सामग्री पर जाएँ

वाचस्पत्यम्/अष्टार

विकिस्रोतः तः


पृष्ठ ०५२६

अष्टार त्रि० अष्टौ अरा इव कोणा यस्य । अष्टकोणे । अष्टाश्राष्टाकोणादयोऽप्यत्र ।

अष्टारचक्रवत् पु० अष्टारमष्टकोणं चक्रमस्त्यस्य मतुप् मस्य

वः । अष्टकोणचक्रधारके जिनभेदे ।

अष्टाल पु० घोटकदेशभेदे अश्वशब्दे विवृतिः ।

अष्टावक्र पु० अष्टकृत्वोवक्रः वृत्तौ संख्या सुजर्थपरा पृ० दीर्धः ।

ऋषिभेदे स च उद्दालकशिष्यकहोष्टपुत्रः । तदुत्पत्तिकथा भा०
ब० १३२ अ० । “उद्दालकस्य नियतः शिष्य एको नान्ना
कहोड इति विश्रुतोऽभूत् । शुश्रूषुराचार्य्यवशानुवर्त्ती दीर्घं
कालं सोऽध्ययनञ्चकार । तं वै विप्रः पर्य्यचरत् स शिष्य-
स्ताञ्च ज्ञात्वा परिचर्य्यां गुरुः सः । तस्मै प्रादात् सद्य
एव श्रुतञ्च भार्य्याञ्च वै दुहितरं स्वां सुजाताम् । तस्यां
गर्भः समभवदग्निकल्पः सोऽधीयानं पितरञ्चाप्युवाच ।
सर्व्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपव-
र्त्तते । वेदान् साङ्गान् सर्व्वशास्त्रैरुपेतानधीतवानस्मि
तव प्रसादात् । इहैव गर्भे तेन पितर्ब्रवीमि नेदं त्वत्तः
सम्यगिवोपवर्त्तते । उपालब्धः शिष्यमध्ये महर्षिः स तं
कोपादुदरस्थं शशाप । यस्मात् कुक्षौ वर्त्तभानो ब्रवीषि
तस्माद्वक्रो भविताऽस्यष्टकृत्वः । स वै तथा वक्र एवाभ्य-
जायदष्टावक्रः प्रथितो वै महर्षिः” । सचाष्टावक्रसंहिताकारी

अष्टावक्रीय न० अष्टावक्रमधिकृत्य कृतः ग्रन्थः छ । भा०

व० प० १३२ अध्यायमारंभ्य अध्यायत्रयात्मक
ग्रन्थभेदे यत्र वादेन वन्दिनं जित्वाऽष्टावक्रेण वन्दिपरा-
जितं तेनैव जलेनिमज्जितं पितरम् कहोड़नामानं मुनिं
मोचयामास तेन प्रसन्नेन पित्रा तस्याष्टवक्रतादूरीकरणेन सौम्या-
कारता कृतेति वर्ण्णितम् ।

अष्टि स्त्री अस्यते भूमौ क्षिप्यते अस--क्तिन् पृषो० षत्वम् ।

(आटि) इति ख्याते १ वीजे, २ षोडशाक्षरपादके छन्दोभेदे
च । “अष्ट्यत्यष्टी ततः स्मृते” वृ० र० । अक्ष--व्याप्तौ-
क्तिन् । ३ व्याप्तौ । अश--करणे क्तिन् । ४ भोगसाधने देहे
“शतशारदीया युष्मान् न जरदष्टिर्यथासम्” यजु० ३४, ५२ ।
जरती अष्टिः शरीरं यस्य “वेददी० अष्टेः षोड़शाक्षरपा-
दत्वेन तत्संस्थासाम्यात् ५ षोड़शसंख्यायां ६ तत्संख्येये च ।
“समाद्रिपञ्चाङ्कदिने विवाहाद्वधूप्रवेशोऽष्टिदिनान्तराले ।
इति मुहू० चि० फलाभ्यन्तरस्थास्थितुल्यकठिनांशवाची
तु थकारमध्यः अष्ठिशब्दएव ज्यायान् अस्थितुल्यतया तस्या-
ष्ठित्वम् । तकारयुक्तः पाठस्तु असमीचीनः । रसमयस्य त्वग-
ष्ठ्यादेरभावात् फलमेव रसं पिबतेति” भाग० टी० श्रीधरः ।

अष्ट्रा स्त्री अक्ष्यते चाल्यतेऽनया अक्ष--करणे ष्ट्रन् । १ प्रतोदे

“शुनमष्ट्रामुदिङ्गय” ऋ० ४, ५७, ४ । “अष्ट्रांप्रतोदम्” भा०
२ रथचक्रावयवभेदे च । “अष्ट्रां पूषा शिथिरास्वुमुद्वंरीवृजत्”
ऋ० ६, ५८, २ । “अष्ट्रामारामिति” भा० ।

अष्ठीला स्त्री अष्ठिस्तत्तुल्यकठिनाश्मानं रा--क रस्य लः

दीर्घः “आध्मापयन् वस्तिगृहं रुद्ध्वा वातश्चलोन्नताम्” ।
कुर्य्यात्तीव्रार्त्ति मष्ठीलां मूत्रस्य मार्गरोधिनीमिति वैद्यकोक्त-
लक्षणयुक्ते वातजन्ये १ व्याधिभेदे । २ मूत्राघातरोगभेदे सुश्रुतः
तल्लक्षणादि तत्र यथा “अथातो मूत्राघातप्रतिषेधमध्यायं
व्याख्यास्यामः वातकुण्डलिकाष्ठीला वातवस्तिस्तथैव च”
द्वादशभेदानभिधाय लक्षितं यथा “शकृण्मार्गस्य वस्तेश्च वायु-
रन्तरमाश्रितः । अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुत्तमम् ।
विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते । वेदना
जायते वस्तौ वाताष्ठीलेति तां विदुः” । ३ वर्त्तुलाकारे
पाषाणखण्डे च । तदाकारत्वेन वाताष्ठीलाया अपि
तथात्वम् “ततोजज्ञे मांसपेशी लोहाष्ठीलेव संहता” भा० आ०
प० ११५ अध्या० । मूत्राघाते क्लीवत्वमपि भेदनं दीपनं
हृद्यमानाहाष्ठीलनुल्लघु” सुश्रुतः ।

अष्ठीवत् पु० नास्ति अतिशयितमस्थि यस्मिन् मतुप् पृषो०

नि० । (आंटु) इति ख्याते जानूर्व्वोः सन्धिस्थाने ।
अष्ठीवन्तौ परिकुल्फौ च देहे” ऋ० ७, ५०, २, ऊरुभ्यां
ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्” अथ० १०, १६३, ४,
अस्य ऊरुपूर्ब्बपदत्वे द्वन्द्वे १ अदन्तता ऊर्वष्ठीवं न० ।
“चत्वार्य्यर्व्वष्ठीवानि” शत० ब्रा० । २ ष्ठीवद्भिन्ने त्रि० ।

अस दीप्तौ अक० ग्रहणे गतौ च सक० भ्वादि० उभ० सेट् । असति ते

आसीत् आसिष्ट । “लावण्य उत्पाद्य इवास यत्नः” कुमा० ।

अस विद्यमानतायाम् अदा० अक० पर० सेट् । अस्ति स्तः

सन्ति असि स्थःस्थ अम्मि स्वः स्मः । स्यात् स्युः । अस्तु
स्ताम् सन्तु एधि--असानि । आसीत् । अस्य असार्व्वधातुके
भ्वादेशः । तेन भूधातुवद्रूपम् । विद्यमानता च काल
संबन्धधारणं तदुक्तं हरिणा “आत्मानमात्मना बिभ्रदस्ती-
व्यवदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्म्मकः”
“अस्त्युत्तरस्यां दिशि देवतात्मा” कुमा० यच्चावहासार्थम
सत्कृतोऽसि गीता” “प्रपन्नोऽत्मि स्वैरं रतिरसमहानन्दनिर-
ताम्” श्यामास्तवः । “स्याद्वा संख्यावतोऽर्थस्य समुदायो-
ऽभिधायकः” फणिभा० “स्यातामसित्रे मित्रे च सहज
पृष्ठ ०५२७
प्राकृतावपि” माघः कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशो
वराः” मनुः “दिनेदिने त्वं तनुरेधि रेऽधिकम्” नैष० “आसी-
दिदं तमोभूतमप्रज्ञातमलक्षणम्” मनुः । “नत्वेवाहं जातु
नासमिति” गीता । सन् सन्तौ सन्तः । “सदेव सोम्येदमग्र
आसीत्” छा० उ० “योऽन्यथा सन्तमात्मानमन्यथा प्रति-
पद्यते” मनुः । “नासतोविद्यततेऽभावोनाभावो विद्यते सतः”
गीता स्त्रियां ङीप् “सती सती योगविसृष्टदेहा” कुमा०
“सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी हरिः वि +
अति + व्यतिहारे परस्परमेकरूपेण स्थितौ “अन्यो
व्यतिस्ते तु ममापि धर्म्मः” भट्टिः ।

अस क्षेपे दिवा० पर० सक० सेट् । अस्यति अस्येत् अस्यतु

आस्यत् आस्थत् आस । असिता--अस्ता असिष्यति ।
अस्यत् अस्यमानः अस्तः । असितुम्--अस्तुम् । असित्वा-
अस्त्वा अभ्यस्य, निरस्य “आरे अस्मद्दैव्यं हेलो अस्यतु” ।
ऋ० १, ११४, ४, “दस्यवे हेतिमस्यार्य्यम्” ऋ० १, १०३, ३,
अति--अतिदूरक्षेपणे “बहुभिश्चैकमत्यस्यन्नेकेन च बहून्
जनान्” भा० अत्यस्तः पा० । वि + अति । वैपरीत्येन स्थापने
“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” मनुः “व्यत्या-
सश्छलयोगतः” स्मृतिः अधि--आरोपे आरोपश्च अतस्मिन्
तद्बुद्धिःअन्योपरिस्थापनञ्च आद्यार्थे “अप्रत्यक्षेऽपि ह्याकाशे
बालास्तलमलिनताद्यध्यस्यन्ति” “आह कोऽयमध्यासोनाम”
उच्यते स्मृतिरूपः परत्रपूर्ब्बदृष्टावभासः” शा० भा० ।
अनुपश्चात् सह वा क्षेपणे अन्वस्तः । “मुञ्जमेखला वल्कलेनान्वस्ता
भवति” शत० ब्रा० । अप--दूरीकरणे “गतिरपास्तसंस्था
मतिः” मालतीमा० “किमित्यपास्याभरणानि यौवने” कुमा० ।
अभि--अभ्यावृत्तौ, “अभ्यस्यन्ति तटाघातं निर्जितैरावता
गजाः” कुमा० “अभ्यासेन तु कोन्तेय! वैराग्येण च
गृह्यते” गीता । “शैशवेऽभ्यस्तविद्यानाम्” रघुः ।
अव--अवक्षेपे “तामवास्यतो गच्छति च सृजम्” शत० ब्रा०
समन्तात्क्षेपे “तामवास्यत्यागच्छति मुदम्” शत० ब्रा०
उद्--ऊर्द्धोत्क्षेपणे “पुच्छमुदस्यति” सि० कौ० । परि + उद्
भिन्नतया बोघने । “प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्र-
धानता । पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्” मीमां०
यथा श्राद्धादौ पर्य्युदस्तकालोरात्र्यादिः “अमावास्यायां
पितृभ्योदद्यात्” “रात्रौ श्राद्धं न कुर्वीते” त्युभयोरेकवाक्य-
तया रात्रीतरामावस्यायां श्राद्धं कुर्व्वीतेति हि बोधः तत्र
रात्रिः पर्य्युदस्ता एवमन्यत्रापि । परितःक्षेपणे च “अन्त्याः
सर्वे पर्य्युदस्ता मृषिष्ठिरनिवेशने” भा० स० प० । वि +
उद्--निवारणे । “चीराणीव व्युदस्तानि रेजुस्तत्र
महावने” “रामा० त्वन्तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्यच” ।
भा० स० प० । उप--समीपस्थापने “तस्याधस्त स्तद्बहिरु-
पास्यति चमसेषु” कात्या० १०, ५, नि--अर्पणे “न मद्विधे
न्यस्यति भारमग्र्यम्” । निक्षेपरूपेणार्पणे च “न्यासीकृता
स्थानभिदास्मरेण” कुमा० “राज्यं न्यासमिवाभुनक्” रघुः ।
उच्चारणपूर्ब्बकं तत्र तत्र स्थाने अर्पणीतया ध्याने च ।
“आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् । अङ्कुलि-
व्यापकन्यासौ हृदादिन्यास एव च” तन्त्रम् ।
उप + नि + वाचारम्भणे “उपन्यासस्तु वाङ्मुखम्”
अमरः । प्रथमब्रयोगे च “भूतमप्यनुपन्यस्तं पूर्ब्बंमावेदितं
न चेत् । हीयते व्यवहारेण” स्मृतिः “स तु तत्र विशेष
दुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः” किरा० सम् + नि त्यागे
“व्रीड़ादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः”
कुमा० विहितकर्म्मणां विधानेन त्यागे च “दशलक्षणकं
धर्म्ममनुतिष्ठन् समाहितः । वेदान्तं विधिवच्छुत्वा सन्यस्ये-
दनृणो द्विजः” मनुः । “न हि संन्यसनादेव सिद्धिं
समधिगच्छति” “मयि संन्यस्य कर्म्माणि” गीता ।
निस्--निर्--निष्ठीवने दूरीकरणे च । निरस्यति “निष्ठीवति
ष्ठिवु निरसने” पा० धातुपा० “निरस्तः परावसुः तृणनि-
रसने भवदेवः “निरस्तगाम्भीर्य्यमपास्तधैर्य्यम्” माघः “निरास
भृङ्गं कुपितेव पद्मिनी” भट्टिः “क्वणदलिकुलनूपुरा
निरासे” किरा० । त्वरितोच्चारणे च “निरस्तं त्वरितो-
दितम्” अमरः ।
  • परा--निराकारणे “एतेन खण्डनकारमतमपि परास्तम्” चिन्ता०
  • परि--परावर्त्तनेन स्थापने “मुखेन पर्य्यस्तविलोचनेन” कुमा० ।
“पर्य्यस्यन्निह निचयः सहस्रसंख्याम्” किरा० । अर्पणे
च “ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य” कुमा० । वि--परि--वैप-
रीत्ये, परिवर्त्तने भ्रान्तिज्ञाने च “इतरथा पात्रे
विपर्य्यस्येते” शत० ब्रा० । “संशयविपर्य्यासनिवारणेनेति”
चिन्ता० “विपर्य्यासितदर्शनैः” बौद्धका० ।
  • प्र--प्रक्षेपे “अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्”
मनुः “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” गीता ।
  • अनु--प्र--आनुलोम्येन अनुगततया एकरूपेण निवेशने अनुप्रासः
  • प्रति--प्रतिरूपक्षेपणे । “तद्यथाऽहिनिर्लयणी वल्मीके मृता
प्रत्यस्ता शयीत” शत० ब्रा० ।
  • वि--विशेषरूपेण सम्यगवबोधनाय निवेशने व्यासः विग्रहवाक्यम्
तस्य समस्तवाक्यार्थस्य विशेषेणावबोधहेतुतया निवेशनात्
पृष्ठ ०५२८
तथात्वम् विभागे “विव्याम वेदान् यस्मात् स तस्मात्
व्यास इति स्मृतः” भा० आ० प० । पारावारेतिव्यस्तं समस्तं
विपरीतञ्च” सि० कौ० । व्यस्तः “व्यस्तरात्रिन्दिवस्य ते”
कुमा० पृथक्करणे एवैकशः प्रयीगे व्यस्तः “व्यस्तसम-
स्तमहाव्याहृतिहोमे” भवदेव । निवारणे च “व्यस्यन्नु-
दन्यां शिशिरैः पयोभिः” भट्टिः । विक्षेपे “व्यस्तास्तारा-
गणाइव” भा० ।
  • वि--नि--अर्पणे । “विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली
विन्यस्ता” सि० मु० “विभागविन्यस्तमहार्घरत्नम्” भट्टिः ।
  • सम्--संक्षेपे “समासेन निबोधत” पुरा० समस्या । संक्षिप्यन्यसने
यथा पीतम् अम्बरमिति समुदायस्य पीताम्बर इति
संक्षेपेण प्रयोगः समासः । “सर्व्वोऽप्येकदेशोऽह्ना सह
समस्यते” वार्त्ति० । “समस्यमानपदार्थातिरिक्तपदार्थबोध-
कत्वं बहुव्रीहित्वमिति सारमञ्जरी । “ससासः षडिबधोब्धैः”
हरिः साकल्ये च समस्तम् “ज्ञानमस्ति समस्तस्य देवीमा०
“व्यस्तसमस्त महाव्याहृति होमे विनि०” भवदे०
संयोजने च समस्य सम्पादयत गुणैरिमाम्” किरा० ।

असंयत त्रि० न० त० । बन्धनशून्ये “असंयतोऽपि मोक्षार्थी”

काद० । असंयतः अबद्धः अकारे विष्णौ भक्तश्च ।

असंयुक्त त्रि० विरोधे न० त० । १ वियुक्ते । २ व्यञ्जनवर्ण्णा-

मिश्रिते व्यञ्जनवर्ण्णे ३ द्रव्यान्तरैरसंसृष्टे च ।

असंयुत त्रि० न० त० । संयुतभिन्ने “हकारं पञ्चमैर्युक्तमन्तः-

स्थाभिश्च संयुतम् । औरस्यंतं विजानीयात् कण्ठ्यमाहुर-
संयुतम्” पा० शिक्षा ।

असंयोग पु० अभावे न० त० । १ संयोगाभावे न० ब० । २

संयोगशून्ये त्रि० । संयोगः क्रियाजन्यः द्रव्याश्रयगुणविशेषः
हल्वर्ण्णयोरचाऽव्यवधानञ्च । “असंयोगोपधात्” पा० ।

असंलग्न त्रि० न० त० । १ संलग्नभिन्ने विभक्ते २ असंबन्धे च ।

असंवृत त्रि० न संवृतः । १ अनावृते “नासंवृतमुखः कुर्य्यात्-

क्षुतं जिह्मां तथैव च” स्मृतिः” संवृतं संवरणम् न० ७ ब० ।
अत्यन्तावरके २ नरकभेदे न० “योह्यस्य धर्म्ममाचष्टे
यश्चोपदिशति व्रतम् । सोऽसंवृतं नाम तमः सह तेनैव
गच्छति” मनुः ।

असंशय पु० अभावे न० त० । १ सन्देहाभावे न० ब० ।

२ सन्देहशून्ये “असंशयं क्षत्रपरिग्रहक्षमा यदार्य्यमस्याम-
भिलाषि मे मनः” शकु० सन्देहश्च एकस्मिन् धर्म्मिणि विरुद्ध
कोटिद्वयज्ञानम् यथा पर्व्वतो वह्णिमान्नवा दहनतदभाव-
रूपविरुद्धकोटिद्वयमेकस्मिन् पर्व्वते धर्म्मिणि ज्ञायते “स्थाणुः
पुरुषो वेत्यत्र अस्थाणुत्वस्य पुरुषत्वव्याप्यतावच्छेदकतया
गृहीतधर्म्म कत्वेन विरुद्धत्वात्तथात्वमिति वेदः ३ निश्चये च

असंश्रव त्रि० नास्ति संश्रवः सम्यक् श्रवणं यत्र । सम्यक्-

श्रवणायोग्ये दूरदेशादौ । “असंश्रवे चैव गुरोर्न किञ्चि-
दपि कीर्त्तयेत्” मनुः ।

असंश्लिष्ट त्रि० न० त० । संश्लेषशून्ये १ विभक्ते २ असंङ्गते च ।

असंसर्ग पु० अभावे न० त० । १ संसर्गाभावे । न० त० ।

२ संसर्गशून्ये निस्मम्बन्धे ।

असंसर्गाग्रह पु० असंसर्गस्य परस्परसम्बन्धाभावस्याग्रहः ।

मीमांसकोक्तस्य इदमिति रजतमित्यादि ज्ञानद्वयस्यापि प्रवृ-
त्तिजनकताप्रयोजके परस्परसम्बन्धाभावस्याबोधे । विस्तरः
असत्ख्यातिशब्दे अख्यातिपक्षनिरूपणे ५३२ पृष्ठे दृश्यः ।

असंसृष्ट त्रि० न० त० । १ संसर्गरहिते । संसर्गश्च द्रव्ययोः

सम्बन्धः धनिनोरेकत्र द्रव्ये विभागानन्तरं समुदायस्वामित्व-
सम्पादनञ्च “विभक्तोयः पुनः पित्रा भ्रात्रा चैकत्र
संस्थितः । पितृव्येणाथ वा प्रीत्या स तु संसृष्ट उच्यते
वृह० उक्तेः । संसृष्टं द्रव्यमस्यास्ति अर्शा० अच् संसृष्टः ।
इनि संसृष्टी च विभानन्तरमेकत्र द्रव्येऽन्येन सह सम्बन्धवान्
तद्भिन्नः असंसृष्टः अर्ससृष्टी च “अन्योदर्य्यस्तु संसृष्टो-
नान्योदर्य्यधनं हरेत् असंसृष्ट्यपि चादद्यात् संसृष्टोनान्य-
मातृजः” या० स्मृ० । “तस्माद्विमक्तासंसृष्टिन्यपुत्रे स्वर्याते
पत्नी धनं प्रथमं गृह्णातीति” मिता० ।

असंस्कृत त्रि० सम् + कृ--क्त सुट् न० त० । १ गुणान्तराधान

मनीते २ अपरिस्कृते ३ गर्भाधानादिसंस्काररहिते, च ।
असंस्कृतः सुतो ज्येष्ठोनापरो वेदपारगः” स्मृतिः “असं-
स्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्ब्धमंस्कृतैः” या० स्मृ० ।
व्याकरणसंस्कारशून्ये ४ अपशब्दे पु० “संस्कारोहि सतो
गुणान्तराधानम् सच लौकिकालौकिकहेतुकः । तत्र यथा
गर्भाधानादिना अलौकिकेन हेतुना देहः संस्क्रियते
तत्संस्काराच्च तदभिमानी देही । एवं स्नानाचमनादिनाऽपि ।
लौकिकेन तु पाकादिना द्रव्यान्तरयोगेन वा अन्नादौ गुणा-
न्तरमाधीयते अतएव संस्कृतं भक्ष्याः इति पा० सूत्रे-
भक्ष्यस्य दध्याद्युपसेकेन संस्कार उक्तः । शरावे संस्कृतः
शावावः सक्तुः दघ्नि संस्कृतः दाधिकः सूपः” सि० कौ० ।

असंस्तुत त्रि० न० त० । १ अपरिचिते । “प्रेयानप्यसंस्तुत

इव परित्यक्तः” काद० । २ सम्यगस्तुते च ।

असंस्थित त्रि० न० त० । १ अप्रेते परलोकं प्रति अप्रस्थिते

“असंस्थितान् प्राणान् संस्थापयेत्” शत० ब्रा० २ असुस्थिते
अवस्थितभिन्ने ३ चले च । “गच्छति पुरः शरीरं धावति
पश्चादसंस्थितं चेतः” इति शकु० ।
पृष्ठ ०५२९

असंहृत त्रि० न संहन्यते इतरेण संसृज्यते सम् + हन--क्त

न० त० । १ संघातमनापन्ने २ असंलग्ने “सर्व्वतस्त्रिवृतं
पञ्चावृतं वा बहुलमयुग्ममसंहतं प्रागग्रं मूलमाच्छादयन्”
गोभि० “असंहतमसंलग्नम्” सं० त० रघु० । सांख्यमतसिद्धे
३ पुरुषे पु० । तन्मते हि प्रकृत्यादेः शय्यागृहादिवत्
संहत्यैव (इतरसापेक्षतयैव) पुरुषार्थकारित्वम् पुरुषस्य
तु प्रकाशरूपक्रियायां नेतरापेक्षाऽस्तीति तस्यासंहतत्वम् ।
संहतपरार्थवात् पुरुषस्य” सां० भा० “विवादास्पदं प्रकृतिमह-
दादिकं परार्थं स्वेतरस्य भोगापबर्गफलकं संहतत्वात् शय्यास-
नादिवदित्यनुमानेन प्रकृतेः परोऽसंहत एव पुरुषः सिद्द्यति
तस्यापि संहतत्वेऽनवस्थापत्तेः । पातञ्जले च “परार्थं
संहत्य कारित्वादिति” सूत्रकारेणानुमानं कृतं तत् तु यथाश्रुत
मेवान्त्यावयवसाधारणम् । इतरसाहित्येनार्थक्रियाकारित्व
स्यैव संहत्यकारिताशब्दार्थत्वात् । पुरुषस्तु विषयप्रकाशनरू
पायां स्वार्थक्रियायां नान्यदपेक्षते नित्यंप्रकाशरूपत्वात् ।
पुरुषस्यार्थसम्बन्धमात्रे बुद्धिवृत्त्यपेक्षणात् । सम्बन्धस्तु
नासाधारण्यर्थक्रियेति । “संहतपरार्थत्वात्” सां० सू० भा०
“अतोऽसंहतः संहतदेहादिभ्यःपरः पुरुषः सिध्यति” ।

असकृत् अव्य० न सकृत् न० त० । पौनःपुन्ये । “असकृदेकर-

थेन तरस्विना” रघुः “अन्याद्येनासकृच्चैतान् गुणैश्च
परिनोदयेत्” “असकृद्गर्भवासेषु वासं जन्म च दारुणम्” इति
च मनुः । “आवृत्तिरसकृदुपदेशात्” शा० सू० ।

असक्त त्रि० सन्ज--क्त न० त० । १ आसक्तिशून्ये २ फलाभिला-

षशून्ये च “असक्तः सुखमन्वभूदि” ति रघुः । “कुर्य्यात्
विद्वांस्तयाऽसक्तः” इति गीता “असक्तमारधयतो यथा
यथम्” किरा० ।

असक्थ (किय) त्रि० नास्ति सक्थि यस्य वा टच् समा० । सक्थिशून्ये

असक्रा स्त्री सम् + क्रम--विट् पृ० समोऽन्तलोपः न० त० ।

संक्रान्तर्य्यां स्त्रियाम् । “न इषं पिन्वतमसक्राम्”
ऋ० ६, ६३, ८, असक्रामसक्रमणीम्” निरु० ।

असखि पु० न सखा न टच् समा० । सखिभिन्ने रिपौ ।

असगोत्र त्रि० न समानं गोत्रमस्य वा समानस्य सः । भिन्न-

गोत्रे “असगोत्रः सगोत्रोवा यदि स्त्री यदि वा पुमान् ।
यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात् स एव हि” स्मृतिः
पक्षे न सादेशः । असमानगोत्रः “असमानगोत्रार्षेषीम्
भार्य्यां विन्देत” स्मृतिः ।

असङ्कल्प पु० विरोधे न० संकल्पाभावे । न० ब० । संकल्प-

शून्ये त्रि० ।

असङ्कसुक त्रि० न० त० । स्थिरमतौ ।

असङ्कुल त्रि० न सङ्कुलः । १ परस्पराविरुद्धे । २ ग्रामादिपथे

३ विस्तीर्णे पथि च पु० ।

असङ्क्रान्तमास पु० न संक्रान्तः न राश्यन्तरं प्राप्तोरवि-

र्यत्र चान्द्रमासे । शुक्लप्रतिपदादिदर्शान्ते रवि सङ्क्रमणशून्ये
मलमासे । “असङ्क्रान्तमासोऽधिमासोनिरुक्तः” विवरणम-
धिमासशब्दे १३१ पृ० ।

असङ्क्षेप पु० अभावे न० त० । १ संक्षेपाभावे विरोधे न० त० ।

२ विस्तारे न० ब० । ३ संक्षेपशून्ये विस्तीर्ण्णेत्रि० ।

असङ्ख्य त्रि० नास्ति संख्या इयत्ता यस्य । इयत्ताशून्ये ।

“प्रसह्य तेजोभिरसंख्यतां गतैः” माघः ।

असङ्ख्यात त्रि० सस्--ख्या--क्त न० त० । १ इत्यत्ताशून्येरवहुसंख्यान्विते च

असङ्ख्येय त्रि० संख्यातुमशक्यः १ इयत्तारांहते २ विष्णौ पु०

“असंख्येयोऽप्रमेयात्मा” विष्णुसो संख्यार्हभेदादि न
विद्यते इत्यसंख्येयः भा० ।

असङ्ग पु० अभावे न० त० । १ सम्बन्धाभावे नास्ति सङ्गो

विषयैर्यस्य ३ पुरुये जीवे तस्य सर्व्वसम्बन्धशून्यत्वात्
तथात्वम् । “असङ्गोऽयं पुरुषः” सां० सू० । ३ सम्बन्धशून्ये
४ प्रतिबन्धशून्ये च त्रि० । “असङ्गमद्रिष्वपि सारवत्तया”
रघुः ।

असङ्गत त्रि० न० त० । सङ्गतभिन्ने १ अयुक्ते २ युक्तिशून्ये ३ असंबन्धे ४ सङ्गतिश्वन्ये च ।

