सामग्री पर जाएँ

वाचस्पत्यम्/अवित्त

विकिस्रोतः तः


पृष्ठ ०४५८

अवित्त त्रि० न० त० । १ अविख्याते । न० ब० । २ धनशून्ये त्रि०

अवित्ति स्त्री विद--क्तिन् अभावे न० त० । लाभाभावे

“अहमवित्त्यान्यानवृषि” छा० उ० । “अवित्त्याऽलाभेन”
भा० । २ ज्ञानाभावे च । न० ब० । ३ लाभशून्ये ४ ज्ञान-
शून्ये च त्रि० अव्ययी० । ५ ज्ञानाभावे ६ लाभाभावे च अव्य०

अवित्यज पु० न विशेषेण त्यज्यते रसायनादिषु त्यज--कर्म्मणि

बा० क न० त० । पारदे राजनि० ।

अविथुर त्रि० व्यथ--उरच् कित् तेन संप्रसारणम्

वेदे न थस्य धः न० त० । अवियुक्ते । “अनानता अविथुरा
ऋजीषिणः” ऋ० १, ८७, १ । “अविथुरा वियुक्ताः संङ्धी-
भूता इति भा० लोके तु अविधुरैत्येव ।

अविथ्या स्त्री अवये हिता अवि + थ्यन् । अजाहितायां यूथौ

अविदुग्ध न० ६ त० । मेषीदुग्धे ।

अविदित त्रि० न विदितः । १ अज्ञाते । २ परमेश्वरे पु० “अन्यत्र

विदितादन्यत्राविदितादन्यत्र कृताकृतादिति” श्रुतिः ।

अविदाहिन् त्रि० न विदाही न० त० । १ असन्तापके

२ अदाहके च ।

अविदूर न० न० त० । १ समीपे अनतिदूरे २ तद्वर्त्तिनि त्रि० ।

अविदूस न० अवेर्दुग्धम् अवि + दुग्धे दूसच् न षत्वम् । मेषीदुग्धे ।

अविद्धकर्ण्णी स्त्री न विद्धः अच्छिद्रः पर्णरूपः कर्णोऽस्याः ।

पाठालतायाम् ।

अविद्या स्त्री न विद्या विरोधे न० त० । विद्याविरोधिनि

१ अज्ञाने २ ज्ञानाभावे च । अविद्या च न्यायमते ज्ञानाभावः ।
सांख्यादिमते ज्ञानप्रागभावापरपर्य्यायज्ञानानगतावास्था
सा च पञ्चभेदा “अविद्या पञ्चपर्व्वैषा प्रादुर्भूता महात्मनः”
इति पुरा० पञ्च पर्ब्बाणि च “अविद्याऽस्मितारागद्वेषाभि-
निवेशा” इति पात० सूत्रोक्तानि । तत्र
“अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या”
पात० सू० । व्याख्यातञ्च तद्वृत्तौ यथा अविद्या
“अतस्मिन् तद्बुद्धिरित्यर्थः अमरा देवा इत्यनित्येषु
नित्यत्वभ्रान्त्या देवत्वार्थं कर्म कृत्वा बध्यन्ते, एवमशुचौ
स्त्रीकाये शुचित्वभ्रान्त्या बध्यन्ते तदुक्तं भगवता व्यासेन
“स्थानाद्वीजादुपष्टम्भान्निष्यन्दान्निघनादपि । कायमाधे-
शौचत्वात् पण्डिताह्यशुचिं विदुरिति” विण्मूत्रसङ्कुलं मातु-
रुदरं स्थानं, शुक्रशीणितं वीजम्, अन्नपरिणामश्लेष्मादि-
रुपष्टम्भः सर्वद्वारैर्मलानां स्रवणं निष्यन्दः । निधनं मरणम् ।
तेन हि श्रोत्रियकायोप्यत्यन्ताशुचिर्भवति आधेयशौचत्वं
स्नानानुलेपनादिना शुचित्वापादनम् । तथा परिणामदुःखे
भोगे सुखत्वभान्तिः अनात्मनि वुद्ध्यादावात्मख्यातिः
अविद्या तत्त्वविद्याविरोधिनीत्यर्थः । यद्यपि शुक्तिरूपाद्य-
विद्याः सन्ति तथापि पञ्चविधैवाविद्या बन्धमूलमितिभावः”
इयमविद्याऽदृष्टत्वेन नैयायिकैरङ्गीकृता “इत्येषा सह
कारिशक्तिरसमा माया दुरुन्नीतितो मूलत्वात् प्रकृतिः
प्रबोधभयतोऽविद्येति यस्योदिता” कुसु० “यस्येशस्य सहकारि
शक्तिः कारणम् एषा सहकारिरूपा माया असमत्वात्
सर्व्वकार्य्यापेक्षणीयत्वात् दुरुन्नेयत्वसादृश्यात् माया-
पदेऽदृष्टे लक्षणा । मूलत्वात् प्रकृतिः सैव, तत्त्वज्ञानप्रति-
बध्यत्वात् सैवाविद्या उदिता उक्ता” हरिदासः ।
क्षणिकविज्ञानवादिनस्तु “अभिन्नोऽपि हि बुद्ध्यात्मा
विपर्य्यासनिदर्शनैः । ग्राह्यग्राहकसंवित्तिर्भेदवानिव लक्ष्यते”
इत्युक्तदिशा क्षणिकविज्ञानमेवैकं तत्त्वं बाह्यं वस्तु नास्ति
तथाहि बाह्यपदार्थाभावेऽपि मिथ्याज्ञानरूपयाऽविद्यया
सर्व्वं वस्तु कल्पितमित्याहुः । तदेतत् सांख्ये निराकृतम् ।
यथा “नाविद्यातोऽप्यवस्तुना बन्धायोगात्” सू० “अविद्या-
तोऽपि न साक्षाद्बन्धयोगः अद्वैतवादिनां “तेषामवि-
द्याया अप्यवास्तत्वेन तया बन्धायोगात् न हि स्वाप्नरज्ज्वा
बन्धनं दृष्टम् । नच “न निरोधो न चोत्पत्ति र्न बन्धो
न च साधकः । न मुमुक्षु र्न वै मुक्त इत्येषा परार्थता” इति
“बन्धमौक्षौ सुखं दुःखं मोहापत्तिश्च मायया । स्वप्ने
यथात्मनःख्यातिः संसृतिर्न तु वास्तवी” इतिचोक्तेःबन्धोऽप्यवास्तव
इति वाच्यम् विज्ञानाद्वैतश्रवणोत्तरं बन्धनिवृत्तये योगा-
भ्यासविरोधात् बन्धमिथ्यात्वश्रवणेन बन्धनिवृत्त्यासिड्वत्व
निश्चयात् तदर्थबह्वायाससाध्ययोगाङ्गानुष्ठानासम्भवात्” भा०
“वस्तुत्वे सिड्वान्तहानिः” सू० “यदि चाविद्याया वस्तुत्वं
स्वीक्रियते तदा स्वाभ्युपगतस्याविद्यानृतत्वस्य हानिः”
भा० । “विजातीयद्वैतापत्तिश्च” सू० । “किञ्चाविद्याया
वस्तुत्वे क्षणिकविज्ञानसन्तानाद्विजातीयम् द्वैतं प्रसज्येत
तच्च भवतामनिष्टम् । सन्तानान्तःपातिव्यक्तीनामानन्त्यात्
सजातीयं द्वैतमिष्यतएव तैरित्याशयेन विजातीयेति ।
नन्वविद्याया अपि ज्ञानविशेषत्वादविद्यया कथं विजातीय-
द्वैतमिति चेन्न ज्ञानरूपाविद्याया बन्धोत्तरकालीनतया
वासनारूपाविद्याया एव तैर्बन्धहेतुत्वाभ्युपगमात् । वासना
तु ज्ञानाद्विजातीयेतिभावः” भा० । “नासद्रूपा न सद्रूपा
माया नैवोभयात्मिका । सदसद्भ्यामनिर्वाच्या मिथ्याभूता
सनातनी” त्युक्तिमनुसृत्याशङ्कते “विरुद्धोभयरूपा चेत्” सू०
“विरुद्धं यदुभयं सदसच्च ततो विलक्षणणं वा तद्रूपैवाविद्या
वक्तव्या अतो न तया पारमार्थिकाद्वैतभङ्ग इति चेदित्यर्थः ।
व्यक्ताव्यक्तत्वरूपसदसत्तयोः स्वमतसिद्धयोर्विरोधोनास्तीति
पृष्ठ ०४५९
सूचनाय विरुद्धेतिपदम्” भा० दूषयति । “न तादृक्-
पदार्थाप्रतीतेः” सू० । विरुद्धधर्म्मवत्पदार्थस्यासिद्धे-
रित्यर्थः । अपि चाविद्यायाः साक्षादेव दुःखयोगाख्यबन्ध-
हेतुत्वे ज्ञानेन विद्याक्षयानन्तरं प्रारब्धभोगानुपपत्तिः
बन्धपर्य्यायस्य दुःखभोगस्य कारणनाशात् । अस्मदादिमते
तु नायं दोषः संयोगद्वारैवाविद्याकर्म्मादीनां बन्धहेतुत्वात्
जन्माख्यः संयोगः प्रारब्धसमाप्तिं विना न नश्यति” भा० ।
पुनः शङ्कते । “न वयं षट्पदार्थवादिनो वैशेषिकादिवत्”
सू० “वैशेषिकाद्यास्तिकवन्न वयं षट्षोड़शादिनियत
पदार्थवादिनः । अतोऽप्रतीतोऽपि सदसदात्मकः सदसद्वि-
लक्षणो वा पदार्थोऽविद्योत्यभ्युपेयमिति भावः” भा० ।
परिहरति । “अनियतत्वेऽपि नायौक्तिकस्य संग्रहोऽन्यथा बा
लोन्मत्तादिसमत्वम्” सू० । “पदार्थनियमोमास्तु तथापि
भावाभावविरोधेन युक्तिविरुद्धस्य सदसदात्मकपदार्थस्य संग्रहो
भवद्वचनमात्राच्छिष्याणां न सम्भवति । अन्यथा बालका-
द्युक्तस्याप्ययौक्तिकस्य संग्रहः स्यादित्यर्थः । श्रुत्यादिक
मस्मिन्नर्थे स्फुटं नास्ति युक्तिविरोधेन च सन्दिग्धश्रुतेरर्था-
न्तरसिद्धिरिति भावः” भा० । एवं क्षणिकविज्ञानवादनिर
सनेन वेदान्तिसमुद्भाविताविद्याऽपि प्रकृतिरेवेति तत्रैव
व्यवस्थापितम् । यथा “पारम्पर्येऽप्येकत्र परिनिष्ठेति संज्ञा-
मात्रम्” सू० ॥ “अविद्यादिद्वारेण परम्परया पुरुषस्यजगन्मू-
लकारणत्वेऽप्येकस्मिन्नविद्यादौ यत्र कुत्रचिन्नित्ये द्वारे
परम्परायाः पर्यवसानं भविष्यति पुरुषस्यापारिणामित्वात् ।
अतो यत्र पर्यवसानं सैव नित्या प्रकृतिः । प्रकृतिरिह
मूलकारणस्य संज्ञामात्रमित्यर्पः” भा० ॥ नन्वेवं अविद्या स्थानीय
प्रकृतेर्नित्यत्वानुपपत्तेस्तस्या उत्पत्तिश्रुतेर्ज्ञाननाश्यत्वा-
च्चेत्याशयेन मूलसमाघानमाह । “समानः प्रकृतेर्द्ब-
योः” सू० ॥ “वस्तुतस्तु प्रकृतेर्मूलकारणविचारेद्वयोर्वादिप्र-
तिवादिनोरावयोः समानः पक्षः । एतदुक्तं भवति यथा प्रकृ-
तेरुत्पत्तिः श्रूयते एवमविद्याया अपि । “अविद्या पञ्चप-
र्वैषा प्रदुर्भूता महात्मनः” इत्यादिवाक्यैः । अत एकस्या
अवश्यं गौण्युत्पत्तिर्वक्तव्या । तत्र च प्रकृतेरेव पुरुषसंयो-
गादिभिरभिव्यक्तिरूपा गौण्युत्पत्तिर्युक्ता । “संयोगलक्षणो-
त्पत्तिः कथ्यते कर्मज्ञानयोरिति” कौर्मवाक्ये प्रकृतिपुरुष-
योर्गौणोत्पत्तिस्मरणात् । अविद्यायाश्च क्वापि गौणोत्प-
त्त्यश्रवणात् । तस्या अनादितावाक्यानि तु प्रवाहरूपेणैव
वासनाद्यनादिवाक्यवद्व्याख्येयानीति । अविद्या च मिथ्या-
ज्ञानरूपा बुद्धिधर्म इति योगे सूत्रितमतो न नित्यत्व-
हानिः । अथ वा द्वयोः प्रकृतिपुरुषयोः समान एव न्याय
इत्यर्थः । “यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं
सकलस्यास्य स नो विष्णुः प्रसीदतु” इत्यादिवाक्यैः पुरुष-
स्याप्युत्पत्तिश्रवणादिति भावः । तथा च पुरुषस्येव प्रकृते-
रप्रि गौण्येवीत्पत्तिः नित्यत्वश्रवणात्तदपि समान-
मिति । तस्मात् प्रकृतिरेवोपादानं जगतः प्रकृतिघर्मश्चाबिद्या
जगन्निमित्तकारणं तथा पुरुषोऽपीति सिद्धम् । यत् तु ।
“अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणम्” सर्गप्रलयनिर्मुक्तं
विद्यां वै पञ्चविंशकम्” इति मोक्षधर्मे प्रकृतिपुरुषयोर-
विद्याविद्येति वचनं तत् तदुभयविषयतयोपचरितमेव ।
परिणामित्वेन हि पुरुषापेक्षया प्रकृतिरसतीति तस्या अविद्या-
विषयत्वमुक्तम् । एवमेव तस्मिन् प्रकरणे स्वस्वकारणापेक्षया
भूतान्तं कार्यजातमविद्येत्युक्तं स्वस्वापेक्षया च स्वस्वकारणं-
विद्येति । पुरुषस्य परिणामरूपं जगदुपादानत्वं तु प्रकृत्यु-
पाधिकमेव कर्तृत्वादिवच्छ्रुतिस्मृत्योरुपासार्थमेवानूद्यते ।
अन्यथा “अस्थूलमनण्वह्रस्वमित्यादि” श्रुतिविरोधापत्तेरिति
मन्तव्यम् । मायाशब्देन च प्रकृतिरेवोच्यते “मायां तु
प्रकृतिं बिद्यादिति” श्रुतौ “तस्मान्मायी सृजते विश्वमेतत्”
“तस्मिंश्चात्मा मायया सन्निरुद्धः” इति पूर्वप्रक्रान्तमायायाः
प्रकृतिस्वरूपतावचनात् । “सत्त्वं रजस्तम इति प्राकृतं तु
गुणत्रयम् । एतन्मयी च प्रकृतिर्माया या वैष्णवी श्रुता” ॥
“लोहितश्वेतकृष्णेति तस्यास्तादृग्वहुप्रजाः” इत्यादिस्मृति
भ्यश्च । न तु ज्ञाननाश्याविद्या मायाशब्दार्थो नित्यतानु-
पपत्तेः । किञ्चाविद्याया द्रव्यत्वे शब्दमात्रभेदो गुणत्वे च
तदाधारतया प्रकृतिसिद्धिः पुरुषस्य निर्गणत्वादिभ्यः ।
अथ द्रव्यगुणकर्मविलक्षणैवास्माभिरविद्या वक्तव्येति चेन्न
तादृक्पदार्थाप्रतीतेरुक्तत्वादिति” भा० । वेदान्तिनस्तु
ज्ञानविरोधि अज्ञानापरपर्य्यायं पदार्थान्तरमविद्येति
स्वीचक्रुः तच्च विस्तरेण अज्ञानशब्दे ९३ पृष्ठे दर्शितम् ।
इयञ्चाविद्या मूलाविद्यातूलाविद्याभेदेन द्विविधा । तत्र
हिरण्यगर्भोपाधिर्मूलाविद्या तूलाविद्याश्च प्रतिजीवभेदं
नाना मायाशब्देनाभिधीयन्ते । “मायोपाधिरयं जीवः
अविद्योपाधिरीश्वर” इत्युक्तेः “इन्द्रोमायाभिः पुरुरू-
पईयते” इतिश्रुतेश्च तथात्वम् । मायानाञ्च मूलाविद्या-
कार्य्यत्वात् अविद्य्यशब्दवाच्यताऽपि । अतएव आविद्यिको
जीव इति तत्तत्स्थाने भाष्यकारादिभिरुक्तम् । स्वस्वा-
न्तःकरणरूपाविद्योपाधौ तत्त्वज्ञाने समुत्पन्ने तदीयैवाऽ-
विद्या निवर्त्तते नान्यत्र इत्येकमुक्तौ न सर्वमुक्ति-
पृष्ठ ०४६०
रिति बन्धमांक्षव्यवस्था । अधिकमाकरे दृश्यम् । वैशे-
षिकास्तु विपर्य्ययसंशयज्ञानमविद्येत्याहुः तत्कारणप्रदर्शन
पूर्ब्बकमविद्या लक्षिता वै० सू० उपस्करे च यथा “इन्द्रि-
यदोषात् संस्करदोषाच्चाविद्या” ॥ “अविद्येति सामाम्य-
वाच्यपि पदं विपर्य्यये वर्त्तते प्रकरणात् संशयस्वप्नान-
ध्यवसायानामुक्तत्वात्, तत्रेन्द्रियदोषोवातपित्ताद्यभिभव-
कृतमपाटवम्, संस्कारदोषोविशेषादर्शनसाहित्यं तदधीनं
हि मिथ्याक्षानं जायते” ॥ “तच्च दुष्टज्ञानम्” सू० ॥
तदिऽत्यव्ययपदं सर्व्वनामसमानार्थकमविद्यां परामृशतिं
साऽविद्या, दुष्टज्ञानं व्यभिचारि ज्ञानमतस्मिंस्तदितिज्ञानं
व्यधिकरणप्रकारावच्छिन्नविशेष्यावृत्तिप्रकारकसिति यावत्,
दोषश्च ज्ञानस्यानिश्चयरूपत्वमपि, तेनैककोटिसत्यत्वेऽपि
संशयोदुष्ट एवानवधारणात्मकत्वात्’ तदनेन संशयो-
विपर्य्ययस्वप्नानध्यवसायानाञ्चत्तुर्णामप्युपसंग्रहः” उप० ॥
“विद्याविद्याद्वैविध्यात् संशयः” गौ० सू० । नास्ति विद्या
शास्त्रादिज्ञानं यस्य । ३ शास्त्रादिज्ञानशून्ये त्रि० “अविद्यो
वा सविद्यो वा ब्राह्मणो मामकी तनुः” पुरा० ।
“वैद्योऽविद्याय नाकामो दद्यादंर्श स्वतो धनात्”
दा० भा० स्मृतिः । “अविद्यानान्तु सर्ब्बेषामीहातश्चेद्धनं
भवेत्” मनुः” ।

अविद्वेष पु० अभावे विरोधे वा न० त० । १ विद्वेषाभावे २

अनुरागे च । न० ब० । ३ विद्वेषशून्ये ४ अनुरागयुक्ते च त्रि०

अविधवा स्त्री विरोधे न० त० । सधवायां पतिवत्न्यां स्त्रियाम्

“इमा नारीरविधवाः सपत्नीः” ऋ० १०, १८ ।

अविधा स्त्री अभावे न० त० । प्रकाराभावे न० व० । प्रकारशून्ये

अविधान न० अभावे न० त० । १ विधानाभावे २ इतिकर्त्तव्यता

क्रमाद्यभावे । “अविधानेन यत् कुर्य्यात् तत्सर्व्वं विफलं
भवेत्” स्मृतिः न० ब० । ३ विधानशून्ये त्रि० ।

अविधि पु० अभावे न० त० । विध्यभावे इतिकर्त्तव्यता

क्रमाद्यभावे न० ब० । विधानशून्ये त्रि० ।

अविन पु० अवति यज्ञम् अव--इनन् । अध्वर्य्यौ उज्ज्व० ।

अविनय पु० अभावे न० त० । १ विनयाभावे । विरोधे न० त० ।

२ दुर्नये । “अविनयमपनय विष्णोः” शङ्करा० “बहवोऽविनया-
न्नष्टा राजानः सपरिच्छदाः” “वेणोविनष्टोऽविनयान्नहुषश्चैव
पार्थिवः” इति च मनुः न० ब० । “विनयशून्ये त्रि० ।

अविनश्वर त्रि० विरोधे न० त० । १ विनश्वरमिन्ने

चिरस्थायिनि, २ कूटस्थे परमेश्वरे पु० ।

अविनाभाव पु० विना व्यापकमृते न भावः स्थितिः अस० स० ।

१ व्यापकस्थित्यनुरोधिसत्तारूपायां व्याप्तौ । २ सम्बन्धमात्रे
च “अविनाभावोऽत्र सम्बन्धमात्रम्” काव्यप्र० “अथ
केयमाकाङ्क्षा न तावत् अविनाभावः” इति शब्दचिन्ता० ।

अविनाभाविन् त्रि० न विना व्यापकम् भवति भू--णिनि ।

व्याप्ये “व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते”
का० प्र० ।

अविनाभूत त्रि० न विना व्यापकमृते भूतः । १ व्याप्ते

२ संबन्धमात्रे च “अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते”
का० प्र० ।

अविनाशिन् त्रि० न विनाशी स्त्रियां ङीप् ।

अविनश्वरे नित्ये “अविनाशी वा अरे अयमात्मा” श्रुतिः ।

अविनीत त्रि० न विनीतः । १ विनयशून्ये २ कुत्सितक्रियानुरक्ते

३ उद्धते ४ अदान्ते च । “ववृते विनीतमविनीतशासिभिः”
माघः । ५ अशिक्षिते च “नाविनीतैर्व्रजेद्धुर्य्यैर्न च क्षुद्व्या-
धिपीड़ितैः” मनुः । ६ कुलटायां स्त्री ।

अविनीय पु० विनीयः कल्कः कपटञ्च न० ब० । कपटशून्ये

“अविनीयसंभ्रमविकाशिभक्तिभिः” माघः ।

अविनेय त्रि० न विनेतुं शक्यः । दुर्दमे अश्वादौ ।

अविन्ध्य पु० राक्षसभेदे हरिवंशे विवरणम् ।

अविपट अवीनां विस्तारः अवि + पटच् । मेषविस्तारे ।

अविपश्चित् पु० विरोधे न० त० । विचारशून्ये तात्पर्य्यज्ञान-

शून्ये ३ अविवेकिनि च ।

अविपाक पु० विशेषेण पच्यते फलरूपेण वि + पच घञ् न० त० ।

फलरूपेणापरिणते १ धर्म्माधर्म्मोदौ । “विपाकश्च जात्या-
युर्भोगाः” इति पातञ्जले उक्तः तद्रूपेणापरिणामश्च
फलरूपतयाऽनाविर्भावः विहिताविहितकर्म्मणोविशिष्ट-
देशकालनियतत्वात् यदा कर्म्मबलीयसा प्रतिबद्धं तदा
तत् कर्म अविपाक इत्युच्यते । विपाकः अन्नादेः
पाकः अभावे न० त० । सुश्रुतोक्ते १ पाकाभावे २ “अरोच-
काविपाकौ तु शर्करार्त्ते भवन्ति च” । नास्ति विपाको
यत्र । अग्निमान्द्यहेतुके ३ रोगभेदे च “एतन्नवायसमेतेन
जाटर्य्यं न भवति सन्नोऽग्निराप्यायते दुर्नामशोफपाण्डु-
कुष्ठरोगाविपाककाशश्वासप्रमेहाश्च न भवन्ति” सुश्रुतः ।

अविपाल त्रि० अवीन् पालयति पा--णिच् लः उप० स० ।

मेषपालके ।

अविपुल त्रि० विरोधे न० त० । विपुलभिन्ने क्षुद्रे ।

अविप्रकृष्ट त्रि० विरोधे न० त० । सन्निकृष्टे ।

अविप्रिय पु० अवीन् भेषान् प्रीणाति प्री--क । १ श्यामाकतृणे

विप्रियमपकारः न० त० । २ अनपकारे ३ आनुकूल्ये ।
न० ब० । ४ अपकारशून्ये त्रि० । ५ श्येतालतायां स्त्री ।
पृष्ठ ०४६१

अविप्लुत त्रि० न विप्लुतः नष्टः । अविनष्टे “अविप्लुतब्रह्म-

चर्य्यः सवर्ण्णां स्त्रियमुद्वहेत्” स्मृतिः ।

अविभक्त त्रि० वि + भज--क्त न० त० । १ संसृष्टेविभागरहिते २ द्रव्ये-

३ तत्स्वामिनि च । “अविभक्तं स्थावरं यत् सर्व्वेषामेव तद्भ-
वेदिति” “अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः”
इति च स्मृतिः । ४ अभिन्ने एकभावापन्नेऽर्थे ५ अव्यावृत्ते
अधिष्ठानतया ६ सर्व्वत्रानुस्यूते वाधाशून्यत्वेन स्वस्मिन्
७ वर्त्तमाने च ।

अविभावित त्रि० न विभावितः । २ अलक्षिते २ अचिन्तिते

साक्षिप्रभृतिप्रमाणादिना ३ स्वकीयत्वेनानुद्भाविते स्वरूपेण
४ अज्ञापिते च ।

अविमुक्त त्रि० वि + मुच--क्त न० त० । १ मुक्तभिन्ने । “न

विमुक्तं शिवाभ्यां यदविमुक्तं ततो विदुः” इत्युक्तलक्षणे
२ काशीक्षेत्रे न० । ३ मूर्द्धचिवुकान्तरालस्थाने च । “यएषो-
ऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः” इति जावा० उ० ।
“आसनन्ति चैनमस्मिन्” शा० सू० । “आमनन्ति चैनं
परमेश्वरमस्मिन् मूर्द्धचिवुकान्तराले” भा० इमामेव श्रुतिं
केचित् काशीविषयतया वर्ण्णयन्ति वाक्यशेषे “अविमुक्तः
कस्मिन् प्रतिष्ठित” इति प्रश्ने नासीवरणामध्यस्थितत्वप्रत्य-
भिज्ञानात् । “अपरोक्षवचना देवा इत्युक्तेः असीतिवक्तव्ये
नाशीतिवर्ण्णव्यत्यय इति तेषामाशयः । अविमुक्तक्षेत्रञ्च
असीवरणयोर्मध्ये गङ्गापश्चिमतटस्थं परितः पञ्चक्रोशात्म-
कम् । तद्विवरणं काशीखण्डेऽनुसन्धेयम् ।

अवियोग पु० अभावे न० त० । १ वियोगाभावे । विरोधे न० त० ।

२ संयोगे । न० ब० । ३ वियोगशून्ये ४ संयुक्ते च ।
वियोगः विच्छेदः संयोगाभावः विभागश्च ।

अवियोगव्रत न० अवियोगार्थं व्रतम् । मार्गशीर्षशुक्लतृतीया

कर्त्तव्ये स्त्रीणां व्रतभेदे “अवैधव्यप्रदं स्त्रीणामवियोगव्रतं
त्विदम् । मार्गशीर्षे सिते पक्षे स्नातो शुक्लाम्बरप्रिया ।
दृष्ट्वा चन्द्रं द्वितीयायां नक्तं भुञ्जीत पायस” मित्युपक्रम्य
कालिकापुराणे दर्शितम् । तद्विधिश्च हेमा० व्र० ख०
तृतीयाव्रतप्रकरणे उक्तस्तत एवावसेयः ।

अविरण न० विरमणं विनाशः अभावे न० त० वेदे मस्य लुक् ।

विनाशाभांवे “सहो बभोऽविरणाय पूर्व्वीः” ऋ० १, १७४, ८
“अविरणाय अविनाशाय” भा० ।

अविरत न० विरतं विरामः भावे क्त अभावे न० त० । १ विरा-

माभावे नैरन्तर्य्ये । कर्त्तरि क्त न० त० । २ विरामशून्ये
३ सन्तते द्रव्यादौ त्रि० क्रियाविशेषणत्वे न० । ४ कार्य्याद-
निवृत्ते त्रि० । “अविरतदयिताङ्गासङ्गसञ्चारितेन” माघः ।

अविरति स्त्री विरामो विरतिः भावे क्तिन् अभावे न० त० ।

१ निवृत्त्यभावे २ विषयादौ--स्थिरचित्ततायाम् ३ विरामाभावे
च । न० ब० । ४ विरामशून्ये त्रि० ।

अविरल त्रि० न विरलः न० त० । घने, निविड़े ।

विरलताच विच्छित्तिः तद्विपरीतं निविड़त्वं मध्येऽविच्छेदः ।

अविराम पु० अभावे न० त० । १ विरामाभावे २ विच्छेदाभावे ।

न० ब० । ३ विरामशून्ये ४ सन्तते च त्रि० ‘अनिमिषमविरामा
रागिणां सर्व्वरात्रम्” माघः ।

अविरुद्ध त्रि० । न० त० । १ विरुद्धभिन्ने २ विरोधशून्ये ३

एकत्रसहावस्थायिनि ४ अप्रतिबद्धे च ।

अविरोध पु० विरोधः सहानवस्थानमेकदेशे समावेशो

वा अभावे न० त० । सहानवस्थानाभावे १ एकत्रावस्थाने
२ एकत्र समावेशे च । “श्रुतिस्मृतिविरोधे च श्रुतिरेव
गरीयसी । अविरोधे तयोः कार्य्यं स्मार्त्तं वैदिकवत् सदा,
स्मृतिः “सर्वेषामविरोधेन ब्रह्मकर्म्म समारभे” पुरा०
“शेषं वाऽविरोधात्” कात्या० २ । ६ । ३६ । “नाविरोधात्”
कात्या० ५ । ११ । ८ । ३ विवादाभावे च ।

अविलक्षण त्रि० विलक्षणो भेदकधर्म्भाश्रयः विरोधे न० त० ।

१ तुल्यरूपे २ भेदकधर्म्मशून्ये ।

अविलक्ष्य त्रि० नास्ति विशेषेण लक्ष्यं व्याजः उद्देश्यं शरव्यं

वा यस्य । १ व्याजशून्ये २ उद्देश्यशून्ये ३ शरव्यशून्ये
४ प्रतिकारशून्ये च “अविलक्ष्यमस्त्रमपरं कतमम्”
किरा० । “अविलक्ष्यमसत्प्रतिकारम्” मल्लि० ।

अविलम्ब न० अभावे न० त० । १ विलम्बाभावे शौघ्र्ये ।

न० व० । २ विलम्बशून्ये त्रि० विलम्बश्च कार्य्योत्पत्ति-
साधककालप्रागभावः । तच्छून्यः अविलम्बः ।

अविलम्बित त्रि० वि + लबि--क्त न० त० । विलम्बशून्ये

१ त्वरायुक्ते द्रव्यादौ । क्रियाविशेषणत्वे न० । “अविलम्बितो
द्वितीयः” कात्या० १०, १, ८, ।

अविला स्त्री अव--इलच् । मेष्याम् १ नास्ति विलं यत्र ।

२ गर्त्तशून्ये त्रि० ।

अविलास पु० अभावे न० त० । १ विलासाभावे २ अप्रकाशे न० व० । ३ तच्छून्ये त्रि० ।

अविवक्षित त्रि० न विवक्षितः । १ वक्तुमनिष्टे २ तात्पर्य्या-

विषयीभूते “बहुत्वमविवक्षितमिति रघु० ।

अविवर त्रि० नास्ति विवरं छिद्रं यत्र । नीरन्ध्रे घने ।

पृष्ठ ०४६२

अविवाच्य न० नास्ति विशेषेण वाच्यो मन्त्रादिः यत्र ।

अत्यग्निष्टोमसंस्थे दशमाहे “अत्यग्निष्टोमोऽविवाच्यं
दशमम्” कात्या० १२, ३, २१, । “अत्यग्निष्टोमसंस्थमविवाच्यं
दशममहर्भवति” कर्क० । “नास्मिन्नहनि केनचित्
कस्यचित् विवाच्यमविवाच्यमित्याचक्षते” आश्व०
श्रौ० २, १२, १० । अस्मिन्नहनि केनचित् कस्मैचित् कर्त्त्रे
मन्त्रः कर्म्म वा न विवाच्यं नाख्यावव्यमित्यर्थः कुतः?
यस्मादेतदहः अविवाच्यमिति श्रुतौ प्रसिद्धम् परस्पर-
मविवचनीयमेतस्मिन्नहनीत्यविवाच्यमिदमहर्भवति ।

अविवाद पु० विरुद्धो वादः कथनं व्यवहारभेदः विरोधश्च अभावे

३ न० त० । १, विरुद्धवादाभावे ऐक्यमत्ये २ अव्यवहारे
३ विरोधाभावे च न० ब० ४ तच्छून्ये त्रि० ।

अविवाहित त्रि० न० त० । विवाहितभिन्ने अनूढ़े अजातविवाहसंस्कारे ।

अविविक्त त्रि० न० त० । १ एकीभूते २ विवेकशून्ये ३ अन्यो-

न्यतादात्म्यापन्ने “तप्तायःपिण्डवदविवक्तं सत् तदेव
महावाक्यस्य वाच्यार्थो भवति” वेदान्तसा० ।

अविवेक पु० न विवेकः भेदकधर्म्मेण ज्ञानम् अभावे न० त० ।

अन्योन्यतादात्मारोपहेतौ १ विशेषज्ञानाभावे इति नैयायिका ।
विरोधे न० २ अन्योन्यतादात्म्यज्ञानरूपे मिथ्याज्ञाने
“तद्योगोऽप्यविवेकात्” सा० सू० । “अयञ्चाविवेकोऽगृही-
तासंसर्गकमुभयज्ञानमविद्यास्थलाभिषिक्तं विवक्षितः”
“बन्धोविपर्य्यात्” विपर्ययभेदाः पञ्च” इत्यागामिसूत्रद्वयात् “तस्य
हेतुरविद्येति” योगसूत्रेऽप्यविद्याया एव पञ्चपर्ब्धरूपाया
बुद्धिपुरुषसंयोगहेतुतया वचनाच्चान्ययाख्यात्यनभ्युपगमएव
योगतोऽत्र विशेषौचित्यात् । न पुनरविवेकोऽत्राभावमात्रं
विवेकप्रागभावो वा मुक्तस्यापि बन्धापत्तेः जीवन्मुक्त-
स्यापि भाविविवेकव्यक्तिप्रागभावेन धर्माधर्म्मोत्पत्तिद्वारा
पुनर्बन्धप्रसङ्गाच्च । तथागामिसूत्रस्थध्वान्तदृष्टान्तानुपपत्तेः
अभावस्य ध्वान्तवदावकरत्वाभावात् । तथा वृद्धिह्रासाव-
प्यविवेकस्य श्रूयमाणौ नोपपद्येयातामिति । अस्मन्मते च
वासनात्मकर्स्यवाविवेकस्य संयोगाख्यजन्महेतुतया तमोव-
दावरकत्ववृद्धिह्रासादिकमञ्जसैवोपपद्यते । “तस्य हेतुर-
विद्येति” पातञ्जलसूत्रे च भाष्यकारैरविद्याशब्देनावि-
द्यावीजं व्याख्यातम् ज्ञानस्य संयोगोत्तरकालीनत्वेन
संयोगाजसकत्वादिति । अपि च “पुरुषः प्रकृतिस्थो हि
भुङ्क्त” इत्यादिवाक्येष्वभिमानाख्यसंयोगस्यैव प्रकृतिस्थता-
ख्यसंयोगहेतुतावगम्यते । अत एव चाविद्या नाभावोऽपि
तु विद्याविरोधिज्ञानान्तरमिति योगभाष्ये व्यासदेर्वः प्रय-
त्नेनावधृतम् । तस्मादविवेकाविद्ययोस्तुल्ययोगक्षेमतया-
ऽविवेकस्यापि ज्ञानविशेषत्वमिति सिद्धम् । अयं चाविवे-
कस्त्रिघा संयोगाख्यजन्महेतुः साक्षात्, धर्माधर्मोत्पत्तिद्वारा,
रागादिदृष्टद्वारा च भवति” सां० प्र० भा० । अधिकमविद्या
शब्दे दृश्यम् ।

