश्यानिष्ठांश्च पतितशूद्रतुल्यातिरोगिणः ।
जडमूकान्धबधिरकुब्जवामनखञ्जकान् । अतिवृद्धानभार्यांश्च
कृषिसक्तान्नृपस्यच । धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा ।
कुटिलोन्मत्तचौरांश्च परिविन्दन्न दुष्यति” अपरार्केऽपि
“उन्मत्तः किल्विषी कुष्ठी पतितः क्लीवएव वा । राजय-
क्ष्मामयावी च न न्याय्यः स्यात् प्रतीक्षितुम्” एवं
ज्येष्ठेच्छिन्नहस्तादावपि न परिवेत्तृत्वम् तदाह त्रिकाण्ड-
मण्डनः “दर्शेष्टिं पौर्णमासेष्टिं सोमेज्यामग्निसंग्रहम्
अग्मिहोत्रं विवाहं च प्रयोगे प्रथमे स्थिते । न कुर्याज्जनके
ज्येष्ठे सोदरेऽचाप्यकुर्वति । क्षेत्रजादावनिजाने विद्य-
मानेऽपि सोदरे । नाधिकारविधातोऽस्ति भिन्नोदर्येऽपि
चौरसे । पङ्ग्वन्धमूकबधिरपतितोन्माददूषणे । संन्यस्ते-
च्छिन्नहस्तादौ यद्वा षण्डादिदूषणे । जनके सोदरे
ज्येष्ठे कुर्यादेवेतरः क्रियामिति” “आरोहतं दशतं शक्वरीर्म-
मेत्याधान मन्त्रवर्णाच्च शक्वरीरङ्गुलीः तन्त्ररत्नेऽप्युक्तम् “अङ्ग-
वैकल्यात्पूर्वमाहिताग्नित्वेऽधिक्रियेतैव नित्येषु । आधानन्तु-
न कुर्यात्तस्य नैमित्तिकत्वादिति” । एवं चतुरङ्गुलेऽपि, षड़ङ्गुल
काणविवर्णादेरस्त्येबाधिकारः एकादशसु दशान्तर्गतेः
शरीरकार्श्यं वा विप्रतिषिद्धमिति” हिरण्यकेशिसूत्रे कर्मा-
शक्तिहेतोरेवाङ्गवैकल्यस्य निषेधात् अतएव द्राह्यायणसूत्रे
याज्यश्च प्रथमैस्त्रिभिर्गुणैरिति न्यूनाङ्गस्याप्पधिकार उक्तः ।
अपरार्के उशनाः “पिता पितामहोयस्य अग्रजो वाथ कस्य-
चित् । तपोग्निहोत्रमन्त्रेषु न दोषः परिवेदने “पितुराज्ञाया-
पृष्ठ ०७०९
मप्यदोषमाह मदनरत्ने सुमन्तुः “पित्रा यस्य तु नाधानं कर्थं
पुत्रस्तु कारयेत् । अग्निहोत्रेऽधिकारोऽस्ति शङ्खस्य वचनं यथेति”
नाधानं कृतमित्यर्थः एतदाज्ञायामेवेति हेमाद्रिः यत्तु “पितुः
सत्यप्यनुज्ञाने नादधीत कदाचनेति “तत्सत्यधिकारे ज्ञेयम्” ।
एवं स्मृतिरूत्रयोराधारानस्याकरणे प्रत्यवायश्रवणादाधानं
नित्यमेव । एतेन कलिवज्येर्षु आदित्यपुराणेऽग्निहो-
त्रस्योत्कीर्त्तनदर्शनेन गौड़ानां तदनाचरणमनाचार
एव स्मृतितः पुराणस्य दुर्बलतया स्मृतिविहिताधानस्य
बाधकत्वायोगात् “नैवानाहितान्तिर्म्रियेतेति” श्रुतेः
सर्व्वापेक्षया बलवत्त्वाच्च । तेन मृत्युकालात् पूर्ब्बमप्या-
धानं कर्त्तव्यसिति प्रतीयते व्यक्तं भविष्यति चैतदुपरिष्टात् ।
आधानस्वरूपादिकम् आश्व० श्रौ० सू० नारायणीयवृत्त्यो-
र्दर्शितं यथा “अग्न्याधेयप्रभृतीन्याह वैतानिकानि” सू० १२ ।
अग्न्याधेयप्रभृतिरादिरुपक्रमो येषां तान्यग्न्याघेयप्रभृ-
वीनि अन्मिहोत्रादीनि कर्माणि, आधानं कृत्वैव कर्त्त-
व्यानीत्यर्थः । तत्र हेतुमाह, वैतानिकानीति । वितानेषु
भवानि वैतानिकानि, वितानसाध्यानीत्यर्थः । वितानशब्दो-
ऽस्मिन् सूत्रे भावसाधनोऽग्नोनां विस्तारवाची, पूर्वस्मिं-
स्त्वधिकरणसाधनोऽग्निहोत्रादिकर्मवचनः । एतदुक्त
भवति, गार्हपत्यादिभिरग्निभिः साध्यानि श्रौतानि
कर्माणि, अग्नयस्त्वाधानसाध्याः, तस्मादाधानप्रभृतित्वं
सिद्धं श्रौतानां कर्मणाम् । बहुवचनं सर्वश्रौतपरिग्रहार्थं
सर्वाणि श्रौतान्याधानादूर्दूर्द्धमेव कर्त्तव्यानि न किञ्चिदपि,
श्रौतमाधानादर्वागित्यनेन प्रकारेणाधानस्य कर्मार्थत्वनिरा-
करणेनाग्न्यर्थत्वमर्थात् साधितं भवति । तद्यदि कर्मार्थं
स्यात् प्रति कर्म क्रियेत, तत्र कस्यचित् परस्तादपि स्यात्,
यस्य परस्तादाधानं स्यात् तस्याग्न्याधेयप्रभृतित्वं
विहन्येत । आधानस्याग्न्यर्थत्वे च नायं दोषः । अतो
बहुवचनेनाधानस्याग्न्यर्थत्वं साधितं भवति । तस्मादनाहि-
ताग्नेः क्षामवत्यादयो न भवन्ति, अवकीर्णिना पश्वाद्य-
र्थञ्चाधानं न कर्त्तव्यं, साधितं भवति न परस्तात्” वृत्तिः
“अग्न्याधेयम्” १, ३, ९, सू० प्रथमप्राप्तमाधानमुच्यते ।
बिशिष्टकाले विशिष्टदेशे विशिष्टपुरुषेण विशिष्टैर्मन्त्रैर्गार्ह-
पत्याद्यग्न्युत्पर्त्त्यर्थं यदङ्गाराणां निधानं तदग्न्याधेयमु-
च्यते । अग्नीनामाधेयमग्न्याधेयं, तत्कर्तव्यमित्यर्थः
९ वृत्तिः । कस्मिन् काल इत्याह । “कृत्तिकासु रोहिण्यां
मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रोष्ठपदयोः”
१० सू० । एतेषां कस्मिं श्चित् ११ । वसन्ते पर्वणि ब्राह्मण
आदधीत” १२ । ग्रीष्मवर्षाशरत्सुक्ष त्रियवैश्योपक्रुष्टाः १३ ।
यस्मिन् कस्मिंश्चिदृतावादधीत” १४ । सूत्राणि एषां
नारायणीया वृत्तिः “फल्गुनीष्विति पूर्वे उत्तरे च
गृह्येते, अविशेषाद्बहुवचनाच्च । प्रोष्ठपदासूत्तरे एव ।
अतः सप्त एतानि नक्षत्राणि, तेषामेकस्मिन्नक्षत्रे-
ऽग्न्याधेयं कर्तव्यमित्यर्थः १० । एतेषां कस्मिं-
श्चित् पर्वणि । एवमेतत्सूत्रमर्थतो द्रष्टव्यम् । उत्तरञ्च
सूत्रं “वसन्ते पर्वणि ब्राह्मण आदधीत” इति । एवं
कृते सर्वमनुगुणं भवति एतेषां नक्षत्राणां कस्मिंश्चिन्नक्षत्रे-
पर्वणि वाग्न्याधेयं कर्तव्यमितीदं सूत्रं पर्वनक्षत्रसमुच्चय-
मग्न्याधेयस्य कालत्वेन विदधाति । पूर्वसूत्रन्तु केवलं
नक्षत्राणामेवाधानसम्बन्धं विदधाति । अतो द्वौ पक्षौ
स्तः । समुच्चयस्तत्र प्रथमः कल्पः । तदसम्भवे केवलं
नक्षत्रमेवेति विनिवेशो युक्तः । इदं कल्पद्वयं सोमाधान-
वर्जितेषु सर्व्वेष्वाधानेषु भवति ११ । इदमपि सूत्रमर्थत एवं
भवति । अनेन वसन्ते ब्राह्मणगुणकमाधानं विधीयते १२ ।
वैश्यस्तक्षकर्मोपजीवी उपक्रुष्ट इत्युच्यते । अस्मिन् सूत्रे
त्रीण्याधानानि विधीयन्ते । ग्रीष्मे क्षत्रियगुणकं, वर्षासु
वैश्यगुणकं, शरदि उपक्रुष्टगुणकञ्च । एते वसन्तादयः
शब्दा ऋतुवाचकाः । ऋतवो नाम षट् । वसन्तग्रीष्मवर्षा
शरद्धेमन्तशिशिराः । ते च चैत्रमासमारभ्य द्वौ द्वौ मासा-
वृतवः । वसन्तादयो मासाश्चैत्रादय एव १३ । आदधीतेति
स्थिते पुनरादधीतेतिवचनं आपत्कल्पोऽयमाधानविधिरिति
दर्शयति । अत्यापदि मुमूर्षोः सर्व्वेष्वृतुषु आधानं
कर्तव्यं “नैवानाहिताग्निर्म्रियेतेति” । इदञ्चापरमाधानं,
पूर्वोक्तानि चत्वारि, तेषु सर्वेषु पर्ब्बनक्षत्रविधय उपसंह-
र्तव्याः, न पर्ब्बर्तुस्वातन्त्रेणाधानस्य कालविधयो भवेयुः ।
अत एव सूत्रकारः पर्ब्बनक्षत्रविधीनामृतुविधिभिः
सम्बद्धानामेवाधानकालताप्रदर्शनार्थमेवैतेषां कस्मिंश्चिद्वसन्त
इति पर्वनक्षत्रसमुच्चयविधिपरे सूत्रे उत्तरसूत्राय
पठितव्यम् ऋतुशब्दं व्यतिष्यज्य पठितवान् । पर्व्वनक्षत्रविध्यो-
रृतुविध्युपसंहारे न्यायविरोधश्च नास्ति, तत्रैव तयोरन्त-
र्भावदर्शनादिति १४ । “अश्वर्त्थाच्छमीगर्भादरणी आहरेदन-
वेक्षमाणः १६ । यो अश्वत्थः शमीगर्भ आरुरोह त्वेचसा । तं
त्वाहरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति, पूर्णाहुत्य-
न्तमग्न्याधेयम् १७ । शम्या गर्भः शमीगर्भः । शमीगर्भाद-
श्वत्थादरण्याहरणं कुर्यात् । तच्चाधानार्थम्, आहरणे कृते
अध्वर्युणा अरण्याहरणे क्रियमाणे तेन सह यजमानो-
पृष्ठ ०७१०
ऽप्यनेन मन्त्रेणाहरेत् । अनवेक्षमाणः पृष्ठतोऽनवेक्ष-
माणः । अयञ्चापरोऽर्थः कुर्यां न कुर्यामिति नान्यदपे-
क्षमाणः, अध्यवसिताधान इत्यर्थः १६ । पूणाहुतिरन्ते यस्य
तत् पूर्णाहुत्यन्तम्, अग्न्याधेयं कर्तव्यम् । तच्चाग्न्याधेय-
मरण्याहरणादि पूर्णाहुत्यन्तं भवतीत्यर्थः । अस्य सूत्रस्य
प्रयोजनं पूर्णाहुत्यन्ते आहिताग्नित्वप्राप्तिः । कथमिति चेत् ।
श्रुतावेवमाम्नातम् । “अग्नयः पुरुषार्थसाध्याः” इति
प्रस्तुत्य “वसन्ते ब्राह्मणोऽग्निमादधीत” इत्येवमादीनि
वसन्तादिकालानि ब्राह्मणादिकर्तृकाणि कर्तृगामिक्रियाफल-
युक्तानि निरधिकाराणि आधानानि विधाय, “ततोऽ-
रणी आहरेत्, सम्भारान् सम्भरेत्, अग्न्यायतनानि
कुर्यात्, केशश्मश्रु वपेत्, ब्राह्मौदनिकमौपासनिकं
निदध्यात्, तस्मिन् ब्रह्मौदनं पचेत्, समिध आदध्यात्,
आयतनेषु सम्भारान्निदध्यात्, ब्राह्मौदनिकमरण्योः
समारोप्य मथित्वा गार्हपत्यादीनादध्यात्, तत्र काश्चित्,
समिध आदध्यात्, अग्निहोत्रं जुहुयात्, पूर्णाहुतिं
जुहुयात्, तत आग्नेयमष्टाकपालं निर्वपेत् तदहरेव,
तदहरादिसंवत्सरान्तानां कालानां कस्मिंश्चित् काले
पवमानहवींषि निर्वपेद् ततश्चान्यानि हवींषि” इति १७ ।
एवञ्च विवाहवादपुस्तके बौधायनवचने अन्यतराभावे कार्य्या
प्रागग्न्याधेयेति पाठंदृष्ट्वाऽन्यथा मयाः व्याख्यातम् प्राग-
ग्न्याधेयादिति पाठे तु अग्न्याधेयात् अग्न्याधानात् प्रागि-
त्यर्थः इति बोध्यम् अयमेव पाठः समीचीनः प्रति-
भाति एतच्च उद्वाहशब्दे विस्तरेण प्रपञ्चयिष्यामः ।
आधानप्रयोगश्च शाखिभेदेन पद्धतिविशेषे विस्तरतोज्ञेयः ।
सोमाधाने विशेषश्च विस्तरभयान्नोक्तः आश्व० श्रौतसूत्रादौ
ज्ञेयः । कात्या० श्रौ० सूत्रे आधाने रथकारस्याप्यधि-
कारमाह “रथकारस्याधाने” कात्या० १, १, ९ । आधान
पूर्ब्बकत्वादन्यत्रापि तस्याधिकारः यथोक्तं मिता० “क्षत्रियेण
वैश्यायामुत्पादितोमाहिष्यः वैश्येन शूद्रायामुत्पादिता
करणी तस्यां माहिष्येणोत्पादितो रथकारोनाम जात्या-
भवति तस्य चोपनयनादि सर्वं कार्य्यं वचनात् यथा ह
शङ्खः । “क्षत्रियवैश्यानुलोमानन्तरितोत्पन्नजोरथकारस्त-
स्याध्ययनेज्यादानोपनयनसंस्कारक्रियाश्चाप्रतिषिद्धाः”
एवमेव कर्कवृत्तौ स्थितम् ।

आधाय अव्य० आ + धा--ल्यप् । १ स्थापयित्वत्यर्थे २ आधानं कृत्वेत्यर्थे भावे घञ् । ३ आधाने पु०

आधायक त्रि० आ + धा--ण्वुल् । आधानकारके ।

आधानिक पु० आधानं गर्भाधानं प्रयोजनमस्य ठञ् ।

गर्भाधाननिमित्ते वेदविहिते गर्भपात्रसंस्कारभेदे ।

आधार पु० आ + धृ--आधारे घञ् । १ अधिकरणे, आश्रये,

“अपामिवाधारमनुत्तरङ्गम्” कुमा० “चराचराणां भूतानां
कुक्षिराधारतां गतः” कुमा० “वर्त्त्याधारस्नेहयोगाद्यथा
दीपस्य संस्थितिः” या० स्मृतिः । २ व्याकरणप्रसिद्धे
औपश्लेषिकवैषयिकाभिव्यापकाख्येऽधिकरणकारके, शस्यस-
म्पादनार्थं जलरोधनार्थे ३ बन्धने वृक्षसेकार्थं
जलधारणार्थे ४ आलबाले च । “आधारबन्धप्रमुखैरिति रघुः” ।
“आधारोऽधिकारणम्” पा० अधिकरणञ्च साक्षात्परम्प-
रया वा क्रियाश्रयः अधिकरणशब्दे विवृतिः तच्च त्रिवि-
धम् औपश्लेषिकवैषयिकाभिव्यापकभेदात् । तत्र
औपश्लेषिक एकदेशसम्बन्धः यथा कट आस्ते । वैषयिकः मोक्षे
इच्छास्ति । अभिव्यापकः तिलेषु तैलमस्ति । मुग्ध-
बोधकारस्तु “सामीप्याश्लेषविषयैर्व्याप्त्याधारश्चतुर्विध इति
सामीप्यसम्बन्धेनाप्याधारतेत्याह । तच्चिन्त्यम् “गङ्गायां
घोषीवसतीत्यादाविव लक्षणयैव गङ्गासमीपतीरस्योपस्थितौ
न तस्य विभक्त्यर्थत्वमिति” पाणिनीयाः । ५ तन्त्रोक्ते
षट्चक्रमध्ये आद्यचक्रस्याधारे “आधारे लिङ्गनाभौ तदनु च
हृदये तालुमूले ललाटे” आनन्दलहरी । आधारस्य भावः
तल् आधारता सम्बन्धविशेषेण पदार्थविशेषस्याधेयतासम्पा-
दके धर्म्मविशेषे तथा च आधारता आधेतायाः निरु-
पिका आधेयता च आधारताया इति तयोः परस्पर
निरूप्यनिरूपकृभावः आधारताया अनतिरिक्तवृत्तिर्धर्म्म
आधारतावच्छेदकः । एवमाधेयताया अनतिरिक्तवृत्ति
र्धर्म्म आधेयतावच्छेदकः यथा संयोगेन घटाधारे
भूतले भूतलत्वमाधारताच्छेदकं भूतलाधेये घटे च घटत्व
माधेयतावच्छेदकम् तयोश्चावच्छेदकत्वात् ताभ्यामाधार-
ताऽऽधेयता चावच्छिद्यते यथा घटत्वावच्छिन्ना घटमिष्ठा
ऽऽधेयता तथा भूतलत्वावच्छिन्ना भूतलनिष्ठाऽऽधारता इति
नव्यनैयायिकानां रीतिः आधार + त्व । तदर्थे न० ।

आधारशक्ति स्त्री आधारस्य शक्तिः । सर्व्वाधारशक्तिरूपायां

परमेश्वरशक्तौ १ मायायां २ प्रकृतौ च तन्त्रोक्तायां मूला-
धारस्थायां कुण्डलिन्यां ३ परदेवतायाम् । ४ पीठपूजनीय
देव भेदे च “आधारशक्तिं प्रकृतिमित्यादि” प्रकृत्य “प्रण-
वादिनमोऽन्तेन पीठशक्तीः प्रपूजयेत्” तन्त्रसा० पीठशक्ति-
शब्देऽस्य विवृतिः ।

आधाराधेयभाव पु० आधारश्चाधेयश्च तयोर्भावः ।

एकस्य यदपेक्षया आधारत्वम् अपरस्य तदपेक्षयैच यत्र
आधेयत्वं तावृशे सम्बन्धभेदे । यथा घटभूतलयोः ।
पृष्ठ ०७११