असङ्गति स्त्री अभावे न० त० । १ सङ्गत्यभावे । सङ्गतिश्च “सङ्गति

रनन्तराभिधानव्याप्ता, आनन्तर्य्याभिधानप्रयोजकजिज्ञा-
साजनकज्ञानविषयोह्यर्थः सङ्गतिः, जायते च कार्य्ये कारणे
वा ज्ञाते कारणत्वस्य कार्य्यत्वस्य ज्ञानात् किमस्य कारणं
कार्य्यं वेति जिज्ञासा” दीधित्युक्ता सा च षोढ़ा तदुक्तमभि-
युक्तैः “सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा । निर्वाहकैक-
कार्य्यत्वम् षोढ़ा सङ्गतिरिष्यते” इति व्याख्यातञ्चैतत्
जगदीशेन । “निर्द्दिष्टोपपादकत्वमुपोद्घातत्वम् “चिन्तां
प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः” इति प्राचीनोक्तौ चिन्ता
पदं कृदभिहितोभाव इति न्यायेन चिन्तनीयपरं तथा
च तस्याअपि प्रकृतसिद्ध्युपपादकतया चिन्तनीयत्वं प्रकृ-
तसिद्ध्युपपादकत्वपर्य्यवसन्नमित्यर्थः । हेतुत्वं कारणत्वम् ।
असरोऽनन्तरवक्तव्यत्वम् अनन्तरोद्दिष्टत्वम् तथा इति
श्रीभास्करकृत् । निर्व्वाहकं कारणतानिर्व्वाहकं कार्य्यत्व-
मिति यावत् एकं कार्य्यं ययोरिति व्युत्पत्त्या एककार्य्य
पृष्ठ ०५३०
कारित्वम् प्रसङ्गत्वन्तु सङ्गतित्वे सत्युपीद्घातादिभिन्नत्वम्
“स्मृतस्य उपेक्षानर्हत्वं प्रसङ्ग” इति प्रवादेऽपि स्मृतत्वम-
नन्तराभिधानप्रयोजकस्मृतिविषयत्वम् उपेक्षानर्हत्वञ्च प्रसङ्ग
लक्षणोपेक्षा एव उपोद्घातादयस्तदन्थत्वं तेन ततोऽपि
प्रागुक्तस्यैवार्थस्य लाभः” इति न्यायमतम् । वेदान्तिमते
तु सङ्गतिस्त्रिविधा “शास्त्रेऽध्याये तथा पादे न्यायसङ्गतय-
स्त्रिधा । शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम्” ।
शास्त्रप्रतिपाद्यमध्यायप्रतिपाद्यं पादप्रतिपाद्यमर्थमवगम्य
शास्त्रसङ्गतिरध्यायसङ्गतिः पादसङ्गतिश्च तिस्रः सङ्गतय
ऊहितुं शक्यन्ते इति तदर्थः । तत्र “शास्त्रं ब्रह्मविचा-
राख्यमध्यायाः स्युश्चतुर्विधाः । समन्वयाविरोधौ द्वौ
साधनं च फलं तथा” ब्रह्मविचाराख्यशास्त्रस्य प्रथमेना-
ध्यायेन समन्वयः, (सर्ब्बेषां वेदान्तानां ब्रह्मणि तात्-
पर्य्येणावधारणम्) प्रतिपाद्यते । द्वितीयेन अविरोधः ।
तृतीयेन साधनम् चतुर्थेन फलम् । इत्येवमध्यायार्थाः
एवमेषां प्रतिपाद्यमुक्त्वा षोड़शपादप्रतिपाद्यानर्थानभि-
धाय । “ऊहित्वा सङ्गतीस्त्रिस्रो याश्चावान्तरसङ्गतीः तत
आक्षेपदृष्टान्तप्रत्युदाहरणादिकाः । पूर्व्वपक्षस्य सिद्धान्त
युक्तिं वीक्ष्य परे नये । पूर्व्वपक्षोक्तयुक्तिं च तत्राक्षेपादि
योजयेत्” इति वेदा० न्या० मा० अवान्तरसङ्गतिस्त्वने-
कधा । आक्षेपसङ्गतिर्दृष्टान्तसङ्गतिः प्रसाङ्गिकसङ्गतिरित्ये-
वमादि । उदाहृतञ्च तत्रैव तद्यथा प्रथमाधि-
करणे ब्रह्मविचारशास्त्रमारम्भणीयमिति सिद्ध्वान्तः ।
तत्र युक्तिः ब्रह्मणः । संदिग्धत्वमिति । द्वितीयाधि-
करणस्य जगज्जन्मादि ब्रह्मलक्षणं न भवतीति
पूर्व्वपक्षः तत्र युक्तिः जन्मादेर्जगन्निष्ठत्वादि ।
तदुभयमवलोक्य तयोराक्षेपसंगतिं योजयेत् । संदिग्धत्वा-
द्ब्रह्म विचार्य्यमित्ययुक्तं जन्मादेरन्यनिष्ठत्वेन ब्रह्म-
णोलक्षणत्वाभावे सति ब्रह्मैव नास्ति कुतस्तस्य संदि
ग्धत्वं विचार्य्यत्वं वेत्याक्षेपसंगतिः । दृष्टान्तप्रत्युदा-
हरणसङ्गती अपि योजयितुं शक्येते । यथा संदिग्धत्व
हेतुना ब्रह्मणो विचार्य्यत्वं तथा जन्माद्यन्यनिष्ठत्व
हेतुना ब्रह्मणो लक्षणं नास्तीति दृष्टान्तसंगतिः । यथा
विचार्य्यत्वे हेतुरस्ति न तथा लक्षणसद्भावहेतुं
पश्याम इति प्रत्युदाहरणसंगतिः । एते दृष्टान्तप्रत्यु-
हरणसंगती सर्व्वत्र सुलभे पूर्वाघिकरणसिद्ध्वान्त
इणोत्तराधिकरणपूर्ब्बपक्षे हेतुमत्त्वसाम्यस्योत्तराधिकरण-
सिद्धान्तं हेतुशून्यत्ववैलक्षण्यस्य च मन्दैरप्युत्प्रेक्षितुं
शक्यत्वात् । आक्षेपसंगतिर्यथायोगमुन्नेया । प्रासङ्गिकसंगति
रुन्नीयते । देवताधिकरणस्याधिकारविचाररूपत्वात्समन्व-
याध्याये ज्ञेयब्रह्मवाक्यविषये तृतीयपादे च संगत्यभावेऽपि
बुद्धिस्थावान्तरसंगतिरस्ति । तथाहि पूर्ब्बाधिकरणे-
ऽङ्गुष्ठमात्रवाक्यस्य ब्रह्मपरत्वादङ्गुष्ठमात्रत्वं ब्रह्मणो
मनुष्यमात्रहृदयापेक्षं मनुष्याधिकारत्वाच्छास्त्रस्येति उक्तम्
तत्प्रसङ्गेन देवताधिकरणं बुद्धिस्थम् सेयं प्रासङ्गिकी संगतिः ।
तदेवंन्यायसंगतिर्व्युत्पादिता” । एवं मीमांसासङ्गतिरपि
अधिकरणमालायां दृश्या विस्तरभयान्नोक्ता ईदृशसङ्गत्यभा-
वोऽसङ्गतिः । २ असम्बन्धमात्रे ३ अर्थालङ्कारभेदे च
अलङ्कारशब्दे ३९४ पृष्ठे दृश्यः ।

असङ्गम पु० अभावे न० त० । १ सङ्गाभावे मेलनाभावे न० त० २ तच्शून्ये त्रि० ।

असङ्गिन् त्रि० सन्ज--घिनुण् न० त० । सम्बन्धशून्ये “संस-

र्गासङ्गिसम्यग्धीहेतुता या गिरामियम्” वे० परि० ।

असच्छास्त्र न० असत् असद्विषयकत्वेनानिष्टप्रयोजकम् शास्त्रम् ।

बौद्धागमे । तस्यासदर्थप्रतिपादकत्वात् वैदिकधर्म्मविरु-
द्धार्थकत्वाच्च तथात्वम् । “असत्यमप्रतिष्ठं ते जगदाहुरनी-
श्वरमित्यादिनां तेषामीश्वरानङ्गीकारेण चासत्त्वं ज्ञेयम्” ।

असज्जन पु० विरोधे न० त० । सज्जनभिन्ने दुर्जने “न

मामसज्जनेनार्य्या समानयितुमर्हसि” रामा० ।

असञ्ज्ञा स्त्री अभावे न० त० । १ संज्ञाभावे न० ब० । संज्ञा-

शून्ये त्रि० । संज्ञा च ज्ञानं नाम ईङ्गितादिज्ञापनञ्च
तेषामभावः । “तेभ्योऽसञ्ज्ञां चकार” शत० ब्रा० ।

असत् त्रि० अस + शतृ न० त० । १ सद्भिन्ने, निरुपाख्ये निःस्व-

रूपे निषेधरूपेण प्रतीयमाने, २ अभावत्वाश्रये, “अश्रद्धया
हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थे” ति
गीतोक्ते अश्रद्ध्वया कृते ३ होमादौ च । ४ इन्द्रे पु० । ५ दुष्टा-
चारिणि असाधौ त्रि० “नच सत् नासदुच्यते” गीता । स्त्रियां
ङीप् सा च ६ कुलटायाम् । “परितस्तार रवेरसत्यवश्यम्”
माघः नामरूपाभ्यामव्याकृते कारणात्मनास्थिते सूक्ष्म-
रूपे ६ अव्यक्ते, च “असदेवाग्र आदीत्” कथमसतः सज्रा-
येत” च इति छा० उप० वौद्धागमसिद्धं सत्त्वमर्थक्रिया-
कारित्वम् तच्छून्ये ७ अकिञ्चित्करे अभावादौ ८ अविद्यमाने
“नामतो विद्यते भावः” इति यत्तत् सदसतोः परमिति च”
गीता “विभेदजनकाज्ञाने नाशमात्यन्तिकं गते । आत्मनो-
ब्रह्मणाऽभेदमसन्तं कः करिष्यति” संक्षे० शा० ।