अविवेचक त्रि० न० त० । विवेचकभिन्ने कार्य्याकार्य्यविवेचना शून्ये ।

अविवेन त्रि० “वेनतिः कान्तिकर्म्मा” निरु० वि + वेन--अच् न०

त० । विगतेच्छभिन्ने इच्छाशीले । “मनसाऽविवेनं तमित्
सखायम्” ऋ० ४, २४, ६, । “अविवेनमिच्छाविगमशून्यम्” भा०

अविशङ्का स्त्री विशेषेण शङ्का अभावे न० त० । १ विशेषशङ्का

भावे । न० ब० २ विशङ्कारहिते त्रि० ।

अविशङ्कित त्रि० वि + शकि--कर्त्तरि क्त, विशङ्का जाताऽस्य

इतच् वा न० त० । १ विशङ्कारहिते । “विदध्यादविशङ्कितः”
स्मृतिः । २ अजातशङ्के च ।

अविशस्तृ त्रि० न विशस्ता विशसने कुशलः । यज्ञियपशुहिं-

सनेऽनिपुणे शमितरि “मा ते गृध्नुरविशस्तातिहाय”
ऋ० १, १६२, २० ।

अविशुद्ध त्रि० विरोधे न० त० । विशुद्धभिन्ने सदोषे ।

अविशुद्धि स्त्री विरोधे न० त० । शुद्धिविपरीते दोषे “सह्य-

विशुद्धिक्षयातिशययक्तः” सां० का० । अविशुद्धिर्हिंसा-
दोषसाधनता यथोक्तम् “अविशुद्धिः सोमादियागस्य पशुवी-
जादिबधसाधनता यथाह स्म भगवान् पञ्चशिखाचार्य्यः
“स्वल्पसङ्करः सपरिहारः सप्रत्यवमर्ष” इति । स्वल्पसङ्करः
ज्योतिष्टोमादिजन्मनः प्राधानापूर्वस्य स्वल्पेन पशुहिंसा-
दिजन्मनानथेहेतुना अपूर्वेण सङ्करः । सपरिहारः कियतापि
प्रायश्चित्तेन परिहर्त्तुं शक्यः । अथ प्रमादतः प्रायश्चित्त-
मपि नाचरितं प्रधानकर्म्मविपाकसमये च पच्यते तथापि
यावदसावनर्थं सूते तावत् सप्रत्यवमर्षः प्रत्यवमर्षेण
सहिष्णुतया सह वर्त्तत इति । मृष्यन्ते हि पुण्यसम्भारोपनीतस्व-
र्गसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितां
दुःखवह्निकणिकाम् । न च “मा हिंस्यात् सर्व्वाभूतानीति
सामान्यशास्त्रं विशेषशास्त्रेण “अग्नीषोमीयं पशुमालभेते-
त्यनेन” बाध्यत इति युक्तं विरोधाभावात् विरोधे हि
बलीयसा दुर्बलं बाध्यते । न चेहास्ति कश्चित् विरोधः
भिन्नविधयत्वांत् । तथा हि “मा हिंस्यादिति” निषेधेन
हिंसाया अनर्थहेतुभावो ज्ञाप्यते न त्वक्रत्वर्थत्वमपि
“अग्नीषोमीयं पशुमालभेत” इत्यनेन तु पशुहिंसायाः क्रत्वर्थत्व-
मुच्यते न त्वनर्थहेतुत्वाभावस्तथा सति वाक्यभेदप्रसङ्गात् न
चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः । हिंसा
पृष्ठ ०४६३
हि पुरुषस्य दोषमावक्ष्यति क्रतोश्चोपरिकरिष्यति” सा० कौ० ।
इति सांख्या मन्यन्ते मीमांसका वेदान्तिनश्च वैधहिंसाया
अनर्थहेतुत्वं निराचक्रुः तच्च शा० सूत्रे तद्भाष्ये च प्रपञ्चे-
नोक्तम् तत्तु ४४३ पृष्ठे उदाहृतम् ।

अविशेष यु० विशेषोभेदकधर्म्मः अभावे न० त० । १ भेदक-

धर्म्माभावे “वायुमब्दादविशेषविशेषाभ्याम्” शा० सू० ।
२ अभेदे ऐक्ये च । न० ब० । ३ विशेषशून्ये तुल्ये त्रि० सांख्या-
दिमतसिद्धेषु शान्तत्वघोरत्वमूढ़त्वरूपविशेषशून्येषु स्थूल-
भूतोपादानेषु ४ सूक्ष्मभूतेषु । तानि च तन्मात्राणि
यज्जातीयेषु शान्तादिविशेषत्रयं न तिष्ठति तज्जातीयानां
शब्दस्पर्शरूपरसगन्धानामाधारभूतानि सूक्ष्मद्रव्याणि स्थूला-
नामविशेषाणि । “तस्मिंस्तस्मिंस्तु तन्मात्रास्तेन तन्मा-
त्रता स्मृता । न शान्ता नापि घोरास्ते न मूढाश्चा-
विशेषिणः” इति विष्णुपुराणादिभ्यः । अस्यायमर्थः तेषु-
तेषु भूतेषु तन्मात्रास्तिष्ठन्तीति कृत्वा धर्मघर्म्यभेदाद्द्रव्या-
णामपि तन्मात्रता स्मृता । ते च पदार्थाः शान्तघोर-
मूढ़ाख्यैः स्थूलगतशब्दादिविशेषैः शून्या एकरूपत्वात् ।
तथा च शान्तादिविशेषशून्यशब्दादिमत्त्वमेव भूतानां
शब्दादितन्मात्रत्वमित्याशयः । अतोऽविशेषिणोऽबिशेष-
संज्ञिता इति शान्तं सुखात्मकं, घोरं दुःखात्मकं, मूढं
मोहात्मकम् । तन्मात्राणि च देवादिमात्रभोग्यत्वेन केवलं
सुखात्मकान्येव सुखाधिक्यादिति” सां० प्र० भा० । नन्मात्रा-
ण्यविशेषाः” सां० का० तत्सत्त्वे च प्रमाणं तन्मात्रशब्दे
दर्शयिष्यते । नित्ययोगे इनि । अविशेषीत्यपि तन्मात्रे ।

अविशेषज्ञ त्रि० विशेषं न जानाति ज्ञा--क असम० स० ।

विशेषानभिज्ञे भेदकधर्म्मानभिज्ञे ।

अविशेषित त्रि० न विशेषितः भेदकधर्म्मेण । यस्य इतरस्मात्

विशेषणेन व्यावृत्तिर्नकृता तस्मिन् पदार्थे ।

अविश्रान्त त्रि० वि + श्रम--क्त न० त० । १ विरामरहिते २ सन्तते ३ अक्लिष्टे च

अविश्वसनीय त्रि० वि + श्वस--अनीयर न० त० । विश्वासकर-

णायोग्ये ।

अविश्वस्त त्रि० न० त० । विश्वासयोग्यताहीने

“न विश्वसेदविश्वस्तेविश्वस्ते नातिविश्वसेत्” हितो० ।

अविश्वास पु० अभावे न० त० । १ विश्वासाभावे न० ब० ।

२ विश्वासानाधारे ३ विश्वासायोग्ये पदार्थे च ।

अविश्वासिन् त्रि० न विश्वसिति णिनि स्त्रियां ङीप् । विश्वासाकारके ।

अविश्लिष्ट त्रि० विरोधे न० त० । विश्लिष्टभिन्ने सङ्गते ।

अविष पु० अव--टिषच् । १ समुद्रे, २ नृपे च । टित्त्वात् ङीप् । ३ नद्यां

स्त्री । ४ रक्षकमात्रे त्रि० । नास्ति विषं यत्र । ५ यिषशून्ये
त्रि० । “अपओषधीरविषा वनानि” ऋ० ६, ३९, ५,
“अविषा विषरहिता निरक्षकाणि वा वनानि” भा० ।
विश्वायाम् अतिविषयाम् (आतैच्) स्त्री टाप् ।

अविषक्त त्रि० न० त० । असंलग्ने ।

अविषम त्रि० विरोधे न० त० । १ विषमभिन्ने समे (जोड़)

२ सुग्रहे ३ सुगमे च ।

अविषय पु० न० त० । १ अगोचरे २ अप्रतिपाद्ये । न० ब० । ३ विषयशून्ये त्रि० ।

अविषह्य त्रि० न विशेषेणसह्यः न० त० । १ सोढुमशक्ये २ इतरैर

नभिभवनीये “अविषह्यविक्रमः, ३ परिच्छेत्तुमशक्ये
च “सीमायामविषह्यायाम् स्वयं राजैव धर्मवित्” मनुः ।

अविष्टम्भ पु० अभावे न० त० । १ आलम्बाभावे । न० ब० ।

२ आलम्बनशून्ये त्रि० ।

अविष्ठ त्रि० अतिशयेन अविता अवितृ + इष्ठन् तृणोलोपः ।

अतिशयेन रक्षके । “यो अर्च्चतो ब्रह्मकृतिमविष्ठः”
ऋ० ७ । २८ । ५ “अविष्ठः अतिशयेन रक्षिता” भा० ।

अविष्या स्त्री अव--गतौ इसुन् अविर्गतिमिच्छति क्यच्--भावे

अ । गमनेच्छायाम् । “अविष्यामनुव्रतं सवितुः”
ऋ० २, ३८, ३, “अविष्यां गमनेच्छाम्” भा० ।

अविस् न० अव--भावे इसुन् । १ रक्षणे २ गतौ च ।

अविसंवाद पु० विसंवादः प्रमाणानुसरणाभावः विरोधे

न० त० । १ प्रमाणानुसरणे २ याथार्थ्यविषयकत्वे ।

अविसंवादिन् त्रि० विरोधे न० त० । प्रमाणान्तरानुसारिणि

१ यथार्थ विषयके २ सफले पदार्थे च ।

अविसोढ़ न० अवेर्दुग्धम् अवि + सोढ़च् न षत्वम् । १ मेषी-

दुग्धे । न विसोढ़ः । २ असोढ़े त्रि० ।

अविस्थल न० भारतोक्ते ग्रामभेदे । “अविस्थलं वृकस्थलं

माकन्दीं वारणावतम् । अवसानञ्च गोविन्द! कञ्चिदेकञ्च
पञ्चमम्” भा० उ० प० ।

अविस्पष्ट न० विस्पष्टं श्रुतमात्रेणार्थावबोधकं सुखेन श्रव-

णायोग्यञ्च । वि + स्पश--क्त न० त० । अस्पष्टवाक्ये ।

अविस्मरण न० अभावे न० त० । १ विस्मरणाभावे स्मरणे

विस्मरणञ्चानुभूतपदार्थस्य कालरोगादि प्रयोज्यः स्मरणाभावः
सच अनुभूतविषयेषूद्भूतसंस्कारस्यापि प्रणिधानादिकारणा-
न्तराभावात् अनुद्बुद्धतया स्मृतिरूपकार्य्याजनने, रोगा-
दिना नाशने च भवति । तदभावः अविस्मरणं तत्र च प्रणि-
धानादिसहकृतसंस्कारस्य स्मरणजनकता रोगाद्यनभि-
भवनीयता च । यथाह गौ० सू० । “प्रणिधानलिङ्गा-
दिज्ञानानामयुगपद्भावाद्यु गपदस्मरणम्” । “प्रणिधानं चित्तै-
पृष्ठ ०४६४
काग्य्रं सुष्मूर्षेति यावत् लिङ्गज्ञानं उद्वोधकम् उद्वोधका-
नामानन्त्यादादिपदं ज्ञानात्परतोयोजनीयं तस्य क्रमात्
स्मरणक्रमः यदि च युगपदुद्बोधकानि तदा तावद्विषयकमेकं
स्मरणमिष्यत एव यथा पदज्ञानादाविति मन्तव्यम्
वृत्तिः” । प्रणिधानादीनि च स्मृतिकारणानि तत्रैवोक्तानि ।
“प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रित
सम्बन्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधान
सुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्म्माधर्म्मनिमित्तेभ्यः”
“स्मरणमित्थनुवर्त्तते निमित्तशब्दस्य द्वन्द्वात् परं श्रुतस्य प्रत्येक
मभेदेनान्वयः । प्रणिधानं मनसोविषयान्तरसञ्चारवारणम्,
निबन्धएकग्रन्थोपनिबन्धनं यथा प्रमाणेन प्रमेयादिस्मरणम्,
अभ्यासः संस्कारबाहुल्यम्, एतस्य यद्यपि नोद्वोधकत्वं तथापि
तादृशे शीघ्रमुद्बोधकसमवधानं स्यादित्याशयेन तदुपन्यासः ।
अभ्यासोदृढ़तरसंस्कारः उद्बोधकत्वेनोक्तैति केचित् लिङ्गं
व्याप्यं व्यापकस्य स्मारकं, लक्षणं यथा कपिध्वजादि अर्जु-
नादेः, सादृश्यं देहादेः । परिग्रहः स्वीकारस्तस्य स्वस्वामि
भावोऽर्थः तदेकतरेणान्यतरस्मरणम्, आश्रयाश्रितौ राजादि
तत्परिजनौ परस्परस्मारकौ, सम्बन्धोगुरुशिष्यभावादिः,
गोवृषन्थायात् पृथगुक्तः । आनन्तर्य्यं प्रोक्षणावघातादेः, वियो
गोयथा दारादेः, एककार्य्या अन्तेवासिप्रभृतयः परस्परस्मार-
काः । विरोधादहिनकुलादेरन्यतरेणापरस्मरणम् । अतिशयः
संस्कारौपनयनादिराचार्य्यादिस्मारकः, प्राप्तिर्धनादेर्दातारं
स्मारयति, व्यवधानमावरणं यथा खड़्गादेः कोषादि । सुख
दुःस्वयोरन्यतरेणापरस्य ताभ्यां तत्प्रयोजकस्य वा स्मरणम्,
इच्छाद्वेषौ यद्विषयकतया गृहीतौ तस्य स्मारकौ, भयं
मरणादेर्भयहेतोर्ब्बा स्मारकम्, अर्थित्वं दातुः, शाखादेः
क्रिया वाय्वादेः, रागात्प्रीतेः पुत्रादेः स्मरणं,” धर्म्मा-
घर्म्माभ्यां जन्मान्तरानुभूतसुखदुःखसाधनयोः प्रागनुभूत
सुखादेश्च स्मरणमिति । तेषु च किञ्चित्, स्वरूपसत्किञ्चच्च
ज्ञातमुद्बोधकं शिष्यव्युत् पादनाय चायं प्रपञ्चः” वृत्तिः ।
कणादेन तु स्मृतिसाधारणकारणमुक्तं यथा “आत्मम-
नसोः संयोगविशेषात् संस्काराच्च स्मृतिः” सू० “उत्पद्यत
इति शेषः संयोगविशेषः प्रणिधानादिसन्निधानम्,
एतस्मादसमवायिकारणादात्मनि समवायिनि स्मृतिर्विद्या-
विशेष उत्पद्यते, निमित्तकारणमाह संस्कारादिति चकारेण
व्यापारी पूर्व्वानुभवः समुच्चीयते, अनुभवयाथार्थ्याया-
थार्थ्यमियमनुविधत्ते, रज्जुं भुजङ्गतयोपलभ्य पलायितस्य
तथैव स्मृतेः नचं सततं स्मृतिप्रसङ्गः, संस्कारोद्वोधा-
धीनत्वात्, तदुक्तं प्रशस्तदेवपादैः “लिङ्गदर्शनेच्छानुस्मरणा-
द्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वभ्यासादरप्रत्यय-
जनिताच्च संस्कारादॄष्टश्रुतानुभूतेषु शेषानुव्यवसायस्मरणे-
च्छाद्वेषहेतुरतीतविषया स्मृतिः” इति । आर्षं ज्ञानं
सूत्रकृता पृथङ्ग लक्षितं, योगिप्रत्यक्षान्तर्भावितं, पदार्थ-
प्रदेशाख्ये तु प्रकरणे तदुक्तं तद्यथा “आम्नायविधातॄ-
णामृषीणामतीतानागतवर्त्तमानेष्वर्थेषु धर्म्मादिषु ग्रन्थोप-
निवद्धेषु वा लिङ्गाद्यनपेक्षादात्ममनसोः संयोगाद्धर्म्मविशे-
षाच्च प्रातिभं ज्ञानं यदुत्पद्यते तदार्षम्” इति तच्च
कदाचिल्लौकिकानामपि भवति यथा कन्यका वदति “श्वो मे
भ्राता गन्तेति हृदयं मे कथयतीति” उप० । संस्कारनाश
कानि च रोगकालजन्मान्तरादीनि । न० ब० स्मृतियुक्ते त्रि०

अविस्मृत त्रि० न० त० । विस्मृतभिन्ने स्मृते ।

अविहर्य्यत त्रि० “हर्य्यतिः प्रेप्साकर्म्मेति” यास्कः वि + हर्य्य--अतच्

न० त० । अनभिलषिते अनिष्टे “येनाविहर्य्यतक्रतोः”
ऋ० १, ६३, २ । अविहर्य्य त क्रतोरनभिलषित यज्ञस्य’ भा० ।

अविहित त्रि० न शास्त्रेण विहितः न० त० । १ निषिद्धे । २ अकृतेच

अविह्रुत त्रि० वि + हृ--बा० उतच् किच्च न० त० ।

अहिंस्ये । “ताहि क्षत्रमविह्रुतम्” ऋ० ५, ६६, २,
“अविह्रुतमहिंस्यम्” भा० ।

अविह्वल त्रि० विरोधे न० त० । व्याकुलभिन्ने स्वस्थे ।

अवी स्त्री अवत्यात्मानं लज्जया अव--ई । ऋतुमत्याम् ।

अवीकाश पु० वीकाशः प्रकाश उपसर्गदीर्घः अभावे न० त० ।

२ प्रकाशाभावे । न० ब० । २ प्रकाशशून्ये ।

अवीक्षण न० अभावे न० त० । १ दर्शनाभावे न० व० । २ दर्शनशून्ये त्रि० ।

अवीक्षित त्रि० न० त० । १ दृष्टभिन्ने । भावे क्त अभावे न०

त० । २ वीक्षणाभावे न० ।

अवीचि पु० नास्ति वीचिः प्रकाशः सुखं वात्र । १ नरकभेदे

तत्स्वरूपं तत्कारणञ्च भागवते ५ स्क० दर्शितं यथा
“तामिस्रोन्धतामिस्र” इत्याद्युपक्रम्य “अवीचिरयःपान-
मित्यादिना अष्टाविंशतिनरकान् विभज्य “यस्त्विहानृतं
वदति साक्ष्ये, द्रव्यविनिमये, दाने वा कथञ्चित्, स वैप्रेत्य
नरके अवीचिमत्यधःशिरा निरवकाशे योजनशतोच्छ्रा-
यात् गिरिमूर्द्धः सम्पात्यते । यत्र जलमिव स्थलमश्मपृष्ठ-
मवभासते तदवीचिर्नाम तिलशोविशीर्य्यमाणशरीरो न
म्रियमाणः पुनरारोपितो निपतति”--अवीचिमान्
अवीचिमयोऽप्यत्र । २ तरङ्गशून्ये जलाशये त्रि० ।
पृष्ठ ०४६५

अवीज त्रि० नास्ति वीजमस्य । वीजशून्ये १ फलादौ ।

२ द्राक्षायां स्त्री । वीजानाधायके त्रि० “अवीजमपि क्षेत्रं केवलं
स्थण्डिलं भवेत्” मनुः । अप्राशस्त्ये न० त० । अङ्कु-
रोत्पादनायासमर्थे त्रैहायाणादौ ३ वीजे च । “अवीज-
विक्रयी चैव वीजोत्कृष्टं तथैव च” मनुः । “अवीजं
प्ररोहासमर्थमिति” कुल्लू० । वीजं शुक्रं न० ब० ।
शुक्ररहिते ४ क्लीवे न० । “न मूत्रं फेनिलं यस्य विष्ठा चाप्सु
निमज्जति । मेढ्रंचोन्मादशुक्राभ्यां स क्लीव इति कथ्यते”
स्मृतेस्तस्य तथात्वम् । “उन्मत्तं पतितं क्लीवमवीज’
पापरोगिणम्” इति मनुः । ५ कारणशून्ये त्रि० ६ योगोक्ते
निर्वीजे चित्तवृत्तिपरिणामनिरोधे पु० ।

अवीत न० अनुमानभेद्रे तच्च दर्शितं सा० कौ० “तच्च प्रथमं

तावत्द्विविधं वीतसवीतञ्च अन्वयमुखेन प्रवर्त्तमानं
विधायकं वीतम् व्यतिरेकमुखेन प्रवर्त्तमानं निषेध-
कमवीतम्” व्याख्यातञ्चैतदस्माभिःयथा “वीतं विशेषेण
इतं सङ्गतमन्वितम् अन्वयव्याप्तिहेतुकमित्यर्थः यद्वा विशेषेण
इतं ज्ञातं प्रसिद्धसाध्यव्याप्तिकमित्यर्थः तद्भिन्नमवीतम्
व्यतिरेकव्याप्तिहेतुकम् अप्रसिद्धसाध्यव्याप्तिकं वेत्यर्थः
व्यतिरेकमुखेन तदसत्त्वे तदसत्त्वरूपव्यतिरेकद्वारा साध्या-
भावव्यापकीभूताभावप्रतियीगित्वरूपव्यतिरेकव्याप्तिद्वारेत्य-
र्थः । निषेधकं यो यः पृथिवीभेदवान् स गन्धाभाव-
वान् इति व्यतिरेकग्रहणेन व्यापकस्य गन्धाभावस्य
पृथिव्यां निवृत्त्या पृथिवीभेदरूपस्य गन्धाभावव्याप्यस्य
निवारकम् । तथा च पृथिवी पृथिवीतरभिन्ना गन्ध-
वत्त्वादित्यनुमानमवीतम्” ।

अवीर त्रि० वीरः पुत्रादिर्नास्ति यस्य । १ पुत्रादिशून्ये । न० त०

२ वीर्य्यवद्भिन्ने त्रि० । “पतिपुत्रवती नारी वीरा प्रोक्ता
मनीषिभिः” इति परिभाषिता स्त्री वीरा न० त० ।
३ पतिपुत्ररहितायां स्त्रियां स्त्री । “अजातपुत्रा विधवा
साऽवीरा परिकीर्त्तितेति” स्मृतिः । “मा त्वा वयं
सहसावन्नवीराः” ऋ० ७, ४, ६, । “अवीराः पुत्रादि-
रहिताः” भा० । “अवीरायाश्च योषितः” स्मृतिः ।

अवृक त्रि० वृ--कक् वृकः आवरकः न० ब० । आवरकशून्ये

“ज्योतींषि कृण्वन्नवृकाणि” ऋ० १५५, ६, “वृकेणावरकेण
रहितानि” भा० ।

अवृत्ति स्त्री वृत्तिर्जीवनोपायः अभावे न० त० । १ जीविकाभावे

“आददीताममेवास्मादवृत्तावेकरात्रिकम्” अवृत्तिकर्षिता
हि स्त्री प्रदुष्येत् स्थितिमत्यपि” अवृत्तिकर्षितः सीदन्निमं
धर्म्मं समाचरेत्” इति च मनुः । नास्ति वृत्तिः स्थितिरस्य ।
२ अविद्यमाने । “साध्याभावदवृत्तित्वम्” साध्यवदन्यावृत्ति-
त्वम्” इति च अनुचिन्ता० । न० ब० । जीविकाशून्ये त्रि०

अवृद्धिक न० नास्ति वृद्धिः यत्र कप् । ऋणादौ वृद्धिः

लाभरूपा (सुद) तद्रहिते १ मूलधने । तच्च स्मृतौ दर्शितं यथा
“ऋणं पैतामहं पैत्रं प्रतिभाव्यागतं सुतः । समं दद्यात्
तत्सुतौ च न दाप्याविति निश्चयः” । “समं सवृद्धि
कम्” “ऋणमात्मोयवत् पित्र्यं पुत्रैर्देयं विभावितम् ।
पैतामहं समं देवमदेयं तत्सुतस्य च” या० स्मृ० ।
“समयावत् गृहीतं तावद्देयं न वृद्धिः” मिता० । “गोप्याधि-
भोगे नो वृद्धिः सोपकारेऽथ हापिते । नष्टोदेयोविनष्टश्च
दैवराजकृतादृते” या० स्मृ० ।

अवृध त्रि० न वर्द्धते वृध--क । १ वृद्धिशून्ये । अन्तर्भूतण्यर्थे

वृध--क न० त० । अवर्द्धके । “पनीँरश्रद्धाँ अवृधाँ अयज्ञान्”
ऋ० ७, ७, ३, “अवृधान् स्तुतिभिरग्निमवर्द्धयतः” भा० ।

अवृष्टि स्त्री अभावे न० त० । १ वर्षणाभावे “अथ यदाऽवृष्टि-

र्भवति बलीयानेव तर्ह्यबलीयस आदत्ते धर्म्म्याह्यापः” ।
शत० ब्रा० । न० ब० । वृष्टिशून्ये मेघे पु० ।

अवृहत् त्रि० विरोधे न० त० । वृहद्भिन्ने क्षुद्रे स्त्रियां ङीप्

अवेक्षक त्रि० अव + ईक्ष--ण्वुल् । १ दर्शके २ पर्य्यालोचके

३ आयव्ययादिषु अध्यक्षे च ।

अवेक्षण न० अव + ईक्ष--ल्युट् । १ दर्शने, २ प्रतिजागरणे,

३ अवधाने च “वर्ण्णाश्रमावेक्षणजागरूकः” रघुः “भूषा-
णामर्द्धरचना वृथा विष्वगवेक्षणम्” सा० द० “पित्र्यमन्त्रा-
नुहरणे आत्मालम्भे ह्यवेक्षणे” श्रा० त० स्मृ०

अवेक्षणीय त्रि० अव + ईक्ष--अनीयर् । १ दर्शनीये । “तपस्वि-

सामान्यमवेक्षणीया” रघुः । २ आलोचनीये च ।

अवेक्षा स्त्री अव + ईक्ष--भावे अ । अवेक्षणशब्दार्थे ।

अवेक्षित त्रि० अव + ईक्ष कर्म्मणि--क्त । १ दृष्टे २ पर्य्यालोचिते च ।

अवेक्षितृ त्रि० अव + ईक्ष--तृच् स्त्रियां ङीप् । अवेक्षकशब्दार्थे ।

अवेक्ष्य त्रि० अव + ईक्ष--कर्म्मणि ण्यत् । १ पर्य्यालोच्ये २ दृश्ये च

ल्यप् । ३ दृष्ट्वेत्यर्थे ४ पर्य्यालोच्येत्यर्थे च अव्य० ।

अवेदनाज्ञ त्रि० वेदनां न जानाति ज्ञा--क अस० समा० ।

वेदनानभिज्ञे “अवेदनाज्ञं कुलिशक्षतानाम्” कुमा० ।

अवेदि स्त्री वेदिर्वेदनम् अभावे न० त० । ज्ञानाभावे “न चेद

वेदिर्महती विनष्टिः” वृ० उ० । परिष्कृतभूमि शून्ये त्रि०

अवेद्य त्रि० न वेद्यः ज्ञेयः । १ अज्ञेये । विद--लाभे ण्यत् ।

२ अलभ्ये ३ अविवाह्यस्त्रियां स्त्री “व्यभिचारेण वर्ण्णाना-
मवेद्यावेदनेन च” मनुः । ४ गोवत्से पु० शब्दच० ।
पृष्ठ ०४६६

अवेल त्रि० नास्ति वेला सीमा यत्र । १ सीमारहिते निर्मर्य्यादे

२ अपलापे पु० ३ चूर्ण्णगुवाके स्त्री मेदि० । अप्राशस्त्ये
न० त० । ४ अनुचितकाले स्त्री । न० व० । ५ समयशून्ये त्रि० ।

अवेष्ट त्रि० अव + यज--क्त । नाशिते “अवेष्टादंदशूकाः”

य० १०, १०, “अवपूर्ब्बोयजतिर्नाशार्थः” वेददी० “अवेष्टा
इति लौहायसमाविध्यति” कात्या० १५, ५, २२ ।

अवैध त्रि० विधित आगतम् अण् वैधं न० त० । १ विधितः

अप्राप्ते २ निषिद्धे च । “अवैधं पञ्चमं कुर्ब्बन् राज्ञो दण्डेन
शुध्यति” स्मृतिः ।

अवैधव्य न० विधवाया भावः ष्यञ् वैधव्यं पतिहीनत्वम्

अभावे न० त० । पतिशून्यत्वाभावे सपतिकत्वे । ‘अवै-
धव्यप्रदं स्त्रीणाम्” कालिकापुरा० “अवैधव्यं भवेत्तस्याः
सप्तजन्मसु निश्चितम्” पुरा० ।

अवैमत्य न० वैमत्यं विरुद्धमतता अभावे न० त० । १ मतद्वै-

धाभावे ऐकमत्ये । न० ब० । २ तच्छून्ये ।

अवैयात्य न० वैयात्यं धार्ष्ट्यं निर्लज्जता अभावे न० त० । धार्ष्ट्या-

भावे १ सलज्जत्वे न० ब० । ३ तच्छून्ये लज्जावति त्रि० ।

अवैर न० अभावे न० त० । १ विरोधाभावे न० ब० । २ विरोध-

शून्ये त्रि० ।

अवैराग्य न० वैराग्यं विषयवितृष्णा अभावे न० त० ।

१ विषयतृष्णायाम् २ सांख्योक्ते धर्म्माधर्म्मज्ञानाज्ञानवैरा-
ग्यावैराग्यैश्वर्य्यानैश्वर्य्यरूपाष्टविधप्रकृतिधर्म्मभेदे च ।

अवैलक्षण्य न० विलक्षणस्य भावः ष्यञ् वैलक्षण्यं भेदकधर्म्मः

अभावे न० त० । १ भेदकर्म्माभावे अभेदे । न० ब० ।
२ तच्छूव्ये अभिन्ने त्रि० ।

अवोक्षण न० अव + उक्ष--भावे ल्युट् । तिरश्चा पाणिना सेचने

“उत्तानेनैव हस्तेन प्रोक्षणं परिकीर्त्तितम् । न्यञ्चताभ्युक्षणं
प्रीक्तं तिरश्चावोक्षणं स्मृतम्” स्मृतिः ।