आधि पु० अधीयतेऽभिनिवेश्यते प्रतीकाराय मनोऽनेन

आ + धा--कि । मानसदुःखकारके व्यथाभेदे “नाध-
योव्याधयः क्लेशादैवभूतात्महेतवः” भा० प्र० । “यान्त्येवं
गृहिणीपदं युवतयो वामाः कुलस्याधयः” शकु० ।
आधिदैविकशब्देऽस्य विवृतिः । ईषत् अधिक्रियते
उत्तमर्ण्णोऽत्र आ + ईषदर्थे धा--अधिकारार्थे आधारे कि
आधीयते ऋणशोधनार्थम् आ + धा--कर्मणि किवा
१ ऋणशोधनार्थं प्रतिभूस्थानीयतया बन्धकत्वेन उत्तमर्ण्ण
समीपे अधमर्णेनाधीयमाने उत्तमर्ण्णस्य ईषत्स्वत्व-
हेतुभूतव्यापारविशिष्टे २ द्रव्येऽस्य विवृतिः मिता० ।
“धनप्रयोगे द्वौ विश्वासहेतू प्रतिभूराधिश्च । यथाह
नारदः । “विश्रम्भहेतू द्वावत्र प्रतिभूराघिरेव चेति” । तत्र
प्रतिभूर्निरूपित इदानीमाधिर्निरूप्यते । आधिर्नाम गृही-
तस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तमर्णाधिक्रियायै
आधीयतं इत्याधिः स च द्विधैव कृतकालोऽकृतकालश्च
पुनश्चैकैकशोद्विबिधः गोप्योभोग्यश्च । यथाह नारदः । “अधि-
क्रियतैत्याधिः स विज्ञेयोद्विलक्षणः । कृतकालोऽपनेयश्च-
यावद्देयोद्यतस्तथा । स पुनर्द्विविधः प्रोक्तोगोप्योभोग्यस्त-
थैव चेति” । कृतकाल आधानकालएवामुष्मिन् काले
दीपोत्सवादौ मयायमाधिर्म्मोक्तव्योऽन्यथा तवैवाधिर्भ-
विष्यतीत्येवं निरूपिते कालेऽपनेयः आत्मसमीपे नेतव्योभो-
चयितव्यः इत्यर्थः । देयं दानं देयमनतिक्रम्य यावद्देयम्
उद्यतोनियतः स्थापितैत्यर्थः । यावद्देयम् उद्यतोयाव-
द्देयोद्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः
गोप्योरक्षणीयः । एवञ्चतुर्विधस्याधेर्विशेषमाह । “आधिः
प्रणश्येत् द्विगुणे धने यदि न मुच्यते । काले
कालकृतोनश्येत् फलभोग्यो न नश्यति” या० । प्रयुक्ते धने
स्वकृतया वृद्ध्या कालक्रमेण द्वितुणीभूते यद्याधिरधमर्ण्णेन
द्रव्यदानेन न मोच्यते तदा नश्यत्यधर्मर्णस्य धनं
प्रयोक्तुः स्वं भवति । कालकृतः कृतकालः आहिताग्न्या-
दिषु पाठात्कालशब्दस्य पूर्वनिपातः स तु काले
निरूपिते प्राप्ते नश्येत् द्वैगुण्यात्प्रागूर्द्धंवा ।
फलभोग्यः फलंः भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः
स न कृदाचिदपि नश्यति । कृतकालस्य गोप्यस्य भोग्यस्य च
तत्कालातिक्रमे नाशौक्तः “काले कालकृतोनश्येदिति ।
अकृतकालस्य भोग्यस्य नाशाभावौक्तः “फलभोग्यो न नश्य-
तीति” पारिशेष्यादाधिःप्रणस्येतदित्येदेतदकृतकालगोप्याधि-
विषयसवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमण
च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्त्तव्यम् वृहस्पतिवचनात्
“हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधौ । बन्धकस्य
धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च । तदन्तरा धनदत्त्वा
ऋणी बन्धमवाप्नुयादिति” । नन्वाधिःप्रणश्येदित्यनुपपन्नम्
अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् मनुवचन-
विरोधाच्च “नचाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः”
इति । कालेन संरोधः कालसंरोधश्चिरकालमवस्थानं
तस्मात्कालसंरोधाच्चिरकालावस्थानादाधेर्न्ननिसर्गोस्ति
नान्यत्राधीकरणमस्ति न च विक्रयः एवमाधीकरण
विक्रयप्रतिषेधाद्धनिनः स्वत्वाभावोऽवगम्यत इति, उच्य-
ते आधीकरणमेव लोके सोपाधिकस्वत्वानिवृत्तिहेतुः प्रसिद्धः ।
आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः ।
तत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्त
निवृत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्यनिवृत्तिरुत्त-
मर्णस्य चात्यन्तिकं स्वत्वम्भवति । न च मनुवचनविरोधः
यतः “नत्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्लुयादिति”
भोग्याधिं प्रस्तुत्येदमुच्यते “नचाधेः कालसंरोधान्निस-
र्गोस्ति न विक्रय” इति भोग्यस्याधेश्चिरन्तनकालावस्थाने-
ऽप्याधीकरणविक्रयनिषेधेन धनिनः स्वत्वन्नास्तीति ।
इहाप्युक्तं “फलभोग्योन नश्यतीति” । गोप्याधौ तु पृथगारब्ध-
म्मनुना । “न भोक्तव्यो बलादाधिर्भुञ्जानोवृद्धिमुत्सृजे-
दिति” । इहापि वक्ष्यते “गोप्याधिभोगे नोवृद्धिरिति”
आधिःप्रणश्येद्द्विगुण इति तु गोप्याधिं प्रत्युच्यत इति
सर्वमविरुद्धम् । किञ्च “गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ-
हापिते । नष्टोदेयो विनष्टश्चदैवराजकृतादृते” या० ।
गोप्याधेस्ताम्रकटाहादेरुपभोगे न वृद्धिर्भवति । अल्पेऽप्युपभोगे
महत्यपि वृद्धिर्हातव्या समयातिक्रमात् तथा सोपकारे
उपकारकारिणि बलीवर्द्दताम्रकटाहादौ भोग्याधौ सवृद्धि
के हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिरिति
सम्बन्धः नष्टोविकृतिङ्गतस्ताम्रकटाहादिश्छिद्रभेदादिना
पूर्ववत् कृत्वा देयः तत्र गोप्याधिर्न्नष्टश्चेत् पूर्व्ववत् कृत्या
देयः । उपभुक्तोऽपि चेद्वृद् धिरपि हातव्या भोग्यादिर्य्यदि नष्टः
तदा पूर्ववत् कृत्वा देयः । वृद्धिसद्भ्वावे वृद्धिर्वा हातव्या विनष्ट
आत्यन्तिकं नाशं प्राप्तः सोऽपि देयोमूल्यादिद्वारेण तद्दाने
सवृद्धिकं मूल्यं लभते यदि न ददाति तदा मूलनाशः
“विनष्टे मूलनाशः स्याद्दैवराजकृतादृत” इति नारदवच-
नात् । दैवराजकृतादृते दैवमग्न्युदकदेशोपप्लवादि ।
पृष्ठ ०७१२
दैवकृताद्विनाशाद्विना । तथा स्वापराधरहिताद्राजकृतात् ।
दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधर्मेणा-
ध्यन्तरं वा यथाह । “स्रोतसापहृते क्षेत्रे राज्ञा चैवापहा-
रिते । आधिरन्योऽथकर्त्तव्योदेयं वा धनिने धनमिति” ।
तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् । अपि च
“आधेः स्वीकरणात्सिद्धीरक्ष्यमाणोऽप्यसारताम् । यातश्चे-
दन्य आधेयोधनभाग्वा धनी भवेत्” या० ।
आधेर्गोप्यस्य भोग्यस्य च स्वीकरणादुपादानादाधिग्र-
हणसिद्धिर्न साक्षिलिखनमात्रेण नाप्युद्देशमात्रेण ।
यथाह नारदः । “आधिस्तु द्विविधः प्रोक्तोज-
ङ्गमःस्थावरस्तथा । सिद्धिरत्रोभयस्यापि भोगोयद्य-
स्ति नान्यथेति” । अस्य च फलम् । “आधौ प्रतिग्रहे क्रीते
पूर्वा तु बलवत्तरेति” । या स्वीकारान्ता क्रिया सा पूर्वा-
बलवती स्वीकाररहिता तु पूर्वापि न बलषतीति । सचाधिः
प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत एव
सवृद्धिकमूल्यद्रव्यापर्याप्तताङ्गतस्तदाधिरन्यः कर्त्तव्यः ।
“धनिने वा धनन्देयं रक्ष्यमाणोऽप्यसारतामिति” वदताऽऽधिः
प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् । आधिःप्रण-
श्येद्द्विगुण इत्यस्यापवादमाह । “चरित्रबन्धककृतं सवृद्ध्या-
दापयेद्धनम् । सत्याङ्कारकृतन्द्रव्यं द्विगुणम्प्रतिदापयेत्” या०
चरित्रं शोभनाचरितम् चरित्रेणं बन्धकम् चरित्रबन्धकम्
तेन यत् द्रव्यमात्मसात्कृतम्पराधीनं वा कृतम् ।
एतदुक्तम्भवति धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्रव्य-
माधीकृत्याधमर्णेनाल्पमेव द्रव्यमात्मसात्कृतम् । यदि
वाऽधमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वा
बहुद्रव्यमेव धनिनाधमर्ण्णाधीनं कृतमिति तद्धनं नृपोवृद्ध्या
सह दापयेत् । अयमाशयः एवंरूपं बन्धकं द्विगुणीभूतेऽपि
द्रव्ये न नश्यति किन्तु द्रव्यमेव द्विगुणन्दातव्यमिति । तथा
सत्यङ्कारकृतं करणङ्कारः भावे घञ् सत्यस्य कारः सत्य-
ङ्कारः “कारे सत्यागदस्येति” पा० मुम् सत्यङ्कारेण कृतं सत्यङ्का-
रकृतम् । अयमभिसन्धिः यदा बन्धकार्पणसमय एवेत्धं
परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव
दातव्यम् नाधिनाश इति तदा तत्द्विगुणन्दापयेत् इति ।
अन्योऽर्थः । चरित्रमेव बन्धकञ्चरित्रबन्धकम् । चरित्र-
शब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते यत्र
तदेवाधीकृत्य यद्द्रव्यमात्सात्कृतम् । तत्र तदेव
द्विगुणभूतन्दातव्यन्नाधिनाश इति । “आधिप्रसङ्गादन्य-
दुच्यते । सत्यंकारकृतमिति क्रयविक्रयादिव्यस्थानिर्वा-
हाय यद्यङ्गुलीयकादि परहस्ते कृतं तद्व्यवस्थातिक्रमे द्वि-
गुणन्दातव्यं तत्रापि येनाङ्गुलीयकाद्यर्पितं सएव चेद्यव-
स्थातिवर्त्ती तेन तदेव हातव्यम् । इतरश्चेद्व्यवस्थाति-
वर्त्ती तदा तदेवाङ्गुलीयकादिद्विगुणम्प्रतिदापयेदिति ।
किञ्च “उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।
प्रयोजकेऽसति धनं कुलेऽन्यस्याधिमाप्नुयात्” या० ।
धनदानेनाधिमोक्षणायोषस्थितस्याधिर्मोक्तव्योधनिना वृद्धि-
लोभेन न स्थापयितव्यः । अन्यथा अमोक्षणे स्तेन श्चौर-
वद्दण्ड्यो भवेत् । असन्निहिते पुनःप्रयोक्तरि कुले
तदाप्तहस्ते सवृद्धिकं धनं निधायाधमर्णः स्वीयं बन्धकं
गृह्णीयात् । अथ प्रयोक्ताप्यसन्निहितस्तदाप्ताश्च धनस्य
ग्रहीतारो न सन्ति यदि वा असन्निहिते प्रयोक्तरि
आधिविक्रयेण धनदित्साऽधमर्णस्य तत्र किं कतेव्यमित्यपेक्षिते
आह । “तत्कालकृतमूल्योवा तत्र तिष्ठेदवृद्धिकः” या० ।
तस्मिन् काले यत्तस्याधेर्म्मूल्यन्तत्परिकल्प्य तत्रैव धनिनि
तमाधिं वृद्धिरहितं स्थापयेन्न तत ऊर्द्धं धनं वर्द्धते
यावद्धनी धनं गृहीत्वा तमाधिं मुञ्चति यावद्वा तन्मूल्यद्रव्य-
मृणिने । प्रवेशयति यदा तु द्विगुणीभूतेऽपि धने द्विगुण-
न्धनमेव ग्रहीतव्यम् नत्वाधिनाश इति विचारितमृण-
ग्रहणकालएव तदा द्विगुणीभूते द्रव्ये असन्निहिते
वाऽधमर्णे धनिना किं कर्त्तव्यमित्यतआह । “विना
धारणकाद्वापि विक्रीणीत ससाक्षिकम्” या० । धारण-
कादधमर्णाद्विना असन्निहिते साक्षिभिस्तदाप्तैश्च
सहतमाधिं विक्रीय तत् धनं गृह्णीयाद्धनी वाशब्दो
व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले द्विगुणीभूतेऽपि
धने धनमेव गृहीतव्यम् नत्वाधिनाश इति न विचा-
रितम् । तदा आधिः प्रणश्येत् द्विगुण इत्याधिनाशः ।
बिचारिते त्वयं पक्ष इति । भोग्याधौ विशेषमाह ।
“यदा तु द्विगुणीभूतमृणमाधौ तदा खलु । मोच्य
आधिस्तदुपन्ने प्रविष्टे द्विगुणे धने” या० यदा प्रयुक्तं धनं स्वकृ-
तया वृद्ध्या द्विगुणीभूतन्तदाधौ कृते तदुत्पन्ने आध्यु त्पन्ने
द्विगुणे धनिनः प्रविष्टेधनिनाधिर्मोक्तव्यः यदि वादावे-
वाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति
परिभाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणी-
भूतमृणन्तदाधौ भोगार्थं धनिनि प्रविष्टे तदुत्पन्ने द्रव्य
द्विगुणे सत्याधिर्मोक्तव्यः । अधिकोपभोगे तदपि देयम् ।
सर्वथा सवृद्धिकमूलर्णापाकरणार्थाध्युपभोगविषयमिदं
वचनम् । तमेनं क्षयाधिमाचक्षते लौकिकाः यत्र तु वृद्ध्यथे
पृष्ठ ०७१३
एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमेऽपि
यावन्मूलदानं तावदुपभुङ्क्ते एवाधिम् एतदेव स्पष्टीकृतं वृहस्प-
तिना “ऋणी बन्धमवाप्नुयात् । फलभोग्यं पूर्णकालं दत्त्वा
द्रव्यञ्च सामकम् । यदि प्रकर्षितं तत्स्यात्तदा ल धनभा-
ग्धनी । ऋणी च नलभेद्वन्धं परस्परमतं विना” अस्यार्थः ।
फलम्भोग्यं यस्यासौ फलभोग्यः बन्ध आधिः स च द्विबिधः
सवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च तत्र
सवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालो-
यस्यासौ पूर्णकालस्तमाप्नुयादृणी । यदा सवृद्धिकं मूलं
फलद्वारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नु यांदित्यर्थः वृद्धि-
मात्रापाकरणार्थन्तु बन्धं सामकन्दत्त्वा प्राप्नुयादृणी । समं
मूलं सममेव सामकम् । अस्यापवादमाह । यदि प्रक-
षितं तत्स्यात्तद्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिक-
फलं यदि स्यात्तदान धनभाग्धनी । सामकं न लभेद्बन्धं,
मूलमदत्त्वेवर्णी बन्धमवाप्नुंयादिति यावत् । अथाप्रकर्षितं
तद्बन्धकं वृद्धयेऽप्यपर्य्याप्तन्तदा सामकं दत्त्वापि बन्धम् न
लभेतमर्णः वृद्धिशेषंदत्त्वैव लभेतेत्यर्थः । पुनरुभयत्रापवाद-
माह । परस्परमतं विना उत्तमर्णाधर्णयोः परस्परा-
नुमत्यभावे यदि प्रकर्षितमित्याद्युक्तम् । परस्परानुमतौ
तूत्कृष्टमपि बन्धकं यावन्मूलदानन्तावदुपभुङ्क्ते धनी
निकृष्टमपि मूलमात्रदानेनैवाधमर्णोलभत इति” ।

आधिकरणिक पु० अधिकरणे विचारस्थाने नियुक्तः ठक् ।

विचारस्थाने नियुक्ते प्राड्विवेकादौ ।

आधिक्य न० अधिकस्य भावः ष्यञ् । अधिकतायाम्

अतिशयितायाम् । “यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः”
मनुः “युग्मायामपि रात्रौ चेत् शोणितं प्रचुरं तदा । कन्या
च पुंवत् भवति शुक्राधिक्ये पुमान् भवेत्” ज्योतिस्तत्त्वम्
“प्रातिपदिकमात्रे लिङ्गमात्राद्याधिक्ये” सि० कौ०
“एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये व्यवस्थितम्” सुश्रु० ।

आधिज्ञ त्रि० आधिं मनःपीड़ां जानाति अनुभवति

ज्ञा--क ६ त० । व्याथानुभावके व्यथिते अजयपालः ।

आधिदैविक त्रि० अधिदेवं भवः देवान् वातादीन्

अधिकृत्य प्रवृत्तः वा ठञ् अनुशतिका० द्विपदवृद्धिः । देवाधि-
कारेणप्रवृत्ते, १ शास्त्रे “अधियज्ञं ब्रह्मजपेदाधिदैविकमेव
च” मनुः देवताऽधिकारेण प्रवृत्तवेदभागस्तु उपनित्सु-
प्रसिद्धः । वातादिनिबन्धने २ दुःखे च । दुःखं हि त्रिवि-
धमाध्यात्मिकादिभेदात् तेषां स्वरूपकारणविभागादिः सु
श्रुते दर्शितः यथा
“तच्च दुःखं त्रिविधमाध्यात्मिकमाधिभौतिकमाधिदैविक-
मिति । तत्तु सप्तविधे व्याधावुपनिपतति । ते पुनः
सप्तविधा व्याधयः । तद्यथाऽऽदिबलप्रवृत्ता जन्मवलप्रवृत्ता
दोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः
दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ता इति । तत्रादिबलप्रवृत्ता
ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः । तेऽपि
द्विविधा मातृजाः पितृजाश्च ॥ जन्मबलप्रवृत्ता ये मातु-
रपचारात्पङ्गुजात्यन्धवधिरमूकमिण्मिणवामनप्रभृतयो जाय
न्ते तेऽपि द्विविधा रसकृता दौहृदापचारकृताश्च ॥
दोषबलप्रवृत्ता य आतङ्कसमुत्पन्ना मिथ्याहाराचारभवाश्च
तेऽपि द्विविधा आमाशयसमुत्थाः पक्वाशयसमुत्थाश्च पुनश्च
द्विविधाः शारीरा मानसाश्च त एत आध्यात्मिकाः ॥
संघातबलप्रवृत्ता य आगन्तवो दुर्ब्बलस्य बलवद्विग्र हात्तेऽपि
द्विविधाः शस्त्रकृता बलादिकृताश्च । एत आधिभौति-
काः ॥ कालबलप्रवृत्ता ये शोतोष्णवातवर्षाप्रभृतिनिमि-
त्तास्तेऽपि द्विविधा व्यापन्नर्त्तुकृता अव्यापन्नर्त्तुकृताश्च ॥
दैवबलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्ब्बकृता
उपसर्गकृताश्च तेऽपि द्विविधा विद्युदशनिकृताः पिशा-
चादिकृताश्च पुनश्च द्विविधाः संसर्गजा आकस्मिकाश्च ॥
स्वभावबलप्रवृत्ताः क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयस्तेऽपि
द्विविधाः कालकृताअकालकृताश्च तत्र परिरक्षणकृताः
कालकृता अपरिरक्षणकृता अकालकृता एत
आधिदैविकाः” । एतदभिप्रायेणैव “अथ त्रिविधदुःखात्यन्त-
निवृत्तिरत्यन्तपुरुषार्थः” इति सा० सू० “दुःखत्रया-
भिघाताज्जिज्ञासां तदभिघातके हेतौ” सा० का० दुःख-
त्रयमुक्तं विवृतञ्च सां० त० कौ० । “दुःखानां त्रयं दुःख-
त्रयं तत् खलु आध्यात्मिकमाधिभौतिकमाधिदैविकञ्च
तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं
वातपित्तंश्लेष्मणाम् वैषम्यनिमित्तं, मानसं कामक्रोधलोभ-
मोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम् । सर्वं
चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । वाह्योपाय-
साध्यञ्च दुःखं द्वेधा आधिभौतिकमाधिदैविकञ्च तत्राधि-
भौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् ।
आधिदैविकं यक्षराक्षसविनायकग्रहावेशनिबन्धनम्” । “ताप-
त्रयोन्मूलनम्” भाग० १ स्क० उक्तम् । दुःखञ्चात्मधर्म
इति वैशेषिकादयः । अन्तःकरणादि धर्म इति सांख्या-
दयः । अन्तःकरणादेः त्रिगुणात्मकप्रकृतिकार्य्यत्वात्
प्रीत्यप्रीतिविषादानां त्रिगुणधर्म्माणां स्वस्वकार्य्ये संक्र-
मात् सर्वेषां विषयाणामेव दुःखादिमत्त्वमिति भेदः ।
पृष्ठ ०७१४