असत्कर्म्मन् न० कर्म्म० । १ वेदादिशास्त्रनिषिद्धे दुष्टकर्म्मणि

न सत् कर्म्म यस्य । ३ साध्वाचारशून्ये त्रि० स्त्रियां डाप्
पृष्ठ ०५३१

असत्कृत त्रि० न० त० । १ अपूजिते २ असम्प्तानिते “असत्-

कृतमवज्ञातम् तत्तामसमुदाहृतम्” गीता । “यच्चावहासा-
र्थमसत्कृतोऽसि” गीता ।

असत्ख्याति स्त्री असतः सत्त्वशून्यस्यानिर्वचनीयस्य ख्याति

र्ज्ञानम् । अनिर्व्वनीयस्य रजतप्रपञ्चादेर्ज्ञाने । यथा शुक्ति-
कायां रजतमनिर्वचनीयमुत्पद्यमानमिव प्रतीयते एवं ब्रह्मणि
जगत् अनिर्वचीयतयोत्पन्नमिव ख्यायते इति हि वेदान्तिनां
मतम् । अस्ति हि सर्वलोकेषु प्रसिद्धम् इदं रजतमित्यादिज्ञानं
तच्च प्रवर्त्तकतया सर्वैरभ्युपगम्यते । तत्र चतस्रोविधाः
अख्यातिः अन्ययाख्यातिः आत्मख्यातिः असत्ख्यातिश्चेति
विवरणे स्थितम् । तत्राख्यातिवादिनामयमाशयः । इदं
रजतमित्यादो चक्षुराद्यसन्निकर्षात् पारिशेष्यात् रजतं स्मर्य्यते न
तु ज्ञायते इति तस्य स्मरणस्याख्यातित्वमिति । तदेतन्न सम्यक्
रजतस्य प्रत्यक्षत्वेनानुभूयमानत्वात् स्मर्य्यमाणस्याप्रवर्त्तक-
त्वाच्च नचेदमंशस्यैव प्रत्यक्षत्वं न रजतस्येति वाच्यम् यथा
सत्यरजतस्थलेषु इदं रजतम् अयं घट इत्यादिषु इतरेतर
संसृष्टौ सामान्यविशेषौ अपरोक्षतयाऽनुभूयेते अत्रापि
तथानुभवात् । अथ सामान्यविशेषयोर्नैरन्तर्य्येण प्रतिभासात्
तथा व्यवहारो न तु संसर्गज्ञानरूपविशिष्टज्ञानसम्भवा-
दिति वाच्यम् सत्यस्थलादीषन्न्यूनताया अदर्शनात् । अथ
पुरोवर्त्तिनि रजतसंसर्गाभाव एव न्यूनतेति चेन्न पुरोवर्त्तिनि
रजतसत्त्वासत्त्वयोरेवावयोर्विवादात् तदभावस्य न्यूनत्वा
साधकत्वात् । किञ्च पुरोंवर्त्तिनि रजतसंसर्गाभावः कथं
निश्चीयते किं तद्गोचरज्ञानाभावात्? किं वा नेदं
रजतमिति बाधज्ञानात्? नाद्यः तद्गोचरज्ञानाज्ञानयोरे-
वावयोर्विवादात् अर्थाभावेन ज्ञानाभावनिश्चयेऽन्योन्या-
श्रयात् । तस्मादपरोक्षज्ञानोदयादेव पुरोवर्त्तिनि रजत
सत्ताङ्गीकार्य्या । न च अर्थसत्तानिश्चयाधीनः ज्ञानसत्ता-
निश्चय इति कल्पनात् प्रकृते चार्थासत्त्वात् न ज्ञानसत्त्व-
मिति वाच्यम् अर्थसत्तानिश्चयस्यापि निश्चयान्तराधीन-
तयाऽनवस्थाप्रसङ्गात् । तस्मात् संविन्निश्चयः स्वग्राहकसा-
मग्रीप्रयोज्यतया स्वतएव । तदधीनस्तु अर्थसत्तानि-
श्चयः । नापि द्विंतीयः रजतमिति उत्तरज्ञानविरोधि-
ज्ञानसत्त्वे नेदं रजतमिति ज्ञानानुदयेन तेन बाधा-
योगात् । किञ्च इदं रजतमित्यत्र यथा इदमाकाररज
ताकारयोरविवेकस्त्वया कल्प्यते तथा नेदं रजतमित्यत्रापि
तयोरविवेक एव कल्प्यतां न तु विशिष्टसंसर्गसंविदित्यपि
अस्माभिर्वक्तुं शक्यते । अथ विशिष्टज्ञानर्स्यव संवादिप्र-
वृत्तिजनकत्वमिव विशिष्टनिषेधबोधस्यैव निवर्त्तकत्वमिति
निषेधस्य विशिष्टसंसर्गिविषयकत्वमिति चेन्न प्रंवृत्तिनिवृ-
त्तिमात्रं प्रत्येव संसर्गतदभावग्रहस्य हेतुतयैवोपपत्तौ
संवादिविसंवादित्वयोः तत्र प्रवेशे गौरवात् किञ्च प्रवृत्तेः
संवादित्वमपि वस्तुसत्त्वासत्त्वनिबन्धनम् । तच्च सत्यासत्ययो-
रुभयत्राप्यस्ति । न च पुरोवर्त्तिनि रजताभावः सर्वसम्मतः ।
शुक्तिकायां यथावभासमेवासत्यरजतस्य शुक्तिज्ञानेन
निरसनयोग्यस्यैवास्माभिः स्वीकारात् । इयांस्तु भेदः
तत्र मिथ्यारजंताभ्युपगमेऽपि नेदं रजतमिति त्रैकालिक
रजतनिषेधः परमार्थिकरजतविषयत्वान्न विरुव्यते ।
नचाप्रसक्तनिघेधानुपपत्तिः । मिथ्याभूतेऽपि रजते परमार्थ
रजतार्थिनां प्रवृत्तिदर्शनेन परमार्थरजतस्य सामान्योपा-
धिना रजतत्वेन प्रसिद्धिसम्भवात् अन्यथा भूतलादौ घटादि
निषेधोऽपि अप्रसक्तनिषेधः स्यात् तत्र घटादिसत्त्वे तदमा-
वोव्याहत्येत । तदसत्त्वे तु अंप्रसक्तनिषेधः स्यात् । ततश्च देश
सामान्योपाधिना कालसामान्योपाधिना वा यथा घटादि
प्रसक्तिर्नतु तत्कालिकभूतलत्वादिना तथा परमार्थरजतस्य
प्रसक्तिर्भविष्यति । एवञ्च उत्तरकाले नास्त्र्यत्र
रजतमिति प्रत्यक्षं सत्यरजतविषयम् मिथ्यैव रजतप-
भादिति प्रत्ययश्च मिथ्यारजतविषयैत्युभयमप्युपपद्यते ।
एतेन रजतापरोक्ष्यं विशिष्टसंसर्गज्ञानं विनाप्यपरोक्ष
शुक्तिज्ञानाविवेकादुपपद्यते इत्यपि परांस्तम् । विवेकज्ञान-
कालेऽप्येतावन्तं कालं रजतमनेनाविविक्तमित्येव विवेकस्यैव
परामर्शप्रसङ्गात् एतावन्तं कालमिदं रजतमित्यभादिति
प्रत्यभिज्ञाया अनुपपत्तेश्च । अतश्च पुरोवर्त्तिनि
असद्रजतमुत्पद्यते इत्यङ्गीकार्य्यम् । अन्यथा शुक्तिज्ञानात्
रजते प्रवृंत्तौ अतिप्रसङ्गः स्यात् समानविषयक-
ज्ञानस्यैव प्रवर्त्तकत्वात् ततश्च न स्मर्य्यमाणमिदं
रजतं किन्तु स्मर्य्यमाणसदृशमेव तदङ्गीक्रियते ।
तत्सादृश्यञ्च पूर्ब्बानुभवसापेक्षज्ञानगम्यत्वेन । नह्यननुभूत-
रजतस्य पुरुषस्य रजतभ्रमोभवति । ज्ञानरूपाध्यासस्य
तु संस्कारजन्यत्वेन स्मृतिसादृश्यमिति भेदः ।
अय ज्ञानस्व प्रमाणस्मृतिर्द्वैविध्यनियमेन अध्यासस्य बाधि-
तविषयकत्वात् परिशेषात् संस्कारमात्रजन्यज्ञानत्वाच्च
स्मृतित्वमेवास्तु । न च स्मृतित्वे अतिसादृश्याच्छुक्त्यन्तर-
मेव कुतो न स्मर्य्यते इति वाच्यं कर्तृ गतरागादिदोषाणा-
मपि तन्निमित्तत्वात् शुक्त्यन्तरे तदभावात् एवं तैरेव दोषैः
स्मरणाभिमानस्य प्रमुषितत्वान्नं रजतस्मरणेऽपि तत्तांश उल्लि-
पृष्ठ ०५३२
ख्यते नवा स्मरामीत्यनुव्यवसायः तथा तैरेव विशेषावभासस्य
प्रतिरोधान्न शुक्तिग्रहणेऽपि तदीयनीलपृष्ठादिविशेषग्रहः ।
तथा च इदमंशे ग्रहणं रजतांशे स्मरणमुभयात्मकमपि
ज्ञानमविविक्ततया प्रवर्त्तकमिति तादृशग्रहणस्मरणाभ्यां
रजतार्थी पुरोवर्त्तिनि प्रवर्त्तते इति चेन्न ग्रहणस्मरणे
किं द्वे अपि प्रवर्त्तके आहोस्विदेकैकम् आद्येऽपि किं
संभूय प्रवर्त्तके! क्रमेण, वा नाद्यः स्मृतिग्रहणयोः युगप-
दुदयासम्भवात् । क्रमविशिष्टयोर्द्वयोः प्रवर्त्तकत्वमपि न
युक्तम् पूर्व्वज्ञानस्य उत्तरज्ञानेन व्यवधानात् प्रवृत्तिहेतु-
त्वानुपपत्तेः इदमिति रजतमिति च विशृङ्खलयोरपि
ज्ञानयोः प्रवर्त्तकत्वापत्तेश्च । नाप्येकैकस्य प्रवर्त्तकत्वं व्यव-
हारस्य विशिष्टविषयकतया विशिष्टप्रवृत्तये विशिष्ट
संसर्गग्रहस्यैव हेतुतायाः स्वीकार्य्यत्वादितिं ।
अत्र ग्रहणस्मरंणनैरन्तर्य्येणोत्पत्त्या प्रवर्त्तकत्वसम्भ-
वेनासत्ख्यातिर्नाङ्गोकार्य्या अपि तु विशिष्टसंसर्गस्याख्यातिं-
रेवेति अख्यातिवादिनामेकदेशिनः आहुः ।
तदपि वेदान्तिभिः निराकृतं यथा केयमख्यातिर्नाम किं
ख्यात्यभावः? उत अन्यार्थिनोऽन्यत्र प्रवृत्तिहेतुभूतविज्ञा-
नम्? अथाविविक्तानेकपदार्थज्ञानम्? । आद्ये सुषुप्तावेव
सर्व्वज्ञानाभावसत्त्वेन तत्रैव भ्रमःस्यात् नान्यत्र जाग्र-
तस्वप्नयोः । द्वितीये झटिति बाधादालस्यादिंना वा
यत्र प्रवृत्तिर्न जाता तत्र भ्रान्तित्वं न स्यात् । तृतीयेऽप्य-
विविक्तत्वप्रतियोगिविविक्तत्वं नाम किम् भेदग्रहः? उत
अभेदाग्रहः? आहोस्विदितरेतराभावभेदद्वित्वादिसंख्या-
विशिष्टज्ञानम्? नाद्यः इदमिति रजतमिति च पुनरुक्तशब्द-
द्वयहेतुत्वेन सामान्यविशेषयोर्भेदग्रहे सत्यपि अविवेकासद्भा-
वात् । न द्वितीयः उत्तरीत्था भेदस्य मृहोतत्वादेवत्वतद्विरु-
द्धस्याभेदस्याग्रहे सति तद्ग्रहनिषेधरूपस्याविविक्तत्वस्य दुःस-
म्पादत्वात् । तृतीयेऽपि द्वित्वादिज्ञानमपेक्षितं किमव्यास-
ज्यवृत्ति उतानुषङ्गिकमपि पर्य्याप्तम् आद्ये गामानय
दण्डेनेत्यत्र गोदण्डयोरपि साक्षाद् द्वित्वाद्यप्रतीतेरवि-
वेकः प्रसज्येत । द्वितीये तु पुरोवर्त्तिरजतयोरप्यानुषङ्गिक
द्वित्वादिज्ञानस्य सद्भावेन दुष्परिहरणणीयत्वात् । नन्व-
विवेको नाम असंसर्गाग्रहः स च प्रतीयमानयोरिदं
रजतयोः संभवति इदंरजते असंसृष्टे इति प्रत्ययादर्शनात्
इति चेत् तदापि किं ग्रहणस्मरणयोरेवासंसर्गो विवक्षितः?
उत ययोः कयोश्चित्? आहोस्वित् संसर्गज्ञानरहितयोः?
आद्ये अहं मनुष्य इति भ्रमो न स्यात् उभयोरपि ग्रह-
णत्वान् । द्वितीये षण्डोगौः शुक्लः पटैत्यपि भ्रमःस्यात्
असंसर्गप्रतीत्यभावात् । तृतीयेऽपि सएव दोषःस्यात् न हि
तत्र संसर्गाज्ञानं संभवति तद्विषयस्यैक्याभावात् ऐक्यस्यं
च तद्विषयत्वस्य प्रत्यभिज्ञायमानत्वात् । यदि गुणगुण्यादि
संबन्ध एव तद्विषययोरैक्यमित्युच्यते तर्हि इदं रजतमित्य-
त्रापि सादृश्यतत्सम्बन्धस्तद्विषयैत्यस्यापि वक्तुं शक्य-
त्वेन संसर्गप्रत्ययोदरुद्धरः । अथ तत्र नेदं रजतंमित्यसंसर्ग
तत्प्रत्ययेन बाधान्न संसर्गतत्प्रत्ययौ सम्भवतः । तर्हि
त्वन्मतेऽपि गुणगुण्यादेरितरेतराभावज्ञानाख्योऽसंसर्ग-
प्रत्ययोऽस्त्येवेति संसर्गतत्प्रत्यययोरसम्भवात् भ्रमत्वापत्ति-
स्तदवस्था तस्मान्नासंसर्गाग्रहोऽप्यविवेकः ।
अस्तु तर्हि प्रकृतेऽपि संस्कारजन्यैव रजतस्मृतिरिति चेत्
न रजतस्य पुरोवस्थितत्वेन प्रतिभासादित्युक्तोत्तरत्वात्
न च पुरोऽवस्थितत्वमविवेककृतमिति वक्तुं शक्यम् ।
अविवेकस्य भ्रमं प्रत्यप्रयोजकत्वात् । तथा हि किं गृह्य
माणयोरविवेकः? किं वा गृह्यमाणस्मर्य्यमाणयोः? किं
वा स्मर्य्यमाणयोः? नाद्यः स्वप्नदशायामात्मव्यतिरिक्तस्य
कस्याप्यग्रहणेन द्वयोर्गृह्यमाणयोरभावे तदविवेकस्य भ्रम-
प्रयोजकंस्याप्यभावेन भ्रमाभावप्रसङ्गात् । न द्वितीयः
स्वप्ने गृह्यमाणेनात्मना स्मर्य्यसाणस्य नीलादेरविवेके
सति अहं नीलमिति प्रतिभासप्रसङ्गात् । तृतीये तु परोक्ष-
मेव सर्व्वभ्रान्ताववभासेत, सर्व्वस्यापि स्मर्य्यमाणत्वात्
एवं च सति प्रकृतस्य पुंरोऽवस्थितरजतज्ञानस्य स्मृति-
त्वानुमाने परोक्षावभासित्वोपाधिर्द्रष्टव्यः । याथार्थ्यानु
मानस्य चायं प्रतिप्रयोगः । विमताः प्रत्यया न
यथार्थाः बाध्यमानत्वाद्भ्रान्तिव्यवहारवदिति तस्मात् बोधद्वै-
राश्यदुराग्रहं परित्यज्य तृतीयं भ्रान्तिज्ञानमङ्गीकर्त्तव्यम् ।
अन्यथाख्यातिरिति नैयायिकादयः । ते हीत्थमुररी-
चक्रुः ननु तर्हि मा भूदख्यातिः अस्त्वन्यथाख्यातिः । तथा
हि देशकालान्तरगतं हि रजतं शुक्तिसंप्रयुक्तेन दोषो
पहितेनेन्द्रियेण शुक्त्यात्यना गृह्यते न चैवमननुभूतस्यापि
ग्रहणप्रसङ्गः । सादृश्यादेर्नियाकत्वादिति” ।
तदेतदसत् किं ज्ञानेऽन्यथात्वं? किं वा? फले उत
वस्तुनि? । नाद्यः रजताकारं ज्ञानं शुक्तिमालम्बते इति
ज्ञानेऽन्यथात्वं वाच्यम् । तत्र शुक्तेरालम्बनत्वं नाम किं
ज्ञानं प्रति स्वाकारसमर्पकत्वम् उत ज्ञानप्रयुक्तव्यवहारवि-
षयत्वम् नाद्यः । रजताकारग्रस्तं ज्ञानं प्रति शुक्तेः
स्वाकारसमर्पणासम्भवात् । न द्वितीयः व्याघ्रादिदर्शन
पृष्ठ ०५३३
प्रयुक्तव्यवहारविषयस्य खड़्गकुन्तधनुरादेर्व्याघ्रादि
ज्ञानालम्बनत्वप्रसङ्गात् । नापि फलेऽन्यथात्वम् फलस्य
स्फुरणस्य भ्रान्तौ सम्यग्ज्ञाने वा स्वरूपतो वैषम्यादर्श-
नात् । वस्तुन्यपि कथमन्यथात्वं किं शुक्तिकायां
रजततादात्म्यं किंवा रजताकांरेण परिणामः । आद्येऽपि
किं शुक्तिरजतयोरत्यन्तभेदः किंवा भेदाभेदौ । नाद्यः ।
अत्यन्तभिन्नयोर्वास्तवतादात्म्यासम्भवात् अनिर्व्वचनीयस्य
त्वया अनभ्युपगमात् शून्यतादात्म्यंप्रतीतौ च
गुणगुण्यादावपि तत्सम्भवेन भ्रान्तित्वं दुर्व्वारम् । समवायस्य
च प्रक्रियामात्रसिद्धस्य तादात्म्यानतिरेकात् । मेदा-
भेदपक्षे तु षण्डोगौरितिवदभ्रान्तिः स्यात् । परिणाम-
पक्षेऽपि बाधोन स्यात् । विमतं रजतज्ञानमबाध्यं परिणा-
मज्ञानत्वात् क्षीरपरिणामदुग्धज्ञानवत् । अतः क्षीरवदेव
शुक्तिर्न पुनर्बाध्येत । ननु कमलमुकुलविकाशरूपपरिणाम-
हेतोः सूर्य्यतेजसोऽपगमे पुनर्मुकुलीभाववद्रजतपरिणाम-
हेतोर्दोषस्यापगमे पुनः शुक्तिभावोऽस्तु इति चेत् मैवं
विकसितमेव मुकुलमासीदितिवत् रजतमेव शुक्तिरासीदिति
प्रतीत्यभावात् कथञ्चित् तद्भावेऽपि न परिणामपक्षो युक्तः
निर्दोषस्यापि रजतप्रतीतिप्रसङ्गात् नचैकमेव क्षीरं
दधिरूपेण कञ्चित् पुरुषं प्रति परिणतमन्यंप्रति नेति दृष्टचरं
तस्मान्नान्यथाख्यातिः सुनिरूपा । ज्ञानलक्षणया देशान्त-
रगतरजतभानन्तु साक्षात्करोमीति साक्षात्कारोल्लेखिबुद्धे-
रन्यथानुपत्त्या न सम्भवतीति द्रष्टव्यम् । किञ्च ज्ञानलक्ष-
णायाः प्रत्यासत्तित्वे तथैव पर्व्वते वह्निज्ञानसम्भवेनानु-
मानादेरुच्छेदः स्यात् अनुव्यवसायात्तत्सत्त्वकल्पने तु
प्रकृतेऽपि साक्षात्क्मरानुव्यवसायसत्त्वेन तुल्यत्वात । आत्म-
ख्यातिरिति बौद्धाः । तथाहि सर्व्वासां बुद्धीनां विषयमन्त-
रेणापि तदाकारोल्लेखसम्भवेन रजतज्ञानभपि बुद्धिरूपतया
न विषयान्तरमपेक्षते इत्यात्मनः बुद्धेरेव ख्यातिः प्रतिभासः
“सहोपालम्भनियमादभेदोनीलतद्धियोः । भेदश्च भ्रान्तिवि-
ज्ञानैर्दृश्येतेन्दाविवाद्वयः । अविभागोऽपि बुद्ध्यात्मा
विपर्य्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते”
इति तेषां सिद्धान्तात् । तथाच विमतं रजतं बुद्धिरूपं
चक्षुरादिसंप्रयोगं विनाऽप्यपरोक्षित्वात् सम्मतबुद्धिवत्
इत्यनुमानेन रजतादेस्तद्रूपतासिद्धिः । ते हिं मन्यन्ते
शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाश्च षड़पि प्रत्य-
याः आलम्बनसमनन्तरसहकार्य्यधिपतिरूपान् प्रत्ययपदवा-
च्यान् चतुरोहेतूनपेक्ष्यैव उत्पद्यन्ते । तत्र नीलावभासरूपस्य
चित्तरूपज्ञानस्य नीलालम्बनवतो नीलाकारता भवति ।
समनन्तरप्रत्ययात् पूर्ब्बतनज्ञानवासनारूपात् बोधरूपता,
सहकारिप्रत्ययादालोकात् स्पष्टतावभासः । चक्षुरादेरधि-
पतिप्रत्ययात् विषयप्रतिनियम इति । तत्रेदमुच्यते प्रकृते न
तावत् सहकारिप्रत्ययाख्यादालोकात् रजताकारोदयो भवति
तस्य स्पष्टतामात्रहेतुत्वात् । नाम्गधिपतिप्रत्ययाख्याच्च-
क्षुरादेः सम्भवति तस्य विषयविशेषं प्रत्येव नियमनमात्र
हेतुत्वात् । नापि समनन्तरप्रत्ययाख्यात् पूर्ब्बज्ञानात् ।
विजातीयघटादिज्ञानानन्तरं विजातीयरजतभ्रमोदयप्रस-
ङ्गात्, नाप्यालम्बनप्रत्ययाख्याद्बाह्यार्थाद् भवति । विज्ञानवा-
दिभिस्त स्यानङ्गीकारात् । ततश्च रजतादिबाह्यार्थासत्त्वे विज्ञा-
नस्य कथं रजताकारतासमर्पणम् । संस्कार सामर्थ्येन तत्क-
ल्पनेऽपि न निस्तारः संस्कारस्य क्षणिकस्थायित्वविकल्पासह-
त्वात् । तथाहि स्थायित्वे सिद्धान्तहानिः । क्षणिकत्वे पूर्वा-
नुभवोत्तरमुत्पन्नस्य तस्य द्वितीयक्षणे नाशात रजताकारोल्लेखस-
मये तस्यासत्त्वात् कथं तेन तदाकारोल्लेखः सम्भवति । किञ्च
संस्कारस्य विज्ञानातिरिक्तत्वे क्षणिकविज्ञानमात्रसिद्धान्त-
हानिः । अथानादिज्ञानसन्ततौ यदा कदाचित् पूर्ब्बं
रजतज्ञानमुत्पन्नं तदेव संस्कार इत्यङ्गीक्रियते स च
यद्यपि विजातीयानेकज्ञानव्यवहितः तथापि कदाचित्
सजातीयं ज्ञानान्तरमुत्पादयत्येव यथा ब्रीहिवीज-
मनेकाङ्कुरादिकार्य्यव्यवधोनेऽपि कदाचित् सजातीया-
न्तरमुत्पादयति तद्वत् । अथ न पूर्व्ववीजादुत्तरवीजो-
त्पत्तिः किन्तु पूर्ब्बवीजजन्याङ्कुरसन्तानादेव तदुत्पत्तिरिति
चेत् तर्ह्यत्रापि पूर्ब्बरजतज्ञानजन्यज्ञानसन्तानएव
संस्कारोऽस्तु अतो न सिद्धान्तहानिः । एवं पूर्ब्बरजतज्ञा-
नमपि ततः पूर्व्वतररजतज्ञानादुत्पद्यते ततोऽनादिवासना-
प्रापितं रजतं बुद्धिरूपमेव सत् भ्रान्त्या बहिर्वदवभासते
इति चेत् अत्रोच्यते वेदान्तिभिः, किं तद्रजतमलौकिकं
लौकिकं वा अलौकिकत्वेऽपि किं जन्मरहितम् उत
लौकिकरजतवदेव जायते । अंलौकिकत्वे जन्मरहितत्वे
च जायमानस्य ज्ञानस्य रूपं न स्यात् । द्वितीयेऽपि किं
बाह्यार्थात् जायते, उत ज्ञानात् नाद्यः तैर्बाह्यार्थानङ्गी-
कारात् ज्ञानादेव तदुत्पादाभ्युपगमे दुष्टकरणजन्यज्ञा-
नादुत्पादो वाच्यः तथा च जनकस्य पूर्ब्बसत्त्व-
नियमेन तज्जनिका प्रतीतिः न रजतं गृह्णीयात् वर्त्तमान
पदार्थस्यैवाकारार्पकत्वनियमात् क्षणिकयोर्जन्यजनकयो-
र्भिन्नकानीनत्वेन रजतस्यापरोक्षकाले पूर्ब्बज्ञानस्यासत्त्वात्
पृष्ठ ०५३४
तेन ग्रहीतुमशक्यत्वात् अतोरजतापरोक्षव्यवहारो विलुप्तः
स्यात् । यदि अन्येन केनचित् दुष्टकरणजन्यज्ञानेन
तदुत्पादस्ततः स्वात्मकबुड्या तद्ग्रहःस्यादित्यङ्गीक्रियते
तदाऽतिप्रसङ्गः किञ्च दुष्टकरणजन्यज्ञानस्यैव तदुत्पादं-
कत्वं वाच्यं तत्र करणस्य दुष्टत्वञ्च अर्थक्रियाकारिताशून्यवि-
षयग्राहित्वेनैव तथा च असति रजते कथं करणस्य दुष्टत्व
निर्ण्णयः । अथ अदुष्टकरणजन्यज्ञानं तदुत्पादयति तदा तस्य
घटादिवत् अर्थक्रियाकारित्वरूपसत्त्वसम्भवेन देशान्तरवर्त्ति-
रजतविषयकादविशेषः स्यात् । किञ्च रजतस्यानुत्पत्तौ न
तस्य ज्ञानविषयता ज्ञानाकारार्पकतयैव विषयत्वस्य त्वया
स्वीकारात् अनुत्पन्नस्य कथं ज्ञाने स्वाकारार्पकत्वंसम्भवः ।
तस्मादात्मख्यातिपक्षे रजतमेव ज्ञानेन न प्रतीयेत ।
एवमख्यात्यन्य याख्यात्यात्मख्यातिपक्षेषु निरस्तेषु इदानीम-
सत्ख्यातिपक्षः वेदान्तिभिरभ्युपगतः आक्षेपपूर्ब्बकं प्रदर्श्यते
इदं रजतमिति ज्ञानं स्मृतिग्रहणाभ्यामन्यत् अध्यास-
नामकं ज्ञानं यत्र असतोऽनिर्वचनीयस्य उत्पन्नस्य रजता-
र्देभानमीदृशं ज्ञानमसत्ख्यातिपदवेदनीयमस्ति । ननु
ज्ञानस्य स्मृतिग्रहणाभ्यामन्यः प्रकारो न सम्भवति इति
चेन्न किं विलक्षणसामग्र्यनिरूपणात् तदसम्भवः? उत
विलक्षणज्ञानस्वरूपानिरूपणात्? उत विलक्षणविषया
निरूपणात्? नाद्यः संप्रयोगसंस्कारदोषाणामेव
तत्सामग्रीतया कल्पनात् न चंदोषस्य पूर्ब्धप्राप्तकार्य्यानुदयं
प्रत्येव हेतुत्वं न पूर्ब्बकार्य्योदयं प्रतीति वाच्यं कार्य्यानुद-
यस्य तत्प्रागभावरूपतयाऽनादिनि तत्र दोषहेतुत्वासम्भ-
वात् । वातपित्तश्लेष्मणाञ्चापूर्व्वकार्य्योत् पादकत्वदर्शनाच्च
न च दोषस्य संस्कारोद्बोधकत्वेनान्यथांसिद्धिः तदुद्बो-
धस्य तद्व्यापारत्वात् न हि व्यापारेण व्यापारिणोऽ-
न्यथासिद्धिरिति नियमात् नह्युत्पतननिपतने कुर्व्वन्
कुठारः छिदिक्रियां प्रति अहेतुर्भवतिं । ननु इन्द्रिय
संप्रयोगस्य इदन्तामात्रे सत्त्वात् रजतांशेऽसत्त्वात् इदन्तता-
बोधनेन तस्योपक्षीणंत्वात् एवं संस्कारस्य स्मृतिमात्र
जनकत्वनियमेन वेदान्तिमते अध्यासात्मकज्ञानस्य स्मृति-
त्वानङ्गीरात्, दोवस्य च स्वातन्त्रेप्रण ज्ञानहेतुत्वस्य कुत्राप्य-
दर्शनाच्च कथं रजतावभास इति चेत् उच्यते प्रथमं
दोषसहितेनेन्द्रियेण इदन्तामात्रविषयाऽन्तःकरणवृत्तिर्जन्यते
तत्र इदन्तायां तद्ग्राहकवृत्तौ च चैतन्यमभिव्यज्यते
तच्चैतन्यनिषा शुक्त्यविद्या च दोषवशात्संक्षुब्धा भवति
तत्रेदमंगावच्छिन्नचैतन्यस्थाऽविद्या दोषेण क्षुभिता सती
सादृश्याद्युद्बोधितसंस्कारवशात् रजताकारेण विवर्त्तते ।
वृत्त्यवच्छिन्नचैतन्यस्थाऽविद्या तु रजतग्राहिवृत्तिसंस्कार
सहकृता वृत्तिरूपेण विवर्त्तते । तौ च रजततद्वृत्तिरूपविवर्त्तौ
स्वाधिष्ठानेन साक्षिचैतन्येनावभास्येते इत्येवं रजतावभासः
कल्प्यते । यद्यम्यन्तःकरणवृत्तिरविद्यावृत्तिश्चेतिज्ञानद्वयम्
तथापि तद्विषयौ सत्यानृते इदंरजते अन्योन्यात्मकतामापन्नौ
इति विषययोरैक्यात् वृत्तिद्वयस्यैक्यम् ततश्च विषयावच्छिन्नफ-
लस्याप्येकत्वेन ज्ञानैक्यमुपपद्यते । एवं मिथ्याज्ञानतद्विषय-
योर्निरूपणेन द्वितीयतृतीयविकल्पौ निरस्तौ वेदितव्यौ ।
यदाप्यन्यत्र संप्रयोगसंस्कारौ परस्परं निरपेक्षो प्रमितिस्मृत्यो-
र्जनने समर्थौ दृष्टौ तथापि क्रमेण स्मृतिप्रमित्योरुत्पत्तौ
प्रवर्त्तकत्वानुपत्तौ प्रवृत्त्यन्वथानुपपत्त्या ताभ्यां प्रत्यभिज्ञाव
देकं विशिष्टं मिथ्याज्ञानं जन्यते इति कल्प्यते यथा
नैयायिकादिभिः निरन्तरोत्पन्नेष्वपि वर्ण्णज्ञानेषु
यौगपद्याभावात् पदार्थज्ञानानुपवत्त्या पूर्ब्धज्ञानजन्य
संस्कारसहितमन्त्यवर्णज्ञानमेव पदार्थबुद्धिहेतुत्वेन कल्प्यते
तद्वत् । ननु विमतं ज्ञानं नैकं भिन्नकारणजन्यत्वात्
रूपरसादिज्ञानवदिति चेत् न अनुमानप्रत्यभिज्ञानयोर्व्य-
भिचारात् उभयोरपि नानाकारणजन्यत्वात् । अनुमानं हि
व्याप्तिज्ञानसंस्कारलिङ्गदर्शनपरापर्शजन्यम् । प्रत्यमिज्ञा
च इन्द्रियसंप्रयोगसंस्काररजन्येति सर्व्वैरङ्कीक्रियते
न च शुक्तौ अनिर्वचनीयस्य रजतस्योत्पत्तौ तस्य च शुक्तौ
संसर्गात् कथं तस्य मिथ्यात्वमसत्त्वञ्च स्यादिति वाच्यम्
सत्तात्रैविध्याङ्गीकारेण तत्र व्यावहारिकसत्ताशून्यत्वेनैव तस्य
मिथ्यात्वस्य कल्पनात् । तथाहि सत्त्वं त्रिविधं पारमा-
र्थिकं त्रैकालाबाध्यत्वरूपं यथा ब्रह्मणः । व्यावहारिकं
ब्रह्मज्ञाननिर्वर्त्त्यम् यथा आकाशादेःप्रातीतिकम अधिष्ठा-
नज्ञाननिवर्त्त्यं यथा शुक्तिरजतादेः । न च मिथ्यात्वकल्पनं
मानहीनम्” “अथ रथान् रथयोगान् पथः सृजते” इति
श्रुतेः मिथ्यवात्र रजतमभादिति रजततजज्ञानयोर्मिथ्या-
त्वप्रत्यभिज्ञानस्य च मानत्वात् । अतो मतान्तरवत वेदान्तमते
नानुभवविरोधोनिर्मूलत्वं वा । अख्यातिपक्षे अपरोक्षाव-
भासिनः स्मर्य्यमाणत्वं विरुध्यते । ज्ञानहयपक्षे रजतस्य
पारोक्ष्यं स्मृतौ स्मरणाभिमानमोषादिकम, अन्यथाख्यातौ
रजतंस्य आपरोक्ष्यानुभवबिरोधः आत्मख्यातिपक्षे विषया-
भावेनापरोक्षाबभासविरोधः” । पमेवविवरणसारांशः ।
शुक्तिरजतादि ज्ञान्ततष्टान्तेनज्ञाननिवर्त्त्यतया सर्व्वेषां
घटपाटादिज्ञानानामसत्ख्यातित्वं तद्विषयाणां वस्तु-
पृष्ठ ०५३५
तोऽसत्त्वात् असत्त्वेऽपि सत्त्वेन व्यवहार्य्यतामात्रमिति
शुक्तिजतादिभ्यो घटादीनां विशेषः इति अध्या-
सखरूपमिथ्याज्ञानमाक्षिप्य तत् समर्थयता च भाष्यकृ-
ता तथैव व्यवस्थापितम्” यथा “युष्मदस्मत् प्रत्यगोचरयोर्वि-
षयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुप-
पत्तौ सिद्धायां तद्धर्म्माणामपि सुतरामितरेतरमावानु-
षपत्तिरित्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्-
प्रत्ययगोचरस्य विषयस्य तद्धर्म्माणाञ्चाध्यासस्तद्विपर्य्ययेण
विषयिणस्तद्धर्म्माणाञ्च विषयेऽध्यासोमिथ्येति भवितुं
युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्म्मां
श्चाध्यस्येतरेतराविवेकेणात्यन्तविविक्तयोर्धर्म्मधर्म्मिणो र्मिथ्या-
ऽज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेद-
मिति नैसर्गिकोऽयं लोकव्यवहारः ॥ आह कोऽयम-
ध्यासोनामेति उच्यते स्मृतिरूपः परत्र पूर्ब्बदृष्टावभासः ।
तं केचिदन्यत्रान्यधर्म्माध्यास इति वदन्ति । केचित्तु
यत्र यदध्यासस्तद्विवेकाग्रहणनिबन्धनो भ्रम इति ।
अन्येतु यत्र यदध्यासस्तस्यैव विपरीतधर्म्मत्वकल्पनामा
चक्षते इति सर्वथापि तु अन्यस्यान्यधर्म्मावभासतां न
व्यभिचरति । तथा च लोकेऽनुभवः शुक्तिका हि रजतवदव-
भासते एकश्चन्द्रः स द्वितीयवदिति । कथं पुनः प्रत्यगात्मन्य
विषयेऽध्यासो विषयधर्म्माणाम्? । सर्व्वी हि पुरोऽवस्थिते
विषये विषयान्तरमध्यस्यति । युष्मत्प्रत्ययापेतस्य च प्रत्य-
गात्मनोऽविषयत्वं ब्रवीषि । उच्यते । न तावदयमेकान्ते-
नाविषयः अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्म
प्रसिद्धेः । नचायमस्तिवियमः पुरोऽवस्थित एव विषये
विषयान्तरमध्यसितव्यमिति अप्रत्यक्षेऽपि ह्याकाशे बालास्तल-
मलिनताद्यध्यस्यन्ति । एवमविरुद्धः प्रत्यगात्मन्यऽन्यऽनात्मा-
ध्यासः । तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति
मन्यन्ते । तद्विवेके च वस्तुस्वरूपावधारणं विद्यामाहुः ।
तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेण वा
अणुमात्रेणापि स न संबध्यते । तमेतमविद्याख्यमात्माऽना-
त्मनोरितरेतराध्यासं पुरस्कृत्य सर्व्वे प्रमाणप्रमेयव्यवहारा
लौकिका वैदिकाश्च प्रवृत्ताः सर्वाणि च शास्त्राणि विधि-
प्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयाणि प्रत्य-
क्षादीनि प्रमाणानि? शास्त्राणि चेति । उच्यते । देहेन्द्रि-
यादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाण
प्रवृत्त्यनुपपत्तेः । नहीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यव-
हारः संभवति । नचाधिष्ठानमन्तरेण इन्द्रियादिव्यापारः
संभवति । नचानध्यस्तात्मभावेन देहेन कश्चित् व्याप्रियते ।
न चैतस्मिन् सर्व्वस्मिन्नसत्यसङ्गस्यात्मनः प्रमातृत्वमुपप-
द्यते । न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मा-
दविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि
चेति” । चतुर्थसूत्रभाष्ये च जगतोव्यावहारिकत्वे अन्य-
दीयमतं संवादितम् यथा “गौणमिथ्यात्मनोऽसत्त्वे पुत्र-
देहादिबाधनात् । सद्ब्रह्मात्माहमित्येव बोधे कार्य्यं कथं
भवेत्?” इत्याक्षिप्य । “अन्वेष्टव्यात्मविज्ञानात् प्राक् प्रमातृ-
त्वमात्मनः । अन्विष्टः स्यात् प्रमातैव पाष्मदोषादिव-
र्ज्जितः । देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मऽनिश्चयात्” यथा च
लौकिकक्यवहार्य्यपदार्थानां पारसार्थिकसत्त्वाभावेऽपि
तत्सत्त्वमङ्गीकृत्य सर्वे व्यवहाराः तेषां च व्यवहारि-
कसत्त्ववत्त्वम् तथा प्रपञ्चेन समर्थितं खण्डनकृता खण्डन
खण्डयाद्ये । यथा “अथ कथायां वादिनोनियममेतादृशं
मन्यन्ते प्रमाणादयः सर्व्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः
सन्तीति कथकाभ्यामभ्युपेयम् । तदपरे न क्षमन्ते ।
तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्य
हेतोः? किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्यु-
गमसाहित्यनियतस्य तस्य प्रवर्त्त यितुमशक्यत्वात्, उत
कथकाभ्यां प्रवर्त्त नीयवाग्व्यवहारं प्रति हेतुभावात्, उत
लोकसिद्धत्वात्, अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविज-
यातिप्रसञ्जकत्वात् । न तावदाद्यः तदनभ्युपगच्छतोऽपि
चार्व्वाकमाध्यमिकादेर्वाग्विषयविस्तराणां प्रतीयमानत्वात्
तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः ।
सोयमपूर्व्वः प्रमाणादिसत्त्वानभ्युपगमात्मा वाक्स्तम्भनमन्त्रो
भवताभ्यूहितो नूनं, यस्य प्रभावाद्भगवता सुरगुरुणा
लोकायतसूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा
नोपदिष्टाः भगवत्पादेन वा वादरायणीयेषु सूत्रेषु भाष्यं
नाभाषि । प्रमाणाद्यनभ्युपगमेऽपि प्रवर्त्तन्तां तन्मते वाचो-
भङ्ग्यः तास्तु साधनवाधनक्षमा न भवन्ति तावतेति ब्रूम-
इति चेन्न प्रमाणाद्यनभ्युपगम्य प्रवर्त्तितत्वं तदीयसाधनबा-
धनाक्षमतायां न नियामकं किन्तु सद्वचनाभासलक्षणयो-
गित्वमित्यवश्याभ्युपेयं भवता, येनाभ्युपगम्यापि प्रमाणादीनि
प्रवर्त्तिताः मतान्तरानु सारिभिर्व्यवहारा अभ्युपगतप्रमा-
णादिसत्त्वैर्म्मतान्तरव्यवहारानुसारिभिरपरैस्तथाभूता इति
कथ्यन्ते । यदि त्वस्मद्वचसि सद्वचनाभासलक्षण न भवान्
दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवताप्र-
पृष्ठ ०५३६
वर्त्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्मा-
कमादरः । अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्त्ति-
तोऽयं व्यवहार इत्येतावता भवदीयो व्यवहाराभास इत्य-
स्माभिरपि वक्तुं शक्यतएव । ननु यदि प्रमाणादीनि
न सन्ति व्यवहारएव धर्म्मी कथं सिद्ध्येत् दूषणादिव्यव-
स्था वा कथं स्यात् सर्व्वविधिनिषेधानां प्रमाणाधीन-
त्वात् । मैवम् । न ब्रूमोवयं न सन्ति प्रमाणादीनीति,
स्वीकृत्य कथारभ्येति । किन्नाम सन्ति न सन्ति वा प्रमा-
णादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि
भवता व्यवह्रियते तथा व्यवहारिभिरेव कथा प्रवर्त्त्यता-
मिति । अन्यया न सन्ति प्रमाणादीनीति मतमम्माकमा-
रोप्य यदिदम्भवता दूषणमुक्तं तदपि न वक्तुं शक्यं
कीदृशीं मर्य्यादामालम्ब्य प्रवर्त्तितायां कथायां दूषण-
मुक्तं किं प्रमाणादीनां सत्त्वमभ्यु प्रगम्योभाभ्यां वादिभ्यां
प्रवर्त्तितायां कथायाम् उतासत्त्वमभ्युपेत्य अथैकेन सत्त्व-
मपरेण चासत्त्वमङ्गीकृत्य । न तावदाद्यः अभ्युपगत प्रमा-
णादिसत्त्वं प्रति तादृक्पर्य्यनुयोगानवकाशात् । द्वितीये तु स्वतो-
ऽप्यापत्तेः न तृतीयः तथैव कथान्तरस्य प्रसक्तेः उभयाभ्यु
पगमानुरोधित्वाच्च कथानियमस्य । अन्यथा स्वाभिप्रायमा-
लम्ब्य तेनापि तद्वचसि यत्किञ्चिद्वागात्मनि दूषणेऽभिहिते
कस्य जयो व्यवतिष्ठताम् प्रमाणाद्यभ्युपगन्तुरेव यावन्नियम-
भरयन्त्रणा महती स्यात् । तस्मात् प्रमाणादिसत्त्वासत्त्वा-
भ्युपगमौदासीन्येन व्यवहारनियमे समयं वद्ध्वा कथायां
प्रवर्त्तितायां भवतेदं दूषणमुक्तं युक्तमेव तथा सति स्यात् ।
योऽयं भवान् स्वाभिप्रायमपि नावधारयितुं शक्तोऽतिदू-
रतस्तस्मिन् पराभिसन्धानावधारणप्रत्याशा । अथ वादी-
कृत्य दुर्वैतण्डिकं तस्मिन् बाधोऽभिधीयत इत्येव नेष्यते
शिष्यादयस्तु तस्य कथानधिकारं ज्ञाप्यन्ते अतएव भाष्य-
कारः “सप्रयोजनमनुयुक्तो यदि प्रतिपद्यत” इत्याहस्म न तु
प्रतिपद्यस इति । मैवम् शिष्यादीन् प्रत्यपि चार्ब्बाका-
देर्दोषोऽयमित्येवाभिधातव्यम् । कथञ्च तथा स्यात् तस्य
कथाप्रवेशाप्रवेशयोस्तद्वाधाक्षमत्वात्कथायामेव हि निग्रहः ।
नापि द्वितीयः तथाहि स्यादप्येवं यदि कथकप्रवर्त्त
नीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्त्वानभ्युप-
गमे निवर्त्तेत नचैवं सम्भवति तथा सति तत्सत्त्वानभ्युप-
गन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत हेत्वनुपपत्तेः ।
उक्तवायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपाप-
लापो न शक्यत इति । अथ मन्यसे कथकवाग्व्यवहारं
प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमः
यत्सत्तदभ्युपगम्यतैति स्थितेरिति । मैवम् । कयापि
नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतु-
त्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः ।
कथनात्पूर्ब्बं तत्तत्त्वावधारणं वा परपराजयं वा
अभिलषद्भ्यां कथकाभ्यां यावता विना तदभिलषितं न पर्य्य-
वस्यति तावदनुरोद्धव्यम् तच्च व्यवहारनियमस्यानुबन्धादेव
द्वाभ्यामपि ताभ्यां सम्भाव्यतैति व्यवहारनियमसमयमेव
बध्नीतः सच प्रमाणेन तर्केण च व्यवहर्त्तव्योवादिना
प्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्य्ययलिङ्गप्रतिज्ञाहा-
न्याद्यन्यतमंनिग्रहस्थानं तस्य दर्शनीयम् तद्व्युत्पादने
प्रथमस्य भङ्गोव्यवहर्त्तव्योऽन्यथा द्वितीयस्यैव । तादृशेतरौ च
जेतृतया व्यवहर्त्तव्यौ प्रामाणिकपक्षस्तात्त्विकतया व्यवहर्त्तव्य
इत्यादिरूपः । अतएवं व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यः
तथा च सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्तैतिप्र-
माणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशम् ।
द्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यवस्था-
जयमूलत्वेन व्यवहारनियमस्य स्वेच्छयैव परिगृहीतत्वात्
नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूलत्वान्मूलापरि-
शुद्धिसम्भवेन सर्व्वविचारविचार्य्यतत्फलविप्लवापत्तिः स्यात् ।
अविद्याविद्यमानानादिपारम्पर्य्यायातस्य लोकव्युत्पत्तिगृ-
हीतसंवादस्य च तस्यान्यथाभावासम्भाव्यतालक्षणस्वतःसि-
द्धिशुद्धत्वात् । नच प्रमाणादीनां सत्तापीत्थमेव ताभ्यामङ्गी-
कर्त्तुमुचिता । तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युप-
पत्तेः प्रमाणादिसत्तामभ्युपेत्यापि तथा व्यवहारनियम-
व्यतिरिक्तकथाप्रवृत्तिं विना तत्त्वनिर्ण्यस्य जयस्य वाभि-
लषितस्य कथकयोविपर्य्यवसानात् । नापि तृतीयः
लोकव्यवहारो हि प्रामाणिकव्यवहारो वा स्यात् पामरादिसा-
धारणव्यवहारो वा । नाद्यः । विचारप्रवृत्तिमन्तरेण तस्य
दुर्न्निरूपत्वात् तदर्थमेव च पूर्ब्बं नियमस्य गवेषणात् ।
नापि द्वितीयः शरीरात्मतादीनामपि तथा सति भवता
स्वीकर्त्तव्यतापातात् । पश्चात्तद्विचारबाध्यतया नाभ्युपेय-
तैति चेत् तर्हि प्रमाणादयोऽपि यदि विचारबाध्या
भविष्यन्ति तदा नाभ्युपेया एव अन्यथा तूपगन्तव्या इति
लोकव्यहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्न
भवति । नापि चतुर्थः यादृशोभवता प्रमाणादीन्यभ्युपगम्य
व्यवहारनियमः कथायामालम्ब्यते । तस्यैव प्रमाणादि-
सत्त्वासत्त्वानुसरणोदासीनैरस्माभिरप्यवलम्बनात् । तस्य
पृष्ठ ०५३७
यदि मां प्रति फलातिप्रसञ्जकत्वं तदा त्वां प्रत्यपि समानः
प्रसङ्गः । स्यादेतन्नियतवाग्व्यवहारक्रियासमयबन्धेन कथां
प्रवर्त्त यतापि व्यवहारसत्ताभ्युपगन्तव्या नहि सत्तामन-
भ्युपगम्य व्यवहारक्रियाभिधातुं शक्या । क्रिया हि
निष्पादना असतः सद्रूपताप्रापणमिति यावत् प्रमाणैर्व्यव-
हर्त्तव्यमिति नियमबन्धने प्रमाणानां कारणभावो नियतः
तद्भावश्च नियतपूर्ब्बसत्तारूपं कारणत्वम् प्रमाणानामना-
दाय न पर्य्यवस्येत् । दूषणानाञ्चास्तित्वेन भङ्गावधारण-
नियमबन्धने साधनाङ्गानां व्याप्त्यादीनां सत्त्वेन तद्विषयस्य
तत्त्वरूपताव्यवहारनियमनादौ च कण्ठोत्थमेव तस्य तस्य
सत्त्वमङ्गीकृतमिति रिक्तमिदमुच्यते प्रमाणादीनां सत्ता-
मनभ्युपगम्य कथारम्भाः शक्यन्त इति । मैवम् ।
एभिरपि बाधकैः कथायामारब्धायामेवाभिमतस्य प्रसाधनीयत्वे
पूर्ब्बोक्तबाधायामनिस्तारात् । न च व्यवहारनियमस्य
स्वेच्छाकृतस्यैव प्रमाणादिसत्तास्वीकारपर्य्यवसायितया
नायं दोषः स्यात् । यतः सत्ताज्ञानस्य तत्राङ्गत्वं
न तु सत्तायाः । तत्र किं सत्तावगममात्रात्स-
त्ताभ्युपगम्येति मन्यसे अबाधितात्तदवगमाद्वा ।
न तावदाद्यः मरुमरीचिकादौ जलरूपतासद्भावाभ्युप-
गमप्रसङ्गात् । द्वितीयेऽपि किंवादिप्रतिवादिमध्यस्थमात्रस्य
तस्यापि किं कथाकालमात्रएव बाधितत्वावगमाभावात् ।
अथवा कस्यचिदपि कालान्तरेऽपि च बाधितत्वबोधविरहात् ।
नाद्यः अतिप्रसङ्गात् पुरुषत्रयावगतस्य एकक्षणावगतस्य च
पुरुषान्तरेण तेनापि क्षणान्तरे बहुलं बाध्यतादर्शनादिति ।
नचासावर्थोऽसन्नपि द्वित्रादिपुरुषमात्रपूर्ब्बजाततत्प्रतीत्यनु-
रोधाद्वाधदर्शने सत्यपि तथैव सन्नित्यभ्युपगम्यते । तस्माद्-
द्वितीयः पक्षः परिशिष्यते यत्र सर्व्वप्रकारेण बाधितत्वं
नास्ति तत्सदित्यभ्युपगन्तव्यम् । तदित्थं यदि नाम वादि-
घ्रतिवादिमध्यस्थमात्रस्य दूषणादिसत्तावगमः कथाकाल-
मात्रे तैरबाध्यमानः कथाङ्गत्वेनाभ्युपेयते किमायातं
सर्व्वप्रकाराबाधिततत्तत्सत्तावगमायत्ततत्तत्सत्त्वाभ्युपगमक-
थानङ्गताङ्गीकारस्य । कतिपयप्रतिपत्तृकतिषयकालतथात्वा-
वगमादेव च प्रायेण लौकिकव्यवहारः प्रतोयते तादृश-
श्चायं सत्त्वावगमः कथाङ्गमेतत्तदुच्यते व्यवहारिकीं प्रमा
णादिसत्तामादाय विचारारम्भ इति । तस्माद्यादृग्व्यवहार
नियमः कृतः तन्मर्य्यादानेन नोल्लङ्घितेति । यद्वादिवाग्-
व्यवहारे मध्यस्थावगमः स विजयते यस्य च वचसि नैवं
तस्यावगमस्तस्य पराजयः । यत्र वाद्युक्तनिग्रहसत्त्वावगमः
स निगृहीतः तदितरस्तु न तथेत्यादिनियम एव कथार-
म्भाय ग्राह्यः । अनेन नियमेन व्यवहर्त्तव्यमित्यस्य ह्यय-
मर्थोऽनेन नियमेनोक्तमनेन नेति मध्यस्थावगमस्य विषयी
भवितव्यमिति । नच वाच्यमन्ततस्तदवगमस्यापि सत्ताभ्यु-
पेयेति । तस्यापि सत्ताचिन्तायां तत्सत्तावगमान्तरस्यैव
शरणत्वात् । नचैवमनवस्था तदनुसरणावश्यम्भावानङ्गी-
कारात् । एवं त्रिचतुरज्ञानजन्मनोनाधिकमतिरिति
न्यायात् । नचान्तिमासत्त्वे पूर्ब्बपूब्बप्रवाहासत्त्वापत्ति
स्तथाचावगममादायापि न निस्तार इति वाच्यम् ।
अस्त्वेवं हि तथापि त्रिचतुरज्ञानकक्षागवेषणमात्रविश्रा-
न्तेन विचारेण ततःपरमननुसरणरमणीयेनैव समयं बद्ध्वा
कथाया मिथःसम्प्रतिपत्त्या प्रवर्त्तनात् । अन्यथा प्रमाणा-
दिसत्ताभ्युपगमेऽपि ज्ञानानवस्थायादुष्परिहरत्वात् । नच
वाच्यं मत्पक्षे स्वरूपसता ज्ञानेन व्यवहारस्य चरितार्थयितु”
शक्यत्वात् न ज्ञानस्य परम्परानुसरणमुचितं नत्वेवं त्वत्पक्षे
ज्ञानस्वरूपसत्ताङ्गीकारप्रसङ्गादिति । स्वरूपसत्तामादायापि
परिहरतोऽनवस्थाप्रसङ्गस्य स्वप्रकाशप्रस्तावे वक्तव्यत्वात् ।
यथा त्वत्पक्षे स्वरूपसदविशेषेऽपि ज्ञानस्वरूपसत्तैव परं
व्यवहारोपपादिका न घटादिसत्ता । एवमेवासत्ताऽविशेषेऽपि
ज्ञानमेवासद्व्यवहारोपपादकं नान्यत् । असच्चोपपादकञ्चेति
व्याहतमिति चेन्न सदुपपादकमिति कुतो न व्याहतम् ।
नहि सदुपपादकमसच्च नेति क्वचिदावयोः सिद्धम् । ननु
तदसत्ताऽविशेषात्तत्कार्य्यस्यान्यदापि प्रसङ्गः, न कार्य्यस्या-
द्यसत्ताक्षण इवान्यदापि सामग्रीसत्त्वाविशेषात्तवापि किं
नान्यदा कार्य्यजन्म । अथ न मम तदानीन्तनं सामग्री-
सत्त्वं तदातनस्य कार्य्यजन्मनो नियामकं किन्तु ततः प्राक्
सामग्रीसत्त्वं तथादर्शनात् । तर्हि ममापि कालान्तरस्थमपि
तदसत्त्वं तदातनकार्य्यजन्मनोनियामकं तथादर्शनादेव ।
मम तदव्यवहितोत्तरत्वं तदा कार्य्यजन्मनियामकमिति
चेत् न समसमयत्वादागन्तुकत्वाच्चाविशेषेण नियम्यनिया-
मकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एव सामग्य्रास्तदा
कार्य्यनियमोऽभ्युपेयः तथादर्शनादित्येव मन्तव्यम् । तथा
च समः समाधिः । तथापि कार्य्यजन्मकालस्य कोविशेषः ।
कार्य्यजन्मैव । अन्यथा यद्विशेषान्तरं तदपि विशेषान्तर-
वतः कालस्य स्यादिति अपर्य्यवसानमेव पर्य्यवस्येत् । तथापि
तत्कालस्यानुगतं किं रूपमिति चैन्न रूपान्तरवतोपि किं
रूपमित्यपि पर्य्यनुयोगस्यानुवृत्तेः । किञ्च
“अन्तर्भावितसत्त्वञ्चेत्कारणं तदसत्ततः ।
पृष्ठ ०५३८
नान्तर्भावितसत्त्वञ्चेत्कारणं तद सत्ततः ।”
तथाह्यन्तर्भूतसत्वे यदि कारणत्वं तदा
स्वविशिष्टे स्ववृत्तिरसतः स्वाश्रयत्वमापादयति । विशिष्ट-
स्यार्थान्तरत्वेऽपि च स्वस्मिन् स्ववृत्तिव्यतिरेक-
वत् स्वविशिष्टे स्ववृत्तिव्यतिरेके नियमदर्शनात्
न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्याविशिष्टवृत्त्य-
भ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुः सर्व्वथैव
कारणमसत्पर्य्यवस्यति । अपरापरसत्तानिवेशने वा पर्य्य-
वसानमेव । न च सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्र-
सारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानुगमन-
निबन्धनलङ्घिनः प्रथमापि सत्ता न स्यादिति । सत्त्ववृद्धि-
मिष्टवतो मूलमपि ते नष्टमिति कष्टतरम् । न च स्वरूप-
सत्तोपगमाय स्वस्ति भिन्नानप्यनुगतबुद्ध्याद्याधानपदेऽ-
भिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत ।
माभूदनुगतिः स्वरूपसत्त्वस्येति च वदन् तद्गर्भिणीं कारणतां
कथमनुगमयितासीति । किञ्च स्वरूपसत्त्वं स्वरूपात्
घटाद्यात्मनो नाधिकमसतोपि स्वरूपं स्वरूपमेव न
ह्यमन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि न
स्यात् असतोऽघटादित्वात् । अथ सदपि सत्तामनन्तर्भाव्य
कारणं तदानीमसदपि ततथास्तु सत्तासत्तयोः कारण
कोट्यप्रवेशाविशेषात् । अथ न सत्ता कारणकोटिनिविष्टा
किन्तु कारणत्वं सत्त्वं नियतपूर्ब्बसत्तां हि कारणताम्म-
न्यैति मन्यसे, तर्हि मत्पक्षे सैव कारणतास्तु तर्हि
कारणसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमिति चेन्न
भावानवबोधात् सत्तामसतीमभ्युपगच्छतापि सत्ता मयाभ्यु
पगतैव । अन्यया कासावसतीति त्वमपि किं सत्तान्तत्स-
त्तामन्तर्भाव्य कारणत्वमिच्छसि । नत्वेवं पूर्व्ववत् क्वापि
सत्तात्यागो वा अनवस्थायां पर्य्यवसानं स्यात् । असत्ताऽ
विशेषात् कारणनियमः कथं स्यादिति चेन्न सत्ताविशेषेऽपि
तुल्यत्वात् । सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्य तज्जातीयस्य
वा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं सोऽप्यनियतो
यदा कारणाभावस्तदा कार्य्याभावावश्यम्भावानभ्युपगमात्
नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्य्योत्पादात् ।
अन्वयस्तु न कदाचिदपीति चेन्न तुल्यत्वात् अन्वयो
नास्तीत्यभ्युपगच्छतापि अन्वयोपगमात् अन्वयस्यापि
सत्तान्तर्भावने कथितदोषापत्तेः । एतेन
“आशामोदकतृप्रा ये ये चोपार्ज्जितमोदकाः ।
रसवीर्य्यविपाकादि तेषां तुल्यं प्रसज्यते” ॥