अवोद पु० अव + उन्द--भावे घञ् नि० नलोपः । १ अवक्लेदने

ततः अस्त्यर्थे अर्श० अच् । क्लिन्ने २ सार्द्रे त्रि० जटा० ।

अवोदेव अव्य० देवानामवस्तात् अव्ययी० । देवानामवरस्मिन्

देशादौ “अवोदेवमुपरिमर्त्त्यं कृवि” ऋ० ७, १९, १२ ।

अवोष पु० अव + उष--कर्मणि क । उष्णान्ने । अपूपा० हितार्थे

छयतौ । अवोषीयम् अवोष्यं तद्धिते वस्तुनि त्रि० ।

अव्द पु० अब्दवत् । वत्सरे ।

अब्दप पु० अब्दपवत् वर्षाधिपे अब्दपशब्दे विवृतिः । अब्दपत्यादयोऽप्यत्र ।

अव्य त्रि० अविभवम् अवि + दिगा० यत् । मेषभवे लोमादौ

“तिरः पवित्रं विवारमव्यम्” ऋ० ९, १०९, १६, ।

अव्यक्त पु० वि + अन्ज--क्त न० त० । १ विष्णौ, २ कामे, ३ शिवे,

सांख्यमते सर्व्वकारणे, ४ प्रधाने, रूपाद्यहीनतया चक्षुराद्य-
गोचरत्वात्तथात्वम्, वेदान्तमते नामरूपाभ्यामव्याकृते
५ अज्ञाने ६ सूक्ष्म शरीरे ७ सुषुप्त्यवस्थायां च शब्दप्रवृत्ति-
निमित्तैर्जातिगुणादिभिर्वर्ज्जिते निराकारे ८ ब्रह्मणि न० ।
९ अस्पष्टे वस्तुमात्रे त्रि० । “हेतुमदनित्यमव्यापि सक्रि-
यमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं
विवरीतमव्यक्तम्” सा० का० । हेतुमत्त्वादिभिर्व्यक्तधर्म्मैर्विर-
हितमव्यक्तम् । “अव्यक्तं त्रिगुणाल्लिङ्गात्” सा० सू० ।
“तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञ विज्ञानात्” सा० का० ।
“महत्तत्वं सुखदुःखमोहात्मकद्रव्योपादानं सुखदुःखमो-
हात्मकत्वे सति कार्य्यत्वात् तथाभूतघटादिवत् ।
महदादिकं स्वोपहितत्रिगुणात्मकोपादानं कार्य्यत्वात्
घटवत् इत्थमव्यक्तानुमानम् दर्शितम्” सा० प्र० भा० ।
“बुद्धेरिवाव्यक्तमुदाहरन्ति” रघुः । वेदान्तिभिः नामरूपा-
भ्यामव्याकृतमज्ञानमेव मूलकारणतया अव्यक्ततया च स्वीकृतं
तत्रैव प्रकृतिघर्म्माणां सर्वेषामन्तर्भावात् “अव्यक्तादीनि
भूतानि व्यक्तमध्यानि भारत! । अव्यक्तनिधनान्येव तत्र
का परिदेवनेति” गीतोक्तेरपि तत्रैव तात्पर्य्यम् तद्द्वारैव
ब्रह्मणः जगज्जन्मादिहेतुत्वम् “व्यक्तकारणमव्यक्तं नित्यं
सदसदात्मकम्” मनूक्तावपि तद्रूपमज्ञानमेवाव्यक्तशब्देनाभि-
धीयते तस्य च प्रवाहरूपेणावस्थितत्वात् नित्यत्वम्
“महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं
किञ्चित् सा काष्ठा सा परा गतिः” श्रुतौ तु अव्यक्तशब्देन
सूक्ष्मशरीरमिति शा० सूत्रे भाष्ये च व्यवस्थापितम् यथा
“आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त
गृहीतेर्दर्शयति च” सू० । “आनुमानिकमपि अनुमाननि-
रूपितं प्रधानमेवैकेषां शाखिनां शब्दवदुपलभ्यते । काठके
हि पठ्यते “महतः परमव्यक्तमव्यक्तात् पुरुषः परः” इति
तत्र य एव यन्नामानो यत्क्रमकाश्च महदव्यक्तपुरुषाः स्मृति-
प्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते तत्राव्यक्तमिति स्मृतिप्रसिद्धेः
शब्दादिहीनत्वान्न व्यक्तमव्यक्तमिति व्युत्पत्तिसम्मवात् स्मृति
प्रसिद्धं प्रधानमभिधीयते अतस्तस्य शब्दवत्त्वादशब्दत्वमनुप-
पन्नं तदेव जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति
चेन्नैतदेवम् नह्येतत् काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्त-
योरस्तित्वपरम् नह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं
त्रिगुणं प्रधानं तादृशम्प्रत्यभिज्ञायते । शब्दमात्रं ह्यत्राव्य-
क्तमिति प्तत्यभिज्ञायते स च शब्दो न व्यक्तमव्यक्तमिति
पृष्ठ ०४६७
योगिकत्वादन्यस्मिन्नपि सूक्ष्मे दुर्लक्ष्ये प्रयुज्यते न चायं
कस्मिं श्चिद्रूढ़ः । या तु प्रधानवादिनां रूढिः सा तेषामेव
पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते ।
नच क्रमसामान्यात् समानार्थप्रतिपत्तिर्भवति तद्रूपप्रत्यभि-
ज्ञाने । न हाश्वस्थामेगां पश्यन्नश्वोऽयमित्यमूढ़ोऽध्यवस्यति ।
प्रकरणनिरूपणाच्चात्र न परकल्पितं प्रधानं प्रतीयते शरीर
रूपकविन्यस्तगृहीतेः । शरीरं ह्यत्र रथरूपकविन्यस्तम-
व्यक्तशब्देन परिगृह्यते कुतः? प्रकरणात् परिशेषतश्च ।
तथाहि अनन्तरातीतो ग्रन्थः आत्मशरीरादीनां
रथिरथादिरूपककॢप्तिं दर्शयति । “आत्मानं रथिनं विद्धि
शरीरं रथमेव तु । बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ।
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मे-
न्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण” इति शेषेच “इन्द्रि-
यादिभिरसंयतैः संसारमधिगच्छति । संयतैस्त्वध्वनः पारन्त-
द्विष्णोः परमं पदममाप्नोतीति” दर्शयित्वाकिं तदध्वनः
पारम्परम्पदमित्यस्यामाकाङ्क्षायान्तेभ्यएव प्रकृतेभ्य इन्द्रियादिभ्यः
परत्वेन परमात्मानमध्वनः पारं विष्णोः परम्पदं दर्शयति ।
“इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु
परा बुद्धिर्बुद्धेरात्मा महान् परः । महतः परमव्यक्तमव्यक्तात्
पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा
परागतिरिति” । तत्र यएवेन्द्रियादयः पूर्व्वस्यां रूपक-
कल्पनायामश्वादिभावेन प्रकृताः त एवेह परिगृह्यन्ते
प्रकृतप्रक्रियाऽपरिहाराय । तत्रेन्द्रियमनोबुद्धयस्तावत्
पूर्व्वत्रेह च समानशब्दा एव अर्थास्तु ये शब्दादयो विषया
इन्द्रियहयगोचरत्वेन निर्द्दिष्टास्तेषाञ्चेन्द्रियेभ्यः परत्वम्
इन्द्रियाणाञ्च ग्रहत्वं विषयाणामतिग्रहत्वमिति श्रुति-
प्रसिद्धेः । विषयेभ्यश्च मनसः परत्वं मनोमूलत्वाद्विषये-
न्द्रियव्यवहारस्य । मनसस्तु परा बुद्धिः, बुद्धिर्ह्यारुह्य
भोग्यजातं भोक्तारमुपसर्पति । बुद्धेरात्मा महान् परः यः
सः आत्मानं विद्धीति रथित्वेनोपक्षिप्तः कुतः? आत्म-
शब्दात् । भोक्तुश्च भोगोपकरणात् परत्वोपपत्तेः ।
महत्त्वञ्चास्य स्वामित्वादुपपन्नम्” । “तदेवं पूर्ब्बावरालोच-
नायां नास्त्यत्र परकल्पितस्य प्रधानस्यावकाशः” भा० ।
“सूक्ष्मन्तु तदर्हत्वात्” सू० “उक्तमेततप्रकरणपरिशे-
षाभ्यां शरीरमव्यक्तशब्दं न प्रघानमिति । इदमिदा-
नीमाशङ्क्यते कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता
स्थूलत्वात् स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हमस्पष्टवचन-
स्त्वव्यक्तशब्द इति अतौत्तरमुच्यते “सूक्ष्मन्त्विह” कारणा-
त्मना शरीरं विवक्ष्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात् ।
यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति तथापि
तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति प्रकृतिशब्दश्च
विकारे दृष्टः यथा “गोभिःश्रीणीत मत्सरसिति” । तथाच
श्रुतिः “तद्धेदं तर्ह्यव्याकृतमासीदिति” इदमेव व्याकृतं
नामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं
वीजशक्त्यवस्थमव्यक्तशब्दयोग्यन्दर्शयति” भा० ।
परमब्रह्मपरत्वे “ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः”
“क्लेशोऽधिकतरस्तेवामव्यक्तासक्तचेतसाम्” इति च गीता ।
“योऽसावतीन्द्रियग्राह्यः सूक्ष्योऽव्यक्तः सनातनः”
मनुः विष्णोतु “अनेकमूर्त्तिरव्यक्तः शतमूर्त्तिः सनातनः”
इति विष्णुस० । अप्रकाशितार्थे “तमशेषमस्या-
व्यक्तव्यवहारसूचितमर्थं मगसा जग्राह” काद०
“ततः स्वयम्भूर्भगवानव्यक्तं व्यञ्जयन्निदम्” मनुः
संख्याविशेषेणानवगते गणितशास्त्रोक्ते १० राशिभेदे तच्च
वीजनाम्ना व्यवह्रियते “उत्पादकं यत् प्रवदन्ति बुद्धेरधि-
ष्ठितं सत् पुरुषेण सांख्याः । व्यक्तस्य कृत्स्नस्य तदेकवीज
मव्यक्तमीशं गणितञ्च वन्दे । पूर्ब्धंप्रोक्तं व्यक्तमव्यक्तवीज
प्रायप्रश्नानो विनाऽव्यक्तयुक्त्या” इत्युपक्रम्य “यावत्तावत्-
कालकोनीलकोऽन्यः वर्ण्णः पीतो लोहितश्चैतदाद्याः ।
अव्यक्तानां कल्पिता मानसंज्ञास्तत्संख्यानं कर्त्तुमा-
चार्य्यवर्य्यैः” वीजग० तच्च चतुर्विधं यथोक्तम्
तत्रैव “यावत्तात्कल्प्यमव्यक्तराशेर्मानं तस्मिन् कुर्व्वतो
द्दिष्टमेव । तुल्यौ पक्षौ साधनीयौ प्रयत्नात्त्यक्त्वा
क्षिप्त्वा वापि सङ्गुण्य भक्त्वा । एकाऽव्यक्तं शोधयेदन्यप-
क्षाद्रूपाण्यन्यस्येतरस्माच्च पक्षात् । शेषाव्यक्तेनोद्धरेद्रूपशेषं
व्यक्तं मानं जायतेऽव्यक्तराशेः । अव्यक्तानां द्व्यादि-
कानामपीह यावत्तावद्व्यादिनिघ्नं हृतं वा । युक्तोनं वा
कल्पयेदात्मबुद्ध्या मानं क्कापि व्यक्तसेवं विदित्वा । तत्र
प्रथममेकवर्ण्णसमीकरणं द्वितीयमनेकवर्ण्णसमीकरणं वीजम् ।
यत्र वर्ण्णस्य द्वयोर्वा बहूनां वा वर्ग्गादिगतानां
समोकरणं तन्मध्यमाहरणम् । यत्र भावितस्य तद्धावितमिति
वीजचतुष्टयं वदन्त्याचार्याः । तत्र प्रथमं तावदुच्यते पृच्छ-
केन पृष्टे सत्युदाहरणे योऽव्यक्तराशिस्तस्य मानं याव
त्तावदेकं द्व्यादिं वा प्रकल्प्य तस्मिन्नव्यक्तराशौ उद्देशका-
लापवत्सर्व्वङ्गुणनभजनत्रैराशिकपञ्चराशिकश्रेढीफलक्षेत्रव्य-
वहारादिगणनेन कार्य्यम् । तथा कुर्व्वता द्वौ पक्षौ प्रयत्ने-
न समौ कार्य्यौ । यद्यालापे समौ पक्षौ न स्तः ।
पृष्ठ ०४६८
तदैकतरे न्यूने पक्षे किञ्चित्प्रक्षिप्य ततः अघिकपक्षात्ता-
वदेव विशोध्य वा न्यूनं पक्षं केनचित्सङ्गुण्य वाधिकं पक्षं
तावतैव भक्त्वा समौ कार्य्यौ । ततस्तयोरेकस्य पक्षस्याव्यक्त
मन्यपक्षस्याव्यक्ताच्छोद्ध्यम् अव्यक्तवर्गादिकमपि । अन्यपक्षरू-
पाणि इतरपक्षरूपेभ्यः शोध्यानि । यदि करण्यः सन्ति तदा
ताअपि उक्तप्रकारेण शोध्याः । ततोऽव्यक्तराशिशेषेण रूप
शेषे भक्ते यल्लभ्यते तदेकस्याव्यक्तस्य मान व्यक्त जायते ।
तेन कल्पितोऽव्यक्तराशिरुत्याप्यः ॥ यत्रोदाहरणे द्व्याद
योऽव्यक्तराशयोभवन्ति तदा तस्यैकं यावत्तावत्प्रकल्प्य अन्ये-
षां द्व्यादिभिरिष्टैर्गुणितं भक्तं वा इष्टैः रूपैरूनं युतं वा
यावत्तावदेव प्रकल्प्यम् ॥ अथ वा एकस्य यावत्तावदन्येषां
व्यक्तान्येव मानानि प्रकल्प्यानि । सर्वं विदित्वेति यथा
क्रिया निर्वहति तथा बुद्धिमता ज्ञात्वा शेषाणामव्यक्तानि
व्यक्तानि वा कल्प्यानीत्यर्थः । उदाहरणम् । एकस्य रूपं त्रिशती
षडश्वा अश्वा दशान्यस्य तु तुल्यमूल्याः । ऋणं तथा
रूपशतं च तस्य तौ तुल्यवित्तौ च किमश्वमूल्यम् । यदा
द्यवित्तस्य दलं द्वियुक्तं तत्तुल्यवित्तोयदि वा द्वितीयः ।
आद्योधनेन त्रिगुणोऽन्यतोवा पृथक् पृथङ्मे वद वाजि-
मौल्यम् । अत्राश्वमौल्यमज्ञातं तस्य मानं यावत्ता-
वदेकं प्रकल्पितं या १ तत्र त्रैराशिकं यद्य्येकस्य यावत्ता
वन्मूल्यं तदा षण्णां किमिति न्यासः । १ । या १ । ६ ।
फलभिच्छागुणं प्रमाणभक्तं लब्धं षण्णामश्वानाम्मूल्यं
या ६ अत्र रूपशतत्रये प्रक्षिप्ते जातमाद्यस्य धनं या ६ रू ३००
एवं दशानां मौल्यः या १० अत्र रूपशते चर्ण-
गते प्रक्षिप्ते जातं द्वितीयस्य धनं या १० रू १००
एतौ समधनाविति पक्षौ स्वत एव समौ जातौ समशोध-
नार्थं न्यासः या ६ रू ३००
या १० रू १००
अथ एकाव्यक्तं शोधयेदन्यपक्षादिति आद्यपक्षाव्यक्तेऽ-
न्यपक्षाव्यक्ताच्छेधिते शेषं या ४ । द्वितीयपक्षरूपेषु आद्य-
पक्षरूपेभ्यः शोधितेषु शेषं रू ४०० अव्यक्तराशिशेषेण
या ४ रूपशेषे रू ४०० उद्धृते लब्धमेकस्य यावत्तावतो-
मानं व्यक्तं १०० यद्येकाश्वस्वेदं मौल्यं तदा षणां
किमिति त्रैराशिकेन लब्धे षण्णां मौल्ये ६०० रूपकशतत्रय-
युते ९०० जातमाद्यस्य धनम् । एवं द्वितीयस्यापि ९००” वीजग०
एवमनेकवर्गादीनामप्युदाहरणादीनि तत्रैव दृश्यानि ।

अव्यक्तमूलप्रभव पु० अव्यक्तं प्रधानमविद्या वा म्लम्

प्रभवन्यस्मात् प्रभवः अपादाने अप् प्रभवोयस्य । संसारवृक्षे ।

अव्यक्तराग पु० न व्यक्तोऽल्पव्यक्तोरागोऽरुणिमा । १ ईषद्रक्ते

अरुणे वर्ण्णे २ तद्वति त्रि० ।

अव्यक्तलिङ्ग न० अव्यक्तस्य लिङ्गमनुमापकम् । सांख्यमत

सिद्धे १ महत्तत्त्वादौ । अव्यक्तं लिङ्गमस्य । २ अस्पष्टचिह्ने
रोगादौ त्रि० । न व्यक्तं दम्भाभावेन गुप्तं लिङ्गमस्य ।
गुप्ताश्रमयुक्ते ३ संन्यासिनि पु० ।

अव्यङ्ग स्त्री अवेरङ्गं शृङ्गमिवाङ्गमस्याः । १ शूकशिम्ब्याम् ।

न विकलमङ्गमस्य ६ ब० । विकलाङ्गभिन्ने पूर्णे त्रि० ।

अव्यङ्गाङ्गी स्त्री अव्यङ्गमविकलं सम्पूर्ण्णमङ्गं यस्याः ङीप् ।

सम्पूर्ण्णाङ्गयुक्तायां स्त्रियाम् “अव्यङ्गाङ्गीं सौम्यनाम्नीं
हंसवारणगामिनीम्” । मनुः ।

अव्यञ्जन पु० नास्ति व्यञ्जनं शुभलक्षणं शृङ्गे यस्य । १ शृङ्ग-

हीनपशौ, २ सुलक्षणशून्ये, ३ चिह्नशून्ये च त्रि० ।

अव्यण्डा स्त्री न विगतमण्डं वीजमस्याः । शूकशिम्ब्याम् ।

अव्यतिकर पु० अभावे न० त० । १ संसर्गाभावे न० ब० ।

२ संसर्गशून्ये त्रि० ।

अव्यतिकीर्ण्ण त्रि० वि + अति + कॄ--क्त न० त० । असङ्कीर्ण्णे

“धाराः प्रसादयितुमव्यतिकीर्ण्णरूपाः” माघः ।

अव्यथ पु० न व्यर्थते पद्भ्यां न सञ्चलति व्यथमयचलनयोः

अच् । १ सर्पे । २ व्यथाशून्यें त्रि० । नास्ति व्यथा यस्याः
सेवनेन न० ब० । ३ हरितक्याम् ४ शुण्ठ्याञ्च स्त्री ।

अव्यथय पु० न व्यथयति गन्तारमक्लेशेन गन्तव्यस्थान-

नयनात् व्यथ--णिच्--बा० श घटा० ह्रस्वः न० त० ।
अश्वे निरु० ।

अव्यथा स्त्री अभावे न० त० । व्यथाभावे ।

अव्यथि त्रि० व्यथ--इन् न० त० । व्यथाशून्ये अक्लिष्टे

“समुद्रमव्यथिर्जगन्वान्” ऋ० १, ११७, १५, ।

अव्यथिन् त्रि० न व्यथते व्यथ--इनि न० त० । निर्भये २ व्यथाशून्ये च ।

अव्यथिष न + व्यथ--टिषच् । १ सूर्य्ये २ समुद्रे च ३ धरायां

४ रात्रौ च स्त्री टित्त्वात् ङीप् ।

अव्यथ्य त्रि० न + व्यथ--नि० कर्त्तरि यत् । व्यथाशून्ये ।

अव्यपदेश्य त्रि० न व्यपदिश्यते अभिलापवाक्येन वि + अप +

दिश--ण्यत् न० त० । १ कथयितुमशक्ये न्यायमते निर्विक-
ल्पके २ ज्ञाने न० तद्धि अतीन्द्रियत्वेनं अनुव्यवसायाविषय
तथा अभिलपितुं न शक्यते । “इन्द्रियार्थसन्निकर्योत्पन्नं
ज्ञानमपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्”
गौ० सू० । जात्यादिशून्यतया १ निर्द्देश्ये २ ब्रह्मणि न० ।
पृष्ठ ०४६९

अव्यपेक्षा स्त्री विशेषेणापेक्षा व्यपेक्षा अभावे न० त०

१ विशेषेणापेक्षाभावे समर्थसूत्रभाष्योक्ते अवयवार्थानपे-
क्षया समुदायस्य विशेष्यविशेषणभावानगाह्येकोपस्थिति
जनकत्वरूपे २ एकार्थीभावे च । “समर्थः पदविधिः” पा०
सूत्रे सामर्थ्यं द्विविधं व्यपेक्षा अव्यपेक्षा च प्रपञ्चित-
मस्माभिः सरलायाम् । तत्र स्वार्थपर्य्यवसायिपदानामा-
काङ्क्षादिवशात् यः परस्परं सम्बन्धः सा व्यपेक्षा ।
राज्ञः पुरुष इत्यादौ वाक्ये सत्यामाकाङ्क्षायां यो यो
यस्मिन् सन्निहितो योग्यश्च स तेन तेन सम्बध्यते यथा
राज्ञः पुरुषोऽश्वश्च राज्ञो देवदत्तस्य च पुरुषः ऋद्धस्य
राज्ञोऽश्वो धनञ्चेत्यादि वृत्तौ तु नैवम् वृत्तीनामेकार्थी-
भावात् । एकार्थोभावश्च विशेष्यविशेषणभावावगाह्येकोप
स्थितिजनकत्वम् । तथाच राजपुरुषादिशब्देन विशिष्टै-
कार्थबोधकतया न तदैकदेशे ऋद्धादेरन्वयः पुरुषांशे विशे-
षणतयोपस्थितस्य च नाश्वादिसम्बन्धिता राजादीनाम् ।
जनितान्वयाच्च निराकाङ्क्षतया न देवदत्तादेः स्वामितया
पुरुषादावन्वय इति द्रष्टव्यम् । देवदत्तस्य गुरुकुलमित्यादौ
देवदत्तादेस्तु प्रधानीभूतकुलादिनैवान्वयः सम्बन्धस्तूपस्थित-
गुरुद्वारक एव षष्ठ्यर्थः यथोक्तं हरिणा “समुदायेन सम्बन्धो
येषां गुरुकुलादिना । संस्पृशावयवास्ते तु युज्यन्ते तद्वता
सहेति” । यद्वा सम्बन्धिशब्दार्थस्य पदार्थैकदेशत्वेऽपि भवत्येव
केषाञ्चित् सम्बन्धान्वयः तदुक्तं तेनैव” सम्बन्धिशब्दःसापेक्षो-
नित्यं सर्व्वः समस्यते । वाक्यवत् सा व्यपेक्षापि वृत्तावपि
न हीयते” । अतएव वार्त्तिककृता “सविशेषणानां वृत्तिर्न्न
वृत्तस्य वा विशेषणं न प्रयुज्यत इति वक्तव्यमिति” सामा-
न्यतो वृत्तिमतो विशेषणस्य स्वातन्त्र्येण प्रयोगाभावममि-
वायम् “अगुरुकुलगुरुपुत्रादीनां वक्तव्यम्” इत्यनेन गुरुकुलगु-
रुपुत्रादीनां विशेषणत्वेऽपि पृथक्प्रयीगाय नञा पर्य्युदासः
कृतः । समानाधिकरणविशेषणस्य तु “समानाधिकरणम-
समर्थवद्भवती” त्यनेन सर्व्वथा स्वातन्त्र्येण सामर्थ्याभावात्
प्रयोगाभावो भङ्ग्याऽभिहितः । एतन्मूलकमेव प्राचां गाथा
“सापेक्षे प्रत्ययो न स्यात् समासो वा कथञ्चन । सापेक्षं
तद्विजानीयादसमस्तविशेषणम् । प्रतियोगिपदादन्यत्
यदन्यत् कारकादपि । वृत्तिशब्दैकदेशस्य सम्बन्धस्तेन
नेष्यते” इति अत्रायं विशेषः प्रधानस्य सापेक्षत्वेऽप्रि
समास इत्युक्तेः प्रधानस्य वृत्त्युपस्थाप्यविशेष्यस्य
राजपुरुषादेः सुन्दरादिविशेषणापेक्षयामपि समासः । समासे
चावयवशक्त्यैव तत्तदर्थपदार्थोपस्थित्या विशेष्यविशेषणभावा-
द्यभ्युपगमे सापेक्षत्वादौ समासाभावादिकं वाचनिकं
कल्प्यम् तथान्याप्यधिककल्पना स्यादतः समुदायशक्तिक-
ल्पनम् यथोक्तं हरिणा “बहूनां वृत्तिघर्म्भाणां वचनैरेव
साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः ।
चकारादिनिषेधोऽथ बहुव्युत्त्तिभञ्जनम् । कर्त्तव्यं ते न्याय-
सिद्धं त्वस्माकं तदिति स्थितमिति” तथाहि द्वन्द्वादिविग्रह-
वाक्ये चकारादि प्रयुज्यते समस्ते तु न । वचनैरेव तन्नि-
षेधः कल्पनीयः । समुदायशक्तिपक्षे तु उक्तार्थानामप्रयोग
इत्युक्तन्यायादेव सिद्धम् । नामार्थयोरभेदान्वयः कॢप्तः
सच राजपदादुपस्थापितराजादेः पुरुषे स्वस्वाभिभाव-
सम्बन्धेनान्वये परित्यक्तः स्यात् । सम्बन्धलक्षणायान्तु
किमपराद्धम् विशिष्टलक्षणया । प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः
प्रधानमिति नियमश्च कॢप्तः सच प्राप्तानन्दादौ भज्येत
आनन्दकर्त्तृकप्राप्तिकर्म्मेत्यर्थबोधस्योभयसम्मतत्वेन कर्त्तृ-
विहितक्तान्तार्थस्य कर्त्तुर्विशेष्यतौचित्येन प्रकृते तद्वैपरीत्यात्
आनन्दसम्बन्धादिलक्षणास्वीकारे समुदायशक्तिपक्षे एव
प्रवेशः आ तथा प्राप्त आनन्दोयमिति विग्रहे आनन्दादौ
अत्यन्तादिविशेषणयोगवत् समासे तद्वारणाय वृत्तस्य न
न विशेषणयोग इति वाचनिकत्वकल्पनाऽधिका एतन्मते
न्यायसिद्धा इत्यादिबहुविप्लवापत्तिरतः समुदाये शक्तिः”
नास्ति व्यपेक्षा यस्य । ३ अनपेक्षे त्रि० ।

अव्यभिचरित त्रि० वि + अभि + चर--क्त न० त० । १ व्यभिचार-

शून्ये हेतौ “का व्याप्तिः? न तावदभिचरितत्वं तद्धि न
साध्याभाववदवृत्तित्वम्” अनुमानचिन्ता० व्यभिचारश्च द्विवि-
धः अन्वयव्यभिचारोव्यतिरेकव्यभिचारश्चेति भेदात् अन्वय-
व्यभिचारोऽपि द्विधा । साध्याभावद्वृत्तित्वं स्वसमाना-
धिकरणाभावप्रतियोगिसामानाधिकरण्यं चेति भेदात् यथा
धूमवान् वह्नेरित्यादौ धूमाभाववति तप्तायः पिण्डेवह्नेर्वृत्ति-
मत्त्वात्, वह्न्यधिकरणे तप्तायः पिण्डे धूमाभावस्य विद्यमान
तया तत्प्रतियोगिना सह समनाधिकरणत्वात् वह्नौ
उभयविघव्यमिचारः । साध्याभावव्यापकीभूताभावाप्रतियो-
गित्वं व्यतिरेकव्यभिचारः यथा धूमवान् वह्नेरित्यादौ
धूमाभावरूपसाध्याभावस्य तप्तायःपिण्डे सत्त्वेन वह्न्य-
भावस्य च तत्रासत्त्वात् वह्नेर्न साध्याभावव्यापकीभूताभाव
प्रतियोगित्वम् । इति तत्र उभयविधव्यभिचारः ।
२ अबाषितार्थे च “अव्यभिचरितेभ्यः प्रमाणेभ्यः” शा० भा० ।

अव्यभिचारिन् त्रि० वि + अभि + चर--णिनि न० त० ।

केनापि प्रतिकूलहेतुना १ निवारयितुमशक्ये । न्यायमते
२ साध्यसाधकव्यप्तिविशिष्टे हेतौ च । ३ अबाधितविषये च
“इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारीति
गौ० सू०
पृष्ठ ०४७०

अव्यभिचार पु० अभावे न० त० । १ व्यभिचाराभावे २ नैयत्यरूपे अव्यभिचरितशब्दे विवृतिः ।

अव्यय पु० न० वि + इण्--अच् न० त० । सर्वासु विभक्तिषु

सर्व्ववचनेषु च एकरूपे १ शब्दवृत्तिधम्म विशेषे, यथास्वरा-
दयोव्ययाः सर्व्वत्रैकरूपाः २ शिवे ३ विष्णौ च पु० । आद्य-
न्तरहिते ४ विकारशून्ये त्रि० ५ परब्रह्मणि न० । “सदृशं
त्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु । वचनेषु च सर्व्वेषु
यन्न व्येति तदव्ययमिति” श्रुतिः । प्रवाहरूपेण ६ सर्व्वदा-
स्थिते च “अश्वत्थं प्राहुरव्ययम्” गीता “मनसावय
वैः सूक्ष्मं सर्वभूतकृदव्ययम्” सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः
संभवत्यव्ययाद्व्ययम्” मनुः ७ अव्ययफलदे च “भूराद्या
स्तिस्र एवैता महाव्याहृतयोऽव्ययाः । छन्दोग० “अव्यया
अव्ययफलदा मोक्षदा” इति आ० त० रघु० । “अव्ययः
पुरुषः साक्षी” विष्णुस० ।

अव्ययात्मन् त्रि० अब्यय आत्मा स्वभावो यस्य । अविनश्वरस्वभावे ।

अव्ययीभाव पु० अनव्ययमव्ययं भवत्यनेन अव्यय + च्वि--भू

करणे घञ् । व्याकरणसिद्धे समासविशेषे । तत्र हि
उपकुम्भमित्यादौ अनव्ययस्यापि कुम्भादिपदस्याव्ययत्वम्
“अव्ययीभावश्चेति” पा० सूत्रे तथामिधानात् । “द्वन्द्वो-
द्विगुरपि चाहं नित्यं मद्दगृहेऽव्ययीभावः । तत्
पुरुष! कर्म्मधारय येनाहं स्यां बहुव्रीहिः” उद्भटः ।

अव्यर्थ त्रि० न व्यर्थः । १ सफले २ सार्थके च ।

अव्यलीक त्रि० विरोधे न० त० । १ प्रिये सत्ये च “इत्थं

गिरः प्रियतमा इव सोऽव्यलीकाः शुश्राव सूततनयस्य
तदाऽब्यलीकाः” माघः ।

अव्यवधान न० अभावे न० ब० । १ व्यवधानाभावे नैकट्ये

“यत् पदार्थस्य यत् पदार्थेनान्वयोऽपेक्षितस्तयोरव्यवधाने
नोपस्थितिः कारणम्” आसत्तौ मुक्ता० । न० ब० ।
२ व्यवधानशून्ये अव्यवधानञ्च द्विविधं देशकृतं कालकृतञ्च ।
पूर्व्वोत्तरक्षणादौ कालिकं द्रव्यान्तरेणानावरणे दैशिकम् ।

अव्यवसाय पु० व्यवसायः निश्चयौद्यमश्च अभावे न० त० ।

१ निश्चयाभावे २ उद्यमाभावे च । न० ब० । ३ व्यवसायशून्येत्रि० ।

अव्यवसायिन् त्रि० न व्यवस्यति वि + अव--सो--णिनि

न० त० । १ उद्यमाभाववति अनुद्यते २ निश्चयाभाववति
निश्चयशून्ये । “बुद्धयोऽव्यवसायिनाम्” गीता ।

अव्यवस्था स्त्री वि + अव + स्था--अङ् अभावे विरोधे वा न० त० ।

“इदं कर्त्तव्यमिदं नेति” १ नियमाभावे, २ शास्त्रादिविरु-
द्धायां व्यवस्थायाम् अविधौ च । “किमव्यवस्थाञ्चलितोऽपि
केशवः” माघः । न० ब० । ३ मर्य्यादाशून्ये ४ अविहिते
५ स्थितिरहिते च ले च त्रि० । “स्थलारविन्द्रश्रियमव्यवस्था-
मिति” कुमारः “अव्यवस्थां सञ्चारिणीम्” मल्लि० ।

अव्यवस्थित त्रि० वि + अव--स्था + क्त न० त० । १ शास्त्रादिमर्य्या-

दारहिते २ अनियतरूपे “अव्यवस्थितचित्तस्य प्रसादोऽपि
भयङ्करः” नीति० ३ चञ्चले च ।

अव्यवहार्य्य त्रि० वि + अव + हृ--ण्यत् न० त० । शयनासन-

भोजनादौ एकत्रावस्थानायोग्ये पतितादौ “कामतोऽव्यव-
हार्य्यस्तु वचनादिह जायते” स्मृतिः । अव्यवहार्य्यास्तु पाति-
त्यहेतुकर्म्मकारिणः स्मृतावुक्तावेद्यास्तेषां संसर्गविशेषोऽपिनि-
षिद्धः यथा “याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतन्त्येते पतितेन न संशयः” देवलः “शरणा-
गतबालस्त्रीहिंसकान् संवसेन्न तु । चीर्ण्णव्रतानपि सदा
कृतघ्नसहितानपि” या० स्मृ० । स्त्रीघातकस्याव्यवहार्य्यत्वञ्च
हीनवर्ण्णोपभुक्ताव्यतिरिक्तविषयम् “हीनवर्ण्णोपभुक्ता या
त्याज्या बध्याऽपि वा भवेत्” वृह० स्मृतौ तस्या बध्यत्वोक्तेः
अत्र कृतप्रायश्चित्तानामपि अव्यवहार्य्यतोक्तेः अकृत-
प्रायश्चित्तानां सुतरां तथात्वम् तच्च शङ्कापूर्ब्धं प्रा० त०
रघुनन्दनेन समर्थितं यथा । “पापाभावे कथमव्यवहा-
र्य्यता” इति चेत् या० स्मृतौ वचनादिह जायते इत्युक्ते-
स्तथात्वम् । तथाच किमिव वचनं न कुर्य्यात् नास्ति
वचनस्यातिभारः तथाहि पापस्य द्वे शक्ती नरकोत्पादिका
व्यवहारविरोधिका च । तत्रैकतरशक्तिविनाशेऽपि
व्यवहारविरोधिका शक्तिरस्त्येवेति यथोक्तमापस्तम्बेन
“नास्यास्मिन् लोके प्रत्यासत्तिर्विद्यते कल्मषन्तु विहन्यते”
इति प्रत्यासत्तिर्भोजनादौ सान्निध्यम्” मिताक्षरायान्तु
कामतो व्यवहार्य्य इत्येव पाठः तथैव तेन व्याख्यात च
“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहा-
र्य्यस्तु वचनादिह जायते” या० स्मृ० । “प्रायश्चित्तैः वक्ष्य-
माणैरज्ञानाद्यदेनः पापं कृतं तदपैति अपगच्छति न
कामतः कृतम्” किन्तु तत्र प्रायश्चित्तविधायकवचनबला-
दिह लोके व्यवहार्य्यो जायते इति”--समर्थितश्चायमर्थ
आशङ्कापूर्ब्धकं तत्रैव यथा “ननु कामकृते प्रायश्चित्ता-
भावात् कथं व्यवहार्य्यत्वम्? तदभावश्च “अनभिसन्धिकृते-
ऽपराधे प्रायश्चित्तमिति” वसिष्ठवचनात्, “इयं विशुद्धि
रुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणबधे
निष्कृतिर्न विधीयते” इति मनुवचनाच्चावगम्यते । नैतत् ।
पृष्ठ ०४७१
“यः कामतो महापापं नरः कुर्य्यात् कथञ्चन । न तस्य
निष्कृतिर्दृष्टा भृग्वग्निपतनादृते” इति । तथा “विहितं
यदकामानां कामात्तद्द्विगुणम्भवेदिति” च कामकृतेऽपि
प्रायश्चित्तदर्शनात् । यत्तु वशिष्ठवचनम् तस्याप्यकामकृतेऽ-
पराधे प्रायश्चित्तं श्रुद्धिकरमित्यभिप्रायः, न पुनः कामकृते
प्रायश्चित्ताभाव इति । यत्तु मनुवचनम् “इयं विशु-
द्धिरुदितेत्यादि” तदपीयमिति सर्वनामपरामृष्टद्वादश-
बार्षिकव्रतचर्य्याया एव “कामतो ब्राह्मणबधे निष्कृतिर्न
विरधीयते” इत्यनेन प्रतिषेधो, न पुनः प्रायश्चित्तमात्रस्य,
मरणान्तिकादेः प्रायश्चित्तस्य दर्शनात् । ननु यदि कामकृतेऽपि
प्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषात्?
यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथम्भवति?
उच्यते उभयत्र प्रायश्चित्ताविशेषः शास्त्रतोऽवगम्यते ।
अज्ञानकृते सर्व्वत्र पापक्षयः यत्र तु “व्रह्महासुरापगुरु-
तल्पगमातृपितृयोनिसम्बन्धावगमस्तननास्तिकनिन्दित कर्म्मा
भ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातक-
संयोजकाश्चेति” गौतमोक्तं महापातकादौ व्यवहार्य्यत्वं
निषिद्धं तस्मिन् पतनीये कर्म्मणि कामतः कृते व्यवहार्य्यत्व-
मात्रं न पापक्षय इति । न च पापक्षयाभावे व्यवहार्य्यत्व
मनुपपन्नम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यव-
हारविरोधिका च तत्रैकतरशक्त्यविनाशेऽपि व्यवहारवि-
रोधिकायाः शक्तेर्विनाशोनानुपन्नस्तस्मात् पापानपगमेऽपि
व्यवहार्य्यत्वं नानुपपन्नम् । यत्तु मनुवचनम् “अकामतः
कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके-
श्रुतिनिदर्शनादिति” तदपि कामकृतेऽपि प्रायश्चित्तप्रा-
प्त्यर्थं न पुनः पापक्षयप्रतिपादनपरम् । अपतनीये
पुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव । “अका-
मतः कृतं पापं वेदाभ्यासेन श्रुद्ध्यति । कामतस्तु कृतं
मोहात् प्रायश्चित्तैः पृथग्विधैरिति” मनुस्मरणात् ।
पतनीयेऽपि कर्म्मणि कामकृते मरणान्तिकप्रायश्चित्ते कल्मष
क्षयोभवत्येव फलान्तराभावात् । “नास्यास्मिन् लोके प्रत्यास-
त्तिर्विद्यते कल्षन्तु निर्हन्यत इत्यापस्तम्बस्मरणात्” इति ।

अव्यवहित त्रि० वि + अव + धा--क्त न० त० । व्यवधानरहिते

साक्षात्संबद्धे । “सिसाधयिषाविरहविशिष्टक्षणाव्यवहितो-
त्तरक्षणोत्पत्तिकानुमितिकभिन्नेति” दीधितिः ।

अव्यवहृत त्रि० वि + अव + हृ--क्त न० त० । १ अकृतव्यवहारे

यस्य व्यवहारो न कृतः तस्मिन् भोगादिना २ अदूषिते च

अव्यसन न० अभावे न० त० । १ व्यसनाभावे न० व० । व्यसन-

शून्ये । व्यसनानि च अष्टादश मनुना दर्शितानि यथा
“दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनोनि
दुरन्तानि प्रयत्नेन विवर्जयेत् । कामजेषु प्रसक्तोहि व्यस-
नेषु महीपतिः । वियुज्यतेऽर्थधर्म्माभ्यां क्रोधजेष्वात्मनैव
तु ॥ मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियोमदः ।
तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं
साहसं द्रोह ईर्षासूयार्थदूषणम् । वाग्दण्डजञ्च पारुष्यं
क्रोधजोऽपि गणोऽष्टकः ॥ द्वयोरप्येतयोर्मूलं यं सर्व्वे
कवयोविदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ।
पानमक्षाःस्त्रियश्चैव मृगया च यथाक्रमम् । एतत् कष्टतमं
विद्याच्चतुस्क कामजे गणे । दण्डस्य पातनञ्चैव वाक्पारु-
ष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा ।
सप्तकस्यास्य वर्गस्य सर्ब्बत्रैवानुषङ्गिणः । पूर्ब्बंपूर्ब्बं
गुरुतरं विद्याद्व्यसनमात्मवान्” ।

अव्यसनिन् त्रि० न० त० स्त्रियां ङीप् । व्यसनशून्ये

अव्यस्त त्रि० न व्यस्तः विक्षिप्तः विपर्य्यस्तः पृथग्भूतो वा ।

१ अविक्षिप्ते २ अविपर्य्यस्ते ३ समस्ते च ।

अव्याकुल त्रि० न० त० । निराकुले स्वच्छन्दे स्वस्थे । अव्यग्रादयोऽप्यत्र

अव्याकृत त्रि० वि + आ + कृ--क्त न० त० । वेदान्तमते अप्रकटी

भूते १ वीजरूपेजगत्कारणेऽज्ञाने २ सांख्यादिमते प्रधाने
च । “तद्धेदं तर्ह्यव्याकृतमासीत्” श्रुतिः । “सदेव सौम्येद-
मग्रआसीत्” छा० उ० भा० “इदं नामरूपाभ्यामव्याकृतम्”