आधिपत्य न० अधिपतेर्भावः कर्म्मवा पत्यन्तत्वात् यक् । १ सामित्वे

“अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ।
गीता । “राष्ट्रस्याधिपत्यं मे देहि” ऋ० १०, ११४, ५ ।
“तदेनमासां प्रजानासाधिपत्याय राज्याय” शत० ब्रा०
“सर्वलोकाधिपत्यञ्च वेदशास्त्रविदर्हति” इति मनुः
“यक्षाणामाधिपत्यञ्च राजराजत्वमेव च” भा० व०
२७८ अ० । २ राजकार्य्ये प्रजापालनादौ । “दुर्य्योधनं
त्वहितं वै निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ।
अजातशत्रुर्हि विमुक्तरागो धर्म्मेणेमां पृथिवीं शास्तु
राजन्” भा० य० प० ४ अ० ।

आधिबन्ध पु० आधिः बहुप्रजानां कथं पालनं स्यादिति

चिन्ता एव बन्धः । बहुप्रजारक्षणार्थचिन्तारूपबन्धे ।
“कथं राजन्! प्रजारक्षन्नाधिबन्धेन युज्यते” युधिष्थिरप्रश्ने
तच्चिन्ताधिरूपबन्धनिवारणाय यथा राज्ञाचरणीयं
तथोक्तं तं प्रति भीष्मेण भा० शा० ७० अ० “समासेनैव
ते राजन्! धर्मान् वक्ष्यामि शाश्वतान् । विस्तरे-
णेह धर्माणां न जात्वन्तमवाप्नुयात् । धर्मनिष्ठान् श्रुत-
वतो देवव्रतसमाहितान् । अर्च्चयित्वा यजेथास्त्वं गृहे
गुणवतो द्विजान् । प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य
च । अथ सर्व्वाणि कुर्ब्बीथाः कार्य्याणि सपुरोहितः ।
धर्म्मकार्य्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च । ब्राह्मणान्
वाचयेथास्त्वमर्थसिद्धिजयाशिषः । आर्ज्जवेन च सम्पन्नो
धृत्या बुद्ध्या च भारत! । यथार्थं प्रतिगृह्णीयाः
कामक्रोधौ च वर्ज्जयेः । कामक्रोधौ पुरस्कृत्य योऽयं राजा-
ज्नुतिष्ठति । न स धर्म्मं न चाप्यर्थं प्रतिगृह्णाति
वालिशः । मा स्म लुब्धांश्च मूर्खांश्च कामार्थेषु प्रयूयुजः ।
अलुब्धान् बुद्धिसम्पन्नान् सर्वकर्म्मसु योजयेः । मूर्खो
ह्यधिकृतोऽर्थेषु कार्य्याणामविशारदः । प्रजाः क्लिश्नात्ययो-
गेन कामक्रोधसमन्वितः । बलिषष्ठेन शुल्केन दण्डेना-
थापराधिनाम् । शास्त्राणि तेन लिप्सेथा वेतनेन
धनागमम् । दापयित्वा करं धर्मं राष्ट्रं नीत्या यथाविधि ।
तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः । गोपायितारं
दातारं षर्मनित्यमतन्द्रितम् । अकामद्वेषसंयुक्तमनुरज्यन्ति
मानवाः । मा स्माधर्मेण लोभेन लिप्सेथास्त्वं धनागमम् ।
धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत् । अर्थशास्त्र-
परो राजा धर्मार्थान्नाधिगच्छति । अस्थाने चास्य
तद्वित्तं सर्वमेव विनश्यति । अर्थमूलो हि हिंसाञ्च कुरुते
स्वयमात्मनः । करेरशास्त्रदृष्टैर्हि मोहात् सम्पीडयेत्
प्रजाः । ऊधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी न लभेत्
पयः । एवं राष्ट्रमयोगेन पीड़ितं न विवर्द्धते । यो हि
दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः । एवं राष्ट्रमुपा-
येन भुञ्जानो लभते फलम् । अथ राष्ट्रमुपायेन भुज्य-
मानं सुरक्षितम् । जनयत्यलां नित्यं कोषवृद्धिं युधि-
ष्टिर! । दोग्ध्री धान्यं हिरण्यञ्च मही राज्ञा सुरक्षिता ।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः । माला-
कारोपमो राजन्! भव नाङ्गारिकोपमः । तथा युक्तश्चिरं
राज्यं भोक्तुं शक्ष्यसि पलयन् । परचक्राभियानेन यदि
ते स्याद्धनक्षयः । अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु
यत् । मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रच लेन्मनः । अ
न्त्यायामप्यवस्थायां किमु स्फीतस्य भारत । धनानि तेभ्यो
दद्यास्त्वं यथाशक्ति यथाऽर्हतः । सान्त्वयन् परिरक्षंश्च
स्वर्गमाप्स्यसि दुर्ज्जयम् । एवं धर्मेण वृत्तेन प्रजास्त्वं
परिपालय । स्वन्तं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन! ।
धर्म्मेणव्यवहारेण प्रजां पालय पाण्डव! । युधिष्ठिर! यथा
युक्तो नाधिबन्धेन योक्ष्यसे । एष एव परो धर्मो यद्राजा
रक्षति प्रजाः । भूतानां हि यदा धर्मो रक्षणं परमा
दया । तस्मादेव परं धर्म्मं मन्यन्ते धर्म्मकोविदाः । यो
राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् । यदह्ना कुरुते
पापमरक्ष भयतः प्रजाः । राजा वर्षसहस्रेण तस्यान्त-
मधिगच्छति । यदह्ना कुरुते धर्म्मं प्रजा धर्मेण पालयन् ।
दश वर्षसहस्राणि तस्यभुङ्क्तेफलं दिवि । स्विष्टिः स्वधीतिः
सुतपा लोकान् जयति यावतः । क्षणेन तानवाप्नोति
प्रजा धर्मेण पालयन् । एवं धर्मं प्रयत्नेन कौन्तेय!
परिपालय । ततः पुण्यफलं लब्ध्वा नाधिवन्धेन योक्ष्यसे” ।

आधिभोग पु० आधेर्ब्बन्धकद्रव्यस्य भोगः । बन्धकद्रव्यस्य भोगे

“गोप्याधिभोगे नो वृद्धिः” आधिशब्दे उदा०
आधेर्मनोव्यथाया अनुभवरूपे २ भोगे च ।

आधिभौतिक त्रि० भूतानि व्याघ्रसर्पादीन्यधिकृत्य जातम् ।

अधिभूत + ठञ् द्विपदवृद्धिः । व्याघ्रसर्पादिजनिते दुःखे ।
आधिदैविकशब्दे विवृतिः ।

आधिमन्यव अधिमन्यवे हितः अण् । ज्वराग्नौ हारा०

ज्वरसन्तापे हि अद्धिकव्यथोद्भवात्तस्य तथात्वम् ।

आधिरथि पु० अधिरथः धृतराष्ट्रसारथिः तस्यायम् इञ् ।

सूतपुत्रे कर्णे “हिरण्यकण्ठीः प्रमदाः ग्रामान् वा
बहुगोकुलान् । किं ददानीति तं विप्रमुवाचाधिरथिस्ततः भा०
पृष्ठ ०७१५
व० प० ३०८ अध्या० । तस्पाधिरथपुत्त्रत्वप्राप्तिकथा
स हि कन्यावस्थायां सूर्य्येण कुन्त्याम् उत्पादितः पश्चाच्च
तया स्वकुलभयात् जले त्यक्तः अधिरथेन गृहीतो
वर्द्धितश्च यथोक्तं “निगूहमाना जातं वै बन्धुपक्षभयात्तदा ।
उत्ससर्ज्ज जले कुन्ती तं कुमारं यशस्विनम् । तमुत्सृष्टं
जले गर्भं राधाभर्त्ता महायशाः । राधायाः कल्पयामास
पुत्रं सोऽधिरथस्तदा । चक्रतुर्नामधेयञ्च तस्य बालस्य
तावुभौ । दम्पती वसुषेणेति” भा० आ० ६७ अ० ।

आधिराज्य न० अधिराजस्य भावः कर्म्म वा ष्यञ् ।

आधिपत्ये “बभौ भूयः कुमारत्वादाधिराज्यमव्याप्य सः” रघुः ।

आधिवेदनिक त्रि० अधिवेदनाय विवाहोपरिविवाहाय

हितं ठक् तत्र काले दत्तं ठञ् वा । अधिवेदनार्थे तत्र
काले च स्त्रियै पत्या दीयमाने स्त्रीधनभेदे । “पितृमातृप-
तिभ्रातृ दत्तमध्यग्न्युपागतम् । आधिवेदनिकञ्चैव स्त्रीधनं
परिकीर्त्तितम्” या० स्मृ० “यच्च द्वितीयविवाहार्थिना पूर्व-
स्त्रियै पारितोषादिकं धनं दत्तं तदाधिवेदनिकमधिकस्त्री-
लाभार्थत्वात्तस्येति” दायभा० । मिताक्षरायां तु “आधिवे-
दनिकाद्यञ्चेति” पठितम् आधिवेदनिकम् अधिवेदननि-
मित्तमिति व्याख्यातञ्च आद्यपदेन क्रयरिक्यादिप्राप्तस्य
ग्रहणमियुक्तम् । तत्र अधिवेदननिमित्तदाने विशेषः
या० स्मृत्युक्तः “अधिविन्नस्त्रियै देयमाधिवेदनिकं समम्
न दत्तं स्त्रीधनं यस्या दत्ते त्वर्द्धं प्रकल्पयेत्” “एतदपि
सामर्थ्ये असामर्थ्ये तु यत् किञ्चित् भरणपर्य्याप्नं दत्त्वा
परितोषयेदिति भेदः । “एकामूढ्वा तु कामार्थमन्यां
वोटुं यैच्छति । समर्थस्तोषयित्वार्थैः पूर्ब्बोढामपरां
वहेत्” स्मृतौ समर्थपदस्वारस्यात्तथात्वम् । एवमेव
मदनपारिजातविधानपारिजातादयः ।

आधिस्तेन पु० आधेर्गोप्याधेर्भोगात् स्तेनैव । गोप्या-

धेर्बलात्कारेण भोक्तरि । “न भोक्तव्यो बलदाधिर्भुञ्जा-
नोवृद्धिमुत्सृजेत् । मूल्येन तोषयेदेनमाधिस्तेनोऽन्यथा
भवेत्” मनुना तद्भोगे स्तेनत्वस्योक्तेस्तथात्वम् ।

आधीकरण न० अनाधिराधिक्रियते आघि + च्वि + कृ--ल्युट् ।

बन्धकीकरणे आधिशब्दे मिताक्षरावाक्ये उदा०” क्त
आधीकृतः । दत्तबन्धके द्रव्यादौ त्रि० ।

आधुत त्रि० आ + धु--क्त । चालिते ।

आधुनिक त्रि० अधुना भवः ठञ् । १ साम्प्रतभवे २ अर्वाचीने अप्राचीने च स्त्रियां ङीप्

आधृष्टि त्रि० आ + धृष--भावे क्तिन् । १ परिभवे २ बलाद्

निग्रहे च ।

आधेय त्रि० आ + धा--कर्मणि यत् । १ उत्पाद्ये । “आधेयश्चा

क्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः” व्या० का० । यस्य सतो
गुणान्तरमुत्पाद्यम् २ तादृशे उतपाद्यगुणान्तरे विद्यमाने
एव यत्र घटादिपदार्थे पाकादिना रक्ततागुणान्तरमाधीयते
तादृशे घटादौ । आधानविधिना ३ स्थापनीये वह्नौ पु० ।
४ अधिकरणेऽभिनिवेशनीये “अधिकं पृथुलाधारादाधेया-
धिक्यवर्ण्णनम्” चन्द्रा० । ५ स्थापनोये द्रव्ये च । भावे यत् ।
६ आधाने न० । “अग्न्याधेयम्” आश्व० श्रौ० सू० ।
“अन्यतराभावे कार्या प्रागग्न्यधेयात्” बौधा० सू० ।

आधोरण पु० आ + धोर--गतिचातुर्ये ल्यु । हस्तिगतिचातु

र्यज्ञे हस्तिपके । स्वल्पबलेनापि महाबलस्य हस्तिनः
सङ्केतादिनैव चालनात्तस्य गतिचातुर्य्यवत्त्वात्तथात्वम् ।

आध्मात त्रि० आ + ध्मा--क्त । १ शब्दिते, २ दग्धे, ३ वातदोष-

जातोदरस्फीततासम्पादकरोगयुक्ते “साटोपमत्युग्ररुजमा
ध्मातमुदरंभृशम्” सुश्रु० । भावे क्त ४ आध्माने न० ।

आध्मान पु० आ + ध्मा--आधारे ल्युट् । “आध्मानमिति

जानीयाद्दोषं वातनिरोधकृत्” इत्युक्ते १ वातव्याधौ ।
“शूलञ्च मूत्रं मुहुर्मुहुः प्रवृत्तिं वस्तितोदमाध्मानञ्च” सुश्रु०
भावे ल्युट् । २ उदरस्फीततायाम् । ३ अग्निसंयोगजे शब्दभेदे
न० । करणेल्युट् । ४ नलिकानामगन्धद्रव्ये स्त्री० ङीप् ।

आध्मापन न० आ + ध्मा--णिच्--पुक्--भावे ल्युट् । १ शब्द-

निष्पादने २ आध्माननिष्पादने सुश्रुतोक्ते ३ शल्यापसार-
णीयव्यापारभेदे च । “अणून्यक्षशल्यानि परिषेचना-
ध्मापनैर्बालवस्त्रपाणिभिः प्रमार्ज्जयेत्” सुश्रु० ।

आध्यक्ष्य न० अध्यक्षस्य भावः ष्यञ् । १ अधिष्ठातृत्वे २

अधिकर्त्तृव्यापारे ३ पृत्यक्षत्वे च ।

आध्या स्त्री आ + ध्यै--भावे अङ् । १ चिन्तने २ ओत्सुक्येन स्मृतौ

आध्यात्मिक त्रि० आत्मानं मनः शरीरादिकमधिकृत्य भवः

ठञ् । शोकमोहज्वरादिरूपे दुःखे । आधिदैविकशब्दे-
ऽस्य विवृतिः ।

आध्यान न० आध्यै + ल्युट् । १ चिन्तायाम्, २ उत्कण्ठापूर्ब्बकस्मरणे च ।

आध्यापक पु० अध्यापकएव स्वार्थेऽण् । अध्यापके शब्दरत्ना०

आध्यायिक पु० अधीयतेऽध्यायोऽध्येयोवेदस्तमधीते ठञ् ।

अधीतवेदे “युवा स्यात् साधुयुवाध्यायिकः” तैत्ति० उ० ।
“आध्यायिकोऽधीतवेदः” भा० ।

आध्यासिक त्रि० अध्यासेन कल्पितः ठक् । वेदान्तिमते

अध्यासेन कल्पिते अतद्वति तत्त्वारोपेण कल्पिते पदार्थे
यथा शुक्तिकादौरजतादि कल्पितम् एवं ब्रह्मणि जगदादि
आरोपितमिति तस्याध्यासिकत्वमिति वेदान्तिसिद्धान्तः ।
पृष्ठ ०७१६

आध्र पु० आ + धृ--क । आधारे । “आध्रस्य चित् प्रमतिरु-

च्यसे” ऋ० १, ३१, १४ । “आध्रेण चित्तद्वेकं चकार”
ऋ०७, १८, १७ ।

आध्वनिक त्रि० अध्वनि कुशलः ठक् । पथिकुशले “कान्तारे-

ष्वपि विश्रामे जनस्याध्वनिकस्य वै” भा० आ० ।

आध्वरायण पुं स्त्री० अध्वरोयज्ञाभिज्ञस्तस्य गोत्रापत्यम्

नडा० फक् । यज्ञविद्गोत्रापत्ये ।

आध्वरिक पु० अध्वरस्य व्याख्यानो ग्रन्थः ठक् । अध्व-

रव्याख्याने १ ग्रन्थे । अध्वरं यज्ञं वेत्ति तत्प्रतिपादकग्र-
न्थमधीते वा ठक् । २ यज्ञवेत्तरि २ तत्प्रतिपादकग्रन्था
ध्येतरि च त्रि० ।

आध्वर्य्यव त्रि० अध्वर्य्योर्यजुवेविद इदम् अञ् । अध्व-

र्य्यु सम्बन्धिनि कर्म्मादौ । “यदि वाध्वर्य्यवं राजा नियुन-
क्ति पुरोहितम्” अथ० १०, ५२, २ । “ऋग्वेदेन हौत्र-
मकुर्व्वत यजुर्वेदेनाध्वर्य्यवं सामवेदेनोद्गीथम्” शत० ब्रा० ।

आन पु० आनित्यनेन आ + अन--करणे क्विप् आ प्राणवायुः

ततः सुवास्त्वा० अदूरभवादौ अण् । सम्यग्जीवनसाधनस्य
अन्तःस्थितस्य प्राणवायोर्नासिकया वहिर्निस्मारणेउच्छासे

आनक पु० आनयति सोत्साहान् करोति अन--णिच् ण्वुल् ।

१ पटहे, २ मृदङ्गे, “ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
सहसैवाभ्यहन्यन्त” गीता ३ सशब्दमेघे च । ४ उत्साहके
त्रि० । कर्ण्णादि० चतुरर्थ्यां फिञ् । आनकायनिः ।
तत्सन्निकृष्टदेशादौ त्रि० ।

आनकदुन्दुभि पु० आनकः प्रोत्साहकोदुन्दुभिर्देववाद्य-

विशेषो यस्य । १ कृष्णपितरि वसुदेवे । कृष्णजन्मोत्सवे हि
तथा वाद्यं तद्गृहे जातमिति तस्य तथात्वम् । २ वृहड्ढ-
क्वायां स्त्री वा ङीप् ।

आनकस्थली स्त्री आनकप्रधाना स्थली शा० त० ।

आनकप्रधानस्थल्यां देशभेदे तस्यां भवः अदूरदेशादौ धूमा०
वुञ् । आनकस्थलकः तत्सन्निकृष्टदेशादौ त्रि० ।

आनडुह न० आनडुह इदम् अण् । १ वृषसम्बन्धिनि गोमय

चर्म्मादौ । “आनडुहोगोमयः कृशरःस्थालीपाकः” गोभि०
“चर्म्मण्यानडुहे रक्ते स्थाप्यं भद्रासने तथा” या० स्मृ० ।
अनडुहा कृतम् अण् । २ स्वनामख्याते तीर्थभेदे तच्च तीर्थं
मह्यगिरिसन्निकृष्टदेशस्थितम् यथा क्रौञ्चपुरं वर्ण्णयिवा ।
“तमदृष्ट्वैव राजानं निवासाय गतेऽहनि । तीर्थमानुडुहं
ताम गमिष्यामः सनातनम् । ततश्च तं गमिष्यामः सह्यस्य
विवरे गिरिम्” गोमन्तमिति विख्यातम्” हरिवं० ९६ अ० ।