इत्यस्यापि बाधकत्वमाशामोदकायते । सत्तान्त-
र्भावानन्तर्भावाभ्यां प्रत्यादेशात् आशामोदकादिनापि च
रुसवीर्य्यविपाकादिजननात् । तदसत्कथं कार्य्यं स्यादिति
चेन्न सत्तामन्तर्भाव्य कार्य्यत्वोपगमे कारणवत्कार्य्योपि
उक्तदोषस्यानन्तर्भावे वा ऽविशेषस्य पूर्ब्बवदावृत्तेः तस्मात् ।
“पूर्ब्ब सम्बन्धनियमे हेतुत्वे तुल्यएव नौ ।”
“हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ।”
आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमवसेयं
प्राक्सत्त्वनियमस्य विशेषस्यानभ्युपगमात् असत्त्वस्य
चाविशेषादिति चेन्न इदमस्मान्नियतं प्राक्सदितिबुद्ध्या-
विशेषात् । भ्रान्त्यैवंबुद्धिगोचरेऽतिप्रसङ्ग इति चेन्न
यादृश्या हि धिया त्रिचतुरकक्षाबाघानवरोधविश्रान्तया
वस्तुसत्त्वनिश्चयस्ते, तादृश्येव विषयीकृतस्य ममापि
कारणतानिश्चयः । केवलन्ततः परास्वपि कक्षासु बाधात्
पूर्ब्बपूर्ब्बभ्रान्तिसम्भवेन न तावता सत्त्वावघारणं वयं
मन्यामह इति विशेषः । परदर्शनसिद्धान्तस्य भूरिकक्षा-
धाविनोऽपि ततः परकक्षाबाध्यमानत्वेनातथाभावोपगमात्
अन्यथैकदर्शनपरिशेषः स्यात् । एतेन सत्त्वाविशेषात्
कथं कस्यचित् पक्षस्य त्रिचतुरकक्षाधावित्वमास्तामि-
त्यपि निरस्तम् । अनेवंबुद्धिविषयतादशायां कोविशेष इति
चेत् यदा कदापि तादृशबुद्धिविषयतैव । अन्यथा
कथय कथमन्यदा तादृशबुद्धिविषयतया अन्यदा सत्त्वं
स्यात् । तदा सत्त्वमन्यदास्थेन गृह्यत इति चेत् अन्यकालि-
कमेव तर्हितत्तदातनकारणत्वोपयोगीति समानम् तदेतत्
संवित्तिसत्त्वमिति गीयते असती सा न विशेषिका सती
सानेष्टेत्यभिसन्धानेन द्वैतापत्तेरि संवित्तिरपि सती न वेति
पृच्छन् प्रतिवक्तव्यः ज्ञानं तावद्व्यवहारोपपादकतया द्वाभ्याम-
प्यनुमतं तस्यापि जिज्ञासायां त्रिचतुरकक्षाविश्रान्तग्वेषणस्य
यदि सत्तोपपन्ना भविष्यति तदा सत्ता, तेनेदमुपपादितम्भ-
विष्यति । अथासत्ता तस्य पर्य्यवस्यति तदा असत्तैव तेनेद
मुपपाद्यत इति स्वीकर्त्तव्यं भ्रमविषयेणेव भ्रमे विशिष्ट-
ताव्यवहारः । अविचार्य्यैव तावत्तस्य सदसत्त्वं विचार
आरब्धव्यः । अन्यथा प्रथममेव मतिकर्द्द मे कथारम्भणमश-
क्यमापद्येत । स्वीकृतञ्च भवतापि भविष्यदादिविषये विज्ञाने
विशिष्टव्यवहारनिदानत्वमसतो विषयस्य, कारणशक्तेश्च
विशेषकमसदेव कार्य्यम् । न च कालान्तरसम्बन्धिनी सत्ता
तस्या एकत्रान्यत्र नान्यदापीति वैधम्यमेतयोरपीति
वक्तव्यम् विशिष्टव्यवहारप्रवृत्तिसमये द्वयोरप्यसत्ताऽविशेषात्
पृष्ठ ०५३९
प्रयोजनानुपयुक्ते काले तस्य स्वरूपतोऽवस्थानं पाटच्चरलु-
ण्ठिते वेश्मनि यामिकजागरणवृत्तान्तमनुहरति तथापि
कालान्तरस्थित्या घटादिकं स्वरूपतो विशेषणतश्च
व्यवच्छिन्नं, तद्विज्ञानेन स्वभावबलात् स्वविशेषणत्वेनोपादी-
यते । नत्वेवमत्यन्तासद्भवितुमर्हति तस्य स्वरूपतो
विशेषणतश्च व्यवच्छिन्नतयानङ्गीकारात् कुत्र स्वभावतो-
विज्ञानं सम्बन्धि निरुच्यते न । उक्तमत्र असतोऽपि तदेव रूपं
तस्य नियतस्व रूपस्यैव नियतविशेषणस्यैवासत्त्वादन्यथाति-
प्रसङ्गात् भ्रान्तिविषयेण दत्तोत्तरत्वाच्चेत्यलमतिविस्तरेण” ।
खण्डनखण्डखाद्यम् ।

असत्ता स्त्रो असतोभावः तल । १ अविद्यमानत्वे २ असाधुत्वे ३ अव्यक्तत्वे च ।

असत्त्व न० असतो भावः त्व । १ अविद्यमानत्त्वे २ अव्यक्तत्वे

३ असाधुत्वे च सत्त्वं द्रव्यं न० त० । ४ द्रव्यभिन्ने “सोऽसत्त्व-
प्रकृतिर्गुणः” इति फणिभा० । “क्रिया न युज्यते लिङ्ग-
क्रियानाधारकारकैः । असत्त्वरूपता तस्या इयमेवाव-
धार्य्यताम्” हर्य्युक्तायां लिङ्गसंख्यानन्वयिन्यां कर्त्तृकर्म-
त्वभिन्नकारकत्वशून्यायां साध्यरूपयां ५ क्रियायाञ्च । सत्त्वं
प्रकाशादिसम्पादकं प्रकृतेर्गुणभेदः न० त० । तद्भिन्ने
६ रजसि ७ तमसि च न० । सत्त्वं जन्तुमात्रम् न० ब० ।
८ जन्तुशून्ये त्रि० । सत्त्वं सात्त्विकः गुणभेदः ।
९ तच्छूत्ये तामसादिगुणयुते त्रि० । सत्त्वमर्थक्रिया-
कारित्वम् अभावे न० त० । १० प्रयोजनानुपयुक्ते उदा०
असत्ख्यातिशब्दे “सत्त्वासत्त्वकथा वृथा” खण्डनख० ।

असत्पथ पु० असन् पन्थाः अच् समा० । १ शास्त्रादिनिषिद्धे

कार्य्यादो २ दुष्टे वर्त्मनि च ।

असत्परिग्रह पु० असतः पक्षस्य परिग्रहः स्वीकारः । दुष्टपक्षालम्बने ।

असत्प्रतिग्रह पु० असतः निषिद्धस्य तिलादेः असद्भोवा

शूद्रादिभ्यः प्रतिग्रहः । १ निषिद्धद्रव्यप्रतिग्रहे २ शूद्रा-
दिभ्यः प्रतिग्रहे च । प्रतिग्रहश्च अदृष्टार्थत्यक्तद्रव्य
स्वीकारः । पारितोषिकोपढौकनादिग्रहणे तु न दोषः ।
विवरणमप्रतिग्राह्यशब्दे दृश्यम् । “शतसहस्रमसत्प्रतिग्र-
हेष्विति” विष्णु० “असत्प्रतिग्रहेषु उभयतोमुख्यादिप्रति-
ग्रहेष्विति” शु० त० रघुनन्दनः ।

असत्य न० विरोधे न० त० । सत्यभिन्ने १ मिथ्याभूते ।

२ मृषार्थके वाक्यादौ “अपात्रीकरणं ज्ञेयमसत्यस्य च
भाषणम्” मनुः । असत्यवादी असत्यभाषी असत्यवचनः ।
३ तत्प्रयोक्तरि मिथ्याभूते ४ वस्तुनि च त्रि० ।
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्” इति गोता ।
असत्यत्वं वस्तुस्वभावविरोधिधर्मभेदः वाक्यस्य तु तथाभूत-
पदार्थप्रतिपादकत्वेन यथा इदं रजतमितिवाक्यं शुक्ति-
कायां रजततादात्म्यं प्रतिपादयत् असत्यं भवति एवमन्य-
दपि । सत्यत्वञ्च त्रैकालिकबाधशून्यत्वम् तच्छून्यमसत्यत्वम् ।
शंयुप्रजापतेः ५ भार्य्याभेदे, स्त्री “शंयोरप्रतिमा भार्य्या
सत्याऽसत्याथ धर्मजा” भा० व० प० २१९ अध्या० ।

असत्यसन्ध त्रि० असत्ये सन्धाऽस्य । १ मृषार्थाभिसन्धानवति

२ अन्यथास्थितस्यात्मनोऽन्यथारूपाभिमानवति च । यथा
देहादिषु असत्येषु आत्माभिमानोऽसत्यसन्धा । अत
एव छा० उप० तस्य अनर्थहेतुत्वं दृष्टान्तेन समर्थितम् ।
“पुरुषं सोम्योत हस्तगृहीतमानयन्त्यपाहार्षीत् स्तेयमकार्षीत्
परशुमस्मै तपतेति स यदि तस्य कर्त्ता भवति तत एवानृतमा
त्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्द्धाय परुशुं
तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्थते ॥ अथ यदि
तस्याकर्त्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभि
सन्धः सत्येनात्मानमन्तर्द्धाय परुशुं तप्तं प्रतिगृह्णाति स
न दह्यतेऽथ मुच्यते । स यथा तत्र नादह्येतैतदात्म्य-
मिदं सर्व्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो!”
“यथा सोम्य! पुरुषं चौर्य्यकर्म्मणि सन्दिह्यमानं
निग्रहाय परीक्षणाय चोतापि हस्तगृहीतं बद्धहस्तमान
यन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्चाहुरपाहा-
र्षीद्धनमस्यायम् । ते चाहुः किमपहरणमात्रेण बन्धन-
मर्हति । अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गादित्युक्ताः
पुनराहुः स्तेयमकार्षीच्चौर्य्येण धनमपाहार्षीदिति । तेष्वेवं
वदत्सु इतरोऽपह्नुते नाहं तत्कर्त्ता इति । ते चाहुः
सन्दिह्यमानाः स्तेयमकार्षीस्त्वमस्य धनस्येति । तस्मिं-
श्चापह्नुवति आहुः परशुमस्मै तपतेति शोधयत्वात्मानमिति
स यदि तस्य स्तैन्यस्य कर्त्ता भवति बहिश्चापह्नुते स
एवम्भूतस्तत एवानृतमन्यथा आत्मानं कुरुते स तथानृताभि
सन्धोऽनृतेनात्मानमन्तर्द्धाय परशुं तप्तं मोहात् प्रतिगृह्-
णाति स दह्यतेऽथ हन्यते राजपुरुषैः स्वकृतेनानृताभि-
सन्धिदोषेण । अथ यदि तस्य कर्म्मणोऽकर्त्ता भवति तत
एव सत्यमात्मानं कुरुते स तया स्तैन्याकर्तृतयात्मानभन्त-
र्द्धाय परशुं तप्तं प्रतिगृह्णाति सत्याभिसन्धः सन्न दह्यते
सत्यव्यवधानादथ मुच्यते च मृषाभियोक्तृभ्यः । तप्तपरशुह-
स्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्त्रकत्त्रोः, अनृताभिसन्धो
दह्यते न तु सत्याभिसन्धः । स यथा सत्याभिसन्धस्तप्त-
परशुग्रहणकर्म्यणि सत्यव्यवहितहस्ततलत्वान्नादाहोत न
पृष्ठ ०५४०
दह्यते इत्येतदेवं सद्ब्रह्म सत्याभिसन्धेतरयोः शरीरपात-
काले च तुल्यायां सत्सम्पत्तौ विद्वान् सत्सम्पद्य न
पुनर्व्याघ्रदेवादिदेहग्रहणायावर्त्तते” इति भा० ।

असदध्येतृ पु० असत् निषिद्धशास्त्रमधीते अधि--इङ् तृच् ।

स्वशाखां परित्यज्यान्यशाखाध्येतरि शाखारण्डे ।
“स्वशाखां यः परित्यज्य अन्यत्र कुरुते श्रमम् । शाखा-
रण्डः स विज्ञेयोवर्ज्जयेत् तं क्रियासु चेति” स्मृतिः
तथाध्ययननिषेधात्तस्यासदध्येतृत्वम् । स्वशाखाध्ययनो-
त्तरम् क्रमेणान्यशाखाशास्त्रान्तराद्यध्ययनकर्त्तृत्वे तु न
असदध्येतृत्वम् ।

असदागम पु० विरोधे न० त० । १ सच्छास्त्रभिन्ने नास्तिकादि-

शास्त्रे २ असतः द्रव्यस्यागमे च दुष्टद्रव्यलाभे च
कर्म० ३ दुष्टे आगमे । “सप्त वित्तागमाधर्म्म्यादायो-
लाभः क्रयो जयः । विभागः संप्रयोगश्च सत्प्रतिग्रहएव
चेत्युक्तधर्मोपायभिन्नः सदागमस्तद्भिन्नः असदागमः ।

असदाचार पु० अभावे न० त० । १ सदाचाराभावे न० ब० ।

२ सदाचारशून्ये त्रि० । सदाचारश्च वेदादिशास्त्रानुसारी
आचारः सतामाचारश्च ।

असदृश त्रि० न० त० । अयुक्तरूपे अननुरूपे । “यदुक्तवत्य

सदृशं वैदेही पश्चिमं वचः” भा० व० प० २७८ अ० ।
स्त्रियां ङीप् ।

असद्ग्रह पु० असति अविद्यमाने वस्तुनि ग्रहः आग्रहः ।

बालादीनाम् (आवदार) इति ख्याते १ आग्रहभेदे ।
६ त० । २ मिथ्याज्ञाने शुक्तिकारजतमित्यादिज्ञाने च ।

असद्धेतु पु० असन् व्यभिचारादिदोषवान् हेतुः । न्यायोक्ते

व्यभिचारादिदोषयुक्ते हेतौ । यथा धूमवान् वह्नेरित्यादौ
धूमाभाववति तप्तायःपिण्डे वह्नेः सत्त्वेन व्यभिचारात्
धूमसाधने वह्निहेतीर्दुष्टत्वादसत्त्वम् एवमन्यत्राप्यूह्यम् ।
हेतुदोषाश्च सामान्यतः पञ्चविधाः “अनैकान्तोविरुद्धश्चाप्य-
सिद्धः प्रतिपक्षितः । कलात्ययोपदिष्टश्च हेत्वाभासाश्च
पञ्चधा” भाषा० विस्तरो हेत्वाभासशब्दे वक्ष्यते ।

असद्भाव पु० सतोविद्यमानस्य भावः अभावे न० त० । १ असत्त्वे

अविद्यमानत्वे सन् मावः अभिप्रायः विरोधे न० त० ।
२ दुष्टाभिप्राये । ब० ३ तद्वति त्रि० ।

असद्वृत्ति स्त्री सती वेदादिविहिता वृत्तिःस्वभावश्च अभावे

न० त० । १ सदाषाराभाव विरोधे न० त० । २ निषिद्धा-
चारे । न० ब० । ३ तद्वति त्रि० ।

असद्व्यवहार पु० असन्दुष्टः व्यवहारः । १ दुष्टव्यवहारे न० ब० । २ तद्वति त्रि० ।

असन पु० अस--क्षेपे--युच् । पीतसालवृक्षे (पेयासाल) “प्रिय-

विमानितमानवतीरुषां निरसनैरसनैरवृथार्थता” माघः
तालव्यमध्यतापि “वृन्दावने तु विकसितकन्दलदशनैर्घोषति
दरीमुखैश्च कन्दलदशनैः” उज्वल० । भावे ल्युट् । २ क्षेपणे
न० । “तृणनिरसने विनियोगः” भवदेवः । धातूनामने-
कार्थत्वात् कर्त्तरियुच् । ३ चलनशीले त्रि० “कृशानोरस्तु
रसनामुरुष्पथः” ऋ० १, १५५, २, “शर्यामसनामनु द्यून्”
ऋ० १, १४८, ४ ।

असनपर्णी स्त्री असनस्य पर्णमिव पर्णमस्याः गौ० ङीष् । सातलवृक्षे ।

असनि त्रि० अस--अनि । क्षेपके ऋश्यादि० चतुरर्थ्यांक ।

असनिकः तत्सन्निकृष्टदेशादौ त्रि० ।

असन्तति स्त्री सन्ततिर्धारा अभावे न० त० । तदभावे १ विच्छेदे

सन्ततिर्धारा वंशश्च न० ब० २ तच्छून्ये त्रि० ।

असन्तान पु० सन्तानोविस्तारः अभावे न० त० । १ विस्ता-

राभावे सन्तानोवंशोविस्तारश्च न० ब० । २ विस्तारशून्ये
३ वंशशून्ये च त्रि० ।

असन्ताप पु० अभावे न० त० । १ सन्तापाभावे न० ब० । २ सन्तापशून्ये त्रि० ।

असन्तुष्ट त्रि० न० त० । सन्तोषशून्ये अधिकलाभेऽपि पुनरन्य

धनाशावति “असन्तुष्टा द्विजा नष्टाः सन्तुष्टाः पार्थिवा-
स्तथा” नीतिः ।

असन्तोष पु० अभावे न० त० १ सन्तोषाभावे तृप्त्यभावे । न० ब० । २ सन्तोषशून्ये अधिकलालसावति ॥

असन्दिग्ध त्रि० न० त० । १ सन्देहाविषये २ सन्देहशून्ये च ।

“स्वल्पाक्षरसन्दिग्धं सारवत् विश्वतोमुखम् । अस्तोभमन-
बद्यञ्च सूत्रं सूत्रविदोविदुः” ।

असन्दित त्रि० सम् + दो--क्त इत्त्वम् सन्दितंबद्धं न० त० ।

बन्धनशून्ये अनिरुद्धे “पतङ्गानसंदितो वि सृज” ऋ०
४, ४, १, “असन्दितः परैरनिरुद्धः” भा० ।

असन्दिन् त्रि० सन्दा बन्धनं मत्वर्थे इनि न० त० । बन्धन-

शून्ये । “अवृतं वर्हिस्तस्थावसन्दिनम्” ऋ० ८, १०२, १४
“असन्दिनमबन्धनम्” भा० ।

असन्धि पु० अभावे न० त० । व्याकणोक्तसन्धिकार्य्याभावे

सन्धिः पूर्ब्बापरवर्ण्णयोः सन्निकर्षविशेषात् वर्ण्णा-
न्यथाभावलोपः उभयोर्मेलनस्थानम् राज्ञामुपायभेदश्च
न० ब० । तच्छून्ये त्रि० ।

असन्नद्ध त्रि० न सम्यक् नद्धः स्वकार्य्ये क्षमः । दृप्ते गर्व्विते

पण्डितम्मन्ये तस्य सम्यक्पटुत्वाभावेऽपि दर्पेण तथात्वे-
नाभिमानात्तथात्वम् ।

असन्निकर्ष पु० अभावे न० त० । १ सन्निकर्षाभावे विरोधे न

त० । २ दूरत्वे न० ब० । ३ सन्निकर्षशून्ये दूरस्थे त्रि० ।
पृष्ठ ०५४१

असन्निकृष्ट त्रि० विरोधे न० त० । १ दूरस्थे ।

असन्निधि पु० अभावे न० त० । १ नैकट्याभावे” विरोधे न०

त० । २ दूरत्वे । न० व० । ३ दूरस्थे त्रि० ।

असन्निहित त्रि० विरोधे न० त० । १ दूरस्थे । २ असम्यग्-

निवेशिते च ।

असपत्न त्रि० विरोधे न० त० । १ शत्रुभिन्ने मित्रे न० व० ।

२ शत्रुशून्ये त्रि० “इमं देवा असपत्नम्” यजु० ९, ४,
स्त्रियां शार० ङीन् “असपत्नी सपत्नघ्नी जयन्त्यभिभूवरी”
ऋ० १०, १५९, ५ । यज्ञे उपाधीयमाने इष्टाकाभेदे
“पञ्चम्यामन्तेष्वश्विनीवदसपत्नी” कात्या० १७, ११, १ ।
“असपत्नी इष्टका” कर्क० ।

असपिण्ड पुंस्त्री० न समानः पिण्डः देहारम्भकावयवभेदो यस्य ।

सप्तमपुरुषाद्यनन्तर्गतयोः स्त्रीपुरुषयोः । “असपिण्डा
च या मातुरसगोत्रा च या पितुः” मनुः असपिण्डः
सपिण्डो वा गृहीतश्चोपनायितः” स्मृतिः । सपिण्डशब्द-
निर्वचनेन च सापिण्ड्यं मिताक्षराकृता “अनन्यपूर्ब्बिकां
कान्तामसपिण्डां यवयसीमिति” या० स्मृतिव्याख्याने
दर्शितम् । असपिण्डां समान एकः पिण्डोदेहो यस्याः सा
सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता
चैकशरीरावयवान्वयेन पित्रा सह एकपिण्डता । एव
म्पितामहाहिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् ।
एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभि-
रपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरपि एक
शरीरावयबान्वयात् । तथा पितृव्यपितृष्वस्रादिभिरपि ।
तथा पत्या सह पत्न्या एकशरीरारम्भकतया । एवं
भ्रातृभार्य्याणामपि परस्परमेकशरीरारम्भैः सह एक
शरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दः तत्र तत्र
साक्षात् परम्परया वा एकशरीरावयवान्वयो वेदितव्यः ।
अवश्यञ्चैकशरीरवयवान्वयेन सापिण्ड्यं वर्ण्णनीयम् ।
“आत्मा हि जज्ञ आत्मन इत्यादि” श्रुतेः तथा “प्रजा-
मनु प्रजायस” इति तथा “स एवायन्निरूढः पृथक् पृथक्
प्रत्यक्षेणोपलभ्यत” इत्यापस्तम्बवचनाच्च । तथा गर्भोप-
निषदि । “एतत्षाट्कौशिकं शरीरन्त्रीणि मातृतस्त्रीणि
पितृतः अस्थिस्नायुमज्जानः पितॄतः । त्वङ्मांसरुधिराणि
मातृत” इति । तत्र तत्रावयवान्वयप्रतिपादनात् ।
निर्व्वाप्यपिण्डान्वयेन तु सापिण्ड्ये मातृसन्ताने भ्रातृ-
व्यादिषु च साप्रिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण
रूढ़परिग्रहे अवयवशक्तिस्तत्र तत्रावगम्यमाना परित्यक्ता
स्यात् । “असत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते । तत्रा
नन्यगतित्वेन समुदायः प्रसिध्यति” । एवम्पारम्पर्यैकशरीरा-
वयवान्वयेन मापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः” ।
“असपिण्डामित्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्
पारम्पर्य्येण वा सापिण्ड्यमुक्तन्तच्च सर्व्वस्य सर्वत्र यथाकथ-
ञ्चिदनादौ संसारे सम्भवतीत्यतिप्रसङ्ग इत्यत आह” ।
“पञ्चमात्सप्तमादूर्द्धं मातृतः पितृतस्तथा” या० स्मृ० । “मातृ-
तोमातृसन्ताने पञ्चमादूर्द्धम् । पितृतः पितुः सन्ताने सप्तमा-
दूर्द्ध्वं सापिण्ड्यं निवर्त्तते इति शेषः । ततश्चायं सपिण्ड-
शब्दोऽवयवशक्त्या सर्व्वत्र प्रवर्त्तमानोऽपि निर्म्मथ्य पङ्कजादि-
शब्दवन्नियतविषय एव । तथा च पित्रादयः षट् सपिण्डाः
पुत्रादयश्च षढात्मा च सप्तमः । सन्तानभेदेऽपि यतः सन्तान-
भेदः, तमादाय गणयेद्यावत्सप्तम इति सर्वत्र
योजनीयम् । तथा च मातरमारभ्य तत्पितृपितामहादि-
गणनायां पञ्चमपुरुषसन्तानवर्त्तिनी मातृतः पञ्चमीत्युपचर्यते
एवं पितरमारभ्य तत्पित्रादिगणनायां सप्तमपुरुषस-
न्तानवर्त्तिनी पितृतः सप्तमीति” मिता० । एवमेवाशोचेऽपि
सापिण्ड्यम् पितृपक्षीयं ज्ञेयं अदत्तस्त्रीणां तु त्रिपौरुषं
सापिण्ड्यम् दत्तानां तु सगोत्रत्वाभावान्नाशौचमिति”
भेदः दायग्रहणोपयोगिसापिण्ड्यं तु दातृत्वभोक्तृ-
त्वान्यतरसम्बन्धेनैकपिण्डवत्त्वमिति दायभागानुसारिणः ।

असभ्य त्रि० सभायाममर्हति यत् न० त० । सभायामनुपयुक्ते

१ स्त्रीवर्ण्णनादौ, २ खले च ।

असम त्रि० नास्ति समोयस्य । १ अतुल्ये । “संप्रधार्याब्रवीद्धाता

न समौ नासमाविति” मनुः । सुमःयुग्मसंख्यान्वितः
२ तद्भिन्ने अयुग्मे विषमे (विजोड) एकत्रिपञ्चादि
संख्यान्वितेच यथा मेषादिषु द्वादशराशिषु मेषमिथुनसिंह
तुलाधनुःकुम्भाः असमराशयः एवमन्यत्रापि । ३ बुद्धभेदे पु० ।

असमक्ष न० न समक्षम् । १ अप्रत्यक्षे अनुमित्यादिज्ञाने अर्श०

अच् । २ तद्विषये त्रि० ।

असमग्र त्रि० न० त० । असम्पूर्ण्णे असकले ।

असमञ्जस न० समञ्जसं युक्तियुतं न० त० । १ असङ्गते ।

“यद्यपि का नोहानिः परस्य द्राक्षां रासभश्चरति ।
असमञ्जसमिति मत्वा तथापि तरलायते चेतः” उद्भटः ।