अव्याजं पु० न० अभावे न० त० । १ छलामावे “इदं किला-

व्याजमनोहरं वपुः” शकु० । अव्याजसुन्दरीं तां विज्ञा-
नेन ललितेन योजयता” मालवि० । न० ब० । २ तच्छून्ये
त्रि० व्याजश्च यथार्थभूतस्य वस्तुनः स्वरूपनिह्नवेन
इतररूपेण प्रकाशार्थः व्यापारभेदः ।

अव्यापक त्रि० न० त० । १ व्यापकभिन्ने २ परिच्छिन्ने च । व्या-

पकश्च स्वाधिकरणनिष्ठाभावाप्रतियोगी तद्भिन्नस्तादृशाभाव
प्रतियोगी अव्यापकः यथा घूमो वह्नेरव्यापकः तस्य वह्न्य-
धिककरणे तप्तायःपिण्डे वर्त्तमानस्याभावस्य प्रति-
योगित्वात् “अव्यापकविषयताशून्यत्वम्” सामा० गदा० ।

अव्यापार पु० अभावे न० त० । १ व्यापाराभावे न० ब० ।

२ व्यापारशून्ये । व्यापारश्च करणजन्यः क्रियाया अव्यवहित
जनकः । यथा प्रत्यक्षज्ञाने इन्द्रियसन्निकर्षः । सहि इन्द्रिया
दुत्पन्नः प्रत्यक्षं जनयन् व्यापारो भवति एवं छिदि-
क्रियायां दात्रच्छेद्यसंयोगः । तथा यागादौ अदृष्टम्
अनुमितौ परामर्शः, शाब्दबोधे पदार्थस्मरणम् इत्यादि यथायथ-
मूह्यम् । तथा “उत्पादना क्रियाऽपि व्यापारः “व्यापारो-
भावना सैवोत्पादना सैवच क्रिया” हरिः ।
पृष्ठ ०४७२

अव्यापिन् त्रि० न व्याप्नोति वि--आप णिनि न० त० स्त्रियां

ङीप् । १ अव्यापके २ परिच्छिन्ने च “हेतुमदनित्यमव्यापि
सकियमाश्रितं लिङ्गम्” सां० सू० सा० का० च । “अव्या-
पित्वं परिच्छिन्नत्वम्” सां० प्र० भा० ।

अव्याप्त त्रि० न व्याप्तः । १ व्याप्तभिन्ने इयत्तया २ परिच्छिन्ने च ।

अव्याप्ति स्त्री अभावे न० त० । १ व्याप्तेरभावे । व्याप्तिश्च तदभाव

वदवृत्तित्वम् व्यापकसामानाधिकरण्यमनौपाधिकत्वं
आधेयतादिवत् वस्तुस्वभावविशेषोवा मतभेदेन ज्ञेया ।
२ लक्ष्ये लक्षणस्याप्रवृत्तौ च “अव्याप्यवृत्तिसाध्यकसद्धेता
वव्याप्तिमाशङ्क्याह” दीधितिः ।

अव्याप्य त्रि० व्याप्तिविशिष्टोव्याप्यः न० त० । व्याप्तिविशिष्ट

भिन्ने १ व्याप्तिशून्ये यथा वह्निर्धूमस्य अव्याप्यः वह्न्यधि-
करणेतप्तायःपिण्डे धूमस्यावृत्तेः तथात्वम् । वि + आप--ल्यप्
न० त० । २ सर्व्वावच्छेदमप्राप्येत्यर्थे अव्य० ।

अव्याप्यवृत्ति त्रि० अव्याप्य सर्व्वावच्छेदमप्राप्य वृत्तिर्यस्य ।

स्वाधिकरणे अंशविशेषे कालभेदे वा अस्थिते पदार्थे यथा
संयोगादिर्घटादिश्च न सर्व्वदेशं व्याप्य स्वाधिकरणे
गृहादौ तिष्ठति । तथा आत्मनि ज्ञानादिकं न सर्व्वदा
तिष्ठति । अतः संयोगादीनां स्वाधिकरण एव
अंशभेदे कालभेदे च असत्त्वात्तथात्वम् । अव्याप्यवृत्तिनि-
नियामकश्च देशः कालश्च तत्र देशे सत्त्वे क्वचित् कालस्य
देशभेदस्य वा नियामकत्वं क्वचित् कालसत्त्वे देशस्य इति
अव्याप्यवृत्तयश्च संयोगविभागादयो दैशिकाः कालिकाश्च
तथा आत्मनि बुद्धिसुखदुःखेच्छाद्वेषयत्नधर्म्माधर्म्मभावना-
ख्यसंस्काराः तेषां देहावच्छेदेन सत्त्वेऽपि घटाद्यचच्छेदे-
नासत्त्वात् देहावच्छेदेऽपि सर्व्वदाऽसत्त्वाच्च तथात्वम्
एवं शब्दस्य दैशिककालिकाव्याप्यवृत्तित्वम् गन्धादयस्तु
कालिकाव्याप्यवृत्तयस्ते हि स्वाधिकरणे एव उत्पत्तकिआले
प्रलये च परमाणौ न तिष्ठन्ति । संयोगेन घटादयोऽपि
दैशिककालिकाव्याप्यवृत्तयः । “अव्याप्यवृत्तिः क्षणिको
विशषगुण इष्यते” भाषा० “अव्याप्यवृत्तिसाध्यकसद्धेता-
विति” दीघितिः ।

अव्यायाम पु० अभावे न० त० । १ व्यायामाभाव परिश्रम

साधनव्यापाराभावे २ विशेषेण विस्तारामावे च न० ब० ।
३ तच्छून्ये त्रि० ।

अव्यावर्त्तक त्रि० न व्यावर्त्तयति इतरेभ्यो निवारयति

वि + आ + वृत--णिच्--ण्वुल् न० त० । १ रस्मादकृतनिवारणे
२ इतरस्माद्भेदासाधके ३ अविशेषके च ।

अव्यावर्त्तन न० वि + आ--वृत--णिच्--ल्युट् अभावे न० त० ।

इतरस्मादनिवारणे न० ब० । व्यावृत्तिशून्ये त्रि० ।

अव्याहत त्रि० विशेषेणाहतः प्रतिरुद्धः न० त० । व्याघात-

शून्ये व्याघातश्च विरोधप्रतिसन्धानेनाप्रसङ्गः २ अंप्रति
रुद्धे च । “अव्याहताज्ञः सर्व्वत्र” पुरा० व्याहतं
मिथ्यार्थकं तद्भिन्ने ३ सत्ये वाक्ये न० ।

अव्याहतत्व न० अव्यवहतस्य भावः त्व । १ व्याघाताभावे हेम

चन्द्रोक्ते २ वाक्यगुणभेदे च ते च गुणाः यथा “संस्कारवत्त्वमौ-
दार्य्यमुपचारपरीतता । मेघनिर्घोषगाम्भीर्य्यं प्रतिनादविधा-
यिता ॥ दक्षिणत्व मुपनीतरागत्वं च महार्थता । अव्याहत-
त्वं श्लिष्टत्वं संशयानामसम्भवः ॥ निराकृतान्योत्तरत्वं
हृदयङ्गमिताऽपि च । मिथःसाकाङ्खताप्रस्तावौचित्यं तत्त्वनि-
ष्ठता ॥ अप्रकीर्ण प्रसृतत्वमसंश्लाघ्यान्यनिन्दिता ।
आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता ॥ अमर्मवेधितौदार्य्यं
धर्म्मार्थप्रतिबद्धता । कारकाद्यविपर्य्यासोविभ्रमादिवियु-
क्तता ॥ चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता । अनेक
जातिवैचित्र्यमारोपितविशेषता ॥ सत्त्वप्रधानता वर्णपद
वाक्प्रविविक्तता । अव्युत्थितिरखेदित्वम्पञ्चत्रिंशच्च वा
ग्गुणाः” ॥

अव्युत्पन्न त्रि० वि + उद् + पद--क्त न० त० । समुदायशन्दस्या-

वयवशोऽर्थबोधकताशक्तिः व्युत्पत्तिः तच्छून्ये अवयवार्थशून्ये
शब्दे, “उणादयोव्युत्पन्नाः प्रातिपदिकम्” पा० ।
२ शब्दावयवार्थानभिज्ञे अवैयाकरणे च ।

अव्युत्थिति स्त्री वि + उद् + स्था--क्तिन् अभावे न० त० ।

उत्थानाभावे २ वाक्यगुणभेदे च अव्याहतत्वशब्दे विवृतिः ।

अव्रण त्रि० नास्ति व्रणोऽस्य । १ व्रणशून्ये व्रणश्च क्षतादि

“तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् । कनिष्ठि-
कापरीणाहमृज्वग्रायतमव्रणम्” सुश्रु० २ नेत्ररोगमेदे
“यत् सव्रणं शुक्रमथाव्रणं वा पाकात्ययश्चाप्यजका
तथैव । चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः
संग्रहतः पुरस्तात्” इति विभज्य, तल्लक्ष्माप्युक्त
सुश्रुते “सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुग-
श्रुयुक्तम् । विहायसीवाभ्रदलानुकारि तदव्रणं साध्यतमं
वदन्ति” “अनेनापहरेच्छुक्रमव्रणं कुशलोभिषक्” सुश्रु० ।

अव्रत त्रि० नास्ति व्रतं विहितनियमो यस्य । शास्त्रविहित

नियमशून्ये “अव्रतानासमन्त्राणां जातिमात्रोपजी-
विनाम् । नैषां प्रतिग्रहोदेयो न शिला तारयेच्छि-
लाम्” मनुः ।
पृष्ठ ०४७३

अव्रत्य त्रि० व्रताय हितम् यत् न० त० । व्रतकाले-

अनाचरणीयेऽनृतकथनादौ “अव्रतं वा व्याहरति
तन्मिथ्या करोति व्रतम्” शत० ब्रा० ।

अश संहतौ--व्याप्तौ च स्वादि० आत्म० सक० वेट् । अश्नुते

आशिष्ट आष्ट आनशे । अशिता--अष्टा अक्ष्यते-
अशिष्यते अश्लुवानः अष्टिः व्यष्टिः समष्टिः “खं
प्रावृषेण्यैरिव चानशेऽब्दैः” भट्टिः “प्रतापस्तस्य
भानोश्च युगपद्यानशे दिशः” रघुः ।

अश भोजने क्र्यादि० पर० सक० सेट् । अश्नाति आशीत् ।

आश । अशिता अशिष्यति । “त्र्यहं परञ्च नाश्नीयात्
प्राजापत्यं चरन् द्विजः, मनुः तदहं भक्त्युपहृतम-
श्रामि प्रयतात्मनः” गीता ।

अशकुन पु० न० अप्राशस्त्ये न० त० । दुर्न्निमित्ते अनिष्टसूचके

काकादिदर्शने । अशकुनाश्च द्विविधा औत्पातिकाः साधर-
णाः काकादिदर्शनादयोऽसाधारणाः । अमङ्गलशब्दे
३१७, १८ पृष्ठे विवरणम् “अपयाति सरोषया निरस्ते
कृतकं कामिनि चुक्षुवे मृगाक्ष्या । कलयन्निव सव्यथोऽ-
वतस्थेऽशकुनेन स्खलितं” किलेतरेण” माघः ।
“साहस्म नैवाशकुनीभवेन्मे भाविप्रियावेदक एष हंसः” नैष० ।

अशक्त त्रि० न० त० “समर्थभिन्ने १ कार्य्याक्षमे” २ पूर्ब्बोत्पन्न-

मशक्तं नियतं महदादिसूक्ष्मपर्य्यन्तम्” सा० का० ।

अशक्ति स्त्री अभावे न० त० । १ सामर्थ्याभावे “श्रमेण

तदशक्त्या वा न गुणानामियत्तया” रघुः । २ अपाटवे सांख्य-
भतसिद्धे बुद्धेः ३ ज्ञानजननासामर्थ्यभेदे च सा च “एष
प्रत्ययसर्गोविपर्य्ययोऽशक्तितुष्टिसिद्ध्याख्यः” इति सामान्यत
उक्त्वा “पञ्च विपर्य्य यभेदाः भवन्त्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा” इति । अशक्तीर्विभज्य “एकादशेन्द्रिय
बधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा । सप्तदश बधा बुद्धेर्विपर्य्य-
यात् तुष्टिसिद्धीनाम्” सा० का० “बाधिर्यं, कुष्टिताऽन्धत्वं,
जड़ताऽजिघ्रता तथा । मूकता, कौण्यपङ्गुत्वक्लैव्योदा-
वर्त्तमन्दताः” । यथासंख्यं श्रोत्रादीनामिन्दियाणं
बधाः एतावत्येव तद्धेतुका बुद्धेरशक्तिः स्वव्यापारे
भवति । तथाचैकादशहेतुकत्वादेकादशधा वुद्धेरशक्ति
रुच्यते । हेतुहेतुमतोरभेदविवक्षया च सामानाधि-
करण्यम् । तदेवमिन्द्रियबधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूप-
तोऽशक्तीराह सह बुद्धिबधैरिति । कति बुद्धेः स्वरूपतोबधा
इत्यत आह सप्तदश बधा बुद्धेः, कुतः? विपर्य्ययात्तुष्टि-
सिद्धीनाम्, तुष्टयोनवधेति तद्विपर्ययास्तन्निरूपणान्नवधा
भवन्ति । एवं सिद्धयोऽष्टाविति तद्विपर्ययास्तन्निरूपणात्
अष्टौ भवन्तीति” सा० कौ० दर्शिता । व्याख्यातञ्चैतदस्मा-
भिः “पूर्व्वार्द्धेज्ञानेन्द्रियाणाम् अपाटवमुक्तरार्द्धे कर्मेन्द्रिया-
णामिति मनसस्तु उभयेन्द्रियानुकूल्यादन्तेऽभिनिवेश इति
भेदः । तत्र बाधिर्य्यं श्रोत्रगतं शब्दग्रहणापाटवम् ।
कुष्ठिता त्वग्गतं स्पर्शग्रहणापाटवम् । अन्धत्वं नेत्रगतं
रूपग्रहणापाटवम् । जड़ता रसनागतं रसग्रहणा-
पाटवम् । मूकता वागिन्द्रियगतं वचनापाटवम् । कौण्यं
हस्तगतमादानापाटवम् । पङ्गुत्वं पादगतं चलना-
पाटवम् । क्लैव्यमुपस्थगतं मैथुनासामर्थ्यम् । उदावर्त्तः
अपानगतं विष्ठोत्सर्गासामर्थ्यम् । मन्दता मनोगतं मुखा-
दिविषयग्रहणासामर्थ्यम् । एकादशेति पञ्च ज्ञानेन्द्रियाणि
पञ्च कर्म्मेन्द्रियाणि मनश्चेति एकादशेन्द्रियाणां बधाः स्वस्व-
कर्म्माक्षमत्वरूपा धर्मभेदाः तद्धेतुकत्वात् बुद्धेः स्वविषयाग्र-
हणमिम्बते अतो बुद्धेरशक्तिरेकादशविधैवेत्याह तथा चेत्या-
दि । वे बुद्धेः सप्तदश भेदा उत्तरार्द्धे वक्ष्यन्ते तैः सप्तदशभिः
सह मिलिता एकादश भेदाः अष्टाविंशतिर्भेदाः स्युः । तथा
च शक्तिरष्टाविंशतिभेदा इति यदुक्तं तत् समर्थितमिति”

अशकुम्भी स्त्री अश्नुते व्याप्नोति अश--अच् अशा स्कुभ्राति

जलमावृणोति स्कुन्भ--बा०--ट पृषो० सलोपः टित्त्वात्
ङीप् कर्म्म० । अल्पकालेन जलव्यापके जलोपरिजाते
(पाना) इति ख्याते तृणभेदे ।

अशक्य त्रि० न शक्यते शक--क्यप् न० त० । असाध्ये

“अशक्यशङ्कव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु” नैष० ।

अशङ्का स्त्री अभावे न० त० । १ सशयाभावे २ त्रासाभावे च

न० त० । ३ तच्छून्ये त्रि० ।

अशङ्कित त्रि० शकि--क्त न० त० । १ अभीते २ सन्देहरहिते च ।

अशत्रु पु० न शातयति शद--ण्यर्थे त्रुन् न० त० । १ चन्द्रे

शब्दच० । विरोधे न० त० । शत्रुभिन्ने २ मित्रे च ।

अशन न० पु० अश्नुते व्याप्नोति अश--ल्यु । १ पीतसालवृक्षे

दन्त्यमध्योऽप्ययमत्रार्थे । भावे ल्युट् । २ व्याप्तौ, ३ भोजने च
“मुनिभिर्द्धिरशनं प्रोक्त विप्राणां मर्त्यवासिनां नित्यम्”
ति० त० स्मृ० । कर्म्मणि ल्युट् । ४ भोज्ये अन्ने न०
“पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् । दृष्ट्वा हृष्येत्
प्रसीदेच्च प्रतिनन्देच्च सर्व्वशः । पूजितंह्यशनं नित्यं
बलमूर्जञ्च यच्छति । अपूजित च तद्भुक्तम्” मनुः । “एवं
प्रयत्नं कुर्व्वीत यानशय्यासनाशनैः” मनुः “अशन-
पते! अशनस्य नोदेहि” शत० ब्रा० ।
पृष्ठ ०४७४

अशनपर्णी स्त्री अशनस्य पीतशालस्य पर्णमिव पर्णमस्याः ।

(आराटो) इति ख्याते वृक्षभेदे सा हि पीतसालतुल्यपर्णा ।

अशना स्त्री अशनमिच्छति--अशन + क्यच् क्विप् । भोजने-

छायाम् । शसाद्यचि अशन इत्यादि । “अशनापिपासे
सौम्य! विजानीहि” छा० उ० ।

अशनाया स्त्री अशनमिच्छति अशन + क्यच्--स्त्रियाम् भावे अ ।

भोजनेच्छायाम् । “च्युताशनायः फलवद्विभूत्या” भट्टिः
“अन्नाद्वा अशनाया निवर्त्तते पानात् पिपासा” शत०
ब्रा० । “अशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुत” वृ० उ० ।

अशनायित त्रि० अशनमिच्छति अशन + क्यच्--कर्त्तरि क्त ।

१ भोजनेच्छावति क्षुधिते । भावे क्त । २ भोजनेच्छायां न०

अशनायुक त्रि० अशनमिच्छति अशन + क्यच्--उक्ञ, उन्

स्वार्थे कन् वा । भोजनाभिलाषुके । “अन्नमेव तन्मध्यती धीयते
शनायुको यजमानो भवत्यशनायुकाः प्रजाः” ता० ब्रा० ।

अशनि पु० स्त्री अश्नुते संहन्ति अश--अनि । १ मेघोत्पन्ने

१ ज्योतिषि २ इन्द्रे “स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिः
कतमः स्तनयित्नुरशनिः” शत० ब्रा० शत्रु घातके ३ अनुयाजे
“अशनिरेव प्रथमोऽनुयाज” इत्युपक्रम्य “अशनि-
रिन्द्रोऽवहन्ति” शत० ब्रा० ४ इन्द्रास्त्रे वज्रे, प्रस्तरवर्षिणि
५ उल्काविशेषे, ६ विद्युति च । “अशनेरमृतस्य चोभयो-
र्वशिनश्चाम्बुघराश्च योनयः कुमा० ७ अग्नौ ८ विद्युदग्नौ
“तमब्रवीदशनिरसीति तद्यदस्य तन्नामाकरोद्विद्युत्तद्रू-
पमभवद्विद्युद्वा अशनिस्तस्माद्यं विद्युद्धन्त्यशनिरबधीदि-
त्याहुः” शत० ब्रा० । वज्रं च वृत्तासुरबधार्थमिन्द्रेण
दधीचोऽस्थीनि गृहीत्वा विश्वकर्म्मणा कारितमिति
भाग० ६ स्क० । “मघवन्! याहि भद्रं वोदध्यञ्चमृषि-
सत्तमम् । विद्याब्रततपःसारं गात्रं याचत मा चिरम् ।
स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् ।
यद्वा अश्वविरोनाम तयोरमरतां व्यधात् । दध्य-
ङ्ङाथर्ब्बणस्त्वष्ट्रे वर्म्माभेद्यं मदात्मकम् । विश्वरूपाय-
यत् प्रादात्त्वष्टा यत्त्वमधास्ततः । युष्मभ्यं याचितोऽश्विभ्यां
धर्मज्ञोऽङ्गं स दास्यति” । ततस्तैरायुधश्रेष्ठो विश्वकर्मविनि-
र्म्मितः । येन वृत्रशिरो हर्त्ता मत्तेजौपवृंहितः” । इति
विष्णुनोक्तेनेन्द्रेण तथा कृते स आह “तथाभियाचितो
देवैरृषिरायर्वणो सहान् । मोदमान उवाचेदं
प्रहसन्निव भारत! । अपि वृन्दारकायूयं न जानीत शरी-
रिणाम् । संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ।
जिजीविषूणां जीवानामात्मा प्रेष्ठैहेप्सितः । कौत्सहेत
तं दातुं भिक्षमाणाय जिष्णवे” इति दधीचोक्ते देवैः
पुनरुक्तम् यथा “किं नु तद्दुस्त्यजं ब्रह्मन्! पुंसां भूतानु
कम्पिनाम् । भवद्विधानां महतां पुण्यश्लोकैककर्मणाम् ।
नूनं स्वार्थपरोलोको न वेद परसङ्कटम् । यदि वेद न
याचेत नेति नाह यदीश्वरः । इत्युक्ते दधीचोक्तम् “धर्मं
वःश्रोतुकामेन यूयंमे प्रत्युदाहृताः । एष वः प्रियमात्मानं
दुस्त्यजं सन्त्यजाम्यहम् । योऽध्रुवेणात्मना नाथा! न धर्भं
न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ।
एतावानव्ययोधर्म्मः पुण्यश्लौकैरुपासितः । योभूतशोक-
हर्षाभ्यामात्मा शोचति हृष्यति आ अहो दैन्यमहोकष्टं
पारक्यैः क्षणमङ्गुरैः । यन्नोपकुर्य्यादस्वार्थैर्मर्त्यः स्वज्ञाति-
विग्रहैः । श्रीवादरायणिरुवाच । “एवं कृतव्यवसितो
दध्यङङाथर्व्वणस्तनुम् । परे भगवति ब्रह्मन्ना-
त्मानं सन्नयन् जहौ । गताक्षासुमनोबुद्धिस्तत्त्वदृग्
ध्वस्तबन्धनः । आस्थितः परमं योगं न देहं बुबुधे-
प्सितम् । अथेन्द्रो वज्रमुद्यम्य निर्म्मितं विश्वक-
र्म्मणा । मुनेः शक्तिभिरुत्सिक्तं भगवत्तेजसान्वितम्” ।

अशब्द त्रि० नास्ति शब्दो, वेदादौ वाचकशब्दो वा यस्य ।

१ शब्दहीने, वेदे २ वाचकशब्दवर्ज्जिते प्रधाने “ईक्षतेर्ना
“शब्दमिति” शारीरकसूत्रम् ३ शब्दादिगुणहीने ब्रह्मणि
च न० “अशब्दमस्पर्शमरूपमव्ययमिति” श्रुतिः

अशरीर त्रि० नास्ति शरीरं तदभिमानो वा यस्य । “प्रत्यग्ज्ञान

शिखिध्वस्ते मिथ्याज्ञाने सहेतुके । नेतिनेतिस्वरूपत्वादश-
रीरो भवत्ययम्” इत्युक्तलक्षणे सकलनिषेधरूपे १ परमां
त्मनि, २ शरीराभिमानशून्ये जीवन्मुक्ते “अशरीरं वा वसन्तं
प्रियाप्रिवे न स्पृशतः” इति श्रुतिः । ३ देहशून्ये ४ मीमां-
सकोक्ते देवे ५ ईश्वरे च परमात्मस्वरूपत्वात् ईश्वरस्याशरी-
रत्वम् “तदैक्षत बहु स्यां प्रजायेति श्रुत्या तस्वेक्षितृत्वं यदुक्तं
तदसङ्गतं शरीरं विना ज्ञानानुपपत्ते रित्याशङ्कापूर्ब्बकं
शा० भा० तत् समर्थितं यथा “प्रागुत्पत्तेर्ब्रह्मणः
शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति न तच्चोद्यमवत-
रति सवितृप्रकाशवत् ब्रह्मणोज्ञानस्वरूपनित्यत्वेन ज्ञान-
साधनापेक्षानुपपत्तेः । अपि च अविद्यादिमतः संसारिणः
शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात् न ज्ञानप्रतिबन्धकारणर-
हितस्येश्वरस्य । मन्त्रौ चैतावीश्वरस्य शरीराद्यनपेक्षतामना-
वरणज्ञानतां च दर्शयतः । “न तस्य कार्य्यं करणञ्च विद्यते न
पृष्ठ ०४७५
तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभा-
विकी ज्ञानबलक्रिया चेति” “अपाणिपादोजवनो ग्रहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति-
वेत्ता तमाहुरग्र्यं पुरुषं महान्तमिति” च । ननु नास्ति
तव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी । “नान्योऽ-
तोऽस्ति द्रष्टोत विज्ञातेति” श्रुतेः तत्र किमिदमुच्यते संसारिणः
शरीराद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येति । अत्रोच्यते सत्यं
नेश्वरादन्यः संसारी तथापि देहादिसंघातोपाधिसंबन्ध
इष्यतएव घटकरकगिरिगुहाद्युपाधिसंवन्ध इव व्योम्नः,
तत्कृतशब्दप्रत्ययव्यवहारा लोकस्य दृष्टाश्च, घटच्छिद्रं
करकच्छिद्रमित्यादिराकाशाव्यतिरेकेऽपि तत्कृता चाकाशे
घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा तथेहापि देहादि
संघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः ।
दृश्यते चात्मन एव सतोदेहादिसंघातेऽनात्मन्यात्माभिनिवेशो-
मिथ्याबुद्धिमात्रेण सति चैवं संसारित्वे देहाद्यपेक्ष-
मीक्षितृत्वमुपपन्न’ संसारिणः” भा० । जीवस्यापि अवास्त्रविकं
सशरीरत्वं तदपि तत्रैव व्यवस्थापितं यथा “शरीरे
पतितेऽशरीरत्वं स्यान्न जीवत इति चेत् न सशरीरत्वस्य
मिथ्याज्ञाननिमित्तत्वात् । नह्यात्मनः शरीरात्माभि-
मानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं
शक्यं कल्पयितुम् नित्यमशरीरत्वम् अकर्मनिमित्तत्वा-
दिति चावोचामः । तत्कृतधर्माधर्मनिमित्तं सशरीर-
त्वमिति चेत् शरीरसस्वन्धस्यासिद्धत्वात् धर्मा-
धर्मयोरात्मकृतत्वासिद्धेः । शरीरसम्बन्धस्य धर्माधर्मयो-
स्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात् । अन्धपरम्परै
वैषाऽनादित्वकल्पना क्रियासमवायाभावाच्चात्मनः कर्त्तृ-
त्वानुपपत्तेः । सन्निधिमात्रेण राजप्रभृतीनां दृष्टं कर्त्तृ-
त्वमिति चेन्न धनदानाद्युपार्जितभृत्यसम्बन्धत्वात् तेषां
कर्त्तृत्वोपपत्तेः । नह्यात्मनोधनदानादिवच्छरीरादिभिः
स्वस्वामिसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् मिथ्या-
भिमानस्तु प्रत्यक्षः सम्बन्धहेतुः” शा० भा० ।

अशरीरत्व न० अशरीरस्य भावः त्व । १ शरीरसम्बन्धराहित्ये

२ मोक्षे च । यथा मोक्षस्याशरीरत्वं तथोक्तं शा० भा० ।
“अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः” इति प्रियाप्रिय
स्पर्शनप्रतिषेधाच्चोदनालक्षणधर्म्मकार्य्यत्वं मोक्षाख्यस्या-
शरीरत्वस्य प्रतिषिध्यत इति गम्यते । धर्मकार्य्यत्वे हि
प्रियाप्रियस्पर्शनप्रतिषेधोनोपपद्यते । अशरीरत्वमेव घर्म-
कार्य्यमिति चेत् तस्य स्वाभाविकत्वात् । “अशरीरं
शरीरेषु अनववस्थेष्ववस्थितम् । महान्तं विभुमात्मानं
मत्वा धीरो न शोचति” “अप्राणोह्यमनाः शुभ्रः
असङ्गोह्यषं पुरुष” इत्यादि श्रुतिभ्यः । अतएवानुष्ठेयफल
विलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्” ।
अयं भावः अभावस्याधिकरणानतिरेकेण शरीरसम्बन्धा-
भावस्य ब्रह्मरूपतया मोक्षस्य तदभिन्नतया च तथात्वम् इति ।

अशरीरिन् त्रि० न शरीरी । १ देहशून्ये ब्रह्मणि २ मीमांसकोक्ते

देवमात्रे च । शरीरमुच्चारयितृत्वेनास्त्यस्य इनि न० त० ।
३ शरीरेणानुचार्य्ये आकाशशब्दे । उभयत्र स्त्रियां ङीप् ।
“वागुवाचाशरीरिणी” भा० आ० प० ।

अशर्म्मन् न० विरोधे न० त० । १ शर्म्मभिन्ने दुःखे न० ब० । २ सुख शून्ये त्रि० ।

अशाखा स्त्री नास्ति शाखा यस्याः । शूलीतृणे राजनि० ।

२ शाखाशून्ये वृक्षमात्रे त्रि० ।

अशान्त त्रि० विरोघे न० त० । शान्तभिन्ने शमहीने “नास्ति

बुद्धिरयुक्तस्य--अशान्तस्य कुतः मुखम्” गीता ।

अशान्ति स्त्री अभावे न० त० । १ शमाभावे न० ब० । २ शमशून्ये त्रि० ।

अशाश्वत त्रि० न शास्वतः । अनित्ये अस्थिरे ।

अशासन त्रि० अभावे न० त० । १ शासनाभावे न० त० । २

शासनशून्ये ।

अशास्त्र न० शास--करणे ष्ट्रन् शास्त्रं वेदादि विरोधे न० त० । वेदादिविरुद्धे नास्तिकागमादौ ।

अशास्त्रीय त्रि० शास्त्रे विहितः छ न० त० । शास्त्राविहिते

निषिद्धे ।

अशास्य त्रि० शास--बा० ण्यत् । शासितुमशक्ये दुर्द्दान्ते ।

अशिक्षित त्रि० विरोधे न० त० । शिक्षाशून्ये

गतिनैपुण्यशून्ये हयादौ ।

अशित त्रि० अश--कर्म्मणि क्त । १ भक्षिते “आपएव तदशितं

नयन्ते” “अन्नमशितं त्रेधा विधीयते” “तेजोऽशितं
त्रेधा विधीयते” इति च छा० उ० । कर्त्तरि क्त । २
अशनेन तृप्ते आशितङ्गवीनः भावे “क्त” ३ अशने न० ।

अशित्र पु० अश--संहतौ इत्र । १ चौरे । भोजनार्थात् कर्म्मणि

इत्र । देवभक्ष्ये २ चरौ ।

अशिथिल त्रि० विरोधे न० त० । शिथिलभिन्ने दृढे ।

अशिपद त्रि० न श्लिपदः पदरोगभेदः वेदे पृ० ललोपः न० ब० ।

श्लिपदरोगशून्ये । “शिवा देवीरशिपदा भवन्तु सर्वाः”
ऋ० ७, ५०, ४ ।

अशिमिद त्रि० “शिमिर्वधकर्म्मा” निरु० शिमिं हिंसां ददाति

दा--क उप० स० । अहिंसके “सर्व्वा नद्यो अशिमिदा
भवन्तु” ऋ० ७, ५०, ४ ।
पृष्ठ ०४७६

अशिर पु० अश--इरच् । १ राक्षसे २ अग्नौ तस्य सर्व्व

भक्षत्वात्तथात्वम् ३ भास्करे ४ वायौ च तयोर्व्यापकत्वात्त-
थात्वम् ६ नार्य्यां स्त्री टाप् ।

अशिरस् पु० नास्ति शिरोऽस्य । १ कवन्धे २ अग्रशून्ये त्रि० ।

अशिरस्स्नान न० न शिरसा स्नानम् । शिरोमज्जनशून्ये स्नाने ।

अशिव न० विरोधे न० त० । १ मङ्गलभिन्ने २ तद्वति

त्रि० ३ उग्रे च ५ व० । ४ अमङ्गलशब्दोक्तेतत्सूचके त्रि० ।

अशिशिषा स्त्री अशितुमिच्छा अश--सन्--भावे अ । भोजने-

च्छायाम् “दृश्यतेह्युत्क्रान्तौ प्राणस्याशिशिषाऽतो व्याद
दातीति” छा० उ० भा० ।

अशिशु पु० विरोधे न० त० । १ शिशुभिन्ने तरुणे “जातमात्रः

शिशुस्तावद्यावदष्टौ समा वयः” इति स्मृत्युक्तवयोऽनिक्रान्ते
२ नववर्षवयस्के च । नास्ति शिशुर्यस्य । ३ शिशुशून्ये त्रि० ।
स्त्रियां ङीप् लोके, वेदेऽपि क्वचित् “आ धेनवोधुनय-
न्तामशिश्वीः” ऋ० ३, ५५, १६ । “नो मा कुत्रानो-
गृहेभ्योधेनवोऽगुःस्तनाभुजो अशिश्वीः” ऋ० १, १२०, ८ ।

अशिष्ट त्रि० न० त० । १ उपदिष्टभिन्ने यस्क शासनं न कृतं

तस्मिन् । शिष्टः साधुः विरोधे न० त० । २ असाधौ
साधुत्वञ्च वेदार्थे विश्वासवत्त्वमिति दिनकरी ३ तद्भिन्ने
नास्तिके ४ पर्णसङ्करकारके व्यभिचारवंतिच “अशिष्टव्यवहारे
दाणः प्रयोगे चतुर्थ्यर्थे तृतीया” वार्त्ति० ।

अशिष्ठ त्रि० अश्नाति अश--अच् अतिशायने इष्ठन् । १ भोक्तृ

तमे २ अग्नौ पु० तस्य सर्ब्बभक्षकत्वात्तथात्वम् । “अशीत-
मेत्यशिष्ठो ह्यग्निः” शत० ब्रा० ।

अशीत न० विरोधे न० त० । १ उष्णस्पर्शे २ तद्वति त्रि० ।

शीतं हिमं तद्बाधा न० ब० । हिमबाधाशून्ये त्रि०
“अशीतास्तरबोमाषे” नीतिः ।

अशीतकर पु० अशीत उष्णः करो यस्य । उष्णांशौ सूर्य्ये अशींतकिरणादयोऽप्यत्र ।

अशीतम पु० अश्नाति अश--बा० इनि ततः तमप् वेदे दीर्घः ।

भोक्तृतमे अग्नौ “अशीतमेत्यशिष्ठो ह्यग्मिः” शत० ब्रा० ।

अशीति स्त्री दशानामवयवं दशतिः दशकम् अष्टगुणिता

दशतिः नि० अशीत्यादेशः । अष्टगुणिते दशके (आशी)
१ संख्याभेदे, २ तत्सङ्ख्यान्विते च । “अशीतिभागो वृद्धिः
स्यान्मासिमासि सबन्धके” या० स्मृ० । अर्वाग्द्वादशवर्षी-
यादशीतेरूर्द्ध्वमेव च” स्मृतिः अशीतिः परिमाणमस्य ठन् ।
अशीतिकः” वत्परिमिते त्रि० ।