आनडुहक त्रि० अनडुहा कृतम् संज्ञायां कुलला० वुञ् ।

अनडुत्कृते गीमयादौ ।

आनडुह्य पु० अनडुहोगोत्रापत्यम् गर्गा० यञ् ।

अनडुन्नामकस्य मुनेर्गोत्रापत्ये । ततः पुनः गोत्रापत्ये
अश्वा० फञ् । आनडुह्यायनः तदपत्ये पुंस्त्री० ।
चतुरर्थ्यां कर्ण्णा० फिञ् । आनडुह्यायनिः तत्सन्निकृष्ट
देशादौ त्रि० ।

आनत त्रि० आ + नम--क्त । १ कृतप्रमाणे, २ अधोमुखे, ३

विनयेन नते च “तं व्याससूनुममलं मुनिमानतोऽस्मि” भा०
१ मस्कन्धे । “स्पृशन्करेणानतपूर्ब्बकायम्” रघुः ।

आनति स्त्री आनमति प्रवणीभवत्यनया आ + नम--करणे-

क्तिन् । आनुगत्यजन्ये १ सन्तोषे “यच्च चिरावस्थितेर्व्य-
भिचारात् न प्रतिग्रहकारणत्वमानतेरिति” “आनतिद्वारा
न प्रतिग्रहार्थत्वं द्रव्यस्येत्युक्तं तन्मन्दतरम् आनतिद्वारेण
चिराश्रयणादीनां प्रतिग्रहकारणत्वादिति” “आनतेरनि-
यतोपायपरिणामादिति” च दाय० भा० । भावे क्तिन् ।
२ नम्रीभावे, ३ अधोभवने, ४ नम्रतायाञ्च “आत्मजातिस-
दृशीं किलानतिम्” किरा० ।

आनद्धं न० आ + नह + क्त । चर्म्मणा बद्धमुखे १ पटहमुरजादौ

वाद्यभेदे, । २ ग्रथिते, ३ व्याप्ते, ४ बद्धे केशभूषादिके च
त्रि० । “मूत्रवहे द्वे तयोर्मूलं वस्तिर्मेढ्रञ्च तत्र
विद्धानद्धवस्तिता” सुश्रु०

आनन न० अनित्यनेन आ + अन--करणे ल्युट् । मुखे मुखेन

हि जलपानादिना प्राणादेः स्थितिरतस्तस्य तथात्वम्
“सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ” “तदाननं
मृत्सुरभि क्षितीश्वरः” नृपस्य कान्तं पिबतः सुताननम्”
इति च रघुः ।

आनन्तर्य्य न० अनन्तरमेव चतुर्व० स्वार्थे ष्यञ् । १ अव्यवहिते

अनन्तरस्य भावः ष्यञ् । २ अव्यवधाने । “आनन्तर्य्यात्
स्वयोन्यास्तु तथा बाह्येष्वपि क्रमात्” मनुः “पयसः काला-
नन्तर्य्यधर्मानुग्रहेभ्यः” कात्या० ४, ३, १६ ।

आनन्त्य न० अनन्तएव स्वार्थे ञ्य । १ अनन्ते २ असीमे

अनन्तस्य भावः ष्यञ् । ३ सीमाशून्यत्वे ४ नाशराहित्ये “हवि-
र्यच्चिररात्राय यच्चानन्त्याय कल्पते” मनुः । “लोकानन्त्यं
दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकै” या० स्मृतिः । “आनन्त्यात्
कुलधर्स्माणां द्वादशाहे विधीयते” श्रा० त० पु० ५ शाश्वतप्रति-
ष्ठायाञ्च “यस्तु नित्यं कृतमतिर्घर्म्ममेवाभिपद्यते । अशङ्कमानः
कल्याणि! सोऽमूत्रानन्त्यमश्नुते” भा० व० प० ३१ अ० ।
पृष्ठ ०७१७