असमञ्जस् पु० सम् + अन्ज--असुन् न० त० । सगरनृपज्येष्ठ-

पुत्रे अंशुमतः पितरि सूर्य्यवंश्ये क्षत्रियभेदे तत्कथा
“अयोध्याधिपतिः श्रीमान् पूर्ब्बमासीन्नराधिपः । सगरो-
पृष्ठ ०५४२
नाम धर्म्मात्मा प्रजाकामः स चाप्रजाः । विदर्भराजदुहिता
केशिनी नाम नामतः । ज्येष्ठा सगरपत्न्यासीर्द्धर्मिष्ठा सत्यवा-
दिनी । अरिष्टनेभिदुहिता रूपेणाप्रतिमा भुवि । द्वितीया
सगरस्यासीत् पत्नी परमधार्म्मिकी” इत्युपक्रम्य । “अथ
कालेन महता पुत्रं ज्येष्ठा व्य जायत । असमञ्जा इति ख्यातं
काकुत्स्थं सगरात्मजम्” रामा० आ० २० अ० । “असमञ्जा
इति ख्यातः सगरस्य सुतोह्यभूत् । यं शैव्या जनयामास पौरा-
णां स हि दारकान् । गलेषु क्रोशतो गृह्य नद्याञ्चि-
क्षेप दुर्बलान् । ततः पौराः समाजग्मुर्भयशोकपरि-
प्लुताः । सगरञ्चाभ्ययाचन्त सर्व्वे प्राञ्जलयः स्थिताः ।
त्वं नस्त्राता महाराज! परचक्रादिभिर्भयात् । असमञ्जो-
भयाद्घोरात्ततो नस्त्रातुमर्हसि । पौराणां वचनं श्रुत्वा
घोरं नृपतिसत्तमः । मुहूर्त्तं विमना भूत्वा सचिवानिद-
मब्रवीत् । असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् ।
यदि वो मत्प्रिपं कार्य्यमेतच्छीघ्रं विधीयताम् । एवमुक्ता
नरेन्द्रेण सचिवास्ते मराधिप! । यथोक्तं त्वरिताश्चक्रु र्यथा
ज्ञापितवान्नृपः । एतत्ते सर्व्वमाख्यातं यथा पुत्रो
महात्मना । पौरणां हितकामेन सगरेण विवासितः” भा० व० प०
१०७ अ० । असच् । असमञ्जसोऽपि तस्मिन्नर्थे
“असमञ्जस इत्युक्तः स केशिन्या नृपात्मजः । तस्य
पुत्रोऽंशुमान्नाम पितामहहिते रतः” । “असमञ्जस आत्मानं
दर्शयन्नसमञ्जसम् । जातिस्मरः पुरा सङ्गाद्योगी योगाद्वि-
चालितः । आचरन् गर्हितं लोके ज्ञातीनां कर्म्म विप्रि-
यम् । सरय्वां क्रीड़तोबालान् प्रास्यदुद्वेजयन् जनान् ।
एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै । योगैश्वर्य्येण
बालांस्तान् दर्शयित्वा ततो ययौ । अयोध्यावासिनः
सर्व्वे वालकान् पुनरागतान् । दृष्ट्वा विसिस्मिरे
राजन्! राजा चाप्यन्वतप्यत” भाग० ९ म० ८ अ० ।

असमद त्रि० सह मदेन गर्वेण समदः कलहःस नास्ति यत्र ।

कलहरहिते विरोधशून्ये । “तथैभ्योऽसमदं करोति तदभि-
तपति” “ताभ्यएवैतत्सह सतीभ्योऽसमदं करोति” इति च
शत० ब्रा० “असमदमकलहं परस्पराविरोधम्” भा० ।

असमन त्रि० असममतुल्यत्वं भिन्नवर्ण्णत्वात् नयति नी--ड ।

विभिन्नवर्ण्णे “असमना अजिरासो रघुष्पदः” ऋ०
११४०, ४, असमना भिन्नवर्ण्णाः भा० ।

असमनेत्र पु० असमानि अयुग्मानि नेत्राण्यस्य । त्रिनेत्रे

शिवे असमलोचनादयोप्यत्र ।

असमय पु० अपकृष्टार्थे न० त० । १ दुष्टकाले २ अयोग्यकाले च

“असमये मतिरुन्मिषति ध्रुवम्” नैषधचरिते ४ सर्गः ।

असमर्थ त्रि० समर्थः शक्तः न० त० । १ अशक्ते २ दुर्बले च । समर्थः

सङ्गतार्थः न० त० । असङ्गतार्थे, व्याकरणशास्त्रप्रसिद्धे
यत्र यस्यान्वययोग्यता तत्सहचारानपेक्षायुक्ते ३ समासे यथा
अश्राद्धभोजीत्यादौ असमर्थसमासः नञ्पदस्य श्राद्धेन
सहान्वयायोग्यत्वात् भोजनेन च सहचाराभावेऽपि तत्रा-
न्वयस्य अपेक्षणीयत्वात्तथात्वम् ।

असमर्थसमास पु० कर्म्म० । येन सह यस्य अन्वयस्तद्व्यतिरे-

केण अन्यान्वितेन पदेन समासे । यथा अश्राद्धभोजीति
असूर्य्यं पश्येत्यादि ।

असमवाण पु० असमा अयुग्मानि वाणा अस्य । पञ्चवाणे कन्दर्पे असमसायकादयोप्यत्र ।

असमष्ट त्रि० सम + अक्ष--क्त न० त० । अव्याप्ते । “पिता-

मतीनाममष्टकाव्यः” ऋ० ९, ७६, ४, “असमष्टकाव्यः अव्या-
प्तकर्म्मेति” भा० ।

असमवायिकारण न० समवैति सम + अव--इण--णिनि

न० त० कर्म्म० । न्यायमते समवायिकारणं द्रव्यं तद्भिन्नं
द्रव्यवृत्ति यत् गुणादिकं कारणं तस्मिन्नर्थे । यथा
कपालद्वयसंयोगरूपो गुणोघटस्य, द्रव्याश्रिता क्रिया संयोग-
विभागादेः । “समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतु-
त्वम्” । “यत् समवेतं कार्य्यं भवति ज्ञेयन्तु समवायि जनकं
तत्” । “तत्रासन्नं जनकं द्वितीयम्” “गुणकर्म्ममात्रवृत्ति
ज्ञेय मथाप्यसमायिहेतुत्वम्” इति च भाषा० व्याख्यातञ्चैतत्
मुक्ता० । “तत्र समवायिकारणे आसन्नं प्रत्यासन्नं कारणं
द्वितीयमसमवायिकारणमित्यर्थः अत्र यद्यपि तुरीतन्तुसंयो-
गानां पटासमवायिकारणत्वंस्यात्, एवं वेगादीनामपि
अभिघाताद्यसमवायिकारणत्वं स्यात्, एवं ज्ञानादीना-
मिच्छाद्यसमबायिकारत्वं स्यात् तथापि पटासमवायिकारण-
लक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयं, तुरीतन्तुसंयोगस्तु तुरी-
पटसंयोगं प्रत्यसमवायिकारणं भवत्येव, एवं वेगादिकं
वेगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्य्यासमवायि-
कारणलक्षणे तत्तद्भिन्नत्वं न देयम्, आत्मविशेषगुणा-
नान्तु कुत्राप्यसमवायिकारणत्वं नास्ति तेन तद्भिन्नत्वं
सामान्यलक्षणे देयमेव । अत्र समवायिकारणे प्रत्यासन्नं
द्विविधं कार्य्यकार्थप्रत्यासत्त्या कारणैकार्थप्रत्यासत्त्या च
आद्यं यथा घटादिकं प्रति कपालसंयोगादिकं, तत्र
कार्य्येण घटेन सह कारणस्य कपालसंयोगस्य एकस्मिन्
कपाले प्रत्यासत्तिरस्ति, द्वितीयं यथा घटरूपं प्रति
कारणं घटः तेन सह कपालरूपस्य एकस्मिन् कपाले
पृष्ठ ०५४३
प्रत्यासत्तिरस्ति, तथाच क्वचित् समवायसम्बन्धेन, क्वचित्
स्वसमवायिसमवायसम्बन्धेनेति फलितार्थः । इत्थश्च कार्य्ये
कार्य्यकारणैकार्थान्यतरप्रत्यासत्त्या कारण ज्ञानादिभिन्नम-
समवायिकारणमिति सामान्यलक्षणं पर्य्यवसन्नम्” ।
कुत्रं कुत्र किंकिमसमवायिकारणं? वैशेषिकसूत्रे तदुक्तं
ततौद्धृत्य किञ्चित् प्रदर्श्यते ।
“आत्मसंयोगप्रयत्नाभ्यां हस्तेकर्म्म १ । तथा हस्तसंयोगाच्च
मुवले कर्म्म २ । अभिघातजे मुषलादौ कर्म्मणि व्यतिरेकाद-
कारणं हस्तसंयोगः ३ । तथात्मसंयोगो हस्तकर्म्मणि ४ ।
अभिघातान्मुषलसंयोगाद्धस्ते कर्म्म० ५ । आत्मकर्म्म हस्तसंयो-
गाच्च ६! संयोगाभावे गुरुत्वात् पतनम् ७ । नोदनविशेषा-
भावान्नोर्द्ध्वं न तिर्य्यंग्गगमनम् ८ । प्रयत्नविशेषान्नोदन
विशेषः ९ । नोदनविशेषादुदसनविशेषः १० । हस्तकर्म्मणा
दारकर्म्म व्याख्यातम् ११ । तथा दग्धस्य विस्फोटने १२ ।
यत्नाभावे प्रसुप्तस्य चलनम् १३ । तृणे कर्म्म वायुसंयो-
षात् १४ । मणिगमनं सूच्यभिमर्पणमदृष्टकारणम् १५
इषावयुगपत्संयोगविशेषाः कर्म्मान्यत्वे हेतुः १६ ।
नोदनादाद्यमिषोः कर्म्म तत्कर्म्मकारिताच्च संस्कारादुत्तरं
तथोत्तरमुत्तरञ्च १७ संस्काराभावे गुरुत्वात् पतनम्” १८
वै० सू० “संयोगश्च प्रयत्नश्च संयोगप्रयत्नौ आत्मनः
संयोगप्रयत्नौ ताभ्यां हस्ते समवायिकारणे कर्म्म, तस्य
च कर्म्मणः प्रयत्नवदात्मसंयोगोऽसमवायिकारणम्, प्रयत्नश्च
निमित्तकारणम्, इयमेव चेष्टा, प्रयत्नवदात्मसंयोगासामवा-
यिकारणकक्रियायाश्चेष्टात्वात् स्वासमवेतस्वातिरिक्तस्पर्शव-
दन्यप्रयत्नजन्यक्रियाया वा १ । तथा हस्तसंयोगादुत्क्षेपण-
बद्धस्तसंयोगादित्यर्थः अत्र च यत्नवदात्मसंयुक्तेन
हस्तेन मुषलस्य संयोगोऽसमगायिकारणम्, मुसलं समवा-
यिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे २ । उदूखलाभि-
हतमुषलस्याकस्माद् यदुत्पतनं जायते तत्र कारणमाह ।
तत्र यद्यपि मुसलेन उत्पतता हस्तस्य संयोगोऽप्यस्ति
तथाऽपि स संयोगोऽन्यथासिद्धः किन्तु उदूखलाभिघात
एव असमवायिकारणम्, कुत एवमित्यत आह व्यतिरेका-
दिति प्रयत्नस्य व्यभिचारादित्यर्थः । यदि तदा प्रयत्नः स्यात्
मुषलस्यैवाकस्मिकमुत्पतनं न भवेत् विधारकेण ब्रयत्नेन
मुषलस्य धारणमेव भवेत् चेष्टाधीनं मुषलस्य पुनरुत्पतनं
वा भवेत् इति भावः ३ । मुषलेन सहोत्पततोहस्तस्य कर्म्मणि
कारणविशेषमभिवातुं प्रयत्नवदात्मसंयोगस्यासमवायिकार-
णत्वं निराकर्त्तुमाह । मुषलेन सहोत्पततोहस्तस्य कर्म्मणि
आत्मसंयोगः प्रयत्नवदात्मयोगस्तथा अकारणमित्यर्थः
अकारणमिति पूर्ब्बसूत्रस्थं तथेत्यतिदिश्यते ४ । कुतस्तर्हि
हस्ते तदोत्पतनमत आह । यथा मुषले उत्पतति मुषल-
मुखस्थं लोहमुत्पतति तथा हस्तोऽपि तदोत्पतति । अत्रा-
भिघातशब्देन अभिघातजनितः संस्कार उच्यते उपचा-
रात्, उत्पततो मुषलस्य पटुतरेण कर्म्मणा अभिघातसह-
कृतेन स्वाश्रये मुषले संस्कारोजनितस्तत्कृतं संस्कारमपेक्ष्य
हस्तमुषलसंयोगादसमवायिकारणाद्धस्तेऽप्युत्पतनं न तु
तदुत्पतनं प्रयत्नवदात्मसंयोगामवायिकारणकम्, अवशो
हि हस्तो मुषलेन सहोत्पततीति भावः ५ । ननु शरीरे
शरीरावयवे वा यत्कर्म्मोत्पद्यते तत्र प्रयत्नवदात्मसंयोगः
कारणं प्रकृते कथं न तथेत्यत आह । आत्मशब्दः
शरीरावयवपर उपचारात् अन्वयानुपपत्तिरेवोपचारवीजम् ।
तथाचात्मनः शरीरावयवस्यापि हस्तस्य यत् कर्म तत्
हस्तमुषलसंयोगात् चकाराच्च वेगममुच्चयः, हस्तकर्म्मणि
हस्तसंयोगस्तावदसमवायिकारणं तत्र व्यभिचारो नास्ति
स च क्वचित् प्रयत्नवदात्मसंयोगः क्वचिद्वेगवन्मुषलादि-
संयोगो यथा वातूलस्य शरीरावयवकर्म्मेति भावः ६ ॥
प्रयत्नानधीनकर्म्मप्रकरणमारभते । संयोगपदेन प्रतिबन्धक-
मात्रमुपलक्षयति तेन प्रतिबन्धकाभावे गुरुत्वादसमवायि-
कारणात् पतनम् अधःसंयोगफलिका क्रिया जायते, तत्र
गुरुत्ववति फलादौ प्रतिबन्धकः संयोगः, विहङ्गमादौ तु
विधारकः प्रयत्नः पतनप्रतिबन्धकः, एतेषामभावे गुरुत्वा-
धोनं पतनमित्यर्थः । अभिध्यानादिना विषादेरन्तरीक्ष-
स्थापने अदृष्टवदात्मसंयोगो मन्त्रादिरेव वा प्रतिबन्धक-
स्तेषामपि संयोगपदेन संग्रहः ७ ॥ ननु गुरुत्वाद् यदि
पतनं तदा लोष्टादेरुत्क्षिप्तस्य क्वचिदूर्द्ध्वं क्वचिच्च तिर्य्यग्-
गमनं कथम्भवेदित्यत आह । गुरुत्ववतोऽपि लोष्टकाण्डा-
देर्यदूर्द्ध्वं तिर्य्यक् च गमनं तन्नोदनविशेषात् तीव्रतरान्नो-
दनात् । तथाच फलपक्षिवाणादौ संयोगप्रयत्नसंस्काराभावे
यतु पतनं तत्र नोदनविशेषो नास्ति तेन न तिर्य्यक्, नवोर्द्ध्वं
गमनमिति भावः ८ । ननु नोदनविशेष एव कुत उत्पद्यते
तत्राह । तिर्य्यक् ऊर्द्धं दूरम् आसन्नं वा क्षिपामीति-
इच्छाकारणकः प्रयत्नविशेषः तज्जनितो नोदनविशेषस्ततो
गुरुत्ववतो द्रव्यस्य लोष्टादेरूर्द्धं तिर्य्यक् च गमनमुपषद्यते
उदसनं दूरोत्क्षेपणम् ९, १० ॥ उदूखलाभिधातात् मुषलेन
सह हस्ते यत्कर्म्म उत्पन्नं तत्तावत् प्रयत्नपूर्व्वकं न भवति
नापि पुण्यपापहेतुकमतस्तत्तुल्यतया बालकस्य क्रीड़ाकरचर-
पृष्ठ ०५४४
णादिचालनं यत्तत्रातिदिशति । बालकस्य यद्यपि
करचरणादिचालनं प्रयत्नपूर्ब्बकमेव तथापि हिताहितप्राप्ति-
फलकं न भवति न पुण्यपापहेतुकमित्यतिदेशार्थः ११ ॥
इदानीं प्रयत्नपूर्ब्बकेऽपि कर्म्मणि यत्र पूण्यपापहेतुकत्वं
तत्र दारककर्म्मतुल्यतामतिदिशन्नाह । आततायिना
केनाप्यगारे दाह्यमाने तत्र दग्धस्य पुरुषस्य विस्फोटे
वह्निकृते जाते सति तस्याततायिनो बधानुकूलेन प्रयत्नेन
हस्तादौ यत्कर्म्म जनितं तन्न पूण्यहेतुकं न वा पापहेतुकं
यथाहुः । “नाततायिबधे दोषो हन्तुर्भवति कश्चन । प्रकाशं
वाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति” । “अग्निदोगरदश्चैव
शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षड़ेते
आततायिनः” १२ । इदानीं यत्नं विना यानि कर्म्माणि भवन्ति
तान्याह । प्रसुप्तस्येति चैतन्याभावदशामुपलक्षयति तेन
मूर्च्छितस्य जीवतोऽचैतन्येऽपि वायुकृतं चलनं द्रष्टव्य-
मत्र १३ ॥ शरीरकर्म्माणि व्याख्याय तदितराण्याह ।
तृणपदेन वृक्षगुल्मलतावतानादिकं सर्व्वमुपलक्षयति १४ ।
अदृष्टाधीनं कर्म परिगणयन्नाह । मणिपदेन कांस्यादिकमुप-
लक्षयति तेनाभिमन्त्रितं मणिकांस्यादि तस्काराभिमुखं यद्
गच्छति तत्र गमने मण्वादि समवायिकारणम्, अदृष्ट-
वत्तस्करात्ममणिसंयोगोऽवसमवायिकारणम्, तस्करस्य पापं
निमित्तकारणम् । सूच्यभिसर्पणमिति सूचीपदेन
लौहमात्रं तृणञ्चोपलक्षयति तथा चायस्कान्ताभिमुखं यत्सू-
च्यादेर्गमनं तृणकान्ताभिमुखं यत् तृणस्य गमनं तत्र सूच्यादि
समवायिकारणम्, यस्य हितमहितं वा तेन तृणसूच्यादि-
गमनेन तददृष्टवदात्मसंयोगोऽसमवायिकारणम्, तददृष्टमेव
निमित्तकारणम्, एवमन्यदप्यूह्यम् । तद्यथा वह्नेरूर्द्ध्व-
ज्वलनं वायोस्तिर्य्यग्गमनं सर्गादौ परमाणुकर्म्मादि १५ ।
ननु शरविहङ्गमालातचक्रादीनामुपरमपर्य्यन्तमेकमेव कर्म्म
नाना वेति संशये निर्णयहेतुमाह । इषाविति षष्ठ्यर्थे
सप्तमी, इदमत्राकूतं वेगेन गच्छतां शरादीनां कुड्यादि-
संयोगानन्तरं शरादौ सत्येव गत्युपरमो दृश्यते अत्राश्रय-
नाशस्तावन्न तन्नाशकः आश्रयस्य विद्यमानत्वात् विरोधि-
गुणान्तरञ्च नोपलभ्यते तेन स्वजन्यः संयोग एव कर्म्म-
नाशक इत्युन्नीयते स च संयोगश्चतुर्थक्षणे जातः पञ्चमक्षणे
कर्म्म नाशयति । तथा हि कर्म्मोत्पत्तिरथ विभागः अथ
पूर्ब्बसंयोगनाशः उत्तरसंयोगः कर्म्मनाशः तेना-
युगपत्संयोगविशेषाः कर्म्मनानात्वज्ञापका इत्यर्थः
संयोगविशेषा इति संयोगे विशेषः स्वजन्यत्वमेव अन्यथा
संयोगमात्रस्य कर्मनाशकत्वेकर्म्मक्वचिदपि न तिष्ठेत् १६ ।
नोदननिष्पाद्यकर्मप्रकरणानन्तरं संस्कारनिष्पाद्यकर्मप्रकर-
णमारभते । पुरुषप्रयत्नेनाकृष्टया पतञ्जिकया नुन्नस्येषोराद्यं
कर्म जायते तत्र नोदनमसमवायिकारणम्, इषुः समवा-
यिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे, तेन चाद्येन
कर्मणा समनाधिकरणो वेगाख्यः संस्कारो जन्यते न
च वेगेन, गच्छतीति प्रत्यक्षसिद्ध एव तेन संस्कारेण तत्रेषौ
कर्म्म जायते तत्रासमवायिकारणं संस्कारः, समवायि-
कारणमिषुः, निमित्तकारणन्तु तीव्रो नोदनविशेषः, एवञ्च
यावदिषुपतनमनुवर्त्तमानेन संस्कारेण उत्तरोत्तरः कर्म-
सन्तानो जायते स्वजन्योत्तरसंयोगेन कर्मणि नष्टे संस्का-
रेण कर्मान्तरजननात् एक एव संस्कारः कर्ममन्तानजनकः
न तु कर्मसन्तानवत् संस्कारसन्तानोऽप्यभ्युपगन्तुमुचितो
गौरवादिति दर्शयितुमाह तथोत्तरमुत्तरञ्चेति तत्कर्मकारि-
ताच्च संस्कारादित्येकवचनञ्च, न्यायनये तु कर्मसन्तानवत्
संस्कारसन्तानस्वीकारे गौरवम्, यत्तु युगपत्प्रक्षिप्तशर-
योरेकस्य तीव्रो वेगोऽपरस्य तु मन्दस्तत्र नोदनतीव्रत्व-
मन्दत्वेनिमित्तम् १७ । ननु संस्कार एक एव चेत् कर्मसन्ता-
जनकस्तदा कदाचिदपि शरपातो न स्यात् कर्मजनकस्य
संस्कारस्य सत्त्वादित्यत आह । गुरुत्वन्तावत् पतनकारण-
मनुवर्त्तमानमेव तच्च गुरुत्वं संस्कारेण प्रतिरुद्धं पतनं
नाजीजनत् अथ प्रतिबन्धकाभावे तदेव गुरुत्वं पतनं
करोतीत्यर्थः” १८ । उपस्करः ।
“नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म १ ।
तद्विशेषेणादृष्टकारितम् २ । अपां संयोगाभावे गुरुत्वात्
पतनम् ३ । द्रवत्वात् स्यन्दनम् ४ । नाड्यो वायुसंयोगादारो-
हणम् ५ । नोदनापीड़नात् संयुक्तसंयोगाच्च ६ । वृक्षाभिस-
र्पणमित्यदृष्टकारितम् ७ । अपां संधातो विलयनंञ्च तेजः-
संयोगात् ८ । तत्र विस्फुर्ज्जथुर्लिङ्गम् ९ । वैदिकञ्च १० । अपां
संयोगाद्विभागाच्च स्तनयित्नोः ११ । पृथिवीकर्मणा तेजःकर्म
वायुकर्म च व्याख्यातम् १२ । अग्नेरूर्द्ध्वज्वलनं वायोस्तिर्य्यक्
पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम् १३ । हस्तकर्मणा
मनसः कर्म व्याख्यातम् १४ । आत्मेन्द्रिमनोऽर्थसन्निकर्षात्
सुखदुःखे १५ । तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखा-
भावः स योगः १६ । अपसर्पणमुपसर्पणमशितपीतसंयोगाः
कार्य्यान्तरसंयोगाश्चेत्यदृष्टकारितानि” १७ । वै० सू० नोदनादि
निष्पाद्य कर्मपरीक्षाप्रकरणम् तत्राह । नोदनं संयोगविशेषः
येन संयोगेन जनितं कर्म संयोगिनो० परम्परं विभागहेतु
पृष्ठ ०५४५
र्न भवति यः संयोग शब्दनिमित्तकारणं न भवति वा ।
यः संयोगः शब्दनिमित्तकारणं भवति यज्जनितं कर्म
संयोगिनोः परस्परविभागहेतुश्च भवति स संयोगविशेषो-
ऽभिघातः । ताभ्यामपि प्रत्येकं कर्म जन्यते पङ्काख्यायां
पृथिव्याञ्चरणेन नोदनात् चरणाभिघाताच्च कर्म जायते
तत्र पङ्कः समवायिकारणम्, नोदनाभिघातौ यथायथ-
मसमवायिकारणम्, गुरुत्ववेगप्रयत्ना यथासम्भवं निमित्त-
कारणम् । संयुक्तसंयोगादिति नोदनादभिघाताद्वा पङ्के
कर्म तत्पङ्कस्थिते घटादावपि तत्समकालमेव कर्मदर्शनात् १ ।
ननु भूकम्पादौ नोदनाभिघातावन्तरेण जायमाने किमस-
मवायिकारणमत आह । तदिति पृथिवीकर्म परामृशति
पृथिव्यामेव कर्म यदि विशेषेण आशयेन भवति तदाऽदृष्ट-
कारितम्, तेन भूकम्पेन यस्य दुःखं सुखं वा भवति अदृष्टव-
त्तदात्मसंयोगस्तत्रासमवायिकारणम्, भूः समवायिकारणम्,
अदृष्टं निमित्तकारणम्, यद्वा तदा नोदनाभिघातौ
परामृशति विशेषो व्यतिरेकः तथा च नीदनाभिघात-
व्यतिरेकेण यत् पृथिव्यां कर्म तददृष्टकारितमित्यर्थः २ ।
इदानीं द्रवद्रव्यसमवेतकर्मपरीक्षाप्रकरणम्, तत्राह ।
अपां यत् पतनं वर्षणरूपं तद्गुरुत्वासमवायिकारणकम्,
तत्संयोगस्य मेघसंयोगस्याभावे सति भवति तेन संयो-
गाभावस्तन्निमित्तकारणमित्यर्थः ३ । तेषामेव वृष्टिविन्दू-
नामन्योन्यसंयोगजनकं कर्म कथमत आह । क्षितौ
पतितानामपां विन्दूनां परस्परं संयोगेन महज्जला-
वयवि स्रोतोरूपं यज्जायते तस्य यत् स्यन्दनं दूरसंस-
रणं तत् द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्त-
कारणादप्सु समवायिकारणेषु ४ । ननु यदि भूमिष्ठानाम-
पाम् ऊर्द्ध्वं गमनं भवति तदा गुरुत्वात् पतनवर्षणं
सम्भाव्यते तदेव तु कुत इत्यत आह । कारयन्तीतिशेषः
यदपामूर्द्ध्वमारोहणं तत् नाड्यः सूर्य्यरश्मयो वायु-
संयोगात् कारयन्ति ग्रीष्मे वाय्वभिहताः सूर्य्यरश्मय
एव आरोहयन्त्यप इत्यर्थः । क्वचित् पाठो नाड्यवायु-
संयोगादिति स च नाड्यो नाडीसम्बन्धी यो वायुसंयीग
इत्युपपादनीयः ५ । ननु सूर्य्यरश्मीनां कथमयं महिमा
यत् भूमिष्ठा अप ऊर्द्ध्वं नयन्तीत्यत आह । नोदनेन
बलवद्वायुनोदनेन आपीड़नादास्कन्दनात् । वायुसंयुक्ता-
रश्मयस्तत्संयुक्ता आप ऊर्द्ध्वं धावन्ति यथा स्थालीस्था
अपः क्वथ्यमानाः वायुनुन्नवह्निरश्मय ऊर्द्ध्वं नयन्ति,
चकार इवार्थस्तत्र च उपमानं स्थालीस्था एवापो
द्रष्टव्याः ६ । ननु मूले सिक्तानामपां वृक्षाभ्यन्तरेणोर्द्ध्वगमनम्
अभितः, तत्र नोदनाभिघातौ न वादित्यरश्मयः प्रभवन्ति
तत्कथं तदित्यत्राह । अभितः सर्पणमभिसर्पणं तदभि-
सर्पणं मूले निषिक्तानामपां वृक्षे तददृष्टकारितं पत्रकाण्ड-
फलपुष्पादिवृद्धिकृतं सुखं दुःखं वा येषामात्मनाम्, अदृष्ट-
वत्तदात्मसंयोगादससवायिकारणात् अदृष्टान्निमित्तादप्सु
समवायिकारणेषु तत् कर्म भवति । येन कर्मणा आप
ऊर्द्ध्वं गत्वा वृक्षं वर्द्धयन्तीत्यर्थः ७ । नन्वपां सांसिद्धिकद्रवत्व
लक्षणमुक्तं तादृशानामेवापामूर्द्ध्वमधस्तिर्य्यक् च गमनमुप-
पादितं हिमकरकादीनाञ्च शैत्यादप्त्वमविवादसिद्धम्,
तत्कथं तेषां संघातः काठिन्यम्, कथञ्च विलयनमित्यत
आह । दिव्येन तेजसा प्रतिबन्धादाप्याः परमाणवो
द्व्यणुकमारभमाणा द्व्यणुकेषु द्रवत्वं नारभन्ते ततो द्रवत्व-
शून्यैरवयवैर्द्व्यणुकादिप्रक्रमेण द्रवत्वशून्या हिमकरकादय
आरभ्यन्ते तेन तेषां काढिन्यमुपलभ्यते । नन्वेवं हिमकर-
कादीनामाप्यत्वे किं प्रमाणमत उक्तं विलयनञ्च तेजः-
संयोगादिति तेजःसंयोगेन बलवता हिमकरकारम्भकप-
रमाणूनां क्रिया क्रियातो विभागस्तत आरम्भकसंयोग-
नाशपरम्परया हिमकरकादिमहावयविनाशस्तत्र द्रवत्वप्रति-
बन्धकतेजःसंयोगविगमात् त एव परमाणवः द्व्यणुकेषु
द्रवत्वमारभन्ते ततो द्रवत्ववतां हिमकरकादीनां विलयनं
तत्र च बलवत्तेजीऽनुप्रवेशो निमित्तम् ८ । ननु बलद्दिव्यतेजो-
ऽनुप्रवेशस्तत्र इत्यत्र किंप्रमाणमित्यत आह । तत्र दिव्यासु
अप्सु दिव्यानां तेजसामनुप्रवेशे विस्फुर्ज्जथुर्लिङ्गं वज्रनि-
र्घोष एव लिङ्गमित्यर्थः आत्यन्तिकविद्युत्प्रकाशस्तावत्प्रत्यक्ष
एव तदनुपदञ्च स्फुर्ज्जथुः सोऽपि प्रत्यक्ष एव तेनानुमीयते
यस्मान्मेघात् करकाः प्रादुर्भवन्ति तत्र दिव्यन्तेजोविद्युद्रूप-
मनुप्रविष्टं तदुपष्टम्भेन करकारम्भिकाणामपां द्रवत्वप्रति-
बन्ध इति ९ । अत्रैव प्रमाणान्तरमाह । अपां मध्ये तेजोऽ-
नुप्रवेश आगमसिद्ध एवेत्यर्थः । तथा हि “आपस्ता अग्निं
गर्भमादधीरन् या अग्निं गर्भं दधिरे सुवर्ण्णम्” इत्यादि १० ।
ननु विस्फुर्ज्जथुः कथमुत्पद्यते संयोगविभागौ शब्दयोनी
तौ च नानुभूयेते इत्यत आह । विस्फुर्ज्जथुरितिशेषः अद्भिः
स्तनयित्नोः संयोगविभागौ निमित्तकारणीभूय स्तनयित्नो-
रेवाकाशेन संयोगादसमवायिकारणादाकाशे समवा १ कारणे,
शब्दं गर्ज्जितं जनयतः । क्वचिच्च वायुबलाहकसंयोग-
विभागौ निमित्तकारणे बलाहकवियत्सांयोगविभागावस-
मवायिकारणे, कर्मकारणाधिकारेऽपि प्रासङ्गिकमिदमुक्तम्-
पृष्ठ ०५४६
यद्वा मेघाकाशसंयोगे विभागे वा शब्दासमवायिकारणे
कारणम् अपामेव नोदनाभिघातजनितं कर्मेति सूचितं
कर्मण एवाधिकारप्राप्तत्वात् ११ । भूकम्पं प्रत्यदृष्टवदात्मसंयोगः
कारणमुक्तं तत्रैवाकस्मिकदिग्दाहहेतोस्तेजसः आकस्मिक-
वृक्षादिक्षोभहेतोश्च प्रभञ्जनस्य कर्म यत् संजायते तत्रा-
प्यदृष्टवदात्मसंयोगोऽसमवायिकारणम्, वायुतेजसी समवा-
यिकारणम्, अदृष्टं निमित्तकारणमित्यर्थः, कर्मशब्दस्य
द्व्यावृत्तिर्महोल्कादिकर्मसूचनार्था १२ । अदृष्टवदात्मसंयो-
गासमवायिकारणकं कर्मान्तरमाह । आद्यमिति सर्गा-
द्यकालीनमित्यर्थः, तदा नोदनाभिघातादीनामभावात्
अदृष्टवदात्मसंयोग एव तत्रासनवायिकारणम् आद्यमूर्द्ध्व-
ज्वलनम् आद्यं तिर्य्यक्पवनमिति, इतरेषां ज्वलनपवन-
कर्मणां वेगासमवायिकारणकत्वमेव मन्तुमुचितं दृष्टे कारणे
सत्यदृष्टकल्पनानवकाशात् १३ । अनाद्यं कर्माधिकृत्याह ।
मुषलोत्क्षेपणादौ यथा प्रयत्नवदात्मसंयोगासमवायिका-
रणकं हस्तकर्म तथाऽभिमतविषयग्राहिणीन्द्रिये सन्नि-
कर्षार्थं यन्मनसः कर्म तदपि प्रयत्नवदात्मसंयोगासमावयि-
कारणकमेव । यद्यपीन्द्रियं मनो न साक्षात्प्रयत्नविषयस्त-
थापि मनोवहनाड़ीगोचरेण प्रयत्नेन मनसि कर्मोत्पत्ति
र्द्रष्टव्या, नाड्यास्तु त्वगिन्द्रियग्राह्यत्वमङ्गीकर्त्तव्यम् अन्यथा
प्राणवहनाडीगोचरेण प्रयत्नेनाशितपीताद्यभ्यवहरणमपि न
सम्भवेत् १४ । ननु मनसि कर्म्म उत्पद्यत इत्यत्रैव न प्रमाण-
मत आह । सुखदुःखे इत्युपलक्षणं ज्ञानप्रयत्नाद्यपि
द्रष्टव्यं मनसोवैभवं पूर्ब्धमेव निराकृतम्, अणुत्वञ्च साधि-
तम्, युवपज्ज्ञानानुत्पत्तिश्च मनसो लिङ्गमित्युक्तं तेन
तत्तदिन्द्रियप्रदेशेन मनःसंयोगमन्तरेण सुखदुःखे न
स्यातामेव यदि मनसि कर्म्म न भवेत् न भवेच्च पादे मे
सुखं शिरसि मे वेदनेत्याद्याकारोऽनुभव इत्यर्थः । यद्यपि
मनःसन्निकर्षाधीनः सर्व्वोऽप्यात्मविशेषगुणस्तथापि
सुखदुःखे तीव्रसंवेगितयाऽतिस्फुटत्वादुक्ते १५ । नन्वेवं यदि चपलं
मनस्तदा चित्तनिरोधाभावाद्योगं विना नात्मसाक्षात्कारो
न वा तमन्तरेण मोक्ष इति शास्त्रारम्भवैफल्यमतआह
विषयेष्वलम्प्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्योव्यावृत्तं
मनो यदात्मस्थमात्ममात्रनिष्ठं भवति तदा तत्कर्मानुगुण-
प्रयत्नाभावात् कर्म्म मनसि नोत्पद्यते स्थिरतरं मनो भवति
स एव योगः चित्तनिरोधलक्षणत्वाद् योगस्य, तदनारम्भ
इति मनसः कर्मानारम्भं इत्यर्थः । यद्वा तत्पदेन सुखदुःखे
एवाभिधीयेते प्रक्रान्तत्वात्, दुःखाभाव इति दुःखाभाव-
साधनत्वाद्योग एव दुःखस्याभावः “अन्नं वै प्राणः”
इति वत्, यद्वा दुःखस्याभावो यत्रेति बहुव्रीहिः,
शरीरस्येति शरीरावच्छिन्नस्यात्मनः, स योग इति प्रसिद्धि-
सिद्धतया तत्पदम्, अयं स योगः । यद्वात्मपदेनात्र प्राण
उच्यते उपचारात् प्राणानुमेयत्वादात्मनः तथा च प्राण-
वहनाड्यां कर्मणा प्राणकर्मापि जायते यद्वा जीवनयोनि-
यत्नवदात्मप्राणसंयोगासमवायिकारणकं प्राणकर्म, जीवन-
योनिश्च यत्नोऽतीन्द्रियः प्राणसञ्चारानुमेयः कथमन्यथा
सुषुप्त्यवस्थायामपि श्वासप्रश्वासगतागतमिति भावः १६ । ननु
प्राणस्य मनसश्च कर्म यदि प्रयत्ननिमित्तकं तदा प्राणमनसी
यदा मरणावस्थायामपसर्पतः देहाद्बहिर्भवतः देहान्तरो-
त्पत्तौ तत्र पुनरुपसर्पतः प्रविशतः तत्र प्रयत्नाभावात्तदु-
भयमनुपपन्नम्, अशितपीतं भक्तपानीयादि तस्यापि शरीरा-
वयवोपचयहेतु र्यः संयोगस्तज्जनकं यत् कर्म यच्च गर्भवास-
दशायां संयोगविभागजनकं कर्म तेषां कथमुत्पत्तिरत
आह । अत्र “नपुंसकमपुंसकेनैकवच्चान्यतरस्यामिति” पा०
नपुंसकनिर्द्देशः, संयोगपदञ्च तत्कारणे कर्मणि लाक्ष-
णिकम्, अपसर्पणं देहारम्भककर्मक्षये देहादेव प्राणमनसो-
रुत्क्रमणम्, उपसपणञ्च देहान्तरोत्पत्तौ तत्र प्राणमनसोः
प्रवेशनम्, अशितपीतादिसंयोगहेतुश्च कर्म, कार्य्यान्तरं
गर्भशरीरं तत्संयोगहेतुश्च यत् कर्म तत् सर्व्वमदृष्टवदात्म-
संयोगासमवायिकारणकम्, इतिकारेण धातुमलकर्मणामप्य-
दृष्टवदात्मसंयोगासमवायिकारणकत्वं सूचयति” १७ उप० ।