अशीर्षिक त्रि० नास्ति शीर्षा यस्य व्रीह्यादि० ठन् । अशीर्ष-

वति १ मस्तकशून्ये २ अग्रशून्ये च ।

अशील न० विरोधे न० त० । १ दुष्टशीले न० त० २ शीलशून्ये त्रि

अशुच् त्रि० नास्ति शुगस्य । शोकशून्ये ।

अशुचि त्रि० विरोधे न० त० । १ शौचशून्ये २ अपवित्रे

मूत्रादौ च । स्त्रियां ङीप् । “अशुच्योनैव तास्तेन येन
वैकारिकं हितत्” शङ्खः । शुचितत्कालजीविनां कर्म्मा-
घिकारित्वेनाशुचेः पर्य्युदस्तत्वम् “अशुचिद्रव्याणि
च अशुद्धिशब्दे वक्ष्यन्ते” व्रतानामुपवासानां श्राड्वादी-
नाञ्च सङ्गमे । करोति यः क्षौरकर्म सोऽशुचिः
सर्वकर्म्मसु” स्मृतिः “त्रिरात्रमशुचिर्भवेत्” स्मृतिः ।
अशुचित्वं च वैदिककर्म्मानर्हत्वप्रयोजकोधर्म्मविशेषः तच्च
कर्त्तृनिष्ठ द्रव्यनिष्ठञ्च । सूतकनिमित्तं दुष्टद्रव्यसंसर्गकृतञ्च
कर्त्तृनिष्ठम् । द्रव्यनिष्ठन्तु वस्तुस्वभावकृतम् “यथा मलमूत्र-
पुरीषास्थि निर्गतं ह्यशुचि स्मृतम् । नारं स्मृष्ट्वा तु
सस्नेहं सचेलं जलमाविशेदित्यादि स्मृत्युक्तं तत्संसर्ग-
युतद्रव्यनिष्ठञ्च अधिकमशुद्धिशब्दे वक्ष्यते । शुचिः शुभ्रः ।
तद्भिन्ने ३ कृष्णवर्ण्णे पु० ४ तद्वति त्रि० स्त्रियां वा ङीप्
तस्य भावः अण् अशौचम् ष्यञ् आशौच्यम् । अशुचिभावे
न० “आशौच्यात् विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च”
स्मृतिः वा पूर्ब्बपदवृद्धिः अशौच्यमपि तत्रैव । अशुचौ
भवः ष्यञ् वा पूर्ब्बपदःदीर्घ अ(आ)शौच्यः तद्भवे त्रि० ।

अशुद्ध त्रि० विरोधे न० त० । १ शुद्धभिन्ने सदोषे २ अपवित्रे च

दोषश्च नानाविधः व्याकरणादिलक्षणाननुसारित्वे शब्दस्य
दोषः शास्त्रनिषिद्धतयाऽनुष्ठाने कर्म्मणां दोष यथा
हिसादेः पापजनकतया सदोषता । स्नानाद्यपनेयमलादेश्च
सदोषता विवरणमशुद्धिशब्दे । “सर्व्वतीर्थेष्वपि स्नातोह्य-
शुद्धः पुनरेव सः” स्मृतिः एतच्च मनःशुद्धिप्रशसार्थवादः ।

अशुद्धि स्त्री अभावे न० त० । १ शुद्ध्यभावे दोषे न० त० ।

२ शुद्धिशून्ये दुष्टे । तत्राशुद्धिस्तत्प्रतियीगितया शुद्धिश्च
निरूपिता हेमाद्रौ श्रा० ख० । ततः सारांशः । अशुद्धिर्नाम
कर्त्तृद्रव्यादेः स्पर्शनाद्यनर्हतापादकोदोषविशेषः शुद्धि
स्तदीयसंस्कारापादिता तन्निवृत्तिः । शुद्धिमतएव
सकलकर्म्मीपयोगयोग्यत्वम् “श्रौतं स्मार्त्तं तथा कर्म्म कर्त्तव्य-
मधिकारिणा । शुचिना साधनैः शुद्धैः सम्यक् श्रद्धान्वितेन
च” व्रह्मा० पुरा० उक्तेः । अतो यथाश्रद्धं शुचिना शुचि-
भिरेव द्रव्यैराचरणीयम् । ते चोभे अपि शास्त्रैकगम्ये ।
नन्वत्र किं शास्त्रेण लोकव्यवहारप्रसिद्धेः शुद्ध्यशुद्ध्योः,
व्यवहरत्येव हि लोको जुगुप्सितमूत्रपुरीषादिसंसृष्टं द्रव्य-
मशुद्धमिति प्रक्षालनाद्यपनीतगन्धञ्च शुद्धमिति, सत्यमयं
पृष्ठ ०४७७
लोकव्यवहारः क्वचिदेव जुगुप्सितस्पर्शोपहतएव द्रव्ये, न
सर्व्वत्र । तत्रापि सामान्यतश्चासौ व्यवहारो न द्रव्यदे-
शकालावस्थादिभेदकृतो, नवा शुद्ध्यशुद्धितारतम्य विशेष-
कृतः । अतः सर्व्वत्र विशेषतश्च शुद्द्यशुद्ध्योः शास्त्रादेव
निश्चयः । यस्तु चण्डालादिस्पर्शादावपि विशेषतश्च
लोकव्यवहारः स तु शास्त्रमूलप्रसिद्धिमाश्रित्यैव यागदानहोमा-
दिषु श्रेयःसाधनत्ववत् । कथं पुनः कार्य्यार्थपरेण धर्म्म-
शास्त्रेण शुद्ध्यशुद्धिरूपस्य सिद्धार्थ स्यावगतिः? श्रुतार्था-
पत्त्येति ब्रूमः । तथाहि यथा दर्शपौर्ण्णमासाभ्यां स्वर्गका-
मोयजेतेत्यादौ क्षणिकानां यागानां श्रूयमाणकालान्तर-
भाविस्वगेसाधनत्वान्यथानुपपत्त्या पुरुषे शुभापूर्व्वसिद्धिः,
यथा च क्षणिकस्यावगोरणस्य श्रुतकालान्तरभाविशतया-
तनासाधनत्वान्यथानुपपत्त्या दुरितापूर्व्वसिद्धिः । तथा मूत्र-
पुरीषादिसंस्पृष्टेन न व्यवहर्त्तव्यम् प्रक्षालनप्रोक्षणादि
संस्कारवता तु व्यवहर्त्तव्यमिति श्रुतव्यवहारनिषेधत
दभ्यनुज्ञानान्यथानुपपत्त्या द्रव्यादिगतशुद्ध्यशुद्धिरूप
सिड्वार्थकल्पना न विरुध्यते । अथ वा शुद्ध्यशुद्धिस्मृतीनां
सिद्धार्थवादपरत्वमेवास्तु तासां च तादृशमेव वेदवाक्यं मूलं
कल्प्यते स्मर्य्यमाणार्थानुसारिणी हि वेदकल्पना । नास्ति
नियमः कार्य्यार्थपरेणैव वेदेन भाव्यभिति “तद्भूतानां
क्रियार्थेन समाम्नायः” इति न्यायेन सिद्धार्थानामपि
विध्येकवाक्यतया प्रामाण्यव्यवस्थापनात् । प्रकृते च
कर्म्मविधायके प्रागुक्त ब्रह्माण्डवाक्ये अधिकारिविशेष-
णतया साधनविशेषणतया च शुद्धेः, अशुद्धेश्च पर्य्युदस्ततया
सिद्धाया अपि विधिनैकवाक्यतया प्रामाण्यसम्भवः । किञ्च
प्रक्षालितेनैव व्यवहर्त्तव्यमिति नियमविधिर्दृश्यते अतो
वेदमूलत्वकल्पना । अतः शुद्ध्यशुद्धी उभे अपि शास्त्रादेवा-
वगम्ये । तदुक्तं “शुद्ध्यशुद्धी ह्यदृष्टत्वाद्विज्ञायेते यथाश्रुति”
तदेवं वसा शुक्रमित्यादिभिरशुद्धिवचनैरशुद्धिर्गम्यते जलेनैव
विशुध्यतीत्यादिभिश्च शुद्धिर्विधीयते । अतोऽष्टकादिस्मृति-
वत् वेदमूले एव शुद्धयशुद्धिस्मृती । शुद्धिवचनैश्चाशुद्धिराक्षि-
प्यते शुद्धिर्हि मूत्राद्युपघातेनाशुद्धानां द्रव्याणां संस्कार-
रूपा कर्त्तव्यतया विधीयते न पुनः श्रुड्वानाम्, न हि
सुवर्ण्णादयः भावा स्वभावेनाशुद्धाः येन प्रयोगकाले
शुद्धिमपेक्षेरन् । अथादृष्टार्थं व्रीहिप्रोक्षणवत् प्रयोगकाले
संस्कारोविधीयते इति चेत् न तथात्वे अशुड्विज्ञापकं
वचनं विरुध्येत अतः सिद्धं शुद्ध्यशुद्ध्योः शास्त्रगम्यत्वम् ।
तत्र शुद्धिर्नानाविधाऽपि संक्षेपात् द्विविधा बाहवा
आभ्यन्तरा च । यथा “अथातः शौचाध्यायं व्याख्या
स्यामस्तद्द्विविधम् बाह्यमाभ्यन्तरञ्च आन्तर शौचं नाम
तद्यदहङ्कारनिन्दितेभ्यो मनो निवर्त्तते, बाह्यमपि
गन्धलेपस्नेहोपघातेऽद्भिरनिष्टपुरुषस्पर्शने प्रोक्षणा-
च्छुचिरित्यशुचिप्रतिषेधः, हृदयशौचमनुतप्तता साधुता,
कर्म्मशौचमगर्हितकर्म्मण्यता, शरीरशौचं मृद्भिरद्भिश्च,
वाचाम् अप्रियानृतनिष्ठुर्य्यवर्जनम्, मनसो मिथ्यासंकल्प-
प्रतिषेधः, बुद्धेर्ज्ञानम् । श्रूयते द्विविधं शौचं यच्छिष्टैः
पर्य्युपासितम्” । “बाह्यं निर्लेपनिर्गन्धमन्तःशौचमहिं-
सनम्” इति च उश० । “अद्भिः शुध्यन्ति गात्राणि
बुद्धिर्ज्ञानेन शुध्यति । अहिंसया च भूतात्मा मनः सत्येन
शुध्यति” इति “कालोऽग्निर्मनसः शुद्धिरुदकाद्यनुलेपनम्
अविज्ञानञ्च भूतानां षड़्विध शौचमुच्यते । देशं कालं
तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च
परिज्ञाय यथाविधि । शौचज्ञः कुशलो धर्म्मे धर्म्मेप्सुः शौच
माचरेत्” इति च बौधा० “अनिलानलसोमसूर्य्यका-
ञ्चनरजतभस्मतोयताम्रैः, अजमुखवालधिगोमयरजआद्यैः
स्पर्शगुणैरिह मेध्यतां नयन्ति” हारी० “आत्मयाजिनां
शरीरस्याद्भिर्मृद्भिश्च, ज्ञानेन बुद्धेः, तपसा पापानां,
सन्तानजानां मातृपैतृकाणां दोषाणां यमनियममन्त्रव्रतो-
पवासादिभिः” शङ्खलि० “ज्ञानं तपोऽग्निराहारो मृण्मयो
वार्य्युपाञ्जनम् वायुः कर्म्मार्ककालौ च शुद्धिकर्त्तॄणि-
देहिनाम्” सर्बेषामेव शौचानामन्नशौचं परं स्मृतम् ।
योऽन्ने शुचिर्हि स शुचिर्न मृद्वारि--शुचिः शुचिः ।
क्षान्त्या शुध्यन्ति विद्वांसोदानेनाकार्य्यकारिणः । प्रच्छ-
न्नपापाजप्येन तपसा वेदवित्तमाः । शोध्यं शध्यति
मृत्तोयैर्नदी वेगेन शुध्यति रजसा स्त्री मनोदुष्टा संन्यासेन
द्विजोत्तमाः । अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
मनुः “कालोऽग्निः कर्म्म मृद्वारि मनोज्ञानं तपो
जलम् । पश्चात्तापो निराहारः सर्वेषां शुद्धिहेतवः ।
अकाय्यकारिणां दानम्” क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः
परमा मता” या० स्मृ० “सत्यं शौचं तपः शौचं शौचमिन्द्रि
यसंयमः । सर्व्वभूतदया शौचमद्भिस्तु पञ्चमं मतम्” यमः
“गात्रं मृदम्भसा शुध्येच्चित्तं भूतानृशंसनात् । विद्यया
तपसा देही मतिर्ज्ञानेन शुध्यति । स्वाध्यायेनानुतापेन
होमेन तपसैव च । ध्यानेन क्षेत्रवासेन दानेनेह
परिक्षयः । परापवादाश्रवणं परस्त्रीणामदर्शनम् । एत
च्छौच श्रोत्रदृशी र्जिह्वाशुद्धिरपैशनम । अप्राणिवधमस्तयं
पृष्ठ ०४७८
शुचित्वं पादहस्तयोः । असंश्लेषः परस्त्रीणां शारीरं
शौचमिष्यते” वृह० । “उच्छिष्टोपघातेऽभ्युक्षणाच्छु चिर्वि-
ण्मुत्रं संस्पृश्योन्मृज्याचम्य प्रयतोभवेत्” पैठी० “प्राणि-
नामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् । अत्यन्तोपहतानाञ्च
शौचं नान्यत्” विष्णुः । “विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य्या
देयमर्थवत् । दैहिकानां मलानाञ्च शुद्धिषु द्वादश
स्वपि । वसा शुक्रमसृङ् मज्जा मूत्रविट् घ्राणकर्ण्णविट् ।
श्लेष्माश्रु दूषिकामेदो द्वादशैते नृणां मलाः” मनुः “तथा
शरीरस्रोतोभ्यो मल निष्यन्दविस्रवः । अन्त्रादीनां प्रदेशश्च
स्यादशुचिर्विशेषतः । प्रभूताशुच्यमेध्यानां स्पर्शनाच्चा
शुचिर्भवेत् । स्वप्नाद्वस्त्रविपर्य्यासात् क्षुताद्बुद्धिपरिभ्रमात् ।
उक्त्वा वाचमनाच्छुद्ध्विरनृतं क्रूरमेव वा । अपविद्धं धनुर्लक्ष्यं
दृष्ट्वा वा अशुचिर्भवेत् । प्रलेपस्नेहगन्धानामशुचौ चापक-
र्षणम् । शौचलक्षणमित्याहुर्मृदम्भोगोमयादिभिः । लेपे
स्नेहे च गन्धे च व्यपकृष्टे च दूरतः । पश्चादाचमनञ्चैव
शौचार्थं वक्ष्यते विधिः” देवलः । “दुष्टाभिशस्तपतित
तिर्य्यगधोवर्ण्णोपहतानां संस्पर्शाच्चास्यस्वेदतोयपूयशो-
णितछर्द्दिलालानिष्ठीवितरेणुकर्द्दमोच्छिष्टजलविण्मूत्रपुरी-
षादिभिर्बाह्यशरीरोपघातिभिरुपपूताभिरद्भिर्मृद्भिश्च भस्म-
गोमयौषधिमङ्गलाचारविधिप्रयुक्तैर्बाह्यशरीरोपघातात्
पूतोभवति” हारीतः । “चिताधूमसेवने सर्व्वे वर्ण्णाः
स्नानमाचरेयुः । मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे
वमनविरेकयोश्च । श्मश्रुकर्म्मणि कृते च । शवं
शवस्पृशञ्च स्पृष्ट्वा रजस्वलाचाण्डालयूपांश्च । भक्ष्यवर्ज्जं
पञ्चनखशवं तदस्थि सस्नेहञ्च । सर्व्वेष्वेतेषु पूर्व्वं वस्त्रं
नाप्रक्षालितं बिभृयात् । रजस्वला, चतुर्थेऽह्नि स्नानाच्छु-
ड्व्यति । रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावद-
श्नीयाद्यावन्न शुद्धा । सवर्णामधिकवर्णां वा स्पृष्ट्वा स्नात्वा-
ऽश्नीयात् । क्षुत्वा सुप्त्वा भोजनाध्ययने पीत्वा स्नात्वा
निष्ठीव्यं वासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषे कृत्वा
पञ्चनखस्य सस्नेहास्थि स्पृष्ट्वा चाचामेत् । चाण्डाल-
म्लेच्छसम्भाषणे च । नाभेरधस्तात् प्रबाहुषु च कायिकै-
र्मलैः सुराभिर्वोपहतोमृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्यति ।
अन्यत्रोपहतोमृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन । वक्त्रोपहत-
स्तूपोष्य स्नात्वा पञ्चगव्येन । दशनच्छदोपहतश्च । वसा
शुक्रमसृङ्मज्जामूत्रविट्कर्णविङ्नखाः । श्लेष्माश्रु दूषिका
मेदोद्वादशैते नृणां मलाः । गौड़ी माध्वी च पैष्टी च
विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्व्वा न पातव्या
द्विजातिभिः । माधूकमैक्षवं टाङ्कं कौलं खार्ज्जूरपानसे ।
मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् । अमेध्यानि
दशैतानि मद्यानि ब्राह्मणस्य च । राजन्यश्चैव वैश्यश्चस्पृष्ट्वैतानि
न दुष्यतः “ज्ञानं तपोग्निराहारोमृद्मनोवार्य्युपाञ्जनम् ।
वायुःकर्म्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम्” विष्णुः ।
“ऊर्द्ध्वं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । तत्र
स्नानमधस्तात्तु क्षालनेनैव शुध्यति । इन्द्रियेऽनुप्रविष्टं
स्यादमेध्यं यदि कर्हिचित् । मुखेऽपि संस्पृश्यमानं तत्र
स्नान विशोधनम्” अङ्गि० । “रथ्या कर्द्दमतोयेन ष्ठीव-
नाद्येन वा तथा । नाभेरूर्द्ध्वं नरः स्पृष्ट्वा सद्यः स्नानेन
शुध्यति” “शङ्खः “सकर्द्दमेषु वर्षासु प्रविश्य ग्रामसङ्करम् ।
जङ्घाभ्यां मृत्तिकास्तिस्रः पद्भ्यां च द्विगुणाः स्मृताः”
यमः । “दिवाकीर्त्तिमुदक्यां च सूतिकां पतितं तथा ।
शवं तत्स्पृष्टिनञ्चैव स्पृष्ट्वा स्नानेन शुध्यति । आचम्य
प्रयतोनित्यं जपेदशुचिदर्शनात् । सौर्य्यान्मन्त्रान्
यथोत्साहं पावमानीश्च शक्तितः । नारं स्पृष्ट्वास्थि
सस्नेहं स्नात्वा विप्रोविशुध्यति । आचम्यैव तु निःस्नेहं गां
स्पृष्ट्वा वीक्ष्य वा रविम् । वान्तोविरेकी क्षुत्वा च घृतप्राश-
नमाचरेत् आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम्”
मनुः । मैथुनिनः स्नाममृतौ गर्भशङ्कायामेव “अनृतौ
तु यदा गच्छेच्छौचं मूत्रपुरीषवत्” शातातपोक्तेः ।
“अजीर्ण्णेऽभ्यादिते वान्ते श्मश्रुकर्म्मणि मैथुने । दुःस्वप्ने
दुर्जनस्पर्शे स्नानमात्रं विधीयते । शुना चैव शूमाकेन
मृतनिर्हारकेण वा । स्पृष्टमात्रस्तु कुर्व्वीत सेचनं प्लावनं
जलैः” मनुः “दुःस्वप्नदर्शने चैव वान्ते वा क्षुरकर्म्मणि ।
मेथुने कटधूमे च सद्यः स्नानं विधीयते । पतितं सूतिका-
मन्त्यं शवं स्पृष्ट्वा तु कामतः । स्नात्वा सचेलं हुत्वाग्निं
घृतं प्राश्य विशुध्यति । शवस्पृशं दिवाकीर्त्तिं चितायूपं
रजस्वलाम् । स्पृष्ट्वा प्रमादतोविप्रः स्नानं कृत्वा विशुध्यति”
वृह० । उदक्याशुचिभिः स्नायात्” या० स्मृ० उदक्या-
दिस्पृष्टैः स्पृष्टः स्नायात् हेमा० । “चण्डालं पतितं व्यङ्ग
मुन्मत्तं शवमन्त्यजम् । सूतकं सूतिकां नारीं रजसा
च परिप्लुताम् । श्वकुक्कुटवराहांश्च ग्राम्यान् संस्पृश्य
मानवः । सचेलं सशिरः स्नातः तदानीमेव शुध्यति ।
वृद्धशाता० । “श्वपाकं पतितं व्यङ्गमुन्मत्तं शवहारकम् ।
सूतकमित्यादिशातातपवत्” परा० “अशुद्धान् स्वयमेवैतान
शुद्धश्च यदा स्पृशेत् । विशुध्यत्युपवासेन” “उपस्पृश्या-
शुचिस्पृष्टं तृतीयमपि मानवः । हस्तौ पादौ च तोयेन
पृष्ठ ०४७९
प्रक्षल्याचम्य श्रुध्यति” इति च देवलः । “मानुषास्थि
बसाविष्ठामार्त्तवं मूत्ररेतसी । मज्जानं शोणितं वापि
परस्य यदि संस्पृशेत् । स्नात्वा प्रमृज्य लेपादीनाचम्य स
शुचिर्भवेत् । तान्येव स्वानि संस्पृश्य पूतःस्यात् परिमार्ज्ज
नात्” देव० । “चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी ।
एतांस्तु व्राह्मणः स्पृष्ट्वा सचेलोजलमाविशेत्” । परा० ।
“श्वपचमूषिकप्रेतहारकशवानि संस्पृश्य देवीराप इत्यभि-
मन्त्रितैर्जलैः स्नातः पूतोभवत्यजीर्ण्णवान्ते श्मश्रु-
कर्म्मणि पशुदिवामैथुने च” हारोतः “अथ सांस्प-
र्शिकं व्याख्यास्यामः “चण्डालश्मशानमृतहारकरज-
स्वलासूतिकाः संस्पृश्याऽनुदितेऽस्तमिते स्कन्दित्वा चाप्सु-
स्कन्दित्वाक्षिस्यन्दने कर्ण्णक्रोशने चित्याहरणे यूपसंस्पर्शने”
इत्युपक्रम्य “सचेलं स्नात्वा पुनर्मानो जपेत्” कश्य० । “श्वानं
श्वपाकं प्रेतधूमं देवद्रव्योपजीविनं ग्रामयाजकं यूपं
चितिं चितिकाष्ठं समद्यभाण्डं सस्नेहं मानुषास्थि
शवस्पृशं रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचेल-
वासा अम्भोऽवगाह्यीत्तीर्य्याग्निमुपस्पृशेन्” च्यव०
“शुना घ्रातावलीढ़स्य नखैर्विदलितस्य वा । अद्भिः प्रक्षालनं
प्रोक्तमग्निना चोपधूननम्” शाता० । अशुचिं संस्पृशेद्यस्तु
एकएव स दुष्यति । तं स्पृष्ट्वान्यो न दुष्येत्तु सर्व्वद्रव्येष्ययं
विधिः” वृद्धशा० । “यस्य स्पर्शे आचमनमात्रं सोऽत्राशुचिः”
हेमा० । “श्ववराहखरानुष्ट्रान् वृकगोमायुवानरान् ।
काककुक्कुटगृध्रांश्च स्पृष्टा स्नानं समाचरेत्” संव० ।
“भासवानरमार्जारखरोष्ट्राणां शुनां तथा । शूकराणाम-
मेध्यस्य स्पर्शे स्नानं सचेलकम्” व्यासः “पण्ड्रकं कुक्कुटं
काकं श्वशृगालशिवावृकान् । चितियूपश्मशानानि विड़्-
वराहखराशुचीन् । अवकीर्ण्णिनमन्त्यं च स्पृष्ट्वा स्नानं
विधीयते” हारी० “अभोज्यसूतिकाषण्डमार्जाराखुश्व-
कुक्कुटान् । पतिताविद्धचाण्डालं मृतहारांश्च धर्म्मवित् ।
संस्पृशन् शुध्यति स्नानात्” मार्क० पु० । “बौद्धान् पाशुपतान्
जैनान् लौकायतिककापिलान् । विकर्म्मस्थान् द्विजः स्पृष्ट्वा
सचेलोजलमाविशेत् । कापालिकांस्तु संस्पृश्य प्राणायामी-
ऽधिको मतः” षट्त्रि० । “शैवान् पाशुपतान्
स्पृष्ट्वा लौकायतिकनास्तिकान् । विकर्म्मस्थान् द्विजान्
शूद्रान् सवासा जलमाविशेत्” ब्रह्मा० पुरा०
“शूद्रोच्छिष्टं द्विजः स्पृष्ट्वा उच्छिष्टं शूद्रमेव च ।
शुचिरप्यवगाह्यैव सचलं स्नानमाचरेत्” छाग० “स्पृष्ट्वा
देवलकं चैव सवासा जलमाविशेत्” संव० “रजकश्चर्म्म
कृच्चैव ब्रात्यध्वजोपजीविनौ । निर्णेजकः शोण्डिकश्च
नटः शैलूषकस्तथा । मुखेभगस्तथा श्वा च वनिता सर्व्व-
वर्णगा! चक्री ध्वजी व्याधयाजी” इत्युपक्रम्य “एभिर्यदङ्गं
संस्पृष्टं शिरोवर्जं द्विजातिषु । तोयेन क्षालनं कृत्वा
आचान्ताः प्रयता मताः” शाता० । “उर्द्ध्वं नाभेः
करौमुक्त्वा यदङ्गं स्पृशते खगः । स्नानं तत्र प्रकर्वीत शेषं
प्रक्षाल्य शुध्यति” जातू० । “नीलीं नीलीविकारं च
मानुषास्थीन्यपि द्विजः । चण्डालपतितच्छायां स्पृष्ट्वा स्नानं
समाचरेत्” संव० “स्पृष्ट्वा रुद्रस्य निर्म्माल्पं सवासा आप्लुतः
शुचिः” स्कन्द० पु० “अष्टम्यां च चतुर्द्दश्यां दिवा पर्व्वणि
मैथुनम् । कृत्वा सचेलं स्नात्वा च वारुणीभिश्च मार्जयेत्”
शाट्यायनिः । “रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला”
अङ्गि० “रजस्वला चतुर्थेऽह्नि स्नानाच्छुड्विमवाप्नुयात्”
शङ्खः “शुद्धा भर्त्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला । दैवे
कर्म्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति” अङ्गि० । “रोगेण
यद्रजः स्त्रीणामत्यर्थं तु प्रवर्त्तते । अशुच्योनैव तास्तेन
येन वैकारिकं हि तत्” शङ्ख० “अकाले यद्भवेत् स्त्रीणाम्
रक्तमाहुर्मनीषिणः । काले तु तद्रजः प्रोक्तं तस्मात्तत्रैव
साऽशुचिः” छाग० । एवमन्यान्यपि तद्बोधकान्यनुसन्धेया-
नि । शुचितत्कालजीविनः कर्म्माधिकारित्वेन शुद्धेः कर्त्तृ-
विशेषणतया कर्म्माङ्गत्वमशुद्धेश्च तदधिकारित्वाभावः एवं
तयोः कर्त्तृविशेषणतया कर्म्माधिकाराङ्गानङ्गत्वे निरू-
पिते । इदानीं द्रव्याणामपि कर्म्माङ्गतया द्रव्य-
गतशुद्ध्यशुद्धी निरूप्येते तत्र कालरूपद्रव्यस्याशुद्धिः
३९ पृष्ठे अकालशब्दे उक्तप्राया । पर्य्युदस्तकालानां तु
कर्मानङ्गंत्वेऽपि नाशुद्धत्वम् । “रात्रौ श्राद्धं न कुर्वीत”
“आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जयेत्” राक्षसी
नाम सा वेला गर्हिता सर्व्वकर्मसु” इत्यादौ तत्तत्-
कर्मणां तदितरकाले कर्त्तव्यतामात्रं बोध्यते न तु तेषा-
मशुद्धत्वमप्रि तेन सन्ध्यावन्दनादेः सन्ध्यारात्र्योः कर्त्त-
व्यताबिधायकं “पश्चिमां तु समासीनोयावत्तारकद-
र्शनमित्यादि” “दिवोदितं यत् कर्म्मेत्युक्रम्य शर्वर्य्याः प्रथमे
यामे तत् कुर्वीताविचारयन्नित्यादि” च शास्त्रं
सार्थकम् । अपरद्रव्यगते शुद्ध्यशुद्धी तावदिदानीं निरू-
प्येते । तत्रादौ द्रव्यशुद्ध्यशुद्धिसम्पादकं द्रव्यादिकमुच्यते ।
“शारीरैर्मलैः सुराभिर्मद्यैर्यदुपहतं तदत्यन्तोपहतम् । अत्य-
न्तोपहतं सर्व्वलौहभाण्डमग्नौ प्रक्षिप्तं शुध्येत्’ मणिमय
मश्मेमयमब्जं च सप्तरात्रं महोनिस्यनेन शुध्येत् दन्ता-
पृष्ठ ०४८०
स्थिभवं सं तक्षणेन, दारवं मृण्मयञ्च जह्यात् । अत्यन्तो-
पहतस्य प्रक्षालितस्य त्रिरवद्य तच्छिन्द्यात्” विष्णुः
“अत्यन्तोपहतानां सर्व्वतैजसानामग्निना शौचं मृण्मयच-
र्मणां त्यागः, तन्मात्रच्छेदमित्येके धारणं हि नववाससां
शौचमित्याचार्य्याः तस्मात् सर्व्ववाससामाप्लावनादेव
शुद्धिः” हारी० “तैजसानां कुणपरेतोमूत्रपुरीषो-
पहतानामावर्त्तनमुल्लेखनं भस्मना त्रिःसप्तकृत्वः परिमार्जन
मुच्छेदनं वा” शङ्खलि० “मूत्रपुरीषासृक्कुणपस्पृष्टानां
तैजसानां पात्राणां पूर्व्वोक्तानामन्यतमेन त्रिःसप्तकृत्वः
परिमार्ज्जनम्” “क्षौमाणि वासांसि तेषामलाभे कार्पासिका
न्यौर्ण्णकानि भवन्ति मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां
मृदाद्भिः प्रक्षालनं वासोवदूर्ण्णावल्कलानां, वल्कलवत्
कृष्णाजिनानाम्” इति च बौधा० “मद्यैर्मूत्रपुरीषैश्च श्लेष्म
भिरश्रुशोणितैः । संस्पृष्टं नैव शुध्येत पुनःपाकेन मृण्म-
यम् । एतैरेव यदा स्पृष्टं ताम्रसौवर्ण्णराजतम् । शुध्यत्या-
वर्त्तितं पश्चादन्यथा केवलाम्भसा” शङ्खवशिष्ठकाश्यपाः
“अलाबुदारुपात्राणां वैदलानां तथैव च । अत्यन्तोपहता-
नाञ्च परित्यागो विधीयते । अत्र मूत्रपुरीषाभ्यां रेतसा
रुधिरेण च । चेलं यदुपहन्येत पुनः प्रक्षालयेत्तु तत् ।
यद्यम्भसा न शुध्येत्तु वस्त्रं वोपहतं दृढ़म् । छेदनं तस्य
दाहो वा यन्मात्रमुपहन्यते । मृत्तिकाक्षारपातेन अशुद्धं
तत् परित्यजत्” यमः । “वस्त्रवैदलचर्माद्ये शुद्धिः प्रक्षालनं
स्मृतम् । अतिदुष्टस्य तन्मात्र त्यजेच्छित्त्वात्मशुद्धये”
वृह० । “दूषितं वर्जितं दूष्य कश्मलं चेति
लिङ्गिनाम् । चतुर्विधममेध्यं च सर्व्वं व्याख्यास्यते पुनः ।
शुच्यप्यशुचिसंस्पृष्ट द्रव्यं दूषितमुच्यते । अभक्ष्यभोज्यपेयानि
वर्ज्जितानि हि वक्ष्यति । न्यङ्कुः पतितचण्डालौ ग्राम
शूकरकुक्कटौ । श्वा च नित्यं विवर्ज्याःस्युः षड़ेते धर्मतः
समाः । सव्रणः सूतकी सूती मत्तोन्मत्तौ रजस्वला ।
मृतबन्धुरशुद्धश्च वर्ज्यान्यष्टौ स्वकालतः । स्वेदाश्रुविन्दवः
फेनोनिरस्तं नखरोम च । आद्रचर्म त्वगित्येतद् दूष्यमाहु
र्द्विजातयः । मानुषास्थिकफोविष्ठारेतोयूत्रार्त्तवानि
च । कुणपः पूयमित्येतत् कश्मलं चेत्युदाहृतम् । दूषिते
प्रोक्षितेनापि शुद्धिरुक्ता विधानतः । दूष्ये मार्ज्जन-
संस्कारैः कश्मले सर्व्वथा भवेत्” देवलः । अथभूमि शुद्ध्य-
शुद्ध्युपायादि । “प्रसूते गर्भिणी यत्र म्नियते यत्र
मानुषः । चण्डालैरुषितं यत्र यत्रोपन्यस्यते शवः ।
विण्मूत्रे चाहिते यत्र कुणपोयत्र दृश्यते । एवं कलमश
भुयिष्टा भूरमेध्येति लक्ष्यते । कृमिकीटपदक्षेपैर्दूषिता
यत्र मेदिनी । त्रप्सया कर्षणेः क्षिप्ता वान्तैर्वा दूष्यतां
व्रजेत् । नखदन्ततनूजत्वक्तुषपांशुरजोमलैः । भस्मपङ्क
तृणैर्वापि प्रच्छन्ना मलिना भवेत् । पञ्चधा वा चतुर्द्धा
वा भूरमेध्या विशुध्यति । दूष्या द्विधा त्रिधा वापि
शोध्यते मलिनैकधा । दहनं खनन भूमेरुपलेपनवापने ।
पर्ज्जन्यवर्षणं चेति शौचं पञ्चविधं स्मृतम्” देव० । त्रप्सा
घनीभूतश्लेष्मा “संमार्जनेनाञ्जनेन सेकेनोल्लिखनेन च । गवां
च परिवासेन भूमिः शुध्यति पञ्चभिः” मनुः । “खननात्
पूरणाद्दाहाल्लेपनादभिघर्षणात् । गोभिराक्रमणात् कालाद्भूमिः
शुध्यति सप्तभिः” यमः । “घनाया भूमेरुपघाते उपलेपनम्
सुषिरायाः कर्षणम् आच्छन्नाया मेध्यमाहृत्य प्रच्छादनम्
चतुर्भिः शोध्यते भूमिः गोभिराक्रमणात् खननाद्दहना-
दभिघर्षणात् पञ्चमाल्लेपनात्” बौधा० “कर्षणमुपलेपन-
मद्भिरभ्युक्षणं कालोदाहश्च भूमेः” शङ्खलि० शुद्धिरिति शेषः ।
“खननात् पूरणाद्दाहाल्लेपनादभिघर्षणात् । गोभिराक्र-
मणात् कालात् भूमिरेभ्यो विशुध्यति” हारी० । “मार्जनोपा-
ञ्जनैर्वेश्म प्रोक्षणेन च पुस्तकम् । मार्ज्जनेनाञ्जनेनापि सेके-
नोल्लेखनेन च । दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम्”
विष्णुः “गोचर्म्ममात्रमब्विन्दुर्गोः (भूमेः) शोधयति
पातितः समूढ़मसमूढ़ं वा यत्र लेपो न दृश्यते” बौधा
मृतौ वर्ण्णादिशेषे कालभेदः । श्वशूद्रपतिताश्चान्त्या मृता-
श्चेद् द्विजमन्दिरे । शौचं तत्र प्रवक्ष्यामि मनुना भाषितं
यथा । दशरात्राच्छुनि प्रेते मासात् शूद्रे भवेच्छुचिः ।
द्वाभ्यां तु पतिते गेहे अन्त्ये मासचतुष्टयात् । अत्यन्ते वर्ज-
येद्गेहमित्येवं मनुरब्रवौत्” वृ० मनुः । अत्यन्त्यः श्वपाकः ।
द्विजस्य मरणे वेश्मविशुध्यति दिनत्रयात् । दिनैकेन
बहिर्भूमि रग्निक्षेपप्रलेपनैः” यमः । यथोक्तकालानन्तर कर्त्तव्यमाह
संवर्त्तः गृहश्रुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिते । प्रोत्सार्य्य
मृण्मयं पात्र सिद्धमन्न तथैव च । गृहादपास्य तत्सर्वं
गोमयेनोपलेपयेत् । गोमयेनोपलिप्याथ छागेनाघ्रापये-
द्वुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिभिः । सर्व्व-
मभ्युक्षयेद्वेश्म ततः शुध्यत्यसंशयः । “दारुवदस्थि
भूभ्योरावपन च भूमेः” गौत० “मार्जनाद्वेश्मनां शुद्धिः”
क्षितेः शुद्धिस्तु सप्तभिः” शङ्खः । अशुद्ध्यपवादः “ब्राह्वणावसथे
भूमिर्देवागारे तथैवच । मेध्या चैव सदा मन्ये गवां गोष्ठे
च या भवेत्” यमः । “रथ्याकर्द्दमतोयानि नावः पन्थास्तृ-
णानि च । स्पर्शनान्न प्रदुष्यन्ति पक्वेष्टरचितानि च” परा०
पृष्ठ ०४८१
रथ्याकर्द्दमतोयानि स्पृष्टान्यन्त्यैश्च वायसेः । मरुतार्केण
शुध्यन्ति पक्वेष्टरचितानि च । तथैभिश्च विशुध्यन्ति सूर्य्यसो
मांशुमारुतैः” विष्णुः । अथ मृत्तिकाशुद्धिः
“वल्मीकादुत्कराल्लेपाज्जलाध्वपथिवृक्षयोः । कृतशौचावशि-
ष्टाश्च न ग्राह्याः सप्न मृत्तिकाः । शुचिदेशे च संग्राह्याः
शर्कराश्मादिवर्ज्जिताः” शाता० । अथ पक्वान्नादिशुद्ध्युशुद्ध्यु
पायाः । “केशकीटक्षुतघ्रातं वायसोपहतञ्च यत् क्लीवाभि-
शस्तपतितैः सूतिकोदक्यनास्तिकैः । दूष्यं वा स्याद्यदन्नं
तु तस्य निष्कृतिरुच्यते । अभ्युक्ष्य किञ्चिदुद्धृत्य तद्भुञ्जीता
विशङ्गितः । भस्मना वापि संस्पर्श्य संस्पर्श्य वोल्मुखेन च ।
सुवर्ण्णरजताभ्यां च भोज्यं घ्रातमजेन वा” । घृतं सपायसं
क्षीरं तथैवेक्षुरसो गुड़ः । शूद्रभाण्डस्थितं तक्रं तथा मधु
न दुष्यति” शाता० “त्वक्केशकीटरोमनखाश्रुपुरीषाणि
दृष्ट्वा तद्देशपिण्डान्नमुद्धृत्याद्भिरभ्युक्ष्य भस्सनावकार्य्याभि-
घार्य्यपुनरपि प्रोक्ष्य वाचा प्रशस्तम् ॐ भूर्भुवः स्वरित्युपरि
परिशीध्य च पुनरेवोपयुञ्जीत” बौधा० । “मसू-
रमाषसंयुक्तं तथा पर्य्युषितं च यत् । तत्तु प्रक्षालितं
कृत्वा भुञ्जीत ह्यभिघारितम्” यमः “माषाराजमा-
षाः” हेमा० । पर्य्युषितभीजनविधानमापद्विषयम्
“शुक्तानि हि द्विजोऽन्नानि न भुञ्जीत कदाचन । क्षालयि-
त्वा तु निर्दोषाण्यापद्धर्म्मगतो यदा” तस्यैव वचनान्त-
रात् “मक्षिकाकेशमन्नेषु पतितं यदि दृश्यते ।
मूषिकस्य पुरीषं वा क्षुतं यच्चावधूनितम् । भस्मनास्पृश्य
वाश्नीयादभ्युक्ष्य सलिलेन वा” यमः । क्षुतेनाक्रान्तमवक्षुतम्
अवधूनितं वस्त्रेण । “अवक्षुतं काकपतङ्गकीटैरुदक्यया
वा पतितैश्च दृष्टम् । अलातभस्माम्बुहिरण्यछागैः संस्पृष्ट-
मन्नं मनुराह भेज्यम्” यमः । अस्यापवादः “मक्षिका मशका
दंशा घुणा सूक्ष्मपिपीलिका । आमिषामेध्यसेवी च नैते कीटा
निसर्गतः । यम “पाक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् । दूषितं
केशकीटैश्च मृत्प्रक्षेपेण शुध्यति” मनुः । गोध्रातेऽन्ने
तथा केशमक्षिकाकीटदूषिते । सलिलं भस्म मृद्बारि प्रक्षेप्तव्यं
विशुद्धये । अत्र मक्षिका विंष्ठामक्षिका “केशकीटक्षुतनिष्ठीवितं
वचोऽभिहतं श्वभिराघ्रातं प्रेक्षितं यच्च पर्य्युषितम् पुनः
सिद्धं चण्डालेनावेक्षितमभोज्यमन्नमन्यत्र हिरण्योद-
कस्पर्शात्” सुमन्तुः “आकरजानां त्वभ्यवहरणीयानां घृते-
नाभिघारितानां शुद्धिः पुनःपचनमेव स्नेहानां, स्नेह-
वद्रसानां, संहतानामद्भिः प्रीक्षणमतिद्रवाणामुत्पवनम,
शुष्काणामुद्धृतदोषाणां संस्कारः परिप्लावितानां, दोषाणां
ततस्त्यागः” शङ्खलि० । “परोक्षमन्नं संस्कृत्य अग्नावधि
श्रित्याद्भिः प्रोक्षेत्तदन्नं पवित्रम्” आप० । “अनिष्टगन्धोप-
घ्राणश्रवणदर्शन केशकीटपिपीलिकाभिरन्नाद्योपघाते काञ्चन
रजतवैदूर्य्यप्रबालगोबालाजिनदर्माणामेकतमेनाद्भिः
संस्पृष्टेन मन्त्रप्रोक्षणं पर्य्यग्निकरणमादित्यदर्शनात् पूतं
भवति वह्वन्नोपघाते ब्राह्मणमत्या तदन्तरमपनीय अजमव-
घ्राप्य पूतं भवति त्यागोरसमयानाम्” हारी० । सिद्ध
हविषां महतां श्ववायसप्रभृत्युपहतानां तद्देशपिण्डमुद्धृत्य
“पवमानः सुवर्ज्जन” इत्यनुवाकेनाभ्युक्षणं मधूदके
पयोविकारे च पात्रान्तरनयने शुड्विः एवं तैलसर्पिषी, उच्छिष्ट
समन्वारब्धेतूदकेऽवधायोपयोजयेत्” वौधा० उच्छिष्टसम-
न्वारब्धे उच्छिष्टसंस्पृष्टे” हेमा० । पयोदधिविकारादि
शुचि पात्रान्तरे स्थितम् । पावनोत्पवनाभ्यां च पर्य्यग्नि-
करणेन च” लौगा० “पवनं वस्त्रादिना गालनम्
उत्पवनं दर्भपवित्रेण “सवितुष्ट्वाप्रसव उत्पुनामि” इत्यनेन
मन्त्रेण संस्करणम् । “आममांसं घृतं क्षौद्रं स्नेहाश्च
फलसम्भवाः । म्लेच्छभाण्डस्थिता दुष्टा निष्क्रान्ताः शुचयः स्मृताः”
यमः “श्रपणं घृततैलानां प्लावनं गोरसस्य च । भाण्डा-
नि प्लावयेदद्भिः शाकमूलफलानि च । सिद्धमन्नं तथा
सर्पिः क्षीरञ्च दधि चाम्बु च । एतेषामवलीढ़ानां तैजसी
शुद्धिरिष्यते काकमार्जारनकुलसर्पमूषिकपक्षिभिः ।
संस्कतं तु यदाह्यग्रमवलिह्येत केनचित् । मुवर्ण्णवर्ण्ण
ताम्नोष्णैर्गोबालै रजतेन वा । स्पृष्टमेकतमेनापि भोज्यं
घ्रातमजेन वा” शङ्ख० । तैजसी शुद्धिः पर्य्यग्निकरणम् ।
इयं शुद्धिः केशादिकं दूषकमुद्धृत्य कार्य्या” हेमा० ।
“घृतदधिपयस्तक्राणामाकरस्थितानामदोषः” ङ्खः
“आधारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ।
घृतं तु पायसं क्षीरं तथैवेक्षुरसं गुड़म्” द्रव-
द्रव्याणि भूरीणिं परिप्लाव्यानि वाम्भसा । शस्यानि
व्रीहयश्चैव शाकमूलफलानि च । त्यक्त्वा तु दूषितं भाग
माप्लाव्याथ जलेन च । ब्रह्मा० पु० । “द्रोणादभ्यधिकं सिद्ध
मन्नमुपहतं न दुष्यति । तस्यीपहतमात्रमपास्य गायत्र्यभि
मन्त्रितं सुवर्ण्णाम्भः क्षिपेत् वस्तस्य च दर्शयेदग्मेः” । विष्णुः ।
“शृतं द्रोणाधिकं चान्नं श्वकाकैरुपघातितम् । न त्याज्यं
तस्य शुद्ध्यर्थं ब्राह्मणेभ्यो निवेदयेत् । कर्त्तव्यं वचनं तेषा-
मन्नसंसकारकर्म्मणि” “द्रोणाधिकस्य शुद्धिस्तु धर्म्मशास्त्रेषु
पठ्यते । श्वकाकैरवणीढ़ं तु द्रोणान्नं न विसर्ज्जयेत् । ग्रास
मुद्धृत्य तन्मात्रं यच्च लालाश्रितं भवेत् । सुवर्ण्णोदकेनाभ्युक्ष्य
पृष्ठ ०४८२
ज्वलनेन तु तापयेत् । विप्राणां मन्त्रघोषेण पूतं भोज्यं च
तद्भवेत्” परा० । द्रोणन्यूनपरिमाणस्यान्नस्य श्वाद्यवलेह
महोपघातदूषितस्य त्याग एव कर्त्तव्यः यथाह सएव ।
“श्ववायसगवाद्यैस्तु जग्धमन्नं यदा भवेत् । स्नेहो वा
गोरसोवापि तत्र शुद्धिः कथं भवेत्? । अन्नं परित्यजेत्तत्र
स्नेहस्य पावनेन तु । अश्वस्तनतया शुद्धिर्गोरमस्य विधी-
यते । तत्रैव विषये देवलः “अवलीढ़ं श्वमार्जारधाङ्क्ष
कुक्कुटमूषिकैः । भोजने नोपयुञ्जीत तदमेध्यं हि सम तः”
चण्डालादिस्पृष्टस्य द्रोणाधिकस्यापि त्यागएव कार्य्य इत्याह
“चण्डालेन शुना वापि दुष्टमन्नमयज्ञियम् ।
चण्डालादिभिरुच्छिष्टैः स्पृष्टं भूयोऽपि वर्जयेत्”
वसिष्ठः । तत्रापवादः देवद्रोण्यां विवाहेषु यज्ञेषु
प्रकृतेपु च । काकैः श्वभिश्च संस्पृष्टमन्नं तन्न
विवर्ज्जयेत् । तन्मात्रमन्नमुद्धृत्य शेषं संस्कारमर्हति”
द्रवाणां प्लावनेनैव घृतानां प्रोक्षणेन च । छागेन मुख
संस्पृष्टं शुचि त्वेवहि तद्भवेत्” वृह० “तीर्थे विवाहे यात्रा-
यां संग्रामे देशविप्लवे । नगरे ग्रामदाहे च स्पृष्टास्पृष्टि न
दुष्यति । गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः ।
अमीमांस्यानि शौचानि स्त्रीभिराचरितानि च”
वृह० “कन्दुपक्वानि तैलानि पायसं दधि सक्तवः ।
एतान्यशूद्रान्नभुजोभोज्यानि मनुरब्रवीत्” शाता० ।
द्रव्यविशेषे या शुद्धिरुक्ता सान्नान्तरसम्पादनाशक्तिरूपाया
मापद्येव कार्य्या । अनापदि तु दुष्टमन्नं परित्यज्यान्नान्तरं
संपाद्यम् यथोक्तं वायुपु० । “अन्नं पश्येयुरेते तु यदि वै
हव्यकव्ययोः । उत्क्षेप्तव्यं प्रधानार्थंसंस्कारस्त्वापदि स्मृतः”
“हविषां संस्कृतानान्तु मुख्यमेव वि वर्जनम् । मृत्प्रयुक्ता-
भिरर्द्भिर्वा प्रोक्षणं तु विधीयते । सिद्धार्थकैः कृष्णतिलैः कार्य्यं
वाप्यवकीरणम् । द्विजसूर्य्याग्निवस्तानां दर्शनं तु प्रयत्नतः”
ब्रह्मपु० । अथोदकशुद्ध्यशुद्द्युपायाः । “उच्छिष्टं मलिनं क्लिन्नं
यच्च विष्ठानुलेपितम्” इत्युपक्रम्य “सूर्य्येन्दुरश्मिपातेन
मारुतस्पर्शनेन च । गवां मूत्रपुरीषेण शुध्यन्त्याप इति
स्थितिः” वृह० । “मृतपञ्चनखात् कूपादत्यन्तोपहतात्त-
था । अपः समुद्धरेत् सर्व्वाः शेषं शस्त्रेण शोधयेत्” । वह्नि
प्रज्वालनं कृत्वा कूपे पक्वेष्टकाचिते । पञ्चगव्यं न्यसेत् पश्चात्
नवतोयसमुद्भवे । जलाशयेष्वयाल्पेषु स्थावरेषु महीतले ।
कूपवत् कथिता शुद्धिः महत्सु च न दूषणम्” विष्णुः
“रथ्या कर्द्दभेत्यादिप्रागुक्तं ४८१ पृ० “भूमिस्थमुदकं पुण्यं
वैतृष्णं यत्र गोर्भवेत् । अव्याप्तः चेदमेध्येन तद्वदेव हि
शोधनम्” वापीकूपतड़ागेभ्य आपोग्राह्यास्तु सर्व्व-
शः । “पश्चात् पश्येदमेध्यन्तु पञ्चगव्येन शुध्यति” परा०
“अस्थिचर्म्मावसिक्तं यत् श्वमार्ज्जाराखुमूषिकैः । दूषितं
यद्भवेत्तोयम्” इत्युपक्रन्य “अस्थिचर्म्मावपतितं खरवानर
शूकरैः । उद्धरेदुदकं सर्वं शोधनं परिमार्जनम् ।
वापीकृपतड़ागेषु दूषितेषु कथञ्चन । उद्धृत्य वै कुम्भ-
शतं पञ्चगव्येन शुध्यति । खनिकूपतड़ागेषु संदिग्धेषु
विशेषतः । तेभ्योहृत्वा घटशतं पञ्चगव्येन शुध्यति ।
पादुकोपानद्विण्मूत्रं कूपे यदि निमज्जति । षष्टिं
कुम्भान् समुद्धृत्य पञ्चगव्येन शुध्यति” परा० अथ
नानाद्रव्यशुद्ध्यशुद्धी “श्वपाकोयत् स्पृशेद्द्रव्यं मृण्मयं
द्रवमेव वा । पक्वं वा भोज्यंकल्कं वा तत् सर्वं परिवर्जयेत्
उच्छिष्टाशुचिभि स्पृष्टमद्रवं शोध्यतेऽम्भसा” ऊनं वापि
प्रभूतं वा शोधयेत् प्रोक्षणादिभिः देव० । तैजसानां
मणीनाञ्च सर्व्वस्याश्ममयस्य च । भस्मनाद्भिर्मृदा चैव
शुद्धिरुक्ता मनीषिभिः ॥ निर्लेपं काञ्चनं भाण्डमद्भिरेव
विशुव्यति । अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतम् ॥
अपामग्नेश्च संयोगाद्धैमरूप्यञ्च संबभौ । तस्मात्तयोः
स्वयोन्यैव निर्णेको गुणवत्तरः ॥ ताम्रायःकांस्यरैत्यानां
त्रपुणः सीसकस्य च । शौचं यथार्हं कर्त्तव्यं क्षाराम्लोदक-
वारिभिः ॥ द्रवाणाञ्चैव सर्व्वेषां शुद्धिरुत्प्लावनं स्मृतम् ।
प्रोक्षणं संहतानाञ्च दारवाणाञ्च तक्षणम् ॥ मार्ज्जनं यज्ञ-
पात्राणां पाणिना यज्ञकर्म्मणि । चमसानां ग्रहाणाञ्च
शुद्धिः प्रक्षालनेन तु ॥ चरूणां स्रुक्स्रुवाणाञ्च शुद्धिरु-
ष्णेन वारिणा । स्फ्यशूर्पशकटानाञ्च मुषलोलूखलस्य च ॥
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन
त्वल्पानामद्भिः शौचं विधीयते ॥ चेलवच्चर्म्मणां शुद्धिर्व्वैद-
लानान्तथैव च । शाकमूलफलानाञ्च धान्यवच्छुद्धिरिष्यते ॥
कौशेयाविकयोरूषैः कुतपानामरिष्टकै । श्रीफलैरंशुपट्टानां
क्षौमाणां गौरसर्षपैः ॥ क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य
च । शुद्धिर्विजानता कार्य्या गोमुत्रेणोदकेन वा ॥ प्रोक्ष-
णात्तृणकाष्ठञ्च पलालञ्चैव शुध्यति । मार्ज्जनोपाञ्जनैर्वेश्म
पुनःपाकेन मृण्मयम् ॥ मद्यैर्मूत्रैः पुरीषैर्व्वा ष्ठौवनैः
पूयशोणितैः । यावन्नापैत्यमेध्याक्ताद्गन्धोलेपश्च तत्कृतः ।
तावन्मृद्वारि चादेयं सर्व्वासु द्रव्यशुद्धिषु” मनुः ॥
“कुसुम्भकुङ्कुमानां च ऊर्ण्णाकर्पासयोस्तथा । प्रोक्षणादि
तथा शुद्धिरित्याह भगवान् यमः” शङ्खः “तूलिकामुपधानानि
पुष्परक्ताम्बराणि च । शोधयित्वातपे किञ्चित् करेण मार्ज-
पृष्ठ ०४८३
येन्मुहुः । पश्चाच्च वारिणा प्रोक्ष्य शुचीन्येवमुदाहरेत् ।
तोयाभावे परस्पर्शे भूमीसंवेशनेऽपि च । कुण्डिकायाः प०
रित्यागोदहनं वापदि स्मृतम्” देवलः । आमान्नपरिशोधने
बिशेषमाह हारीतः । “तस्य यन्मात्रमुपहतं तन्मात्रं
परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्य्यात् । “पयसां दध्नां
क्रीतानामवहननपवनैः, ब्रीहियवगोधूमानां घर्षणद-
लनपेषाद्यैः शिम्बिधान्यानां कण्डनविमृशनप्रक्षालनैः
फलीकृतानां घर्षणप्रक्षालेन पर्य्यग्निकरणैःशाकमूलफलानां
भूस्थानग्रहणप्रक्षालनैः इक्षुकाण्डानां, स्वविधिविघानात्
यज्ञहविषां श्रपणमेव स्नेहानां पुनः पाककृतलवणानां
षुक्कसादिभिः स्पृष्टानां भूस्थानं तृणकाष्ठानामादित्य-
दर्शनाच्छौचम् । हारी० “गवाघ्रातेषु कांस्वेषु शूद्रो-
च्छिष्टेषु वा पुनः । दशभिर्भस्मभिः शुद्धिः श्वका-
कोपहतेषु च” शाता० । दुष्टाभिशस्तपतिततिर्य्य-
गधोवर्ण्णोपहतानामित्यनुवृत्तौ “यानशयनासनानि
परिहार्य्याणोत्येके सन्यन्ते असंस्कृतायां भूमौ न्यस्तानां
तृणानां प्रक्षालनं न रक्षोपहतानामभ्युक्षणम् एषं
क्षुद्रसमिधां महतां काष्ठानामुपघाते प्रक्षाल्या-
वशोधनं दारुमयाणामुच्छिष्टसमन्वारब्धानामनुलेखनम्
उच्छिष्टलेपोपहतानामेव तक्षणं मूत्रपुरीषलोहितरेतः
प्रभृतिभिरुत्सर्गः मृण्मयानां पात्राणामुच्छिष्टसमन्वा-
रब्धानामवज्वालनम् उच्छिष्टलेपोपहतानां पुनर्दहनं
मूत्रपुरीषलोहितरेतःप्रभृतिभिरुत्सर्गः” बौधा० ।
शौचं सहस्रलोम्नां तु मारुतार्केन्दुरश्मिभिः । रेतः-
स्पृष्टं शवस्पृष्टमाविकं नैव शुध्यति” अङ्गिराः ।
अथाशुद्ध्यपवादः । नित्यमास्यं शुचि स्त्रीणां शकुनिः
झलपातने । स्नवने तु शुचिर्वत्स श्वा मृगग्रहणे शुचिः”
मनुः “वत्सः प्रस्नवने मेध्यः शकुनिः फलपातने । स्त्रियश्च
रतिसंसर्गे श्वा मृगग्रहणे शुचिः” शाता० “श्वभिर्हतस्य यन्मां-
सं शुचि तन्मनुरब्रवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च
दस्युभिः” मनुः “तथा मांसं श्वचण्डालक्रव्यादरदिनिपाति-
तम्, याज्ञ० । शुचीति शेषः । “श्वहताश्च मृगा धन्याः
पातितं तु खगैः फलम् । बालैरनुपरिक्रान्तं स्त्रीभिरा-
चारितञ्च यत् । प्रसारितञ्च यत् पण्यं ये दोषाः स्त्रीमुखेषु
च । मशकैर्मक्षिकाभिश्च निलीनं नोपहन्यते । क्षितिस्था-
श्चैव याआपो गवां तृप्तिकराश्च याः” । वसि० “रश्मिरग्नि-
रजश्छाया गौरश्वो वसुधाऽनिलः । विप्रुषोमक्षिकाः स्पर्शे
वत्सः प्रस्नवने शुचिः । कारुहस्तः शुचिः पण्यं भैक्ष्यं
योषिन्मुखं तथा” याज्ञ० । “आत्मशय्यासनं वस्त्रं
जाया पात्रं कमण्डलुः । शुचीन्यात्मन एतानि
परेषामशुचीनि तु” बौधा० । “स्वा भार्य्या शिशुर्वस्त्रं
स्वमुपवीतं कमण्डलुः । आत्मनः कथितं शुद्धं न तु
शुद्धंपरस्य तु” शङ्खः । “आत्मशय्यासनं वस्त्रं मेध्यं
वाऽमलदूषितम् । ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति
स्थितिः । आसनं शयनं यानं स्त्रीमुखं कुतपं क्षुरम् । न
दूषयन्ति विद्वांसो यज्ञेषु चमसं तथा । गौरश्वोविप्रुष
श्छाया मक्षिका शलभः शलः । अजोहस्ती रणे छत्रं
रश्मयश्चन्द्रसूर्य्ययोः । भूमिरग्निरजो वायुरापोदधि घृतं
पयः । सर्व्वाण्येतानि शुद्धानि स्पर्शे मेध्यानि नित्यशः”
यमः । “शुचिरग्निः शुचिर्वायुः पवित्रा ये वहिश्चराः । आपश्च
शुचयोनित्यं पन्थाः सञ्चरणाच्छुचिः । आपःशुद्धा भूमिगता
शुचिर्नारी पतिव्रता । शुचिर्धर्म्मपरो राजा संतुष्टो
ब्राह्मणः शुचिः” यमः । “रजोभूर्वायुरग्निश्च मार्ज्जारश्च
सदा शुचिः” विष्णुः “शुद्धं नदीगतं तोयं सर्व्व एव
तथाऽऽकराः । शुद्धं प्रसारितं पण्यम् शुद्धमश्वाजयोर्मु-
खम् । मुखवर्जं च गौः शुद्धा मार्ज्जारश्चंक्रमे शुचिः”
शङ्ख० । “अदूष्या सन्तता धारा वातोद्धूताश्च रेणवः ।
स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन । मार्ज्जा-
रश्चैव दर्व्वी च मारुतश्च सदा शुचिः” परा० ।
आकराः सोमपानं च वाचा यच्च प्रशस्यते” उश० शुचयः
इति शेषः । “अदूष्या सन्तता धारा वातोद्धूताश्च रेणवः ।
आकराः शुचयः सर्व्वेवर्जयित्वा सुराकरम्” वौधा० “रेणवः
शुचयः सर्व्वे वायुना समुदीरिताः । अन्यत्र रासभाजाविश्व
समूहनिवाससाम्” पेठी० “गवाश्वरथनागानां प्रशस्तारेणवः
सदा । अप्रशस्ताः समूहन्याःश्वाविरासभवाससाम्” उश०
“अपि नोच्छिष्टदोषोऽस्ति मधुनो न च सर्पिषः । न
फलानां न चेक्षूणां नाकराणां न योषिताम्” शाता० ।
“शुचि पूतं स्वयंशुद्धं पवित्रं चेति केवलम् । मेध्यं
चतुर्विघं लोके प्रजानां मनुरब्रवोत्” । तथा “नवं चानिर्मलं
वापि शुचीति द्रव्यमुच्यते । शोधितं तु यदान्येन तत्पूत-
मभिधीयते । स्वयमेव हि यद् द्रव्यं केवलं धन्यतां गतम् ।
स्थावरं जङ्गमं वापि स्वयं शुद्धमिति स्मृतम् । अन्यद्रव्यै
रदूष्यं च स्वयमन्यानि शोधयेत् । हव्यकव्येषु पूज्यं
यत्तत्पवित्रमिति स्मृतम् । अथ सर्वाणि धान्यानि हव्यान्या-
भरणानि च । अवर्ज्यभक्ष्यजातीनि शुचीन्येतानि केवलम् ।
वर्जिते निखिले द्रव्ये शुचिसंज्ञा न वर्त्तते । तस्मिन्नेवेह
पृष्ठ ०४८४
सर्वत्र शुद्धता न पुनर्भवेत् । तस्माच्छुद्धं तु कर्मण्यं शुची-
त्याहुर्मनीषिणः । निर्मलं संस्कृतंद्रव्यं क्रियार्हं पूतमुच्यते ।
वसतिश्चमसोयानं वाहनं साधनाम्बु च । छुरी नौरासनं
चेति स्वयं शुद्धमिति स्मृतम् । शिशवश्च स्वयंशुद्धा
योषितश्चानृतौ तथा । ब्रह्महत्या हि नारीणामृतु-
काले न संस्पृशेत् । आकरा हि स्वयं शुद्धा द्रव्याणामिह-
निर्ण्णयः । भस्म क्षौद्रं सुवर्ण्णं च सदर्भाः कुतपास्तिलाः ।
अपामार्गशमीकाशाः पद्ममामलकं मणिः । माल्यानि
नर्षपा दूर्वाः सदा भद्राः प्रियंङ्गवः । अक्षतारोचनालाजा
हरिद्राश्चन्दना यवाः । पलाशखदिराश्वत्थतुलसीधातकी-
तकी । एतान्याहुः पवित्राणि व्राह्मणा हव्यकव्ययोः ।
योक्तिकानि मलघ्नानि शोधनानि च देहिनाम् ।
तेष्वापोगोशकृन्मृच्च पवित्राणि विशेषतः । सर्वाशौच
विशुध्यर्थं सर्वेषां सर्व्वतः सदा । अकश्मलैः समिद्धोऽग्रि-
र्दुर्मनुष्पैरदूषितः । सर्वेषामप्यशौचानां समर्थः
शोधनाय सः । द्रव्याणामग्रिदग्धानां मेध्यत्वमुपदिश्यते ।
ज्वालाभिमृष्टपात्राणां शुचित्वं नियतं भवेत् । अग्ने-
र्वृषलमुक्तस्य ग्रहणं नास्त्यनापदि । श्नपाको वृषलाभस्तु
ब्राह्मणोऽग्निरनाहितः । चण्डालाग्नेरमेध्याग्नेः
सूतकाग्नेश्च कर्हचित् । पतिताग्नेश्चिताग्नेश्च न शिष्टैर्ग्रहणं
स्मृतम् । गोशकृच्छुद्धदेशस्था श्मशानाद्यचिता शिवा ।
अग्राम्पा मृद्भवेच्छुद्वा श्लक्ष्णा विण्मूत्रवर्जिता । ऊर्द्ध्वंनाभे-
र्यानि खानि तानि मेध्यानिसर्वशः” देवलः । “ऊर्द्धं वै
पुरुषस्य नाभेर्मेध्यमर्वाचीनममेध्यमिति” श्रुतिः । “अजाश्वं
मुखतोमेध्यं न गौर्न नरजा मलाः” विष्णुः ऊर्द्ध्वं नाभेः
पुरुषोगौर्मेध्यः पृष्ठे समन्तादश्वः स्त्रियः सर्वतो हृदय-
मासामशुचि” उश० । “मेध्या रहोगता नारी स्त्री मुखे
शुचिचारिणी । स्पर्शने तु न दुष्यन्ति वातो गन्धोरसः
स्त्रियः । स्त्रीणां मुखरसश्चैव गन्धोनिश्वास एव च ।
मुखतोगौरमेध्यास्यान् मेध्योऽजोमुखतः स्मृतः । पृष्ठतोगौर्गजः
स्कन्धे सर्वतोऽश्वः शुचिस्तथा । नृणां मूत्रपुरीषे तु
अमेध्ये मल एव च । गोपुरीषं तु मूत्रं च नित्यं मेध्यमिति
स्थितिः । यमः “पादौ शुची ब्राह्मणानामजाश्वस्य मुखं
शुचि । गवां पृष्ठानि मेध्यानि सर्वगात्राणि योषिताम् ।
रोमोद्भेदे शशी भुङ्क्ते गन्धर्वाः कुचदर्शने । अनलस्तु
रजोभुङ्क्ते स्त्रियोमेध्यास्तु नान्यथा । बलात्कारोपभुक्ता
वा चौरहस्तगतापि वा । स्वयं वा प्रतिपन्ना वा
अथवा विप्रमादिता । अत्यन्तदूषितापि स्त्री न परित्या-
मर्हति । सर्वेषां निष्कृतिः प्रोक्ता नारीणां तु विशेषतः ।
स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासिमासि
रजस्तासां दुष्कृतान्यपकर्षति । सोमः शौचं ददौ स्त्रीणां
गन्धर्वश्च शुभां गिरम् । पावकः सर्वभक्षत्वं मेध्या
वैयोषितो ह्यतः” । ज्योतिषोक्तम् स्वराश्यपेक्षया इष्टसमये
अनिष्टस्थानस्थरव्यादिकतयानिष्टसूचनमपि अशुद्धिः
ज्योतिषोक्तनञः पर्य्युदासप्रसज्यप्रतिषेधोभयपरतायाः
सर्वनिवन्धृभिर्व्यवस्थापनात् तत्र निषिद्धकालस्य न केवलं
रात्र्यादिकालादिवत् पर्य्युदस्तता किन्तु प्रसज्यप्रतिषेध-
परतया अनिष्टविशेषसूचकतापि तेन तत्र तत्र
अनिषिद्धकालस्याशुद्धता । अतएव गोचराशुद्धिः कालाशुद्धि-
रिति च व्यवह्रियते” तथाच ज्योतिषोक्तदिशा तत्तत्-
कालानां तत्तत्कर्म्मकरणायोग्यताप्रयोजकतया शुक्रा-
स्तादिकालस्याशुद्धता सा च अकालशब्दे उक्तप्राया ।
“रविशुद्धौ ग्रहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ” इत्युक्तेः
गीचरे शुभस्थानस्थितौ रव्यादीनां शुद्धिस्तद्वैपरीत्ये अशुद्धिः
एवं वर्षर्त्तुमासदिवसानामप्यशुद्धिः सा च कन्यकानां
दशवर्षाभ्यन्तरे एव विवेचनीया नातः परम् । “ग्रहशुद्धि
मब्दशुद्धिं शुद्धिर्मासत्तुर्दिवसानाम् । अर्वाग्दशवर्षेभ्यः
प्रवदन्ति कन्यकाना” मित्युक्तेः ।