आनन्द पु० आ + नन्द--घञ् । १ हर्षे सुखे २ दुःखाभावे,

३ ब्रह्मणि च । अर्शआदित्वादच् । ४ आनन्द-
वति त्रि० “सत्यंज्ञानमानन्दं ब्रह्मेति श्रुतिः । नैयायिका
आनन्दशब्दः दुःखाभावे लाक्षणिकैत्याहुः ब्रह्मणि
आनन्दाभावेऽपि दुःखाभावरूपानन्दस्य तत्र सत्त्वात्
आनन्दवत्त्वमिति ते मन्यन्ते वेदान्तिनस्तु छान्दसं नपुंसक-
मिति आनन्दस्वरूपत्वमेव ब्रह्मणः दुःखाभावरूपस्या
नन्दस्याधिकरणस्वरूपत्वादित्याहुः एतदभिप्रायेणैव
विवरणे “आनन्दोविषयानुभवो नित्यत्वञ्चेति सन्ति-
धर्म्मा अपृथक्त्वेऽपि पृथगिवावभासन्ते इत्युक्तम्”
यथा च ब्रह्मण आनन्दप्रचुरत्वादानन्दमयत्वं तथा
“आनन्दमयोऽभ्यासात्” शा० सू० भा० व्यवस्थापितम्
त्रैत्ति० उप० आनन्दमयं प्रकृत्य “तस्य प्रियमेव शिरो-
मोदोदक्षिणः पक्षः प्रमोद उत्तरःपक्षः आनन्द आत्मा
ब्रह्म पुच्छ प्रतिष्ठा” । “तस्याप्यानन्दमयस्यात्मन इष्ट-
पुत्रादिदर्शनजं प्रियं शिर इव शिरः प्राधान्यात् ।
मोद इति प्रियलाभनिमित्तो हर्षः । स एव च प्रकृष्टो
हर्षः प्रमोदः । आनन्दः इति सुखसामान्यम्,
आत्मा प्रियादीनां सुखावयवानां तेष्वनुसृतत्वादानन्द
इति परं ब्रह्म । तद्धि शुभकर्म्मणा प्रत्थुपस्थाप्यमाने
पुत्रमित्रादिविषयविशेषोपाधावन्तःकरणवृत्तिविशेषे तमसा ।
प्रच्छाद्यमाने प्रसन्नेऽभिव्यज्यते तद्विषयसुखमिति
प्रसिद्धं लोके । तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्म्मणोऽन-
वस्थितत्वात्सुखस्यं क्षणिकत्वम् । तद्यदन्तःकरणं तपसा-
तमोघ्नेन, विद्यया, ब्रह्मचर्य्येण, श्रद्धया च निर्मलत्वमाप-
द्यते यावत्तावद्विविक्ते प्रसन्नेऽन्तःकरणविशेष आनन्द
उल्लस्यते विपुलीभवति । वक्ष्यति च “रसो वै सः रसं
ह्येवायं लब्य्वानन्दी भवति एष हेयवानन्दयाति”
“एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति” श्रुत्यन्तरात्
एवञ्च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष
आनर्न्दस्य वक्ष्यते । एवञ्चोत्कृष्यमाणस्यानन्दमयस्यात्मनः
परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतं
सत्यज्ञानान्दलक्षणं यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः
कोशा उपन्यस्ताः । यच्च तेभ्योऽभ्यन्तरं येन च ते सर्वे
आत्मवन्तस्तद्ब्रह्म पुच्छ प्रतिष्टाः” भा० ब्रह्मण आनन्द-
रूपरसत्वमपि तत्रैव दर्शितं यथा “यद्वैतत् सुकृतं रसो
वै सः रसं ह्येवाऽयं लब्ध्वानन्दी भवति कोह्येवा-
न्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्
एष ह्येवानन्दयाति यदा ह्येवैष एतस्मिन्नदृश्येऽनात्मेयऽ-
निरुक्तेऽनिलयेऽभयं प्रतिष्ठां विन्दते” तै० उ० ।
“कुतो रसत्वपसिद्धिर्ब्रह्मण इत्यत आह । यद्वैतत्सुकृतं
रसो वै सः । रसो नाम तृप्तिहेतुरानन्दकरो मधुरा-
म्लादिः प्रसिद्धो लोके । रसमेवायं लब्ध्वा प्राप्यानन्दी
सुखी भवति नासत आनन्दहेतुत्वं दृष्टं लोके । वाह्या-
नन्दसाधनरहिता अप्यनीहा निरेषणा ब्राह्मणा
बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसो नूनम् । ब्रह्मैव
रसस्तेषाम् तस्मादस्ति तेषामानन्दकारणं रसवद्ब्रह्म ।
इतश्चास्ति कुतः । प्राणनादिक्रियादर्शनात् । अयमपि
हि पिण्डो जीवतः प्राणेन प्रोणिति अपानेनापानिति ।
एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्य्यकार-
णैर्निर्वर्त्त्यमाना दृश्यन्ते । तच्चैकार्थवृत्तित्वेन संहननस्
संहन्यमानं च नान्तरेण चेतनं संहतं सम्भवति अन्यत्रादर्श-
नात् । तदाह यद्यदि एष आकाशे परमे व्योम्नि
गुहायां निहित आनन्दो न स्यान्न भवेत्को ह्येव लोकेऽ-
न्यादपानचेष्टां कुर्य्यादित्यर्थः । कः प्राण्यात् प्राणनं
कुर्य्यात्तस्मादस्ति तद्ब्रह्म । यदर्थाः कार्य्य कारणप्राणना-
दिचेष्टा? तत्कृत एवानन्दो लोकस्य । कुतः! एष ह्येव पर
आत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मा-
नुरूपम् । स एवात्मानन्दरूपोऽविद्यया परिच्छिन्नो विभा-
व्यते प्राणिभिरित्यर्थः” भा० । सर्वानन्दापेक्षया ब्रह्मरूपा-
नन्दस्योत्कर्षस्तत्रैव दर्शितो यथा “सैषानन्दस्य मीमांसा
भवति । युवा स्यात् साधुयुवाध्यायिकः । आशिष्ठो दृढिष्ठो
बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्ण्णा स्यात् ।
स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः
स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकाम-
हतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः स एको
देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य । ते
ये शतं देवगन्धर्व्वाणामानन्दाः स एकः पितॄणां
चिरलोकानामानन्दः श्रोत्रियस्य चाकामहतस्य । ते
ये शतं पितॄणां चिरलोकानामानन्दाः । स एक
आजानजानां देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ।
ते ये शतमाजानजानां देवानामानन्दाः स एकः कर्म्म-
देवानामानन्दः ये कर्म्मणा देवानपि यन्ति, श्रोत्रियस्य
चाकामहतस्य । ते ये शतं कर्म्मदेवानामानन्दाः स एको
देवानामानन्दः श्रोत्रियस्य चाकामहतस्य । ते ये शतं
पृष्ठ ०७१८
देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य
चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः स एको
वृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य । ते ये
शतं वृहस्पतेरानन्दाः । स एक प्रजापतेरानन्दः
श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः
स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य ।
स यश्चायं पुरुषे यश्चासावादित्ये स एकः । स य
एकंवित् अस्मांल्लोकात्प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रा-
मति, एतं प्राणमयमात्मानमुपसङ्क्रामति, एतं मनोम-
यमात्मानमुपसङ्क्रामति, एतं विज्ञानमयमात्मानमुपसङ्क्रा-
मति, एतमानन्दमयमात्मानमुपसङ्क्रामति” तैत्ति० उप०
“तस्यास्य ब्रह्मण आनन्दस्यैषा मीमांसा विचारणा
भवति किमानन्दस्य मीमांस्यमित्युच्यते । किमानन्दो विषय-
विषयिसम्बन्धजनितो लौकिकानन्दवदाहोस्वित्स्वाभाविक
इत्येवमेषानन्दस्य मीमांसा । तत्र लौकिक आनन्दो
बाह्याध्यात्मिकसाधनसम्पत्तिनिमित्तौत्कृष्टः । स य एष
निर्द्दिश्यते ब्रह्मानन्दानुगमार्थम् । अनेन हि प्रसि-
द्धेनानन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं
शक्यते । लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्राऽवि-
द्यया तिरस्क्रियमाणोऽविज्ञातो उत्कृष्यमाणायां चावि-
द्यायां ब्रह्मादिभिः कर्म्मवशाद्यथाविज्ञानं विषयादि-
साधनसम्बन्धवशो विभाव्यमानश्च लोकेऽनवस्थितो
लौकिकः सम्पद्यते स एवाविद्याकामकर्म्मापकर्षेण मनुष्यग-
न्धर्वाद्युत्तरोत्तरभूमिष्वकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभा-
व्यते शतगुणो त्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मण
आनन्द इति । निरस्तेऽविद्याकृते विषयविषयिविभागे
विद्यया स्वाभाविकः परिपूर्ण्णएक आनन्दोऽद्वैते भवतोत्ये-
तमर्थं विभावयिष्यन्नाह । युवा प्रथमवयाः साधुयुवेति ।
साधुश्चासौ युवा चेति यूनो विशेषणम् । युवाप्यसाधुर्भवति
साधुरप्ययुपाऽतो विशेषणं युवा स्यात्साधुयुवेति ।
आध्यायिकोऽधीतवेदः । आशिष्ठ आशास्तृतमः । दृढ़िष्ठो
दृढतमः । बलिष्ठो बलवत्तमः । एवमाध्यात्मिकसाधनस-
भ्पन्नः । तस्येयं पृथिवी उर्वी सर्व्वा वित्तस्य वित्तेनोपभो-
गसाधनेन दृष्टार्थेन च कर्म्मसाधनेन सम्पन्ना पूर्ण्णा ।
राजा पृथिवीपतिरित्यर्थः । तस्य च य आनन्दः स एको
मानुषो मनुष्याणां प्रकृष्ट एक आनन्दः । ते ये शतं
मानुषा आनन्दाः स एको मनुष्यगन्धर्व्वाणामानन्दः ।
मनुष्पादानब्दाच्छतगुणेनोकृष्टो मनुष्यगन्धर्व्वाणामानन्दो
भवति । मनुष्याः सन्तः कम्मविद्याविशेषाद्गन्धर्वत्वं प्राप्ताः
मनुष्यगन्धर्वाः ते ह्यन्तर्धानादिशक्तिसम्पन्नाः सूक्ष्मकार्य्य-
कारणाः । तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्ति-
साधनसम्पत्तिश्च । ततोऽप्रतिहन्यमानस्य प्रतिकारवतो
मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः । तस्य प्रसादविशेषात्सु-
खविशेषाभिव्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्या-
मुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेनानन्दोत्कर्ष
उपपद्यते । प्रथमन्त्वकामहताग्रहणं मनुष्यविषयभोगकाम-
नाभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणेनानन्दोत्कर्षो
मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थं साधु युवाध्यायिक
इति श्रोत्रियत्वावृजिनत्वे गृह्येते । ते ह्यविशिष्टे
सर्व्वत्र । अकामहतत्वं तु विषयोत्कर्षापकर्षतः सुखोत्कर्षा-
पकर्षाय विशिष्यते । अतोऽकामहतग्रहणम् । तद्विशेषतः
शतगुणात् सुखोत्कर्षोपलब्धेरकामहतत्वस्य परमानन्दप्राप्ति-
साधनत्वविधानार्थम् । व्याख्यातमन्यत् । देवगन्धर्वा
जातित एव । चिरलोकानामिति पितॄणां पिशेषणम् ।
चिरकालस्थायी लोको येषां पितॄणां ते चिरलोका इति ।
आजान इति देवलोकस्त स्मन्नाजाने जाता आजानजा
देवाः स्मार्त्तकर्म्मविशेषतो देवस्थानेषु जाताः । कर्म्म-
देवा ये वैदिकेन कर्म्मणाग्निहोत्रादिना केवलेन देवा-
नपि यन्ति । देवा इति त्रयस्त्रिंशद्धविर्भुजः । इन्द्रस्तेषां
स्वामी तस्याचार्यो वृहस्पतिः प्रजापतिर्विराड्
त्रैलोक्यशरीरो ब्रह्मा । समष्टिव्यष्टिस्वरूपः संसार-
मरणानलव्यापी । यत्रैत आनन्दभेदा एकतां गच्छ-
न्ति । धर्म्मश्च तन्निमित्तं ज्ञानञ्च तद्विपयमकामहतत्वं
च निरतिशयं यत्र स एष हिरण्यगर्भो ब्रह्मा तस्यैव
आनन्दः श्रोत्रियेणावृजिनेनाकामहतेन च संर्व्वतः
प्रत्यक्षमुपलभ्यते । तस्मादेतानि त्रीणि साधनानीत्यव
गम्यते । तत्र श्रोत्रियत्वृजिनत्बे नियते अकामहतत्वं
तूकृष्यते इति प्रकृष्टसाधनतावगम्यते । तस्य तस्याका-
महतत्वं प्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण
आनन्दो यस्य परमानन्दस्य भात्रा एकदेशः । “एतस्यै-
वानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति” श्रुत्यन्तरात् ।
स एष आनन्दो यस्य मात्रा समुद्राम्भस इव विप्रुषः
प्रविभक्ता यत्रैकताङ्गताः स एष परमानन्दः स्वाभाविको-
ऽद्वैतत्वात् । आनन्दानन्दिनोयायिभागोऽत्र । तदेतन्मी-
मांसाफलमुपसंह्रियते स यश्चायं पुरुष इति । गुहायां
निहितः परमे व्योम्न्याकाशादिकार्य्यं सृष्ट्वाऽन्नमयान्तं
पृष्ठ ०७१९
तदेवातुप्रविष्ठः स य इति निर्द्दिश्यते । स एकोऽसावयं
पुरुषे यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो
निर्दिदी यर्स्यकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युप-
जीवन्ति स यश्चासावादित्ये इति स एकः । तं मीमांसया
च सिद्धमुपसंहृतं भिन्नप्रदेशस्थघटाकाशाकाशैकत्ववत् ।
नन्वानन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसं-
हर्त्तव्यम्, अभिन्नः स्वाभाविक आनन्दः परमात्मैव न
विषयविषयिसम्बन्धजनित इति । ननु तदनुरूपएवायं
निर्देशः स यश्चायं पुरुषे यश्चासावादित्ये स एक इति
भिन्नाधिकरणस्थविशेषोपमर्दनेन । नन्वेवमप्यादित्यविशेष-
णग्रहणमनर्थकम् । नानर्थकम् । उत्कर्षापकर्षापोहार्थत्वात् ।
द्वैतस्य हि यो मूर्त्तामूर्त्तलक्षणस्योत्कर्षः सवित्रभ्यन्तरगतः
स चेत् पुरुषगतविशेषोपमर्द्देन परमानन्दमपेक्ष्य समो भवति
न कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्युभयं
प्रतिष्ठां विन्दत इत्युपन्नम्” । “स यः कश्चिदेवं यथोक्तं
ब्रह्मोत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीति ।
एवशब्दस्य प्रकृतपरामर्शार्थत्वात् । स किम्? अस्माल्लोका-
त्प्रेय दृष्टादृष्टविषयसमुदायो ह्ययं लोकस्तस्मादस्माल्लो-
कात्प्रेत्य प्रत्यावृत्य निरपेक्षो भूत्वा एतं यथा व्याख्यातम्
अन्नमयमात्मानभुपसङ्क्रामति विषयजातमन्नमयात्पिण्डा
त्मनो व्यतिरिक्तं न पश्यति सर्वं स्थूलभूतमन्नमयमात्मानं
पश्यतीत्यर्थः । ततोऽभ्यन्तरमेतं प्राणमयं सर्व्वान्नमयात्म-
स्थमविभक्तम् । अथैतं मनोमयं विज्ञानमयमानन्दमय-
मात्मानमुपसंक्रामति । अथाऽदृश्येऽनात्म्येऽनिरुक्तेऽनिल-
ययेऽभयं प्रतिष्ठां विन्दते तत्रैव नान्यत्र च” शाङ्करभाष्यम्
अत्र प्रसङ्गात् सुखदुःखादीनां स्वरूपकारणादिकं
तावन्निरूप्यते प्रकृतेः सुखदुःखमोहात्मकसत्त्वरजस्तमोगु-
णरूपत्वात् सुखादीनां सत्त्वादिकार्य्यत्वम् । यथोक्तं
सां० का० “प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनिय-
मार्थाः । अन्योन्याभिभवाश्रयजननभिथुनमवृत्तयश्च गुणाः”
अस्याः सां० कौ० व्याख्या ।
“प्रीतिः सुखं प्रीत्यात्मकः सत्वगुणः, अप्रीतिर्दुखं अप्री-
त्यात्मकोरजोगुणः, विषादो मोहः विषादात्मकस्तमोगुण
इति । ये तु मन्यन्ते न प्रीति र्दुःखाभावादतिरिच्यते
एवं दुःखमपि न प्रीत्यभावादत्यदिति तान् प्रत्यात्मग्रह-
णम् । नेतरेतराभावाः सुखादयः अपि तु भावाः आत्म-
शब्दस्य भाववचनत्वात् प्रीतिरात्मा भावो येषां ते प्रीत्या-
त्मानः । एवमन्यदपि व्याख्येयम् । भावरूपता चैषा-
मनुभवसिद्धा परस्परामावात्मकत्वे तु परस्पराश्रयापत्ते-
रेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः । स्वरूपमेषामुक्त्वा
प्रयोजनमाह प्रकाशप्रवृत्तिनियमार्थाः अत्रापि यथासं-
ख्यमेव । रजः प्रवर्त्तकत्वात्सर्वत्र लघु सत्वं प्रवर्त्तयेत् यदि
तमसा गुरुणा न नियम्येत । तमोनियतन्तु क्वचिदेव-
प्रवर्त्तयतीति भवति तमो नियमार्थम् । प्रयोजनमुक्त्वा
क्रियामाह अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च वृत्तिः
क्रिया सा च प्रत्येकमभिसम्बध्यते । अन्योन्याभिभववृत्तयः
एषामन्यतमेनार्थवशादुद्भूतेनान्यदभिभूयते । तथा हि सत्त्वं
रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते
एवं रजः सत्त्वतमसी अभिभूय घोराम्, एवं तमः सत्त्व-
रजसी अभिभूय मूढामिति” ।
“प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योन्यं वैधर्म्म्यम्” सां०
सूं० । “गुणानां सत्त्वादिद्रव्यत्रयाणामन्योन्यं
सुखदुःखविषादाद्यैर्वैधर्म्म्यम् कार्य्येषु तद्दर्शनादित्यर्थः
सुखादिकं च घटादिविषयाणामपि रूपवदेव धर्म्मोऽन्तःक-
रणोपादानत्वात् सर्व्वकार्य्याणां, तत्तद्गुणत्वौचित्यात्
एतच्चानुपदं निरूपयिष्यते । मनसः संकल्पात्मकतावत्
सत्त्वादीनां सुखाद्यात्मकता धर्म्मधर्म्म्यभेदात्” सा० प्र० भा० ।
“हेयं दुःखमनागतम्” इत्युपक्रम्य “द्रष्टृदृश्यसंयोगो
हेयहेतुः” पात० सू० हेयस्य दुःखस्य कारणं द्रष्टृदृश्ययोः संयो
गमुक्त्वा “प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगा-
पवर्गार्थं दृश्यम्” पा० सूत्रे दृश्यपदार्थो निरूपितः ।
अयमर्थः प्रकाशशीलं सत्त्वं, क्रियाशीलं रजः, प्रकाश-
क्रिययोः प्रतिबन्धरूपस्थितिशीलं तमः । तत्र सत्त्वं
मृदुत्वात् तप्यं, तापकं रजः रञ्जकत्वात् । एवं सत्त्व-
रजसोस्तप्यतापकभावे सति तमसा मोहः सम ताप इत्येवं
रूपभ्रान्तिरूपोमोहः पुरुषस्य भवति । तदिदं
गुणत्रयं स्वस्वकार्य्ये मिथः सहायमविवेकिभोग्यं विवे-
कित्याज्यं परस्पराश्रयं परस्पराभिभाव्याभिभानकभावञ्च
गच्छति” इत्येवं स्थिते सति करणान्तरे रजस्त-
मसी अभिभूय सत्त्वं यदा प्रवर्द्धते तदा सत्त्वोद्रेकात् सुखं
जायते । सत्त्वतमसी अभिभूय सति कारणान्तरे यदा रजः
प्रवर्द्धते तदा रज उद्रेकात् दुःखं भवति सत्त्वरजसी
अभिभूय यदा तम उद्रिक्तं भवति तदा मोह
विषादादिकं जायते इति सुखादिसमुद्भवप्रकारः ।
तत्र कारणं धर्म्माधर्म्मादिसचिवोरागादिरेव । यथाह
“सुखानुशयी रागः” दुःखानुशयी, द्वेषः” पा० सू०
पृष्ठ ०७२०
सुखानुभवे सति स्मृत्या तज्जातीसुखान्तरे तत्साधने
वा तृष्णा स रागः सुखमनुशेते विषयीकरोति सुखानु-
शयीत्यर्थः एवं दुःखानुभवितुः स्मृत्या दुःखे तत्सा-
धने वा यः क्रोधः स द्वेष इत्यर्थः । एवञ्च सुखस्य
स्मरणात्मकज्ञानात् सुखे इच्छा नान्येच्छाधीना इति
तस्य स्वतःप्रयोजनत्वम् अन्येच्छानधीनेच्छाविषयस्यस्यैव
तथात्वात् । तत्साधने तु सुखसाधनत्वज्ञानादेवेच्छा
अतस्तस्य गौणप्रयोजनत्वम् । स्मरणात्मकदुःखज्ञानाच्च दुःखे
द्वेषः तत्साधने तु तत्साधनन्त्वज्ञानात् द्वेषः यथाह भाषा०
“सुखन्तु जगतामेव काम्यं धर्म्मेण जन्यते । अधर्म्मजन्यं
दुःखं स्यात् प्रतिकूलं सचेतसाम् । निर्दुःखत्वे सुखे
चेच्छा तज्ज्ञानादेव जायते । इच्छा तु तदुपाये स्यादिष्टो-
पायत्वधीर्यदि । चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा च या
भवेत् । तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ।
बलवदद्विष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका । तदहेतुत्वबुद्धेस्तु
हेतुत्वं कस्यचिन्मते । द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य
कारणम्” । इच्छया च तत्साधने प्रवृत्तिः । द्वेषाच्च तत्साधने
निवृत्तिः । यत्र सुखनान्तरीयकविधया दुःखमुत्पद्यते
तादृशे कर्म्मणि द्विष्टसाधनत्वज्ञाने सत्यपि इच्छातत्कार्ययोर्दर्शनात्
बलवद्द्विष्टासाधनत्वज्ञानस्यैव इच्छायां प्रवृत्तौ च कारणत्वेन
तस्य तन्नान्तरीयकत्वान्न बलवद्द्विष्टत्वम् । अतएव कण्टकि
मत्स्यभक्षणादौ सतुषधान्यादिग्रहणे च प्रवृत्तिः । कामुकादेः
परदारादिगमने नरकसाधनत्वं विदुषोऽपि प्रवृत्तिस्तु
तत्काले ऐहिकसुखापेक्षयां कालान्तरभाविनि नरकादौ
बलवद्द्वे षाभावेन बलवद्विष्टासाधनत्वज्ञानादेवेति न विरोधः ।
तत्र सुखं प्रथमं द्विविधं ज्ञानप्रसादलब्धं ब्रह्मानन्दाद्यपर-
पर्य्यायं निरतिशयम्, वैषयिकं सातिशयञ्च” तच्च तैत्तिरीय
श्रुतौ मनुष्यादारभ्य ब्रह्मपर्य्यान्तानाम् ७१७ पृष्ठेप्राग्दर्शितम्
सातिशयञ्च सुखं विवेकिनां दुःखमेव । यथोक्तम् विषय-
तृष्णाराहित्यरूपोपरतिस्वरूपतुष्टिप्रदर्शने” सां० कौ० ।
“अर्ज्जनरक्षणक्षयभोगहिंसादोषदर्शनहेतुजन्मान उपरमाः
पञ्च भवन्ति । तथा हि सेवादयोधनोपार्जनोपायास्ते
च सेवकादीन् दुःखाकुर्वन्ति । दृप्यद्दुरीश्वरद्वाःस्थहस्तद-
त्तचण्डार्द्धचन्द्रजां वेदनां भावयन् प्राज्ञः कः सेवासु
प्रसज्जते? । एवमन्येऽप्यऽर्ज्जनोपाया दुःखा इति विषयोप-
परमे या तुष्टिः सैषा पारमुच्यते । तथार्जितं धनं राजै-
कागारिकाग्निजलौघादिभ्योविनङ्क्ष्यतीति तद्रक्षणेमहद्दुः-
खमिति भावयतोविषयोपरमे या तुष्टिः सा द्वितीया सु-
पारमुच्यते । तथा महतायासेनार्जितं धनं भुज्यमानं
क्षीयते इति तत्प्रक्षयं भाववतोविषयोपरमे या तुष्टिः
सा तृतीया पारपारमुच्यते । एवं शब्दादिभोगाभ्या-
साद्वर्द्धन्ते कामास्ते च विषयाप्राप्तौ कामिनं दुःखयन्तीति
भोगदोषं भावयतो विषयोपरमे या तुष्टिः सा चतुर्थी
अनुत्तमाम्भ उच्यते । एवं नानुपहत्य भूतानि विषयोपभोगः
सम्भवतीति हिंसादोषदर्शनाद्विषयोपरमे या तुष्टिः
सा पञ्चमी उत्तमाम्भ उच्यते” । “परिणाम तापसंस्कार-
दुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः”
पात० सूत्रेचोक्तम् । अयमर्थः परिणामोऽन्यथाभावः
तापः वर्त्तमानः, संस्कारोभूतः एतान्येव दुःखानि
तैरिति विग्रहः तथा च विषयसुखभोगात् कामानलो
वर्द्धते “न जातु कामः कामानामुपमोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते” इति भारतोक्तेः
तद्वृद्धौ च सत्यां कदाचित् काम्यालाभे दुःखमवश्यं
भावि कदाचिद्लाभेऽपि कुत्रश्चिद्भोगसङ्कोचे दुःखम् ततः
सङ्कोचके द्वेषः ततः कामद्वेषाभ्यां पापस्योपचयात् दुःख-
मवश्यं भावि । असङ्कोचे व्याधिः पापञ्च ततोदुःखम् एवं
भोगस्य परिणामदुःखता । तथा सुखभोगस्य तत्सा-
धनस्य नाशे तापः अनुतापः स च दुःखमेवेति तस्य
तापदुःखता । तथा भोगनाशेऽपि तत्संस्कारः तिष्ठ-
त्येव सति तस्मिन् तज्जातीये पुनः रागः रागे च पुण्या-
पुण्यसाधनावश्यम्भावः ततः पुनः सुखदुःखभोगः ततः
पुनः संस्कार इत्यनन्तदुःखसन्ततिः तथा च यथा
भोगनाशे न संस्कारो भवेत् तथा यतितव्यमिति अतएवोक्तम्
“असक्तः सुखमन्वभूत्” सर्व्वमेव विषयभोगसाधनं विषय-
जन्यं सुखं च दुःखपक्षे निक्षेप्तव्यम् । तत्र हेतुः
गुणवृत्तिविपर्य्ययादिति गुणानां चित्तात्मना परिणतानां
सत्त्वरजस्तमसांवृत्तीनां सुखदुःखमोहानां विरोधात् परस्प-
राभिभाव्याभिभावकत्वरूपविरोधात् इति । तथा च त्रिगु-
णचित्तस्य यदा रजस्तमसी सत्त्वात् किञ्चिदूने मवतः
तदा ते गिथुनीभूय सत्त्वाभिभवाभिमुखे भवतः । तदानीञ्च
तमसा सत्वापिधानै कृते रजसैश्वर्य्यं कामयमानेन विषयः
प्रियो भवति तदा तेन सत्त्वाच्छादनेन चित्तं विक्षिप्तं
भवति । यदा तु तमः प्रधानं तदा चित्तं मूढं भवति