असमवायिन् त्रि० न समवैति सम् + अव + इन--इणि न० त०

स्त्रियां ङीप् । १ असंबन्धे अमिलिते न्यायेक्ते २ समवाय-
सम्बन्धशून्ये जात्यादौ ३ असमवायिकारणे च “कारणन्त्व-
समवायिनो गुणाः” वै० सू० “ननु यद्यमूर्त्तत्वात् गुणाः
कर्मसमवायिकारणं न भवन्ति तदा गुणैर्गुणाः कर्म्माणि
च कथमुत्पद्यन्ते न हि समवायिकारणातिरिक्तत्वरूपेणापि
कारणता संभवतीत्यत आह गुणा असमवायिकारणं न
तु समवायिकारणमपि येन कर्माधाराः स्युः । सा
चासमवायिकारणता क्वचित् कार्य्यै कार्थसमवायात् यथाऽऽ-
त्ममनःसंयोगस्यात्मविशेषगुणेषु संयोगविभागशब्दानां शब्दे,
क्वचित् कारणैकार्थसमवायात् यथा कपालादिरूपादीनां
घटादिरूपादिषु” उपस्करः ।

असमवृत्त न० न समानि भिन्नलक्षणकत्वात् न तुल्यानि

पदानि यत्र कर्म० । छन्दःशास्त्रोक्ते १ विषमवृत्ते तानि
च “मुखपादोऽष्टभिर्वर्ण्णैः परेऽऽस्मान्मकरालयैः क्रमाद्वृद्धाः”
इत्यादीनि वृत्त० उक्तानि ज्ञेयानि । ब० । २ अनुपमचरिते त्रि०
पृष्ठ ०५४७

असमस्त त्रि० सम + अस--क्त न० त० । १ असंक्षिप्ते २ व्यस्ते “एते

व्यस्ताः समस्ता वेति” विश्वामित्रवचनव्याख्याने “व्यस्ताः
असमस्ताः” प्रा० त० रघु० । ३ असमग्रे व्याकरणोक्त-
समासशून्ये विभक्तक्त्यादिकार्य्ययुक्ते ४ विग्रहवाक्ये न० ।

असमाति त्रि० समं साम्यमतति अत--इन् न० त० । अतुल्ये

अनुपमे “एवाहि जातो असमात्योजाः” ऋ० ६, २९, ६ ।

असमान त्रि० न० ब० । अतुल्ये । “समानं लघु चाशौचं

पूर्ब्बेणैव विशुध्यति । असमानं द्वितीयेन” यमः ।

असमानयानकर्म्मन् पु० न समानं तुल्यकालिकं यानकर्म्म-

यत्र । सन्धिभेदे । त्वमग्रे याहि ततोऽहं यास्यामीति
समयं कृत्वा यत्र पूर्ब्बोत्तरं जिगीषुभ्यां गम्यते तादृशे
यानकर्म्मरूपे सन्धौ ।

असमापन न० अभावे न० त० । १ संपूर्त्त्यभावे न० ब० । २ समाप्तिशून्ये त्रि० ।

असमाप्त त्रि० न समाप्तः । १ असम्पृर्ण्णे “असमाप्ते व्रते चैव नैव

कुर्य्यात् व्रतान्तरम्” स्मृतिः । संकल्पपूर्व्वकगृहीतव्रतस्यास-
मापने व्रतान्तरस्यात्राकर्त्तव्यताऽत्रोक्ता । आरब्धकर्म्मणः
सपूर्ण्णता समाप्तिः । २ तच्छून्ये च “असमाप्ते
परिकर्मणि स्मृतः” कुमा० । ३ सम्यगप्राप्ते च ।

असमाप्ति स्त्री अभावे न० त० । १ समाप्त्यभावे न० ब० ।

२ समाप्तिशून्ये त्रि० । ३ सम्यगप्राप्तौ स्त्री ४ तच्छून्ये त्रि०

असमावृत्त पु० न० त० । समावृत्तः चीर्णब्रह्मचर्य्यतया गुरु-

णानुमतः गुरुकुलादावृत्तः गृहस्थकर्म्मकरणाय कृत
समावर्त्तसंस्कारः न० त० । तद्भिन्ने ब्रह्मचारिणि
स्वार्थेकन् असमाववृत्तकोऽप्युक्तार्थे । “मासिकान्नं तुयो-
ऽश्नीयादसमावृत्त(वर्त्त)को द्विजः” मनुः । असमावर्त्त-
कोऽप्यत्र ।

असमाहार पु० समाहारी मेलनं संघातः सम्यगांहरणञ्च

अभावे न० त० । १ तदभावे न० ब० । २ तच्छून्ये त्रि० ।

असमाहित त्रि० न० त० । १ समाधिशून्ये चित्रैका

ग्रताशून्ये २ असन्निवेशिते च ।

असमीक्ष्यकारिन् त्रि० समीक्ष्य विविच्य न करोतीति

कृ + णिनि । १ विवेचनामकृत्वैव कर्म्मकारके, २ मूर्खे च ।

असमृद्धि स्त्री ऋद्धेराधिक्यं समृद्धिः अभावे न० त० ।

१ ऋद्ध्याधिक्याभावे “नात्मानमवमन्येत पूर्ब्बाभिरसमृद्धिभिः”
मनुः । न० ब० । २ समृद्धिशून्ये त्रि० ।

असम्पत्ति स्त्री अनुरूपात्सलाभः सम्पत्तिः लक्ष्मीश्च अभावे

न० त० । १ सम्पत्त्यभावे । न० ब० । २ तच्छून्ये त्रि० ।

असम्पन्न त्रि० । मम्पन्नः सम्पद्युक्तः अनुरूपात्मस्वरूपप्राप्तश्च

न० त० । तद्भिन्ने ।

असम्पर्के पु० अभावे न० त० । १ संबन्धाभावे न० ब० । २ संबन्धशून्ये त्रि० ।

असम्पूर्ण्ण त्रि० यावत्पर्य्यन्तानुसरणे समाप्तिस्तद्वान् सम्पूर्ण्णः न०

त० । तादृशपूर्त्तिशून्ये । यथा असम्पूर्ण्णं चन्द्रमण्डलम्
“क्रूरग्रहः सकेतुश्चन्द्रमसंपूर्ण्ण मण्डल मिदानीम्” मुद्रारा०

असम्पृक्त त्रि० न० । १ असंबद्धे २ असंयुक्ते ।

असम्प्रज्ञात त्रि० न सम्यक् ज्ञातः ज्ञेयादिभेदो यत्र । पातञ्ज-

लोक्ते ज्ञेयज्ञानज्ञातृभेदशून्ये निर्विकल्पके १ समाधौ ।
समाधिस्तावत् द्विविधः सम्प्रज्ञातः असम्प्रज्ञातश्च तत्राद्यः
सविकल्पकः ग्राह्यग्रहणग्रहीतृप्रतिभासत्वात्
तत्प्रतिभासशून्यो निर्विल्पकः सर्व्वविकल्पशून्यत्वादसम्प्रज्ञातो
द्वितीयः यथाह पात० सूत्रादौ “क्षोणवृत्तेरभिजातस्य
मणेर्ग्रहीतृग्रहण ग्राह्येषु तत्स्थतदञ्जनता समापत्तिः” यथाऽ-
भिजातस्यातिस्वच्छस्य मणेः स्फटिकादेः कुसुमाद्युपरक्तस्य
स्वरूपाभिभवेन रक्ताद्याकारता भवति तथा अभ्यासवैरा-
ग्याभ्यां क्षीणवृत्तेरभिभूतरजस्तमोवृत्तिकस्य चित्तस्य स्थूल-
सूक्ष्मभूतात्मकग्राह्यैः ग्रहणैरिन्द्रियादिवृत्तिभिः ग्रहीत्रा च
वितर्कविचारानन्दास्मितानुगमात् तदाकारतापत्तिः
समाधिर्भवति सेयं सम्प्रज्ञाताख्या समापत्तिः । तद्भिन्ना च
असम्प्रज्ञाता समापत्तिः । संप्रज्ञातभेदादिकं च तच्छब्दे
वक्ष्यते । अस्या एव च निर्वीज इति संज्ञान्तरम् “तस्यापि-
निरोधात् निर्वीजः समाधिः” पात० सू० सत्वपुरुषा-
न्यत्वख्यात्यनन्तरं परवैराग्यसंस्कारप्रचयेन तस्य सम्प्रज्ञात-
समाधिसंख्यारस्य तत्प्रज्ञायाश्च निरोधे सति सर्व्वस्य
सम्प्रज्ञातजन्यसंस्कारप्रवाहस्य निरोधात् समाप्ताधिकार-
त्वेन चित्तस्य कृतकृत्यता स्यात् निमित्तापाये नैमित्तिकापाय
इति न्यायेन निर्वीजः समाधिर्जायते स च “आगमेनानु-
मानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयेत् प्रज्ञां लभते
योगमुत्तमम्” श्रुत्युक्तः आगमेन श्रवणेन अनुमानेन मननेन
ध्यानाभ्यासे योरसः परमवैराग्यं तेन प्रज्ञाप्रसादेन
प्रज्ञां पुरुषरुक्षात्कारं संपादयन् योगं निर्बीजसमाधिं
लभते इति तदर्थः कालक्रमेण निर्वीजसमाधिसंस्कार
प्रलये सति स्वप्रकृतौ चित्तं लीयते हेत्वभावात्, कृत्यशेष-
लक्षणाधिकारोहि चित्तस्य स्थितिहेतुः न हि कृतभोग-
विवेकख्यातिकस्य चित्तस्य कृत्यशेषोऽस्ति येन तदधि-
क्रियेत । प्रकृतौ चित्तस्य प्रलये च पुरुषः स्वरूपमात्रप्रतिष्ठः
केशलो मुक्तो भवतीति” वृत्ति० । २ सम्यगज्ञात च ।
पृष्ठ ०५४८

असम्प्रति अव्य० तिष्ठद्गुप्र० समा० । १ अयोग्ये काले

अनुपस्थितकाले च । “यच्चैव सम्प्रति दद्मोयच्चैवा-
सम्प्रति” शत० ब्रा० ।

असम्बद्ध न० सम्बद्धं परस्परमन्वितं न भवांत सम् + बन्ध--क्त

न० त० । अर्थानवोधकेऽनन्वितार्थके १ वाक्ये । “असंबद्ध-
प्रलापश्च वाङ्मयं स्याच्चत्युर्विधम्” मनुः यथा “यावज्जीव-
महं मौनीत्यादि” वाक्यम् । २ सम्बन्धशून्ये असङ्गते च त्रि० ।

असम्बद्धप्रलाप पु० कर्म्म० । १ असङ्गते २ अप्रस्तुतस्य

वा कथने, ३ निष्प्रयोजने कथने च ।

असम्बन्ध पु० अभावे न० त० । १ सम्बन्धाभावे “व्याप्तिः साध्य

वदन्यस्मिन्नसम्बन्धौदाहृतः” भाषा० २ परस्परमन्वयाभावे
च “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात्”
जै० सू०, न० ब० । ३ सम्बन्धशून्ये त्रि० । “असंबन्धकृतश्चैव
व्यवहारो न मिध्यति” या० स्मृतिः ।

असम्बाध त्रि० नास्ति सम्बाधा अन्थोन्यं पीड़ा प्रतिबन्धो वा

यत्र । १ परस्परसंघर्षरूपपीड़ारहिते विरले, २ बाधारहिते
च । “असंबाधा देवनदी स्वर्गसम्पादिनी शुभा” भा० आ०
प० । न सम्यग् बाधा अभावे न० त० । ३ सम्यग्बाधाभावे
४ चतुर्दशाक्षरपादके वृत्तभेदे च स्त्री म्तौ न्सौ गावक्ष-
ग्रहविरतिरसंबाधा” वृत्त० र० ।

असम्भव पु० अभावे न० त० । १ सम्भवाभावे “अन्यदेवाहुः

सम्भवादन्यदाहुरसम्भवात्” य० ४०९० “निष्क्रियस्य
तदसम्भवात्” सां० सू० न्यायोक्तेलक्ष्यमात्रे २ लक्षणाननुसरणे ।
असम्भववारणाय प्रतियोगितावच्छेदकावच्छिन्नं यन्न
भवतीतिव्याप्तिलक्षणे प्रतियोगितानच्छेदकं साध्यतामवच्छेदक-
मिति कैश्चिदुक्तम् । सम्भवः समावेशः ३ तदभावे । सम्भवश्च
प्रमाणान्तरमिति अष्टप्रमाणवादिनः पौराणिकाः । सांख्या
दिभिस्तु अनुमाने एव तस्य गतार्थत्वमुक्तम् यथाह”
सा० कौ० । “सम्भवस्तु यथा खार्य्यां द्रोणाढ़कप्रस्थाद्यवगमः
स चानुमानमेव खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतं
सत् द्रोणादिसत्त्वमवगमयति” । व्याख्यातञ्चैतदस्माभिः ।
“खारीत्वं खारीपरिमाणं महाहापरिमाणेऽवान्तरपरि-
माणसमावेशोऽनुभवसिद्धः तथा च खारीपरिमाणं द्रोणा-
दिपरिमाणव्यापकमिति खारीत्वस्य द्रोणादिपरिमाणा-
विनाभूततया अनुमानेनैव खारीपरिमाणे द्रोणादिपरि
माणसिद्धिः” ।

असम्भवत् त्रि० सम् + भू--शतृ न० त० स्त्रियां ङीप् ।

असम्भवे वस्तुभि “अम्भवद्घनरसा शतालीपरिषेविता ।
करं न सहते राजन्! भूमिर्नवबधूरिव” उद्भटः ।

असम्भव्य त्रि० सम् + भू--कर्त्तरि नि० यत् । सम्भवाविषये वस्तुनि

“असम्भव्यं न वक्तव्यमिति” नीतिः । सम् + भू--णिच्--कर्शणि
यत् असम्भाव्यमप्यत्र त्रि० । “असम्भव्यं पराभवन्” अथ०
५, १८, १२, “तिर्य्यग्योनावसम्भाव्यमावश्यकमवस्थितः”
भा० आदि० प० ।

असम्भावना स्त्री अभावे न० त० । सम्भावनाभावे । सम्भा-

वना च शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः निश्चयप्रायऔत्क-
ट्यापन्नसंशयश्च ।

असम्भावनीय त्रि० न० त० । सम्भावनानर्हे वस्तुनि ।

असम्भूति स्त्री सम् + भू--क्तिन् अभावे न० त० । १ सम्भवाभावे

सम्भूतिः कार्य्योत्पत्तिः सा नास्ति यस्याः । अव्याकृताख्यै
प्रकृतिरूपे कारणे “अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपा-
सते” यजु० ४, ९ । “असम्भूतिः प्रकृतिः कारणम्” वेददी० ।

असम्भृत त्रि० न० त० । १ अयत्नसिद्धे “असम्भृतं मण्डनमङ्ग-

यष्टेः” कुमा० । २ असम्यक्पुष्टे च ।

असम्भेद पु० सम्भेदोमेलनं संसर्गः अन्योन्यरूपताप्राप्तिः

भेदश्च अभावे न० त० १ तदभावे न० ब० । २ तच्छून्ये त्रि० ।

असम्भ्रम पु० सम्भ्रमः औत्सुक्यहेतुककार्य्यत्वरा सम्यग्

भ्रान्तिः भयहेतुकचित्तक्षोभश्च अभावे न० त० ।
१ सम्भ्रमाभावे “शशंस तुल्यसत्वानां सैन्यघोषेऽप्यसम्भ्रम्म्”
रघुः । न० ब० । २ सम्भ्रमशून्ये ।

असम्मत त्रि० न० त० । सम्मतभिन्ने अननुमते “असम्मतः

कस्तव मुक्तिमार्गम्” कुमा० ।

असम्मति स्त्रि अभावे न० त० । १ सम्मत्यभावे । न० ब० २ तच्छून्ये त्रि० ।

असम्मित त्रि० न० त० । अपरिमिते “तस्मादिमा अतिरिक्ता

असम्मिता ओषधयः प्रजायन्ते” शत० ब्रा० ।

असम्मुग्ध त्रि० सम् + मुह--क्त न० त० । १ अकृतसन्देहे २ पाण्डि-

त्याभिमानरहिते च ।

असम्मूढ त्रि० न० त० । सम्भूढ़भिन्ने १ स्थिरनिश्चये २ भ्रान्तिशून्ये

“असम्मूढः स मर्त्येषु” “स्थिरबुद्धिरसम्मूढो ब्रह्मविद्
ब्रह्मणि स्थितः” इति च गीता ।

असम्मृष्ट त्रि० न० त० । १ परस्परसंघर्षणशून्ये २ बाधाशून्ये

च “असंमृष्टोजायसे मात्रोः” ऋ० ५, ११, ३ । “असम्मृष्टः
अबाधितः” भा० । ३ संमार्ज्जनशून्ये च । “अग्निमग्नीत्-
संमृड्ढीत्यसंमृष्टमेव भवति सम्पेषितम्” शत० ब्रा० ।
पृष्ठ ०५४९

असम्मोह पु० अभावे न० त० । १ भ्रमाभावे । विरोधे न० त०

प्रमात्मके यथार्थे २ ज्ञाने “बुद्धिर्ज्ञानभसम्मोहः क्षमा सत्यं
दमःशमः” इत्युपक्रम्य “भवन्ति मावा भूतानां मत्तएव
पृथग्विधा” इति गीतायां तेषां भावरूपत्वोक्तेः अयथार्थ-
ज्ञानपरत्वम् न० ब० । ३ तच्छून्ये स्थिरप्रज्ञे त्रि० ।

असम्यच् त्रि० न० त० । सम्यग्भिन्ने १ अनुचिते २ अयुक्ते ।

“असम्यग्व्ययशीलैस्तै” देवीमा० । स्त्रियां ङीप् असमीची

असरु पु० सरति सृ--उन् न० त० । (कुकुरसोङ्गा) वृक्षे

असल न० अस्यते “क्षिप्यतेऽनेन अस + कलच् । अस्त्रक्षेपो-

पयुक्ते १ मन्त्रभेदे २ लौहे च ।

असवर्ण्ण त्रि० न सनानो वर्ण्णोऽस्य समानस्य सादेशः ।

असजातीये भिन्नवर्ण्णे यथा ब्राह्मणस्य क्षत्रियादिः ।
“द्विजानामसवर्ण्णासु कन्यासूपयमस्तथा” वृहन्ना० ।

असश्चत् त्रि० सश्चतिर्गत्यर्यः निरु० सश्च--शतृ न० त० । १

अगमनशीले स्त्रियां ङीप् “अस्य प्रजावती गृहेऽसश्चन्ती” ऋ०
८ । ३१ । ४ । “असश्चन्ती अगमनशीला” भा० । २ अपराजिते
च “मधुजिह्वा असश्चतः” ऋ० ९ । ७३ । ४ । “असश्चतः
अपराजितान्” भा० ।

असश्चुस् त्रि० सश्च--वा उसुन् न० त० स्त्रियां ङीप् । अप्रतिबद्धे

“यानो दोहते त्रिरहन्नसश्चुषी क्षुमत्” ऋ० ९ । ८६ । १८ ।
“असश्चुषी अप्रतिबद्धा” भा० ।

अससत् त्रि० सस--स्वप्ने शतृ न० त० स्त्रियां ङीप् ।

स्वव्यापारे जागरूके “रेजन्ते अससन्तो अजराः” ऋ०
१ । १४३ । ३ । “अससन्तः स्वव्यापारेष्वस्वपन्तः” भा० ।

असह त्रि० न सहते सह--अच् न० त० । अक्षमे असहने

असहन पु० न सहति सह--ल्यु न० त० । १ शत्रौ । २ क्षमा-

शुन्ये त्रि० । भावे ल्युट् अभावे न० त० । ३ क्षमाभावे

असहाय त्रि० नास्ति सहायोयस्य । १ सहचरशून्ये अन्य-

साहाय्यरहिते २ सङ्गरहिते च “कपालं वृक्षमूलानि
कुचेलमसहायता । समता चैव सर्व्वस्मिन्नेतन्मुक्तस्य
लक्षणम्,” मनुः ।

असहिष्णु त्रि० न सहिष्णुः । अक्षमे सहनशीलभिन्ने “स्वजनबन्धुजनेष्वसहिष्णुता” नीतिः

असह्य त्रि० न सह्यः । सोढुमशक्ये “असह्यपीड़ं भगवन्नृ

णमन्त्यमवेहि मे” “द्विषामसह्यः सुतरां तरूणाम्” इति
च रघुः । “नववैधव्यमसह्यवेदनम्” कुमा० ।

असाक्षात् अव्य० न० त० । १ परोक्षे २ इन्द्रियायोग्ये च ।

असाक्षात्कार पु० अभावे न० त० । १ प्रत्यक्षाभावे

विरोधे न० त० । २ परोक्षज्ञाने न० ब० । ३ प्रत्यक्षाविषये
४ तच्छून्ये च त्रि० ।

असाक्षिक त्रि० नास्ति साक्षी साक्षाद्व्रष्टा अधिष्ठाता वा यस्य

कप् । १ साक्षिशून्ये “असाक्षिकेषु त्वर्थेषु मिथोवि
वदमानयोः” मनुः । २ अधिष्टातृशून्ये च असाक्षिका
जड़प्रवृत्तिरनुचितेति वेदा० प्रक० ।

असाक्षिन् त्रि० न साक्षी । स्मृत्युक्ते वचनतो दोषादितोवा

साक्ष्यकर्म्मसु अग्राह्ये श्रोत्रियादौ । असाक्षिणश्च मिता०
दर्शिताः “उक्तलक्षणानां साक्षिणामसम्भवे प्रतिषेधरहि-
तानामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः
ते च पञ्चविधा नारदेन दर्शिताः “असाक्ष्यपि हि शास्त्रेषु
दृष्टः पञ्जविधो बुधैः । वचनाद्दोषतोभेदात्स्वयमुक्ति-
र्मृतान्तर” इति । के पुनर्वचनादसाक्षिण इत्याह ।
“श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजितादयः । असाक्षिणस्ते
वचनान्नात्र हेतुरुदाहृतः” या० स्मृ० तापसावानप्रस्थाः ।
आदिशब्देन पित्राविवदमानादीनां ग्रहणम् । यथाह
शङ्खः । “न पित्राविवदमानगुरुकुलवासिपरिव्राजकवान
प्रस्थनिर्ग्रन्थयः सासिण” इति दोषादसाक्षिणो दर्शिता
नारदेन “स्तेनाः साहसिकाश्चण्डाः कितवा वञ्चकास्तथा ।
असाक्षिणस्ते दुष्टत्वात्तेषु सत्यन्न विद्यत” इति । चण्डाःकोपनाः
कितवाद्यूतकृतः । भेदादसाक्षिणाञ्च स्वरूपन्तेनैव दर्शितम् ।
“साक्षिणां लिखितानां च निर्दिष्टानाञ्च वादिना ।
तेषामेकोऽन्यथा वादी भेदात्सर्वे न साक्षिण” इति । तथा
स्वयमुक्तिस्वरूपञ्चोक्तम् । “स्वयमुक्तिरनिर्द्दिष्टः स्वय-
मेवेत्य यो वदेत् । सूचीत्युक्तः सशास्त्रेषु न स साक्षित्वमर्ह
तीति” । मृतान्तरस्यापि लणणमुक्तम् । “योऽर्थः श्रावयि-
तव्यः स्यात्तस्मिन्नसति चार्थिनि । क्व तद्वदतु साक्षित्व
मित्यसाक्षी मृतान्तर” इति । येनार्थिना प्रत्यर्थिना वा
साक्षिणां योऽर्थः श्रावयितव्यो भवेत् यूयमत्रार्थे साक्षिण
इति । तस्मिन्नर्थिनि प्रत्यर्थिनि वा असति मृतेऽर्थे च
अनिवेदिते साक्षी क्व कस्मिन्नर्थे कस्य वा कृते साक्ष्यं
वदत्विति मृतान्तरः साक्षी न भवति यत्र तु मुमूर्षुणा स्वस्थेन
वा पित्रा पुत्रादयः श्राविताः अस्मिन्नर्थे अमी साक्षिण
इति । तत्र मृतान्तरोपि साक्षी । यथाह नारदः ।
“मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते” । तथा ।
“श्रावितोनातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र
साक्षी स्यात् षट्सु चान्वाहितादिषु” । तानेतानसाक्षिणो
दर्शयति । “स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः” ।
रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः । पतिताप्तार्थ-
सम्बन्धिसहायरिपुतस्कराः । साहसी दृष्टदोषश्च
निर्द्धूताद्यास्त्वसाक्षिणः” । स्त्री प्रसिद्धा । वालोऽप्राप्तव्यव-
पृष्ठ ०५५०
हारः । वृद्धोऽशीतिकावरः बृद्ध्वग्रहणं वचननिषिद्धा
नामन्येषामपि श्रोत्रियादीनामुपलक्षणम् । कितवोऽक्ष-
देवी । मत्तः पानादिना, उन्मत्तो ग्रहाविष्टः ।
अभिशस्तः, अभियुक्तो ब्रह्महत्यादिना । रङ्गावतारी चारणः
पाषण्डिनो निर्ग्रन्थिप्रभृतयः । कूटकृत् कपटलेख्यादि-
कारी विकलेन्द्रियः श्रोत्रादिरहितः पतितः ब्रह्म-
हादिः । आप्तः सुहृत्, अर्थसम्बन्धी विप्रतिपद्य-
मानार्थसम्बन्धी । सहाय एककार्य्यः रिपुः शत्रुः तस्करः
स्तेनः साहसी स्वबलावष्टम्भकारी दृष्टदोषो दृष्टवितथ
वचनः । निर्धूतो बन्धुभिस्त्यक्तः । आदिशब्दादन्ये-
षामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणाम्भेदादसाक्षिणां
स्वयनुक्तेर्मृतान्तरस्य च ग्रहणम् । एते स्त्रीबालादयः
साक्षिणो न भवन्ति” मिता० । अत्रापवादः “सर्व्वः
साक्षी संग्रहणे चौर्य्ये पारुष्यसाहसे” । या० स्मृ० संग्रह-
णादौ सर्व्वे वचननिषिद्धाः श्रोत्रियादयः तपःप्रभृति
गुणरहिताश्च साक्षिणोभवन्ति। दोषादसाक्षिणो भेदाद-
साक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो न भवन्ति सत्याभा-
वादिहेतोस्तेषु विद्यमानत्वादिति” मिता० ।