अशुभ न० विरोधे न० त० । १ अमङ्गले “यः सर्व्वत्रानमिस्नेह-

स्तत्तत् प्राप्य शुभाशुभम्” गीता । २ तत्सूचके रव्यादिपा-
पग्रहे “अशुभे दण्डसंयोगे वेधश्चेत्तेन लम्यते” ज्यीति०
अशुभसूचका अमङ्गलसूचकास्तेच साधारणा असाधारणाश्च
अमङ्गलशब्दे ३१६ पृष्ठादौ दर्शिताः अन्येऽपि अशुभ-
योगा अरिष्टाध्यायोक्ताः असाधारणा वेदिव्याः । ३
अपवित्रे च न० ब० । ४ शुभाभाववति त्रि० । ५ ब० । ५ पापे न० ।

अशुभ्र पु० विरोधे न० त० । १ शुभ्रभिन्ने कृष्णे २ तद्युक्ते त्रि० ।

अशुष त्रि० न शुष्यति शुष--क न० त० । अशोषके । “रक्षो

अग्निमशुषं तूर्वयाणम्” ऋ० १ । १७४ । ३ ।

अशून्य त्रि० न० त० । अहीने पूर्ण्णे “अशून्यशयनं भूयान्मम

जन्मनि जन्मनि” शय्यादानमन्त्रः ।

अशून्यशयन न० न शून्यं शयनं यस्मात् । व्रतभेदे । “अस्ति

व्रतं महापुण्यमशून्यशयनं नृप!” इत्युपक्रम्य “चातुर्मास्ये
भवेद्राजन् वर्षायाम् व्रतमुत्तमम् श्रावणस्य द्वितीयायां
कृष्णपक्षे नराधिप! । श्रावणादिकार्त्तिकान्तं कुर्य्या-
द्व्रतमनुत्तमम्” इत्यादिना तस्य विधानमभिधाय “चतुर्वर्षं
प्रकुर्वीत पुरुषोनियतेन्द्रियः । एवं यः कुरुते राजन्न
शून्यशयनव्रतम् । न तस्य शून्या शय्या स्यादिति” च हेमा०
व्रत० ख० भविष्यपुराणम् ।
पृष्ठ ०४८५

अशृत त्रि० न शूतं पक्वम् । अपक्वे पक्वभिन्ने १ आमान्नादौ ।

अशेव त्रि० शी--वनिप् न० त० । सुखकरे । “व्येतु दिद्यु-

द्द्विषामशेवा” ऋ० ७ । ३४ । १३ ।

अशेष पु० अभावे न० त० । १ शेषाभावे । न० त० । २ शेषशून्ये

सकले त्रि० “अशेषशेमुषीमोषं माषमश्नामि केवलम्”
उद्भटः “क्रतोरशेषेण फलेन युज्यताम्” रघुः “येन भूतान्य
शेषेण द्रक्ष्यस्यात्मन्ययो मयि” गीता “तथाविधस्ताव दशेषमस्तु
सः” कुमा० । “अशेषतीर्थोपहृताः कमण्डलोः” माघः ।

अशोक पु० नास्ति शोको यस्मात् ५ ब० । १ स्वनामख्याते

वृक्षे, २ बकुलवृक्षे च । ३ पारदे न० । ४ कटुकवृक्षे स्त्री ।
६ त० । ५ शोकशून्ये त्रि० ६ विष्णौ पु० “सत्यनामा भवा
शोकः” “अशोकः शोकनाशनः” इति च विष्णुस० ।
“अशोकमर्थान्वितनामताशया गतान् शरण्यं गृहशोचि-
नोऽध्वगान् । अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वल-
दस्त्रजालकम्” नैष० “सनूपुररवेण स्त्रीचरणेनाभि-
ताड़नम् । दोहदं तदशोकस्य ततः पुष्पोद्गमोभवेत्”
एतदनुसारेणैव कविभिस्तया वर्ण्ण्यते यथा “असूत
सद्यः कुसुमान्यशोकःस्कन्धात् प्रभृत्येव सपल्लवानि । पादेन
नापैक्षत सुन्दरीणां संस्पर्शमाशिञ्जितनूपुरणेन” कुमा०
नवकिसलयरागेणार्द्रपादेन बाला स्कुरितनखरुचा द्वौ
हन्तुमर्हत्यनेन । अकुसुमितमशोकं दोहदापेक्षया वा
प्रणमितशिरसं वा कान्तमार्द्रापराधम्” “अनेन तनुमध्यया
मुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन सम्भा-
वितः । अशोक! यदि सद्य एव मुकुलैर्न सम्पत्स्यसे
मुधा वहसि दोहदमिति” “सर्व्वाशोकलतानां प्रथमं
सूचितवसन्तविभवानाम् । निर्वृत्ते दोहदेऽस्मिन् संक्रा-
न्तानीव मुकुलानि” इति च मालवि० । अयमशोकः
नवपत्रिकान्तर्गतः “कदली दाड़िमी धान्यं हरिद्रा
मानकं कचुः । विल्वोऽशोको जयन्ती च विज्ञेया नव
पत्रिकाः” दु० त० । एतदधिष्ठात्री शोकरहिता “अशो-
कस्थायै शोकरहितायै” इति दुर्गापूजापद्धतिः ।
अशोकश्च द्विविधः रक्ताशोकः पीताशोकश्च पीतरक्तपुष्पभेदेन
तयोः तथात्वम् । तत्र रक्ताशोकाभिप्रायेण “अशोकनि
भर्त्सितपद्मरागम्” कुमा० । “रक्ताशोकलताविशेषितगुणो-
विम्बाधरालक्तकः” मालवि० पीताशोकवर्ण्णन तु
मालविकाग्नि मित्रे तृतीयाङ्के तपनीयाशोकवर्णने दृश्यम् ।
“अशीकोहेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः । कङ्केलिः पिण्ड-
पुष्पश्च गन्धपुष्पो नटस्तथा । अशोकः शीतलःस्निग्धो ग्राही
वर्ण्यः कषायकः । दोषापचीतृषादाहकृमिशोषविषास्र-
जित्” भा० प्र० पर्य्यायगुणादि । चान्तः शोकाभावे त्रिका० ।