सत्त्वोद्रेके तु सुखम् इत्येवमेकस्यैव चित्तस्य सत्त्वादि-
कारणोद्रेकभेदेन सुखदुःखादिरूपता ।
सुखादिकञ्च अन्तःकरणधर्मः धर्म्मावर्म्मफलत्वात् “शा-
पृष्ठ ०७२१
स्त्रदेशितं फलमनुष्ठातरीति” न्यायेन कृत्यादीनामन्तःकरण-
धर्म्मत्वेन तद्धर्म्म त्वौचित्योत् पुरुषे तु तानि तदविवेकादौ-
पाधिकानि “प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्वशः ।
अहङ्कारविमूढ़ात्मा वर्त्ताहमिति मन्यते” गीतोक्तेः
प्रकृतिगुणानां वास्तविककर्त्तृत्वसिद्धेः । “तस्मात् संयो-
गादचेतनं चेतनावदिव लिङ्गम् । गुणकर्त्तृत्वे च तथा
कर्त्ता भवत्युदासीन” इति सां० का० राजसवृत्तेः अन्तः-
करणस्यैव वास्तविककर्त्तृत्वोक्तेश्च क्रियाफलस्य सुखादेरपि
तत्सामानाधिकरण्यम् । एतदाशयेनैव “तत्र
जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्या-
विनिवृत्तेस्तस्माद् दुःखं स्वभावेन सा० का० उक्तिः पुरुषे
औपाधिकदु खस्य सद्भावपरा” । किञ्च अन्तः-
करणस्य तावत् सुखादिभिरन्वयव्यतिरेकौ सर्व्वसम्मतौ
इत्यन्वयव्यतिरेकाभ्यां सिद्धकारणभावस्य तस्योपादानत्वमेव
सांख्यादिभिः कल्प्यते न पुनस्तस्य निमित्तत्वं प्रकल्प्य
आत्मनस्तत्र समवायिकारणत्वकल्पनं गौरवपराहतत्वात्
निर्गुणत्वादिश्रुतिविरोधाच्च । सत्यपि तस्यस्वाभाविकाकर्त्तृत्वे
भोक्तृत्वमस्त्येवेति सांख्या आहुः यथोक्तं सांख्यसूत्रभाष्ययोः
“चिदवसानो भोगः” सू० । “पुरुषस्वरूपे चैतन्येपर्यवसानं
यस्य तादृशो भोगः सिद्धिरित्यर्थः । बुद्धेर्भोगस्य व्यावर्त-
नाय चिदवसान इति । चितः परिणामित्वरूपधर्म्मत्वादि-
शङ्कानिरासायावसानपदम् । चितौ भोगस्य स्वरूपे पर्यव-
सितत्वान्न कौटस्थ्यादिहानिरित्याशयः । तथाहि प्रमाणा
ख्यवृत्त्यारूढं प्रकृतिपुरुषादिकं प्रमेयं वृत्त्या सह पुरुषे
प्रतिविम्बितं सद्भासते । अतोऽर्थोपरक्तवृत्तिपतिविम्बाव-
च्छिन्नं स्वरूपचैतन्यमेव भानं पुरुषस्य भोगः प्रमाणस्य
च फलमिति । ततश्च प्रतिबिम्बरूपेणार्थसम्बन्धे द्वारतया
वृत्तीनां करणत्वमिति । तदुक्तं विष्णुपुराणे । “गृही-
तानिन्द्रियैरर्थानात्मने यः प्रयच्छति । अन्तःकरणरूपाय
तस्मै विश्वात्मने नमः” इति । राज्ञो हि करणवर्गः
स्वामिने भोग्यजातं समर्पयतीति दृष्टमिति ।
भोगशब्दार्थश्चाभ्यवहरणम् आत्मसात्करणमिति यावत् ।
स च देहादिचेतनान्तेषु साधारणः । विशेषस्त्वयम् ।
अपरिणामित्वात् पुरुषस्य विषयभोगः प्रतिबिम्बादान
मात्रम् । अत्येषां तु परिणामित्वात् पुष्ट्यादिरपीति ।
अयमेव च परिणामरूपः पारमार्थिको भोगः पुरुषे
प्रतिषिध्यते “बुद्धेर्भोग इवात्मनीत्यादिभिरिति” मन्तव्यम् ।
अणिन् सूत्रे पुरुषस्यापि फलव्याप्यता सिद्धा चिद-
वसानताया एवात्र भोगत्ववचनादिति ननु कर्त्तुरेव लोके
क्रियाफलभोगो दृष्टः । यथा सञ्चरत एव सञ्चारोत्थ-
दुःखभोग इति तत् कथं बुद्धिकृतधर्म्मादिफलस्य सुखा-
द्यात्मिकाया अर्थोपरक्तबुद्धिवृत्तेर्भोगः पुरुषे घटेतेत्या-
शङ्कायामाह । “अकर्त्तुरपि फलोपभोगोऽन्नाद्यवत्” सू० ।
बुद्धिकर्म्मफलस्यापि वृत्तेरुपभोगस्तदकर्त्तुरपि पुरुषस्य
युक्तः अन्नाद्यवत् । यथान्यकृतस्यान्नादेरुपभोगो राज्ञो
भवति तद्वदित्यर्थः । अविवेकस्य स्वस्वामिभावस्य वा
भोगनियामकत्वात् तु नातिप्रसङ्गः । सुखदुःखादेः कर्म्म-
फलत्वमभ्युपेत्य बुद्धिगतं कर्म्मफलं पुरुषो भुङ्क्त इत्यु-
क्तम् । इदानीं पुरुषगतभोगस्यैव कर्म्मफलत्वं स्वीकृत्य
बुद्धिकर्म्मणा पुरुष एव फलमुत्पद्यत इति मुख्यसिद्धान्त-
माह । “अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः” सू० ।
अथवा कर्तरि फलमेव न भवति सुखं भुञ्जीयेत्यादि-
कामनाभिर्भोगस्यैव फलत्वात् । अतो भोक्तृनिष्ठमेव फलं
भवति “शास्त्रविहितं फलमनुष्ठातरीति” शास्त्रेषु कर्त्तुः
फलावगमस्तु तत्सिद्धेरकर्तृनिष्ठाया भोगाख्यसिद्धेः
कर्तृबुद्धावविवेकादित्यर्थः । योऽहं करोमि स एवाहं
भुञ्ज इति हि लौकिकानुभव इति । या च सुखं
मे भूयादित्यादिकामना सा पुत्रो मे भूयादितिवत्
फलसाधनत्वेनैवोपपद्यते । भोगस्तु नान्यस्य साधनम् ।
अतः स एव फलमिति मुख्यः सिद्धान्तः । भोगस्य
पुरुषखरूपत्वेऽपि वैशेषिकाणां मते श्रोत्रवत् कार्यता
बोध्या सुखाद्यवच्छिन्नचितेरेव भोगत्वात् । अस्मिंश्च
भोगस्य फलत्वपक्षे दुःखभोगाभाव एवापवर्गो बोध्यः ।
अथवा भोग्यतारूपस्वत्वसम्बन्धेन सुखदुःखाभावयोरेव
फलत्वमस्तु तेन सम्बन्धेन धनादेरिव सुखादेरपि पुरुषनिष्ठ-
त्वादिति” प्र० भा० युक्तञ्चैतत् “कामः संकल्पोविचिकित्सा
श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्मीरित्येत्सर्व्वं मन एवेति”
श्रुत्या कामादेरन्तःकरण--धर्म्मत्वोक्तेस्तत्फलस्य सुखादेस्तद्ध-
र्म्मौचित्यात् तेषां मनोधर्म्मत्वमिति सांख्यादीनां मतमेवं
वेदान्तिनाम् “तद्गुणसारदिति” शा० सू० तथैव भाष्यकृता
निर्ण्णीतत्वात् । इयांस्तु विशेषः सांख्यैर्विषयेष्वपि त्रिगुण-
कार्य्यत्वात् सुखादिकमस्तीतिमन्यन्तेययोक्तम्” सां० कौमु-
द्याम् । “सुखदुःखमोहाः परस्परविरोधिनः स्वखानुरूपाणि
सुखदुः खमोहात्मकान्येव निमित्तानि कल्पयन्ति । तेषाञ्च
परस्परमभिभाव्याभिभावकभावान्नानात्वम् । तद्यथा एकैव
स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत
पृष्ठ ०७२२
कस्य हेतोः? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् ।
सैव स्त्री सपत्नीर्दुःखाकरोति तत्कस्य हेरोः? ताः प्रति
तस्या दुःखरूपसमुद्भवात् । एवं पुरुषान्तरं तामविन्दत्
सैव मोहयति तत्कस्य हेतोः? तत्प्रति तस्या मोहरूप-
समुद्भवात् । अनया च स्त्रिया सर्वे भावा व्याख्याताः ।
तत्र यत्सुखहेतुस्तत्सुखात्मकं सत्वं, यत् दुःखहेतुस्तद्-
दुखात्मकं रजः, यन्मोहहेतुस्तन्भोहात्मकं तमः, मुखप्र-
काशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः
सहदर्शनात् । तस्मात् सुखदुःखमोहैरिव विरोधिभिरेकैकगुण-
वृत्तिभिः सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नीयन्ते एवं
दुःखीपष्टम्भकत्वप्रवर्त्तकत्वैरेवं मोहगुरुत्वावरणैरिति सिद्धं
त्रैगुण्यमिति” । सां० सूत्रे प्र० भाष्ये चोक्तम् ।
“मखदुःखमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्म्मात्मकद्रव्य-
जन्या कार्यत्वे सति सुखदुःखमोहात्मकत्वात् कान्ता-
दिवदिति कारणगुणानुसारेणैव कार्य्यगुणौवित्यं चात्रानु-
कूलस्तर्कः श्रुतिस्मृतयोऽपीति मन्तव्यम् । ननु विषयेषु
सुखादिमत्त्वे प्रमाणं नास्ति । अहं सुखीत्याद्येवानुभवात्
तत् कथं कान्तादिविषयो दृष्टान्त इति चेन्न सुखा-
द्यात्मकबुद्धिकार्य्यतया स्रक्सुखं चन्दनसुखमित्याद्यनुभवेन
च विषयाणामपि सुखादिधर्मकत्वसिद्धेः श्रुतिस्मृतिप्रामा-
ण्याच्च । किञ्च यस्यान्वयव्यतिरेकौ सुखादिना सह दृश्येते
तस्यैव सुखाद्युपादानत्वमपरिकल्प्यान्यस्योपादानत्वकल्पने
कारणद्वयकल्पनागौरवम् । अपि चान्योऽन्यसंवादेन प्रत्य-
भिज्ञया च विषयेषु सर्बपुरुषसाधारणस्थिरसुखसिद्धिः ।
तत्सुखग्रहणायास्मन्नये वृत्तिनियमादिकल्पनागौरवं च
फलमुखत्वान्न दोपावहम् । अन्यथा प्रत्यभिज्ञयावयव्य-
सिद्धिप्रसङ्गात् तत्कारणादिकल्पनागौरवादिति । विषयेऽपि
सुखादिकं च मार्कण्डेये प्रोक्तम् । “तत् सन्तु चेतस्यथवापि
देहे सुखानि दुःखानि च किं ममात्र” इति । अहं
पखीपादिप्रत्ययस्तु अहं धनीत्यादीप्रत्ययवत् खखामिभावा-
ख्यसम्बन्धविषयकस्तेषां प्रत्ययानां समवायसम्बन्धविषयकत्वम-
मनिरासर्थं तु सुखदुः खिमूढेभ्यः पुरुषो विविच्यते शास्त्रे-
ष्विति । शब्दादिषु च सुखाद्यात्मताव्यवहार एकार्थसमवा-
यात् । अस्तु वा शब्दादिषु साक्षादेव सुखमुक्तप्रभाणेभ्यः ।
विषयगतसुखादेश्च बुद्धिमात्रग्राह्यत्वं फलबलात् । यत् तु
विषयासम्प्रयोगकाले शान्तिसुखं सात्त्विकं सुषुप्त्यादौ
व्यज्यते तदेव बुद्धिधर्म्म आत्मसुखमुच्यत इति” ।
वैशेचिकादयस्त सुखादिकमात्मनएवधर्म्मः “बुद्ध्यादिषट्कं
संख्यादिपञ्चकं भावना तथा । घर्म्माधर्म्मौ गुणाएते
आत्ममः स्युश्चतुर्द्दश” इति भाषा० उक्तेः । मनसोऽणुत्वाङ्गी-
कारेण तेषां तद्गुणत्वे ज्ञानसुखादीनामप्रत्यक्षत्वापत्तेः ।
प्रत्यक्षे चाश्रयमहत्त्वस्य हेतुत्वात् मनसश्च ज्ञानायौगपद्ये-
नाणुत्वेन महत्त्वाभावादिति युक्तिं प्रदर्श्य श्रुतौ
मनोधर्म्मत्वचनन्तु आयुर्घृतमित्यादिवदौपचारिकमित्यङ्गी-
घक्रुः । तदेतन्मतमसमीचीनम् एकदा ह्रदावगाहे
सकलदेहव्यापिशैत्योपलब्धेः नृत्यगीताभिनयादेरेकदा श्रवण-
दर्शनादेर्दर्शनान् मनसोऽणुत्वासिद्धेः श्रौतमनोधर्म्मत्वस्य
निमित्तपरत्वकल्पनेऽपि “अन्नमशितं त्रेधा विधीयते
तस्य यःस्थविष्ठोधातुस्तत्पुरीषं यन्मध्यमं तन्मांसं
योऽणिष्ठस्तन्मन” इति छा० उ० श्रुत्या “अन्नमयं हि सौम्य! ।
मन” इत्युक्तस्य मनसोऽन्नविकारत्वस्य समर्थनाय प्रवृत्तया
बोधितस्य मनसोऽन्नजन्यत्वस्य अन्नभोजनोपचयापचयाभ्यां
तद्वृद्धिह्रासावगतेर्नाणुमानता मनस इति आगमविरोधे
अनुमानाप्रवृत्तेः अङ्गीकृतञ्च तैरपि शङ्खदृष्टान्तेन प्राण्य-
ङ्गत्वहेतुना नरकपालशुचित्वानुमाने “नारं स्पृष्ट्वास्थि
संस्नेहं सचेलं जलमाविशेत्” मनुस्मृत्या बाधादप्रामाण्य-
मतः प्रकृतेऽपि तथेति । मनसोऽनणुत्वाभिप्रायेणैव
“क्रमशोऽक्रमशश्च वृत्तयः” सां० सूत्रे मनसोऽनणुत्व-
निरासेन युगपद्वृत्तयोऽङ्गीकृताः । तथा सांख्य
कारिकाकौमुद्योरुक्तम् । “युगपच्चतुष्टयस्य तु वृत्तिः
क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाप्यदृष्टे त्रयस्य
तत्पूर्विका वृत्तिः” का० “दृष्टे यथा यदा सन्तमसान्धकारे
विद्युत्सम्पातमात्राद्व्याघ्रमभिमुखमतिसन्निहितं पश्यति
तदा खल्वस्यालोचनसङ्कल्पाभिमानाध्यवसाया युगपदेव
प्रादुर्भवन्ति, यतस्तत उत्पत्य तत्स्थानादेकपदेऽप-
सरति । क्रमशश्च यदा मन्दालोके प्रथमं तावद्वस्तु-
मात्रं सम्मुग्धमालोचयति अथ प्रणिहितमनाः कर्णा-
न्ताकृष्टसशरः कुञ्चितपादः शिञ्चितज्यामण्डलीकृतको-
दण्डः प्रचण्डतरः पाटच्चरोऽयमिति निश्चिनोति अथ च
मां प्रत्येतीत्यभिमन्यते अथाध्यवस्यति अपसरामीतः स्थाना-
दिति । परोक्षे तु अन्तःकरणत्रयस्य बाह्ह्येन्द्रियवर्ज्जं
वृत्तिरित्याह अदृष्टे त्रयस्य तत्पूर्विका वृत्तिः । अन्तः-
करणत्रयस्य युगपत् क्रमेण च वृत्तिर्दृष्टपूर्विकेति ।
अनुमानागमस्मृतयोहि परोक्षेऽर्थे दर्शनपूर्वाः प्रवर्त्तन्ते
नान्यथा । यथा दृष्टे तथा, अदृष्टेऽपीति योजना” कौ०
आकरेऽस्य प्रपञ्चः । तच्च सुखं त्रिविधम्” । यथा
पृष्ठ ०७२३
“सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ्य! ३६ । अभ्या-
साद्रमते यत्र दुःखान्तञ्च नियच्छति । यत्तदग्रे विषमिव
परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्म-
षुद्धिप्रसादजम् ३७ । विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतो-
पमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम्
३८ । यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रा-
खस्यप्रमादोयं तत्तामसमुदाहृतम् ३९ । न तदस्ति पृथि-
व्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्त
यदेभिः स्यात्त्रिभिर्गुणैः ४०” गीतीक्तेः । “सुखस्य त्रैविध्यं
प्रतिजानीते सुखन्त्विति । स्पष्टोऽर्थः ३६ । तत्र सात्त्विकं
सुखमाह अभ्यासादिति सार्द्धेन । यत्र यस्मिन् मुखे
अभ्यासाद्रमते न तु विषयसुखैव सहसा रतिं प्राप्नोति
यस्मिन् रममाणश्च दुःखस्यान्तमवसानं नितरां यच्छति
प्राप्नोति । कीवृशं, यत्तत् किमपि अग्रे प्रथमं विषमिव
मनःसंयमाधीनत्वाद्दःखावहमिव भवति परिणामे
त्त्वमृतसदृशं आत्मविषया बुद्धिरात्मबुद्धिस्तस्याः प्रसादो-
रजस्तमोमयत्यागेन स्वच्छतयावस्थानं ततोजातं यत् सुखं
तत्सात्त्विकं प्रोक्तं योगिभिः ३७ । राजसं सुखमाह
विषयेति । विषयाणामिन्द्रियाणाञ्च संयोगात् यत्तत्
प्रसिद्धं स्त्रीसंसर्गादिसुखं अमृतमुपमा यस्य तादृशं
भवति । अग्रे प्रथमं परिणामे च विषतुल्यं इहामुत्र
च दुःखहेतुत्वात् तत् सुखं राजसं स्मृतम् ३८ । तामसं
सुखमाह यदिति । अग्ने च प्रथमक्षणे अनुबन्धे च
पश्चादपि यत्सुखमात्मनो मोहकरम् । तदेवाह निद्रा च
आलस्यञ्च प्रमादश्च कर्त्तव्यावधानराहित्येन ममोग्राह्य-
मेतेभ्य उत्तिष्ठति यत्सुखं तत्तामसमुदाहृतम् ३९ ।
अनुक्तमपि संगृह्णन् प्रकरणार्थमुपसंहरति न तदिति
त्रिभिः । एभिः प्रकृतिसंभवैः सत्त्वादिभिर्गुणैर्मुक्तं
हीनं सत्त्वं प्राणिजातम् अन्यद्वा यत् स्यात्तत् पृथिव्यां
मनुथ्यादिषु दिवि देवेषु च क्वापि नास्तीत्यर्थः” श्रीधरः ।
वैषयिके सुखदुःखे च इष्टानिष्टविषयेन्द्रियसन्निकर्षज-
ज्ञानात् जायमाने अनुभूयेते क्षणिके च “मात्रास्पर्शास्तु
कौन्तेय! शीतोष्णसुखदुःखदाः । आगमापायिनोऽ-
नित्यास्तांस्तितिक्षख भारत! इति गीतोक्तेः । वैषयिक-
सुखस्य च क्षणिकत्वात् परिणामादिदुःखरूपत्वाच्च विवे-
किभिः त्याज्यत्वमेव “त्याज्यं सुखं विषयसङ्गमजन्म पुंसाम्”
इत्युक्तेः प्रागुक्त पातञ्जलसूत्राच्च विषयेन्द्रियसंयोगाज्जातन्तु
सुखं राजसं प्रागुक्तनीतावाक्यात् । तत्र विषयाश्च शब्द-
स्पर्शरूपरसगन्धाः यथायथं तद्वन्तश्च तत्र शब्दविशेषरूप
गीतादिषु श्रवणेन्द्रियसंबद्धेषु यत् सुखं तत् वैषयिक-
मेव किंन्तु आत्मोपासनाङ्गत्वेन गीतादिकमपि चित्तै-
काग्रतासम्पादुनद्वारा मोक्षसाधनंभवति तदुक्तं
यास्मृतौ मिताक्षरायाञ्च ।
“यस्य पुनश्चित्तवृत्तिर्न्निराकारालम्बनतया समाधौ
नामिरमते तेन शब्दब्रह्मोपासनं कार्य्यमित्याह । “यथा-
विधानेन पठन् सामगानमविच्युतम् । सावधानस्तदभ्यासा-
त्परंब्रह्माधिगच्छति” या० “खाध्यायावगतमार्गानतिक्रमेण
सामगानं साम्नोगानात्मकत्वेऽपि गानमिति विशेषणम्
अगीतमन्त्रव्युदासार्थम् । अविच्युतमस्खलितम् ।
सावधानः सामध्वन्थनुस्यूतात्मैकाग्र्यचित्रवृत्तिः पठन् तदभ्या-
सवशात्तत्र निष्णातः शब्दाकारब्रह्मण उपासने परब्रह्मा-
धिगच्छति । तदुक्तम् । “शब्दब्रह्मणि निष्णातः परं ब्रह्मा-
धिगच्छतीति” । यस्य पुनर्वैदिक्याङ्गीतौ चित्तं नामिरमते
तेन लौकिकगीतानुस्यूतात्मोपासनङ्कार्यमित्याह । “अपरा-
न्तकमुल्लोप्यं मद्रकम्प्रकरीन्तथा । औवेणकं सरोविन्दुमुत्तरङ्गी-
तकागि च । ऋग्गाथापाणिकादक्षविहिता ब्रह्मगीतिका ।
गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम्” या० । अपरान्त-
कोल्लोप्यमद्रकप्रकर्य्यौवेणकसरोविन्दुसहितञ्चोत्तरमित्येतानि
प्रकरणाख्यानि सप्त गीतकानि । चशब्दादासा-
रितवर्द्धमानकादिमहागीतकानि गृह्यन्ते । गाथाद्या-
श्चतस्रोगीतिका गृह्यन्ते । ऋग्गाथाद्याश्चतस्रोगी-
तिकाइत्येतदपरान्तकादिगीतजातमध्यारोपितात्ममवम्मोक्ष
साधनत्वान्मोक्षसंज्ञितं मन्तव्यम् तदभ्यासस्यैकाग्रता-
पादनद्वारेणार्मैकतापत्तिकारणत्वात् । किञ्च । “वीष्णा-
वादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रया-
सेन मोक्षमार्गं नियच्छति” या० । भरतमुनिप्रतिपादित
वीणायादनतत्त्ववेदी श्रूयत इति श्रुतिर्द्वाविंशतिविधा
सप्तस्वरेषु । तथा हि षड्जमध्यमपञ्चमाः प्रत्येकं चतुः-
श्रुतय ऋषभधैवतौ प्रत्येकन्त्रिश्रुती । गान्धारनिषादौ
प्रत्येकं द्विश्रुती इति । जातयस्तु षड्जादयः सप्त श्रुद्धाः
सङ्करजातयस्त्वेकादशेत्येवमष्टादशविधास्तासु विशारदः
प्रवीणः तालैति नीतप्रमाणङ्कथ्यते तत्खरूपज्ञश्च
तदनुविद्धब्रह्मोपासनतया तालादिभङ्गभयाच्चित्तवृत्ते-
रात्मैकाग्रतायाः सुकरत्वादल्पायासेनैव सुक्तिपथन्नियच्छति
प्राप्नोति । चित्तविक्षेपाद्यन्तारायोपेतस्य गीतज्ञस्य
फलान्वरमाह । “गीतज्ञोयदि योगेन नाप्नोति परमम्पदम् ।
पृष्ठ ०७२४
रुद्रस्यानुचरोभूत्वा सह तेनैव मोदते” या० । गीतज्ञोयदि-
कथञ्चिद्योगेन परमम्पदन्न प्राप्नोति । तर्हि रुद्रस्य सचिवो-
भूत्वा तेनैव सह मोदते क्रीडति” मिता० । विवृतिर्गानशब्दे ।
सुखं दुःखञ्च न प्रतिनियवविषयजन्यं व्यक्तिभेदेन
कालभेदेन देशादिभेदेन च सुखहेतोरपि दुःखहेतुत्वं
दुःखहेतोरपि सुखहेतुत्वम् । तथा हि खलादिं प्रति
साधुभिरुक्तस्य विनयवाक्यस्यापि तं प्रति दुःखहेतुत्वं
कथमन्यथा तस्य श्रवणात् खलादेरहितकर्म्मणि प्रवृत्तिः स्यात्
एवं वैरिणं प्रत्यपि सामवादस्य दुःखहेतुत्वम् एतदा-
शयेनैव “सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः” इति
माघे वर्णितम् । तथा चन्द्रकिरणनलिनभ्रमरध्वन्यादेरन्यत्र
सुखकरस्यापि विरहिणं प्रति दुःखहेतुत्वम्, । एवंदुःखहेतो-
र्विष्ठाहारादेरपि शूकरं प्रति सुखकरत्वम् इति तत्र न वस्तु
नियमः । अतएवोक्तम् “विषमप्यमृतं क्वचिद्भवेदमृतं वा
विषमीश्वरेच्छया । हिमसेकविपत्तिरुत्र मे नलिनी पूर्व्व-
निदर्शनं गता” रघुः एवं कालभेदेऽपि सुखदुःखकरयो-
र्विपर्य्ययः यथा शोतकाले दुःखहेतोः ग्रीष्मे सुखहेतुत्वम्
एवमग्न्यादितापस्य शीतकाले सुखकरस्य ग्रीष्मे दुःखकरत्वम्
एवं देशभेदेऽपि यथा तिन्तिद्यादेरन्यत्र सेवने रोगादि
दुःखदत्वं क्षारदेशे तु सुखकरत्वम् अतएवोक्तं
“किमाश्चर्य्यं क्षारदेशे प्राणदा यमदूतिकेति” यथा च
वस्तुमात्रस्य त्रिगुणात्मकत्वात् व्यक्तिभेदेन कालादि-
भेदेन च सत्त्वरजस्तमसां समुद्रेकात् विपर्य्यस्तरूपता-
पत्तिः तथा प्रागुक्तसांख्वतत्त्वकौमुदी वाक्ये स्पष्टैव । अत
एव रसादौ लोकसिद्धकारंणविपर्य्ययः” सा० द० उक्तः यथा
“हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् । शोकहर्षा-
दयो लोके जायन्तां नाम लौकिकाः । अलौकिकविभा-
वत्वं प्राप्तेभ्यः काव्यसंश्रयात् । सुखं सञ्चायते तेभ्यः
सर्व्वेभ्योऽपीति का क्षतिः । ये खलु रामवनवासादयो
लोके दुःखकारणानि इत्युच्यन्ते त एव हि काव्य-
नाट्यसमर्पि ता अलौकिकविभावनव्यापारवत्तया कारण-
शब्दवाच्यत्वं विहायालौकिकविभावशब्दवाच्यत्वं भजन्ते ।
तेभ्यश्च सुरते दन्तघातादिभ्य इव सुखमेव जायते ।
अतश्च लौकिकशाकहर्षादिकारणेभ्यो लौकिकशोकहर्षादयो
जायन्ते इति लोक एव प्रतिनियमः । काव्ये पुनः
“सर्व्वेयोऽपि विभावादिभ्यः सुखमेव जायते” इति
नियमान्न कश्चिद्दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य
काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपातादयो जायन्तै-
त्युच्यते । अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः” ।
वैषयिकसुखेषु काव्यादिरसास्वादसुखमतीवचमत्कारा-
धायकतया ब्रह्मानन्दतुल्यमित्यालङ्कारिका मन्यन्ते यथोक्तम्”
सा० द० । “सत्वेद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्या-
न्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः । लोकोत्तरचमत्कार-
प्राणः कैश्चित् प्रमातृभिः । स्वाकारवदभिन्नत्वेनायमाखा-
द्यते रसः । रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते ।
इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्म्मः
सत्वं तस्योद्रेकः रजस्तमसी अभिभूयाविर्भावः । अत्र च
हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् । अखण्ड इत्येक
एवायं विभावादिरत्यदिप्रकाशलक्षणचमत्कारात्मकः ।
अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या!
चिन्मय इति स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्तार-
रूपो विस्मयापरपर्य्यायः” । “रसे सारश्चमत्कारः सर्व्व-
त्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः” ।
“पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिंमिति” । यद्यपि
“स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशा
रसस्यास्वादानतिरिक्तत्वगुक्तं तथापि “रसः खाद्यते” इति
काल्पनिकं भेदमुररीकृत्य कर्म्मकर्त्तरि वा प्रयोगः । तदुक्तम् ।
“रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रस”
इति च । “आनन्दजाश्रुभिरनुस्रियमाणमार्गान्” “स तमान-
न्दमविन्दत द्विज” इति च नैषधम् एवं तत्रत्यसर्व्वसर्गेषु
उपान्तिमश्लोकेषु उदा० । “आनन्दाद्ध्येव प्रजाः प्रजायन्ते
आनन्देन जीवन्ति आनन्दे प्रविलीयन्ते” इति श्रुतिः ।
५ विष्णौ । “आनन्दीनन्दनोनन्द” विष्णुस० । ६ आदिगुरौ-
त्रिकले दगणे ७ षड़िवंशैरगणै रचिते दण्डकछन्दोभेदे ।
आनन्दयति आ + नदि--णिच्--अच् । ८ आनन्दकरे ति० ।
षष्टिसंवत्सरमध्ये अष्टाचत्वारिंशे ९ वर्षभेदे पु० । “निष्पत्तिः
सर्व्वशस्यानां सर्वशस्यमहार्थता । घृतं तैलं समं याति
आनन्दे नन्दिनी प्रजा” ज्योति० तल्लक्षणम् । १० मद्ये न० ।
११ गृहभेदे च तल्लक्ष्म गृहशब्दे वक्ष्यते । १२ विष्णु-
गणभेदे पु० ।