असाधन न० अभावे न० त० । १ सम्पादनाभावे साधनं हेतुः

न० त० । २ अकारणे न० ब० । ३ कारणशून्ये ।

असाधारण त्रि० साधारणं सामान्यधर्मयुक्तं न० त० । १ तद्भिन्ने,

तन्मात्रवृत्तिधर्मयुक्ते विशेषे २ अधिके च । न्यायमते
“यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मत” इत्युक्ते ३
सपक्षविपक्षावृत्तौ हेतौ पु० । यथा वह्निसाधने गगनादि-
र्हेतुः स च पक्षे पर्व्वतादौ, पक्षभिन्ने जलादौ च न
विद्यते गगनादेः कुत्रापि विद्यमानत्वाभावात् इति तस्य
तथात्वम् “साधारणासाधारणयोर्मध्येऽसाधारणे कार्य्य-
संप्रत्यय” इति न्यायः । ४ स्वमात्रस्वत्वास्पदीभूते इतरस्वत्व
रहिते घनादौ च । स्त्रियां ङीष् गौरा० । “पिता
पुत्रान्तरेष्वपि साधारणः माता त्वसधारणी” मिता० ।

असाधारणानैकान्तिक पु० कर्म० । न्यायोक्ते सर्व्वसपक्ष-

व्यावृत्ते हेत्वाभासभेदे यथा शब्दोनित्यः शब्दत्वात्
अत्र शब्दत्वं सर्व्वनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्तिइति
तस्य तथात्वम् ।

असाधु त्रि० न० त० । १ साधुभिन्ने, २ असच्चरिते, ३ दुष्टे

“अतोऽर्हसि क्षन्तुमसाधु साधु वा” किरा ४ संस्कृतशब्दभिन्ने,
अप्रभ्रंशादौ च । “असाधुरनुमानेन” “असाधूनां प्रयोगे
तु प्रत्यवायोऽपि नो तथा इति” च हरिः । स्त्रियां
ङीप् । असाध्वी भारती असाध्वी योषित् इत्यादि ।

असाध्य त्रि० साधयितुमशक्यः । १ साधयितुमशक्ये रिपौ

रोगादौ च “असाध्यं कुरुते कोपं प्राप्ते काले-
गदो यथा” माघः । असाध्यरोगाश्च सुश्रुते उक्ताः ते
च अवारणीयशब्दे ४४९ पृष्ठे दर्शिताः “ऊर्द्ध्वं साध्यमधो-
याप्यमसाध्य युगपद्गत” मित्यादयोऽपि विशेषतोऽसाध्या
वैद्यके उक्ताः ततएव ते वेदितव्याः ।

असान्तापिक त्रि० सन्तापाय न प्रभवति ठञ् । सन्तापायासमर्थे

असान्द्र त्रि० विरोधे न० त० । अनिविड़े विरले ।

असामञ्जस्य न० अभावे न० त० । १ सामञ्जस्याभावे २ अयुक्तत्वे

३ सन्निवेशासम्भवे च न० ब० तच्छून्ये त्रि० ।

असामर्थ्य न० अभावे न० न० । सामर्थ्याभावे अपाटवे ।

“कालदोषादसामर्थ्यात् सर्व्वं तत् सफलं स्मृतम्” “असमा-
र्थ्यात् शरीरस्य कालशक्त्याद्यपेक्षया । मन्त्रस्नानादितः सप्त
केचिदिच्छन्ति शूरयः” योगिया० ।

असामयिक त्रि० समयोऽस्य प्राप्तः ठञ् न० त० । अप्राप्त-

काले “किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः”
किरा० ।

असामान्य त्रि० नास्ति सामान्यं तुल्यता यस्य । अनुपमे ।

अभावे न० त० । तुल्यत्वाभावे त्रि० । असाम्यमप्यत्र ।

असाम्प्रतम् अव्य० न साम्प्रतम् युक्तं न० त० । अयुक्ते ।

“विषवृक्षोऽपि संवर्द्ध्य स्वयं छेत्तुमसाम्प्रतम्” कुमा० “सम्प्र-
त्यसाम्प्रतं वक्तुमुक्ते मुषलपाणिना” माघः “अविधाय
विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्” रघुः ।

असार पु० न० नास्ति १ सारो यस्य । सारहीने एरण्डे वृक्षभेदे ।

२ निस्सारे त्रि० । “असारः खलु संसारः”
इत्युद्भटः । “निदर्शनमसाराणां लघुर्वहुतृणं नरः” माघः
“धिगिमां देहभूतामसारताम्” रघुः । ४ अगुरुचन्दने
न० राजनि० । न० त० । ३ सारभिन्ने तुच्छत्वे पु० ।

असावधान त्रि० न० त० । अवधानहीने प्रमत्ते ।

असाहाय्य न० अभावे न० त० । १ साहाय्याभावे । न० ब० ।

२ साहाय्यशून्ये त्रि० ।

असि अव्य० अस--दीप्तौ इन् विभक्ति प्रतिरूपकम् । त्वमि-

त्यर्थे “कृतवानसि विप्रियं न मे” कुमा० “धन्यासि वैदर्भि!
गुणैरुदारैः” नैष० । “शूरोऽसि कृतविद्योऽसि दर्शनीयो-
ऽसि पुत्रक! इति नीतिः ।
पृष्ठ ०५५१

असि पुंस्त्री० अस्यति सेवनेन पापानि इन् वा ङीप् । वारणसी

दक्षिणस्थे १ नदीभेदे वाराणसीशब्दे विवृतिः । अस्यते क्षिप्यते
अस--इन् । २ खड़े पु० “असिर्विशसनः खड़्गस्तीक्ष्णधारो
दुरासदः । श्रीगर्भो विजयश्चैव धर्मपालो नमोऽस्तु ते ।
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा” । खड़्गपूजा-
मन्त्रः, “सर्व्वाः श्यामाः असिकरा मुण्डमाला विभूषिताः”
श्यामाकवचम् खड़्गलक्षणन्तु वृह० उक्तम् “अङ्गुलशतार्ध-
मुत्तम ऊनः स्यात्पञ्चविंशतिः खड्गः । अङ्गुल-
मानाज्ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥ श्रीवृक्षवर्ध-
मानातपत्रशिवलिङ्गकुण्डलाब्जानाम् । सदृशा व्रणाः
प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥ कृकलासकाककङ्क-
क्रव्यादकबन्धवृश्चिकाकृतयः । खड्गे व्रणा न शुभदा
वंशानुगाः प्रभूताश्च ॥ स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो
न दृङ्मनोऽनुगतः । अस्वन इति चानिष्टः प्रोक्तविप-
र्य्यस्त इष्टफलः ॥ क्वणितं मरणायोक्तं पराजयाय
प्रवर्त्तनं कोशात् । खयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति
खड्गे ॥ नाकारणं विवृणुयान्न विघट्टयेच्च पश्येन्न तत्र
वदनम् न वदेच्च मूल्यम् । देशं न चास्य कथयेत् प्रति-
मानयेच्च नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम् ॥ गोजिह्वा
संस्थानो नीलोत्पलवंशपत्रसदृशश्च । करवीरपत्रशूलाग्र-
मण्डलाग्राः प्रशस्ताः स्युः ॥ निष्पन्नो न च्छेद्यो निकषैः
कार्य्यः प्रमाणयुक्तः सः । मूले म्रियते स्वामी जननी
तस्याग्रतश्छिन्ने ॥ यस्मिन् त्सरुप्रदेशे व्रणो भवेत्तद्वदेव
खड्गस्य । वनितानामिव तिलको गुह्ये वाच्यो मुखे
दृष्ट्वा ॥ अथ वा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तदव-
धार्य । कोशस्थस्यादेश्यो व्रणो ऽस्ति शास्त्रं विदित्वेदम् ।
शिरसि स्पृष्टे प्रथमे ऽङ्गुले द्वितीये ललाटसंस्पर्शे ।
भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च ॥ नासोष्ठकपोल-
हनुश्रवणग्रीवांसकेषु पञ्चाद्याः । उरसि द्वादशसंस्थस्त्रयो-
दशे कक्षयोर्ज्ञेयः ॥ स्तनहृदयोदरकुक्षिनाभीषु चतुर्दशा-
दयो ज्ञेयाः । नाभीमूले कट्यां गुह्ये चैकोनविंशतितः ॥
ऊर्वोर्द्वाविंशे स्याद् ऊर्वोर्मध्ये व्रणस्त्रयोविंशे । जानुनि
च चतुर्विंशे जङ्घायां पञ्चविंशे च ॥ जङ्घामध्ये गुल्फे
पार्ष्ण्यां पादे तदङ्गुलीष्वपि च । षद्धिंशतिकाद्याव-
त्त्रिंशदिति मतेन गर्गस्य ॥ पुत्रमरणं धनाप्तिर्धनहानिः
सम्पदश्च बन्धश्च । एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत्-
क्रमशः ॥ सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधन-
लाभौ । क्रमशो विनाशवनिताप्तिचित्तदुःखानि
षट्प्रभृति ॥ लब्धिर्हानिस्त्रीलब्धयो बधो वृद्धिमरणपरि-
तोषाः । ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥
वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् । ऐश्वर्य्य-
मृत्युराज्यानि च क्रमात्त्रिंशदिति यावत् ॥ परतो न
विशेषफलं विषमसमस्थास्तु पापशुभफलदाः । कैश्चिदफलाः
प्रदिष्टास्त्रिंशत्परतोऽग्रमिति यावत् ॥ करवीरोत्पल-
गजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः । शुभदोऽनिष्टो गोमूत्र-
पङ्कमेदःसदृशगन्धः ॥ कूर्मवसासृक्क्षारोपमश्च भयदुःखदो
भवति गन्धः । वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥
इदमौशनसं च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदी-
प्ताम् । हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षय-
मिच्छतश्च वित्तम् ॥ बड़वोष्ट्रकरेणुदुग्धपानं यदि पापेन
समीहते ऽर्थसिद्धिम् । झषपित्तमृगाश्ववस्तदुग्धैः
करिहस्तच्छिदये सतालगर्भैः ॥ आर्कं पयो हुडुविषाणमसी-
समेतं पारावताखुशकृता च युतं प्रलेपः । शस्त्रस्य
तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु
मवेद्विघातः ॥ क्षारे कदल्या मथितेन युक्ते दिनोषिते
पायितमायसं यत् । सम्यक् शितं चाश्मनि नैति भङ्गं
न चान्यलोहेष्वपि तस्य कौण्ठ्यम्” वृ० स० । हेमा० परि०
ख० तु तज्जात्यादिभेदात् फलभेदादिकं दर्शितं यथा
“वत्स! पुरा भूतपूर्वैराचार्यैरुपदिष्टञ्चैव यन्मयाश्रुतं
तदुपदिशामि निबोध खड्गस्य लोहं षद्धिघं भवति । योनयः
पञ्चविधाः संस्थानं चतुर्विधं करणमा, कृतिर्द्विधा द्वादश
मुस्वानि गौरवं पञ्चदशधा विस्तारस्त्रिविधः वर्ण्णछायाव्रणपुङ्ख
गन्धस्वरेण वा यत्र विशेषा भवन्ति तत्कीर्त्त्यमानं निबोध
तीक्ष्णं मृदु स्निग्धं खरं मृदुतीक्ष्णं वज्रं चेति जातयः
षट्भवन्ति वालुका मृत्पाषाणः पङ्कोधातुस्रावश्चेति योनयः
पञ्चधा भवन्ति । पीतेभ्यस्रीक्ष्णं भवति । नीलेभ्योमृदु
भवति । स्निग्धेभ्यःस्निग्धं खरेभ्यः खरं भवति । रक्तेभ्यो-
द्रव्येभ्योमृदुतीक्ष्णं भवति । रक्तसैन्धवसन्निभैर्हरिद्भिः
श्चित्रं यदन्तः उत्पद्यते लौहं तद्वज्रायुधन्नाम भवति । तच्च
पाषाण एव पूजित इति । भवन्ति चात्रश्लोकाः । तापं
चिरादेव विचूर्ण्णितञ्च भिन्नाञ्जनाभं बहुसूक्ष्महीरम् पीतं
भवेत् निर्म्मलरुक्मवर्णं सर्वाणि लोहानि भिनत्ति तीक्ष्णम् ।
सन्नम्यते तापमुपैति चाशु श्वेतं भवत्येव मलावनद्धम् ।
यत्स्थूलहीरन्त्रपुवङ्गवर्ण्णं सर्वेषु कार्य्येष्वपि तन्मृदु स्यात् । श्वेतं
भवत्यभ्यधिकं स्थिरञ्च संघट्टनामेति चिराच्च तापम् । संघा-
तलोहेन चिराद्वियोगं स्निग्धञ्च लोहं प्रवदन्ति तृज्ज्ञाः ।
खरं विशीर्य्येत न चैति योगम् सर्वत्र योग्यं मृदुतीक्ष्ण-
माहुः । यज्रातरूपं न च दह्यतेऽग्नौ तद्वज्रलोहं प्रसमीक्ष्य
पृष्ठ ०५५२
वाच्यम् । तीक्ष्णस्य मृदुनः खरस्य स्निग्धस्य मृदुतीक्ष्णस्य
वज्रलोहस्यच विज्ञेयं कुट्टिमङ्कोशगर्भमेककोशगर्भं कुट्टि-
मकोशगर्भम् । सुतीक्ष्णं करणप्रवरं भवति । मृदुतीक्ष्णं
मध्यमगर्भं कुट्टिमञ्च कारयेन् मृदुतीक्ष्णकुट्टिमं कोशभर्भमेकगर्भा-
लयं वेति तथा तीक्ष्णं मन्दं वेति विविधमायसं भवति ।
तीक्ष्णस्य कुलानि उपकुलानि पुनः सृष्टानि वीतर्कपु-
ष्कलालावेतकं यावङ्काशिकमङ्कोल्लं मयूरं हमालं वीरंकां
वरं पुष्कराकं पुष्कराङ्कक्रोड़िनं वर्वरंरौद्रं शालिकं किस्किन्धं
विस्फुलिङ्गंवाह्लीकं सुराष्ट्रायसं वेति तीक्ष्णयोनयो
भवेयुरेकविंशतिरथ मन्दायसो वक्ष्यन्ते । कास्वोजं काण्डवारं
हम्बालं सूर्य्यारङ्काष्ठमलयं पुन्नागपर्वतं यावतन्द्रं तीक्ष्णं
कलिपार्वतीय सिंहालकं वानवासीसिन्धुकं मूषकं नीलाण्डं
मागधं देवान्तं मेनकं वाह्लीकं पारवं क्रथं शट्टाकं शाण्डिलं
पालकं नुचुरतोलकं विन्तपालं नीलामुखं कूणीराष्ट्रं
महेन्द्राष्ट्रं विचर्तुकं वेति लोहाः त्रिंशदेका भवन्ति । कुला-
नां संग्रहाद्विविधा लीहा तन्निवोध सप्त भवन्ति । मार्द्द-
वस्य खरस्य त्वष्टौ स्नेहान्वितस्प पुनः षड़्गवन्ति । मृदु-
तीक्ष्णस्य दशैवस्वुर्वज्रायसस्यैकभेयेति कुलान्येतानि संग्रहा-
दुक्तानि तत्र काम्बोजं काण्डवारं हंनुपालं नीलाण्डं
खरस्यैतानि भवन्ति । पावनं वटतीक्ष्णं कालिङ्गं पार्व-
तीयं सिंहालं लङ्कवालञ्च चेति स्नेहान्वितस्यैतानि कुलानि
षड्भवन्ति । नीलामुखं कूणीराष्ट्रं महेन्द्राष्ट्रं विचर्त्तुकं
सौर्परं काष्टमलयं पुन्नागपर्वतं सिन्धुकं मूषिकं दक्षिणामुखं
चेति मृदुतीक्ष्णस्य दशैतानि कुलानि भवन्ति । षष्टन्तु लोहं
वेद्यन्तरगुहासु जायते तच्च वज्रलोहमिति विद्यात् ।
परमेतानि वज्रायसविवर्जितानि त्रिंशदेकाधिकानि । मृदु
तीक्ष्णं मृदुतीक्ष्णं स्निग्धं खरं चेति । वीतकादीन्येकविंशतिं
क्ष्णानि वक्ष्यन्ते यत्र दृढत्वं बलवत्त्वं स्निग्धतां लाघवङ्गौरवं
च विशेषात्तत्र तत्र विविधं भवति हुताशनकर्म्मणि तत्र-
छिन्नपाटलानिभं भवति । यत्र वचर्स्या दृश्यन्ते
त्रुटिते चूर्ण्णिते वा हुताशनेऽपि त्रुट्यमानं सकृदेव ग्रभज्यते
मूलेऽग्रे च सर्वदक्षिणतो वैवर्ण्यं भजेन्मत्स्यकण्टकच्छाया-
वा स्यात् लिक्षासीसविभा वा श्वेतकृतनिस्रावतोरहान्यैव
तत् मृदुलोहमिति विद्यात् । त्रयाणां चीनकादीनां लक्षणं
वक्ष्यते आकृत्या संस्थानेन वर्ण्णेन गन्धेन शब्देन क्रमशः स्यात्
पृथक् वेतसवञ्जुलपत्राणामाकृतिः करवीरपत्राणां वा भवति ।
षड़श्रैर्युतं मिश्रकैरष्टाश्रैश्चतुरश्रेर्व्वा वृत्तं विपुलं वा
नालमूलाकृतिर्वेति । संस्थानतःपरीक्षणीयम् निर्गुण्डीकुसु-
मानामिव यत्र वर्णोऽञ्जनालक्तकयोर्वा मयूरकण्ठच्छविः
शुकपिच्छनिभः । काककोकिलसदृशोमक्षिकाभो वेति ।
वर्णतः परीक्षिणीयं चानुलोहम् । तथा अङ्कोलस्योत्पलस्य
मूषिकायाः पत्रस्य मधुकस्य वा गन्ध इति गन्धतः
परोक्षणयीम् । तथा कांस्यघण्टाया वलाकानां शब्दैव शब्दो
विस्फुलिङ्गायायस्येति शब्दतः परीक्षणीयावि ज्ञातव्याः” ।
उपकुलादि विस्तरभयान्नोक्तम् “युग्माङ्गुलाः प्रशस्ताः
अयुग्माङ्गुला विगर्हिताः खड्गास्ते केऽपि ब्राह्मणस्य
परिग्रहा धमनासं दिशन्ति क्षत्रियस्यार्थविनाशं कुलक्षयं
कुर्व्वति वैश्यस्य तु सद्योबधमावहन्ति शूद्रस्य न
कदाचिदपि वृत्तिकराः स्युस्तथा व्रणाः छायास्निग्धवर्ण्णाः
पूजिताः छिन्ना रूक्षवर्ण्णाअरूपानुज्वलाश्च भर्त्तुरपजयाय
स्मृतिगर्हिताः” । त्रिकोणाःपञ्चकोणाश्चतुरस्राव्रणाः
प्रशस्ताः । अनुलोमाश्च प्रतिलोमाश्च प्रशस्तदीर्घतायै
खड्गस्य भवन्ति । ते प्रतिलोमावेदितव्याः खड़्गस्यानुगता
अनुलोमा व्रणापदेशो वक्ष्यते । पूजितोनिन्दितश्च यदि
खड़्गस्याद्येऽङ्गुले दृश्येत तदा पुत्रमरणम् । द्व्यङ्गुले पुत्र-
वृद्धिस्त्र्यङ्गुले पुत्रधननाशश्चतुर्थे पुत्रमङ्गल्यम् पञ्चाङ्गुले
मरणंनरपशूनाम् । षड़ङ्गुले कर्म्मसिद्धिः पश्रुलाभश्च
सप्ताङ्गुले कलहेन विनाशं भर्त्तुः करोति । व्रणोऽष्टाङ्गुले
मित्रप्राप्तिं धनस्थितिं च कुर्यात् । नवाङ्गुले भ्रातृबधधान्य-
विनाशम्भर्त्तुः करीति, दशाङ्गुले मित्रभृत्यानां लाभं
सम्पद्विद्वृद्धिञ्च, एकादशाङ्गुले संग्रहणं मित्रविरोधञ्च ।
द्वादशाङ्गुले मित्रलाभम्भोगं सुखं च । त्रयोदशाङ्गुले प्रभु-
विनाशं चतुर्द्दशाङ्गुले प्रियतां गौरबन्धनलाभं च, पञ्च-
दशाङ्गुले शत्रुविवृद्धिम् । षोड़शाङ्गुले शत्रुविजयं सप्त
दशाङ्गुले भयम्, स्त्रीलाभम् अष्टादशाङ्गुले, शत्रुवधम्
ऊनविंशे, वृद्धिं विंशाङ्गुले, मरणम् एकविंशत्यङ्गुले, शत्रुज-
नितं नाशम्भयं च । द्वाविंशत्यङ्गुले राष्ट्रपालनं
परराष्ट्रविनाशं च त्रयोविंशत्यङ्गुले विंशतिवर्षादेव
मरणम् । चतुर्विंशत्यङ्गुले भूषणागमम् । पञ्चविंशत्य-
ङ्गुले, भार्याविरामम्, षड़्विंशत्यङ्गुले प्रियगुणलाभं,
स्वभार्य्याविरागन्तु सप्रविंशत्यङ्गुले, विपुलश्रियोलाभमष्टा-
विंशत्यङ्गुले, एकोनत्रिंशत्यङ्गुले वृद्वभावे भ्रातृभि र्ग्रहणं,
त्रिंशदङ्गुले वृद्धिमजिरंचेति खड्गे व्रणः करोति । तथा
एकत्रिंशदङ्गुले सभृत्यस्त्रीवाहनं भर्त्तारं विनाशयति ।
द्वात्रिंशदङ्गुले पराजयमरिभिः करोति । त्रयस्त्रिंशदङ्गुले
भर्त्तारं पीड़यति नीचस्य च कर्मणो वशगङ्करोति ।
पृष्ठ ०५५३
चतुस्त्रिंशदङ्गुले धन्यं दानधर्मभाजनं च पञ्चत्रिंशंदङ्गुले
मरणं सद्यः करोति । षट्त्रिंशदङ्गुले विजयं भर्त्तुर्ददाति
सप्तत्रिंशदङ्गुले पराभवमरिभिः करोति । अष्टत्रिंशदङ्गुले
शत्रुप्रमर्दनं करोति नवत्रिंशदङ्गुले कुजनैरेव परिक्लेशं
नयति । चत्वारिंशदङ्गुले कन्यालाभमरिजयं च प्राप्नोति
व्रणेन खड्गस्थितेन । तथैकचत्वारिंशदङ्गुले शत्रुभ्यः
पीड़नाद्भयं लभते द्विचत्वारिंशदङ्गुले स्वराष्ट्रवर्द्विमन्त्रिणं-
त्रिचत्वारिंशदङ्गुले दुःखं प्राप्नोति सेनापतिरेव भर्त्ता
भवति । चतुश्चत्वारिंशदङ्गुले श्रियं विपुलां लभते । पञ्च-
चत्वारिंशदङ्गुले व्रणो भयङ्क षट्चत्वारिंशदङ्गुले
व्रणाः सुखावाहा भवन्ति । सप्तचत्वारिंशदङ्गुले स्वपक्षं
पीड़यति परपक्षं वर्द्धयति अष्टाचत्वारिंशदङ्गुले राजश्रियं
भुङ्क्ते एकोनपञ्चाशदङ्गुले शत्रोर्विजयं लभते । पञ्चाशदङ्गुले
कुलवृद्धिर्भवति” । एकत्रिंशदाद्यङ्गुलिषुव्रणे फलविशेषोऽभि-
हितः । अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् । प्रधान-
देहसंभूतैरन्यास्थिभिररिन्दमः । लोहं प्रधानं खड्गार्थे
प्रशस्तं तद्विशेषतः । खरीकदुरुकृषिकावङ्गसूर्य्यारकेषु
च । विदेहेषु तथाङ्गेषु मध्यमग्रामचेदिषु ।
सहग्रामेषु वीरेषु तथा कालञ्जरेऽपि च । लोहं प्रधानं खड्गानां
नवानां शृणु लक्षणम् । खरी कटुरुजा ये च दर्शनीयाश्च
ते स्मृताः । कार्येदक्षाश्च कृषिकामृदवो गुरवस्तथा”
तीक्ष्णाश्छेदसहा वङ्गा दृढ़ाः सूर्य्यारकोद्रवाः । सुदृढाश्चैव
विज्ञेया प्रभवन्ति विदेहजाः । अङ्गदेशोद्भवास्तीक्ष्णाः
सहजास्ते दृढास्तथा । वेगवन्तस्तथा तीक्ष्णामध्यमग्राम-
सम्भवाः । असारलघवस्तीक्ष्णाश्चेदिदेशसमुद्रवाः ।
सहग्रामोद्भवाः खड्गाः सुतीक्ष्णालघवस्तथा । निर्वला
निर्मला खड्गावीरदेशसमुद्रवाः । कालञ्जराभारसहास्तेषां
वक्ष्यामि लक्षणम् । शतार्द्धमङ्गुलानां तु श्रेष्टः खड्गः
प्रकीर्त्तितः । तदधोमध्यसंज्ञाभाक् ततोहीनं न धारयेत् ।
प्रमाणाभ्यधिकं देव! छिन्नवंशन्तथैव च । दीर्घः सुमधुरः-
शब्दोयस्य खड्गस्य भार्गव! ॥ किङ्किणीसदृशस्तस्य धारणम्
श्रेष्ठमुच्यते । खड्गः पत्नपलाशाग्रोमण्डलास्यश्च शस्यते ।
करवीरपलाशाग्रसदृशश्च विशेषतः । महीघृतसगन्धश्च
प्रद्मोत्पलसुगन्धिकः । वर्ण्णतश्चीत्प्रलाकारः सवर्ण्णो
गननस्य च । समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु
भार्गव! । श्रीवृक्षपर्वताकारवंशवस्तनिभाश्च ये । मङ्ग-
ल्यानां तथान्येषां सदृशा ये च भार्गव! । काकोलूकार्कबन्ध्या
भा विषमाङ्गुलिसंस्थिताः । वंशानुगाः प्रभूताश्च न प्रशस्ता
कदाचन । खड्गे न पश्येद्वदनं वृथा न वृणुयादमुम् ।
न चास्य कथयेन्मूल्यं जातिं देशं कथञ्चन । उत्सृष्टो न स्पृशेत्
खड्गं निशिकुर्याच्च शीर्षके । दिवा च पूजयदेनं गन्धमाल्यादि
सम्पदा । खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दन-
चर्च्चयाढ्यम् । संस्थायपेद्भूमिपतिः प्रयत्नान् यतेत चेह स्वश-
रीरवच्च” विष्णुध० । देवीपु० । “खड्गस्य लक्षणं वक्ष्ये त्रिशि-
खस्य तु सुन्दरि! । नान्यशस्त्रोद्भवं कार्यं मृदुलोहमयन्तथा ।
स्फुटितं खण्डितं ह्रस्वं सव्रणं साधितं तथा । मृदुलोहे-
नचारभ्य सन्धितो मरणं भवेत् । सव्रणेनापि हृद्रोगी
रेखायां पातकी भवेत् । भार्य्या माता तथा पुत्रो म्रियते
खण्डितेन च । ह्रस्वेन लाघवं लोके दीर्घतापि ह्यसिद्विदा ।
अन्यशस्त्रोद्भवेनापि संभवेन्मरणम् ध्रुवम् । पञ्चाशदङ्गुलं
खड्गं त्रिशिखञ्च सुरेश्वरि । ईदृशङ्कारयेत्खड्ग
माशु सिद्विफलप्रदम्” । अस्यते क्षिप्यते अस--इन् ।
३ श्वासे “तिस्रः पत्न्योऽसिपथान् कल्पयन्त्यश्वस्य सूचीभिः”
कात्या० २० । ७ । १ । “असेः श्वासस्य पथः मार्गान्”
कर्क० त्रि० । ४ क्षिप्ते असगण्डः ।

असिक न० असि--संज्ञायां कन् । अधरचिवुकयोर्मध्यमागेहेम० ।

असिक्नी स्त्री सो--क्त सिता केशादौ शुभ्रा जरती तद्भिन्ना

अवृद्धा क्नादेशः ङीप् च । अन्तःपुरचारिण्यामवृद्धायां
१ प्रेष्यायाम्, २ नदीभेदे च । ३ रात्रौ निरु० तस्याश्च सूर्य्य-
तेजःशून्यतया असितत्वात् तथात्वम् “त्वचमसिक्नीं
भूमनो दिवस्परि” ९ । ७३ । ५ । “त्वद्भिया विशआयन्न-
सिक्नीरसमानाः” ऋ० ७ । ५ । ३ । असिक्नीरसितवर्ण्णा
राजस्यः” भा० वीरस्य प्रजापतेः ४ कन्याभेदे । असिक्नी-
मावहत् पत्नीं वीवरणस्य प्रजापतेः” इति हरि० ३ अ० ।
“छन्दसि क्नमेके” वार्त्ति० उक्तेः छन्दस्येवायं क्नादेशः
लोके तु क्वचित् । “असिक्री स्यादवृद्धायामित्यमरः” ।