अशोकतीर्थ न० अशोकनामकं तीर्थम् । काशीक्षेत्रान्तर्गते

तीर्थभेदे । काशीस्थप्रयागतीर्थमधिकृत्य “अशोकाख्यमिदं
तीर्थं गन्धकेशब एष वै । मोक्षद्वारमिदं श्रेष्ठं स्वर्गद्वार-
मिदं विदुः” । काशी० ।

अशोकत्रिरात्रं न० न शोको यत्र तादृशं त्रिरात्रम् ।

हेमा० ब्र० ख० भविष्योत्तरोक्ते व्रतभेदे तत्कालादिस्तत्रै-
वोक्तः “अस्त्यशोकत्रिरात्राख्यं व्रतं शोकभयापहम् । त्रिरा-
त्रं तच्च कर्त्तव्यं व्रतं शोकविनाशनम्” इत्युपक्रम्य, मासि
मार्गशिरे चैव ज्येष्ठे भाद्रपदे तथा । शुक्लपक्षे पञ्चदश्या
मेकभक्तं तु कारयेत्” इत्यादिना आरम्भकालमुक्त्वा
“अनेनैव विधानेन प्रतिसासं च पूजयेत् यावत् द्वाद्रश
मासान् वै कुर्य्यादुद्यापनं ततः” इत्युक्तम् ।

अशोकपूर्ण्णिमा स्त्री नास्ति शोको यस्याः कर्म्म० । फाल्गुन-

पौर्ण्णमासावघिवर्षपर्य्यन्तायां हेमा० व्र० ख० विष्णुधर्म्मो-
क्तव्रताङ्गे १ पौर्ण्णमास्यां तत्र प्रतिमासं कर्त्तव्ये २ व्रते च
यथा “अशोकपूर्ण्णिमामेतां शृणुष्वेकमना मम । उपोष्य
न नरः शोकं प्राप्तोति स्त्री तथाऽपि वा । फाल्गु-
नामलपक्षस्य पौर्ण्णमास्यां नृपोत्तम”! इत्युपक्रम्य विधा-
नमुक्त्वा “अनेनैव प्रकारेण चत्वारः फाल्गुनादयः
उपोष्या नृपते मासाः” इत्युक्त्वा च “आषाढादिषु
मासेषु तद्वत् प्रोक्तं तथाम्बुना । चतुर्ष्वन्येषु च प्रोक्तं तथा
वै कार्तिकादिषु” इत्यनेन वर्षसाध्यत्वमस्या उक्तम् ।

अशोकरोहिणी स्त्री अशोक इव रोहति रुह--णिनि ।

कट्कीति ख्यातायाम् कटुकायां कटुकाशब्दे विवृतिः ।

अशोकषष्ठी स्त्री कर्म्म० । चैत्रोभयषष्ठ्याम् तत्र षष्ठीदेवीपूजन

विधानात्तथात्वम्, “चैत्रे मास्यसिते पक्षे षष्ठ्यां षष्ठीं प्रपू-
जयेत् । सुखाय पुत्रलाभाय शुक्लपक्षे तथैव च”
उत्तरकामाख्यातन्त्रम् ।

अशोका स्त्री नास्ति शोकोदुःखं सेवनादस्याम् । १ कटुकायाम्

(कटकी) शुभ्रा० ढक् आशोकेयस्तद्भवे त्रि० । २ चैत्रशुक्ल
षष्ठ्याञ्च “सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी ।
वैशाखे चान्दनीत्युपक्रस्य चैत्रेऽशोका प्रकीर्त्तिता”
स्क० पु० परिभाषोक्ता ।

अशोकारि पु० अशोकं शोकाभावम्रच्छति ऋ--इन् ६ त० ।

शोकाभावदायके कदम्बवृक्षे शब्दच० कदम्बशब्दे विवृतिः ।
पृष्ठ ०४८६

अशोकाष्टमी स्त्री नास्ति शोकोयस्याः कर्म्म० । चैत्रशुक्ला-

ष्टम्यां, सा हि अशोककलिकापानादशोकदायिका ।
यथोक्तं हेमा० व्र० ख० लिङ्गपुरा० । “अशोककलिका-
श्चाष्टौ ये पिबन्ति पुनर्वसौ । चैत्रेमासि सिताष्टम्यां न ते
शोकमवाप्नुयुः ।” कूर्म्मपुरा० । चैत्रेमासि सिता-
ष्टम्यां बुधवारे पुनर्वसौ । अशोककुसुमैरुद्रमर्चयित्वा
विधानतः । अशोकस्याष्ट कलिका मन्त्रेणीक्तेन भक्षयेत् ।”
शोकं नैवाप्लुयान्मर्त्यः” अत्र बुधपुनर्वसुयोगः प्राशस्त्यर्थः
हेमा० । “अशोककलिकापानमशोकतरुपूजनम्” शुक्ला-
ष्टम्यां तु चैत्रस्य कृत्वा प्राप्नोति निर्वृतिमिति” लैङ्के चैत्र-
शुक्लाष्टमीमात्रस्य निमित्ततोक्तेः । मन्त्रस्तु तत्रैव दृश्यः ।

अशोच्य त्रि० शुच--कर्म्मणि ण्यत् न० त० । शोचनानर्हे

यमुद्दिश्य शुच्यते तद्भिन्ने । “अशोच्यानन्वशोचस्त्वं प्रज्ञा
वादांश्च भाषसे” गीता ।

अशोधन न० अभावे न० त० । १ शोधनाभावे । न० ब० ।

२ शोधनशून्ये त्रि० । शोधनञ्चाशुचेर्जलादिना मलाद्यप-
नयनम् ऋणादेः प्रतिदानञ्च तदभावोऽशोधनम् ।

अशोधित त्रि० न० त० । १ अप्रक्षालिते जलादिनाऽकृत

मलाद्यपनयने २ अकृतर्ण्णादिप्रतिदाने च ।

अशोभन त्रि० शुभ--कर्त्तरि ल्युट् न० त० । १ शोभनभिन्ने

कुत्सिते । भावे ल्युट् अभावे न० त० । २ मण्डनाभावे ।

अशोष्य त्रि० शुष--ण्चि--ण्यर्त् न० त० । शोषयितुमशक्ये ।

“अच्छेद्योयमदाह्योऽयमक्लेद्योऽशोष्य एव च” गीता ।

अशौच न० शुचेर्भावः शौचं न० त० । १ शुचित्वाभावे स्मृति-

प्रसिद्धे, विहि--तकर्म्मानधिकारित्वसम्पादके २ अधर्म्मविशेषे
च । “जनने मरणे चैव त्र्यहाशौचस्य भागिनः” स्मृतिः ।
“समानं लघु चाशौचं पूर्व्वेणैव विशुध्यति । असमानं
द्वितीयेनेति” यमः । स्वार्थे ष्यञ् आशौच्यमप्यत्र “आशौ-
च्याद्विप्रमुच्येत” स्मृतिः । “अशौचं द्विविधं कालकृतं
वस्तुस्वभावकृतञ्च तत्र कालकृतं “सव्रणः सूतकीत्या-
दिना” अशुद्धिशब्दे ४८० पृष्ठे दर्शितम् तथाच ।
सपिण्डमरणजननादिकृतं कालविशेषेऽशौचम् काला-
पगमे च तन्नाशः । तच्च चेतननिष्ठम् । बहुधा
चास्य शुद्धितत्त्वादौ प्रपञ्चः । वस्तूनामशौचं स्वभा-
वात् यथा मलमूत्रादेः, यत्संसार्गादितरवस्तूना-
मप्यशौचं शुद्ध्यभावः एवं तेषां संसर्गादिकृतं
चेतनादेरशौचं यथा उच्छिष्टचण्डालादिस्पर्शे एवमशौ-
चिस्वामिकद्रव्यविशेषाणामाप्यशौचम् शुद्ध्यभावः । अथ
सपिण्डासपिण्डादिभेदेनाशौचकालविशेषो यथा “जनने
मरणे च सप्तमपुरुषपर्य्यन्तं विप्रस्य दशाहः, क्षत्रियस्य
द्वादशाहः, वैश्वस्य पञ्चदशाहः, शूद्रस्य मासः । दशमपुरुष
पर्य्यन्तं सर्व्ववर्ण्णेषु त्र्यहः चतुर्दशपुरुषपर्य्यन्तं पक्षिणी
जन्मनामस्मृतिपर्य्यन्तमेकाहः ततः स्नानमात्रम् ।
कन्यायाः सापिण्ड्यं त्रिपौरुषम् । अथ विदेशस्थाशौचम् ।
अशौचकालाभ्यन्तरे विदेशस्थस्याशौचश्रवणे शेषाहैः शुद्धिः ।
अशोचकालोत्तरश्रवणे तु ज्ञातिजननाशौचं नास्त्येव ।
पुत्रजनने तु सचेलस्नानात् शुद्धिः । मरणाशौचे तु
वर्षाभ्यन्तरश्रवणे त्र्यहात् शुद्धिः । सचेलस्नानादङ्गा-
स्पृश्यत्वनिवृत्तिः । वर्षोत्तरश्रवणे स्नानेन शुद्धिः
सपिण्डानाम् । पुत्रादीनान्तु मातृपितृभर्त्तृमरणे
वर्षोत्तरमेकाहेन शुद्धिः, द्वितीयवर्षे श्रवणे सद्यः । संपूर्णा-
शौचातिक्रमे त्र्यहाशौचं न बालाद्यशौचातिक्रमे खण्डा-
शौचातिक्रमे वा । अथगर्भस्रावाशौचम् । गर्भस्रावे तु
स्त्रीणामेव षण्माषाभ्यन्तरेऽशौचं तच्च लौकिके कर्म्मणि
माससमसंख्यदिनव्यापकं द्वितीयमासावधिमाससमसंख्यदि-
नाधिकैकदिनात् परं व्राह्मण्या वैदिककर्म्माधिकारः क्षत्रि-
याया दिनद्वयात् वैश्यायादिनत्रयात् शूद्रायास्तु दिनषट्-
कादिति हारलता प्रभृतयः । सप्तमाष्टममासीयगर्भपतने
स्त्रीणां संपूर्णाशौचम् निर्गुणसपिण्डानामहोरात्रं यथेष्टा
चरणपपिण्डानां त्रिरात्रम् तच्च जातस्य तद्दिनएव मरणे
ज्ञेयं द्वितोयदिनादौ तु मरणेनवमादिमासजातबालकवत् ।
अथ स्त्र्यशौचम् । कन्यायाः जन्मप्रभृतिद्विवर्षाभ्य-
न्तरमरणे सद्यः शौचं तदुपरि वाग्दानपर्य्यन्तमेकाहः ।
वाग्दानोत्तरविवाहपर्य्यन्तं भर्त्तृकुले पितृकुले च
कन्याया आदन्तजन्ममरणे सद्यः शौचम्, आ चूड़ादे-
करात्रकम्, आ प्रदानात्त्रिरात्रं, स्यादिति विशेषः । दत्तक-
न्यायाः पितृगृहे प्रसवमरणयोः पित्रोः शयनादिसंसर्गशू-
न्ययोरपि त्रिरात्रं तथाविघबन्धुवर्गाणामेकरात्रम् सम्पर्के
दशरात्रम् । अथ बालाद्यशौचम् । नवमादिमासजातबा-
लकस्याशौचकालाभ्यन्तरमरणे मातापित्रोरस्पृश्यत्वयुक्तं
तदेव जननाशौचं ज्ञातीनान्त्वशौचं नास्ति नवमादि-
मासमृतजातयोस्तु कन्यापुत्रयोः पित्रादिसपिण्डानां
जननाशौचं संपूर्ण्णम् । पुत्त्रजन्मनि मुखदर्शनात् पूर्व्वं
सचेलस्नानं कृत्वा ब्राह्मणेभ्यश्च यथाशक्ति दत्त्वा बालकाय
काञ्चनं दत्त्वा मुखं पश्येत । ततः पुनः सचेलस्नानम् ।
पृष्ठ ०४८७
अन्याशौचमध्येऽपि जातकर्म्मषष्ठीपूजे कर्त्तव्ये । पुत्रज-
न्मनिमित्तकं वृद्धिश्राद्धं नाड़ीच्छेदात् पूर्व्वम् अशोचान्ते
वा कर्त्तव्यम् । पुत्त्रकन्याजनने स्त्रीणां स्वजात्युक्तदशाहादितः
परं लोकिककर्म्माधिकारः । पुत्त्रजनने तु वैदिककर्म्माधिं-
कारोविंशतिरात्रोत्तरं स्नानात्, कन्याजनने तु मासोत्तरं
स्नानात् ब्राह्मण्याः । शूद्रायास्तूमयत्रैव मासोत्तरं
स्नानात् शुद्धिः । एतत् सर्व्वं पुत्त्रकन्ययोर्विद्यमानत्वे
बोध्यम् । जननाशौचकालोत्तरं षण्मासाभ्यन्तरमजात
दन्तमरणे पित्रोरेकाहः । एवं निर्गुणसोदरस्य,
सपिण्डानान्तु सद्यः । षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे
पित्रोस्त्र्यहः सपिण्डानामेकाहः षण्मासोपरि द्विवर्षपर्य्यन्तं
पित्रोस्त्र्यहः । सपिण्डानामकृतचूड़ेमृते एकाहः कृतचूड़े
त्र्यहः । द्विवर्षोपरि सर्ब्धेषामनुपनीतस्य मरणे मासत्रया
धिकषड़्वर्षं यावत् त्र्यहः । पञ्चवर्षोपनीतस्य तदानी-
मपि दश । हः । मासत्रयाधिकषड़्वर्षोपरि सर्वेषां
दशाहः । शूदाणां तु षण्मासोपरि द्विवर्षाभ्यन्तरे पञ्चाहः ।
अत्रापि कृतचूड़स्य द्वादशाहः । द्विवर्षोपरि षड़्वर्षाभ्य-
न्तरे द्वादशाहः । अत्रापि दैवात् कृतोद्वाहेऽपि मासः ।
षड़्वर्षोपरि मासः । अत्र मासवर्षपरिगणना सावनेन
“सूतकादिपरिच्छेदोदिनमासाव्दपास्तथा । मध्यमग्रहभुक्ति-
श्च सावनेन प्रकीर्त्तिता” इति सूर्य्यसिद्धान्तात् । अथासपि-
ण्डाशौचं गुरु मातामहमरणे त्रिरात्रं भगिनीमातुलानी
मातुलपितृष्वसृमातृष्वसृगुर्व्वङ्गनामातामहीमरणे पक्षिणी ।
श्वश्रूश्वशुरयोर्भिन्नग्रामस्थयोर्मरणेऽहोरात्रम् । आचार्य्य-
पत्नी पुत्रयोरुपाध्यायस्य मातृवैमात्रेयस्य श्यालकस्य
सहाध्यायिनः शिष्यस्य च मरणेऽहोरात्रं मातृष्वस्रीयपितृष्व-
स्रीयमातुलपुत्रभागिनेयमरणे पक्षिणी । पितामहभगिनीपु-
त्रपितामहीभ्रातृतद्भगिनीपुत्ररूपपितृबान्धवत्रयमरणे पक्षि
णी । मातामहभगिनीपुत्रमातामहीभगिनीपुत्रमातामही-
भ्रातृपुत्त्ररूपमातृबान्धवत्रयमरणेऽहोरात्रम् । एकग्रामवा-
सिगोत्रजमरणेऽहोरात्रमौरसव्यतिरिक्तपुत्त्रजननमरणयोः
परपूर्व्वभार्य्याप्रसवमरणयोश्च त्रिरात्रम् । सजातीयपुरुषान्तर-
संगृहीतस्वभार्य्यामरणेत्रिरात्रम् । मातृष्वसृपितृष्वसृमातु-
लभगिनीपुत्राणां गृहस्थितानामाचार्य्यस्य च मरणे त्रिरा-
त्रम् । श्वश्रूश्वशुरयोःसन्निधिमरणे त्रिरात्रं श्वश्रूश्वशुरयो-
रेकग्रामस्थितयोर्म्मरणे पक्षिणी । प्रथममन्येनोढ़ा तेनैव
जनितपुत्त्रा पुत्रसहितैवान्यमाश्रिता पश्चात्तेनापि जनित-
पुत्रा तयोः पुत्रयोर्यथासम्भवं प्रसवमरणयोर्द्वितीयपुत्त्र-
पितुश्चत्रिरात्रं तत्सपिण्डामामेकरात्रं तथाविधपुत्त्रयोः
परस्परप्रसवमरणयोर्मातृजात्युक्तमशौचम् । दौहित्रमरणे
पक्षिणी । पितृमातृमरणे ऊढ़ानां कन्यानां त्रिरात्रम् । यदि
मात्रष्वसृप्रभृतीनां दहनवहने करोति तदा त्रिरात्रम् ।
मातामहादीनां त्रिरात्राभ्यन्तरमरणश्रवणे तच्छेषेण शुद्धिः ।
तत्तत्कालोत्तरश्रवणे तु नाशौचं किन्त्वाचारात् स्नानम् ।
अथमृत्युविशेषाशौचम् । शास्त्राननुमतबुद्धिपूर्व्वकात्मघाति-
नोनाशौचादि । शास्त्रानुमत्याऽनशनादिमृतस्य प्रमादादन-
शनाशनिवह्निजलोच्चदेशप्रपतनसंग्रामशृङ्गिदंष्ट्रिनखिव्याल
विषचाण्डालचौरहतस्य त्रिरात्रम् । शृङ्ग्यादिभिःस्त्रिया च
क्रीड़ां कुर्व्वतः प्रमादहतस्यापि नाशौचादि । नागविप्रिय-
कारित्वेन उद्धतस्य मरणोद्देशेन प्रवृत्तस्य विद्युद्धतस्य च
चौर्य्यादिदोषेण राज्ञा हतस्य च कलहं कृत्वा राण्डालाद्यैर-
समानैर्हतस्य च व्याधिजनकौषधस्य विषस्य वह्नेश्च दातुर्मर
णेपाषण्डप्रायाश्रितस्य च नित्यं परापकारिणश्च क्रोधात् स्वयं
प्रायोविषवह्निशस्त्रोद्बन्धनजलगिरिवृक्षप्रपातैर्मृतस्य चर्म्ममां-
सास्थ्यादिमयपात्रनिर्म्मातुर्विप्रादेश्च मनुष्यबधस्थानाघि
कारिणश्च कण्ठदेशोत्पन्नभगरोगस्य पुंस्कर्म्माशक्तनपुंसकस्य च
ब्राह्मणविषयापराधकरणान्निहतस्य च बुद्धिपूर्व्वकब्राह्मण-
हतस्य च महापातकिनश्च एवंविधपतितानां न दाहादिकं
कार्य्यम् । तत्कृत्वा तप्तकृच्छ्रद्वयं कुर्य्यात् । म्लेच्छतस्करा-
दिभिर्युद्धे स्वाम्यर्थं हतस्य विप्रादेर्दाहादिकमस्त्येव ।
अकृतप्रायश्चित्तस्य गलत्कुष्ठिनोन दाहादिकं कार्य्यं शस्त्रेणा-
भिमुखहतस्य सद्यः शौचं दाहादि च । गवार्थे ब्राह्मणार्थे वा
दण्डेन युद्धहतस्याहोरात्रमशौचम् । नृपतिरहितयुद्धे
लगुड़ादिहतस्य पराङ्मुखहतस्य त्रिरात्रम् । गोविप्रपालने-
ऽभिमुखपराङ्मुखत्वाभ्यां हतस्य सद्यस्त्रिरात्रे । शस्त्रघाते-
तरक्षते सप्ताहादूर्द्ध्वं मरणे सम्पूर्णं, शस्त्रघाते त्र्यहादूर्द्ध्वं
च प्रकृताशौचम् । शुद्धि० त० । एतत्प्रमाणानि तत्रैवा नु
सन्धेयानि । “मातृवद्वर्णसङ्कराः” इत्युक्तेर्मूद्धावसिक्ताम्बष्ठादीना
मनुलोमजानां मातृवर्णानुसारेणाशौचम् प्रतिलोनजानां
तु “शूद्रेण तु सधर्म्माणः सर्वेऽपध्वंसजाः स्मृताः” इत्युक्तेः
शूद्रतुल्याशौचमिति रघुनन्दनादयः । आचारस्तु मातृ-
तुल्यतया दृश्यते अतएव चण्डालादीनां दशाहाशौचाचारः ।
देवतामन्त्रादिदातुर्मरणे त्रिरात्रम् । वेदाङ्गादि शास्त्रा-
ध्यापकस्य तथाविधशिष्यस्य च मरणे एकाहः “गृहीतो
देवता मन्त्रः सावित्रीग्रहणं कृतम् । यस्मात्तस्य त्रिरात्रं स्यात्
ब्रह्मविद्या ग्रहोयतः” इति “उपनीयाध्यापकोयस्तस्मिन्नपि
पृष्ठ ०४८८
त्रिरात्रकम् । वेदवेदाङ्गशास्त्राणां व्याख्यानं शिक्षितं यतः ।
ज्ञानं प्रतिष्ठितं येन वेदाभ्यासोयतः कृतः । तस्मिन्मृते
चैकरात्रं गुरोःशिष्ये तथैव” च मृत्स्यसूक्तोक्तेः दत्तक
पुत्रस्य ग्रहीत्रादिकुले त्रिरात्रम् जनककुलेऽशौचाभावः ।
तत्रायं विशेषः । सपिण्डदत्तकस्यापि त्रिरात्रं वाचनिकं
तत्पुत्रादीनां तु संपूर्ण्णमिति । असपिण्डदत्तकस्य तत्पुत्रा-
णाञ्च त्रिरात्रमिति बहवः सपिण्डासपण्डिदत्तकतत्पुत्राणां
त्रिरात्रमिति “भिन्नगोत्राः पृथक्पिण्डाः पृथग्वंशकराः
स्मृताः । जनने मरणे चैव त्र्यहाशौचस्य भागिनः” इत्युक्ते
रिति दत्तकमोमांसादयः । शवानुगमनाशौचम् । ब्राह्म-
णशवस्यानुगमने ब्राह्मणस्य सचेलस्नानाग्निस्पर्शघृतप्राशनैः
शुद्धिः । क्षत्रियस्यैकाहेन, वैश्यस्य द्व्यहेन, शूद्रस्य प्राणा-
यामशतेन दिनत्रयेण च शुद्धिः । प्रमादाच्छूद्रशवानुगमने
जलावगाहाग्निस्पर्शघृतप्राशनैः शुद्धिः । अनाथब्राह्मणस्य
धर्मबुद्ध्या दहनवहनयोः स्नानघृतप्राशनाभ्यां सद्यः शौचम् ।
लोभेन सजातीयदाहे स्वजात्युक्ताशौचम् । असजातीय-
शवस्य दहनवहनस्पर्शैः शवजात्युक्ताशौचम् । स्नेहाद-
सम्बन्धिदाहकविप्रस्य तद्गृहवासे त्रिरात्रं तत्कुलान्न-
भोजने दशरात्रं तद्गृहवासे तदन्नाभोजने चाहोरात्रं
विशेषवचनाभावे सम्बन्धिनोमातुलादेरस्नेहेनापि अदाहे
त्रिरात्रं चिताधूनसेवने सचेलस्नानं मृते शूद्रेऽस्थिसञ्च-
यनकालाभ्यन्तरे तद्गृहं गत्वाऽश्रुपातने विप्रस्य त्रिरात्रम
शौचं, स्थानान्तरे विशेषवचनाभावेऽहोरात्रं तद्गृहे तदूर्द्ध्वं
मासाभ्यन्तरेऽहोरात्रं सचेलस्नानञ्च । सजातेर्दिवसेनैव
क्षत्त्रियवैश्ययोर्द्व्यहेन ब्राह्मणः शुध्यति शूद्रस्तु स्पर्शं
विनानुगमने सर्वत्र नक्तेन । मृतस्य शूद्रस्य बान्धवैः सह
रोदनरहितविलापमात्रेऽहोरात्रेण । अस्थिसञ्चयन-
कालश्च ब्राह्मणस्य चतुरहः शूद्रस्य दशाहः । त्र्यहा-
शौचे द्वितीयाहः । मरणाशौचे विप्रस्य चतुर्थाहेऽस्पृश्यता-
निवृत्तिः । शूद्रस्य दशमदिने सर्वस्य खण्डाशौचकाले
त्रिभागकालेन अतिक्रान्ताशौचे सचेलस्नानेन जनने तु
सपिण्डानां स्पृश्यतैव । पुत्रोत्पत्तौ स्नानात् पितुः स्पृश्यत्वं
एवं विमातॄणामपि । एवं सूतिकास्पर्शे पितुर्विमातॄणाञ्च
सूतिकातुल्यकालास्पृश्यत्वम् । अन्येषां स्नानमात्रं कन्या
पुत्रजनने मातुर्द्दशरात्रमङ्गास्पृश्यत्वं शूद्रायास्तु
दशरात्रमस्पृश्यत्वम् । अशौचकालादि विषये च प्रायोनिबन्ध-
कर्त्तृणां मतभेदोदृश्यते बाहुल्यभयात् तन्न लिखितम् स्वस्व-
देशप्रचलितनिबन्धानुसारेण तदवमेयम् । अशौचे तु वर्ण्णादि
विशेषादौ दश पक्षा हारलतायां दक्षेणोक्ताः यथा
“सद्यःशौचं तथैकाहस्त्र्यहश्चतुरहस्तथा । षड्दश
द्वादशाहश्च पक्षोमासस्तथैव च । मरणान्तं तथा
चान्यत् दश पक्षास्तु सूतके” । तत्र मरणान्तं जननमर-
णभिन्ननिमित्तम् । यथा “क्रियाहीनस्य मूर्खस्य महारोगिण
एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्” शु० त०
स्मृतिः । “अस्नात्वा चाप्यहुत्वा च अदत्त्वाऽश्नंस्तथा द्विजः ।
एवंविधस्य विप्रस्य सर्व्वदा सूतकं भवेत्” दक्षः “अन्य
पूर्ब्बा यस्य गेहे भार्य्या स्यात्तस्य नित्यशः । अशौचं
सर्व्वकार्य्येषु देहे भवति सर्व्वदेति” नि० सि० स्मृतिः
“मरणान्तपक्षस्तु निन्दार्थवादपरः “नामधारकविप्रस्तु दशाहं
सूतकी भवेदिति” माधवघृतवचने नामधारकविप्रस्यापि
दशाहाशौचविधानात्” नि० सि० । दासाद्यशौचे विशेषः
तत्र दासाः पञ्चदशधा दासशब्दे वक्ष्यमाणास्तेषु गर्भदासस्य
सपिण्डान्तरजननमरणयोः स्वामिकार्य्ये सद्यः शौचं भक्त-
दासस्य त्र्यहः “सद्यःस्पृश्यो गर्भदासो भक्तदासस्त्र्यहा-
च्छुचिः” नि० सि० स्मृत्युक्तेः कर्म्मकरदासानां विशेषः “मूल्यैः
कर्म्मकराः शूद्रा दासोदासास्तथैव च । स्नाने शरीरसंस्कारे
गृहकर्मण्यदूषिताः” शाता० उक्तः । दत्तदासदास्यादीनां
तु, “दासी दासश्च सर्व्वोवै यस्य वर्ण्णस्य यो भवेत् । तद्वर्ण्ण-
स्य भवेच्छौचं दास्या मासन्तु सूतकम्” अङ्गि० “स्वामि-
शौचेन दासाद्याः स्पृश्याः मासात्तुकर्म्मसु । योग्याः स्यु
र्मासतोदासी सूतके स्पृश्यतामियात्” षट्त्रि० । दत्त-
दासादीनां सपिण्डमरणादौ स्वाम्यशौचसमसंख्यकदिना-
दूर्द्ध्वम् सत्यपि मासाद्यशौचे स्वामिकार्य्ये स्पृश्यतेति हरदत्तः
एवमन्तेवासिनामपि । “दासान्तेवासिभृतकाः शिष्या-
श्चैकत्रवासिनः । स्वामितुल्येन शौचेन शुध्यन्ति मृतसूतके”
वृह० उक्तेः । दासादेः स्वामितत्सपिण्डमरणेऽशौचमाह
विष्णुः “पत्नीनां दासानामानुलोम्ये स्वामितुल्यमशौचं मृते
स्वामिन्यात्मीयम्” अत्रानुलोम्येनेत्युक्तेः प्रातिलोम्येऽशौचा-
भाव एव तस्य शास्त्रीयदासत्वाभावात् “वर्ण्णानामानुलोम्येन
दास्यं न प्रतिलोमत” इति याज्ञ० स्मृत्या प्रातिलोम्येन
दासत्वनिषेधात् । “सूतकानां परिच्छेद इत्यादि सू० सि०
प्रागुक्तवचनात् सावनदिनस्यैव ग्राह्यता । मिताक्षराकृता तु
रात्रिं विभागां कृत्वाद्यभागद्वये चेत् पूर्ब्बदिनम्, अन्त्ये
चेत् परदिनमिति आरम्भकाले विशेष उक्तः । प्रागर्द्धरात्रात्
प्राग्वा सूर्य्योदयात् पूर्ब्बदिनमिति मतान्तरम् । एतेषु
देशाचारतो व्यवस्था । अशौच्यन्नभक्षणेऽपि तत्तुल्य-
पृष्ठ ०४८९
मशौचम् । “अथ ब्राह्मणादीनामशौचे यः सकृदेवा-
न्नमश्नाति तस्य तावदशौचम् यावत्तेषाम्” विष्णुः एतत्
ज्ञानतः, अज्ञाने तु “अन्तर्दशाहेभुक्त्वान्नं मृतके सूतकेऽपि
वा तस्याशौचं भवेत्तावद्यावदन्नं व्रजत्यधः” अङ्गिरसोक्तं-
ज्ञेयम् “उभयत्र दशाहानि कुलस्यान्नं न भुज्यत” इति
यमः । उभयत्र जननमरणयोः दशाहानीत्यशौचकालो-
पलक्षणम् । कुलस्य सूतकयुक्तस्य सम्बन्ध्यन्नमसकुल्यैर्न-
भोक्तव्यम् । सकुल्यानां न पुनर्दोषः “सूतके तु
कुलस्यान्नमदोषं मनुरब्रवीत्” इति तेनैवोक्तत्वात्
अयञ्च निषेधोदातृभोक्त्रोरन्यतरेण जननमरणे ज्ञाते
सति द्रष्टव्यः । “उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् ।
एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेदिति षड़्त्रिंश-
न्मतदर्शनात् । तथाविवाहादिषु सूतकोत्पत्तेः प्राक्
ब्राह्मणार्थं पृथक्कृतमन्नं भोक्तव्यमेव । “विवाहोत्सवयज्ञेषु
त्वन्तरा मृतसूतके । पूर्वसङ्कल्पितार्थेषु न दोषः
परिकीर्त्तित” इति वृहस्पतिस्मरणात् तथाऽपरोऽपि विशेषः
षड़्विंशन्मते दर्शितः । “विवाहोत्सवयज्ञेषु त्वन्तरामृत-
सूतके । परैरन्नं प्रदातव्यम्भोक्तव्यञ्च द्विजोत्तमैः । भुञ्जा-
न्नेषु तु विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाचान्ताः
सर्वे ते शुचयः स्मृताः” नि० सि० इति । तथाऽशौचिपरिग्र-
हत्वेऽपि केषु चित्द्रव्येषु दोषाभावः । यथाह मरीचिः ।
“लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठतृणेष्वप्सु
दधिसर्पिःपयःसु च । तिलौषधाजिने चैव पक्वापक्वे
स्वयंग्रहः । पण्येषु चैव सर्वेषु नाशौचं मृतसूतके”
इति । शाक्वम्भक्ष्य जातम् । अपक्वन्तण्डुलादि । स्वयंग्रह
इति खयमेव स्वाम्यनुज्ञातो गृह्णीयात् न तद्धस्तात् ।
एतदप्यामान्नविषयं सत्रप्रवृत्तविषयञ्च । “अन्नसत्रप्रवृ-
त्तानामाममन्नमगर्हितम् । भुक्त्वा पक्वान्नमेतेषांत्रि
रात्रन्तु पयः पिबेदिति” अङ्गिरः स्मरणात् । अत्र पक्वशब्दो-
ऽभक्ष्यव्यतिरिक्तौदनादिविषयः । शवसंसर्गनिमित्ताशौ-
चे त्वङ्गिरसा विशेषौक्तः । “अशौचं यस्य संसर्गादापतेद्गृ-
हमेधिनः । क्रियास्तस्यैव लुप्यन्ते गृह्याणाञ्च न तद्भवे-
दिति” । तदशौचङ्केवलं गृहमेधिन एव न पुनस्तद्गृहम-
वानां भार्यादीनान्तद्द्रव्याणाञ्च भवेदित्यर्थः ।
एवमेवातिक्रान्ताशौचेऽपि । “संसर्गाद्यस्य चाशौचं यस्या-
तिक्रान्तकालता । तदीयस्य पदार्थस्य नाशौचं विद्यते
क्वचित्” षट्त्रि० नि० सि० । कर्म्मविशेषे कर्म्मारम्भे
च तत्तत्कर्ण्णणि अशौचाभावः यथोक्तम् । “कारवः शि-
ल्विनो वैद्या दासीदासास्तथैव च । राजानो राजभृत्याश्च
सद्यःशौचाः प्रकीर्त्तिताः” प्रचेतसा, । लघुविष्णुना च “व्रतय-
ज्ञविवाहेसु श्राद्धे होमार्चने जपे । आरद्धे सूतकं न स्या-
दनारब्धे तु सूतकम् । प्रारम्भोवरणं यज्ञे संकल्पो व्रत
बन्धयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया”
वरणमिति ऋत्विक्परम् तेषाञ्च मधुपर्कग्रहणोत्तर-
मशौचाभावः । “गृहीतमषुमर्कास्तु यजमानात्तु ऋत्विजः ।
पश्चादशौचं पतितं न भवेदिति निश्चयः” ब्रह्मपुरा०
उक्तेः एतन्मूलकमेव त्रिंशच्छ्लोक्यां तत्तत्कार्य्येषु
अशौचाभाववचनम् यथा “तत्तत्कार्य्येषु सत्रिव्रति-
नृपनृपवद्दीक्षितर्त्विक्स्वदेशभ्रंशापत्स्वप्यनेकश्रुतिपठनभिष-
क्कारुशिल्प्यातुराणाम् । संप्रारब्धेषु दानोपनयनयजन-
श्राद्धयुद्धप्रतिष्ठाचूड़ातीर्थाङ्गयात्राजपपरिणयनाद्युत्सवे-
ष्वेतदेव” “तीर्थेति आकस्मिकतीर्थप्राप्तौ तदङ्गं श्राद्ध-
मशौचे कर्त्तव्यम् “विवाहदुर्गयज्ञेषु यात्रायां तीर्थ-
कर्मणि । न तत्र सूतकं तद्वत् कर्म्म यज्ञादि कारयेत्”
पैठो० उक्तेः यात्रा रथयात्रादि । जपः पुरश्चरणादि
संकल्पितस्तोत्रपाठादिश्च । व्रती संकल्पेन गृहीतव्रतादिः
“गृहीतनियमस्यापि न स्यादन्यस्य कस्यचिदिति” ब्राह्मोक्तेः
“वरं प्राणान् परित्यक्ष्ये मुण्डनं शिरसोऽपि वा
नत्वनभ्यर्च्य भीञ्जयं भगवन्तं त्रिलोचनम्” इत्युक्तनियमवतो
देवपूजायामधिकारः । कृतनियमविषया “शिवविष्ण्वर्चनंदीक्षा
यस्य चाग्निपरिग्रहः । श्रौतकर्म्माणि कुर्व्वीत स्नातः शुद्धि-
मवाप्नुयात्” यमोक्तिः “जपो देवार्चनविधिः कार्य्योदीक्षान्वि-
तैर्नरैः नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम्” मुक्ता-
पली च । “अथ सूतकिनः पूजां वक्ष्याम्यागमचोदिताम् ।
स्नात्वा निर्वर्त्त्य नित्यञ्च मानस्या क्रियया हि वै । बाह्य-
पूजाक्रमेणैव ध्यानयोगेन पूजयेत्” शारदा । मानसजपे तु
अकृतनियमस्यापि अशुचेरप्यघिकारः “अशुचिर्वा शुचिर्वापि
गच्छन् तिष्ठंस्तथा स्वपन् । मन्त्रैकस्मरणोविद्वान् मनसैव
समम्यसेत् “रामार्चनचन्द्रिकोक्तेः “मानसमप्युशुचिति”
वचनं तु पठनपाठनाविषयम् । तारादिविषये न अकृतनि-
यमस्याप्यधिकारः “तारायाश्चैव काल्याश्च त्रिपुराया विशेष-
तः । जनने मरणे चैव न त्यजेयुर्जपार्चनम्” इति तन्त्रोक्तेः ।
अन्याशौचे नियमाः नि० सि० याज्ञवल्क्यः “इति संप्लुत्य गच्छे-
भुर्गृहं बालपुरःसराः । विदश्य निम्बपत्राणि नियता द्वारि
वश्मनः । आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः” । “प्रवेशानादिकं
पृष्ठ ०४९०
कर्म प्रेतसंस्पर्शिनामपि” नि० सि० । “क्रीतलब्ध्वाशनाभूमौ
स्वपेयुस्ते पृथक्क्षितौ या० इदञ्चाद्येऽह्नि । यथाशुद्धि-
तत्त्वे वैजवापः “शमीमालभन्ते “शमी मे पापं शमयत्विति”
अश्मानमालभन्ते “अश्मेव स्थिरोभूयासमिति” अग्निम्-
“अग्निर्नःशर्म यच्छत्विति” ज्योगित्यन्तरा गामजमुपस्पृशन्तः
क्रीत्वा लब्ध्वावान्यगेहादेकान्नमलवणमेकरात्रं दिवा-
भोक्तव्यं “त्रिरात्रं च कर्म्मोपरमणम्” क्रीताद्यशनमुपवासा-
शक्तस्य । आश्वलानस्तु “नैतस्यां रात्र्यामन्नं पचेरंस्त्रि-
रात्रमक्षारलवणाशिनः स्युर्द्धादशरात्रं चेत्याह महागुरुषु” ।
अशक्तौ रत्नाकरे आपस्तम्बः “भार्याः परमगुरुसंस्थायां
चाकालभोजनानि कूवींरन्” यदा मृतिः परदिने तावत्कालमि-
त्यर्थः । वृहस्पतिः “अधःशय्यासना दीना मलिना भोगव-
र्जिताः । अक्षारलवणान्नाः स्युःर्लब्धक्रीताशनास्तथा” अक्षा-
रलवणशब्देऽक्षारलवणशब्दार्थ उक्तः । भोगोऽभ्यङ्गताम्बूलादिः
“तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनञ्च यत् । तेन चाप्या-
यते जन्तुर्यच्चाश्नन्ति स्वबान्धवाः मार्क० पुरा० वाक्यन्तु
अन्त्यदिनविषयम् “अशौचान्ते तिलकल्कैः स्नाता गृहं प्रविशे-
युरिति विष्णूक्तेः सपिण्डानामस्थिसञ्चयनादूर्द्धंभोगोऽप्युक्तः
विष्णु० पु० । “शय्यासनोपमोगस्तु सपिण्डानामपीष्यते
अस्थिसञ्चयनादूर्द्धं संयोगस्तु न योषिताम्” तिलान् ददत
पानीयं दीपं ददत जाग्रतः । ज्ञातिभिः सह भोक्तव्य
मेतत् प्रेतेषु दुर्लभम्” भारतम्! भोजनं च दिवैव । दिवा
चैव च भोक्तव्यममांसं मनुजर्षभेत्यक्तेः प्रागुक्तवैजवापोक्तेश्च ।
“क्रीत्वा लब्ध्वा वा दिवान्नमश्नीयुः” पारस्करोक्तेश्च अशौचमध्ये
यत्नेन भोजयेच्च स्वगोत्रजान्” आदि पुरा० ज्ञातिभिः
सह भोजनञ्च तृतीयादिदिनपरम् । प्रथमेऽह्नि तृतीये
च सप्तमे दशमे तथा । ज्ञातिभिः सह भोक्तव्यमिति”
मरीच्युक्तेः । “मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ”
मनुः । लवणक्षीरमांषान्नापूपमांसानि पायसम् । वर्ज्जये-
दाहतान्नेषुबालवृद्धातुरैर्विना” देवजानीयकारि० “मत्स्य
मासानि न भक्षयेयुरा प्रदानात्” गौत० “अघस्रस्तरे त्र्य-
हमनश्नन्त आसीरन्” वसिष्ठः अशौचे पीठादिनिषेधात्
अवकाले उपवेशार्थं कटम्रस्तरः कार्य्यः “पाणिषु मृण्मयेषु
पर्ण्णपुटेषु वा ऽश्नीरन्” हारीतः । “उपवासो गुरौ प्रेते
पत्न्याः पुत्रस्य चैवहि” मरीचिः । अन्त्यदिने विशेषः “यस्य
यस्य तु वर्ण्णस्य यद्यत् स्यात् पश्चिमं त्वहः । स तत्र
गृहशुद्धिं च वस्त्रशुद्धिं करोत्यपि । ग्रामाद्बहिस्ततोगत्वा
प्रेतस्पृष्टे तु वाससी । अन्त्यानामाश्रितानाञ्च त्यक्त्वा स्नानं
करोत्यथ” ब्राह्मम् अत्र तिलकल्कादिस्नानं प्रागुक्तम्
अशोचाहेषु सर्व्वदिनेषु वर्ज्जनीयधर्म्मकृत्यमाह शङ्खः “दानं
ग्रहोहोमः स्वाध्यायः पितृकर्म च । प्रेतपिण्डक्रिया
वर्ज्जमशौचे विनिवर्त्तते” अत्र विशेषोमिताक्षरायाम्
“अशुचित्वेन सकलश्रौतस्मार्त्तकर्म्माधिकारनिवृत्तौ प्रस-
क्तायां केषुचिदभ्यनुज्ञानार्य माह । “वैतानौपासनाः
कार्याः क्रियाश्च श्रुतिचोदनात्” या० । वितानोऽग्नीनां विस्ता-
रः तत्र भवावैताना स्तेनाग्निसाध्याः अग्निहोत्रदर्शपूर्ण
मास्याद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनो
गृह्योऽग्निस्तत्रभवाः औपासनाः सायम्प्रातर्होमक्रिया
उच्यन्ते । ता वैतानोपासना वैदिक्यः क्रियाः कार्याः कथं
वैदिकत्वमिति चेत् श्रुतिचोदनात् । तथाहि । “यावज्जीव
मग्निहोत्रञ्जहुयात्” इत्यादि श्रुतिभिरग्निहोत्रादीनां
चोदना स्पष्टैव । तथा “अहरहः स्वाहां कुर्यादन्नाऽभावे
केनचिदा काष्टादिति” श्रुत्यौपासनहोमोऽपि चोद्यते । अत्र
च श्रौतत्वविशेषणोपादानात् स्मार्त्तक्रियाणां दानादी
नामननुष्ठानङ्गम्यते । अतएव वैयाघ्रपादेनोक्तम् । “स्मार्त्त
कर्म्मपरित्यागो राहोरन्यत्र सूतके । श्रौते कर्म्मणि
तत्कालं स्नातः शुड्विमवाप्नुयादिति” । श्रोतानाञ्च कार्यत्वा-
भिधानान्नित्यनैमित्तिकानां करणम् । ययाह पैठीनसिः ।
“नित्यानि निवर्त्तेरन्वैतानवर्ज्जं शालाग्नौ चैक” इति ।
नित्यानि निवर्त्तेरन् इत्यविशेषेणाबश्यकानां नित्यनैमि-
त्तिकानान्निवृत्तौ प्रसक्तायां वैतानवर्जमित्यग्नित्रयसा-
ध्यावश्यकानाम्पर्युदासः । शालाग्नौ चैक इति गृह्याग्नौ
भवानामप्यावश्यकानां पाक्षिकः पर्य्युदास उक्तः । अतस्ते-
ष्वशौचं नास्त्येव । काम्यानां पुनःशौचाभावादननुष्ठानम् ।
मनुनाप्यनेनैवाभिप्रायेणोक्तम् । “प्रत्यूहेन्नाग्निषु क्रिया”
इति । अग्निषु क्रिया न प्रत्यूहेदित्यनग्निसाध्यार्नाम्पञ्चम-
हायज्ञादीनान्निवृत्तिः । अत एव संवर्त्तः । “होमन्तत्र
प्रकुर्व्वीत शुष्कान्नेन फलेन वा । पञ्चयज्ञविधानन्तु न
कुर्य्यान् मृत्युजन्मनोरिति” । वैश्वदेवस्य अग्निसाध्यत्वेऽपि
वचनान्निवृत्तिः “विप्रोदशाहमासीत वैश्वदेवविवर्ज्जित” इति
तेनैवोक्तत्वात् । “सूतके कर्मणान्त्यागः सन्ध्यादीनां विधी-
यत “इतियद्यपि सन्ध्यायानिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षे
पादिकङ्कार्य्यम् । “सूतके सावित्र्या चाञ्जलिम्प्रक्षिप्य प्रदक्षिणं
कृत्वा सूर्य्यं ध्यायन्नमस्कुर्यादिति” पैठिनसिस्मरणात् । यद्य-
पि वैतानौपासनाःकार्य्या इति सामान्येनोक्तं तथाप्यन्ये-
न कारयितव्यम् । “अन्य एतानि कुर्युरिति” पैठीनसिस्मर-
पृष्ठ ०४९१
णात् । वृहस्पतिनाप्युक्तम् । “सूतके मृतके चैव अशक्तौ श्रा-
द्धभोजने । प्रवासादिनिनित्तेषु हावयेन्न तु हापयेत्” इति ।
तथा स्मार्त्तत्वेऽपि पिण्डपितृयज्ञश्रावणीकर्म्माश्वयुज्यादिकश्च
नित्योहोमःकार्य्य एव । “सूतके तु समुत्पन्ने स्मार्त्तङ्कर्म्म-
कथम्भवेत्! । पिण्डयज्ञं चरुं होममसगोत्रेण कारये-
दिति” जातूकर्ण्यस्मरणात् । यद्यपि साङ्गे कर्मण्यकर्त्तृत्व-
न्तथापि स्वद्रव्यत्यागात्मकम्प्रधानं स्वयङ्कुर्य्यात् तस्या-
नन्यनिष्पाद्यत्वात् । अतएवोक्तम् । “श्रौते कर्मणि तत्कालं
स्नातः शुद्धिमवाप्नुयादिति” । यत्पुनः “दानम्प्रतिग्रहोहोमः
स्वाध्यायश्च निवर्त्तत” इति होमप्रतिषेधः । स काम्याभि-
प्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः” इत्यर्न्तन ।
संध्यादी नामप्यपवादमाहापरार्केपुलस्त्यः “संध्यामिष्टिं चरुं
होमं यावज्जीवं समाचरेत् । न त्यजेत् सूतके वापि त्यजन्
गच्छेदधोद्विजः । सूतके मृतके चैव संध्याकर्म्मसमाचरेत् ।
मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः” १ यत्तुचन्द्रिका-
यां जावालः “सन्ध्यां पञ्च महायज्ञान्नैत्यिकं स्मृतिकर्म्म च ।
तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रियेति” यच्च संवर्तः
“सूतके कर्म्मणां त्यागः सन्ध्यादीनां विधीयतेः” यच्च विष्णु०
पुरा० “सर्वकालमुपासा तु सन्ध्ययोः पार्थिवेष्यते । अन्यत्र
सूतकाशौचविभ्रमातुरभीतितः” इति तत् संपूर्णसन्ध्यापरम्
“अर्घ्यान्ता मानसी सन्ध्या कुशवारिविवर्जितेति” शुद्धिदीपे
च्यवनोक्तेः पैठीनसिस्त्वत्र मन्त्रोच्चारणमप्याह “सूतके सावि-
त्र्याञ्जलिंप्रक्षिप्य सूर्य्यंध्यायन्नमस्कुर्य्यात्” प्रयोगपरिजाते
भरद्वाजोपि “सूतके मृतके कुर्य्यात् प्राणायामममन्त्रकम् ।
तथा मार्जनमन्त्रांस्तु मनसोच्चार्य्यमार्जयेत् । गायत्रीं सम्यगु-
च्चार्य्यसूर्यायार्घ्यं निवेदयेत् । मार्जनं तु न वा कार्य्यमुपस्थानं
न चैवहि” एवं मिताक्षरापरिजातादौ अशौचे सन्ध्या-
करणभेदस्योक्तेः गौड़ानां तदनाचरणमनाचार एव तस्य
श्रौतत्वेन स्मृत्या बाधानुचितत्वादिति द्रष्टव्यम् ।
“ग्रहणादावप्यशौचापवादमाह व्याघ्रः “स्मार्तकर्मपरि-
त्यागो राहोरन्यत्र सूतके इति” लैङ्गे “सूतके मृतके
चैव न दोषो राहुदर्शने । तावदेव भवेच्छुद्ध्विर्यावन्मुक्ति र्न
दृश्यते” प्रयोगपारिजाते “वृहस्पतिः “कन्याविवाहसंक्रान्तौ
सूतकं न कदाचन” । महागुरुनिपातवर्षमध्ये कर्म्मविशेषेऽ-
शौचम् । “स्नानं चैव महादानं स्वाध्यायं चाग्नितर्पणम् ।
प्रथमाव्दे न कुर्व्वीत महागुरुनिपातने” हेमा० स्मृतिः ।
महागुरवश्च माता पिता भर्त्ता च अतिगुरुशब्देउक्ताः । “प्रमी-
तौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् । नापि दैवं न वा पैत्रं या-
वत् पूर्ण्णो न वत्सरः” देवी पु० अग्नितर्पणं लक्षहोमादि, न
त्वाधानं तस्य प्रथमाब्देऽपि विधानात् यथा “पितुः सपिण्डी
करणं वार्षिकं मृतवासरे । आधानाद्युपसंप्राप्तावेतत्
प्रागपि वत्सरात्” हेमा० उश० । अग्नितर्पणमित्यत्र
अन्यतर्पणमिति शुद्धितत्त्वे पाठः । आधानादीत्यादिपदेन
आवश्यक वृद्धिनिमित्तनित्यकर्म्मणोर्ग्रहणम् । श्राद्धकौमुद्यां देवी
पु० “महातीर्थस्य गमनमुपवासव्रतानि च । संसत्सरे न कुव्वींत
महागुरुनिपातने” एतदेकवाक्यतया प्रागुक्तवचने स्नानपदं
काम्यतीर्थादिस्नानपरम् महादानसाहचर्य्यात् स्नाध्यायपद
मपि काम्यवेदपारायणपरम् “तथैव काम्यं यत् कर्म्म
वत्सरात् प्रथमादृते” लघुहा० वचनैकवाक्यत्वात् “महागुरु
निपाते तु काम्यं किञ्चित् न चाचरेत् । आर्त्त्विज्यं
ब्रह्मचर्य्यं च श्राद्धं दैवयुतञ्च यत्” कालि० पु० “सपिण्डी
कारणादूर्द्धं प्रेतः पार्वणभुग्भवेत् । वृद्धीष्टापूर्त्तयोग्यश्च
गृहस्थश्च सदा भवेत्” मत्स्य पु० । वृद्धीत्यनेन वृद्धिनिमित्तक
सपिण्डनाभावे नाधिकारीत्यर्थः गृहस्थश्च सदा भवेदित्यनेन
गृहस्थोचितनित्यपञ्चयज्ञेष्वधिकारः । अतएव पितृमरणा-
शौचोत्तरमेव वैश्वदेवश्राद्धं विहितम् । एवं वृद्धिश्राद्धाभावे
वर्षपर्य्यन्तं तत्तत्कर्म्मण्यशौचमिति स्थिते “प्रेत कर्म्माण्य-
निवर्त्त्य चरेन्नाभ्युदयक्रियाम् । आचतुर्थं ततः पुंसि पञ्चमे
शुभदं भवेदिति” ज्योतिषवाक्यं शुभदमित्युक्त्या शुद्ध्यर्थच-
तुर्थाब्दकर्त्तव्यश्राद्धोत्तरं प्राशस्त्यमात्रपरमेव । एतच्चाशौचं
वर्षमध्ये आवश्यकवृद्ध्यर्थसपिण्डनाभावएव । “अर्वाक् संवत्-
सरात् वृद्धौ पूर्ण्णे संवत्सरेऽपि वा” इत्यादि स्मृत्यनुसारेण
आवश्यकवृद्धिनिमित्तसपिण्डापकर्षे तु काम्यादिकर्मकरण-
योग्यता । अत्र विशेषमाह लौगाक्षिः । “अन्येषां प्रेतकर्म्माणि
महागुरुनिपातने । कुर्य्यात् संवत्सरादर्वाक् श्राद्धमेकं तु
वर्जयेत्” प्रेतकर्म्म दाहाद्येकादशाहान्तं तत्राशौचान्तरस्या
प्रतिबन्धकत्वात् “आद्यं श्राद्धमशुद्धोऽपि कुर्य्यादेकादशेऽह
नीति निर्ण्ण० सि० धृतस्मृतेः । तेन एकं सपिण्डनं वार्षि-
कादि च । एवं देवी० पु० वचनेऽपि बैत्रपदं पार्वणसपिण्डन-
वार्षिकपरम् । अत्रापवादः माधवीये ऋष्य० “पत्न्याः पुत्रस्य
तत्पुत्रभ्रात्रोस्तत्तनयेषु च । स्नुषास्वस्रोश्च पित्रोश्च संघातमरणं
यदि । अर्वागव्दान्मातृपितृपूर्व्वं सपिण्डमाचरेत्” लौगा०
“पत्नीपुत्रस्तथा पौत्रो भ्राता तत्पुत्रकाअपि । पितरौ च
यदेकस्मिन् म्रियेरन् वासरे तदा । आद्यमेकादशे कुर्य्यात्
त्रिपक्षे तु सपिण्डनम्” इदम् एकदिनमरणविषयमेव
“महागुरुनिपाते तु प्रेतकार्य्यं यथाविधि । कुर्य्यात् संवत्
पृष्ठ ०४९२
सरादर्व्वागेकोद्दिष्टं न पार्वणम्” इति धवलनिबन्ध-
वाक्यात् । “माता चैव तथा भ्राता भार्य्या पुत्रस्तथा स्नुषा ।
एषां मृतौ चरेच्छ्राद्धमन्यस्य न पुनः पितुः” इति भृगुवचनं
भिन्नदिनमरणेऽपि पितुर्मृतावन्यस्य सपिण्डनं न कार्य्यमेषा-
मेव कार्य्यमित्येतत्परमिति नि० सि० । “पितर्य्युपरते पुत्रो-
मातुः श्राद्धान्निर्वत्तते । मातर्य्यपि च वृत्तायां पितृश्राद्धा-
दृते समाम्” माध० वृह० वचनन्तु वार्षिकश्राद्धपरम्
मातुः ऋते इत्याकर्षः मातरं पितरं च विना अन्यस्य-
श्राद्धात् वार्षिकश्राद्धात् समां व्याप्य निवर्त्तते इत्यर्थः ।
“अन्यश्राद्धं परान्नञ्च गन्धमाल्यञ्च मैथुनम् । वर्ज्जयेद्गुरु-
पाते तु यावत् पूर्ण्णो न वत्सरः” देवलवचने अन्यपदं
भृगुवचनोक्तमात्रादिभिन्नपरम् । अन्नपदञ्च स्विन्नान्नपरं
“भिप्सोऽस्त्री भक्तमन्धोऽन्नमित्यमरोक्तेः “स्विन्नमन्नमुदाहृतम्”
इत्युक्तेश्च न तु परस्वामिकामान्नमात्रपरमन्नशब्देन रूद्या
परिभाषया च सिद्धान्नस्यैव झटित्युपस्थापकत्वात्
आमान्नस्य लक्ष्यार्थतया विलम्बेनोपस्थितेश्च । एवमे-
वाचारः “विशेषतः शिवापूजां प्रमीतपितृको
नरः । यावत् वत्सरपर्य्यन्तं मनसाऽपि न चिन्तयेत्”
कालिकापु० वाक्यं वार्षिकदुर्गापूजाविषयं नित्यपूजायाः
कर्त्तव्यतायाः दशाहमध्येऽपि प्रागुक्तेः । “द्वयोरेव
महागुर्व्वोरव्दमेकमशौचकम् । नान्येषामधिकाशौचं
स्वजातिविहितात् किलेति” श्राद्धकौ० धृतजातू० वचनं तु पुरु-
षविषयम् । स्त्रीणां भर्त्तुर्महागुरुतायाः सर्व्वसम्मतत्वेन
तन्मरणे अधिकाशौचस्योचितत्वात् अतएव “महागुरुविप-
त्तिषु इत्यादिना सामान्यतो बहुवचनमुपात्तम् । “गयाश्राद्धं
मृतानां तु पूर्ण्णे त्वव्दे प्रशस्यते” हेमा० भवि० पु० । तीर्थ-
श्राद्धं गयाश्राद्धम् श्राद्धमन्यच्च पैतृकम् । अव्दमध्ये
न कुर्वीत महागुरुविपत्तिषु त्रिस्थ० गरु० पु० ।
इदं वृद्ध्यर्थसपिण्डनाभावे । वृद्धौ सपिण्डनापकर्षे तु
वर्षमध्येऽपि दर्शादिकं कार्य्यमेव “पितुः सपिण्डनं कृत्वा
कुर्य्यान्मासानुमासिकम्” छन्दोगप० वचनात् “सपिण्डी-
करणादूर्द्ध्वं नरः पार्व्वणभुग्भवेत्” मात्स्यात् “ततः
प्रभृति वै प्रेतः पितृसामान्यमश्नुते । विन्दते पितृलोकं
च ततः श्राद्धं प्रवर्त्तते” इति हारीतवचनाच्चेति शूल
पाणिः । “उद्वाहश्चोपनयनं प्रथमेऽव्दे महीपते! ।
कृते सपिण्डनेऽप्यूर्द्ध्वमस्थ्नां चोद्धरणं त्यजेत् । तथापि
कर्त्तुमिच्छन्ति त्रीणिं चैतानि वै सुताः । मासिकान्य
वशिष्टानि चापकृष्य चरेत् पुनः” ब्रह्म वै० पु० । अत्रेदं
बोध्यं वृद्धिं विना कुलधर्म्मैकपुत्रत्वादिवशतः वर्षमध्ये
सपिण्डनापकर्षेऽपि पितृत्वप्राप्तिर्वर्षान्तएव “कृते
सपिण्डीकरणे नरः संवत्सरात् परम् । प्रेतदेहं
परित्यज्य भोगदेहं प्रपद्यते” विष्णु ध० उक्तेः “अर्वाक् संवत्-
साद्यस्य सपिण्डीकरणं भवेत् । प्रेतत्वमपि तस्यापि विज्ञेयं
वत्सरं नृप!” इत्यग्निपु० उक्तेश्च । तेन एतद्विषये महागुरूणां
प्रेतत्वसत्त्वेन विवाहोपनयनादौ दैवपैत्रेषु च नाधिकारः
वृद्धिनिमित्ते सपिण्डने संवत्रमप्राप्यापि प्रेतत्वविमु-
क्तिस्तेन सर्व्वत्राधिकारः । “अर्वाक् संवत्सराद्वृद्धौ पूर्ण्णे
संवत्सरेऽपिवा । ये सपिण्डीकृताः प्रेता न तेषां च
पृथक्क्रिया” शाता० वाक्ये पूर्ण्णवत्सरस्येव वृद्ध्यारम्भ
कालस्यापि प्रेतत्वविमोचनहेतुत्वोक्तेः तथात्वम् । यतः
सपिण्डीकता अतो न प्रेताः प्रेतपदप्रतिपाद्या विमुक्त
प्रेतभावा इत्यर्थः । तत्र विशेषः । “अस्थिक्षेपं गयाश्राद्धं श्राद्धं
चापरपाक्षिकम् । प्रथमेऽव्देऽपि कुर्वीत यदि स्याद्भक्तिमान्
सुतः” मदनपारिजातधृतवचनम् । “भक्तिमान् भक्त्याख्य-
श्राद्धकारीति मदनपारिजातादयः । “भक्तिश्राद्धं तु त्रिस्थली-
सेतौ उक्तम् तच्च गयाश्राद्धादिपद्धतौ अस्माभिर्दर्शितं
ततएवावगम्यम् । एवं क्षताशौचमपि कर्म्म विशेषानर्हत्वप्रयो-
जकम् । विवरणं क्षताशौचशब्दे” ग्रहणेऽशौचं ग्रहण-
शब्दे वक्ष्यते । रजस्वलाशौचन्तु अशुद्धिशब्दे उक्तप्रायम् ।
“अपाटवाद्यशौचाद्यैर्यदि विघ्नं प्रजायते । तदशौचे
व्यतीते तु तेषां श्राद्धं विधीयते” तिथि० त० स्मृतिः ।