आनन्दकानन न० आनन्द हेतुः काननम् । अविमुक्ते

काशीक्षेत्रे आनन्दवनादयोऽप्यत्र । तस्यानन्दवननामनि-
रुक्तिः काशीखण्डे २६ अ० दर्शिता यथा अविमुक्तं
प्रकृत्य । “अस्यानन्दवनं नाम पुराऽकारि पिनाकिना ।
क्षेत्रस्यानन्दहेतुत्वादविमुक्तमनन्तरम् । आनन्दकन्दवी-
जानामङ्क राणि यतस्ततः । ज्ञेयानि सर्वलिङ्गानि तस्मि-
पृष्ठ ०७२५
न्नानन्दकानने” । तस्य चानन्दहेतुत्वं तत्र मरणेन तत्त्व-
ज्ञानसम्पादनद्वारा ब्रह्मस्वरूपानन्दप्राप्तिहेतुत्वात् यथोक्तं
जावालीपनिषदि अविमुक्तं प्रकृत्य “तत्र हि जन्तोः
प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती-
भूय मोक्षी भवति” ।

आनन्दज त्रि० आनन्दात् जायते जन--ड ५ त० ।

आनन्दजातेअश्रुपातादौ सत्त्वगुणोद्रेके हि चेतसो द्रुत्त्वात्
नेत्रादिद्वारेण तत्प्रेरितस्य जलविन्दोः क्षरणं भवति
यथोक्तम्” सा० द० “अश्रुपातादयस्तद्वद्द्रुतत्वाच्चे तसोमताः”
“आनन्दजाश्रुभिरनुस्त्रियमाणमार्गान्” नैष० ।

आनन्दथु पु० आ + नदि--भावे अथुच् । आनन्दे सुखे

नन्दथुरप्यत्र “यस्यासौ तस्य नन्दथुः” भट्टिः ।

आनन्ददत्त पु० आनन्दोदत्तो येन । मेहने शब्दचि०

मेहनाद्धि प्रचुरानन्दोभवतीति तस्य तयात्वम् ।

आनन्दन न० आनन्दयत्यनेन आ + नदि--णिच् करणे ल्युट् ।

यातायातर्काले मित्रादेः १ आरोग्यस्वागतादिप्रश्ने २ तात्का-
लिकालिङ्गने च । भावे ल्युट् । ३ सुखजनने ।

आनन्दपट पु० आनन्दजनकः पटः । नवोढावस्त्रे हारा० ।

आनन्दपूर्ण्ण पु० आनन्देन पूर्ण्णस्तृप्तः । सदाप्तकामत्वेन

काम्यान्तरा भावात् परितृप्ते परमात्मनि । २ अतिशयिता
नन्दयुक्ते त्रि० ॥ आनन्दप्रचुरादयोऽप्युभद्यत्र । नैयायिका-
दिमते तु आनन्देन दुःखाभावेन पूर्ण्णः अपरिच्छन्नतया
विभुत्वात् इति इति भेदः ।

आनन्दप्रभव पु० आनन्दःप्रभवः प्रभवापादनं यस्य ।

१ वीर्य्ये रेतसि तस्य सात्विकान्सन्दोदयादेव प्रवृत्तेस्तथात्वम् ।
२ मूतादिप्रपञ्चे “आनन्दाद्ध्येव प्रजाः प्रजायन्ते आनन्देन
जीवन्ति आनन्दे प्रविलीयन्ते” इति श्रुत्या भूतानां ब्रह्म-
स्वरूपानन्दभवत्वात् तथात्वम् ।

आनन्दभुज् पु० आनन्दं भुङ्क्ते भुज--क्विप् । सुषुप्त्यवस्थापन्ने

प्राज्ञे जीवभेदे “आनन्दभुक् चेतोमुखः प्राज्ञः” इति
श्रुतिः यथा लोके आयासशून्यः सुखी आनन्दभुगुच्यते तथा
सुषुप्तोऽपि सर्वायासशून्यतथा आनन्दभुगित्युच्यते ।

आनन्दभैरव पु० कर्म्म० । शिवमूर्त्तिभेदे तस्य पत्नी ङीप् ।

प्रकृतिस्वरूपायां परदेवतायाम् तत्पत्न्यां स्त्री
अनयोरेव रुद्रयामले प्रश्नप्रतिवचनकर्त्तृत्वम् ।

आनन्दमय पु० आनन्दः प्रचुरोऽस्य प्राचुर्य्ये मयट् । प्रचुरा-

नन्दस्वरूपे परमात्मनि “आनन्दमयोऽभ्यासात्” शा० सू० ।
यथा च आनन्दप्रचुरत्वात् तस्य आनन्दभयत्वं तथा तद्भा-
ष्ये निर्ण्णीतम् यथा “तैत्तिरीयकेऽन्नमयं मनोमयं
विज्ञानमयं चानुक्रम्याम्नायते “तस्माद्वा एतस्मा
द्विज्ञानमयादन्योऽन्तर आत्मानन्दमय” इति तत्र
संशयः किमिहानन्दमयशब्देन परएवात्मोच्यते यतप्र-
कृतं “सत्यं ज्ञानमनन्तं ब्रह्मेति” किं वान्नमयादिवत्
ब्रह्मणोऽर्थान्तरमिति । किन्तावत्प्राप्तं ब्रह्मणोऽर्थान्तरममुख्य
आत्मानन्दमयः स्यात्कस्मात्? अन्नमयामुख्यात्मप्रवाहपतित-
त्वात् । अथापि स्यात्सर्वान्तरत्वादानन्दम्दयोमुख्य एवात्मे-
ति, न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च । मुख्थ-
श्चेदात्मा स्यात् न प्रियादिसंस्पर्शः स्यात् इह तु “तस्य प्रियमेव
शिर” इत्यादि श्रूयते । शारीरत्वञ्च श्रूयते । “तस्यैकएव-
शारीर आत्मा यः पूर्वस्येति” । तस्य पूर्वस्य विज्ञानमय-
स्यैकएव शारीर आत्मा यएष आनन्दमय इत्यर्थः । न च
सशरीरस्य सतः प्रियाप्रियसंस्पर्शीवारयितुंशक्यः । तस्मात्
संसार्य्येवानन्दमय आत्माइत्येवं प्राप्ते इदमुच्यते । परएव
आनन्दमयो भवितुमर्हति कुतः? अभ्यासात्परस्मिन्नेवह्या-
त्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते आनन्दमयं प्रस्तुत्य
“रसोवैस” इति तस्यैव रसत्वमुक्त्वोच्यते “रसं ह्येवायं लब्ध्वानन्दी
भवति कोह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दोन
स्यादेष ह्येवानन्दायति सैषानन्दस्य मीमांसा भवति” ।
“एष आनन्दमयमात्मानमुपसंक्रामति” “आनन्दं ब्रह्मणो-
विद्वान् न बिभेति कुतश्चन” “आनन्दो ब्रह्मेति व्यजाना-
दिति” च । श्रुत्यन्तरे च “विज्ञानमानन्दं ब्रह्मेति” ब्रह्म-
ण्येवानन्दशब्दोदृष्टः । एवमानन्दशब्दस्य बहुकृत्वोब्रह्मण्मे-
वाभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते । यत्तूक्तम्
अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यात्म-
त्वमिति । नासौ दोषः आनन्दमयस्य सर्वान्तर-
त्वात् । मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धि-
मनुसरदन्नमयं शरीरमनात्मानमत्यन्तभूढ़ानामात्मत्वेन
प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्
ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मा-
नमात्मेति ग्राहयत् प्रतिपत्तिसौकर्य्यापेक्षया सर्वान्तरं
मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम् ।
यथाऽरुन्धतीनिदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शि-
तासु याऽन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति
एवमिहाप्यानन्दमयस्य सर्वान्तरत्वाम्मुख्यमात्मत्वम् । यत्तु
ब्रूषे प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन
इति अतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्य-
पृष्ठ ०७२६
दोषः । शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया
प्रदर्श्यमानत्वात् न पुनः साक्षादेव सशरीरत्वं संसारिवद्
तस्मादानन्दमयः परएवात्मा । “विकारशब्दान्नेति
चेन्न प्राचुर्च्यात्” सू० । अत्राह नानन्दमयः परात्मा
भवितुमर्हति कस्मात्? विकारशब्दात् । प्रकृतिवचना-
दयमन्यः शब्दो विकारवचनः समधिगत आनन्दमय इति
मयटोविकारार्थत्वात् तस्मादन्नमयादिशब्दवद्विकारविषय
एवायमानन्दमयशब्द इति चेन्न प्राचुर्य्यार्थेऽपि मयटः
स्मरणात् “तत्प्रतिकृतवचने मयड़िति” (पा०) प्रचुरतायामपि
हि मयट् स्मर्य्यते । यथान्नमयो यज्ञ इति अन्नप्रचुर
उच्यते । आनन्दप्रचुरत्वञ्च ब्रह्मणः मनुष्यत्वादारभ्योत्तर-
स्मिम्नुत्तरस्मिन् स्थाने शतगुण आनन्द इत्युक्त्वा
ब्रह्मानन्दस्य निरतिशयत्वावधारणात् तस्मात्प्राचुर्य्यार्थे
मयट् । “तद्धेतुव्यपदेशाच्च” सू० । इतश्च प्राचुर्य्यार्थे
मयट् यस्मादानन्दहेतुत्वं ब्रह्मणोव्यपदिशति श्रुतिः
“एष ह्येवानन्दायतीति” । आनन्दयतीत्यर्थः । योह्य-
न्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति
यथा लोके योऽन्येषां धनित्वमापादयति स प्रचुरधन
इति गम्यते तद्वत् । तस्मात्प्राचुर्य्यार्थेऽपि मयटः सम्भ-
वादानन्दमयः परएव आत्माः । “मान्त्रवर्णिकमेव च
गीयते” सू० । इतश्चानन्दमयः परएवात्मा यस्मादु “ब्रह्मविदा-
प्नोति परम्” इत्युपक्रम्यहि “सत्यं ज्ञानमनन्तं ब्रह्म”
इत्यस्मिन्मन्त्रे यद्ब्रह्मप्रकृतं सत्यज्ञानानन्तविशेषणैर्निर्धारितं,
यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च
भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरं,
यस्य विज्ञानायाऽन्थोऽन्तर आत्मेति प्रक्रान्तं, तन्मान्त्रव-
र्णिकमेव ब्रह्मेह गीयते “योऽन्योन्तर आत्मानन्दमय” इति ।
मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् अविरोधात् । अन्यथा हि
प्रकृतहानाप्रकृतप्रक्रिये स्यातां, न चान्नमयादिभ्यैवानन्द-
मयादन्योन्तरं आत्माऽभिधीयते एतन्निष्ठैव च सैषा
भार्गवी वारुणी विद्या “आनन्दो ब्रह्मेतिव्यजानादिति” ।
तस्मादानन्दमयः परएवात्मा” शा० भा० ।
२ आनन्दप्रचुरे त्रि० सर्व्वायासशून्यसुषुप्त्यवस्थापन्ने
३ आनन्दमयकोषाभिमानिनि जीवे च । “काचिदन्तर्मुख्रावृत्तिरा-
नन्दप्रतिविम्बभाक् । पुण्यभोगे भोगशान्तौ निद्रारूपेण
जायते । कादाचित्कीत्यतीनात्मा स्यादानन्दमयोऽव्ययम् ।
विम्बभूतोय आनन्द आत्मासौ सर्ब्बदा स्थितः” पञ्चद०
उक्तेः जीवस्य पारमार्थिकानन्दरूपपरात्मस्वरूपत्वेऽपि
सुषुप्तौ तस्य स्फुरणेऽपि च स्वल्पकालिकत्वात् ब्रह्मानन्दवै
लक्षण्यम् । स्त्रियां ङीप् । साच ४ दुर्गामूर्त्तिभेदे स्त्री० ।

आनन्दमयकीष पु० आनन्दमयस्य परमात्मनः कोष

इवावरकः । वेदान्तिमतसिद्धपञ्चकोषमध्ये पञ्चमे कोषे
अविद्यास्वरूपे कारणशरीरे । आनन्दमयकोषस्यरूपा-
दिकमुक्तं विवे० चू० ।
“आनन्दप्रतिविम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादा-
नन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्य-
स्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं मूत्वानन्दति
यत्र साधुतनुभृम्मात्रः प्रयत्नं विना । आनन्दमय-
कोषस्य सुषुप्तौ स्फूर्त्तिरुत्कटा । स्वप्नजागरयोरीषदिष्ट-
सन्दर्शनादिना । नैवायमानन्दमयः परात्मा सोपाधिकत्वात्
प्रकृतेर्विकारात् । कार्य्यत्वहेतोः सुकृतक्रियायां विकार-
सङ्घातसमाहितत्वात् । पञ्चानामपि कोषाणां निषेधे
युक्तितः श्रुतेः । तन्निषेधावधिः साक्षी बोधरूपोऽवशिष्यते ।
योऽयमात्मा स्वयंज्योतिः पञ्चकोषविलक्षंणः । अवस्था-
त्रयसाक्षी सन् निर्व्विकारो निरञ्जनः । सदानन्दः
स विज्ञेयः स्वात्मत्वेन विपश्चिता” ।
आनन्दमयशब्देऽधिकमुक्तम् । “गुहाहितं ब्रह्म यत्तत्
पञ्चकोषविवेकतः । बोद्धुं शक्यं ततः कोषपञ्चकं
प्रविच्यताम् । देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं
मनः । ततः कर्त्ता ततोभोक्ता गुहा सेयं परम्परा”
पञ्चद० ।

आनन्दसम्भव पु० आनन्दस्य ब्रह्मानन्दस्य सम्भवः प्रकाशः ।

तत्त्वज्ञानप्रयोज्ये ब्रह्मानन्दस्फुरणे । “आनन्दसम्भवे
लीनोभापश्यमुभयं मुने! पुरा० । सम्भवत्य स्मात्
अपादानेऽप् आनन्दः सम्भवोऽस्य । २ भूतादौ त्रि० आन्नन्द-
प्रभवशब्दे विवृतिः ।

आनन्दा स्त्री आनन्दयति सेवनात् आ + नदि--णिच्-

अच् । विजयायाम् (सिद्धि) राजनि० ।

आनन्दार्ण्णव पु० आनन्दः अर्ण्णव इव असीमत्वात् । ब्रह्मा-

नन्दे अस्वण्डानन्दरूपत्वादपरिच्छित्वाच्चास्य तथात्वम् ।
प्रमोदार्ण्णवादयोऽप्यत्र । “ब्रह्म प्रमोदार्ण्णवमिति” नैष० ।

आनन्दि पु० आ + नदि--इन् । १ हर्षे “कौशल्यानन्दिबर्द्ध-

नोराम” इति रामायणम् । २ कौतुके च ।

आनन्दित त्रि० आ + नदि--क्त । १ हर्षयुक्ते सुखिनि, आ +

नदिणिच्--क्त । यस्यानन्दो जनितस्तस्मिन् २ अभिनन्दिते त्रि० ।

आनन्दिन् त्रि० आ + नदि--णिनि । १ आनन्दयुक्ते णिच्-

णिनि । २ आनन्दकारके त्रि० उभयत्र स्त्रियां ङीप् ।
पृष्ठ ०७२७

आनन्दी स्त्री आनन्दयति आ + नदि--णिच्--अच्--गौरा०

ङीष् (आकन पाता (वृक्षभेदे शब्दच० ।

आनमन न० आनस्यते वशीक्रियतेऽनेन करणे ल्युट् । सन्तो-

षार्थानुगत्यादौ १ आनतौ । भावे ल्युट् । २ सम्यग्नमने ।
णिच् + ल्युट् । नम्रतापादके ३ व्यापारे ।

आनमित त्रि० आ + नम--णिच्--क्त । आवर्ज्जिते आनती-

कृते अनुकूलीकृते ।

आनम्य त्रि० आ + नम--णिच्--कर्म्मणि यत् । १ नम्रीकार्य्ये

आ + नम--ल्यप् । २ नमस्कृत्यर्थे अव्य० वा मलोपे तुकि
आनत्येत्यप्यत्र अव्य० ।

आनय पु० आ + नी--भावे अच् । देशात् देशानन्तरनयने ।

आनीयते वेदाद्यध्ययनायात्र आधारे अच् । उपनयनसं-
स्कारे हेम० । भावे ल्युट् । आनयनमप्युभयत्र न० ।