असिगण्ड पु० असिः क्षिप्तोगण्डो यत्र । गण्डोपधाने ।

असिजीविन् पु० असिना तद्व्यापारेण जीवति जीव--णिनि ।

शस्त्रव्यापारेण युद्धादिनाजीविकावति विप्रस्य तथात्वे
निन्द्यत्वम् “असिजीवी मसीजीवी काण्ड पृष्ठश्च धावक” इत्युक्तेः ।

असित पु० सितः शुभ्रः विरोधे न० त० । १ शुभ्रवर्णभिन्ने तद्वि-

रुद्धे कृष्णवर्णे । २ तद्वति त्रि० । ३ कृष्णपक्षे पु० । ४ नीलोषधौ
अन्तःपुरचारिण्यामवृद्धायां ५ प्रेष्यायाञ्च स्त्री ङीप्
कृष्णवर्ण्णपरतया क्नश्च असिक्नीत्येव । “असितगिरिनिभं
स्यात् कज्ज्वलं सिन्धुपात्रम्” पुष्पदन्तः “तन्तुमवव्ययन्नसि
तम्” ऋ० ४, १३, ४, ५ यमुनायां तस्याः कृष्णवर्णत्वात् तथात्वम्
पृष्ठ ०५५४
स्त्री “सितासिते यत्र सरिद्वरे शुभे” काशी० । अस्याः
स्त्रीत्वेऽपि छन्दसीत्युक्तेः न क्नः तेन ङीबपि न ।
६ देवले ऋषिभेदेपु० । “असितोदेवलोव्यासः स्वयञ्चैव
ब्रवीषि मे” गीता । असितमुनिश्च हिमवतः एकपर्ण्णां
नाम सुतामुपयेमे यथाह हरि० १८ अ० ।
“तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् ।
अपर्णामेकपर्णाञ्च तृतीयामेकपाटलाम् । तपश्चरन्त्यः
सुमहद्दुश्चरं देवदानवैः । लोकान् सन्तापयामासुस्तास्तिस्रः
स्थाणुजङ्गमान् । आहारमेकपर्णेन एकपर्णा
समाचरत् । पाटलापुष्पमेकञ्च आदधावेकपाटला । एका
तत्र निराहारा ताँ माता प्रत्यषेधयत् । उमा इति
निषेधन्ती मातृस्नेहेन दुःखिता । सा तथोक्ता
तदामात्रा देवी दुश्चरचारिणी । उमेत्येवाभवत् ख्याता
त्रिषु लोकेषु सुन्दरी तथैव नाम्ना तेनेह विश्रुता
योगधर्म्मिणी” । एवं त्रिस्रःकुमारीर्वर्णयित्वा । “सर्व्वाश्च
ब्रह्मवादिन्यः सर्व्वाश्चैवोद्ध्वैरेतसः । उमा तासां वरिष्ठा
च ज्येष्ठा च वरवर्णिनी । महायोगबलोपेता महादेव
मुपस्थिता । असितस्यैकपर्णा तु देवलस्य महात्मनः ।
पत्नी दत्ता तथा ब्रह्मन्! योगाचार्य्याय धीमते । जैजीष-
व्याय तु तथा विद्धि तामेकपाटलाम् । एते कन्ये
महाभागे योगाचार्य्यमुपस्थिते” । ७ शनोच ८ अप्सरोभेदे
स्त्री “असिता च सुबाहुश्च सुवृत्ता मृदुका तथा” ।
हरि० व० ।

असितकार्च्चिस् पु० असितयंति णिच्--ण्वुल् सा अर्च्चिः शिखा

यस्य । वह्नौ तच्छिखासम्बन्धेन हि सर्व्वेषामसितत्वम् ।

असितगिरि पु० कर्म्म० । नीलपर्ब्बंते नीलाचले । “असित-

गिरिनिभं स्यात् कज्वलं सिन्धुपात्रम्” पुष्पद० । असित
नगादयोऽप्यत्र । “असितनगनितम्बश्यामभासां
घनानाम्” । किरा० ।

असितग्रीव पु० असिता ग्रीवा धूमेन यस्य । वह्नौ “असित ग्रीवश्छागः” यजु० २३ । १३ ।

असितफल पु० असितं कृष्णंफलं यस्य । मधुनारिकेले ।

असितमृग पु० कर्म्म० । कृष्णसारमगे ।

असिताभ्रशेखर पु० । बुद्धभेदे ।

असिताम्बुज न० कर्म्म० । नीलपद्मे ।

असितार्च्चिस् पु० असिता कृष्णा अर्च्चिः शिखाऽस्य । धूमशिखे वह्नौ ।

असितालु पु० कर्म्म० । नीलालौ आलुभेदे ।

असिताश्मन् पु० कर्म्म० । जातित्वेऽपि अनित्यत्वात् न० समा० । इन्द्र-

नीलके मणिभेदे “निलयेषु नक्तमसिताश्मनां चयैः” माघः

असितृ त्रि० अस--क्षेपे तृच् स्त्रियां ङीप् । क्षेपके “स वज्र-

स्पर्शरूपाणामस्त्राणामसितारिषु” भा० भी० प० ।

असितोत्पल न० कर्म्म० । नीलोत्पले ।

असितोपल पु० कर्म्म० । इन्द्रनीलमणौ ।

असिदंष्ट्र पु० असिरिव तीक्ष्णा दंष्ट्रा यस्य । भकराख्ये

यादसि । स्वार्थे कन् तत्रैव ।

असिद्ध त्रि० सिद्धोनिष्पन्नः पक्वश्च न० त० । १ अपक्वे, २

अनिष्पन्ने च न्यायमते आश्रयासिद्धत्वादिभिर्दौषैर्दुष्टे ३ हेतौ
पु० । “अनैकान्तोविरुद्धश्चाप्यसिद्धःप्रतिपक्षितः । कालात्य-
योपदिष्टश्च हेत्वाभासाश्च पञ्चधा” भाषा० असिद्धिशब्दे
विवरणम् । अनुमानेन ४ अनधिगते च “तस्मादपि चासिद्धं
परोक्षमाप्तवचनात् सिद्धम्” सां० का० । ५ सिद्धिशून्ये च
स्वयमसिद्धः कथं परान् साघयेत्” न्यायः ।

असिद्धि स्त्री सिध--क्तिन् न० त० । १ अनिष्पत्तौ, २ पाकाभावे

३ योगोक्तसिद्ध्यभावे न्यायमते ४ आश्रयासिद्धिप्रभृतिहेतुदोषे
च । सिद्धयश्च त्रिविधाः । “आश्रयासिद्धिराद्या स्यात्
स्वरूपासिद्धिरप्यथ । व्याप्यतासिद्धिरपरा स्यादसिद्धिरत-
स्त्रिधा । पक्षासिद्धिर्यत्र पक्षोभवेन्मणिमयोगिरिः । ह्रदो-
द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा व्याप्यत्वासिद्धिरपरा
नीलधूमादिके भवेत्” इति च भाषा० । नीलधूमत्वं गुरु-
तया न हेतुतावच्छेदकम् समानाधिकरणव्याप्यताव-
च्छेदकधर्म्मान्तराघटितण्यैव व्याप्यतावच्छेदकचत्वात्
एतासां दूषकतावीजं तु असिद्धिसामान्यविशेषलक्षण
कथनपूर्ब्बकं दर्शितं मुक्ता० यथा “आश्रयासिद्ध्याद्यन्य-
तमत्वमसिद्धित्वम् । आश्रयासिद्धिः पक्षे पक्षतावच्छे
दकस्याभावः । यत्र काञ्चनमयः पर्व्वतो वह्निमानिति
साध्यते तत्र पर्व्वतो न काञ्चनमय इति ज्ञाने विद्यमाने
काञ्चनमयपर्व्वते परामर्शप्रतिबन्धः फलम् । स्वरूपा
सिद्धिस्तु पक्षे व्याप्यत्वाभिमतस्यभावः । अत्र च ह्रदोद्रव्यं
धूमादित्यादौ पक्षे व्याष्यत्वाभिमतस्य हेतोरभावे ज्ञाते पक्षे
साध्यव्याप्यहेतुमत्ताज्ञानरूपपरामर्शप्रतिवन्धः फलम् ॥
साध्यासिद्धिरपि व्याप्यत्वासिद्धिः । सा च साध्ये साध्य
तावच्छेदकाभावः । तथा च काञ्चनमयवह्निमानित्यादौ
साध्ये साध्यतावच्छेदकाभावे ज्ञाते साध्यतावच्छेदकविशिष्ट
साध्यव्याप्यवत्ताज्ञानरूपपरामर्शप्रतिवन्धःफलम् ।
सिद्धिः साध्यवत्तानिश्चयः अभावे न० त० । ५ साध्यवत्ता
निश्चयाभावे “दृष्टान्तासिद्धेश्च” सां० सू० । दृष्टान्ते
“क्षणिकत्वासिद्धेश्च न क्षणित्वानुमानम्” भा० । “स्थिर-
कार्य्यासिद्धे क्षणिकत्वम्” सां सू० ।
पृष्ठ ०५५५

असिधारा स्त्री ६३० । खङ्गस्य तीक्ष्णाग्रभागे । “असि-

धारापरिहृतःकामं चक्रस्य तेन ते” । सुरगज इव
दन्तैर्भग्नदैत्यासिधारैः” इति च रघुः ।

असिधाराव्रत न० असिधारायां स्थितिरिव दुष्करं व्रतम् ।

असिधारास्थिति तुल्यदुष्करे व्रते असिधारायां स्थितौ मनाक्
स्खलने यथा नाशः एवं मनाक्स्खलने यत्रानिष्टं, तादृशे-
व्रते तच्च यादवेन दर्शितं यथा । “युवा युवत्या सार्द्धं यन्
मुग्धा भर्त्तृवदाचरेत् । अन्तर्निवृत्तसङ्गःस्यादसिधाराव्रतं
हि तत् “असिधाराव्रतमिदं सखे यदरिणा सह संवासः”
हितो० सतां केनोद्दिष्टं विपुलमसिधाराव्रतमिदम्” नीतिः ।

असिधाव पु० असिं खड़्गं धावयति मार्ज्जयति धाव--अण् ।

शस्त्राणां मार्ज्जनकरे । ण्वुल् । असिधावकोऽप्यत्र ।

असिधेनुका स्त्री असिर्धेनुरिव यस्याः वा कप् । असेर्धे-

नुतुल्यत्वेन तद्वत्सतुल्यायाम् छुरिकायाम् । कबभावे
असिधेनुरप्यत्र ।

असिपत्र पु० असिरिव तीक्ष्णं पत्रमस्य वा कप् । १ इक्षुवृक्षे

“जातं तमात्मन्यसिपत्रवृक्षम्” रघुः । २ गुण्डनामकतृणे च
असेः पत्रमिवाच्छादकम् । ३ खड़्गकोषे न० । असिपत्रा-
कारोऽस्त्यस्य अर्श० अच् । इक्षुपत्राकारे ४ उभयतोधारे खड्गे
च “अत्याक्षीत् स्वासिपत्रादीनबभासत् परश्वधान्” भट्टिः ।

असिपत्रवन न० असिरिव पत्रमस्य तादृशं वनम् ।

असिपत्रवने नरकभेदे तत्स्वरूपादि भाग० ५ स्क० । अन्ध-
तामिस्रादिकमुपक्रम्य “कालसूत्रमसिपत्रवनं सूकरमुख” मित्या-
दिना नरकभेदान् दर्शयित्वा तत्स्वरूपं कारणञ्चोक्तं तत्रैव
“यस्त्विह वै निजपथादनापद्यपगतः पाषण्डञ्चोपगतस्त-
मसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्रासावितस्ततो
धाकमान उभयतोधारैस्तालवनासिपत्रैच्छिद्यमानसर्वा-
ङ्गोहाहतोस्मीतिपरमया वेदनया मूर्च्छितः पदेपदे
निपतति स्वधर्म्महा पाषण्डानुगमनफलं भुङ्क्ते” “असि-
पत्रवनं नाम नरकम् शृणु चापरम् योजनानां सहस्रं
वैज्वलदग्न्यास्तृतावनिः । तप्तासूर्य्यकरैश्चण्डैः कल्पकालाग्नि
दारुणैः । प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ।
तन्मध्ये च वनं शीतं स्निग्धपत्रं विभाव्यते । पत्राणि यत्र
खड़्गानि फलानि द्विजसत्तम! । श्वानश्च तत्र शवलाश्चर-
न्त्यामिषलोभिनः । महावक्त्रा महादंष्ट्रा व्याघ्रा इव
महानखाः । ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः ।
प्रयान्ति प्राणिनस्तत्र तृट्तापपरिपीड़िताः । हा तात!
हा मातरिति क्रन्दन्तोऽतीव दुःखिताः । दह्यमागाङ्घ्रियुग-
लाधरणिस्थेन वह्निना । तेषां गतानां तत्रासिपत्रव्यापि
समीरणः । प्रवाति तेन पात्यन्ते तेषां खड़्गास्तथो-
परि । छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसञ्चये । लेलि-
ह्यमाने चातीव व्याप्ताशेषमहीतले । सारमेयास्ततः शीघ्रं
शातयन्ति शरीरतः । तेषां खण्डानि रुदतामदन्त्यान
नभीषणाः । असिपत्रवनं तात! मयैतत् परिकीर्त्तितम्”
इति मार्क० पु० । “असिपत्रवनं चैव लोहदारकमेव
च” मनुः ।

असिपत्रव्रत न० अश्वमेधे कर्त्तव्ये व्रतभेदे ।

असिपुच्छ पु० असिरिव धारायुक्तः पुच्छोऽस्य । शिशुमारे जलजन्तुभेदे ।

असिपुत्रिका स्त्री असेः पुत्रीव स्वार्थे कन् ह्रस्वे अत

इत्त्वम् । छुरिकायाम् । कनभावे असिपुत्रीत्यप्यत्न ।

असिमेद पु० असिरिव तीक्ष्णः मेदो निर्यासो यस्य । विट्खदिरे

असिर त्रि० अस + क्षेपे किरच् । क्षेपके । “यःसूर्य्यस्यासि-

रेण मृज्यते” ऋ० ९, ७६, ४ ।

असिलोमन् पु० असिरिव तीक्ष्णं लोमास्य । दनोःपुत्र-

भेदे । “चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारतेत्युपक्रम्य
“असिलोमा च केशी च दुर्ज्जयश्चैव दानवः” भा० आ० प०
६५ अध्या० हरिवंशे तु “अभवन् दनुपत्राश्च शतं
तीव्रपराक्रमा” इत्युपक्रम्य शतपुत्रमध्ये “असिलोमा च केशो
च शठश्च बलकोऽमदः” इत्युक्तम् । “असिलोमा पुलोमा च
वास्कलः प्रमदोऽमद” इति च हरि० । स च देवासुर-
युद्धे वायुना सह युयुधे “असिलोमाथ बलिना मारुतेन
महाहवे” हरिवं २४४ अध्या० । त्रिविक्रमावसरे च
स हरिणा सह युयुधे विष्णुना हतश्च “असिलोमा
हरिश्चैव जघ्नतुर्वै परस्परमित्युपक्रम्य १६१ अध्या० “विप्र-
चित्तिः शिवःशङ्कुरित्युपक्रम्य च “असिलोमा पुलोमाचेत्या-
दिना बहून् दैत्यान् युयुधानानमिधाय” “प्रमथ्य सर्वान्
दैतेयान् पादहस्ततलैः प्रभुः । जहार त्रिदिवं देवस्त्रि-
भिर्विक्रमणैर्हरिः” हरि० २६३ अ० वामनेन तद्दलन-
मुक्तम् । “असिलोम्नोऽपहन्ता वै तथा रावणनाशनः”
विष्णुस्तवः ।

असिहत्य त्रि० असिना हत्यः घात्यः हन--बा० क्यप् ३ त० ।

खड़्गेन हननीये । भवादौ अण् अनुशतिका० द्विपद-
वृद्धिः आसिहात्यः ।

असिहेति पु० असिर्हेतिः साधनमस्य । खड्गेन युद्धकर्त्तरि ।

पृष्ठ ०५५६

असु पु० अस्यते क्षिप्यते अस--उन् । १ चित्ते । कर्त्तरि उन् ।

२ तापे । करणे उन् । ३ पञ्चवृत्तिषु वायुभेदेषु पु० ब० व० । “शेषे
जातो भवेद्व्यमुः ज्योति० । “आचम्योदक् परावृत्य त्रिराचम्य
शनैरसून्” मनुः । “शरीरेभ्योऽमरारीणामसूतिव विचि-
न्वति” देवीमा० “त्यजन्त्यसून् शर्म्मच मानिनो वरं त्यजन्ति
नत्वेकमयाचितव्रतम्” नैषधम् । प्राणवृत्तीनां भेदविवक्षायामेव
बहुत्वम् एकत्वविवक्षायां तु एकवचनान्ततामिच्छन्ति अतएव-
“प्राणापानौ समौकृत्वा” गीता “प्राणोह पिता प्राणोह माते-
त्यादौ प्राणशब्दवत् असुशब्दोप्येकवचनः” नानददसुं ऋ०
१, १४०, ८ । “उदीर्घ्वं जीवो असुर्न आगादप”
ऋ० १, ११३, १६, ४ दशगुर्व्वक्षरोच्चारणकाले पलषष्ठ-
भागे च “गुर्व्वक्षरैः खेन्दुमितैरसुस्तैः षद्भिः पलं तैर्घ-
टिका खषड़्भिः” सि० शि० ५ प्रज्ञायाम् निरो ।

असु उपतापे कण्ट्वा० यक् । असूयति आसूयीत्

असूयामास । असूया । असूञ इत्येके असूयति ते ।

असुकर त्रि० सुखेन क्रियते सु + कृ--खल् विरोधे न० त० ।

दुस्करे ।

असुख न० विरोधे न० त० । १ दुःखे असुखोदयः असुखावहः

असुखोदर्कः “तत्तत् प्राप्य सुखासुखम्” गीता “याभ्यां
प्राप्वोति संस्पृक्ताः प्रेत्येह च सुखासुखम्” मनुः ।
न० ब० । २ सुखशून्ये ।

असुगम त्रि० सुखेन गम्यते सु + गम--खल् विरोधे न० त० । १ दुर्गमे २ दुर्ब्बोधे च ।

असुतृप पु० असुना परकीयप्राणनाशनेन तृप्यति तृप--क

३ त० ॥ यमदूतभेदे “ऊरूणसावसुतृपा उदुम्बलौ यमस्य
दूतौ चरतोजनाँ अनु” ऋ० १०, १४, १२ ।

असुधारण न० असूनां प्राणादिपञ्चवायुवृत्तीनां धारणम् । जीवने ।

असुन्दर त्रि० विरोधे न० त० । सौन्दर्य्यहीने अनुत्कृष्टे

कुत्सिते ।

असुन्व त्रि० सु--अभिषवे बा० श न० त० । सोमाभिषवाकर्त्तरि

“असुन्वामिन्द्र । ससंदम्” ८, १५, १४ । “असुन्वां सोमा-
भिषवहीनाम्” भा० ।

असुभृत् त्रि० असून् बिभर्त्ति भृ--क्विप् ६ त० । १ प्राणिनि

असुमत् त्रि० असवःसन्त्यस्य मतुप् । प्राणिनि “सततम-

समतामगम्यरूपाः” माघः ।

असुर पु० अस--दीप्तौ उर० । १ सूर्य्ये । अस्यति क्षिपति

देवान् उर विरोधे न० त० वा । सुरविरोधिनि २ दैत्ये ।
३ रात्रौ स्त्री । असुरप्रभेदाश्च भारते आ० प० दर्शिताः
“एकएव दितेः पुत्रो हिरण्यकशिपुः” स्मृतः । नाम्ना
ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः । प्रह्लादः पूर्ब्ब-
जस्तेषां संह्लादस्तदनन्तरम् । अनुह्लादस्तृतीयोऽभूत्तस्माच्च
शिविवाष्कलौ । प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्र
भारत । विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत । विरो-
चनस्य पुत्त्रोऽभूद्बलिरेकः प्रतापवान् । बलेश्च प्रथितः
पुत्त्रो वाणो नाम महासुरः । रुद्रस्यानुचरः श्रीमान्महा-
कालेति यं विदुः । चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र
भारत । तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ।
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः । असिलोमा
च केशी च दुर्ज्जयश्चैव दानवः । अयःशिरा अश्वशिरा
अश्वशङ्कुश्च वीर्य्यवान् । तथा गगनमूर्द्धा च वेगवान् केतु-
मांश्च सः । स्वर्भानुरश्वोऽश्वपतिर्वृषपर्व्वाजकस्तथा । अश्व-
ग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः । एकपादेकचक्रश्च
विरुपाक्षमहोदरौ । निचन्द्रश्च निकुम्भश्च कुपटः
कपटस्तथा । शरभः शलभश्चैव सूर्य्याचन्द्रमसौ तथा । एते
ख्याता दनोर्व्वंशे दानवाः परिकीर्त्तिताः । अन्यौ तु
खलुदेवानां सूर्य्याचन्द्रमसौ स्मृतौ । अन्यौ दानवमुख्यानां
सूर्य्याचन्द्रमसौ तथा । इमे च वंशाः प्रथिताः सत्त्ववन्तो
महाबलाः । दनुपुत्त्रा महाराज दश दानववंशजाः ।
एकाक्षोऽमृतपो वीरः प्रलम्बनरकावपि । वातापी शत्रु-
तपनः शठश्चैव महासुरः । गविष्ठश्च वनायुश्च दीर्घजिह्वश्च
दानवः । असंख्येयाः स्मृतास्तेषां पुत्त्राः पौत्त्राश्च भारत! ।
सिंहिका सुषुवे पुत्त्रं राहुं चन्द्रार्क्कमर्द्दनम् ।
सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रप्रमर्द्दनम् । क्रूरस्व-
भावं क्रूरायाः पुत्त्रपौत्त्रमनन्तकम् । गणः क्रोधवशो
नाम क्रूरकर्म्माऽरिमर्द्दनः । दनायुषः पुनः पुत्राश्चत्वारो-
ऽसुरपुङ्गवाः । विक्षरोबलवीरौ च वृत्रश्चैव महासुरः ।
कालायाः प्रथिताः पुत्त्राः कालकल्पाः प्रहारिणः । प्रवि-
ख्याता महावीर्य्या दानवेषु परन्तपाः । विनाशनश्च क्रोधश्च
क्रोधहन्ता तथैव च । क्रोधः शत्रुस्तथैवान्ये कालकेया इति
श्रुताः” । हरिवंशेतु अन्येऽपि वहवोऽसुरभेदा उक्ता यथा ।
“दित्याः पुत्त्रद्वयं यज्ञे कश्यपादिति नः श्रुतम् । हिरण्य-
कशिपुश्चैव हिरण्याक्षश्च वीर्य्यवान् । सिंहिका चाभवत्कन्या
विप्रचित्तेः परिग्रहः । सैंहिकेया इति ख्याता यस्याः
पुत्रा महाबलाः । गणैश्च सह राजेन्द्र! दशसाहस्र-
मुच्यते । तेषां पुत्त्राश्च पौत्त्राश्च शतशोऽथ सहस्रशः ।
असंख्याता महाबाहो हिरण्यकशिपोः शृणु । हिरण्य-
कशिपोः पुत्त्राश्चत्वारः प्रथितौजसः । अनुह्रादश्च ह्रादश्च
प्रह्रादश्चैव वीर्य्यवान् । संह्रादश्च चतुर्थोऽभूत् ह्रादपुत्रो
पृष्ठ ०५५७
ह्रदस्तथा । संह्रादपुत्रः सुन्दश्च निसुन्दश्चैव तावुभौ ।
ह्रदस्य पुत्रो ह्यायुर्व्वै शिविः कालस्तथैव च । विरोचनश्च
प्राह्रादिर्बलिजज्ञे विरोचनात् । बलेः पुत्रशतन्त्वा-
सीद्वाणज्येष्ठं नराधिप । धृतराष्ट्रश्च सूर्य्यश्च चन्द्रमाश्चेन्द्र-
तापनः । कुम्भनाभो गर्द्दभाक्षः कुक्षिरित्येवमादयः ।
वाणस्तेषामतिबलो ज्येष्ठःपशुपतिप्रियः । पुराकल्पे हि
वाणेन प्रसाद्योमापतिं प्रभुम् । पार्श्वतो विहरिष्यामि
इत्येवं याचितो वरः । वाणस्य चेन्द्रदमनो लोहित्या-
मुदपद्यत । गणास्तथा सुरा राजन् शतसाहस्रसम्मिताः ।
हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः । झर्झरः
शकुनिश्चैव भूतसन्तापनस्तथा । महानाभश्च विक्रान्तः
कालनाभस्तथैव च । अभबन् । दनुपुत्राश्च शतं तीव्र-
पराक्रमाः । तपस्विनो महावीर्य्याः प्राधान्येन निबोध
तान् । द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिराः प्रभुः । शङ्कु-
कर्णो विराधश्च गवेष्ठी दुन्दुभिस्तथा । अयोमुखः शम्ब-
रश्च कपिलो वामनस्तथा । मरीचिर्म्मघवांश्चैव इरा गर्ग-
शिरा वृकः । विक्षोभणश्च केतुश्च केतुवीर्य्यशतह्रदौ ।
इन्द्रजित्सर्व्वजिच्चैव वज्रनाभस्तथैव च । महानाभश्च
विक्रान्तः कालनाभस्तथैव च । एकचक्रो महाबाहुस्तारकश्च
महाबलः । वैश्वानरः पुलोमा च विद्रावणमहाशिराः ।
स्वर्भानुर्वृषपर्व्वा च तुहुण्डश्च महासुरः । सूक्ष्मश्चैव
निचन्द्रश्च ऊर्णनाभो महागिरिः । असिलोमा च केशी च
शठश्च बलको मदः । तथा गगनमूर्द्धा च कुम्भनाभो
महासुरः । प्रमदो मयश्च कुपथो हयग्रीवश्च वीर्य्यवान् ।
वैरूपः स विरूपाक्षः सुपथोऽथ हराहरौ । हिरण्य-
कशिपोश्चैव शतमायश्च शम्बरः । शरभः शलभश्चैव विप्र-
चित्तिश्च वीर्य्यवान् । एते सर्व्वे दनोः पुत्राः कश्यपादभि-
जज्ञिरे । विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः ।
एतेषां यदपत्यन्तु न तच्छक्यं नराधिपः । प्रसंख्यातुं
महीपाल! पुत्रपौत्रमनन्तकम् । स्वर्भानोस्तु प्रभा कन्या
पुलोम्नस्तु सुतात्रयम् । उपदानवी हयशिराः शर्म्मिष्ठा
वार्षपर्व्वणी । पुलोमा कालका चैव वैश्वानरसुते उभे ।
बह्वपत्ये महावीर्य्ये मारीचेस्तु परिग्रहः । तयोः पुत्र-
सहस्राणि षष्टिं दानवनन्दनान् । चतुर्द्दश शतानन्यान्
हिरण्यपुरवासिनः । मारीचिर्ज्जनयामास महता
तपसाऽन्वितः । पौलोमाः कालकेयाश्च दानवास्ते
महाबलाः । अबध्या देवतानाञ्च हिरण्यपुरवासिनः ।
कृताः पितामहेनाजौ निहताः सव्यसाचिना ।
प्रभाया नहुषः पुत्त्रः सृञ्जयश्च शचीसुतः । पूरुंजज्ञे-
ऽथ शर्म्मिष्ठा दुष्मन्तमुपदानवी । ततोऽपरे महावीर्य्या
दानवास्त्वतिदारुणाः । सिंहिकायामथोत्पन्ना विप्रचित्तेः
सुतास्तथा । दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।
सहिकेया इति ख्यातास्त्रयोदश महाबलाः । वंशः
शल्यश्च बलिनौ नभश्चैव महाबलः । वातापिर्नमुचिश्चैव
इल्वलः खसृमस्तथा । आञ्जिको नरकश्चैव कालनाभ-
स्तथैव च । राहुर्ज्येष्ठस्तु तेषां वै सूर्य्यचन्द्रप्रमर्द्दनः ।
शुकः पोतरणश्चैव वज्रनाभश्च वीर्य्यवान् । मूकश्चैव तुहु-
ण्डश्च ह्रादपुत्त्रौ बभूवतुः । मारीचः सुन्दपुत्त्रश्च ताड़-
कायां व्यजायत । एते वै दानवाः श्रेष्ठा दनुवंशविव-
र्द्धनाः । तेषां पुत्त्राश्च पौत्त्राश्च शतशोऽथ सहस्रशः ।
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले । समुत्पन्नाः
सुमहता तपसा भावितात्मनः । तिस्रः कोट्यः सुतास्तेषां
मणिमत्यां निवासिनाम् । तेऽप्यबध्याश्च देवानामर्ज्जुनेन निपा-
तिताः । षट्सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्त्तिताः” ।
“वासेन यस्य जनिताऽसुरभीरणश्रीः” नैष० । “समत्सरेणा-
सुर इत्युपेयुषा” माघः । “ततः कानीयसा एव देवा ज्यायसा
असुराः, य एषु लोकेष्वस्पर्द्धन्त ते ह देवा ऊचुर्हन्तासुरान्
यज्ञ उद्गीथेनात्ययामिति” छा० उ० “असुषु विष्वग्विष-
यासु प्राणनक्रियासु रमन्ते रम्--डु । ४ स्वाभाविक्यां तम
आत्मिकायामिन्द्रियवृत्तौ । “देवासुरा वै यत्र संयेतिरे”
वृ० उ० । देवाश्चासुराश्च देवादीव्यतेर्द्योतनार्थस्य रूपं
शास्त्रोद्भासिता इन्द्रियवृत्तयः । असुरास्तद्विपरीताः स्वेष्वेवा-
सुषु विष्वग्विषयासु प्राणनक्रियासु रमणात् स्वाभाविक्यस्तम
आत्मिका इन्द्रियवृत्तय एव” भा० । स्वार्थे प्रज्ञा० अण् आसुरः
तत्रार्थे । तस्येदम् अण् आसुरः तत्सम्बन्धिनि त्रि० स्त्रियां
ङीप् “आसुरीरात्रिरन्यत्र तस्मात्ताः परिवर्ज्जयेत्” स्मृतिः
“आसुरीं योनिमापन्नाः” गीता । हितार्थे यत् । असुर्य्यः ।
“असुर्य्यानाम ते लोका अन्धेन तमसा वृताः” कठ० उ०
सुरा सुधा ग्रहीतृत्वेनास्त्यस्य अर्श० अच् न० त० ।
“सुराप्रतिग्रहाद्देवाःसुरा इत्यभिश्रुताः । अप्रतिग्रहणा-
च्चास्या दैतेयाश्चासुराः स्मृताः इत्युक्तनिर्व्वचनादपि
तेषामसुरत्वम् । जातौ ङीप् असुरी “असुरी जिह्वी
देवानां प्रातः सवनसत्रालेट्” अथ० । ४ कांस्ये तस्यासु-
राह्वयत्वात्तथात्वम् । मेघे पु० निरु० ।

असुरक्ष त्रि० सुखेन रक्ष्यते सु + रक्ष--खल् न० त० । सुखेनारक्षणीये ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अष्टार&oldid=310879" इत्यस्माद् प्रतिप्राप्तम्