अशौचसङ्कर अशौचयीः सङ्करः । जननमरणाशौचयो

र्मध्ये पुनर्जननामरणाशौचयोः पातेन जनिते अशौच-
विशेषे । तत्कालभेदो यथा जननाशौचमध्ये जनना-
शौचान्तरपाते पूर्व्वाशौचकालेन शुद्धिः । पूर्णाशौ-
चान्त्यदिने पूर्णाशौचान्तरपाते अन्तिमदिनोत्तरदिनद्वयेन
शुद्धिः । अन्तिमदिवसोत्तरप्रभाते सूर्य्योदयात् पूर्व्वं
तत्पाते सूर्य्योदयावधिदिनत्रयेण शुद्धिः । एवं मरणाशौचेऽपि ।
वर्द्धितदिनद्वयत्नयाभ्यन्तरे अशौचान्तरपाते पूर्ब्बैणैव
शुद्धिः । अशौचत्रितयान्तकृत्यमेकदैव । तद्द्वितीयदिनकृत्यं
तत्परदिने । अत्र दशमदिनतत्प्रभातयोः पितृमातृभर्त्तृ
मरणे तु न दिनद्वयत्रयाच्छुद्धिः किन्तु स्वावध्येव सम्पूर्णा-
शौचमिति । ज्ञातिजननाशौचमध्ये स्वपुत्रजनने पूर्व्वार्द्धे
पूर्ब्बेण, परार्द्धे परेण शुद्धिः । एवं ज्ञातिमरणमध्ये पितृमा-
तृभर्त्रृमरणे पूर्व्वार्द्धे पूर्व्वाशौचकालेन, परार्द्धेपित्राद्यशौच-
कालेन शुद्धिः । स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोर्ज्ञाति-
पृष्ठ ०४९३
जनने, पितृमातृभर्त्तृमरणाशौचान्तिमदिनतत् प्रभातयोर्ज्ञा-
तिमरणेऽपि न दिनद्वयत्रयवृद्धिः । स्वपुत्त्रयोस्तु तथा जनने
मातापित्त्रोस्तुतथा मरणे न द्विनद्वयत्रयवृद्धिः । जनना-
शौचयोस्तु सन्निपाते पूर्ब्बार्द्धे जातोयदाऽशौचाभ्यन्तरे
मृतस्तदा सपिण्डानां सद्यः शौचेन पूर्व्वाशौचस्य नाशः । तन्ना-
शादेव परार्द्धजातमातापितृव्यतिरिक्तानां परजननाशौचस्य
निवृत्तिः । परजातमरणे तु न तथा तस्य पूर्वजननावधि-
स्थायित्वादिति गुरुचरणाः । एवं द्वितीयजातस्य पित्रोस्तु
पूर्ब्बार्द्धजातमरणे पूर्ब्बाशौचकालावधि अङ्गास्पृश्यत्वयुक्त-
मशौचं, परार्द्ध जातमरणे तु स्वावधिजननाशौचमङ्गास्पृ-
श्यत्वयुक्तमिति । औत्सर्गिकसमसंख्यदिवसीयजननमरणा-
शौचयोः सन्निपाते मरणाशौचकालेन शुद्धिः । तदन्यका
लयोस्तु दीर्घकालाशौचकालेन शुद्धिः । ततश्च पुत्त्रवत्याविं-
शतिरात्राशौचान्त्यदिने पत्युर्मरणे बहुकालेन जननाशौ-
चकालेन शुद्धिः तथा सपिण्डद्वयजननजातद्वादशा-
हान्त्यदिने पितृमातृभर्त्तृमरणेऽपि बहुकालीनाशौचकालेन
शुद्धिः । प्रथमदिने सपिण्डमरणद्वये यावदशौचं सर्वगो-
त्रास्पृश्यत्वयुक्तम् एवं प्रथमाहे सकुल्यद्वयरणेऽङ्गास्पृ-
श्यत्वयुक्तं त्रिरात्रम् । तेनैतत् त्रिरात्रं गुरु विदेशम-
रणादौ त्रिरात्रंतु लघु स्नानेनैवाङ्गास्पृश्यत्वनिवृत्तेः ।
ततश्चोभयोः सन्निपाते गुरुणैव शुद्धिः । एवं विदेशस्थमृत-
ज्ञातित्रिरात्राद्विदेशस्थमृतपितृमातृभर्त्तृत्रिरात्रं गुरु ।
संपूर्णाशौचे तु अशक्तानामपि यावदशौचमक्षारलवणा-
शित्वदर्शनात् । अत्रापि तावत्कालं तथासिद्धत्वा-
त्तत्रापि गुरुणैव शुद्धिः । तुल्यत्रिरात्रयोस्तु सन्निपाते
पूर्व्वेणैव शुद्धिः । तथा कन्यापुत्त्रयमजोत्पत्तौ मातु-
र्मासेन शुद्धिः । तयोरशौचमध्ये मातुः कन्यामरणे सद्यः
शुद्धिर्न पुत्त्रमरणात्, अन्येषान्तु प्रथमजातमरणात् शुद्धिः ।
न परजातमरणात् एवमन्यद्भाव्यं सुधीमिः” शुद्धितत्त्वम् ।

अशौचान्त पु० अशौचस्यान्तोयत्र । स्वजात्युक्ताशौचावसाना-

धारे दशमादौ दिने “अशौचान्ताद् द्वितीयेऽह्नि शय्यां दद्या-
द्विलक्षणाम्” । “अशौचान्ताद्द्वितीयेऽह्नि यस्य नोत्सृज्यते
कृषः” इति च स्मृतिः ।

अशौर्य्य न० अभावे न० त० । १ शौर्य्याभावे अपराक्रमे न० ब० । २ तच्छून्ये त्रि० ।

अश्न त्रि० अश्नुते व्याप्नोति अश्नाति वा अश--नन् । १ व्यापन

शीले २ भोजनशीले च “मृगोनाश्नो अति यज्जुगुर्य्यात्”
ऋ० १ । १७३ । २ “अश्नोव्यापकः अशनशीलश्च” भा० “कर्म्मणि
नन् । ३ व्याप्ते “तस्य भ्राता मध्यमो अस्त्यश्नः” ऋ० १ । १६४ ।
१ । “अश्नः व्याप्तः भा० ४ असुरभेदे पु० मुष्णन्नुषसः
सूर्य्येण स्तवानश्नस्य” ऋ० २ । २० । ५ । “अश्नुते स्वतेजशा सर्वं
जगदित्यश्नः कश्चिदसुरः भा० । “अध्वर्य्यवोयः स्वश्नं
जघान” ऋ० २ । १४ । ५ । ५ । करणे नन् । सोमकण्डन-
प्रस्तरे । “नृभिर्धूतः सुतोश्नैरव्यो वारैः” ऋ० ८ । २ । २ ।
अश्नैः अश्मभिः करणभूतैः सुतोऽध्वर्युभिरभिषुतः” भा० ।
अश्नुतेऽम्बरम् । ६ मेघे निरु० ।

अश्नीतपिबता स्त्री अशनीत पिबत इत्युच्यते यस्यां निदेश-

क्रियायाम् मयू० स० । भोजनादिनिदेशक्रियायाम्
“अश्नीतपिबतीयन्ती प्रसृता स्मरकम्म श” भट्टिः ।

अश्मक पु० अश्मेव स्थिरः निश्चलत्वात् इवार्थेकन् । १ ऋषिभेदे

“वेदस्थानेन वात्स्येन तथाश्मकसुमन्तुना” भा० शा० प० ।
२ दक्षिणदेशस्थे देशभेदे । “गन्तव्योमलयः श्रीमान् पर्व्वतो
धातुमण्डित” इत्युपक्रम्य “तथाश्मका पुलिन्दाश्च
कलिङ्गाश्च विशेषतः” रा० कि० का० । वृहत्संहितायान्तु
स देशः पश्चिमोत्तरस्यां दिशि । “दिशि पश्चिमोत्तरस्यां
माण्डव्यतुषारतालहनमद्राः । अश्मककुलू नहडस्त्री-
राज्यसिंहवनखण्डाः” इति कर्म्मविभागे उक्तम्”
अतउभतत्रापि तन्नामको देशः । तस्य जनपदवाचित्वात् तद्देश
वासिषु तद्राजनि च ततः कृताणो बहुष लुक् । ३ तद्देश
वासिनि ४ तद्राजनि च ब० व० । “साल्वावयवप्रत्यग्रथकन
कूलाश्मकादिञ्” पा० सू० साल्वजनपदावयवत्वेनोक्तेः
५ साल्वदेशावयवे च साल्वदेशश्च वृह० सं० कूर्म्मविभागे
नवसु खण्डेषु मध्यखण्डे उक्तः “भारतवर्षे मध्यात् प्रागादि
विभाजिता देशाः भद्रारिमेदमाण्डव्यसाण्वनीपोज्ज्वि-
हानसंख्याताः” इत्युपक्रम्य “गजाह्वयश्चेति मध्यमिदम्”
इति नवखण्डे कूर्म्मभागे मध्यखण्डे तस्य स्थितिरुक्ता
अतः साल्वावयवनामकोऽश्मकः तदीयदक्षिणप्रदेशस्थः
इति गम्यते तेन रामायणवाक्यं तद्विषयकमिति न
विरोधः । अश्मके साल्वावयवे भवः इञ् आश्मकिः । तद्दे-
शभवे त्रि० तद्राजनि च बहुषु लुक् आश्मकाः साल्वा-
वयवावश्मकवासिषु तद्राजसु च ब० व० । स्त्रियां न
लुक् आश्मक्यः । साल्वशब्देऽस्य विवृतिः ।

अश्मकदली स्त्री अश्नुते अश--मनिन् कर्म्म० । काष्ठकदल्याम् ।

अश्मकुट्ट पु० अश्मनि प्रस्तरएव धान्यादिकं कुट्टयति कुट्ट-

अण्--उप० स० । वानप्रस्थभेदे, तस्योदूखलादिशून्यत्वेन
तण्डुलादेर्वितुषीकरणस्य तत्रैव विधानात्तथात्वम् । “अश्म-
कुट्टोभवेद्वापि दन्तोलूखलिकोऽपि वा” मनुः । ण्वुल् ।
अश्मकुट्टकोऽप्यत्र । “दन्तोलूखलिकः कालपक्वाशी
वाश्मकुट्टकः” या० स्मृतिः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अवित्त&oldid=310876" इत्यस्माद् प्रतिप्राप्तम्