आनर्त्त उ० आनृत्यत्यत्र आधारे घञ् । १ नृत्यशालायां

२ युद्धे च तंत्र हि वीरैर्हर्षात् नृत्यमिव क्रियते इति तस्य
तथात्वम् । ३ सूर्य्यवंश्ये राजभेदे “मनोर्वैवस्वतस्यासन् पुत्रा
वै नव तत्समाः । इक्ष्वाकुश्चैव नाभागो धृष्णुः शर्य्याति-
रेव चं” इत्युपक्रम्य “शर्य्यातेर्मिथुनं त्वासीदानर्त्तोनाम
विश्रुतः । पुत्रः, कन्या सुकन्याख्या या पत्नी च्यवनस्य ह ।
आनर्त्तस्य तु दायादोरेवोनाम महाद्युतिः । आनर्त्तो-
विषयश्चासीत् पुरी चास्य कुशस्थली । रेवस्य रैवतः पुत्रः
ककुद्मीनाम धार्म्मिकः । ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य
कुशस्थलीम् । स कन्यासहितं श्रुत्वा गान्धर्व्वं ब्रह्मणो-
ऽन्तिके । मुहूर्त्तभूतं देवस्य गतं बहुयुगं प्रभो! ।
आजगाम युगैर्वाथ स्वां पुरीं यादवैर्वृताम् । कृतां द्वारवतीं
नाम्ना वहुद्वाराट्टतोरणाम् । भोजवृष्ण्यन्धकैर्गुप्तां वासु-
देवपुरोगमैः । ततस्तद्रैवतोज्ञात्वा यथातत्त्वमरिन्दम! ।
कन्थां तां बलदेवाय सुव्रतां नाम रेवतीम् । दत्त्वा
जगाम शिखरं मेरोस्तपसि संशितः” हरिवं० १० अ० ।
तत्कृते ४ देशभेदे आनर्त्तनामसूर्य्यवंशकृतत्वात्तस्य देशस्य
आनर्त्तनामत्वम् । तत्रैव देशे च इक्ष्वाकुपुत्रहर्य्य-
श्वस्य पश्चात् राज्यमासीत् यथोक्तम्”
“आनैर्त्तो नाम ते राष्ट्रं भविष्यत्यायतं महत् । तद्भ-
विष्यमहं मन्ये कालयोगेन पार्थिवः! । अध्यास्यतां
यथाकालं पार्थिवं वृत्तमुत्तमम् । यायातमपि वंशस्ते
समेष्यति च यादवम् । अमुवंशञ्च वंशस्ते सोमस्य
भविता किल । एष मे विभवस्तात तमेतं विषयोत्तमम् ।
दत्त्वा यास्यामि तपसे सागरं वरुणालयम् । लवणेन
समायुक्तस्त्वमिमं विषयोत्तमम् । पालयस्वाखिलं तात!
स्वस्य वंशस्य वृद्धये । वाढमित्येव हर्य्यश्वः प्रतिजग्राह
तत्पुरम् । स च दैत्यस्तपोवासं जगाम वरुणालयम् ।
हर्य्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे । निवेशयामास
पुरं वासार्थममरोपमः । आनर्त्तं नाम तद्राष्ट्रं सुराष्ट्रं
गोधनायुतम् । अचिरेणैव कालेन समृद्धं प्रत्यपद्यत ।
अनूपविषयञ्चैव वेलावनविभूषितम् । निविष्टं क्षेत्रशस्याढ्यं
प्राकारग्रामसंकुलम् । शशास स नृपः स्फीतं तद्राष्ट्रं
राष्ट्रवर्द्धनः” ९४ अ० । अत्र च समुद्रवेलादिकं तत्सीमादिक-
मुक्तम् । ५ तद्देशवासिजनेषु ६ तद्राजेषु च ७ चन्द्र-
वंश्ये राजभेदे पु० । “वर्षकेतोस्तु दायादो विभुर्नाम प्रजे-
श्वरः । आनर्त्तस्तु विभोः पुत्रो सुकुमारस्ततोऽभवत्” हरि
वं० ३२ । तत्र तद्देश राजपरत्वे “आनर्त्तान् कालकुटांश्च
कुलिन्दांश्च विजित्य सः” भा० स० २४ अ० । देशवासिपरत्वे ।
“उक्तवांश्च महावाहो! कासौ वृष्णिकुलाधमः । वासु-
देवः स मन्दात्मा वसुदेवसुतो गतः । तस्य युद्धार्थिनोदर्पं
युद्धे नाशयिताऽस्म्यहम् । आनर्त्ताः! सत्यमाख्यात तत्र
गन्ताऽस्मियत्र सः” इति आनर्त्तवासिनः प्रति साल्व-
वाक्यम् देशरपत्वे । “आनर्त्तेषु विमर्दञ्च क्षेपञ्चात्मनि
कौरव! इति भा० व० १४ अ० “आनर्त्तमेवाभिमुखाः
शिवेन गत्वा धनुर्वेदरतिप्रधानाः” भा० व० १८३ अ० ।
कृत्तिकादिभिस्त्रिभिस्त्रिभिर्नक्षत्रैः क्रूरग्रहपीड़ितैः क्रमेण
देशविशेषराजाशुभस्य वृ० सं० प्रतिपादनात् स्यात्यादिभि
स्त्रिभिर्मक्षत्रैः क्रूरग्रपीड़ितैस्तद्देशनृपस्याशुभं भवति यथा
वृ० स० कूर्म्मवि० । “वर्गेराग्नेयार्द्यः क्रूरग्रहपीड़ितैः
क्रमेण नृपाः । पाञ्चालोमागधिकः कालिङ्गश्च क्षयं यान्ति ।
आवन्तोऽथानर्त्तो मृत्यं चायाति सिन्धुसौविरः । राजा
च हारहौरोमद्रेवशोन्यश्च कोणेन्द्रः” । आनृत्यतीति
कर्त्तरि अच् । ८ जले न० तस्य तरङ्गरूपेण नृत्यस्येव
करणात्तथात्वम् ९ नर्त्तके त्रि० भावे घञ् । १० नर्त्तने पृ०

आनर्त्तक त्रि० आनर्त्तदेशे भवः धूमा० वुञ् । १ आनर्त्तदेश-

भबे । आनृत्यति आ + नृत--ण्वुल् । २ समन्ता-
न्नर्त्तके त्रि० ।

आनर्त्तपुर न० आनर्त्तदेशस्य प्रधानं पुरम् । द्वारवत्याम्पुर्य्याम् ।

आनर्त्तीय त्रि० आनर्त्तदेशे भबः वृद्वत्वात् छ । आनर्त्त-

देशभवे ।
पृष्ठ ०७२८

आनर्थक्य न० अनर्थस्य भावः ष्यञ् । १ निष्प्रयोज-

नत्वे प्रयोजनाभावे । “श्रुत्यानर्थक्यमिति चेत्” कात्या०
७१, ८, ५, “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्”
जै० सू० । अनेन क्रियाप्रतिपादकभिन्नवेदभागानामान-
र्थक्योक्तेः वेदान्तवाक्यानां न स्वार्थे प्रामाण्यं सप्तद्वीपा
वसुमतीत्यादिवाक्यवत् तेषां भूतार्थोपदेशकत्वात् तथा
च उपासनाविधिविशेषतयैव तेषां प्रामाण्यम् इति
मीमांसका मन्यन्ते । तदेतन्मतम् पूर्ब्बपक्षत्वेनोपन्यस्य “तत्तु
समन्वयादिति” शारीरकसूत्रभाष्ये निराकृतं यथा
“यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिवि-
षयतयैव शास्त्रेण ब्रह्म समर्प्यते । यथा यूपाहवनीया-
दीन्यलौकिकान्यपि विधिविशेषतया समर्प्यन्ते तद्वत् ।
प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य । तथा हि शास्त्रतात्-
षर्य्यविद आहुः । “दृष्टोहि तस्यार्थः । कर्माववोधन-
ञ्चोदनेति क्रियायाः प्रवर्त्तकं वचनम् । तस्य ज्ञानमुपदेशः ।
तद्भूतानां क्रियार्थेन समाम्नायः” । “आम्नायस्य क्रिया-
र्थत्वादानर्थक्यमतदर्थानामिति च” । अतः पुरुषं क्वचिद्विषय
विशेषे प्रवर्त्तयत् कुतश्चिद्विषयविशेषान्निवर्त्तयच्चार्थवच्छा-
स्त्रम् तच्छेषतया चान्यदुपयुक्तम् । तत्सामान्याद्वेदा-
न्तानामपि तथैवार्थवत्त्वं स्यात् । सति च विधिपरत्वे-
यथा स्यर्गादिकामस्याग्निहोत्रादि साधनं विधीयते
एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् । नन्विह
जिज्ञास्यवैलक्षण्यमुक्तम् । कर्मकाण्डे भव्योधर्मोजिज्ञास्यः
इह तु भूतं नित्यवृत्तं ब्रह्म जिज्ञास्यमिति । तत्र धर्म्म-
ज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितु
मर्हति । नार्हत्येवं भवितुम् । कार्यविधिप्रयुक्तस्यैव
ब्रह्मणः प्रतिपाद्यमानत्वात् । “आत्मा वा अरे द्रष्टव्यः”
“योऽयमात्माऽपहतपापमा सोऽन्वेष्टव्यः स विजिज्ञासि-
तव्यः” । “आत्मेत्येवोपासीत” । “आत्मानमेव लोकनुपा-
सीत” “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिषु हि विधानेषु
सत्सु कोऽसावात्मा ब्रह्मेत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे
वेदान्ता उपयुक्ताः नित्यः सर्वज्ञः सर्व्वगतोनित्यतृप्तोनित्य
शुद्धबुद्धमुक्तस्वभावोविज्ञानानन्दं ब्रह्मत्येवमादयः ।
तदुपासनाच्च शास्त्रदृष्टोऽदृष्टोमोक्षः फलं भविष्यति । कर्त्तव्य-
विध्यननुप्रवेशेन वस्तुमात्रकथने हानोपादानासम्भवात्
“सप्तद्वीपा वसुमती” “राजासौ गच्छति” इत्यादि वाक्यवद्वे-
दान्त वाक्यानामानर्थक्यमेव स्यात् । ननु वस्तुमात्रकथनेऽपि
रज्जुरियं सर्प इत्यादौ म्रान्तिजनितभीतिनिवर्त्तनेनार्थवत्त्वं
दृष्टं तथेहाप्यसंसार्य्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनि-
वर्तनेनार्थवत्त्वं स्यात् । स्यादेवं यदि रज्जुस्वरूपश्रव-
णैव सर्पभ्रान्तिः संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमा-
त्रेण निवर्त्तते श्रुतब्रह्मणोऽपि यथापूर्ब्बं सुखदुःखादि
संसारित्वधर्मदर्शनात् । “श्रोतव्योमन्तव्योनिदिध्यासितव्यः”
इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्दर्शनात् ।
तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माऽभ्युप-
गन्तव्यमिति” (पूर्ब्बपक्षः) । “यदपि शास्त्र तात्पर्य्य विदा-
मनुक्रमणम् । दृष्टोहि तस्यार्थः कर्म्माववोधनमित्येवमादि ।
तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्ट-
व्यम् । अपि च “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्था-
नाम्” इत्येतदेकान्तेनाभ्युगच्छतां भूतोपदेशानामानर्थक्यप्र-
सङ्गः । प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतञ्चेत् वस्तूपदिशति
भव्यार्थत्वेन, कूटस्थं नित्यंभूतं नोपदिशतीत्यत्रकोहेतुः? ।
न हि भूतमुपदिश्यमानं क्रिया भवति । अक्रियात्वेपि
भूतस्य क्रियासाधनत्वात् क्रियार्थएव भूतोपदेश इति चेन्नै-
ष दोषः । क्रियार्थत्वेऽपि क्रियानिर्वर्त्तनर्शक्तिमद्वस्तूपदि-
ष्टमेव । क्रियार्थत्वन्तु प्रयोजनं तस्य, न चैतावता वस्त्वनुप-
दिष्टं भवति । यदि नामोपदिष्टं किं तव तेन स्यादिति
उच्यते । अनवगतात्मवस्तूपदेशश्च तथैव मवितुमर्हति ।
तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं
क्रियतैत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन । अपि
च “ब्राह्मणोन हन्तव्यः” इति चैवमाद्या निवृत्तिरुपदि-
श्यते । न च सा क्रिया नापि क्रियासाधनम् । अक्रि-
यार्थानामुपदेशोऽनर्थकश्चेत् “ब्राह्मणोन हन्तव्यः” इत्यादि
निवृत्त्युपदेशानामानर्थक्यं प्राप्तं तच्चानिष्टम् । न च
स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थंत्वं
कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण । नञ
श्चैष स्वभावोयत् स्वसम्बन्धिनोऽभावं बोधयति । अभाव
बुद्धिस्त्वौदासीन्यकारणम् । सा च दग्धेन्धनाग्निवत् स्वय-
मेवोपशाम्यति । तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव
ब्राह्मणोनहन्तव्य इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र
प्रजापतिव्रतादिभ्यः । तस्मात् पुरुषार्थानुपयोग्युपाख्या-
नादिभूतार्थवादपिषयमानर्थक्याभिधानं द्रष्टव्यम्” भा० ।
(सिद्धान्तः) वाक्यादेः २ अर्थबोधकताभावे च । मीमांसकमते
कार्य्यान्वित एव शब्दानां शक्तिग्रहनियमात् लिङादेश्च
कार्य्यताबोधकतया तच्छून्यवाक्यस्यार्थबोधकत्वाभाव इति
प्राभाकरामन्यन्ते ।
पृष्ठ ०७२९

आनव त्रि० अनिति अन--उण् आनुः प्राणी तस्येदस् अण् ।

प्राणिसम्बन्धिनि बलादौ । “व्यानवस्य तृत्सवे गयम्”
ऋ० ७, १८, १३ । “आनोः सम्बन्धिनो बलस्य” भा० ।
“चिद्वचस आनवाय” ऋ० ६, ६२, ९ स्त्रियां ङीप् ।

आनव्य न० आनोर्नरस्य इदं यत् । नरसम्बन्धिनि तन्त्रोक्ते

मलद्वये । “मायिकं नाम योषोत्थम् पौरुषं कार्म्मणं
मलस् । आनव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम्”
तन्त्रसारे प्रपञ्चसारः ।

आनस त्रि० अनसः शकटस्य पितुर्वा इदम् अण् । १ शकट

सम्बन्धिनि । “द्वयानि वै बानस्पत्यानि चक्राणि रथ्यानि
चानसानि” शत० ब्रा० । २ पितृसम्बन्धिनि च ।

आनाथ्य न० अनाथस्य भावः ष्यञ् । स्वाभिशून्यत्वे ।

आनाम्य त्रि० आ + नम--कर्म्मणि ण्यत् अनिट्कत्वात् न

ह्रस्वः । नमस्कार्य्ये ।

आनाय पु० आनीयते मत्स्योऽनेन आ + नी--करणे “जाल-

मानायः” पा० उक्तेः घञ् । मत्स्यधारणार्थे
शणसूत्रादिनिर्म्मिते जाले । अन्यत्र अच् । आनय इत्येव ।

आनायिन् त्रि० आनयति आ + नी--णिनि । १ देशाद्देशान्तर

प्रापके । आनायोजालसस्यास्ति आनाय + इनि । २ जालिके
धीवरे “आनायिभिस्तामपकृष्टनक्राम्” “आनायिनस्तद्वि-
चये नदीष्णान्” इति च रघुः । उभयत्र स्त्रियां ङीप् ।

आनाय्य पु० आनाय्यते गार्हपत्यादानीय संस्क्रियतेऽसौ आ +

नी--ण्यत् नि० आयादेशः । वैदिकप्रसिद्धे दक्षिणाग्निभेदे ।
“आनाय्योऽनित्ये” पा० “दक्षिणाग्निविशेष एवेदं निपा-
तनम् स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्व-
लनात् वैश्वादिकुलयोनिकत्वेन वैकल्पिकत्वाच्च । अन्यत्र
तु यत् आनेयो घटादिः” सि० कौ० वैश्वकुलादेरानीतो
दक्षिणाग्निस्तु आनेयएव “वैश्वकुलात् विप्रतोभ्राष्ट्रात्
गार्हपत्याद्वा” आश्व० सूत्रे अग्नियोनिविकल्पश्रवणात्
गार्हपत्यादानेयस्यैव आनाय्यत्वं नान्यस्य ।

आनाह पु० आ + नह--घञ् । १ बन्धे २ दैर्व्ये आनह्यते अपसरण

प्रतिरोधेन बध्यते विण्मुत्रादि अनेन आ + नह + करणे
घञ् । ३ विण्मूत्ररोधसाधने वैद्यकोक्ते रोगभेदे “आमं
शकृद्वा निचितं क्रमेण भूयोविबद्धम् विगुणानिलेन ।
प्रवर्त्तमानं न ययास्वमेनं विकारमानाहमुदाहरन्ति”
मा० नि० । वातादिदोषानुक्त्वा स्थानविशेषाश्रयत्वेन
तेषां रोगविशेषजनकत्वमुक्तं सुश्रु० । “अत ऊर्द्ध्वं
स्थाननसंश्रयं वक्ष्यामः । एवं कुपितास्तांस्तान् शरीर-
प्रदेशानागत्य तांस्तान् व्याधीन् जनयन्ति । ते यदोदर-
सन्निवेशं कुर्व्वन्ति तदा गुल्मविद्रध्युदराग्निसङ्गानाह-
विसूचिकातिसारप्रभृतीन् जनयन्ति” । “आनाहार्त्तं
ततोदृष्ट्वा तत्सैन्यमसुखार्दितम् । पितरं दुःखितं दृष्ट्वा
सुकन्येदमथाब्रवीत्” भा० व० प० १२२ अ० ।

आनाहिक पु० आनाहे तत्प्रतीकारे विहितः ठक् ।

आनाहरोगोपशमनीये विधौ । “आस्वापनं मारुतजे, स्निन्ने
म्तिग्धे विशिष्यते । पुरीषजे तु कर्त्तंव्यो विधिरानाहिको-
भवेत्” सुश्रु० ।

आनिचेय त्रि० समन्तान्निचीयते आ + नि + चि--कर्म्मणि

यत् । समन्तात् सञ्चयनीये स्त्रियां शार्द्ध० पाठात् ङीन् ।

आनिरुद्ध पुं स्त्री० अनिरुद्धस्यापत्यम् वृष्णित्वात् अण् ।

अनिरुद्धस्य ऊषापतेरपत्ये स्त्रियां ङीप् । निरुद्धभिन्नस्या-
पत्ये तु इञ् । आनिरुद्धिरित्येव ।

आनिर्हत पु० अनिर्हत एव स्वार्थे अण् । देवहृदयतया

प्रधाने देवभेदे “नम आनिर्हतेभ्य इत्येते ह्येभ्यो लोकेभ्यो
ऽनिर्हताः” शत० ब्रा० “एतानि देव हृदयानि यथा हृदयं
प्रधानं तथैतेऽपि प्रधानानि” भा० ।

आनिल त्रि० अनिलस्वेदम् अण् । १ वायुसम्बन्धिनि

आनिलोदेपताऽस्य अण् । २ वायुदेवताके हविरातौ स्त्रियामुभयत्र
ङीप् । सा च स्वातितारायाम् सा हि अनिलाधिष्ठातृका

आनिलि पु० अनिलस्यापत्यम् इञ् । भीमे स हि पाण्डोः

क्षेत्रे कुन्त्यां वायुनोत्पादितः यथा “ततस्तथोक्ता भर्त्त्रा तु
वायुमेवाजुहाव सा । ततस्तामागतो वायुर्मृगारूटोमहा-
बलः । किन्ते कुन्ति! ददाम्यद्य ब्रूहि यत्ते हृदि स्थितम् ।
सा सलज्जा विहस्याह पुत्रं देहि सुरोत्तम! । बलवन्तं
सहाकायं सर्वदर्पप्रभञ्जनम् । तस्माज्जज्ञे महाबाहुर्भोमो-
भीमपराक्रमः” भा० आ० प० १२३ अ० । २ हनूमति
च तस्य केशरिक्षेत्रे अञ्जनायां वायुना जनितत्वात्
तथात्वम् तत्कथा संक्षिप्ता यथा “अहं केशरिणःक्षेत्रे वायुना
जगदायुना । जातः कमलपत्राक्ष! हनूमान्नाम वानरः”
भा० व० प० १४० अ० । भीमं प्रति हनूमद्वाक्यम् ।
अतएव तयोः क्षेत्रभिन्नोत्पन्नत्येऽपि एकेनोत्पादनात् भ्रातृ-
त्वम् तेन “तद्रूपं दर्शयामास यद्वै सागरलङ्घने । भ्रातुः
प्रियमभीप्सन् वै चकार सुमहद्वअपुः” “भ्राता मम
गुणश्रेष्ठो बुद्धिसत्त्वबलान्वितः रामायणेऽतिविख्यातः
श्रीमान् वानरपुङ्गव” इति च तत्रैवाध्याये तयोर्भ्रातृ-
त्वेनोक्तिः । अनिलसुतादयोऽम्युभयत्र ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/आदिदेव&oldid=315195" इत्यस्माद् प्रतिप्राप्तम्